अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

६ परिच्छेदः

व्याचि­ख्या­सि­ता­व्य­व­हि­त­सू­त्रा­र्थ­प­रि­ष्का­र­द्वारा ’ग्रन्थादौ ग्रन्थमध्ये तु मङ्गलमाचरेतेति’ न्यायेन स्वेष्ट­दे­व­ता­त­त्त्वा­नु­स्म­र­ण­ल­क्षणं मङ्गलमाचरन् शिष्यशिक्षार्थं ग्रन्थतो निबध्नाति –
यस्य निःश्वसितमिति ।

वृत्ता­नु­वा­दे­नेति ।
पूर्व­प्र­ति­पा­दि­ता­र्था­नु­वा­दे­ने­त्यर्थः ।

लक्ष­ण­द्व­य­प्र­ति­पा­द­न­प­रेण द्विती­य­सू­त्रे­णा­प्र­धा­न्या­त्स­र्व­ज्ञत्वं प्रतिज्ञातं सम्प्रति तृतीयसूत्रेण प्राधा­न्या­त्प्र­ति­पा­दि­तम् इत्य­भि­प्रे­त्या­व­ता­रिकां व्याचष्टे –
चेतनस्येति ।

अर्थादिति ।
अनु­मा­ना­दि­त्यर्थः ।

उप­क्षि­प्त­प­द­स्या­र्थ­माह –
प्रतिज्ञातमिति ।

तदेवानुमानमाह –
तथा चेति ।

आर्थिकमिति ।
अनु­मा­न­सि­द्ध­मि­त्यर्थः ।

’शास्त्र­यो­नि­त्वात्’ इति सूत्रस्य प्रथ­म­व्या­ख्या­न­प­रि­ष्कृ­ता­र्थ­माह –
वेद­क­र्तृ­त्व­हे­तु­नेति ।
सर्व­ज­ग­द्व्य­व­स्था­व­भा­सि­वे­द­क­र्तृ­त्व­हे­तु­ने­त्यर्थः ।

आहेति ।
आह सूत्रकार इत्यर्थः ।

हेतुद्वयस्येति ।
जन्मा­दि­का­र­ण­त्व­वे­द­क­र्तृ­त्व­हे­तु­द्व­यस्य सर्व­ज्ञ­त्व­रू­पै­का­र्थ­सा­ध­क­त्वा­दे­का­र्थ­प्र­ति­पा­द­क­त्व­म­वा­न्त­र­स­ङ्ग­ति­रि­त्यर्थः ।

अधिकरणमारच्यते –
अस्य महतो भूतस्येत्यादिना ।
यदृग्वेदादिकं तदेतस्य सर्वगतस्य नित्यसिद्धस्य ब्रह्मणः निःश्वसितं निःश्वास इवाप्रयत्नेन सिद्धमिति श्रुत्यर्थः ।

पौरुषेयत्व इति ।
पुरु­ष­प्र­य­त्न­ज­न्यत्व इत्यर्थः । यत्पौरुषेयं तन्मू­ल­प्र­मा­ण­ज­न्य­मिति व्याप्तेः सत्त्वाद्वेदस्य पौरुषेयत्वे मूल­प्र­मा­ण­ज­न्यत्वं वक्तव्यं तस्य परो­क्ति­रू­प­मू­ल­प्र­मा­ण­स्या­र्थस्य साकल्येन ज्ञातु­म­श­क्य­त्वात् भ्रान्त्या वेद­क­र्तु­र­न्य­था­र्थ­ग्र­ह­ण­श­ङ्कया तज्जन्यस्यापि वेद­स्या­प्रा­माण्यं दुर्वारम् तस्मा­त्स­र्व­ज्ञत्वं न साधयतीति पूर्वपक्षार्थः ।

