अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

९ परिच्छेदः

सिद्ध इति ।
घटाद्यर्थस्य सिद्धत्वं नाम उत्पत्त्यनन्तरं कृत्यसाध्यत्वं ब्रह्मणस्तु कृत्य­सा­ध्य­त्व­मिति भेदः । व्युत्पत्तिं शक्तिमित्यर्थः । लोके पदानां योग्ये­त­र­सं­सृ­ष्ट­त्वेन स्वार्थ­प्र­ति­पा­द­न­सा­म­र्थ्य­म­ङ्गी­कृत्य सिद्धेर्थे व्युत्प­त्ति­मि­च्छ­ता­मिति भावः ।

ब्रह्म नास्तिकानामिति ।
ब्रह्मैव नास्तीति वदतां भट्ट­म­ता­नु­या­यि­ना­मि­त्यर्थः ।

सफलत्वाच्चेति ।
सफ­ल­ज्ञा­न­वि­ष­य­त्व­मेव सफलत्वमिति मन्तव्यम् ।

सर्वेषां पदानामिति ।
पदानां कार्यान्वित एवार्थे शक्तिरिष्यते तत्रैव शब्द­सा­म­र्थ्यान्न तु सिद्धेर्थे तदभावात्तथा च कार्य­सं­स्प­र्श­म­न्त­रेण सिद्धेर्थे शब्दस्य न प्रामाण्यं सिद्ध­स्या­प­दा­र्थ­त्वा­दिति कार्या­न्वि­तार्थे शक्तिमच्छतामिति भावः । अयमर्थोनुपदं स्फुटीक्रियते । श्री गुरुचरणैस्तु – ब्रह्म­वि­द्या­भ­रणे अयमर्थः अतिस्फुटतया उपपादितः, तथाहि – लौकि­क­प­दा­र्थ­व्यु­त्प­त्त्य­नु­सा­रेण वेदवाक्यार्थो वर्णनीयः लौकिकी च व्युत्पत्तिः पदानां कार्य एव तत्रै­वा­द्य­व्यु­त्प­त्ति­ग्र­ह­ण­स­म्भ­वात् , न हि कोशादिभ्यः आद्य­व्यु­त्प­त्ति­ग्रहः सम्भवति अत्य­न्ता­व्यु­त्प­न्नस्य कोशा­द्य­र्थ­ज्ञा­ना­स­म्भ­वा­त्त­तश्च प्रयो­ज्य­प्र­यो­ज­क­वृ­द्ध­व्य­व­हा­रा­द्भिन्नः शक्तिग्रहो वर्णनीयः प्रथमं स च व्युत्पि­त्सो­रेहं भवति – प्रयोजकवृद्धस्य घटमानय गां बधानेति शब्दो­च्चा­र­णा­न­न्तरं प्रयोज्यवृद्धेन कृतं घटानयनं गोबन्धनं च पश्यतः घटा­न­य­न­गो­ब­न्ध­नयोः कारणतया स्वीय­स्त­न्य­पा­ना­दि­दृ­ष्टा­न्तेन कृतिचिकीर्षयोः मध्य­म­वृ­द्ध­ग­त­यो­र­नु­माने सति चिकीर्षायाः कार्य­ता­ज्ञा­न­मू­ल­क­त्वा­न्नू­न­म­नेन आनयनबन्धनयोः कर्यतावगतेति बुद्धिर्भवति, तस्यां च बुद्धौ शब्दो­च्चा­र­णा­ति­रि­क्तस्य कार­णा­न्त­र­स्या­स­म्भ­वात् प्रयो­ज­क­वृ­द्धो­च्चा­रि­त­शब्दः कार्यविशेषे आनयनादौ शक्त इति निर्णयो भवति, तत­श्चा­वा­पो­द्वा­पाभ्यां यथायथं कार्यसामान्यं प्रथ­मा­व­ग­त­म­वि­हा­यैव तेषु तेषु सम­भि­व्या­हा­र­वि­शे­षेषु तत्का­र्य­वि­शे­ष­प्र­त्ययः ततश्च कोशा­दि­भ्यो­प्यु­प­जीव्य प्राथ­मि­क­व्यु­त्प­त्ति­ग्र­हा­नु­सा­रेण कार्यान्वित एव तत्तत्पदार्थे शक्तिः न तु तदन्वित इति ।

प्रयोजकेति ।
उत्तमेत्यर्थः ।

प्रयोज्येति ।
मधमेत्यर्थः । पश्यतः व्युत्पि­त्सो­र्बा­लस्य बुद्धि­र्भ­व­ती­त्य­न्वयः । कृतिश्च चिकीर्षा च कृतिचिकीर्षे आनयनादिकं प्रति करणीभूते तयोरित्यर्थः । मध्यमवृद्धस्य आनयने प्रवृत्तिः कृति­चि­की­र्षा­पू­र्विका प्रवृत्तित्वात् स्वीय­स्त­न्य­पा­न­प्र­वृ­त्ति­व­दिति बालेन व्युत्प­त्सु­ना­नु­मी­यत इति भावः ।

कार्यताज्ञानेति ।
आनयनं मत्कृ­ति­सा­ध्य­मिति कार्य­त्व­ज्ञा­न­मू­ल­क­त्वा­दि­त्यर्थः ।

अनेनेति ।
मध्य­म­वृ­द्धे­ने­त्यर्थः ।

अशक्तस्येति ।
अश­क्त­श­ब्द­स्ये­त्यर्थः । यदि शब्दस्य कार्यतायां शक्तिर्न स्यात्तेन कथं कार्यताज्ञानं स्यात्त­स्मा­द्गा­मा­न­ये­त्या­द्यु­च्च­रि­त­शब्दः आन­य­ना­दि­का­र्य­वि­शेषे शक्त इति बालस्य निश्चयो भवतीति ब्रह्म­वि­द्या­भ­र­ण­फक्कि कार्थः ।

इति वदतामिति ।
इति ब्रह्मणः सत्त्वं वदतामित्यर्थः ।

वृत्ति­का­रा­णा­मिति ।
ज्ञान­क­र्म­स­मु­च्च­य­वा­दि­भि­न्ना­ना­मु­पा­स­नैव ज्ञान­मु­पा­स­ना­हे­तुर्वा ज्ञान­मि­त्य­भ्यु­प­ग­च्छ­ता­महं ब्रह्मेति प्रत्य­ग­भि­न्न­ब्र­ह्मो­पा­स­ना­द­पू­र्व­द्वारा स्वर्ग­व­ज्ज­न्योपि मोक्षः ’न स पुनरावर्तते’ ’ब्रह्म­वि­दा­प्नोति पर­मि’त्या­दि­शा­स्त्र­ब­ला­न्नित्यः ध्वंस­व­दि­त्यु­क्त­व­ता­मा­चा­र्य­दे­शी­यानां वृत्ति­का­रा­णा­मि­त्यर्थः ।

अधिकरणमारच्यते –
तत्रेति ।
सदेव सोम्ये­त्या­दि­वे­दान्ता इत्यर्थः ।

’प्रति­प­त्ति­वि­धीति’ वाक्ये भाष्य­ता­त्प­र्या­नु­रो­धेन विधि­प्र­ति­प­त्ति­रिति व्यत्यासेन अन्वयं ज्ञापयन् अर्थ­क­थ­न­पू­र्व­क­म­व­ता­र­यति –
विधिर्नियोग इति ।
अनुपदं नियो­ग­श­ब्दा­र्थोऽ­पू­र्व­मिति वक्ष्यते ।

विधिपरैरेवेति ।
विधिः ’तद्वि­जि­ज्ञा­स­स्वे’त्यादिः तत्परैः स्वार्थे फला­भा­वा­त्त­दे­क­वा­क्य­ता­पन्नैः ’सत्यं ज्ञानमनन्तं ब्रह्मे’त्या­दि­वाक्यैः अपू­र्व­वि­ष­यो­पा­स­ना­वि­ष­य­तया ब्रह्मणः विधिशेषत्वं समर्प्यत इति शास्त्र­प्र­मा­ण­क­त्व­मा­हे­त्यर्थः । विधिरपूर्वरूपो विनि­यो­ग­स्त­द्वि­षणी या प्रति­प­त्ति­रु­पा­सना तद्विषयतयेति विग्रहः । प्रति­प­त्ते­र्वि­धि­वि­ष­यत्वं नाम विधि­हे­तु­कृ­ति­वि­ष­य­त्व­मिति मन्तव्यम् ।

वाक्यादिति ।
सत्यं ज्ञान­मि­त्या­दि­वा­क्या­दि­त्यर्थः ।

पशुमिति ।
पशोर्बन्धनं कुर्यादित्यर्थः ।

विधि­वा­क्या­न्यु­दा­हृत्य तत्पराणि वाक्या­न्यु­दा­ह­रति –
यूपं तक्षतीति ।
यूपे पशुं बध्नातीति विधौ यूपः क इत्या­का­ङ्क्षायां यूपं तक्षतीति वाक्येन तक्ष­णा­दि­सं­स्कृतं दारु यूप इति तस्य यूपस्य विधिशेषत्वं बोध्यते यथा तथा तद्वि­जि­ज्ञा­स­स्वेति विधौ तद्ब्रह्म किमि­त्या­का­ङ्क्षायां सत्यादिवाक्येन सच्चिदानन्दं ब्रह्मेति तस्य ब्रह्मणः विधिशेषत्वं बोध्यते सत्यादिवाक्यस्य स्वार्थे फलाभावादिति भावः ।

शेषत्वं स्फुटीकरोति –
विधिपरेत्यादिना ।

ननु तथापि सत्यादिपदानां माना­न्त­रा­वे­द्य­ब्र­ह्म­बो­ध­क­त्वा­द्वा­क्य­भेदो दुर्वार इत्यत आह –
मानान्तरेति ।
यूपा­दी­न्य­पी­त्यर्थः ।

कुत इति ।
कस्मा­द्धे­तो­रि­त्यर्थः ।

वृद्ध­व्य­व­हा­रे­णेति ।
उत्तमवृद्धानां व्यवहारो नाम गामा­न­ये­त्या­दि­वा­क्य­स­मू­हा­त्म­क­स्यास्य शास्त्र­स्या­स्मि­न्नर्थे तात्प­र्य­मि­त्या­का­र­क­नि­श्चयः मध्यमवृद्धानां जायत इत्यर्थः ।

उक्तमेव विवृणोति –
वृद्धव्यवहारे चेति ।
वृद्ध­व्य­व­हा­र­स्थले इत्यर्थः । श्रोतुः मध्य­म­वृ­द्ध­स्ये­त्यर्थः ।

