अद्वैतशारदा

पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)

९ परिच्छेदः

मानसमपि इति ।
यो विध्यर्थः स कृति­सा­ध्य­त्व­वि­शिष्टः तथा च ज्ञानस्य कृत्यसाध्यत्वं न विध्य­र्थ­त्वा­यो­गात् न विधि­यो­ग्य­क्रि­या­त्व­मिति भावः ।

वैलक्षण्यमिति ।
भेदमित्यर्थः । ज्ञानस्य ध्यान­क्रि­या­वै­ल­क्षण्यं प्रपञ्चयतीति भावः ।

सामा­न्य­व्या­प्ति­प्र­ति­पा­दकं भाष्यं योजयति –
यत्रेति ।

चोद्यत इति ।
चोदनया उत्पद्यत इत्यर्थः ।

यत्र विष­य­व­स्त्व­न­पे­क्षत्वे सति कृतिसाध्यत्वं तत्र क्रियात्वमिति सामा­न्य­व्या­प्ति­स्ता­मु­प­पा­द­यन् तस्यां दृष्टा­न्त­प्र­ति­पा­दकं भाष्यमवतारयति –
विष­य­व­स्त्व­न­पे­क्षेति ।
विष­या­ज­न्ये­त्यर्थः । अनुमित्यादौ विष­य­स्या­हे­तु­त्वा­त्त­द­जन्ये तस्मिन् व्यभिचारवारणाय कृतिजन्यत्वदलम् । कृतिसाध्ये अपूर्वे व्यभिचारवारणाय विष­य­व­स्त्व­न­पे­क्ष­त्व­द­लम् , अपूर्वस्य उपा­दा­न­रू­प­वि­ष­य­ज­न्य­त्वेन तद­ज­न्य­त्वा­भा­वान्न व्यभिचारः । उपासनायाः अपूर्वविषयत्वं नाम पूर्व­हे­तु­कृ­ति­वि­ष­य­त्व­मिति पुर­स्ता­दु­क्त­मिति विज्ञेयम् । वष­ट्क­रि­ष्य­न्निति हेतौ वषट्करिष्यन् तां देवतां ध्यायेदित्यर्थः ।

वाक्यान्तरमाह –
सन्ध्यामिति ।

ध्याने विष­य­व­स्त्व­न­पे­क्षत्वे सति कृतिसाध्यत्वं क्रियात्वं च विद्यत इति व्याप्तिं परिष्करोति –
यथा यादृशीति ।
यादृशी अना­हा­र्य­प्र­मा­व्य­ति­रि­क्ते­त्यर्थः ।

ज्ञानमेवेति ।
ज्ञान­मि­वे­त्यर्थः । ध्यानं न क्रिया मान­स­त्वा­ज्ज्ञा­न­व­दिति प्रयोगः ।

ध्यानं क्रिया मान­स­त्वा­दि­त्य­नु­माने कृत्य­सा­ध्य­त्व­मु­पाधिः दृष्टान्ते साध्य­व्या­प­क­त्वात् पक्षे साध­ना­व्या­प­क­त्वा­च्चे­त्याह –
कत्य­सा­ध्य­त्व­मिति ।

ज्ञानस्येति ।
लोके प्रसि­द्ध­घ­टा­दि­ज्ञा­न­स्ये­त्यर्थः ।

भाष्ये – पूर्वमात्मनः वृत्ति­प्र­ति­फ­लि­त­चै­त­न्या­वि­ष­य­त्वेपि वत्ति­वि­ष­य­त्व­मुक्तं तदत्रोपसंहृतम् –
ज्ञानमेकं मुक्त्वेति ।

यथेति ।
किञ्चिद्ध्यानं यथा­व­स्थि­त­व­स्त्व­नु­सा­र्यपि वस्तुनिरपेक्षं भवति तदभिप्रायेण यस्यै देवताया इति सन्ध्यां मनसेति चोदाहरणद्वयम् , किञ्चि­त्पु­न­र्ध्यानं वस्त्वनुसार्यपि भवति तदभिप्रायेण पुरुषो वा वेत्युदाहरणम् , अतो ध्यानस्य वस्त्वनुसारे तदननुसारे च न निर्बन्धः, कृतिसाध्यत्वं तु नियतमेवेति तस्य विधे­य­त्व­मु­प­प­द्यते, प्रमाणज्ञानस्य तु कृत्यसाध्यतया न विधेयत्वमिति समुदायार्थः । ज्ञानं तु प्रमाणजन्यमिति । यथा­र्थ­व­स्तु­वि­ष­य­प्र­त्य­क्षा­दि­प्र­मा­ण­ज­न्य­त्वात् ज्ञानस्य सर्व­दा­ना­हा­र्य­प्र­मा­त्म­क­त्व­मेव ध्यानादीनां तु केषा­ञ्चि­द­ना­हा­र्यत्वं केषा­ञ्चि­द्भ्र­मत्वं केषा­ञ्चि­त्प्र­मात्वं सम्भवति तस्मादपि ज्ञानस्य मह­द्वै­ल­क्ष­ण्य­मिति भावः ।

व्याख्याने प्रतीकमादायेति शब्दार्थमाह –
अतः प्रमा­ण­ज­न्य­त्वा­दिति ।

प्रती­क­मा­दा­या­र्थ­माह –
न चोदनेति ।

ज्ञानस्य प्रमा­तृ­ज­न्य­त्वेन पुरु­ष­त­न्त्र­ताऽ­स्त्ये­वेति आशङ्क्य विग्र­ह­प्र­ति­पा­द­क­द्वारा परिहरति –
पुरुष इति ।
ज्ञानस्य प्रमा­तृ­ज­न्य­त्वेपि कृति­सा­ध्य­त्वा­भा­वान्न पुरुषतन्त्रतेति भावः ।

प्रती­क­मा­दा­या­र्थ­माह –
तस्मादिति ।

ध्यानमिति ।
आहार्यरूपं ध्यानमित्यर्थः ।

नन्विति ।
प्रत्य­क्षा­त्म­क­ज्ञानं प्रति विषयस्य हेतुत्वेन तज्ज्ञानस्य वस्तु­त­न्त्र­त्वेपि शाब्द­बो­धा­त्म­क­ज्ञानं प्रति विषयस्य कारणत्वाभावात् शाब्दबोधादेर्न विष­य­व­स्तु­त­न्त्रता तस्मा­द्वि­धे­य­क्रि­यात्वं स्यादिति शङ्कार्थः ।

शब्दा­नु­मा­ना­द्य­र्थे­ष्विति ।
शब्दा­दि­प्र­मा­ण­वि­ष­या­र्थे­ष्वि­त्यर्थः ।

मानादेवेति ।
अबा­धि­त­व­स्तु­वि­ष­य­प्र­मा­णा­दे­वा­नु­मि­त्यादेः प्राप्ते­रि­त्यर्थः । अनु­मि­त्या­दि­ज्ञाने विष­ये­न्द्रि­य­सं­यो­गा­भा­वेन मुख्य­व­स्तु­त­न्त्र­त्वा­भा­वेपि अनु­मि­त्या­दि­नि­ष्ठ­प्र­मा­त्व­स्या­बा­धि­त­व­स्तु­त­न्त्र­त्व­मौ­प­चा­रि­क­म­स्तीति भावः ।

भाष्ये – या चोदनाजन्या पुरुषतन्त्रा च क्रिया तां प्रसिद्धां क्रियां तद्वि­ल­क्ष­ण­प्र­सि­द्ध­घ­टा­दि­ज्ञानं चोपपाद्य प्रकृ­त­मा­वि­ष्क­रोति –
तत्रैवं सतीति ।
साक्षा­त्का­रा­त्मकं शाब्द­बो­धा­त्म­क­म­नु­मि­त्या­त्मकं वा ब्रह्मा­त्म­वि­ष­यकं ज्ञानं न चोदनातन्त्रं नापि पुरुषतन्त्रं परम्परया कृतिजन्यत्वेपि साक्षा­त्कृ­ति­ज­न्य­त्वा­भा­वा­त्प्र­सि­द्ध­घ­टा­दि­ज्ञा­न­व­दिति भावः ।

व्याख्याने लिङ्गादित्रयस्य क्रमे­णो­दा­ह­र­ण­पू­र्वकं भाष्यमवतारयति –
नन्विति ।

अनिर्योज्यं ज्ञानं विषयो येषां विध्यादीनामिति बहु­व्री­हि­स­मा­स­म­भि­प्रेत्य वाक्यं व्याकरोति –
अनियोज्यमिति ।

नियोज्यशून्यं वेति ।
कृति­सा­ध्य­फ­ल­र­हितं वेत्यर्थः ।

नियोज्यश्च विषयश्च नियोज्यविषयौ येषां न विद्येते ते अनियोज्यविषया विधयस्तेषां भावः अनि­यो­ज्य­वि­ष­यत्वं तस्मादिति समासान्तरं तात्प­र्या­र्थ­क­थ­नेन स्फोरयति –
ममेति ।
अयं फलहेतुभूतः अपूर्वरूपो नियोगः ममावश्यक इति ज्ञानवान् बोद्धा यः स नियोज्य इत्यर्थः । विषयश्च कृति­सा­ध्य­वि­ष­य­श्चे­त्यर्थः । यथा ज्योति­ष्टो­म­वाक्ये स्वर्ग­का­म­रू­प­नि­योज्यः कृति­सा­ध्य­या­ग­रू­प­वि­ष­यश्च विधेरस्ति तद्वदत्र नियोज्यो विषयश्च विधेर्नास्तीति भावः ।

बहु­व्री­हि­स­मा­स­भ्रमं वारयति –
वस्तुस्वरूप इति ।
आत्म­स्व­रू­प­त्वात् ब्रह्मा­हे­य­म­नु­पा­दानं च भवति स्वव्य­ति­रि­क्त­मेव हेयमुपादेयं चेति प्रसिद्धं लोके, तस्मा­द­हे­या­नु­पा­दे­य­व­स्तु­स्व­रू­प­त्वात् ब्रह्मणः विधयो ज्ञान इव तस्मिन् न प्रवर्तन्त इति भावः ।

फलितमाह –
निरतिशयस्येति ।

व्याख्यानान्तरं वदन् बहु­व्री­हि­स­मा­स­म­भि­प्रेत्य भाष्य­स्था­हे­ये­त्या­दि­हे­तो­र­र्थ­माह –
उदासीनेति ।
अनि­यो­ज्ये­त्या­दि­हे­तु­स­मु­च्च­या­र्थ­श्च­शब्दः ।

उदा­सी­न­व­स्तु­वि­ष­क­त्वेपि ज्ञानस्य विधेयत्वं स्यादि­त्या­श­ङ्क्याह –
प्रवृत्तीति ।
वाशब्दः व्याख्या­ना­न्त­र­द्यो­तकः ।

स्तुत्येति ।
स्तुत्या तन्नि­वृ­त्ति­फ­ला­नी­त्य­न्वयः ।

विषयप्रवृत्तौ हेतुमाह –
आत्यन्तिकेति ।
उत्कृ­ष्ट­सु­ख­हे­तु­त्व­भ्रा­न्त्ये­त्यर्थः ।

विषयेष्विति ।
शब्द­स्प­र्श­रू­पा­दि­वि­ष­ये­ष्वि­त्यर्थः । स्रक्च­न्द­ना­दि­वि­ष­ये­ष्विति फलितार्थः ।

भाष्ये
स्वाभा­वि­क­प्र­वृ­त्तीति ।
स्वाभाविकी स्वभावसिद्धा या प्रवृ­त्ति­स्त­द्वि­ष­येभ्यः स्रक्च­न्द­ना­दिभ्यो यद्विमुखीकरणं तदर्थानीति विग्रहः । अथ वा स्वाभाविकेभ्यः प्रवृ­त्ति­वि­ष­येभ्यो यद्वि­मु­खी­क­र­ण­मिति विग्रहः । विषयाणां स्वाभाविकत्वे लोक­प्र­मा­ण­सि­द्ध­त्वम् ।

