भाष्यरत्नप्रभाव्याख्या
प्रथमाध्याये प्रथमः पादः (२)
एवं च सतीति ।
चोऽवधारणे । उक्तरीत्या ब्रह्मणः स्वातन्त्र्ये सत्येव भगवतो व्यासस्य पृथक्शास्त्रकृतिर्युक्ता, धर्मविलक्षणप्रमेयलाभात् । वेदान्तानां कार्यपरत्वे तु प्रमेयाभेदान्न युक्तेत्यर्थः ।
ननु मानसधर्मविचारार्थं पृथगारम्भ इत्याशङ्क्याह -
आरभ्यमाणं चेति ।
अथ बाह्यसाधनधर्मविचारानन्तरम् । अतो बाह्यधर्मस्य शुद्धिद्वारा मानसोपासनाधर्महेतुत्वात्परिशिष्टो मानसधर्मो जिज्ञास्य इति सूत्रं स्यादिति ।
अत्र दृष्टान्तमाह -
अथेति ।
तृतीयाध्याये श्रुत्यादिभिः शेषशेषित्वनिर्णयानन्तरं शेषिणा शेषस्य प्रयोगसम्भवात्कः क्रतुशेषः को वा पुरुषशेषः इति विज्ञास्यत इत्यर्थः ।
एवमारभ्येत ।
नत्वारब्धम् , तस्मादवान्तरधर्मार्थमारम्भ इत्ययुक्तमिति भावः ।
स्वमते सूत्रानुगुण्यमस्तीत्याह -
ब्रह्मेति ।
जैमिनिना ब्रह्म न विचारितमिति तज्जिज्ञास्यत्वसूत्रणं युक्तमित्यर्थः ।
वेदान्तार्थश्चेदद्वैतं तर्हि द्वैतसापेक्षविध्यादीनां का गतिरित्याशङ्क्य ज्ञानात्प्रागेव तेषां प्रामाण्यं न पश्चादित्याह -
तस्मादिति ।
ज्ञानस्य प्रमेयप्रमातृबाधकत्वादित्यर्थः ।
ब्रह्म न कार्यशेषः, तद्बोधात्प्रागेव सर्वव्यवहार इत्यत्र ब्रह्मविदां गाथामुदाहरति -
अपिचेति ।
सदबाधितं ब्रह्म पूर्वमात्मा विषयानादत्त इति सर्वसाक्ष्यहमित्येवंबोधे जाते सति पुत्रदेहादेः सत्ताबाधनात् मायामात्रत्वनिश्चयात्पुत्रदारादिभिरहमिति स्वीयदुःखसुखभावत्वगुणयोगाद्गौणात्माभिमानस्य नरोऽहं कर्ता मूढ इति मिथ्यात्माभिमानस्य च सर्वव्यवहारहेतोरसत्वे कार्यं विधिनिषेधादिव्यवहारः कथं भवेत् , हेत्वभावान्न कथञ्चिद्भवेदित्यर्थः ।
नन्वहं ब्रह्मेति बोधो बाधितः, अहमर्थस्य प्रमातुः ब्रह्मत्वायोगादित्याशङ्क्य प्रमातृत्वस्याज्ञानविलसितान्तःकरणतादात्म्यकृतत्वान्न बाध इत्याह -
अन्वेष्टव्येति ।
‘य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकः सोऽन्वेष्टव्य’ इति श्रुतेः ज्ञातव्यपरमात्मविज्ञानात्प्रागेवाज्ञानाच्चिद्धातोरात्मानः प्रमातृत्वं प्रमातैव ज्ञातः सन् पाप्मरागद्वेषमरणविवर्जितः परमात्मा स्यादित्यर्थः ।
प्रमातृत्वस्य कल्पितत्वे तदाश्रितानां प्रमाणानां प्रामाण्यं कथमित्यत आह -
देहेति ।
यथा देहात्मत्वप्रत्ययः कल्पितो भ्रमोऽपि व्यवहाराङ्गतया मानत्वेनेष्यते वैदिकैः, तद्वल्लौकिकमध्यक्षादिकमात्मबोधावधि व्यवहारकाले बाधाभावात् व्यावहारिकं प्रामाण्यमिष्यताम् , वेदान्तानां तु कालत्रयाबाध्यबोधित्वात्तत्त्वावेदकं प्रामाण्यमिति तुशब्दार्थः ।
आऽऽत्मनिश्चयात् ।
आऽऽत्मनिश्चयादित्याङ्मर्यादायाम् । प्रमातृत्वस्य कल्पितत्वेऽपि विषयाबाधात्प्रामाण्यमितिभावः ॥
रामनाम्निपरे धाम्नि कृत्स्नाम्नायसमन्वयः ।
कार्यतात्पर्यबाधेन साधितः शुद्धबुद्धये ॥ ४ ॥
वृत्तमनूद्याक्षेपलक्षणामवान्तरसङ्गतिमाह
साङ्ख्यादयस्त्विति ।
भवतु सिद्धे वेदान्तानां समन्वयः, तथापि मानान्तरायोगे ब्रह्मणि शक्तिग्रहायोगात् , कूटस्थत्वेनाविकारित्वेन कारणत्वायोगाच्च न समन्वयः । किन्तु सर्गाद्यं कार्यं जडप्रकृतिकम् , कार्यत्वात् , घटवतित्यनुमानगम्ये त्रिगुणे प्रधाने समन्वय इत्याक्षिपन्तीत्यर्थः । सिद्धं मानान्तरगम्यमेवेत्याग्रहः शक्तिग्रहार्थः । अत एव प्रधानादवनुमानोपस्थिते शक्तिग्रहसम्भवात्तत्परतया वाक्यानि योजयन्तीत्युक्तम् । किं च 'तेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छ' इत्याद्याः श्रुतयः ।
शुङ्गेन लिङ्गेन कारणस्य स्वतोऽन्वेषणं दर्शयन्तो मानान्तरसिद्धमेव जगत्कारणं वदन्तीत्याह
सर्वेष्विति ।
नन्वतीन्द्रियत्वेन प्रधानादेर्व्याप्तिग्रहायोगात्कथमनुमानम् , तत्राह
प्रधानेति ।
यत्कार्यं तज्जडप्रकृतिकम् , यथा घटः । यज्जडं तच्चेतनसंयुक्तम् , यथा रथादिरिति सामान्यतोदृष्टानुमानगम्याः प्रधानपुरुष संयोगा इत्यर्थः ।
अद्वितीयब्रह्मणः कारणत्वविरोधिमतान्तरमाह
काणादास्त्विति ।
सृष्टिवाक्येभ्य एव परार्थानुमानरूपेभ्यो यत्कार्यं तद्बुद्धिमत्कर्तृकमितीश्वरं कर्तारम् , परमाणूंश्च यत्कार्यद्रव्यं तत्स्वन्यूनपरिमाणद्रव्यारब्दमित्यनुमिमत इत्यर्थः ।
अन्येऽपि बौद्धादयः । 'असद्वा इदमग्र आसीत्' इत्यादि वाक्याभासः । यद्वस्तु तच्छून्यावसानम् , यथा दीप इति युक्त्याभासः । एवं वादिविप्रतिपत्तिमुक्त्वा तन्निरासायोत्तरसूत्रसन्दर्भमवतारयति
तत्रेति ।
वादिविवादे सतीत्यर्थः ।
व्याकरणमीमांसान्यायनिधित्वात्पदवाक्यप्रमाणज्ञत्वम् । यज्जगत्कारणं तच्चेतनमचेतनं वेति ईक्षणस्यमुख्यत्वगौणत्वाभ्यां संशये पूर्वपक्षमाह
तत्र साङ्ख्या इति ।
अपिशब्दावेवकारार्थौ । 'सदेव' इत्यादि स्पष्टब्रह्मलिङ्गवाक्यानां प्रधानपरत्वनिरासेन ब्रह्मपरत्वोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवस्यप्रधानैक्योपास्तिः, सिद्धान्तेब्रह्मैक्यज्ञानमिति विवेकः ।
अचेतनसत्वस्यैव सर्वज्ञत्वम् , न चेतनस्येत्याह
तेन च सत्वधर्मेणेति ।
न केवलस्येति ।
जन्यज्ञानस्य सत्वधर्मत्वान्नित्योपलब्धेरकार्यत्वाच्चिन्मात्रस्य न सर्वज्ञानकर्तृत्वमित्यर्थः ।
ननु गुणानां साम्यावस्थायां सत्वस्योत्कर्षाभावात्कथं सर्वज्ञतेत्याह
त्रिगुणत्वादिति ।
त्रयो गुणा एव प्रधानं तस्यसाम्यावस्था तदभेदात् प्रधानमित्युच्यते । तदवस्थायामपि प्रलये सर्वज्ञानशक्तिमत्वरूपं सर्वज्ञत्वमक्षतमित्यर्थः ।
ननु मया किमिति शक्तिमत्वरूपं गौणं सर्वज्ञत्वमङ्गीकार्यमिति, तत्राह
नहीति ।
अनित्यज्ञानस्य प्रलये नाशाच्छक्तिमत्वं वाच्यं कारकाभावाच्चेत्याह
अपि चेति ।
मतद्वयसाम्यमुक्त्वा स्वमते विशेषमाह
अपि चेति ।
ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते । प्रधानादेः कारणत्वं तर्कपादे युक्तिभिर्निरस्यति । अधुना तु श्रुत्या निरस्यति
ईक्षतेर्नाशब्दमिति ।
ईक्षणश्रवणाद्वेदशब्दावाच्यमशब्दं प्रधानम् । अशब्दत्वान्न कारणमिति सूत्रयोजना । तत्सच्छब्दवाच्यं कारणमैक्षत ।
ईक्षणमेवाह
बह्विति ।