प्रवृ­त्ति­नि­वृ­त्तीति ।
अनुष्ठानरूपा प्रवृ­त्ति­स्त­द्वि­प­रीता निवृत्तिरिति विवेकः । प्रवृ­त्ति­नि­वृ­त्ति­प्र­यो­ज­न­म­न्तरा वाक्य­प्र­यो­गा­नु­प­पत्तेः प्रव­र्त­क­ज्ञा­न­द्वारा प्रवृत्त्यर्थं गामानयेति वाक्यं प्रयोक्ता उत्तमवृद्धः प्रयुङ्क्ते तेन वाक्यश्रोतुः मध्यमवृद्धस्य गामानयने प्रवृत्तिर्भवति न भुङ्क्ष्वेति वाक्य­श्रो­तु­स्तस्य तूष्णीम्भावरूपा निवृत्तिर्भवति, तथा च श्रोतृ­प्र­वृ­त्ति­नि­वृ­त्त्यु­द्दे­श्यक उत्त­म­वृ­द्ध­स्या­प्तस्य वाक्यप्रयोगः मध्यमवृद्धस्य शास्त्र­ता­त्प­र्य­नि­श्चये हेतुरिति भावः ।

ततः किमित्यत आह –
अत इति ।

ते एवेति ।
वाक्य­प्र­यो­ग­प्र­यो­जने प्रवृ­त्ति­नि­वृत्ती एवेत्यर्थः । ज्योति­ष्टो­मे­ने­त्या­दि­शास्त्रं धर्मे प्रवृ­त्त्य­र्थ­म­ध­र्मा­न्नि­वृ­त्त्यर्थं च प्रवृत्तं तस्मात्ते एव शास्त्रस्यापि प्रयोजन इति भावः ।

ते च कार्यजन्ये इति ।
धर्मो मत्कृतिसाध्य इति धर्मे कार्यत्वज्ञानेन प्रवृ­त्ति­रु­त्प­द्यते ततः कार्य­त्व­ज्ञा­न­ज­न्यत्वं प्रवृत्तौ प्राप्तम् , एवं निवृ­त्ता­व­प्यस्ति, तथाहि हेयं कलञ्जभक्षणादिकं मन्नि­वृ­त्ति­प्र­य­त्न­का­र्य­मिति तत्का­र्य­त्व­ज्ञा­नेन निवृ­त्ति­रू­प­प्र­य­त्ना­भिन्ना तूष्णीम्भावरूपा निवृ­त्ति­र्ज­न्यते ततस्तस्यां कार्य­त्व­ज्ञा­न­ज­न्यत्वं वर्तते, तथा च हेयस्य निवृ­त्ति­प्र­य­त्न­का­र्यत्वं नाम निवृ­त्ति­प­रि­पा­ल्य­प्रा­ग­भा­व­प्र­ति­यो­गि­त्व­मिति पुर­स्ता­दे­वो­क्त­मिति भावः ।

प्रकृतमाह –
तत इति ।
तस्मा­द्धे­तो­रि­त्यर्थः ।

इत्याहेति ।
इत्येवं वृत्तिकारस्य तात्प­र्य­मा­हे­त्यर्थः ।

भाष्ये –
कुत एतदिति ।
विधिशेषत्वं कस्मा­द्धे­तो­रि­त्यर्थः ।

अनुक्रमणमिति ।
वेदा­र्थ­स­ङ्ग्रा­ह­क­वा­क्य­जा­त­मि­त्यर्थः । अनुक्रमणं शास्त्रस्य कार्यपरत्वमेव बोधयतीति भावः ।

तदेवोपपादयति –
दृष्टो हि तस्यार्थ इति ।
अत्र नामपदं व्यर्थं कर्मावबोधनं कार्य­ज्ञा­न­मि­त्यर्थः । तथा च ज्ञायमानं कार्यं वेदार्थ इति दृष्टो हीति शाब­र­भा­ष्य­वा­क्यार्थः ।

ज्ञानमुपदेश इति ।
ज्ञानं ज्ञापकमित्यर्थः । उपदेशः अपौ­रु­षे­य­वि­धि­वा­क्य­मि­त्यर्थः ।

तद्भूतानामिति ।
’तद्भूतानां क्रियार्थेन समाम्नायोर्थस्य तन्नि­मि­त्त­त्वा­दि’त्ये­ता­व­त्सू­त्र­मिति विज्ञेयम् ।

विषयविशेष इति ।
धर्मा­दा­वि­त्यर्थः ।

कुत­श्चि­द्वि­ष­य­वि­शे­षा­दिति ।
अध­र्मा­त्सु­रा­पा­ना­दे­रि­त्यर्थः । शास्त्रं विधि­नि­षे­ध­वा­क्य­मि­त्यर्थः ।

व्याख्याने – कार्यपरत्वं शास्त्र­स्ये­त्युक्तं नियोगपरत्वं च कुत्रचिदुक्तं तस्य ज्ञानमित्यत्र धर्म­बो­ध­क­त्व­मु­क्तम् , भाष्ये तु क्रियायाः प्रव­र्त­क­मि­त्यत्र क्रियापरत्वं शास्त्र­स्ये­त्यु­क्तम् , तथा­चा­ने­का­र्थ­क­त्वा­त्कथं कार्य­प­र­त्व­मे­वे­त्यत आह –
क्रिया कार्यमिति ।
षण्णा­मे­का­र्थ­क­त्वा­त्प­र्या­य­ते­त्यर्थः ।

सुत्रस्थमिति ।
सूत्रा­र्थ­क­थ­न­प­र­मि­त्यर्थः । भाष्यकर्ता शबरस्वामी सूत्रकर्ता भगवान् जैमिनिरिति विवेकः ।

तस्य धर्मे­णा­व्य­ति­रे­का­दिति ।
विधिवाक्यस्य धर्मे­णा­व्य­भि­च­रि­त­त्वा­दि­त्यर्थः । विधिवाक्यस्य नियमेन धर्म­बो­ध­क­त्वा­दिति यावत् । तथा च यद्विधिवाक्यं तद्धर्मबोधकमिति व्याप्ति­प्र­ति­पा­द­न­प­रेण श्रीजै­मि­नि­सू­त्रेण शास्त्रस्य नियोगपरत्वं दर्शितमिति भावः ।

सूत्रमिति ।
जैमि­नि­सू­त्र­मि­त्यर्थः ।

तत्पदं विभ­क्ति­व्य­त्या­सेन परिष्करोति –
तत्तत्रेति ।

सिद्धा­र्थ­नि­ष्ठा­ना­मिति ।
सिद्धा­र्थ­बो­ध­का­ना­मि­त्यर्थः ।

समाम्नायः कर्तव्य इति ।
कर्त­व्य­प­द­स्या­त्रा­ध्या­हारः कृत इति विज्ञेयम् ।

अर्थस्य तन्नि­मि­त्त­त्वा­दि­त्यंशं व्याकरोति –
पदा­र्थ­ज्ञा­न­स्येति ।
पदा­र्थ­स्मृ­ते­रि­त्यर्थः ।

विज्ञानादिपदेन सहो­च्चा­रि­त­सि­द्धा­र्थ­नि­ष्ठ­प­द­स­मु­दा­या­त्म­का­म्नायः पदा­र्थ­स्मृ­ते­र्वा­क्त्या­र्थ­धी­नि­मि­त्त­त्वा­त्त­द्वारा कार्य­रू­प­वा­क्या­र्थ­ज्ञाने हेतुर्भवतीति सूत्र­यो­ज­ना­म­भि­प्रेत्य सङ्ग्रहेण तात्पर्यार्थमाह –
कार्यान्वितेति ।
पदा­र्थ­स्मृ­ति­द्वारा पदानि कार्यवाचिपदेन सह वाक्यार्थं बोध­य­न्ती­त्य­न्वयः ।

’तच्छे­ष­त­या­न्य­दु­प­यु­क्तमि’ति भाष्यार्थमाह –
अर्थ­वा­दा­दि­क­न्त्विति ।

तत्सामान्यादिति ।

पद­द्व­य­स्या­र्थ­माह –
तेनेति ।
शास्त्र­त्व­ध­र्मेण कर्म­शा­स्त्र­तु­ल्य­त्वा­द्वे­दा­न्तानां कार्य­प­र­त्वे­नै­वा­र्थ­व­त्त्व­मिति भावः ।

भाष्ये –
ब्रह्मज्ञानमिति ।
ज्ञान­मु­प­स­न­मि­त्यर्थः । तथा च ज्योति­ष्टो­म­वाक्ये यथा स्वर्गकामो नियोज्यः यागो विधेयः, तथा वेदान्तेऽपि मोक्षकामो नियोज्यः अहं ब्रह्मास्मीति प्रत्य­ग­भि­न्न­ब्र­ह्मो­पा­सनं च विधेयमस्तीति कार्यपरत्वं युक्तमिति भावः ।

व्याख्याने
शङ्कते इति ।
ज्ञाने नोपासनं किन्तू­पा­स­ना­ति­रिक्तं तच्च न विधे­य­मि­त्य­भि­प्रा­येण सिद्धान्ती शङ्कत इति भावः ।

ज्ञान­वि­धि­शे­ष­त्वे­नेति ।
ज्ञान­मु­पा­स­न­मि­त्यर्थः ।
विधि­प्र­यु­क्त­त्व­मिति ।
उपा­स­ना­वि­धि­शे­ष­त्व­मि­त्यर्थः ।

’स विजिज्ञासितव्य’ इत्यादौ विधिप्रतीतावपि ब्रह्म वेदेत्यादौ विधिः न प्रतीयत इत्यत आह –
ब्रह्म वेदेति ।
वेद­न­मु­पा­स­न­मि­त्यर्थः ।

शास्त्रोक्त इति ।
शास्त्र­ब­ला­न्नित्य इत्युक्त इत्यर्थः । ब्रह्मो­पा­स­ना­द­पू­र्व­द्वा­राऽ­ज्ञा­न­नि­वृत्त्या सगुणमोक्षो भवति न ज्ञानादिति भावः ।

चेच्छ­ब्द­म­ध्या­ह­रति –
चेदिति ।

एवंशब्देति ।
एवं­श­ब्द­चे­च्छ­ब्द­यो­र­र्थ­मा­हे­त्यर्थः ।

शब्दानां कार्यान्वितेति ।
अन्वितत्वं विशिष्टत्वमिति मन्तव्यम् ॥

यत्फलं तत् प्रवृ­त्ति­नि­वृ­त्ति­ज­न्य­मिति पूर्व­प­क्ष्य­भि­म­त­व्या­प्ति­र­प्र­यो­जका प्रवृ­त्त्या­द्य­ज­न्यस्य सिद्ध­ज्ञा­न­ज­न्यस्य कर्म­फ­ल­वि­ल­क्ष­णस्य विद्व­द­नु­भ­व­सि­द्धस्य सर्वा­न­र्थ­नि­वृ­त्ति­रू­पस्य फलस्य सम्भ­वा­दि­त्य­भि­प्रेत्य परहरतीति भाष्यमवतारयति –
नियोज्येति ।
नियोज्यः नियोगकर्ता तत्प्र­ति­पा­द­क­त्वा­भा­वा­दि­त्यर्थः । अथवा विधे­य­प्र­ति­पा­द­क­त्वा­भा­वा­दि­त्यर्थः ।

