पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)
८ परिच्छेदः
श्रुतीनां निर्गुणे यस्मिन् प्रामाण्यं प्रतिपाद्यते ।
तं कृष्णमस्मि प्रणतो राधाचित्तापहारिणम् ॥
’तत्तु समन्वयादि’त्युत्तरसूत्रमवतारयितुं अधिकरणमारच्यते । तत्र ’सदेव सोम्ये’त्यादिविषयवाक्यानि सिद्धवत्कृत्य भट्टमतरीत्या पूर्वपक्षरचनार्थं संशयं प्रतिपादयति –
वेदान्ता इति ।
’सदेव सोम्ये’त्यादिवेदान्ता इत्यर्थः । सिद्धब्रह्मपरत्वे तेषां निष्फलत्वसापेक्षत्वयोः प्रसङ्गः अयमर्थोनुपदं स्फुटीक्रियते । कार्यपरत्वे तयोरप्रसङ्गः, तथा हि – धर्मे प्रत्यक्षादीनां प्रामाण्याभावात् प्रत्यक्षादिमानान्तरानपेक्षत्वं फलवत्त्वं च शास्त्रसिद्धमिति निष्फलत्वमानान्तरसापेक्षत्वयोः प्रसक्तिरेव नास्तीति भावः ।
पूर्वसूत्रे इति ।
शास्त्रयोनित्वादिति । पूर्वसूत्रे इत्यर्थः ।
पूर्वपक्षमाहेति ।
ज्ञानमुपासनाहेतुः मोक्षस्तु सत्यकामः सत्यसङ्कल्प इत्यादिगुणविशिष्टं ब्रह्म नास्त्येवेति भट्टमतं तद्रीत्या पूर्वपक्षमाहेत्यर्थः ।
’सदेव सोम्येत्या’दि श्रुतिशास्त्रप्रथमाध्यायप्रथमपादैः ’तत्तु समन्वयादिति’ सूत्रस्य सङ्गतिं दर्शयति –
सदेव सोम्येति ।
श्रुतीनां यः समन्वयस्तात्पर्येण बोधकत्वं तस्योक्तेः प्रतिपादनादित्यर्थः । सर्वात्मत्वादित्यनेन श्रुतिसूत्रयोः सर्वात्मत्वादिरूपैकार्थबोधकत्वरूपा सङ्गतिर्दर्शिता । स्पष्टब्रह्मलिङ्गानामिति – विशेषणेन स्पष्टब्रह्मलिङ्गकश्रुत्यर्थप्रतिपादकत्वरूपा पादसङ्गतिरुक्ता, ब्रह्मणीत्यनेन सूत्रशास्त्रयोः एकार्थकत्वरूपा सङ्गतिः प्रदर्शिता । सूत्रपक्षत्वेन ब्रह्मबोधकं शास्त्रं तु शास्त्रार्थत्वेन ब्रह्मप्रतिपादकमिति विवेकः । समन्वयोक्तेरित्यनेन सूत्राध्याययोः समन्वयरूपैकार्थप्रतिपादकत्वं सङ्गतिरित्युक्तम् ।
वेदान्तेष्विति ।
वेदान्तेषु मुमुक्षोः न प्रवृत्तिः किन्तु पूर्वमीमांसायां प्रवृत्तिरिति भावः ।
भाष्ये
शास्त्रप्रमाणकत्वमच्यत इति ।
कथमुच्यत इत्यन्वयः ।
नन्वयमाक्षेपः किं निबन्धन इति जिज्ञासायां जैमिनिसूत्रप्रामाण्यादित्याह –
यावतेति ।
अतदर्थानामित्यन्तं सङ्ग्रहवाक्यमर्थवादानां प्रामाण्यं नास्तीति पूर्वपक्षप्रतिपादकम् क्रियापरत्वमित्यादिवाक्यं सिद्धान्तप्रतिपादकमिति विभागः ।
व्याख्याने
कथमित्याक्षेप इति ।
कथमिति थमुप्रत्ययान्तः किंशब्दः आक्षेपार्थ इति भावः ।
यावतेतिपदस्यार्थमाह –
यत इति ।
आनर्थक्यपदस्यार्थमाह –
फलवदिति ।
सूत्रस्येति ।
’आम्नायस्य क्रियार्थत्वादि’त्यादिसूत्रस्येत्यर्थः ।
आम्नायस्येत्यादिसूत्रस्यार्थकथनार्थं तत्सङ्गत्या तत्पूर्वसूत्रपरिष्कृतार्थं क्रमेण स्फुटयति –
प्रथमसूत्रे इत्यादिना ।
’अथातो धर्मजिज्ञासे’ति प्रथमसूत्र इत्यर्थः ।
अथ वेदाध्ययनानन्तरं अतः वेदस्य फलवदर्थपरत्वात् धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इत्येवं पदानामर्थमभिप्रेत्य फलितार्थमाह –
प्रथमेति ।
अध्ययनं गुरूच्चारणानुच्चारणं तत्कर्णिकायां भावना आवृत्तिरूपो व्यापारविशेषः तत्प्रतिपादको यः ’स्वाध्यायोऽध्येतव्य’ इति विधिः तद्भाव्यस्य तत्कर्मिभूतस्य वेदस्येत्यर्थः । तथा च स्वाध्यायात्मकवेदमुद्दिश्य विधिः प्रवर्तत इति वेदस्य विधिकर्मत्वमिति भावः फलवान् योर्थः धर्माधिकार्यरूपः तत्परत्वमित्यर्थः ।
चोदनेति ।
चोदना विधिवाक्यं लक्षणं प्रमाणं यस्मिन्स तथेत्यर्थः । अर्थः प्रयोजनवानित्यर्थः । तथा च चोदनाप्रमाणकत्वे सति फलहेतुकर्मत्वं धर्मत्वमिति भावः ।
