अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

५ परिच्छेदः

प्रसि­द्ध­श्रु­ति­भि­र्वेद्यं विचार्यं च मुमुक्षुणा ।
प्रत्यग्रूपमाहं वन्दे श्रीकृष्णं रुक्मिणीप्रियम् ॥
वर्ण­क­च­तु­ष्ट­ये­नो­क्त­म­र्थ­च­तु­ष्ट­य­म­स्मि­ञ्छ्लोके सङ्गृहीतमिति सुधी­भि­र्वि­भा­व­नी­यम् ।
मुमुक्षुणेति ।
अथा­तः­प­द­द्व­य­स­म­र्थि­ते­ना­धि­का­रे­णे­त्यर्थः । अथ साध­न­च­तु­ष्ट­य­स­म्प­त्त्य­न­न्तरं अतः साध­न­च­तु­ष्ट­य­स­म्प­त्ते­र्हेतोः सत्त्वादित्येवं अर्था­त्सा­धि­ते­ना­धि­का­रिणा ब्रह्मज्ञानाय विचारः कर्तव्य इति प्रथ­म­सू­त्र­स्यार्थ उक्त इति भावः ।

प्रमा­णा­दि­वि­चा­रा­णा­मिति ।
आदिशब्देन लक्ष­ण­यु­क्ति­सा­ध­न­फ­लानि गृह्यन्ते ।

ब्रह्म­प्र­मा­ण­मिति ।
आदिशब्देन ब्रह्मसाधनं ब्रह्मफलं च गृह्यते ब्रह्मणि प्रमाणं ब्रह्मणि या युक्तिरिति विशिष्टविचारः ब्रह्म­वि­शे­ष­ण­सा­पेक्षः विशे­ष­णी­भू­त­ब्र­ह्मणः ज्ञानं विना न सम्भवतीति भावः ।

पूजयन्नेवेति ।
जिज्ञा­स्य­पु­रु­षा­र्थ­ब्र­ह्म­स्व­रू­पस्य सूत्रकृता दर्शितत्वात् भगवानिति पदप्रयोगेन पूज­य­न्ने­वे­त्यर्थः ।

नास्त्येवेति ।
लक्षणाभावान्न ब्रह्मस्वरूपं सिद्ध्येदिति येन शास्त्रारम्भः स्यादि­त्या­क्षे­प्तु­र­भि­प्रायः ।

अस्येति ।
जन्मा­दि­सू­त्र­स्ये­त्यर्थः ।

सूत्रस्य श्रुत्य­र्थ­बो­ध­क­त्वात् ’यतो वा इमा­नी’त्या­दि­श्रु­तिभिः सह एका­र्थ­बो­ध­क­त्व­रूपा सङ्ग­ति­र्वे­दि­तव्या । तं श्रुत्यर्थं ज्ञापयति –
लक्षणद्योतीति ।
यतो वा इमा­नी­त्या­दि­ल­क्ष­ण­द्यो­ति­वे­दा­न्ता­ना­मि­त्यर्थः । सूत्रमपि जग­त्का­र­ण­त्वा­दि­रू­प­ल­क्ष­ण­बो­धकं भवतीति भावः ।

द्विती­य­सू­त्र­प्र­थ­म­पा­दयोः स्पष्ट­ब्र­ह्म­लि­ङ्ग­क­श्रु­त्य­र्थ­बो­ध­कत्वं सङ्गतिः तच्च स्पष्ट­ब्र­ह्म­लि­ङ्गत्वं ज्ञापयति –
स्पष्ट­ब्र­ह्म­लि­ङ्ग­का­ना­मिति ।
यथा प्रथमपादः ’यतो वे’त्यादीनां स्पष्ट­ब्र­ह्म­लि­ङ्ग­क­श्रु­ती­ना­मर्थं बोधयति यथा लक्षणसूत्रमपि तासामेवार्थं बोधयतीति तयो­रे­का­र्थ­बो­ध­कत्वं सङ्गतिरिति भावः ।

सूत्रस्य शास्त्रा­र्थ­प्र­ति­पा­द­क­त्वा­च्छा­स्त्र­स­ङ्गतिः तं शास्त्रार्थं ज्ञापयति –
लक्ष्ये ब्रह्मणीति ।
शास्त्रं शास्त्रा­र्थ­त्वेन ब्रह्मबोधकं भवति सूत्रस्य प्रथ­मा­ध्या­या­र्थै­क­दे­श­प्र­ति­पा­द­क­त्वात् प्रथ­मा­ध्या­ये­नै­का­र्थ­बो­ध­क­त्व­रूपा सङ्गतिः ।

तमध्यायार्थं स्फुटीकरोति –
समन्वयोक्तेरिति ।
प्रथमाध्यायेन ’यतो वा इमा­नी’त्या­दि­श्रु­ति­गत – यत – इत्यादिपदानां ब्रह्म­ता­त्प­र्य­क­त्व­स्व­रूप समन्वयो बोध्यते लक्षणसूत्रेणापि तच्छ्रुतिगत – यत – इत्यादिपदानां ब्रह्म­ता­त्प­र्य­कत्वं बोध्यत इति भावः ।

उक्त­स­ङ्ग­ति­प्र­द­र्श­ना­र्थ­म­धि­क­र­ण­मा­र­च­यति –
तथाहीति ।
अधिकरणान्ते अस्य विष­य­वा­क्य­स्यार्थो वक्ष्यते । विषयः उद्दे­श्य­मि­त्यर्थः । तथाच वाक्यमुद्दिश्य संशयादिकं प्रतिपाद्यत इति भावः ।

आक्षेप इति ।
आक्षेपाधिकरण इत्यर्थः ।

अपवाद इति ।
अपवादाधिकरण इत्यर्थः ।

प्राप्ताविति ।
प्राप्तिसूत्र इत्यर्थः ।

लक्षणकर्मणीति ।
लक्षणसूत्र इत्यर्थः ।

यच्च कृत्वेति ।
यद­धि­क­र­ण­मु­द्दि­श्या­क्षे­पा­दिकं प्रवर्तते तत्प्र­यो­ज­न­क­त्वा­दा­क्षे­पा­दीनां पृथक्प्रयोजनं न वक्तव्यम् । अथवा कृत्वा प्रवर्तत इत्यस्य कृत्वा प्रवर्तनमर्थः, कृत्वा प्रवर्तनं नाम कृत्वा चिन्ता सा चाभ्युपगमवादः, अत्र तस्मिन्निति शेषः तथा च यच्च कृत्वा प्रवर्तते तस्मिन्नित्यनेन कृत्वा­चि­न्ता­धि­क­रण इत्युक्तं भवति । अस्मिन्पक्षे अवशिष्टस्य प्रयोजनं न वक्त­व्य­मि­त्यं­श­स्या­य­म­भि­प्रायः । यदु­द्दि­श्या­क्षे­पा­दिकं प्राप्तं तत्प्र­यो­ज­न­प्र­यो­ज­न­क­त्वा­दा­क्षे­पा­दीनां पृथक्प्रयोजनं न वक्तव्यमिति । एतत्सर्वं कल्पतरौ विस्तरेणोदाहृतं विस्त­र­भ­या­द­त्रो­प­र­म्यते ।

सिद्धान्तेन पूर्वपक्ष इति ।
सिद्धा­न्त­युक्त्या उत्त­रा­धि­क­र­ण­पू­र्व­पक्ष इत्यर्थः ।

’यतो वा इमानि भूता­नी’त्या­दि­वा­क्येन ब्रह्मणः सकाशात् जन्मादिकं जगतः प्रतीयते, प्रतीयमानं ब्रह्म­हे­तु­क­ज­न्मा­दि­ध­र्म­व­त्त्व­मेव ब्रह्मणो लक्षणं चेद­ति­व्या­प्ति­र­स­म्भ­श्चे­त्य­भि­प्रेत्य प्रति­ज्ञा­पू­र्वकं पूर्वपक्षयति –
तत्र न वक्तीति ।
जग­द्ध­र्म­त्वे­ने­त्य­ने­ना­ति­व्या­प्ति­र्ज्ञा­पिता अयो­गा­दि­त्य­ने­ना­स­म्भवः प्रतिपादित इति भावः ।

अति­व्या­प्त्या­दि­दो­ष­ग्र­स्त­त्वा­न्मास्तु जन्मा­दि­ध­र्म­व­त्त्व­ल­क्षणं श्रुति­प्रा­मा­ण्या­द­न्य­दे­वा­स्त्विति सिद्धान्ती शङ्कते –
न चेति ।
’तदात्मानं स्वयमकुरुत, तत्सृ­ष्ट्वे’त्या­दिना उपादानत्वं कर्तृत्वं च प्रतिपाद्यत इति भावः ।

उक्त­ल­क्ष­ण­स्या­नु­मा­नेन साध­यि­तु­म­श­क्य­त्वान्न सिद्धिरिति पूर्ववादी परिहरति –
कर्तुरुपादानत्व इति ।
ब्रह्म­क­र्तृ­त्व­वि­शि­ष्टो­पा­दा­न­त्व­व­च्चे­त­न­त्वा­दिति प्रयोगे यत्र चेतनत्वं तत्र कतृ­त्त्व­वि­शि­ष्टो­पा­दा­न­त्व­मि­त्य­त्रा­मुक इति दृष्टा­न्ता­भा­वे­ने­त्यर्थः ।

श्रौतस्येति ।
’यतोवा इमानि भूता­नी’त्या­दि­श्रु­ति­प्र­मा­ण­कस्य ब्रह्मणः ’स्वयमकुरुत तत्सृष्ट्वा यतो वा इमा­नी’त्या­दि­श्रु­त्यैव लक्ष­ण­सि­द्धि­रि­त्यर्थः ।

