पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)
९ परिच्छेदः
सिद्ध इति ।
घटाद्यर्थस्य सिद्धत्वं नाम उत्पत्त्यनन्तरं कृत्यसाध्यत्वं ब्रह्मणस्तु कृत्यसाध्यत्वमिति भेदः । व्युत्पत्तिं शक्तिमित्यर्थः । लोके पदानां योग्येतरसंसृष्टत्वेन स्वार्थप्रतिपादनसामर्थ्यमङ्गीकृत्य सिद्धेर्थे व्युत्पत्तिमिच्छतामिति भावः ।
ब्रह्म नास्तिकानामिति ।
ब्रह्मैव नास्तीति वदतां भट्टमतानुयायिनामित्यर्थः ।
सफलत्वाच्चेति ।
सफलज्ञानविषयत्वमेव सफलत्वमिति मन्तव्यम् ।
सर्वेषां पदानामिति ।
पदानां कार्यान्वित एवार्थे शक्तिरिष्यते तत्रैव शब्दसामर्थ्यान्न तु सिद्धेर्थे तदभावात्तथा च कार्यसंस्पर्शमन्तरेण सिद्धेर्थे शब्दस्य न प्रामाण्यं सिद्धस्यापदार्थत्वादिति कार्यान्वितार्थे शक्तिमच्छतामिति भावः । अयमर्थोनुपदं स्फुटीक्रियते । श्री गुरुचरणैस्तु – ब्रह्मविद्याभरणे अयमर्थः अतिस्फुटतया उपपादितः, तथाहि – लौकिकपदार्थव्युत्पत्त्यनुसारेण वेदवाक्यार्थो वर्णनीयः लौकिकी च व्युत्पत्तिः पदानां कार्य एव तत्रैवाद्यव्युत्पत्तिग्रहणसम्भवात् , न हि कोशादिभ्यः आद्यव्युत्पत्तिग्रहः सम्भवति अत्यन्ताव्युत्पन्नस्य कोशाद्यर्थज्ञानासम्भवात्ततश्च प्रयोज्यप्रयोजकवृद्धव्यवहाराद्भिन्नः शक्तिग्रहो वर्णनीयः प्रथमं स च व्युत्पित्सोरेहं भवति – प्रयोजकवृद्धस्य घटमानय गां बधानेति शब्दोच्चारणानन्तरं प्रयोज्यवृद्धेन कृतं घटानयनं गोबन्धनं च पश्यतः घटानयनगोबन्धनयोः कारणतया स्वीयस्तन्यपानादिदृष्टान्तेन कृतिचिकीर्षयोः मध्यमवृद्धगतयोरनुमाने सति चिकीर्षायाः कार्यताज्ञानमूलकत्वान्नूनमनेन आनयनबन्धनयोः कर्यतावगतेति बुद्धिर्भवति, तस्यां च बुद्धौ शब्दोच्चारणातिरिक्तस्य कारणान्तरस्यासम्भवात् प्रयोजकवृद्धोच्चारितशब्दः कार्यविशेषे आनयनादौ शक्त इति निर्णयो भवति, ततश्चावापोद्वापाभ्यां यथायथं कार्यसामान्यं प्रथमावगतमविहायैव तेषु तेषु समभिव्याहारविशेषेषु तत्कार्यविशेषप्रत्ययः ततश्च कोशादिभ्योप्युपजीव्य प्राथमिकव्युत्पत्तिग्रहानुसारेण कार्यान्वित एव तत्तत्पदार्थे शक्तिः न तु तदन्वित इति ।
प्रयोजकेति ।
उत्तमेत्यर्थः ।
प्रयोज्येति ।
मधमेत्यर्थः । पश्यतः व्युत्पित्सोर्बालस्य बुद्धिर्भवतीत्यन्वयः । कृतिश्च चिकीर्षा च कृतिचिकीर्षे आनयनादिकं प्रति करणीभूते तयोरित्यर्थः । मध्यमवृद्धस्य आनयने प्रवृत्तिः कृतिचिकीर्षापूर्विका प्रवृत्तित्वात् स्वीयस्तन्यपानप्रवृत्तिवदिति बालेन व्युत्पत्सुनानुमीयत इति भावः ।
कार्यताज्ञानेति ।
आनयनं मत्कृतिसाध्यमिति कार्यत्वज्ञानमूलकत्वादित्यर्थः ।
अनेनेति ।
मध्यमवृद्धेनेत्यर्थः ।
अशक्तस्येति ।
अशक्तशब्दस्येत्यर्थः । यदि शब्दस्य कार्यतायां शक्तिर्न स्यात्तेन कथं कार्यताज्ञानं स्यात्तस्माद्गामानयेत्याद्युच्चरितशब्दः आनयनादिकार्यविशेषे शक्त इति बालस्य निश्चयो भवतीति ब्रह्मविद्याभरणफक्कि कार्थः ।
इति वदतामिति ।
इति ब्रह्मणः सत्त्वं वदतामित्यर्थः ।
वृत्तिकाराणामिति ।
ज्ञानकर्मसमुच्चयवादिभिन्नानामुपासनैव ज्ञानमुपासनाहेतुर्वा ज्ञानमित्यभ्युपगच्छतामहं ब्रह्मेति प्रत्यगभिन्नब्रह्मोपासनादपूर्वद्वारा स्वर्गवज्जन्योपि मोक्षः ’न स पुनरावर्तते’ ’ब्रह्मविदाप्नोति परमि’त्यादिशास्त्रबलान्नित्यः ध्वंसवदित्युक्तवतामाचार्यदेशीयानां वृत्तिकाराणामित्यर्थः ।
अधिकरणमारच्यते –
तत्रेति ।
सदेव सोम्येत्यादिवेदान्ता इत्यर्थः ।
’प्रतिपत्तिविधीति’ वाक्ये भाष्यतात्पर्यानुरोधेन विधिप्रतिपत्तिरिति व्यत्यासेन अन्वयं ज्ञापयन् अर्थकथनपूर्वकमवतारयति –
विधिर्नियोग इति ।
अनुपदं नियोगशब्दार्थोऽपूर्वमिति वक्ष्यते ।
विधिपरैरेवेति ।
विधिः ’तद्विजिज्ञासस्वे’त्यादिः तत्परैः स्वार्थे फलाभावात्तदेकवाक्यतापन्नैः ’सत्यं ज्ञानमनन्तं ब्रह्मे’त्यादिवाक्यैः अपूर्वविषयोपासनाविषयतया ब्रह्मणः विधिशेषत्वं समर्प्यत इति शास्त्रप्रमाणकत्वमाहेत्यर्थः । विधिरपूर्वरूपो विनियोगस्तद्विषणी या प्रतिपत्तिरुपासना तद्विषयतयेति विग्रहः । प्रतिपत्तेर्विधिविषयत्वं नाम विधिहेतुकृतिविषयत्वमिति मन्तव्यम् ।
वाक्यादिति ।
सत्यं ज्ञानमित्यादिवाक्यादित्यर्थः ।
पशुमिति ।
पशोर्बन्धनं कुर्यादित्यर्थः ।
विधिवाक्यान्युदाहृत्य तत्पराणि वाक्यान्युदाहरति –
यूपं तक्षतीति ।
यूपे पशुं बध्नातीति विधौ यूपः क इत्याकाङ्क्षायां यूपं तक्षतीति वाक्येन तक्षणादिसंस्कृतं दारु यूप इति तस्य यूपस्य विधिशेषत्वं बोध्यते यथा तथा तद्विजिज्ञासस्वेति विधौ तद्ब्रह्म किमित्याकाङ्क्षायां सत्यादिवाक्येन सच्चिदानन्दं ब्रह्मेति तस्य ब्रह्मणः विधिशेषत्वं बोध्यते सत्यादिवाक्यस्य स्वार्थे फलाभावादिति भावः ।
शेषत्वं स्फुटीकरोति –
विधिपरेत्यादिना ।
ननु तथापि सत्यादिपदानां मानान्तरावेद्यब्रह्मबोधकत्वाद्वाक्यभेदो दुर्वार इत्यत आह –
मानान्तरेति ।
यूपादीन्यपीत्यर्थः ।
कुत इति ।
कस्माद्धेतोरित्यर्थः ।
वृद्धव्यवहारेणेति ।
उत्तमवृद्धानां व्यवहारो नाम गामानयेत्यादिवाक्यसमूहात्मकस्यास्य शास्त्रस्यास्मिन्नर्थे तात्पर्यमित्याकारकनिश्चयः मध्यमवृद्धानां जायत इत्यर्थः ।
उक्तमेव विवृणोति –
वृद्धव्यवहारे चेति ।
वृद्धव्यवहारस्थले इत्यर्थः । श्रोतुः मध्यमवृद्धस्येत्यर्थः ।