अवसितमिति ।
निर्धारितमित्यर्थः । प्रामाण्ये सति वेदवाक्यत्वं यत्र तत्र फलवदर्थपरत्वमिति द्वितीयसूत्रेण व्याप्यव्यापकभावो निर्धारित इति भावः ।
पूर्वतन्त्रस्थप्रथमाध्यायगतद्वितीयपादनिष्ठ ’विधिना त्वेकवाक्यत्वादि’त्यादिसिद्धान्तसूत्रमवतारयितुं अधिकरणमारचयति –
तत्रेति ।
व्याप्तौ निर्धारितायामित्यर्थः ।
’वायुर्वै क्षेपिष्ठे’त्यादिविषयवाक्यं सिद्धवत्कृत्य पूर्वपक्षरचनार्थं संसयमाह –
वायुर्वै क्षेपिष्ठेति ।
’आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते’ इति पूर्वपक्षसूत्रस्यार्थमाह –
आम्नायेत्यादिना ।
आम्नायस्येति पदस्य फलितार्थमाह –
आम्नायप्रामाण्यस्येति ।
वेदप्रामाण्यस्येत्यर्थः ।
क्रियार्थत्वादिति पदस्य तात्पर्यमाह –
क्रियेति ।
अप्रतीतेरिति ।
साक्षादप्रतीतेरित्यर्थः । अर्थवादानां साक्षाद्धर्मबोधकत्वाभावादिति भावः ।
’तस्मादनित्यमुच्यत’ इति सूत्रांशमवतारयितुमध्ययनविध्युपात्तत्वादर्थवादानां सिद्धे प्रामाण्यं स्यादित्याशङ्क्य निष्फलत्वान्नेति परिहरति –
नचेति ।
अर्थकथनार्थं सूत्रांशं ग्रुह्णाति –
तस्मादिति ।
फलवदर्थपरत्वरूपव्यापकाभावादित्यर्थः ।
अनित्यपदस्य तात्पर्यार्थं सूचयति –
नास्त्येवेति ।
भाष्यस्थाम्नायस्येत्यादिसूत्रसङ्ग्रहवाक्यापेक्षितं पूरयति –
अनित्यं प्रामाण्यमिति ।
दर्शितमिति ।
क्रियापरत्वं दर्शितमित्यर्थः ।
स्तुत्याकारप्रदर्शनपूर्वकं सिद्धान्तसूत्रं व्याचष्टे –
वायुरिति ।
वायोः शीघ्रगमनवत्त्वात्तद्देवताकं कर्म शीघ्रमेव फलं प्रयच्छतीति भावः ।
वायव्यमिति ।
वायुदेवताकेन श्वेतगुणविशिष्टपशुद्रव्यकेन यागेनेष्टं भावयेदित्यर्थः ।
स्तुतिलक्षणयेति ।
अर्थवादानां लक्षणया स्तुतिबोधकत्वं स्तुतिद्वारा विध्येकवाक्यत्वेन फलवदर्थबोधकत्वादित्यर्थः ।
वेदान्ती शङ्कते –
नन्विति ।
कार्यशेषेति ।
कर्तृदेवतयोः शेषत्वं फलस्य तूद्देश्यत्वमिति विवेकः । वेदान्तानां न साक्षात्कार्यबोधकत्वं किन्तु कार्यशेषबोधकत्वद्वारा फलवदर्थरूपकार्यबोधकत्वं तस्मान्नानर्थक्यमिति भावः ।
तत्र त्वमिति ।
वेदान्तेषु जीवबोधकपदानां सर्वेषां कर्तृत्वं ब्रह्मबोधकपदानां तु देवताबोधकत्वम् , तथा च जीवः कर्ता ब्रह्म तु देवतेति कर्ममाहात्म्यं किं वक्तव्यमिति तत्त्वम्पदार्थवाक्यानां कर्तृदेवताविषयकस्तुतिजनकत्वमिति भावः ।
विविदिषादिवाक्यानामिति ।
’तमेतं वेदानुवचनेने’त्यादिविविदिषावाक्यानामित्यर्थः । यद्यपि भट्टमते स्वर्गादिरेव फलं कर्मणः न ब्रह्मज्ञानं तथापि स्तोत्रार्थं कर्मणः ब्रह्मज्ञानमपि फलमिति ब्रह्मज्ञानरूपफलविषयकस्तुतिजनकत्वेन विविदिषावाक्यानामुपपत्तिरिति भावः । यद्वा कर्मणः कर्ता जीवः देवता तु ब्रह्मज्ञानमिति कर्तृरूपजीवादिमाहात्म्यं किं वक्तव्यमित्येवं कर्त्रादिस्तावकत्वं वाक्यानामिति भावः । प्रथमव्याख्याने जीवकर्तृकत्वेन कर्मस्तुतिः द्वितीये कर्मकर्तृत्वेन जीवस्तुतिरिति भावः । एवमन्यत्र योजनीयम् । अन्यत्प्रकरणं प्रकरणान्तरं तथा च कर्मकाण्डाद्भिन्नब्रह्मकाण्डाधीतानामित्यर्थः ।
मानाभावादिति ।
विध्येकवाक्यत्वाभावेन मानाभावादिति भावः ।
असद्ब्रह्मेति ।
यद्यपि भट्टमते ब्रह्मासदेव तथापि जीवे तदभेदमारोप्येत्यर्थः । अथवा ब्रह्म तिष्ठतु वेदान्तेषु तथा च जीवब्रह्मणोरसदभेदमारोप्येत्यर्थः ।
उपासीतेति ।
’अहं ब्रह्मास्मी’त्यत्र उपासीतेति विधिः कल्पनीय इत्यर्थः । ’अहं ब्रह्मे’त्यभेदमारोप्योपासना विधीयते तथा चोपासनारूपकार्यान्तरस्तुतिद्वारा कल्पितविध्येकवाक्यत्वेन वेदान्तानां फलवदर्थबोधकत्वान्नानर्थक्यमिति भावः ।