श्रुत्य­नु­ग्रा­ह­क­त्वे­नेति ।
श्रुत्यर्थे पुरुषस्य सन्दे­ह­नि­व­र्त­क­मा­न­त्वे­ने­त्यर्थः ।

प्रत्येकं लक्षणमिति ।
दृष्टा­न्त­स­म्भ­वा­दिति भावः ।

ब्रह्म­त्वा­यो­गा­दिति ।
ब्रह्मण उपा­दा­ना­द्भि­न्नत्वे प्रोक्ते सत्य­न्य­त्वे­नो­पा­दा­नस्य स्थित­त्वा­द्व­स्तु­प­रि­च्छे­देन अद्वि­ती­य­त्व­रू­प­ब्र­ह्म­त्वा­यो­गान्न प्रत्येकं लक्षणमिति भावः ।

नास्त्येव लक्षणमिति पूर्व­प­क्ष­मु­प­पा­द्या­स्त्ये­वेति सिद्धा­न्त­म­व­ता­र­यति –
पुरुषेति ।
पुरु­ष­स्यो­ह­मा­त्र­त्वा­दे­वा­नु­मा­न­स्या­प्र­ति­ष्ठि­त­त्वम् , तथा हि अनु­मि­ति­क­र­ण­म­नु­मा­नम् । तच्च ज्ञाय­मा­न­लि­ङ्ग­मिति केचित् । परामर्श इत्यपरे । व्याप्ति­ज्ञा­न­मि­त्यन्ये । तस्मादनुमानस्य भ्रान्त­पु­रु­ष­बु­द्धि­मू­ल­क­त्वेन पर­स्प­र­दू­ष­ण­ग्र­स्तस्य इदमिति निर्दे­ष्टु­म­श­क्य­त्वा­द­प्र­ति­ष्ठि­त­त्व­मिति भावः ।

कर्तु­रु­पा­दा­नत्वे दृष्टा­न्त­स­म्भ­वेन अनु­मा­न­प्र­वृ­त्ते­रु­क्त­ल­क्ष­ण­सि­द्धि­रि­त्याह -
अपौरुषेयेति ।

उभ­य­का­र­ण­त्व­स्येति ।
उपा­दा­न­नि­मि­त्तो­भ­य­का­र­ण­त्व­स्ये­त्यर्थः । सुखं प्रत्य­दृ­ष्ट­द्वारा निमित्तत्वं समवायिकारणत्वं चात्मनि दृष्टं तस्मा­द­भि­न्न­नि­मि­त्तो­पा­दा­नकं सुखमिति दृष्टा­न्तो­प­प­त्ते­रिति भावः । आदिशब्देन कर्मसंयोगौ गृह्येते, तथाहि - स्वकृतयागादिकं प्रति कर्तृ­त्व­मु­पा­दा­नत्वं च पुरुषे दृश्यते तस्मा­द­भि­न्न­नि­मि­त्तो­पा­द­नकं कर्मेति निर्विवादोऽयं दृष्टान्तः । घटाकाशसंयोगं प्रति निमित्तत्वं समवायिकारणत्वं चाका­शेऽ­स्ती­त्य­भि­न्न­नि­मि­त्तो­पा­दा­नकः संयोग इत्ययमपि सर्वसम्मतो दृष्टान्तः । अत्रैवं प्रयोगः – जग­द­भि­न्न­नि­मि­त्तो­पा­दा­नकं कार्य­त्वा­त्सु­खा­दि­वत् , अथवा ब्रह्म निमि­त्त­त्व­वि­शि­ष्टो­पा­दा­न­त्व­व­च्चे­त­न­त्वा­दा­त्मा­दि­व­दि­त्य­न­व­द्यम् ।

ननु जग­ज्ज­न्मा­दि­का­र­णत्वं नाम कर्तृत्वे सत्यु­पा­दा­न­त्व­मिति अनेन द्वितीयसूत्रेण साधितं चेत्तर्हि अग्रिमेण तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृ­त्वो­पा­दा­न­त्वो­भ­य­रू­प­मि­त्य­नेन ग्रन्थेन पौनरुक्त्यं स्यादि­त्या­श­ङ्क्याह –
अत्र यद्यपीत्यादिना ।

उच्यत इतीति ।
अत्रानूद्यत इत्यर्थः । अयमाशयः – अनेन सूत्रेण जन्मा­दि­का­र­ण­त्व­मेव प्रतिपाद्यते नोभयकारणत्वं किन्तू­भ­य­का­र­ण­त्व­म­नू­द्यते, अग्रे ’प्रकृ­ति­श्चे’त्य­धि­क­रणे तूभयकारणत्वमेव प्रतिपाद्यते न कारणत्वं किन्तु कारणत्वमनूद्यते तस्मान्न पौनरुक्त्यमिति । तटस्थमिति । यो हि व्यावर्तको धर्मः लक्ष्या­वि­द्य­मा­न­स्व­रू­प­ब­हि­र्भूतः स तट­स्थ­ल­क्ष­ण­मि­त्यर्थः । तथा च यद्रजतमाभात्सा शुक्तिरिति आरोपितेन रजतेन शुक्ति­र्ल­क्ष्यते यथा तथा यज्जगत्कारणं तद्ब्रह्मेति आरोपितेन जगत्कारणत्वेन ब्रह्म लक्ष्यते अरोपितत्वेपि तस्य ब्रह्म­ण्ये­वा­सा­धा­र­ण­त्वा­दिति भावः । श्रीम­द­द्वै­ता­न­न्द­श्री­गु­रु­च­र­णास्तु ब्रह्म­व­द्या­भ­र­णा­ख्य­ग्रन्थे “यो हि धर्मः असाधारणः सन्नेव कदाचिद्धर्मिणा सम्बध्यते स धर्मस्तु तट­स्थ­ल­क्ष­ण­मि­त्यु­च्यते यथा छत्रचामरादिकं राज्ञ इति तटस्थलक्षणं वदन्ति ।

सूत्रं व्याचष्ट इति ।
पदच्छेदः पदार्थोक्तिः पदविग्रह इति व्याख्यानाङ्गं सम्पादयन् सूत्रं व्याचष्ट इत्यर्थः ।

ननु भवतु तद्गु­ण­सं­वि­ज्ञानो बहुव्रीहिः तथापि जन्म­स्थि­ति­भ­ङ्गा­स्त्रयो विशेष्या भवन्ति तत्कथं जन्मस्थितिभङ्गं समासार्थ इत्येकनिर्देश इत्याशङ्क्य भाष्यस्थस्येति पदस्यार्थं स्फोरयन्नाह –
अत्रापि जन्मादीति ।
समाहारस्य समु­दा­य­स्ये­त्यर्थः । तथा च यथा चित्र­गो­स­म्ब­न्धि­त्व­वि­शि­ष्ट­दे­व­द­त्तस्य चित्राः गावः विशेषणानि तथा समासार्थस्य विशेष्यस्य जन्मा­दि­वि­शि­ष्ट­ज­न्म­स्थि­ति­भ­ङ्ग­स­मु­दा­यस्य एकदेशं जन्म विशेषणमित्यर्थः । यद्यपि चित्र­गो­र्दे­व­द­त्त­स्ये­त्य­त्रा­त­द्गु­ण­सं­वि­ज्ञानो बहु­व्री­हि­र्ज­न्मा­दी­त्यत्र तद्गु­ण­सं­वि­ज्ञा­ब­हु­व्री­हि­रिति वैषम्यं तथापि दृष्टान्तस्तु विशेषणांश एव न तद्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हा­विति भावः ।

तस्य विशेष्यैकदेशस्य गुणत्वं विशेषणत्वं यस्मिन् बहुव्रीहौ स तद्गु­ण­सं­वि­ज्ञानो बहु­व्री­हि­रि­त्य­भि­प्रे­त्याह –
तथा चेति ।

सर्वस्य विशेषणत्वे समा­सा­स­म्भ­वा­त्स­मा­सै­क­देशो विशेषणमिति मत्वाह –
समा­सा­र्थै­क­दे­श­स्येति ।
समाहारस्य समा­सा­र्थ­प्र­वि­ष्ठ­त्वेन विशे­ष्यै­क­दे­श­स्ये­त्यर्थः ।

गुणत्वेनेति ।
विशे­ष­ण­त्वे­ने­त्यर्थः ।

संविज्ञानमिति ।
ज्ञानमित्यर्थः ।

नन्वत्र तद्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्रीहिः किमर्थ इति चेत् , जन्म­स्थि­ति­भ­ङ्गस्य समा­सा­र्थ­ता­ला­भा­र्थ­मिति ब्रूमः । यद्य­त­द्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हि­मा­श्रित्य स्थितिलयद्वयमेव समा­सा­र्थो­स्त्विति शङ्केत तदा ब्रह्मणः स्थिति­ल­य­नि­रू­पि­त­का­र­ण­त्व­मेव स्यात् । न चेष्टा­प­त्ति­र­ति­व्या­प्त्या­दि­दो­षा­भा­वा­दिति वाच्यम् । स्थितिकारणत्वं लयकारणत्वं वा लक्षणमित्युक्ते अति­व्या­प्त्या­दि­दो­षा­भा­वेपि जन्मकारणं ब्रह्म­णो­न्य­दे­वेति भिन्नत्वभ्रमे ब्रह्मणः वस्तुपरिच्छेदेन अद्वि­ती­य­त्व­रू­प­ब्र­ह्म­त्वा­यो­गात् , तस्मात् त्रित­य­नि­रू­पि­त­का­र­ण­त्व­ला­भार्थं तद्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हि­मा­श्रित्य जन्म­स्थि­ति­भ­ङ्ग­रू­प­स­मा­हार एव समासार्थ इत्य­व­श्य­म­ङ्गी­क­र­णी­य­मि­त्ये­त­मर्थं स्फोरयति –
तत्र यज्जन्मकारणमिति ।

