पूर्णानन्दसरस्वती पूर्णानन्दीया (भाष्यरत्नप्रभाव्याख्या)
९ परिच्छेदः
मानसमपि इति ।
यो विध्यर्थः स कृतिसाध्यत्वविशिष्टः तथा च ज्ञानस्य कृत्यसाध्यत्वं न विध्यर्थत्वायोगात् न विधियोग्यक्रियात्वमिति भावः ।
वैलक्षण्यमिति ।
भेदमित्यर्थः । ज्ञानस्य ध्यानक्रियावैलक्षण्यं प्रपञ्चयतीति भावः ।
सामान्यव्याप्तिप्रतिपादकं भाष्यं योजयति –
यत्रेति ।
चोद्यत इति ।
चोदनया उत्पद्यत इत्यर्थः ।
यत्र विषयवस्त्वनपेक्षत्वे सति कृतिसाध्यत्वं तत्र क्रियात्वमिति सामान्यव्याप्तिस्तामुपपादयन् तस्यां दृष्टान्तप्रतिपादकं भाष्यमवतारयति –
विषयवस्त्वनपेक्षेति ।
विषयाजन्येत्यर्थः । अनुमित्यादौ विषयस्याहेतुत्वात्तदजन्ये तस्मिन् व्यभिचारवारणाय कृतिजन्यत्वदलम् । कृतिसाध्ये अपूर्वे व्यभिचारवारणाय विषयवस्त्वनपेक्षत्वदलम् , अपूर्वस्य उपादानरूपविषयजन्यत्वेन तदजन्यत्वाभावान्न व्यभिचारः । उपासनायाः अपूर्वविषयत्वं नाम पूर्वहेतुकृतिविषयत्वमिति पुरस्तादुक्तमिति विज्ञेयम् । वषट्करिष्यन्निति हेतौ वषट्करिष्यन् तां देवतां ध्यायेदित्यर्थः ।
वाक्यान्तरमाह –
सन्ध्यामिति ।
ध्याने विषयवस्त्वनपेक्षत्वे सति कृतिसाध्यत्वं क्रियात्वं च विद्यत इति व्याप्तिं परिष्करोति –
यथा यादृशीति ।
यादृशी अनाहार्यप्रमाव्यतिरिक्तेत्यर्थः ।
ज्ञानमेवेति ।
ज्ञानमिवेत्यर्थः । ध्यानं न क्रिया मानसत्वाज्ज्ञानवदिति प्रयोगः ।
ध्यानं क्रिया मानसत्वादित्यनुमाने कृत्यसाध्यत्वमुपाधिः दृष्टान्ते साध्यव्यापकत्वात् पक्षे साधनाव्यापकत्वाच्चेत्याह –
कत्यसाध्यत्वमिति ।
ज्ञानस्येति ।
लोके प्रसिद्धघटादिज्ञानस्येत्यर्थः ।
भाष्ये – पूर्वमात्मनः वृत्तिप्रतिफलितचैतन्याविषयत्वेपि वत्तिविषयत्वमुक्तं तदत्रोपसंहृतम् –
ज्ञानमेकं मुक्त्वेति ।
यथेति ।
किञ्चिद्ध्यानं यथावस्थितवस्त्वनुसार्यपि वस्तुनिरपेक्षं भवति तदभिप्रायेण यस्यै देवताया इति सन्ध्यां मनसेति चोदाहरणद्वयम् , किञ्चित्पुनर्ध्यानं वस्त्वनुसार्यपि भवति तदभिप्रायेण पुरुषो वा वेत्युदाहरणम् , अतो ध्यानस्य वस्त्वनुसारे तदननुसारे च न निर्बन्धः, कृतिसाध्यत्वं तु नियतमेवेति तस्य विधेयत्वमुपपद्यते, प्रमाणज्ञानस्य तु कृत्यसाध्यतया न विधेयत्वमिति समुदायार्थः । ज्ञानं तु प्रमाणजन्यमिति । यथार्थवस्तुविषयप्रत्यक्षादिप्रमाणजन्यत्वात् ज्ञानस्य सर्वदानाहार्यप्रमात्मकत्वमेव ध्यानादीनां तु केषाञ्चिदनाहार्यत्वं केषाञ्चिद्भ्रमत्वं केषाञ्चित्प्रमात्वं सम्भवति तस्मादपि ज्ञानस्य महद्वैलक्षण्यमिति भावः ।
व्याख्याने प्रतीकमादायेति शब्दार्थमाह –
अतः प्रमाणजन्यत्वादिति ।
प्रतीकमादायार्थमाह –
न चोदनेति ।
ज्ञानस्य प्रमातृजन्यत्वेन पुरुषतन्त्रताऽस्त्येवेति आशङ्क्य विग्रहप्रतिपादकद्वारा परिहरति –
पुरुष इति ।
ज्ञानस्य प्रमातृजन्यत्वेपि कृतिसाध्यत्वाभावान्न पुरुषतन्त्रतेति भावः ।
प्रतीकमादायार्थमाह –
तस्मादिति ।
ध्यानमिति ।
आहार्यरूपं ध्यानमित्यर्थः ।
नन्विति ।
प्रत्यक्षात्मकज्ञानं प्रति विषयस्य हेतुत्वेन तज्ज्ञानस्य वस्तुतन्त्रत्वेपि शाब्दबोधात्मकज्ञानं प्रति विषयस्य कारणत्वाभावात् शाब्दबोधादेर्न विषयवस्तुतन्त्रता तस्माद्विधेयक्रियात्वं स्यादिति शङ्कार्थः ।
शब्दानुमानाद्यर्थेष्विति ।
शब्दादिप्रमाणविषयार्थेष्वित्यर्थः ।
मानादेवेति ।
अबाधितवस्तुविषयप्रमाणादेवानुमित्यादेः प्राप्तेरित्यर्थः । अनुमित्यादिज्ञाने विषयेन्द्रियसंयोगाभावेन मुख्यवस्तुतन्त्रत्वाभावेपि अनुमित्यादिनिष्ठप्रमात्वस्याबाधितवस्तुतन्त्रत्वमौपचारिकमस्तीति भावः ।
भाष्ये – या चोदनाजन्या पुरुषतन्त्रा च क्रिया तां प्रसिद्धां क्रियां तद्विलक्षणप्रसिद्धघटादिज्ञानं चोपपाद्य प्रकृतमाविष्करोति –
तत्रैवं सतीति ।
साक्षात्कारात्मकं शाब्दबोधात्मकमनुमित्यात्मकं वा ब्रह्मात्मविषयकं ज्ञानं न चोदनातन्त्रं नापि पुरुषतन्त्रं परम्परया कृतिजन्यत्वेपि साक्षात्कृतिजन्यत्वाभावात्प्रसिद्धघटादिज्ञानवदिति भावः ।
व्याख्याने लिङ्गादित्रयस्य क्रमेणोदाहरणपूर्वकं भाष्यमवतारयति –
नन्विति ।
अनिर्योज्यं ज्ञानं विषयो येषां विध्यादीनामिति बहुव्रीहिसमासमभिप्रेत्य वाक्यं व्याकरोति –
अनियोज्यमिति ।
नियोज्यशून्यं वेति ।
कृतिसाध्यफलरहितं वेत्यर्थः ।
नियोज्यश्च विषयश्च नियोज्यविषयौ येषां न विद्येते ते अनियोज्यविषया विधयस्तेषां भावः अनियोज्यविषयत्वं तस्मादिति समासान्तरं तात्पर्यार्थकथनेन स्फोरयति –
ममेति ।
अयं फलहेतुभूतः अपूर्वरूपो नियोगः ममावश्यक इति ज्ञानवान् बोद्धा यः स नियोज्य इत्यर्थः । विषयश्च कृतिसाध्यविषयश्चेत्यर्थः । यथा ज्योतिष्टोमवाक्ये स्वर्गकामरूपनियोज्यः कृतिसाध्ययागरूपविषयश्च विधेरस्ति तद्वदत्र नियोज्यो विषयश्च विधेर्नास्तीति भावः ।
बहुव्रीहिसमासभ्रमं वारयति –
वस्तुस्वरूप इति ।
आत्मस्वरूपत्वात् ब्रह्माहेयमनुपादानं च भवति स्वव्यतिरिक्तमेव हेयमुपादेयं चेति प्रसिद्धं लोके, तस्मादहेयानुपादेयवस्तुस्वरूपत्वात् ब्रह्मणः विधयो ज्ञान इव तस्मिन् न प्रवर्तन्त इति भावः ।
फलितमाह –
निरतिशयस्येति ।
व्याख्यानान्तरं वदन् बहुव्रीहिसमासमभिप्रेत्य भाष्यस्थाहेयेत्यादिहेतोरर्थमाह –
उदासीनेति ।
अनियोज्येत्यादिहेतुसमुच्चयार्थश्चशब्दः ।
उदासीनवस्तुविषकत्वेपि ज्ञानस्य विधेयत्वं स्यादित्याशङ्क्याह –
प्रवृत्तीति ।
वाशब्दः व्याख्यानान्तरद्योतकः ।
स्तुत्येति ।
स्तुत्या तन्निवृत्तिफलानीत्यन्वयः ।
विषयप्रवृत्तौ हेतुमाह –
आत्यन्तिकेति ।
उत्कृष्टसुखहेतुत्वभ्रान्त्येत्यर्थः ।
विषयेष्विति ।
शब्दस्पर्शरूपादिविषयेष्वित्यर्थः । स्रक्चन्दनादिविषयेष्विति फलितार्थः ।
भाष्ये
स्वाभाविकप्रवृत्तीति ।
स्वाभाविकी स्वभावसिद्धा या प्रवृत्तिस्तद्विषयेभ्यः स्रक्चन्दनादिभ्यो यद्विमुखीकरणं तदर्थानीति विग्रहः । अथ वा स्वाभाविकेभ्यः प्रवृत्तिविषयेभ्यो यद्विमुखीकरणमिति विग्रहः । विषयाणां स्वाभाविकत्वे लोकप्रमाणसिद्धत्वम् ।
