अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रथमाध्याये प्रथमः पादः (२)

एवं च सतीति ।
चोऽवधारणे । उक्तरीत्या ब्रह्मणः स्वातन्त्र्ये सत्येव भगवतो व्यासस्य पृथ­क्शा­स्त्र­कृ­ति­र्युक्ता, धर्म­वि­ल­क्ष­ण­प्र­मे­य­ला­भात् । वेदान्तानां कार्यपरत्वे तु प्रमेयाभेदान्न युक्तेत्यर्थः ।

ननु मान­स­ध­र्म­वि­चा­रार्थं पृथगारम्भ इत्याशङ्क्याह -
आरभ्यमाणं चेति ।
अथ बाह्य­सा­ध­न­ध­र्म­वि­चा­रा­न­न्त­रम् । अतो बाह्यधर्मस्य शुद्धिद्वारा मान­सो­पा­स­ना­ध­र्म­हे­तु­त्वा­त्प­रि­शिष्टो मानसधर्मो जिज्ञास्य इति सूत्रं स्यादिति ।

अत्र दृष्टान्तमाह -
अथेति ।
तृतीयाध्याये श्रुत्यादिभिः शेष­शे­षि­त्व­नि­र्ण­या­न­न्तरं शेषिणा शेषस्य प्रयो­ग­स­म्भ­वात्कः क्रतुशेषः को वा पुरुषशेषः इति विज्ञास्यत इत्यर्थः ।

एवमारभ्येत ।
नत्वारब्धम् , तस्मा­द­वा­न्त­र­ध­र्मा­र्थ­मा­रम्भ इत्ययुक्तमिति भावः ।

स्वमते सूत्रा­नु­गु­ण्य­म­स्ती­त्याह -
ब्रह्मेति ।
जैमिनिना ब्रह्म न विचारितमिति तज्जि­ज्ञा­स्य­त्व­सू­त्रणं युक्तमित्यर्थः ।

वेदा­न्ता­र्थ­श्चे­द­द्वैतं तर्हि द्वैत­सा­पे­क्ष­वि­ध्या­दीनां का गतिरित्याशङ्क्य ज्ञानात्प्रागेव तेषां प्रामाण्यं न पश्चादित्याह -
तस्मादिति ।
ज्ञानस्य प्रमे­य­प्र­मा­तृ­बा­ध­क­त्वा­दि­त्यर्थः ।

ब्रह्म न कार्यशेषः, तद्बो­धा­त्प्रा­गेव सर्वव्यवहार इत्यत्र ब्रह्मविदां गाथामुदाहरति -
अपिचेति ।
सदबाधितं ब्रह्म पूर्वमात्मा विषयानादत्त इति सर्व­सा­क्ष्य­ह­मि­त्ये­वं­बोधे जाते सति पुत्रदेहादेः सत्ताबाधनात् माया­मा­त्र­त्व­नि­श्च­या­त्पु­त्र­दा­रा­दि­भि­र­ह­मिति स्वीय­दुः­ख­सु­ख­भा­व­त्व­गु­ण­यो­गा­द्गौ­णा­त्मा­भि­मा­नस्य नरोऽहं कर्ता मूढ इति मिथ्या­त्मा­भि­मा­नस्य च सर्व­व्य­व­हा­र­हे­तो­र­सत्वे कार्यं विधि­नि­षे­धा­दि­व्य­व­हारः कथं भवेत् , हेत्वभावान्न कथ­ञ्चि­द्भ­वे­दि­त्यर्थः ।

नन्वहं ब्रह्मेति बोधो बाधितः, अहमर्थस्य प्रमातुः ब्रह्म­त्वा­यो­गा­दि­त्या­शङ्क्य प्रमा­तृ­त्व­स्या­ज्ञा­न­वि­ल­सि­ता­न्तः­क­र­ण­ता­दा­त्म्य­कृ­त­त्वान्न बाध इत्याह -
अन्वेष्टव्येति ।
‘य आत्मापहतपाप्मा विजरो विमृ­त्यु­र्वि­शोकः सोऽन्वेष्टव्य’ इति श्रुतेः ज्ञात­व्य­प­र­मा­त्म­वि­ज्ञा­ना­त्प्रा­गे­वा­ज्ञा­ना­च्चि­द्धा­तो­रा­त्मानः प्रमातृत्वं प्रमातैव ज्ञातः सन् पाप्म­रा­ग­द्वे­ष­म­र­ण­वि­व­र्जितः परमात्मा स्यादित्यर्थः ।

प्रमातृत्वस्य कल्पितत्वे तदाश्रितानां प्रमाणानां प्रामाण्यं कथमित्यत आह -
देहेति ।
यथा देहा­त्म­त्व­प्र­त्ययः कल्पितो भ्रमोऽपि व्यवहाराङ्गतया मानत्वेनेष्यते वैदिकैः, तद्व­ल्लौ­कि­क­म­ध्य­क्षा­दि­क­मा­त्म­बो­धा­वधि व्यवहारकाले बाधाभावात् व्यावहारिकं प्रामा­ण्य­मि­ष्य­ताम् , वेदान्तानां तु काल­त्र­या­बा­ध्य­बो­धि­त्वा­त्त­त्त्वा­वे­दकं प्रामाण्यमिति तुशब्दार्थः ।

आऽऽत्मनिश्चयात् ।
आऽऽत्म­नि­श्च­या­दि­त्या­ङ्म­र्या­दा­याम् । प्रमातृत्वस्य कल्पितत्वेऽपि विष­या­बा­धा­त्प्रा­मा­ण्य­मि­ति­भावः ॥
रामनाम्निपरे धाम्नि कृत्स्ना­म्ना­य­स­म­न्वयः ।
कार्य­ता­त्प­र्य­बा­धेन साधितः शुद्धबुद्धये ॥ ४ ॥

वृत्त­म­नू­द्या­क्षे­प­ल­क्ष­णा­म­वा­न्त­र­स­ङ्ग­ति­माह
साङ्ख्या­द­य­स्त्विति ।
भवतु सिद्धे वेदान्तानां समन्वयः, तथापि मानान्तरायोगे ब्रह्मणि शक्ति­ग्र­हा­यो­गात् , कूट­स्थ­त्वे­ना­वि­का­रि­त्वेन कारणत्वायोगाच्च न समन्वयः । किन्तु सर्गाद्यं कार्यं जडप्रकृतिकम् , कार्यत्वात् , घट­व­ति­त्य­नु­मा­न­गम्ये त्रिगुणे प्रधाने समन्वय इत्या­क्षि­प­न्ती­त्यर्थः । सिद्धं माना­न्त­र­ग­म्य­मे­वे­त्या­ग्रहः शक्तिग्रहार्थः । अत एव प्रधा­ना­द­व­नु­मा­नो­प­स्थिते शक्ति­ग्र­ह­स­म्भ­वा­त्त­त्प­र­तया वाक्यानि योज­य­न्ती­त्यु­क्तम् । किं च 'तेजसा सोम्यशुङ्गेन सन्मू­ल­म­न्विच्छ' इत्याद्याः श्रुतयः ।

शुङ्गेन लिङ्गेन कारणस्य स्वतोऽन्वेषणं दर्शयन्तो माना­न्त­र­सि­द्ध­मेव जगत्कारणं वदन्तीत्याह
सर्वेष्विति ।

नन्व­ती­न्द्रि­य­त्वेन प्रधा­ना­दे­र्व्या­प्ति­ग्र­हा­यो­गा­त्क­थ­म­नु­मा­नम् , तत्राह
प्रधानेति ।
यत्कार्यं तज्जडप्रकृतिकम् , यथा घटः । यज्जडं तच्चे­त­न­सं­यु­क्तम् , यथा रथादिरिति सामा­न्य­तो­दृ­ष्टा­नु­मा­न­गम्याः प्रधानपुरुष संयोगा इत्यर्थः ।

अद्वि­ती­य­ब्र­ह्मणः कार­ण­त्व­वि­रो­धि­म­ता­न्त­र­माह
काणादास्त्विति ।
सृष्टिवाक्येभ्य एव परा­र्था­नु­मा­न­रू­पेभ्यो यत्कार्यं तद्बु­द्धि­म­त्क­र्तृ­क­मि­ती­श्वरं कर्तारम् , परमाणूंश्च यत्कार्यद्रव्यं तत्स्व­न्यू­न­प­रि­मा­ण­द्र­व्या­र­ब्द­मि­त्य­नु­मि­मत इत्यर्थः ।

अन्येऽपि बौद्धादयः । 'असद्वा इदमग्र आसीत्' इत्यादि वाक्याभासः । यद्वस्तु तच्छून्यावसानम् , यथा दीप इति युक्त्याभासः । एवं वादि­वि­प्र­ति­प­त्ति­मुक्त्वा तन्नि­रा­सा­यो­त्त­र­सू­त्र­स­न्द­र्भ­म­व­ता­र­यति
तत्रेति ।
वादिविवादे सतीत्यर्थः ।

व्याक­र­ण­मी­मां­सा­न्या­य­नि­धि­त्वा­त्प­द­वा­क्य­प्र­मा­ण­ज्ञ­त्वम् । यज्जगत्कारणं तच्चेतनमचेतनं वेति ईक्ष­ण­स्य­मु­ख्य­त्व­गौ­ण­त्वाभ्यां संशये पूर्वपक्षमाह
तत्र साङ्ख्या इति ।
अपि­श­ब्दा­वे­व­का­रार्थौ । 'सदेव' इत्यादि स्पष्ट­ब्र­ह्म­लि­ङ्ग­वा­क्यानां प्रधा­न­प­र­त्व­नि­रा­सेन ब्रह्म­प­र­त्वोक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे जीव­स्य­प्र­धा­नै­क्यो­पास्तिः, सिद्धा­न्ते­ब्र­ह्मै­क्य­ज्ञा­न­मिति विवेकः ।

अचेतनसत्वस्यैव सर्वज्ञत्वम् , न चेतनस्येत्याह
तेन च सत्वधर्मेणेति ।

न केवलस्येति ।
जन्यज्ञानस्य सत्व­ध­र्म­त्वा­न्नि­त्यो­प­ल­ब्धे­र­का­र्य­त्वा­च्चि­न्मा­त्रस्य न सर्व­ज्ञा­न­क­र्तृ­त्व­मि­त्यर्थः ।

ननु गुणानां साम्यावस्थायां सत्व­स्यो­त्क­र्षा­भा­वा­त्कथं सर्वज्ञतेत्याह
त्रिगुणत्वादिति ।
त्रयो गुणा एव प्रधानं तस्यसाम्यावस्था तदभेदात् प्रधा­न­मि­त्यु­च्यते । तदवस्थायामपि प्रलये सर्व­ज्ञा­न­श­क्ति­म­त्व­रूपं सर्व­ज्ञ­त्व­म­क्ष­त­मि­त्यर्थः ।

ननु मया किमिति शक्तिमत्वरूपं गौणं सर्व­ज्ञ­त्व­म­ङ्गी­का­र्य­मिति, तत्राह
नहीति ।

अनित्यज्ञानस्य प्रलये नाशा­च्छ­क्ति­मत्वं वाच्यं कार­का­भा­वा­च्चे­त्याह
अपि चेति ।

मत­द्व­य­सा­म्य­मुक्त्वा स्वमते विशेषमाह
अपि चेति ।

ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते । प्रधानादेः कारणत्वं तर्कपादे युक्ति­भि­र्नि­र­स्यति । अधुना तु श्रुत्या निरस्यति
ईक्ष­ते­र्ना­श­ब्द­मिति ।
ईक्ष­ण­श्र­व­णा­द्वे­द­श­ब्दा­वा­च्य­म­शब्दं प्रधानम् । अशब्दत्वान्न कारणमिति सूत्रयोजना । तत्स­च्छ­ब्द­वाच्यं कारणमैक्षत ।

ईक्षणमेवाह
बह्विति ।

बहु प्रपञ्चरूपेण स्थित्य­र्थ­म­ह­मे­वो­पा­दा­न­तया कार्या­भे­दा­ज्ज­नि­ष्या­मी­त्याह
प्रजेति ।

एवं तत्सदीक्षित्वा आकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्याह
तदिति ।
मिषच्चलत् । सत्वा­क्रा­न्त­मिति यावत् स जीवाभिन्नः परमात्मा 'प्राण­म­सृ­जत प्राणा­च्छ्रद्धां खं वायु­र्ज्यो­ति­रापः पृथिवीन्द्रियं मनो अन्न­म­न्ना­द्वीर्यं तपो मन्त्राः कर्मलोकालोकेषु नाम च' इत्युक्ताः षोडशकलाः ।

ननु 'इक्श्तिपो धातु­नि­र्देशे' इति कात्या­य­न­स्म­र­णा­दी­क्ष­ते­रिति पदेन श्तिबन्तेन धातुरुच्यते । तेन धात्वर्थमीक्षणं कथं व्याख्यायत इत्याशङ्क्य लक्षणयेत्याह
ईक्षितेरितिचेति ।
'इति­क­र्त­व्य­ता­वि­धे­र्य­जतेः पूर्व­वत्वं' इति जैमिनिसूत्रे यथा यजतिपदेन लक्षणया धात्वर्थो याग उच्यते तद्व­दि­हा­पी­त्यर्थः । सौर्या­दि­वि­कृ­ति­या­ग­स्या­ङ्गा­ना­म­वि­धा­ना­त्पू­र्व­द­र्शा­दि­प्र­कृ­ति­स्था­ङ्ग­व­त्व­मिति सूत्रार्थः ।

धात्व­र्थ­नि­र्दे­शेन लाभमाह
तेनेति ।

सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमीक्षणमेव तपः । तपस्विनः फलमाह
तस्मादिति ।

एतत्कार्यं सूत्राख्यं ब्रह्म । केव­ल­स­त्त्व­वृ­त्ते­र्ज्ञा­न­त्व­म­ङ्गी­कृत्य प्रधानस्य सर्वज्ञत्वं निरस्तम् । सम्प्रति न केव­ल­ज­ड­वृ­त्ति­र्ज्ञा­न­श­ब्दार्थः, किन्तु साक्षि­बो­ध­वि­शिष्टा वृत्ति­र्वृ­त्ति­व्य­क्त­बोधो वा ज्ञानम् । तच्चान्धस्य प्रधानस्य नास्तीत्याह
अपिचेति ।
साक्षित्वमस्ति, येनो­क्त­ज्ञा­न­वत्वं स्यादिति शेषः ।

ननु सत्त्व­वृ­त्ति­मा­त्रेण योगिनां सर्व­ज्ञ­त्व­मु­क्त­मि­त्यत आह
योगि­ना­न्त्त्विति ।

सेश्व­र­सा­ङ्ख्य­म­त­माह
अथेति ।

सर्वज्ञत्वं नाम सर्व­गो­च­र­ज्ञा­न­व­त्वम् , न ज्ञानकर्तृत्वम् , ज्ञानस्य कृत्य­सा­ध्य­त्वा­दिति हृदिकृत्वा पृच्छति
इदं तावदिति ।

सर्वं जानातीति शब्दासाधुत्वं शङ्कते
ज्ञाननित्यत्व इति ।

नित्यस्यापि ज्ञानस्य तत्त­द­र्थो­प­हि­त­त्वेन ब्रह्म­स्व­रू­पा­द्भेदं कल्पयित्वा कार्य­त्वो­प­चा­रा­द्ब्र­ह्म­ण­स्त­त्क­र्तृ­त्व­व्य­प­देशः साधुरिति सदृष्टान्तमाह
न, प्रततेति ।
सन्ततेत्यर्थः । असत्यपि अविवक्षितेऽपि ।

ननु प्रका­श­ते­र­क­र्म­क­त्वा­त्स­विता प्रकाशत इति प्रयोगेऽपि जानातेः सक­र्म­क­त्वा­त्क­र्मा­भावे 'तदै­क्षत' इत्ययुक्तमिति, तत्राह
कर्मापेक्षायां त्विति ।

कर्मा­वि­व­क्षा­या­मपि प्रकाशरूपे सवितरि प्रकाशत इति कथ­ञ्चि­त्प्र­का­श­क्रि­या­श्र­य­त्वेन कर्तृ­त्वो­प­चा­र­व­च्चि­दा­त्म­न्यपि चिद्रू­पे­क्ष­ण­क­र्तृ­त्वो­प­चा­रान्न वैष­म्य­मि­त्युक्तं पूर्वम् । अधुना तु कुम्भकारस्य स्वोपा­ध्य­न्तः­क­र­ण­वृ­त्ति­रू­पे­क्ष­ण­व­दी­श्व­र­स्यापि स्वोपा­ध्य­वि­द्यायाः विवि­ध­सृ­ष्टि­सं­स्का­रायाः प्रल­या­व­सा­ने­नो­द्बु­द्ध­सं­स्का­रायाः सर्गोन्मुखः कश्चित्परिणामः सम्भवति, अतः तस्यां सूक्ष्मरूपेण निलीन सर्व­का­र्य­वि­ष­य­क­मी­क्ष­णम् , तस्य कार्यत्वात् कर्मसद्भावाच्च तत्कर्तृत्वं मुख्यमिति द्योतयति
सुतरामिति ।
ननु मायो­पा­धि­क­बि­म्ब­चि­न्मा­त्र­स्ये­श्व­रस्य कथमीक्षणं प्रति मुख्यं कर्तृत्वम् , कृत्यभावादिति चेन्न, कार्या­नु­कू­ल­ज्ञा­न­वत एव कर्तृ­त्वा­दी­श्व­र­स्यापि ईक्ष­णा­नु­कू­ल­नि­त्य­ज्ञा­न­व­त्त्वात् । न च नित्यज्ञानेनैव कर्तृ­त्व­नि­र्वा­हा­त्कि­मी­क्ष­णे­नेति वाच्यम् , वाय्वादेरेव शब्द­व­त्त्व­स­म्भ­वा­त्कि­मा­का­शे­ने­त्य­ति­प्र­स­ङ्गात् । अतः श्रुत­त्वा­द्वा­य्वा­दि­का­र­ण­त्वे­ना­का­श­व­दै­क्ष­ते­त्या­ग­न्तु­क­त्वेन श्रुत­मी­क्ष­ण­मा­का­शा­दि­हे­तु­त्वे­ना­ङ्गी­का­र्य­मि­त्य­लम् । अव्याकृते सूक्ष्मात्मना स्थिते व्याकर्तुं स्थूली­क­र्तु­मिष्टे इत्यर्थः ।

अव्या­कृ­त­का­र्यो­प­र­क्त­चै­त­न्य­रू­पे­क्ष­णस्य कार­का­न­पे­क्ष­त्वेऽपि वृत्ति­रू­पे­क्ष­णस्य कारकं वाच्य­मि­त्या­श­ङ्क्याह
अपिचाविद्यादिमत इति ।
यथैकस्य ज्ञानं तथान्यस्यापीति निय­मा­भा­वा­न्मा­यि­नोऽ­श­री­र­स्यापि जन्ये­क्ष­ण­का­र­क­त्व­मिति भावः ।

ननु यज्जन्यज्ञानं तच्छ­री­र­सा­ध्य­मिति व्याप्ति­र­स्ती­त्या­शङ्क्य श्रुतिबाधमाह
मन्त्रौ चेति ।

कार्यं शरीरम् । कारणमिन्द्रियम् । अस्येश्वरस्य शक्तिर्माया स्वका­र्या­पे­क्षया परा, विचि­त्र­का­र्य­का­रि­त्वा­द्द्वि­विधा । सा त्वैति­ह्य­मा­त्र­सिद्धा न प्रमा­ण­सि­द्धे­त्याह
श्रूयत इति ।
ज्ञानरूपेण बलेन या सृष्टिक्रिया सा स्वाभाविकी । अना­दि­मा­या­त्म­क­त्वा­दि­त्यर्थः । ज्ञानस्य चैतन्यस्य बलं माया­वृ­त्ति­प्र­ति­बि­म्बि­त­त्त्वेन स्फुटत्वं तस्य क्रियानाम बिम्बत्वेन ब्रह्मणो जनकता ज्ञातृतापि स्वाभाविकीति वार्थः । अपाणिरपि ग्रहीता । अपादोऽपि जवनः । ईश्व­र­स्य­स्व­कार्ये लौकि­क­हे­त्व­पेक्षा नास्तीति भावः । अग्र्यमनादिम् , पुरुषमनन्तम् , महान्तं विभुमित्यर्थः ।

अपसिद्धान्तं शङ्कते
नन्विति ।
ज्ञाने प्रति­ब­न्ध­क­का­र­णा­न्य­वि­द्या­रा­गा­दीनि श्रुतावत ईश्वरादन्यो नास्तीत्यन्वयः ।

औपाधिकस्य जीवे­श्व­र­भे­द­स्य­म­यो­क्त­त्वा­न्ना­प­सि­द्धान्त इत्याह
अत्रोच्यत इति ।
तत्कृत उपा­धि­स­म्ब­न्ध­कृतः शब्द­त­ज्ज­न्य­प्र­त्य­य­रूपो व्यवहारः । असङ्कीर्ण इति शेषः ।

अव्यतिरेके कथ­म­स­ङ्क­र­स्त­त्राह
तत्कृता चेति ।
उपा­धि­स­म्ब­न्ध­कृ­ते­त्यर्थः ।

तथेति ।
देहा­दि­स­म्ब­न्धस्य हेतु­र­वि­वे­कोऽ­ना­द्य­विद्या तया कृत इत्यर्थः । अविद्यायां हि प्रतिबिम्बो जीवः, बिम्ब­चै­त­न्य­मी­श्वर इति भेदोऽ­वि­द्या­धी­न­स­त्ताकः, अनादिभेदस्य कार्यत्वायोगात् । कार्य­बु­द्ध्या­दि­कृ­त­प्र­मा­त्रा­दि­भे­दश्च कार्य एवेति विवेकः ।

नन्व­ख­ण्ड­स्व­प्र­का­शा­त्मनि कथमविवेकः, तत्राह
दृश्यते चेति ।
वस्तुतो देहा­दि­भि­न्न­स्व­प्र­का­श­स्यैव सत आत्मनो नरोऽहमिति भ्रमो­दृ­ष्ट­त्वा­द्दु­र­प­ह्नवः । स च मिथ्याबुद्ध्या मीयत इति मिथ्या­बु­द्धि­मा­त्रेण भ्रान्ति­सि­द्धा­ज्ञा­नेन कल्पित इति चकारार्थः ।

यद्वो­क्त­मि­थ्या­बुद्धौ लोकानुभवमाह
दृश्यते चेति ।
इत्थम्भावे तृतीया । भ्रान्त्यात्मना दृश्यत इत्यर्थः । पूर्व­पू­र्व­भ्रा­न्ति­मा­त्रेण दृश्यते न च प्रमेयतयेति वार्थः ।

