अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

८ परिच्छेदः

श्रुतीनां निर्गुणे यस्मिन् प्रामाण्यं प्रतिपाद्यते ।
तं कृष्णमस्मि प्रणतो राधा­चि­त्ता­प­हा­रि­णम् ॥

’तत्तु सम­न्व­या­दि’त्यु­त्त­र­सू­त्र­म­व­ता­र­यितुं अधिकरणमारच्यते । तत्र ’सदेव सोम्ये’त्या­दि­वि­ष­य­वा­क्यानि सिद्धवत्कृत्य भट्टमतरीत्या पूर्व­प­क्ष­र­च­नार्थं संशयं प्रतिपादयति –
वेदान्ता इति ।
’सदेव सोम्ये’त्या­दि­वे­दान्ता इत्यर्थः । सिद्ध­ब्र­ह्म­प­रत्वे तेषां निष्फ­ल­त्व­सा­पे­क्ष­त्वयोः प्रसङ्गः अयमर्थोनुपदं स्फुटीक्रियते । कार्यपरत्वे तयोरप्रसङ्गः, तथा हि – धर्मे प्रत्यक्षादीनां प्रामा­ण्या­भा­वात् प्रत्य­क्षा­दि­मा­ना­न्त­रा­न­पे­क्षत्वं फलवत्त्वं च शास्त्र­सि­द्ध­मिति निष्फ­ल­त्व­मा­ना­न्त­र­सा­पे­क्ष­त्वयोः प्रसक्तिरेव नास्तीति भावः ।

पूर्वसूत्रे इति ।
शास्त्र­यो­नि­त्वा­दिति । पूर्वसूत्रे इत्यर्थः ।

पूर्वपक्षमाहेति ।
ज्ञान­मु­पा­स­ना­हेतुः मोक्षस्तु सत्यकामः सत्यसङ्कल्प इत्या­दि­गु­ण­वि­शिष्टं ब्रह्म नास्त्येवेति भट्टमतं तद्रीत्या पूर्व­प­क्ष­मा­हे­त्यर्थः ।

’सदेव सोम्येत्या’दि श्रुति­शा­स्त्र­प्र­थ­मा­ध्या­य­प्र­थ­म­पादैः ’तत्तु समन्वयादिति’ सूत्रस्य सङ्गतिं दर्शयति –
सदेव सोम्येति ।
श्रुतीनां यः सम­न्व­य­स्ता­त्प­र्येण बोधकत्वं तस्योक्तेः प्रति­पा­द­ना­दि­त्यर्थः । सर्वा­त्म­त्वा­दि­त्य­नेन श्रुतिसूत्रयोः सर्वा­त्म­त्वा­दि­रू­पै­का­र्थ­बो­ध­क­त्व­रूपा सङ्गतिर्दर्शिता । स्पष्ट­ब्र­ह्म­लि­ङ्गा­ना­मिति – विशेषणेन स्पष्ट­ब्र­ह्म­लि­ङ्ग­क­श्रु­त्य­र्थ­प्र­ति­पा­द­क­त्व­रूपा पाद­स­ङ्ग­ति­रुक्ता, ब्रह्मणीत्यनेन सूत्रशास्त्रयोः एकार्थकत्वरूपा सङ्गतिः प्रदर्शिता । सूत्रपक्षत्वेन ब्रह्मबोधकं शास्त्रं तु शास्त्रा­र्थ­त्वेन ब्रह्म­प्र­ति­पा­द­क­मिति विवेकः । सम­न्व­यो­क्ते­रि­त्य­नेन सूत्राध्याययोः सम­न्व­य­रू­पै­का­र्थ­प्र­ति­पा­द­कत्वं सङ्ग­ति­रि­त्यु­क्तम् ।

वेदान्तेष्विति ।
वेदान्तेषु मुमुक्षोः न प्रवृत्तिः किन्तु पूर्वमीमांसायां प्रवृत्तिरिति भावः ।

भाष्ये
शास्त्र­प्र­मा­ण­क­त्व­म­च्यत इति ।
कथमुच्यत इत्यन्वयः ।

नन्वयमाक्षेपः किं निबन्धन इति जिज्ञासायां जैमि­नि­सू­त्र­प्रा­मा­ण्या­दि­त्याह –
यावतेति ।
अत­द­र्था­ना­मि­त्यन्तं सङ्ग्र­ह­वा­क्य­म­र्थ­वा­दानां प्रामाण्यं नास्तीति पूर्व­प­क्ष­प्र­ति­पा­द­कम् क्रिया­प­र­त्व­मि­त्या­दि­वाक्यं सिद्धा­न्त­प्र­ति­पा­द­क­मिति विभागः ।

व्याख्याने
कथमित्याक्षेप इति ।
कथमिति थमुप्रत्ययान्तः किंशब्दः आक्षेपार्थ इति भावः ।

याव­ते­ति­प­द­स्या­र्थ­माह –
यत इति ।

आन­र्थ­क्य­प­द­स्या­र्थ­माह –
फलवदिति ।

सूत्रस्येति ।
’आम्नायस्य क्रिया­र्थ­त्वा­दि’त्या­दि­सू­त्र­स्ये­त्यर्थः ।

आम्ना­य­स्ये­त्या­दि­सू­त्र­स्या­र्थ­क­थ­नार्थं तत्सङ्गत्या तत्पू­र्व­सू­त्र­प­रि­ष्कृ­तार्थं क्रमेण स्फुटयति –
प्रथमसूत्रे इत्यादिना ।
’अथातो धर्मजिज्ञासे’ति प्रथमसूत्र इत्यर्थः ।

अथ वेदा­ध्य­य­ना­न­न्तरं अतः वेदस्य फलवदर्थपरत्वात् धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इत्येवं पदा­ना­म­र्थ­म­भि­प्रेत्य फलितार्थमाह –
प्रथमेति ।
अध्ययनं गुरू­च्चा­र­णा­नु­च्चा­रणं तत्कर्णिकायां भावना आवृत्तिरूपो व्यापारविशेषः तत्प्रतिपादको यः ’स्वाध्या­योऽ­ध्ये­तव्य’ इति विधिः तद्भाव्यस्य तत्कर्मिभूतस्य वेदस्येत्यर्थः । तथा च स्वाध्या­या­त्म­क­वे­द­मु­द्दिश्य विधिः प्रवर्तत इति वेदस्य विधिकर्मत्वमिति भावः फलवान् योर्थः धर्मा­धि­का­र्य­रूपः तत्प­र­त्व­मि­त्यर्थः ।

चोदनेति ।
चोदना विधिवाक्यं लक्षणं प्रमाणं यस्मिन्स तथेत्यर्थः । अर्थः प्रयो­ज­न­वा­नि­त्यर्थः । तथा च चोद­ना­प्र­मा­ण­कत्वे सति फलहेतुकर्मत्वं धर्मत्वमिति भावः ।

अवसितमिति ।
निर्धा­रि­त­मि­त्यर्थः । प्रामाण्ये सति वेदवाक्यत्वं यत्र तत्र फल­व­द­र्थ­प­र­त्व­मिति द्वितीयसूत्रेण व्याप्य­व्या­प­क­भावो निर्धारित इति भावः ।