तत्रेति ।
विषय इत्यर्थः । आत्य­न्ति­क­मु­त्कृ­ष्ट­मि­त्यर्थः । पुरुषार्थं सुखमित्यर्थः । अनित्यत्वादिति शेषः ।

तमिति ।
यो हि बहि­र्मु­ख­स्त­मु­त्कृ­ष्ट­सु­खा­र्थि­न­म­धि­का­रि­ण­मि­त्यर्थः । बहिर्मुखस्य सुखे उत्कृ­ष्ट­वा­ञ्छ­या­धि­का­रित्वं सम्पाद्य तं श्रवणादौ वाक्यानि प्रवर्तयन्तीति ज्ञाप­ना­र्थ­मा­त्य­न्ति­के­त्या­दि­वि­शे­ष­णम् । एतेन साध­न­च­तु­ष्ट­य­स­म्प­न्नस्य श्रवणादौ प्रवृ­त्ति­र्युक्ता श्रुतीनां तस्मि­न्प्र­व­र्त­यि­तृत्वं च युक्तं कथं बहिर्मुखस्येति शङ्का निरस्ता, कथ­ञ्चि­द­धि­का­रि­त्वस्य प्रतिपादनादिति भावः ।

तत्केन कमिति ।
तत्तत्र विद्याकाले केन करणेन कं विषयं पश्येदित्यर्थः ।

अक­र्त­व्य­प्र­धा­न­मिति ।
अकर्तव्यं कृत्यसाध्यं यद्ब्रह्म तदेव प्रधानं विषयो यस्य तत्तथेत्यर्थः ।

व्याख्याने –
विवृणोतीति ।
सङ्ग्रहवाक्यं विवृणोतीत्यर्थः ।

शब्दादेरिति ।
शब्द­स्प­र्शा­दि­वि­ष­या­दि­त्यर्थः ।

श्रवणस्वरूपमिति ।
अधिकारिणो लाभात्तस्य पुरु­षा­र्थ­वा­ञ्छि­न­स्त­त्त्व­ज्ञा­नाय श्रव­ण­स्व­रू­प­मा­हे­त्यर्थः । अना­त्म­बो­धे­नात्मा बोध्यत इत्यनेन श्रव­ण­स्व­रू­प­मु­क्त­मिति भावः ।

विधि­प­दा­ना­मु­क्त­रीत्या गतिसम्भवात् क्व वादिनामवकाश इति वादिनं प्रत्यु­प­हा­स­द्वारा स्वमतं परिष्करोति –
अद्वितीयेति ।

तपस्विनः अर­ण्य­रू­प­व­ना­पे­क्षायाः सत्त्वादिदमाह –
द्वैतेति ।

शेष­पू­र्त्या­न्वयं दर्शयति –
अहमिति ।

श्रुत्य­र्थ­फ­लि­त­माह –
भोक्तृभोग्येति ।

प्रतीकमादाय एतच्छब्दार्थमाह –
एतदिति ।

प्राभाकरेति ।
प्रकृ­त­सि­द्ध्यर्थं प्राभाकरोक्तं दूष­यि­तु­मु­प­न्य­स्य­ती­त्यर्थः । ब्रह्म­ना­स्ति­कत्वे तुल्येपि भाट्टमते सिद्धे पदानां शक्तिः प्रभाकरमते तु कार्या­न्वि­तार्थे शक्तिरिति भेदः । कार्या­न्वि­तार्थे शक्तितौल्येपि वृत्तिकारमते ब्रह्मा­स्ति­त्वा­ङ्गी­का­रेण मतयोर्भेदो विभावनीयः ।

मानाभावादिति ।
ब्रह्मसद्भावे माना­भा­वा­दि­त्यर्थः । अज्ञा­त­स्ये­त्य­नेन वेदस्य प्रामाण्यं सूचितं, फल­स्व­रू­प­स्ये­त्य­नेन कार्य­शे­ष­त्वा­भावः सूचित इति भावः ।

न च प्रवृत्तीति ।
मध्यमवृद्धस्य प्रवृ­त्ति­नि­वृ­त्ति­भ्या­मि­त्यर्थः । श्रोतुः मध्य­म­वृ­द्ध­स्ये­त्यर्थः ।

अनुमायेति ।
व्युत्पि­त्सु­र्बाल इति शेषः । वक्तृवाक्यस्य उत्त­म­वृ­द्ध­वा­क्य­स्ये­त्यर्थः ।

श्रोतुरिति ।
वाक्यश्रोता पिता मध्यस्थश्च भवति, तथा च मध्यस्थस्य सिद्धे सङ्ग­ति­ग्र­हा­दि­त्यर्थः । पुत्रस्ते जात इति वाक्यश्रवणकाले पितुः हर्ष­पू­र्व­क­स्ना­ना­द्या­च­रणं दृष्ट्वा पुत्रजन्म हर्ष­पू­र्व­क­स्ना­न­दा­ना­द्या­च­रणे निमित्तमिति वाक्य­श्रो­तु­र्म­ध्य­स्थस्य बुद्धिर्भवति तेन हेतुना पुत्रस्ते जात इति वाक्यं पुत्र­ज­न्म­प्र­ति­पा­द­क­मि­त्य­नेन मधस्थेन निर्णीतमतः प्रथ­म­व्यु­त्प­त्ति­ग्रहः सिद्धस्थलेपि भवतीति न कार्यान्वित एव पदानां शक्तिः । यत्र तु आख्यातपदान्वयः तत्र तत्प्र­यु­क्त­का­र्या­न्वयो भासत इत्येतावता अन्यत्रापि आख्यातपदरहितः पुत्रस्ते जात इत्यादौ पदानां कार्यान्वितार्थ एव शक्तिरिति कल्पनायामाग्रहो न युक्त इति भावः ।

पुत्रादिपदानां सिद्धार्थे व्युत्पत्तिं साधयित्वा कार्या­न्वि­तार्थे पदानां शक्ति­र्ना­स्ती­त्यत्र हेतुमाह –
कार्यान्वितेति ।

नीलमित्युक्ते किं नील­मि­त्या­का­ङ्क्षाया अनु­भ­व­सि­द्ध­त्वा­द­न्वि­तार्थे शक्ति­र्व­क्त­व्ये­त्य­भि­प्रा­ये­णो­क्तम् –
अन्वितार्थ इति ।
पर­स्प­रा­न्व­य­वि­शि­ष्टार्थ इत्यर्थः । सर्वेषां पदानां सिद्धार्थ एव शक्तिः किन्तु प्रयो­ज­न­ज्ञा­ना­या­पे­क्षि­ता­व्य­व­हि­त­स­म्ब­न्ध­सि­द्ध्य­र्थ­मि­त­र­प­दा­न्वि­त­मा­त्र­म­पे­क्षि­त­मि­त्य­न्वि­तार्थे शक्ति­रि­त्यु­च्यते लाघवात्तथा च सिद्धस्य ब्रह्मणो वाक्या­र्थ­त्वा­दु­प­नि­ष­द­र्थता युक्तेति भावः ।

’औपनिषदस्य पुरु­ष­स्या­न­न्य­शे­ष­त्वा­दिति ’ वस्तु­स­ङ्ग्र­ह­भाष्यं तस्यैव प्रपञ्चः ’योसा­वु­प­नि­ष­त्स्वे­वा­धि­गत’ इत्या­दि­भा­ष्य­मि­त्य­भि­प्रेत्य सिद्धस्य वाक्यार्थत्वे हेत्व­न्त­र­प­र­त्वेन भाष्यमवतारयति –
किञ्चेति ।

उप­नि­ष­त्स्वे­वा­धि­गत इत्यनेन भाष्ये­णा­भा­ना­दिति पक्षनिराकरणं नास्ति­त्वा­दे­वेति पक्षनिराकरणं च भवति, अनन्यशेष इत्यनेन तृती­य­प­क्ष­नि­रा­क­र­ण­मि­त्य­भि­प्रे­त्याह –
तत्राद्यं पक्षत्रयमिति ।

अन­न्य­शे­ष­त्वा­र्थ­मिति ।
ब्रह्मणः कार्यशेषत्वं नास्ती­त्य­न­न्य­शे­षत्वं तदर्थमित्यर्थः । तथा हि ब्रह्मणः कार्यशेषत्वं न जीव­व­त्क­र्तृ­क­त्वेन वक्तुं शक्यते तस्या­सं­सा­रि­त्वात् , नापि घटा­दि­व­त्क्रि­या­पे­क्ष­त्वेन तस्य उत्पा­द्या­दि­च­तु­र्वि­ध­द्र­व्य­भि­न्न­त्वात् , नापि प्रयाजादिवदिति कर्तव्यतात्वेन तस्य स्वप्र­क­र­ण­प्र­ति­पा­द्य­त्वात् , तस्मा­द­सं­सा­रि­त्वा­दि­वि­शे­ष­ण­त्र­ये­णा­न­न्य­शे­षत्वं ब्रह्मणः सिद्धमिति भावः । वेदान्तेषु स्फुटत्वेन भाना­दा­त्म­त्वाच्च असौ नास्तीति वदितुं न शक्यमिति भाष्यार्थः ।

चतुर्थं शङ्कत इति ।
चतु­र्थ­प­क्ष­म­व­ल­म्ब्या­व­धा­र­ण­म­स­ह­मानः उपनिषत्स्वेव विज्ञायते इति यत्तत्कथमिति शङ्कत इत्यर्थः । अथवा चतुर्थं चतु­र्थ­प­क्ष­म­व­ल­म्ब्ये­त्यर्थः । ब्रह्मणः लोकसिद्धत्वेन वेदस्य कार्यपरत्वं स्यादिति शङ्कत इति भावः । चतुर्थशङ्का भाष्यस्था शङ्काचतुष्टयं तु भाष्याद्बहिरिति विज्ञेयम् ।

अहं­प्र­त्य­य­वि­ष­य­त्वा­दिति ।
अहं­प्र­त्य­य­वि­ष­य­त्वेन लोक­सि­द्ध­त्वा­दिति भाष्यार्थः ।

आत्मन इति ।
विशि­ष्ट­स्या­त्मनः अह­न्धी­वि­ष­य­त्वेऽपि अह­ङ्का­रा­दि­दे­ह­प­र्य­न्त­सा­क्षिणि केव­ला­त्म­न्य­ह­न्धी­वि­ष­य­त्वस्य निर­स्त­त्वा­दु­प­नि­ष­द्वे­द्य­त्व­मेव वक्तव्यमतो न चतुर्थः पक्ष इति भावः ।

विधिकाण्डे तर्कसमये वेति भाष्यस्य तात्पर्यार्थमाह –
तीर्थकारा इति ।
शास्त्रकर्तार इत्यर्थः । अलौ­कि­क­त्व­मु­प­नि­षे­दे­क­वे­द्य­त्वम् ।