तत्रेति ।
विषय इत्यर्थः । आत्यन्तिकमुत्कृष्टमित्यर्थः । पुरुषार्थं सुखमित्यर्थः । अनित्यत्वादिति शेषः ।
तमिति ।
यो हि बहिर्मुखस्तमुत्कृष्टसुखार्थिनमधिकारिणमित्यर्थः । बहिर्मुखस्य सुखे उत्कृष्टवाञ्छयाधिकारित्वं सम्पाद्य तं श्रवणादौ वाक्यानि प्रवर्तयन्तीति ज्ञापनार्थमात्यन्तिकेत्यादिविशेषणम् । एतेन साधनचतुष्टयसम्पन्नस्य श्रवणादौ प्रवृत्तिर्युक्ता श्रुतीनां तस्मिन्प्रवर्तयितृत्वं च युक्तं कथं बहिर्मुखस्येति शङ्का निरस्ता, कथञ्चिदधिकारित्वस्य प्रतिपादनादिति भावः ।
तत्केन कमिति ।
तत्तत्र विद्याकाले केन करणेन कं विषयं पश्येदित्यर्थः ।
अकर्तव्यप्रधानमिति ।
अकर्तव्यं कृत्यसाध्यं यद्ब्रह्म तदेव प्रधानं विषयो यस्य तत्तथेत्यर्थः ।
व्याख्याने –
विवृणोतीति ।
सङ्ग्रहवाक्यं विवृणोतीत्यर्थः ।
शब्दादेरिति ।
शब्दस्पर्शादिविषयादित्यर्थः ।
श्रवणस्वरूपमिति ।
अधिकारिणो लाभात्तस्य पुरुषार्थवाञ्छिनस्तत्त्वज्ञानाय श्रवणस्वरूपमाहेत्यर्थः । अनात्मबोधेनात्मा बोध्यत इत्यनेन श्रवणस्वरूपमुक्तमिति भावः ।
विधिपदानामुक्तरीत्या गतिसम्भवात् क्व वादिनामवकाश इति वादिनं प्रत्युपहासद्वारा स्वमतं परिष्करोति –
अद्वितीयेति ।
तपस्विनः अरण्यरूपवनापेक्षायाः सत्त्वादिदमाह –
द्वैतेति ।
शेषपूर्त्यान्वयं दर्शयति –
अहमिति ।
श्रुत्यर्थफलितमाह –
भोक्तृभोग्येति ।
प्रतीकमादाय एतच्छब्दार्थमाह –
एतदिति ।
प्राभाकरेति ।
प्रकृतसिद्ध्यर्थं प्राभाकरोक्तं दूषयितुमुपन्यस्यतीत्यर्थः । ब्रह्मनास्तिकत्वे तुल्येपि भाट्टमते सिद्धे पदानां शक्तिः प्रभाकरमते तु कार्यान्वितार्थे शक्तिरिति भेदः । कार्यान्वितार्थे शक्तितौल्येपि वृत्तिकारमते ब्रह्मास्तित्वाङ्गीकारेण मतयोर्भेदो विभावनीयः ।
मानाभावादिति ।
ब्रह्मसद्भावे मानाभावादित्यर्थः । अज्ञातस्येत्यनेन वेदस्य प्रामाण्यं सूचितं, फलस्वरूपस्येत्यनेन कार्यशेषत्वाभावः सूचित इति भावः ।
न च प्रवृत्तीति ।
मध्यमवृद्धस्य प्रवृत्तिनिवृत्तिभ्यामित्यर्थः । श्रोतुः मध्यमवृद्धस्येत्यर्थः ।
अनुमायेति ।
व्युत्पित्सुर्बाल इति शेषः । वक्तृवाक्यस्य उत्तमवृद्धवाक्यस्येत्यर्थः ।
श्रोतुरिति ।
वाक्यश्रोता पिता मध्यस्थश्च भवति, तथा च मध्यस्थस्य सिद्धे सङ्गतिग्रहादित्यर्थः । पुत्रस्ते जात इति वाक्यश्रवणकाले पितुः हर्षपूर्वकस्नानाद्याचरणं दृष्ट्वा पुत्रजन्म हर्षपूर्वकस्नानदानाद्याचरणे निमित्तमिति वाक्यश्रोतुर्मध्यस्थस्य बुद्धिर्भवति तेन हेतुना पुत्रस्ते जात इति वाक्यं पुत्रजन्मप्रतिपादकमित्यनेन मधस्थेन निर्णीतमतः प्रथमव्युत्पत्तिग्रहः सिद्धस्थलेपि भवतीति न कार्यान्वित एव पदानां शक्तिः । यत्र तु आख्यातपदान्वयः तत्र तत्प्रयुक्तकार्यान्वयो भासत इत्येतावता अन्यत्रापि आख्यातपदरहितः पुत्रस्ते जात इत्यादौ पदानां कार्यान्वितार्थ एव शक्तिरिति कल्पनायामाग्रहो न युक्त इति भावः ।
पुत्रादिपदानां सिद्धार्थे व्युत्पत्तिं साधयित्वा कार्यान्वितार्थे पदानां शक्तिर्नास्तीत्यत्र हेतुमाह –
कार्यान्वितेति ।
नीलमित्युक्ते किं नीलमित्याकाङ्क्षाया अनुभवसिद्धत्वादन्वितार्थे शक्तिर्वक्तव्येत्यभिप्रायेणोक्तम् –
अन्वितार्थ इति ।
परस्परान्वयविशिष्टार्थ इत्यर्थः । सर्वेषां पदानां सिद्धार्थ एव शक्तिः किन्तु प्रयोजनज्ञानायापेक्षिताव्यवहितसम्बन्धसिद्ध्यर्थमितरपदान्वितमात्रमपेक्षितमित्यन्वितार्थे शक्तिरित्युच्यते लाघवात्तथा च सिद्धस्य ब्रह्मणो वाक्यार्थत्वादुपनिषदर्थता युक्तेति भावः ।
’औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति ’ वस्तुसङ्ग्रहभाष्यं तस्यैव प्रपञ्चः ’योसावुपनिषत्स्वेवाधिगत’ इत्यादिभाष्यमित्यभिप्रेत्य सिद्धस्य वाक्यार्थत्वे हेत्वन्तरपरत्वेन भाष्यमवतारयति –
किञ्चेति ।
उपनिषत्स्वेवाधिगत इत्यनेन भाष्येणाभानादिति पक्षनिराकरणं नास्तित्वादेवेति पक्षनिराकरणं च भवति, अनन्यशेष इत्यनेन तृतीयपक्षनिराकरणमित्यभिप्रेत्याह –
तत्राद्यं पक्षत्रयमिति ।
अनन्यशेषत्वार्थमिति ।
ब्रह्मणः कार्यशेषत्वं नास्तीत्यनन्यशेषत्वं तदर्थमित्यर्थः । तथा हि ब्रह्मणः कार्यशेषत्वं न जीववत्कर्तृकत्वेन वक्तुं शक्यते तस्यासंसारित्वात् , नापि घटादिवत्क्रियापेक्षत्वेन तस्य उत्पाद्यादिचतुर्विधद्रव्यभिन्नत्वात् , नापि प्रयाजादिवदिति कर्तव्यतात्वेन तस्य स्वप्रकरणप्रतिपाद्यत्वात् , तस्मादसंसारित्वादिविशेषणत्रयेणानन्यशेषत्वं ब्रह्मणः सिद्धमिति भावः । वेदान्तेषु स्फुटत्वेन भानादात्मत्वाच्च असौ नास्तीति वदितुं न शक्यमिति भाष्यार्थः ।
चतुर्थं शङ्कत इति ।
चतुर्थपक्षमवलम्ब्यावधारणमसहमानः उपनिषत्स्वेव विज्ञायते इति यत्तत्कथमिति शङ्कत इत्यर्थः । अथवा चतुर्थं चतुर्थपक्षमवलम्ब्येत्यर्थः । ब्रह्मणः लोकसिद्धत्वेन वेदस्य कार्यपरत्वं स्यादिति शङ्कत इति भावः । चतुर्थशङ्का भाष्यस्था शङ्काचतुष्टयं तु भाष्याद्बहिरिति विज्ञेयम् ।
अहंप्रत्ययविषयत्वादिति ।
अहंप्रत्ययविषयत्वेन लोकसिद्धत्वादिति भाष्यार्थः ।
आत्मन इति ।
विशिष्टस्यात्मनः अहन्धीविषयत्वेऽपि अहङ्कारादिदेहपर्यन्तसाक्षिणि केवलात्मन्यहन्धीविषयत्वस्य निरस्तत्वादुपनिषद्वेद्यत्वमेव वक्तव्यमतो न चतुर्थः पक्ष इति भावः ।
विधिकाण्डे तर्कसमये वेति भाष्यस्य तात्पर्यार्थमाह –
तीर्थकारा इति ।
शास्त्रकर्तार इत्यर्थः । अलौकिकत्वमुपनिषेदेकवेद्यत्वम् ।
तत्तन्मत इति ।