आदिशब्दादिति ।
उपासनेन फलं जायते जायमानफलमेतादृशमिति ज्ञानार्थं श्रवणं मननं चावश्यकमिति श्रवणादिरूपकार्यपरत्वाद्वेदान्तानां नानर्थक्यमिति भावः ।
वेदान्ती शङ्कते –
नन्विति ।
अज्ञातस्य वेदेनेति ।
अज्ञातस्य ज्ञापको वेदस्तेनेत्यर्थः । अज्ञातस्य ज्ञापकवेदेन ज्ञातवस्तुप्रतिपादनं न सम्भवतीति भावः ।
अत्र सदृष्टान्तं हेतुमाह –
मानान्तरेति ।
भेषजमिति वाक्यवत् यूप इति वाक्यवत् वेदवाक्येन प्रतिपादनं न सम्भवतीति पूर्वेणान्वयः ।
संवादे सतीति ।
बोधकत्वे सतीत्यर्थः । वेदवाक्यस्य मानान्तरसिद्धवस्तुबोधकत्वाङ्गीकारे अनुवादकत्वादप्रामाण्यं स्यादतः सिद्धबोधकत्वं न सम्भवतीति भावः ।
अग्निरिति ।
अग्नेर्हिमनाशकत्वं प्रत्यक्षप्रमाणसिद्धं पुनः शब्दसमुदायरूपवाक्यमपि तदर्थबोधकं चेदनुवादकं भवति तद्वदित्यर्थः ।
विसंवाद इति ।
बोधकत्वाभावे सतीत्यर्थः । वेदवाक्यस्य अनुवादकत्वभिया सिद्धवस्तुबोधकत्वानङ्गीकारे कार्यबोधकत्वस्याप्यनङ्गीकारेणाबोधकत्वात् ब्रह्मप्रतिपादकत्वं सुतरां न सम्भवतीति भावः । अथवा विसंवादे प्रमाणान्तरेण विरोधे प्राप्ते सतीत्यर्थः । आदित्यो यूपो नेति भेदग्राहिप्रत्यक्षेण विरोधात् यूप इति वाक्यस्याबोधकत्वं यथा तथा नाहं ब्रह्मेति भेदग्राहिप्रत्यक्षेण विरोधात् अहं ब्रह्मेति वाक्यस्याबोधकत्वमिति भावः ।
भाष्यपरिष्कृतभासमानं स्फोरयति –
सिद्ध इति ।
तथेति ।
सिद्धो न वेदार्थ इत्याहेत्यर्थः ।
उपादेययोगो अन्नुष्ठानरूपाप्रवित्तिर्जायते तया सुखप्राप्तिरूपफलमुत्पद्यते न सिद्धज्ञानादनुष्ठानद्वारा फलं तस्मात्सिद्धबोधकत्वेन निष्फलत्वमेव तथा हेयेपीत्युभयमाह –
फलं हीति ।
प्रवृत्तिनिवृत्तिभ्यामिति ।
प्रवृत्तिशब्देनानुष्ठानादिकमुच्यते निवृत्तिशब्देन तूष्णीम्भावः ।
अधर्मान्निवृत्तोहमित्यनुभवेन निवृत्तिपरिपाल्यप्रागभावयोगित्वनिवृत्तिप्रयत्नकार्यत्वमित्याह –
निवृत्तिप्रयत्नकार्यस्येति ।
प्रयत्नो द्विविधः प्रवृत्तिरूपो निवृत्तिरूपश्चेति, तथा च निवृत्तिरूपो यः प्रयत्नः तत्कार्यस्येत्यर्थः । निवृत्तिप्रयत्नेन अनादिसिद्धः अधर्मप्रागभावस्तथैव तिष्ठतीत्येतावता सुरापानादिरूपाधर्मे निवृत्तिरूपप्रयत्नकार्यत्वव्यवयहारः, तथा च हेये निवृत्तिप्रयत्नकार्यत्वज्ञानात्तूष्णीम्भावरूपा निवृत्तिर्जायते तया नरकादेरभावाद्दुःखहानरूपफलमुत्पद्यते न सिद्धज्ञानादिति भावः । ननु घटज्ञानस्य सिद्धज्ञानत्वात्तेन फलाभावप्रसङ्ग इति चेन्न । घटादेरप्यर्थक्रियाविशिष्टत्वेन तन्मते साध्यत्वाङ्गीकारादिति मन्तव्यम् ।
सङ्ग्रहवाक्यमिति ।
सङ्ग्रहवाक्यगतानर्थक्यमतदर्थानामित्यंशं विवृणोतीत्यर्थः ।
’सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्रु अशीयत तद्रजतं हिरण्यमभवत्तस्माद्रजतं हिरण्यमदक्षिण्यमश्रुजं हि यो बर्हिषि ददाति पुरास्य संवत्सराद्गृहे रुदन्ती’ति वाक्यमर्थतः पठति –
देवैरिति ।
अश्रुजरजतस्य बर्हिषि दाने संवत्सरात्पुरा गृहे रोदनं भवतीति रोदनाभावात्मकानिष्टनिवृत्ति रूपफलसहितः रजतस्य देवनिरुद्धाग्नेरश्रुजन्यत्वेन निन्दितत्वाद्रजतदक्षिणाकयागं न कुर्यादिति निषेधो यस्तच्छेषत्वं ’सोरोदीदि’त्यादिवाक्यस्य यथा तद्वदित्यर्थः ।
दृष्टान्तेति ।
मन्त्राणां स्वातन्त्र्यमेव नास्तीत्याहेत्यर्थः । अविशिष्टस्तु वाक्यार्थ इति ।
पूर्वतन्त्रस्थसिद्धान्तसूत्रमवतारयितुमधिकरणमारचयति –
प्रमाणलक्षण इति ।