तत्तन्मत इति ।
अहं­प्र­त्य­य­वि­ष­ये­त्या­दि­वि­शे­ष­णेन सर्वस्यात्मा हि विशि­ष्ट­भि­न्न­प्र­त्य­क्चे­त्य­न­त्वेन मीमां­स­कै­र्ना­धि­गत इति द्योत्यते किन्तु कर्तृत्वेनाधिगत इत्यर्थः । तत्साक्षीत्यनेन विशेषणेन अह­ङ्का­रा­दि­सा­क्षि­त्वेन बौद्धैरात्मा नाधिगतः किन्तु देहे­न्द्रि­या­दि­स­ङ्घा­त­त्वे­ना­धि­गत इति भावः । सर्वभूतस्थ इत्य­ने­ना­स­द्वा­दिना हि सत्त्वेनात्मा नाधिगतः किन्त्व­स­त्त्वे­ने­त्यर्थः । सम इत्यनेन मध्य­म­प­रि­मा­ण­वा­दिना हि समत्वेनात्मा नाधिगत इति द्योत्यते किन्तु तारतम्येनाधिगत इति भावः । एक इत्यनेन तार्कि­कै­रे­क­त्वे­नात्मा नाधिगतः किन्तु भिन्न­त्वे­ने­त्यर्थः । कूटस्थ इत्यनेन परिमाणवादिना निर्वि­का­र­त्वे­नात्मा नाधिगतः किन्तु परि­मा­ण­रू­प­वि­का­र­व­त्त्वे­ने­त्यर्थः । नित्य इत्यनेन क्षणि­क­वि­ज्ञा­न­वा­दिना स्थिरत्वेनात्मा नाधिगतः किन्तु प्रति­क्ष­ण­मु­त्प­त्त्या­दि­म­त्त्वे­ना­धि­गत इत्यर्थः । पूर्णं इत्यनेन विशेषणेन परि­च्छि­न्न­त्वा­दिना सर्वस्यात्मा व्यापकत्वेन नाधिगत इति द्योत्यते किन्त्व­व्या­प­क­त्वे­ना­धि­गत इत्यर्थः । तथा चोक्तविशेषणेन विशिष्टात्मा वेदान्तिभिरेव अधिगत इति भावः ।

साक्षि­त्वे­ना­ज्ञा­न­द­शायां कर्मा­ङ्ग­त्व­मु­च्यते किं ज्ञानदशायामिति विकल्प्य आद्यं निराचष्टे –
अज्ञातेति ।
कर्मा­ङ्ग­त्वा­नु­प­यो­गा­दि­त्यर्थः ।

द्वितीयं दूषयति –
व्याघा­त­क­त्वा­दिति ।
कल्पि­त­स­र्व­दृ­श्य­साक्षी अह­मि­त्य­द्वै­त­ज्ञा­न­द­शायां द्वैत­ज्ञा­ना­भा­वेन कर्मा­ङ्ग­त्व­वि­रो­धा­दि­त्यर्थः ।

आशङ्क्येति ।
विज्ञा­न­वा­दि­म­ता­नु­सा­रे­णा­श­ङ्क्ये­त्यर्थः ।

परिणामित्वेनेति ।
परि­णा­म­वा­दि­म­त­मु­सृ­त्या­त्मनः परिणामित्वेन हेयत्वमाशङ्क्य निराचष्ट इत्यर्थः ।

पर­प्रा­प्त्य­र्थ­मिति ।
परमुत्कृष्टं ब्रह्म तत्प्रा­प्त्यर्थं मुमुक्षुणा आत्मा हेयस्त्यक्तुं योग्य इति पूर्वपक्षार्थः ।

ब्रह्म­त्वा­दा­त्मैव परस्तस्मान्न हेय इति परिहरति –
आहेति ।

विक­ल्प­प­ञ्च­क­नि­रासे उक्त­हे­तु­च­तु­ष्ट­य­म­नू­ह्यो­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
एवमात्मन इति ।
स्फुट­म्भा­ना­दि­त्य­नेन विकल्पद्वयनिरास इति ज्ञेयम् ।

सूत्रस्येति ।
हिर­ण्य­ग­र्भ­स्ये­त्यर्थः ।

भाष्ये प्राभा­क­र­म­त­नि­रा­स­मु­प­सं­ह­रति –
अतो भूतवस्त्विति ।

अनुक्रमणमिति ।
वेदा­र्थ­स­ङ्ग्रा­ह­क­व­क्य­जा­त­मि­त्यर्थः ।

व्याख्याने -
पर्वोक्तमिति ।
सिंहा­व­लो­क­न­न्या­येन वृत्ति­का­र­म­तो­क्त­म­न्यथा उप­पा­द­यि­तु­म­नु­व­द­ती­त्यर्थः । भाष्यमिति शाब­र­भा­ष्य­मि­त्यर्थः । सूत्रकारो भगवान् जैमिनिरित्यर्थः ।

तच्चेति ।
फलवदज्ञातत्वेन वेदा­र्थ­त्व­मि­त्यर्थः । ब्रह्मणः फल­व­त्त्व­म­वि­द्या­नि­वृ­त्ति­रू­प­फ­ल­वत्त्वं तन्नि­वृ­त्ति­स्व­रू­पत्वं वेति विज्ञेयम् ।

अनु­क्र­म­ण­श­ब्दार्थं ज्ञापयितुं तच्छब्दस्य प्रती­क­मा­दा­या­र्थ­माह –
तत्सू­त्र­भा­ष्य­वा­क्य­जा­त­मिति ।
यानि सूत्रवाक्यानि भाष्यवाक्यानि च तेषां समूह इत्यर्थः ।

कर्मकाण्डस्य कार्य­प­र­त्व­म­ङ्गी­कृत्य न ज्ञान­का­ण्ड­स्ये­त्युक्तं सम्प्रति कर्मकाण्डस्यापि न कार्यपरत्वं किन्तु सिद्ध­प­र­त्व­ने­वे­त्याह –
वस्तुतस्त्विति ।

प्रव­र्त­क­ज्ञा­न­गो­च­र­त्वे­नेति ।
यागो मदिष्टसाधनमिति यत्प्र­वृ­त्ति­ज­न­क­मि­ष्ट­सा­ध­न­त्व­ज्ञानं तद्वि­ष­य­त्वे­ने­त्यर्थः । क्लृप्तं सिद्धमित्यर्थः ।

एव­का­र­व्य­व­च्छे­द्य­माह –
न क्रियात इति ।
क्रिया­रू­प­या­गा­द­ति­रि­क्ता­पू­र्वा­त्म­क­कार्यं न लिङर्थ इत्यर्थः ।

तस्येति ।
अपू­र्व­स्ये­त्यर्थः । प्रव­र्त­क­ज्ञा­न­वि­ष­य­त्वेन सिद्ध­स्व­रू­पे­ष्ट­सा­ध­नत्वे लिङर्थस्य शक्तिसम्भवेन प्रत्य­क्षा­दि­प्र­मा­ण­र­हिते कूर्म­लो­म­व­द­प्र­सिद्धे साध्ये अपूर्वे तस्य शक्तिकल्पनाया अन्या­य्य­त्वा­दि­ष्ट­सा­ध­न­त्व­मेव लिङर्थः नापूर्वं न प्रवर्तना वेति भावः ।

तस्यापीति ।
कर्म­का­ण्ड­स्या­पी­त्यर्थः ।

पराभिमतेति ।
प्राभा­क­रा­द्य­भि­म­ते­त्यर्थः ।

सिद्ध इति ।
सिद्ध­स्व­रू­पे­ष्ट­सा­ध­नत्व इत्यर्थः ।

किमुतेति ।
किमु वक्त­व्य­मि­त्यर्थः ।

ज्ञानकाण्डः सिद्धवस्तुपरः वेद­त्वा­त्क­र्म­का­ण्ड­व­दि­त्य­ने­ना­नु­मा­नेन सिद्धं वेदान्तानां सिद्ध­व­स्तु­प­रत्वं मनसि निधा­या­नु­मा­ना­न्त­रे­णापि साध­य­ती­त्य­व­ता­र­यति –
किञ्चेति ।

फलवदिति ।
फलवद्यद्भूतं सिद्धं वस्तु तत्प्रतिपादको यः शब्द­स्त­त्त्वा­दि­त्यर्थः ।

अत­द­र्थ­ना­मि­त्यस्य व्याख्यानम् -
अक्रि­या­र्थ­क­श­ब्दा­ना­मिति ।

अभिधेयाभाव इति ।
प्रति­पा­द्य­रू­पा­र्थ­शू­न्य­त्व­मि­त्यर्थः ।

इति पदस्य प्रती­क­मा­दा­यार्थं परिष्करोति –
इति न्यायेनेति ।
’आन­र्थ­क्य­म­त­द­र्था­ना­मि’त्ये­त­त्सू­त्र­प्र­ति­पा­दि­ता­र्थ­री­त्येति यावत् ।

एतत्पदस्य प्रती­क­मा­दा­या­र्थ­माह –
एतदिति ।

नियमेनेति ।
एत­त्सू­त्रा­र्था­न­ति­ल­ङ्ग­ने­ने­त्यर्थः ।

अङ्गी­कु­र्व­ता­मिति ।
वृत्ति­का­रा­णा­मिति शेषः ।

भूतो­प­दे­शा­ना­मि­त्या­द्यं­श­स्या­र्थ­माह –
सोमेनेति ।

ननु केनोक्तमिति ।
दध्या­दि­श­ब्दा­ना­म­र्थ­व­त्त्व­म­स्त्विति वदन्तं पूर्ववादिनं प्रति प्रतिबन्द्या परिहारमाहेति भावः ।

प्रवृ­त्ति­नि­वृ­त्ति­व्य­ति­रे­के­णे­त्य­स्या­र्थ­माह –
कार्या­ति­रे­के­णेति ।
कार्यं विनेत्यर्थः । कार्य­म­व­बो­ध­यि­त्वा­पीति यावत् ।

प्रती­क­मा­दा­या­र्थ­माह –
भव्या­र्थ­त्वे­नेति ।

वक्तीति ।
बोधयतीत्यर्थः । कार्यमवबोधयन् दध्यादिशब्दः कार्याय दध्यादिरूपं सिद्धं वस्तु बोधयतीति चेदिति पूर्व­प­क्षा­नु­वादः ।

को हेतुरित्यत्र किंशब्दः प्रश्नार्थकः, तथा च हेतुविषयकं प्रश्नं हेतू­द्घा­ट­न­द्वारा विवृणोति –
किं कूटस्थस्येति ।
कूट­स्थ­स्या­क्रि­या­त्वा­त्स­त्या­दि­शब्दः किं कूटस्थं न वक्तीति पूर्वेणान्वयः, अक्रि­या­त्वा­द­का­र्य­त्वा­दि­त्यर्थः । कार्य­भि­न्न­त्वा­दिति यावत् । अक्रि­या­शे­ष­त्वा­द­का­र्य­शे­ष­त्वा­दि­त्यर्थः । प्रश्नः – सिद्धा­न्ति­प्रश्न इत्यर्थः ।

एवं सिद्धा­न्ति­प्रश्ने स्थिते ह्यक्रि­या­त्वान्न वक्तीति पूर्व­प­क्ष्यु­त्त­र­मु­त्था­प­यति –
नन्विति ।
नन्वि­त्या­दि­ग्रन्थः नही­त्या­दि­प­रि­हा­र­भा­ष्यस्य शङ्काग्रन्थः प्रश्नश्च पूर्व­प­क्ष्यु­त्त­र­प्र­ति­पा­द­क­ग्रन्थ इति भेदः ।

कूट­स्था­द्वै­ष­म्य­माह –
दध्यादेरिति ।

निरस्यतीति ।
पूर्व­प­क्षि­णो­क्त­माद्यं पक्षं सिद्धान्ती निरस्यतीत्यर्थः । पूर्व­प­क्ष्यु­त्तरं खण्डयतीति भावः ।

अत इति ।
कार्यशेषत्वेन कार्य­त्वा­भा­वा­दि­त्यर्थः । यथा दध्यादिशब्दः कार्याद्भिन्नं दध्यादिकं सिद्धं वस्तु वक्ति तथा सिद्धं कार्याद्भिन्नं कूटस्थं सत्यादिशब्दो वक्तीति भावः ।