कूठस्थस्यापि मायिकं कारणत्वं युक्तमित्याह
यथा त्विति ।
यत्त्ववेद्ये शब्द­श­क्ति­ग्र­हा­योग इति, तन्न । सत्या­दि­प­दा­ना­म­बा­धि­ता­द्य­र्थेषु लोका­व­ग­त­श­क्ति­कानां वाच्चै­क­दे­श­त्वे­नो­प­स्थि­ता­ख­ण्ड­ब्र­ह्म­ल­क्ष­क­त्वा­दिति स्थितम् ॥ ५ ॥

संप्र­त्यु­त्त­र­सू­त्र­नि­र­स्या­श­ङ्का­माह
अत्राहेति ।
अन्यथापि अचेतनत्वेऽपि ।

ननु प्रधानस्य चेतनेन किं साम्यं येन गौणमीक्षणमिति तत्राह
यथेति ।
निय­त­क्र­म­व­त्का­र्य­का­रित्वं साम्यमित्यर्थः । ‘उपचारप्राये वचनात्’ इति गौणार्थप्रचुरे प्रकरणे समा­म्ना­ना­दि­त्यर्थः ।

अप्ते­ज­सो­रि­वा­चे­तने सति गौणी ईक्षतिरिति चेन्न, आत्म­श­ब्दा­त्स­त­श्चे­त­न­त्व­नि­श्च­या­दिति सूत्रार्थमाह
यदु­क्त­मि­त्या­दिना ।
सा प्रकृता सच्छब्दवाच्या इयमीक्षित्री देवता परोक्षा हन्त इदानीं भूत­सृ­ष्ट्य­न­न्त­र­मिमाः सृष्टा­स्ति­स्र­स्ते­जोऽ­ब­न्न­रूपाः । परो­क्ष­त्वा­द्दे­वता इति द्विती­या­ब­हु­व­च­नम् । अनेन पूर्व­क­ल्पा­नु­भू­ते­न­जी­वे­ना­त्मना मम स्वरूपेण ता अनुप्रविश्य तासां भोग्यत्वाय नाम च रूपं च स्थूलं करि­ष्या­मी­त्यै­क्ष­ते­त्य­न्वयः । लौकि­क­प्र­सिद्धेः, 'जीव प्राण­धा­रणे' इति धातो­र्जी­व­ति­प्रा­णा­न्धा­र­य­तीति निर्व­च­ना­च्चे­त्यर्थः ।

अत त्विति ।
स्वपक्षे तु बिम्ब­प्र­ति­बि­म्ब­यो­र्लोके भेद­स्य­क­ल्पि­त­त्व­द­र्श­ना­ज्जीवो ब्रह्मणः सत आत्मेति युक्तमित्यर्थः ।

जीवस्य सच्छब्दार्थं प्रत्या­त्म­श­ब्दा­त्सन्न प्रधा­न­मि­त्युक्त्वा सतौ जीवं प्रत्या­त्म­श­ब्दान्न प्रधानमिति विधान्तरेण हेतुं व्याचष्टे
तथेति ।
स यःसदाख्य एषोऽणिमापरम सूक्ष्मः, ऐतदात्मकमिदं सर्वं जगत् , तत्सदेव सत्यम् , विकारस्य मिथ्यात्वात् । सः सत्पदार्थः सर्वस्यात्मा । हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव सदभाधितं सर्वात्मकं ब्रह्मासीति श्रुत्यर्थः । इत्यत्रोपदिशति । अत­श्चे­त­ना­त्मा­क­त्वात् सच्चेतनमेवेति वाक्यशेषः ।

यदु­क्त­म­प्ते­ज­सो­रिव सत ईक्षणं गौणमिति, तत्राह
अत्ते­ज­सो­स्त्विति ।
नाम­रू­प­यो­र्व्या­क­रणं सृष्टिः । आदिपदान्नियमनम् । अप्ते­ज­सो­र्दृ­ग्वि­ष­य­त्वा­त्सृ­ज्य­त्वा­न्नि­य­म्य­त्वा­च्चा­चे­त­न­त्व­मी­क्ष­णस्य मुख्यत्वे बाधकमस्ति, साधकं च नास्तीति हेतो­र्यु­क्त­मी­क्ष­णस्य गौणत्वमिति योजना । चेत­न­व­त्का­र्य­का­रित्वं गुणः 'तेज ऐक्षत' चेत­न­व­त्का­र्य­का­री­त्यर्थः ।

यद्वा तेजःपदेन तदधिष्ठानं सल्लक्ष्यते । तथाच मुख्य­मी­क्ष­ण­मि­त्याह
तयोरिति ।

स्यादेतद्यदि सत ईक्षणं मुख्यं स्यात्तदेव कुत इत्यत आह
सतस्त्विति ।
गौण­मु­ख्य­यो­र­तु­ल्ययोः संशयाभावेन गौण­प्रा­य­पा­ठ­स्या­नि­श्चा­य­क­त्वा­दा­त्म­श­ब्दाच्च सत ईक्षणं मुख्यमित्यर्थः ॥ ६ ॥

आत्म­हि­त­का­रि­त्व­गु­ण­यो­गा­दा­त्म­श­ब्दोऽपि प्रधाने गौण इति शङ्कते
अथेत्यादिना ।

आत्मशब्दः प्रधानेऽपि मुख्यो नाना­र्थ­क­त्वा­दि­त्याह
अथवेति ।

नानार्थत्वे दृष्टान्तः
यथेति ।
'अथैष ज्योतिः’ श्रुत्या सहस्रदक्षिणाके क्रतौ ज्योतिष्टोमे लोकप्रयोगादग्नौ च ज्योतिःशब्दो यथा मुख्य­स्त­द्व­दि­त्यर्थः ।

तस्मि­न्स­त्प­दार्थे निष्टा अभेदज्ञानं यस्य स सन्निष्ठस्तस्य मुक्ति­श्र­व­णा­दिति सूत्रार्थमाह
नेत्यादिना ।

श्रुतिः सम­न्व­य­सू­त्रे­व्या­ख्याता । अन­र्था­ये­त्युक्तं प्रपञ्चयति
यदि चाज्ञस्येति ।
कश्चित्किल दुष्टात्मा महारण्यमार्गे पतितमन्धं स्वबन्धुनगरं जिगमिषुं बभाषे, किमात्रायुष्मता दुःखितेन स्थीयत इति । स चान्धः सुखां वाणीमाकर्ण्य तमाप्तं मत्वोवाच, अहो मद्भागधेयम् , यदत्र भवान्मां दीनं स्वाभी­ष्ट­न­ग­र­प्रा­प्य­स­मर्थं भाषत इति । स च विप्र­लि­प्सु­र्दु­ष्ट­गो­यु­वा­न­मा­नीय तदी­य­ला­ङ्गू­ल­मन्धं ग्राहयामास । उपदिदेश च एनमन्धम् , एष गोयुवा त्वां नगरं नेष्यति, मा त्यज लाङ्गूलमिति । स चान्धः श्रद्धालुतया तद­त्य­ज­न्स्वा­भी­ष्ट­म­प्रा­प्या­न­र्थ­प­र­म्परां प्राप्तः । तेन न्यायेनेत्यर्थः ।

तथा सतीति ।
आत्मज्ञानाभावे सति विहन्येत मोक्षं न प्राप्नु­या­त्प्र­त्यु­ता­नर्थं संसारं च प्राप्नु­या­दि­त्यर्थः ।

ननु जीवस्य प्रधा­नै­क्य­स­म्प­दु­पा­स­ना­र्थ­मिदं वाक्या­म­स्त्विति, तत्राह
एवं च सतीति ।
अबा­धि­ता­त्म­प्र­मायां सत्यामित्यार्थः ।

कस्य­चि­दा­रो­पि­त­चो­र­त्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टः, तद्दृष्टान्तेन सत्ये ब्रह्मणि अह­मि­त्य­भि­स­न्धि­मतो मोक्षो यथा 'सत्या­भि­स­न्ध­स्तप्तं परशुं गृह्णाति स न दह्यतेऽथ मुच्यते' इति श्रुत्योपदिष्टः । स उपदेशः सम्पत्पक्षे न युक्तः इत्याह
अन्यथेति ।

देह­मु­त्था­प­य­ती­त्युक्थं प्राणः । तस्मा­न्मो­क्षो­प­दे­शा­न्मुख्ये सम्भवति गौण­त्व­स्या­न्या­य्य­त्वा­च्चा­त्म­शब्दः सति मुख्य इत्याह
अपि चेति ।
क्वचिद्भृत्यादौ । सर्व­त्रा­ह­मा­त्मे­त्य­त्रापि मुख्य आत्मशब्दो न स्यादित्यर्थः ।

चेत­न­त्वो­प­चा­रा­द्भू­ता­दिषु ।
सर्वत्र चैत­न्य­ता­दा­त्म्या­दि­त्यर्थः ।

आत्म­श­ब्द­श्चे­त­न­स्यै­वा­सा­धा­रण इत्युक्तम् । अस्तु­वाऽ­व्या­पि­व­स्तूनां साधारणस्तथापि तस्यात्र श्रुतौ प्रधानपरत्वेऽपि निश्चा­य­का­भा­वान्न प्रधा­न­वृ­त्ति­ते­त्याह
साधारणत्वेऽपीति ।

चेतनवाचित्वे तु प्रकरणं श्वेतकेतुपदं च निश्चा­य­क­म­स्ती­त्याह
प्रकृतं त्विति ।

उपपदस्य निश्चायकत्वं स्फुटयति
नहीति ।

ततः किम् , तत्राह
तस्मादिति ।

आत्मशब्दो ज्योतिः­श­ब्द­व­न्ना­ना­र्थक इत्युक्तं दृष्टान्तं निरस्यति
ज्योतिरिति ।

कथं तर्हि 'ज्योतिषा यजेत' इति ज्योतिष्टोमे प्रयोगः, तत्राह
अर्थवादेति ।
'एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः' इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यम् । त्रिवृ­त्प­ञ्च­द­श­स्त्रि­वृ­त्स­प्त­द­श­स्त्रि­वृ­दे­क­विंश इति स्तोमा­स्त­त्त­द­र्थ­प्र­का­श­क­त्वेन गुणेन ज्योतिष्पदोक्ता ऋक्सङ्घाः । तथा च ज्योतींषि स्तोमा अस्येति ज्योतिष्टोम इत्यत्र ज्योतिःशब्दो गौण इत्यर्थः ।

नन्वा­त्म­श­ब्दा­दिति पूर्वसूत्र एवात्मशब्दस्य प्रधाने गौण­त्व­सा­धा­र­ण­त्व­श­ङ्का­नि­रासः कर्तुमुचितः, मुख्यार्थस्य लाघ­वे­नो­क्ति­स­म्भवे गौण­त्व­ना­ना­र्थ­क­त्व­श­ङ्काया दुर्बलत्वेन तन्निरासार्थं पृथ­क्सू­त्रा­या­सा­न­पे­क्ष­णात् । तथा च शङ्कोत्तरत्वेन सूत्रव्याख्यानं नातीव शोभत इत्यरुचेराह
अथवेति ।
निरस्ता समस्ता गौण­त्व­ना­ना­र्थ­क­त्व­शङ्का यस्यात्मशब्दस्य स तच्छङ्कस्तस्य भावस्तत्ता तयेत्यर्थः ।

तत इति ।
सत आत्मशब्दे जीवा­भि­न्न­त्वा­दिति हेत्वपेक्षया मोक्षोपदेशः स्वतन्त्र एव प्रधा­न­का­र­ण­त्व­नि­रासे हेतुरित्यर्थः ॥ ७ ॥

ननु यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारा­म­रु­न्ध­ती­त्वे­नो­प­दि­शति, तद्वदनात्मन एव प्रधानस्य सत्प­दा­र्थ­स्या­त्म­त्वो­प­देश इति शङ्कते
कुतश्चेति ।
प्रधानं सच्छब्दवाच्यं नेति कुत इत्यर्थः ।

सौत्र­श्च­का­रोऽ­नु­क्त­स­मु­च्च­यार्थ इत्याह
चशब्द इति ।

विवृणोति
सत्यपीति ।
अपि­श­ब्दा­न्ना­स्त्ये­वेति सूचयति । वेदानधीत्यागतं स्तब्धं पुत्रं पितोवाच हे पुत्र, उत अपि, आदिश्यत इत्यादेश उपदेशैकलभ्यः सदात्मा तमप्यप्राक्ष्यः गुरु­नि­क­टे­पृ­ष्ट­वा­नसि, यस्य श्रवणेन मननेन विज्ञा­ने­ना­न्यस्य श्रवणादिकं भवतीत्यन्वयः ।

नन्वन्येन ज्ञातेन कथमन्यदज्ञातमपि ज्ञातं स्यादिति पुत्रः शङ्कते
कथमिति ।
हे भगवः, कथं नु खलु स भवतीत्यर्थः ।

कार्यस्य कारणान्यत्वं नास्तीत्याह
यथेति ।
पिण्डः स्वरूपं तेन । विज्ञातेनेति शेषः ।

तत्र युक्तिमाह
वाचेति ।

वाचा वागि­न्द्रि­ये­णा­र­भ्यत इति विकारो वाचारम्भणम् । ननु वाचा नामैवारभ्यते, न घटा­दि­रि­त्या­शङ्क्य नाममात्रमेव विकार इत्याह
नामधेयमिति ।
'नामधेयं विकारोऽयं वाचा केवलमुच्यते । वस्तुतः कारणाद्भिन्नो नास्ति तस्मान्मृषैव सः ॥ ‘ इति भावः ।

विकारस्य मिथ्यात्वे तद­भि­न्न­का­र­ण­स्यापि मिथ्यात्वमिति, नेत्याह
मृत्तिकेति ।

कारणं कार्या­द्भि­न्न­स­त्ताकं न कार्यं कारणाद्भिन्नम् , अतः कारणातिरिक्तस्य कार्य­स्व­रू­प­स्या­भा­वा­त्का­र­ण­ज्ञा­नेन तज्ज्ञानं भवतीति स्थिते दार्ष्टा­न्ति­क­माह
एवमिति ।
मृद्वद्ब्रह्मैव सत्यं वियदादिविकारो मृषेति ब्रह्मज्ञाने सति ज्ञेयं किञ्चि­न्ना­व­शि­ष्यत इत्यर्थः ।

यद्यपि प्रधाने ज्ञाते तादा­त्म्या­द्वि­का­राणां ज्ञानं भवति तथापि न पुरुषाणाम् , तेषां प्रधा­न­वि­का­र­त्वा­भा­वा­दि­त्याह
नचेति ।
अस्माकं जीवानां सद्रू­प­त्वा­त्त­ज्ज्ञाने ज्ञानमिति भावः ॥ ८ ॥

कुतश्चेति ।
पुनरपि कस्मा­द्धे­तो­रि­त्यर्थः । सुषुप्तौ जीवस्य सदात्मनि स्वस्मि­न्न­प्य­य­श्र­व­णा­त्स­च्चे­त­न­मे­वेति सूत्रयोजना ।

एतत्स्वपनं यथा स्यात्तथा यत्र सुषुप्तौ स्वपितीति नाम भवति तदा पुरुषः सता सम्पन्न एकीभवति । सदैक्येऽपि नामप्रवृत्तिः कथम् , तत्राह
स्वमिति ।

तत्र लोकप्रसिद्धिमाह
तस्मादिति ।
हि यस्मात्स्वं सदात्मानमपीतो भवति तस्मादित्यर्थः ।

श्रुते­स्ता­त्प­र्य­माह
एषेत्यादिना ।

कथमेतावता प्रधाननिरास इत्यत आह
स्वशब्देनेति ।

एते­र्धा­तो­र्ग­त्य­र्थ­स्या­पि­पू­र्वस्य लयार्थत्वेऽपि कथं नित्यस्य जीवस्य लय इत्याशङ्क्य उपाधिलयादिति वक्तुं जाग्र­त्स्व­प्न­यो­रु­पा­धि­माह
मन इति ।
ऐन्द्रि­य­क­म­नो­वृ­त्तय उपाधयः, तैर्घ­टा­दि­स्थू­ला­र्थ­वि­शे­षा­णा­मा­त्मना सम्बन्धादात्मा तानि­न्द्रि­या­र्था­न्प­श्य­न्स्थू­ल­वि­शे­षेण देहे­नै­क्य­भ्रा­न्ति­मा­पन्नो विश्वसंज्ञो जागर्ति । जाग्र­द्वा­स­ना­श्र­य­म­नो­वि­शिष्टः संस्तैजससंज्ञः स्वप्ने विचि­त्र­वा­स­ना­स­ह­कृ­त­मा­या­प­रि­णा­मान् पश्यन् 'सोम्य तन्मनः' इति श्रुति­स्थ­म­नः­श­ब्द­वाच्यो भवति । स आत्मा स्थूल­सू­क्ष्मो­पा­धि­द्व­यो­प­र­मेऽहं नरः कर्तेति विशे­षा­भि­मा­ना­भा­वा­ल्लीन इत्युपचर्यत इत्यर्थः ।

ननु स्वपितीति नाम­नि­रु­क्ते­र­र्थ­वा­द­त्वान्न यथार्थतेत्यत आह
यथेति ।
तस्य हृद­य­श­ब्द­स्यै­त­न्नि­र्व­च­नम् ।

तदशितमन्नं द्रवीकृत्य नयन्ते जरयन्तीत्याप एवाशनायापदार्थः । तत्पीतमुदकं नयते शोषयतीति तेज एवोदन्यम् । अत्र दीर्घश्छान्दसः । एवमिदमपि निर्वचनं यथार्थमित्याह
एवमिति ।

इदं च प्रधानपक्षे न युक्तमित्याह
न चेति ।

स्वश­ब्द­स्या­त्म­नी­वा­त्मी­येऽपि शक्ति­र­स्ती­त्या­श­ङ्क्याह
यदीति ।
प्राज्ञेन बिम्ब­चै­त­न्ये­ने­श्व­रेण सम्परिष्वङ्गो भेद­भ्र­मा­भा­वे­ना­भेद इत्यर्थः ॥ ९ ॥

तत्त­द्वे­दा­न्त­ज­न्या­ना­म­व­ग­तीनां चेत­न­का­र­ण­वि­ष­य­क­त्वेन सामा­न्या­न्ना­चे­तनं जगतः कारणमिति सूत्रार्थं व्यतिरेकमुखेनाह
यदि तार्कि­के­त्या­दिना ।
अन्य­त्प­र­मा­ण्वा­दि­कम् ।

न त्वेतदिति ।
अव­ग­ति­वै­ष­म्य­मि­त्यर्थः । विप्र­ति­ष्ठे­र­न्वि­विधं नानादिशः प्रति गच्छेयुः । प्राणा­श्च­क्षु­रा­दयो यथागोलकं प्रादुर्भवन्ति, प्राणे­भ्योऽ­न­न्त­रम् , देवाः सूर्या­द­य­स्त­द­नु­ग्रा­हकाः, तदनन्तरं लोक्यन्त इति लोका विषया इत्यर्थः ।

ननु वेदान्तानां स्वत­प्रा­मा­ण्य­त्वेन प्रत्येकं स्वार्थ­नि­श्चा­य­क­त्व­स­म्भ­वात्किं गति­सा­मा­न्ये­ने­त्यत आह
महच्चेति ।

एक­रू­पा­व­ग­ति­हे­तुत्वं वेदान्तानां प्रामा­ण्य­सं­श­य­नि­वृ­त्ति­हे­तु­रि­त्यत्र दृष्टान्तमाह
चक्षुरिति ।
यथा सर्वेषां चक्षु­षा­मे­क­रू­पा­व­ग­ति­हे­तु­त्वम् , श्रवणानां शब्दा­व­ग­ति­हे­तु­त्वम् , घ्राणादीनां गन्धादिषु, एवं ब्रह्मणि वेदान्तानां गतिसामान्यं प्रामा­ण्य­दार्ढ्ये हेतुरित्यर्थः ॥ १० ॥

एव­मी­क्ष­त्या­दि­लि­ङ्गै­र­चे­तने वेदान्तानां समन्वयं निरस्य चेत­न­वा­च­क­श­ब्दे­नापि निरस्यति
श्रुतत्वाच्चेति ।

सूत्रं व्याचष्टे
स्वशब्देनेति ।
स्वस्य चेतनस्य वाचकः सर्वविच्छब्दः । 'ज्ञः कालकालो गुणी सर्व­विद्यः' इति सर्वज्ञं परमेश्वरं प्रकृत्य 'स सर्व­वि­त्का­र­णम्' इति श्रुत­त्वा­न्ना­चे­तनं कारणमिति सूत्रार्थः । करणाधिपा जीवास्तेषामधिपः ।

अधि­क­र­णा­र्थ­मु­प­सं­ह­रति ।
तस्मादीति

ईक्ष­णा­त्म­श­ब्दा­दिकं पर­मा­ण्वा­दा­व­प्य­यु­क्त­मिति मत्वाह
अन्यद्वेति ॥ ११ ॥

वृत्ता­नु­वा­दे­नो­त्त­र­सू­त्र­स­न्द­र्भ­मा­क्षि­पति
जन्मादिति ।
प्रथमसूत्रस्य शास्त्रो­पो­द्घा­त­त्वा­ज्ज­न्मा­दि­सू­त्र­मा­र­भ्ये­त्यु­क्तम् । सर्ववेदान्तानां कार्ये प्रधानाद्यचेतने च समन्वयनिरासेन ब्रह्मपरत्वं व्याख्यातम् । अतः प्रथ­मा­ध्या­या­र्थ­स्य­स­मा­प्त­त्वा­दु­त्त­र­ग्र­न्था­रम्भे किं कारणमित्यर्थः ।

वेदान्तेषु सगु­ण­नि­र्गु­ण­ब्र­ह्म­वा­क्यानां बहुलमुपलब्धेः, तत्र कस्य वाक्यस्य सगु­णो­पा­स­ना­वि­धि­द्वारा निर्गुणे समन्वयः कस्य वा गुणविवक्षां विना साक्षादेव ब्रह्मणि समन्वय इत्याकाङ्क्षैव कारणमित्याह
उच्यत इति ।

सङ्क्षिप्य सगु­ण­नि­र्गु­ण­वा­क्या­र्थ­माह
द्विरूपं हीति ।
नामरूपात्मको विकारः सर्वं जगत् , तद्भेदो हिर­ण्य­श्म­श्रु­त्वा­दि­वि­शेष इति वाक्यार्थः ।

वाक्या­न्यु­दा­ह­रति
यत्र हीत्यादिना ।
यस्यां खल्व­ज्ञा­ना­व­स्थायां द्वैतमिव कल्पितं भवति तत्तदेतरः सन्नितरं पश्यतीति दृश्योपाधिकं वस्तु भाति । यत्र ज्ञानकाले विदुषः सर्वं जग­दा­त्म­मा­त्र­म­भू­त्त­त्तदा तु केन कं पश्ये­दि­त्या­क्षे­पा­न्नि­रु­पा­धिकं तत्त्वं भाति । यत्र भूम्नि निश्चितो विद्वान् द्वितीयं किमपि न वेत्ति सोऽद्वितीयो भूमा परमात्मा निर्गुणः । अथ निर्गु­णो­क्त्य­न­न्तरं सगुणमुच्यते । यत्र सगुणे स्थितो द्वितीयं वेत्ति तदल्पं परिच्छिन्नम् , यस्तु भूमा तदमृतं नित्यम् ।