प्रथमाध्याय इत्यर्थः ।
चिन्ता कृतेति ।
प्रामाण्यचिन्ता कृतेत्यर्थः ।
विषयवाक्यप्रतिपादनद्वारा चिन्ताबीजं दर्शयति –
इषेत्वेति ।
अस्यार्थः – हे शाखे इषे फलरूपान्नायं त्वा त्वां छिनद्मि छेदनं करोमीति । मन्त्राणां क्रियातत्साधनदेवताप्रकाशकत्वं तूपकारत्वं च प्रतीयते तस्माच्चिन्ता युक्तेति भावः ।
पूर्वपक्षरचनार्थं संशयं प्रतिपादयति –
ते चेति ।
अध्ययनकालेति ।
अध्ययनकाले अवगतो यो मन्त्रार्थः तद्विषयस्मृतेः ’सदृशादृष्टचिन्ताद्या स्मृतिबीजस्य बोधका’ इति श्लोकोक्तचिन्तादिनापि प्रयोगकाले सम्भवादुच्चारणमात्रेणादृष्टद्वारा मन्त्राणां क्रतूपकारकत्वमिति पूर्वपक्षार्थः ।
वाक्यार्थस्येति ।
शाब्दबोधस्येत्यर्थः ।
मन्त्राणां दृष्टस्वार्थप्रकाशनद्वारा क्रत्वङ्गत्वे सिद्धे नियमस्य प्रयोजनमाह –
मन्त्रैरेवेति ।
यद्यपि मन्त्रैरेव जनितेन मन्त्रार्थस्मरणेन क्रतूत्पादकमदृष्टमुत्पद्यते तथापि मन्त्राणामदृष्टद्वारा न हेतुत्वं किन्तु अदृष्टहेतुमन्त्रार्थस्मरणरूपदृष्टार्थद्वारा हेतुत्वमिति सिद्धान्तार्थः ।
स्तुतिपदार्थेति ।
स्तुतिरूपो यः पदार्थः तद्द्वारेत्यर्थः । पदैकवाक्यत्वमर्थवादरूपपदस्य विधिबोधकवाक्येनैकवाक्यत्वं पदैकवाक्यत्वमित्यर्थः । विधिभिः विधिबोधकवाक्यैरित्यर्थः । अन्वितत्वेनेति शेषः । ’वायुर्वै क्षेपिष्ठे’ति अर्थवादपदानां स्वार्थे तात्पर्याभावादवान्तरवाक्यार्थाभावेन लक्षणया स्तुतिसमर्पकत्वद्वारा “वायव्यं श्वेतमालभेतेति” विधिबोधकवाक्येनान्वयात्पदैकवाक्यत्वं तस्मान्न स्वातन्त्र्यमिति भावः ।
मन्त्राणान्त्विति ।
तैर्विधिवाकयैरित्यर्थः । अन्वितत्वेनेति शेषः । मन्त्राणां तु स्वार्थस्य सत्त्वादवान्तरवाक्यार्थज्ञानद्वारा विधिबोधकमहावाक्येनान्वयाद्वाक्यैकवाक्यत्वमतो न स्वातन्त्र्यमिति भावः ।
कर्मसमवायित्वमिति ।
कर्मविधिशेषत्वमिति भाष्यार्थः ।
न क्वचिदिति ।
’अतो न क्वचिदिति प्रतीकग्रहणे युक्ते सति न क्वचिदिति प्रतीकग्रहणं लेखदोषादिति विभावनीयम् । व्याप्तेः सत्त्वमतःशब्दार्थः ।
भाष्यपरिष्कृतमनुमानं ज्ञापयति –
वेदान्ता इति ।
सिद्धार्थावेदकत्वादिति ।
सिद्धार्थबोधकत्वादित्यर्थः ।
अन्यत्रेति ।
विधिसंस्पर्शमन्तरेणार्थवत्तेति शेषः ।
न केवलमनुमानं किन्तु यदि विध्यैकवाक्यत्वेनार्थवत्त्वं न स्यात्तर्हि फलाभावेन वाक्यस्य सिद्धार्थबोधकत्वमपि न स्यादित्यनुकूलतर्कोप्यनुमानमस्तीत्यभिपेत्याह –
सिद्धे फलेति ।
तर्हीति ।
विध्येकवाक्यत्वं विना अर्थवत्त्वाभावश्चेदित्यर्थः ।
अलमिति ।
कृतमिति । पाठेप्यलमित्येवार्थः ।
सिद्धस्य दध्नः क्रियासाधनत्वविशिष्टत्वात्साध्यत्वं युक्तं न तु ब्रह्मण इत्याह –
दध्नः क्रियेति ।
प्रयुज्यमानतयेति ।
साधनकोटिप्रविष्टतयेत्यर्थः ।
असाध्यत्वादिति ।
अप्रयुज्यमानत्वेनासाध्यत्वादित्यर्थः ।
स्वयमेवेति ।
प्रथमपक्षमुपसंहृत्य स्वयमेवारुचिं वदन् द्वितीयपक्षमप्युपसंहरतीत्यर्थः ।
भाष्ये
पक्षव्यावृत्त्यर्थ इति ।
पक्षपदं पूर्वपक्षपरम् , वेदान्तवाक्यादिति । वेदान्तशास्त्रादित्यर्थः ।
व्याख्याने –
प्रतिज्ञान्तर्गतमेवेति ।
पक्षान्तर्गतमेवेत्यर्थः । सम्पदस्य हेत्वन्तर्गतत्वे ’यत्परः शब्दः सशब्दार्थ’ इति न्यायेन अन्वयरूपतात्पर्यादेवाखण्डत्वे सिद्धे सम्पदस्य प्रयोजनाभावः । पक्षान्तर्गतत्वे तु सगुणब्रह्मव्यावृत्त्या अर्थान्तरवारकत्वं सम्भवति तथा च शबलव्यावृत्तिः प्रयोजनमिति भावः ।