निरासायेति ।
व्यभि­चा­र­वा­र­णा­ये­त्यर्थः । साध्याभाववति हेतो­र्वृ­त्तित्वं व्यभिचारः ’सोरोदि’ति वाक्ये विधे­य­प्र­ति­पा­द­क­त्वा­भा­व­रू­प­हेतोः सत्वात् साक्षा­द्वि­ध्ये­क­वा­क्य­ता­प­न्न­तया वाक्यस्य कार्यबोधकत्वेन साध्याभावस्य सत्त्वाच्च व्यभिचार इति विशेषणदलं फल­व­त्त्व­स­त्त्वेपि स्वार्थे फल­व­त्त्व­रू­प­हे­तो­र­भा­वात् न व्यभिचारः । ज्योति­ष्टो­म­वाक्ये विशेषणदलस्य हेतोः सत्त्वा­द्वा­क्यस्य कार्यबोधकत्वेन साध्याभावस्य सत्त्वाच्च व्यभि­चा­र­स्त­द्वा­र­णाय विशेष्यदलं विधेयकबोधकत्वेन विशि­ष्ट­हे­तो­र­भा­वान्न व्यभिचार इति भावः ।

नियोज्यस्येति ।
नियोज्यस्य मोक्षकामस्य ब्रह्म­ज्ञा­न­मि­त्यर्थः ।

आत्मवदिति ।
प्रत्य­गा­त्म­व­दि­त्यर्थः । ’ न कर्म ब्रह्म­वि­द्या­फ­ल­यो­र्वै­ल­क्ष­ण्यादि’ति श्रीभा­ष्या­का­रस्य वस्तु­स­ङ्ग्रा­ह­क­वा­क्य­मे­तत् । तस्यैव प्रपञ्चः ’अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त’ इत्यन्तं भाष्यम् ।

’तत्र वर्णितं संसा­र­म­नु­व­द­ती’त्यन्तं भाष्यं कर्म­त­त्फ­ल­प्र­ति­पा­दकं ’ब्रह्मोपदेशो युक्त’ इत्यन्तं भाष्यं तु तद्वै­ल­क्ष­ण्य­प्र­ति­पा­द­क­मिति प्रधा­नो­प­स­र्ज­न­भा­वेन विभागमभिप्रेत्य भाष्यमवतारयति –
उक्तहेत्विति ।
कर्म­फ­ल­वै­ल­क्ष­ण्या­दिति हेत्वित्यर्थः ।

धर्मजिज्ञासेति सूत्र­स्थ­ध­र्म­प­द­म­ध­र्मो­प­ल­क्ष­ण­मिति सूत्रतात्पर्यं स्फुटीकरोतीति भाष्यमवतारयति –
न केवलमिति ।
जिज्ञास्यमिति शेषः ।

परि­हा­रा­या­ध­र्मोपि जिज्ञास्य इत्यत्र भाष्योक्तहेतुं व्याख्याति –
निषेधेति ।

कर्मोक्त्वेति ।
धर्मा­ध­र्म­रू­प­क­र्मो­क्त्वे­त्यर्थः ।

भाष्ये –
यद्विषया जिज्ञासेति ।
यद्ध­र्मा­ध­र्म­वि­षया जिज्ञासेत्यर्थः । अथातो धर्मजिज्ञासा अधर्मजिज्ञासा चेति यद्विषया जिज्ञासा सुत्रिता तयो­र्ध­र्मा­ध­र्मयोः फलं सुखदुःखे स्थावरान्तरेषु प्रसिद्धे इत्यर्थः । लक्षणपदं प्रमाणपरम् । मनु­ष्य­त्वा­दा­र­भ्येति । मनु­ष्या­दा­र­भ्ये­त्यर्थः ।

अनुश्रूयत इति ।
श्रुत्यानुभूयत इत्यर्थः । ’स एको मानुष आनन्द’ इत्यादिश्रुत्या सुख­ता­र­त­म्य­म­नु­भू­यत इति भावः ।

प्रसि­द्ध­त्व­मे­वो­प­पा­द­यति –
अर्थित्वेति ।

विद्यासमाधीति ।
विद्या­प­द­मु­पा­स­ना­प­रम् , तथा च विद्यारूपो यः समाधिविशेषः ध्यानविशेषः तस्मा­द्धे­तो­रि­त्यर्थः इति केचित् ।

उपा­स­ना­वि­शि­ष्ट­क­र्मि­णा­मु­त्त­र­मा­र्गेण गमनमिति मार्ग­ता­र­त­म्य­मु­प­पा­द­यति –
केवलैरिति ।
उपा­स­ना­र­हि­त­पु­रु­ष­कृतैः कर्मभिरित्यर्थः ।

इष्टापूर्तेति ।
’अन्येषामपि दृश्यत’ इति व्याक­र­ण­सू­त्रे­णे­ष्टा­पू­र्ते­त्यत्र दीर्घो वेदितव्यः । अन्येषामपि लक्ष्याणां प्रयोगानुसारेण पूर्वपदान्तस्य दीर्घो दृश्यते इति सूत्रार्थः ।

प्रति­षे­ध­चो­द­ना­ल­क्ष­ण­स्येति ।
निषे­ध­वा­क्य­प्र­मा­ण­क­स्ये­त्यर्थः ।

उपादानेति ।
ग्रहणेत्यर्थः ।

तथा च श्रुतिरिति ।
यथा वर्णितं तथैव “न ह वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­र­स्ती’त्या­का­र­क­श्रु­तिश्च संसाररूपं तार­त­म्य­म­नु­व­द­ती­त्य­न्वयः ।

व्याख्याने –
विशोक इति ।
विष­ये­न्द्रि­य­ज­न्य­सु­ख­स्या­प्य­नि­त्य­त्वा­च्छो­क­त्व­मेव, तथा च ’सुख­दुः­खे’त्य­नेन भाष्येण मोक्षे विशोकत्वविशेषणं ज्ञापितमिति भावः ।

ब्रह्मा­दि­स्था­व­रा­न्ते­ष्विति –
भाष्यस्य व्याख्या­न­म­ना­त्म­व­स्त्विति ।

विशेषणानिति ।
पञ्च­वि­शे­ष­णा­नी­त्यर्थः ।

कर्म­फ­ल­मु­क्त्वेति ।
धर्मा­ध­र्म­फ­ल­मु­क्त्वे­त्यर्थः ।

पृथगिति ।
विशेषणेत्यर्थः । प्रथमत इति शेषः ।

मनु­ष्य­लो­का­दू­र्ध्व­लो­केषु शरीराणां सुखाधिक्यं दुःखस्याल्पत्वं मनुष्यलोकेषु सुखदुःखयोः समत्वं मनु­ष्य­लो­का­द­धो­लो­केषु दुःखाधिक्यं सुखाल्पतेति विभागमभिप्रेत्य तस्यापि तारतम्येन भवितव्यमिति धर्म­ता­र­त­म्य­मु­प­पा­द­य­ती­त्याह –
स एको मानुष इत्यादिना ।

अनुशब्देति ।
अनुश्रूयत इत्य­त्रा­नु­श­ब्दार्थ इति विज्ञेयम् ।

इति वैलक्षण्यमिति ।
इतिशब्दो हेत्वर्थकः, साध­ना­दि­वै­ल­क्ष­ण्यात् फलवैलक्षण्यमिति भावः ।

शास्त्रा­नि­न्दि­तत्वं चेति ।
यागा­धि­का­रि­त्वस्य निन्दि­त­त्वा­द­नि­न्दि­त­त्व­म­धि­का­रि­वि­शे­ष­ण­मिति भावः ।

’विद्या­स­मा­धि­वि­शे­षादि’ति भाष्यस्यार्थमाह –
उपासनायामिति ।

इष्टा­पू­र्त­द­त्तानि व्याचष्टे –
अग्नि­हो­त्र­मि­त्या­दिना ।

बहिर्वैदि चेति ।
क्रत्व­ङ्ग­भि­न्न­मि­त्यर्थः ।

अस्माल्लोकादिति ।
मनु­ष्य­लो­का­दि­त्यर्थः ।

उषित्वेति पदस्यार्थमाह –
स्थित्वेति ।

अविद्यादिमान् यः शरीरतारतम्येन सुख­दुः­खा­न्य­त­र­स­म्ब­न्धीति व्याप्तिं भाष्यगर्भितां स्फुट­त्वा­दु­पेक्ष्य यस्तारतम्येन फलसम्बन्धीति व्याप्ता­व­ग्नि­व­दिति दृष्टान्तं ज्ञाप­य­न्न­नु­मा­न­माह –
काष्ठोपचयादिति ।
लक्षणया उपचयशब्दस्य तारतम्यमर्थः । अयं तारतम्येन साधनवान् तारतम्येन फलवत्त्वात् अग्निवदिति प्रयोगः ।

’तदुपासनाच्च शास्त्र­दृ­ष्टोऽ­दृष्ट’ इत्यादिभाष्येण मोक्षः उपा­स­ना­क­र्म­फ­ल­मिति यदुक्तं तद्दूषणपरं भाष्यमवतारयति –
मोक्षो न कर्मफलमिति ।

संसारवर्णनेन ज्ञापितं हेतुमाह –
कर्म­फ­ल­वि­रु­द्धेति ।
विशोकत्वादिकं पृथक्पृथगेव हेतुरिति मन्तव्यम् ।

व्यतिरेकेणेति ।
यत्र कर्मफलत्वं तत्र विशि­ष्ट­हे­त्व­भावः यथा स्वर्गादिवदिति भावः ।

