पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)
७ परिच्छेदः
अधुनेति ।
प्रथमसूत्रेण ब्रह्मणः जिज्ञास्यत्वमुक्त्वा द्वितीयसुत्रेण जिज्ञास्यब्रह्मणः लक्षणमुक्तम् । लक्षिते ब्रह्मणि किं प्रमाणमित्यधुना प्रमाणजिज्ञासायां व्याख्यानान्तरमाहेत्यर्थः ।
एकफलकत्वमिति ।
पूर्वोत्तराधिकरणसूत्रयोः ब्रह्मनिर्णयरूपैकफलकत्वं सङ्गतिरित्यर्थः ।
अधिकरणरचनार्थं विषयवाक्यमाह –
तं त्विति ।
शाकल्यम् प्रति याज्ञवल्क्येनोक्तमिदं वाक्यम् । तन्त्विति पदच्छेदपक्षेत्वा त्वां प्रति पृच्छामीत्यन्वयः । तं त्विति पदच्छेदपक्षोपि साधुरेवेति मन्तव्यम् । तं सकारणस्य हिरण्यगर्भस्याधिष्ठानमित्यर्थः । औपनिषदं उपनिषदेकगम्यं पुरुषं पूर्णमित्यर्थः ।
कार्यलिङ्गेनैवेति ।
जगत्सकर्तृकं कार्यत्वात् घटपटवदिति कार्यत्वलिङ्गकेन लाघवज्ञानसहकृतेनानुमानेनैव ईश्वरसिद्धिरिति पूर्वपक्षार्थः । किञ्चेत्यादिप्राक्तनो ग्रन्थस्त्वतिरोहितार्थः ।
विचित्रं जगदनेककर्तृकं विचित्रकार्यत्वात्तक्षाद्यनेककर्तृकप्रासादादिवदिति सत्प्रतिपक्षानुमानेन लाघवज्ञानसहकृतैककर्तृकत्वानुमानं बाधितमित्याह -
किञ्च विचित्रेति ।
ईश्वरस्य सर्वज्ञत्वात्तक्षादिवैलक्षण्यं स्यादित्याशङ्कामुद्घाट्य परिहरति –
न चेति ।
ततस्तदिति ।
सर्वज्ञत्वज्ञानादेकत्वज्ञानमित्यर्थः । अयं भावः । सर्वज्ञत्वरूपहेतुसिद्धिः कथमित्युक्ते विचित्रकार्यकर्ता सर्वज्ञः एकत्वादित्येवं एकत्वज्ञानात्सर्वज्ञत्वज्ञानं वक्तव्यम् , एकत्वरूपहेतुसिद्धिः कथमित्युक्ते विचित्रकार्यकर्ता सर्वज्ञः एकः सर्वज्ञत्वादित्येवं सर्वज्ञत्वज्ञानादेकत्वज्ञानं वक्तव्यम् , तथा चान्योन्याश्रय इति ।
यावता तर्हीति पदद्वयस्यार्थकथनपूर्वकमन्वयमाविष्करोति –
येनेति ।
तथा च पौनरुक्त्यमिति भावः ।
केवलपदस्यार्थमाह –
स्वातन्त्र्येणेति ।
यद्यपि जन्मादिसूत्राक्षरैर्लक्षणलिङ्गकानुमानं तत्सूत्रतात्पर्येण शास्त्रस्य प्रामाण्यं च प्रतिपादितं तथाप्यक्षरैः प्रतिपादितत्वादनुमानमेव स्वतन्त्रप्रमाणमिति या शङ्का तन्निरासार्थं अक्षरैः शास्त्रप्रामाण्यप्रतिपादनाय ’शास्त्रयोनित्वादि’त्युत्तरसूत्रं प्रवृत्तं भवति तस्मान्न पौनरुक्तिशङ्का नानुमानस्य स्वातन्त्र्येण प्रामाण्यशङ्का चेति भावः । शास्त्रानुमानयोः प्रामाण्यस्याक्षरप्रतिपादितत्वाच्छास्त्रवदनुमानमपि स्वतन्त्रप्रमाणमिति न शङ्कनीयं अतीन्द्रियार्थे श्रुतिरेव स्वतन्त्रप्रमाणमित्युक्तत्वादिति स्थितम् । ततश्चायं सूत्रार्थः – ब्रह्म शास्त्रप्रमाणं शास्त्रैकगम्यत्वादिति ॥ ३ ॥