पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)
५ परिच्छेदः
प्रसिद्धश्रुतिभिर्वेद्यं विचार्यं च मुमुक्षुणा ।
प्रत्यग्रूपमाहं वन्दे श्रीकृष्णं रुक्मिणीप्रियम् ॥
वर्णकचतुष्टयेनोक्तमर्थचतुष्टयमस्मिञ्छ्लोके सङ्गृहीतमिति सुधीभिर्विभावनीयम् ।
मुमुक्षुणेति ।
अथातःपदद्वयसमर्थितेनाधिकारेणेत्यर्थः । अथ साधनचतुष्टयसम्पत्त्यनन्तरं अतः साधनचतुष्टयसम्पत्तेर्हेतोः सत्त्वादित्येवं अर्थात्साधितेनाधिकारिणा ब्रह्मज्ञानाय विचारः कर्तव्य इति प्रथमसूत्रस्यार्थ उक्त इति भावः ।
प्रमाणादिविचाराणामिति ।
आदिशब्देन लक्षणयुक्तिसाधनफलानि गृह्यन्ते ।
ब्रह्मप्रमाणमिति ।
आदिशब्देन ब्रह्मसाधनं ब्रह्मफलं च गृह्यते ब्रह्मणि प्रमाणं ब्रह्मणि या युक्तिरिति विशिष्टविचारः ब्रह्मविशेषणसापेक्षः विशेषणीभूतब्रह्मणः ज्ञानं विना न सम्भवतीति भावः ।
पूजयन्नेवेति ।
जिज्ञास्यपुरुषार्थब्रह्मस्वरूपस्य सूत्रकृता दर्शितत्वात् भगवानिति पदप्रयोगेन पूजयन्नेवेत्यर्थः ।
नास्त्येवेति ।
लक्षणाभावान्न ब्रह्मस्वरूपं सिद्ध्येदिति येन शास्त्रारम्भः स्यादित्याक्षेप्तुरभिप्रायः ।
अस्येति ।
जन्मादिसूत्रस्येत्यर्थः ।
सूत्रस्य श्रुत्यर्थबोधकत्वात् ’यतो वा इमानी’त्यादिश्रुतिभिः सह एकार्थबोधकत्वरूपा सङ्गतिर्वेदितव्या । तं श्रुत्यर्थं ज्ञापयति –
लक्षणद्योतीति ।
यतो वा इमानीत्यादिलक्षणद्योतिवेदान्तानामित्यर्थः । सूत्रमपि जगत्कारणत्वादिरूपलक्षणबोधकं भवतीति भावः ।
द्वितीयसूत्रप्रथमपादयोः स्पष्टब्रह्मलिङ्गकश्रुत्यर्थबोधकत्वं सङ्गतिः तच्च स्पष्टब्रह्मलिङ्गत्वं ज्ञापयति –
स्पष्टब्रह्मलिङ्गकानामिति ।
यथा प्रथमपादः ’यतो वे’त्यादीनां स्पष्टब्रह्मलिङ्गकश्रुतीनामर्थं बोधयति यथा लक्षणसूत्रमपि तासामेवार्थं बोधयतीति तयोरेकार्थबोधकत्वं सङ्गतिरिति भावः ।
सूत्रस्य शास्त्रार्थप्रतिपादकत्वाच्छास्त्रसङ्गतिः तं शास्त्रार्थं ज्ञापयति –
लक्ष्ये ब्रह्मणीति ।
शास्त्रं शास्त्रार्थत्वेन ब्रह्मबोधकं भवति सूत्रस्य प्रथमाध्यायार्थैकदेशप्रतिपादकत्वात् प्रथमाध्यायेनैकार्थबोधकत्वरूपा सङ्गतिः ।
तमध्यायार्थं स्फुटीकरोति –
समन्वयोक्तेरिति ।
प्रथमाध्यायेन ’यतो वा इमानी’त्यादिश्रुतिगत – यत – इत्यादिपदानां ब्रह्मतात्पर्यकत्वस्वरूप समन्वयो बोध्यते लक्षणसूत्रेणापि तच्छ्रुतिगत – यत – इत्यादिपदानां ब्रह्मतात्पर्यकत्वं बोध्यत इति भावः ।
उक्तसङ्गतिप्रदर्शनार्थमधिकरणमारचयति –
तथाहीति ।
अधिकरणान्ते अस्य विषयवाक्यस्यार्थो वक्ष्यते । विषयः उद्देश्यमित्यर्थः । तथाच वाक्यमुद्दिश्य संशयादिकं प्रतिपाद्यत इति भावः ।
आक्षेप इति ।
आक्षेपाधिकरण इत्यर्थः ।
अपवाद इति ।
अपवादाधिकरण इत्यर्थः ।
प्राप्ताविति ।
प्राप्तिसूत्र इत्यर्थः ।
लक्षणकर्मणीति ।
लक्षणसूत्र इत्यर्थः ।
यच्च कृत्वेति ।
यदधिकरणमुद्दिश्याक्षेपादिकं प्रवर्तते तत्प्रयोजनकत्वादाक्षेपादीनां पृथक्प्रयोजनं न वक्तव्यम् । अथवा कृत्वा प्रवर्तत इत्यस्य कृत्वा प्रवर्तनमर्थः, कृत्वा प्रवर्तनं नाम कृत्वा चिन्ता सा चाभ्युपगमवादः, अत्र तस्मिन्निति शेषः तथा च यच्च कृत्वा प्रवर्तते तस्मिन्नित्यनेन कृत्वाचिन्ताधिकरण इत्युक्तं भवति । अस्मिन्पक्षे अवशिष्टस्य प्रयोजनं न वक्तव्यमित्यंशस्यायमभिप्रायः । यदुद्दिश्याक्षेपादिकं प्राप्तं तत्प्रयोजनप्रयोजनकत्वादाक्षेपादीनां पृथक्प्रयोजनं न वक्तव्यमिति । एतत्सर्वं कल्पतरौ विस्तरेणोदाहृतं विस्तरभयादत्रोपरम्यते ।
सिद्धान्तेन पूर्वपक्ष इति ।
सिद्धान्तयुक्त्या उत्तराधिकरणपूर्वपक्ष इत्यर्थः ।
’यतो वा इमानि भूतानी’त्यादिवाक्येन ब्रह्मणः सकाशात् जन्मादिकं जगतः प्रतीयते, प्रतीयमानं ब्रह्महेतुकजन्मादिधर्मवत्त्वमेव ब्रह्मणो लक्षणं चेदतिव्याप्तिरसम्भश्चेत्यभिप्रेत्य प्रतिज्ञापूर्वकं पूर्वपक्षयति –
तत्र न वक्तीति ।
जगद्धर्मत्वेनेत्यनेनातिव्याप्तिर्ज्ञापिता अयोगादित्यनेनासम्भवः प्रतिपादित इति भावः ।
अतिव्याप्त्यादिदोषग्रस्तत्वान्मास्तु जन्मादिधर्मवत्त्वलक्षणं श्रुतिप्रामाण्यादन्यदेवास्त्विति सिद्धान्ती शङ्कते –
न चेति ।
’तदात्मानं स्वयमकुरुत, तत्सृष्ट्वे’त्यादिना उपादानत्वं कर्तृत्वं च प्रतिपाद्यत इति भावः ।
उक्तलक्षणस्यानुमानेन साधयितुमशक्यत्वान्न सिद्धिरिति पूर्ववादी परिहरति –
कर्तुरुपादानत्व इति ।
ब्रह्मकर्तृत्वविशिष्टोपादानत्ववच्चेतनत्वादिति प्रयोगे यत्र चेतनत्वं तत्र कतृत्त्वविशिष्टोपादानत्वमित्यत्रामुक इति दृष्टान्ताभावेनेत्यर्थः ।
श्रौतस्येति ।
’यतोवा इमानि भूतानी’त्यादिश्रुतिप्रमाणकस्य ब्रह्मणः ’स्वयमकुरुत तत्सृष्ट्वा यतो वा इमानी’त्यादिश्रुत्यैव लक्षणसिद्धिरित्यर्थः ।
श्रुत्यनुग्राहकत्वेनेति ।
श्रुत्यर्थे पुरुषस्य सन्देहनिवर्तकमानत्वेनेत्यर्थः ।