बहु प्रपञ्चरूपेण स्थित्यर्थमहमेवोपादानतया कार्याभेदाज्जनिष्यामीत्याह
प्रजेति ।
एवं तत्सदीक्षित्वा आकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्याह
तदिति ।
मिषच्चलत् । सत्वाक्रान्तमिति यावत् स जीवाभिन्नः परमात्मा 'प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनो अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोकालोकेषु नाम च' इत्युक्ताः षोडशकलाः ।
ननु 'इक्श्तिपो धातुनिर्देशे' इति कात्यायनस्मरणादीक्षतेरिति पदेन श्तिबन्तेन धातुरुच्यते । तेन धात्वर्थमीक्षणं कथं व्याख्यायत इत्याशङ्क्य लक्षणयेत्याह
ईक्षितेरितिचेति ।
'इतिकर्तव्यताविधेर्यजतेः पूर्ववत्वं' इति जैमिनिसूत्रे यथा यजतिपदेन लक्षणया धात्वर्थो याग उच्यते तद्वदिहापीत्यर्थः । सौर्यादिविकृतियागस्याङ्गानामविधानात्पूर्वदर्शादिप्रकृतिस्थाङ्गवत्वमिति सूत्रार्थः ।
धात्वर्थनिर्देशेन लाभमाह
तेनेति ।
सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमीक्षणमेव तपः । तपस्विनः फलमाह
तस्मादिति ।
एतत्कार्यं सूत्राख्यं ब्रह्म । केवलसत्त्ववृत्तेर्ज्ञानत्वमङ्गीकृत्य प्रधानस्य सर्वज्ञत्वं निरस्तम् । सम्प्रति न केवलजडवृत्तिर्ज्ञानशब्दार्थः, किन्तु साक्षिबोधविशिष्टा वृत्तिर्वृत्तिव्यक्तबोधो वा ज्ञानम् । तच्चान्धस्य प्रधानस्य नास्तीत्याह
अपिचेति ।
साक्षित्वमस्ति, येनोक्तज्ञानवत्वं स्यादिति शेषः ।
ननु सत्त्ववृत्तिमात्रेण योगिनां सर्वज्ञत्वमुक्तमित्यत आह
योगिनान्त्त्विति ।
सेश्वरसाङ्ख्यमतमाह
अथेति ।
सर्वज्ञत्वं नाम सर्वगोचरज्ञानवत्वम् , न ज्ञानकर्तृत्वम् , ज्ञानस्य कृत्यसाध्यत्वादिति हृदिकृत्वा पृच्छति
इदं तावदिति ।
सर्वं जानातीति शब्दासाधुत्वं शङ्कते
ज्ञाननित्यत्व इति ।
नित्यस्यापि ज्ञानस्य तत्तदर्थोपहितत्वेन ब्रह्मस्वरूपाद्भेदं कल्पयित्वा कार्यत्वोपचाराद्ब्रह्मणस्तत्कर्तृत्वव्यपदेशः साधुरिति सदृष्टान्तमाह
न, प्रततेति ।
सन्ततेत्यर्थः । असत्यपि अविवक्षितेऽपि ।
ननु प्रकाशतेरकर्मकत्वात्सविता प्रकाशत इति प्रयोगेऽपि जानातेः सकर्मकत्वात्कर्माभावे 'तदैक्षत' इत्ययुक्तमिति, तत्राह
कर्मापेक्षायां त्विति ।
कर्माविवक्षायामपि प्रकाशरूपे सवितरि प्रकाशत इति कथञ्चित्प्रकाशक्रियाश्रयत्वेन कर्तृत्वोपचारवच्चिदात्मन्यपि चिद्रूपेक्षणकर्तृत्वोपचारान्न वैषम्यमित्युक्तं पूर्वम् । अधुना तु कुम्भकारस्य स्वोपाध्यन्तःकरणवृत्तिरूपेक्षणवदीश्वरस्यापि स्वोपाध्यविद्यायाः विविधसृष्टिसंस्कारायाः प्रलयावसानेनोद्बुद्धसंस्कारायाः सर्गोन्मुखः कश्चित्परिणामः सम्भवति, अतः तस्यां सूक्ष्मरूपेण निलीन सर्वकार्यविषयकमीक्षणम् , तस्य कार्यत्वात् कर्मसद्भावाच्च तत्कर्तृत्वं मुख्यमिति द्योतयति
सुतरामिति ।
ननु मायोपाधिकबिम्बचिन्मात्रस्येश्वरस्य कथमीक्षणं प्रति मुख्यं कर्तृत्वम् , कृत्यभावादिति चेन्न, कार्यानुकूलज्ञानवत एव कर्तृत्वादीश्वरस्यापि ईक्षणानुकूलनित्यज्ञानवत्त्वात् । न च नित्यज्ञानेनैव कर्तृत्वनिर्वाहात्किमीक्षणेनेति वाच्यम् , वाय्वादेरेव शब्दवत्त्वसम्भवात्किमाकाशेनेत्यतिप्रसङ्गात् । अतः श्रुतत्वाद्वाय्वादिकारणत्वेनाकाशवदैक्षतेत्यागन्तुकत्वेन श्रुतमीक्षणमाकाशादिहेतुत्वेनाङ्गीकार्यमित्यलम् । अव्याकृते सूक्ष्मात्मना स्थिते व्याकर्तुं स्थूलीकर्तुमिष्टे इत्यर्थः ।
अव्याकृतकार्योपरक्तचैतन्यरूपेक्षणस्य कारकानपेक्षत्वेऽपि वृत्तिरूपेक्षणस्य कारकं वाच्यमित्याशङ्क्याह
अपिचाविद्यादिमत इति ।
यथैकस्य ज्ञानं तथान्यस्यापीति नियमाभावान्मायिनोऽशरीरस्यापि जन्येक्षणकारकत्वमिति भावः ।
ननु यज्जन्यज्ञानं तच्छरीरसाध्यमिति व्याप्तिरस्तीत्याशङ्क्य श्रुतिबाधमाह
मन्त्रौ चेति ।
कार्यं शरीरम् । कारणमिन्द्रियम् । अस्येश्वरस्य शक्तिर्माया स्वकार्यापेक्षया परा, विचित्रकार्यकारित्वाद्द्विविधा । सा त्वैतिह्यमात्रसिद्धा न प्रमाणसिद्धेत्याह
श्रूयत इति ।
ज्ञानरूपेण बलेन या सृष्टिक्रिया सा स्वाभाविकी । अनादिमायात्मकत्वादित्यर्थः । ज्ञानस्य चैतन्यस्य बलं मायावृत्तिप्रतिबिम्बितत्त्वेन स्फुटत्वं तस्य क्रियानाम बिम्बत्वेन ब्रह्मणो जनकता ज्ञातृतापि स्वाभाविकीति वार्थः । अपाणिरपि ग्रहीता । अपादोऽपि जवनः । ईश्वरस्यस्वकार्ये लौकिकहेत्वपेक्षा नास्तीति भावः । अग्र्यमनादिम् , पुरुषमनन्तम् , महान्तं विभुमित्यर्थः ।
अपसिद्धान्तं शङ्कते
नन्विति ।
ज्ञाने प्रतिबन्धककारणान्यविद्यारागादीनि श्रुतावत ईश्वरादन्यो नास्तीत्यन्वयः ।
औपाधिकस्य जीवेश्वरभेदस्यमयोक्तत्वान्नापसिद्धान्त इत्याह
अत्रोच्यत इति ।
तत्कृत उपाधिसम्बन्धकृतः शब्दतज्जन्यप्रत्ययरूपो व्यवहारः । असङ्कीर्ण इति शेषः ।
अव्यतिरेके कथमसङ्करस्तत्राह
तत्कृता चेति ।
उपाधिसम्बन्धकृतेत्यर्थः ।
तथेति ।
देहादिसम्बन्धस्य हेतुरविवेकोऽनाद्यविद्या तया कृत इत्यर्थः । अविद्यायां हि प्रतिबिम्बो जीवः, बिम्बचैतन्यमीश्वर इति भेदोऽविद्याधीनसत्ताकः, अनादिभेदस्य कार्यत्वायोगात् । कार्यबुद्ध्यादिकृतप्रमात्रादिभेदश्च कार्य एवेति विवेकः ।
नन्वखण्डस्वप्रकाशात्मनि कथमविवेकः, तत्राह
दृश्यते चेति ।
वस्तुतो देहादिभिन्नस्वप्रकाशस्यैव सत आत्मनो नरोऽहमिति भ्रमोदृष्टत्वाद्दुरपह्नवः । स च मिथ्याबुद्ध्या मीयत इति मिथ्याबुद्धिमात्रेण भ्रान्तिसिद्धाज्ञानेन कल्पित इति चकारार्थः ।
यद्वोक्तमिथ्याबुद्धौ लोकानुभवमाह
दृश्यते चेति ।
इत्थम्भावे तृतीया । भ्रान्त्यात्मना दृश्यत इत्यर्थः । पूर्वपूर्वभ्रान्तिमात्रेण दृश्यते न च प्रमेयतयेति वार्थः ।
कूठस्थस्यापि मायिकं कारणत्वं युक्तमित्याह
यथा त्विति ।
यत्त्ववेद्ये शब्दशक्तिग्रहायोग इति, तन्न । सत्यादिपदानामबाधिताद्यर्थेषु लोकावगतशक्तिकानां वाच्चैकदेशत्वेनोपस्थिताखण्डब्रह्मलक्षकत्वादिति स्थितम् ॥ ५ ॥
संप्रत्युत्तरसूत्रनिरस्याशङ्कामाह
अत्राहेति ।
अन्यथापि अचेतनत्वेऽपि ।
ननु प्रधानस्य चेतनेन किं साम्यं येन गौणमीक्षणमिति तत्राह
यथेति ।
नियतक्रमवत्कार्यकारित्वं साम्यमित्यर्थः । ‘उपचारप्राये वचनात्’ इति गौणार्थप्रचुरे प्रकरणे समाम्नानादित्यर्थः ।