वावेत्यस्यार्थं कथयन् व्यव­हि­ते­ना­न्व­य­माह –
नैवेति ।

विपक्षे बाधकप्रतिपादकं भाष्यमवतारयति –
मोक्षश्चेदिति ।

तदेवेति ।
मोक्षस्वरूपं धर्म­फ­ल­मे­वे­त्यर्थः । प्रियं सुखमित्यर्थः ।

तन्निषेधेति ।
सुख­स्प­र्श­न­नि­षेधो न सम्भवतीति पूर्ववादिनं प्रत्या­हे­त्यर्थः ।

नन्विति ।
धर्मफलं द्विविधं, तथाहि – वैष­यि­क­सु­ख­हे­तु­त्वेन तत्सु­ख­स­म्ब­न्धि­रूपं धर्मफलमेकं यथा स्वर्गादि, तथा च स्वर्गादिजनितं सुखं श्रुत्या निषिध्यते तस्मान्न सुख­स्प­र्श­न­नि­षे­धा­योगः । अपरं धर्म­फ­ल­म­श­री­र­त्व­रूपं तच्च पर्यवसानतया शरीराद्यभावः । स तु ध्वंसवत् नित्योपि जन्यश्च, स एव मोक्षः श्रुतिबलात् कर्मणां विचि­त्र­श­क्ति­त्वेन विचि­त्र­फ­ल­दा­न­सा­म­र्थ्या­च्चेति पूर्ववादी शङ्कत इति भावः ।

आत्मन इति ।
अशरीरत्वं भावरूपमथो न त्वभावरूपो ध्वंस­वै­ल­क्ष­ण्या­द्दृ­ष्टा­न्त­वै­ष­म्य­मिति सिद्धा­न्त्य­भि­प्रायः ।

अश­री­रा­त्म­स्व­रू­पस्य मोक्ष­स्या­ना­दित्वे भावत्वे च प्रमा­ण­त्वे­नो­दा­हृतां श्रुतिं व्याचष्टे –
अशरीरमिति ।

’महान्तं विभुमिति’ पदद्वयस्य पौन­रु­क्त्या­शङ्कां वारयितुमवतारयति –
आपेक्षिकमिति ।
सावधिकमित्यर्थः । अन­व­स्थे­ष्व­व­स्थि­त­मि­त्य­ने­ना­ना­दि­त्व­मि­त­रां­शेन भावत्वमिति विज्ञेयम् । ’ब्रह्म वेद ब्रह्मैव भवति, विद्य­या­मृ­त­म­श्नुते, ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति, अथायमशरीरोऽमृतः प्राणो ब्रह्मै­वे’त्या­दि­श्रु­ति­भि­र्द­र्शि­तस्य ब्रह्मा­त्म­त्वा­श­री­र­त्वा­मृ­त­त्व­ल­क्ष­णस्य मोक्षस्य सादि­त्वेऽ­न्त­वत्त्वं स्यात् । न चेष्टापत्तिरिति वाच्यम् । अन्त­व­त्त्वा­द­नि­त्य­त्वेन पुनरावृत्तौ पुन­र्ब­न्धा­न्मो­क्ष­स्यो­प­च­रि­ता­र्थ­त्व­प्र­स­ङ्गा­त्तथा चोक्तश्रुत्या उप­च­रि­ता­र्थ­त्वा­पा­द­न­रू­प­न्या­येन चानादिभावस्य मोक्षस्य नित्य­सि­द्ध­त्व­प्र­तीतेः नोपा­स­ना­क्रि­या­रू­प­ध­र्म­फ­ल­त्व­मिति सिद्धान्तार्थः । नित्यं द्विविधं परिणामिनित्यं कूटस्थनित्यं चेति । ननु नित्यवस्तुमध्ये यस्मिन् वस्तुनि परिणममाने सति तदेव इदमिति प्रत्य­भि­ज्ञा­प्र­मा­ण­ब­लात् सिद्धं परि­णा­म­नि­त्य­त्व­मेव मोक्षस्य स्यात् , तथा च यत् परिणामिनित्यं तत्कार्यमिति व्याप्तिर्यथा पृथिव्यादि तद्वन्मोक्षस्य धर्मकार्यत्वं च स्यात् इति चेत् । उच्यते – यत् परिणामिनित्यं तत्सावयवमिति व्याप्तिः यथा पृथिव्यादि । तथा च श्रुत्युक्तस्य स्वाभा­वि­का­श­री­रा­मृ­त­ब्र­ह्म­ल­क्ष­णस्य मोक्षस्य निरवयवत्वान्न परि­णा­मि­नि­त्यत्वं किन्तु कूट­स्थ­नि­त्य­त्व­मेव ।

किञ्च परि­णा­मि­नि­त्यत्वं कल्पितं कूट­स्थ­नि­त्य­त्वन्तु श्रुतेः स्वाभा­वि­क­त्वा­न्ना­श­का­भा­वाच्च पार­मा­र्थि­क­मि­त्य­भ्यु­प­ग­म्यते ततो न परि­णा­मि­नि­त्यत्वं मोक्षस्य तस्मा­न्नो­पा­स­ना­क­र्म­का­र्य­त्व­मि­त्ये­त­मर्थं स्फुटीकर्तुं भाष्यमवतारयति –
नित्य­त्वे­पी­त्या­दिना ।

भाष्ये –
किञ्चिदिति ।
किञ्चि­द्व­स्त्व­स्ती­त्यर्थः ।

न विहन्यत इति ।
अप्रतिहता जन्यत इति यावत् । यस्मिन् वस्तुनि परिणममाने सति तदेव वस्त्विदमिति प्रत्य­भि­ज्ञा­रू­प­बु­द्धि­र­प्र­ति­हता जन्यते तत्कि­ञ्चि­द्वस्तु प्रत्य­भि­ज्ञा­प्र­मा­णकं परिणामिनित्यं स्यादिति पूर्वेणान्वयः । यथा पृथिव्यादि परिणामिनित्यं यथा च सत्त्वा­दि­गु­ण­त्र­य­वि­शिष्टं प्रधानं प्रकृ­ति­श­ब्द­वाच्यं परिणामिनित्यं तद्वदित्यर्थः ।

योऽहं बाल्येपि तथान्वभूवं सोहं वृद्धो­स्मी­त्य­व­स्था­रू­प­ध­र्म­भे­देपि धर्म्यै­क्य­वि­ष­य­क­प्र­त्य­भि­ज्ञा­ब­ला­त्प­रि­णा­मि­नित्यं तार्किकाभिमतं शरि­रा­दि­क­मा­दि­श­ब्दे­नो­च्यते –
यत्र धर्माधर्माविति ।
यस्मि­न्ध­र्मा­धर्मौ नोपावर्तेते कालत्रयं च नोपावर्तते तद­श­री­र­त्व­मि­त्य­न्वयः ।

तेन कर्तव्येनेति ।
कर्त­व्ये­नो­पा­स­ने­ना­पू­र्व­द्वारा साध्यो मोक्ष इत्यभ्युपगम्येत अभ्युपगम्यते चेदित्यर्थः ।

फलितमाह –
तत्रैवं सतीति ।

अनित्योपि मोक्षः अनित्येषु कश्चिद्विलक्षण इत्यत्र इष्टापत्तिं वारयति –
नित्यश्चेदिति ।

व्याख्याने पञ्च­भि­र्वि­शे­षणैः कूटस्थत्वं साध­य­ती­त्य­भि­प्रेत्य भाष्यमवतारयति –
कूट­स्थ­त्व­सि­द्ध्य­र्थ­मि­त्या­दिना ।

परिणामेति ।
षड्भा­व­वि­का­र­रा­हि­त्य­म­भि­प्रेत्य प्रकृ­त­त्वा­त्प­रि­णा­मा­भा­व­प­र­त्वेन भाष्यं योजयतीति भावः ।

निरवयवत्वादिति ।
निर­व­य­त्वा­दे­वो­क्त­ग­म­ना­दि­क्रि­यापि नास्तीति भावः ।

न कर्मेति ।
उपा­स­ना­रू­प­क­र्मे­त्यर्थः ।

कर्मेति ।
धर्माधर्माख्यं कर्मेत्यर्थः ।

तथेत्याहेति ।
उपा­स­ना­त­ज्ज­न्या­पू­र्व­सा­ध्यत्वं मोक्षस्य नास्ती­त्या­हे­त्यर्थः ।

काला­न­व­च्छि­न्न­त्वा­दिति ।
काला­स­म्ब­न्धि­त्वा­दि­त्यर्थः ।

धर्माद्यनवच्छेद इति ।
धर्मा­द्य­स­म्ब­न्धित्व इत्यर्थः ।

’अन्यत्रेति’ पदं विभ­क्ति­व्य­त्या­सेन योजयति –
अन्यदिति ।

ब्रह्मातिरिक्तो मोक्ष इत्यभिप्रायेण शङ्कते –
नन्विति ।

तच्छब्दस्य कैवल्यार्थकत्वं कथयन् भाष्यं योजयति –
तत्कैवल्यमिति ।

अतःशब्दार्थमाह –
कर्मेति ।
तथा च मोक्षस्य न नियोगफलत्वमिति परिहारार्थः । अस्मिन् व्याख्याने यत्पू­र्वो­क्त­म­श­री­र­त्व­रूपं तत्कैवल्यं ब्रह्मैवेति यत्पदमध्याहृत्य भाष्यं योजनीयम् । न च यस्य कैवल्यस्येयं जिज्ञासा प्रस्तुता तत्कैवल्यं ब्रह्मै­वे­त्य­न्व­यस्य युक्त­त्वा­त्कि­म­ध्या­हा­रे­णेति वाच्यम् । ब्रह्म­ज्ञा­ने­च्छायाः प्रस्तुतत्वेपि मोक्ष­ज्ञा­ने­च्छायां अप्रस्तुतत्वात् ।

ननु तर्हि यस्येयं जिज्ञासेति यच्छ­ब्द­स्या­न्वयः स्यादिति चेन्न । ’तद्यदि कर्त­व्य­शे­ष­त­ये’त्यु­त्त­र­भा­ष्य­स्थ­त­च्छ­ब्दे­ना­न्व­य­स­म्भ­वा­त्तथा च यत्प­द­म­ध्या­ह­र्त­व्य­मि­त्य­स्व­र­सात् व्याख्या­ना­न्त­र­माह –
यद्वेति ।

’यस्य ब्रह्मणो जिज्ञासा प्रस्तुता तद्ब्रह्मेति’ भाष्या­न्व­य­म­र्थतः स्फुटीकरोति –
यज्जि­ज्ञा­स्य­मिति ।

तच्छब्दस्य कैव­ल्या­र्थ­क­त्व­भ्रमं वारयति –
तद्ब्रह्मेति ।

प्रती­क­मा­दा­या­तः­श­ब्दा­र्थ­माह –
अतः पृथगिति ।
’अथातो ब्रह्म­जि­ज्ञा­से’त्या­दिना शास्त्रेण जिज्ञा­स्य­त्वा­दि­त्यर्थः ।