अहंप्रत्ययविषयेत्यादिविशेषणेन सर्वस्यात्मा हि विशिष्टभिन्नप्रत्यक्चेत्यनत्वेन मीमांसकैर्नाधिगत इति द्योत्यते किन्तु कर्तृत्वेनाधिगत इत्यर्थः । तत्साक्षीत्यनेन विशेषणेन अहङ्कारादिसाक्षित्वेन बौद्धैरात्मा नाधिगतः किन्तु देहेन्द्रियादिसङ्घातत्वेनाधिगत इति भावः । सर्वभूतस्थ इत्यनेनासद्वादिना हि सत्त्वेनात्मा नाधिगतः किन्त्वसत्त्वेनेत्यर्थः । सम इत्यनेन मध्यमपरिमाणवादिना हि समत्वेनात्मा नाधिगत इति द्योत्यते किन्तु तारतम्येनाधिगत इति भावः । एक इत्यनेन तार्किकैरेकत्वेनात्मा नाधिगतः किन्तु भिन्नत्वेनेत्यर्थः । कूटस्थ इत्यनेन परिमाणवादिना निर्विकारत्वेनात्मा नाधिगतः किन्तु परिमाणरूपविकारवत्त्वेनेत्यर्थः । नित्य इत्यनेन क्षणिकविज्ञानवादिना स्थिरत्वेनात्मा नाधिगतः किन्तु प्रतिक्षणमुत्पत्त्यादिमत्त्वेनाधिगत इत्यर्थः । पूर्णं इत्यनेन विशेषणेन परिच्छिन्नत्वादिना सर्वस्यात्मा व्यापकत्वेन नाधिगत इति द्योत्यते किन्त्वव्यापकत्वेनाधिगत इत्यर्थः । तथा चोक्तविशेषणेन विशिष्टात्मा वेदान्तिभिरेव अधिगत इति भावः ।
साक्षित्वेनाज्ञानदशायां कर्माङ्गत्वमुच्यते किं ज्ञानदशायामिति विकल्प्य आद्यं निराचष्टे –
अज्ञातेति ।
कर्माङ्गत्वानुपयोगादित्यर्थः ।
द्वितीयं दूषयति –
व्याघातकत्वादिति ।
कल्पितसर्वदृश्यसाक्षी अहमित्यद्वैतज्ञानदशायां द्वैतज्ञानाभावेन कर्माङ्गत्वविरोधादित्यर्थः ।
आशङ्क्येति ।
विज्ञानवादिमतानुसारेणाशङ्क्येत्यर्थः ।
परिणामित्वेनेति ।
परिणामवादिमतमुसृत्यात्मनः परिणामित्वेन हेयत्वमाशङ्क्य निराचष्ट इत्यर्थः ।
परप्राप्त्यर्थमिति ।
परमुत्कृष्टं ब्रह्म तत्प्राप्त्यर्थं मुमुक्षुणा आत्मा हेयस्त्यक्तुं योग्य इति पूर्वपक्षार्थः ।
ब्रह्मत्वादात्मैव परस्तस्मान्न हेय इति परिहरति –
आहेति ।
विकल्पपञ्चकनिरासे उक्तहेतुचतुष्टयमनूह्योत्तरग्रन्थमवतारयति –
एवमात्मन इति ।
स्फुटम्भानादित्यनेन विकल्पद्वयनिरास इति ज्ञेयम् ।
सूत्रस्येति ।
हिरण्यगर्भस्येत्यर्थः ।
भाष्ये प्राभाकरमतनिरासमुपसंहरति –
अतो भूतवस्त्विति ।
अनुक्रमणमिति ।
वेदार्थसङ्ग्राहकवक्यजातमित्यर्थः ।
व्याख्याने -
पर्वोक्तमिति ।
सिंहावलोकनन्यायेन वृत्तिकारमतोक्तमन्यथा उपपादयितुमनुवदतीत्यर्थः । भाष्यमिति शाबरभाष्यमित्यर्थः । सूत्रकारो भगवान् जैमिनिरित्यर्थः ।
तच्चेति ।
फलवदज्ञातत्वेन वेदार्थत्वमित्यर्थः । ब्रह्मणः फलवत्त्वमविद्यानिवृत्तिरूपफलवत्त्वं तन्निवृत्तिस्वरूपत्वं वेति विज्ञेयम् ।
अनुक्रमणशब्दार्थं ज्ञापयितुं तच्छब्दस्य प्रतीकमादायार्थमाह –
तत्सूत्रभाष्यवाक्यजातमिति ।
यानि सूत्रवाक्यानि भाष्यवाक्यानि च तेषां समूह इत्यर्थः ।
कर्मकाण्डस्य कार्यपरत्वमङ्गीकृत्य न ज्ञानकाण्डस्येत्युक्तं सम्प्रति कर्मकाण्डस्यापि न कार्यपरत्वं किन्तु सिद्धपरत्वनेवेत्याह –
वस्तुतस्त्विति ।
प्रवर्तकज्ञानगोचरत्वेनेति ।
यागो मदिष्टसाधनमिति यत्प्रवृत्तिजनकमिष्टसाधनत्वज्ञानं तद्विषयत्वेनेत्यर्थः । क्लृप्तं सिद्धमित्यर्थः ।
एवकारव्यवच्छेद्यमाह –
न क्रियात इति ।
क्रियारूपयागादतिरिक्तापूर्वात्मककार्यं न लिङर्थ इत्यर्थः ।
तस्येति ।
अपूर्वस्येत्यर्थः । प्रवर्तकज्ञानविषयत्वेन सिद्धस्वरूपेष्टसाधनत्वे लिङर्थस्य शक्तिसम्भवेन प्रत्यक्षादिप्रमाणरहिते कूर्मलोमवदप्रसिद्धे साध्ये अपूर्वे तस्य शक्तिकल्पनाया अन्याय्यत्वादिष्टसाधनत्वमेव लिङर्थः नापूर्वं न प्रवर्तना वेति भावः ।
तस्यापीति ।
कर्मकाण्डस्यापीत्यर्थः ।
पराभिमतेति ।
प्राभाकराद्यभिमतेत्यर्थः ।
सिद्ध इति ।
सिद्धस्वरूपेष्टसाधनत्व इत्यर्थः ।
किमुतेति ।
किमु वक्तव्यमित्यर्थः ।
ज्ञानकाण्डः सिद्धवस्तुपरः वेदत्वात्कर्मकाण्डवदित्यनेनानुमानेन सिद्धं वेदान्तानां सिद्धवस्तुपरत्वं मनसि निधायानुमानान्तरेणापि साधयतीत्यवतारयति –
किञ्चेति ।
फलवदिति ।
फलवद्यद्भूतं सिद्धं वस्तु तत्प्रतिपादको यः शब्दस्तत्त्वादित्यर्थः ।
अतदर्थनामित्यस्य व्याख्यानम् -
अक्रियार्थकशब्दानामिति ।
अभिधेयाभाव इति ।
प्रतिपाद्यरूपार्थशून्यत्वमित्यर्थः ।
इति पदस्य प्रतीकमादायार्थं परिष्करोति –
इति न्यायेनेति ।
’आनर्थक्यमतदर्थानामि’त्येतत्सूत्रप्रतिपादितार्थरीत्येति यावत् ।
एतत्पदस्य प्रतीकमादायार्थमाह –
एतदिति ।
नियमेनेति ।
एतत्सूत्रार्थानतिलङ्गनेनेत्यर्थः ।
अङ्गीकुर्वतामिति ।
वृत्तिकाराणामिति शेषः ।
भूतोपदेशानामित्याद्यंशस्यार्थमाह –
सोमेनेति ।
ननु केनोक्तमिति ।
दध्यादिशब्दानामर्थवत्त्वमस्त्विति वदन्तं पूर्ववादिनं प्रति प्रतिबन्द्या परिहारमाहेति भावः ।
प्रवृत्तिनिवृत्तिव्यतिरेकेणेत्यस्यार्थमाह –
कार्यातिरेकेणेति ।
कार्यं विनेत्यर्थः । कार्यमवबोधयित्वापीति यावत् ।
प्रतीकमादायार्थमाह –
भव्यार्थत्वेनेति ।
वक्तीति ।
बोधयतीत्यर्थः । कार्यमवबोधयन् दध्यादिशब्दः कार्याय दध्यादिरूपं सिद्धं वस्तु बोधयतीति चेदिति पूर्वपक्षानुवादः ।
को हेतुरित्यत्र किंशब्दः प्रश्नार्थकः, तथा च हेतुविषयकं प्रश्नं हेतूद्घाटनद्वारा विवृणोति –
किं कूटस्थस्येति ।
कूटस्थस्याक्रियात्वात्सत्यादिशब्दः किं कूटस्थं न वक्तीति पूर्वेणान्वयः, अक्रियात्वादकार्यत्वादित्यर्थः । कार्यभिन्नत्वादिति यावत् । अक्रियाशेषत्वादकार्यशेषत्वादित्यर्थः । प्रश्नः – सिद्धान्तिप्रश्न इत्यर्थः ।
एवं सिद्धान्तिप्रश्ने स्थिते ह्यक्रियात्वान्न वक्तीति पूर्वपक्ष्युत्तरमुत्थापयति –
नन्विति ।
नन्वित्यादिग्रन्थः नहीत्यादिपरिहारभाष्यस्य शङ्काग्रन्थः प्रश्नश्च पूर्वपक्ष्युत्तरप्रतिपादकग्रन्थ इति भेदः ।
कूटस्थाद्वैषम्यमाह –
दध्यादेरिति ।
निरस्यतीति ।
पूर्वपक्षिणोक्तमाद्यं पक्षं सिद्धान्ती निरस्यतीत्यर्थः । पूर्वपक्ष्युत्तरं खण्डयतीति भावः ।
अत इति ।
कार्यशेषत्वेन कार्यत्वाभावादित्यर्थः । यथा दध्यादिशब्दः कार्याद्भिन्नं दध्यादिकं सिद्धं वस्तु वक्ति तथा सिद्धं कार्याद्भिन्नं कूटस्थं सत्यादिशब्दो वक्तीति भावः ।
द्वितीयं शङ्कत इति ।
कूटस्थस्य दध्यादिवैषम्यमुपपादयन् द्वितीयपक्षमुत्थपयतीत्यर्थः । अक्रियाशेषत्वान्न वक्तीति पूर्वपक्षिणा उक्तं प्रश्नस्योत्तरं प्रपञ्चयतीति भावः ।