अखण्डार्थकसम्पदं सूत्रस्थतत्पदस्य विशेषणं तथा च सम् अखण्डं तत् ब्रह्म वेदान्तप्रमाणकम् अन्वयादिति सूत्रार्थमभिप्रेत्य सूत्रगर्भितमनुमानमाह –
तथा चेति ।
असंसृष्टत्वमिति ।
इतरपदार्थासम्बन्धित्वमित्यर्थः । ब्रह्मणः वाक्यार्थस्याखण्डत्वमितरपदार्थाविशिष्टत्वमिति भावः । तदुक्तं श्रीकल्पतरुकारैः –
अविशिष्टमपर्यायानेकशब्दप्रकाशितम् ।
एकवेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥
इति । निष्णाताः निष्ठापरा इत्यर्थः ।
स्वपदेति ।
स्वशब्देन वाक्यमुच्यते तथा च वाक्यस्थपदोपस्थापिता इत्यर्थः । संसर्गः परस्परान्वयरूपसम्बन्धः । तदविषयिणी या अखण्डब्रह्मविषयिणी च प्रमा तज्जनकत्वमित्यर्थः ।
दृष्टान्तासिद्धिमाशङ्क्य परिहरति -
न चेदमिति ।
सामान्यतश्चन्द्रज्ञानवता केनचित्कश्चित्पृष्टः अस्मिन् ज्योतिर्मण्डले कश्चन्द्रनामेति तस्य प्रतिवचनं प्रकृष्टेत्यादिवाक्यमित्यभिप्रेत्याह –
प्रकृष्टेति ।
इदं पदं हेतुगर्भविशेषणम् , प्रकाशविशेषः चन्द्रपदवाच्य इत्यर्थः । आदिशब्देन सोयं देवदत्त इत्यादिवाक्यं गृह्यते । अयमाशयः । प्रकृष्टशब्दः लक्षणया प्रकर्षगुणाभिधानमुखेन प्रकाशविशेषे वर्तते, प्रकाशशब्दश्च सामान्याभिधानमुखेन लक्षणया व्यक्तिविशेषे वर्तते, तत्र गुणसामान्ययोश्चन्द्रपदवाच्यत्वाभावाज्जहल्लक्षणया तदुभयं परित्यज्य तत्समवायिप्रकाशविशेष एव चन्द्रपदाभिधेयतया समर्प्यत इति प्रकष्टप्रकाशचन्द्रशब्दानामेकर्थता सिद्धा, तथा च वाक्यस्य चन्द्रव्यक्तिमात्रे लक्षणाङ्गीकारान्न विशिष्टपरत्वं तस्माच्चन्द्रव्यक्तिमात्रविषयकत्वं प्रमायाः न परस्परं संसर्गविषयकत्वमिति । वाक्यवृत्तिव्याख्याने रामानन्दीये विस्तरेणायमर्थः प्रतिपादितः । तथाहि – न तावद्वाक्यस्य संसृष्टार्थकत्वनियमः प्रकृष्टप्रकाशश्चन्द्र इति वाक्ये व्यभिचारत् , तथाहि अस्मिन् ज्योतिर्मण्डले कश्चन्द्रनामेति प्रश्नस्योत्तरं प्रकृष्टप्रकाशश्चन्द्र इति वाक्यम् , तत्र न तावच्चन्द्रस्य प्रकृष्टप्रकाशसर्गोर्थः न हि तत्र संसर्गांशो जिज्ञासितः किं संसर्ग इति प्रश्नानुपपत्तेः, नापि प्रकृष्टप्रकाशरूपः संसर्गनिरूपितः प्रकारो जिज्ञासितः तदा कीदृश इति प्रश्नौचित्यात् । न चोत्तरसामर्थ्यात्किंशब्दस्य कीदृशी लक्षणेति वाच्यम् । अनपपत्त्यभावादुत्तरस्याखण्डार्थत्वनोपपत्तेः । न चोत्तरस्य सर्वपदलक्षणां विना अखण्डार्थबोधायोगात् ततो वरं किंशब्दस्यैकस्यैव लक्षणेति वाच्यम् । एकस्याप्युक्रमस्थत्वादसञ्जातविरोधित्वेन मुख्यार्थतौचित्यात्तदनुरोधेन इतरपदानां शक्त्यैकदेशादानलक्षणभागलक्षणया गौरवानावहतावत् । एतेन चन्द्रपदस्य चन्द्रपदवाच्ये लक्षणया कश्चन्द्रपदवाच्य इत्यर्थः प्रश्नः, उत्तरं च प्रकृष्टप्रकाशश्चन्द्रपदवाच्य इत्यर्थः क इति निरस्तम् । प्रश्नोत्तरस्थचन्द्रपदद्वयस्य सर्वदा मुख्यार्थत्यागेन गुरुघटितजहल्लक्षणापेक्षया बहूनामपि वाच्यैकदशमादाय लघुतरजहदजहल्लक्षणया जातिशक्तिमते शक्तितुल्यनिरूढलक्षणया अखण्डार्थकत्वस्यैव न्याय्यत्वात् । अत एव चन्द्रस्य चन्द्रेतरव्यावर्तकवति वा लक्षणया प्रश्नोत्तरसामानाधिकरण्यं निरस्तम् , चन्द्रेतरव्यावृत्तत्वादिना जिज्ञासायाः प्रश्नस्य तदुत्तरार्थबोधस्य च चन्द्रज्ञानाधीनत्वेन परस्पराश्रयाच्च । चन्द्रो नाम कश्चिच्चन्द्रपदवाच्यः चन्द्रत्वजातिमान् चन्द्रेतरव्यावृत्त इत्यादिकं जानामि चन्द्रं परं न जानामि तमेव जिज्ञास इति चन्द्रमात्रज्ञानजिज्ञासयोः स्पष्टमनुभवाच्च । न च तर्हि उत्तरे प्रकृष्टप्रकाशग्रहणमयुक्तं अजिज्ञासितत्वादिति