अथेति ।
पूर्व­व­द्व्या­ख्ये­यम् । धीरः परमात्मैव सर्वाणि रूपाणि विचित्य सृष्ट्वा नामानि च कृत्वा बुद्ध्यादौ प्रविश्य जीवसंज्ञो व्यवहरन्यो वर्तते स सगुणस्तं निर्गुणत्वेन विद्वानप्यमृतो भवति । निर्गताः कला अंशा यस्मा­त्त­न्नि­ष्क­लम् । अतो निरं­श­त्वा­न्नि­ष्क्रि­यम् । अतः शान्तमपरिणामि । निरवद्यं रागा­दि­दो­ष­शू­न्यम् । अञ्जनं मूलतमःसम्बन्धो धर्मादिकं वा तच्छून्यं निरञ्जनम् । किञ्चामृतस्य मोक्षस्य स्वयमेव वाक्यो­त्थ­वृ­त्ति­स्थ­त्वेन परमुत्कृष्टं सेतुं लौकि­क­से­तु­व­त्प्रा­प­कम् । यथा दग्धेन्धनोऽनलः शाम्यति तमिवाविद्यां तज्जं च दग्ध्वा प्रशान्तं निर्गुणमात्मानं विद्यादित्यर्थः ।

नेति नेतीति ।
व्याख्यातम् । स्थूला­दि­द्वै­त­शू­न्यम् ।

रूपद्वये श्रुतिमाह -
न्यूनमिति ।
द्वैतस्थानं न्यूनमल्पं सगुणरूपं निर्गुणादन्यत् , तथा सम्पूर्णं निर्गुणं सगु­णा­द­न्य­दि­त्यर्थः ।

एकस्य द्विरूपत्वं विरुद्धमित्यत आह
विद्येति ।
विद्याविषयो ज्ञेयं निर्गुणत्वं सत्यम् अविद्याविषय उपास्यं सगुणत्वं कल्पि­त­मि­त्य­वि­रोधः ।

तत्रा­वि­द्या­वि­षयं विवृणोति
तत्रेति ।
निर्गु­ण­ज्ञा­ना­र्थ­मा­रो­पि­त­प्र­प­ञ्च­मा­श्रि­त्य­बा­धा­त्प्रा­क्काले गुड­जि­ह्वि­का­न्या­येन तत्त­त्फ­ला­र्था­न्यु­पा­स­नानि विधीयन्ते, तेषां चित्तै­का­ग्र्य­द्वारा ज्ञानं मुख्यं फलमिति तद्वाक्यानामपि महातात्पर्यं ब्रह्मणीति मन्तव्यम् । 'नाम ब्रह्म' इत्या­द्यु­पा­स्तीनां काम­चा­रा­दि­र­भ्यु­दयः फलम् , दह­रा­द्यु­पा­स्तीनां कामा­चा­रा­दि­र­भ्यु­दयः फलम् , दह­रा­द्यु­पा­स्तीनां क्रममुक्तिः, उद्भी­था­दि­ध्या­नस्य कर्मसमृद्धिः फलमिति भेदः । ध्यानानां मानसत्वात् , ज्ञाना­न्त­र­ङ्ग­त्वाच्च, ज्ञानकाण्डे विधानमिति भावः ।

ननूपास्यब्रह्मण एक­त्वा­त्क­थ­मु­पा­स­नानां भेदः, तत्राह
तेषामिति ।

गुणविशेषाः सत्यकामत्वादयः । हृदयादिरुपाधिः । अत्र स्वयमेवाशङ्क्य परिहरति
एक इति ।
पर­मा­त्म­स्व­रू­पा­भे­देऽ­प्यु­पा­धि­भे­दे­नो­प­हि­तो­पा­स्य­रू­प­भे­दा­दु­पा­स­ननां भेदे सति फलभेद इति भावः ।

तं परमात्मानं यद्यद्गुणत्वेन लोका राजानमिवोपासते तत्त­द्गु­ण­व­त्व­मेव तेषां फलं भवति । क्रतुः सङ्कल्पो ध्यानम् । इह यादृशध्यानवान् भवति मृत्वा तादृशोपास्यरूपो भवति । अत्रैव भगवद्वाक्यमाह
स्मृतेश्चेति ।

ननु सर्वभूतेषु निरतिशयात्मन एक­त्वा­दु­पा­स्यो­पा­स­क­यो­स्ता­र­त­म्य­श्रु­तयः कथमित्याशङ्क्य परिहरति
यद्यप्येक इति ।
उक्ता­ना­मु­पा­धीनां शुद्धि­ता­र­त­म्या­दै­श्व­र्य­ज्ञा­न­सु­ख­रू­प­श­क्तीनां तारतम्यरूपा विशेषा भवन्ति तैरे­क­रू­प­स्या­त्मन उत्तरोत्तरं मनु­ष्या­दि­हि­र­ण्य­ग­र्भा­न्ते­प­ष्वा­वि­र्भा­व­व­ता­र­तम्यं श्रूयते । तस्यात्मन आत्मानं स्वरू­प­मा­वि­स्तरां प्रकटतरं यो वेद उपास्ते सोऽश्नुते तदिति तर­प्प्र­त्य­या­दि­त्यर्थः । तथाच निकृ­ष्टो­पा­धि­रा­त्मै­वो­पा­सकः, उत्कृ­ष्टो­पा­धि­री­श्वर उपास्य इत्यौपाधिकं तार­त­म्य­म­वि­रु­द्ध­मिति भावः ।

अत्रार्थे भग­व­द्गी­ता­मु­दा­ह­रति
स्मृताविति ।

अत्र सूर्यादेरपि न जीव­त्वे­नो­पा­स्यता किन्त्वी­श्व­र­त्वे­ने­त्युक्तं भवति । तत्र सूत्र­का­र­सं­म­ति­माह
एवमिति ।

उदयः असम्बन्धः । एवं यस्मिन्वाक्ये उपा­धि­र्वि­व­क्षितः तद्वा­क्य­मु­पा­स­न­प­र­मिति वक्तु­मु­त्त­र­सू­त्र­स­न्द­र्भ­स्या­रम्भ इत्युक्त्वा यत्र न विवक्षितः तद्वाक्यं ज्ञेय­ब्र­ह्म­प­र­मिति निर्ण­या­र्थ­मा­रम्भ इत्याह
एवं सद्य इति ।
अन्नमयादिकोशा उपाधिविशेषाः । वाक्य­ग­ति­स्ता­त्प­र्यम् ।

आर­म्भ­स­म­र्थ­न­मु­प­सं­ह­रति
एवमेकमपीति ।

सिद्ध­व­दु­क्त­ग­ति­सा­मा­न्यस्य साध­ना­र्थ­म­प्यु­त्त­रा­रम्भ इत्याह
यच्चेति ।
अन्नं प्रसिद्धम् , प्राण­म­नो­बुद्ध्यः हिरण्यगर्भरूपाः बिम्ब­चै­त­न्य­मी­श्वर आनन्दः । तेषां पञ्चानां विकारा आध्यात्मिका देह­प्रा­ण­म­नो­बु­द्धि­जीवा अन्नमयादयः पञ्चकोशाः इति श्रुतेः परमार्थः ।

पूर्वाधिकरणे गौण­मु­ख्ये­क्ष­ण­यो­र­तु­ल्य­त्वेन संश­या­भा­वा­द्गौ­ण­प्रा­य­पाठो न निश्चायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्य­त्वा­त्सं­शये विका­र­प्रा­य­पा­ठा­दा­न­न्दा­धि­कारो जीव आनन्दमय इति निश्चयोऽस्तीति प्रत्यु­दा­ह­र­ण­स­ङ्गत्या पूर्वपक्षमाह किं ताव­दि­त्या­का­ङ्क्षा­पू­र्व­कम्
किमिति ।

आन­न्द­म­य­प­द­स्या­मु­ख्या­र्थ­ग्रहे हेतुं पृच्छति
कस्मादिति ।

विका­र­प्रा­य­पा­ठ­हे­तु­माह
अन्नमयादीति ।
श्रुत्या­दि­स­ङ्ग­तयः स्फुटा एव । पूर्वपक्षे वृत्ति­का­र­म­ते­जी­वो­पास्त्या प्रिया­दि­प्राप्तिः फलम् , सिद्धान्ते तु ब्रह्मो­पा­स्त्येति भेदः ।

शङ्कते
अथापीति ।

परिहरति
न स्यादिति ।

सङ्गृहीतं विवृणोति
मुख्य इति ।
परमात्मेत्यर्थः ।

शारी­र­त्वेऽ­पी­श्व­रत्वं किं न स्यादित्यत आह
नचेति ।
जीवत्वं दुर्वा­र­मि­त्यर्थः ।

नन्वा­न­न्द­प­दा­भ्या­सेऽ­प्या­न­न्द­म­यस्य ब्रह्मत्वं कथमित्याशङ्क्य ज्योति­ष्टो­मा­धि­कारे ज्योतिष्पदस्य ज्योति­ष्टो­म­प­र­त्व­व­दा­न­न्द­म­य­प्र­क­र­ण­स्था­न­न्द­म­य­प­द­स्या­न­न्द­म­य­प­र­त्वा­त्त­द­भ्या­स­स्तस्य ब्रह्मत्वसाधक इत्यभिप्रेत्याह
आनन्दमयं प्रस्तुत्येति ।
रसः सारः । आनन्द इत्यर्थः । अयं लोकः । यद्यपि एष आकाशः पूर्णः आनन्दः साक्षिप्रेरको न स्यात्तदा को वान्याच्चलेत् , को वा विशिष्या प्राण्या­ज्जी­वेत् , तस्मादेष एवानन्दयाति, आनन्दयतीत्यर्थः । 'युवा स्यात्सा­धु­युवा' इत्यादिना वक्ष्यमाणा मनु­ष्य­यु­वा­न­न्द­मा­रभ्य ब्रह्मा­न­न्दा­व­साना एषा संनिहिता आनन्दस्य तारतम्यमीमांसा भवति । उपसङ्क्रामति विद्वा­न्प्रा­प्नोति इत्ये­क­दे­शि­ना­मर्थः । मुख्यसिद्धान्ते तूपसङ्क्रमणं विदुषः कोशानां प्रत्य­ङ्मा­त्र­त्वेन विलापनमिति ज्ञेयम् । शिष्ट­मु­क्ता­र्थम् ।

आन­न्द­श­ब्दा­द्ब्र­ह्मा­व­गतिः सर्वत्र समानेति गति­सा­मा­न्या­र्थ­माह
श्रुत्यन्तरे चेति ।

लिङ्गा­द­मु­ख्या­त्म­सं­नि­धे­र्बाध इति मत्वाह
नासाविति ।

सर्वान्तरत्वं न श्रुत­मि­त्या­शङ्क्य ततोऽ­न्य­स्या­नु­क्ते­स्तस्य सर्वा­न्त­र­त्व­मिति विवृणोति
मुख्यमिति ।

लोकबुद्धिमिति ।
तस्याः स्थूल­ग्रा­हि­ता­म­नु­स­र­दि­त्यर्थः ।

ताम्रस्य मूषा­का­र­त्व­व­त्प्रा­णस्य देहाकारत्वं देहेन सामान्यम् , तथा मनः प्राणाकारं तेन सममित्याह
पूर्वेणेति ।
अतीतो योऽनन्तर उपा­धि­र्वि­ज्ञा­न­को­श­स्त­त्कृता सावयवत्वकल्पना, शरीरेण ज्ञेय­त्वा­च्छा­री­र­त्व­मिति लिङ्गद्वयं दुर्बलम् । अतः सहा­या­भा­वा­द­भ्या­स­स­र्वा­न्त­र­त्वाभ्यां विका­र­सं­नि­धे­र्बाध इति भावः ॥ १२ ॥

विका­रा­र्थ­क­म­य­ट्श्रु­ति­स­हाय इत्याशङ्क्य मयटः प्राचुर्येऽपि विधा­ना­न्मै­व­मि­त्याह
विकारेत्यादिना ।

तत्प्रकृतवचने मयडिति ।
तदि­ति­प्र­थ­मा­स­म­र्था­च्छ­ब्दा­त्प्रा­चु­र्य­वि­शि­ष्टस्य प्रस्तुतस्य वचनेऽभिधाने गम्यमाने मयट्प्रत्ययो भवतीति सूत्रार्थः । अत्र वच­न­ग्र­ह­णा­त्प्र­कृ­तस्य प्राचु­र्य­वै­शि­ष्ट्य­सिद्धिः, तादृशस्य लोके मयटोऽभिधानात् , यथा 'अन्नमयो यज्ञः' इति । अत्र ह्यन्नं प्रचु­र­म­स्मि­न्नि­त्य­न्न­शब्दः प्रथ­मा­वि­भ­क्ति­श­क्त­स्त­स्मा­न्म­य­ट्य­ज्ञस्य प्रकृ­त्य­र्था­न्न­प्रा­चु­र्य­वाची दृश्यते न शुद्धप्रकृतवचन इति ध्येयम् ॥ १३ ॥

सूत्र­स्थ­च­श­ब्दोऽ­नु­क्त­स­मु­च्च­यार्थ इति मत्वा व्याचष्टे
इतश्चेति ।
तच्चानुक्तं ब्रह्मानन्दस्य निर­ति­श­य­त्वा­व­धा­रणं पूर्वमुक्तम् ॥ १४ ॥

आनन्दमयस्य ब्रह्मत्वे लिङ्गमुक्त्वा प्रकरणमाह
मान्त्रेति ।
यस्मादेवं प्रकृतं तस्मा­त्त­न्मा­न्त्रा­व­र्णि­क­मेव ब्रह्मानन्दमय इति वाक्ये गीयत इति योजना ।

ननु मन्त्रो­क्त­मे­वात्र ग्राह्ममिति को निर्बन्धः, तत्राह
मन्त्रेति ।

ब्राह्मणस्य मन्त्र­व्या­ख्या­न­त्वा­दु­पा­य­त्व­मस्ति, मन्त्रस्तूपेयः, तदिदमुक्तम्
अविरोधादिति ।
तयो­रु­पा­यो­पे­य­भा­वा­दि­त्यर्थः ।

तर्ह्य­न्न­म­या­दी­ना­मपि मान्त्र­व­र्णि­क­ब्र­ह्मत्वं स्यादित्यत आह
न चेति ।

किञ्च भृगवे प्रोक्ता, वरुणेनोपदिष्टा भृगुवल्ली पञ्च­म­प­र्या­य­स्था­नन्दे प्रतिष्ठिता । तत्र स्थानन्यायेन तदे­का­र्थ­ब्र­ह्म­वल्ल्या आनन्दमये निष्ठेत्याह
एतन्निष्ठैवेति ॥ १५ ॥

स ईश्वरः तपः सृष्ट्या­लो­च­न­म­त­प्यत कृतवानित्यर्थः । अभिध्यानं कामना । 'बहु स्याम्' इत्यव्यतिरेकः ॥ १६ ॥

अधिकारे प्रकरणे । स आननदमयो रसः । ननु लब्धृ­ल­ब्ध­व्य­भा­वेऽ­प्य­भेदः किं न स्यादत आह
नहि लब्धैवेति ।

ननु­ल­ब्धृ­ल­ब्ध­व्य­यो­र्भे­द­स्या­व­श्य­कत्वे श्रुति­स्मृ­त्यो­र्बाधः स्यादि­त्या­श­ङ्कते
कथमिति ।
यावता यत­स्त्व­ये­त्यु­क्त­मतः श्रुतिस्मृती कथमित्यन्वयः ।

उक्तां शङ्कामङ्गीकरोति
बाढमिति ।

तर्ह्यात्मन एवात्मना लभ्य­त्वो­क्ति­बाधः अभे­दा­दि­त्या­शङ्क्य कल्पितभेदान्न बाध इत्याह
तथापीति ।
अभेदेऽपीत्यर्थः । लौकिकः भ्रमः । आत्मनः स्वाज्ञा­न­ज­भ्र­मेण देहाद्यभिन्नस्य भेदभ्रान्त्या परमात्मनो ज्ञेय­त्वा­द्यु­क्ति­रि­त्यर्थः । अन्वेष्टव्यो देहा­दि­वि­वि­क्त­तया ज्ञेयः, विवेकज्ञानेन लब्धव्यः साक्षा­त्क­र्तव्यः, तदर्थं श्रोतव्यः, विज्ञानं निदिध्यानं साक्षात्कारो वा श्रुत्य­न्त­र­स्या­र्था­नु­वा­दा­द­पौ­न­रु­क्त्यम् ।

ननु भेदः सत्य एवास्तु, तत्राह
प्रतिषिध्यत इति ।

अत ईश्वराद्द्रष्टा जीवोऽन्यो नास्तीति चेज्जी­वा­भे­दा­दी­श्व­र­स्यापि मिथ्यात्वं स्यादत आह
परमेश्वर इति ।

अवि­द्या­प्र­ति­बि­म्ब­त्वेन कल्पि­ता­ज्जी­वा­च्चि­न्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम् । कल्पि­त­स्या­धि­ष्ठा­ना­भे­देऽ­प्य­धि­ष्ठा­नस्य ततो भेद इत्यत्र दृष्टान्तमाह
यथेति ।

सूत्रारूढः स्वतोऽपि मिथ्या, न जीव इत्य­रु­च्या­भे­द­मा­त्र­मि­थ्यात्वे दृष्टा­न्ता­न्त­र­माह
यथावेति ।

ननु सूत्रबलाद्भेदः सत्य इत्यत आह
ईदृशं चेति ।
कल्पि­त­मे­वे­त्यर्थः । सूत्रे भेदः सत्य इति पदाभावात् , 'तद­न­न्यत्व' आदि­सू­त्रा­णा­च्छ्रु­त्य­नु­सा­रा­च्चेति भावः ॥ १७ ॥

नन्वा­न­न्दा­त्म­क­स­त्त्व­प्र­चुरं प्रधा­न­मा­न­न्द­म­य­मस्तु, तत्राह
कामाच्चेति ।
अनु­मा­न­ग­म्य­मा­नु­मा­नि­कम् ।

पुन­रु­क्ति­मा­श­ङ्क्याह
ईक्षतेरिति ॥ १८ ॥

अस्मिन्निति
विषयसप्तमी आन­न्द­म­य­वि­ष­य­क­प्र­बो­ध­वतो जीवस्य तद्योगं यस्माच्छास्ति तस्मान्न प्रधानमिति योजना ।

जीवस्य प्रधा­न­यो­गोऽ­प्य­स्ती­त्यत आह
तदात्मनेति ।

जीवस्य जीवा­भे­दोऽ­स्ती­त्यत आह
मुक्तिरिति ।
अदृश्ये स्थूल­प्र­प­ञ्च­शून्ये, आत्म­स­म्ब­न्ध­मात्म्यं लिङ्गशरीरं तद्रहिते, निरुक्तं शब्दशक्यं तद्भिन्ने, निःशेषलयस्थानं निलयनं माया तच्छून्ये ब्रह्मणि, अभयं यथा स्यात्तथा यदैव प्रतिष्ठां मनसः प्रकृष्टां वृत्तिमेष विद्वांल्लभते अथ तदैवाभयं ब्रह्म प्राप्नो­ती­त्यर्थः । उतपि अरमल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना इति ।

वृत्तिकारमतं दूषयति
इदं त्विति ।
इह परव्याख्यायां विकारार्थके मयटिबुद्धिस्थे सत्य­क­स्मा­त्का­रणं विना एकप्रकरणस्थस्य मयटः पूर्वं विकारार्थकत्वम् , अन्ते प्राचु­र्या­र्थ­क­त्व­मि­त्य­र्ध­ज­र­तीयं कथमिव केन दृष्टा­न्ते­ना­श्री­यत इतीदं वक्त­व्य­मि­त्य­न्वयः ।

प्रश्नं मत्वाशङ्क्यते
मान्त्रेति ।
स्पुटमुत्तरम् ।

किमान्तर इति न श्रूयते, किंवा वस्तु­तोऽ­प्या­न्तरं ब्रह्म न श्रूयत इति विकल्प्य आद्यमङ्गीकरोति
अत्रो­च्य­ते­य­द्य­पीति ।

विका­र­प्रा­य­पा­ठा­नु­ग्र­ही­त­म­य­ट्श्रुतेः साव­य­व­त्व­लि­ङ्गा­च्चे­त्याह
तथापीति ।
इष्टार्थस्य दृष्ट्या जातं सुखं प्रियम् , स्मृत्या मोदः, स चाभ्या­सा­त्प्र­कृष्टः प्रमोदः, आनन्दस्तु कारणम् , बिम्ब­चै­त­न्य­मात्मा, शिरः­पु­च्छ­यो­र्म­ध्य­कायः ब्रह्म शुद्धमिति श्रुत्यर्थः ।

द्वितीयं प्रत्याह
तत्र यदिति ।
यन्मन्त्रे प्रकृतं गुहानिहितत्वेन सर्वान्तरं ब्रह्म, तदिह पुच्छवाक्ये ब्रह्म­श­ब्दा­त्प्र­त्य­भि­ज्ञा­यते । तस्यैव विज्ञापनेच्छया पञ्चकोशरूपा गुहा प्रपञ्चिता । तत्र तात्पर्यं नास्तीति वक्तुं कल्प्यन्त इत्युक्तम् । एवं पुच्छवाक्ये प्रकृ­त­स्व­प्र­धा­न­ब्र­ह्म­परे सति न प्रकृ­त­हा­न्या­दि­दोष इत्यर्थः ।

ब्रह्मणः प्रधानत्वं पुच्छ­श्रु­ति­वि­रु­द्ध­मिति शङ्कते
नन्विति ।

अत्र ब्रह्म­श­ब्दा­त्प्र­कृ­त­स्व­प्र­धा­न­ब्र­ह्म­प्र­त्य­भि­ज्ञाने सति पुच्छ­श­ब्द­वि­रो­ध­प्राप्तौ, एकस्मिन्वाक्ये प्रथ­म­च­र­म­श्रु­त­श­ब्द­यो­रा­द्य­स्या­नु­प­स­ञ्जा­त­वि­रो­धिनो बलीयस्त्वात् , पुच्छशब्देन प्राप्त­गु­ण­त्वस्य बाध इति मत्वाह
प्रकृतत्वादिति ।

प्रक­र­ण­स्या­न्य­था­सि­द्धि­माह
नन्विति ।

एकस्यैवगुणत्वं प्रधानत्वं च विरुद्धमित्याह
अत्रोच्यत इति ।

तत्र विरो­ध­नि­रा­सा­या­न्य­त­र­स­स्मि­न्वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीका­र्य­मि­त्याह
अन्यतरेति ।