’जन्माद्यस्य यत’इत्येव सूत्रं स्यादि­त्य­भि­प्रा­ये­णाह –
यज्जन्मेति ।

अत्र जन्मकारणं कर्तृरूपं विवक्षितं तस्मान्न माया­या­म­ति­व्या­प्ति­रि­त्य­भि­प्रेत्य दोषान्तरमाह –
स्थितिलयेति ।

समाहारो द्योत्यत इति ।
सूत्र­स्थ­ज­न्मा­दीति नपुंसकैकवचनेन समाहरो द्योतित इति भावः ।

संसा­र­स्या­ना­दि­त्वा­दिति ।
संसा­र­स्या­ना­दि­त्वेन स्थिति­ना­शा­न­न्त­र­म­प्यु­त्प­त्ते­र्दृ­श्य­त्वा­दिति भावः ।

वस्तुगत्या चेति ।
एकैकसर्गं पुरस्कृत्य चेति शेषः । जनित्वा स्थित्वा विलीयत इत्यनुभवो वस्तु­ग­ति­श­ब्दार्थः ।

इदम इति ।
अस्य जगतः जन्मादीत्यादिना प्रत्यक्षं यज्ज­ग­त्त­त्का­र­ण­त्व­मेव ब्रह्मणः प्रतिपाद्यते न त्वाका­शा­दि­का­र­ण­त्व­मा­का­शा­दे­र­प्र­त्य­क्ष­त्वा­दिति शङ्कि­तु­र­भि­प्रायः ।

प्रत्य­क्षा­दि­स­न्नि­धा­पि­त­स्येति ।
प्रत्य­क्षा­नु­मा­ना­दि­प्र­माणैः संवेदितस्येति भाष्यपदस्यार्थः ।

महाभूतानां जन्मादीति ।
ननु जन्मादीनां वियदादिजगतश्च कः सम्बन्धः षष्ठ्या विवक्षित इति चेत् , अत्रोच्यते – स्वरू­पा­दि­स­म्बन्धः षष्ठ्या विवक्षित इति भावः ।

स्वोक्त­म­भि­न्न­नि­मि­त्तो­पा­दा­न­त्व­रूपं जन्मा­दि­का­र­ण­त्व­ल­क्षणं भाष्यारूढं कर्तु­मि­च्छ­न्न­व­ता­र­यति –
ननु जगत इति ।
सूत्रेण जन्मा­दि­स­म्ब­न्धि­ज­ग­त्स­म्ब­न्धित्वं जन्म­स­म्ब­न्धि­ज­न्मा­दि­स­म्ब­न्धित्वं वा प्रतीयते तच्च न ब्रह्म­ल­क्ष­ण­म­स­म्भ­व­दो­ष­ग्र­स्त­त्वा­दिति शङ्कार्थः । ईश्वरनिष्ठं जगत्कारणत्वं शुद्धस्य तटस्थलक्षणमिति सिद्धान्तार्थः । यत इति पदं षष्ठ्यन्तमिति शङ्कि­तु­र­भि­प्रायः । सिद्धा­न्त्य­भि­प्रा­यस्तु पञ्चम्यन्तमिति भेदः ।

आन­न्दा­ध्ये­वे­तीति ।
तैत्तिरीयक इति शेषः । श्रुतिषु ब्रह्म­बो­ध­क­प­दा­ना­मि­द­मा­न­न्द­प­द­मु­प­ल­क्ष­ण­मिति मन्तव्यम् ।

स्वरूपलक्षणेति ।
ननु सर्वत्र धर्म एव लक्षणं भवति तत्कथं धर्म्येव स्वस्य लक्षणमिति चेत् । अत्रोच्यते – न हि सत्य­ज्ञा­ना­न्दा­भिन्नं धर्मिमात्रं मुख्यं लक्षणमिति वदामः, अपि तु तदवगम इत­र­व्या­वृ­त्त­बु­द्धा­वु­प­यु­ज्यते इति तस्य लक्षणत्वोपचार इति भावः । केचित्तु स्वरूपमेव लक्षणं स्वरूपलक्षणं यथा ’सत्यं ज्ञानमनन्तं ब्रह्मे’त्यत्र सत्यादिकं स्वरूपलक्षणम् । ननु स्वस्य स्ववृ­त्ति­त्वा­भावे सति कथं लक्षणत्वमिति चेत् , न, स्वस्यैव स्वापेक्षया धर्म­ध­र्मि­भा­व­क­ल्प­नया लक्ष­ण­त्व­स­म्भ­वात् , तदुक्तम् – ’आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेपि चैतन्यात् पृथगिव अवभासन्त’ इत्याहुः । ननु स्वरू­प­त­ट­स्थ­ल­क्ष­णो­प­न्या­सस्य किं प्रयोजनमिति चेत् , अत्र ब्रह्म­वि­द्या­भ­रणे श्रीगु­रु­च­र­णा­स्त्वे­व­माहुः – तथाहि यथा चन्द्रं दिद­र्श­यि­षु­राप्तो प्रथमं दिग­न्त­र­ग­त­न­क्ष­त्रा­दिभ्यो दृष्टिं वारयितुं शाखायां चन्द्र इति अधिकरणतया सम्बन्धविशेषेण प्रथमं शाखामुपादत्ते ततश्च दिग­न्त­र­व्या­वृ­त्त­च­क्षुषः चन्द्र­स­मी­प­व­र्ति­ता­र­का­दिषु चन्द्रभ्रमो मा भूदिति तत्स्वरूपं प्रकृ­ष्ट­प्र­का­शा­त्म­कत्वं बोधयति एवं हि बोध्यबुद्धिः सुखेन चन्द्रे अवतारिता भवति । एवं ’ब्रह्म­वि­दा­प्नोति पर’मि­त्यु­प­श्रुत्य ब्रह्म­श­ब्द­स्या­ने­कत्र प्रयो­ग­द­र्श­ना­न्मु­मु­क्षो­र्ज्ञेयः ब्रह्मशब्दार्थः क इति बुभु­त्सो­र्ज­ग­त्का­र­ण­त्वो­प­न्या­सेन येषु जीवादिषु जगत्कारणत्वं न सम्भवति तेषां सृज्यकोटौ निविष्टतया स्रष्टृ­त्वा­स­म्भ­वात् तेभ्यो व्यावृ­त्त­बु­द्धे­रपि सम्भ­व­ज्ज­ग­त्का­र­ण­भा­वेषु प्रधानादिषु ब्रह्म­त्व­भ्र­म­म­प­नेतुं स्वरू­प­ल­क्ष­ण­मु­प­न्यस्य तेन हि जडानां प्रधानादीनां ज्ञाना­दि­स्व­रू­प­तू­प­प­द्येत ततश्च आद्यं लक्षणं केभ्य­श्चि­द्व्या­वृ­त्ति­नि­श्च­य­पू­र्वकं बुद्धि­स्थि­री­क­र­णार्थं द्वितीयं तु सक­ल­भ्र­म­नि­वृ­त्ति­पू­र्वकं वस्तु­स्व­रू­प­नि­श्च­या­र्थ­मिति । पदा­र्थ­मु­क्त्वेति । सूत्रपदानां प्रत्येकं अर्थ­मु­क्त्वे­त्यर्थः । जगत्कारणस्य चेत­न­त्व­स­र्वे­श्व­र­त्व­स­र्व­ज्ञ­त्व­स­र्व­श­क्ति­त्व­स­म्भा­व­ना­र्थानि नाम­रू­पा­भ्या­मि­त्या­दीनि जगतश्चत्वारि विशेषणानि भवन्ति, तथा च क्रममनुसृत्य चेत­न­त्वा­दि­स­म्भा­व­ना­र्था­नी­त्ये­व­मु­क्त­मु­चितं तथापि यत्र सर्वज्ञत्वं तत्र चेतनत्वं यत्र सर्वशक्तित्वं तत्रे­श्व­र­त्व­मि­त्य­व्य­भि­च­रि­त­व्याप्त्या सर्व­ज्ञ­त्वा­दि­ग्र­ह­णेन चेत­न­त्वा­दि­ला­भात् सर्व­ज्ञा­त्स­र्व­श­क्ते­रि­त्यु­त्त­र­भा­ष्या­नु­कू­ल्याच्च क्रमं विहाय सर्व­ज्ञ­त्वा­दि­स­म्भा­व­ना­र्था­नीति व्याख्यातमिति भावः ।

कुम्भकार इति ।
घटं चिकीर्षुः कुलाल इत्यर्थः ।

शब्दाभेदेनेति ।
शब्द­वा­च्या­भे­दे­ने­त्यर्थः । आलिख्य विचार्येत्यर्थः ।

व्याक­रो­ती­ति­प­दस्य स्वप्रयुक्तस्य स्वयमेवार्थं व्युत्पादयति –
बहिः प्रकटयतीति ।
प्रथमं बुद्धावालिख्य पश्चा­द्घ­ट­श­ब्दा­ल­म्ब­न­योग्यं घटं कुम्भकारः बहि­र्नि­र्व­र्त­यति यथा तथा मूलकारणमपि नामरूपात्मना बुद्धा­वा­वि­र्भू­त­मेव सर्वं पश्चा­द्व्य­न­क्तीति अनुमीयत इति भावः ।

इत्थम्भाव इति ।
अभेद इत्यर्थः । नामरूपाभिन्नतया व्यक्ती­कृ­त­स्येति भाष्यपदस्यार्थः ।