अप्तेजसोरिवाचेतने सति गौणी ईक्षतिरिति चेन्न, आत्मशब्दात्सतश्चेतनत्वनिश्चयादिति सूत्रार्थमाह
यदुक्तमित्यादिना ।
सा प्रकृता सच्छब्दवाच्या इयमीक्षित्री देवता परोक्षा हन्त इदानीं भूतसृष्ट्यनन्तरमिमाः सृष्टास्तिस्रस्तेजोऽबन्नरूपाः । परोक्षत्वाद्देवता इति द्वितीयाबहुवचनम् । अनेन पूर्वकल्पानुभूतेनजीवेनात्मना मम स्वरूपेण ता अनुप्रविश्य तासां भोग्यत्वाय नाम च रूपं च स्थूलं करिष्यामीत्यैक्षतेत्यन्वयः । लौकिकप्रसिद्धेः, 'जीव प्राणधारणे' इति धातोर्जीवतिप्राणान्धारयतीति निर्वचनाच्चेत्यर्थः ।
अत त्विति ।
स्वपक्षे तु बिम्बप्रतिबिम्बयोर्लोके भेदस्यकल्पितत्वदर्शनाज्जीवो ब्रह्मणः सत आत्मेति युक्तमित्यर्थः ।
जीवस्य सच्छब्दार्थं प्रत्यात्मशब्दात्सन्न प्रधानमित्युक्त्वा सतौ जीवं प्रत्यात्मशब्दान्न प्रधानमिति विधान्तरेण हेतुं व्याचष्टे
तथेति ।
स यःसदाख्य एषोऽणिमापरम सूक्ष्मः, ऐतदात्मकमिदं सर्वं जगत् , तत्सदेव सत्यम् , विकारस्य मिथ्यात्वात् । सः सत्पदार्थः सर्वस्यात्मा । हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव सदभाधितं सर्वात्मकं ब्रह्मासीति श्रुत्यर्थः । इत्यत्रोपदिशति । अतश्चेतनात्माकत्वात् सच्चेतनमेवेति वाक्यशेषः ।
यदुक्तमप्तेजसोरिव सत ईक्षणं गौणमिति, तत्राह
अत्तेजसोस्त्विति ।
नामरूपयोर्व्याकरणं सृष्टिः । आदिपदान्नियमनम् । अप्तेजसोर्दृग्विषयत्वात्सृज्यत्वान्नियम्यत्वाच्चाचेतनत्वमीक्षणस्य मुख्यत्वे बाधकमस्ति, साधकं च नास्तीति हेतोर्युक्तमीक्षणस्य गौणत्वमिति योजना । चेतनवत्कार्यकारित्वं गुणः 'तेज ऐक्षत' चेतनवत्कार्यकारीत्यर्थः ।
यद्वा तेजःपदेन तदधिष्ठानं सल्लक्ष्यते । तथाच मुख्यमीक्षणमित्याह
तयोरिति ।
स्यादेतद्यदि सत ईक्षणं मुख्यं स्यात्तदेव कुत इत्यत आह
सतस्त्विति ।
गौणमुख्ययोरतुल्ययोः संशयाभावेन गौणप्रायपाठस्यानिश्चायकत्वादात्मशब्दाच्च सत ईक्षणं मुख्यमित्यर्थः ॥ ६ ॥
आत्महितकारित्वगुणयोगादात्मशब्दोऽपि प्रधाने गौण इति शङ्कते
अथेत्यादिना ।
आत्मशब्दः प्रधानेऽपि मुख्यो नानार्थकत्वादित्याह
अथवेति ।
नानार्थत्वे दृष्टान्तः
यथेति ।
'अथैष ज्योतिः’ श्रुत्या सहस्रदक्षिणाके क्रतौ ज्योतिष्टोमे लोकप्रयोगादग्नौ च ज्योतिःशब्दो यथा मुख्यस्तद्वदित्यर्थः ।
तस्मिन्सत्पदार्थे निष्टा अभेदज्ञानं यस्य स सन्निष्ठस्तस्य मुक्तिश्रवणादिति सूत्रार्थमाह
नेत्यादिना ।
श्रुतिः समन्वयसूत्रेव्याख्याता । अनर्थायेत्युक्तं प्रपञ्चयति
यदि चाज्ञस्येति ।
कश्चित्किल दुष्टात्मा महारण्यमार्गे पतितमन्धं स्वबन्धुनगरं जिगमिषुं बभाषे, किमात्रायुष्मता दुःखितेन स्थीयत इति । स चान्धः सुखां वाणीमाकर्ण्य तमाप्तं मत्वोवाच, अहो मद्भागधेयम् , यदत्र भवान्मां दीनं स्वाभीष्टनगरप्राप्यसमर्थं भाषत इति । स च विप्रलिप्सुर्दुष्टगोयुवानमानीय तदीयलाङ्गूलमन्धं ग्राहयामास । उपदिदेश च एनमन्धम् , एष गोयुवा त्वां नगरं नेष्यति, मा त्यज लाङ्गूलमिति । स चान्धः श्रद्धालुतया तदत्यजन्स्वाभीष्टमप्राप्यानर्थपरम्परां प्राप्तः । तेन न्यायेनेत्यर्थः ।
तथा सतीति ।
आत्मज्ञानाभावे सति विहन्येत मोक्षं न प्राप्नुयात्प्रत्युतानर्थं संसारं च प्राप्नुयादित्यर्थः ।
ननु जीवस्य प्रधानैक्यसम्पदुपासनार्थमिदं वाक्यामस्त्विति, तत्राह
एवं च सतीति ।
अबाधितात्मप्रमायां सत्यामित्यार्थः ।
कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टः, तद्दृष्टान्तेन सत्ये ब्रह्मणि अहमित्यभिसन्धिमतो मोक्षो यथा 'सत्याभिसन्धस्तप्तं परशुं गृह्णाति स न दह्यतेऽथ मुच्यते' इति श्रुत्योपदिष्टः । स उपदेशः सम्पत्पक्षे न युक्तः इत्याह
अन्यथेति ।
देहमुत्थापयतीत्युक्थं प्राणः । तस्मान्मोक्षोपदेशान्मुख्ये सम्भवति गौणत्वस्यान्याय्यत्वाच्चात्मशब्दः सति मुख्य इत्याह
अपि चेति ।
क्वचिद्भृत्यादौ । सर्वत्राहमात्मेत्यत्रापि मुख्य आत्मशब्दो न स्यादित्यर्थः ।
चेतनत्वोपचाराद्भूतादिषु ।
सर्वत्र चैतन्यतादात्म्यादित्यर्थः ।
आत्मशब्दश्चेतनस्यैवासाधारण इत्युक्तम् । अस्तुवाऽव्यापिवस्तूनां साधारणस्तथापि तस्यात्र श्रुतौ प्रधानपरत्वेऽपि निश्चायकाभावान्न प्रधानवृत्तितेत्याह
साधारणत्वेऽपीति ।
चेतनवाचित्वे तु प्रकरणं श्वेतकेतुपदं च निश्चायकमस्तीत्याह
प्रकृतं त्विति ।
उपपदस्य निश्चायकत्वं स्फुटयति
नहीति ।
ततः किम् , तत्राह
तस्मादिति ।
आत्मशब्दो ज्योतिःशब्दवन्नानार्थक इत्युक्तं दृष्टान्तं निरस्यति
ज्योतिरिति ।
कथं तर्हि 'ज्योतिषा यजेत' इति ज्योतिष्टोमे प्रयोगः, तत्राह
अर्थवादेति ।
'एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः' इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यम् । त्रिवृत्पञ्चदशस्त्रिवृत्सप्तदशस्त्रिवृदेकविंश इति स्तोमास्तत्तदर्थप्रकाशकत्वेन गुणेन ज्योतिष्पदोक्ता ऋक्सङ्घाः । तथा च ज्योतींषि स्तोमा अस्येति ज्योतिष्टोम इत्यत्र ज्योतिःशब्दो गौण इत्यर्थः ।
नन्वात्मशब्दादिति पूर्वसूत्र एवात्मशब्दस्य प्रधाने गौणत्वसाधारणत्वशङ्कानिरासः कर्तुमुचितः, मुख्यार्थस्य लाघवेनोक्तिसम्भवे गौणत्वनानार्थकत्वशङ्काया दुर्बलत्वेन तन्निरासार्थं पृथक्सूत्रायासानपेक्षणात् । तथा च शङ्कोत्तरत्वेन सूत्रव्याख्यानं नातीव शोभत इत्यरुचेराह
अथवेति ।
निरस्ता समस्ता गौणत्वनानार्थकत्वशङ्का यस्यात्मशब्दस्य स तच्छङ्कस्तस्य भावस्तत्ता तयेत्यर्थः ।
तत इति ।
सत आत्मशब्दे जीवाभिन्नत्वादिति हेत्वपेक्षया मोक्षोपदेशः स्वतन्त्र एव प्रधानकारणत्वनिरासे हेतुरित्यर्थः ॥ ७ ॥
ननु यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामरुन्धतीत्वेनोपदिशति, तद्वदनात्मन एव प्रधानस्य सत्पदार्थस्यात्मत्वोपदेश इति शङ्कते
कुतश्चेति ।
प्रधानं सच्छब्दवाच्यं नेति कुत इत्यर्थः ।
सौत्रश्चकारोऽनुक्तसमुच्चयार्थ इत्याह
चशब्द इति ।
विवृणोति
सत्यपीति ।