प्रवृत्तिनिवृत्तीति ।
अनुष्ठानरूपा प्रवृत्तिस्तद्विपरीता निवृत्तिरिति विवेकः । प्रवृत्तिनिवृत्तिप्रयोजनमन्तरा वाक्यप्रयोगानुपपत्तेः प्रवर्तकज्ञानद्वारा प्रवृत्त्यर्थं गामानयेति वाक्यं प्रयोक्ता उत्तमवृद्धः प्रयुङ्क्ते तेन वाक्यश्रोतुः मध्यमवृद्धस्य गामानयने प्रवृत्तिर्भवति न भुङ्क्ष्वेति वाक्यश्रोतुस्तस्य तूष्णीम्भावरूपा निवृत्तिर्भवति, तथा च श्रोतृप्रवृत्तिनिवृत्त्युद्देश्यक उत्तमवृद्धस्याप्तस्य वाक्यप्रयोगः मध्यमवृद्धस्य शास्त्रतात्पर्यनिश्चये हेतुरिति भावः ।
ततः किमित्यत आह –
अत इति ।
ते एवेति ।
वाक्यप्रयोगप्रयोजने प्रवृत्तिनिवृत्ती एवेत्यर्थः । ज्योतिष्टोमेनेत्यादिशास्त्रं धर्मे प्रवृत्त्यर्थमधर्मान्निवृत्त्यर्थं च प्रवृत्तं तस्मात्ते एव शास्त्रस्यापि प्रयोजन इति भावः ।
ते च कार्यजन्ये इति ।
धर्मो मत्कृतिसाध्य इति धर्मे कार्यत्वज्ञानेन प्रवृत्तिरुत्पद्यते ततः कार्यत्वज्ञानजन्यत्वं प्रवृत्तौ प्राप्तम् , एवं निवृत्तावप्यस्ति, तथाहि हेयं कलञ्जभक्षणादिकं मन्निवृत्तिप्रयत्नकार्यमिति तत्कार्यत्वज्ञानेन निवृत्तिरूपप्रयत्नाभिन्ना तूष्णीम्भावरूपा निवृत्तिर्जन्यते ततस्तस्यां कार्यत्वज्ञानजन्यत्वं वर्तते, तथा च हेयस्य निवृत्तिप्रयत्नकार्यत्वं नाम निवृत्तिपरिपाल्यप्रागभावप्रतियोगित्वमिति पुरस्तादेवोक्तमिति भावः ।
प्रकृतमाह –
तत इति ।
तस्माद्धेतोरित्यर्थः ।
इत्याहेति ।
इत्येवं वृत्तिकारस्य तात्पर्यमाहेत्यर्थः ।
भाष्ये –
कुत एतदिति ।
विधिशेषत्वं कस्माद्धेतोरित्यर्थः ।
अनुक्रमणमिति ।
वेदार्थसङ्ग्राहकवाक्यजातमित्यर्थः । अनुक्रमणं शास्त्रस्य कार्यपरत्वमेव बोधयतीति भावः ।
तदेवोपपादयति –
दृष्टो हि तस्यार्थ इति ।
अत्र नामपदं व्यर्थं कर्मावबोधनं कार्यज्ञानमित्यर्थः । तथा च ज्ञायमानं कार्यं वेदार्थ इति दृष्टो हीति शाबरभाष्यवाक्यार्थः ।
ज्ञानमुपदेश इति ।
ज्ञानं ज्ञापकमित्यर्थः । उपदेशः अपौरुषेयविधिवाक्यमित्यर्थः ।
तद्भूतानामिति ।
’तद्भूतानां क्रियार्थेन समाम्नायोर्थस्य तन्निमित्तत्वादि’त्येतावत्सूत्रमिति विज्ञेयम् ।
विषयविशेष इति ।
धर्मादावित्यर्थः ।
कुतश्चिद्विषयविशेषादिति ।
अधर्मात्सुरापानादेरित्यर्थः । शास्त्रं विधिनिषेधवाक्यमित्यर्थः ।
व्याख्याने – कार्यपरत्वं शास्त्रस्येत्युक्तं नियोगपरत्वं च कुत्रचिदुक्तं तस्य ज्ञानमित्यत्र धर्मबोधकत्वमुक्तम् , भाष्ये तु क्रियायाः प्रवर्तकमित्यत्र क्रियापरत्वं शास्त्रस्येत्युक्तम् , तथाचानेकार्थकत्वात्कथं कार्यपरत्वमेवेत्यत आह –
क्रिया कार्यमिति ।
षण्णामेकार्थकत्वात्पर्यायतेत्यर्थः ।
सुत्रस्थमिति ।
सूत्रार्थकथनपरमित्यर्थः । भाष्यकर्ता शबरस्वामी सूत्रकर्ता भगवान् जैमिनिरिति विवेकः ।
तस्य धर्मेणाव्यतिरेकादिति ।
विधिवाक्यस्य धर्मेणाव्यभिचरितत्वादित्यर्थः । विधिवाक्यस्य नियमेन धर्मबोधकत्वादिति यावत् । तथा च यद्विधिवाक्यं तद्धर्मबोधकमिति व्याप्तिप्रतिपादनपरेण श्रीजैमिनिसूत्रेण शास्त्रस्य नियोगपरत्वं दर्शितमिति भावः ।
सूत्रमिति ।
जैमिनिसूत्रमित्यर्थः ।
तत्पदं विभक्तिव्यत्यासेन परिष्करोति –
तत्तत्रेति ।
सिद्धार्थनिष्ठानामिति ।
सिद्धार्थबोधकानामित्यर्थः ।
समाम्नायः कर्तव्य इति ।
कर्तव्यपदस्यात्राध्याहारः कृत इति विज्ञेयम् ।
अर्थस्य तन्निमित्तत्वादित्यंशं व्याकरोति –
पदार्थज्ञानस्येति ।
पदार्थस्मृतेरित्यर्थः ।
विज्ञानादिपदेन सहोच्चारितसिद्धार्थनिष्ठपदसमुदायात्मकाम्नायः पदार्थस्मृतेर्वाक्त्यार्थधीनिमित्तत्वात्तद्वारा कार्यरूपवाक्यार्थज्ञाने हेतुर्भवतीति सूत्रयोजनामभिप्रेत्य सङ्ग्रहेण तात्पर्यार्थमाह –
कार्यान्वितेति ।
पदार्थस्मृतिद्वारा पदानि कार्यवाचिपदेन सह वाक्यार्थं बोधयन्तीत्यन्वयः ।
’तच्छेषतयान्यदुपयुक्तमि’ति भाष्यार्थमाह –
अर्थवादादिकन्त्विति ।
तत्सामान्यादिति ।
पदद्वयस्यार्थमाह –
तेनेति ।
शास्त्रत्वधर्मेण कर्मशास्त्रतुल्यत्वाद्वेदान्तानां कार्यपरत्वेनैवार्थवत्त्वमिति भावः ।
भाष्ये –
ब्रह्मज्ञानमिति ।
ज्ञानमुपसनमित्यर्थः । तथा च ज्योतिष्टोमवाक्ये यथा स्वर्गकामो नियोज्यः यागो विधेयः, तथा वेदान्तेऽपि मोक्षकामो नियोज्यः अहं ब्रह्मास्मीति प्रत्यगभिन्नब्रह्मोपासनं च विधेयमस्तीति कार्यपरत्वं युक्तमिति भावः ।
व्याख्याने
शङ्कते इति ।
ज्ञाने नोपासनं किन्तूपासनातिरिक्तं तच्च न विधेयमित्यभिप्रायेण सिद्धान्ती शङ्कत इति भावः ।
ज्ञानविधिशेषत्वेनेति ।
ज्ञानमुपासनमित्यर्थः ।
विधिप्रयुक्तत्वमिति ।
उपासनाविधिशेषत्वमित्यर्थः ।
’स विजिज्ञासितव्य’ इत्यादौ विधिप्रतीतावपि ब्रह्म वेदेत्यादौ विधिः न प्रतीयत इत्यत आह –
ब्रह्म वेदेति ।
वेदनमुपासनमित्यर्थः ।
शास्त्रोक्त इति ।
शास्त्रबलान्नित्य इत्युक्त इत्यर्थः । ब्रह्मोपासनादपूर्वद्वाराऽज्ञाननिवृत्त्या सगुणमोक्षो भवति न ज्ञानादिति भावः ।
चेच्छब्दमध्याहरति –
चेदिति ।
एवंशब्देति ।
एवंशब्दचेच्छब्दयोरर्थमाहेत्यर्थः ।
शब्दानां कार्यान्वितेति ।
अन्वितत्वं विशिष्टत्वमिति मन्तव्यम् ॥
यत्फलं तत् प्रवृत्तिनिवृत्तिजन्यमिति पूर्वपक्ष्यभिमतव्याप्तिरप्रयोजका प्रवृत्त्याद्यजन्यस्य सिद्धज्ञानजन्यस्य कर्मफलविलक्षणस्य विद्वदनुभवसिद्धस्य सर्वानर्थनिवृत्तिरूपस्य फलस्य सम्भवादित्यभिप्रेत्य परहरतीति भाष्यमवतारयति –