जगत्कारणस्य चेत­न­त्व­सा­ध­न­फ­ल­माह –
इति प्रधानेति ।

निरास इति ।
जग­त्का­र­ण­त्व­नि­रास इत्यर्थः ।

कर्तृ­भो­क्तृ­प­द­द्व­यस्य कृत्यमाह –
श्राद्धेति ।
श्राद्धे पितुः भोक्तृत्वं पुत्रस्य कर्तृत्वं वैश्वानरेष्टौ पुत्रस्य भोक्तृत्वं पितुः कर्तृत्वमिति भेदात् कर्तृशब्देन भोक्ता नोच्यते तस्मा­त्पृ­थ­गुक्तिः न व्यर्थेति भावः ।

नन्वेतावता जीव­ज­न्य­त्व­नि­रासः कथमित्यत आह –
यो ब्रह्माणमिति ।
परमेश्वरः प्रथमं हिरण्यगर्भं सृजतीति श्रुत्यर्थः ।

विशे­ष­जी­वो­त्पत्तौ श्रुतिमुक्त्वा सर्वजीवोत्पत्तौ श्रुतिमाह –
सर्व इति ।

ननु हिर­ण्य­ग­र्भा­दीनां जीवानां नित्यत्वेन कथं कार्यत्वं तत्राह –
स्थूलेति ।
जगतः जीव­ज­न्य­त्व­नि­रा­सात् जग­त्का­र­ण­स्ये­श्व­रत्वं प्रसाधितमिति भावः । ननु जग­न्म­ध्य­व­र्ति­त्वेपि विश्वा­मि­त्रा­दि­यो­गिनां तत्क­र्तृ­क­सृ­ष्टि­र्दृ­श्यत इति लक्ष­ण­स्या­ति­व्या­प्ति­रिति चेन्न । कर्मफलं ज्ञात्वा यस्य जीवस्य यस्मिन् स्थाने योग्यतास्ति तत्स्थाने सृजनसामर्थ्यस्य तेषामभवेन तत्सृष्टेरपि भग­व­द­धी­न­त्वा­त्तथा च जग­त्का­र­ण­त्व­ल­क्षणं हिरण्यगर्भादौ नातिव्याप्तमिति द्रष्टव्यम् ।

क्रियाफलानामिति ।
कर्म­फ­ला­ना­मि­त्यर्थः ।

मेरुपृष्टं देश इति ।
अमरावत्यां पुण्य­क­र्म­फ­ला­नु­भ­वस्य प्रसि­द्ध­त्वा­दिति भावः ।

उत्तरायणेति ।
यद्य­प्यु­त्त­रा­य­ण­म­र­णा­दि­रू­प­नि­मि­त्ता­भा­वेपि कर्म­फ­ला­नु­भ­वोस्ति तथा­प्यु­त्त­रा­य­णा­दि­नि­मित्तं देहपातादूर्ध्वं झटिति कर्म फलानुभवे प्रतिनियतमिति भावः ।

क्रियाफलं द्विविधं ऐहिकामुष्मिकं चेति । तत्र यथा आमुष्मिकं प्रति­नि­य­त­दे­श­का­ल­नि­मित्तं तथा ऐहिकमपीत्याह –
एवमिति ।
सेवाफलस्य ग्रामादेः देशो भूमिः देहपातात् पूर्वं कालः राज­ह­र्षा­दि­नि­मित्तं च प्रतिनियतमिति भावः ।

कर्मफलं देशा­द्य­भि­ज्ञ­दा­तृकं फल­त्वा­द्रा­ज­से­वा­फ­ल­व­दि­त्य­नु­मानं ज्ञापयन् फलितमाह –
तथा चेति ।
किं न स्यादिति सूत्रस्य यास्क­वा­क्य­मू­ल­कत्वे यास्कवाक्ये षण्णां प्रतिपादितत्वेन सूत्र­नि­ष्ठा­दि­प­दे­ना­पी­त­रेषां ग्रहीतुं शक्यत्वात् अन्तर्भावो नास्तीति शङ्कि­तु­र­भि­प्रायः ।

जगत इति पदस्यार्थमाह –
महाभूतानामिति ।
भौतिकेषु भूत­का­र्य­दे­हा­दि­ष्वि­त्यर्थः ।

किन्त्विति ।
देहादौ दृश्य­मा­न­ज­न्मा­दि­ष­ट्क­का­र­णत्वं साक्षा­न्म­हा­भू­ता­ना­मे­वास्ति न ब्रह्मण इति तेषामेव लक्षणमुक्तमिति शङ्का स्यादिति भावः ।

योत्प­त्ति­र्ब्र­ह्म­ण­स्त­त्रै­वे­त्या­दि­भा­ष्य­स्या­र्थ­क­थ­न­पू­र्व­क­म­न्वयं स्फुटिकरोति –
ये श्रुत्युक्ता इति ।
यस्माद्ब्रह्मणः सकाशाद्या जगदुत्पत्तिः तत्रैव ब्रह्मणि या च स्थितिः यश्च लयस्त एव श्रुत्युक्ता उत्पत्त्यादयो गृह्यन्ते इति भाष्य­वा­क्या­स्यार्थः । सुत्रस्य यास्क­वा­क्य­मू­ल­क­त्वा­स­म्भ­वा­दि­त­रेषां भाव­वि­का­रा­णा­म­न्त­र्भाव एवोचित इति सिद्धा­न्त्य­भि­प्रायः ।

ननु यास्क­मु­नि­वा­क्य­स्या­का­शा­दि­म­हा­भू­त­निष्ठं जन्मा­दि­ष­ट्क­मे­वार्थः न भौति­क­नि­ष्ठ­ज­न्मा­दि­षट्कं तत्र महा­भू­ता­ना­मु­त्प­त्त्यादेः प्रत्यक्षेण गृही­तु­म­श­क्य­त्वेन वाक्य­र­च­ना­नु­प­पत्तेः श्रुतिरेव वाक्यस्य मूलमिति वक्तव्यं तथा च त्रित­य­प्र­ति­पा­दि­कायाः ’यतो वा इमा­नी’त्या­दि­श्रु­ते­स्ता­त्प­र्या­नु­सा­रेण जन्मा­दि­ष­ट्क­प्र­ति­पा­दकं वाक्यं मुनिश्चकारेति वाक्यमूलकत्वं सूत्रस्य स्यात्तस्मान्न ब्रह्म­ल­क्ष­ण­सि­द्धि­रिति शङ्कामुज्जीवयति –
यदि निरुक्तस्यापीति ।

भगवता महर्षिणा श्रीम­द्वे­द­व्या­सेन प्रणीतस्य सूत्रस्य श्रुतिमूलकत्वे सम्भवति तस्या­र्षे­य­वा­क्य­मू­ल­क­त्व­म­कि­ञ्चि­त्क­र­मिति तज्जी­व­न­मु­च्छि­नत्ति –
तर्हि सा श्रुतिरेवेति ।
सूत्राणां श्रुत्य­र्थ­प­र­त्वाच्च श्रुतिमूलत्वमेव युक्तमिति भावः ।

न यथोक्तेत्यादि भाष्य­स्यो­त्त­र­भा­ष्येण पौन­रु­क्त्य­शङ्कां परिहरन् भाष्यमवतारयति –
यदि जगत इति ।

अत­स्त­न्नि­रा­सा­येति ।
अति­रि­क्त­का­र­ण­त्व­स­म्भा­व­ना­म­त्रात् प्राप्तो योऽति­व्या­प्त्या­दि­दो­ष­स्त­न्नि­रा­सा­ये­त्यर्थः ।

सूत्रेण लक्षणं प्रतिपाद्यते न युक्ति­भि­रि­त्य­भि­प्रे­त्यो­क्तम् –
सूत्रितेति ।
सूत्रे­णा­र्थि­का­र्थ­तया प्रति­पा­दि­ते­त्यर्थः । सूचितेति पाठे­प्य­य­मे­वार्थः ।

संसारिणश्चेति ।
चेतनस्यापि परि­च्छि­न्न­ज्ञा­न­श­क्ति­मतो हिर­ण्य­ग­र्भा­दे­रि­त्यर्थः ।

भाष्ये
प्रधानादिति ।
परपरिकल्पितात् प्रधा­ना­दि­त्यर्थः ।

अणुभ्य इति ।
अचे­त­ने­भ्योऽ­णुभ्य इत्यर्थः ।

अभावादिति ।
शून्यादित्यर्थः ।

व्याख्याने तार्किकमतं दूषयति –
परमाणूनामिति ।

नन्व­चे­त­न­त्वा­त्प­र­मा­णूनां स्वतः­प्र­वृ­त्त्य­भा­वेपि निमि­त्त­का­र­ण­त्वे­ना­नु­मा­ना­दि­सि­द्ध­स­र्व­ज्ञे­श्वरः तत्प्रेरकः स्यात्तत्राह –
जीवादन्यस्येति ।

प्रत्याहेति ।
तिर­स्क­रो­ती­त्यर्थः ।

’न च स्वभावत’ इत्यनेन भाष्ये­णा­पे­क्षितं पदजातमनुषङ्गेण पूरयति –
जगत इति ।

स्वभावपदार्थं विकल्प्य खण्डयति –
किं स्वय­मे­वे­त्या­दिना ।

कर्मधारयसमासमाह –
विशिष्टानीति ।

नन्वनुमानस्य पूर्व­भा­ष्ये­णा­प्र­ति­पा­द्य­त्वा­दे­त­दे­वा­नु­मा­न­मि­त्यु­त्त­र­भाष्यं कथ­मि­त्या­श­ङ्क्याह –
पूर्वोक्तेति ।

एतदेव व्याप्ति­ज्ञा­न­मिति ।
एत­द्व्या­प्ति­ज्ञा­ना­त्म­क­म­नु­मा­न­मे­वे­त्यर्थः ।