अपिशब्दान्नास्त्येवेति सूचयति । वेदानधीत्यागतं स्तब्धं पुत्रं पितोवाच हे पुत्र, उत अपि, आदिश्यत इत्यादेश उपदेशैकलभ्यः सदात्मा तमप्यप्राक्ष्यः गुरुनिकटेपृष्टवानसि, यस्य श्रवणेन मननेन विज्ञानेनान्यस्य श्रवणादिकं भवतीत्यन्वयः ।
नन्वन्येन ज्ञातेन कथमन्यदज्ञातमपि ज्ञातं स्यादिति पुत्रः शङ्कते
कथमिति ।
हे भगवः, कथं नु खलु स भवतीत्यर्थः ।
कार्यस्य कारणान्यत्वं नास्तीत्याह
यथेति ।
पिण्डः स्वरूपं तेन । विज्ञातेनेति शेषः ।
तत्र युक्तिमाह
वाचेति ।
वाचा वागिन्द्रियेणारभ्यत इति विकारो वाचारम्भणम् । ननु वाचा नामैवारभ्यते, न घटादिरित्याशङ्क्य नाममात्रमेव विकार इत्याह
नामधेयमिति ।
'नामधेयं विकारोऽयं वाचा केवलमुच्यते । वस्तुतः कारणाद्भिन्नो नास्ति तस्मान्मृषैव सः ॥ ‘ इति भावः ।
विकारस्य मिथ्यात्वे तदभिन्नकारणस्यापि मिथ्यात्वमिति, नेत्याह
मृत्तिकेति ।
कारणं कार्याद्भिन्नसत्ताकं न कार्यं कारणाद्भिन्नम् , अतः कारणातिरिक्तस्य कार्यस्वरूपस्याभावात्कारणज्ञानेन तज्ज्ञानं भवतीति स्थिते दार्ष्टान्तिकमाह
एवमिति ।
मृद्वद्ब्रह्मैव सत्यं वियदादिविकारो मृषेति ब्रह्मज्ञाने सति ज्ञेयं किञ्चिन्नावशिष्यत इत्यर्थः ।
यद्यपि प्रधाने ज्ञाते तादात्म्याद्विकाराणां ज्ञानं भवति तथापि न पुरुषाणाम् , तेषां प्रधानविकारत्वाभावादित्याह
नचेति ।
अस्माकं जीवानां सद्रूपत्वात्तज्ज्ञाने ज्ञानमिति भावः ॥ ८ ॥
कुतश्चेति ।
पुनरपि कस्माद्धेतोरित्यर्थः । सुषुप्तौ जीवस्य सदात्मनि स्वस्मिन्नप्ययश्रवणात्सच्चेतनमेवेति सूत्रयोजना ।
एतत्स्वपनं यथा स्यात्तथा यत्र सुषुप्तौ स्वपितीति नाम भवति तदा पुरुषः सता सम्पन्न एकीभवति । सदैक्येऽपि नामप्रवृत्तिः कथम् , तत्राह
स्वमिति ।
तत्र लोकप्रसिद्धिमाह
तस्मादिति ।
हि यस्मात्स्वं सदात्मानमपीतो भवति तस्मादित्यर्थः ।
श्रुतेस्तात्पर्यमाह
एषेत्यादिना ।
कथमेतावता प्रधाननिरास इत्यत आह
स्वशब्देनेति ।
एतेर्धातोर्गत्यर्थस्यापिपूर्वस्य लयार्थत्वेऽपि कथं नित्यस्य जीवस्य लय इत्याशङ्क्य उपाधिलयादिति वक्तुं जाग्रत्स्वप्नयोरुपाधिमाह
मन इति ।
ऐन्द्रियकमनोवृत्तय उपाधयः, तैर्घटादिस्थूलार्थविशेषाणामात्मना सम्बन्धादात्मा तानिन्द्रियार्थान्पश्यन्स्थूलविशेषेण देहेनैक्यभ्रान्तिमापन्नो विश्वसंज्ञो जागर्ति । जाग्रद्वासनाश्रयमनोविशिष्टः संस्तैजससंज्ञः स्वप्ने विचित्रवासनासहकृतमायापरिणामान् पश्यन् 'सोम्य तन्मनः' इति श्रुतिस्थमनःशब्दवाच्यो भवति । स आत्मा स्थूलसूक्ष्मोपाधिद्वयोपरमेऽहं नरः कर्तेति विशेषाभिमानाभावाल्लीन इत्युपचर्यत इत्यर्थः ।
ननु स्वपितीति नामनिरुक्तेरर्थवादत्वान्न यथार्थतेत्यत आह
यथेति ।
तस्य हृदयशब्दस्यैतन्निर्वचनम् ।
तदशितमन्नं द्रवीकृत्य नयन्ते जरयन्तीत्याप एवाशनायापदार्थः । तत्पीतमुदकं नयते शोषयतीति तेज एवोदन्यम् । अत्र दीर्घश्छान्दसः । एवमिदमपि निर्वचनं यथार्थमित्याह
एवमिति ।
इदं च प्रधानपक्षे न युक्तमित्याह
न चेति ।
स्वशब्दस्यात्मनीवात्मीयेऽपि शक्तिरस्तीत्याशङ्क्याह
यदीति ।
प्राज्ञेन बिम्बचैतन्येनेश्वरेण सम्परिष्वङ्गो भेदभ्रमाभावेनाभेद इत्यर्थः ॥ ९ ॥
तत्तद्वेदान्तजन्यानामवगतीनां चेतनकारणविषयकत्वेन सामान्यान्नाचेतनं जगतः कारणमिति सूत्रार्थं व्यतिरेकमुखेनाह
यदि तार्किकेत्यादिना ।
अन्यत्परमाण्वादिकम् ।
न त्वेतदिति ।
अवगतिवैषम्यमित्यर्थः । विप्रतिष्ठेरन्विविधं नानादिशः प्रति गच्छेयुः । प्राणाश्चक्षुरादयो यथागोलकं प्रादुर्भवन्ति, प्राणेभ्योऽनन्तरम् , देवाः सूर्यादयस्तदनुग्राहकाः, तदनन्तरं लोक्यन्त इति लोका विषया इत्यर्थः ।
ननु वेदान्तानां स्वतप्रामाण्यत्वेन प्रत्येकं स्वार्थनिश्चायकत्वसम्भवात्किं गतिसामान्येनेत्यत आह
महच्चेति ।
एकरूपावगतिहेतुत्वं वेदान्तानां प्रामाण्यसंशयनिवृत्तिहेतुरित्यत्र दृष्टान्तमाह
चक्षुरिति ।
यथा सर्वेषां चक्षुषामेकरूपावगतिहेतुत्वम् , श्रवणानां शब्दावगतिहेतुत्वम् , घ्राणादीनां गन्धादिषु, एवं ब्रह्मणि वेदान्तानां गतिसामान्यं प्रामाण्यदार्ढ्ये हेतुरित्यर्थः ॥ १० ॥
एवमीक्षत्यादिलिङ्गैरचेतने वेदान्तानां समन्वयं निरस्य चेतनवाचकशब्देनापि निरस्यति
श्रुतत्वाच्चेति ।
सूत्रं व्याचष्टे
स्वशब्देनेति ।
स्वस्य चेतनस्य वाचकः सर्वविच्छब्दः । 'ज्ञः कालकालो गुणी सर्वविद्यः' इति सर्वज्ञं परमेश्वरं प्रकृत्य 'स सर्ववित्कारणम्' इति श्रुतत्वान्नाचेतनं कारणमिति सूत्रार्थः । करणाधिपा जीवास्तेषामधिपः ।
अधिकरणार्थमुपसंहरति ।
तस्मादीति
ईक्षणात्मशब्दादिकं परमाण्वादावप्ययुक्तमिति मत्वाह
अन्यद्वेति ॥ ११ ॥
वृत्तानुवादेनोत्तरसूत्रसन्दर्भमाक्षिपति
जन्मादिति ।
प्रथमसूत्रस्य शास्त्रोपोद्घातत्वाज्जन्मादिसूत्रमारभ्येत्युक्तम् । सर्ववेदान्तानां कार्ये प्रधानाद्यचेतने च समन्वयनिरासेन ब्रह्मपरत्वं व्याख्यातम् । अतः प्रथमाध्यायार्थस्यसमाप्तत्वादुत्तरग्रन्थारम्भे किं कारणमित्यर्थः ।
वेदान्तेषु सगुणनिर्गुणब्रह्मवाक्यानां बहुलमुपलब्धेः, तत्र कस्य वाक्यस्य सगुणोपासनाविधिद्वारा निर्गुणे समन्वयः कस्य वा गुणविवक्षां विना साक्षादेव ब्रह्मणि समन्वय इत्याकाङ्क्षैव कारणमित्याह
उच्यत इति ।
सङ्क्षिप्य सगुणनिर्गुणवाक्यार्थमाह
द्विरूपं हीति ।
नामरूपात्मको विकारः सर्वं जगत् , तद्भेदो हिरण्यश्मश्रुत्वादिविशेष इति वाक्यार्थः ।
वाक्यान्युदाहरति
यत्र हीत्यादिना ।
यस्यां खल्वज्ञानावस्थायां द्वैतमिव कल्पितं भवति तत्तदेतरः सन्नितरं पश्यतीति दृश्योपाधिकं वस्तु भाति । यत्र ज्ञानकाले विदुषः सर्वं जगदात्ममात्रमभूत्तत्तदा तु केन कं पश्येदित्याक्षेपान्निरुपाधिकं तत्त्वं भाति । यत्र भूम्नि निश्चितो विद्वान् द्वितीयं किमपि न वेत्ति सोऽद्वितीयो भूमा परमात्मा निर्गुणः । अथ निर्गुणोक्त्यनन्तरं सगुणमुच्यते । यत्र सगुणे स्थितो द्वितीयं वेत्ति तदल्पं परिच्छिन्नम् , यस्तु भूमा तदमृतं नित्यम् ।
अथेति ।