द्वितीयं शङ्कत इति ।
कूटस्थस्य दध्या­दि­वै­ष­म्य­मु­प­पा­द­यन् द्विती­य­प­क्ष­मु­त्थ­प­य­ती­त्यर्थः । अक्रि­या­शे­ष­त्वान्न वक्तीति पूर्वपक्षिणा उक्तं प्रश्नस्योत्तरं प्रपञ्चयतीति भावः ।

पूर्वपक्षं पूरयति –
कूटस्थस्य त्विति ।
दध्यादेः कार्य­स्व­रू­प­त्वा­भा­वेपि कार्य­शे­ष­त्व­प्रा­धा­न्येन दध्या­दि­श­ब्द­सिद्धं वस्तु वक्तीति युक्तं ब्रह्मणस्तु कार्य­शे­ष­त्वा­भा­वात् तच्छे­ष­त्व­प्रा­धा­न्येन सत्यादिशब्दः कूटस्थं न वक्तीति युक्तं तस्मा­द्वै­ष­म्य­मिति भावः ।

एवकारपदं व्युत्क्रमेण योजयति –
वस्तु­मा­त्र­मे­वेति ।
शक्ति­म­त्त्व­वि­शे­ष­ण­व्या­वृ­त्त्यर्थं मात्रपदं तेन वस्तु परिशिष्यते तथा च वस्त्वे­वो­प­दि­ष्ट­मिति भावः । अथवा मात्रपदं कार्त्स्न्या­र्थकं तथा च वस्तुमात्रं वस्तु­त्वा­व­च्छि­न्न­मि­त्यर्थः ।

एव­का­र­व्या­व­र्त्य­माह –
न कार्यान्वयीति ।
कार्य­शे­ष­त्व­वि­शिष्टः शब्दार्थो न भवतीत्यर्थः । शब्देनार्थ एवोपदिष्टः न कार्य­श­ष­त्व­वि­शि­ष्ट­त्व­वि­शिष्ट इति भावः ।

शेष­त्व­वै­शि­ष्ट्यस्य शक्य­ता­व­च्छे­द­क­कोटौ निवेशो नास्तीत्यत्र हेतुमाह –
अन्वितार्थेति ।
पदानां सिद्धार्थ एव शक्तिः परन्तु शाब्द­बो­धा­र्थ­म­पे­क्षि­त­त­द्वि­ष­य­सं­स­र्ग­ला­भाय वस्तुतः पर­स्प­रा­न्वि­त­त्व­मा­त्र­म­पे­क्षि­त­मिति यदुक्तं तन्न विस्मर्तव्यमिति भावः । क्रिया­नि­र्व­र्त­न­श­क्ति­म­द्व­स्त्वि­ति­श­ब्देन वस्त्वे­वो­प­दि­श्यते तद्वस्तु वस्तुतः कार्यो­त्पा­द­न­श­क्ति­म­द्भ­व­तीति भाष्यार्थः । एतेन क्रिया­नि­र्व­र्त­न­श­क्ति­म­त्प­द­स्वा­र­स्यात् कार्यान्वितार्थ एव शक्ति­र­ङ्गी­कृ­तेति भ्रमो निरस्तः । तस्य पदस्य वस्तु­स्व­रू­प­मा­त्र­क­थ­न­प­र­त्वेन व्याख्या­त­त्वा­दिति भावनीयम् ।

प्रतीकमादाय तच्छब्दार्थमाह –
तस्येति ।

न तु ब्रह्मण इति ।
ब्रह्मणः स्वतः फलरूपत्वेन फला­न्त­रा­पे­क्षा­भा­वा­त्फ­ल­मु­द्दिश्य कार्यशेषत्वं यद्यपि नास्ति तथापि सत्या­दि­श­ब्दा­र्थ­ता­स्त्ये­वेति भावः ।

दध्या­दि­दृ­ष्टान्ते विरोधं पूर्वपक्षी शङ्कते –
नन्विति ।
भूतस्य दध्या­दे­रि­त्यर्थः ।

एता­व­ते­त्य­स्या­र्थ­माह –
फलार्थमिति ।

वस्त्व­नु­प­दि­ष्ट­प­द­स्या­र्थ­माह –
शब्देति ।

शब्दा­र्थ­ता­या­मिति ।
शक्य­ता­व­च्छे­द­क­को­टा­वि­त्यर्थः ।

पक्षं शङ्कत इति ।
द्वितीयपक्षं शङ्कत इत्यर्थः । क्रियाद्वारा सफ­ल­भू­ता­र्थ­प्र­ति­पा­द­क­त्वा­द्द­ध्या­दि­श­ब्दा­ना­मा­न­र्थक्यं नास्त्येव सत्यादिशब्दानां तु क्रिया­द्वा­रा­न­ङ्गी­का­रेण सफ­ल­भू­ता­र्थ­प्र­ति­पा­द­क­त्वा­भा­वा­त्क­थ­मा­न­र्थक्यं नास्तीति शङ्कत इति भावः ।

शङ्कां स्फुटीकर्तुं ’यदि नामो­प­दि­ष्ट’मि­त्या­दि­भाष्यं व्याचष्टे –
यद्यपीति ।

क्रिया द्वारा सफलत्वादिति ।
कार्य­शे­ष­त्व­द्वारा कार्य­रू­प­फ­ल­स­हि­त­त्वा­दि­त्यर्थः ।

उपदिष्टमिति ।
दध्या­दि­श­ब्दे­नेति शेषः ।

किं तव तेन स्यादि­त्यं­श­स्या­र्थ­माह –
तथापीति ।

पुत्रादिपदानां सिद्धेर्थे व्युत्प­त्ति­द­र्श­ना­त्का­र्या­न्वि­ता­पे­क्ष­या­न्वि­तार्थे शक्त्यङ्गीकारे लाघवाच्च चतु­र्भि­र­न­न्य­शे­ष­त्वा­द्यु­क्त­लिङ्गैः श्रुत्या च कार्य­शे­ष­त्व­नि­रा­क­र­ण­द्वारा वेदा­न्ता­ना­मा­त्म­व­स्तु­प­र­त्व­नि­श्च­याच्च कर्मकाण्डस्यापि इष्टसाधनत्वरूपे सिद्धे लिङर्थे तात्पर्यस्य साधितत्वाच्च वेदान्तानां सिद्ध­ब्र­ह्म­प­रत्वं साधयित्वा सम्प्रति निषे­ध­वा­क्य­प­र्या­लो­च­न­यापि सिद्ध­प­र­त्व­मे­वे­त्यु­त्त­र­भा­ष्य­म­व­ता­र­यति –
इदानीमिति ।

निषेधवाक्यवदिति ।
क्रिया­न्व­या­भि­धा­न­वा­दि­नापि निषेधवाक्यस्य सिद्धार्थपरत्वं वक्तव्यं तद्वदित्यर्थः ।

भाष्ये
एवमाद्येति ।
एवमादिवाक्येषु प्रति­पा­द्ये­त्यर्थः । आदिशब्देन ’न हन्यान्न पिबे­दि’दि­त्या­दि­वाक्यं गृह्यते । अत्र निवृत्तिशब्देन हननाभावरूपा नञर्था निवृत्तिरुच्यते सा निवृत्तिर्न च क्रिया - कृति­ज­न्य­का­र्य­रूपा न भवति अत्य­न्ता­भा­व­रू­प­त्वेन सिद्धत्वात् । नापि क्रियासाधनं अभावरूपायाः निवृत्तेः कृतिजन्यकार्यं प्रत्य­हे­तु­त्वात् । अभावप्रत्यक्षे कार्ये विष­य­त्वे­ना­भा­वस्य हेतु­त्वा­त्त­द्वा­र­णाय कार्ये कृति­ज­न्य­त्व­वि­शे­ष­ण­मिति मन्तव्यम् । हन्त्य­र्था­नु­रा­गेण नञ् इति अत्र तृतीया हेत्वर्थे, अनुरागशब्दः सम्बन्धार्थकः, तथा च हननरूपेण हन्त्यर्थेन सह नञ्स­म्ब­न्धा­दि­त्यर्थः । हन्त्य­र्थ­स­म्ब­न्धि­त्वा­न्नञ् इति फलितार्थः । क्रियाशब्दः कार्यवचनः हननरूपा या क्रिया तस्याः अभावरूपा या निवृत्तिस्तया उपलक्षितं यदौदासीन्यं तद्व्य­ति­रे­के­णेति उप­ल­क्षि­त­प­द­म­ध्या­हृत्य भाष्यं योजनीयम् । उपलक्षकत्वं परिपालकत्वं समानकलीनत्वं वेति विज्ञेयम् । उपलक्षितपदस्य कृत्यमनुपदं वक्ष्यते । औदासीन्यं नाम पुरुषस्य स्वरूपं तच्च तूष्णीम्भावः अना­दि­सि­द्ध­ह­न­न­प्रा­ग­भावो वेति फलितार्थः । यावत्पर्यन्तं पुरुषे हन­ना­त्य­न्ता­भा­वोस्ति तावत्पर्यन्तं पुरु­ष­नि­ष्ठ­तू­ष्णी­म्भा­व­रू­प­नि­वृत्तिः हननप्रागभावो वा तथैव तिष्ठ­ती­त्ये­ता­वता नञ­र्थ­ह­न­ना­त्य­न्ता­भा­व­रू­पया निवृत्त्या हन­न­प्रा­ग­भा­व­रू­प­मौ­दा­सी­न्य­मु­प­ल­क्षितं भवतीत्युच्यते, तेन प्रकृ­त्य­र्था­भा­व­बु­द्धि­रौ­दा­सी­न्य­क­र­ण­मि­त्युक्तं, तथा च निवृ­त्ति­मा­त्र­मेव नञर्थः तेनैव प्रकृ­त­का­र्या­र्थ­क­त्व­वा­र­णा­दौ­दा­सीन्यं तु नञर्थं साध्यम् । ननु तर्हि औदा­सी­न्य­प्र­ति­पा­दनं किमर्थमिति चेत् । तस्य प्रतिपादनस्य औदासीन्यं नञर्थफलमिति ज्ञाप­ना­र्थ­त्वात् , तस्मा­न्नि­वृ­त्ति­व्य­ति­रे­केण नञः क्रियार्थकत्वं कल्पयितुं न शक्यमिति भावः । केचित्तु हन­न­क्रि­या­नि­वृ­त्ति­रेव औदासीन्यमिति वदन्ति ।

नञश्चेति । बोधयतीति ।
यत् एष नञ्स्वभाव इत्यन्वयः ।

व्याख्याने –
प्रकृ­त्य­र्थे­नेति ।
हननेनेत्यर्थः ।

सिद्धं दुःखाभावं प्रति हननाभावस्य हेतु­त्वा­स­म्भ­वा­दौ­प­चा­रिकं हेतुत्वमिति मत्वाह –
तत्परिपालक इति ।
परिपालनं रक्षणं तस्य हेतुः परिपालक इत्यर्थः । हननाभावः दुःखाभावस्य यथा स्थितिं करोतीत्येतावता साधनत्वव्यपदेश इति भावः ।

वाक्या­र्थ­मुक्त्वा प्रकृ­त्य­र्था­भा­व­बु­द्धि­रौ­दा­सी­न्य­स्था­प­न­का­र­ण­मिति तात्पर्यार्थमाह –
हननाभावो दुःखेति ।

अर्थादिति ।
व्याप्ति­ब­ला­दि­त्यर्थः ।

हननान्निवर्तत इति ।
निवृत्तिः द्विविधा अभावरूपा प्रय­त्न­वि­शे­ष­रूपा चेति । नञ्वाच्या अभावरूपा निवृत्तिरुक्ता, तथा च हननाभावो दुःखा­भा­व­हे­तु­रिति प्रकृ­त्य­र्था­भा­व­वि­शे­ष्य­क­बुद्ध्या हनने दुःख­सा­ध­न­त्व­धी­द्वारा पुरु­ष­नि­ष्ठ­प्र­य­त्न­वि­शे­ष­रूपा तूष्णी­म्भा­वाख्या निवृ­त्ति­रु­त्प­द्यते तया अना­दि­सि­द्ध­ह­न­न­प्रा­ग­भा­व­रू­प­मौ­दा­सीन्यं तथैव स्थाप्यते, तस्मा­त्प्र­कृ­त्य­र्था­भा­व­बुद्धिः परम्परया औदासीन्ये कारणमिति भावः ।