अस्येति ।
तृती­य­सू­त्र­स्ये­त्यर्थः । प्रकृ­त­वे­दा­न्त­वा­क्यस्य यः समन्वयः तत्प्र­ति­पा­द­क­त्वा­दि­त्यर्थः । वेदा­न्त­वा­क्य­स्ये­त्य­नेन विष­य­वा­क्य­स्व­रू­प­स्यास्य महतो भूत­स्ये­त्या­दि­श्रुतेः तृतीयसूत्रस्य च वेद­क­र्तृ­त्व­रू­पै­का­र्थ­बो­ध­क­त्व­रूपा सङ्गतिः प्रदर्शिता । स्पष्ट­ब्र­ह्म­लि­ङ्ग­क­स्येति विशेषणेन सूत्रस्य प्रथमपादस्य च स्पष्ट­ब्र­ह्म­लि­ङ्ग­क­श्रु­त्य­र्थ­प्र­ति­पा­द­क­त्व­रूपा सङ्गतिः प्रदर्शिता । वेदकर्तरीत्यनेन सूत्रस्य शास्त्रस्य चैका­र्थ­प्र­ति­पा­द­क­त्व­रूपा सङ्गतिर्दर्शिता । सूत्रं वेदकर्तृत्वेन ब्रह्मबोधकं शास्त्रमपि शस्त्रार्थत्वेन ब्रह्मबोधकमिति भावः । सम­न्व­यो­क्ते­रि­त्य­नेन सूत्रस्य प्रथमाध्यायस्य च सम­न्व­य­प्र­ति­पा­द­क­त्व­रू­प­स­ङ्ग­ति­र्नि­रू­पिता । एतत्सर्वं प्रथ­म­सू­त्र­स­ङ्ग­ति­नि­रू­प­णा­व­सरे विस्त­रे­णो­प­पा­दि­त­मिति भावः ।

सिद्धा­न्त­सू­त्र­ता­त्प­र्य­माह –
वेदे हीति ।

तद्गता वेति ।
उपादानब्रह्मगता वेत्यर्थः । कार्ये शक्तिः कार­ण­ग­त­श­क्त्य­भि­न्नेति भावः ।

तत्कार्यगतेति ।
ब्रह्म­का­र्य­वे­द­ग­त­श­क्ति­त्वा­द्वेदे शक्तिः ब्रह्म­श­क्ति­पू­र्विका ब्रह्म­श­क्ति­र्वे­त्यर्थः ।

प्रदी­प­श­क्ति­व­दिति ।
प्रदीपोपादानं तेजः तच्छ­क्ति­पू­र्विका तद्गतशक्तिर्वा प्रदी­प­श­क्ति­स्त­द्व­दि­त्यर्थः ।

स्वसम्बद्धेति ।
स्वपदेन ब्रह्मोच्यते सर्वो यो वेदार्थः स आध्या­सि­क­ता­दा­त्म्य­स­म्ब­न्धेन ब्रह्मसम्बद्ध इत्य­शे­ष­वे­दा­र्थ­प्र­का­श­क­त्व­सा­म­र्थ्य­रूपं सर्व­ज्ञ­त्वा­भिन्नं सर्वसाक्षित्वं ब्रह्मणः सिद्ध्यति कार्ये सर्वा­र्थ­प्र­का­श­क­त्वस्य कारणे सर्वा­र्थ­प्र­का­श­क­त्व­म­न्तरा अनु­प­प­न्न­त्वा­दिति भावः । यदाश्रितं (ज्ञानं)त­न्म­नो­ज­न्य­मिति व्याप्त्या खण्डितं तार्किकमतसिद्धं नित्य­ज्ञा­ना­श्र­य­त्व­रू­प­स­र्व­ज्ञत्व यत्त­द्वै­ल­क्ष­ण्या­योक्तं सर्व­सा­क्षि­त्व­मिति । सर्व­सा­क्षि­त्व­रूपं सर्व­ज्ञ­त्व­मि­त्यर्थः । अनेनानुमानेन सिद्धं सर्वज्ञत्वं मनो­ज­न्य­मि­त्यु­क्त­व्याप्त्या खण्डयितुमशक्यं साक्ष्या­त्म­क­नि­त्य­ज्ञा­न­स्व­रू­प­त्वेन आश्रि­त­ज्ञा­न­त्वा­भा­वा­दिति भावः । सर्वा­र्थ­प्र­का­शने वेदस्य कारणत्वं ब्रह्मणस्तु कर्तृत्वमिति भेदः । स्वप्रकाशे निर्विकारे ब्रह्मणि विद्यमाने सर्वस्य प्रकाशो भवति तस्मा­त्त­त्क­र्तृ­त्व­म­प्यौ­प­चा­रि­क­मिति मन्तव्यम् । यदि वेदादेव सर्व­ज्ञ­त्व­नि­श्च­य­स्तदा अन्योन्याश्रयः स्यात् । तथा हि वेद­प्रा­मा­ण्य­नि­श्चये सर्व­ज्ञ­त्वा­दि­नि­श्चयः तन्निश्चये भ्रमा­दि­श­ङ्का­नि­रा­स­पू­र्वकं वेद­प्रा­मा­ण्य­नि­श्चय इति तद्वारणाय अनुमानादेव सर्व­सा­क्षि­त्व­रू­प­स­र्व­ज्ञ­त्व­नि­श्चय इति वक्तव्यम् । अनुमानं तु वेदे शक्तिः ब्रह्म­ग­त­श­क्ति­पू­र्वि­के­त्या­दिना उपपादितम् ।