नियोज्येति ।
नियोज्यः नियोगकर्ता तत्प्रतिपादकत्वाभावादित्यर्थः । अथवा विधेयप्रतिपादकत्वाभावादित्यर्थः ।
निरासायेति ।
व्यभिचारवारणायेत्यर्थः । साध्याभाववति हेतोर्वृत्तित्वं व्यभिचारः ’सोरोदि’ति वाक्ये विधेयप्रतिपादकत्वाभावरूपहेतोः सत्वात् साक्षाद्विध्येकवाक्यतापन्नतया वाक्यस्य कार्यबोधकत्वेन साध्याभावस्य सत्त्वाच्च व्यभिचार इति विशेषणदलं फलवत्त्वसत्त्वेपि स्वार्थे फलवत्त्वरूपहेतोरभावात् न व्यभिचारः । ज्योतिष्टोमवाक्ये विशेषणदलस्य हेतोः सत्त्वाद्वाक्यस्य कार्यबोधकत्वेन साध्याभावस्य सत्त्वाच्च व्यभिचारस्तद्वारणाय विशेष्यदलं विधेयकबोधकत्वेन विशिष्टहेतोरभावान्न व्यभिचार इति भावः ।
नियोज्यस्येति ।
नियोज्यस्य मोक्षकामस्य ब्रह्मज्ञानमित्यर्थः ।
आत्मवदिति ।
प्रत्यगात्मवदित्यर्थः । ’ न कर्म ब्रह्मविद्याफलयोर्वैलक्षण्यादि’ति श्रीभाष्याकारस्य वस्तुसङ्ग्राहकवाक्यमेतत् । तस्यैव प्रपञ्चः ’अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त’ इत्यन्तं भाष्यम् ।
’तत्र वर्णितं संसारमनुवदती’त्यन्तं भाष्यं कर्मतत्फलप्रतिपादकं ’ब्रह्मोपदेशो युक्त’ इत्यन्तं भाष्यं तु तद्वैलक्षण्यप्रतिपादकमिति प्रधानोपसर्जनभावेन विभागमभिप्रेत्य भाष्यमवतारयति –
उक्तहेत्विति ।
कर्मफलवैलक्षण्यादिति हेत्वित्यर्थः ।
धर्मजिज्ञासेति सूत्रस्थधर्मपदमधर्मोपलक्षणमिति सूत्रतात्पर्यं स्फुटीकरोतीति भाष्यमवतारयति –
न केवलमिति ।
जिज्ञास्यमिति शेषः ।
परिहारायाधर्मोपि जिज्ञास्य इत्यत्र भाष्योक्तहेतुं व्याख्याति –
निषेधेति ।
कर्मोक्त्वेति ।
धर्माधर्मरूपकर्मोक्त्वेत्यर्थः ।
भाष्ये –
यद्विषया जिज्ञासेति ।
यद्धर्माधर्मविषया जिज्ञासेत्यर्थः । अथातो धर्मजिज्ञासा अधर्मजिज्ञासा चेति यद्विषया जिज्ञासा सुत्रिता तयोर्धर्माधर्मयोः फलं सुखदुःखे स्थावरान्तरेषु प्रसिद्धे इत्यर्थः । लक्षणपदं प्रमाणपरम् । मनुष्यत्वादारभ्येति । मनुष्यादारभ्येत्यर्थः ।
अनुश्रूयत इति ।
श्रुत्यानुभूयत इत्यर्थः । ’स एको मानुष आनन्द’ इत्यादिश्रुत्या सुखतारतम्यमनुभूयत इति भावः ।
प्रसिद्धत्वमेवोपपादयति –
अर्थित्वेति ।
विद्यासमाधीति ।
विद्यापदमुपासनापरम् , तथा च विद्यारूपो यः समाधिविशेषः ध्यानविशेषः तस्माद्धेतोरित्यर्थः इति केचित् ।
उपासनाविशिष्टकर्मिणामुत्तरमार्गेण गमनमिति मार्गतारतम्यमुपपादयति –
केवलैरिति ।
उपासनारहितपुरुषकृतैः कर्मभिरित्यर्थः ।
इष्टापूर्तेति ।
’अन्येषामपि दृश्यत’ इति व्याकरणसूत्रेणेष्टापूर्तेत्यत्र दीर्घो वेदितव्यः । अन्येषामपि लक्ष्याणां प्रयोगानुसारेण पूर्वपदान्तस्य दीर्घो दृश्यते इति सूत्रार्थः ।
प्रतिषेधचोदनालक्षणस्येति ।
निषेधवाक्यप्रमाणकस्येत्यर्थः ।
उपादानेति ।
ग्रहणेत्यर्थः ।
तथा च श्रुतिरिति ।
यथा वर्णितं तथैव “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती’त्याकारकश्रुतिश्च संसाररूपं तारतम्यमनुवदतीत्यन्वयः ।
व्याख्याने –
विशोक इति ।
विषयेन्द्रियजन्यसुखस्याप्यनित्यत्वाच्छोकत्वमेव, तथा च ’सुखदुःखे’त्यनेन भाष्येण मोक्षे विशोकत्वविशेषणं ज्ञापितमिति भावः ।
ब्रह्मादिस्थावरान्तेष्विति –
भाष्यस्य व्याख्यानमनात्मवस्त्विति ।
विशेषणानिति ।
पञ्चविशेषणानीत्यर्थः ।
कर्मफलमुक्त्वेति ।
धर्माधर्मफलमुक्त्वेत्यर्थः ।
पृथगिति ।
विशेषणेत्यर्थः । प्रथमत इति शेषः ।
मनुष्यलोकादूर्ध्वलोकेषु शरीराणां सुखाधिक्यं दुःखस्याल्पत्वं मनुष्यलोकेषु सुखदुःखयोः समत्वं मनुष्यलोकादधोलोकेषु दुःखाधिक्यं सुखाल्पतेति विभागमभिप्रेत्य तस्यापि तारतम्येन भवितव्यमिति धर्मतारतम्यमुपपादयतीत्याह –
स एको मानुष इत्यादिना ।
अनुशब्देति ।
अनुश्रूयत इत्यत्रानुशब्दार्थ इति विज्ञेयम् ।
इति वैलक्षण्यमिति ।
इतिशब्दो हेत्वर्थकः, साधनादिवैलक्षण्यात् फलवैलक्षण्यमिति भावः ।
शास्त्रानिन्दितत्वं चेति ।
यागाधिकारित्वस्य निन्दितत्वादनिन्दितत्वमधिकारिविशेषणमिति भावः ।
’विद्यासमाधिविशेषादि’ति भाष्यस्यार्थमाह –
उपासनायामिति ।
इष्टापूर्तदत्तानि व्याचष्टे –
अग्निहोत्रमित्यादिना ।
बहिर्वैदि चेति ।
क्रत्वङ्गभिन्नमित्यर्थः ।
अस्माल्लोकादिति ।
मनुष्यलोकादित्यर्थः ।
उषित्वेति पदस्यार्थमाह –
स्थित्वेति ।
अविद्यादिमान् यः शरीरतारतम्येन सुखदुःखान्यतरसम्बन्धीति व्याप्तिं भाष्यगर्भितां स्फुटत्वादुपेक्ष्य यस्तारतम्येन फलसम्बन्धीति व्याप्तावग्निवदिति दृष्टान्तं ज्ञापयन्ननुमानमाह –
काष्ठोपचयादिति ।
लक्षणया उपचयशब्दस्य तारतम्यमर्थः । अयं तारतम्येन साधनवान् तारतम्येन फलवत्त्वात् अग्निवदिति प्रयोगः ।
’तदुपासनाच्च शास्त्रदृष्टोऽदृष्ट’ इत्यादिभाष्येण मोक्षः उपासनाकर्मफलमिति यदुक्तं तद्दूषणपरं भाष्यमवतारयति –
मोक्षो न कर्मफलमिति ।
संसारवर्णनेन ज्ञापितं हेतुमाह –
कर्मफलविरुद्धेति ।
विशोकत्वादिकं पृथक्पृथगेव हेतुरिति मन्तव्यम् ।
व्यतिरेकेणेति ।
यत्र कर्मफलत्वं तत्र विशिष्टहेत्वभावः यथा स्वर्गादिवदिति भावः ।
वावेत्यस्यार्थं कथयन् व्यवहितेनान्वयमाह –
नैवेति ।
विपक्षे बाधकप्रतिपादकं भाष्यमवतारयति –
मोक्षश्चेदिति ।
तदेवेति ।
मोक्षस्वरूपं धर्मफलमेवेत्यर्थः । प्रियं सुखमित्यर्थः ।