प्रत्येकं लक्षणमिति ।
दृष्टान्तसम्भवादिति भावः ।
ब्रह्मत्वायोगादिति ।
ब्रह्मण उपादानाद्भिन्नत्वे प्रोक्ते सत्यन्यत्वेनोपादानस्य स्थितत्वाद्वस्तुपरिच्छेदेन अद्वितीयत्वरूपब्रह्मत्वायोगान्न प्रत्येकं लक्षणमिति भावः ।
नास्त्येव लक्षणमिति पूर्वपक्षमुपपाद्यास्त्येवेति सिद्धान्तमवतारयति –
पुरुषेति ।
पुरुषस्योहमात्रत्वादेवानुमानस्याप्रतिष्ठितत्वम् , तथा हि अनुमितिकरणमनुमानम् । तच्च ज्ञायमानलिङ्गमिति केचित् । परामर्श इत्यपरे । व्याप्तिज्ञानमित्यन्ये । तस्मादनुमानस्य भ्रान्तपुरुषबुद्धिमूलकत्वेन परस्परदूषणग्रस्तस्य इदमिति निर्देष्टुमशक्यत्वादप्रतिष्ठितत्वमिति भावः ।
कर्तुरुपादानत्वे दृष्टान्तसम्भवेन अनुमानप्रवृत्तेरुक्तलक्षणसिद्धिरित्याह -
अपौरुषेयेति ।
उभयकारणत्वस्येति ।
उपादाननिमित्तोभयकारणत्वस्येत्यर्थः । सुखं प्रत्यदृष्टद्वारा निमित्तत्वं समवायिकारणत्वं चात्मनि दृष्टं तस्मादभिन्ननिमित्तोपादानकं सुखमिति दृष्टान्तोपपत्तेरिति भावः । आदिशब्देन कर्मसंयोगौ गृह्येते, तथाहि - स्वकृतयागादिकं प्रति कर्तृत्वमुपादानत्वं च पुरुषे दृश्यते तस्मादभिन्ननिमित्तोपादनकं कर्मेति निर्विवादोऽयं दृष्टान्तः । घटाकाशसंयोगं प्रति निमित्तत्वं समवायिकारणत्वं चाकाशेऽस्तीत्यभिन्ननिमित्तोपादानकः संयोग इत्ययमपि सर्वसम्मतो दृष्टान्तः । अत्रैवं प्रयोगः – जगदभिन्ननिमित्तोपादानकं कार्यत्वात्सुखादिवत् , अथवा ब्रह्म निमित्तत्वविशिष्टोपादानत्ववच्चेतनत्वादात्मादिवदित्यनवद्यम् ।
ननु जगज्जन्मादिकारणत्वं नाम कर्तृत्वे सत्युपादानत्वमिति अनेन द्वितीयसूत्रेण साधितं चेत्तर्हि अग्रिमेण तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृत्वोपादानत्वोभयरूपमित्यनेन ग्रन्थेन पौनरुक्त्यं स्यादित्याशङ्क्याह –
अत्र यद्यपीत्यादिना ।
उच्यत इतीति ।
अत्रानूद्यत इत्यर्थः । अयमाशयः – अनेन सूत्रेण जन्मादिकारणत्वमेव प्रतिपाद्यते नोभयकारणत्वं किन्तूभयकारणत्वमनूद्यते, अग्रे ’प्रकृतिश्चे’त्यधिकरणे तूभयकारणत्वमेव प्रतिपाद्यते न कारणत्वं किन्तु कारणत्वमनूद्यते तस्मान्न पौनरुक्त्यमिति । तटस्थमिति । यो हि व्यावर्तको धर्मः लक्ष्याविद्यमानस्वरूपबहिर्भूतः स तटस्थलक्षणमित्यर्थः । तथा च यद्रजतमाभात्सा शुक्तिरिति आरोपितेन रजतेन शुक्तिर्लक्ष्यते यथा तथा यज्जगत्कारणं तद्ब्रह्मेति आरोपितेन जगत्कारणत्वेन ब्रह्म लक्ष्यते अरोपितत्वेपि तस्य ब्रह्मण्येवासाधारणत्वादिति भावः । श्रीमदद्वैतानन्दश्रीगुरुचरणास्तु ब्रह्मवद्याभरणाख्यग्रन्थे “यो हि धर्मः असाधारणः सन्नेव कदाचिद्धर्मिणा सम्बध्यते स धर्मस्तु तटस्थलक्षणमित्युच्यते यथा छत्रचामरादिकं राज्ञ इति तटस्थलक्षणं वदन्ति ।
सूत्रं व्याचष्ट इति ।
पदच्छेदः पदार्थोक्तिः पदविग्रह इति व्याख्यानाङ्गं सम्पादयन् सूत्रं व्याचष्ट इत्यर्थः ।
ननु भवतु तद्गुणसंविज्ञानो बहुव्रीहिः तथापि जन्मस्थितिभङ्गास्त्रयो विशेष्या भवन्ति तत्कथं जन्मस्थितिभङ्गं समासार्थ इत्येकनिर्देश इत्याशङ्क्य भाष्यस्थस्येति पदस्यार्थं स्फोरयन्नाह –
अत्रापि जन्मादीति ।
समाहारस्य समुदायस्येत्यर्थः । तथा च यथा चित्रगोसम्बन्धित्वविशिष्टदेवदत्तस्य चित्राः गावः विशेषणानि तथा समासार्थस्य विशेष्यस्य जन्मादिविशिष्टजन्मस्थितिभङ्गसमुदायस्य एकदेशं जन्म विशेषणमित्यर्थः । यद्यपि चित्रगोर्देवदत्तस्येत्यत्रातद्गुणसंविज्ञानो बहुव्रीहिर्जन्मादीत्यत्र तद्गुणसंविज्ञाबहुव्रीहिरिति वैषम्यं तथापि दृष्टान्तस्तु विशेषणांश एव न तद्गुणसंविज्ञानबहुव्रीहाविति भावः ।
तस्य विशेष्यैकदेशस्य गुणत्वं विशेषणत्वं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञानो बहुव्रीहिरित्यभिप्रेत्याह –
तथा चेति ।
सर्वस्य विशेषणत्वे समासासम्भवात्समासैकदेशो विशेषणमिति मत्वाह –
समासार्थैकदेशस्येति ।
समाहारस्य समासार्थप्रविष्ठत्वेन विशेष्यैकदेशस्येत्यर्थः ।
गुणत्वेनेति ।
विशेषणत्वेनेत्यर्थः ।
संविज्ञानमिति ।
ज्ञानमित्यर्थः ।
नन्वत्र तद्गुणसंविज्ञानबहुव्रीहिः किमर्थ इति चेत् , जन्मस्थितिभङ्गस्य समासार्थतालाभार्थमिति ब्रूमः । यद्यतद्गुणसंविज्ञानबहुव्रीहिमाश्रित्य स्थितिलयद्वयमेव समासार्थोस्त्विति शङ्केत तदा ब्रह्मणः स्थितिलयनिरूपितकारणत्वमेव स्यात् । न चेष्टापत्तिरतिव्याप्त्यादिदोषाभावादिति वाच्यम् । स्थितिकारणत्वं लयकारणत्वं वा लक्षणमित्युक्ते अतिव्याप्त्यादिदोषाभावेपि जन्मकारणं ब्रह्मणोन्यदेवेति भिन्नत्वभ्रमे ब्रह्मणः वस्तुपरिच्छेदेन अद्वितीयत्वरूपब्रह्मत्वायोगात् , तस्मात् त्रितयनिरूपितकारणत्वलाभार्थं तद्गुणसंविज्ञानबहुव्रीहिमाश्रित्य जन्मस्थितिभङ्गरूपसमाहार एव समासार्थ इत्यवश्यमङ्गीकरणीयमित्येतमर्थं स्फोरयति –