असंस्पृष्टमिति ।
अस­म्ब­न्धी­त्यर्थः । प्रथमव्याख्याने अत­स्त­दि­त्या­दि­भाष्यं मोक्षस्य नियो­ग­फ­ल­त्व­श­ङ्का­नि­रा­स­प्र­ति­पा­दकं द्वितीये तु ब्रह्मणो धर्मा­द्य­सं­स्पृ­ष्ट­त्व­हे­तु­प्र­ति­पा­द­क­मिति भेदः । द्विती­य­व्या­ख्याने यस्येयं जिज्ञासेति यच्छब्दस्य पूर्वो­त्त­र­स्थ­त­च्छ­ब्दा­भ्या­म­न्वयो वेदितव्यः ।

ब्रह्म धर्मा­द्य­सं­स्पृष्टं पृथक् जिज्ञास्यत्वात् व्यतिरेकेण स्वर्ग­व­दि­त्य­नु­मानं तस्मि­न्न­प्र­यो­ज­क­त्व­श­ङ्का­नि­रा­सा­र्थ­म­नु­कू­ल­त­र्क­माह –
ब्रह्मणो विधिस्पर्श इति ।
अहं ब्रह्मा­स्मी­त्या­रो­प्यै­क्य­वि­ष­य­को­पा­स­ना­वि­धि­शे­ष­त्वेन ब्रह्मणः विधि­स­म्ब­न्धित्वे इत्यर्थः । उपासनयाः कार्यरूपत्वेन कार्य­वि­ल­क्ष­णा­न­धि­ग­त­वि­ष­या­भा­वा­द्वे­दा­न्त­शा­स्त्रस्य कर्म­शा­स्त्रा­पे­क्षया पृथक्त्वं न स्यात्तथा च प्रथमसूत्रेण ब्रह्मणः पृथ­ग्जि­ज्ञा­स्य­त्वा­नु­प­प­त्ति­रिति भावः ।

ननु ब्रह्मणः विधिशेषत्वेपि विधि­प­रा­त्स­त्या­दि­वा­क्यात् ब्रह्मा­त्मै­क्यस्य उपासनाविषयस्य ज्ञातुं शक्यत्वात् कार्य­वि­ल­क्ष­णा­न­धि­ग­त­ब्र­ह्मा­त्मै­क्य­रू­प­वि­ष­य­ला­भेन वेदान्तानां पृथ­क्शा­स्त्र­त्व­क­थनं युक्तमित्यत आह –
न हीति ।
नाहमीश्वर इति भेदप्रामाण्यस्य जागरूकत्वात् न ब्रह्मात्मैक्यं ज्ञातुं शक्यम् विधिपरवाक्यस्य अप्राधान्येन ब्रह्मा­त्मै­क्य­बो­ध­क­तया दुर्बलत्वात्तथा च शास्त्र­पृ­थ­क्त्व­क­थनं व्यर्थमिति भावः ।

ननु प्रत्य­ग­भि­न्न­ब्र­ह्मो­पा­स­ना­विधेः वास्तवं ब्रह्मा­त्मै­क्य­म­न्त­रा­नु­प­प­न्न­त्वा­त्त­दा­व­श्यकं, तथा चाहं ब्रह्मास्मीति प्रधा­न­वि­धि­वा­क्ये­नैव विषयलाभात् शास्त्र­पृ­थक्त्वं युक्त­मि­त्या­शङ्क्य वास्तवैक्यं विनै­वा­रो­पि­तै­क्य­वि­ष­य­क­भ्र­मा­त्म­क­ज्ञा­ना­देव तदुपासनायाः सम्भवेन तद्वि­धे­रु­प­पत्तेः न तदपेक्षेपि परिहरति –
न वेति ।

तद्विनेति ।
वास्तैक्यं विनेत्यर्थः ।

आरो­पि­तै­क्य­वि­ष­य­क­भ्र­मा­त्म­क­ज्ञा­ना­दु­पा­स­ना­द्वारा विधेरुपपत्तिः क्व दृष्टे­त्या­शङ्क्य ’योषा वाव गौत­मा­ग्नि­रि’त्यत्र दृष्टेत्याह –
योषिदिति ।
प्रकृते ऐक्योपासनां प्रति ऐक्यारोपः आरोप्यैक्यं वा हेतुः न वास्तवैक्यमिति भावः ।

स्वपक्षे सूत्र­स्वा­र­स्य­ज्ञा­प­नाय योजनान्तरमाह –
अथवेति ।

सूत्रार्थमिति ।
’तत्तु समन्वयादिति’ सूत्र­स्या­र्थ­मि­त्यर्थः ।

’अथातो ब्रह्म­जि­ज्ञासे’ति सूत्रेण जिज्ञास्यं ब्रह्म यद्ब्रह्म तदेव ’तत्तु सम­न्व­या­दि’त्यत्र तच्छब्दार्थ इति भाष्यभावं स्फुटी­कु­र्व­न्न­न्व­य­मा­वि­ष्क­रोति –
यदत्रेति ।

अतःशब्दार्थमाह –
समन्वयादिति ।
ब्रह्मणः स्वात­न्त्र्ये­णो­प­दे­शा­न­ङ्गी­कारे अथातो ब्रह्मो­पा­सा­ना­जि­ज्ञा­सेति सूत्रं स्यान्न त्वेवमस्ति तस्माद्ब्रह्म स्वत­न्त्र­मे­वो­प­दि­श्यते इति भावः ।

नियोगाभावादिति ।
नियो­ग­क­र्त्र­भा­वा­दि­त्यर्थः ।

न नियोगेति ।
दृष्ट­स्या­ज्ञा­न­नि­वृ­त्ति­रू­प­मो­क्ष­स्या­प­रो­क्ष­रू­प­सा­क्षा­त्का­रा­व्य­व­हि­तो­त्त­र­ज­न्य­त्वान्न काला­न्त­र­भा­व्य­दृ­ष्ट­फ­ल­क­नि­यो­ग­ज­न्य­त्वम् अन्यथा मोक्षस्य काला­न्त­र­भा­व्य­दृ­ष्ट­फ­ल­त्वा­प­त्ते­रि­त्या­हे­त्यर्थः ।

यदपूर्वजन्यं तत्कालान्तरभावि यथा स्वर्गादि न तथा मोक्षः किन्तु ज्ञाना­व्य­व­हि­तो­त्त­र­जन्य इत्यत्र प्रमा­ण­त्व­नो­दा­हृ­त­श्रु­ती­ना­म­र्थ­माह –
यो ब्रह्मेत्यादिना ।
यदा हि ज्ञानं तदा मोक्ष इति प्रतिपादकेन वर्त­मा­ना­र्थ­क­ल­ट्प्र­त्य­येन कालान्तरनिरासः क्रियत इति भावः । एवं सर्वत्र विज्ञेयम् । तस्मिन् दृष्टे सतीत्यनेन ज्ञाना­व्य­व­हि­तो­त्त­र­ज­न्यत्वं कर्मनाशस्य प्रतीयत इति भावः ।

प्रकृते पर्यवसानं करोति –
मोक्षस्य विधिफलत्व इति ।

वैध इति ।
विधिजन्य इत्यर्थः ।

सूर्यश्चेतीति ।
अव्य­व­हि­तो­त्त­र­ज­न्य­त्व­प्र­ति­पा­दकं तस्यै­त­त्प­श्य­न्नि­त्या­दि­सू­र्य­श्चे­ती­त्यन्तं वाक्य­मु­दा­ह­र्त­व्य­मिति भाष्यान्वयः । तिष्ठ­ति­गा­य­त्यो­र्मध्ये यदर्थयोर्मध्ये इत्यर्थः ।

वाक्या­र्थ­मुक्त्वा तात्पर्यार्थमाह –
तत्र ज्ञान इति ।

लक्षणमिति ।
व्यावर्तकं चिन्ह­श­ब्दि­त­प­रि­चा­यकं वेत्यर्थः । तिष्ठन् गायतीत्यत्र स्थिति­का­ली­न­गा­न­क्रि­या­वान् पुरुष इति बोधादितरकाले गान­क्रि­या­व्या­व­र्तिका स्थितिर्भवति न हेतुरित्यतः कार्या­न्त­र­प्र­सक्तिः, स्थितेः कार्या­न्त­र­वा­र­क­त्वा­भा­वा­दु­भ­या­र्थ­कत्वे वाक्यभेदः स्यात् , पश्यन्प्रतिपेद इत्यत्र तु ब्रह्म­द­र्श­न­ब्र­ह्म­प्राप्तौ हेतुर्भवति, तथा च साम­ग्र्य­व्य­व­हि­तो­त्त­र­क्षणे कार्यो­त्प­त्ते­रा­व­श्य­क­त्वान्न कार्या­न्त­र­प्र­स­क्ति­रिति दृष्टा­न्त­वै­ष­म्य­म­स्तीति भावः ।

सूत्रेणेति ।
व्याक­र­ण­सू­त्रे­णे­त्यर्थः ।

सूत्रार्थमाह –
क्रियां प्रतीति ।
लक्षणपदं व्यावर्तकपरं परिचायकपरं वा ।

वर्तमानादिति ।
विद्य­मा­ना­दि­त्यर्थः । लटः लट्प्र­त्य­य­स्ये­त्यर्थः ।

इति विहितेति ।
व्याकरणसूत्रेण उक्तरीत्या विहितो यः शतृ­प्र­त्य­य­स्त­त्सा­म­र्थ्या­दि­त्यर्थः । उत्त­र­का­ली­न­गा­न­क्रियां प्रति स्थितेः व्याव­र्त­क­त्व­रू­पार्थे प्रोच्यमाने विद्यमानधातोः परस्य वर्त­मा­ना­र्थ­क­ल­ट्प्र­त्य­य­स्या­दे­श­त्वेन विहितो यः शतृप्रत्ययः सोपि ’स्थानिवदादेश’ इति न्यायेन वर्तमानार्थक एव तत्सा­म­र्थ्या­त्ति­ष्ठन् गायतीत्यत्र स्थितेः गानक्रियां प्रति हेतु­त्वा­प्र­ती­ता­वपि तस्याः कार्या­न्त­रा­वा­र­क­त्वेपि स्थितिकाले गानं कृतवानिति बोधेन तत्क­र्तृ­क­का­र्या­न्त­रा­भा­नात् तत्कर्तुः गान­व्य­ति­रि­क्त­क्रि­या­न्तरं मध्ये नास्तीति प्रतीयते, दार्ष्टा­न्ति­केपि ज्ञानकर्तुः ब्रह्म­प्र­ति­प­त्ति­क्रि­या­व्य­ति­रि­क्त­का­र्या­न्तरं मध्ये नास्तीति प्रतीयते, तथा च पुरु­ष­क­र्तृ­क­का­र्या­न्त­रा­भा­व­रू­प­सा­म्येन तिष्ठन् गायतीति दृष्टान्तः पश्यन्प्रतिपेद इत्यस्य युक्त इत्याहेत्यर्थः । कार्यान्तरं मध्ये न भातीति – रामा­न­न्दी­य­पा­ठा­न्त­र­मत्र समीचीनं कार्या­न्त­रा­भ­न­प्र­ति­पा­द­क­त्वेन सुबोधकत्वादिति वेदितव्यम् । मोक्षस्य नियोगसाध्यत्वे ज्ञाना­व्य­व­हि­तो­त्त­र­ज­न्य­त्व­प्र­ति­पा­द­क­श्रु­ति­वि­रो­ध­मु­प­पाद्य सम्प्रति ज्ञाना­त्सा­क्षा­द­ज्ञा­न­नि­वृ­त्ति­प्र­ति­पा­द­क­श्रु­ति­वि­रो­ध­मु­प­पा­द­यति सर्वज्ञः श्रीभाष्यकार इति ।