एतदनुमानमेवेति ।
व्याप्ति­ज्ञा­ना­त्म­क­म­नु­मा­न­मे­वे­त्यर्थः ।

साधनमिति ।
ईश्वरसिद्धौ सर्व­ज्ञ­त्व­सिद्धौ च प्रमाणमित्यर्थः ।

एव­का­र­व्या­व­र्त्य­माह –
न श्रुतिरिति ।
अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवदित्यनुमानेन सकर्तृकत्वे साधिते सति कर्तुरनेकत्वे गौरवादेकत्वे तु लाघवमिति लाघ­व­ज्ञा­न­स­ह­का­रेण एककर्तृकत्वं सिद्ध्यति, तच्च सर्व­ज्ञ­त्व­म­न्तरा न सम्भवतीति सर्वज्ञत्वं च सिद्ध्यति, तथा च सर्व­ज्ञे­श्व­र­सि­द्धि­स्त­स्मा­द­नु­मा­न­मेव प्रमाणं श्रुतिस्तु न प्रमाणमिति तार्किकाः मन्यन्त इति भावः ।

ईश्वरसद्भावे श्रुते­र­प्रा­माण्ये तार्कि­क­स्या­वै­दि­क­त्वा­प­त्ति­रि­त्य­स्व­र­सा­दाह –
अथवेति ।

स्वतन्त्रमिति ।
स्वत­न्त्र­प्र­मा­ण­मि­त्यर्थः । तथा च श्रुते­र­नु­मा­न­सि­द्धा­र्था­नु­वा­द­क­त्वेन प्रामाण्यमिति भावः ।

एकेनैवानुमानेन सर्व­ज्ञ­क­र्तृ­क­त्व­सा­ध्य­सिद्धौ दृष्टा­न्ता­भा­वान्न सर्व­ज्ञे­श्व­र­सि­द्धि­रि­त्य­स्व­र­सा­दाह –
यद्वेति ।

व्याख्या­न­द्व­येपि व्याप्ति­ज्ञा­ना­र्थ­क­त्वेन एतत्पदं व्याख्याय सम्प्रति लक्षणार्थकत्वेन व्याख्याति –
एतल्लक्षणमिति ।
जन्मा­दि­सू­त्रो­क्त­ज­ग­त्का­र­ण­त्व­ल­क्ष­मेव कर्तुः सर्व­ज्ञ­त्व­सिद्धौ हेतुरिति मन्यन्त इत्यर्थः ।

लक्षणसूचितेन पूर्वो­क्ता­नु­मा­नेन सक­र्तृ­क­त्व­मात्रं साध्यते सर्वज्ञत्वं तु लक्ष­ण­हे­तु­का­नु­मा­ना­न्त­रे­णे­त्य­भि­प्रायं स्फुटयति –
तत्रायमिति ।

लक्ष­ण­हे­तु­का­नु­मा­ना­न्तरं रचयति –
सकर्तेति ।

लक्षणादिति ।
सर्वज्ञत्वं विना सर्व­ज­ग­त्का­र­णत्वं न सम्भवति तथा च सर्व­ज­ग­त्का­र­ण­त्व­ल­क्ष­ण­सा­म­र्थ्या­त्स­र्व­ज्ञ­त्व­सि­द्धि­रिति भावः । ईश्वरः जगतः कारणं येषां ते ईश्वरकारणकाः काणादप्रभृतय इति भाष्यार्थः । तत्त­न्म­त­वै­ल­क्ष­ण्ये­ना­नु­मा­न­वै­ल­क्षण्यं विस्तरेण तर्कपादे वक्ष्यते अधुना काणादमतानुसारेण मार्ग­प्र­द­र्श­न­मा­त्र­मत्र कृतं विस्तरभयादिति मन्तव्यम् ।

न सम्भवतीति ।
असमर्थत्वादिति भावः । एत­स्मा­द्भि­न्न­स्येति पाठे जीवा­द्भि­न्न­स्ये­त्यर्थः ।

यत्कार्यं तत्सकर्तृकमिति सामा­न्य­व्या­प्ति­ज्ञा­ना­द­ङ्कु­रा­दि­का­र्य­स्यापि सक­र्तृ­क­त्व­सिद्धौ स च कर्ता क इत्युक्ते सति असा­म­र्थ्या­ज्जीवो न भवति परिशेषादीश्वर इति तत्सि­द्धि­र्व­क्तव्या सैव न सम्भवति जीवादन्यस्य घटा­दि­व­द­चे­त­न­त्व­नि­य­मेन अङ्कु­रा­दि­का­र्यस्य कर्तैव नास्ती­त्य­क­र्तृ­क­त्व­नि­श्चये सति सक­र्तृ­क­त्व­ज्ञा­ना­स­म्भ­वेन सामा­न्य­व्या­प्ति­ज्ञा­ना­सि­द्धे­स्तथा च कार्य­त्व­लि­ङ्ग­का­नु­मानं न सकर्तृकत्वसाधकं येनेश्वरसिद्धिः स्यादिति प्रथमानुमानं दूषयित्वा द्वितीयमनुमानं दूषयति –
लक्षणलिङ्गकेति ।
बाधः साध्याभावनिश्चय इत्यर्थः ।

ईस्वरस्य तन्मते सर्वज्ञत्वं नाम सर्व­वि­ष­य­क­ज्ञा­ना­श्र­यत्वं तच्च ज्ञानं जन्यमजन्यं वा ? नाद्य इत्याह –
अशरीरस्येति ।

न द्वितीय इत्याह –
यज्ज्ञानमिति ।
ज्ञान­प­द­मा­श्रि­त­ज्ञा­न­परं तथा च लक्ष­ण­लि­ङ्ग­का­नु­मा­न­बा­धान्न सर्वज्ञत्वसाधनं येन सर्वज्ञत्वं सिद्ध्येदिति भावः ।
श्लोकः –
सर्वज्ञं कारणं खादेः कृष्णाख्यं श्रुतिसम्मतम् ।
वन्देहमीश्वरं गोपी­चि­त्त­प­द्म­म­धु­व्र­तम् ॥
परवादिना अनु­मा­ना­द्धी­श्व­र­सि­द्धि­रि­त्युक्ते तत्खण्डनार्थं नेश्व­र­सि­द्धि­रि­त्या­द्यु­च्च­रि­त­श­ब्द­ज­न्य­दो­ष­नि­रा­सा­यात्र मङ्गलं कृतमिति मन्तव्यम् ।

सर्व­ज्ञे­श्व­र­सिद्धौ श्रुतेः प्रामाण्यं स्वातन्त्र्येण दर्श­य­न्न­नु­मा­नस्य तन्निरस्यति –
तस्मादिति ।

श्रुत्य­र्थ­स­म्भा­व­ना­र्थ­त्वे­नेति ।
श्रुत्यर्थे संश­या­दि­नि­व­र्त­क­त्वे­ने­त्यर्थः । सिद्धान्ते सर्वज्ञत्वं नाम सर्वा­व­भा­स­क्ष­म­वि­ज्ञा­न­स्व­रू­पत्वं तथा च श्रुत्या सर्व­ज्ञे­श्व­र­सिद्धौ व्याप्ति­ज्ञा­न­स­त्त्वात् आश्रितज्ञानस्य मनो­ज­न्य­त्व­नि­य­मेन प्राप्तो यो बाध­स्त­स्या­स­म्भ­वा­च्चा­नु­मा­न­द्वयं स्वसाध्यसाधकं सत्स­र्व­ज्ञे­श्वरं साधयतीति भावः ।

अनु­मा­ना­न्त­र्भा­व­म­भि­प्रे­त्येति ।
अनु­मा­न­सि­द्धा­र्था­नु­वा­द­क­त्वे­नो­प­प­त्ति­म­भि­प्रे­त्ये­त्यर्थः ।

वैशेषिक इति ।
शब्द­प­क्ष­का­नु­वादी वैशेषिक इत्युच्यते जन्मा­दि­सु­त्रे­णा­नु­मा­न­स्यैव प्रति­पा­दि­त­त्वा­द­नु­मा­न­मेव स्वतन्त्रं प्रमाणमिति शङ्कि­तु­र­भि­प्रायः ।

भाष्ये
वेदा­न्त­वा­क्य­कु­सु­म­ग्र­थ­ना­र्थ­त्वा­दिति ।
श्रुति­वि­चा­रा­र्थ­त्वा­दि­त्यर्थः । वेदा­न्त­वा­क्या­र्थ­प­रि­ष्का­रा­र्थ­त्वा­दिति यावत् ।

एतदेवोपपादयति –
वेदा­न्त­वा­क्या­नीति ।

जगत इति ।
जगतो यज्जन्मादि तत्कारणं यद्ब्रह्म तत्प्र­ति­पा­द­के­ष्वि­त्यर्थः ।

व्याख्याने
सा चेति ।
ब्रह्मा­व­ग­ति­रि­त्यर्थः ।

वाक्या­र्थ­वि­चा­रे­त्यत्र वाक्यस्य तदर्थस्य च विचार इति पदच्छेदपूर्वकं भाष्यं व्याकरोति –
वाक्यस्य तदर्थस्य चेति ।
वाक्य­वि­चा­रा­दे­त­द्वा­क्य­मे­त­स्मि­न्नर्थे तात्पर्यकमिति तात्पर्यनिश्चयो जायते वाक्या­र्थ­वि­चा­रा­त्प्र­मेये बाधाभावनिश्चय इति भावः ।

विमतमिति ।
जगदित्यर्थः । निमित्तं च उपादानं च निमित्तोपादाने अभिन्ने निमित्तोपादाने यस्य तदिति विग्रहः । भिन्ने निमित्तोपादाने यस्य तद्भि­न्न­नि­मि­त्तो­पा­दा­नकं तन्न भव­ती­त्य­भि­न्न­नि­मि­त्तो­पा­दा­न­क­मिति वा विग्रहः । अत्रे­द­म­नु­स­न्धे­यम् । ब्रह्म विवर्तोपादानं माया तु परि­णा­म्यु­पा­दा­न­क­मिति पक्षे स्वरू­पा­नु­प­म­र्द­नेन अन्यथाभावः विवर्तः स्वरू­पो­प­म­र्द­ने­ना­न्य­था­भावः परिणाम इति तयोर्भेदः विभावनीयः । माया तु कारणमेवेति पक्षान्तरमिति ।