तत्र यज्जन्मकारणमिति ।
’जन्माद्यस्य यत’इत्येव सूत्रं स्यादित्यभिप्रायेणाह –
यज्जन्मेति ।
अत्र जन्मकारणं कर्तृरूपं विवक्षितं तस्मान्न मायायामतिव्याप्तिरित्यभिप्रेत्य दोषान्तरमाह –
स्थितिलयेति ।
समाहारो द्योत्यत इति ।
सूत्रस्थजन्मादीति नपुंसकैकवचनेन समाहरो द्योतित इति भावः ।
संसारस्यानादित्वादिति ।
संसारस्यानादित्वेन स्थितिनाशानन्तरमप्युत्पत्तेर्दृश्यत्वादिति भावः ।
वस्तुगत्या चेति ।
एकैकसर्गं पुरस्कृत्य चेति शेषः । जनित्वा स्थित्वा विलीयत इत्यनुभवो वस्तुगतिशब्दार्थः ।
इदम इति ।
अस्य जगतः जन्मादीत्यादिना प्रत्यक्षं यज्जगत्तत्कारणत्वमेव ब्रह्मणः प्रतिपाद्यते न त्वाकाशादिकारणत्वमाकाशादेरप्रत्यक्षत्वादिति शङ्कितुरभिप्रायः ।
प्रत्यक्षादिसन्निधापितस्येति ।
प्रत्यक्षानुमानादिप्रमाणैः संवेदितस्येति भाष्यपदस्यार्थः ।
महाभूतानां जन्मादीति ।
ननु जन्मादीनां वियदादिजगतश्च कः सम्बन्धः षष्ठ्या विवक्षित इति चेत् , अत्रोच्यते – स्वरूपादिसम्बन्धः षष्ठ्या विवक्षित इति भावः ।
स्वोक्तमभिन्ननिमित्तोपादानत्वरूपं जन्मादिकारणत्वलक्षणं भाष्यारूढं कर्तुमिच्छन्नवतारयति –
ननु जगत इति ।
सूत्रेण जन्मादिसम्बन्धिजगत्सम्बन्धित्वं जन्मसम्बन्धिजन्मादिसम्बन्धित्वं वा प्रतीयते तच्च न ब्रह्मलक्षणमसम्भवदोषग्रस्तत्वादिति शङ्कार्थः । ईश्वरनिष्ठं जगत्कारणत्वं शुद्धस्य तटस्थलक्षणमिति सिद्धान्तार्थः । यत इति पदं षष्ठ्यन्तमिति शङ्कितुरभिप्रायः । सिद्धान्त्यभिप्रायस्तु पञ्चम्यन्तमिति भेदः ।
आनन्दाध्येवेतीति ।
तैत्तिरीयक इति शेषः । श्रुतिषु ब्रह्मबोधकपदानामिदमानन्दपदमुपलक्षणमिति मन्तव्यम् ।
स्वरूपलक्षणेति ।
ननु सर्वत्र धर्म एव लक्षणं भवति तत्कथं धर्म्येव स्वस्य लक्षणमिति चेत् । अत्रोच्यते – न हि सत्यज्ञानान्दाभिन्नं धर्मिमात्रं मुख्यं लक्षणमिति वदामः, अपि तु तदवगम इतरव्यावृत्तबुद्धावुपयुज्यते इति तस्य लक्षणत्वोपचार इति भावः । केचित्तु स्वरूपमेव लक्षणं स्वरूपलक्षणं यथा ’सत्यं ज्ञानमनन्तं ब्रह्मे’त्यत्र सत्यादिकं स्वरूपलक्षणम् । ननु स्वस्य स्ववृत्तित्वाभावे सति कथं लक्षणत्वमिति चेत् , न, स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवात् , तदुक्तम् – ’आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेपि चैतन्यात् पृथगिव अवभासन्त’ इत्याहुः । ननु स्वरूपतटस्थलक्षणोपन्यासस्य किं प्रयोजनमिति चेत् , अत्र ब्रह्मविद्याभरणे श्रीगुरुचरणास्त्वेवमाहुः – तथाहि यथा चन्द्रं दिदर्शयिषुराप्तो प्रथमं दिगन्तरगतनक्षत्रादिभ्यो दृष्टिं वारयितुं शाखायां चन्द्र इति अधिकरणतया सम्बन्धविशेषेण प्रथमं शाखामुपादत्ते ततश्च दिगन्तरव्यावृत्तचक्षुषः चन्द्रसमीपवर्तितारकादिषु चन्द्रभ्रमो मा भूदिति तत्स्वरूपं प्रकृष्टप्रकाशात्मकत्वं बोधयति एवं हि बोध्यबुद्धिः सुखेन चन्द्रे अवतारिता भवति । एवं ’ब्रह्मविदाप्नोति पर’मित्युपश्रुत्य ब्रह्मशब्दस्यानेकत्र प्रयोगदर्शनान्मुमुक्षोर्ज्ञेयः ब्रह्मशब्दार्थः क इति बुभुत्सोर्जगत्कारणत्वोपन्यासेन येषु जीवादिषु जगत्कारणत्वं न सम्भवति तेषां सृज्यकोटौ निविष्टतया स्रष्टृत्वासम्भवात् तेभ्यो व्यावृत्तबुद्धेरपि सम्भवज्जगत्कारणभावेषु प्रधानादिषु ब्रह्मत्वभ्रममपनेतुं स्वरूपलक्षणमुपन्यस्य तेन हि जडानां प्रधानादीनां ज्ञानादिस्वरूपतूपपद्येत ततश्च आद्यं लक्षणं केभ्यश्चिद्व्यावृत्तिनिश्चयपूर्वकं बुद्धिस्थिरीकरणार्थं द्वितीयं तु सकलभ्रमनिवृत्तिपूर्वकं वस्तुस्वरूपनिश्चयार्थमिति । पदार्थमुक्त्वेति । सूत्रपदानां प्रत्येकं अर्थमुक्त्वेत्यर्थः । जगत्कारणस्य चेतनत्वसर्वेश्वरत्वसर्वज्ञत्वसर्वशक्तित्वसम्भावनार्थानि नामरूपाभ्यामित्यादीनि जगतश्चत्वारि विशेषणानि भवन्ति, तथा च क्रममनुसृत्य चेतनत्वादिसम्भावनार्थानीत्येवमुक्तमुचितं तथापि यत्र सर्वज्ञत्वं तत्र चेतनत्वं यत्र सर्वशक्तित्वं तत्रेश्वरत्वमित्यव्यभिचरितव्याप्त्या सर्वज्ञत्वादिग्रहणेन चेतनत्वादिलाभात् सर्वज्ञात्सर्वशक्तेरित्युत्तरभाष्यानुकूल्याच्च क्रमं विहाय सर्वज्ञत्वादिसम्भावनार्थानीति व्याख्यातमिति भावः ।
कुम्भकार इति ।
घटं चिकीर्षुः कुलाल इत्यर्थः ।
शब्दाभेदेनेति ।
शब्दवाच्याभेदेनेत्यर्थः । आलिख्य विचार्येत्यर्थः ।
व्याकरोतीतिपदस्य स्वप्रयुक्तस्य स्वयमेवार्थं व्युत्पादयति –
बहिः प्रकटयतीति ।
प्रथमं बुद्धावालिख्य पश्चाद्घटशब्दालम्बनयोग्यं घटं कुम्भकारः बहिर्निर्वर्तयति यथा तथा मूलकारणमपि नामरूपात्मना बुद्धावाविर्भूतमेव सर्वं पश्चाद्व्यनक्तीति अनुमीयत इति भावः ।
इत्थम्भाव इति ।
अभेद इत्यर्थः । नामरूपाभिन्नतया व्यक्तीकृतस्येति भाष्यपदस्यार्थः ।
जगत्कारणस्य चेतनत्वसाधनफलमाह –
इति प्रधानेति ।
निरास इति ।