भाष्यमवतारयति –
किञ्चेति ।

कर्मत्वादिति ।
क्रिया­त्वा­दि­त्यर्थः । ज्ञाना­ज्ञा­न­यो­र्वि­रो­धात् ज्ञान­स्या­ज्ञा­न­नि­व­र्त­कत्वं युक्तं कर्मा­ज्ञा­न­यो­र्वि­रो­धा­भा­वात् कर्मरूपस्य ज्ञान­स्या­ज्ञा­न­नि­व­र्त­कत्वं न युक्तमिति भावः ।

प्रतीकमादाय परशब्दार्थमाह –
परं पुन­रा­व­र्ति­शू­न्य­मिति ।

परशब्दार्थमाह –
ब्रह्मेति ।
ब्रह्मेति च्छेदः, विद्या­प्ल­वे­ना­स्मान् ब्रह्म प्राप­य­सी­त्य­न्वयः । अत्र द्विक­र्म­क­प्र­योगो द्रष्टव्यः ।

मे इत्यस्य विभ­क्ति­व्य­त्या­से­ना­न्व­य­माह –
मयेति ।

मृदि­त­क­षा­या­ये­त्य­स्या­र्थ­माह –
तपसा दग्ध­कि­ल्बि­षा­येति ।

तत्त्वप्रमेति ।
तत्त्वप्रमैव साक्षा­न्मु­क्ति­हेतुः कर्म­स्व­रू­प­ज्ञानं तु न मुक्ति­हे­तु­रि­त्यु­क्त­मि­त्यर्थः ।

अक्षपादमुनीति ।
तर्क­शा­स्त्र­सू­त्र­कृ­द्गौ­त­म­मु­नि­स­म्म­ति­मा­हे­त्यर्थः ।

मिथ्या­ज्ञा­ना­का­र­माह –
गौरोहमिति ।

पाठक्रमेणेति ।
’दुःख­ज­न्म­प्र­वृ­त्ती’त्या­दि­सू­त्र­पा­ठ­क्र­मे­णे­त्यर्थः ।

प्रवृ­त्ति­हे­तो­रिति ।
प्रवृ­त्ति­रू­प­हे­तो­रि­त्यर्थः । इयं षष्ठी व्यधिकरणेति ज्ञेयम् । न विद्यतेऽन्तरं यस्य तत्तथा तस्येत्यर्थः । जन्म­प्र­वृत्त्योः मध्ये किञ्चिदन्तरं व्यवधायकं नास्तीत्यनन्तरं प्रवृत्तिकार्यं च जन्म भवतीति वाक्यार्थः । अयं भावः । देहे अनु­भू­त­मा­ध्या­त्मि­का­दि­दुःखं प्रति शरीरस्य जन्म कारणं शरीरोत्पत्तिं प्रति धर्मा­ध­र्म­प्र­वृत्तिः कारणं धर्मा­दि­प्र­वृत्तौ राग­द्वे­ष­मो­हा­दि­दोषः कारणं रागादिदोषे गौरो­ह­मि­त्या­दि­मि­थ्या­ज्ञानं कारणमित्येवं मिथ्या­ज्ञा­ना­द्दुः­खो­त्प­त्ति­म­भि­प्रे­त्या­चार्यः श्रीगौतममुनिः नाश­क्र­म­प्र­ति­पा­दकं सूत्रं रचयाञ्चकार, तथा चोत्त­रो­त्त­र­का­र­ण­ना­शेन पूर्व­पू­र्व­का­र्य­ना­शा­दे­क­विं­श­ति­दुः­ख­ध्वं­स­रूपो मोक्षो भवतीति तत्त्व­ज्ञा­ना­न्मि­थ्या­ज्ञा­न­नि­वृ­त्ति­द्वारा मोक्षः प्रतिपादितः इत्यस्मिन्नर्थे सम्मतिरुक्तेति ।

भेदज्ञानं त्विति ।
भेद­ज्ञा­ना­न्मु­क्ति­रि­त्यंशे बहु­श्रु­ति­वि­रो­धान्न सम्मतिरुक्तेति भावः ।

ननु वेदान्तानां सामा­न्यो­पा­स­ना­वि­धि­प­र­त्वा­भा­वेपि सम्प­दा­द्य­न्य­त­म­रू­प­वि­शे­षो­पा­स­न­वि­धि­प­रत्वं स्यात् सगु­ण­वा­क्य­व­न्नि­र्गु­ण­वा­क्या­ना­मु­पा­स­ना­वि­धि­प­रत्वे लाघ­वा­दि­त्या­शङ्कां वार­यि­तु­मु­त्त­र­भाष्यं प्रवृ­त्ति­मि­त्या­शयं मनसि निधाय तदवतारयति –
ननु ब्रह्मेति ।
ऐक्य­ज्ञा­न­स्या­प्र­मात्वं साधयितुः शङ्कितुः वेदान्तानां सम्प­दा­दि­रू­प­वि­शे­षो­पा­स­ना­वि­धि­प­रत्वं स्यादि­त्य­भि­प्रायः । सिद्धान्तिनस्तु सम्प­दा­दी­ना­मा­हा­र्या­रो­प­रू­पाणां विशे­षो­पा­स­ना­त्व­म­ङ्गी­कृ­त्या­प्र­मा­त्वे­ना­ज्ञा­ना­नि­व­र्त­क­त्वा­दि­रू­पा­न­न्त­दो­षान्न तत्परत्वं वेदान्तानामिति कुतो लाघवावकाशः प्रामा­णि­क­गौ­र­व­स्या­दो­ष­त्वा­त्तथा चैकत्वज्ञानं प्रमात्मकत्वेन न सम्प­दा­दि­रू­प­मि­त्य­भि­प्रायः ।

अल्पालम्बनेति ।
मन­स्य­ल्प­त्व­बु­द्धि­ति­र­स्का­रेण मन­स्त्व­बु­द्धि­ति­र­स्का­रेण वा उत्कृ­ष्ट­वि­श्वे­दे­वा­भे­द­ध्यानं सम्पदित्यर्थः । एतच्च भेद­ज्ञा­न­पू­र्व­क­त्वान्न प्रमेति भावः । एवमुत्तरत्र विज्ञेयम् ।

अभेदः सम्पदिति ।
अभेदध्यानं ध्यान­वि­ष­यी­भू­ता­भेदो वा सम्पदित्यर्थः ।

प्रतीकस्य सम्पद्भेदमाह –
आल­म्ब­न­प्रा­धा­न्ये­नेति ।
आरोप्यप्रधाना सम्पत् अधि­ष्ठा­न­प्र­धा­नोऽ­ध्यास इत्य­ध्या­स­स­म्प­दो­र्वि­भागः कल्पतरौ दर्शितः ।

अर्थं कथयन् अन्वयपूर्वकं उत्त­र­भा­ष्य­म­व­ता­र­यति –
क्रियाविशेष इति ।

अधिदैवतं व्याख्या­या­ध्यात्मं व्याकरोति -
स्वापकाल इति ।

वृद्धिक्रियेति ।
जीवस्य शरी­र­प­रि­णा­म­हे­तु­त्व­रूपं यद्बृंहणत्वं तदा­त्म­क­वृ­द्धि­क्रि­या­यो­गा­दि­त्यर्थः ।

ब्रह्मा­त्मै­क्य­ज्ञा­नस्य सम्प­द्रू­प­त्व­म­ध्या­स­रू­पत्वं संव­र्ग­ध्या­न­रू­पत्वं च न सम्भवतीति प्रतिपादकभाष्यं व्याख्याय सम्प्रति संस्काररूपत्वं न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याति –
यथा पत्नीति ।

संस्कारकमिति ।
अदृ­ष्ट­ज­न­क­मि­त्यर्थः । कर्मारम्भसमये अहं ब्रह्मा­स्मी­त्यु­पा­स­ना­रूपं ब्रह्मा­त्म­ज्ञा­न­मा­व­श्यकं तेन कर्तरि संस्कारद्वारा कर्मकारणमदृष्टं जन्यते तस्मा­दु­पा­स­ना­प­रत्वं वेदान्तानामिति शङ्कि­तु­र­भि­प्रायः ।

समानाधिकरणेति ।
पदयोः सामा­ना­धि­क­र­ण्य­मे­क­वि­भ­क्ति­कत्वे सत्ये­का­र्थ­बो­ध­क­त्व­रूपं वाक्ये ह्युपचर्यते, तथा च भेद­ज्ञा­न­पू­र्व­क­स­म्प­दा­द्यु­पा­स­ना­प­र­त्व­पक्षे वाक्यस्थपदानां सामानाधिकरण्यं न स्यादन्यथा घटः पट इति सामा­ना­धि­क­र­ण्य­प्र­योगः स्यादिति भावः ।

तात्पर्यमिति ।
एकस्मिन्नर्थे निश्चितं यत्तात्पर्यं तत्पी­ड्ये­ते­त्य­न्वयः ।

कथं तद्भाव इति ।
ब्रह्मभावः कथमित्यर्थः ।

नष्टे वेति ।
नष्टपक्षे अधि­क­र­ण­स्यै­वा­भा­वान्न तद्भा­वा­प­त्ति­रिति भावः ।

सम्प­दा­दि­रू­प­त्वा­भाव इति ।
पुरु­ष­व्या­पा­र­त­न्त्र­स­म्प­दा­दि­रू­प­त्वा­भाव इत्यर्थः ।

शङ्कते –
किं तर्हि नित्यैवेति ।

परिहरति –
नेति ।
प्रमाणसाध्यत्वं प्रमि­त­व­स्तु­ज­न्यत्वं ब्रह्मविद्या न नित्या किन्तु प्रमाणसाध्येति भावः ।

प्रमाणविषयेति ।
प्रमाणपदं प्रमापरं प्रमा­ण­वि­ष­य­घ­टा­दि­व­स्तु­ज्ञा­न­व­द्य­था­र्थ­व­स्तु­त­न्त्रै­वेति भाष्यार्थः ।