दार्ढ्यायेति ।
श्रुत्या जग­त्का­र­ण­स्यो­भ­य­का­र­णत्वे बोधितेपि वादि­भि­र­न्य­था­र्थस्य प्रति­पा­दि­त­त्वा­त्पु­रु­षस्य संश­या­दि­रु­त्प­द्यते तन्नि­वृ­त्य­मि­त्यर्थः ।

श्रुत्यै­वा­नु­मा­न­म­ङ्गी­कृ­त­मिति भाष्याशयं स्फुटीकर्तुं श्रुत्यंशं सङ्गृह्णाति –
मन्तव्य इतीति ।
श्रुत्यर्थः श्रुत्या­दि­वि­चा­र­रू­प­श्र­व­णेन गृहीतार्थः ।

मन्त­व्य­प­दा­र्थ­माह –
तर्केणेति ।
अनु­मा­ने­ने­त्यर्थः । तथा ’श्रोतव्य’ इति श्रुत्या गृहीतार्थः । ’मन्तव्य’ इत्येवं श्रुत्या­प्य­नु­मा­न­म­भ्यु­पे­त­मिति भावः ।

श्रुत्य­न्त­र­स्या­प्य­नु­माने सम्मतिरस्तीति भाष्यभावं स्फुटीकर्तुं श्रुत्य­र्थ­क­थ­ना­र्थ­मा­ख्या­यि­का­मा­र­भते –
यथा कश्चिदित्यादिना ।

श्रुति­ग­तै­वं­श­ब्द­द्यो­ति­त­दृ­ष्टा­न्त­माह –
यथेति ।

पण्डितो मेधावीति पदद्वयस्य क्रमेणार्थमाह –
तदुक्तमार्गेति ।

दार्ष्टान्तिके सादृ­श्य­मु­प­पा­द­यन् श्रुते­र­नु­मा­ना­पे­क्षायां तात्पर्यं स्फुटीकरोति –
एवमेवेहेति ।

इयता ग्रन्थे­ना­ती­न्द्रि­यार्थे श्रुतिरेव स्वत­न्त्र­प्र­मा­ण­मिति प्रतिपाद्य श्रुत्य­र्थ­स­म्भा­व­ना­र्थ­त्वेन मन­न­रू­प­स्या­नु­मा­नस्य यत्प्रा­मा­ण्य­मुक्तं तद्दूषणपरत्वेन शङ्कामुद्घाटयति –
ननु ब्रह्मण इति ।

ननु धर्मब्रह्मणोः प्रमाणस्य श्रुत्यादेः कथं जिज्ञा­सा­न्त­र्नी­त­वि­चारे प्रामा­ण्य­मि­त्या­शङ्क्य भाष्यमन्यथा योजयति –
जिज्ञास्ये धर्म इवेति ।
मन­ना­दे­र्दु­रि­त­रू­प­प्र­ति­ब­न्ध­क­नि­व­र्त­क­त्वेन ज्ञानद्वारा प्रामाण्यमिति ज्ञापनार्थं यत्र स्वतः­सि­द्ध­दु­रि­ता­भावः तत्र मननादेर्न हेतुतेति ज्ञापनार्थं च भाष्ये यथासम्भवमिह प्रमा­ण­मि­त्यु­क्त­मिति द्रष्टव्यम् ।

मुक्त्यर्थमिति ।
ब्रह्म­ज्ञा­न­स्या­प­रो­क्ष­रू­प­सा­क्षा­त्का­र­त्वे­नै­वा­ज्ञा­न­नि­व­र्त्क­त्वा­त्सा­क्षा­त्का­रा­व­सा­न­त्वा­पेक्षा उचितेति भावः ।

द्विती­य­हे­तो­र­र्थ­माह –
प्रत्यग्भूतेति ।

’कर्मकर्तव्ये हि विषय’ इत्यादि भाष्यं व्याचष्टे –
धर्मे त्विति ।
नित्यपरोक्षे साध्य इति पदद्वयं हेतु­ग­र्भ­वि­शे­ष­णम् ।

असम्भवाच्चेति ।
अयो­ग्य­त्वा­च्चे­त्यर्थः । धर्मस्य साध्यत्वेन अन­पे­क्षि­ता­नु­भ­व­त्वा­न्नि­त्य­प­रो­क्ष­त्वे­ना­प­रो­क्षा­यो­ग्य­त्वा­च्चेति भावः ।

निरपेक्ष इति ।
प्रमा­णा­न्त­रा­न­पे­क्षत्वे सति स्वार्थबोधकत्वं निरपेक्षत्वम् ।

श्रुत्यादय इति भाष्य­स्था­दि­श­ब्दार्थं लक्षणपूर्वकं विवृणोति –
शब्द­स्ये­त्या­दिना ।

पदं योग्यतरेति ।
योग्यमितरं च यत्पदं तेनाकाङ्क्षा यस्य तदिति विग्रहः । आका­ङ्क्षा­यो­ग्य­ता­स­न्नि­धि­मतां पदानां समूह एव वाक्यमित्यर्थः । कर्मकाण्डे क्रम­प­ठि­ता­ना­म­र्थानां मन्त्रकाण्डे क्रम­प­ठि­तै­रि­त्यर्थः ।

सम्बन्ध इति ।
विनियोग इत्यर्थः ।

स्थान­मु­क्त­ल­क्ष­ण­मु­दा­ह­रति –
यथेति ।

आध्व­र्य­व­सं­ज्ञ­का­ना­मिति ।
अध्वर्युणा पठितानामिति यावत् ।

आध्वर्यवसंज्ञक इति ।
अध्वर्युणा कर्तव्य इति यावत् ।

श्रुत्या­दी­ना­म­नु­भ­वा­दीनां च ब्रह्मणि प्रामा­ण्य­मुक्त्वा परोक्तमनुमानं दूषयति –
एवं तावद्ब्रह्मेति ।

साध्यत्वेनेति ।
धर्मस्य जन्य­त्वे­ने­त्यर्थः ।

साक्षा­त्का­र­स्या­न­पे­क्षि­त­त्वा­द­स­म्भ­वा­च्चेति स्वोक्तं हेतुद्वयम् , अस्मिन्ननुमाने प्रत्ये­क­मु­पा­धि­रि­त्याह –
अनु­भ­वा­यो­ग्य­त्व­मिति ।
पक्षातिरिक्ते दृष्टान्ते धर्मे साध्यव्यापकत्वं पक्षे ब्रह्मणि साध­ना­व्या­प­क­त्व­मिति विवेकः ।

साधितं मन­ना­द्य­पे­क्षत्वं स्मारयति –
उपा­धि­व्य­ति­रे­का­दिति ।
साध्यव्यापकः साधनाव्यापक उपाधिः, तथा च उपा­धि­द्व­य­स्या­भा­वा­दि­त्यर्थः । ब्रह्मणः उपा­धि­द्व­य­र­हि­त­त्वा­न्म­न­ना­द्य­पेक्षा युक्तेति भावः ।

पूर्व­प­क्ष्यु­क्त­म­नु­मानं स्वसा­ध्या­सा­ध­क­मिति दूषणमुक्त्वा प्रतिबन्द्या दूष­णा­न्त­र­प­र­त्वेन भाष्यमवतारयति –
तत्रेति ।

ब्रह्मा­नु­भ­वा­द्य­पेक्षं सिद्ध­व­स्तु­त्वात् घटवदिति सिद्धा­न्त्य­भि­म­ता­नु­माने हेतुरस्तु साध्यं मास्त्वि­त्या­का­र­क­वि­प­क्षां­श­मु­प­पा­द­यति –
यदीति ।
वेदा­र्थ­त्व­मा­त्रेण वेद­प्र­मे­य­त्वा­वि­शे­षे­णे­त्यर्थः ।

साम्यं त्वयोच्येतेति ।
साम्यमङ्गीकृत्य मन­ना­द्य­न­पे­क्षत्वं त्वयो­च्ये­ते­त्यर्थः ।

बाध­कां­श­मु­प­पा­द­यति –
तर्हीति ।
धर्मसाम्यात् ब्रह्मणि मन­ना­द्य­न­पे­क्षत्वं स्यादि­त्या­का­र­क­वि­पक्षे कृति­सा­ध्य­त्वा­दिना किमपराद्धं तदपि स्यादिति बाधकमाहेत्यर्थः ।

भाष्ये
पुरु­षा­धी­ना­त्म­ला­भा­त्वाच्च कर्तव्यस्येति ।
धर्मस्य कृति­सा­ध्य­त्वा­च्चे­त्यर्थः । ’कर्तव्ये ही’त्यादि­भा­ष्य­प­रि­ष्कृ­तस्य अन्पे­क्षि­ता­नु­भ­व­त्वा­द­प­रो­क्षा­यो­ग्य­त्वा­दिति हेतुद्वयस्य समु­च्च­या­र्थ­श्च­शब्दः । यथाश्वेनेति लौकिकस्य गमनरूपकर्मणः अश्वेन गच्छति पद्भ्यां वेति द्वयेन कर्तुं शक्यत्वं प्रतिपादितम् , अन्यथा वा गच्छतीत्यनेन उन्म­त्ता­दि­सा­दृ­श्येन वा गच्छतीति अन्यथा कर्तुं शक्य­त्व­मु­प­पा­दितं न वा गच्छ­ति­त्य­ने­ना­कर्तुं शक्य­त्व­मु­प­पा­दितं भवतीति भावः ।