वाच्यम् । तेन विना चन्द्र इत्येतावता तज्जिज्ञासानिवर्तकबोधस्य जनयितुमशक्यतया तद्वैशिष्ट्यबोधद्वारा तज्जननायावान्तरतात्पर्येण तद्ग्रहणात् परमतात्पर्यं तु चन्द्रैकबोध इति किमयुक्तम् । अथ तादृशबोधद्वये मानाभावः, शक्त्या जनितमुख्यार्थान्वयबोधस्य पुनर्लक्षणया पुनर्बोधान्तरजनने शब्दस्य व्यापारापत्तिश्चेति चेन्न । लक्षणवाक्याच्चन्द्रे असाधारणधर्मवैशिष्ट्यमवगत्य तद्द्वारा चन्द्रं ज्ञातवानस्मीति सार्वजनीनानुभवसिद्धत्वान्मुख्यतात्पर्यविषयबोध एव विरम्य व्यापारस्य दोषत्वात् , अर्थवादवाक्यानां शक्त्या स्वार्थबोधजननद्वारैव लक्षणया प्राशस्त्यबोधकत्वाच्च । ननु वाक्यादसाधारणधर्मज्ञानानन्तरं तेन लिङ्गेन चन्द्रस्वरूपानुमितिरेव अनुभूयत इति चेन्न । चन्द्रपक्षकस्य चन्द्रसाधकस्य वा अनुमानस्य चन्द्रज्ञानाधीनत्वात्ततः प्रागनुमानानुदयत्तज्ज्ञानस्य च वाक्येनैव नियतत्वाद्वक्यस्य च प्रकृष्टप्रकाशसंसर्गादिपरत्वे प्रागुक्तरीत्या अजिज्ञासितार्थत्वापत्तेः, जिज्ञासितस्वरूपमात्रपरत्वे चाखण्डार्थत्वसिद्धिः । अथ चन्द्रं नभो न जानामीत्यनुभवस्य चन्द्रत्वविशिष्टविषयकत्वात् तज्जिज्ञासायाश्च तथात्वात्प्रश्नोत्तरयोश्चन्द्रपदस्य चन्द्रत्वविशिष्टपरत्वावश्यम्भावे कुतस्तस्याखण्डार्थतेति चेन्न । उत्तरस्थचन्द्रपदस्य विशिष्टपरत्वे विशिष्टशरीरघटकविशेषणीभूतचन्द्रत्वतत्संसर्गयोः प्रकृष्टप्रकाशस्याभेदान्वयबाधाल्लक्षणया चन्द्रत्वोपलक्षितव्यक्तिमात्रपरत्वावश्यम्भावे तत्समानार्थकत्वाय प्रश्नगतचन्द्रपदस्यापि लक्षणया तन्मात्रपरत्वौचित्यात् । अत एव दर्शिताज्ञानानुभवजिज्ञासयोरपि तदेकविषयत्वावसायात् । अन्यथा अज्ञानजिज्ञाप्रश्नानां विशिष्टविषयत्वम् उत्तरस्य व्यक्तिमात्रविषयत्वमिति वैरूप्यापत्तेः विशेषणाद्यंशे पुनः प्रश्नान्तरापत्तेश्च । ननु प्रकृष्टप्रकाशस्य चन्द्रव्यक्तावभेदेनान्वयाच्चन्द्रत्वे च स्वभिन्नसमवेतत्वसम्बन्धेन अन्वयात् तत्संसर्गरूपे समवाये स्वभिन्नविशेषणतासम्बन्धेनान्वयादुत्तरमपि विशिष्टपरमेवेति चन्द्रत्वतत्संसर्गगोचरजिज्ञासायाः शान्तत्वात्प्रश्नान्तरानवसर इति चेन्न । तत्र सम्बन्धत्रयेणान्वयत्रयस्याननुभवपराहतत्वात् ’नोपसर्जनमुपसर्जनान्तरेणान्वेतीति’ न्यायविरोधाच्च । न चैवमपि लक्ष्यतावच्छेदकचन्द्रत्ववैशिष्ट्यानपाय इति वाच्यम् । चन्द्रत्वस्योपलक्षणतयैवातिप्रसङ्गवारकत्वे विशेषणत्वानपेक्षणात् । स्यादेतत् , विषयविशेषाभावेपि प्रश्नहेतुज्ञानान्नाज्ञाननिवृत्तिः उत्तरजन्यज्ञानात्तन्निवृत्तिरित्यत्र किं नियामकमिति चेत् । आद्योपदेशजन्यासाधारणधर्मवैशिष्ट्यधीरूपसहकार्यसमवधानसमवधाने एवेति गृहाण । अत एव व्यक्तिमात्रबोधस्य वाक्येन साक्षाल्लक्षणया जननसम्भवे अवान्तरतात्पर्येण द्वारभूतबोधान्तरस्वीकारो व्यर्थ इति निरस्तम् ।
प्रकृष्टप्रकाशत्ववैशिष्ट्यधीद्वारं विना जनितव्यक्तिमात्रबोधस्यापकृष्टप्रकाशव्यावृत्तविलक्षणविषयताया अलाभात् , न हि चन्द्रव्यक्तिमात्रगोचरं चाक्षुषज्ञानं प्राग्जातमपि तदज्ञाननिवर्तकमासीत् , तदित्थं यथा ’प्रकृष्टप्रकाशश्चन्द्र’ इति वाक्यं चन्द्रस्य स्वरूपलक्षणपरमखण्डार्थकं तथैव ’सत्यं ज्ञानमनन्तं ब्रह्मेति’ वाक्यमुपसंहृतानन्दादिपदकदम्बकं ब्रह्मणः स्वरूपलक्षणपरमखण्डार्थकम् , तथा च प्रकृष्टप्रकाशादिपदैः प्रकृष्टत्वाद्युपलक्षितशुद्धचन्द्रव्यक्तिरिव सत्यादिपदैः सत्यत्वाद्युपलक्षितकेवलसच्चिदान्दैकरसब्रह्मव्यक्तिर्लक्ष्यत इत्यखण्ड एव