ननु नञर्थेन हननाभावेनैव नियोगः साध्यते ततश्च नियोगपर्यवसितं वाक्यमिति तत्राह –
नात्र नियोग इति ।
नियो­गोऽ­पू­र्व­मि­त्यर्थः । नियोगो हि क्रिया­त­त्सा­ध­न­वि­ष­यकः प्रकृते तु नास्ति क्रिया साधनं च येन नियोगस्यावकाश इति भावः ।

ननु यागानुष्ठानादिव नञ­र्था­नु­ष्ठा­ना­न्नि­यो­गोस्तु तथा च अनुष्ठितनञर्थ एव क्रियेत्यत आह –
न चेति ।

भावा­र्था­हे­तु­त्वा­दिति ।
कार्या­हे­तु­त्वा­दि­त्यर्थः ।

भावा­र्था­स­त्त्वा­च्चेति ।
अभावस्य कार्या­स­त्स्व­रू­प­त्वा­च्चे­त्यर्थः । अभावो नाम कार्य­स्या­स­त्स्व­रूप एव विरोधिस्वरूप एवेति यावत् । तथा च अभावः कार्यं प्रति हेतुर्न भावतीति भावः ।

न चेत्या­दि­भा­ष्य­स्थ­प­दानि व्याचष्टे –
स्वभावत इति । हन्त्यर्थेनेति - तृतीया सहार्थे ।

सङ्कल्पक्रियेति ।
अप्राप्ता मानसी सङ्क­ल्प­क्रि­ये­त्यर्थः । न चाभावो नाम भावा­न्त­र­व्य­ति­रे­केण कश्चिदस्ति येन तत्पर्यवसितं वाक्यं स्यात्त­स्मा­द्भा­वा­न्त­र­वि­धि­परं निषेधवाक्यमिति शङ्क­क­स्या­भि­प्रायः ।

निषेधतीति ।
न चाभा­व­स्त­द्बु­द्धि­गो­च­र­त्वा­न्नि­व­र्त­यितुं शक्यः । न च भावा­न्त­र­मे­वा­भावः तस्याभावस्य सप्र­ति­यो­गि­त्वा­त्त­स्मा­त्सिद्धः पृथगेवाभावः स एव नञ्मुख्यार्थ इत्यभिप्रेत्य वाक्यस्य कार्यार्थकत्वं निषेधतीत्यर्थः ।

उप­ल­क्षि­त­प­द­म­ध्या­हृत्य भाष्यं योजयति –
औदासीन्यमिति ।

पुरुषस्य स्वरूपमिति ।
पुरुषनिष्ठो धर्म इत्यर्थः । तूष्णीम्भावः हननप्रागभावो वा धर्म इति द्रष्टव्यम् । निवृ­त्त्यु­प­ल­क्षितं तच्च औदासीन्यं निवृ­त्त्यौ­दा­सी­न्य­मि­त्य­न्वयः ।

किं द्वयोर्नञर्थता नेत्याह –
हननाभाव इति ।
हननाभाव एव नञर्थः औदासीन्यं तु नञर्थसाध्यमिति भेदः ।

क्रियेति ।
सङ्कल्पात्मिका क्रियेत्यर्थः ।

विप्लवेति ।
नाशेत्यर्थः । विधि­प्र­ति­षे­ध­वि­भा­ग­व्य­व­हारो न स्यादिति फलितार्थः ।

तदभाववदिति ।
प्रकृते तच्छब्दत्रयेण हननमुच्यते, अधर्म इति च्छेदः ।

ननु अने­का­र्थ­त्व­स्या­न्या­य्यत्वे गोपदस्य स्वर्ग­वा­ग्व­ज्रा­दिषु शक्तिर्न स्यादित्यत आह –
गवादिशब्दानां त्विति ।

गवादिशब्दानां नानार्थे शक्ति­र­ङ्गी­का­र्ये­त्यत्र हेतुमाह –
स्वर्गेति ।
इषुशब्दो बाणवाचकः, गोपदस्य शक्यार्थः पशुः तत्सम्बन्धः स्वर्गदिषु नास्तीति गोपदस्य लक्षणया स्वर्गा­द्य­र्थ­कत्वं न सम्भवतीत्यगत्या नानार्थकत्वमेव निश्चीयत इति भावः ।

तर्हि प्रकृतेऽपि दीयतां सैव निश्चयात्मिका दृष्टि­रि­त्या­शङ्कां वैषम्येण परिहरति –
अन्येति ।
नञः शक्यार्थः अभावः तत्स­म्ब­न्धो­न्य­वि­रु­द्ध­यो­र­स्तीति नञो लक्ष­ण­या­न्य­वि­रु­द्धा­र्थ­कत्वं कल्पयितुमुचितं तस्मात्तयोः न शक्तिरिति भावः ।

लक्ष्य­त्व­मु­दा­हृत्य दर्शयति –
ब्राह्मणादिति ।

ननु लिङा­दि­वि­शि­ष्ट­धा­तु­रा­ख्या­त­प­द­स्यार्थः, तथा च आख्या­त­यो­गा­दि­त्यत्र कथं तस्य आख्यातपदस्य धातुमात्रे प्रयोग इति चेन्न । आख्यातजानि रूपा­णी­त्या­दि­वृ­द्ध­व्य­व­हारे आख्यातैकदेशे धातु­मा­त्रे­प्या­ख्या­त­श­ब्द­प्र­यो­गस्य दर्श­ना­दि­त्य­भि­प्रे­त्याह –
प्रकृत इति ।
न हन्तव्य इत्या­दि­व­दि­त्यर्थः । चस्त्वर्थकः । अथवा लक्षणाया अन्या­य्य­त्वा­दिति हेत्व­न्त­र­स­मु­च्च­या­र्थ­श्च­शब्दः । आख्या­त­यो­गा­दा­ख्या­तै­क­दे­श­धा­तु­यो­गा­दि­त्यर्थः । यद्वेति – द्विती­य­व्या­ख्याने नञ् न धातुयोगः किन्तु आख्या­तै­क­दे­श­प्र­त्य­य­योग इति भावः ।

प्रसज्येति ।
प्रसक्तेत्यर्थः । हन­न­मि­ष्ट­सा­ध­न­मे­वेति भ्रान्त्या प्रस­क्त­ह­न­न­नि­षे­धा­र्थकः नञ्शब्द इत्यर्थः ।

एव­का­र­व्या­व­र्त्य­माह –
न पर्युदासलक्षक इति ।
न विरु­द्ध­स­ङ्क­ल्प­क्रि­या­ल­क्षक इत्यर्थः । नञ्शब्दो लक्षणया विरु­द्ध­स­ङ्क­ल्प­क्रि­या­र्थको न भवतीति भावः ।

प्रकृत्यर्थस्य हननस्यैव नञ्श­ब्दा­न्व­य­म­ङ्गी­कृत्य तदभावोर्थान्तरं वा न विधे­य­मि­त्यु­क्त­मि­दानीं स्वयमेवास्वरसं सूच­य­न्प्र­त्य­यार्थ एव नञ् सम्बध्यत इति व्याख्या­ना­न्त­र­माह –
यद्वेति ।

ननु भवतु प्रकृ­ते­रु­प­स­र्ज­नत्वं तथापि प्रकृत्या सह नञ्सम्बन्धः स्यादित्यत आह –
प्रधानेति ।
प्रत्ययार्थः प्रधानं तेनैव सम्बन्धो वक्तव्य इति भावः ।

तदेतदाह –
किं त्विति ।

इष्टस्य विशेषणमाह –
इष्टं चेति ।

स्वापेक्षयेति ।
इष्टा­पे­क्ष­ये­त्यर्थः । बलवत् यदनिष्टं तदननुबन्धि तद­स­म्ब­न्धी­त्यर्थः ।

बल­व­द­नि­ष्टा­सा­ध­नत्वे सतीष्टसाधनत्वं तव्यप्रत्ययार्थ इति स्फुटीकर्तुं इष्टविशेषणेन पर्य­व­सि­त­मि­ष्ट­सा­ध­न­त्वस्य विशेषणं कथयन्नन्वयमाह –
अत्रेति ।

विशिष्टेति ।
विशिष्टं च तत् इष्टसाधनत्वं चेति कर्मधारयः, तथा च हननं बलवदनिष्टासाधनं सत् इष्टसाधनमिति हनने बल­व­द­नि­ष्टा­सा­ध­न­त्व­वि­शि­ष्टे­ष्ट­सा­ध­नत्वं भ्रान्ति­प्रा­प्त­म­नू­द्ये­त्यर्थः ।

बलवदनिष्टसाधनं हननमिति बुद्धिर्भवतीति यत्तत्कथमित्यत आह –
हनने तावदिति ।

अत्र हनने विशि­ष्टे­ष्ट­सा­ध­न­त्व­म­नूद्य नेत्यभावबोधनेन प्राप्तो विशिष्टाभावो विशेषणाभावायत्त इत्याह –
विशिष्टाभावेति ।
विशे­ष­ण­वि­शि­ष्ट­स्या­भावः तद्बु­द्धे­र्वि­षे­णा­भावे पर्य­व­सा­ना­दि­त्यर्थः । हनने बल­व­द­नि­ष्ट­सा­ध­न­त्वस्य सत्त्वात् तात्का­लि­के­ष्ट­सा­ध­न­त्व­रू­प­वि­शे­ष्यस्य सत्त्वाच्च बल­व­द­नि­ष्टा­सा­ध­न­त्व­रू­पा­वि­शे­ष­णा­भा­वा­देव बल­व­द­नि­ष्टा­सा­ध­न­त्व­वि­शि­ष्टे­ष्ट­सा­ध­न­त्वा­भावो वक्तव्य इति विशिष्टाभावो नञर्थ इत्यनेन विशेषणाभाव एव पर्य­व­सा­ना­न्न­ञर्थ इत्युक्तमिति भावः ।

किं तद्विशेषणमिति जिज्ञासायामाह –
विशेषणं चेति ।
बल­व­द­नि­ष्ट­सा­ध­नत्वं नञर्थ इति बल­व­द­नि­ष्ट­सा­ध­न­त्व­श­री­र­प्र­वि­ष्टा­भा­वांशो नञर्थ इत्युक्तमिति भावः । बल­व­द­नि­ष्टा­सा­ध­नत्वं नाम बल­व­द­नि­ष्ट­सा­ध­न­त्वा­भावः, तस्य तव्य­प्र­त्य­या­र्थै­क­दे­शस्य विशेषणस्य योऽभावः नञर्थरूपः सन् बल­व­द­नि­ष्ट­सा­ध­न­त्व­रूप एव अभावाभावस्य भावरूपत्वात् , तथा च चरमाभावांशमादाय बल­व­द­नि­ष्ट­सा­ध­नत्वं नञर्थ इति भावः ।