जगत्कारणत्वनिरास इत्यर्थः ।
कर्तृभोक्तृपदद्वयस्य कृत्यमाह –
श्राद्धेति ।
श्राद्धे पितुः भोक्तृत्वं पुत्रस्य कर्तृत्वं वैश्वानरेष्टौ पुत्रस्य भोक्तृत्वं पितुः कर्तृत्वमिति भेदात् कर्तृशब्देन भोक्ता नोच्यते तस्मात्पृथगुक्तिः न व्यर्थेति भावः ।
नन्वेतावता जीवजन्यत्वनिरासः कथमित्यत आह –
यो ब्रह्माणमिति ।
परमेश्वरः प्रथमं हिरण्यगर्भं सृजतीति श्रुत्यर्थः ।
विशेषजीवोत्पत्तौ श्रुतिमुक्त्वा सर्वजीवोत्पत्तौ श्रुतिमाह –
सर्व इति ।
ननु हिरण्यगर्भादीनां जीवानां नित्यत्वेन कथं कार्यत्वं तत्राह –
स्थूलेति ।
जगतः जीवजन्यत्वनिरासात् जगत्कारणस्येश्वरत्वं प्रसाधितमिति भावः । ननु जगन्मध्यवर्तित्वेपि विश्वामित्रादियोगिनां तत्कर्तृकसृष्टिर्दृश्यत इति लक्षणस्यातिव्याप्तिरिति चेन्न । कर्मफलं ज्ञात्वा यस्य जीवस्य यस्मिन् स्थाने योग्यतास्ति तत्स्थाने सृजनसामर्थ्यस्य तेषामभवेन तत्सृष्टेरपि भगवदधीनत्वात्तथा च जगत्कारणत्वलक्षणं हिरण्यगर्भादौ नातिव्याप्तमिति द्रष्टव्यम् ।
क्रियाफलानामिति ।
कर्मफलानामित्यर्थः ।
मेरुपृष्टं देश इति ।
अमरावत्यां पुण्यकर्मफलानुभवस्य प्रसिद्धत्वादिति भावः ।
उत्तरायणेति ।
यद्यप्युत्तरायणमरणादिरूपनिमित्ताभावेपि कर्मफलानुभवोस्ति तथाप्युत्तरायणादिनिमित्तं देहपातादूर्ध्वं झटिति कर्म फलानुभवे प्रतिनियतमिति भावः ।
क्रियाफलं द्विविधं ऐहिकामुष्मिकं चेति । तत्र यथा आमुष्मिकं प्रतिनियतदेशकालनिमित्तं तथा ऐहिकमपीत्याह –
एवमिति ।
सेवाफलस्य ग्रामादेः देशो भूमिः देहपातात् पूर्वं कालः राजहर्षादिनिमित्तं च प्रतिनियतमिति भावः ।
कर्मफलं देशाद्यभिज्ञदातृकं फलत्वाद्राजसेवाफलवदित्यनुमानं ज्ञापयन् फलितमाह –
तथा चेति ।
किं न स्यादिति सूत्रस्य यास्कवाक्यमूलकत्वे यास्कवाक्ये षण्णां प्रतिपादितत्वेन सूत्रनिष्ठादिपदेनापीतरेषां ग्रहीतुं शक्यत्वात् अन्तर्भावो नास्तीति शङ्कितुरभिप्रायः ।
जगत इति पदस्यार्थमाह –
महाभूतानामिति ।
भौतिकेषु भूतकार्यदेहादिष्वित्यर्थः ।
किन्त्विति ।
देहादौ दृश्यमानजन्मादिषट्ककारणत्वं साक्षान्महाभूतानामेवास्ति न ब्रह्मण इति तेषामेव लक्षणमुक्तमिति शङ्का स्यादिति भावः ।
योत्पत्तिर्ब्रह्मणस्तत्रैवेत्यादिभाष्यस्यार्थकथनपूर्वकमन्वयं स्फुटिकरोति –
ये श्रुत्युक्ता इति ।
यस्माद्ब्रह्मणः सकाशाद्या जगदुत्पत्तिः तत्रैव ब्रह्मणि या च स्थितिः यश्च लयस्त एव श्रुत्युक्ता उत्पत्त्यादयो गृह्यन्ते इति भाष्यवाक्यास्यार्थः । सुत्रस्य यास्कवाक्यमूलकत्वासम्भवादितरेषां भावविकाराणामन्तर्भाव एवोचित इति सिद्धान्त्यभिप्रायः ।
ननु यास्कमुनिवाक्यस्याकाशादिमहाभूतनिष्ठं जन्मादिषट्कमेवार्थः न भौतिकनिष्ठजन्मादिषट्कं तत्र महाभूतानामुत्पत्त्यादेः प्रत्यक्षेण गृहीतुमशक्यत्वेन वाक्यरचनानुपपत्तेः श्रुतिरेव वाक्यस्य मूलमिति वक्तव्यं तथा च त्रितयप्रतिपादिकायाः ’यतो वा इमानी’त्यादिश्रुतेस्तात्पर्यानुसारेण जन्मादिषट्कप्रतिपादकं वाक्यं मुनिश्चकारेति वाक्यमूलकत्वं सूत्रस्य स्यात्तस्मान्न ब्रह्मलक्षणसिद्धिरिति शङ्कामुज्जीवयति –
यदि निरुक्तस्यापीति ।
भगवता महर्षिणा श्रीमद्वेदव्यासेन प्रणीतस्य सूत्रस्य श्रुतिमूलकत्वे सम्भवति तस्यार्षेयवाक्यमूलकत्वमकिञ्चित्करमिति तज्जीवनमुच्छिनत्ति –
तर्हि सा श्रुतिरेवेति ।
सूत्राणां श्रुत्यर्थपरत्वाच्च श्रुतिमूलत्वमेव युक्तमिति भावः ।
न यथोक्तेत्यादि भाष्यस्योत्तरभाष्येण पौनरुक्त्यशङ्कां परिहरन् भाष्यमवतारयति –
यदि जगत इति ।
अतस्तन्निरासायेति ।
अतिरिक्तकारणत्वसम्भावनामत्रात् प्राप्तो योऽतिव्याप्त्यादिदोषस्तन्निरासायेत्यर्थः ।
सूत्रेण लक्षणं प्रतिपाद्यते न युक्तिभिरित्यभिप्रेत्योक्तम् –
सूत्रितेति ।
सूत्रेणार्थिकार्थतया प्रतिपादितेत्यर्थः । सूचितेति पाठेप्ययमेवार्थः ।
संसारिणश्चेति ।
चेतनस्यापि परिच्छिन्नज्ञानशक्तिमतो हिरण्यगर्भादेरित्यर्थः ।
भाष्ये
प्रधानादिति ।
परपरिकल्पितात् प्रधानादित्यर्थः ।
अणुभ्य इति ।
अचेतनेभ्योऽणुभ्य इत्यर्थः ।
अभावादिति ।
शून्यादित्यर्थः ।
व्याख्याने तार्किकमतं दूषयति –
परमाणूनामिति ।
नन्वचेतनत्वात्परमाणूनां स्वतःप्रवृत्त्यभावेपि निमित्तकारणत्वेनानुमानादिसिद्धसर्वज्ञेश्वरः तत्प्रेरकः स्यात्तत्राह –
जीवादन्यस्येति ।
प्रत्याहेति ।
तिरस्करोतीत्यर्थः ।
’न च स्वभावत’ इत्यनेन भाष्येणापेक्षितं पदजातमनुषङ्गेण पूरयति –
जगत इति ।
स्वभावपदार्थं विकल्प्य खण्डयति –
किं स्वयमेवेत्यादिना ।
कर्मधारयसमासमाह –
विशिष्टानीति ।
नन्वनुमानस्य पूर्वभाष्येणाप्रतिपाद्यत्वादेतदेवानुमानमित्युत्तरभाष्यं कथमित्याशङ्क्याह –
पूर्वोक्तेति ।
एतदेव व्याप्तिज्ञानमिति ।
एतद्व्याप्तिज्ञानात्मकमनुमानमेवेत्यर्थः ।
एतदनुमानमेवेति ।