वाक्य­शे­षा­च्चै­व­मि­त्याह
अपिचेति ।
तत्त­त्र­ब्र­ह्म­णि­श्लो­कोऽ­पी­त्यर्थः ।

पुच्छशब्दस्य गतिं पृच्छति
कथं पुनरिति ।

त्वयापि पुच्छशब्दस्य मुख्यार्थो वक्तुमशक्यः, ब्रह्मण आन­न्द­म­य­ला­ङ्गू­ल­त्वा­भा­वात् । पुच्छ­दृ­ष्टि­ल­क्ष­णायां चाधारलक्षणा युक्ता, प्रति­ष्ठा­प­द­यो­गात् , ब्रह्मशब्दस्य मुख्या­र्थ­ला­भाच्च । त्वत्पक्षे ब्रह्म­प­द­स्या­प्य­व­य­व­ल­क्ष­क­त्वा­दि­त्याह
नैष दोष इति ।
पुच्छ­मि­त्या­धा­र­त्व­मा­त्र­मु­क्तम् । प्रति­ष्ठे­त्वे­क­नी­ड­त्वम् । एकं मुख्यं नीडमधिष्ठानं सोपादानस्य जगत इत्यर्थः ।

ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं ब्रह्म­णि­स­म­न्वि­त­मि­ष्टम् , तत्र किमु­दा­ह­र­ण­भे­दे­ने­त्या­श­ङ्क्याह
अपिचेति ।

यत्र सविशेषत्वं तत्र वाङ्म­न­स­गो­च­र­त्व­मिति व्याप्तेरत्र व्याप­का­भा­वोक्त्या निर्विशेषमुच्यत इत्याह
निर्विशेषमिति ।
निवर्तन्ते अशक्ता इत्यर्थः । सविशेषस्य मृषात्वादभयं चायुक्तम् । अतो निर्वि­शे­ष­ज्ञा­नार्थं पुच्छ­वा­क्य­मे­वो­दा­ह­र­ण­मिति भावः । प्राचु­र्या­र्थ­क­म­यटा सविशेषोक्तौ निर्वि­शे­ष­श्रु­ति­बाध उक्तः ।

दोषान्तरमाह
अपिचेति ।

प्रत्य­या­र्थ­त्वेन प्रधानस्य प्राचुर्यस्य प्रकृत्यर्थो विशेषणम् , विशेषणस्य यः प्रतियोगी विरोधीति तस्या­ल्प­त्व­म­पे­क्षते, यथा विप्रमयो ग्राम इति शूद्राल्पत्वम् । अस्तु को दोषः, तत्राह
तथाचेति ।
प्रकृ­त्य­र्थ­प्रा­धान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाशः सवितेत्यत्र तम­सोऽ­ल्प­स्या­प्य­भा­नात् । पर­न्त्वा­न­न्द­म­य­प­दस्य प्रचु­रा­न­न्द­ल­क्ष­णा­दोषः स्यादिति मन्तव्यम् ।

किञ्च भिन्न­त्वा­द्घ­ट­वन्न ब्रह्मतेत्याह
प्रतिशरीरमिति ।

नन्व­भ्य­स्य­मा­ना­न­न्द­पदं लक्ष­ण­या­न­न्द­म­य­प­र­मि­त्य­भ्या­स­सि­द्धि­रि­त्यत आह
यदि चेति ।
आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्प­र­त्व­ज्ञा­ना­द­भ्या­स­सिद्धिः, तत्सिद्धौ तन्निर्णय इति परस्पराश्रय इति भावः ।

अयमभ्यासः पुच्छब्रह्मण इत्याह
तस्मादिति ।
उपसङ्क्रमणं बाधः ।

ननु 'स य एवंवित्' इति ब्रह्मविदं प्रक्र­म्यो­प­स­ङ्क्र­म­ण­वा­क्येन फलं निर्दिश्यते तत्त­स्या­ब्र­ह्मत्वे न सिध्यतीति शङ्कते
नन्विति ।

उपसङ्क्रमणं प्राप्ति­रि­त्य­ङ्गी­कृत्य विशि­ष्ट­प्रा­प्त्युक्त्या विशे­ष­ण­प्रा­प्ति­फ­ल­मु­क्त­मि­त्याह
नैष इति ।

ज्ञानेन कोशानां बाधस्तदिति सिद्धान्ते बाधा­व­धि­प्र­त्य­गा­न­न्द­ला­भोऽ­र्था­दुक्त उत्तरश्लोकेन स्फुटीकृत इत्याह
तदपीति ।

तदपेक्षत्वादिति ।
काम­यि­तृ­पु­च्छ­ब्र­ह्म­वि­ष­य­त्वा­दि­त्यर्थः ।

यदुक्तं पञ्च­म­स्था­न­स्थ­त्वा­दा­न­न्द­मये ब्रह्मवल्ली समाप्ता, भृगुवल्लीवदिति, तत्राह
यत्त्विति ।
या त्वित्यर्थः । मयट्श्रुत्या साव­य­व­त्वा­दि­लि­ङ्गेन च स्थानं बाध्यमिति भावः । गोचराति क्रमो गोचरत्वाभावः ।

वेद­सू­त्र­यो­र्वि­रोधे 'गुणे त्वन्या­य्य­क­ल्पना' इति सूत्राण्यन्यथा नेतव्यानीत्याह
सूत्राणीति ।

पूर्वमीक्षतेः संशयाभावादिति युक्त्या प्रायपाठो न निश्चायक इत्युक्तम् । तर्ह्यत्र पुच्छ­प­द­स्या­धा­रा­व­य­व­यो­र्ल­क्ष­णा­सा­म्या­त्सं­श­योऽ­स्ती­त्य­व­य­व­प्रा­य­पाठो निश्चायक इति पूर्वा­धि­क­र­ण­सि­द्धा­न्त­यु­क्त्य­भा­वेन पूर्वपक्षयति
पुच्छशब्दादिति ।
तथाच प्रत्यु­दा­ह­र­ण­स­ङ्गतिः । पूर्वपक्षे सगुणोपास्तिः, सिद्धान्ते निर्गुणप्रमितिः फलम् । वेदा­न्त­वा­क्य­स­म­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः स्फुटा एव । सूत्र­स्था­न­न्द­म­य­प­देन तद्वाक्यस्थं ब्रह्मपदं लक्ष्यते । विक्रि­य­तेऽ­ने­नेति विकारोऽवयवः ।

प्रायापत्तिरिति ।
अवयवक्रमस्य बुद्धौ प्राप्ति­रि­त्यर्थः । अत्र हि प्रकृतस्य ब्रह्मणो ज्ञानार्थं कोशाः पक्षित्वेन कल्प्यन्ते, नात्र तात्पर्यमस्ति । तत्रा­न­न्द­म­य­स्यापि अव­य­वा­न्त­रो­क्त्य­न­न्तरं कस्मिं­श्चि­त्पुच्छे वक्तव्ये प्रकृतं ब्रह्म पुच्छपदेनोक्तम् । तस्या­न­न्द­म­या­धा­र­त्वे­ना­व­श्यं­व­क्त­व्य­त्वा­दि­त्यर्थः ।

तद्धे­तु­व्य­प­दे­शाच्च ॥ १४ ॥
तस्य ब्रह्मणः सर्व­का­र्य­हे­तु­त्व­व्य­प­दे­शात् । प्रिया­दि­वि­शि­ष्ट­त्वा­का­रे­णा­न­न्द­म­यस्य जीवस्य कार्यत्वात्तं प्रति शेषत्वं ब्रह्मणो न युक्तमित्यर्थः ।

मान्त्र­व­र्णि­क­मेव च गीयते ॥ १५ ॥
'ब्रह्म­वि­दा­प्नोति परम्' इति यस्य ज्ञाना­न्मु­क्ति­रुक्ता, यत् 'सत्यं ज्ञानम्' इति मन्त्रोक्तं ब्रह्म, तदत्रैव पुच्छवाक्ये गीयते, ब्रह्म­प­द­सं­यो­गात् । नानन्तमयवाक्य इत्यर्थः ।

नेतरो अनुपपत्तेः ॥ १६ ॥
इतरा आनन्दमयो जीवोऽत्र न प्रतिपाद्यः । सर्व­स्र­ष्टृ­त्वा­द्य­नु­प­प­त्ते­रि­त्यर्थः ।

भेदव्यपदेशाच्च ॥ १७ ॥
अयमानन्दमयो ब्रह्मरसं लब्ध्वानन्दी भवतीति भेदोक्तेश्च तस्या­प्र­ति­पा­द्य­ते­त्यर्थः ।

आनन्दमयो ब्रह्म, तैत्त­री­य­क­प­ञ्च­म­स्था­न­स्थ­त्वा­त्भृ­गु­व­ल्ली­स्था­न­न्द­व­दि­त्या­श­ङ्क्याह
कामाच्च नानुमानापेक्षा ॥ १८ ॥
काम्यत इति काम आनन्दः तस्य भृगुवल्ल्यां पञ्चमस्य ब्रह्म­त्व­दृ­ष्टे­रा­न­न्द­म­य­स्यापि ब्रह्म­त्वा­नु­मा­ना­पेक्षा न कार्या, विका­रा­र्थ­क­म­य­ड्वि­रो­धा­दि­त्यर्थः ।

भेद­व्य­प­दे­शा­च्चे­त्स­गुणं ब्रह्मात्र वेद्यं स्यादि­त्या­श­ङ्क्याह
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥

गुहानिहितत्वेन प्रतीचि 'स एकः' इत्युपसंहृते पुच्छवाक्योक्ते ब्रह्मण्यहमेव परं ब्रह्मेति प्रबोधवत आनन्दमयस्य 'यदा हि' इति शास्त्रं ब्रह्मभावं शास्ति, अतो निर्गु­ण­ब्र­ह्मै­क्य­ज्ञा­नार्थं जीवभेदानुवाद इत्यभिप्रेत्याह
अपराण्यपीति ॥ १९ ॥

अन्त­स्त­द्ध­र्मो­प­दे­शात् ।

छान्दो­ग्य­वा­क्य­मु­दा­ह­रति
अथ य इति ।
अथे­त्यु­पा­स्ति­प्रा­र­म्भार्थः ।

हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णोऽपि मूर्ति­मा­नु­पा­स­कै­र्दृ­श्यते । मूर्तिमाह
हिरण्येति ।
प्रणखो नाखाग्रं तेन सहे­त्य­भि­वि­धा­वाङ् ।

नेत्र­यो­र्वि­शे­ष­मा­ह­त­स्येति ।
कपेर्मर्कटस्य आसः पुच्छ­भा­गोऽ­त्य­न्त­ते­जस्वी तत्तुल्यं पुण्डरीकं यथा दीप्तिमदेवं तस्य पुरु­ष­स्या­क्षिणी, सद्यो­वि­क­सि­त­र­क्ता­म्भो­ज­न­यन इत्यर्थः ।

उपा­स­ना­र्थ­मा­दि­त्य­म­ण्डलं स्थानम् , रूपं चोक्त्वा नाम करोति
तस्योदिति ।

तन्नाम निर्वक्ति
स इति ।
उदित उद्गतः । सर्व­पा­प्मा­स्पृष्ट इत्यर्थः ।

नामज्ञान फलमाह
उदेति हेति ।

देव­ता­स्था­न­मा­दि­त्य­म­धि­कृ­त्यो­पा­स्त्यु­क्त्य­न­न्त­र­मा­त्मानं देहमधिकृत्यापि तदुक्तिरित्याह
अथेति ।

पूर्वत्र ब्रह्म­प­द­मा­न­न्द­म­य­प­द­मा­न­न्द­प­दा­भ्या­स­श्चेति मुख्य­त्रि­त­या­दि­ब­हु­प्र­मा­ण­व­शा­न्नि­र्गु­ण­नि­र्ण­य­वत् , रूप­व­त्त्वा­दि­ब­हु­प्र­मा­ण­व­शा­ज्जीवो हिरण्मय इति­पू­र्व­सि­द्धा­न्त­दृ­ष्टा­न्त­स­ङ्गत्या पूर्वमुत्सर्गतः सिद्ध­नि­र्गु­ण­स­म­न्व­य­स्या­प­वा­दार्थं पूर्वपक्षयति
संसारीति ।
अत्र पूर्वो­त्त­र­प­क्ष­यो­र्जी­व­ब्र­ह्म­णो­रु­पास्तिः फलम् । अक्षि­णी­त्या­धा­र­श्र­व­णाच्च संसारीति सम्बन्धः ।

श्रुतिमाह
स एष इति ।
आदित्यस्थः पुरुषः, अमु­ष्मा­दा­दि­त्या­दू­र्ध्वगा ये केचन लोका­स्ते­षा­मी­श्वरो देवभोगानां चेत्यर्थः । स एषोऽक्षिस्थः पुरुष एत­स्मा­द­क्ष्णोऽ­ध­स्तना ये लोकाः, ये च मनुष्यकामा भोगा­स्ते­षा­मी­श्वर इति मर्यादा श्रूयते । अतः श्रुतेश्च संसारीत्यर्थः । 'एष सर्वे­श्वरः' इत्य­वि­शे­ष­श्रु­ते­रिति सम्बन्धः । भूताधिपतिर्यमः, भूतपाल इन्द्रादिश्च एष एव । किञ्च जलानामसङ्कराय लोके विधारको यथा सेतुः, एवमेषां लोकानां वर्णाश्रमादीनां मर्या­दा­हे­तु­त्वा­त्से­तु­रेष एव । अतः सर्वेशवर इत्यर्थः ।

सूत्रं व्याचष्टे
य एष इति ।
यद्य­प्ये­क­स्मि­न्वाक्ये प्रथ­म­श्रु­ता­नु­सा­रेण चरमं नेयम् , तथाप्यत्र प्रथमं श्रुतं रूपवत्वं निष्फलम् , ध्याना­र्थ­मी­श्वरे नेतुं शक्यं च । सर्व­पा­प्मा­स­ङ्गित्वं सर्वात्मैकत्वं तु सफलम् , जीवे नेतुमशक्यञ्चेति प्रबलम् ।

नच 'न ह वै देवान्पापं गच्छति' इति श्रुते­रा­दि­त्य­जी­व­स्यापि पाप्मा­स्प­र्शि­त्व­मिति वाच्यम् । श्रुतेरधुना कर्मानधिकारिणां देवानां क्रिय­मा­ण­पा­प्मा­सं­म्बन्धे तत्फलास्पर्शे वा तात्पर्यात् , तेषां सञ्चितपापाभावे 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्य­यो­गा­दि­त्य­भि­प्रे­त्याह
सर्व­पा­प्मा­प­ग­मश्च परमात्मन एवेति ।

सार्वात्म्यमाह
तथेति ।
अत्र तच्छ­ब्दै­श्चा­क्षुषः पुरुष उच्यते । ऋगाद्यपेक्षया लिङ्गव्यत्ययः । उक्थं शस्त्रविशेषः, तत्सा­ह­च­र्या­त्साम स्तोत्रम् , उक्था­द­न्य­च्छ­स्त्र­मृ­गु­च्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः ।

पृथि­व्या­ग्न्या­द्या­त्मक इति ।
आधि­दै­व­त­मृ­क्पृ­थि­व्य­न्त­रि­क्ष­द्यु­न­क्ष­त्रा­दि­त्य­ग­त­शु­क्ल­भा­रूपा पञ्चविधा श्रुत्युक्ता, साम चाग्नि­वा­य्वा­दि­त्य­च­न्द्रा­दि­त्य­ग­ता­ति­कृ­ष्ण­रू­प­मुक्तं पञ्चविधम् । अध्यात्मं तु ऋक् , वाक्च­क्षुः­श्रो­त्रा­क्षि­स्थ­शु­क्ल­भा­रूपा चतुर्विधा, साम च प्राण­च्छा­या­त्म­म­नोऽ­क्षि­ग­ता­ति­नी­ल­रूपं चतुर्विधमुक्तम् ।

एवं क्रमेण ऋक्सामे अनुक्रम्याह
श्रुतिःतस्येति ।
यौ सर्वा­त्म­क­र्क्सा­मा­त्मकौ गेष्णा­व­मु­ष्या­दि­त्य­स्थस्य, तावे­वा­क्षि­स्थस्य गेष्णौ पर्वणीत्यर्थः ।

तच्चेति ।
ऋत्क्सा­म­गे­ष्ण­त्व­मि­त्यर्थः ।

सर्वगानगेयत्वं लिङ्गान्तरमाह
तद्य इति ।
तत्तत्र लोके, धनस्य सनिर्लाभो येषां ते धनसनयः, विभूतिमन्त इत्यर्थः ।

ननु लोके राजानो गीयन्ते नेश्वर इत्यत आह
यद्यदिति ।
पशु­वि­त्ता­दि­र्वि­भूतिः, श्रीः कान्तिः, ऊर्जितत्वं बलम् , तद्युक्तं सत्वं राजादिकं मदंश एवेति तद्गा­न­मी­श्व­र­स्यै­वे­त्यर्थः । निर­ङ्गु­श­म­न­न्या­धी­नम् । एषा विचित्ररूपा मूर्ति­र्मा­या­वि­कृ­ति­त्वा­न्माया मया सृष्टेत्यर्थः ।

तदुक्तम् 'अश­ब्दम्' इत्यादिवाक्यं तंज्ञे­य­प­र­मि­त्याह
अपिचेति ।

तर्हि रूपं कुतः, तत्राह
सर्वेति ।
यत्र तूपा­स्य­त्वे­नो­च्यते तत्रे­त्य­ध्या­हृत्य सर्व­का­र­ण­त्वा­त्प्रा­प्त­रू­प­वत्वं 'सर्व­कर्मा' इत्यादिश्रुत्या निर्दिश्यत इति योजना ।

मर्या­दा­व­दै­श्व­र्य­मी­श्व­रस्य नेत्युक्तं निराकरोति
ऐश्वर्येति ।
अध्या­त्मा­धि­दै­व­त­ध्या­न­यो­र्वि­भागः पृथ­क्प्र­यो­ग­स्त­द­पे­क्ष­मेव, नत्वैश्वर्यस्य परि­च्छे­दा­र्थ­मि­त्यर्थः ॥ २० ॥

ननु उपा­स्यो­द्दे­शे­नो­पा­स्ति­वि­धे­र्वि­धे­य­क्रि­या­क­र्म­णो­र्व्री­ह्या­दि­व­द­न्यतः सिद्धि­र्वा­च्ये­त्या­श­ङ्क्याह
भेदेति ।

आदि­त्य­जी­वा­दी­श्व­रस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थमाह
अस्तीति ।

आदित्ये स्थित­र­श्मि­नि­रा­सा­र्थ­मा­दि­त्या­द­न्तर इति जीवं निरस्यति
यमिति ।

अशरीरस्य कथं नियन्तृत्वम् , तत्राह
यस्येति ।

अन्त­र्या­मि­प­दा­र्थ­माह
य इति ।

तस्या­ना­त्म­त्व­नि­रा­सा­याह
एष त इति ।
ते तव स्वरूपमित्यर्थः । आदि­त्या­न्त­र­त्व­श्रुतेः समा­न­त्वा­दि­त्यर्थः । तस्मात्पर एवा­दि­त्या­दि­स्था­नक उद्गीथे उपास्य इति सिद्धम् ॥ २१ ॥

भवतु रूप­व­त्त्वा­दि­दु­र्ब­ल­लि­ङ्गानां पापा­स्प­र्शि­त्वा­द्य­व्य­भि­चा­रि­ब्र­ह्म­लि­ङ्गै­र­न्य­था­न­य­नम् । इह त्वाका­श­प­द­श्रु­ति­र्लि­ङ्गा­द्ब­ली­य­सीति प्रत्युदाहणेन प्राप्ते प्रत्याह
आका­श­स्त­ल्लि­ङ्गा­दिति ।

छान्दो­ग्य­वा­क्य­मु­दा­ह­रति
इदमिति ।
शालावत्यो ब्राह्मणो जैवलिं राजानं पृच्छति, अस्य पृथ्वी­लो­क­स्या­न्यस्य च क आधार इति । राजाब्रूते, 'आकाश इति ह' इति । 'यदेष आकाशः' इत्या­न­न्द­त्व­स्या­सा­धा­र­णस्य श्रवणादाकाशो ब्रह्मे­त्य­व­धा­रि­तम् । 'आकाशो वै नाम' इत्यत्र 'तद्ब्रह्म' इति वाक्यशेषादिति विभागः ।

निर्वहिता
उत्प­त्ति­स्थि­ति­हेतुः । ते नामरूपे, यदन्तरा यस्माद्भिन्ने । यत्र कल्पितत्वेन मध्ये स्त इति वार्थः । अत्र पूर्वपक्षे भूता­का­शा­त्म­नो­द्गी­थो­पास्तिः, सिद्धान्ते ब्रह्मात्मना इति फलम् । उपास्ये स्पष्ट­ब्र­ह्म­लि­ङ्ग­वा­क्य­स­म­न्व­यो­क्ते­रा­पादं श्रुत्या­दि­स­ङ्ग­तयः । स्पष्टमत्र भाष्यम् ।

तेजःप्रभृतिषु वाय्वादेरपि कार­ण­त्वा­दे­व­का­र­श्रु­ति­बाधः, सर्व­श्रु­ते­श्चा­का­शा­ति­रि­क्त­वि­ष­य­त्वेन सङ्कोचः स्यादित्याह
सत्यं दर्शितमिति ।
ब्रह्मणस्तु सर्वात्मकत्वात् 'तस्मादेव सर्वम्' इति श्रुति­र्यु­क्तेति भावः ।

तथा सर्वलयाधारत्वम् , निर­ति­श­य­म­ह­त्त्वम् , स्थितावपि पर­मा­श्र­य­त्व­मि­त्ये­तानि स्पष्टानि ब्रह्म­लि­ङ्गा­नी­त्याह
तथा आकाशमित्यादिना ।
रातेर्धनस्य दातुः । रातिरिति पाठे बन्धुरित्यर्थः ।

लिङ्गान्तरमाह
अपि चेति ।
दाल्भ्य­शा­ला­वत्यौ ब्राह्मणौ राजा चेति त्रय उद्गी­थ­वि­द्या­कु­शला विचारयामासुः, किमुद्गीथस्य परायणमिति । तत्र स्वर्गा­दा­ग­ता­भि­र­द्भि­र्जी­वि­तेन प्राणेन क्रिय­मा­णो­द्गी­थस्य स्वर्ग एव परायणमिति दाल्भ्य­प­क्ष­म­प्र­ति­ष्ठा­दो­षेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोकः प्रति­ष्ठे­त्यु­वाच । तं शालावत्यस्य पक्षं 'अन्तवद्वै ते किल शाला­व­त्य­साम' इति राजा निन्दि­त्वा­न­न्त­मे­वा­काशं वक्ति । भूता­का­शो­क्ता­व­न्त­व­त्त्व­दो­ष­ता­द­व­स्थ्या­दि­त्यर्थः ।