ननु वेदस्य पौरुषेयत्वं तत्कर्तुः सर्वज्ञत्वं चाभ्युपगतं चेत्त­त्क­र्तु­र्ब्र­ह्मणः सर्वज्ञत्वेन तस्य मूल­प्र­मा­ण­सा­पे­क्ष­त्वा­भा­वा­दु­क्त­व्या­प्ति­वि­रोधः स्यादिति चेन्न । सर्व­ज्ञ­भि­न्न­पु­रु­ष­कृ­ति­जन्यं यत्तदेव मूल­प्र­मा­ण­सा­पे­क्ष­मिति व्याप्तेः सङ्कोचस्य कल्प­नी­य­त्वा­त्तथा च वेदस्य पौरु­षे­य­त्व­म­ङ्गी­कृत्य सर्वा­र्थ­प्र­का­श­क­वे­द­कर्तुः सर्वज्ञत्वादेव वेदस्य मूल­प्र­मा­ण­सा­पे­क्ष­त्वा­भा­वेन नाप्रामाण्यमिति तत्कर्तृत्वेन सर्वज्ञत्वं प्रसाधितम् सम्प्रति वेदस्य पौरुषेयत्वमेव नस्तीति तत्कर्तुः सर्वज्ञत्वमिति सिद्धा­न्त­ता­त्पर्यं व्याख्या­ना­न्त­रेण स्फुटीकरोति –
यद्वेति ।

अध्येतार इति ।
उपाध्यायिन इत्यर्थः ।

पूर्वक्रमं ज्ञात्वेति ।
पूर्व­वे­दा­नु­पूर्वी स्मृत्वेत्यर्थः ।

वेदं कुर्वन्तीति ।
वेदक्रमानुसारेण शिष्यान्प्रति बोधयन्तीत्यर्थः ।

स्वकृतेति ।
स्वकृतः पूर्वकल्पीयः पूर्व­कृ­त­स­म्बन्धी यः क्रमः वेदक्रमः वेदानुपूर्वीति यावत् तत्सजातीयो यः क्रमः तद्व­न्त­मि­त्यर्थः । पूर्वकल्पे यादृशी वेदानुपूर्वी तादृश्येव कल्पा­न्त­रे­पी­त्ये­का­नु­पू­र्वी­त्वेन साजात्यं विवक्षितमिति भावः ।

अत्र यौगपद्यान्न सेति ।
पदार्थज्ञानस्य वाक्या­र्थ­ज्ञा­नस्य च वाक्ये समु­दा­य­रू­प­वे­द­रा­शि­र­चनां प्रति हेतुत्वाभावान्न पौरुषेयता किन्तु वेदस्य रचना विजातीया तस्मान्न लोकवाक्यरचनायाः दृष्टान्ततेति भावः ।

फलि­ता­र्थ­प्र­द­र्श­न­द्वारा प्रकृतमुपसंहरति –
अत इति ।

नान्तरीयकतयेति ।
नियमेनेत्यर्थः ।

सङ्गतिद्वयेति ।
अवा­न्त­रा­क्षे­प­स­ङ्ग­ति­द्व­ये­ने­त्यर्थः । सङ्ग­ति­द्व­या­नु­सा­रेण वेदकारणत्वादेव सर्वज्ञत्वं सर्वकारणत्वं च ब्रह्मणः सिध्यतीति सूत्रार्थं मनसि निधाय पदानि व्याचष्ट इति भावः ।

ग्रन्थत इति ।
शब्दत इत्यर्थः । वेद­श­ब्दो­च्चा­र­ण­मा­त्रेण सर्व­पा­प­क्ष­या­च्छ­ब्दतो वेद­स्व­रू­प­शा­स्त्रस्य महत्त्वमिति ऋग्वे­दा­दे­रि­त्य­नेन भाष्येण प्रतिपादितमिति भावः ।

अर्थतश्चेति ।
पुरा­णा­दि­द­श­वि­द्या­स्था­नेषु वेदार्थ एव प्रतिपाद्यते तस्मादर्थतोपि वेदस्य मह­त्त्व­मि­त्य­ने­क­वि­द्या­स्था­नो­प­बृं­हि­त­स्ये­त्य­नेन भाष्येण प्रतिपादितमिति भावः ।

हितशासनादिति ।
हिता­र्थ­प्र­ति­पा­द­क­त्वा­दि­त्यर्थः ।

शास्त्रशब्द इति ।
मात्रपदं कार्त्स्न्या­र्थकं शब्दमात्रस्य उपलक्षणार्थो यस्य स तथा न केवलं शास्त्रशब्दस्य वेदशब्दसमुदाय एवार्थः किन्तु कृत्स्न­श­ब्द­स­मु­दाय इति मत्वा हेत्यर्थः ।