पूर्ववद्व्याख्येयम् । धीरः परमात्मैव सर्वाणि रूपाणि विचित्य सृष्ट्वा नामानि च कृत्वा बुद्ध्यादौ प्रविश्य जीवसंज्ञो व्यवहरन्यो वर्तते स सगुणस्तं निर्गुणत्वेन विद्वानप्यमृतो भवति । निर्गताः कला अंशा यस्मात्तन्निष्कलम् । अतो निरंशत्वान्निष्क्रियम् । अतः शान्तमपरिणामि । निरवद्यं रागादिदोषशून्यम् । अञ्जनं मूलतमःसम्बन्धो धर्मादिकं वा तच्छून्यं निरञ्जनम् । किञ्चामृतस्य मोक्षस्य स्वयमेव वाक्योत्थवृत्तिस्थत्वेन परमुत्कृष्टं सेतुं लौकिकसेतुवत्प्रापकम् । यथा दग्धेन्धनोऽनलः शाम्यति तमिवाविद्यां तज्जं च दग्ध्वा प्रशान्तं निर्गुणमात्मानं विद्यादित्यर्थः ।
नेति नेतीति ।
व्याख्यातम् । स्थूलादिद्वैतशून्यम् ।
रूपद्वये श्रुतिमाह -
न्यूनमिति ।
द्वैतस्थानं न्यूनमल्पं सगुणरूपं निर्गुणादन्यत् , तथा सम्पूर्णं निर्गुणं सगुणादन्यदित्यर्थः ।
एकस्य द्विरूपत्वं विरुद्धमित्यत आह
विद्येति ।
विद्याविषयो ज्ञेयं निर्गुणत्वं सत्यम् अविद्याविषय उपास्यं सगुणत्वं कल्पितमित्यविरोधः ।
तत्राविद्याविषयं विवृणोति
तत्रेति ।
निर्गुणज्ञानार्थमारोपितप्रपञ्चमाश्रित्यबाधात्प्राक्काले गुडजिह्विकान्यायेन तत्तत्फलार्थान्युपासनानि विधीयन्ते, तेषां चित्तैकाग्र्यद्वारा ज्ञानं मुख्यं फलमिति तद्वाक्यानामपि महातात्पर्यं ब्रह्मणीति मन्तव्यम् । 'नाम ब्रह्म' इत्याद्युपास्तीनां कामचारादिरभ्युदयः फलम् , दहराद्युपास्तीनां कामाचारादिरभ्युदयः फलम् , दहराद्युपास्तीनां क्रममुक्तिः, उद्भीथादिध्यानस्य कर्मसमृद्धिः फलमिति भेदः । ध्यानानां मानसत्वात् , ज्ञानान्तरङ्गत्वाच्च, ज्ञानकाण्डे विधानमिति भावः ।
ननूपास्यब्रह्मण एकत्वात्कथमुपासनानां भेदः, तत्राह
तेषामिति ।
गुणविशेषाः सत्यकामत्वादयः । हृदयादिरुपाधिः । अत्र स्वयमेवाशङ्क्य परिहरति
एक इति ।
परमात्मस्वरूपाभेदेऽप्युपाधिभेदेनोपहितोपास्यरूपभेदादुपासननां भेदे सति फलभेद इति भावः ।
तं परमात्मानं यद्यद्गुणत्वेन लोका राजानमिवोपासते तत्तद्गुणवत्वमेव तेषां फलं भवति । क्रतुः सङ्कल्पो ध्यानम् । इह यादृशध्यानवान् भवति मृत्वा तादृशोपास्यरूपो भवति । अत्रैव भगवद्वाक्यमाह
स्मृतेश्चेति ।
ननु सर्वभूतेषु निरतिशयात्मन एकत्वादुपास्योपासकयोस्तारतम्यश्रुतयः कथमित्याशङ्क्य परिहरति
यद्यप्येक इति ।
उक्तानामुपाधीनां शुद्धितारतम्यादैश्वर्यज्ञानसुखरूपशक्तीनां तारतम्यरूपा विशेषा भवन्ति तैरेकरूपस्यात्मन उत्तरोत्तरं मनुष्यादिहिरण्यगर्भान्तेपष्वाविर्भाववतारतम्यं श्रूयते । तस्यात्मन आत्मानं स्वरूपमाविस्तरां प्रकटतरं यो वेद उपास्ते सोऽश्नुते तदिति तरप्प्रत्ययादित्यर्थः । तथाच निकृष्टोपाधिरात्मैवोपासकः, उत्कृष्टोपाधिरीश्वर उपास्य इत्यौपाधिकं तारतम्यमविरुद्धमिति भावः ।
अत्रार्थे भगवद्गीतामुदाहरति
स्मृताविति ।
अत्र सूर्यादेरपि न जीवत्वेनोपास्यता किन्त्वीश्वरत्वेनेत्युक्तं भवति । तत्र सूत्रकारसंमतिमाह
एवमिति ।
उदयः असम्बन्धः । एवं यस्मिन्वाक्ये उपाधिर्विवक्षितः तद्वाक्यमुपासनपरमिति वक्तुमुत्तरसूत्रसन्दर्भस्यारम्भ इत्युक्त्वा यत्र न विवक्षितः तद्वाक्यं ज्ञेयब्रह्मपरमिति निर्णयार्थमारम्भ इत्याह
एवं सद्य इति ।
अन्नमयादिकोशा उपाधिविशेषाः । वाक्यगतिस्तात्पर्यम् ।
आरम्भसमर्थनमुपसंहरति
एवमेकमपीति ।
सिद्धवदुक्तगतिसामान्यस्य साधनार्थमप्युत्तरारम्भ इत्याह
यच्चेति ।
अन्नं प्रसिद्धम् , प्राणमनोबुद्ध्यः हिरण्यगर्भरूपाः बिम्बचैतन्यमीश्वर आनन्दः । तेषां पञ्चानां विकारा आध्यात्मिका देहप्राणमनोबुद्धिजीवा अन्नमयादयः पञ्चकोशाः इति श्रुतेः परमार्थः ।
पूर्वाधिकरणे गौणमुख्येक्षणयोरतुल्यत्वेन संशयाभावाद्गौणप्रायपाठो न निश्चायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्यत्वात्संशये विकारप्रायपाठादानन्दाधिकारो जीव आनन्दमय इति निश्चयोऽस्तीति प्रत्युदाहरणसङ्गत्या पूर्वपक्षमाह किं तावदित्याकाङ्क्षापूर्वकम्
किमिति ।
आनन्दमयपदस्यामुख्यार्थग्रहे हेतुं पृच्छति
कस्मादिति ।
विकारप्रायपाठहेतुमाह
अन्नमयादीति ।
श्रुत्यादिसङ्गतयः स्फुटा एव । पूर्वपक्षे वृत्तिकारमतेजीवोपास्त्या प्रियादिप्राप्तिः फलम् , सिद्धान्ते तु ब्रह्मोपास्त्येति भेदः ।
शङ्कते
अथापीति ।
परिहरति
न स्यादिति ।
सङ्गृहीतं विवृणोति
मुख्य इति ।
परमात्मेत्यर्थः ।
शारीरत्वेऽपीश्वरत्वं किं न स्यादित्यत आह
नचेति ।
जीवत्वं दुर्वारमित्यर्थः ।
नन्वानन्दपदाभ्यासेऽप्यानन्दमयस्य ब्रह्मत्वं कथमित्याशङ्क्य ज्योतिष्टोमाधिकारे ज्योतिष्पदस्य ज्योतिष्टोमपरत्ववदानन्दमयप्रकरणस्थानन्दमयपदस्यानन्दमयपरत्वात्तदभ्यासस्तस्य ब्रह्मत्वसाधक इत्यभिप्रेत्याह
आनन्दमयं प्रस्तुत्येति ।
रसः सारः । आनन्द इत्यर्थः । अयं लोकः । यद्यपि एष आकाशः पूर्णः आनन्दः साक्षिप्रेरको न स्यात्तदा को वान्याच्चलेत् , को वा विशिष्या प्राण्याज्जीवेत् , तस्मादेष एवानन्दयाति, आनन्दयतीत्यर्थः । 'युवा स्यात्साधुयुवा' इत्यादिना वक्ष्यमाणा मनुष्ययुवानन्दमारभ्य ब्रह्मानन्दावसाना एषा संनिहिता आनन्दस्य तारतम्यमीमांसा भवति । उपसङ्क्रामति विद्वान्प्राप्नोति इत्येकदेशिनामर्थः । मुख्यसिद्धान्ते तूपसङ्क्रमणं विदुषः कोशानां प्रत्यङ्मात्रत्वेन विलापनमिति ज्ञेयम् । शिष्टमुक्तार्थम् ।
आनन्दशब्दाद्ब्रह्मावगतिः सर्वत्र समानेति गतिसामान्यार्थमाह
श्रुत्यन्तरे चेति ।
लिङ्गादमुख्यात्मसंनिधेर्बाध इति मत्वाह
नासाविति ।
सर्वान्तरत्वं न श्रुतमित्याशङ्क्य ततोऽन्यस्यानुक्तेस्तस्य सर्वान्तरत्वमिति विवृणोति
मुख्यमिति ।
लोकबुद्धिमिति ।
तस्याः स्थूलग्राहितामनुसरदित्यर्थः ।
ताम्रस्य मूषाकारत्ववत्प्राणस्य देहाकारत्वं देहेन सामान्यम् , तथा मनः प्राणाकारं तेन सममित्याह
पूर्वेणेति ।
अतीतो योऽनन्तर उपाधिर्विज्ञानकोशस्तत्कृता सावयवत्वकल्पना, शरीरेण ज्ञेयत्वाच्छारीरत्वमिति लिङ्गद्वयं दुर्बलम् । अतः सहायाभावादभ्याससर्वान्तरत्वाभ्यां विकारसंनिधेर्बाध इति भावः ॥ १२ ॥
विकारार्थकमयट्श्रुतिसहाय इत्याशङ्क्य मयटः प्राचुर्येऽपि विधानान्मैवमित्याह
विकारेत्यादिना ।
तत्प्रकृतवचने मयडिति ।