दृष्टान्तस्य लौकिककर्मणः कर्तुं शक्य­त्वा­दि­त्रि­त­य­मु­प­पाद्य वैदिककर्मणः धर्मस्य तत्र त्रितयमुपपादयति –
तथेति ।

ग्रहणाग्रहणयोः इच्छाधीनत्वान्न विरोध इत्यभिप्रेत्याह –
नातिरात्र इति ।

षोडशिनमिति ।
षोडशिनामकं सोम­र­स­पा­ना­ख्य­ग्रहं व्यापा­र­रू­प­ग्र­ह­णेन संस्कु­र्या­दि­त्यर्थः ।

व्याख्याने –
अन्यथाकर्तुमिति ।
शाखाभेदेन अर्थद्वयेऽपि विधेः सत्त्वा­द­न्य­था­कर्तुं शक्य­ता­मा­हे­त्यर्थः ।

धर्मस्येति ।
अध­र्म­स्ये­द­मु­प­ल­क्ष­णम् । धर्माधर्मयोः साध्य­त्व­मु­प­पा­द्ये­त्यर्थः ।

तत्रेति ।
धर्मा­ध­र्म­यो­रि­त्यर्थः । आदिशब्देन निषेधादिकं गृह्यते धर्मे यजेतेति विधिः अधर्मे सुरापाने तु न सुराम्पिबेदिति निषेध इति विवेकः । विधयश्च प्रतिषेधाश्चेति द्वन्द्वसमासः । धर्म इति अध­र्म­स्ये­द­मु­प­ल­क्ष­णम् ।

उपपादनफलमाह –
ब्रह्मण्यपीति ।
यजेतेति धर्मे विधेयत्ववत् ब्रह्मण्यपि विधेयत्वं स्यात् , अधर्मे न पिबेदिति निषेध्यत्ववत् ब्रह्मणः प्रतिषेध्यत्वं च स्यात् , व्रीहि­भि­र्य­वैर्वा यजेतेतिवत् ब्रह्म वा स्थाणुर्वेति विकल्पः स्यात् , उदिते जुहोत्यनुदिते जुहोतीति शाखाभेदेन व्यवस्थावत् क्वचिद्ब्रह्म भवति न भवतीति व्यवस्था स्यात् , न हिंस्या­त्स­र्वा­भू­तानि अग्नीषोमीयं पशुमालभेतेतिवत् सामा­न्य­प्र­ति­पन्ने ब्रह्मणि विशेषोपवादः स्यादिति भावः ।

क्रमेण विध्यादीन् पञ्चोपपादयति –
यजेतेत्यादिना ।

विक­ल्प­स्त्रि­विधः सम्भावितः ऐच्छिकः व्यवस्थित इति तान् क्रमेणोदाहरति –
व्रीहिभिरिति ।

ग्रहणेति ।
अतिरात्रे षोडशिनं गृह्णाति न गृह्णातीति ग्रह­णा­ग्र­ह­ण­यो­रि­त्यर्थः । उदिते जुहोत्यनुदिते जुहो­ती­त्यु­दि­ता­नु­दि­त­हो­म­यो­रि­त्यर्थः । उत्सर्गः सामा­न्य­व­च­न­मि­त्यर्थः ।

एत इति ।
षट्सङ्ख्याकाः कृतिसाध्यत्वादय इत्यर्थः ।

न त्वित्यादिनेति ।
सिद्धे ब्रह्मणि वृत्ति­ज­न्य­त्वा­दे­रि­ष्टा­पत्तौ दूष­ण­मु­पे­क्षा­व­शा­द­नुक्त्वा अस्ति नास्ती­त्या­दि­वि­क­ल्प­मात्रं दूषयतीति भावः ।

’ननु वस्त्वे­व’मि­त्या­दि­भाष्ये वस्त्वेवं नैवमित्यंशेन प्रकारविकल्पः प्रतिपाद्यते अस्ति नास्तीत्यंशेन स्वरूपविकल्पः तथा च नन्वित्यत्र नञ्वस्त्वेवं नैवमिति विकल्प्यते अस्ति नास्तीति न विकल्प्यत इति उभ­य­त्रा­न्व­य­म­भि­प्रेत्य भाष्यं व्याचष्टे –
इदं वस्त्विति ।

एवमिति ।
एता­दृ­श­ध­र्म­व­दि­त्यर्थः ।

नैवमिति ।
एता­दृ­श­ध­र्म­व­न्ने­त्यर्थः ।

प्रकारविकल्पे दृष्टान्तमाह –
घट इति ।
मन्दान्धकारसमये पुरो­व­र्ति­प­दार्थः घटत्वप्रकारवान् पटत्वप्रकारवान् वेतिवत् इदं ब्रह्म एवं नैवमिति – प्रका­र­वि­क­ल्प­व­न्नेति भावः ।

आत्मादौ वादिनां विकल्पा दृश्यन्त इत्याशङ्कायाः परिहारं स्फोर­यि­तु­म­र्थ­माह –
अस्त्वि­त्या­दि­को­टि­स्म­र­ण­मिति ।
इदं दोषा­दे­रु­प­ल­क्ष­णम् । ब्रह्मणि सर्वे मन­स्प­न्दि­त­मात्राः अस्ति नास्ती­त्या­दि­वि­कल्पाः पुरु­ष­नि­ष्ठ­दो­ष­सं­स्का­र­को­टि­ज­न्य­त्वान्न प्रमारूपा इति भावः ।

अक्षरार्थकथनेन ब्रह्मणि विक­ल्पा­ना­म­प्र­मा­त्व­मुक्त्वा यदि ब्रह्मणो धर्म­सा­म्य­म­ङ्गी­क्रि­येत तदा धर्मे विकल्पानां प्रमात्ववत् ब्रह्मण्यपि विकल्पानां प्रमात्वं स्यादि­त्य­नि­ष्ट­मा­पा­द­यति –
अयं भाव इति ।

यथेति ।
शाखाभेदेन विधीनां सत्त्वाद्यथा यथा ज्ञायत इत्यर्थः । शास्त्र­म­न­ति­क्रम्य यथाशास्त्रं शास्त्र­म­नु­सृ­त्येति यावत् ।

पुरु­ष­बु­द्ध्य­पेक्षा इति ।
षोडशिनं गृह्णात्युदिते जुहोत्यनुदिते जुहो­ती­त्या­दि­को­टि­द्व­य­स­त्त्वा­दत्र कोटिस्मरणमात्रं परु­ष­बु­द्धि­श­ब्दार्थः तथा च पुरु­ष­बु­द्धि­मू­लका इत्यर्थः । प्रमाणभूता प्रमाभूता इत्यर्थः । विधि­प्र­ति­पा­दि­तानां कर्मणां वस्तुत्वेन यथा­र्थ­त्व­स­त्त्वा­त्त­द्वि­ष­यका विकल्पाः तद्वति तत्प्र­का­र­क­त्वा­त्प्र­मा­रूपा एवेति भावः ।

तत्साम्य इति ।
धर्मसाम्ये ब्रह्म­ण्य­ङ्गी­कारे सतीत्यर्थः । यथार्थाः प्रमास्वरूपा इत्यर्थः । इतिपदस्य पूर्वे­णा­य­म­भि­प्राय इत्यनेनान्वयः । ओम् इत्यङ्गीकारे, ब्रह्मण्यपि विकल्पानां प्रमा­त्व­मि­ष्ट­मिति वदन्तं तिर­स्क­रो­ती­त्यर्थः ।

सिद्ध­व­स्तु­ज्ञा­न­म­पीति ।
उप­क्र­मा­दि­ष­ड्वि­ध­लि­ङ्गा­व­धृ­ता­द्वि­ती­य­ब्र­ह्म­ता­त्प­र्य­क­श्रु­त्या­दिभिः प्रमीतं सिद्धं यत् वस्तु ब्रह्म तद्वि­ष­य­क­ज्ञा­न­म­पी­त्यर्थः । साध्य­ज्ञा­न­व­दि­त्यर्थः । व्रीहि­भि­र्य­वैर्वा यजेति वैक­ल्पि­क­द्र­व्य­ज­न्य­या­ग­ज्ञा­न­व­दि­त्यर्थः ।

पौरुषमिति ।
पुरु­ष­बु­द्ध्य­पे­क्ष­मि­त्यर्थः । प्रमि­त­त्वे­ना­बा­धितं यद्वस्तु तज्ज­न्य­मि­त्यर्थः । सर्वासां श्रुती­ना­म­द्वि­ती­य­ब्र­ह्म­बो­ध­क­त्वा­दत्र कोटि­द्व­यो­प­स्था­पकं शास्त्रमेव नास्ति येन वस्तुज्ञानं कोटि­द्व­य­स्म­र­ण­रू­प­पु­रु­ष­बु­द्धि­म­पेक्ष्य जायेत येन ब्रह्मणि विकल्पानां प्रमात्वं च स्यादिति भावः ।

धर्मस्य वैक­ल्पि­क­द्र­व्य­ज­न्य­त्वे­ना­ने­क­त्वा­त्त­स्मिन् विकल्पानां प्रमात्वं युक्तं सिद्धस्य ब्रह्मणः एक­त्वा­द्वि­क­ल्पानां न प्रमात्वमित्याह –
तथा चेति ।
ज्ञानं द्विविधं वस्तुतन्त्रं पुरुषतन्त्रं चेति । तत्र वस्तु­त­न्त्र­मे­क­मेव ज्ञानं प्रमा पुन्त­न्त्र­म­ने­क­रूपं विकल्पात्मकं ज्ञानं भ्रम एवेति भावः । अत्रेत्यादि न पुरु­ष­त­न्त्र­मि­त्य­न्त­ग्रन्थः स्फुटार्थः ।