वाक्त्यार्थः संसृष्टरूप इति । अत्र प्रकृष्टत्वविशिष्टप्रकाशविशेषः प्रकृष्टपदवाच्यार्थः प्रकाशत्वविशिष्टप्रकाशविशेषः प्रकाशपदवाच्यार्थः चन्द्रत्वविशिष्टप्रकाशविशेषः चन्द्रपदवाच्यार्थः, एवं च जहदजहल्लक्षणया पदत्रयं चन्द्रव्यक्तिमात्रबोधकं भवति यथा तथैव सत्त्वादिपदजातं जहदहल्लक्षणया ब्रह्ममात्रबोधकमिति विज्ञेयम् । सत्यादिपदानां वाच्यार्थस्तु पुरस्तादेवोपपादितः । सत्यादिवाक्यं विशिष्टार्थपरत्वरहितं लक्षणवाक्यत्वात् प्रकृष्टप्रकाशादिवाक्यवदिति प्रयोगमभिप्रेत्याह – तथा च सत्यज्ञानादिपदैरिति ।
अद्वितीयाखण्डेति ।
वेदान्तानामखण्डे ब्रह्मणि तात्पर्यं नामाखण्डप्रमितिजनकत्वरूपशब्दधर्म एव तस्य निश्चयादित्यर्थः । तथा च ब्रह्मणि तात्पर्यनिश्चयविषयत्वं तस्मान्न हेत्वसिद्धिरिति भावः ।
उपक्रममिति ।
उपक्रमादिषड्विधलिङ्गानां मध्ये उपक्रमं दर्शयतीत्यर्थः ।
एवकारेणेति ।
प्राथमिकेन एवकारेणेत्यर्थः ।
पदत्रयमिति ।
यद्यप्यद्वितीयमित्यनेन सजातीयादित्रितयनिरासो वक्तुं शक्यते तथापि श्रुतितात्पर्यानुरोधेन पदप्रयोजनमुच्यते अन्यथा इतरपदवैयर्थ्यं स्यादिति भावः ।
अनुप्रविश्येति ।
व्यापकस्य प्रवेशाभावादर्थवाद इति भावः ।
प्रकृतिव्यतिरेकेणेति ।
उपादानकारणव्यतिरेकेणेत्यर्थः ।
व्यस्तानीति ।
एकं द्वयं त्रयं वा तात्पर्यग्राहकं भवतीति भावः । समस्तानि मिलितानीत्यर्थः । बहुत्वं तु दार्ढ्यसम्पादकमिति भावः ।
तच्छब्दापेक्षितं पूरयति –
मायाभिर्बहुरूपमिति ।
ऋग्यजुरिति ।
’आत्मा वा इदमेकमेवे’त्यादिकं ऋग्वाक्यं ’तदेतद्ब्रह्मे’त्यादिकं यजुर्वाक्यं ’सदेव सोम्ये’दमित्यादिकं सामवाक्यमिति विभागः ।
तात्पर्ये निश्चीयमान इति ।
बोधकत्वे निश्चीयमान इत्यर्थः ।
यत्पर इति ।
यस्मिन् शब्दस्य तात्पर्यं स एव शब्दार्थ इति न्यायादित्यर्थः ।
कर्त्रादीति ।
कर्ममाहात्म्यं किं वक्तव्यं कर्मकर्तादिसच्चिदानन्दस्वरूप इत्येवं कर्तृस्तावकत्वमित्यर्थः ।
’तत्केन कं पश्येदि’त्यत्र तच्छब्दस्य विभक्तिव्यत्यासेनार्थमाह –
तत्तत्रेति ।
ननु तर्ह्यर्थवादानां वेदान्तवत्क्रियापरत्वं न स्यादित्याशङ्क्य वैषम्यमाह –
अर्थवादानां त्विति ।
यदुक्तमिति ।
सिद्धं ब्रह्म न वेदार्थः मानान्तरवेद्यत्वात् घटवदिति यदुक्तं तद्दूषयतीति भावः ।
पक्षे हेत्वसिद्धिः सोपाधिकत्वाच्च नानुमानमित्यभिप्रेत्य परिहरति –
आहेति ।
व्यवहितं पदं योजयति –
तत्त्वमसीति ।
दृष्टान्ते साध्यव्यापकत्वात्पक्षे साधनाव्यापकत्वाच्चात्र मानान्तरयोग्यत्वमुपाधिरिति भावः ।
उक्तं दूषणद्वयं प्रतिबन्धाय स्फुटिकरोति -
धर्मो न वेदार्थ इति ।
धर्मो वेद एव मानान्तस्तद्धर्मो न वेदार्थ इत्युक्तानुमानहेतोरसिद्धिः मानान्तरयोग्यत्वमुपाधिश्चेति यदि दृश्येत तर्हि प्रकृतेपि दीयतां सैव दृष्टिरित्याह –
तदा ब्रह्मण्यपीति ।
भाष्ये
हेयोपादेयशून्येति ।
स्वापेक्षया यद्भिन्नं तद्धेयमुपादेयं च भवति ब्रह्म तु प्रत्यक्त्वेन स्वरूपत्वाद्धेयोपादेयाभ्यां भिन्नं तस्माद्धेयोपादेयशून्यं यद्ब्रह्म तदात्मैक्यावगमादित्यर्थः । पुरुषार्थं प्रति प्रवृत्तिनिवृत्योर्न हेतुता नायं सर्प इति ज्ञानादुत्पन्ने भयकम्पादिनिवृत्तिरूपपुरुषार्थे व्यभिचारात्तथा च सिद्धज्ञानात् प्रवृत्त्याद्यभावेपि पुरुषार्थसिद्धिरिति भावः ।
देवतादिप्रतिपादनस्येति ।
देवतादिप्रतिपादकवाक्यस्येत्यर्थः । स्वपदं देवतादिपरं, तथा च देवतादिप्रतिपादकपञ्चाग्निवाक्यस्य तु पञ्चाग्निगतोपासनापरत्वमिष्टमिति भावः ।