तदितिप्रथमासमर्थाच्छब्दात्प्राचुर्यविशिष्टस्य प्रस्तुतस्य वचनेऽभिधाने गम्यमाने मयट्प्रत्ययो भवतीति सूत्रार्थः । अत्र वचनग्रहणात्प्रकृतस्य प्राचुर्यवैशिष्ट्यसिद्धिः, तादृशस्य लोके मयटोऽभिधानात् , यथा 'अन्नमयो यज्ञः' इति । अत्र ह्यन्नं प्रचुरमस्मिन्नित्यन्नशब्दः प्रथमाविभक्तिशक्तस्तस्मान्मयट्यज्ञस्य प्रकृत्यर्थान्नप्राचुर्यवाची दृश्यते न शुद्धप्रकृतवचन इति ध्येयम् ॥ १३ ॥
सूत्रस्थचशब्दोऽनुक्तसमुच्चयार्थ इति मत्वा व्याचष्टे
इतश्चेति ।
तच्चानुक्तं ब्रह्मानन्दस्य निरतिशयत्वावधारणं पूर्वमुक्तम् ॥ १४ ॥
आनन्दमयस्य ब्रह्मत्वे लिङ्गमुक्त्वा प्रकरणमाह
मान्त्रेति ।
यस्मादेवं प्रकृतं तस्मात्तन्मान्त्रावर्णिकमेव ब्रह्मानन्दमय इति वाक्ये गीयत इति योजना ।
ननु मन्त्रोक्तमेवात्र ग्राह्ममिति को निर्बन्धः, तत्राह
मन्त्रेति ।
ब्राह्मणस्य मन्त्रव्याख्यानत्वादुपायत्वमस्ति, मन्त्रस्तूपेयः, तदिदमुक्तम्
अविरोधादिति ।
तयोरुपायोपेयभावादित्यर्थः ।
तर्ह्यन्नमयादीनामपि मान्त्रवर्णिकब्रह्मत्वं स्यादित्यत आह
न चेति ।
किञ्च भृगवे प्रोक्ता, वरुणेनोपदिष्टा भृगुवल्ली पञ्चमपर्यायस्थानन्दे प्रतिष्ठिता । तत्र स्थानन्यायेन तदेकार्थब्रह्मवल्ल्या आनन्दमये निष्ठेत्याह
एतन्निष्ठैवेति ॥ १५ ॥
स ईश्वरः तपः सृष्ट्यालोचनमतप्यत कृतवानित्यर्थः । अभिध्यानं कामना । 'बहु स्याम्' इत्यव्यतिरेकः ॥ १६ ॥
अधिकारे प्रकरणे । स आननदमयो रसः । ननु लब्धृलब्धव्यभावेऽप्यभेदः किं न स्यादत आह
नहि लब्धैवेति ।
ननुलब्धृलब्धव्ययोर्भेदस्यावश्यकत्वे श्रुतिस्मृत्योर्बाधः स्यादित्याशङ्कते
कथमिति ।
यावता यतस्त्वयेत्युक्तमतः श्रुतिस्मृती कथमित्यन्वयः ।
उक्तां शङ्कामङ्गीकरोति
बाढमिति ।
तर्ह्यात्मन एवात्मना लभ्यत्वोक्तिबाधः अभेदादित्याशङ्क्य कल्पितभेदान्न बाध इत्याह
तथापीति ।
अभेदेऽपीत्यर्थः । लौकिकः भ्रमः । आत्मनः स्वाज्ञानजभ्रमेण देहाद्यभिन्नस्य भेदभ्रान्त्या परमात्मनो ज्ञेयत्वाद्युक्तिरित्यर्थः । अन्वेष्टव्यो देहादिविविक्ततया ज्ञेयः, विवेकज्ञानेन लब्धव्यः साक्षात्कर्तव्यः, तदर्थं श्रोतव्यः, विज्ञानं निदिध्यानं साक्षात्कारो वा श्रुत्यन्तरस्यार्थानुवादादपौनरुक्त्यम् ।
ननु भेदः सत्य एवास्तु, तत्राह
प्रतिषिध्यत इति ।
अत ईश्वराद्द्रष्टा जीवोऽन्यो नास्तीति चेज्जीवाभेदादीश्वरस्यापि मिथ्यात्वं स्यादत आह
परमेश्वर इति ।
अविद्याप्रतिबिम्बत्वेन कल्पिताज्जीवाच्चिन्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम् । कल्पितस्याधिष्ठानाभेदेऽप्यधिष्ठानस्य ततो भेद इत्यत्र दृष्टान्तमाह
यथेति ।
सूत्रारूढः स्वतोऽपि मिथ्या, न जीव इत्यरुच्याभेदमात्रमिथ्यात्वे दृष्टान्तान्तरमाह
यथावेति ।
ननु सूत्रबलाद्भेदः सत्य इत्यत आह
ईदृशं चेति ।
कल्पितमेवेत्यर्थः । सूत्रे भेदः सत्य इति पदाभावात् , 'तदनन्यत्व' आदिसूत्राणाच्छ्रुत्यनुसाराच्चेति भावः ॥ १७ ॥
नन्वानन्दात्मकसत्त्वप्रचुरं प्रधानमानन्दमयमस्तु, तत्राह
कामाच्चेति ।
अनुमानगम्यमानुमानिकम् ।
पुनरुक्तिमाशङ्क्याह
ईक्षतेरिति ॥ १८ ॥
अस्मिन्निति
विषयसप्तमी आनन्दमयविषयकप्रबोधवतो जीवस्य तद्योगं यस्माच्छास्ति तस्मान्न प्रधानमिति योजना ।
जीवस्य प्रधानयोगोऽप्यस्तीत्यत आह
तदात्मनेति ।
जीवस्य जीवाभेदोऽस्तीत्यत आह
मुक्तिरिति ।
अदृश्ये स्थूलप्रपञ्चशून्ये, आत्मसम्बन्धमात्म्यं लिङ्गशरीरं तद्रहिते, निरुक्तं शब्दशक्यं तद्भिन्ने, निःशेषलयस्थानं निलयनं माया तच्छून्ये ब्रह्मणि, अभयं यथा स्यात्तथा यदैव प्रतिष्ठां मनसः प्रकृष्टां वृत्तिमेष विद्वांल्लभते अथ तदैवाभयं ब्रह्म प्राप्नोतीत्यर्थः । उतपि अरमल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना इति ।
वृत्तिकारमतं दूषयति
इदं त्विति ।
इह परव्याख्यायां विकारार्थके मयटिबुद्धिस्थे सत्यकस्मात्कारणं विना एकप्रकरणस्थस्य मयटः पूर्वं विकारार्थकत्वम् , अन्ते प्राचुर्यार्थकत्वमित्यर्धजरतीयं कथमिव केन दृष्टान्तेनाश्रीयत इतीदं वक्तव्यमित्यन्वयः ।
प्रश्नं मत्वाशङ्क्यते
मान्त्रेति ।
स्पुटमुत्तरम् ।
किमान्तर इति न श्रूयते, किंवा वस्तुतोऽप्यान्तरं ब्रह्म न श्रूयत इति विकल्प्य आद्यमङ्गीकरोति
अत्रोच्यतेयद्यपीति ।
विकारप्रायपाठानुग्रहीतमयट्श्रुतेः सावयवत्वलिङ्गाच्चेत्याह
तथापीति ।
इष्टार्थस्य दृष्ट्या जातं सुखं प्रियम् , स्मृत्या मोदः, स चाभ्यासात्प्रकृष्टः प्रमोदः, आनन्दस्तु कारणम् , बिम्बचैतन्यमात्मा, शिरःपुच्छयोर्मध्यकायः ब्रह्म शुद्धमिति श्रुत्यर्थः ।
द्वितीयं प्रत्याह
तत्र यदिति ।
यन्मन्त्रे प्रकृतं गुहानिहितत्वेन सर्वान्तरं ब्रह्म, तदिह पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञायते । तस्यैव विज्ञापनेच्छया पञ्चकोशरूपा गुहा प्रपञ्चिता । तत्र तात्पर्यं नास्तीति वक्तुं कल्प्यन्त इत्युक्तम् । एवं पुच्छवाक्ये प्रकृतस्वप्रधानब्रह्मपरे सति न प्रकृतहान्यादिदोष इत्यर्थः ।
ब्रह्मणः प्रधानत्वं पुच्छश्रुतिविरुद्धमिति शङ्कते
नन्विति ।
अत्र ब्रह्मशब्दात्प्रकृतस्वप्रधानब्रह्मप्रत्यभिज्ञाने सति पुच्छशब्दविरोधप्राप्तौ, एकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात् , पुच्छशब्देन प्राप्तगुणत्वस्य बाध इति मत्वाह
प्रकृतत्वादिति ।
प्रकरणस्यान्यथासिद्धिमाह
नन्विति ।
एकस्यैवगुणत्वं प्रधानत्वं च विरुद्धमित्याह
अत्रोच्यत इति ।
तत्र विरोधनिरासायान्यतरसस्मिन्वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीकार्यमित्याह
अन्यतरेति ।
वाक्यशेषाच्चैवमित्याह
अपिचेति ।
तत्तत्रब्रह्मणिश्लोकोऽपीत्यर्थः ।
पुच्छशब्दस्य गतिं पृच्छति
कथं पुनरिति ।
त्वयापि पुच्छशब्दस्य मुख्यार्थो वक्तुमशक्यः, ब्रह्मण आनन्दमयलाङ्गूलत्वाभावात् । पुच्छदृष्टिलक्षणायां चाधारलक्षणा युक्ता, प्रतिष्ठापदयोगात् , ब्रह्मशब्दस्य मुख्यार्थलाभाच्च । त्वत्पक्षे ब्रह्मपदस्याप्यवयवलक्षकत्वादित्याह
नैष दोष इति ।
पुच्छमित्याधारत्वमात्रमुक्तम् । प्रतिष्ठेत्वेकनीडत्वम् । एकं मुख्यं नीडमधिष्ठानं सोपादानस्य जगत इत्यर्थः ।
ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं ब्रह्मणिसमन्वितमिष्टम् , तत्र किमुदाहरणभेदेनेत्याशङ्क्याह
अपिचेति ।
यत्र सविशेषत्वं तत्र वाङ्मनसगोचरत्वमिति व्याप्तेरत्र व्यापकाभावोक्त्या निर्विशेषमुच्यत इत्याह
निर्विशेषमिति ।
निवर्तन्ते अशक्ता इत्यर्थः । सविशेषस्य मृषात्वादभयं चायुक्तम् । अतो निर्विशेषज्ञानार्थं पुच्छवाक्यमेवोदाहरणमिति भावः । प्राचुर्यार्थकमयटा सविशेषोक्तौ निर्विशेषश्रुतिबाध उक्तः ।
दोषान्तरमाह
अपिचेति ।
प्रत्ययार्थत्वेन प्रधानस्य प्राचुर्यस्य प्रकृत्यर्थो विशेषणम् , विशेषणस्य यः प्रतियोगी विरोधीति तस्याल्पत्वमपेक्षते, यथा विप्रमयो ग्राम इति शूद्राल्पत्वम् । अस्तु को दोषः, तत्राह
तथाचेति ।
प्रकृत्यर्थप्राधान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाशः सवितेत्यत्र तमसोऽल्पस्याप्यभानात् । परन्त्वानन्दमयपदस्य प्रचुरानन्दलक्षणादोषः स्यादिति मन्तव्यम् ।
किञ्च भिन्नत्वाद्घटवन्न ब्रह्मतेत्याह
प्रतिशरीरमिति ।
नन्वभ्यस्यमानानन्दपदं लक्षणयानन्दमयपरमित्यभ्याससिद्धिरित्यत आह
यदि चेति ।
आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्परत्वज्ञानादभ्याससिद्धिः, तत्सिद्धौ तन्निर्णय इति परस्पराश्रय इति भावः ।
अयमभ्यासः पुच्छब्रह्मण इत्याह
तस्मादिति ।
उपसङ्क्रमणं बाधः ।
ननु 'स य एवंवित्' इति ब्रह्मविदं प्रक्रम्योपसङ्क्रमणवाक्येन फलं निर्दिश्यते तत्तस्याब्रह्मत्वे न सिध्यतीति शङ्कते
नन्विति ।
उपसङ्क्रमणं प्राप्तिरित्यङ्गीकृत्य विशिष्टप्राप्त्युक्त्या विशेषणप्राप्तिफलमुक्तमित्याह
नैष इति ।
ज्ञानेन कोशानां बाधस्तदिति सिद्धान्ते बाधावधिप्रत्यगानन्दलाभोऽर्थादुक्त उत्तरश्लोकेन स्फुटीकृत इत्याह
तदपीति ।
तदपेक्षत्वादिति ।
कामयितृपुच्छब्रह्मविषयत्वादित्यर्थः ।
यदुक्तं पञ्चमस्थानस्थत्वादानन्दमये ब्रह्मवल्ली समाप्ता, भृगुवल्लीवदिति, तत्राह
यत्त्विति ।
या त्वित्यर्थः । मयट्श्रुत्या सावयवत्वादिलिङ्गेन च स्थानं बाध्यमिति भावः । गोचराति क्रमो गोचरत्वाभावः ।
वेदसूत्रयोर्विरोधे 'गुणे त्वन्याय्यकल्पना' इति सूत्राण्यन्यथा नेतव्यानीत्याह
सूत्राणीति ।
पूर्वमीक्षतेः संशयाभावादिति युक्त्या प्रायपाठो न निश्चायक इत्युक्तम् । तर्ह्यत्र पुच्छपदस्याधारावयवयोर्लक्षणासाम्यात्संशयोऽस्तीत्यवयवप्रायपाठो निश्चायक इति पूर्वाधिकरणसिद्धान्तयुक्त्यभावेन पूर्वपक्षयति
पुच्छशब्दादिति ।
तथाच प्रत्युदाहरणसङ्गतिः । पूर्वपक्षे सगुणोपास्तिः, सिद्धान्ते निर्गुणप्रमितिः फलम् । वेदान्तवाक्यसमन्वयोक्तेः श्रुत्यादिसङ्गतयः स्फुटा एव । सूत्रस्थानन्दमयपदेन तद्वाक्यस्थं ब्रह्मपदं लक्ष्यते । विक्रियतेऽनेनेति विकारोऽवयवः ।
प्रायापत्तिरिति ।
अवयवक्रमस्य बुद्धौ प्राप्तिरित्यर्थः । अत्र हि प्रकृतस्य ब्रह्मणो ज्ञानार्थं कोशाः पक्षित्वेन कल्प्यन्ते, नात्र तात्पर्यमस्ति । तत्रानन्दमयस्यापि अवयवान्तरोक्त्यनन्तरं कस्मिंश्चित्पुच्छे वक्तव्ये प्रकृतं ब्रह्म पुच्छपदेनोक्तम् । तस्यानन्दमयाधारत्वेनावश्यंवक्तव्यत्वादित्यर्थः ।
तद्धेतुव्यपदेशाच्च ॥ १४ ॥
तस्य ब्रह्मणः सर्वकार्यहेतुत्वव्यपदेशात् । प्रियादिविशिष्टत्वाकारेणानन्दमयस्य जीवस्य कार्यत्वात्तं प्रति शेषत्वं ब्रह्मणो न युक्तमित्यर्थः ।
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
'ब्रह्मविदाप्नोति परम्' इति यस्य ज्ञानान्मुक्तिरुक्ता, यत् 'सत्यं ज्ञानम्' इति मन्त्रोक्तं ब्रह्म, तदत्रैव पुच्छवाक्ये गीयते, ब्रह्मपदसंयोगात् । नानन्तमयवाक्य इत्यर्थः ।
नेतरो अनुपपत्तेः ॥ १६ ॥
इतरा आनन्दमयो जीवोऽत्र न प्रतिपाद्यः । सर्वस्रष्टृत्वाद्यनुपपत्तेरित्यर्थः ।
भेदव्यपदेशाच्च ॥ १७ ॥
अयमानन्दमयो ब्रह्मरसं लब्ध्वानन्दी भवतीति भेदोक्तेश्च तस्याप्रतिपाद्यतेत्यर्थः ।
आनन्दमयो ब्रह्म, तैत्तरीयकपञ्चमस्थानस्थत्वात्भृगुवल्लीस्थानन्दवदित्याशङ्क्याह
कामाच्च नानुमानापेक्षा ॥ १८ ॥
काम्यत इति काम आनन्दः तस्य भृगुवल्ल्यां पञ्चमस्य ब्रह्मत्वदृष्टेरानन्दमयस्यापि ब्रह्मत्वानुमानापेक्षा न कार्या, विकारार्थकमयड्विरोधादित्यर्थः ।
भेदव्यपदेशाच्चेत्सगुणं ब्रह्मात्र वेद्यं स्यादित्याशङ्क्याह
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
गुहानिहितत्वेन प्रतीचि 'स एकः' इत्युपसंहृते पुच्छवाक्योक्ते ब्रह्मण्यहमेव परं ब्रह्मेति प्रबोधवत आनन्दमयस्य 'यदा हि' इति शास्त्रं ब्रह्मभावं शास्ति, अतो निर्गुणब्रह्मैक्यज्ञानार्थं जीवभेदानुवाद इत्यभिप्रेत्याह
अपराण्यपीति ॥ १९ ॥
अन्तस्तद्धर्मोपदेशात् ।
छान्दोग्यवाक्यमुदाहरति
अथ य इति ।
अथेत्युपास्तिप्रारम्भार्थः ।
हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णोऽपि मूर्तिमानुपासकैर्दृश्यते । मूर्तिमाह
हिरण्येति ।
प्रणखो नाखाग्रं तेन सहेत्यभिविधावाङ् ।
नेत्रयोर्विशेषमाहतस्येति ।
कपेर्मर्कटस्य आसः पुच्छभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथा दीप्तिमदेवं तस्य पुरुषस्याक्षिणी, सद्योविकसितरक्ताम्भोजनयन इत्यर्थः ।
उपासनार्थमादित्यमण्डलं स्थानम् , रूपं चोक्त्वा नाम करोति
तस्योदिति ।
तन्नाम निर्वक्ति
स इति ।
उदित उद्गतः । सर्वपाप्मास्पृष्ट इत्यर्थः ।
नामज्ञान फलमाह
उदेति हेति ।
देवतास्थानमादित्यमधिकृत्योपास्त्युक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह
अथेति ।
पूर्वत्र ब्रह्मपदमानन्दमयपदमानन्दपदाभ्यासश्चेति मुख्यत्रितयादिबहुप्रमाणवशान्निर्गुणनिर्णयवत् , रूपवत्त्वादिबहुप्रमाणवशाज्जीवो हिरण्मय इतिपूर्वसिद्धान्तदृष्टान्तसङ्गत्या पूर्वमुत्सर्गतः सिद्धनिर्गुणसमन्वयस्यापवादार्थं पूर्वपक्षयति
संसारीति ।
अत्र पूर्वोत्तरपक्षयोर्जीवब्रह्मणोरुपास्तिः फलम् । अक्षिणीत्याधारश्रवणाच्च संसारीति सम्बन्धः ।
श्रुतिमाह
स एष इति ।