तन्निषेधेति ।
सुखस्पर्शननिषेधो न सम्भवतीति पूर्ववादिनं प्रत्याहेत्यर्थः ।
नन्विति ।
धर्मफलं द्विविधं, तथाहि – वैषयिकसुखहेतुत्वेन तत्सुखसम्बन्धिरूपं धर्मफलमेकं यथा स्वर्गादि, तथा च स्वर्गादिजनितं सुखं श्रुत्या निषिध्यते तस्मान्न सुखस्पर्शननिषेधायोगः । अपरं धर्मफलमशरीरत्वरूपं तच्च पर्यवसानतया शरीराद्यभावः । स तु ध्वंसवत् नित्योपि जन्यश्च, स एव मोक्षः श्रुतिबलात् कर्मणां विचित्रशक्तित्वेन विचित्रफलदानसामर्थ्याच्चेति पूर्ववादी शङ्कत इति भावः ।
आत्मन इति ।
अशरीरत्वं भावरूपमथो न त्वभावरूपो ध्वंसवैलक्षण्याद्दृष्टान्तवैषम्यमिति सिद्धान्त्यभिप्रायः ।
अशरीरात्मस्वरूपस्य मोक्षस्यानादित्वे भावत्वे च प्रमाणत्वेनोदाहृतां श्रुतिं व्याचष्टे –
अशरीरमिति ।
’महान्तं विभुमिति’ पदद्वयस्य पौनरुक्त्याशङ्कां वारयितुमवतारयति –
आपेक्षिकमिति ।
सावधिकमित्यर्थः । अनवस्थेष्ववस्थितमित्यनेनानादित्वमितरांशेन भावत्वमिति विज्ञेयम् । ’ब्रह्म वेद ब्रह्मैव भवति, विद्ययामृतमश्नुते, ब्रह्मसंस्थोऽमृतत्वमेति, अथायमशरीरोऽमृतः प्राणो ब्रह्मैवे’त्यादिश्रुतिभिर्दर्शितस्य ब्रह्मात्मत्वाशरीरत्वामृतत्वलक्षणस्य मोक्षस्य सादित्वेऽन्तवत्त्वं स्यात् । न चेष्टापत्तिरिति वाच्यम् । अन्तवत्त्वादनित्यत्वेन पुनरावृत्तौ पुनर्बन्धान्मोक्षस्योपचरितार्थत्वप्रसङ्गात्तथा चोक्तश्रुत्या उपचरितार्थत्वापादनरूपन्यायेन चानादिभावस्य मोक्षस्य नित्यसिद्धत्वप्रतीतेः नोपासनाक्रियारूपधर्मफलत्वमिति सिद्धान्तार्थः । नित्यं द्विविधं परिणामिनित्यं कूटस्थनित्यं चेति । ननु नित्यवस्तुमध्ये यस्मिन् वस्तुनि परिणममाने सति तदेव इदमिति प्रत्यभिज्ञाप्रमाणबलात् सिद्धं परिणामनित्यत्वमेव मोक्षस्य स्यात् , तथा च यत् परिणामिनित्यं तत्कार्यमिति व्याप्तिर्यथा पृथिव्यादि तद्वन्मोक्षस्य धर्मकार्यत्वं च स्यात् इति चेत् । उच्यते – यत् परिणामिनित्यं तत्सावयवमिति व्याप्तिः यथा पृथिव्यादि । तथा च श्रुत्युक्तस्य स्वाभाविकाशरीरामृतब्रह्मलक्षणस्य मोक्षस्य निरवयवत्वान्न परिणामिनित्यत्वं किन्तु कूटस्थनित्यत्वमेव ।
किञ्च परिणामिनित्यत्वं कल्पितं कूटस्थनित्यत्वन्तु श्रुतेः स्वाभाविकत्वान्नाशकाभावाच्च पारमार्थिकमित्यभ्युपगम्यते ततो न परिणामिनित्यत्वं मोक्षस्य तस्मान्नोपासनाकर्मकार्यत्वमित्येतमर्थं स्फुटीकर्तुं भाष्यमवतारयति –
नित्यत्वेपीत्यादिना ।
भाष्ये –
किञ्चिदिति ।
किञ्चिद्वस्त्वस्तीत्यर्थः ।
न विहन्यत इति ।
अप्रतिहता जन्यत इति यावत् । यस्मिन् वस्तुनि परिणममाने सति तदेव वस्त्विदमिति प्रत्यभिज्ञारूपबुद्धिरप्रतिहता जन्यते तत्किञ्चिद्वस्तु प्रत्यभिज्ञाप्रमाणकं परिणामिनित्यं स्यादिति पूर्वेणान्वयः । यथा पृथिव्यादि परिणामिनित्यं यथा च सत्त्वादिगुणत्रयविशिष्टं प्रधानं प्रकृतिशब्दवाच्यं परिणामिनित्यं तद्वदित्यर्थः ।
योऽहं बाल्येपि तथान्वभूवं सोहं वृद्धोस्मीत्यवस्थारूपधर्मभेदेपि धर्म्यैक्यविषयकप्रत्यभिज्ञाबलात्परिणामिनित्यं तार्किकाभिमतं शरिरादिकमादिशब्देनोच्यते –
यत्र धर्माधर्माविति ।
यस्मिन्धर्माधर्मौ नोपावर्तेते कालत्रयं च नोपावर्तते तदशरीरत्वमित्यन्वयः ।
तेन कर्तव्येनेति ।
कर्तव्येनोपासनेनापूर्वद्वारा साध्यो मोक्ष इत्यभ्युपगम्येत अभ्युपगम्यते चेदित्यर्थः ।
फलितमाह –
तत्रैवं सतीति ।
अनित्योपि मोक्षः अनित्येषु कश्चिद्विलक्षण इत्यत्र इष्टापत्तिं वारयति –
नित्यश्चेदिति ।
व्याख्याने पञ्चभिर्विशेषणैः कूटस्थत्वं साधयतीत्यभिप्रेत्य भाष्यमवतारयति –
कूटस्थत्वसिद्ध्यर्थमित्यादिना ।
परिणामेति ।
षड्भावविकारराहित्यमभिप्रेत्य प्रकृतत्वात्परिणामाभावपरत्वेन भाष्यं योजयतीति भावः ।
निरवयवत्वादिति ।
निरवयत्वादेवोक्तगमनादिक्रियापि नास्तीति भावः ।
न कर्मेति ।
उपासनारूपकर्मेत्यर्थः ।
कर्मेति ।
धर्माधर्माख्यं कर्मेत्यर्थः ।
तथेत्याहेति ।
उपासनातज्जन्यापूर्वसाध्यत्वं मोक्षस्य नास्तीत्याहेत्यर्थः ।
कालानवच्छिन्नत्वादिति ।
कालासम्बन्धित्वादित्यर्थः ।
धर्माद्यनवच्छेद इति ।
धर्माद्यसम्बन्धित्व इत्यर्थः ।
’अन्यत्रेति’ पदं विभक्तिव्यत्यासेन योजयति –
अन्यदिति ।
ब्रह्मातिरिक्तो मोक्ष इत्यभिप्रायेण शङ्कते –
नन्विति ।
तच्छब्दस्य कैवल्यार्थकत्वं कथयन् भाष्यं योजयति –
तत्कैवल्यमिति ।
अतःशब्दार्थमाह –
कर्मेति ।
तथा च मोक्षस्य न नियोगफलत्वमिति परिहारार्थः । अस्मिन् व्याख्याने यत्पूर्वोक्तमशरीरत्वरूपं तत्कैवल्यं ब्रह्मैवेति यत्पदमध्याहृत्य भाष्यं योजनीयम् । न च यस्य कैवल्यस्येयं जिज्ञासा प्रस्तुता तत्कैवल्यं ब्रह्मैवेत्यन्वयस्य युक्तत्वात्किमध्याहारेणेति वाच्यम् । ब्रह्मज्ञानेच्छायाः प्रस्तुतत्वेपि मोक्षज्ञानेच्छायां अप्रस्तुतत्वात् ।
ननु तर्हि यस्येयं जिज्ञासेति यच्छब्दस्यान्वयः स्यादिति चेन्न । ’तद्यदि कर्तव्यशेषतये’त्युत्तरभाष्यस्थतच्छब्देनान्वयसम्भवात्तथा च यत्पदमध्याहर्तव्यमित्यस्वरसात् व्याख्यानान्तरमाह –
यद्वेति ।
’यस्य ब्रह्मणो जिज्ञासा प्रस्तुता तद्ब्रह्मेति’ भाष्यान्वयमर्थतः स्फुटीकरोति –
यज्जिज्ञास्यमिति ।
तच्छब्दस्य कैवल्यार्थकत्वभ्रमं वारयति –
तद्ब्रह्मेति ।
प्रतीकमादायातःशब्दार्थमाह –
अतः पृथगिति ।