उपकृतस्येति ।
व्याख्या­त­स्ये­त्यर्थः ।

वेदस्य मूल­प्र­मा­ण­सा­पे­क्ष­त्वा­भा­वा­न्ना­प्रा­मा­ण्य­मिति प्रामा­ण्य­मुक्त्वा मन्वा­दि­प­रि­गृ­ही­त­त्वाच्च प्रामा­ण्य­म­स्ती­त्याह –
अनेनेति ।
परिगृहीतत्वेन व्याख्या­त­त्वे­ने­त्यर्थः ।

अप्रा­मा­ण्य­सा­ध­क­यु­क्ते­र­भा­वात् प्रामा­ण्य­मु­प­पाद्य हेत्व­न्त­र­प­र­त्वेन भाष्यमवतारयति –
बोधकत्वादपीति ।
यथा चक्षु­रा­दे­र्बो­ध­क­त्वात् प्रामाण्यं तथा बोध­क­त्वा­द्वे­दस्य प्रामा­ण्य­मि­त्या­हे­त्यर्थः ।

प्रकाशनशक्तीति ।
प्रका­श­क­श­क्ती­त्यर्थः ।

सर्व­ज्ञ­क­ल्प­त्व­मिति ।
सर्वज्ञापेक्षया ईष­न्न्यू­न­ता­क­त्व­मि­त्यर्थः ।

योनिः कारणं तद्विवृणोति –
योनिरिति ।

अनुमानं त्विति ।
वेदे स्वार्थ­प्र­का­श­क­श­क्ति­रु­पा­दा­न­श­क्ति­पू­र्विका तद्गता वेत्या­द्य­नु­मा­न­मि­त्यर्थः ।

तदापत्तरिति ।
उपादानत्वेन ब्रह्म­व­त्स­र्वा­र्थ­प्र­का­श­क­श­क्ति­म­त्त्वा­प­त्ति­रि­त्यर्थः । तथा च सर्वज्ञत्वं स्यादिति शङ्कि­तु­र­भि­प्रायः ।

अचेतनत्वादिति ।
अचेतनत्वान्न सर्वज्ञत्वमिति भावः ।

कार्य­ग­त­श­क्ति­म­त्त्वस्य कार­ण­ग­त­श­क्ति­पू­र्व­क­त्वा­त्का­र­ण­ग­त­श­क्त्य­भि­न्न­त्वा­च्चो­पा­दा­न­का­र­णस्य सर्व­ज्ञ­त्व­मु­प­पाद्य वेद­वि­ष­या­र्था­धि­का­र्थ­ज्ञा­न­व­त्त्वाच्च सर्व­ज्ञ­त्व­मु­प­पा­द­य­तीति भाष्यमवतारयति –
वेदः स्वविषयादिति ।
स्ववि­ष­या­त्स्व­प्र­ति­पा­द्या­र्थात् योऽधिकार्थः तद्वि­ष­य­क­ज्ञा­न­व­ज्जन्यः इत्यर्थः । विस्तरार्थं शास्त्रमित्यत्र विस्तरस्यार्थः प्रतिपादनं यस्य तदिति विग्रहः, अथवा विस्तरेणार्थः अल्पार्थः यस्मिन् तदिति विग्रहः ।

यद्वा अर्थशब्दः धर्मवाचकः विस्तरः शब्दाधिक्यरूपः अर्थः धर्मविशेषः यस्य तद्वि­स्त­रा­र्थ­न्तथा च शब्द­बा­हु­ल्य­क­म­ल्पा­र्थकं शास्त्र­मि­त्य­भि­प्रेत्य विस्त­र­श­ब्दा­र्थ­माह –
विस्तर इति ।

अर्थत आधिक्यमिति ।
अधि­का­र्थ­वि­ष­य­क­त्व­मि­त्यर्थः ।

दृश्यते चेति ।
वेदे बहवोर्थवादाः सन्ति तस्मा­च्छ­ब्दा­धिक्यं दृश्यत इति भावः ।

यद्यच्छास्त्रं यस्मा­त्पु­रु­ष­वि­शे­षा­त्स­म्भ­वति स ततो­प्य­धि­क­त­र­वि­ज्ञान इति सामा­न्य­व्याप्तिं भाष्य­स्थ­प­दा­न्या­दा­या­न्व­य­मु­खेन अर्थपूर्वकं दर्शयति –
अत्रै­षा­क्ष­र­यो­ज­नेति ।