परिपालिकेति ।
रक्ष­ण­हे­तु­रि­त्यर्थः ।

प्रकृ­त्य­र्था­भा­व­बु­द्धि­व­दिति ।
यथा हन­ना­भा­व­बु­द्धि­रौ­दा­सीन्ये कारणं तथा विशे­ष­ण­वि­शि­ष्ट­वि­शेष्यं तव्य­प्र­त्य­या­र्थ­स्त­द­भावो नञर्थः तद्बु­द्धि­रौ­दा­सीन्ये कारणमित्यर्थः । प्रथमव्याख्याने हननाभावो दुःखा­भा­व­हे­तु­रिति प्रकृ­त्य­र्था­भा­व­वि­शे­ष्य­क­दुः­खा­भा­व­हे­तु­त्व­प्र­का­र­क­बुद्ध्या हननं दुःखसाधनमिति अर्थात् ज्ञानमुत्पद्यते तेन ज्ञानेन हननस्य इष्ट­सा­ध­न­त्व­भ्रा­न्ति­नि­वृ­त्ति­द्वारा हननात्पुरुषो निवर्तते इति प्रयत्नरूपा निवृ­त्ति­रु­त्प­द्यते तया सिद्धमौदासीन्यं हननप्रागभावरूपं तथैव तिष्ठतीति प्रकृ­त्य­र्था­भा­व­बु­द्धि­रौ­दा­सीन्ये कारणमिति व्यपदिश्यते । द्विती­य­व्या­ख्याने तु हननं बल­व­द­नि­ष्ट­सा­ध­न­मिति हन­न­वि­शे­ष्य­क­प्र­त्य­या­र्थै­क­दे­शस्य भाव­प्र­का­र­क­बुद्ध्या हनने विशि­ष्टे­ष्ट­सा­ध­न­त्व­भ्रा­न्ति­ना­श­द्वारा हननात्पुरुषो निवर्तते इति प्रयत्नरूपा निवृ­त्ति­रु­त्प­द्यते तया हन­न­प्रा­ग­भा­व­रू­प­मौ­दा­सीन्यं सिद्धं तथैव तिष्ठति तस्मा­त्प्र­त्य­या­र्था­भा­व­ब­द्धि­रौ­दा­सीन्ये कारणमिति व्यपदिश्यत इति निष्कृष्टार्थः । प्रथ­म­व्या­ख्या­नेऽ­नि­ष्ट­सा­ध­न­त्व­मा­र्थि­क­तया बोध्यते द्वितीये तु प्रत्य­य­न­ञ्श­ब्दाभ्यां बोध्यते इति भेदः । प्रथमे इष्ट­सा­ध­न­त्व­मात्रं तव्य­प्र­त्य­यार्थः तेनैव उक्तरीत्या औदा­सी­न्य­नि­र्वा­हात् , द्वितीये बल­व­द­नि­ष्टा­सा­ध­न­त्व­वि­शि­ष्ट­सा­ध­नत्वं तव्यप्रत्ययार्थ इति भेदः ।

औदा­सी­न्या­त्प्र­च्यु­ति­रू­पेति ।
औदा­सी­न्य­ना­श­रू­पे­त्यर्थः । यदा पुरुषस्य हनने प्रवृत्तिस्तदा हननप्रागभावनाशो भवतीति प्रागभावनाशरूपा प्रवृत्तिरिति भावः ।

ननु नञ­र्था­भा­व­बु­द्धि­ना­शोक्त्या शङ्कायाः कः परिहार इत्यत आह –
इत्यक्षरार्थ इति ।

तात्पर्यार्थेन शङ्कां परिहरति –
रागनाश इति ।

अक्षरार्थेन शङ्कां परिहर्तुं व्याख्या­ना­न्त­र­माह –
यद्वेति ।

सा क्रियेति ।
हनने प्रवृत्तिरूपा क्रियेत्यर्थः । अनि­ष्ट­सा­ध­न­त्व­ज्ञा­नेन रागनाशात् स्वयमेव क्रिया शाम्यतीति भावः ।

परपक्षे त्विति ।
निषेधवाक्यस्य कार्यपरत्वपक्ष इत्यर्थः ।

’तस्मा­त्प्र­स­क्त­क्रि­या­नि­वृ­त्त्यौ­दा­सी­न्य­मे­वे’त्या­द्यु­प­सं­हा­र­भा­ष्यार्थं सङ्गृह्णाति –
तस्मात्तदभाव एव नञर्थ इति ।
तस्मा­न्न­ञ­र्थ­का­र्या­र्थ­क­त्वा­भा­वा­दि­त्यर्थः । तदभावः तयोरभाव इति विग्रहः, तयोः प्रकृ­त्य­र्थ­प्र­त्य­या­र्थ­यो­र­भाव एव इत्यनेन प्रस­क्त­क्रि­ये­त्या­दि­भा­ष्यार्थ इति, नञर्थ इत्यनेन प्रतिषेधार्थ इति भाष्यार्थश्च सङ्गृहीत इति भावः । एवकारो तद­न्य­त­द्वि­रु­द्ध­व्य­व­च्छे­दा­र्थकः ।

ननु हननाभावं इष्टसाधनमिति ज्ञानस्य जायमानत्वेन विधेयत्वात् कथं निषेधवाक्यस्य कार्यार्थकत्वं नास्तीत्यत आह –
भावा­र्था­भा­वे­नेति ।
विधे­या­र्थ­भा­वे­ने­त्यर्थः । मानसं तु ज्ञानं प्रमा­ण­प्र­मे­य­जन्यं न कृतिजन्यकार्यं तस्मान्न कार्यपरत्वं वाक्यस्येति भावः ।

प्रस­क्त­क्रि­या­नि­वृ­त्त्यौ­दा­सीन्यं यस्मा­द्वि­शि­ष्टा­भा­वा­यत्तं तस्मा­द्वि­शि­ष्टा­भा­व­मेव ’ब्राह्मणो न हन्तव्य’ इत्यादिषु प्रतिषेधार्थं मन्यामह इत्य­पे­क्षि­त­प­दा­न्य­ध्या­हृत्य उपसंहारभाष्यं व्याख्ये­य­मि­त्याह –
यद्वेति ।
यद्वा नञ्प्र­कृ­त्ये­त्यु­क्त­पक्ष इत्यर्थः ।

यस्मादिति ।
नञ्का­र्या­र्थ­क­त्वा­भा­वा­दि­त्यर्थः ।

औदासीन्यं विशि­ष्टा­भा­व­सा­ध्य­मेव न कार्यसाध्यं कार्य­स्या­भा­वा­दि­त्य­भि­प्रे­त्योक्तं -
विश­ष्टा­भा­वा­य­त्त­मिति ।
यद्वेति – द्विती­य­व्या­ख्याने बल­व­द­नि­ष्टा­सा­ध­न­त्व­वि­शि­ष्टे­ष्ट­सा­ध­नत्वं तव्यप्रत्ययार्थ इत्युक्तं तथा च विशिष्टस्य प्रत्ययार्थस्य यः अभावः तेनायत्तं सम्पा­दि­त­मि­त्यर्थः । निवृ­त्त्यु­प­ल­क्षि­त­मौ­दा­सीन्यं यस्मा­न्न­ञ्का­र्या­र्थ­क­त्वा­भा­वा­द्वि­शि­ष्टा­भा­वा­य­त्त­मेव न कार्यायत्तं तस्मा­न्न­ञ्का­र्या­र्थ­क­त्वा­भा­वेन औदासीन्यस्य विशि­ष्टा­भा­वा­य­त्त­त्वा­द्वि­शि­ष्टा­भाव एव नञर्थ इति पदजातमध्याहृत्य उपसंहारवाक्यं यद्वेति पक्षे व्याख्येयमिति फलितार्थः । औदासीन्यं हि नञर्थायत्तं तस्य विशि­ष्टा­भा­वा­यत्तं चेद्विशिष्टाभाव एव नञर्थ इति पर्यवसितमिति भावः । एतेन प्रथ­म­प­क्षो­क्त­प्र­कृ­त्य­र्था­भाव एवोपसंहृतः न प्रत्य­या­र्था­भावः द्विती­य­प­क्षोक्तः वाक्यस्य तद्बो­ध­क­त्वा­भा­वा­दिति निरस्तम् । अध्याहारेण वाक्यस्य प्रत्य­या­र्था­भा­व­बो­ध­क­त्वे­नापि व्याख्या­त­त्वा­दिति सुधी­भि­र्वि­भा­व­नी­यम् ।

ननु प्रथमव्याख्याने हननाभावः द्वितीये विशिष्टाभावो नञ­र्थ­श्चे­त्त­त्सा­ध्य­मौ­दा­सीन्यं भवत्येव किमु­प­ल­क्षि­त­त्व­वि­शे­ष­णे­ने­त्यत आह –
स्वतः­सि­द्ध­स्येति ।
अत्राभावारूपा निवृत्तिः नञर्थः प्रकृ­त्य­र्था­भा­व­बुद्धौ प्रकृ­त्य­र्था­भा­वस्य नञर्थस्य हेतुत्वं विद्यते प्रमायाः वस्तु­त­न्त्र­त्वा­त्त­द्बु­द्धि­द्वारा प्रय­त्न­रू­प­नि­वृत्तिं प्रति हेतुत्वं नञर्थस्य निवृत्तिद्वारा हेतु­त्व­मौ­दा­सीन्यं प्रति तस्मा­न्न­ञ­र्थ­सा­ध्य­त्व­मौ­दा­सी­न्य­स्येति भावः । एवं प्रत्य­या­र्था­भा­व­बुद्धौ विज्ञेयम् । नन्व­ना­दि­सि­द्धस्य प्राग­भा­व­रू­प­स्यौ­दा­सीन्यं कथं तत्साध्यत्वमिति चेत् । साध्योपरागेणेति ब्रूमः । तथाहि यदा हि पुरुषे प्रय­त्न­वि­शे­ष­रूपा निवृत्तिस्तदा हननप्रागभाव इत्य­न्व­य­व्या­प्ति­ब­ला­त्सा­मा­ना­धि­क­र­ण्येन सम्बन्धेन सिद्धस्य निवृ­त्ति­रू­प­सा­ध्य­स­म्ब­न्धि­त्व­मि­त्ये­ता­वता साध्य­त्व­मौ­प­चा­रि­क­मि­त्य­न­व­द्यम् ।

ननु ’नेक्षे­तो­द्य­न्त­मा­दि­त्य­मि’त्यादौ ईक्षणविरोधिनी मान­सी­स­ङ्क­ल्प­क्रिया नेक्षेतेति विधीयते यथा तथा ’न हन्यादिति’ हननविरोधिनी मानसी सङ्कल्पक्रिया एव विधीयतामित्यत आह –
तस्य बटोरिति ।
प्राजा­प­त्य­सं­ज्ञकं व्रतमित्यर्थः । तस्य बटोर्व्रतमिति गुरु­शु­श्रू­ष­या­द्य­नु­ष्ठे­य­क्रि­या­रू­प­का­र्यो­प­क्र­मात्तु विरो­धि­स­ङ्क­ल्प­क्रि­यायां नञ्शब्दस्य लक्षणा अङ्गीकृता तद्वदत्र किं नापवादकं किञ्चिदस्ति येन विरोधिक्रियायां लक्ष­णा­म­ङ्गी­कृत्य सा विधेयतेति भावः ।

नामधात्वर्थेति ।
’अगौरसुरा’ इत्यादौ नामा­र्थ­यु­क्तत्वं ’नेक्षे­ते’त्यत्र धार्थ­त्व­यु­क्त­त्व­मिति विवेकः ।