नन्वाकाशोऽनन्त इति न श्रुत­मि­त्या­श­ङ्क्याह
तं चेति ।
उद्गीथ आकाश एवेति सम्पा­द­ना­दु­द्गी­थ­स्या­न­न्त­त्वा­दिकं न स्वत इति भावः । स उद्गीथावयव ओङ्कारः, एष आकाशात्मकः, परः रस­त­म­त्वा­दि­र्गु­णै­रु­त्कृष्टः, अतोऽ­क्ष­रा­न्त­रेभ्यो वरीयान् । श्रेष्ठ इत्यर्थः । परः इत्यव्ययं सकारान्तं वा, परः कृत्स्नमिति प्रयोगात् । परश्चासौ वरेभ्योऽतिशयेन वरः । परो­व­री­या­नि­त्यर्थः ।

प्राथम्यात् , श्रुत­त्वा­च्चा­का­श­शब्दो बलीयानित्युक्तं स्मारयति
यत्पुनरिति ।

एव­का­र­स­र्व­श­ब्दा­नु­गृ­ही­ता­न­न्त्या­दि­ब­हु­लि­ङ्गा­ना­म­नु­ग्र­हाय 'त्यजेदेकं कुल­स्यार्थे' इति न्यायेनैकस्याः श्रुतेर्बाधो युक्त इत्याह
अत्र ब्रूम इति ।

आका­श­प­दा­द्भू­त­स्यैव प्रथ­म­प्र­ती­ति­रिति नियमो नास्ती­त्य­पि­श­ब्देन द्योतितम् । तत्र युक्तिमाह
दर्शितश्चेति ।
आका­श­प­दा­द्गौ­णा­र्थस्य ब्रह्मणोऽपि प्रथ­म­प्र­ती­ति­रस्ति, तस्य तत्पर्यायाणां च ब्रह्मणि प्रयो­ग­प्रा­चु­र्या­दिति भावः । अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति । प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः ।

ओङ्कारः कं सुखं ब्रह्म खं व्याप­क­मि­त्यु­पा­सीत । श्रुत्य­न्त­र­प्र­यो­ग­माह
खं पुराणमिति ।
व्याप्यनादि ब्रह्मेत्यर्थः । 'कं ब्रह्म खं ब्रह्म' इति छान्दोग्यम् , 'ओं खं ब्रह्म खं पुराणम्' इति बृहदारण्यकमिति भेदः । किञ्च तत्रैव प्रथ­मा­नु­सा­रे­णो­त्तरं नेयम् , यत्र तन्नेतुं शक्यम् ।

यत्र त्वशक्यं तत्रो­त्त­रा­नु­सा­रेण प्रथमं नेयमित्याह
वाक्येति ।

तस्मादुपास्ये ब्रह्मणि वाक्यं सम­न्वि­त­मि­त्यु­प­सं­ह­रति
तस्मादिति ॥ २२ ॥

आका­श­वा­क्यो­क्त­न्यायं तदु­त्त­र­वा­क्येऽ­ति­दि­शति
अत एव प्राणः ।
उद्गी­थ­प्र­क­र­ण­मिति ज्ञाप­ना­र्थ­मु­द्गीथ इति भाष्यपदम् । उद्गीथप्रकरणे श्रूयत इत्यन्वयः । कश्चि­दृ­षि­श्चा­क्रा­यणः प्रस्तो­ता­र­मु­वाच, हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमनुगता ध्यानार्थम् , तां चेदज्ञात्वा मम विदुषो निकटे प्रस्तोष्यसि मूर्धा ते पतिष्यतीति । ततो भीतः सन् पप्रच्छ, कतमा सा देवतेति । उत्तरम् , प्राण इति । प्राणमभिलक्ष्य सम्यग्विशन्ति लीयन्ते, तम­भि­ल­क्ष्यो­ज्जि­हते उत्पद्यन्त इत्यर्थः ।

अति­दे­श­त्वा­त्पू­र्व­व­त्सं­श­यादि द्रष्ट­व्य­मि­त्युक्तं विवृणोति
प्राणेति ।
मनौपाधिको जीवः प्राणेन ब्रह्मणा बध्यते सुषु­प्ता­वे­की­भ­वति । प्राणस्य वायोः प्राणम्प्रेरकं तस्य सत्ता­स्फू­र्ति­प्र­द­मा­त्मानं ये विदुस्ते ब्रह्मविद इत्यर्थः ।

पूर्वेण गत­र्था­त्वा­त्पृ­थ­क्सूत्रं व्यर्थमिति शङ्कते
ननु पूर्ववदिति ।

अधि­का­श­ङ्का­नि­रा­सा­र्थ­म­ति­दे­श­सू­त्र­मिति मत्वा शङ्कामाह
न । मुख्येऽपीति ।
तर्हि तदा चक्षु­र­प्ये­ती­त्ये­वं­प्र­का­रेण सर्वत्र सम्बन्धः ।

नन्व­त्रे­न्द्रि­याणां प्राणे लयोदयौ श्रूयेते, तावता महा­भू­त­ल­या­दि­प्र­ति­पा­द­क­वा­क्य­शे­षो­प­पत्तिः कथमित्यत आह
इन्द्रि­य­सा­र­त्वा­दिति ।
'तस्य ह्येष रसः' इति श्रुतेः । इन्द्रियाणि लिङ्गात्मरूपाणि अप­ञ्ची­कृ­त­भू­तानां साराणि तेषां लयाद्युक्त्या भूतानामपि प्राणे लयादिसिद्धेः वाक्य­शे­षो­प­प­त्ति­रि­त्यर्थः ।

अब्र­ह्म­स­ह­पा­ठाच्च प्राणो न ब्रह्मेत्याह
अपि चेति ।
उद्गा­तृ­प्र­ति­ह­र्तृ­भ्या­मु­द्गीथे प्रतिहारे च का देवतेति पृष्टेन चाक्रा­य­णे­ना­दि­त्योऽन्नं च निर्दिश्यते । 'आदित्य इति होवाच' 'अन्नमिति होवाच' इति श्रुतावित्यर्थः । सामान्यं सन्निधानम् । संनि­ध्य­नु­ग्र­ही­त­प्र­थ­म­श्रु­त­प्रा­ण­श्रुत्या मुख्य­प्रा­ण­नि­र्णये तद्दृष्ट्या प्रस्ता­वो­पा­स्ति­रिति पूर्वपक्षफलम् , सिद्धान्ते ब्रह्म­दृ­ष्टि­रू­पो­पास्तिः । तस्या­धि­क­र­ण­स्या­ति­दे­श­त्व­मेव पूर्वेण सङ्गतिरिति विभागः ।

भवन्तीति भूतानीति व्युत्पत्या यत्कि­ञ्चि­द्भ­व­न­ध­र्मकं कार्यमात्रम् , तस्य लयोदयौ वायुविकारे प्राणे न युक्ता­वि­त्युक्त्वा भूतशब्दस्य रूढार्थग्रहेऽपि लया­दे­र्ब्र­ह्म­नि­र्णा­य­क­त्व­मि­त्याह
यदापीति ।
भैतिकप्राणस्य भूत­यो­नि­त्वा­यो­गा­दि­त्यर्थः ।

तस्य तद्योनित्वं श्रुत्याशङ्कते
नन्विति ।
अथ यदा सुषुप्तो जीवः प्राणे ब्रह्म­ण्ये­की­भ­वति तदा एनं प्राणं सवि­ष­य­वा­गा­द­योऽ­पि­य­न्ती­त्यर्थः ।

अत्र जीवाभिन्नत्वे सर्व­ल­या­धा­र­त्व­लि­ङ्गान्न मुख्यः प्राण इत्याह
तत्रापीति ।

वाक्या­न्त­र­सं­नि­ध्य­पे­क्षया स्ववा­क्य­ग­तं­लिङ्गं बलीय इत्याह
तदयुक्तमिति ।
एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्गतं लिङ्गं तेनेत्यर्थः ।

प्राण­मे­वे­त्य­व­धा­र­णेन सर्व­भू­त­प्र­कृ­ति­त्व­लि­ङ्गेन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह
तदा­का­श­श­ब्द­स्ये­वेति ।

वृत्ति­कृ­ता­मु­दा­ह­रणं संश­या­भा­वे­ना­यु­क्त­मि­त्याह
अत्रेत्यादिना ।

शब्दभेदमुक्त्वा प्रकरणं प्रपञ्चयति
यस्य चेति ॥ २३ ॥

ज्योति­श्च­र­णा­भि­धा­नात् । छान्दो­ग्य­मे­वो­दा­ह­रति
इदमिति ।
गाय­त्र्यु­पा­धि­क­ब्र­ह्मो­पा­स्त्या­न­न्त­र्या­र्थोऽ­थ­शब्दः । अतो दिवो द्युलोकात्परः पर­स्ता­द्य­ज्ज्यो­ति­र्दी­प्यते तद्यतदिदमिति जाठ­रा­ग्ना­व­ध्य­स्यते ।

कुत्र दीप्यते, तत्राह
विश्वत इति ।
विश्व­स्मा­त्प्रा­णि­व­र्गा­दु­परि सर्व­स्मा­द्भू­रा­दि­लो­का­दु­परि ये लोका­स्ते­षू­त्त­मेषु न विद्यन्ते उत्तमा येभ्य इत्यनुत्तमेषु सर्व­सं­सा­र­म­ण्ड­ला­तीतं परं ज्योतिरिदमेव, यद्दे­ह­स्थ­मि­त्यर्थः ।

अस्य पूर्वे­णा­ग­ता­र्थत्वं वद­न्प्र­त्यु­दा­ह­र­ण­स­ङ्ग­ति­माह
अर्थान्तरेति ।
अत्र स्ववाक्ये स्पष्ट­ब्र­ह्म­लि­ङ्गा­भा­वेऽपि 'पादोस्य' इति पूर्ववाक्ये भूतपादत्वं लिङ्गमस्तीति पादसङ्गतिः । पूर्वो­त्त­र­प­क्ष­यो­र्ज­ड­ब्र­ह्म­ज्यो­ति­षो­रु­पास्तिः फलमिति भेदः ।

नन्व­ज्ञा­न­त­मो­वि­रो­धि­त्वा­द्ब्र­ह्मापि ज्योतिः­प­द­श­क्य­तया प्रसिद्धमस्ति, नेत्याह
चक्षुरिति ।
शर्वर्यां रात्रौ भवं शार्वरम् । नीलमिति यावत् । अने­ना­व­र­क­त्वा­द्रू­प­व­त्त्वाच्च कुड्यवद्भावरूपं तम इत्यर्थादुक्तं भवति ।

ज्योतिः­श्रु­ते­र­नु­ग्रा­ह­क­लि­ङ्गा­न्याह
तथेत्यादिना ।

भास्व­र­रू­पा­त्मिका दीप्तिस्तेजस एव लिङ्गमित्याह
न हीति ।

मास्तु मर्या­दे­त्या­शङ्क्य श्रुत­त्वा­न्मै­व­मि­त्याह
परो दिव इति ।
मर्यादां ब्रूत इति शेषः ।

ब्रह्म­व­त्का­र्य­स्यापि मर्या­दा­यो­गा­न्नि­र­र्थकं ब्राह्मणमिति कश्चिदाक्षिपति
नन्विति ।

एकदेशी ब्रूते
अस्त्विति ।
स्वर्गादौ जातं किञ्चि­द­ती­न्द्रियं तेजो दिवः परस्तादस्ति, श्रुति­प्रा­मा­ण्या­दि­त्यर्थः ।

अध्य­य­न­वि­ध्यु­पा­त्त­श्रु­ते­र्नि­ष्फलं वस्तु नार्थ इत्याक्षिप्य ब्रूते
नेति ।

ध्यानं फलमित्याशङ्क्य निष्फलस्य क्वापि ध्यानं नास्तीत्याह
इदमेवेत्यादिना ।
प्रयोजनान्तरं तमोनाशादिकम् ।

अत्रिवृत्कृतं तेजोऽ­ङ्गी­कृ­त्या­फ­ल­त्व­मुक्त्वा तदेव नास्तीत्याह
तासामिति ।
तेजोऽबन्नानां देवतानामेकैकं द्विधा विभज्य पुनश्चैकैकं भागं द्वेधा कृत्वा स्वभा­गा­दि­त­र­भा­ग­यो­र्नि­क्षिप्य तन्त्रि­गु­ण­र­ज्जु­व­न्त्रि­वृत्तं कर­वा­णी­त्य­वि­शे­षो­क्ते­र्ना­स्त्य­त्रि­वृ­त्कृतं किञ्चिदित्यर्थः । किञ्चात्र 'यदतः परः' इति यच्छब्देनान्यतः प्रसिद्धं द्युमर्यादत्वं ध्यानायानूद्यते

न चात्रि­वृ­त्कृ­तस्य तस्य तत्क्व­चि­त्प्र­सि­द्ध­मि­त्याह
न चेति ।

एकदेशिमते निरस्ते साक्षा­त्पू­र्व­पक्षी ब्रूते
अस्तु तर्हीति ।
प्रदेशविशेषः दिवः पर­स्ता­द्दे­दी­प्य­मानः सूर्या­दि­ते­जो­व­य­व­वि­शेषः, तस्य परिग्रह उपसनार्थो न विरुद्ध्यत इत्यन्वयः । स एव कौक्षेये ज्योतिषि उपास्यते । तस्यापि तेजस्त्वादिति भावः ।

ब्रह्मणोऽपि ध्यानार्थं प्रदेशस्थत्वं कल्प्यताम् , नेत्याह
नत्विति ।
निष्प्रदेशस्य निरवयवस्य विशेषेऽपि दिवः पर­स्ता­द्दे­दी­प्य­मा­न­ब्र­ह्मा­व­य­व­क­ल्पना भागिनी युक्ता न त्वित्यन्वयः । अप्र­मा­णि­क­गौ­र­वा­पा­ता­दिति भावः ।

ततः किम् , तत्राह
सारूप्येति ।
यथा एक­त्व­सा­म्या­द्भू­रि­ति­व्या­हृतौ प्रजापतेः शिरोदृष्टिः श्रुता तथा जाठ­रा­ग्ना­व­ब्र­ह्मत्वं घोषादिश्रुत्या प्रसिद्धमिति जडज्योतिष्ट्वं साम्यं वाच्यमित्यर्थः । यद्दे­ह­स्प­र्श­ने­नौ­ष्ण्य­ज्ञानं प्रसिद्धं सैषा तस्य जाठ­रा­ग्ने­र्दृष्टिः, यत्कर्णपिधानेन घोषश्रवणम् , सैषा तस्य श्रुतिरित्यर्थः ।

ज्योतिषो जडत्वे लिङ्गान्तरमाह
तदेतदिति ।
ज्योतिरित्यर्थः । चक्षु­ष्य­श्च­क्षु­र्हितः सुन्दरः, श्रुतो विख्यातः ।

न चान्यदपीति ।
ब्रह्मलिङ्गमपि किञ्चि­द­न्य­न्ना­स्ती­त्य­न्वयः ।

ननु 'त्रिपा­द­स्या­मृतं दिवि' इति पूर्ववाक्योक्तं ब्रह्मात्र ज्योतिःपदेन गृह्य­ता­मि­त्या­श­ङ्क्याह
न चेति ।

ननु सर्वा­त्म­क­त्वा­मृ­त­त्वाभ्यां ब्रह्मो­क्त­मि­त्यत आह
अथापीति ।
कथ­ञ्चि­च्छ­न्दो­द्वा­रे­त्यर्थः । दिवि दिव इति विभक्तिभेदान्न प्रत्य­भि­ज्ञे­त्यर्थः । प्रकृतेर्जातं प्राकृतम् , कार्यमित्यर्थः ।

आचारं निरस्यति
पादेति ।
'गायत्री वा इदं सर्वं भूतम्' 'वाग्वै गायत्री' 'येयं पृथिवी' 'यदिदं शरीरम्' 'यद­स्मि­न्पु­रुषे हृदयम्' 'इमे प्राणाः' इति भूत­वा­क्पृ­थि­वी­श­री­र­हृ­द­य­प्रा­णा­त्मिका षड्विधा षड्भि­र­क्ष­रै­श्च­तु­ष्पदा गायत्रीति । यदुक्तं तावान् तत्परिमाणः सर्वः प्रपञ्चोऽस्य गायत्र्यनुगतस्य ब्रह्मणो महिमा विभूतिः, पुरुषस्तु पूर्ण­ब्र­ह्म­रूपः, अतः प्रप­ञ्चा­ज्ज्या­या­न­धिकः ।

आधिक्यमेवाह
पाद इति ।
सर्वं जगदेकः पादोऽंशः, 'विष्ट­भ्या­ह­मिदं कृत्स्नमेकांशेन स्थितो जगत्' इति स्मृतेः । अस्य पुरुषस्य दिवि स्वप्र­का­श­स्व­रूपे त्रिपादमृतं रूपमस्ति, दिवि सूर्यमण्डले वा ध्यनार्थमस्ति, कल्पिताज्जगतो ब्रह्म­स्व­रू­पा­म­न­न्त­म­स्ती­त्यर्थः । यथा लोके पादा­त्पा­द­त्र­य­म­धिकं तथेदमधिकमिति बोधनार्थं त्रिपा­द­मृ­त­मि­त्यु­क्तम् , न त्रिपादत्वं विवक्षितमिति मन्तव्यम् ।

'यदतः परः' इति यच्छब्दस्य प्रसि­द्धा­र्थ­वा­चि­त्वा­त्पू­र्व­वा­क्य­प्र­सिद्धं ब्रह्म ग्राह्ममित्याह
तत्रेति ।

ननु 'यदा­ग्ने­योऽ­ष्टा­क­पालः' इत्यत्र यत्प­द­स्या­प्र­कृ­ता­र्थ­कत्वं दृष्टमित्यत आह
तत्परित्यज्येति ।
तत्र यागस्यान्यतः प्रसि­द्धे­र­भा­वे­ना­पू­र्व­त्वा­द­गत्या यदोऽ­प्र­सि­द्धा­र्थ­त्व­मा­श्रि­तम् । इह तु पूर्व­वा­क्य­प्र­सि­द्धस्य ब्रह्मणो द्युसम्बन्धेन प्रत्य­भि­ज्ञा­तस्य यद­र्थ­त्व­नि­श्च­या­द्य­त्प­दै­का­र्थ­क­ज्यो­तिः­प­द­स्यापि स एवार्थ इत्यर्थः ।

सन्दं­श­न्या­या­द­प्ये­व­मि­त्याह
न केवलमिति ।
'सर्वं खल्विदं ब्रह्म' इत्युत्तरत्र ब्रह्मा­नु­वृ­त्ते­र्म­ध्यस्थं ज्योतिर्वाक्यं ब्रह्म­प­र­मि­त्यर्थः ।

प्रकरणादिति ।
प्रकृ­ता­पे­क्ष­य­त्प­द­श्रुत्या द्युस­म्ब­न्ध­भू­त­पा­द­त्वा­दि­लि­ङ्गै­श्चे­त्यर्थः । अतः प्रक­र­णा­ज्ज्यो­तिः­श्रु­ति­बाधो न युक्त इति निरस्तम् ।

अविशेषकत्वादिति ।
ब्रह्म­व्या­व­र्त­क­त्वा­भा­वा­दि­त्यर्थः । येन चेतसा चैतन्येनेद्धः प्रकाशितः सूर्यस्तपति प्रकाशयति तं बृहन्तमवेदविन्न मनुत इत्यर्थः ।

ज्योतिःशब्दस्य कार्य­ज्यो­ति­ष्येव शक्ति­रि­त्य­ङ्गी­कृत्य कार­ण­ब्र­ह्म­ल­क्ष­क­त्व­मुक्त्वा ब्रह्मण्यपि शक्तिमाह
यद्वेति ।
गाढान्धकारे वाचैव ज्योतिषा लोक आसनादिव्यवहारं करोतीत्यर्थः । आज्यं जुषतां पिबतां मनो ज्योतिः प्रकाशकं भवति इत्याज्यस्तुतिः ।

यथा गच्छ­न्त­म­नु­ग­च्छतः स्वस्यापि गतिरस्ति तथा सर्वस्य स्वनिष्ठं भानं स्यादित्यत आह
तस्य भासेति ।
तत्का­ला­न­व­च्छिन्नं ब्रह्म सूर्या­दि­ज्यो­तिषां साक्षि­भू­त­मा­यु­र­मृ­त­मिति च देवा उपासत इत्यर्थः ।

योषि­तोऽ­ग्नि­त्व­व­त्द्यु­म­र्या­द­त्वा­दिकं ध्यानार्थं कल्पितं ब्रह्मणो युक्तमित्याह
अत्रोच्यत इत्यादिना ।
दिवः परमपीत्यन्वयः ।

आरोप्यस्य ध्येय­स्या­ल­म्ब­नस्य च सादृश्यनियमो नास्तीत्याह
परस्यापीति ।
भविष्यति ब्रह्मज्योतिष इति शेषः ।

'तं यथा यथोपासते तथा तथा फलं भवति' इति श्रुतेरित्याह
न हीयत इति ।

ज्ञान­फ­ल­व­दु­पा­स्ति­फ­ल­मे­क­रूपं किं न स्यादत आह
यत्र हीति ।
ज्ञेयै­क­त्वा­दि­त्यर्थः ।

ध्येयं तु नानेत्याह
यत्र त्विति ।
ईश्वरो जीव­रू­पे­णा­न्न­म­त्ती­त्य­न्नादः अन्न­स्या­स­म­न्ता­द्दाता वा वसु हिरण्यं ददातीति वसुदान इति गुण­वि­शे­ष­स­म्बन्धं यो वेद स धनं विन्दते, दीप्ताग्निश्च भवति । नाम्नो वागुत्तमा, मनो वा प्रतीकं वाचो भूय इति प्रती­क­वि­शे­ष­ध्या­न­श्रु­ति­स­ङ्ग्र­हा­र्थ­मा­द्य­प­दम् ।

संनिधेः श्रुति­र्ब­ली­य­सीति शङ्कते
कथं पुनरिति ।

अथ प्रथ­म­श्रु­त्य­नु­सा­रेण चरमश्रुतिर्नीयत इत्याह
नैष इति ।
सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्थ्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना । अर्था­द्य­त्प­द­सा­मा­ना­धि­क­र­ण्या­दि­त्यर्थः ॥ २४ ॥

छन्दो­भि­धा­ना­द्ब्रह्म प्रकृतं नास्तीति शङ्कामेकदेशी दूषयति
कथमिति ।

शङ्कां साधयति
नैतदित्यादिना ।
चतुष्पदत्वादिकं पूर्वमेव व्याख्यातम् ।

य एतामेवमिति ।
वेदरहस्यभूतां मधु­वि­द्या­मे­व­मु­क्त­रीत्या यः कश्चिद्वेद तस्यो­द­या­स्त­म­य­र­हि­त­ब्र­ह्मा­प्रा­प्ति­र्भ­व­ती­त्यर्थः । तथाच वेद­त्वा­द्गा­यत्र्यां ब्रह्मशब्दो युक्त इति भावः ।