’अथातो ब्रह्मजिज्ञासे’त्यादिना शास्त्रेण जिज्ञास्यत्वादित्यर्थः ।
असंस्पृष्टमिति ।
असम्बन्धीत्यर्थः । प्रथमव्याख्याने अतस्तदित्यादिभाष्यं मोक्षस्य नियोगफलत्वशङ्कानिरासप्रतिपादकं द्वितीये तु ब्रह्मणो धर्माद्यसंस्पृष्टत्वहेतुप्रतिपादकमिति भेदः । द्वितीयव्याख्याने यस्येयं जिज्ञासेति यच्छब्दस्य पूर्वोत्तरस्थतच्छब्दाभ्यामन्वयो वेदितव्यः ।
ब्रह्म धर्माद्यसंस्पृष्टं पृथक् जिज्ञास्यत्वात् व्यतिरेकेण स्वर्गवदित्यनुमानं तस्मिन्नप्रयोजकत्वशङ्कानिरासार्थमनुकूलतर्कमाह –
ब्रह्मणो विधिस्पर्श इति ।
अहं ब्रह्मास्मीत्यारोप्यैक्यविषयकोपासनाविधिशेषत्वेन ब्रह्मणः विधिसम्बन्धित्वे इत्यर्थः । उपासनयाः कार्यरूपत्वेन कार्यविलक्षणानधिगतविषयाभावाद्वेदान्तशास्त्रस्य कर्मशास्त्रापेक्षया पृथक्त्वं न स्यात्तथा च प्रथमसूत्रेण ब्रह्मणः पृथग्जिज्ञास्यत्वानुपपत्तिरिति भावः ।
ननु ब्रह्मणः विधिशेषत्वेपि विधिपरात्सत्यादिवाक्यात् ब्रह्मात्मैक्यस्य उपासनाविषयस्य ज्ञातुं शक्यत्वात् कार्यविलक्षणानधिगतब्रह्मात्मैक्यरूपविषयलाभेन वेदान्तानां पृथक्शास्त्रत्वकथनं युक्तमित्यत आह –
न हीति ।
नाहमीश्वर इति भेदप्रामाण्यस्य जागरूकत्वात् न ब्रह्मात्मैक्यं ज्ञातुं शक्यम् विधिपरवाक्यस्य अप्राधान्येन ब्रह्मात्मैक्यबोधकतया दुर्बलत्वात्तथा च शास्त्रपृथक्त्वकथनं व्यर्थमिति भावः ।
ननु प्रत्यगभिन्नब्रह्मोपासनाविधेः वास्तवं ब्रह्मात्मैक्यमन्तरानुपपन्नत्वात्तदावश्यकं, तथा चाहं ब्रह्मास्मीति प्रधानविधिवाक्येनैव विषयलाभात् शास्त्रपृथक्त्वं युक्तमित्याशङ्क्य वास्तवैक्यं विनैवारोपितैक्यविषयकभ्रमात्मकज्ञानादेव तदुपासनायाः सम्भवेन तद्विधेरुपपत्तेः न तदपेक्षेपि परिहरति –
न वेति ।
तद्विनेति ।
वास्तैक्यं विनेत्यर्थः ।
आरोपितैक्यविषयकभ्रमात्मकज्ञानादुपासनाद्वारा विधेरुपपत्तिः क्व दृष्टेत्याशङ्क्य ’योषा वाव गौतमाग्निरि’त्यत्र दृष्टेत्याह –
योषिदिति ।
प्रकृते ऐक्योपासनां प्रति ऐक्यारोपः आरोप्यैक्यं वा हेतुः न वास्तवैक्यमिति भावः ।
स्वपक्षे सूत्रस्वारस्यज्ञापनाय योजनान्तरमाह –
अथवेति ।
सूत्रार्थमिति ।
’तत्तु समन्वयादिति’ सूत्रस्यार्थमित्यर्थः ।
’अथातो ब्रह्मजिज्ञासे’ति सूत्रेण जिज्ञास्यं ब्रह्म यद्ब्रह्म तदेव ’तत्तु समन्वयादि’त्यत्र तच्छब्दार्थ इति भाष्यभावं स्फुटीकुर्वन्नन्वयमाविष्करोति –
यदत्रेति ।
अतःशब्दार्थमाह –
समन्वयादिति ।
ब्रह्मणः स्वातन्त्र्येणोपदेशानङ्गीकारे अथातो ब्रह्मोपासानाजिज्ञासेति सूत्रं स्यान्न त्वेवमस्ति तस्माद्ब्रह्म स्वतन्त्रमेवोपदिश्यते इति भावः ।
नियोगाभावादिति ।
नियोगकर्त्रभावादित्यर्थः ।
न नियोगेति ।
दृष्टस्याज्ञाननिवृत्तिरूपमोक्षस्यापरोक्षरूपसाक्षात्काराव्यवहितोत्तरजन्यत्वान्न कालान्तरभाव्यदृष्टफलकनियोगजन्यत्वम् अन्यथा मोक्षस्य कालान्तरभाव्यदृष्टफलत्वापत्तेरित्याहेत्यर्थः ।
यदपूर्वजन्यं तत्कालान्तरभावि यथा स्वर्गादि न तथा मोक्षः किन्तु ज्ञानाव्यवहितोत्तरजन्य इत्यत्र प्रमाणत्वनोदाहृतश्रुतीनामर्थमाह –
यो ब्रह्मेत्यादिना ।
यदा हि ज्ञानं तदा मोक्ष इति प्रतिपादकेन वर्तमानार्थकलट्प्रत्ययेन कालान्तरनिरासः क्रियत इति भावः । एवं सर्वत्र विज्ञेयम् । तस्मिन् दृष्टे सतीत्यनेन ज्ञानाव्यवहितोत्तरजन्यत्वं कर्मनाशस्य प्रतीयत इति भावः ।
प्रकृते पर्यवसानं करोति –
मोक्षस्य विधिफलत्व इति ।
वैध इति ।
विधिजन्य इत्यर्थः ।
सूर्यश्चेतीति ।
अव्यवहितोत्तरजन्यत्वप्रतिपादकं तस्यैतत्पश्यन्नित्यादिसूर्यश्चेतीत्यन्तं वाक्यमुदाहर्तव्यमिति भाष्यान्वयः । तिष्ठतिगायत्योर्मध्ये यदर्थयोर्मध्ये इत्यर्थः ।
वाक्यार्थमुक्त्वा तात्पर्यार्थमाह –
तत्र ज्ञान इति ।
लक्षणमिति ।
व्यावर्तकं चिन्हशब्दितपरिचायकं वेत्यर्थः । तिष्ठन् गायतीत्यत्र स्थितिकालीनगानक्रियावान् पुरुष इति बोधादितरकाले गानक्रियाव्यावर्तिका स्थितिर्भवति न हेतुरित्यतः कार्यान्तरप्रसक्तिः, स्थितेः कार्यान्तरवारकत्वाभावादुभयार्थकत्वे वाक्यभेदः स्यात् , पश्यन्प्रतिपेद इत्यत्र तु ब्रह्मदर्शनब्रह्मप्राप्तौ हेतुर्भवति, तथा च सामग्र्यव्यवहितोत्तरक्षणे कार्योत्पत्तेरावश्यकत्वान्न कार्यान्तरप्रसक्तिरिति दृष्टान्तवैषम्यमस्तीति भावः ।
सूत्रेणेति ।
व्याकरणसूत्रेणेत्यर्थः ।
सूत्रार्थमाह –
क्रियां प्रतीति ।
लक्षणपदं व्यावर्तकपरं परिचायकपरं वा ।
वर्तमानादिति ।
विद्यमानादित्यर्थः । लटः लट्प्रत्ययस्येत्यर्थः ।
इति विहितेति ।
व्याकरणसूत्रेण उक्तरीत्या विहितो यः शतृप्रत्ययस्तत्सामर्थ्यादित्यर्थः । उत्तरकालीनगानक्रियां प्रति स्थितेः व्यावर्तकत्वरूपार्थे प्रोच्यमाने विद्यमानधातोः परस्य वर्तमानार्थकलट्प्रत्ययस्यादेशत्वेन विहितो यः शतृप्रत्ययः सोपि ’स्थानिवदादेश’ इति न्यायेन वर्तमानार्थक एव तत्सामर्थ्यात्तिष्ठन् गायतीत्यत्र स्थितेः गानक्रियां प्रति हेतुत्वाप्रतीतावपि तस्याः कार्यान्तरावारकत्वेपि स्थितिकाले गानं कृतवानिति बोधेन तत्कर्तृककार्यान्तराभानात् तत्कर्तुः गानव्यतिरिक्तक्रियान्तरं मध्ये नास्तीति प्रतीयते, दार्ष्टान्तिकेपि ज्ञानकर्तुः ब्रह्मप्रतिपत्तिक्रियाव्यतिरिक्तकार्यान्तरं मध्ये नास्तीति प्रतीयते, तथा च पुरुषकर्तृककार्यान्तराभावरूपसाम्येन तिष्ठन् गायतीति दृष्टान्तः पश्यन्प्रतिपेद इत्यस्य युक्त इत्याहेत्यर्थः । कार्यान्तरं मध्ये न भातीति – रामानन्दीयपाठान्तरमत्र समीचीनं कार्यान्तराभनप्रतिपादकत्वेन सुबोधकत्वादिति वेदितव्यम् । मोक्षस्य नियोगसाध्यत्वे ज्ञानाव्यवहितोत्तरजन्यत्वप्रतिपादकश्रुतिविरोधमुपपाद्य सम्प्रति ज्ञानात्साक्षादज्ञाननिवृत्तिप्रतिपादकश्रुतिविरोधमुपपादयति सर्वज्ञः श्रीभाष्यकार इति ।