पूर्व­त­न्त्र­स्थ­प्र­थ­मा­ध्या­य­ग­त­द्वि­ती­य­पा­द­निष्ठ ’विधिना त्वेक­वा­क्य­त्वा­दि’त्या­दि­सि­द्धा­न्त­सू­त्र­म­व­ता­र­यितुं अधिकरणमारचयति –
तत्रेति ।
व्याप्तौ निर्धा­रि­ता­या­मि­त्यर्थः ।

’वायुर्वै क्षेपि­ष्ठे’त्या­दि­वि­ष­य­वाक्यं सिद्धवत्कृत्य पूर्व­प­क्ष­र­च­नार्थं संसयमाह –
वायुर्वै क्षेपिष्ठेति ।

’आम्नायस्य क्रिया­र्थ­त्वा­दा­न­र्थ­क्य­म­त­द­र्थानां तस्मा­द­नि­त्य­मु­च्यते’ इति पूर्व­प­क्ष­सू­त्र­स्या­र्थ­माह –
आम्नायेत्यादिना ।

आम्नायस्येति पदस्य फलितार्थमाह –
आम्ना­य­प्रा­मा­ण्य­स्येति ।
वेद­प्रा­मा­ण्य­स्ये­त्यर्थः ।

क्रिया­र्थ­त्वा­दिति पदस्य तात्पर्यमाह –
क्रियेति ।

अप्रतीतेरिति ।
साक्षा­द­प्र­ती­ते­रि­त्यर्थः । अर्थवादानां साक्षा­द्ध­र्म­बो­ध­क­त्वा­भा­वा­दिति भावः ।

’तस्मा­द­नि­त्य­मु­च्यत’ इति सूत्रां­श­म­व­ता­र­यि­तु­म­ध्य­य­न­वि­ध्यु­पा­त्त­त्वा­द­र्थ­वा­दानां सिद्धे प्रामाण्यं स्यादि­त्या­शङ्क्य निष्फ­ल­त्वा­न्नेति परिहरति –
नचेति ।

अर्थकथनार्थं सूत्रांशं ग्रुह्णाति –
तस्मादिति ।
फल­व­द­र्थ­प­र­त्व­रू­प­व्या­प­का­भा­वा­दि­त्यर्थः ।

अनित्यपदस्य तात्पर्यार्थं सूचयति –
नास्त्येवेति ।

भाष्य­स्था­म्ना­य­स्ये­त्या­दि­सू­त्र­स­ङ्ग्र­ह­वा­क्या­पे­क्षितं पूरयति –
अनित्यं प्रामाण्यमिति ।

दर्शितमिति ।
क्रियापरत्वं दर्शितमित्यर्थः ।

स्तुत्या­का­र­प्र­द­र्श­न­पू­र्वकं सिद्धान्तसूत्रं व्याचष्टे –
वायुरिति ।
वायोः शीघ्र­ग­म­न­व­त्त्वा­त्त­द्दे­व­ताकं कर्म शीघ्रमेव फलं प्रयच्छतीति भावः ।

वायव्यमिति ।
वायुदेवताकेन श्वेत­गु­ण­वि­शि­ष्ट­प­शु­द्र­व्य­केन यागेनेष्टं भावयेदित्यर्थः ।

स्तुतिलक्षणयेति ।
अर्थवादानां लक्षणया स्तुतिबोधकत्वं स्तुतिद्वारा विध्ये­क­वा­क्य­त्वेन फल­व­द­र्थ­बो­ध­क­त्वा­दि­त्यर्थः ।

वेदान्ती शङ्कते –
नन्विति ।

कार्यशेषेति ।
कर्तृदेवतयोः शेषत्वं फलस्य तूद्दे­श्य­त्व­मिति विवेकः । वेदान्तानां न साक्षा­त्का­र्य­बो­ध­कत्वं किन्तु कार्य­शे­ष­बो­ध­क­त्व­द्वारा फल­व­द­र्थ­रू­प­का­र्य­बो­ध­कत्वं तस्मा­न्ना­न­र्थ­क्य­मिति भावः ।

तत्र त्वमिति ।
वेदान्तेषु जीवबोधकपदानां सर्वेषां कर्तृत्वं ब्रह्म­बो­ध­क­प­दानां तु देवताबोधकत्वम् , तथा च जीवः कर्ता ब्रह्म तु देवतेति कर्ममाहात्म्यं किं वक्तव्यमिति तत्त्व­म्प­दा­र्थ­वा­क्यानां कर्तृ­दे­व­ता­वि­ष­य­क­स्तु­ति­ज­न­क­त्व­मिति भावः ।

विवि­दि­षा­दि­वा­क्या­ना­मिति ।
’तमेतं वेदा­नु­व­च­ने­ने’त्या­दि­वि­वि­दि­षा­वा­क्या­ना­मि­त्यर्थः । यद्यपि भट्टमते स्वर्गादिरेव फलं कर्मणः न ब्रह्मज्ञानं तथापि स्तोत्रार्थं कर्मणः ब्रह्मज्ञानमपि फलमिति ब्रह्म­ज्ञा­न­रू­प­फ­ल­वि­ष­य­क­स्तु­ति­ज­न­क­त्वेन विवि­दि­षा­वा­क्या­ना­मु­प­प­त्ति­रिति भावः । यद्वा कर्मणः कर्ता जीवः देवता तु ब्रह्मज्ञानमिति कर्तृ­रू­प­जी­वा­दि­मा­हात्म्यं किं वक्तव्यमित्येवं कर्त्रा­दि­स्ता­व­कत्वं वाक्यानामिति भावः । प्रथमव्याख्याने जीवकर्तृकत्वेन कर्मस्तुतिः द्वितीये कर्मकर्तृत्वेन जीवस्तुतिरिति भावः । एवमन्यत्र योजनीयम् । अन्यत्प्रकरणं प्रकरणान्तरं तथा च कर्म­का­ण्डा­द्भि­न्न­ब्र­ह्म­का­ण्डा­धी­ता­ना­मि­त्यर्थः ।

मानाभावादिति ।
विध्ये­क­वा­क्य­त्वा­भा­वेन मानाभावादिति भावः ।

असद्ब्रह्मेति ।
यद्यपि भट्टमते ब्रह्मासदेव तथापि जीवे तद­भे­द­मा­रो­प्ये­त्यर्थः । अथवा ब्रह्म तिष्ठतु वेदान्तेषु तथा च जीव­ब्र­ह्म­णो­र­स­द­भे­द­मा­रो­प्ये­त्यर्थः ।

उपासीतेति ।
’अहं ब्रह्मा­स्मी’त्यत्र उपासीतेति विधिः कल्पनीय इत्यर्थः । ’अहं ब्रह्मे’त्य­भे­द­मा­रो­प्यो­पा­सना विधीयते तथा चोपा­स­ना­रू­प­का­र्या­न्त­र­स्तु­ति­द्वारा कल्पि­त­वि­ध्ये­क­वा­क्य­त्वेन वेदान्तानां फल­व­द­र्थ­बो­ध­क­त्वा­न्ना­न­र्थ­क्य­मिति भावः ।

आदिशब्दादिति ।
उपासनेन फलं जायते जाय­मा­न­फ­ल­मे­ता­दृ­श­मिति ज्ञानार्थं श्रवणं मननं चावश्यकमिति श्रव­णा­दि­रू­प­का­र्य­प­र­त्वा­द्वे­दा­न्तानां नानर्थक्यमिति भावः ।