व्याप्तिज्ञानात्मकमनुमानमेवेत्यर्थः ।
साधनमिति ।
ईश्वरसिद्धौ सर्वज्ञत्वसिद्धौ च प्रमाणमित्यर्थः ।
एवकारव्यावर्त्यमाह –
न श्रुतिरिति ।
अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवदित्यनुमानेन सकर्तृकत्वे साधिते सति कर्तुरनेकत्वे गौरवादेकत्वे तु लाघवमिति लाघवज्ञानसहकारेण एककर्तृकत्वं सिद्ध्यति, तच्च सर्वज्ञत्वमन्तरा न सम्भवतीति सर्वज्ञत्वं च सिद्ध्यति, तथा च सर्वज्ञेश्वरसिद्धिस्तस्मादनुमानमेव प्रमाणं श्रुतिस्तु न प्रमाणमिति तार्किकाः मन्यन्त इति भावः ।
ईश्वरसद्भावे श्रुतेरप्रामाण्ये तार्किकस्यावैदिकत्वापत्तिरित्यस्वरसादाह –
अथवेति ।
स्वतन्त्रमिति ।
स्वतन्त्रप्रमाणमित्यर्थः । तथा च श्रुतेरनुमानसिद्धार्थानुवादकत्वेन प्रामाण्यमिति भावः ।
एकेनैवानुमानेन सर्वज्ञकर्तृकत्वसाध्यसिद्धौ दृष्टान्ताभावान्न सर्वज्ञेश्वरसिद्धिरित्यस्वरसादाह –
यद्वेति ।
व्याख्यानद्वयेपि व्याप्तिज्ञानार्थकत्वेन एतत्पदं व्याख्याय सम्प्रति लक्षणार्थकत्वेन व्याख्याति –
एतल्लक्षणमिति ।
जन्मादिसूत्रोक्तजगत्कारणत्वलक्षमेव कर्तुः सर्वज्ञत्वसिद्धौ हेतुरिति मन्यन्त इत्यर्थः ।
लक्षणसूचितेन पूर्वोक्तानुमानेन सकर्तृकत्वमात्रं साध्यते सर्वज्ञत्वं तु लक्षणहेतुकानुमानान्तरेणेत्यभिप्रायं स्फुटयति –
तत्रायमिति ।
लक्षणहेतुकानुमानान्तरं रचयति –
सकर्तेति ।
लक्षणादिति ।
सर्वज्ञत्वं विना सर्वजगत्कारणत्वं न सम्भवति तथा च सर्वजगत्कारणत्वलक्षणसामर्थ्यात्सर्वज्ञत्वसिद्धिरिति भावः । ईश्वरः जगतः कारणं येषां ते ईश्वरकारणकाः काणादप्रभृतय इति भाष्यार्थः । तत्तन्मतवैलक्षण्येनानुमानवैलक्षण्यं विस्तरेण तर्कपादे वक्ष्यते अधुना काणादमतानुसारेण मार्गप्रदर्शनमात्रमत्र कृतं विस्तरभयादिति मन्तव्यम् ।
न सम्भवतीति ।
असमर्थत्वादिति भावः । एतस्माद्भिन्नस्येति पाठे जीवाद्भिन्नस्येत्यर्थः ।
यत्कार्यं तत्सकर्तृकमिति सामान्यव्याप्तिज्ञानादङ्कुरादिकार्यस्यापि सकर्तृकत्वसिद्धौ स च कर्ता क इत्युक्ते सति असामर्थ्याज्जीवो न भवति परिशेषादीश्वर इति तत्सिद्धिर्वक्तव्या सैव न सम्भवति जीवादन्यस्य घटादिवदचेतनत्वनियमेन अङ्कुरादिकार्यस्य कर्तैव नास्तीत्यकर्तृकत्वनिश्चये सति सकर्तृकत्वज्ञानासम्भवेन सामान्यव्याप्तिज्ञानासिद्धेस्तथा च कार्यत्वलिङ्गकानुमानं न सकर्तृकत्वसाधकं येनेश्वरसिद्धिः स्यादिति प्रथमानुमानं दूषयित्वा द्वितीयमनुमानं दूषयति –
लक्षणलिङ्गकेति ।
बाधः साध्याभावनिश्चय इत्यर्थः ।
ईस्वरस्य तन्मते सर्वज्ञत्वं नाम सर्वविषयकज्ञानाश्रयत्वं तच्च ज्ञानं जन्यमजन्यं वा ? नाद्य इत्याह –
अशरीरस्येति ।
न द्वितीय इत्याह –
यज्ज्ञानमिति ।
ज्ञानपदमाश्रितज्ञानपरं तथा च लक्षणलिङ्गकानुमानबाधान्न सर्वज्ञत्वसाधनं येन सर्वज्ञत्वं सिद्ध्येदिति भावः ।
श्लोकः –
सर्वज्ञं कारणं खादेः कृष्णाख्यं श्रुतिसम्मतम् ।
वन्देहमीश्वरं गोपीचित्तपद्ममधुव्रतम् ॥
परवादिना अनुमानाद्धीश्वरसिद्धिरित्युक्ते तत्खण्डनार्थं नेश्वरसिद्धिरित्याद्युच्चरितशब्दजन्यदोषनिरासायात्र मङ्गलं कृतमिति मन्तव्यम् ।
सर्वज्ञेश्वरसिद्धौ श्रुतेः प्रामाण्यं स्वातन्त्र्येण दर्शयन्ननुमानस्य तन्निरस्यति –
तस्मादिति ।
श्रुत्यर्थसम्भावनार्थत्वेनेति ।
श्रुत्यर्थे संशयादिनिवर्तकत्वेनेत्यर्थः । सिद्धान्ते सर्वज्ञत्वं नाम सर्वावभासक्षमविज्ञानस्वरूपत्वं तथा च श्रुत्या सर्वज्ञेश्वरसिद्धौ व्याप्तिज्ञानसत्त्वात् आश्रितज्ञानस्य मनोजन्यत्वनियमेन प्राप्तो यो बाधस्तस्यासम्भवाच्चानुमानद्वयं स्वसाध्यसाधकं सत्सर्वज्ञेश्वरं साधयतीति भावः ।
अनुमानान्तर्भावमभिप्रेत्येति ।
अनुमानसिद्धार्थानुवादकत्वेनोपपत्तिमभिप्रेत्येत्यर्थः ।
वैशेषिक इति ।
शब्दपक्षकानुवादी वैशेषिक इत्युच्यते जन्मादिसुत्रेणानुमानस्यैव प्रतिपादितत्वादनुमानमेव स्वतन्त्रं प्रमाणमिति शङ्कितुरभिप्रायः ।
भाष्ये
वेदान्तवाक्यकुसुमग्रथनार्थत्वादिति ।
श्रुतिविचारार्थत्वादित्यर्थः । वेदान्तवाक्यार्थपरिष्कारार्थत्वादिति यावत् ।
एतदेवोपपादयति –
वेदान्तवाक्यानीति ।
जगत इति ।
जगतो यज्जन्मादि तत्कारणं यद्ब्रह्म तत्प्रतिपादकेष्वित्यर्थः ।
व्याख्याने
सा चेति ।
ब्रह्मावगतिरित्यर्थः ।
वाक्यार्थविचारेत्यत्र वाक्यस्य तदर्थस्य च विचार इति पदच्छेदपूर्वकं भाष्यं व्याकरोति –
वाक्यस्य तदर्थस्य चेति ।
वाक्यविचारादेतद्वाक्यमेतस्मिन्नर्थे तात्पर्यकमिति तात्पर्यनिश्चयो जायते वाक्यार्थविचारात्प्रमेये बाधाभावनिश्चय इति भावः ।
विमतमिति ।