गायत्रीशब्देन तदु­पा­दा­न­त्वे­ना­नु­ग­त­ब्र­ह्म­ल­क्ष­णायां बीजमनुपपत्तिमाह
न ह्यक्षरेति ।

ब्रह्मणोऽपि कथं सर्वात्मकत्वम् , तत्राह
कार्यं चेति ।
नच गायत्र्या ध्यानार्थं सर्वात्मत्वारोप इति वाच्यम् , स्वतः सर्वात्मनो ध्यान­स­म्भ­वे­ना­स­दा­रो­पा­यो­गा­दीति भावः ।

'तथाहि दर्शनम्' इति सूत्रशेषं व्याचष्टे
तथान्यत्रेति ।
दृश्यत इति दर्शनम् । दृष्टमित्यर्थः । एतं परमात्मानं बह्वृचा ऋग्वेदिनो महत्युक्थे शस्त्रे तदनुगतमुपासते । एत­मे­वा­ग्नि­र­हस्ये 'तमे­त­म­ग्नि­रि­त्य­ध्व­र्यव उपासते' इति श्रुतेः यजु­र्वे­दि­नोऽग्नौ उपासते । एतमेव छन्दोगाः सामवेदिनो महाव्रते क्रतौ उपासत इत्यैतरेयके दृष्टमित्यर्थः ।

गायत्रीशब्दो ब्रह्मलक्षक इति व्याख्याय गौण इत्याह
अपर इति ।
साक्षादेव । वाच्यार्थग्रहणं विनैवेति यावत् । पूर्वं तूपास्यतया गाय­त्री­प­दे­ना­ज­ह­ल्ल­क्ष­णया गायत्रीब्रह्मणी द्वे अपि लक्षिते । नच गायत्री सर्व­मि­त्य­न्व­या­स­म्भवः, घटो रूपीति पदार्थैकदेशे व्यक्तौ रूपान्वयवत् , गाय­त्री­प­दा­र्थै­क­देशे गायत्र्यनुगते ब्रह्मणि प्रधाने सर्वा­त्म­क­त्वा­न्व­य­स­म्भ­वा­दिति भावः । तथाच सूत्रे सिद्धा­न्त­भा­ग­स्या­य­मर्थः- तथा गाय­त्री­व­च्च­तु­ष्पा­त्व­गु­ण­सा­मा­न्यात् , चेतो ब्रह्मणि समर्प्यते येन स चेतोर्पणो गाय­त्री­श­ब्द­स्तेन ब्रह्मण एव निगदादभिधानात् छन्दो­भि­धा­न­म­सि­द्ध­मिति ।

अधुना 'तथाहि दर्शनम्' इति शेषं व्याचष्टे
तथेति ।
संव­र्ग­वि­द्या­या­मा­धि­दै­व­म­ग्नि­सू­र्य­च­न्द्रा­म्भांसि वायौ लीयन्ते, अध्यात्मं वाक्च­क्षुः­श्रो­त्र­म­नांसि प्राण­म­पि­य­न्ती­त्यु­क्तम् । ते वा एते पञ्चान्ये आधिदैविकाः, पञ्चान्ये आध्यात्मिकास्ते मिलित्वा दशसङ्ख्याकाः सन्तः कृत­मि­त्यु­च्यन्ते । सन्ति हि कृत­त्रे­ता­द्वा­प­र­क­लि­सं­ज्ञ­कानि चत्वारि द्युतानि क्रमेण चतु­र­ङ्क­त्र्य­ङ्क­द्व्य­ङ्कै­का­ङ्कानि । तत्र कृतं दशात्मकं भवति, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयो­र्द्व­यो­रे­कस्य चान्तर्भावात् । तथाच दशत्वगुणेन वाय्वादयः कृत­श­ब्दे­नो­च्यन्ते ।

एवं कृतत्वं वाय्वा­दी­ना­मु­प­क्र­म्याह
सैषेति ।
विधेयापेक्षया स्त्रीलि­ङ्ग­नि­र्देशः । विराट्पदं छन्तोवाचकम् , 'दशाक्षरा विराट्' इति श्रुतेः । दशत्वसाम्येन वाय्वादयो विरा­डि­त्यु­च्यन्ते । एवंच दशत्वद्वारा वाय्वादिषु कृतत्वं विराट्त्वं च ध्येयम् । तत्र विरा­ट्त्व­ध्या­ना­त्स­र्व­म­स्यान्नं भवति, 'अन्नं विराट्' इति श्रुतेः । कृत­त्व­ध्या­ना­द­न्नादो भवति, कृत­द्यू­त­स्या­न्ना­द­त्वात् । कृतं हि स्वीयचतुरङ्गेषु त्र्यङ्का­दि­क­म­न्त­र्भा­व­य­द­न्न­म­त्तीव लक्ष्यते । अत एव कृत­ज­या­दि­त­र­द्यू­त­जयः श्रुत्युक्तः 'कृता­य­वि­जि­ता­या­ध­रेयाः संयन्ति' इति । अयो द्यूतम् , कृतसंज्ञोऽयः कृतायः स विजितो येन तस्मै, अध­रे­या­स्त्र्य­ङ्का­दयः अयाः संयन्ति उपनमन्ते । तेन जिता भवन्तीत्यर्थः । एवंच सा वाय्वा­दि­द­शा­त्मिका एषा कृतशब्दिता विराडन्नम् , कृत­त्वा­द­न्ना­दि­नी­त्यर्थः ।

सर्वथापीति ।
गायत्रीति पदस्य लक्षकत्वे गौणत्वेऽपि चेत्यर्थः । अत्रापर आहेत्यपरपदेन गौणत्वे स्वमतं नेति द्योतयति । अज­ह­ल्ल­क्ष­णा­पक्षे हि 'वाग्वै गायत्री' इति वागात्मत्वं गायति च त्रायते च इति निरुक्तनामकत्वं च गायत्र्या उपा­धि­त्वे­नो­पा­स्य­त्वा­दु­प­प­न्न­त­रम् । गौणपक्षे गाय­त्री­त्या­गा­त्त­दु­भयं सर्वा­त्म­क­त्व­मा­त्रे­णो­प­पा­द­नी­यम् । एवं गायत्रीपदस्य स्वार्थत्यागः, अप्र­सि­द्ध­च­तु­ष्पा­त्त्व­गु­ण­द्वारा विप्र­कृ­ष्ट­ल­क्षणा चेति बह्वसमञ्जसम् ॥ २५ ॥

ननु 'गायत्री वा इदं सर्वम्' इति प्रथम गायत्रीश्रुतेः कथं लक्ष­णे­त्या­शङ्क्य वाक्य­शे­ष­ग­त­स­र्वा­त्म­क­त्वा­द्य­ने­क­ब­ल­व­त्प्र­मा­ण­सं­वा­देन ब्रह्मणि तात्प­र्या­व­ग­मा­दि­त्याह
भूतादिपादेति ।

एवं पदार्थमाह
इतश्चेति ।

सूत्र­स्था­दि­प­दार्थं दर्शयति
भूतपृथिवीति ।
अत्र सूत्र­भा­ष्य­का­र­यो­र्भू­ता­दि­भि­श्च­तु­ष्पदा गायत्रीति संमतम् , षड­क्ष­रै­श्च­तु­ष्पात्वं वृत्ति­का­रो­क्त­म­प्र­सिद्धं चकारसूचितम् ।

युक्त्यन्तरमाह
अपि चेति ।

ब्रह्म­प­र­सू­क्तो­त्प­न्न­त्वाच्च तस्या­स्त­त्प­र­त्व­मि­त्याह
पुरुषेति ।

ब्रह्मपदस्य छन्दो­वा­चि­त्व­मुक्तं निरस्यति
यद्वै तद्ब्रह्मेति ।
पूर्वस्यामृचि ब्रह्मो­क्ता­वि­त्यर्थः ।

हृदयस्य चतु­र्दि­क्षूर्ध्वं च पञ्च सुषयः सन्ति । तेषु ब्रह्म­स्था­न­हृ­न्न­ग­रस्य प्रागा­दि­द्वा­रेषु क्रमेण प्राण­व्या­ना­पा­न­स­मा­नो­दानाः पञ्चद्वारपाला इति ध्यानार्थं श्रुत्या कल्पितम् । तत्र हृद­य­च्छि­द्र­स्थ­प्रा­णेषु ब्रह्म­पु­रु­ष­त्व­श्रु­ति­र्हृदि गाय­त्र्या­ख्य­ब्रा­ह्मण उपा­स­ना­स­म्ब­न्धि­तायां ब्रह्मणो द्वार­पा­ल­त्वा­द्ब्र­ह्म­पु­रुषा इति सम्भवतीत्याह
पञ्च ब्रह्मेति ॥ २६ ॥

दिवि दिव इति विभ­क्ति­भे­दा­त्प्र­कृ­त­प्र­त्य­भिज्ञा नास्तीत्युक्तं नोप­क्ष­णी­य­मि­त्याह
तत्प­रि­ह­र्त­व्य­मिति ।

परिहारं प्रतीजानीते
अत्रेति ।

सूत्रे नञर्थं वदन्परिहारमाह
नायमिति ।
एवं सर्वत्र व्याख्येयम् । प्रधा­न­प्रा­ति­प­दि­का­र्थ­द्यु­स­म्ब­न्धेन प्रत्यभिज्ञाया विभक्त्यर्थभेदो न प्रतिबन्धकः, कथ­ञ्चि­दा­धा­र­स्यापि मर्या­दा­त्व­स­म्भ­वात् । यथा वृक्षाग्रं स्वल­ग्न­भा­गा­व­च्छि­न्न­श्ये­न­स्या­धारः सन्नेव स्वाल­ग्न­भा­गा­व­च्छि­न्नस्य तस्यैव मर्यादा भवति, एवं दिवि सूर्ये हार्दाकाशे वा मुख्ये आधारे सब्रह्मदिवो मर्यदात्वं तद­ल­ग्ना­का­शा­व­च्छिन्नं ब्रह्म प्रति कल्पयित्वा दिवः परमित्युच्यत इत्यर्थः ।

यद्याकाशेन अनवच्छिन्नं ब्रह्म गृहीत्वा पञ्चम्या दिवो मर्यादात्वमेव मुख्यं तदा गङ्गायां घेष इतिवत्सप्तम्या सामी­प्य­ल­क्ष­ण­या­धा­रत्वं व्याख्ये­य­मि­त्याह
अपर इति ।
सम्बद्धं प्रत्याधारत्वं मुख्यं पूर्वमुक्तं दिव्येव सदिति । असम्बद्धं प्रति मर्यादात्वं मुख्यमधुनोच्यते दिवः परमपीति भेदः । तस्मा­ज्ज्यो­ति­र्वा­क्य­मु­पास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २७ ॥

प्राण­स्त­था­नु­ग­मात् ।
दिवो­दा­स­स्या­पत्यं दैवोदासिः प्रतर्दनो नाम राजा युद्धेन पुरुषकारेण च कारणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम । तं ह इन्द्र उवाच, प्रतर्दन वरं ते ददानीति । स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्यसे तं वरं त्वमेवालोच्य मह्यं देहीति । तत इन्द्र इदमाह 'प्राणोऽस्मि' इत्यादि । मुख्यं प्राणं निरसितुं प्रज्ञा­त्म­त्व­मु­क्तम् ।

निर्वि­शे­ष­चि­न्मात्रं निरस्यति
तं मामिति ।
इदं प्राण­स्ये­न्द्र­दे­व­तात्वे लिङ्गम् ।

मुख्यप्राणत्वे लिङ्गमाह
अथेति ।
वागादीनां देह­धा­र­ण­श­क्त्य­भा­व­नि­श्च­या­न­न्त­र­मि­त्यर्थः ।

प्राणस्य देह­धा­र­क­त्व­मु­त्था­प­कत्वं च प्रसिद्धमिति वक्तुं खल्वित्युक्तम् । प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह
न वाचमिति ।

आनन्दत्वादिकं ब्रह्मलिङ्गमाह
अन्ते चेति ।

अनेकेषु लिङ्गेषु दृश्यमानेषु बला­ब­ल­नि­र्ण­या­र्थ­मि­द­म­धि­क­र­ण­म­मि­त्य­ग­ता­र्थ­माह
अनेकलिङ्गेति ।

पूवर्त्र प्रकृ­त­ब्र­ह्म­वा­च­क­य­च्छ­ब्द­ब­ला­ज्ज्यो­तिः­श्रु­तिः­ब्र­ह्म­प­रे­त्यु­क्तम् , न तथेह प्राण­श्रु­ति­भङ्गे किञ्चि­द्ब­ल­मस्ति, मिथो विरु­द्धा­ने­क­लि­ङ्गा­ना­म­नि­श्चा­य­क­त्वा­दिति प्रत्यु­दा­ह­र­ण­स­ङ्गत्या पूर्वपक्षयति
तत्रेति ।
पूर्वं प्रधा­न­प्रा­ति­प­दि­का­र्थ­ब­ला­त्वि­भ­क्त्य­र्थ­बा­ध­व­द्वा­क्या­र्थ­ज्ञानं प्रति हेतुत्वेन प्रधा­ना­ने­क­प­दा­र्थ­ब­ला­दे­क­वा­क्य­ता­भङ्ग इति दृष्टा­न्त­स­ङ्ग­ति­र्वास्तु । पूर्वपक्षे प्राणा­द्य­ने­को­पास्तिः, सिद्धान्ते प्रत्य­ग्ब्र­ह्म­धी­रिति विवेकः ।

तथा ब्रह्मपरत्वेन पदा­ना­म­न्व­या­व­ग­मा­दिति हेत्वर्थमाह
तथाहीति ।

हित­त­म­त्व­क­र्म­क्ष­या­दि­प­दा­र्थानां सम्बन्धो ब्रह्मणि तात्प­र्य­नि­श्चा­यक उपलभ्यत इत्युक्तं विवृणोति
उपक्रम इत्यादिना ।
यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः ।

स यः कश्चिन्मां ब्रह्मरूपं वेद­सा­क्षा­द­नु­भ­वति, तस्य विदुषो लोको मोक्षो महतापि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानाग्निना कर्म­तू­ल­रा­शे­र्द­ग्ध­त्वा­दि­त्याह
स य इति ।
साध्वसाधुनी पुण्यपापे । ताभ्या­म­स्पृ­ष्ट­त्वम् , तत्कारयितृत्वम् , निर­ङ्कु­शै­श्वर्यं च सर्व­मे­त­दि­त्यर्थः ॥ २८ ॥

अहङ्कारवादेन स्वात्म­वा­च­क­श­ब्दै­रा­च­चक्षे, उक्तवानित्यर्थः । वाक्यस्य इन्द्रो­पा­स­ना­प­रत्वे लिङ्गान्तरमाह
तथा विग्रहेति ।
त्रीणि शीर्षाणि यस्येति त्रिशीर्षा त्वष्टुः पुत्रो विश्वरूपो नाम ब्राह्मणः तं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यम् , तन्मुखे येषां ते रुन्मु­खा­स्ते­भ्योऽ­न्या­न्वे­दा­न्त­ब­हि­र्मु­खान् यतीनरण्यश्वभ्यो दत्त­वा­न­स्मी­त्यर्थः ।

इन्द्रे प्राण­श­ब्दो­प­प­त्ति­माह
प्राणत्वं चेति ।
वदन्ति लौकिका अपीत्यर्थः । बलवाचिना प्राणशब्देन बलदेवता लक्ष्यत इति भावः ।

इन्द्रो हित­प्र­दा­तृ­त्वा­द्धि­त­तमः, कर्मा­न­धि­का­रा­द­पाप इत्येवं व्याख्ये­या­नी­त्याह
निश्चिते चेति ।

किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मा­त्र­मु­च्यते उत विग्रहः । आद्ये वाक्यस्य ब्रह्मपरत्वं सिद्धम् । न द्वितीय इत्याह
अध्यात्मेति ।
आत्मनि देहेऽधिगत इत्यध्यात्मं प्रत्यगात्मा । स सम्बध्यते यैः शरी­र­स्थ­त्वा­दि­भि­रि­न्द्र­त­ना­व­स­म्भा­वि­तै­र्ध­र्मैस्ते अध्या­त्म­स­म्ब­न्धा­स्तेषां भूमेत्यर्थः ।

आयुरत्र देहे प्राण­वा­यु­स­ञ्चारः । अस्तित्वे प्राणस्थितौ प्राणा­ना­मि­न्द्रि­याणां स्थिति­रि­त्य­र्थतः श्रुतिमाह
अस्तित्व इति ।
'अथातो निश्रे­य­सा­दा­नम्' इत्याद्या श्रुतिः ।

इन्द्रि­य­स्था­प­क­त्व­व­द्दे­हो­त्था­प­क­त्व­माह
तथेति ।

वक्तृ­त्व­मुक्त्वा सर्वा­धि­ष्ठा­नत्वं दर्शितमित्याह
इति चोपक्रम्येति ।

तत्तत्र नाना­प्र­प­ञ्च­स्या­त्मनि कल्पनायां यथा दृष्टान्तः, लोके प्रसिद्धस्य रथस्यारेषु नेमि­ना­भ्यो­र्म­ध्य­स्थ­श­ला­कासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौ­च­क्र­पि­ण्डि­का­या­मरा अर्पिताः, एवं भूतानि पञ्च पृथिव्यादीनि मीयन्त इति, मात्राः भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः । इन्द्रियजाः पञ्च शब्दा­दि­वि­ष­य­प्रज्ञाः मीयन्ते आभिरिति मात्राः पञ्च धीन्द्रियाणि । नेमिवद्ग्राह्यं ग्राहकेषु अरेषु कल्पि­त­मि­त्युक्त्वा नाभिस्थानीये प्राणे सर्वं कल्पितमित्याह
प्राणेऽर्पिता इति ।

स प्राणो मम स्वरूपमित्याह
स म इति ।

तर्हि प्रत्यगात्मनि समन्वयो न तु ब्रह्मणि, तत्राह
अयमिति ॥ २९ ॥

अहङ्कारवादस्य गतिं पृच्छति
कथमिति ।

सूत्रमुत्तरम् । तद्व्याख्याति
इन्द्र इति ।

जन्मा­न्त­र­कृ­त­श्र­व­णा­दिना अस्मिञ्जन्मनि स्वतःसिद्धं दर्शनमार्षम् । विज्ञे­ये­न्द्र­स्तु­त्यर्थ उपन्यासो न चेत्कथं तर्हि स इति पृच्छति
कथमिति ।

ब्रह्म­ज्ञा­न­स्तु­त्यर्थः स इत्याह
विज्ञानेति ।

नियामकं ब्रूते
यदिति ।

परेण ।
'तस्य मे' इत्यादिना वाक्ये­ने­त्य­न्वयः ।

स्तुतिमाह
एतदुक्तमिति ।
तस्माज्ज्ञानं श्रेष्ठमिति शेषः ।

स्तुतज्ञानविषय इन्द्र इत्यत आह
विज्ञेयं त्विति ॥ ३० ॥

देहोत्थापनं जीवलिङ्गं किं न स्यात् , तत्राह
शरीरधारणं चेति ।
सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजा­प­ति­मु­प­जग्मुः । स च तानुवाच, यस्मि­न्नु­त्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागा­दि­षू­त्क्रा­न्ते­ष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वा­गा­दी­न्व­रिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतोऽ­ह­मे­वै­त­त्क­रोमि । किं तत् , पञ्चधा प्राणा­पा­ना­दि­भा­वे­ना­त्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरी­र­म­व­ष्ट­भ्या­श्रित्य धारयामीत्यर्थः ।

द्विव­च­न­स­ह­वा­सो­त्क्रा­न्ति­श्रु­तेश्च न ब्रह्म ग्राह्यमित्याह
जीवमुख्येति ।

अभेदनिर्देशमाह
यो वा इति ।

भेदमाह
सहेति ।

यदि जीव­मु­ख्य­प्रा­ण­यो­र्लि­ङ्गा­दु­पा­स्यत्वं तर्हि ब्रह्मणोऽपि लिङ्गा­ना­मु­क्त­त्वा­दु­पा­सनं स्यात् । न चेष्टापत्तिः । उपक्रमादिन निश्चि­तै­क­वा­क्य­ता­भ­ङ्ग­प्र­स­ङ्गा­दि­त्याह
नैत­दे­व­मि­त्या­दिना ।

नच स्वत­न्त्र­प­दा­र्थ­भे­दा­द्वा­क्य­भेदः किं न स्यादिति वाच्यम् , जीव­मु­ख्य­प्रा­ण­यो­रु­क्त­लि­ङ्गानां ब्रह्मणिनेतुं शक्यतया स्वात­न्त्र्या­सिद्धेः, अफलपदार्थस्य फल­व­द्वा­क्या­र्थ­शे­ष­त्वेन प्रधा­न­वा­क्या­र्था­नु­सा­रेण तल्लि­ङ्ग­न­य­स्यो­चि­त­त्वाच्च । नहि प्रधा­न­वा­क्या­र्थ­ब्र­ह्म­लि­ङ्ग­म­न्यथा नेतुं शक्यम् , न वा तदुचितमित्याह
नच ब्रह्मलिङ्गमिति ।

सूत्रशेषं व्याचष्टे
आश्रि­त­त्वा­च्चेति ।
अन्यत्र 'अत एव प्राणः' इत्यादौ वृत्ते­रा­श्रि­त­त्वा­दि­हापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः ।

प्राणा­दि­लि­ङ्गानि सर्वात्मके ब्रह्म­ण्य­ना­या­सेन नेतुं शक्यनीत्याह
यत्त्वित्यादिना ।
यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणा­दि­व्या­पारं कुर्व­न्ती­त्यर्थः । विशेषं परि­च्छे­दा­भि­मा­न­मि­त्यर्थः ।

'वक्तारं विद्यात्' इति न वक्तु­र्ज्ञे­य­त्व­मु­च्यते, तस्य लोकसिद्धत्वात् , किन्तु तस्य ब्रह्मत्वं बोध्यते । तद्बो­धा­भि­मु­ख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह
यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते स्वका­र्या­भि­मु­ख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः ।

तत्त्व­म्प­द­वा­च्ययोः स्वरूपतो भेद­स्ता­भ्या­मु­प­ल­क्ष्या­त्म­स्व­रू­पा­भे­दा­दे­कत्वं निर्दिश्यत इत्याह
नैष दोष इति ।

स्वमतेन सूत्रं व्याख्याय वृत्तिकृन्मतेन व्याचष्टे
अथवेति ।
उपा­स­ना­त्रि­त्व­प्र­स­ङ्गा­दिति पूर्वमुक्तम् । अत्र त्रिप्र­का­र­क­स्यै­क­ब्र­ह्म­वि­शे­षे­क­स्यै­क­स्यो­पा­स­नस्य विव­क्षि­त­त्वा­दि­त्यर्थः । अतो न वाक्यभेद इति भावः ।