वेदान्ती शङ्कते –
नन्विति ।

अज्ञातस्य वेदेनेति ।
अज्ञातस्य ज्ञापको वेद­स्ते­ने­त्यर्थः । अज्ञातस्य ज्ञापकवेदेन ज्ञात­व­स्तु­प्र­ति­पा­दनं न सम्भवतीति भावः ।

अत्र सदृष्टान्तं हेतुमाह –
मानान्तरेति ।
भेषजमिति वाक्यवत् यूप इति वाक्यवत् वेदवाक्येन प्रतिपादनं न सम्भवतीति पूर्वेणान्वयः ।

संवादे सतीति ।
बोधकत्वे सतीत्यर्थः । वेदवाक्यस्य माना­न्त­र­सि­द्ध­व­स्तु­बो­ध­क­त्वा­ङ्गी­कारे अनु­वा­द­क­त्वा­द­प्रा­माण्यं स्यादतः सिद्धबोधकत्वं न सम्भवतीति भावः ।

अग्निरिति ।
अग्ने­र्हि­म­ना­श­कत्वं प्रत्य­क्ष­प्र­मा­ण­सिद्धं पुनः शब्द­स­मु­दा­य­रू­प­वा­क्य­मपि तदर्थबोधकं चेदनुवादकं भवति तद्वदित्यर्थः ।

विसंवाद इति ।
बोधकत्वाभावे सतीत्यर्थः । वेदवाक्यस्य अनुवादकत्वभिया सिद्ध­व­स्तु­बो­ध­क­त्वा­न­ङ्गी­कारे कार्य­बो­ध­क­त्व­स्या­प्य­न­ङ्गी­का­रे­णा­बो­ध­क­त्वात् ब्रह्म­प्र­ति­पा­द­कत्वं सुतरां न सम्भवतीति भावः । अथवा विसंवादे प्रमाणान्तरेण विरोधे प्राप्ते सतीत्यर्थः । आदित्यो यूपो नेति भेद­ग्रा­हि­प्र­त्य­क्षेण विरोधात् यूप इति वाक्य­स्या­बो­ध­कत्वं यथा तथा नाहं ब्रह्मेति भेद­ग्रा­हि­प्र­त्य­क्षेण विरोधात् अहं ब्रह्मेति वाक्य­स्या­बो­ध­क­त्व­मिति भावः ।

भाष्य­प­रि­ष्कृ­त­भा­स­मानं स्फोरयति –
सिद्ध इति ।

तथेति ।
सिद्धो न वेदार्थ इत्याहेत्यर्थः ।

उपादेययोगो अन्नु­ष्ठा­न­रू­पा­प्र­वि­त्ति­र्जा­यते तया सुख­प्रा­प्ति­रू­प­फ­ल­मु­त्प­द्यते न सिद्ध­ज्ञा­ना­द­नु­ष्ठा­न­द्वारा फलं तस्मा­त्सि­द्ध­बो­ध­क­त्वेन निष्फलत्वमेव तथा हेयेपीत्युभयमाह –
फलं हीति ।

प्रवृ­त्ति­नि­वृ­त्ति­भ्या­मिति ।
प्रवृ­त्ति­श­ब्दे­ना­नु­ष्ठा­ना­दि­क­मु­च्यते निवृत्तिशब्देन तूष्णीम्भावः ।

अध­र्मा­न्नि­वृ­त्तो­ह­मि­त्य­नु­भ­वेन निवृ­त्ति­प­रि­पा­ल्य­प्रा­ग­भा­व­यो­गि­त्व­नि­वृ­त्ति­प्र­य­त्न­का­र्य­त्व­मि­त्याह –
निवृ­त्ति­प्र­य­त्न­का­र्य­स्येति ।
प्रयत्नो द्विविधः प्रवृत्तिरूपो निवृ­त्ति­रू­प­श्चेति, तथा च निवृत्तिरूपो यः प्रयत्नः तत्का­र्य­स्ये­त्यर्थः । निवृ­त्ति­प्र­य­त्नेन अनादिसिद्धः अध­र्म­प्रा­ग­भा­व­स्त­थैव तिष्ठ­ती­त्ये­ता­वता सुरा­पा­ना­दि­रू­पा­धर्मे निवृ­त्ति­रू­प­प्र­य­त्न­का­र्य­त्व­व्य­व­य­हारः, तथा च हेये निवृ­त्ति­प्र­य­त्न­का­र्य­त्व­ज्ञा­ना­त्तू­ष्णी­म्भा­व­रूपा निवृत्तिर्जायते तया नर­का­दे­र­भा­वा­द्दुः­ख­हा­न­रू­प­फ­ल­मु­त्प­द्यते न सिद्धज्ञानादिति भावः । ननु घटज्ञानस्य सिद्ध­ज्ञा­न­त्वा­त्तेन फलाभावप्रसङ्ग इति चेन्न । घटा­दे­र­प्य­र्थ­क्रि­या­वि­शि­ष्ट­त्वेन तन्मते साध्य­त्वा­ङ्गी­का­रा­दिति मन्तव्यम् ।

सङ्ग्र­ह­वा­क्य­मिति ।
सङ्ग्र­ह­वा­क्य­ग­ता­न­र्थ­क्य­म­त­द­र्था­ना­मि­त्यंशं विवृणोतीत्यर्थः ।

’सोऽरो­दी­द्य­द­रो­दी­त्त­द्रु­द्रस्य रुद्रत्वं यदश्रु अशीयत तद्रजतं हिर­ण्य­म­भ­व­त्त­स्मा­द्र­जतं हिर­ण्य­म­द­क्षि­ण्य­म­श्रुजं हि यो बर्हिषि ददाति पुरास्य संवत्सराद्गृहे रुदन्ती’ति वाक्यमर्थतः पठति –
देवैरिति ।
अश्रुजरजतस्य बर्हिषि दाने संवत्सरात्पुरा गृहे रोदनं भवतीति रोद­ना­भा­वा­त्म­का­नि­ष्ट­नि­वृत्ति रूपफलसहितः रजतस्य देव­नि­रु­द्धा­ग्ने­र­श्रु­ज­न्य­त्वेन निन्दि­त­त्वा­द्र­ज­त­द­क्षि­णा­क­यागं न कुर्यादिति निषेधो यस्तच्छेषत्वं ’सोरो­दी­दि’त्या­दि­वा­क्यस्य यथा तद्वदित्यर्थः ।

दृष्टान्तेति ।
मन्त्राणां स्वातन्त्र्यमेव नास्ती­त्या­हे­त्यर्थः । अविशिष्टस्तु वाक्यार्थ इति ।

पूर्व­त­न्त्र­स्थ­सि­द्धा­न्त­सू­त्र­म­व­ता­र­यि­तु­म­धि­क­र­ण­मा­र­च­यति –
प्रमाणलक्षण इति ।
प्रथमाध्याय इत्यर्थः ।

चिन्ता कृतेति ।
प्रामाण्यचिन्ता कृतेत्यर्थः ।

विष­य­वा­क्य­प्र­ति­पा­द­न­द्वारा चिन्ताबीजं दर्शयति –
इषेत्वेति ।
अस्यार्थः – हे शाखे इषे फलरूपान्नायं त्वा त्वां छिनद्मि छेदनं करोमीति । मन्त्राणां क्रिया­त­त्सा­ध­न­दे­व­ता­प्र­का­श­कत्वं तूपकारत्वं च प्रतीयते तस्माच्चिन्ता युक्तेति भावः ।