पूर्वपक्षं पूरयति –
कूटस्थस्य त्विति ।
दध्यादेः कार्यस्वरूपत्वाभावेपि कार्यशेषत्वप्राधान्येन दध्यादिशब्दसिद्धं वस्तु वक्तीति युक्तं ब्रह्मणस्तु कार्यशेषत्वाभावात् तच्छेषत्वप्राधान्येन सत्यादिशब्दः कूटस्थं न वक्तीति युक्तं तस्माद्वैषम्यमिति भावः ।
एवकारपदं व्युत्क्रमेण योजयति –
वस्तुमात्रमेवेति ।
शक्तिमत्त्वविशेषणव्यावृत्त्यर्थं मात्रपदं तेन वस्तु परिशिष्यते तथा च वस्त्वेवोपदिष्टमिति भावः । अथवा मात्रपदं कार्त्स्न्यार्थकं तथा च वस्तुमात्रं वस्तुत्वावच्छिन्नमित्यर्थः ।
एवकारव्यावर्त्यमाह –
न कार्यान्वयीति ।
कार्यशेषत्वविशिष्टः शब्दार्थो न भवतीत्यर्थः । शब्देनार्थ एवोपदिष्टः न कार्यशषत्वविशिष्टत्वविशिष्ट इति भावः ।
शेषत्ववैशिष्ट्यस्य शक्यतावच्छेदककोटौ निवेशो नास्तीत्यत्र हेतुमाह –
अन्वितार्थेति ।
पदानां सिद्धार्थ एव शक्तिः परन्तु शाब्दबोधार्थमपेक्षिततद्विषयसंसर्गलाभाय वस्तुतः परस्परान्वितत्वमात्रमपेक्षितमिति यदुक्तं तन्न विस्मर्तव्यमिति भावः । क्रियानिर्वर्तनशक्तिमद्वस्त्वितिशब्देन वस्त्वेवोपदिश्यते तद्वस्तु वस्तुतः कार्योत्पादनशक्तिमद्भवतीति भाष्यार्थः । एतेन क्रियानिर्वर्तनशक्तिमत्पदस्वारस्यात् कार्यान्वितार्थ एव शक्तिरङ्गीकृतेति भ्रमो निरस्तः । तस्य पदस्य वस्तुस्वरूपमात्रकथनपरत्वेन व्याख्यातत्वादिति भावनीयम् ।
प्रतीकमादाय तच्छब्दार्थमाह –
तस्येति ।
न तु ब्रह्मण इति ।
ब्रह्मणः स्वतः फलरूपत्वेन फलान्तरापेक्षाभावात्फलमुद्दिश्य कार्यशेषत्वं यद्यपि नास्ति तथापि सत्यादिशब्दार्थतास्त्येवेति भावः ।
दध्यादिदृष्टान्ते विरोधं पूर्वपक्षी शङ्कते –
नन्विति ।
भूतस्य दध्यादेरित्यर्थः ।
एतावतेत्यस्यार्थमाह –
फलार्थमिति ।
वस्त्वनुपदिष्टपदस्यार्थमाह –
शब्देति ।
शब्दार्थतायामिति ।
शक्यतावच्छेदककोटावित्यर्थः ।
पक्षं शङ्कत इति ।
द्वितीयपक्षं शङ्कत इत्यर्थः । क्रियाद्वारा सफलभूतार्थप्रतिपादकत्वाद्दध्यादिशब्दानामानर्थक्यं नास्त्येव सत्यादिशब्दानां तु क्रियाद्वारानङ्गीकारेण सफलभूतार्थप्रतिपादकत्वाभावात्कथमानर्थक्यं नास्तीति शङ्कत इति भावः ।
शङ्कां स्फुटीकर्तुं ’यदि नामोपदिष्ट’मित्यादिभाष्यं व्याचष्टे –
यद्यपीति ।
क्रिया द्वारा सफलत्वादिति ।
कार्यशेषत्वद्वारा कार्यरूपफलसहितत्वादित्यर्थः ।
उपदिष्टमिति ।
दध्यादिशब्देनेति शेषः ।
किं तव तेन स्यादित्यंशस्यार्थमाह –
तथापीति ।
पुत्रादिपदानां सिद्धेर्थे व्युत्पत्तिदर्शनात्कार्यान्वितापेक्षयान्वितार्थे शक्त्यङ्गीकारे लाघवाच्च चतुर्भिरनन्यशेषत्वाद्युक्तलिङ्गैः श्रुत्या च कार्यशेषत्वनिराकरणद्वारा वेदान्तानामात्मवस्तुपरत्वनिश्चयाच्च कर्मकाण्डस्यापि इष्टसाधनत्वरूपे सिद्धे लिङर्थे तात्पर्यस्य साधितत्वाच्च वेदान्तानां सिद्धब्रह्मपरत्वं साधयित्वा सम्प्रति निषेधवाक्यपर्यालोचनयापि सिद्धपरत्वमेवेत्युत्तरभाष्यमवतारयति –
इदानीमिति ।
निषेधवाक्यवदिति ।
क्रियान्वयाभिधानवादिनापि निषेधवाक्यस्य सिद्धार्थपरत्वं वक्तव्यं तद्वदित्यर्थः ।
भाष्ये
एवमाद्येति ।
एवमादिवाक्येषु प्रतिपाद्येत्यर्थः । आदिशब्देन ’न हन्यान्न पिबेदि’दित्यादिवाक्यं गृह्यते । अत्र निवृत्तिशब्देन हननाभावरूपा नञर्था निवृत्तिरुच्यते सा निवृत्तिर्न च क्रिया - कृतिजन्यकार्यरूपा न भवति अत्यन्ताभावरूपत्वेन सिद्धत्वात् । नापि क्रियासाधनं अभावरूपायाः निवृत्तेः कृतिजन्यकार्यं प्रत्यहेतुत्वात् । अभावप्रत्यक्षे कार्ये विषयत्वेनाभावस्य हेतुत्वात्तद्वारणाय कार्ये कृतिजन्यत्वविशेषणमिति मन्तव्यम् । हन्त्यर्थानुरागेण नञ् इति अत्र तृतीया हेत्वर्थे, अनुरागशब्दः सम्बन्धार्थकः, तथा च हननरूपेण हन्त्यर्थेन सह नञ्सम्बन्धादित्यर्थः । हन्त्यर्थसम्बन्धित्वान्नञ् इति फलितार्थः । क्रियाशब्दः कार्यवचनः हननरूपा या क्रिया तस्याः अभावरूपा या निवृत्तिस्तया उपलक्षितं यदौदासीन्यं तद्व्यतिरेकेणेति उपलक्षितपदमध्याहृत्य भाष्यं योजनीयम् । उपलक्षकत्वं परिपालकत्वं समानकलीनत्वं वेति विज्ञेयम् । उपलक्षितपदस्य कृत्यमनुपदं वक्ष्यते । औदासीन्यं नाम पुरुषस्य स्वरूपं तच्च तूष्णीम्भावः अनादिसिद्धहननप्रागभावो वेति फलितार्थः । यावत्पर्यन्तं पुरुषे हननात्यन्ताभावोस्ति तावत्पर्यन्तं पुरुषनिष्ठतूष्णीम्भावरूपनिवृत्तिः हननप्रागभावो वा तथैव तिष्ठतीत्येतावता नञर्थहननात्यन्ताभावरूपया निवृत्त्या हननप्रागभावरूपमौदासीन्यमुपलक्षितं भवतीत्युच्यते, तेन प्रकृत्यर्थाभावबुद्धिरौदासीन्यकरणमित्युक्तं, तथा च निवृत्तिमात्रमेव नञर्थः तेनैव प्रकृतकार्यार्थकत्ववारणादौदासीन्यं तु नञर्थं साध्यम् । ननु तर्हि औदासीन्यप्रतिपादनं किमर्थमिति चेत् । तस्य प्रतिपादनस्य औदासीन्यं नञर्थफलमिति ज्ञापनार्थत्वात् , तस्मान्निवृत्तिव्यतिरेकेण नञः क्रियार्थकत्वं कल्पयितुं न शक्यमिति भावः । केचित्तु हननक्रियानिवृत्तिरेव औदासीन्यमिति वदन्ति ।
नञश्चेति । बोधयतीति ।
यत् एष नञ्स्वभाव इत्यन्वयः ।
व्याख्याने –
प्रकृत्यर्थेनेति ।
हननेनेत्यर्थः ।
सिद्धं दुःखाभावं प्रति हननाभावस्य हेतुत्वासम्भवादौपचारिकं हेतुत्वमिति मत्वाह –
तत्परिपालक इति ।
परिपालनं रक्षणं तस्य हेतुः परिपालक इत्यर्थः । हननाभावः दुःखाभावस्य यथा स्थितिं करोतीत्येतावता साधनत्वव्यपदेश इति भावः ।
वाक्यार्थमुक्त्वा प्रकृत्यर्थाभावबुद्धिरौदासीन्यस्थापनकारणमिति तात्पर्यार्थमाह –
हननाभावो दुःखेति ।
अर्थादिति ।
व्याप्तिबलादित्यर्थः ।
हननान्निवर्तत इति ।
निवृत्तिः द्विविधा अभावरूपा प्रयत्नविशेषरूपा चेति । नञ्वाच्या अभावरूपा निवृत्तिरुक्ता, तथा च हननाभावो दुःखाभावहेतुरिति प्रकृत्यर्थाभावविशेष्यकबुद्ध्या हनने दुःखसाधनत्वधीद्वारा पुरुषनिष्ठप्रयत्नविशेषरूपा तूष्णीम्भावाख्या निवृत्तिरुत्पद्यते तया अनादिसिद्धहननप्रागभावरूपमौदासीन्यं तथैव स्थाप्यते, तस्मात्प्रकृत्यर्थाभावबुद्धिः परम्परया औदासीन्ये कारणमिति भावः ।