देह­चे­ष्टा­त्म­क­जी­व­न­हे­तुत्वं प्राण­स्या­युष्ट्वं देहापेक्षया तस्य आमु­क्ते­र­व­स्था­ना­द­मृ­त­त्वम् , उत्था­प­य­ती­त्यु­क्थ­त्व­मिति प्राणधर्मः । जीवधर्मानाह
अथेति ।
बुद्धिप्राणयोः सह­स्थि­त्यु­त्क्रा­न्त्यु­क्त्य­न­न्त­र­मि­त्यर्थः ।

अत्र प्रज्ञापदेन साभासा जीवाख्या बुद्धिरुच्यते । तस्याः सम्भन्धीनि दृश्यानि सर्वाणि भूतानि यथैकं भव­न्त्य­धि­ष्ठा­न­चि­दा­त्मना तथा व्याख्यास्याम इत्यु­प­क्र­म्यो­क्तम्
'वागेव' इत्यादि ।
चक्षुरेवास्या एक­म­ङ्ग­म­दू­दु­ह­दि­त्या­दि­प­र्या­याणां सङ्क्षि­प्ता­र्थ­मु­च्यते । उत्पन्नाया असत्कल्पनायाः साभा­स­बु­द्धे­र्ना­म­प्र­प­ञ्च­वि­ष­यि­त्व­मर्धं शरीरम् , अर्था­त्म­क­रू­प­प्र­प­ञ्च­वि­ष­यि­त्व­मर्धं शरीरमिति मिलित्वा विषयित्वाख्यं पूर्णं शरी­र­मि­न्द्रि­य­सा­ध्यम् । तत्र कर्मेन्द्रियेषु वागेवास्याः प्रज्ञाया एकमङ्गं देहा­र्ध­म­दू­दु­ह­त्पू­र­या­मास । वागि­न्द्रि­य­द्वारा नाम­प्र­प­ञ्च­वि­ष­यित्वं बुद्धिर्लभत इत्यर्थः । चतुर्थी षष्ठ्यर्था । तस्याः पुनर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापि­ता­भू­त­मात्रा रूपाद्यर्थरूपा परस्तादपरार्धे कारणं भवति । ज्ञान­का­र­ण­द्व­रा­र्थ­प्र­प­ञ्च­वि­ष­यित्वं बुद्धिः प्राप्नो­ती­त्यर्थः ।

एवं बुद्धेः सर्वा­र्थ­द्र­ष्टृ­त्व­मु­प­पाद्य तन्नि­ष्ठ­चि­त्प्र­ति­बि­म्ब­द्वारा साक्षिणि द्रष्टृ­त्वा­ध्या­स­माह
प्रज्ञयेति ।
बुद्धिद्वारा चिदात्मा वाच­मि­न्द्रि­यं­स­मा­रुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्त­व्य­त्वे­ना­प्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्टा भवतीत्यर्थः ।

तथाच सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृ­त्वा­ध्या­स­नि­मि­त्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वा­धा­र­त्वा­न­न्द­त्वादिः ब्रह्मधर्म इत्याह
ता वा इति ।
दशत्वं व्याख्यातम् ।

प्रज्ञा इन्द्रियजात्या अधिकृत्य ग्राह्या भूतमात्रा वर्तन्ते, प्रज्ञामात्रा इन्द्रियाणि ग्राह्यं भूतजातमधिकृत्य वर्तन्त इति ग्राह्य ग्राहकयोर्मिथः सापे­क्ष­त्व­मुक्तं साधयति
यदिति ।

तदेव स्फुटयति
न हीति ।

ग्राह्येण ग्राह्यस्वरूपं न सिध्यति किन्तु ग्राहकेण । एवं ग्राहकमपि ग्राह्य­म­न­पेक्ष्य न सिध्यति । तस्मा­त्सा­पे­क्ष­त्वा­दे­त­द्ग्रा­ह्य­ग्रा­ह­क­द्वयं वस्तुतो न भिन्नं किन्तु चिदा­त्म­न्य­रो­पि­त­मि­त्याह
नो इति ।
तद्यथेत्यादि कृतव्याख्यानम् ।

सूत्रा­र्थ­मु­प­सं­ह­रति
तस्मादिति ।

अन्य­ध­र्मे­णा­न्य­स्यो­पा­सनं कथ­मि­त्या­श­ङ्क्या­श्रि­त­त्वा­दि­त्याह
अन्यत्रापीति ।
उपाधिर्जीवः । तत् अन्य­ध­र्मे­णो­पा­स­नम् । इयमसङ्गता व्याख्या । तथाहिन ताव­दा­रु­ण्या­द्य­ने­क­गु­ण­वि­शि­ष्ट­प्रा­प्त­क्र­य­ण­व­दु­पा­सा­त्र­य­वि­शि­ष्टस्य ब्रह्मणो विधिः सम्भवति, सिद्धस्य विध्यनर्हत्वात् । नापि ब्रह्मा­नु­वा­दे­नो­पा­सा­त्र­य­विधिः, वाक्यभेदात् । नच नाना­ध­र्म­वि­शि­ष्ट­मे­क­मु­पा­सनं विधीयत इति वाच्यम् , तादृ­श­वि­धि­वा­क्य­स्या­त्रा­श्र­व­णात् । नच 'तं मामा­यु­र­मृ­त­मि­त्यु­पाःस्व' इत्यत्र मामिति जीवेन, आयुरिति प्राणेन, अमृतमिति ब्रह्मणा स्वस्वधर्मवता विशि­ष्टो­पा­स­ना­वि­धि­रिति वाच्यम् , सर्वेषां धर्मा­णा­म­श्र­व­णात् , ब्रह्मा­श्रु­तेश्च । 'प्राणो वा अमृतम्' इति प्राण­स्यै­वा­मृ­त­त्व­श्रुतेः । अत उपा­स­ना­वि­धि­लु­ब्धेन 'वक्तारं विद्यात्' 'एत­दे­वो­क्थ­मु­पा­सीत' 'स म आत्मेति विद्यात्' इति जीव­प्रा­ण­ब्र­ह्मो­पा­स­न­वि­धयः, अन्ये गुणविधय इति स्वीकृ­त्यै­क­वा­क्यत्वं त्याज्यम् , तच्चायुक्तम् , उप­क्र­मा­दि­नै­क­वा­क्य­ता­नि­र्ण­या­दिति ।

तस्मा­ज्ज्ञे­य­प्र­त्य­ग्ब्र­ह्म­प­र­मिदं वाक्य­मि­त्यु­प­सं­ह­रति
तस्मादिति ॥ ३१ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ श्रीम­च्छा­री­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥

प्रथमाध्याये द्वितीयः पादः ।
श्रीरामं सिद्धमत्तारं गुहा­शा­यि­न­मा­न्त­रम् । अन्त­र्या­मि­ण­म­ज्ञेयं वैश्वानरमहं भजे ॥ १ ॥
पूर्व­पा­दे­नो­त्त­र­पा­दयोः सङ्गतिं वक्तुं वृत्तमनुवदति
प्रथम इति ।
जग­त्का­र­ण­त्वोक्त्या व्यापि­त्वा­दि­क­म­र्था­त्सि­द्धम् । तदुपजीव्योत्तरं पादद्वयं प्रवर्तत इति हेतुहेतुमद्वावः सङ्गतिः ।

कथं पादभेद इत्याशङ्क्य पादानां प्रमेयभेदमाह
अर्थान्तरेति ।
आकाशादिशब्दानां स्पष्ट­ब्र­ह्म­लि­ङ्गै­र्ब्र­ह्मणि समन्वयो दर्शितः । अस्प­ष्ट­ब्र­ह्म­लि­ङ्ग­वा­क्य­स­म­न्वयः पादद्वये वक्ष्यते । प्राये­णो­पा­स्य­ज्ञे­य­ब्र­ह्म­भे­दा­त्पा­द­यो­र­वा­न्त­र­भेद इति भावः ।

छान्दो­ग्य­वा­क्य­मु­दा­ह­रति
इदमिति ।
तस्माज्जायत इति तज्जम् , तस्मिंल्लीयत इति तल्लम् , तस्मिन्ननिति चेष्टत इति तदनम् , तज्जं च तल्लं च तदनं चेति तज्जलान् । कर्म­धा­र­येऽ­स्मिन् शाक­पा­र्थि­व­न्या­येन मध्यमपदस्य तच्छब्दस्य लोपः । तज्जलानमिति वाच्ये छान्दसोऽवयवलोपः । इतिशब्दो हेतौ । सर्वमिदं जगद्ब्रह्मैव, तद्वि­व­र्त­त्वा­दि­त्यर्थः ।

ब्रह्मणि मित्रा­मि­त्र­भे­दा­भा­वा­च्छान्तो रागादिरहितो भवेदिति गुणविधिः । सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य 'उपा­सीत' इत्य­नु­वा­दा­त्फ­ल­माह
अथेति ।
क्रतुमयः सङ्कल्पविकार इत्यर्थः ।

पुरुषस्य ध्यानविकारत्वं स्फुटयति
यथेति ।
इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः । क्रतुमयः सङ्कल्पप्रधान इति वार्थः ।

क्रतोर्विषयमाह
मन इति ।
ब्रह्मे­त्यु­प­क्र­मा­न्म­नो­मयं प्राणशरीरं भारूपं सत्य­स­ङ्क­ल्प­म­न्त­र्ह्र­दये ध्येयमित्यर्थः ।

पूर्वत्र ब्रह्म­लि­ङ्गै­र­ब्र­ह्म­लि­ङ्ग­बाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् । तच्च शान्ति­गु­ण­वि­धा­ना­र्थ­म­न्य­था­सि­द्वम् । अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति
शारीर इत्यादिना ।

श्रुति­मा­श­ङ्क्या­न्य­था­सिद्ध्या परिहरति
नैष दोष इति ।

शमविधिपरत्वे हेतुमाह
यत्कारणमिति ।
यत एवमाह तस्मा­च्छ­म­वि­धि­प­र­मि­त्य­न्वयः । [अत्रेदंशब्दः प्रकृ­त­ब्र­ह्म­प­रा­म­र्शार्थो नतु जग­त्प­रा­म­र्शार्थः, जगद्विशेषणे प्रयोजनाभावात् । अत्र प्रयोजनाभावेऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणम् , यथा 'आत्मैवेदं सर्वम्' । अत्र बाधायां समा­ना­धि­क­र­ण­दा­र्ढ्यार्थं विशेषणमावश्यकम् , तद्वाक्यस्य ज्ञेय­ब्र­ह्म­वि­ष­य­त्वात् । अत्र तूपासनायां बाधा­ना­व­श्य­क­त्वा­द्वि­ष­या­भे­देन ब्रह्मण उपास्यत्वात् । ]

नच शमेति ।
शमध्यानयोर्विधौ वाक्य­भे­दा­प­त्ते­रि­त्यर्थः ।

जन्मपरम्परया जीवस्यापि सर्व­क­र्म­त्वा­दि­स­म्भ­व­माह
सर्वकर्मेति ।
सर्वाणि कर्माणि यस्य । सर्वे कामा भोग्या यस्य । सर्वगन्धः सर्वरस इत्या­दि­रा­दि­श­ब्दार्थः ।

आरा­ग्र­मा­त्र­स्येति ।
तोत्र­प्रो­ता­यः­श­ला­का­ग्र­प­रि­मा­ण­स्ये­त्यर्थः ।

सर्वत्र प्रसिद्वब्रह्मण एवा­त्रो­पा­स्य­त्वो­प­दे­शान्न जीव उपास्य इति सूत्रार्थमाह
सर्वत्रेति ।
यत्र फलं नोच्यते तत्र पूर्वो­त्त­र­प­क्ष­सिद्विः फलमिति मन्तव्यम् । यद्यपि निराकाङ्क्षं ब्रह्म तथापि मनः­प्र­चु­र­मु­प­धि­रस्य, प्राणः शरीरमस्येति समा­सा­न्त­र्ग­त­स­र्व­नाम्नः संनि­हि­त­वि­शे­ष्या­का­ङ्क्ष­त्वा­द्ब्रह्म सम्बध्यते ।

'स्योनं ते सदनं करोमि' इति संस्का­रा­र्थ­स­द­नस्य निरा­का­ङ्क्ष­स्यापि 'तस्मि­न्सीद' इति साका­ङ्क्ष­त­च्छ­ब्देन परा­म­र्श­द­र्श­ना­दि­त्याह
अत्रोच्यत इति ।
स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः ।

जीवोऽपि लिङ्गात्संनिहित इत्यत आह
जीवस्त्विति ।
इदं हि लिङ्गद्वयं लोकसिद्वं जीवं न संनिधापयति, दुःखिन उपा­स्त्य­यो­ग्य­त्वा­त्फ­ला­भा­वाच्च । अतो विश्व­जि­न्न्या­येन सर्वा­भि­ल­षि­त­मा­न­न्द­रूपं ब्रह्मै­वो­पा­स­ना­क्रि­या­नु­ब­न्धीति भावः ।

किञ्च ब्रह्म­प­द­श्रुत्या लिङ्गबाध इत्याह
नचेति ।
अन्य­त­रा­का­ङ्क्षा­नु­गृ­हीतं फलवत्प्रकरणं विफ­ल­लि­ङ्गा­द्व­लीय इति समुदायार्थः ॥ १ ॥

वस्तुनो विवक्षायाः फलमुपादानं स्वीकारः, स च प्रकृतेषु गुणेष्वस्तीति विवक्षोपचार इत्याह
तथा­प्यु­पा­दा­ने­नेति ।

नन्विदं ग्राह्यमिदं त्याज्यमिति धीर्विवक्षाधीना वेदे कुतः स्यादित्यत आह
उपादानानुपादाने त्विति ।
तात्पर्यं नाम फल­व­द­र्थ­प्र­ती­त्य­नु­कू­लत्वं शब्दधर्मः । उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः ।

तदिहेति ।
तत्तस्मात् । तात्प­र्य­व­त्त्वा­दि­त्यर्थः ।

सर्वात्मत्वे प्रमाणमाह
तथाचेति ।
जीर्णः स्थविरो यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । यो जातो बालः स त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्रा­ण्य­स्येति सर्वतः श्रुतिमत् । सर्वजन्तूनां प्रसिद्वाः पाण्या­द­य­स्त­स्येति सर्वा­त्म­त्वोक्तिः ॥ २ ॥

ननु जीव­ध­र्माः­श्चे­त्ब्र­ह्मणि योज्यन्ते तर्हि ब्रह्मधर्मा एव जीवे किमिति न योज्यन्ते, तत्राह
अनुपपत्तेरिति ।

सूत्रं व्याचष्टे
पूर्वेणेति ।
सर्वा­त्म­त्वा­दि­रू­क्त­न्यायः । कल्पितस्य धर्मा अधिष्ठाने सम्बध्यन्ते, नाधिष्ठानधर्माः कल्पित इति भावः । अधि­ष्ठा­न­ज्ञा­न­काले कल्पि­त­ध­र्मा­भा­वात् । वागेव वाकः सोऽस्यास्तीति वाकी, न वाकी अवाकी । अनिन्द्रिय इत्यर्थः । कुत्राप्यादरः कामोऽस्य नास्तीत्यनादरः । नित्यतृप्त इत्यर्थः ।

ज्याय­स्त्वा­द्य­नु­प­पत्तौ शारीर इति परिच्छेदो हेतुः सूत्रोक्तः । स तु जीवस्यैव नोश्वरस्येत्याह
सत्यमित्यादिना ॥ ३ ॥

प्रापकत्वेन व्यपदिशतीति सम्बन्धः । कर्म­क­र्तृ­व्य­प­दे­श­प­द­स्या­र्था­न्त­र­माह
तथोपास्येति ॥ ४ ॥

एकार्थत्वं प्रकरणस्य समानत्वम् । अन्तरात्मन्निति विभ­क्ति­लो­प­श्छा­न्दसः । शब्दयोर्विशेषो विभक्तिभेदः । तस्मा­त्त­द­र्थ­यो­र्भेद इति सूत्रार्थः ॥ ५ ॥

स्मृतौ हृदिस्थस्य जीवा­द्भे­दो­क्ते­र­त्रापि हृदिस्थो मनोमय ईश्वर इत्याह
स्मृतेश्चेति ।
भूतानि जीवान् । यन्त्रं शरीरम् ।

अत्र सूत्रकृता सत्यभेद उक्त इति भ्रान्ति­नि­रा­सा­ये­क्ष­त्य­धि­क­रणे निरस्तमपि चोद्यमुद्भाव्य निरस्यति
अत्राहेत्यादिना ।

त्वदुक्तरीत्या वस्तुत एकत्वमेव, भेदस्तु कल्पितः सूत्रेष्वनूद्यत इत्याह
सत्यमिति ॥ ६ ॥

अर्भकमोको यस्य सोऽर्भकौकाः तस्य भावस्तत्त्वं तस्मा­दा­र्थि­क­म­ल्प­त्वम् । अणी­या­नि­त्य­ल्प­त्व­वा­च­क­श­ब्दे­नापि श्रुतमित्याह
स्वशब्देनेति ।

नायं दोष इत्युक्तं विवृणोति
न तावदिति ।

कथमपि ।
ब्रह्म­भा­वा­पे­क्ष­या­पी­त्यर्थः । परिच्छेदत्यागं विना ब्रह्म­त्वा­स­म्भ­वा­त्त­त्त्यागे च ब्रह्मण एवो­पा­स्य­त्व­मा­या­तीति भावः ।

विभोः परिच्छेदोक्तौ दृष्टान्तमाह
यथा समस्येति ।
सर्वे­श्व­र­स्या­यो­ध्यायां स्थित्यपेक्षया परि­च्छे­दो­क्ति­व­द­ल्प­हृदि ध्येयत्वेन तथो­क्ति­रि­त्यर्थः ।

ननु किमिति हृदयमेव प्रायेणोच्यते, तत्राह
तत्रेति ।
हृदये परमात्मनो बुद्वि­वृ­त्ति­र­र्ग्रा­हिका भवति । अत ईश्व­रा­भि­व्य­क्ति­स्था­न­त्वा­त्त­दु­क्ति­रि­त्यर्थः ।

व्योम­दृ­ष्टा­न्ता­सिना शङ्कालतापि काचि­च्छि­न्ने­त्याह
तत्र यदाशङ्क्यत इत्यादिना ।
भिन्ना­य­त­न­त्वेऽपि व्योम्नः सत्य­भे­दा­द्य­भा­वा­दिति भावः ॥ ७ ॥

ब्रह्मणो हार्द­त्वेऽ­नि­ष्ट­स­म्भो­गा­प­त्ते­र्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे
व्योमवदिति ।

ब्रह्म भोक्तृ स्यात्, हार्दत्वे सति चेतनत्वात् , जीवा­भि­न्न­त्वाच्च जीववदित्युक्तं निरस्यति
न । वैशेष्यादिति ।
धर्मा­ध­र्म­व­त्त्व­मु­पा­धि­रि­त्यर्थः । अयमेव विशेषो वैशेष्यम् । स्वार्थे ष्यञ्प्रत्ययः । विशे­ष­स्या­ति­श­यार्थो वा । धर्मादेः स्वाश्रये फल­हे­तु­त्व­म­ति­शयः, तस्मादिति सूत्रार्थः ।

किञ्च विभवो बहव आत्मान इति वादि­ना­मे­क­स्मि­न्देहे सर्वात्मनां भोक्तृ­त्व­प्र­सङ्गः, स्वकर्मार्जित एव देहे भोग इति परिहारश्च तुल्य इति न वयं पर्यनुयोज्या इत्याह
सर्वगतेति ।
वस्तुतस्तेषामेव भोग­सा­ङ्क­र्य­मि­त्यग्रे वक्ष्यते ।

ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य तेन भोक्तृ­त्वा­नु­माने उप­जी­व्य­श्रु­ति­बा­ध­माह
यथाशास्त्रमिति ।
अर्थं मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सोऽय­म­र्ध­ज­र­ती­य­न्यायः । स चात्र न युक्तः ।

न ह्यभे­द­म­ङ्गी­कृ­त्या­भो­क्तृत्वं त्यक्तुं युक्तम् , श्रुत्यैवाभेद सिद्ध्यर्थं भोक्तृ­त्व­वा­र­णा­दि­त्याह
शास्त्रं चेति ।

नन्वेकत्वं मया श्रुत्या न गृहीतम् , योनोपजीव्यबाधः स्यात् । किन्तु त्वदुक्त्या गृही­त­मि­त्या­शङ्क्य बिम्ब­प्र­ति­बि­म्बयोः कल्पितभेदेन भोक्तृ­त्वा­भो­क्तृ­त्व­व्य­व­स्थो­प­प­त्ते­र­प्र­यो­जको हेतुरित्याह
अथा­गृ­ही­त­मि­त्या­दिना ।

कल्पि­ता­स­ङ्गि­त्व­म­धि­ष्ठा­नस्य वैशे­ष्य­मि­त्य­स्मि­न्न­र्थेऽपि सूत्रं पातयति
तदाहेति ।
ब्रह्मणो हार्दत्वे बाध­का­भा­व­च्छा­ण्डि­ल्य­वि­द्या­वाक्यं ब्रह्म­ण्यु­पास्ये समन्वितमिति सिद्वम् ॥ ८ ॥

अत्ता­च­रा­च­र­ग्र­ह­णात् ।
'यस्य ब्रह्म­क्ष­त्रा­दि­ज­ग­दो­दनः, मृत्युः सर्व­प्रा­णि­मा­र­कोऽपि यस्यो­प­से­च­न­मो­द­न­सं­स्का­र­क­घृ­त­प्रायः', सोऽत्ता यत्र शुद्धे चिन्मा­त्रेऽ­भे­द­क­ल्प­नया वर्तते तच्छुद्धं ब्रह्म इत्था इत्थ­मी­श्व­र­स्या­प्य­धि­ष्ठा­न­भूतं को वेद । चित्त­शु­द्ध्या­द्यु­पायं विना कोऽपि न जानातीत्यर्थः ।'

संशयबीजमाह
विशेषेति ।
'स त्वमग्निं प्रब्रूहि' इत्यग्नेः, 'येयं प्रेते विचि­कित्सा' इति जीवस्य, 'अन्यत्र धर्मा­त्'इति ब्रह्मणः प्रश्नः । 'लोका­दि­मग्निं तमुवाच' इत्यग्नेः, 'हन्त त इदं प्रव­क्ष्यामि' इतीतरयोः प्रति­व­च­न­मु­प­ल­भ्यत इत्यर्थः ।

पूर्वत्र ब्रह्मणो भोक्तृत्वं नास्तीत्युक्तम् , तदुपजीव्य पूर्वपक्षयति
किं तावदिति ।

अग्नि­प्र­क­र­ण­म­ती­त­मि­त्य­रु­चे­राह
जीवो वेति ।
पूर्वपक्षे जीवोपास्तिः, सिद्वान्ते निर्वि­शे­ष­ब्र­ह्म­ज्ञा­न­मिति फलभेदः ।