पूर्व­प­क्ष­र­च­नार्थं संशयं प्रतिपादयति –
ते चेति ।

अध्ययनकालेति ।
अध्ययनकाले अवगतो यो मन्त्रार्थः तद्विषयस्मृतेः ’सदृ­शा­दृ­ष्ट­चि­न्ताद्या स्मृतिबीजस्य बोधका’ इति श्लोको­क्त­चि­न्ता­दि­नापि प्रयोगकाले सम्भ­वा­दु­च्चा­र­ण­मा­त्रे­णा­दृ­ष्ट­द्वारा मन्त्राणां क्रतू­प­का­र­क­त्व­मिति पूर्वपक्षार्थः ।

वाक्यार्थस्येति ।
शाब्द­बो­ध­स्ये­त्यर्थः ।

मन्त्राणां दृष्ट­स्वा­र्थ­प्र­का­श­न­द्वारा क्रत्वङ्गत्वे सिद्धे नियमस्य प्रयोजनमाह –
मन्त्रैरेवेति ।
यद्यपि मन्त्रैरेव जनितेन मन्त्रा­र्थ­स्म­र­णेन क्रतू­त्पा­द­क­म­दृ­ष्ट­मु­त्प­द्यते तथापि मन्त्रा­णा­म­दृ­ष्ट­द्वारा न हेतुत्वं किन्तु अदृ­ष्ट­हे­तु­म­न्त्रा­र्थ­स्म­र­ण­रू­प­दृ­ष्टा­र्थ­द्वारा हेतुत्वमिति सिद्धान्तार्थः ।

स्तुतिपदार्थेति ।
स्तुतिरूपो यः पदार्थः तद्द्वा­रे­त्यर्थः । पदै­क­वा­क्य­त्व­म­र्थ­वा­द­रू­प­प­दस्य विधि­बो­ध­क­वा­क्ये­नै­क­वा­क्यत्वं पदै­क­वा­क्य­त्व­मि­त्यर्थः । विधिभिः विधि­बो­ध­क­वा­क्यै­रि­त्यर्थः । अन्वितत्वेनेति शेषः । ’वायुर्वै क्षेपिष्ठे’ति अर्थवादपदानां स्वार्थे तात्प­र्या­भा­वा­द­वा­न्त­र­वा­क्या­र्था­भा­वेन लक्षणया स्तुति­स­म­र्प­क­त्व­द्वारा “वायव्यं श्वेतमालभेतेति” विधि­बो­ध­क­वा­क्ये­ना­न्व­या­त्प­दै­क­वा­क्यत्वं तस्मान्न स्वात­न्त्र्य­मिति भावः ।

मन्त्रा­णा­न्त्विति ।
तैर्वि­धि­वा­क­यै­रि­त्यर्थः । अन्वितत्वेनेति शेषः । मन्त्राणां तु स्वार्थस्य सत्त्वा­द­वा­न्त­र­वा­क्या­र्थ­ज्ञा­न­द्वारा विधि­बो­ध­क­म­हा­वा­क्ये­ना­न्व­या­द्वा­क्यै­क­वा­क्य­त्व­मतो न स्वात­न्त्र्य­मिति भावः ।

कर्म­स­म­वा­यि­त्व­मिति ।
कर्म­वि­धि­शे­ष­त्व­मिति भाष्यार्थः ।

न क्वचिदिति ।
’अतो न क्वचिदिति प्रतीकग्रहणे युक्ते सति न क्वचिदिति प्रतीकग्रहणं लेखदोषादिति विभावनीयम् । व्याप्तेः सत्त्व­म­तः­श­ब्दार्थः ।

भाष्य­प­रि­ष्कृ­त­म­नु­मानं ज्ञापयति –
वेदान्ता इति ।

सिद्धा­र्था­वे­द­क­त्वा­दिति ।
सिद्धा­र्थ­बो­ध­क­त्वा­दि­त्यर्थः ।

अन्यत्रेति ।
विधि­सं­स्प­र्श­म­न्त­रे­णा­र्थ­व­त्तेति शेषः ।

न केवलमनुमानं किन्तु यदि विध्यै­क­वा­क्य­त्वे­ना­र्थ­वत्त्वं न स्यात्तर्हि फलाभावेन वाक्यस्य सिद्धा­र्थ­बो­ध­क­त्व­मपि न स्यादि­त्य­नु­कू­ल­त­र्को­प्य­नु­मा­न­म­स्ती­त्य­भि­पे­त्याह –
सिद्धे फलेति ।

तर्हीति ।
विध्ये­क­वा­क्यत्वं विना अर्थ­व­त्त्वा­भा­व­श्चे­दि­त्यर्थः ।

अलमिति ।
कृतमिति । पाठे­प्य­ल­मि­त्ये­वार्थः ।

सिद्धस्य दध्नः क्रिया­सा­ध­न­त्व­वि­शि­ष्ट­त्वा­त्सा­ध्यत्वं युक्तं न तु ब्रह्मण इत्याह –
दध्नः क्रियेति ।

प्रयु­ज्य­मा­न­त­येति ।
साध­न­को­टि­प्र­वि­ष्ट­त­ये­त्यर्थः ।

असाध्यत्वादिति ।
अप्र­यु­ज्य­मा­न­त्वे­ना­सा­ध्य­त्वा­दि­त्यर्थः ।

स्वयमेवेति ।
प्रथ­म­प­क्ष­मु­प­सं­हृत्य स्वयमेवारुचिं वदन् द्विती­य­प­क्ष­म­प्यु­प­सं­ह­र­ती­त्यर्थः ।

भाष्ये
पक्ष­व्या­वृ­त्त्यर्थ इति ।
पक्षपदं पूर्वपक्षपरम् , वेदा­न्त­वा­क्या­दिति । वेदा­न्त­शा­स्त्रा­दि­त्यर्थः ।

व्याख्याने –
प्रति­ज्ञा­न्त­र्ग­त­मे­वेति ।
पक्षा­न्त­र्ग­त­मे­वे­त्यर्थः । सम्पदस्य हेत्व­न्त­र्ग­तत्वे ’यत्परः शब्दः सशब्दार्थ’ इति न्यायेन अन्व­य­रू­प­ता­त्प­र्या­दे­वा­ख­ण्डत्वे सिद्धे सम्पदस्य प्रयोजनाभावः । पक्षा­न्त­र्ग­तत्वे तु सगु­ण­ब्र­ह्म­व्या­वृत्त्या अर्था­न्त­र­वा­र­कत्वं सम्भवति तथा च शबलव्यावृत्तिः प्रयोजनमिति भावः ।

अख­ण्डा­र्थ­क­स­म्पदं सूत्र­स्थ­त­त्प­दस्य विशेषणं तथा च सम् अखण्डं तत् ब्रह्म वेदा­न्त­प्र­मा­ण­कम् अन्वयादिति सूत्रा­र्थ­म­भि­प्रेत्य सूत्र­ग­र्भि­त­म­नु­मा­न­माह –
तथा चेति ।