व्याख्यने –
ज्येष्ठत्वादिगुणा इति ।
’यो ह वै ज्येष्ठं श्रेष्ठं चे’त्यादिश्रुत्या प्राणस्य ज्येष्ठत्वादिगुणाः प्रतिपाद्यन्त इति भावः ।
द्वितीयपक्षं भाष्यतात्पर्येण ग्रन्थाद्बहिः परिहरति –
न द्वितीय इति ।
तदर्थस्येति ।
वेदान्तार्थस्येत्यर्थः । तच्छेषत्वं विधिशेषत्वमित्यर्थः ।
प्रथमकल्पमिष्टापत्त्या ग्रन्थाद्बहिः परिहरति –
आद्य अध्यस्तेति ।
तस्य प्राणादिरूपस्य ब्रह्मणः इत्यर्थः ।
निर्गुणब्रह्मणः तच्छेषत्वं नास्तीति स्फुटीकुर्वन् एकत्वपदाद्यपेक्षितं पूरयति –
अहमिति ।
ब्रह्मात्मपदस्य पूर्वेणान्वयः । एकत्वज्ञानानन्तरं तज्ज्ञानफलं विना उपासनाजन्यफलाभावान्नोपासनाविधिशेषत्वं ब्रह्मण इति भावः ।
द्वैतज्ञानस्य सकारणस्य नाशाच्चेति यदुक्तं तन्न सम्भवति ज्ञानकालेपि संस्कारोत्थस्य द्वैतज्ञानस्य सत्त्वादिति शङ्कते –
द्वैतज्ञानस्येति ।
उपासनायां कारणस्योपासकद्वैतज्ञानस्य संस्कारवशात्पुनरुत्थितस्य सत्त्वादुपासनाविधिशेषत्वं ब्रह्मणः वक्तुं शक्यत इति भावः ।
उपासनां प्रति भ्रान्तित्वेनानिश्चितद्वैतज्ञानमेव कारणं तच्चैकत्वज्ञानेन नाशात्पुनर्नोपपद्यत एव तया चैकत्वज्ञाने विद्यमाने संस्कारवशादुत्पन्नमपि द्वैतज्ञानं भ्रान्तित्वेन निश्चतत्वान्नोपासनाविधौ कारणमिति भाष्याशयं स्फुटीकरोति –
दृढस्येतीति ।
भ्रान्तत्वेनानिश्चितस्येत्यर्थः ।
संस्कारोत्थमिति ।
संस्कारोत्थद्वैतज्ञानं तु भ्रान्तित्वेन निश्चितत्वान्नोपासनाविधौ कारणं तस्मादेकत्वज्ञानकाले ब्रह्मणो न विधिशेषत्वमित्यर्थः ।
सत्त्वेनेति ।
येन करणस्य सत्त्वेन विधिशेषत्वं तदेव कारणस्य सत्त्वं नास्तीति भावः ।
व्याप्याभावेति ।
व्याप्याभावसाधकानुमानमित्यर्थः ।
तदेवोपपादयति –
वेदान्ता इति ।
अक्रियार्थत्वात्साक्षात्कार्यबोधकत्वाभावादित्यर्थः ।
निष्फलार्थकत्वमिति ।
दृष्टान्ते साध्यव्यापकत्वात् पक्षे साधनाव्यापकत्वाच्च निष्फलार्थकत्वमुपाधिरिति भावः ।
तत्कारणस्येति ।
आत्मज्ञानकारणस्येत्यर्थः । सफलं यज्ज्ञानं तत्कारणत्वेनेत्यर्थः ।
व्याप्यं तु भविष्यतीति ।
वेदान्तानां प्रामाण्यमप्रत्यक्षत्वादनुमानेन ज्ञातव्यम् , अनुमानं तु हेत्वपक्षकमिति योग्यतया क्रियार्थकत्वं हेतुरिति वक्तव्यम् , तथा च हेत्वभावात् हेतुज्ञानाभावेन प्रामाण्यज्ञानाभावात्प्रामाण्यमेव नास्तीति पूर्वपक्षार्थः ।
येनेति ।
यच्छब्दापेक्षितं तच्छब्दं पूरयति –
तदेवेति ।
अनुमानगम्यत्वमेवेत्यर्थः ।
निर्दुष्टवेदवाक्यत्वादेव वेदस्य स्वतः प्रामाण्यं तज्ज्ञानं च सम्भवति तस्मान्नानुमानापेक्षं तदित्याशयं सदृष्टान्तं स्फोरयति –
चक्षुरादिवदिति ।
अपौरुषेयत्वात् निर्दुष्टत्वेन वेदस्य स्वतः प्रामाण्येपि पुरुषस्य प्रामाण्यसन्देहे प्राप्ते तन्निश्चयार्थमनुमानापेक्षा स्यादित्याशङ्क्य परिहरति –
प्रामाण्यसंशय इति ।
फलवत् अज्ञाताबाधितार्थविषयकप्रमाकरणत्वात् वेदस्य प्रामाण्यनिश्चयः न कार्यपरत्वात् , तथा च नानुमानापेक्षेति भावः ।
विपक्षे बाधकमाह –
कूप इति ।
कूपे पतेदिति वाक्यस्य कूपपतनरूपकार्यार्थकत्वसत्त्वेपि प्रामाण्याभावाद्व्यभिचारः । यदि कूपे पतेदिति वाक्यस्यापि प्रामाण्यं स्यादित्युच्यते तदा सर्वोपि कूपपतने प्रवर्तते न तु प्रवर्तते तस्मात्कूपपतनरूपबाधितार्थबोधकत्वाद्वाक्यस्याप्रामाण्यमेवेति भावः ।
ननु तर्हि व्यभिचारात् क्रियार्थत्वेन प्रामाण्याभावे विधिवाक्यानां कथं प्रामाण्यमित्यत आह –
विधिवाक्यानामपीति ।
फलितमाह –
तत्तुल्यमिति ।