ओदनशब्दो भोग्यवाचीति पूर्वपक्षः । सिद्वान्तस्तु ब्रह्म­क्ष­त्र­श­ब्दै­रू­प­स्था­पि­त­का­र्य­मात्रे गौण ओदनशब्दः । गुणश्चात्र मृत्यूपसेचनपदेन संनिधापितं प्रसिद्वौदनगतं विनाश्यत्वं गृह्यते, गौणशब्दस्य संनि­हि­त­गु­ण­ग्रा­हि­त्वात् । तथाच सर्वस्य विनाश्यत्वेन भाना­ल्लि­ङ्गा­दी­श्व­रोऽ­त्तेत्या ह
नैष दोष इति ।

तस्य संनिहितत्वादिति ।
'पिप्पलं स्वाद्वत्ति' इति भोगस्य पूर्वो­क्त­त्वा­दि­त्यर्थः ॥ ९ ॥ ॥ १० ॥

अत्तृ­वा­क्या­न­न्त­र­वा­क्य­स्यापि ज्ञेयात्मनि समन्वयमाह
गुहामिति ।
ऋतमवश्यम्भावि कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य कर्मणो लोके कार्ये देहे परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं परमं श्रेष्ठं तस्मिन्या गुहा नभोरूपा बुद्विरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथो विरुद्वौ तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्ना­चि­के­तोऽ­ग्नि­श्चितो यैस्ते त्रिणाचिकेताः तेऽपि वदन्तीत्यर्थः । नाचि­के­त­वा­क्या­ना­म­ध्य­य­नम् , तदर्थज्ञानम् , तदनुष्ठानं चेति त्रित्वं बोध्यम् ।

बुद्ध्य­व­च्छि­न्न­जी­वस्य परमात्मनश्च प्रकृ­त­त्वा­त्सं­श­य­माह
तत्रेति ।

पूर्वो­त्त­र­प­क्षयोः फलं स्वयमेवाह
यदीत्यादिना ।
तदपि जीवस्य बुद्वि­वै­ल­क्ष­ण्य­म­पी­त्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोके भोक्ता­स्ती­त्येके, नास्तीत्यन्ये । अत­स्त्व­यो­प­दि­ष्टोऽ­ह­मे­त­दा­त्म­तत्त्वं जानीयामित्यर्थः । तदपि पर­मा­त्म­स्व­रू­प­म­पी­त्यर्थः ।

उभ­यो­र्भो­क्तृ­त्वा­यो­गेन संशयमाक्षिपति
अत्राहेति ।

छत्रिपदेन गन्तार इव पिब­त्प­दे­ना­ज­ह­ल्ल­क्ष­णया प्रवि­ष्टा­वु­च्येते इत्याह
अत्रोच्यत इति ।

पान­क­र्तृ­वा­चि­प­देन पानानुकूलौ वा लक्ष्यावित्याह
यद्वेति ।
निय­त­पू­र्व­भा­वि­कृ­ति­म­त्त्व­रू­प­म­नु­कू­लत्वं कर्तृकारयित्रोः साधारणम् । यः कारयति स करोत्येवेति न्यायादिति भावः । अत्र प्रकृ­ति­र्मु­ख्यार्था शतृप्रत्यये लक्षणा । मिश्रास्तु कृतिः, प्रत्ययार्थो मुख्यः । प्रकृत्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः ।

पूर्वपक्षे 'पिबन्तौ' इति कर्तृ­वा­चि­श­तृ­प्र­त्य­येन बुद्धि­जी­व­सा­धा­रणं कारकत्वं लक्ष्यमित्याह
बुद्वीति ।
एधांसि काष्ठानि पच­न्ती­त्या­ख्या­तेन कारकत्वं लक्ष्यम् , प्रकृतिस्तु मुख्यैवेति भावः ।

मुख्यपातारौ प्रसिद्वपक्षिणौ ग्राह्यावित्यत आह
न चेति ।

ब्रह्म­क्ष­त्र­प­दस्य संनि­हि­त­मृ­त्यु­प­दा­द­नि­त्य­व­स्तु­प­र­त्व­व­दि­हापि पिबत्पदस्य संनि­हि­त­गु­हा­प­दा­द्बु­द्धि­जी­व­प­र­तेति दृष्टान्तेन पूर्वपक्षयति
किं तावदिति ।
गोचरः फलम् ।

एकस्मिञ्जातिमति कॢप्ते सजातीयमेव द्वितीयं ग्राह्यम् , व्यक्ति­मा­त्र­ग्रहे लाघवात् । न विजातीयम् , जाति­व्य­क्त्यु­भ­य­क­ल्प­ना­गौ­र­वात् । न चास्तु कारकत्वेन सजातीया बुद्विरेव जीवस्य द्वितीयेति वाच्यम् , चेतनत्वस्य जीवस्वभावस्य कार­क­त्वा­द­न्त­र­ङ्ग­त्वात् । तथाच लोके द्विती­य­स्या­न्त­र­ङ्ग­जा­ति­म­त्त्व­द­र्श­ना­ज्जी­वस्य द्वितीयश्चेतन एवेति सूत्रार्थमाह
सङ्ख्याश्रवणे चेति ।
गुहायां बुद्वौ स्थितम् , गह्व­रेऽ­ने­का­न­र्थ­स­ङ्कुले देहे स्थितं पुरा­ण­म­ना­दि­पु­रुषं विदित्वा हर्षशोकौ जहाति । परमे श्रेष्ठे, व्योमन् हार्दाकाशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वेद सोऽश्नुते सर्वा­न्का­मा­नि­त्य­न्वयः । अन्विच्छ विचारयेत्यर्थः ॥ ११ ॥

विशेषणं गन्तृ­ग­न्त­व्य­त्वा­दिकं लिङ्गमाह
विशेषणाच्चेति ।
स जीवोऽध्वनः संसारमार्गस्य परमं पारम् , किं तत् , विष्णो­र्व्या­प­न­शी­लस्य परमात्मनः पदं स्वरू­प­मा­प्नो­ती­त्यर्थः । दुर्दर्शं दुर्ज्ञानम् , तत्र हेतुर्गूढं मायावृतं मायानुप्रविष्टं पश्चाद्गुहाहितं गुहाद्वारा गह्वरेष्ठम् , एवं बहि­रा­ग­त­मा­त्मा­नम् , अध्यात्मयोगः स्थूल­सू­क्ष्म­का­र­ण­दे­ह­ल­य­क्र­मेण प्रत्यगात्मनि चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः ।

ऋतपानमन्त्रे जीवानुवादेन वाक्या­र्थ­ज्ञा­नाय तत्पदार्थो ब्रह्म प्रतिपाद्यत इत्युपसंहरति
तस्मादिहेति ।

उक्त­न्या­य­म­ति­दि­शति
एष इति ।
द्वा द्वौ । छान्दसो द्विवचनस्याकारः । सुपर्णाविव सहैव युज्येते निय­म्य­नि­या­म­क­भा­वे­नेति सयुजौ । सखायौ चेतनत्वेन तुल्यस्वभावौ । समानमेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः । गुहां प्रविष्टाविति यावत् ।

एतावात्मानौ, तल्लि­ङ्ग­द­र्श­ना­दि­त्याह
तयोरन्य इति ।

विशे­ष­णा­च्चे­त्याह
अनन्तरे चेति ।

अनीशया स्वस्ये­श्व­र­त्वा­प्र­तीत्या देहे निमग्नः पुरुषो जीवः शोचति । निमग्नपदार्थमाह
मुह्यमान इति ।
नरोऽहमिति भ्रान्त इत्यर्थः । जुष्टं ध्यानादिना सेवितं यदा ध्यान­प­रि­पा­क­द­शा­या­मी­श­मन्यं विशि­ष्ट­रू­पा­द्भिन्नं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदास्य महिमानं स्वरूपमेति प्राप्नोतीव । ततो वीतशोको भवतीत्यर्थः ।

'द्वा सुपर्णा' इति वाक्यं जीवेश्वरपरं कृत्वा चिन्तितम् । अधु­ना­कृ­त्वा­चि­न्ता­मु­द्धा­ट­यति
अपर इति ।
अन्यथा बुद्धि­वि­ल­क्ष­णत्वं पद­ल­क्ष्य­प­र­त्वे­ने­त्यर्थः ।

सत्त्वं बुद्धिरिति शङ्कते
सत्त्वशब्द इति ।

बुद्धिजीवौ चेत्पू­र्व­प­क्षार्थः स्यादित्यत आह
नापीति ।
पूर्व­प­क्षा­र्थ­स्तदा स्यात् , यद्यत्र बुद्धिभिन्नः संसारी प्रतिपाद्येत । नह्यत्र संसारी विवक्ष्यते किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः । श्रुति­स्मृ­ति­भ्य­श्चा­य­मर्थो युक्त इति शेषः । तावता मन्त्र­व्या­ख्या­मा­त्रेण । एवमेव जीवस्य ब्रह्म­त्वो­क्ता­वेव । नाहि जीवो बुद्धिभिन्न इति विवे­क­मा­त्रे­णो­प­सं­हारो युक्तः । भेदज्ञानस्य भ्रन्ति­त्वा­द्वै­फ­ल्या­च्चेति भावः । अविद्या विदुषि किमपि स्वकार्यं नाध्वंसते न सम्पादयति, ज्ञानाग्निना स्वस्या एव दग्ध­त्वा­दि­त्यर्थः । अविद्या नागच्छतीति वार्थः ।

जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते
कथमिति ।

बुद्धे­र्भौ­क्तृ­त्वो­क्ता­व­ता­त्प­र्या­न्नात्र युक्तिचिन्तया मनः खेदनीयमित्याह
उच्यत इति ।
तदर्थं ब्रह्म­त्व­भो­ध­नार्थं भोक्तृ­त्व­मु­पा­धि­म­स्तके निक्षि­प­ती­त्यर्थः ।

वस्तुतो जीव­स्या­भो­क्तृत्वे भोक्तृत्वधीः कथमित्यत आह
इदं हीति ।
चित्तादात्म्येन कल्पिता बुद्धिः सुखादिरूपेण परिणमते । बुद्ध्य­वि­वे­का­च्चि­दा­त्मनः सुखा­दि­रू­प­वृ­त्ति­व्य­क्त­चै­त­न्य­वत्त्वं भोक्तृत्वं भातीत्यर्थः ।

भोक्तृ­त्व­मा­वि­द्य­कम् , न वस्तुत इत्यत्र मानमाह
तथाचेति ।
यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा । द्रष्टृत्वादिकं न वस्तुनि ज्ञात इत्यर्थः । तस्मात् 'ऋतं पिबन्तौ' इति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥ १२ ॥

अन्तर उपपत्तेः । उप­को­स­ल­वि­द्या­वा­क्य­मु­दा­ह­रति
य इति ।
तद­क्षि­स्था­न­म­स­ङ्ग­त्वेन ब्रह्मणोऽनुरूपं यतोऽ­स्मि­न्क्षिप्तं वर्त्मनी पक्ष्मणी एव गच्छतीत्यर्थः ।

दर्शनस्य लौकि­क­त्व­शा­स्त्री­य­त्वाभ्यां संशयमाह
तत्रेति ।

पूर्वं 'पिबन्तौ' इति प्रथ­म­श्रु­त­चे­त­न­त्वा­नु­सा­रेण चरमश्रुता गुहाप्रवेशादयो नीताः, तद्वदिहापि दृश्यत इति चाक्षु­ष­त्वा­नु­सा­रे­णा­मृ­त­त्वा­दयो ध्यानार्थं कल्पितत्वेन नेया इति दृष्टान्तेन पूर्वपक्षयति
छायात्मेति ।
पूर्वपक्षे प्रति­बि­म्बो­पास्तिः, सिद्वान्ते ब्रह्मो­पा­स्ति­रिति फलम् ।

प्रसिद्ववदिति ।
चाक्षु­ष­त्वे­ने­त्यर्थः ।

सम्भावनामात्रेण पक्षान्तरमाह
विज्ञानात्मन इत्यादिना ।
'मनो ब्रह्म' इतिवत् , 'एत­द्ब्र­ह्मेति' इति वाक्य­स्ये­ति­प­द­शि­र­स्क­त्वान्न स्वार्थ­प­र­त्व­मिति पूर्वपक्षः ।

'मनो ब्रह्मे­त्यु­पा­सीत' इत्यत्र इतिपदस्य प्रत्ययपरत्वात् , इह च ब्रह्मे­त्यु­वा­चे­त्य­न्व­येन इति­प­द­स्यो­क्ति­स­म्ब­न्धि­नोऽ­र्थ­प­र­त्वा­द्वै­ष­म्य­मिति सिद्वान्तयति
परमेश्वर एवेति ।

बहु­प्र­मा­ण­सं­वा­द­स्ता­त्प­र्या­नु­ग्रा­हक इति न्याया­नु­गृ­ही­ता­भ्या­मा­त्म­ब्र­ह्म­श्रु­तिभ्यां दृश्यलिङ्गं बाध्यमित्याह
संयद्वामेति ।
वामानि कर्म­फ­ला­न्ये­त­म­क्षि­पु­रु­ष­म­भि­लक्ष्य संयन्ति उत्पद्यन्ते । सर्व­फ­लो­द­य­हे­तु­रि­त्यर्थः ।

लोकानां फल­दा­ता­प्य­य­मे­वे­त्याह
वामनीरिति ।
नयति फलानि लोका­न्प्रा­प­य­ती­त्यर्थः ।

भामानि भानानि नयत्ययमित्याह
भामनीरिति ।
सर्वार्थप्रकाशक इत्यर्थः ॥ १३ ॥

स्थाननामरूपाणां ध्यानार्थं श्रुत्य­न्त­रेऽ­प्यु­प­दे­शा­द­क्षि­स्था­न­त्वो­क्ति­रत्र न दोष इति सूत्रयोजना । अनवकॢप्तिः अकॢप्तकल्पना तदा भवेत् , यद्यत्रैव निर्दिष्टं भवेदित्यन्वयः । नन्व­नु­चि­त­बा­हु­ल्यो­क्ति­र­स­मा­धा­न­मि­त्या­शङ्क्य युक्तिमाह
निर्गुणमपीति ॥ १४ ॥

प्रकरणादपि ब्रह्म ग्राह्यमित्याह
सुखविशिष्टेति ।
ध्यानार्थं भेदकल्पनया सुख­गु­ण­वि­शि­ष्टस्य ब्रह्मणः प्रकृतस्य य एष इति सर्व­ना­म्ना­भि­धा­ना­द­न्तरः परमात्मा स्यादिति सूत्रार्थः ।

ननु प्रक­र­णा­त्प्र­ब­लेन दृश्य­त्व­लि­ङ्गे­नो­प­स्था­पि­त­श्छा­यात्मा सर्वनामार्थ इत्यत आह
आचार्यस्त्विति ।

उपकोसलो नाम कश्चि­द्ब्र­ह्म­चारी जाबा­ल­स्या­चा­र्य­स्या­ग्नी­न्द्वा­द­श­व­त्स­रा­न्प­रि­च­चार । तमनुपदिश्य देशान्तरगते जाबाले गार्ह­प­त्या­द्य­ग्नि­भि­र्द­यया 'प्राणो ब्रह्म' इत्या­त्म­वि­द्या­मु­प­दि­श्यो­क्तम्
आचार्यस्त्विति ।
तवा­त्म­वि­द्या­फ­ला­वा­प्तये मार्ग­म­र्चि­रा­दिकं वदिष्यतीत्यर्थः । पश्चा­दा­चा­र्ये­णा­गत्य 'य एषोऽ­क्षिणि' इत्यु­क्ता­र्चि­रा­दिका गतिरुक्ता । तथा चाग्नि­भि­रु­क्ता­त्म­वि­द्या­वा­क्यस्य गति­वा­क्ये­नै­क­वा­क्यता वाच्या, सा च सर्वनाम्ना प्रकृतात्मग्रहे निर्व­ह­ती­त्ये­क­वा­क्य­ता­नि­र्वा­हकं प्रकरणं वाक्य­भे­द­का­ल्लि­ङ्गा­द्ब­ल­व­दिति भावः ।

श्रुतिं व्यचष्टे
उच्यत इति ।
प्राणश्च सूत्रात्मा बृह­त्त्वा­द्ब्र­ह्मेति यत्तज्जानामि, कं विषयसुखं खं च भूताकाशं ब्रह्मत्वेन ज्ञातुं न शक्नोमीत्यर्थः ।

खं कथम्भूतम् , यत्कं तदेव खमिति सुखेन विशेषितस्य खस्य भूतत्वनिरासः । तथा कं कथम्भूतम् , यत्खं तदेव कमिति विभुत्वेन विशेषितस्य कस्य जन्यत्वनिरास इति व्यतिरेकमुखेनाह
तत्र खमित्यादिना ।
'आत्म­विद्या' इति श्रुति­वि­रो­धा­त्प्र­ती­क­ध्या­न­म­त्रा­नि­ष्ट­मिति भावः ।

सामय इति ।
आमयो दोषः साध­न­पा­र­त­न्त्र्या­नि­त्य­त्वादिः, तत्सहित इत्यर्थः ।

प्रत्येकग्रहणे दोषमुक्त्वा द्वयोर्ग्रहणे फलितमाह
इतरेतरेति ।
विशे­षि­ता­र्थ­का­वि­त्यर्थः ।

नन्वेकं ब्रह्मैवात्र ध्येयं चेद्ब्र­ह्म­प­दा­न्तरं किमर्थमित्यत आह
तत्रेति ।
विशेषणत्वेन खस्य भूत­त्व­व्या­व­र्त­क­त्वे­ने­त्यर्थः । ब्रह्मशब्दः शिरो ययोस्तत्त्वमिति विग्रहः ।

अध्येयत्वे को दोषः, तत्राह
इष्टं हीति ।
मार्गोक्त्या सुगु­ण­वि­द्या­त्वा­व­ग­मा­दिति भावः ।

आत्म­वि­द्या­प­दे­नो­प­सं­हा­रा­दपि प्रकृतं ब्रह्मेत्याह
प्रत्येकं चेति ।
पृथि­व्य­ग्नि­र­न्न­मा­दित्य इति मम चतस्रस्तनवो विभूतिरिति गार्हपत्य उपदिदेश । आपो दिशो नक्षत्राणि चन्द्रमा इत्य­न्वा­हा­र्य­प­चन उवाच । प्राण आकाशो द्यौर्वि­द्यु­दिति स्वम­हि­मा­न­मा­ह­व­नीयो जगादेति विभागः । इय­म­स्मा­क­म­ग्नीनां विद्या प्रत्येकमुक्ता । आत्मविद्या तु पूर्व­म­स्मा­भि­र्मि­लित्वा 'प्राणो ब्रह्म' इत्यु­क्ते­त्यर्थः ।

उच्य­ता­म­ग्नि­भि­र्ब्रह्म, छायात्मा गुरुणोच्यतां वक्तृभेदादिति तत्राह
आचार्यस्त्विति ।
एक­वा­क्य­ता­नि­श्च­या­द्व­क्तृ­भे­देऽपि नार्थभेद इत्यर्थः ॥ १५ ॥

श्रुता अनुष्ठिता उपनिषत्रहस्यं सगु­ण­ब्र­ह्मो­पा­सनं येन तस्य या गतिः श्रुतौ स्मृतौ च प्रसिद्वा तस्या अत्रा­भि­धा­ना­ल्लि­ङ्गा­दिति सूत्रार्थमाह
इतश्चेति ।
यस्मादृश्यते तत्त­स्मा­दि­हे­त्य­न्वयः ।

श्रुतिमाह
अथेति ।
देह­पा­ता­न­न्त­र­मि­त्यर्थः । स्वधर्मस्तपः तपो­ब्र­ह्म­च­र्य­श्र­द्धा­वि­द्या­भि­रा­त्मानं ध्यात्वा तया ध्यान­वि­द्य­यो­त्तरं देवयानमार्गं प्राप्यते नोत्तरेण पथा । आदित्यद्वारा सगु­ण­ब्र­ह्म­स्थानं गच्छन्ति, एतद्वै ब्रह्म प्राणानां व्यष्टि­स­म­ष्टि­रू­पा­णा­मा­य­तनं लिङ्गात्मकं हिरण्यगर्भरूपम् , वस्तु­त­स्त्वे­त­द­मृ­ता­दि­रूपं निर्गुणं सर्वाधिष्ठानम् । अतः कार्यं ब्रह्म प्राप्य तत्स्वरूपं निर्गुणं ज्ञात्वा मुच्यन्त इत्यर्थः । अग्निरेव ज्योतिर्देवता एवमहराद्या देवता एव स्मृतावुक्ताः । अस्मिन्नुपासके मृते सति यदि पुत्रादयः शव्यं शवसंस्कारादिकं कुर्वन्ति यदि च न कुर्वन्ति उभ­य­था­प्यु­पा­स्ति­म­हिम्ना अर्चि­रा­दि­दे­वा­न्क्र­मेण गच्छन्ति । आर्चिषमग्निम् , ततोऽहः, अह्नः शुक्लपक्षम् , तत्र उत्तरायणम् , तस्मा­त्सं­व­त्स­रम् , ततो देवलोकम् , ततो वायुम् , वायोरादित्यम् , ततश्चन्द्रम् , चन्द्रा­द्वि­द्युतं गत्वा तत्र विद्युल्लोके स्थिता­नु­पा­स­का­न­मा­नवः पुरुषो ब्रह्म­लो­का­दा­गत्य कार्यं ब्रह्मलोकं प्रापयति । एषोऽ­र्चि­रा­दि­भि­र्दे­वै­र्वि­शिष्टो देवपथो गन्तव्येन ब्रह्मणा योगा­द्ब्र­ह्म­प­थश्च । त एतत्कार्यं ब्रह्म प्रतिपद्यमाना उपासका इमं मानवं मनोः सर्गमावर्तं जन्म­म­र­णा­वृ­त्ति­युक्तं नावर्तन्ते नाग­च्छ­न्ती­त्यर्थः ॥ १६ ॥

चक्षुरासीदतीति ।
उपगच्छतीत्यर्थः । अन­व­स्थि­त­स्यो­पा­स्यत्वं सदा न सिद्ध्यतीति भावः । किञ्चा­व्य­व­धा­ना­त्स्वा­क्षिस्थ उपास्यः ।

नच तस्य स्वचक्षुषा दर्शनं सम्भवतीत्याह
य एष इति ।

अस्तु तर्हि परेण दृश्य­मा­न­स्यो­पा­स्ति­रि­त्यत आह
नचेति ।
कल्प­ना­गौ­र­वा­दि­त्यर्थः ।

युक्ति­सि­द्धा­न­व­स्थि­तत्वे श्रुतिमाह
अस्येति ।
छायाकरस्य बिम्बस्य नाश­म­द­र्श­न­म­नु­सृ­त्यैष छायात्मा नश्यतीत्यर्थः ।

जीवं निरस्यति
तथेति ।
जात्य­न्ध­स्या­प्य­ह­मि­त्य­वि­शे­षण जीव­स्या­भि­व्य­क्ते­श्च­क्षु­रेव स्थान­मि­त्य­यु­क्त­मि­त्यर्थः ।