असंसृष्टत्वमिति ।
इत­र­प­दा­र्था­स­म्ब­न्धि­त्व­मि­त्यर्थः । ब्रह्मणः वाक्या­र्थ­स्या­ख­ण्ड­त्व­मि­त­र­प­दा­र्था­वि­शि­ष्ट­त्व­मिति भावः । तदुक्तं श्रीक­ल्प­त­रु­कारैः –
अवि­शि­ष्ट­म­प­र्या­या­ने­क­श­ब्द­प्र­का­शि­तम् ।
एक­वे­दा­न्त­नि­ष्णाता अखण्डं प्रतिपेदिरे ॥
इति । निष्णाताः निष्ठापरा इत्यर्थः ।

स्वपदेति ।
स्वशब्देन वाक्यमुच्यते तथा च वाक्य­स्थ­प­दो­प­स्था­पिता इत्यर्थः । संसर्गः पर­स्प­रा­न्व­य­रू­प­स­म्बन्धः । तदविषयिणी या अख­ण्ड­ब्र­ह्म­वि­ष­यिणी च प्रमा तज्ज­न­क­त्व­मि­त्यर्थः ।

दृष्टा­न्ता­सि­द्धि­मा­शङ्क्य परिहरति -
न चेदमिति ।

सामा­न्य­त­श्च­न्द्र­ज्ञा­न­वता केन­चि­त्क­श्चि­त्पृष्टः अस्मिन् ज्योतिर्मण्डले कश्चन्द्रनामेति तस्य प्रतिवचनं प्रकृ­ष्टे­त्या­दि­वा­क्य­मि­त्य­भि­प्रे­त्याह –
प्रकृष्टेति ।
इदं पदं हेतु­ग­र्भ­वि­शे­ष­णम् , प्रकाशविशेषः चन्द्रपदवाच्य इत्यर्थः । आदिशब्देन सोयं देवदत्त इत्यादिवाक्यं गृह्यते । अयमाशयः । प्रकृष्टशब्दः लक्षणया प्रक­र्ष­गु­णा­भि­धा­न­मु­खेन प्रकाशविशेषे वर्तते, प्रकाशशब्दश्च सामा­न्या­भि­धा­न­मु­खेन लक्षणया व्यक्तिविशेषे वर्तते, तत्र गुण­सा­मा­न्य­यो­श्च­न्द्र­प­द­वा­च्य­त्वा­भा­वा­ज्ज­ह­ल्ल­क्ष­णया तदुभयं परित्यज्य तत्स­म­वा­यि­प्र­का­श­वि­शेष एव चन्द्र­प­दा­भि­धे­य­तया समर्प्यत इति प्रक­ष्ट­प्र­का­श­च­न्द्र­श­ब्दा­ना­मे­क­र्थता सिद्धा, तथा च वाक्यस्य चन्द्र­व्य­क्ति­मात्रे लक्ष­णा­ङ्गी­का­रान्न विशिष्टपरत्वं तस्मा­च्च­न्द्र­व्य­क्ति­मा­त्र­वि­ष­य­कत्वं प्रमायाः न परस्परं संस­र्ग­वि­ष­य­क­त्व­मिति । वाक्य­वृ­त्ति­व्या­ख्याने रामानन्दीये विस्तरेणायमर्थः प्रतिपादितः । तथाहि – न तावद्वाक्यस्य संसृ­ष्टा­र्थ­क­त्व­नि­यमः प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इति वाक्ये व्यभिचारत् , तथाहि अस्मिन् ज्योतिर्मण्डले कश्चन्द्रनामेति प्रश्नस्योत्तरं प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इति वाक्यम् , तत्र न तावच्चन्द्रस्य प्रकृ­ष्ट­प्र­का­श­स­र्गोर्थः न हि तत्र संसर्गांशो जिज्ञासितः किं संसर्ग इति प्रश्ना­नु­प­पत्तेः, नापि प्रकृ­ष्ट­प्र­का­श­रूपः संसर्गनिरूपितः प्रकारो जिज्ञासितः तदा कीदृश इति प्रश्नौचित्यात् । न चोत्त­र­सा­म­र्थ्या­त्किं­श­ब्दस्य कीदृशी लक्षणेति वाच्यम् । अन­प­प­त्त्य­भा­वा­दु­त्त­र­स्या­ख­ण्डा­र्थ­त्व­नो­प­पत्तेः । न चोत्तरस्य सर्वपदलक्षणां विना अख­ण्डा­र्थ­बो­धा­यो­गात् ततो वरं किंश­ब्द­स्यै­क­स्यैव लक्षणेति वाच्यम् । एक­स्या­प्यु­क्र­म­स्थ­त्वा­द­स­ञ्जा­त­वि­रो­धि­त्वेन मुख्या­र्थ­तौ­चि­त्या­त्त­द­नु­रो­धेन इतरपदानां शक्त्यै­क­दे­शा­दा­न­ल­क्ष­ण­भा­ग­ल­क्ष­णया गौरवानावहतावत् । एतेन चन्द्रपदस्य चन्द्रपदवाच्ये लक्षणया कश्च­न्द्र­प­द­वाच्य इत्यर्थः प्रश्नः, उत्तरं च प्रकृ­ष्ट­प्र­का­श­श्च­न्द्र­प­द­वाच्य इत्यर्थः क इति निरस्तम् । प्रश्नो­त्त­र­स्थ­च­न्द्र­प­द­द्व­यस्य सर्वदा मुख्या­र्थ­त्या­गेन गुरु­घ­टि­त­ज­ह­ल्ल­क्ष­णा­पे­क्षया बहूनामपि वाच्यैकदशमादाय लघु­त­र­ज­ह­द­ज­ह­ल्ल­क्ष­णया जातिशक्तिमते शक्ति­तु­ल्य­नि­रू­ढ­ल­क्ष­णया अख­ण्डा­र्थ­क­त्व­स्यैव न्याय्यत्वात् । अत एव चन्द्रस्य चन्द्रे­त­र­व्या­व­र्त­क­वति वा लक्षणया प्रश्नो­त्त­र­सा­मा­ना­धि­क­रण्यं निरस्तम् , चन्द्रे­त­र­व्या­वृ­त्त­त्वा­दिना जिज्ञासायाः प्रश्नस्य तदु­त्त­रा­र्थ­बो­धस्य च चन्द्र­ज्ञा­ना­धी­न­त्वेन परस्पराश्रयाच्च । चन्द्रो नाम कश्चि­च्च­न्द्र­प­द­वाच्यः चन्द्र­त्व­जा­ति­मान् चन्द्रे­त­र­व्या­वृत्त इत्यादिकं जानामि चन्द्रं परं न जानामि तमेव जिज्ञास इति चन्द्र­मा­त्र­ज्ञा­न­जि­ज्ञा­सयोः स्पष्टमनुभवाच्च । न च तर्हि उत्तरे प्रकृ­ष्ट­प्र­का­श­ग्र­ह­ण­म­युक्तं अजि­ज्ञा­सि­त­त्वा­दिति वाच्यम् । तेन विना चन्द्र इत्येतावता तज्जि­ज्ञा­सा­नि­व­र्त­क­बो­धस्य जनयितुमशक्यतया तद्वै­शि­ष्ट्य­बो­ध­द्वारा तज्ज­न­ना­या­वा­न्त­र­ता­त्प­र्येण तद्ग्रहणात् परमतात्पर्यं तु चन्द्रैकबोध इति किमयुक्तम् । अथ तादृशबोधद्वये मानाभावः, शक्त्या जनि­त­मु­ख्या­र्था­न्व­य­बो­धस्य पुनर्लक्षणया पुन­र्बो­धा­न्त­र­ज­नने शब्दस्य व्यापा­रा­प­त्ति­श्चेति चेन्न । लक्ष­ण­वा­क्या­च्चन्द्रे असा­धा­र­ण­ध­र्म­वै­शि­ष्ट्य­म­व­गत्य तद्द्वारा चन्द्रं ज्ञातवानस्मीति सार्व­ज­नी­ना­नु­भ­व­सि­द्ध­त्वा­न्मु­ख्य­ता­त्प­र्य­वि­ष­य­बोध एव विरम्य व्यापारस्य दोषत्वात् , अर्थ­वा­द­वा­क्यानां शक्त्या स्वार्थ­बो­ध­ज­न­न­द्वा­रैव लक्षणया प्राश­स्त्य­बो­ध­क­त्वाच्च । ननु वाक्या­द­सा­धा­र­ण­ध­र्म­ज्ञा­ना­न­न्तरं तेन लिङ्गेन चन्द्र­स्व­रू­पा­नु­मि­ति­रेव अनुभूयत इति चेन्न । चन्द्रपक्षकस्य चन्द्रसाधकस्य वा अनुमानस्य चन्द्र­ज्ञा­ना­धी­न­त्वा­त्ततः प्राग­नु­मा­ना­नु­द­य­त्त­ज्ज्ञा­नस्य च वाक्येनैव निय­त­त्वा­द्व­क्यस्य च प्रकृ­ष्ट­प्र­का­श­सं­स­र्गा­दि­प­रत्वे प्रागुक्तरीत्या अजि­ज्ञा­सि­ता­र्थ­त्वा­पत्तेः, जिज्ञा­सि­त­स्व­रू­प­मा­त्र­प­रत्वे चाख­ण्डा­र्थ­त्व­सिद्धिः । अथ चन्द्रं नभो न जाना­मी­त्य­नु­भ­वस्य चन्द्र­त्व­वि­शि­ष्ट­वि­ष­य­क­त्वात् तज्जि­ज्ञा­सा­याश्च तथा­त्वा­त्प्र­श्नो­त्त­र­यो­श्च­न्द्र­प­दस्य चन्द्र­त्व­वि­शि­ष्ट­प­र­त्वा­व­श्य­म्भावे कुत­स्त­स्या­ख­ण्डा­र्थ­तेति चेन्न । उत्त­र­स्थ­च­न्द्र­प­दस्य विशिष्टपरत्वे विशि­ष्ट­श­री­र­घ­ट­क­वि­शे­ष­णी­भू­त­च­न्द्र­त्व­त­त्सं­स­र्गयोः प्रकृ­ष्ट­प्र­का­श­स्या­भे­दा­न्व­य­बा­धा­ल्ल­क्ष­णया चन्द्र­त्वो­प­ल­क्षि­त­व्य­क्ति­मा­त्र­प­र­त्वा­व­श्य­म्भावे तत्स­मा­ना­र्थ­क­त्वाय प्रश्न­ग­त­च­न्द्र­प­द­स्यापि लक्षणया तन्मा­त्र­प­र­त्वौ­चि­त्यात् । अत एव दर्शि­ता­ज्ञा­ना­नु­भ­व­जि­ज्ञा­स­यो­रपि तदे­क­वि­ष­य­त्वा­व­सा­यात् । अन्यथा अज्ञा­न­जि­ज्ञा­प्र­श्नानां विशि­ष्ट­वि­ष­य­त्वम् उत्तरस्य व्यक्ति­मा­त्र­वि­ष­य­त्व­मिति वैरूप्यापत्तेः विशेषणाद्यंशे पुनः प्रश्ना­न्त­रा­प­त्तेश्च । ननु प्रकृ­ष्ट­प्र­का­शस्य चन्द्र­व्य­क्ता­व­भे­दे­ना­न्व­या­च्च­न्द्रत्वे च स्वभि­न्न­स­म­वे­त­त्व­स­म्ब­न्धेन अन्वयात् तत्संसर्गरूपे समवाये स्वभि­न्न­वि­शे­ष­ण­ता­स­म्ब­न्धे­ना­न्व­या­दु­त्त­र­मपि विशिष्टपरमेवेति चन्द्र­त्व­त­त्सं­स­र्ग­गो­च­र­जि­ज्ञा­सायाः शान्त­त्वा­त्प्र­श्ना­न्त­रा­न­व­सर इति चेन्न । तत्र सम्ब­न्ध­त्र­ये­णा­न्व­य­त्र­य­स्या­न­नु­भ­व­प­रा­ह­त­त्वात् ’नोप­स­र्ज­न­मु­प­स­र्ज­ना­न्त­रे­णा­न्वे­तीति’ न्यायविरोधाच्च । न चैवमपि लक्ष्य­ता­व­च्छे­द­क­च­न्द्र­त्व­वै­शि­ष्ट्या­न­पाय इति वाच्यम् । चन्द्र­त्व­स्यो­प­ल­क्ष­ण­त­यै­वा­ति­प्र­स­ङ्ग­वा­र­कत्वे विशे­ष­ण­त्वा­न­पे­क्ष­णात् । स्यादेतत् , विष­य­वि­शे­षा­भा­वेपि प्रश्न­हे­तु­ज्ञा­ना­न्ना­ज्ञा­न­नि­वृत्तिः उत्त­र­ज­न्य­ज्ञा­ना­त्त­न्नि­वृ­त्ति­रि­त्यत्र किं नियामकमिति चेत् । आद्यो­प­दे­श­ज­न्या­सा­धा­र­ण­ध­र्म­वै­शि­ष्ट्य­धी­रू­प­स­ह­का­र्य­स­म­व­धा­न­स­म­व­धाने एवेति गृहाण । अत एव व्यक्ति­मा­त्र­बो­धस्य वाक्येन साक्षाल्लक्षणया जननसम्भवे अवा­न्त­र­ता­त्प­र्येण द्वार­भू­त­बो­धा­न्त­र­स्वी­कारो व्यर्थ इति निरस्तम् ।