जगदित्यर्थः । निमित्तं च उपादानं च निमित्तोपादाने अभिन्ने निमित्तोपादाने यस्य तदिति विग्रहः । भिन्ने निमित्तोपादाने यस्य तद्भिन्ननिमित्तोपादानकं तन्न भवतीत्यभिन्ननिमित्तोपादानकमिति वा विग्रहः । अत्रेदमनुसन्धेयम् । ब्रह्म विवर्तोपादानं माया तु परिणाम्युपादानकमिति पक्षे स्वरूपानुपमर्दनेन अन्यथाभावः विवर्तः स्वरूपोपमर्दनेनान्यथाभावः परिणाम इति तयोर्भेदः विभावनीयः । माया तु कारणमेवेति पक्षान्तरमिति ।
दार्ढ्यायेति ।
श्रुत्या जगत्कारणस्योभयकारणत्वे बोधितेपि वादिभिरन्यथार्थस्य प्रतिपादितत्वात्पुरुषस्य संशयादिरुत्पद्यते तन्निवृत्यमित्यर्थः ।
श्रुत्यैवानुमानमङ्गीकृतमिति भाष्याशयं स्फुटीकर्तुं श्रुत्यंशं सङ्गृह्णाति –
मन्तव्य इतीति ।
श्रुत्यर्थः श्रुत्यादिविचाररूपश्रवणेन गृहीतार्थः ।
मन्तव्यपदार्थमाह –
तर्केणेति ।
अनुमानेनेत्यर्थः । तथा ’श्रोतव्य’ इति श्रुत्या गृहीतार्थः । ’मन्तव्य’ इत्येवं श्रुत्याप्यनुमानमभ्युपेतमिति भावः ।
श्रुत्यन्तरस्याप्यनुमाने सम्मतिरस्तीति भाष्यभावं स्फुटीकर्तुं श्रुत्यर्थकथनार्थमाख्यायिकामारभते –
यथा कश्चिदित्यादिना ।
श्रुतिगतैवंशब्दद्योतितदृष्टान्तमाह –
यथेति ।
पण्डितो मेधावीति पदद्वयस्य क्रमेणार्थमाह –
तदुक्तमार्गेति ।
दार्ष्टान्तिके सादृश्यमुपपादयन् श्रुतेरनुमानापेक्षायां तात्पर्यं स्फुटीकरोति –
एवमेवेहेति ।
इयता ग्रन्थेनातीन्द्रियार्थे श्रुतिरेव स्वतन्त्रप्रमाणमिति प्रतिपाद्य श्रुत्यर्थसम्भावनार्थत्वेन मननरूपस्यानुमानस्य यत्प्रामाण्यमुक्तं तद्दूषणपरत्वेन शङ्कामुद्घाटयति –
ननु ब्रह्मण इति ।
ननु धर्मब्रह्मणोः प्रमाणस्य श्रुत्यादेः कथं जिज्ञासान्तर्नीतविचारे प्रामाण्यमित्याशङ्क्य भाष्यमन्यथा योजयति –
जिज्ञास्ये धर्म इवेति ।
मननादेर्दुरितरूपप्रतिबन्धकनिवर्तकत्वेन ज्ञानद्वारा प्रामाण्यमिति ज्ञापनार्थं यत्र स्वतःसिद्धदुरिताभावः तत्र मननादेर्न हेतुतेति ज्ञापनार्थं च भाष्ये यथासम्भवमिह प्रमाणमित्युक्तमिति द्रष्टव्यम् ।
मुक्त्यर्थमिति ।
ब्रह्मज्ञानस्यापरोक्षरूपसाक्षात्कारत्वेनैवाज्ञाननिवर्त्कत्वात्साक्षात्कारावसानत्वापेक्षा उचितेति भावः ।
द्वितीयहेतोरर्थमाह –
प्रत्यग्भूतेति ।
’कर्मकर्तव्ये हि विषय’ इत्यादि भाष्यं व्याचष्टे –
धर्मे त्विति ।
नित्यपरोक्षे साध्य इति पदद्वयं हेतुगर्भविशेषणम् ।
असम्भवाच्चेति ।
अयोग्यत्वाच्चेत्यर्थः । धर्मस्य साध्यत्वेन अनपेक्षितानुभवत्वान्नित्यपरोक्षत्वेनापरोक्षायोग्यत्वाच्चेति भावः ।
निरपेक्ष इति ।
प्रमाणान्तरानपेक्षत्वे सति स्वार्थबोधकत्वं निरपेक्षत्वम् ।
श्रुत्यादय इति भाष्यस्थादिशब्दार्थं लक्षणपूर्वकं विवृणोति –
शब्दस्येत्यादिना ।
पदं योग्यतरेति ।
योग्यमितरं च यत्पदं तेनाकाङ्क्षा यस्य तदिति विग्रहः । आकाङ्क्षायोग्यतासन्निधिमतां पदानां समूह एव वाक्यमित्यर्थः । कर्मकाण्डे क्रमपठितानामर्थानां मन्त्रकाण्डे क्रमपठितैरित्यर्थः ।
सम्बन्ध इति ।
विनियोग इत्यर्थः ।
स्थानमुक्तलक्षणमुदाहरति –
यथेति ।
आध्वर्यवसंज्ञकानामिति ।
अध्वर्युणा पठितानामिति यावत् ।
आध्वर्यवसंज्ञक इति ।
अध्वर्युणा कर्तव्य इति यावत् ।
श्रुत्यादीनामनुभवादीनां च ब्रह्मणि प्रामाण्यमुक्त्वा परोक्तमनुमानं दूषयति –
एवं तावद्ब्रह्मेति ।
साध्यत्वेनेति ।
धर्मस्य जन्यत्वेनेत्यर्थः ।
साक्षात्कारस्यानपेक्षितत्वादसम्भवाच्चेति स्वोक्तं हेतुद्वयम् , अस्मिन्ननुमाने प्रत्येकमुपाधिरित्याह –
अनुभवायोग्यत्वमिति ।
पक्षातिरिक्ते दृष्टान्ते धर्मे साध्यव्यापकत्वं पक्षे ब्रह्मणि साधनाव्यापकत्वमिति विवेकः ।
साधितं मननाद्यपेक्षत्वं स्मारयति –
उपाधिव्यतिरेकादिति ।
साध्यव्यापकः साधनाव्यापक उपाधिः, तथा च उपाधिद्वयस्याभावादित्यर्थः । ब्रह्मणः उपाधिद्वयरहितत्वान्मननाद्यपेक्षा युक्तेति भावः ।
पूर्वपक्ष्युक्तमनुमानं स्वसाध्यासाधकमिति दूषणमुक्त्वा प्रतिबन्द्या दूषणान्तरपरत्वेन भाष्यमवतारयति –
तत्रेति ।
ब्रह्मानुभवाद्यपेक्षं सिद्धवस्तुत्वात् घटवदिति सिद्धान्त्यभिमतानुमाने हेतुरस्तु साध्यं मास्त्वित्याकारकविपक्षांशमुपपादयति –
यदीति ।
वेदार्थत्वमात्रेण वेदप्रमेयत्वाविशेषेणेत्यर्थः ।
साम्यं त्वयोच्येतेति ।
साम्यमङ्गीकृत्य मननाद्यनपेक्षत्वं त्वयोच्येतेत्यर्थः ।
बाधकांशमुपपादयति –
तर्हीति ।
धर्मसाम्यात् ब्रह्मणि मननाद्यनपेक्षत्वं स्यादित्याकारकविपक्षे कृतिसाध्यत्वादिना किमपराद्धं तदपि स्यादिति बाधकमाहेत्यर्थः ।
भाष्ये
पुरुषाधीनात्मलाभात्वाच्च कर्तव्यस्येति ।
धर्मस्य कृतिसाध्यत्वाच्चेत्यर्थः । ’कर्तव्ये ही’त्यादिभाष्यपरिष्कृतस्य अन्पेक्षितानुभवत्वादपरोक्षायोग्यत्वादिति हेतुद्वयस्य समुच्चयार्थश्चशब्दः । यथाश्वेनेति लौकिकस्य गमनरूपकर्मणः अश्वेन गच्छति पद्भ्यां वेति द्वयेन कर्तुं शक्यत्वं प्रतिपादितम् , अन्यथा वा गच्छतीत्यनेन उन्मत्तादिसादृश्येन वा गच्छतीति अन्यथा कर्तुं शक्यत्वमुपपादितं न वा गच्छतित्यनेनाकर्तुं शक्यत्वमुपपादितं भवतीति भावः ।