भाष्यमवतारयति –
किञ्चेति ।
कर्मत्वादिति ।
क्रियात्वादित्यर्थः । ज्ञानाज्ञानयोर्विरोधात् ज्ञानस्याज्ञाननिवर्तकत्वं युक्तं कर्माज्ञानयोर्विरोधाभावात् कर्मरूपस्य ज्ञानस्याज्ञाननिवर्तकत्वं न युक्तमिति भावः ।
प्रतीकमादाय परशब्दार्थमाह –
परं पुनरावर्तिशून्यमिति ।
परशब्दार्थमाह –
ब्रह्मेति ।
ब्रह्मेति च्छेदः, विद्याप्लवेनास्मान् ब्रह्म प्रापयसीत्यन्वयः । अत्र द्विकर्मकप्रयोगो द्रष्टव्यः ।
मे इत्यस्य विभक्तिव्यत्यासेनान्वयमाह –
मयेति ।
मृदितकषायायेत्यस्यार्थमाह –
तपसा दग्धकिल्बिषायेति ।
तत्त्वप्रमेति ।
तत्त्वप्रमैव साक्षान्मुक्तिहेतुः कर्मस्वरूपज्ञानं तु न मुक्तिहेतुरित्युक्तमित्यर्थः ।
अक्षपादमुनीति ।
तर्कशास्त्रसूत्रकृद्गौतममुनिसम्मतिमाहेत्यर्थः ।
मिथ्याज्ञानाकारमाह –
गौरोहमिति ।
पाठक्रमेणेति ।
’दुःखजन्मप्रवृत्ती’त्यादिसूत्रपाठक्रमेणेत्यर्थः ।
प्रवृत्तिहेतोरिति ।
प्रवृत्तिरूपहेतोरित्यर्थः । इयं षष्ठी व्यधिकरणेति ज्ञेयम् । न विद्यतेऽन्तरं यस्य तत्तथा तस्येत्यर्थः । जन्मप्रवृत्त्योः मध्ये किञ्चिदन्तरं व्यवधायकं नास्तीत्यनन्तरं प्रवृत्तिकार्यं च जन्म भवतीति वाक्यार्थः । अयं भावः । देहे अनुभूतमाध्यात्मिकादिदुःखं प्रति शरीरस्य जन्म कारणं शरीरोत्पत्तिं प्रति धर्माधर्मप्रवृत्तिः कारणं धर्मादिप्रवृत्तौ रागद्वेषमोहादिदोषः कारणं रागादिदोषे गौरोहमित्यादिमिथ्याज्ञानं कारणमित्येवं मिथ्याज्ञानाद्दुःखोत्पत्तिमभिप्रेत्याचार्यः श्रीगौतममुनिः नाशक्रमप्रतिपादकं सूत्रं रचयाञ्चकार, तथा चोत्तरोत्तरकारणनाशेन पूर्वपूर्वकार्यनाशादेकविंशतिदुःखध्वंसरूपो मोक्षो भवतीति तत्त्वज्ञानान्मिथ्याज्ञाननिवृत्तिद्वारा मोक्षः प्रतिपादितः इत्यस्मिन्नर्थे सम्मतिरुक्तेति ।
भेदज्ञानं त्विति ।
भेदज्ञानान्मुक्तिरित्यंशे बहुश्रुतिविरोधान्न सम्मतिरुक्तेति भावः ।
ननु वेदान्तानां सामान्योपासनाविधिपरत्वाभावेपि सम्पदाद्यन्यतमरूपविशेषोपासनविधिपरत्वं स्यात् सगुणवाक्यवन्निर्गुणवाक्यानामुपासनाविधिपरत्वे लाघवादित्याशङ्कां वारयितुमुत्तरभाष्यं प्रवृत्तिमित्याशयं मनसि निधाय तदवतारयति –
ननु ब्रह्मेति ।
ऐक्यज्ञानस्याप्रमात्वं साधयितुः शङ्कितुः वेदान्तानां सम्पदादिरूपविशेषोपासनाविधिपरत्वं स्यादित्यभिप्रायः । सिद्धान्तिनस्तु सम्पदादीनामाहार्यारोपरूपाणां विशेषोपासनात्वमङ्गीकृत्याप्रमात्वेनाज्ञानानिवर्तकत्वादिरूपानन्तदोषान्न तत्परत्वं वेदान्तानामिति कुतो लाघवावकाशः प्रामाणिकगौरवस्यादोषत्वात्तथा चैकत्वज्ञानं प्रमात्मकत्वेन न सम्पदादिरूपमित्यभिप्रायः ।
अल्पालम्बनेति ।
मनस्यल्पत्वबुद्धितिरस्कारेण मनस्त्वबुद्धितिरस्कारेण वा उत्कृष्टविश्वेदेवाभेदध्यानं सम्पदित्यर्थः । एतच्च भेदज्ञानपूर्वकत्वान्न प्रमेति भावः । एवमुत्तरत्र विज्ञेयम् ।
अभेदः सम्पदिति ।
अभेदध्यानं ध्यानविषयीभूताभेदो वा सम्पदित्यर्थः ।
प्रतीकस्य सम्पद्भेदमाह –
आलम्बनप्राधान्येनेति ।
आरोप्यप्रधाना सम्पत् अधिष्ठानप्रधानोऽध्यास इत्यध्याससम्पदोर्विभागः कल्पतरौ दर्शितः ।
अर्थं कथयन् अन्वयपूर्वकं उत्तरभाष्यमवतारयति –
क्रियाविशेष इति ।
अधिदैवतं व्याख्यायाध्यात्मं व्याकरोति -
स्वापकाल इति ।
वृद्धिक्रियेति ।
जीवस्य शरीरपरिणामहेतुत्वरूपं यद्बृंहणत्वं तदात्मकवृद्धिक्रियायोगादित्यर्थः ।
ब्रह्मात्मैक्यज्ञानस्य सम्पद्रूपत्वमध्यासरूपत्वं संवर्गध्यानरूपत्वं च न सम्भवतीति प्रतिपादकभाष्यं व्याख्याय सम्प्रति संस्काररूपत्वं न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याति –
यथा पत्नीति ।
संस्कारकमिति ।
अदृष्टजनकमित्यर्थः । कर्मारम्भसमये अहं ब्रह्मास्मीत्युपासनारूपं ब्रह्मात्मज्ञानमावश्यकं तेन कर्तरि संस्कारद्वारा कर्मकारणमदृष्टं जन्यते तस्मादुपासनापरत्वं वेदान्तानामिति शङ्कितुरभिप्रायः ।
समानाधिकरणेति ।
पदयोः सामानाधिकरण्यमेकविभक्तिकत्वे सत्येकार्थबोधकत्वरूपं वाक्ये ह्युपचर्यते, तथा च भेदज्ञानपूर्वकसम्पदाद्युपासनापरत्वपक्षे वाक्यस्थपदानां सामानाधिकरण्यं न स्यादन्यथा घटः पट इति सामानाधिकरण्यप्रयोगः स्यादिति भावः ।
तात्पर्यमिति ।
एकस्मिन्नर्थे निश्चितं यत्तात्पर्यं तत्पीड्येतेत्यन्वयः ।
कथं तद्भाव इति ।
ब्रह्मभावः कथमित्यर्थः ।
नष्टे वेति ।
नष्टपक्षे अधिकरणस्यैवाभावान्न तद्भावापत्तिरिति भावः ।
सम्पदादिरूपत्वाभाव इति ।
पुरुषव्यापारतन्त्रसम्पदादिरूपत्वाभाव इत्यर्थः ।
शङ्कते –
किं तर्हि नित्यैवेति ।
परिहरति –
नेति ।
प्रमाणसाध्यत्वं प्रमितवस्तुजन्यत्वं ब्रह्मविद्या न नित्या किन्तु प्रमाणसाध्येति भावः ।
प्रमाणविषयेति ।
प्रमाणपदं प्रमापरं प्रमाणविषयघटादिवस्तुज्ञानवद्यथार्थवस्तुतन्त्रैवेति भाष्यार्थः ।
मोक्षस्य कर्मसाध्यत्वं ब्रह्मज्ञानस्य नियोगविषयत्वं च कार्यानुप्रवेशशब्दार्थ इति स्फुटीकुर्वन् भाष्यमवतारयति –