ननु नञर्थेन हननाभावेनैव नियोगः साध्यते ततश्च नियोगपर्यवसितं वाक्यमिति तत्राह –
नात्र नियोग इति ।
नियोगोऽपूर्वमित्यर्थः । नियोगो हि क्रियातत्साधनविषयकः प्रकृते तु नास्ति क्रिया साधनं च येन नियोगस्यावकाश इति भावः ।
ननु यागानुष्ठानादिव नञर्थानुष्ठानान्नियोगोस्तु तथा च अनुष्ठितनञर्थ एव क्रियेत्यत आह –
न चेति ।
भावार्थाहेतुत्वादिति ।
कार्याहेतुत्वादित्यर्थः ।
भावार्थासत्त्वाच्चेति ।
अभावस्य कार्यासत्स्वरूपत्वाच्चेत्यर्थः । अभावो नाम कार्यस्यासत्स्वरूप एव विरोधिस्वरूप एवेति यावत् । तथा च अभावः कार्यं प्रति हेतुर्न भावतीति भावः ।
न चेत्यादिभाष्यस्थपदानि व्याचष्टे –
स्वभावत इति । हन्त्यर्थेनेति - तृतीया सहार्थे ।
सङ्कल्पक्रियेति ।
अप्राप्ता मानसी सङ्कल्पक्रियेत्यर्थः । न चाभावो नाम भावान्तरव्यतिरेकेण कश्चिदस्ति येन तत्पर्यवसितं वाक्यं स्यात्तस्माद्भावान्तरविधिपरं निषेधवाक्यमिति शङ्ककस्याभिप्रायः ।
निषेधतीति ।
न चाभावस्तद्बुद्धिगोचरत्वान्निवर्तयितुं शक्यः । न च भावान्तरमेवाभावः तस्याभावस्य सप्रतियोगित्वात्तस्मात्सिद्धः पृथगेवाभावः स एव नञ्मुख्यार्थ इत्यभिप्रेत्य वाक्यस्य कार्यार्थकत्वं निषेधतीत्यर्थः ।
उपलक्षितपदमध्याहृत्य भाष्यं योजयति –
औदासीन्यमिति ।
पुरुषस्य स्वरूपमिति ।
पुरुषनिष्ठो धर्म इत्यर्थः । तूष्णीम्भावः हननप्रागभावो वा धर्म इति द्रष्टव्यम् । निवृत्त्युपलक्षितं तच्च औदासीन्यं निवृत्त्यौदासीन्यमित्यन्वयः ।
किं द्वयोर्नञर्थता नेत्याह –
हननाभाव इति ।
हननाभाव एव नञर्थः औदासीन्यं तु नञर्थसाध्यमिति भेदः ।
क्रियेति ।
सङ्कल्पात्मिका क्रियेत्यर्थः ।
विप्लवेति ।
नाशेत्यर्थः । विधिप्रतिषेधविभागव्यवहारो न स्यादिति फलितार्थः ।
तदभाववदिति ।
प्रकृते तच्छब्दत्रयेण हननमुच्यते, अधर्म इति च्छेदः ।
ननु अनेकार्थत्वस्यान्याय्यत्वे गोपदस्य स्वर्गवाग्वज्रादिषु शक्तिर्न स्यादित्यत आह –
गवादिशब्दानां त्विति ।
गवादिशब्दानां नानार्थे शक्तिरङ्गीकार्येत्यत्र हेतुमाह –
स्वर्गेति ।
इषुशब्दो बाणवाचकः, गोपदस्य शक्यार्थः पशुः तत्सम्बन्धः स्वर्गदिषु नास्तीति गोपदस्य लक्षणया स्वर्गाद्यर्थकत्वं न सम्भवतीत्यगत्या नानार्थकत्वमेव निश्चीयत इति भावः ।
तर्हि प्रकृतेऽपि दीयतां सैव निश्चयात्मिका दृष्टिरित्याशङ्कां वैषम्येण परिहरति –
अन्येति ।
नञः शक्यार्थः अभावः तत्सम्बन्धोन्यविरुद्धयोरस्तीति नञो लक्षणयान्यविरुद्धार्थकत्वं कल्पयितुमुचितं तस्मात्तयोः न शक्तिरिति भावः ।
लक्ष्यत्वमुदाहृत्य दर्शयति –
ब्राह्मणादिति ।
ननु लिङादिविशिष्टधातुराख्यातपदस्यार्थः, तथा च आख्यातयोगादित्यत्र कथं तस्य आख्यातपदस्य धातुमात्रे प्रयोग इति चेन्न । आख्यातजानि रूपाणीत्यादिवृद्धव्यवहारे आख्यातैकदेशे धातुमात्रेप्याख्यातशब्दप्रयोगस्य दर्शनादित्यभिप्रेत्याह –
प्रकृत इति ।
न हन्तव्य इत्यादिवदित्यर्थः । चस्त्वर्थकः । अथवा लक्षणाया अन्याय्यत्वादिति हेत्वन्तरसमुच्चयार्थश्चशब्दः । आख्यातयोगादाख्यातैकदेशधातुयोगादित्यर्थः । यद्वेति – द्वितीयव्याख्याने नञ् न धातुयोगः किन्तु आख्यातैकदेशप्रत्यययोग इति भावः ।
प्रसज्येति ।
प्रसक्तेत्यर्थः । हननमिष्टसाधनमेवेति भ्रान्त्या प्रसक्तहनननिषेधार्थकः नञ्शब्द इत्यर्थः ।
एवकारव्यावर्त्यमाह –
न पर्युदासलक्षक इति ।
न विरुद्धसङ्कल्पक्रियालक्षक इत्यर्थः । नञ्शब्दो लक्षणया विरुद्धसङ्कल्पक्रियार्थको न भवतीति भावः ।
प्रकृत्यर्थस्य हननस्यैव नञ्शब्दान्वयमङ्गीकृत्य तदभावोर्थान्तरं वा न विधेयमित्युक्तमिदानीं स्वयमेवास्वरसं सूचयन्प्रत्ययार्थ एव नञ् सम्बध्यत इति व्याख्यानान्तरमाह –
यद्वेति ।
ननु भवतु प्रकृतेरुपसर्जनत्वं तथापि प्रकृत्या सह नञ्सम्बन्धः स्यादित्यत आह –
प्रधानेति ।
प्रत्ययार्थः प्रधानं तेनैव सम्बन्धो वक्तव्य इति भावः ।
तदेतदाह –
किं त्विति ।
इष्टस्य विशेषणमाह –
इष्टं चेति ।
स्वापेक्षयेति ।
इष्टापेक्षयेत्यर्थः । बलवत् यदनिष्टं तदननुबन्धि तदसम्बन्धीत्यर्थः ।
बलवदनिष्टासाधनत्वे सतीष्टसाधनत्वं तव्यप्रत्ययार्थ इति स्फुटीकर्तुं इष्टविशेषणेन पर्यवसितमिष्टसाधनत्वस्य विशेषणं कथयन्नन्वयमाह –
अत्रेति ।
विशिष्टेति ।
विशिष्टं च तत् इष्टसाधनत्वं चेति कर्मधारयः, तथा च हननं बलवदनिष्टासाधनं सत् इष्टसाधनमिति हनने बलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्येत्यर्थः ।
बलवदनिष्टसाधनं हननमिति बुद्धिर्भवतीति यत्तत्कथमित्यत आह –
हनने तावदिति ।
अत्र हनने विशिष्टेष्टसाधनत्वमनूद्य नेत्यभावबोधनेन प्राप्तो विशिष्टाभावो विशेषणाभावायत्त इत्याह –
विशिष्टाभावेति ।
विशेषणविशिष्टस्याभावः तद्बुद्धेर्विषेणाभावे पर्यवसानादित्यर्थः । हनने बलवदनिष्टसाधनत्वस्य सत्त्वात् तात्कालिकेष्टसाधनत्वरूपविशेष्यस्य सत्त्वाच्च बलवदनिष्टासाधनत्वरूपाविशेषणाभावादेव बलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वाभावो वक्तव्य इति विशिष्टाभावो नञर्थ इत्यनेन विशेषणाभाव एव पर्यवसानान्नञर्थ इत्युक्तमिति भावः ।
किं तद्विशेषणमिति जिज्ञासायामाह –
विशेषणं चेति ।
बलवदनिष्टसाधनत्वं नञर्थ इति बलवदनिष्टसाधनत्वशरीरप्रविष्टाभावांशो नञर्थ इत्युक्तमिति भावः । बलवदनिष्टासाधनत्वं नाम बलवदनिष्टसाधनत्वाभावः, तस्य तव्यप्रत्ययार्थैकदेशस्य विशेषणस्य योऽभावः नञर्थरूपः सन् बलवदनिष्टसाधनत्वरूप एव अभावाभावस्य भावरूपत्वात् , तथा च चरमाभावांशमादाय बलवदनिष्टसाधनत्वं नञर्थ इति भावः ।
परिपालिकेति ।
रक्षणहेतुरित्यर्थः ।
प्रकृत्यर्थाभावबुद्धिवदिति ।