’प्रजा­प­ति­व्र­ता­दि­भ्योऽ­न्यत्र ब्राह्मणो न हन्तव्य’ इत्यादिषु प्रतिषेधार्थं मन्यामह इति भाष्य­यो­ज­ना­म­भि­प्रेत्य व्याचष्टे –
एतेभ्य इति ।
अन्यत्र अन्येषु ब्राह्मणो न हन्तव्य इत्या­दि­ष्वि­त्यर्थः । ननु ’ न हन्यादि’त्यादौ धात्वर्थयोगे सति नञः कथमभावार्थकत्वं ’नाम­धा­त्व­र्थ­योगे तु नैव नञ्प्रतिषेधक’ इति वचनविरोधात् । अत्रोच्यते । वच­न­स्या­य­म­भि­प्रायः – यत्रापवादकमस्ति तत्र नाम­ध­त्व­र्थ­यो­गेपि स नैवाभावर्थको नञ् भवतीति, अत एव ’नेक्षे­तो­द्य­न्त­मा­दि­त्य­मि’त्यत्र कार्यो­प­क्र­म­स्या­प­वा­द­कस्य सत्त्वान्नञो नाभावार्थकत्वं किन्तु ईक्ष­ण­वि­रो­धि­स­ङ्क­ल्प­क्रि­या­कत्वं ’न हन्यादि’त्यादौ तु कस्य­चि­द­प्य­प­वा­द­क­स्या­भा­वा­न्नञः अभावार्थकत्वमेव युक्तमिति श्रीवि­व­र­णा­चा­र्यै­र्ब­हुधा प्रपञ्चितम् , तस्मा­द्व­च­न­वि­रो­धा­भावा’न्न हन्यादि’त्यादौ धात्व­र्था­द्य­न्वि­तोपि नञ् प्रतिषेधार्थक एवेति भावः ।

तस्मा­दि­त्य­स्या­र्थ­माह –
वेदान्तानां स्वार्थे फलवत्त्वादिति ।

पुरु­षा­र्था­नु­प­यो­गा­दि­त्य­स्या­र्थ­माह –
व्यर्थेति ।

उपा­ख्या­न­प­द­स्या­र्थ­माह –
कथेति ।
व्यर्थ­क­था­प्र­ति­पा­द­का­र्थ­वा­द­वि­ष­य­मा­न­र्थ­क्य­सू­त्र­मि­त्यर्थः ।

भाष्ये सिंहा­व­लो­क­न­न्या­येन वृत्ति­का­र­म­तो­क्त­म­नु­व­दति –
यदप्युक्तमिति ।
राजासौ गच्छतीति वाक्य­मा­दि­श­ब्द­ग्रा­ह्यम् । यथा लोकवार्तां निमित्तीकृत्य प्रवृत्तस्य रजासौ गच्छतीति सिद्ध­रा­ज­ग­म­न­प्र­ति­पा­द­क­वा­क्यस्य प्रयोजनाभावः तद्व­द्वे­दा­न्त­शा­स्त्र­स्येति भावः ।
दृष्टत्वादिति ।
तथा च दृष्टा­न्त­वै­ष­म्य­मिति भावः ।

न हि शरीराद्यात्मेति ।
भयादिमत्त्वं न हि भवतीत्यन्वयः ।

मिथ्या­ज्ञा­न­नि­मि­त्त­मिति ।
देहा­भि­मा­न­नि­मि­त्त­मि­त्यर्थः । न हि धनिन इति । दुःखं न हि भवतीत्यन्वयः । सुखं न हि भवतीत्यन्वयः ।

व्याख्याने –
साक्षा­त्का­रा­दिति ।
देहे विद्यमानेपि साक्षात्कारेण देहा­भि­मा­ना­भा­वात् जीवतोपि मुक्ति­र्दु­र­प­न्ह­वेति सदृ­ष्टा­न्त­मा­हे­त्यर्थः ।

जीवन्मुक्ताविति ।
देहा­भि­मा­न­रा­हि­त्य­म­भि­व्य­क्ता­स­ङ्गा­त्म­स्व­रूपं जीवन्मुक्तिः तस्यामित्यर्थः ।

जीव­तोऽ­श­री­र­त्व­मिति ।
अशरीरत्वं श्रुत्या प्रतिपाद्यते तदेव जीव­न्मु­क्ति­श्चेत् जीवतः पुरुषस्य शरी­र­स­म्ब­न्ध­रा­हि­त्य­रू­पा­श­री­र­त्वस्य विरुद्धत्वान्न जीवन्मुक्तिरिति शङ्कार्थः ।

न च शरी­र­स­म्ब­न्ध­रा­हि­त्य­म­श­री­रत्वं किन्तु तत्त्वज्ञानेन आत्मनो देह­स­म्ब­न्ध­भ्रा­न्ति­ना­शात् शरी­रा­द्य­भि­मा­न­रा­हित्यं भवति तदेवाशरीरत्वं तदेव च जीव­न्मु­क्ति­स्तथा च न जीवतो जीव­न्मु­क्ति­वि­रोध इति प्रतिपादकं भाष्यमवतारयति –
अस­ङ्गा­त्म­स्व­रूपं त्विति ।
तुशब्दः पक्षा­न्त­र­द्यो­तकः । नित्य­स्या­स­ङ्गा­त्म­स्व­रू­पस्य तत्त्व­ज्ञा­ने­ना­भि­व्यक्तिः अभि­व्य­ङ्ग्या­स­ङ्गा­त्म­स्व­रूपं वा जीव­न्मु­क्ति­रि­त्यर्थः ।

अवोचामेति ।
अनु­ष्ठे­य­क­र्म­फ­ल­वि­ल­क्षणं मोक्षाख्यमशरीरं नित्यमिति सिद्ध­मि­त्य­त्रा­वो­चा­मेति भाष्यार्थः ।

तन्नाशार्थमिति ।
अनादिसिद्धत्वेन सत्यो यः सम्ब­न्ध­स्त­न्ना­शा­र्थ­मु­पा­स­ना­रू­प­का­र्या­पे­क्षेति वेदान्तानां कार्यपरत्वमिति भावः । ’आत्मनः शरीरे’त्यादि ’प्रत्यक्ष’ इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः । प्रत्यक्षः प्रत्यक्षविषय इत्यर्थः । प्रत्य­क्षे­णा­त्मनः पूर्व­क­र्म­कृ­त­त्व­वि­शि­ष्ट­दे­ह­स­म्बम्धो न हि दृश्यते इति भावः । ’नाप्यस्ति कश्चि’दित्यादि ’येन तस्य गौण­मु­ख्य­ते’त्यन्तः प्राक्तनो ग्रन्थ­स्त्व­ति­रो­हि­तार्थः । येन पुरुषेणेत्यर्थः । तस्य वस्तु­भे­द­ज्ञा­न­वतः पुरु­ष­स्ये­त्यर्थः ।

भाष्ये – ये तु देहा­दा­वा­त्मा­भि­मानो न मिथ्या किन्तु आत्मी­य­त्व­गु­ण­यो­गा­द्गौणः माणवकादौ सिंहाद्यभिमान इतीवेति वदन्ति तन्मतं दूषयितुं उपन्यस्यति –
तत्राहुरिति ।

आत्मीयत्वगुणं ज्ञापयति –
आत्मीयेति ।
आत्मीयत्वं आत्म­स­म्ब­न्धित्वं तच्चात्मसम्बन्ध एव स च द्विनि­ष्ठ­त्वा­द्गुण इति भावः । अत्र देहोऽहमिति भासमानत्वं वा गुण इति विज्ञेयम् ।

सङ्ग्रहवाक्यं विवृणोति –
यस्य हि प्रसिद्ध इति ।
यस्य चैत्रस्य मैत्र­सिं­ह­यो­र्भेदः प्रसिद्ध इत्यर्थः ।

ततश्चान्य इति ।
मुख्यात् सिंहादन्यो मैत्र इत्यर्थः ।

तस्येति ।
चैत्र­स्ये­त्यर्थः ।

तस्मिन् पुरुषे इति ।
सिंहा­द­न्य­स्मि­न्मै­त्र­ना­मके पुरुष इत्यर्थः । सिंहादन्यो मैत्रो मैत्रादन्यः सिंह इति पर­स्प­र­भे­द­ज्ञा­न­व­त­श्चै­त्रस्य सिंहे सिंह­श­ब्द­प्र­त्ययौ मुख्यौ मैत्रे तु तौ शौर्या­दि­गु­ण­यो­गा­द्गौणौ भवतः तदा चैत्रस्य गौण­मु­ख्य­ज्ञा­ना­श्र­यत्वं गौणा­दि­ज्ञा­न­हे­तो­र्भे­द­ज्ञा­नस्य सत्त्वादिति भावः ।

न गौणाविति ।
भेद­ज्ञा­न­रू­प­हे­तो­र­भा­वा­दिति भावः ।

संशयहेतुमाह –
मन्देति ।

द्विको­टि­क­मु­दा­हृत्य एक­को­टि­क­स्थ­ल­मु­दा­ह­रति –
यथा वेति ।

कथं गौणाविति ।
आत्मा­ना­त्म­नो­र्भे­द­ज्ञा­ना­भा­वेन हेतोरभावादिति भावः । आत्मा­ना­त्म­वि­वे­कि­ना­मपि श्रव­ण­म­न­न­कु­श­ल­ता­मा­त्र­प­ण्डि­ता­ना­मि­त्यर्थः । अनु­त्प­न्न­त­त्त्व­सा­क्षा­त्का­रा­णा­मिति यावत् ।

अजावीति ।
अविरजाविशेषः स्त्रीरूपः ।

अविविक्ताविति ।
आत्मा­ना­त्म­वि­वे­कि­नो­त्प­द्य­मा­ना­वि­त्यर्थः ।

निश्चिताविति ।
विष­य­नि­श्चि­त­त्वा­पा­द­का­वि­त्यर्थः ।

व्याख्याने – ननु भ्रान्ते­रु­चि­त­का­र­ण­ज­न्य­त्वा­त्क­थ­म­क­स्मा­दिति कारणं विनैव जातत्वमुच्यत इत्याशङ्क्य दृष्टरूपायाः रज­तै­क­प­क्ष­पा­तिन्याः भ्रमसामग्र्याः अस­म्भ­वा­द­दृ­ष्टा­द्य­पे­क्ष­त्व­म­क­स्मा­च्छ­ब्देन विवक्षितमाह –
अत­र्कि­ता­दृ­ष्टा­दि­नेति ।
भ्रम­रू­प­का­र्यो­त्पत्तेः पूर्वं प्रमा­णे­ना­नि­श्चि­त­त्व­म­दृ­ष्टस्य अतर्कितत्वम् । एतेन कार्यै­को­न्ने­य­म­दृ­ष्ट­मि­त्युक्तं भवति । आदिशब्देन ’सदृ­शा­दृ­ष्ट­चि­न्ताद्याः स्मृतिबीजस्य बोधका’ इति श्लोको­क्त­चि­न्ता­दि­क­मु­च्यते । तथा च दृष्टकारणस्य रज­त­को­ट्ये­क­प­क्ष­पा­तिनः निरू­प­यि­तु­म­श­क्य­त्वा­द­दृ­ष्टा­दि­क­मेव तदसाधारणं कल्प्यते, अदृष्टस्य कार्यै­को­न्ने­य­तया यथार्थकार्यमेव तत्कल्प्यते, एतदभिप्रायेणैव अदृष्टस्य अत­र्कि­त­त्व­वि­शे­षणं दत्तमिति भावः । दृष्टरूपायाः रज­तै­क­प­क्ष­पा­ति­भ्र­म­सा­मग्र्याः निरू­प­यि­तु­म­श­क्यत्वं बहुधा ब्रह्म­वि­द्या­भ­रणे श्रीगुरुचरणैः प्रपञ्चितमिह विस्त­र­भ­या­दु­प­र­म्यते । प्राणितीति प्राण – इत्यतः प्राक्तनो ग्रन्थः स्फुटार्थः ।

प्राणशब्दास्य फलितार्थमाह –
जीवन्नपीति ।

’पश्वा­दि­भि­श्चा­वि­शे­षा­दिति’ भाष्य­व्या­ख्या­ना­व­सरे बाधि­ता­ध्या­सा­नु­वृत्त्या ह्यप­रो­क्ष­ज्ञा­निनां व्यवहार इति समन्वयसूत्रे वक्ष्यत इत्युक्तम् तदत्र भाष्या­र्थ­क­थ­न­द्वारा द्योतयित्वा श्रुत्य­र्थ­क­थ­न­द्वारा स्फुटयति –
वस्तुत इति ।