दृष्टान्तस्य लौकिककर्मणः कर्तुं शक्यत्वादित्रितयमुपपाद्य वैदिककर्मणः धर्मस्य तत्र त्रितयमुपपादयति –
तथेति ।
ग्रहणाग्रहणयोः इच्छाधीनत्वान्न विरोध इत्यभिप्रेत्याह –
नातिरात्र इति ।
षोडशिनमिति ।
षोडशिनामकं सोमरसपानाख्यग्रहं व्यापाररूपग्रहणेन संस्कुर्यादित्यर्थः ।
व्याख्याने –
अन्यथाकर्तुमिति ।
शाखाभेदेन अर्थद्वयेऽपि विधेः सत्त्वादन्यथाकर्तुं शक्यतामाहेत्यर्थः ।
धर्मस्येति ।
अधर्मस्येदमुपलक्षणम् । धर्माधर्मयोः साध्यत्वमुपपाद्येत्यर्थः ।
तत्रेति ।
धर्माधर्मयोरित्यर्थः । आदिशब्देन निषेधादिकं गृह्यते धर्मे यजेतेति विधिः अधर्मे सुरापाने तु न सुराम्पिबेदिति निषेध इति विवेकः । विधयश्च प्रतिषेधाश्चेति द्वन्द्वसमासः । धर्म इति अधर्मस्येदमुपलक्षणम् ।
उपपादनफलमाह –
ब्रह्मण्यपीति ।
यजेतेति धर्मे विधेयत्ववत् ब्रह्मण्यपि विधेयत्वं स्यात् , अधर्मे न पिबेदिति निषेध्यत्ववत् ब्रह्मणः प्रतिषेध्यत्वं च स्यात् , व्रीहिभिर्यवैर्वा यजेतेतिवत् ब्रह्म वा स्थाणुर्वेति विकल्पः स्यात् , उदिते जुहोत्यनुदिते जुहोतीति शाखाभेदेन व्यवस्थावत् क्वचिद्ब्रह्म भवति न भवतीति व्यवस्था स्यात् , न हिंस्यात्सर्वाभूतानि अग्नीषोमीयं पशुमालभेतेतिवत् सामान्यप्रतिपन्ने ब्रह्मणि विशेषोपवादः स्यादिति भावः ।
क्रमेण विध्यादीन् पञ्चोपपादयति –
यजेतेत्यादिना ।
विकल्पस्त्रिविधः सम्भावितः ऐच्छिकः व्यवस्थित इति तान् क्रमेणोदाहरति –
व्रीहिभिरिति ।
ग्रहणेति ।
अतिरात्रे षोडशिनं गृह्णाति न गृह्णातीति ग्रहणाग्रहणयोरित्यर्थः । उदिते जुहोत्यनुदिते जुहोतीत्युदितानुदितहोमयोरित्यर्थः । उत्सर्गः सामान्यवचनमित्यर्थः ।
एत इति ।
षट्सङ्ख्याकाः कृतिसाध्यत्वादय इत्यर्थः ।
न त्वित्यादिनेति ।
सिद्धे ब्रह्मणि वृत्तिजन्यत्वादेरिष्टापत्तौ दूषणमुपेक्षावशादनुक्त्वा अस्ति नास्तीत्यादिविकल्पमात्रं दूषयतीति भावः ।
’ननु वस्त्वेव’मित्यादिभाष्ये वस्त्वेवं नैवमित्यंशेन प्रकारविकल्पः प्रतिपाद्यते अस्ति नास्तीत्यंशेन स्वरूपविकल्पः तथा च नन्वित्यत्र नञ्वस्त्वेवं नैवमिति विकल्प्यते अस्ति नास्तीति न विकल्प्यत इति उभयत्रान्वयमभिप्रेत्य भाष्यं व्याचष्टे –
इदं वस्त्विति ।
एवमिति ।
एतादृशधर्मवदित्यर्थः ।
नैवमिति ।
एतादृशधर्मवन्नेत्यर्थः ।
प्रकारविकल्पे दृष्टान्तमाह –
घट इति ।
मन्दान्धकारसमये पुरोवर्तिपदार्थः घटत्वप्रकारवान् पटत्वप्रकारवान् वेतिवत् इदं ब्रह्म एवं नैवमिति – प्रकारविकल्पवन्नेति भावः ।
आत्मादौ वादिनां विकल्पा दृश्यन्त इत्याशङ्कायाः परिहारं स्फोरयितुमर्थमाह –
अस्त्वित्यादिकोटिस्मरणमिति ।
इदं दोषादेरुपलक्षणम् । ब्रह्मणि सर्वे मनस्पन्दितमात्राः अस्ति नास्तीत्यादिविकल्पाः पुरुषनिष्ठदोषसंस्कारकोटिजन्यत्वान्न प्रमारूपा इति भावः ।
अक्षरार्थकथनेन ब्रह्मणि विकल्पानामप्रमात्वमुक्त्वा यदि ब्रह्मणो धर्मसाम्यमङ्गीक्रियेत तदा धर्मे विकल्पानां प्रमात्ववत् ब्रह्मण्यपि विकल्पानां प्रमात्वं स्यादित्यनिष्टमापादयति –
अयं भाव इति ।
यथेति ।
शाखाभेदेन विधीनां सत्त्वाद्यथा यथा ज्ञायत इत्यर्थः । शास्त्रमनतिक्रम्य यथाशास्त्रं शास्त्रमनुसृत्येति यावत् ।
पुरुषबुद्ध्यपेक्षा इति ।
षोडशिनं गृह्णात्युदिते जुहोत्यनुदिते जुहोतीत्यादिकोटिद्वयसत्त्वादत्र कोटिस्मरणमात्रं परुषबुद्धिशब्दार्थः तथा च पुरुषबुद्धिमूलका इत्यर्थः । प्रमाणभूता प्रमाभूता इत्यर्थः । विधिप्रतिपादितानां कर्मणां वस्तुत्वेन यथार्थत्वसत्त्वात्तद्विषयका विकल्पाः तद्वति तत्प्रकारकत्वात्प्रमारूपा एवेति भावः ।
तत्साम्य इति ।
धर्मसाम्ये ब्रह्मण्यङ्गीकारे सतीत्यर्थः । यथार्थाः प्रमास्वरूपा इत्यर्थः । इतिपदस्य पूर्वेणायमभिप्राय इत्यनेनान्वयः । ओम् इत्यङ्गीकारे, ब्रह्मण्यपि विकल्पानां प्रमात्वमिष्टमिति वदन्तं तिरस्करोतीत्यर्थः ।
सिद्धवस्तुज्ञानमपीति ।
उपक्रमादिषड्विधलिङ्गावधृताद्वितीयब्रह्मतात्पर्यकश्रुत्यादिभिः प्रमीतं सिद्धं यत् वस्तु ब्रह्म तद्विषयकज्ञानमपीत्यर्थः । साध्यज्ञानवदित्यर्थः । व्रीहिभिर्यवैर्वा यजेति वैकल्पिकद्रव्यजन्ययागज्ञानवदित्यर्थः ।
पौरुषमिति ।
पुरुषबुद्ध्यपेक्षमित्यर्थः । प्रमितत्वेनाबाधितं यद्वस्तु तज्जन्यमित्यर्थः । सर्वासां श्रुतीनामद्वितीयब्रह्मबोधकत्वादत्र कोटिद्वयोपस्थापकं शास्त्रमेव नास्ति येन वस्तुज्ञानं कोटिद्वयस्मरणरूपपुरुषबुद्धिमपेक्ष्य जायेत येन ब्रह्मणि विकल्पानां प्रमात्वं च स्यादिति भावः ।
धर्मस्य वैकल्पिकद्रव्यजन्यत्वेनानेकत्वात्तस्मिन् विकल्पानां प्रमात्वं युक्तं सिद्धस्य ब्रह्मणः एकत्वाद्विकल्पानां न प्रमात्वमित्याह –
तथा चेति ।