प्रकृ­ष्ट­प्र­का­श­त्व­वै­शि­ष्ट्य­धी­द्वारं विना जनि­त­व्य­क्ति­मा­त्र­बो­ध­स्या­प­कृ­ष्ट­प्र­का­श­व्या­वृ­त्त­वि­ल­क्ष­ण­वि­ष­य­ताया अलाभात् , न हि चन्द्र­व्य­क्ति­मा­त्र­गो­चरं चाक्षुषज्ञानं प्राग्जातमपि तद­ज्ञा­न­नि­व­र्त­क­मा­सीत् , तदित्थं यथा ’प्रकृ­ष्ट­प्र­का­श­श्चन्द्र’ इति वाक्यं चन्द्रस्य स्वरू­प­ल­क्ष­ण­प­र­म­ख­ण्डा­र्थकं तथैव ’सत्यं ज्ञानमनन्तं ब्रह्मेति’ वाक्य­मु­प­सं­हृ­ता­न­न्दा­दि­प­द­क­द­म्बकं ब्रह्मणः स्वरू­प­ल­क्ष­ण­प­र­म­ख­ण्डा­र्थ­कम् , तथा च प्रकृ­ष्ट­प्र­का­शा­दि­पदैः प्रकृ­ष्ट­त्वा­द्यु­प­ल­क्षि­त­शु­द्ध­च­न्द्र­व्य­क्ति­रिव सत्यादिपदैः सत्य­त्वा­द्यु­प­ल­क्षि­त­के­व­ल­स­च्चि­दा­न्दै­क­र­स­ब्र­ह्म­व्य­क्ति­र्ल­क्ष्यत इत्यखण्ड एव वाक्त्यार्थः संसृष्टरूप इति । अत्र प्रकृ­ष्ट­त्व­वि­शि­ष्ट­प्र­का­श­वि­शेषः प्रकृ­ष्ट­प­द­वा­च्यार्थः प्रका­श­त्व­वि­शि­ष्ट­प्र­का­श­वि­शेषः प्रका­श­प­द­वा­च्यार्थः चन्द्र­त्व­वि­शि­ष्ट­प्र­का­श­वि­शेषः चन्द्र­प­द­वा­च्यार्थः, एवं च जहदजहल्लक्षणया पदत्रयं चन्द्र­व्य­क्ति­मा­त्र­बो­धकं भवति यथा तथैव सत्त्वादिपदजातं जहदहल्लक्षणया ब्रह्म­मा­त्र­बो­ध­क­मिति विज्ञेयम् । सत्यादिपदानां वाच्यार्थस्तु पुर­स्ता­दे­वो­प­पा­दितः । सत्यादिवाक्यं विशि­ष्टा­र्थ­प­र­त्व­र­हितं लक्ष­ण­वा­क्य­त्वात् प्रकृ­ष्ट­प्र­का­शा­दि­वा­क्य­व­दिति प्रयो­ग­म­भि­प्रे­त्याह – तथा च सत्य­ज्ञा­ना­दि­प­दै­रिति ।