उक्तरीत्येति ।
कार्याङ्गमिति ।
कर्माङ्गमित्यर्थः । कारणमिति । अज्ञानरूपं कारणमित्यर्थः ।
अविषयत्वमुक्त्वेति ।
प्रत्यक्षाद्यविषयत्वमुक्त्वेत्यर्थः ।
नेदमिति ।
इदमितीदन्त्वेन निर्दिष्टं न ब्रह्मेत्युक्तमित्यर्थः । तथा च ब्रह्मणः ज्ञानविषयत्वरूपमुपासनाविषयत्वरूपं च यत्कर्मत्वं तस्य प्रतिषेधात्पक्षे हेत्वसिद्धेः नानुमानं स्वसाध्यसाधकमिति भावः ।
ब्रह्मणः शाब्देति ।
ब्रह्म शास्त्रप्रमाणकं शास्त्रतात्पर्यविषयत्वादिति शब्दात्मकशास्त्रजन्यबोधविषयत्वरूपं ब्रह्मणः शास्त्रप्रमाणकत्वं तृतीयसुत्रे प्रतिज्ञातं सम्प्रति शास्त्रजन्यबोधाविषयत्वे प्रतिज्ञाहानिरिति शङ्कितुरभिप्रायः ।
वृत्तीति ।
ब्रह्माकारवृत्तीत्यर्थः । ब्रह्मणः शास्त्रजन्यबोधकृताविद्यानिवृत्तिफलशालित्वरूपशास्त्रप्रमाणकत्वमभ्युपगम्यते न शास्त्रजन्यबोधविषयत्वरूपं दृश्यत्वापत्तेरनेकश्रुतिविरोधाच्च, तथा च तत्र बोधविषयत्वेन तस्याप्रतिज्ञातत्वान्न प्रतिज्ञाहानिरिति भावः ।
ननु ब्रह्मणः बोधाविषयत्वे कथमविद्यानिवृत्तिः ज्ञानाज्ञानयोः समानविषयकत्वाभावादित्यत आह –
वृत्तिकृताविषयत्वेपीति ।
अप्रमेयत्वमिति ।
शाब्दबोधाविषयत्वमिति यावत् । अविद्यानिवृत्त्यर्थं केवलवृत्तिव्याप्तिरूपं ब्रह्मणः शास्त्रजन्यवृत्तिविषयत्वं गौणमभ्युपगम्यते तस्य स्वप्रकाशत्वेन वृत्त्यभिव्यक्तस्फुरणाविषयत्वान्मुख्यत्वं वृत्तिप्रतिबिम्बितचैतन्यांशरूपबोधविषयत्वं तु नाभ्युपगम्यते तस्मात्प्रत्यगभिन्नब्रह्मणः शाब्दबोधाविषयत्वे हि न काप्यनुपपत्तिरिति भावः । अत्रेदमनुसन्धेयम् । विषयत्वं द्विविधं मुख्यं गौणं चेति । तत्र विशिष्टनिष्ठत्वं मुख्यत्वं केवलाहङ्कारादिनिष्ठत्वं केवलात्मनिष्ठत्वं वा गौणत्वमित्येवमध्यासभाष्यग्रन्थे प्रतिपादितम् , सम्भावनाभाष्यग्रन्थे तु तथैवोपपादितम् , तथा हि भासमानत्वाख्यं विषयत्वं द्विविधं गौणं मुख्यं चेति । तत्र भानप्रयुक्तफलभाक्त्वरूपत्वं गौणत्वं भानभिन्नत्वविशिष्टत्वं मुख्यत्वमिति । अस्यां फक्किकायामपि विषयत्वं द्विविधं गौणं मुख्यं चेति, तत्र वृत्तिव्याप्तिरूपत्वं गौणत्वं फलव्याप्तिरूपत्वं मुख्यत्वमिति, तथा च पक्षत्रयेपि आत्मनि गौणमेव विषयत्वं पर्यवसितम् , अहङ्कारे तु गौणं मुख्यं चेति ।
अभावस्याधिकरणस्वरूपत्वं मत्वाह –
निवृत्तिरूपेति ।
तस्य मतमित्यत्र तच्छब्दस्य विभक्तिव्यत्यासेनान्वयमाह –
तेनेति ।
ब्रह्मचैतन्येति ।
ब्रह्मेति च्छेदः ।
अनुवदतीति ।
श्रुतिः स्वयमेवानुवदतीत्यर्थः । अविज्ञातमपि ज्ञानिनां पक्षः विज्ञातमित्यज्ञानिनां पक्ष इति विवेकः ।
अविषयत्वे उदाहृतं श्रुत्यन्तरं व्याचष्टे –
दृष्टेरिति ।
दृष्ट्येति ।
चाक्षुषमनोवृत्त्येत्यर्थः ।
तयेति ।
बुद्धिवृत्त्येत्यर्थः ।
आगन्तुकत्वादिति ।
जन्यत्वादित्यर्थः । तथा च निवृत्तेर्जन्यत्वेन तद्रूपमोक्षस्यापि जन्यत्वादनित्यत्वं स्यादिति शङ्कितुरभिप्रायः ।
ध्वंसस्येति ।
जन्यत्वेपि निवृत्तिरूपध्वंसस्येत्यर्थः । अविद्यायाः कल्पितत्वादन्त्यभावविकाररूपतन्निवृत्तेरपि कल्पितत्वेनाधिष्ठानात्मस्वरूपत्वात्तन्निवृत्तेः परमते ध्वंसरूपत्वेन नित्यत्वप्रसङ्गः तस्मान्न नियोगपरत्वं वेदान्तानामिति भावः ।
ननु मोक्षः क्रियाफलं भवितुमर्हति उत्पत्त्याद्यन्यतमवत्त्वात् घटादिवदित्यनुमानेन मोक्षस्योपासनाजन्यत्वमौपचारिकं स्यादित्याशङ्कां पक्षे हेत्वसिद्ध्या परिहरतीति भाष्यमवतारयति –
उत्पत्तीति ।
न हि मोक्षस्योत्पत्त्यादिकमेवास्ति येनोत्पत्त्यादेः क्रियाजन्यत्वात् तद्द्वारा क्रियाजन्यत्वं मोक्षस्य स्यात्तथा चोत्पत्त्याद्यन्यतमरूपसाध्यसम्बन्धेन मोक्षस्य साध्यत्वमिति यत्पूर्वपक्षिणो मतं तदसङ्गतमिति सिद्धान्तसमुदायग्रन्थार्थः । उत्पत्तिः सामग्र्यव्यवहितोत्तरक्षणसम्बन्ध इत्यर्थः । आप्तिः संयोगादिरूपप्राप्तिरित्यर्थः ।
भाष्ये
उत्पाद्य इति ।
उत्पत्तिमानित्यर्थः । मानसमुपासनाध्यानरूपं वा कायिकमग्निष्टोमादिरूपं कार्यं कर्मेत्यर्थः ।
तयोः पक्षयोरिति ।
मोक्षस्योत्पाद्यत्वं कश्चिद्वदति कश्चिद्विकार्यत्वं तयोः पक्षयोरित्यर्थः । साध्यश्चेन्मोक्षोऽभ्युपगम्यते अनित्य एव स्यादित्यादिभाष्ये दृढत्वेनानित्यत्वं साधितमिति भावः ।
अनाप्यत्वादिति ।
क्रियापूर्वकाप्यत्वानुपपत्तेरित्यर्थः ।
सर्वेणेति ।
सर्ववस्तुनेत्यर्थः ।
गुणाधानेनेति ।
अत्राभेदे तृतीयाद्वयमिति विभावनीयम् ।
व्रीह्यादौ प्रोक्षणादिना गुणाधानलक्षणः संस्कारः सम्भवति वस्त्रादौ तु क्षालनेन दोषापनयरूपः संस्कारः सम्भवति यथा तथा ब्रह्मणि द्विविधः संस्कारो न सम्भवतीत्याह –
न तावदिति ।
अनाधेयातिशयेति ।
असङ्गत्वेन गुणाद्यसम्भन्धीत्यर्थः ।
स्वात्मधर्म एवेति ।
ब्रह्मात्मस्वरूपभूत एवेत्यर्थः ।
व्याख्याने – प्रतीकमादाय तथेत्यस्यार्थमाह –
तथोत्पाद्यत्ववदिति ।
अपेक्षत इति ।
त्रिविधमध्ये अन्यतमं कर्मापेक्षत इत्यर्थः ।
दूषयतीति ।
स्वमते मोक्षस्योत्पत्त्याद्यनङ्गीकारान्न नित्यत्वदोषः प्रत्युत परमत एव तदङ्गीकारादनित्यत्वदोष इति दूषयतीत्यर्थः ।
स्थितस्यैवेति ।