सम­न्व­य­सू­त्रा­र्थो­प­सं­हा­र­व्या­जेन तत्सू­त्र­प्र­थ­म­व­र्ण­कार्थं स्फोरयति –
ब्रह्मा­त्म­ज्ञा­ना­दिति ।

अवा­न्त­र­वा­क्य­भे­दे­नेति ।
’मन्तव्यो निदिध्यासितव्य’ इत्य­वा­न्त­र­वा­क्य­भे­दे­ने­त्यर्थः । ’आत्मा वा अरे द्रष्टव्यः’ इत्यादिकमत्र महावाक्यमिति विज्ञेयम् ।

श्रवणमिति ।
ब्रह्मा­त्म­वि­ष­य­क­शा­ब्द­ज्ञाने कारणत्वेन वेदा­न्त­रू­प­श­ब्दस्य प्राधान्यं तद्गोचरत्वेन श्रवणज्ञानकरणं सत्प्र­धा­न­मि­त्यर्थः ।

नियमेति ।
नियमविधिपक्षे वेदा­न्त­वा­क्यै­रेव श्रवणं कर्त­व्य­मि­त्या­का­र­क­नि­य­म­स्या­दृ­ष्ट­द्वारा ज्ञाने उपयोगः, तथा चोद्दे­श्य­त्वा­द­ज्ञानं सर्वप्रधानं भवति श्रवणापेक्षया वेदान्तशास्त्रं तु प्रधानं मननापेक्षया श्रवणं तु प्रधानं भवतीति भावः । इयांस्तु विशेषः । श्रवणं प्रति मननादिकं अङ्गं ज्ञानं प्रति नियमाद्यदृष्टं कारणमिति ।

सर्वापेक्षेति ।
’सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­व­दिति ’ भगवतः श्रीवेदव्यासस्य सूत्रम् । तस्यार्थः । विद्यायाः स्वोत्पत्तौ सर्वेषां आश्रमकर्मणां अपेक्षास्ति । कुतः ? यज्ञादिश्रुतेः सर्वकर्मणां ज्ञान­सा­ध­न­त्व­बो­धि­कायाः ’तमेतं वेदानुवचनेन’ इत्या­दि­श्र­ते­रि­त्यर्थः ।

ननु विद्यायाः स्वोत्पत्तौ परम्परया कर्मापेक्षावत् मोक्षेपि तद­पे­क्षा­स्त्वि­त्यत आह –
अश्ववदिति ।
यथा अश्वो योग्य­ता­ब­ला­द्र­थ­च­र्यायां नियुज्यते न लाङ्गलकर्मणि तदभावात् तद्वत्कर्मणां मोक्षे योग्यताया अभा­वा­न्ना­पे­क्ष्यत इत्यर्थः । तथा च ज्ञानोत्पत्तौ नियमादृष्टं कारणं न मोक्षो­त्प­त्ता­व­यो­ग्य­त्वा­दि­त्यत्र सर्वा­पे­क्षा­न्याय उपपादित इति मन्तव्यम् ।

अन्य­त्रे­त्य­स्या­र्थ­माह –
विधेयज्ञान इति ।

तच्छब्दार्थमाह –
विनि­यु­क्त­त्व­मिति ।
ज्ञानेनैव मोक्ष­रू­प­फ­ल­ला­भात् येन फलार्थं ज्ञातस्य ब्रह्मणः विधेयज्ञाने विनियुक्तत्वं स्यात्तस्मान्न विधिशेषत्वमिति भावः ।

पुन­रा­र­ब्ध­वृ­त्ति­का­र­म­त­नि­रा­सो­प­सं­हा­र­द्वारा द्विती­य­व­र्ण­का­र्थ­मु­प­सं­ह­र­ती­त्य­भि­प्रेत्य प्रतीकमादाय तच्छ­ब्दा­तः­श­ब्द­यो­र­र्थ­माह –
तस्मादिति ।

सूत्रमिति ।
इदानीं वर्ण­क­द्व­ये­नो­क्त­मर्थं अनुवदन् समन्वयसूत्रं योजयतीत्यर्थः । भाष्ये स्वत­न्त्र­मि­त्य­नेन द्विती­य­व­र्ण­कार्थ उक्तः शास्त्र­प्र­मा­ण­क­मि­त्य­नेन प्रथमवर्णकार्थ उक्त इति विवेकः ।

आरभ्यमाणं चेति ।
यद्यर्थकः चशब्दः, पृथक् सूत्रं यद्यारब्धव्यं तर्ह्य’थातः परि­शि­ष्ट­ध­र्म­जि­ज्ञा­से’त्येव आरब्धव्यं स्यादिति भावः ।

व्याख्याने –
मान­स­ध­र्म­वि­चा­रा­र्थ­मिति ।
मान­सो­पा­स­ना­रू­पा­न्त­र­ध­र्म­वि­चा­रा­र्थ­मि­त्यर्थः ।

उपा­स­ना­रू­पा­न्त­र­ध­र्म­जि­ज्ञा­स्य­त्व­पक्षे पूर्व­वा­द्य­भि­प्रा­येण रचि­त­सू­त्र­स्या­र्थ­माह –
अथ बाह्येति ।

तृतीयाध्याय इति ।
पूर्वतन्त्रस्य तृतीयाध्याय इत्यर्थः ।

अथ­श­ब्दा­र्थ­मुक्त्वा अतःशब्दार्थमाह –
शेषिणेति ।
एवमारभ्येतेति मान­सो­पा­स­ना­रू­प­ध­र्म­जि­ज्ञासा प्रस्तुता चेदथातः परि­शि­ष्ट­ध­र्म­जि­ज्ञा­से­त्ये­व­मा­र­भ्येत न त्वारब्धम् , तथाचाथातो ब्रह्म­जि­ज्ञा­से­त्ये­वा­र­ब्ध­त्वा­न्ना­न्त­रो­पा­सना प्रस्तुतेति गम्यते तस्मा­त्त­द­र्थ­मा­रम्भ इत्ययुक्तमिति भावः । ननु तर्हि पुर्व­का­ण्डे­प्य­वि­चा­रि­त­त्वात् कथमान्तरोपासना ज्ञातव्येति चेत् । किं निष्ठोऽयमपराधः ब्रह्म­जि­ज्ञा­से­त्या­र­ब्ध­त्वात् ’आन्त­रो­पा­स­ना­र्थ­मा­रम्भ’ इत्य­यु­क्त­मि­त्यु­क्तम् , अत एवोपासनानि प्रस­क्ता­नु­प्र­सक्त्या उत्तरत्र विचारितानीति मन्तव्यम् ।

सूत्राणामिति ।
सूत्र­क­र­ण­मि­त्यर्थः । सूत्ररचना युक्तेति भावः ।

चक्षु­रा­दी­न्य­द्वै­ता­त्मा­व­गतौ सत्यां प्रमे­या­दि­र­हि­त­त्वा­त्प्र­मा­णानि भवितुं नार्हन्तीति भाष्यार्थमाह –
न पश्चादिति ।

हेतुलाभार्थं प्रथमतः प्रथमश्लोकस्य उत्तरार्धं व्याचष्टे –
सदबाधितमिति ।

प्रती­क­मा­द­या­त्म­श­ब्दा­र्थ­माह –
आत्मेति ।

विषयानादत्त इत्या­त्म­श­ब्दा­र्थ­मुक्त्वा तात्पर्यमाह –
साक्षीति ।

आत्मा त्रिविधः गौणात्मा मिथ्यात्मा मुख्यात्मा चेति । आद्य आह –
पुत्रादिरिति ।
गौण­श्चा­सा­वा­त्मा­भि­मा­न­श्चेति विग्रहः । पुत्रदारादिषु आत्माभिमानो गौणः यथा स्वसुखेन सुखी स्वदुःखेन दुःखी तथा पुत्र­दा­रा­दि­ग­ते­ना­पीति सोयं गौणः न मिथ्याभिमानः भेद­स्या­नु­भ­व­सि­द्ध­त्वा­त्तथा च पुत्र­दा­रा­दि­ष्व­ह­मि­त्या­त्मा­भि­मा­नेन पुत्रा­दि­र्गौ­णा­त्मेति भावः ।

द्वितीय आह –
नरोहमिति ।
देहे­न्द्रि­या­दि­ष्व­भे­दा­नु­भ­वेन भेद­ज्ञा­ना­भा­वा­न्ना­त्मा­भि­मानो गौणः किन्तु शुक्तौ रज­त­ज्ञा­न­व­न्मिथ्या तथा च देहा­दा­व­ह­मि­त्य­भि­मा­नेन देहा­दि­र्मि­थ्या­त्मेति भावः ।

मुख्यात्मानं निरूपयितुं द्विती­य­श्लो­क­म­व­ता­र­यति –
नन्विति ।

अन्वे­ष्ट­व्ये­त्यस्य व्याख्यानं –
ज्ञातव्येति ।

अन्वि­ष्ट­प­द­स्या­र्थ­माह –
ज्ञात इति ।

तृती­य­श्लो­क­म­व­ता­र­यति –
प्रमा­तृ­त्व­स्येति ।

यद्व­दि­त्य­स्या­र्थ­माह –
यथेति ।
आत्माबोधावधि प्रामा­ण्य­मि­त्य­न्वयः ।

ननु ज्ञानानन्तरं यथा चक्षुरादीनां अप्रामाण्यं तथा वेदा­न्ता­ना­म­प्रा­माण्यं स्यात् इत्यत आह –
वेदा­न्ता­ना­न्त्विति ।
ज्ञानानन्तरं वेदान्तानां मिथ्यात्वेपि अबा­ध्य­व­स्तु­बो­ध­क­त्वात् नाप्रामाण्यम् । न च तर्हि प्रामाण्यं स्यादिति वाच्यम् । अद्वैतज्ञानिनः शब्द­त­ज्ज­न्य­प्र­माया अभावेन प्रमा­क­र­ण­त्व­रू­प­प्रा­मा­ण्य­स्या­भा­वात् , तस्मात् ज्ञानानन्तरं वेदान्तानां नाप्रामाण्यं न प्रामाण्यं चेति रहस्यम् ।

अकः सवर्णे दीर्घ इति – सूत्रे­णा­त्म­नि­श्च­या­दि­त्यत्र सन्धिमभिप्रेत्य प्रतीकमादाय पदविभागमाह –
आत्मनिश्चयादिति ।
आब्र­ह्म­स्व­रू­प­सा­क्षा­त्का­रा­दि­त्यर्थः ।

शङ्कायाः कः परिहार इति जिज्ञासायामाह –
प्रमा­तृ­त्व­स्येति ।
अद्वि­ती­य­नि­र­ति­श­या­न­न्द­चै­त­न्यै­क­ज्ञा­न­स­र्व­ज्ञ­स­र्वे­श्व­र­स­र्व­श­क्ति­नि­र­व­य­व­स्व­प्र­का­श­प्र­त्य­ग्भू­त­ब्र­ह्मा­त्म­न्य­प­रो­क्षा­नु­भ­वा­त्प्रा­ग्भे­दा­त्म­प्र­त्य­य­व­त्सर्वो व्यवहारो यथा दर्शनमुपपद्यते अस्मिं­श्चा­प­रोक्षे अव­भा­स­मा­ना­दि­प्र­मा­त्रा­दि­बा­धा­त्सर्वो व्यवहारो निवर्तत इति श्लोकार्थः ।

स्वाभि­म­त­मि­ष्ट­दे­व­ता­ना­मो­च्चा­र­ण­पू­र्वकं फलितं समन्वयार्थमाह –
रामनाम्नीति ।