पुरु­ष­वि­शे­षा­दि­त्य­स्या­र्थ­माह –
अप्तादिति ।

स इति ।
आप्तपुरुष इत्यर्थः ।

यद्यच्छास्त्रं पुरु­ष­वि­शे­षा­त्स­म्भ­वति तस्मा­च्छा­स्त्रा­दि­त्य­न्व­य­म­भि­प्रे­त्याह –
ततः शास्त्रादिति ।

अधिकतरविज्ञान इत्यस्यार्थमाह –
अधिकेति ।

यथा व्याकरणादि पाणिन्यादेः ज्ञेयै­क­दे­शा­र्थ­म­पीति भाष्य­स्या­न्व­य­पू­र्व­क­म­र्थ­क­थ­न­द्वारा शास्त्र­स्या­ल्प­र्थत्वं तत्क­र्तु­र­धि­का­र्थ­ज्ञत्वं च स्फुटीकुर्वन् सामा­न्य­व्याप्तेः दृष्टा­न्त­मु­प­पा­द­यति –
यथा शब्देति ।
पाणि­न्या­दि­भि­र्ज्ञे­यानां बहूनामर्थानाम् मध्ये शब्द­सा­धु­त्वा­दि­रू­पार्थः एकदेशो भवतीत्यर्थः । ज्ञेयै­क­दे­शा­र्थ­म­पीति विशेषणं वेदै­क­दे­शा­र्थ­प­रि­ष्का­रो­प­यो­गीति विज्ञेयम् ।

बहुव्रीहिसमासं ज्ञापयति –
यस्येति ।
व्याकरणादीति च्छेदः, तथा च ज्ञेयै­क­दे­शा­र्थ­व्या­क­र­णा­दि­स्व­रूपं यच्छास्त्रं यस्मा­द­धि­का­र्थ­ज्ञा­त्पा­णि­न्यादेः सकाशाज्जायते स पाणिन्यादिः तस्मा­च्छा­स्त्रा­द­धि­क­त­र­वि­ज्ञानो यथा तथा ज्ञेयैकदेशार्थं ऋग्वेदादि यच्छास्त्रं तस्मा­द­धि­का­र्थ­ज्ञा­त्प­र­मे­श्व­रा­त्स­म्भ­वति स पर­मे­श्व­र­स्त­स्मा­च्छा­स्त्रा­द­धि­का­र्थ­ज्ञा­न­वा­निति भावः । इमां व्याप्ति­म­व­लम्ब्य वेदे स्ववि­ष­या­द­धि­का­र्थ­ज्ञा­न­व­ज्ज­न्यत्वं प्रमा­ण­वा­क्य­त्व­रू­प­हे­तुना साध्यते तथा च उक्त­व्या­प्ति­ब­लेन यत्र प्रमाणवाक्यत्वं तत्र स्ववि­ष­या­द­धि­का­र्थ­ज्ञा­न­व­ज्ज­न्य­त्व­मि­तीयं व्याप्तिः परि­ष्कृ­ते­त्य­भि­प्रा­ये­णा­त्रो­दा­हृ­तेति मन्तव्यम् ।

ननु वेदस्य सर्वा­र्थ­प्र­ति­पा­द­क­त्वेन ततोप्यधिकार्थ एव नास्तीति चेन्न । दश­वि­द्या­स्था­नेषु प्रति­पा­दि­ता­र्थ­प्र­का­श­क­त्व­मेव वेदस्य सर्वा­र्थ­प्र­का­श­क­त्व­मि­त्य­ङ्गी­का­रा­त्स­र्व­ज­न­व्य­व­हा­र­वि­ष­य­लौ­कि­का­र्थ­स्या­धि­कस्य सम्भवेन तत्क­र्तु­री­श्व­र­स्या­धि­का­र्थ­ज्ञा­न­वत्त्वं युक्त­मि­त्य­न­व­द्यम् । वृत्ता­नु­वा­द­पू­र्व­क­मस्य महतो भूत­स्ये­त्या­दि­श्रु­ते­रर्थं कथयन् भाष्या­न्व­य­प­रि­ष्का­रेण सर्व­ज्ञ­त्वा­दि­क­मा­वि­ष्क­रोति –
यद्य­ल्पा­र्थ­म­पीति ।

किमु वक्तव्यमिति भाष्य­स्यो­त्त­रे­णे­ति­प­दे­ना­न्वयं दर्शयति –
इति किमु वक्तव्यमिति ।
’अव­र्ज­नी­य­त­ये’त्या­दि­प्रा­क्तनो ग्रन्थः स्पष्टार्थः ।

अवर्जनीयतेति ।
नियमेनेत्यर्थः ।