नित्यत्वेन स्थितस्यैवेत्यर्थः । यथा शैवंवैष्णवादितत्तन्मते नित्यत्वेन स्थितस्य कैलासवैकुण्ठादिग्रामस्याप्तिः गमनरूपया क्रियया भवति तथैव अनित्यत्वनिरासाय नित्यत्वेन स्थितस्यैव ब्रह्मणः उपासनारूपक्रियया आप्तिरस्तीत्यर्थः । नित्यत्वेन स्थितस्यैव ब्रह्मरूपमोक्षस्याप्तिरूपसाध्योपरागेण साध्यत्वं प्राप्तिकर्मता च भवेत्तथा च ब्रह्मप्राप्तेरुपासनाजन्यत्वात्तद्द्वारा मोक्षस्याप्युपासनाजन्यत्वेन वेदान्तानां नियोगपरत्वमिति शङ्कितुरभिप्रायः ।
ब्रह्मजीवेति ।
जीवस्य ब्रह्मप्राप्तिरित्यत्र तयोरभेदे स्वस्वरूपस्य नित्यमाप्तत्वात्क्रियापूर्वकाप्यत्वानुपपत्तेर्न क्रियापेक्षया भेदे तु ब्रह्मणः सर्वगतत्वेन नित्यमाप्तत्वात् क्रियापूर्वकाप्यत्वानुपपत्तेर्न क्रियापेक्षेत्याहेत्यर्थः | नन्वभेदपक्षे कथमाप्तिः भेदनियतत्वादाप्तेस्तथा चोभयथाप्याप्तात्वादित्यनुपपत्तिरिति चेन्न । अभेदे त्वाप्तरोपचारिकत्वादिति भावः ।
मोक्षस्योत्पाद्यत्वं विकार्यत्वमाप्यत्वं च न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याय संस्कारत्वं न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याति –
यथा व्रीहीणामिति ।
अहं ब्रह्मास्मीति ब्रह्मोपासनया ब्रह्मरूपे मोक्षे गुणाधानाख्यः कश्चिदतिशयरूपः संस्कारो जन्यते यथा व्रीहिषु प्रोक्षणादिना गुणाधानाख्यः संस्कारस्तद्वत्तथा चोपासनारूपक्रियाजन्यत्वात्संस्कारस्य तद्द्वारा मोक्षस्यापि क्रियाजन्यत्वेन वेदानतनां क्रियापरत्वमिति शङ्कितुरभिप्रायः ।
गुणाधानं दोषापनयश्च संस्कारशब्दार्थ इत्यभिप्रेत्य ’संस्कारो ही’त्यादिभाष्यं व्याचष्टे –
गुणाधानमिति ।
व्रीह्यादौ गुणाधानलक्षणसंस्कारो नाम स्वर्गोत्पादकत्वरूपातिशयविशेषः ।
आद्य इति ।
सत्यत्वपक्षे त्वविद्यात्मकमलनाशकोपासनारूपक्रिया किमात्मनिष्ठा सती स्वरूपाभिव्यक्त्यर्थं मलं नाशयति अन्यनिष्ठा वा ? नाद्यः असङ्गाद्वितीयस्य वस्त्वन्तरसंयगित्वानुपपत्तेरित्यर्थः ।
नैवात्मानं लभत इति भाष्यस्यार्थमाह –
न जायत इति ।
या क्रिया सा स्वाश्रयस्य वस्त्वन्तरसंयोगित्वरूपविकारं सम्पादन्त्येव स्वयं जायत इति फलितार्थः । तथा चात्मनः क्रियाङ्गीकारे द्रव्यान्तरसंयोगित्वमागतं तच्चानिष्टमिति भावः ।
प्रतीकमादाय तत्पदस्यार्थमाह –
तच्चेति ।
यत्रान्यनिष्ठया क्रिययान्यस्य संस्कार्यत्वं तत्र क्रियाश्रयद्रव्यसंयोगित्वमिति व्याप्तिं ज्ञापयन्पूर्ववाद्युक्तदृष्टान्तवैषम्यमाह –
दर्पणं त्विति ।
संयोगविभागप्रचयानुकूलहस्तचलनतदनुकूलयत्नानुरूपा या निघर्षणक्रिया तदाश्रयं यदिष्टकाचूर्णादिद्रव्यं तत्संयोगित्वादित्यर्थः । श्रीगुरुचरणैर्ब्रह्मविद्याभरणे दृष्टान्तवैषम्यं स्फुटत्वेनोपपादितम् । तथाहि – यद्यपीष्टकाचूर्णस्य दर्पणेन संयोगविभागप्रचयानुकूलो व्यापारः हस्तचलनतदनुकूलयत्नादिरूपोऽन्यगतोपि भवति तथापि मलापकर्षणपुरुषव्यापारस्य द्वारीभूतो यः संयोगविभागप्रचयः स दर्पणगतो भवत्येव नैवं ब्रह्मणि सम्भवति ।
अन्यक्रिययेति ।
अन्यनिष्ठक्रिययेत्यर्थः ।
अन्य इति ।
आत्मेत्यर्थः ।
व्यभिचारमिति ।
यत्र क्रियाश्रयद्रव्यसंयोगित्वाभावस्तत्र अन्यनिष्ठया क्रियया अन्यस्य संस्कार्यत्वाभाव इत्याकारकव्यतिरेकव्याप्तेरात्मनि व्यभिचारं शङ्कत इत्यर्थः । केवलदेहनिष्ठया स्नानादिक्रियया केवलस्यात्मनः संस्कारो दृश्यत इति पूर्वपक्ष्यभिप्रायः । स्नानादक्रिया देहविशिष्टस्यैव संस्कारोपि देहविशिष्टस्यैव न शुद्धस्यात्मन इति सिद्धान्त्यभिप्रायः ।
यत्र बुद्धिरुत्पद्यते तत्संहतस्य फलमित्यन्वयमर्थपूर्वकं दर्शयति –
यत्रेति ।
केवलस्य देहस्य फलभोक्तृत्वं न केवलस्यात्मनः किन्तु विशिष्टस्य फलभोक्तृत्वं स्नानादिक्रियाश्रयत्वादिकं चेत्यात्मनि व्यतिरेकव्याप्तेर्न व्यभिचार इति भावः ।
भाष्ये
तत्संहत एव कश्चिदिति ।
देहेन्द्रियादिविशिष्टः कश्चित्पुरुष एवेत्यर्थः ।
विशिष्टस्यैव क्रियाश्रयत्वादौ दृष्टान्तमाह –
यथेति ।
धातुसाम्येनेति ।
वातपैत्त्यश्लेष्मधातुसाम्येनेत्यर्थः । तदभिमानः जीवस्येत्यर्थः ।
दार्ष्टान्तिकमाह –
एवमिति ।
यत्र बुद्धिरुत्पद्यत इत्यत्र विद्यमानयत्रेत्यस्य तच्छब्दचतुष्टयेनान्वयः । यत्रात्मनि विषये शुद्धबुद्धिरुत्पद्यत इत्यर्थः ।
तत्फलं चेति ।
क्रियाफलं चेत्यर्थः ।
व्याख्याने तृतीयाचतुष्टयस्य क्रमेणार्थं व्युत्पादयति –
देहसंहतेनैवेति ।
मनोविशिष्टस्येति ।
एकांशरूपस्थूलदेहे विनष्टेपि प्रत्यभिज्ञाबलाल्लिङ्गदेहमादाय संस्कारफलं चोपपद्यते यथा एकांशरूपबाल्यपरिमाणे विनष्टेपीतरांशमादाय प्रत्यभिज्ञानाद्विशिष्टव्यवहारोपपत्तिस्तद्वदिति भावः ।
सत्त्वेति ।
अन्तःकरणेत्यर्थः ।
पिप्पलमिति ।
कर्मफलमित्यर्थः ।
तद्भूत्वेति ।
अधिष्ठानं भूत्वेत्यर्थः ।
द्वैतापत्तिं परिहरति –
साक्ष्यमिति ।
चेतेति ।
चेतृशब्द ऋकारान्तः ।
चेता केवल इति पदद्वयस्य क्रमेणार्थं वदन् अनुभवमाह –
बोद्धृत्वे सतीति ।
प्रकृते किमायातमित्यत आह –
निर्गुणत्वादिति ।
शिराः नाड्य इत्यर्थः ।
देहद्वयाभावे फलितमाह –
पुण्यपापाभ्यामिति ।
उपसंहरतीति ज्ञापयन् भाष्यार्थमाह –
उत्पत्तीति ।
परिहरति –
नेति ।
ज्ञानार्थत्वाच्छास्त्रारम्भः सार्थक इत्याहेत्यर्थः ।
व्याघातमिति ।
विरोधमित्यर्थः । शास्त्रं ज्ञानार्थञ्चेन्मोक्षे क्रियानुप्रवेशः कथं नोपपद्यते ज्ञानस्यैव क्रियात्वादिति विरोधं शङ्कते इति भावः ।