मोक्षस्य कर्मसाध्यत्वं ब्रह्मज्ञानस्य नियोगविषयत्वं च कार्या­नु­प्र­वे­श­श­ब्दार्थ इति स्फुटीकुर्वन् भाष्यमवतारयति –
उक्तरीत्येति ।

कार्याङ्गमिति ।
कर्मा­ङ्ग­मि­त्यर्थः । कारणमिति । अज्ञानरूपं कारणमित्यर्थः ।

अवि­ष­य­त्व­मु­क्त्वेति ।
प्रत्य­क्षा­द्य­वि­ष­य­त्व­मु­क्त्वे­त्यर्थः ।

नेदमिति ।
इदमितीदन्त्वेन निर्दिष्टं न ब्रह्मे­त्यु­क्त­मि­त्यर्थः । तथा च ब्रह्मणः ज्ञान­वि­ष­य­त्व­रू­प­मु­पा­स­ना­वि­ष­य­त्व­रूपं च यत्कर्मत्वं तस्य प्रति­षे­धा­त्पक्षे हेत्वसिद्धेः नानुमानं स्वसा­ध्य­सा­ध­क­मिति भावः ।

ब्रह्मणः शाब्देति ।
ब्रह्म शास्त्रप्रमाणकं शास्त्र­ता­त्प­र्य­वि­ष­य­त्वा­दिति शब्दा­त्म­क­शा­स्त्र­ज­न्य­बो­ध­वि­ष­य­त्व­रूपं ब्रह्मणः शास्त्र­प्र­मा­ण­कत्वं तृतीयसुत्रे प्रतिज्ञातं सम्प्रति शास्त्र­ज­न्य­बो­धा­वि­ष­यत्वे प्रति­ज्ञा­हा­नि­रिति शङ्कि­तु­र­भि­प्रायः ।

वृत्तीति ।
ब्रह्मा­का­र­वृ­त्ती­त्यर्थः । ब्रह्मणः शास्त्र­ज­न्य­बो­ध­कृ­ता­वि­द्या­नि­वृ­त्ति­फ­ल­शा­लि­त्व­रू­प­शा­स्त्र­प्र­मा­ण­क­त्व­म­भ्यु­प­ग­म्यते न शास्त्र­ज­न्य­बो­ध­वि­ष­य­त्व­रूपं दृश्य­त्वा­प­त्ते­र­ने­क­श्रु­ति­वि­रो­धाच्च, तथा च तत्र बोधविषयत्वेन तस्या­प्र­ति­ज्ञा­त­त्वान्न प्रति­ज्ञा­हा­नि­रिति भावः ।

ननु ब्रह्मणः बोधाविषयत्वे कथ­म­वि­द्या­नि­वृत्तिः ज्ञानाज्ञानयोः समा­न­वि­ष­य­क­त्वा­भा­वा­दि­त्यत आह –
वृत्ति­कृ­ता­वि­ष­य­त्वे­पीति ।

अप्रमेयत्वमिति ।
शाब्द­बो­धा­वि­ष­य­त्व­मिति यावत् । अवि­द्या­नि­वृ­त्त्यर्थं केव­ल­वृ­त्ति­व्या­प्ति­रूपं ब्रह्मणः शास्त्र­ज­न्य­वृ­त्ति­वि­ष­यत्वं गौणमभ्युपगम्यते तस्य स्वप्रकाशत्वेन वृत्त्य­भि­व्य­क्त­स्फु­र­णा­वि­ष­य­त्वा­न्मु­ख्यत्वं वृत्ति­प्र­ति­बि­म्बि­त­चै­त­न्यां­श­रू­प­बो­ध­वि­ष­यत्वं तु नाभ्युपगम्यते तस्मा­त्प्र­त्य­ग­भि­न्न­ब्र­ह्मणः शाब्द­बो­धा­वि­ष­यत्वे हि न काप्य­नु­प­प­त्ति­रिति भावः । अत्रे­द­म­नु­स­न्धे­यम् । विषयत्वं द्विविधं मुख्यं गौणं चेति । तत्र विशि­ष्ट­नि­ष्ठत्वं मुख्यत्वं केव­ला­ह­ङ्का­रा­दि­नि­ष्ठत्वं केव­ला­त्म­नि­ष्ठत्वं वा गौण­त्व­मि­त्ये­व­म­ध्या­स­भा­ष्य­ग्रन्थे प्रतिपादितम् , सम्भा­व­ना­भा­ष्य­ग्रन्थे तु तथैवोपपादितम् , तथा हि भासमानत्वाख्यं विषयत्वं द्विविधं गौणं मुख्यं चेति । तत्र भान­प्र­यु­क्त­फ­ल­भा­क्त्व­रू­पत्वं गौणत्वं भान­भि­न्न­त्व­वि­शि­ष्टत्वं मुख्यत्वमिति । अस्यां फक्किकायामपि विषयत्वं द्विविधं गौणं मुख्यं चेति, तत्र वृत्ति­व्या­प्ति­रू­पत्वं गौणत्वं फल­व्या­प्ति­रू­पत्वं मुख्यत्वमिति, तथा च पक्षत्रयेपि आत्मनि गौणमेव विषयत्वं पर्यवसितम् , अहङ्कारे तु गौणं मुख्यं चेति ।

अभा­व­स्या­धि­क­र­ण­स्व­रू­पत्वं मत्वाह –
निवृत्तिरूपेति ।

तस्य मतमित्यत्र तच्छब्दस्य विभ­क्ति­व्य­त्या­से­ना­न्व­य­माह –
तेनेति ।

ब्रह्मचैतन्येति ।
ब्रह्मेति च्छेदः ।

अनुवदतीति ।
श्रुतिः स्वय­मे­वा­नु­व­द­ती­त्यर्थः । अविज्ञातमपि ज्ञानिनां पक्षः विज्ञा­त­मि­त्य­ज्ञा­निनां पक्ष इति विवेकः ।

अविषयत्वे उदाहृतं श्रुत्यन्तरं व्याचष्टे –
दृष्टेरिति ।

दृष्ट्येति ।
चाक्षु­ष­म­नो­वृ­त्त्ये­त्यर्थः ।

तयेति ।
बुद्धि­वृ­त्त्ये­त्यर्थः ।

आगन्तुकत्वादिति ।
जन्य­त्वा­दि­त्यर्थः । तथा च निवृ­त्ते­र्ज­न्य­त्वेन तद्रू­प­मो­क्ष­स्यापि जन्य­त्वा­द­नि­त्यत्वं स्यादिति शङ्कि­तु­र­भि­प्रायः ।

ध्वंसस्येति ।
जन्यत्वेपि निवृ­त्ति­रू­प­ध्वं­स­स्ये­त्यर्थः । अविद्यायाः कल्पि­त­त्वा­द­न्त्य­भा­व­वि­का­र­रू­प­त­न्नि­वृ­त्ते­रपि कल्पि­त­त्वे­ना­धि­ष्ठा­ना­त्म­स्व­रू­प­त्वा­त्त­न्नि­वृत्तेः परमते ध्वंसरूपत्वेन नित्य­त्व­प्र­सङ्गः तस्मान्न नियोगपरत्वं वेदान्तानामिति भावः ।

ननु मोक्षः क्रियाफलं भवितुमर्हति उत्प­त्त्या­द्य­न्य­त­म­व­त्त्वात् घटा­दि­व­दि­त्य­नु­मा­नेन मोक्ष­स्यो­पा­स­ना­ज­न्य­त्व­मौ­प­चा­रिकं स्यादि­त्या­शङ्कां पक्षे हेत्वसिद्ध्या परिहरतीति भाष्यमवतारयति –
उत्पत्तीति ।
न हि मोक्ष­स्यो­त्प­त्त्या­दि­क­मे­वास्ति येनो­त्प­त्त्यादेः क्रिया­ज­न्य­त्वात् तद्द्वारा क्रियाजन्यत्वं मोक्षस्य स्यात्तथा चोत्प­त्त्या­द्य­न्य­त­म­रू­प­सा­ध्य­स­म्ब­न्धेन मोक्षस्य साध्यत्वमिति यत्पूर्वपक्षिणो मतं तदसङ्गतमिति सिद्धा­न्त­स­मु­दा­य­ग्र­न्थार्थः । उत्पत्तिः साम­ग्र्य­व्य­व­हि­तो­त्त­र­क्ष­ण­स­म्बन्ध इत्यर्थः । आप्तिः संयो­गा­दि­रू­प­प्रा­प्ति­रि­त्यर्थः ।

भाष्ये
उत्पाद्य इति ।
उत्प­त्ति­मा­नि­त्यर्थः । मान­स­मु­पा­स­ना­ध्या­न­रूपं वा कायि­क­म­ग्नि­ष्टो­मा­दि­रूपं कार्यं कर्मेत्यर्थः ।

तयोः पक्षयोरिति ।
मोक्ष­स्यो­त्पा­द्यत्वं कश्चिद्वदति कश्चि­द्वि­का­र्यत्वं तयोः पक्षयोरित्यर्थः । साध्य­श्चे­न्मो­क्षोऽ­भ्यु­प­ग­म्यते अनित्य एव स्यादि­त्या­दि­भाष्ये दृढ­त्वे­ना­नि­त्यत्वं साधितमिति भावः ।

अनाप्यत्वादिति ।
क्रिया­पू­र्व­का­प्य­त्वा­नु­प­प­त्ते­रि­त्यर्थः ।

सर्वेणेति ।
सर्व­व­स्तु­ने­त्यर्थः ।

गुणाधानेनेति ।
अत्राभेदे तृतीयाद्वयमिति विभावनीयम् ।

व्रीह्यादौ प्रोक्षणादिना गुणाधानलक्षणः संस्कारः सम्भवति वस्त्रादौ तु क्षालनेन दोषापनयरूपः संस्कारः सम्भवति यथा तथा ब्रह्मणि द्विविधः संस्कारो न सम्भवतीत्याह –
न तावदिति ।

अनाधेयातिशयेति ।
असङ्गत्वेन गुणा­द्य­स­म्भ­न्धी­त्यर्थः ।

स्वात्मधर्म एवेति ।
ब्रह्मा­त्म­स्व­रू­प­भूत एवेत्यर्थः ।

व्याख्याने – प्रतीकमादाय तथे­त्य­स्या­र्थ­माह –
तथो­त्पा­द्य­त्व­व­दिति ।

अपेक्षत इति ।
त्रिविधमध्ये अन्यतमं कर्मापेक्षत इत्यर्थः ।

दूषयतीति ।
स्वमते मोक्ष­स्यो­त्प­त्त्या­द्य­न­ङ्गी­का­रान्न नित्यत्वदोषः प्रत्युत परमत एव तद­ङ्गी­का­रा­द­नि­त्य­त्व­दोष इति दूषयतीत्यर्थः ।

