अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

७ परिच्छेदः

अधुनेति ।
प्रथमसूत्रेण ब्रह्मणः जिज्ञा­स्य­त्व­मुक्त्वा द्वितीयसुत्रेण जिज्ञा­स्य­ब्र­ह्मणः लक्षणमुक्तम् । लक्षिते ब्रह्मणि किं प्रमाणमित्यधुना प्रमा­ण­जि­ज्ञा­सायां व्याख्या­ना­न्त­र­मा­हे­त्यर्थः ।

एकफलकत्वमिति ।
पूर्वो­त्त­रा­धि­क­र­ण­सू­त्रयोः ब्रह्म­नि­र्ण­य­रू­पै­क­फ­ल­कत्वं सङ्गतिरित्यर्थः ।

अधिकरणरचनार्थं विषयवाक्यमाह –
तं त्विति ।
शाकल्यम् प्रति याज्ञ­व­ल्क्ये­नो­क्त­मिदं वाक्यम् । तन्त्विति पद­च्छे­द­प­क्षेत्वा त्वां प्रति पृच्छा­मी­त्य­न्वयः । तं त्विति पदच्छेदपक्षोपि साधुरेवेति मन्तव्यम् । तं सकारणस्य हिर­ण्य­ग­र्भ­स्या­धि­ष्ठा­न­मि­त्यर्थः । औपनिषदं उपनिषदेकगम्यं पुरुषं पूर्णमित्यर्थः ।

कार्य­लि­ङ्गे­नै­वेति ।
जगत्सकर्तृकं कार्यत्वात् घटपटवदिति कार्य­त्व­लि­ङ्ग­केन लाघ­व­ज्ञा­न­स­ह­कृ­ते­ना­नु­मा­ने­नैव ईश्वरसिद्धिरिति पूर्वपक्षार्थः । किञ्चे­त्या­दि­प्रा­क्तनो ग्रन्थ­स्त्व­ति­रो­हि­तार्थः ।

विचित्रं जगदनेककर्तृकं विचि­त्र­का­र्य­त्वा­त्त­क्षा­द्य­ने­क­क­र्तृ­क­प्रा­सा­दा­दि­व­दिति सत्प्र­ति­प­क्षा­नु­मा­नेन लाघ­व­ज्ञा­न­स­ह­कृ­तै­क­क­र्तृ­क­त्वा­नु­मानं बाधितमित्याह -
किञ्च विचित्रेति ।

ईश्वरस्य सर्व­ज्ञ­त्वा­त्त­क्षा­दि­वै­ल­क्षण्यं स्यादि­त्या­श­ङ्का­मु­द्घाट्य परिहरति –
न चेति ।

ततस्तदिति ।
सर्व­ज्ञ­त्व­ज्ञा­ना­दे­क­त्व­ज्ञा­न­मि­त्यर्थः । अयं भावः । सर्व­ज्ञ­त्व­रू­प­हे­तु­सिद्धिः कथमित्युक्ते विचि­त्र­का­र्य­कर्ता सर्वज्ञः एकत्वादित्येवं एक­त्व­ज्ञा­ना­त्स­र्व­ज्ञ­त्व­ज्ञानं वक्तव्यम् , एक­त्व­रू­प­हे­तु­सिद्धिः कथमित्युक्ते विचि­त्र­का­र्य­कर्ता सर्वज्ञः एकः सर्व­ज्ञ­त्वा­दि­त्येवं सर्व­ज्ञ­त्व­ज्ञा­ना­दे­क­त्व­ज्ञानं वक्तव्यम् , तथा चान्योन्याश्रय इति ।

यावता तर्हीति पद­द्व­य­स्या­र्थ­क­थ­न­पू­र्व­क­म­न्व­य­मा­वि­ष्क­रोति –
येनेति ।
तथा च पौनरुक्त्यमिति भावः ।

केव­ल­प­द­स्या­र्थ­माह –
स्वात­न्त्र्ये­णेति ।
यद्यपि जन्मा­दि­सू­त्रा­क्ष­रै­र्ल­क्ष­ण­लि­ङ्ग­का­नु­मानं तत्सू­त्र­ता­त्प­र्येण शास्त्रस्य प्रामाण्यं च प्रतिपादितं तथाप्यक्षरैः प्रति­पा­दि­त­त्वा­द­नु­मा­न­मेव स्वत­न्त्र­प्र­मा­ण­मिति या शङ्का तन्निरासार्थं अक्षरैः शास्त्र­प्रा­मा­ण्य­प्र­ति­पा­द­नाय ’शास्त्र­यो­नि­त्वा­दि’त्यु­त्त­र­सूत्रं प्रवृत्तं भवति तस्मान्न पौनरुक्तिशङ्का नानुमानस्य स्वातन्त्र्येण प्रामाण्यशङ्का चेति भावः । शास्त्रा­नु­मा­नयोः प्रामा­ण्य­स्या­क्ष­र­प्र­ति­पा­दि­त­त्वा­च्छा­स्त्र­व­द­नु­मा­न­मपि स्वत­न्त्र­प्र­मा­ण­मिति न शङ्कनीयं अतीन्द्रियार्थे श्रुतिरेव स्वत­न्त्र­प्र­मा­ण­मि­त्यु­क्त­त्वा­दिति स्थितम् । ततश्चायं सूत्रार्थः – ब्रह्म शास्त्रप्रमाणं शास्त्रै­क­ग­म्य­त्वा­दिति ॥ ३ ॥