अद्वि­ती­या­ख­ण्डेति ।
वेदा­न्ता­ना­म­खण्डे ब्रह्मणि तात्पर्यं नामा­ख­ण्ड­प्र­मि­ति­ज­न­क­त्व­रू­प­श­ब्द­धर्म एव तस्य निश्च­या­दि­त्यर्थः । तथा च ब्रह्मणि तात्प­र्य­नि­श्च­य­वि­ष­यत्वं तस्मान्न हेत्वसिद्धिरिति भावः ।

उपक्रममिति ।
उप­क्र­मा­दि­ष­ड्वि­ध­लि­ङ्गानां मध्ये उपक्रमं दर्शयतीत्यर्थः ।

एवकारेणेति ।
प्राथमिकेन एवकारेणेत्यर्थः ।

पदत्रयमिति ।
यद्य­प्य­द्वि­ती­य­मि­त्य­नेन सजा­ती­या­दि­त्रि­त­य­नि­रासो वक्तुं शक्यते तथापि श्रुति­ता­त्प­र्या­नु­रो­धेन पद­प्र­यो­ज­न­मु­च्यते अन्यथा इतरपदवैयर्थ्यं स्यादिति भावः ।

अनुप्रविश्येति ।
व्यापकस्य प्रवे­शा­भा­वा­द­र्थ­वाद इति भावः ।

प्रकृ­ति­व्य­ति­रे­के­णेति ।
उपा­दा­न­का­र­ण­व्य­ति­रे­के­णे­त्यर्थः ।

व्यस्तानीति ।
एकं द्वयं त्रयं वा तात्पर्यग्राहकं भवतीति भावः । समस्तानि मिलितानीत्यर्थः । बहुत्वं तु दार्ढ्य­स­म्पा­द­क­मिति भावः ।

तच्छ­ब्दा­पे­क्षितं पूरयति –
माया­भि­र्ब­हु­रू­प­मिति ।

ऋग्यजुरिति ।
’आत्मा वा इद­मे­क­मे­वे’त्या­दिकं ऋग्वाक्यं ’तदे­त­द्ब्र­ह्मे’त्या­दिकं यजुर्वाक्यं ’सदेव सोम्ये’द­मि­त्या­दिकं सामवाक्यमिति विभागः ।

तात्पर्ये निश्चीयमान इति ।
बोधकत्वे निश्चीयमान इत्यर्थः ।

यत्पर इति ।
यस्मिन् शब्दस्य तात्पर्यं स एव शब्दार्थ इति न्यायादित्यर्थः ।

कर्त्रादीति ।
कर्ममाहात्म्यं किं वक्तव्यं कर्म­क­र्ता­दि­स­च्चि­दा­न­न्द­स्व­रूप इत्येवं कर्तृ­स्ता­व­क­त्व­मि­त्यर्थः ।

’तत्केन कं पश्येदि’त्यत्र तच्छब्दस्य विभ­क्ति­व्य­त्या­से­ना­र्थ­माह –
तत्तत्रेति ।

ननु तर्ह्य­र्थ­वा­दानां वेदा­न्त­व­त्क्रि­या­प­रत्वं न स्यादि­त्या­शङ्क्य वैषम्यमाह –
अर्थवादानां त्विति ।

यदुक्तमिति ।
सिद्धं ब्रह्म न वेदार्थः माना­न्त­र­वे­द्य­त्वात् घटवदिति यदुक्तं तद्दूषयतीति भावः ।

पक्षे हेत्वसिद्धिः सोपाधिकत्वाच्च नानु­मा­न­मि­त्य­भि­प्रेत्य परिहरति –
आहेति ।

व्यवहितं पदं योजयति –
तत्त्वमसीति ।
दृष्टान्ते साध्य­व्या­प­क­त्वा­त्पक्षे साध­ना­व्या­प­क­त्वा­च्चात्र माना­न्त­र­यो­ग्य­त्व­मु­पा­धि­रिति भावः ।

उक्तं दूषणद्वयं प्रतिबन्धाय स्फुटिकरोति -
धर्मो न वेदार्थ इति ।

धर्मो वेद एव माना­न्त­स्त­द्धर्मो न वेदार्थ इत्यु­क्ता­नु­मा­न­हे­तो­र­सिद्धिः माना­न्त­र­यो­ग्य­त्व­मु­पा­धि­श्चेति यदि दृश्येत तर्हि प्रकृतेपि दीयतां सैव दृष्टिरित्याह –
तदा ब्रह्मण्यपीति ।

भाष्ये
हेयो­पा­दे­य­शू­न्येति ।
स्वापेक्षया यद्भिन्नं तद्धेयमुपादेयं च भवति ब्रह्म तु प्रत्यक्त्वेन स्वरू­प­त्वा­द्धे­यो­पा­दे­याभ्यां भिन्नं तस्मा­द्धे­यो­पा­दे­य­शून्यं यद्ब्रह्म तदा­त्मै­क्या­व­ग­मा­दि­त्यर्थः । पुरुषार्थं प्रति प्रवृ­त्ति­नि­वृ­त्योर्न हेतुता नायं सर्प इति ज्ञानादुत्पन्ने भय­क­म्पा­दि­नि­वृ­त्ति­रू­प­पु­रु­षार्थे व्यभिचारात्तथा च सिद्धज्ञानात् प्रवृ­त्त्या­द्य­भा­वेपि पुरु­षा­र्थ­सि­द्धि­रिति भावः ।