भूतार्थेति ।
सिद्धा­र्थे­त्यर्थः ।

साध्येर्थ इति ।
कृतिजन्ये धर्म इत्यर्थः । विकल्पाः उदि­ता­नु­दि­त­हो­म­ज्ञा­न­रूपाः विकल्पाः इत्यर्थः । पुन्तन्त्राः पुरु­ष­बु­द्ध्य­पेक्षा इत्यर्थः । यथार्था अबा­धि­त­वि­ष­य­क­त्वा­त्प्र­मा­रूपा इत्यर्थः ।

श्रुत्य­र्थ­स­म्भा­व­ना­र्थ­त्वेन मन­न­स्व­रू­पा­नु­मा­ना­दीनां प्रामा­ण्य­सि­द्धि­रि­त्यु­प­सं­ह­रति –
इति वैलक्षण्यादिति ।

धर्म­सा­म्या­न­ङ्गी­कारे पुन­र­नु­मा­न­वा­दि­श­ङ्का­मु­त्था­प­यति –
नन्विति ।
तथा च ब्रह्मणि प्रत्य­क्षा­नु­मा­ना­दि­क­मेव स्वत­न्त्र­प्र­माणं न श्रुतिरिति भावः ।

अनुमानस्य स्वातन्त्र्येण प्रामा­ण्य­ख­ण्ड­नात् प्रत्य­क्ष­प्रा­मा­ण्य­ख­ण्ड­न­मपि भवत्येवेति तद्धे­तु­व्या­प्ति­ज्ञानं विकल्प्य खण्डयतीति भाष्यभावं स्फुटी­कु­र्व­न्नु­त्त­र­भा­ष्य­म­व­ता­र­यति –
अत्र पर्वपक्षीति ।
किं ब्रह्म­त्व­वि­ष­य­क­वि­शे­ष­व्या­प्ति­ज्ञानं ब्रह्म­सा­ध­क­मा­हो­स्वित् कार­ण­त्व­वि­ष­य­क­सा­मा­न्य­व्या­प्ति­ज्ञा­न­मिति विकल्पार्थः ।

व्याप्येति ।
व्याप्तीत्यर्थः ।

तत्प्र­त्य­क्षे­णेति ।
ब्रह्म­प्र­त्य­क्षेण विशे­ष­व्या­प्ति­ग्र­हा­यो­गा­दि­त्यर्थः । खानीन्द्रियाणि पराञ्चि विष­यो­न्म­खा­नी­त्यर्थः ।

ब्रह्मणो रूपादीति ।
प्रत्य­क्ष­हे­तु­रू­पा­दे­र­भा­वात् ब्रह्मणः न प्रत्य­क्ष­प्र­मा­वि­ष­य­त्व­मिति भावः ।

द्वितीय इति ।
सामा­न्य­व्या­प्ति­ज्ञानं हेतुरिति पक्ष इत्यर्थः ।

भाष्ये –
सम्ब­न्धा­ग्र­ह­णा­दिति ।
व्याप्ति­ग्र­हा­यो­गा­दि­त्यर्थः ।

गृह्यमाणमिति ।
ज्ञान­वि­ष­यी­भू­त­मि­त्यर्थः । यत्कार्यं तत्कारणजन्यमिति कारणजन्यत्वेनैव ज्ञान­वि­ष­यी­भू­त­कार्यं किं ब्रह्मणः सम्ब­द्ध­मि­त्यर्थः ।

व्याख्याने उपादानत्वादीति ।
आदिशब्देन निमि­त्त­का­र­ण­त्व­स­र्व­ज्ञ­त्वा­दि­क­मु­च्यत्ते, उपा­दा­न­त्वा­दि­रूपो यः स सामान्यधर्मः कार्या­त्म­क­त्वा­दि­श्रौ­तार्थः तद्द्वारा अनुमानं विचा­र्य­मि­त्य­न्वयः । अत एव गुणतयेत्युक्तम् ।

श्रौतार्थं निमित्तीकृत्यैव अनुमानस्य प्रामाण्यं न स्वात­न्त्र्ये­णे­त्यु­क्त­मेव विवृणोति –
मृदादिवदिति ।
मृदा­दि­दृ­ष्टा­न्तेन श्रुत्या प्रतिपादितो य उपा­दा­न­त्वा­दि­रू­पोर्थः तस्मि­न्पु­रु­ष­सं­श­य­नि­वृ­त्त्य­र्थ­मि­त्यर्थः ।

अयं भावः ।
उपादानत्वं किं कार्यैक्यं किं वा तत्तादात्म्यं उत कार्या­धि­ष्ठा­नत्वं किं निमित्तकारणत्वं कर्तृत्वस्वरूपं तद्भिन्नस्वरूपं वा, किं सर्वज्ञत्वं सर्व­वि­ष­य­क­ज्ञा­ना­श्र­यत्वं सर्वा­व­भा­स­क्ष­म­वि­ज्ञा­न­स्व­रू­पत्वं वेत्येव श्रुत्यर्थे पुरुषस्य सन्देहे सति कार्या­धि­ष्ठा­न­त्वा­दि­नि­श्च­या­र्थ­म­नु­मा­न­मु­प­स­र्ज­न­तया विचार्यं तस्मान्न स्वतन्त्रं प्रमा­ण­म­नु­मा­न­मि­त्यु­प­सं­ह­र­तीति ।

तस्मादितीति ।

विषयवाक्यमिति ।
यद्वा­क्य­मु­द्दिश्य विचारः क्रियते तद्वि­ष­य­वा­क्य­मि­त्यर्थः ।

प्रतीकमादाय इहे­त्य­स्या­र्थ­माह –
इह ब्रह्मणीति ।
लिलक्षयिषितमिति पदस्यार्थमाह लक्षणार्थत्वेन विचारयितुमिति ।

लक्षणमुच्यत इति ।
यथा लक्षणमुच्यते तथैवेत्यन्वयः ।

उप­ल­क्ष­णा­नु­वा­दे­नेति ।
तट­स्थ­ल­क्ष­णा­भि­धा­न­मु­खे­ने­त्यर्थः । श्रुतेः ब्रह्म­स्व­रू­प­प्र­ति­पा­दन एव मुख्यतात्पर्यं न जग­त्का­र­ण­त्व­प्र­ति­पा­दन इति ज्ञाप­यि­तु­म­नु­व­दे­ने­त्यु­क्तम् । एतेन तटस्थलक्षणस्य श्रुतौ पुरो­वा­दा­भा­वा­द­नु­वा­दे­ने­त्य­नु­प­प­न्न­मिति निरस्तम् । अनुवादपदस्य ज्ञापनार्थत्वेन व्याख्या­त­त्वा­दिति भावः । तटस्थलक्षणं नाम याव­ल्ल­क्ष्य­का­ल­म­न­व­स्थि­तत्वे सति तद्व्यावर्तकं तदेव यथा गन्धवत्वं पृथिवीलक्षणं महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् प्रकृते जग­ज्ज­न्मा­दि­का­र­ण­त्व­मिति केचिद्वदन्ति ।

भाष्ये
यत्प्र­य­न्त्य­भि­सं­वि­श­न्तीति ।
प्रयन्ति म्रिय­मा­णा­नी­त्यर्थः । अभिसंविशन्ति आभिमुख्येन संवि­श­न्ती­त्यर्थः ।

व्याख्याने
ब्रह्म­त्व­वि­धा­ना­यो­गा­दिति ।
अद्वि­ती­य­त्व­रू­प­ब्र­ह्म­त्व­वि­धा­ना­यो­गा­दि­त्यर्थः ।

यज्जगदिति ।
’यतो वा इमानि भूतानी’त्यारभ्य ’तद्वि­जि­ज्ञा­स­स्वे’त्यन्तं वाक्यं जगत्कारणं तदेकमिति यच्छ­ब्दा­दि­वि­शि­ष्ट­त्वेन सामा­न्य­व्या­प्ति­प्र­ति­पा­द­क­म­वा­न्त­र­वा­क्य­मि­त्यर्थः । ’यतो वा इमानि भूता­नी’इ­त्या­रभ्य ’तद्ब्र­ह्मे­ती’त्यन्तं वाक्यं यदेकं कारणं ब्रह्म­श­ब्द­वि­शि­ष्ट­त्वेन विशे­ष­व्या­प्ति­प्र­ति­पा­द­क­म­हा­वा­क्य­मि­त्यर्थः ।

किं तर्हीति ।
’यतो वा इमानि भूतानी’त्यादिना तट­स्थ­ल­क्ष­ण­मुक्तं चेत्तर्हि स्वरूपलक्षणं किमिति शङ्कि­तु­र­भि­प्रायः ।

वाक्यशेषादिति ।
’आन­न्दा­द्द्ध्येव खल्विमानि भूतानि जायन्त’ इत्या­दि­वा­क्य­शे­षा­दि­त्यर्थः । यतःशब्दार्थः यतो वा इमानीत्यत्र यतःशब्दार्थः ।

तस्मा­दे­त­द्ब्रह्म नामेति तच्छब्दस्य यच्छब्देनान्वयं दर्शयितुं श्रुत्यंशं सङ्गृह्णाति –
यः सर्वज्ञ इति ।

एवं­जा­ती­य­क­त्व­मे­वेति ।
स्वरू­प­त­ट­स्थ­ल­क्ष­ण­द्व­य­प्र­ति­पा­द­क­त्व­मे­वे­त्यर्थः ।

फलितमाह –
तदेवमिति ।
सत्या­न­न्द­चि­दा­न­न्द­ज­ग­त्का­र­ण­मी­श्व­रम् ।
रुक्मिणीसहितं कृष्णं सर्वज्ञं परमाश्रये ॥