यथा हननाभावबुद्धिरौदासीन्ये कारणं तथा विशेषणविशिष्टविशेष्यं तव्यप्रत्ययार्थस्तदभावो नञर्थः तद्बुद्धिरौदासीन्ये कारणमित्यर्थः । प्रथमव्याख्याने हननाभावो दुःखाभावहेतुरिति प्रकृत्यर्थाभावविशेष्यकदुःखाभावहेतुत्वप्रकारकबुद्ध्या हननं दुःखसाधनमिति अर्थात् ज्ञानमुत्पद्यते तेन ज्ञानेन हननस्य इष्टसाधनत्वभ्रान्तिनिवृत्तिद्वारा हननात्पुरुषो निवर्तते इति प्रयत्नरूपा निवृत्तिरुत्पद्यते तया सिद्धमौदासीन्यं हननप्रागभावरूपं तथैव तिष्ठतीति प्रकृत्यर्थाभावबुद्धिरौदासीन्ये कारणमिति व्यपदिश्यते । द्वितीयव्याख्याने तु हननं बलवदनिष्टसाधनमिति हननविशेष्यकप्रत्ययार्थैकदेशस्य भावप्रकारकबुद्ध्या हनने विशिष्टेष्टसाधनत्वभ्रान्तिनाशद्वारा हननात्पुरुषो निवर्तते इति प्रयत्नरूपा निवृत्तिरुत्पद्यते तया हननप्रागभावरूपमौदासीन्यं सिद्धं तथैव तिष्ठति तस्मात्प्रत्ययार्थाभावबद्धिरौदासीन्ये कारणमिति व्यपदिश्यत इति निष्कृष्टार्थः । प्रथमव्याख्यानेऽनिष्टसाधनत्वमार्थिकतया बोध्यते द्वितीये तु प्रत्ययनञ्शब्दाभ्यां बोध्यते इति भेदः । प्रथमे इष्टसाधनत्वमात्रं तव्यप्रत्ययार्थः तेनैव उक्तरीत्या औदासीन्यनिर्वाहात् , द्वितीये बलवदनिष्टासाधनत्वविशिष्टसाधनत्वं तव्यप्रत्ययार्थ इति भेदः ।
औदासीन्यात्प्रच्युतिरूपेति ।
औदासीन्यनाशरूपेत्यर्थः । यदा पुरुषस्य हनने प्रवृत्तिस्तदा हननप्रागभावनाशो भवतीति प्रागभावनाशरूपा प्रवृत्तिरिति भावः ।
ननु नञर्थाभावबुद्धिनाशोक्त्या शङ्कायाः कः परिहार इत्यत आह –
इत्यक्षरार्थ इति ।
तात्पर्यार्थेन शङ्कां परिहरति –
रागनाश इति ।
अक्षरार्थेन शङ्कां परिहर्तुं व्याख्यानान्तरमाह –
यद्वेति ।
सा क्रियेति ।
हनने प्रवृत्तिरूपा क्रियेत्यर्थः । अनिष्टसाधनत्वज्ञानेन रागनाशात् स्वयमेव क्रिया शाम्यतीति भावः ।
परपक्षे त्विति ।
निषेधवाक्यस्य कार्यपरत्वपक्ष इत्यर्थः ।
’तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवे’त्याद्युपसंहारभाष्यार्थं सङ्गृह्णाति –
तस्मात्तदभाव एव नञर्थ इति ।
तस्मान्नञर्थकार्यार्थकत्वाभावादित्यर्थः । तदभावः तयोरभाव इति विग्रहः, तयोः प्रकृत्यर्थप्रत्ययार्थयोरभाव एव इत्यनेन प्रसक्तक्रियेत्यादिभाष्यार्थ इति, नञर्थ इत्यनेन प्रतिषेधार्थ इति भाष्यार्थश्च सङ्गृहीत इति भावः । एवकारो तदन्यतद्विरुद्धव्यवच्छेदार्थकः ।
ननु हननाभावं इष्टसाधनमिति ज्ञानस्य जायमानत्वेन विधेयत्वात् कथं निषेधवाक्यस्य कार्यार्थकत्वं नास्तीत्यत आह –
भावार्थाभावेनेति ।
विधेयार्थभावेनेत्यर्थः । मानसं तु ज्ञानं प्रमाणप्रमेयजन्यं न कृतिजन्यकार्यं तस्मान्न कार्यपरत्वं वाक्यस्येति भावः ।
प्रसक्तक्रियानिवृत्त्यौदासीन्यं यस्माद्विशिष्टाभावायत्तं तस्माद्विशिष्टाभावमेव ’ब्राह्मणो न हन्तव्य’ इत्यादिषु प्रतिषेधार्थं मन्यामह इत्यपेक्षितपदान्यध्याहृत्य उपसंहारभाष्यं व्याख्येयमित्याह –
यद्वेति ।
यद्वा नञ्प्रकृत्येत्युक्तपक्ष इत्यर्थः ।
यस्मादिति ।
नञ्कार्यार्थकत्वाभावादित्यर्थः ।
औदासीन्यं विशिष्टाभावसाध्यमेव न कार्यसाध्यं कार्यस्याभावादित्यभिप्रेत्योक्तं -
विशष्टाभावायत्तमिति ।
यद्वेति – द्वितीयव्याख्याने बलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वं तव्यप्रत्ययार्थ इत्युक्तं तथा च विशिष्टस्य प्रत्ययार्थस्य यः अभावः तेनायत्तं सम्पादितमित्यर्थः । निवृत्त्युपलक्षितमौदासीन्यं यस्मान्नञ्कार्यार्थकत्वाभावाद्विशिष्टाभावायत्तमेव न कार्यायत्तं तस्मान्नञ्कार्यार्थकत्वाभावेन औदासीन्यस्य विशिष्टाभावायत्तत्वाद्विशिष्टाभाव एव नञर्थ इति पदजातमध्याहृत्य उपसंहारवाक्यं यद्वेति पक्षे व्याख्येयमिति फलितार्थः । औदासीन्यं हि नञर्थायत्तं तस्य विशिष्टाभावायत्तं चेद्विशिष्टाभाव एव नञर्थ इति पर्यवसितमिति भावः । एतेन प्रथमपक्षोक्तप्रकृत्यर्थाभाव एवोपसंहृतः न प्रत्ययार्थाभावः द्वितीयपक्षोक्तः वाक्यस्य तद्बोधकत्वाभावादिति निरस्तम् । अध्याहारेण वाक्यस्य प्रत्ययार्थाभावबोधकत्वेनापि व्याख्यातत्वादिति सुधीभिर्विभावनीयम् ।
ननु प्रथमव्याख्याने हननाभावः द्वितीये विशिष्टाभावो नञर्थश्चेत्तत्साध्यमौदासीन्यं भवत्येव किमुपलक्षितत्वविशेषणेनेत्यत आह –
स्वतःसिद्धस्येति ।
अत्राभावारूपा निवृत्तिः नञर्थः प्रकृत्यर्थाभावबुद्धौ प्रकृत्यर्थाभावस्य नञर्थस्य हेतुत्वं विद्यते प्रमायाः वस्तुतन्त्रत्वात्तद्बुद्धिद्वारा प्रयत्नरूपनिवृत्तिं प्रति हेतुत्वं नञर्थस्य निवृत्तिद्वारा हेतुत्वमौदासीन्यं प्रति तस्मान्नञर्थसाध्यत्वमौदासीन्यस्येति भावः । एवं प्रत्ययार्थाभावबुद्धौ विज्ञेयम् । नन्वनादिसिद्धस्य प्रागभावरूपस्यौदासीन्यं कथं तत्साध्यत्वमिति चेत् । साध्योपरागेणेति ब्रूमः । तथाहि यदा हि पुरुषे प्रयत्नविशेषरूपा निवृत्तिस्तदा हननप्रागभाव इत्यन्वयव्याप्तिबलात्सामानाधिकरण्येन सम्बन्धेन सिद्धस्य निवृत्तिरूपसाध्यसम्बन्धित्वमित्येतावता साध्यत्वमौपचारिकमित्यनवद्यम् ।
ननु ’नेक्षेतोद्यन्तमादित्यमि’त्यादौ ईक्षणविरोधिनी मानसीसङ्कल्पक्रिया नेक्षेतेति विधीयते यथा तथा ’न हन्यादिति’ हननविरोधिनी मानसी सङ्कल्पक्रिया एव विधीयतामित्यत आह –
तस्य बटोरिति ।
प्राजापत्यसंज्ञकं व्रतमित्यर्थः । तस्य बटोर्व्रतमिति गुरुशुश्रूषयाद्यनुष्ठेयक्रियारूपकार्योपक्रमात्तु विरोधिसङ्कल्पक्रियायां नञ्शब्दस्य लक्षणा अङ्गीकृता तद्वदत्र किं नापवादकं किञ्चिदस्ति येन विरोधिक्रियायां लक्षणामङ्गीकृत्य सा विधेयतेति भावः ।
नामधात्वर्थेति ।
’अगौरसुरा’ इत्यादौ नामार्थयुक्तत्वं ’नेक्षेते’त्यत्र धार्थत्वयुक्तत्वमिति विवेकः ।
’प्रजापतिव्रतादिभ्योऽन्यत्र ब्राह्मणो न हन्तव्य’ इत्यादिषु प्रतिषेधार्थं मन्यामह इति भाष्ययोजनामभिप्रेत्य व्याचष्टे –
एतेभ्य इति ।