ज्ञानं द्विविधं वस्तुतन्त्रं पुरुषतन्त्रं चेति । तत्र वस्तुतन्त्रमेकमेव ज्ञानं प्रमा पुन्तन्त्रमनेकरूपं विकल्पात्मकं ज्ञानं भ्रम एवेति भावः । अत्रेत्यादि न पुरुषतन्त्रमित्यन्तग्रन्थः स्फुटार्थः ।
भूतार्थेति ।
सिद्धार्थेत्यर्थः ।
साध्येर्थ इति ।
कृतिजन्ये धर्म इत्यर्थः । विकल्पाः उदितानुदितहोमज्ञानरूपाः विकल्पाः इत्यर्थः । पुन्तन्त्राः पुरुषबुद्ध्यपेक्षा इत्यर्थः । यथार्था अबाधितविषयकत्वात्प्रमारूपा इत्यर्थः ।
श्रुत्यर्थसम्भावनार्थत्वेन मननस्वरूपानुमानादीनां प्रामाण्यसिद्धिरित्युपसंहरति –
इति वैलक्षण्यादिति ।
धर्मसाम्यानङ्गीकारे पुनरनुमानवादिशङ्कामुत्थापयति –
नन्विति ।
तथा च ब्रह्मणि प्रत्यक्षानुमानादिकमेव स्वतन्त्रप्रमाणं न श्रुतिरिति भावः ।
अनुमानस्य स्वातन्त्र्येण प्रामाण्यखण्डनात् प्रत्यक्षप्रामाण्यखण्डनमपि भवत्येवेति तद्धेतुव्याप्तिज्ञानं विकल्प्य खण्डयतीति भाष्यभावं स्फुटीकुर्वन्नुत्तरभाष्यमवतारयति –
अत्र पर्वपक्षीति ।
किं ब्रह्मत्वविषयकविशेषव्याप्तिज्ञानं ब्रह्मसाधकमाहोस्वित् कारणत्वविषयकसामान्यव्याप्तिज्ञानमिति विकल्पार्थः ।
व्याप्येति ।
व्याप्तीत्यर्थः ।
तत्प्रत्यक्षेणेति ।
ब्रह्मप्रत्यक्षेण विशेषव्याप्तिग्रहायोगादित्यर्थः । खानीन्द्रियाणि पराञ्चि विषयोन्मखानीत्यर्थः ।
ब्रह्मणो रूपादीति ।
प्रत्यक्षहेतुरूपादेरभावात् ब्रह्मणः न प्रत्यक्षप्रमाविषयत्वमिति भावः ।
द्वितीय इति ।
सामान्यव्याप्तिज्ञानं हेतुरिति पक्ष इत्यर्थः ।
भाष्ये –
सम्बन्धाग्रहणादिति ।
व्याप्तिग्रहायोगादित्यर्थः ।
गृह्यमाणमिति ।
ज्ञानविषयीभूतमित्यर्थः । यत्कार्यं तत्कारणजन्यमिति कारणजन्यत्वेनैव ज्ञानविषयीभूतकार्यं किं ब्रह्मणः सम्बद्धमित्यर्थः ।
व्याख्याने उपादानत्वादीति ।
आदिशब्देन निमित्तकारणत्वसर्वज्ञत्वादिकमुच्यत्ते, उपादानत्वादिरूपो यः स सामान्यधर्मः कार्यात्मकत्वादिश्रौतार्थः तद्द्वारा अनुमानं विचार्यमित्यन्वयः । अत एव गुणतयेत्युक्तम् ।
श्रौतार्थं निमित्तीकृत्यैव अनुमानस्य प्रामाण्यं न स्वातन्त्र्येणेत्युक्तमेव विवृणोति –
मृदादिवदिति ।
मृदादिदृष्टान्तेन श्रुत्या प्रतिपादितो य उपादानत्वादिरूपोर्थः तस्मिन्पुरुषसंशयनिवृत्त्यर्थमित्यर्थः ।
अयं भावः ।
उपादानत्वं किं कार्यैक्यं किं वा तत्तादात्म्यं उत कार्याधिष्ठानत्वं किं निमित्तकारणत्वं कर्तृत्वस्वरूपं तद्भिन्नस्वरूपं वा, किं सर्वज्ञत्वं सर्वविषयकज्ञानाश्रयत्वं सर्वावभासक्षमविज्ञानस्वरूपत्वं वेत्येव श्रुत्यर्थे पुरुषस्य सन्देहे सति कार्याधिष्ठानत्वादिनिश्चयार्थमनुमानमुपसर्जनतया विचार्यं तस्मान्न स्वतन्त्रं प्रमाणमनुमानमित्युपसंहरतीति ।
तस्मादितीति ।
विषयवाक्यमिति ।
यद्वाक्यमुद्दिश्य विचारः क्रियते तद्विषयवाक्यमित्यर्थः ।
प्रतीकमादाय इहेत्यस्यार्थमाह –
इह ब्रह्मणीति ।
लिलक्षयिषितमिति पदस्यार्थमाह लक्षणार्थत्वेन विचारयितुमिति ।
लक्षणमुच्यत इति ।
यथा लक्षणमुच्यते तथैवेत्यन्वयः ।
उपलक्षणानुवादेनेति ।
तटस्थलक्षणाभिधानमुखेनेत्यर्थः । श्रुतेः ब्रह्मस्वरूपप्रतिपादन एव मुख्यतात्पर्यं न जगत्कारणत्वप्रतिपादन इति ज्ञापयितुमनुवदेनेत्युक्तम् । एतेन तटस्थलक्षणस्य श्रुतौ पुरोवादाभावादनुवादेनेत्यनुपपन्नमिति निरस्तम् । अनुवादपदस्य ज्ञापनार्थत्वेन व्याख्यातत्वादिति भावः । तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति तद्व्यावर्तकं तदेव यथा गन्धवत्वं पृथिवीलक्षणं महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् प्रकृते जगज्जन्मादिकारणत्वमिति केचिद्वदन्ति ।
भाष्ये
यत्प्रयन्त्यभिसंविशन्तीति ।
प्रयन्ति म्रियमाणानीत्यर्थः । अभिसंविशन्ति आभिमुख्येन संविशन्तीत्यर्थः ।
व्याख्याने
ब्रह्मत्वविधानायोगादिति ।
अद्वितीयत्वरूपब्रह्मत्वविधानायोगादित्यर्थः ।
यज्जगदिति ।
’यतो वा इमानि भूतानी’त्यारभ्य ’तद्विजिज्ञासस्वे’त्यन्तं वाक्यं जगत्कारणं तदेकमिति यच्छब्दादिविशिष्टत्वेन सामान्यव्याप्तिप्रतिपादकमवान्तरवाक्यमित्यर्थः । ’यतो वा इमानि भूतानी’इत्यारभ्य ’तद्ब्रह्मेती’त्यन्तं वाक्यं यदेकं कारणं ब्रह्मशब्दविशिष्टत्वेन विशेषव्याप्तिप्रतिपादकमहावाक्यमित्यर्थः ।
किं तर्हीति ।
’यतो वा इमानि भूतानी’त्यादिना तटस्थलक्षणमुक्तं चेत्तर्हि स्वरूपलक्षणं किमिति शङ्कितुरभिप्रायः ।
वाक्यशेषादिति ।
’आनन्दाद्द्ध्येव खल्विमानि भूतानि जायन्त’ इत्यादिवाक्यशेषादित्यर्थः । यतःशब्दार्थः यतो वा इमानीत्यत्र यतःशब्दार्थः ।
तस्मादेतद्ब्रह्म नामेति तच्छब्दस्य यच्छब्देनान्वयं दर्शयितुं श्रुत्यंशं सङ्गृह्णाति –
यः सर्वज्ञ इति ।
एवंजातीयकत्वमेवेति ।
स्वरूपतटस्थलक्षणद्वयप्रतिपादकत्वमेवेत्यर्थः ।
फलितमाह –
तदेवमिति ।
सत्यानन्दचिदानन्दजगत्कारणमीश्वरम् ।
रुक्मिणीसहितं कृष्णं सर्वज्ञं परमाश्रये ॥