देव­ता­दि­प्र­ति­पा­द­न­स्येति ।
देव­ता­दि­प्र­ति­पा­द­क­वा­क्य­स्ये­त्यर्थः । स्वपदं देवतादिपरं, तथा च देव­ता­दि­प्र­ति­पा­द­क­प­ञ्चा­ग्नि­वा­क्यस्य तु पञ्चा­ग्नि­ग­तो­पा­स­ना­प­र­त्व­मि­ष्ट­मिति भावः ।

व्याख्यने –
ज्येष्ठ­त्वा­दि­गुणा इति ।
’यो ह वै ज्येष्ठं श्रेष्ठं चे’त्यादि­श्रुत्या प्राणस्य ज्येष्ठ­त्वा­दि­गुणाः प्रतिपाद्यन्त इति भावः ।

द्वितीयपक्षं भाष्यतात्पर्येण ग्रन्थाद्बहिः परिहरति –
न द्वितीय इति ।

तदर्थस्येति ।
वेदा­न्ता­र्थ­स्ये­त्यर्थः । तच्छेषत्वं विधि­शे­ष­त्व­मि­त्यर्थः ।

प्रथ­म­क­ल्प­मि­ष्टा­पत्त्या ग्रन्थाद्बहिः परिहरति –
आद्य अध्यस्तेति ।
तस्य प्राणादिरूपस्य ब्रह्मणः इत्यर्थः ।

निर्गुणब्रह्मणः तच्छेषत्वं नास्तीति स्फुटीकुर्वन् एक­त्व­प­दा­द्य­पे­क्षितं पूरयति –
अहमिति ।
ब्रह्मात्मपदस्य पूर्वेणान्वयः । एक­त्व­ज्ञा­ना­न­न्तरं तज्ज्ञानफलं विना उपा­स­ना­ज­न्य­फ­ला­भा­वा­न्नो­पा­स­ना­वि­धि­शे­षत्वं ब्रह्मण इति भावः ।

द्वैतज्ञानस्य सकारणस्य नाशाच्चेति यदुक्तं तन्न सम्भवति ज्ञानकालेपि संस्कारोत्थस्य द्वैतज्ञानस्य सत्त्वादिति शङ्कते –
द्वैत­ज्ञा­न­स्येति ।
उपासनायां कार­ण­स्यो­पा­स­क­द्वै­त­ज्ञा­नस्य संस्का­र­व­शा­त्पु­न­रु­त्थि­तस्य सत्त्वा­दु­पा­स­ना­वि­धि­शे­षत्वं ब्रह्मणः वक्तुं शक्यत इति भावः ।

उपासनां प्रति भ्रान्ति­त्वे­ना­नि­श्चि­त­द्वै­त­ज्ञा­न­मेव कारणं तच्चै­क­त्व­ज्ञा­नेन नाशा­त्पु­न­र्नो­प­प­द्यत एव तया चैकत्वज्ञाने विद्यमाने संस्का­र­व­शा­दु­त्प­न्न­मपि द्वैतज्ञानं भ्रान्तित्वेन निश्च­त­त्वा­न्नो­पा­स­ना­विधौ कारणमिति भाष्याशयं स्फुटीकरोति –
दृढस्येतीति ।
भ्रान्त­त्वे­ना­नि­श्चि­त­स्ये­त्यर्थः ।

संस्कारोत्थमिति ।
संस्का­रो­त्थ­द्वै­त­ज्ञानं तु भ्रान्तित्वेन निश्चि­त­त्वा­न्नो­पा­स­ना­विधौ कारणं तस्मा­दे­क­त्व­ज्ञा­न­काले ब्रह्मणो न विधि­शे­ष­त्व­मि­त्यर्थः ।

सत्त्वेनेति ।
येन करणस्य सत्त्वेन विधिशेषत्वं तदेव कारणस्य सत्त्वं नास्तीति भावः ।

व्याप्याभावेति ।
व्याप्या­भा­व­सा­ध­का­नु­मा­न­मि­त्यर्थः ।

तदेवोपपादयति –
वेदान्ता इति ।
अक्रि­या­र्थ­त्वा­त्सा­क्षा­त्का­र्य­बो­ध­क­त्वा­भा­वा­दि­त्यर्थः ।

निष्फ­ला­र्थ­क­त्व­मिति ।
दृष्टान्ते साध्य­व्या­प­क­त्वात् पक्षे साध­ना­व्या­प­क­त्वाच्च निष्फ­ला­र्थ­क­त्व­मु­पा­धि­रिति भावः ।

तत्कारणस्येति ।
आत्म­ज्ञा­न­का­र­ण­स्ये­त्यर्थः । सफलं यज्ज्ञानं तत्का­र­ण­त्वे­ने­त्यर्थः ।

व्याप्यं तु भविष्यतीति ।
वेदान्तानां प्रामा­ण्य­म­प्र­त्य­क्ष­त्वा­द­नु­मा­नेन ज्ञातव्यम् , अनुमानं तु हेत्वपक्षकमिति योग्यतया क्रियार्थकत्वं हेतुरिति वक्तव्यम् , तथा च हेत्वभावात् हेतुज्ञानाभावेन प्रामा­ण्य­ज्ञा­ना­भा­वा­त्प्रा­मा­ण्य­मेव नास्तीति पूर्वपक्षार्थः ।

येनेति ।
यच्छ­ब्दा­पे­क्षितं तच्छब्दं पूरयति –

तदेवेति ।
अनु­मा­न­ग­म्य­त्व­मे­वे­त्यर्थः ।

निर्दु­ष्ट­वे­द­वा­क्य­त्वा­देव वेदस्य स्वतः प्रामाण्यं तज्ज्ञानं च सम्भवति तस्मा­न्ना­नु­मा­ना­पेक्षं तदित्याशयं सदृष्टान्तं स्फोरयति –
चक्षुरादिवदिति ।

अपौरुषेयत्वात् निर्दुष्टत्वेन वेदस्य स्वतः प्रामाण्येपि पुरुषस्य प्रामा­ण्य­स­न्देहे प्राप्ते तन्नि­श्च­या­र्थ­म­नु­मा­ना­पेक्षा स्यादि­त्या­शङ्क्य परिहरति –
प्रामाण्यसंशय इति ।
फलवत् अज्ञा­ता­बा­धि­ता­र्थ­वि­ष­य­क­प्र­मा­क­र­ण­त्वात् वेदस्य प्रामा­ण्य­नि­श्चयः न कार्यपरत्वात् , तथा च नानु­मा­ना­पे­क्षेति भावः ।

विपक्षे बाधकमाह –
कूप इति ।
कूपे पतेदिति वाक्यस्य कूप­प­त­न­रू­प­का­र्या­र्थ­क­त्व­स­त्त्वेपि प्रामा­ण्या­भा­वा­द्व्य­भि­चारः । यदि कूपे पतेदिति वाक्यस्यापि प्रामाण्यं स्यादित्युच्यते तदा सर्वोपि कूपपतने प्रवर्तते न तु प्रवर्तते तस्मा­त्कू­प­प­त­न­रू­प­बा­धि­ता­र्थ­बो­ध­क­त्वा­द्वा­क्य­स्या­प्रा­मा­ण्य­मे­वेति भावः ।

ननु तर्हि व्यभिचारात् क्रियार्थत्वेन प्रामाण्याभावे विधिवाक्यानां कथं प्रामाण्यमित्यत आह –
विधि­वा­क्या­ना­म­पीति ।

फलितमाह –
तत्तुल्यमिति ।