अन्यत्र अन्येषु ब्राह्मणो न हन्तव्य इत्यादिष्वित्यर्थः । ननु ’ न हन्यादि’त्यादौ धात्वर्थयोगे सति नञः कथमभावार्थकत्वं ’नामधात्वर्थयोगे तु नैव नञ्प्रतिषेधक’ इति वचनविरोधात् । अत्रोच्यते । वचनस्यायमभिप्रायः – यत्रापवादकमस्ति तत्र नामधत्वर्थयोगेपि स नैवाभावर्थको नञ् भवतीति, अत एव ’नेक्षेतोद्यन्तमादित्यमि’त्यत्र कार्योपक्रमस्यापवादकस्य सत्त्वान्नञो नाभावार्थकत्वं किन्तु ईक्षणविरोधिसङ्कल्पक्रियाकत्वं ’न हन्यादि’त्यादौ तु कस्यचिदप्यपवादकस्याभावान्नञः अभावार्थकत्वमेव युक्तमिति श्रीविवरणाचार्यैर्बहुधा प्रपञ्चितम् , तस्माद्वचनविरोधाभावा’न्न हन्यादि’त्यादौ धात्वर्थाद्यन्वितोपि नञ् प्रतिषेधार्थक एवेति भावः ।
तस्मादित्यस्यार्थमाह –
वेदान्तानां स्वार्थे फलवत्त्वादिति ।
पुरुषार्थानुपयोगादित्यस्यार्थमाह –
व्यर्थेति ।
उपाख्यानपदस्यार्थमाह –
कथेति ।
व्यर्थकथाप्रतिपादकार्थवादविषयमानर्थक्यसूत्रमित्यर्थः ।
भाष्ये सिंहावलोकनन्यायेन वृत्तिकारमतोक्तमनुवदति –
यदप्युक्तमिति ।
राजासौ गच्छतीति वाक्यमादिशब्दग्राह्यम् । यथा लोकवार्तां निमित्तीकृत्य प्रवृत्तस्य रजासौ गच्छतीति सिद्धराजगमनप्रतिपादकवाक्यस्य प्रयोजनाभावः तद्वद्वेदान्तशास्त्रस्येति भावः ।
दृष्टत्वादिति ।
तथा च दृष्टान्तवैषम्यमिति भावः ।
न हि शरीराद्यात्मेति ।
भयादिमत्त्वं न हि भवतीत्यन्वयः ।
मिथ्याज्ञाननिमित्तमिति ।
देहाभिमाननिमित्तमित्यर्थः । न हि धनिन इति । दुःखं न हि भवतीत्यन्वयः । सुखं न हि भवतीत्यन्वयः ।
व्याख्याने –
साक्षात्कारादिति ।
देहे विद्यमानेपि साक्षात्कारेण देहाभिमानाभावात् जीवतोपि मुक्तिर्दुरपन्हवेति सदृष्टान्तमाहेत्यर्थः ।
जीवन्मुक्ताविति ।
देहाभिमानराहित्यमभिव्यक्तासङ्गात्मस्वरूपं जीवन्मुक्तिः तस्यामित्यर्थः ।
जीवतोऽशरीरत्वमिति ।
अशरीरत्वं श्रुत्या प्रतिपाद्यते तदेव जीवन्मुक्तिश्चेत् जीवतः पुरुषस्य शरीरसम्बन्धराहित्यरूपाशरीरत्वस्य विरुद्धत्वान्न जीवन्मुक्तिरिति शङ्कार्थः ।
न च शरीरसम्बन्धराहित्यमशरीरत्वं किन्तु तत्त्वज्ञानेन आत्मनो देहसम्बन्धभ्रान्तिनाशात् शरीराद्यभिमानराहित्यं भवति तदेवाशरीरत्वं तदेव च जीवन्मुक्तिस्तथा च न जीवतो जीवन्मुक्तिविरोध इति प्रतिपादकं भाष्यमवतारयति –
असङ्गात्मस्वरूपं त्विति ।
तुशब्दः पक्षान्तरद्योतकः । नित्यस्यासङ्गात्मस्वरूपस्य तत्त्वज्ञानेनाभिव्यक्तिः अभिव्यङ्ग्यासङ्गात्मस्वरूपं वा जीवन्मुक्तिरित्यर्थः ।
अवोचामेति ।
अनुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरं नित्यमिति सिद्धमित्यत्रावोचामेति भाष्यार्थः ।
तन्नाशार्थमिति ।
अनादिसिद्धत्वेन सत्यो यः सम्बन्धस्तन्नाशार्थमुपासनारूपकार्यापेक्षेति वेदान्तानां कार्यपरत्वमिति भावः । ’आत्मनः शरीरे’त्यादि ’प्रत्यक्ष’ इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः । प्रत्यक्षः प्रत्यक्षविषय इत्यर्थः । प्रत्यक्षेणात्मनः पूर्वकर्मकृतत्वविशिष्टदेहसम्बम्धो न हि दृश्यते इति भावः । ’नाप्यस्ति कश्चि’दित्यादि ’येन तस्य गौणमुख्यते’त्यन्तः प्राक्तनो ग्रन्थस्त्वतिरोहितार्थः । येन पुरुषेणेत्यर्थः । तस्य वस्तुभेदज्ञानवतः पुरुषस्येत्यर्थः ।
भाष्ये – ये तु देहादावात्माभिमानो न मिथ्या किन्तु आत्मीयत्वगुणयोगाद्गौणः माणवकादौ सिंहाद्यभिमान इतीवेति वदन्ति तन्मतं दूषयितुं उपन्यस्यति –
तत्राहुरिति ।
आत्मीयत्वगुणं ज्ञापयति –
आत्मीयेति ।
आत्मीयत्वं आत्मसम्बन्धित्वं तच्चात्मसम्बन्ध एव स च द्विनिष्ठत्वाद्गुण इति भावः । अत्र देहोऽहमिति भासमानत्वं वा गुण इति विज्ञेयम् ।
सङ्ग्रहवाक्यं विवृणोति –
यस्य हि प्रसिद्ध इति ।
यस्य चैत्रस्य मैत्रसिंहयोर्भेदः प्रसिद्ध इत्यर्थः ।
ततश्चान्य इति ।
मुख्यात् सिंहादन्यो मैत्र इत्यर्थः ।
तस्येति ।
चैत्रस्येत्यर्थः ।
तस्मिन् पुरुषे इति ।
सिंहादन्यस्मिन्मैत्रनामके पुरुष इत्यर्थः । सिंहादन्यो मैत्रो मैत्रादन्यः सिंह इति परस्परभेदज्ञानवतश्चैत्रस्य सिंहे सिंहशब्दप्रत्ययौ मुख्यौ मैत्रे तु तौ शौर्यादिगुणयोगाद्गौणौ भवतः तदा चैत्रस्य गौणमुख्यज्ञानाश्रयत्वं गौणादिज्ञानहेतोर्भेदज्ञानस्य सत्त्वादिति भावः ।
न गौणाविति ।
भेदज्ञानरूपहेतोरभावादिति भावः ।
संशयहेतुमाह –
मन्देति ।
द्विकोटिकमुदाहृत्य एककोटिकस्थलमुदाहरति –
यथा वेति ।
कथं गौणाविति ।
आत्मानात्मनोर्भेदज्ञानाभावेन हेतोरभावादिति भावः । आत्मानात्मविवेकिनामपि श्रवणमननकुशलतामात्रपण्डितानामित्यर्थः । अनुत्पन्नतत्त्वसाक्षात्काराणामिति यावत् ।
अजावीति ।
अविरजाविशेषः स्त्रीरूपः ।
अविविक्ताविति ।
आत्मानात्मविवेकिनोत्पद्यमानावित्यर्थः ।
निश्चिताविति ।
विषयनिश्चितत्वापादकावित्यर्थः ।
व्याख्याने – ननु भ्रान्तेरुचितकारणजन्यत्वात्कथमकस्मादिति कारणं विनैव जातत्वमुच्यत इत्याशङ्क्य दृष्टरूपायाः रजतैकपक्षपातिन्याः भ्रमसामग्र्याः असम्भवाददृष्टाद्यपेक्षत्वमकस्माच्छब्देन विवक्षितमाह –
अतर्कितादृष्टादिनेति ।
भ्रमरूपकार्योत्पत्तेः पूर्वं प्रमाणेनानिश्चितत्वमदृष्टस्य अतर्कितत्वम् । एतेन कार्यैकोन्नेयमदृष्टमित्युक्तं भवति । आदिशब्देन ’सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधका’ इति श्लोकोक्तचिन्तादिकमुच्यते । तथा च दृष्टकारणस्य रजतकोट्येकपक्षपातिनः निरूपयितुमशक्यत्वाददृष्टादिकमेव तदसाधारणं कल्प्यते, अदृष्टस्य कार्यैकोन्नेयतया यथार्थकार्यमेव तत्कल्प्यते, एतदभिप्रायेणैव अदृष्टस्य अतर्कितत्वविशेषणं दत्तमिति भावः । दृष्टरूपायाः रजतैकपक्षपातिभ्रमसामग्र्याः निरूपयितुमशक्यत्वं बहुधा ब्रह्मविद्याभरणे श्रीगुरुचरणैः प्रपञ्चितमिह विस्तरभयादुपरम्यते । प्राणितीति प्राण – इत्यतः प्राक्तनो ग्रन्थः स्फुटार्थः ।
प्राणशब्दास्य फलितार्थमाह –
जीवन्नपीति ।
’पश्वादिभिश्चाविशेषादिति’ भाष्यव्याख्यानावसरे बाधिताध्यासानुवृत्त्या ह्यपरोक्षज्ञानिनां व्यवहार इति समन्वयसूत्रे वक्ष्यत इत्युक्तम् तदत्र भाष्यार्थकथनद्वारा द्योतयित्वा श्रुत्यर्थकथनद्वारा स्फुटयति –