स्थितस्यैवेति ।
नित्यत्वेन स्थित­स्यै­वे­त्यर्थः । यथा शैवं­वै­ष्ण­वा­दि­त­त्त­न्मते नित्यत्वेन स्थितस्य कैला­स­वै­कु­ण्ठा­दि­ग्रा­म­स्याप्तिः गमनरूपया क्रियया भवति तथैव अनि­त्य­त्व­नि­रा­साय नित्यत्वेन स्थितस्यैव ब्रह्मणः उपा­स­ना­रू­प­क्रि­यया आप्ति­र­स्ती­त्यर्थः । नित्यत्वेन स्थितस्यैव ब्रह्म­रू­प­मो­क्ष­स्या­प्ति­रू­प­सा­ध्यो­प­रा­गेण साध्यत्वं प्राप्तिकर्मता च भवेत्तथा च ब्रह्म­प्रा­प्ते­रु­पा­स­ना­ज­न्य­त्वा­त्त­द्द्वारा मोक्ष­स्या­प्यु­पा­स­ना­ज­न्य­त्वेन वेदान्तानां नियोगपरत्वमिति शङ्कि­तु­र­भि­प्रायः ।

ब्रह्मजीवेति ।
जीवस्य ब्रह्म­प्रा­प्ति­रि­त्यत्र तयोरभेदे स्वस्वरूपस्य नित्य­मा­प्त­त्वा­त्क्रि­या­पू­र्व­का­प्य­त्वा­नु­प­प­त्तेर्न क्रियापेक्षया भेदे तु ब्रह्मणः सर्वगतत्वेन नित्य­मा­प्त­त्वात् क्रिया­पू­र्व­का­प्य­त्वा­नु­प­प­त्तेर्न क्रिया­पे­क्षे­त्या­हे­त्यर्थः | नन्वभेदपक्षे कथमाप्तिः भेद­नि­य­त­त्वा­दा­प्ते­स्तथा चोभ­य­था­प्या­प्ता­त्वा­दि­त्य­नु­प­प­त्ति­रिति चेन्न । अभेदे त्वाप्त­रो­प­चा­रि­क­त्वा­दिति भावः ।

मोक्ष­स्यो­त्पा­द्यत्वं विका­र्य­त्व­मा­प्यत्वं च न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याय संस्कारत्वं न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याति –
यथा व्रीहीणामिति ।
अहं ब्रह्मास्मीति ब्रह्मोपासनया ब्रह्मरूपे मोक्षे गुणाधानाख्यः कश्चिदतिशयरूपः संस्कारो जन्यते यथा व्रीहिषु प्रोक्षणादिना गुणाधानाख्यः संस्का­र­स्त­द्व­त्तथा चोपा­स­ना­रू­प­क्रि­या­ज­न्य­त्वा­त्सं­स्का­रस्य तद्द्वारा मोक्षस्यापि क्रियाजन्यत्वेन वेदानतनां क्रियापरत्वमिति शङ्कि­तु­र­भि­प्रायः ।

गुणाधानं दोषापनयश्च संस्कारशब्दार्थ इत्यभिप्रेत्य ’संस्कारो ही’त्यादिभाष्यं व्याचष्टे –
गुणाधानमिति ।
व्रीह्यादौ गुणा­धा­न­ल­क्ष­ण­सं­स्कारो नाम स्वर्गो­त्पा­द­क­त्व­रू­पा­ति­श­य­वि­शेषः ।

आद्य इति ।
सत्यत्वपक्षे त्ववि­द्या­त्म­क­म­ल­ना­श­को­पा­स­ना­रू­प­क्रिया किमात्मनिष्ठा सती स्वरू­पा­भि­व्य­क्त्यर्थं मलं नाशयति अन्यनिष्ठा वा ? नाद्यः अस­ङ्गा­द्वि­ती­यस्य वस्त्व­न्त­र­सं­य­गि­त्वा­नु­प­प­त्ते­रि­त्यर्थः ।

नैवात्मानं लभत इति भाष्यस्यार्थमाह –
न जायत इति ।
या क्रिया सा स्वाश्रयस्य वस्त्व­न्त­र­सं­यो­गि­त्व­रू­प­वि­कारं सम्पादन्त्येव स्वयं जायत इति फलितार्थः । तथा चात्मनः क्रियाङ्गीकारे द्रव्या­न्त­र­सं­यो­गि­त्व­मा­गतं तच्चानिष्टमिति भावः ।

प्रतीकमादाय तत्पदस्यार्थमाह –
तच्चेति ।

यत्रान्यनिष्ठया क्रिययान्यस्य संस्कार्यत्वं तत्र क्रिया­श्र­य­द्र­व्य­सं­यो­गि­त्व­मिति व्याप्तिं ज्ञाप­य­न्पू­र्व­वा­द्यु­क्त­दृ­ष्टा­न्त­वै­ष­म्य­माह –
दर्पणं त्विति ।
संयो­ग­वि­भा­ग­प्र­च­या­नु­कू­ल­ह­स्त­च­ल­न­त­द­नु­कू­ल­य­त्ना­नु­रूपा या निघर्षणक्रिया तदाश्रयं यदि­ष्ट­का­चू­र्णा­दि­द्रव्यं तत्सं­यो­गि­त्वा­दि­त्यर्थः । श्रीगु­रु­च­र­णै­र्ब्र­ह्म­वि­द्या­भ­रणे दृष्टा­न्त­वै­षम्यं स्फुट­त्वे­नो­प­पा­दि­तम् । तथाहि – यद्य­पी­ष्ट­का­चू­र्णस्य दर्पणेन संयो­ग­वि­भा­ग­प्र­च­या­नु­कूलो व्यापारः हस्त­च­ल­न­त­द­नु­कू­ल­य­त्ना­दि­रू­पोऽ­न्य­ग­तोपि भवति तथापि मला­प­क­र्ष­ण­पु­रु­ष­व्या­पा­रस्य द्वारीभूतो यः संयो­ग­वि­भा­ग­प्र­चयः स दर्पणगतो भवत्येव नैवं ब्रह्मणि सम्भवति ।

अन्यक्रिययेति ।
अन्य­नि­ष्ठ­क्रि­य­ये­त्यर्थः ।

अन्य इति ।
आत्मेत्यर्थः ।

व्यभिचारमिति ।
यत्र क्रिया­श्र­य­द्र­व्य­सं­यो­गि­त्वा­भा­व­स्तत्र अन्यनिष्ठया क्रियया अन्यस्य संस्का­र्य­त्वा­भाव इत्या­का­र­क­व्य­ति­रे­क­व्या­प्ते­रा­त्मनि व्यभिचारं शङ्कत इत्यर्थः । केवलदेहनिष्ठया स्नानादिक्रियया केवलस्यात्मनः संस्कारो दृश्यत इति पूर्व­प­क्ष्य­भि­प्रायः । स्नानादक्रिया देहविशिष्टस्यैव संस्कारोपि देहविशिष्टस्यैव न शुद्धस्यात्मन इति सिद्धा­न्त्य­भि­प्रायः ।

यत्र बुद्धि­रु­त्प­द्यते तत्संहतस्य फल­मि­त्य­न्व­य­म­र्थ­पू­र्वकं दर्शयति –
यत्रेति ।
केवलस्य देहस्य फलभोक्तृत्वं न केवलस्यात्मनः किन्तु विशिष्टस्य फलभोक्तृत्वं स्नाना­दि­क्रि­या­श्र­य­त्वा­दिकं चेत्यात्मनि व्यति­रे­क­व्या­प्तेर्न व्यभिचार इति भावः ।

भाष्ये
तत्संहत एव कश्चिदिति ।
देहे­न्द्रि­या­दि­वि­शिष्टः कश्चित्पुरुष एवेत्यर्थः ।

विशिष्टस्यैव क्रिया­श्र­य­त्वादौ दृष्टान्तमाह –
यथेति ।

धातुसाम्येनेति ।
वात­पै­त्त्य­श्ले­ष्म­धा­तु­सा­म्ये­ने­त्यर्थः । तदभिमानः जीवस्येत्यर्थः ।

दार्ष्टा­न्ति­क­माह –
एवमिति ।
यत्र बुद्धिरुत्पद्यत इत्यत्र विद्य­मा­न­य­त्रे­त्यस्य तच्छ­ब्द­च­तु­ष्ट­ये­ना­न्वयः । यत्रात्मनि विषये शुद्ध­बु­द्धि­रु­त्प­द्यत इत्यर्थः ।

तत्फलं चेति ।
क्रियाफलं चेत्यर्थः ।

व्याख्याने तृती­या­च­तु­ष्ट­यस्य क्रमेणार्थं व्युत्पादयति –
देहसंहतेनैवेति ।

मनो­वि­शि­ष्ट­स्येति ।
एकां­श­रू­प­स्थू­ल­देहे विनष्टेपि प्रत्य­भि­ज्ञा­ब­ला­ल्लि­ङ्ग­दे­ह­मा­दाय संस्कारफलं चोपपद्यते यथा एकां­श­रू­प­बा­ल्य­प­रि­माणे विन­ष्टे­पी­त­रां­श­मा­दाय प्रत्य­भि­ज्ञा­ना­द्वि­शि­ष्ट­व्य­व­हा­रो­प­प­त्ति­स्त­द्व­दिति भावः ।

सत्त्वेति ।
अन्तः­क­र­णे­त्यर्थः ।

पिप्पलमिति ।
कर्मफलमित्यर्थः ।

तद्भूत्वेति ।
अधिष्ठानं भूत्वेत्यर्थः ।

द्वैतापत्तिं परिहरति –
साक्ष्यमिति ।

चेतेति ।
चेतृशब्द ऋकारान्तः ।

चेता केवल इति पदद्वयस्य क्रमेणार्थं वदन् अनुभवमाह –
बोद्धृत्वे सतीति ।

प्रकृते किमायातमित्यत आह –
निर्गुणत्वादिति ।
शिराः नाड्य इत्यर्थः ।

देहद्वयाभावे फलितमाह –
पुण्य­पा­पा­भ्या­मिति ।

उपसंहरतीति ज्ञापयन् भाष्यार्थमाह –
उत्पत्तीति ।

परिहरति –
नेति ।
ज्ञाना­र्थ­त्वा­च्छा­स्त्रा­रम्भः सार्थक इत्याहेत्यर्थः ।

व्याघातमिति ।
विरोधमित्यर्थः । शास्त्रं ज्ञाना­र्थ­ञ्चे­न्मोक्षे क्रियानुप्रवेशः कथं नोपपद्यते ज्ञानस्यैव क्रियात्वादिति विरोधं शङ्कते इति भावः ।