वस्तुत इति ।
समन्वयसूत्रार्थोपसंहारव्याजेन तत्सूत्रप्रथमवर्णकार्थं स्फोरयति –
ब्रह्मात्मज्ञानादिति ।
अवान्तरवाक्यभेदेनेति ।
’मन्तव्यो निदिध्यासितव्य’ इत्यवान्तरवाक्यभेदेनेत्यर्थः । ’आत्मा वा अरे द्रष्टव्यः’ इत्यादिकमत्र महावाक्यमिति विज्ञेयम् ।
श्रवणमिति ।
ब्रह्मात्मविषयकशाब्दज्ञाने कारणत्वेन वेदान्तरूपशब्दस्य प्राधान्यं तद्गोचरत्वेन श्रवणज्ञानकरणं सत्प्रधानमित्यर्थः ।
नियमेति ।
नियमविधिपक्षे वेदान्तवाक्यैरेव श्रवणं कर्तव्यमित्याकारकनियमस्यादृष्टद्वारा ज्ञाने उपयोगः, तथा चोद्देश्यत्वादज्ञानं सर्वप्रधानं भवति श्रवणापेक्षया वेदान्तशास्त्रं तु प्रधानं मननापेक्षया श्रवणं तु प्रधानं भवतीति भावः । इयांस्तु विशेषः । श्रवणं प्रति मननादिकं अङ्गं ज्ञानं प्रति नियमाद्यदृष्टं कारणमिति ।
सर्वापेक्षेति ।
’सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति ’ भगवतः श्रीवेदव्यासस्य सूत्रम् । तस्यार्थः । विद्यायाः स्वोत्पत्तौ सर्वेषां आश्रमकर्मणां अपेक्षास्ति । कुतः ? यज्ञादिश्रुतेः सर्वकर्मणां ज्ञानसाधनत्वबोधिकायाः ’तमेतं वेदानुवचनेन’ इत्यादिश्रतेरित्यर्थः ।
ननु विद्यायाः स्वोत्पत्तौ परम्परया कर्मापेक्षावत् मोक्षेपि तदपेक्षास्त्वित्यत आह –
अश्ववदिति ।
यथा अश्वो योग्यताबलाद्रथचर्यायां नियुज्यते न लाङ्गलकर्मणि तदभावात् तद्वत्कर्मणां मोक्षे योग्यताया अभावान्नापेक्ष्यत इत्यर्थः । तथा च ज्ञानोत्पत्तौ नियमादृष्टं कारणं न मोक्षोत्पत्तावयोग्यत्वादित्यत्र सर्वापेक्षान्याय उपपादित इति मन्तव्यम् ।
अन्यत्रेत्यस्यार्थमाह –
विधेयज्ञान इति ।
तच्छब्दार्थमाह –
विनियुक्तत्वमिति ।
ज्ञानेनैव मोक्षरूपफललाभात् येन फलार्थं ज्ञातस्य ब्रह्मणः विधेयज्ञाने विनियुक्तत्वं स्यात्तस्मान्न विधिशेषत्वमिति भावः ।
पुनरारब्धवृत्तिकारमतनिरासोपसंहारद्वारा द्वितीयवर्णकार्थमुपसंहरतीत्यभिप्रेत्य प्रतीकमादाय तच्छब्दातःशब्दयोरर्थमाह –
तस्मादिति ।
सूत्रमिति ।
इदानीं वर्णकद्वयेनोक्तमर्थं अनुवदन् समन्वयसूत्रं योजयतीत्यर्थः । भाष्ये स्वतन्त्रमित्यनेन द्वितीयवर्णकार्थ उक्तः शास्त्रप्रमाणकमित्यनेन प्रथमवर्णकार्थ उक्त इति विवेकः ।
आरभ्यमाणं चेति ।
यद्यर्थकः चशब्दः, पृथक् सूत्रं यद्यारब्धव्यं तर्ह्य’थातः परिशिष्टधर्मजिज्ञासे’त्येव आरब्धव्यं स्यादिति भावः ।
व्याख्याने –
मानसधर्मविचारार्थमिति ।
मानसोपासनारूपान्तरधर्मविचारार्थमित्यर्थः ।
उपासनारूपान्तरधर्मजिज्ञास्यत्वपक्षे पूर्ववाद्यभिप्रायेण रचितसूत्रस्यार्थमाह –
अथ बाह्येति ।
तृतीयाध्याय इति ।
पूर्वतन्त्रस्य तृतीयाध्याय इत्यर्थः ।
अथशब्दार्थमुक्त्वा अतःशब्दार्थमाह –
शेषिणेति ।
एवमारभ्येतेति मानसोपासनारूपधर्मजिज्ञासा प्रस्तुता चेदथातः परिशिष्टधर्मजिज्ञासेत्येवमारभ्येत न त्वारब्धम् , तथाचाथातो ब्रह्मजिज्ञासेत्येवारब्धत्वान्नान्तरोपासना प्रस्तुतेति गम्यते तस्मात्तदर्थमारम्भ इत्ययुक्तमिति भावः । ननु तर्हि पुर्वकाण्डेप्यविचारितत्वात् कथमान्तरोपासना ज्ञातव्येति चेत् । किं निष्ठोऽयमपराधः ब्रह्मजिज्ञासेत्यारब्धत्वात् ’आन्तरोपासनार्थमारम्भ’ इत्ययुक्तमित्युक्तम् , अत एवोपासनानि प्रसक्तानुप्रसक्त्या उत्तरत्र विचारितानीति मन्तव्यम् ।
सूत्राणामिति ।
सूत्रकरणमित्यर्थः । सूत्ररचना युक्तेति भावः ।
चक्षुरादीन्यद्वैतात्मावगतौ सत्यां प्रमेयादिरहितत्वात्प्रमाणानि भवितुं नार्हन्तीति भाष्यार्थमाह –
न पश्चादिति ।
हेतुलाभार्थं प्रथमतः प्रथमश्लोकस्य उत्तरार्धं व्याचष्टे –
सदबाधितमिति ।
प्रतीकमादयात्मशब्दार्थमाह –
आत्मेति ।
विषयानादत्त इत्यात्मशब्दार्थमुक्त्वा तात्पर्यमाह –
साक्षीति ।
आत्मा त्रिविधः गौणात्मा मिथ्यात्मा मुख्यात्मा चेति । आद्य आह –
पुत्रादिरिति ।
गौणश्चासावात्माभिमानश्चेति विग्रहः । पुत्रदारादिषु आत्माभिमानो गौणः यथा स्वसुखेन सुखी स्वदुःखेन दुःखी तथा पुत्रदारादिगतेनापीति सोयं गौणः न मिथ्याभिमानः भेदस्यानुभवसिद्धत्वात्तथा च पुत्रदारादिष्वहमित्यात्माभिमानेन पुत्रादिर्गौणात्मेति भावः ।
द्वितीय आह –
नरोहमिति ।
देहेन्द्रियादिष्वभेदानुभवेन भेदज्ञानाभावान्नात्माभिमानो गौणः किन्तु शुक्तौ रजतज्ञानवन्मिथ्या तथा च देहादावहमित्यभिमानेन देहादिर्मिथ्यात्मेति भावः ।
मुख्यात्मानं निरूपयितुं द्वितीयश्लोकमवतारयति –
नन्विति ।
अन्वेष्टव्येत्यस्य व्याख्यानं –
ज्ञातव्येति ।
अन्विष्टपदस्यार्थमाह –
ज्ञात इति ।
तृतीयश्लोकमवतारयति –
प्रमातृत्वस्येति ।
यद्वदित्यस्यार्थमाह –
यथेति ।
आत्माबोधावधि प्रामाण्यमित्यन्वयः ।
ननु ज्ञानानन्तरं यथा चक्षुरादीनां अप्रामाण्यं तथा वेदान्तानामप्रामाण्यं स्यात् इत्यत आह –
वेदान्तानान्त्विति ।
ज्ञानानन्तरं वेदान्तानां मिथ्यात्वेपि अबाध्यवस्तुबोधकत्वात् नाप्रामाण्यम् । न च तर्हि प्रामाण्यं स्यादिति वाच्यम् । अद्वैतज्ञानिनः शब्दतज्जन्यप्रमाया अभावेन प्रमाकरणत्वरूपप्रामाण्यस्याभावात् , तस्मात् ज्ञानानन्तरं वेदान्तानां नाप्रामाण्यं न प्रामाण्यं चेति रहस्यम् ।
अकः सवर्णे दीर्घ इति – सूत्रेणात्मनिश्चयादित्यत्र सन्धिमभिप्रेत्य प्रतीकमादाय पदविभागमाह –
आत्मनिश्चयादिति ।
आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः ।
शङ्कायाः कः परिहार इति जिज्ञासायामाह –
प्रमातृत्वस्येति ।
अद्वितीयनिरतिशयानन्दचैतन्यैकज्ञानसर्वज्ञसर्वेश्वरसर्वशक्तिनिरवयवस्वप्रकाशप्रत्यग्भूतब्रह्मात्मन्यपरोक्षानुभवात्प्राग्भेदात्मप्रत्ययवत्सर्वो व्यवहारो यथा दर्शनमुपपद्यते अस्मिंश्चापरोक्षे अवभासमानादिप्रमात्रादिबाधात्सर्वो व्यवहारो निवर्तत इति श्लोकार्थः ।
स्वाभिमतमिष्टदेवतानामोच्चारणपूर्वकं फलितं समन्वयार्थमाह –
रामनाम्नीति ।