आदित्यस्थः पुरुषः, अमुष्मादादित्यादूर्ध्वगा ये केचन लोकास्तेषामीश्वरो देवभोगानां चेत्यर्थः । स एषोऽक्षिस्थः पुरुष एतस्मादक्ष्णोऽधस्तना ये लोकाः, ये च मनुष्यकामा भोगास्तेषामीश्वर इति मर्यादा श्रूयते । अतः श्रुतेश्च संसारीत्यर्थः । 'एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः । भूताधिपतिर्यमः, भूतपाल इन्द्रादिश्च एष एव । किञ्च जलानामसङ्कराय लोके विधारको यथा सेतुः, एवमेषां लोकानां वर्णाश्रमादीनां मर्यादाहेतुत्वात्सेतुरेष एव । अतः सर्वेशवर इत्यर्थः ।
सूत्रं व्याचष्टे
य एष इति ।
यद्यप्येकस्मिन्वाक्ये प्रथमश्रुतानुसारेण चरमं नेयम् , तथाप्यत्र प्रथमं श्रुतं रूपवत्वं निष्फलम् , ध्यानार्थमीश्वरे नेतुं शक्यं च । सर्वपाप्मासङ्गित्वं सर्वात्मैकत्वं तु सफलम् , जीवे नेतुमशक्यञ्चेति प्रबलम् ।
नच 'न ह वै देवान्पापं गच्छति' इति श्रुतेरादित्यजीवस्यापि पाप्मास्पर्शित्वमिति वाच्यम् । श्रुतेरधुना कर्मानधिकारिणां देवानां क्रियमाणपाप्मासंम्बन्धे तत्फलास्पर्शे वा तात्पर्यात् , तेषां सञ्चितपापाभावे 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्ययोगादित्यभिप्रेत्याह
सर्वपाप्मापगमश्च परमात्मन एवेति ।
सार्वात्म्यमाह
तथेति ।
अत्र तच्छब्दैश्चाक्षुषः पुरुष उच्यते । ऋगाद्यपेक्षया लिङ्गव्यत्ययः । उक्थं शस्त्रविशेषः, तत्साहचर्यात्साम स्तोत्रम् , उक्थादन्यच्छस्त्रमृगुच्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः ।
पृथिव्याग्न्याद्यात्मक इति ।
आधिदैवतमृक्पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा पञ्चविधा श्रुत्युक्ता, साम चाग्निवाय्वादित्यचन्द्रादित्यगतातिकृष्णरूपमुक्तं पञ्चविधम् । अध्यात्मं तु ऋक् , वाक्चक्षुःश्रोत्राक्षिस्थशुक्लभारूपा चतुर्विधा, साम च प्राणच्छायात्ममनोऽक्षिगतातिनीलरूपं चतुर्विधमुक्तम् ।
एवं क्रमेण ऋक्सामे अनुक्रम्याह
श्रुतिःतस्येति ।
यौ सर्वात्मकर्क्सामात्मकौ गेष्णावमुष्यादित्यस्थस्य, तावेवाक्षिस्थस्य गेष्णौ पर्वणीत्यर्थः ।
तच्चेति ।
ऋत्क्सामगेष्णत्वमित्यर्थः ।
सर्वगानगेयत्वं लिङ्गान्तरमाह
तद्य इति ।
तत्तत्र लोके, धनस्य सनिर्लाभो येषां ते धनसनयः, विभूतिमन्त इत्यर्थः ।
ननु लोके राजानो गीयन्ते नेश्वर इत्यत आह
यद्यदिति ।
पशुवित्तादिर्विभूतिः, श्रीः कान्तिः, ऊर्जितत्वं बलम् , तद्युक्तं सत्वं राजादिकं मदंश एवेति तद्गानमीश्वरस्यैवेत्यर्थः । निरङ्गुशमनन्याधीनम् । एषा विचित्ररूपा मूर्तिर्मायाविकृतित्वान्माया मया सृष्टेत्यर्थः ।
तदुक्तम् 'अशब्दम्' इत्यादिवाक्यं तंज्ञेयपरमित्याह
अपिचेति ।
तर्हि रूपं कुतः, तत्राह
सर्वेति ।
यत्र तूपास्यत्वेनोच्यते तत्रेत्यध्याहृत्य सर्वकारणत्वात्प्राप्तरूपवत्वं 'सर्वकर्मा' इत्यादिश्रुत्या निर्दिश्यत इति योजना ।
मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं निराकरोति
ऐश्वर्येति ।
अध्यात्माधिदैवतध्यानयोर्विभागः पृथक्प्रयोगस्तदपेक्षमेव, नत्वैश्वर्यस्य परिच्छेदार्थमित्यर्थः ॥ २० ॥
ननु उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्रीह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह
भेदेति ।
आदित्यजीवादीश्वरस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थमाह
अस्तीति ।
आदित्ये स्थितरश्मिनिरासार्थमादित्यादन्तर इति जीवं निरस्यति
यमिति ।
अशरीरस्य कथं नियन्तृत्वम् , तत्राह
यस्येति ।
अन्तर्यामिपदार्थमाह
य इति ।
तस्यानात्मत्वनिरासायाह
एष त इति ।
ते तव स्वरूपमित्यर्थः । आदित्यान्तरत्वश्रुतेः समानत्वादित्यर्थः । तस्मात्पर एवादित्यादिस्थानक उद्गीथे उपास्य इति सिद्धम् ॥ २१ ॥
भवतु रूपवत्त्वादिदुर्बललिङ्गानां पापास्पर्शित्वाद्यव्यभिचारिब्रह्मलिङ्गैरन्यथानयनम् । इह त्वाकाशपदश्रुतिर्लिङ्गाद्बलीयसीति प्रत्युदाहणेन प्राप्ते प्रत्याह
आकाशस्तल्लिङ्गादिति ।
छान्दोग्यवाक्यमुदाहरति
इदमिति ।
शालावत्यो ब्राह्मणो जैवलिं राजानं पृच्छति, अस्य पृथ्वीलोकस्यान्यस्य च क आधार इति । राजाब्रूते, 'आकाश इति ह' इति । 'यदेष आकाशः' इत्यानन्दत्वस्यासाधारणस्य श्रवणादाकाशो ब्रह्मेत्यवधारितम् । 'आकाशो वै नाम' इत्यत्र 'तद्ब्रह्म' इति वाक्यशेषादिति विभागः ।
निर्वहिता
उत्पत्तिस्थितिहेतुः । ते नामरूपे, यदन्तरा यस्माद्भिन्ने । यत्र कल्पितत्वेन मध्ये स्त इति वार्थः । अत्र पूर्वपक्षे भूताकाशात्मनोद्गीथोपास्तिः, सिद्धान्ते ब्रह्मात्मना इति फलम् । उपास्ये स्पष्टब्रह्मलिङ्गवाक्यसमन्वयोक्तेरापादं श्रुत्यादिसङ्गतयः । स्पष्टमत्र भाष्यम् ।
तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादेवकारश्रुतिबाधः, सर्वश्रुतेश्चाकाशातिरिक्तविषयत्वेन सङ्कोचः स्यादित्याह
सत्यं दर्शितमिति ।
ब्रह्मणस्तु सर्वात्मकत्वात् 'तस्मादेव सर्वम्' इति श्रुतिर्युक्तेति भावः ।
तथा सर्वलयाधारत्वम् , निरतिशयमहत्त्वम् , स्थितावपि परमाश्रयत्वमित्येतानि स्पष्टानि ब्रह्मलिङ्गानीत्याह
तथा आकाशमित्यादिना ।
रातेर्धनस्य दातुः । रातिरिति पाठे बन्धुरित्यर्थः ।
लिङ्गान्तरमाह
अपि चेति ।
दाल्भ्यशालावत्यौ ब्राह्मणौ राजा चेति त्रय उद्गीथविद्याकुशला विचारयामासुः, किमुद्गीथस्य परायणमिति । तत्र स्वर्गादागताभिरद्भिर्जीवितेन प्राणेन क्रियमाणोद्गीथस्य स्वर्ग एव परायणमिति दाल्भ्यपक्षमप्रतिष्ठादोषेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोकः प्रतिष्ठेत्युवाच । तं शालावत्यस्य पक्षं 'अन्तवद्वै ते किल शालावत्यसाम' इति राजा निन्दित्वानन्तमेवाकाशं वक्ति । भूताकाशोक्तावन्तवत्त्वदोषतादवस्थ्यादित्यर्थः ।
नन्वाकाशोऽनन्त इति न श्रुतमित्याशङ्क्याह
तं चेति ।
उद्गीथ आकाश एवेति सम्पादनादुद्गीथस्यानन्तत्वादिकं न स्वत इति भावः । स उद्गीथावयव ओङ्कारः, एष आकाशात्मकः, परः रसतमत्वादिर्गुणैरुत्कृष्टः, अतोऽक्षरान्तरेभ्यो वरीयान् । श्रेष्ठ इत्यर्थः । परः इत्यव्ययं सकारान्तं वा, परः कृत्स्नमिति प्रयोगात् । परश्चासौ वरेभ्योऽतिशयेन वरः । परोवरीयानित्यर्थः ।
प्राथम्यात् , श्रुतत्वाच्चाकाशशब्दो बलीयानित्युक्तं स्मारयति
यत्पुनरिति ।
एवकारसर्वशब्दानुगृहीतानन्त्यादिबहुलिङ्गानामनुग्रहाय 'त्यजेदेकं कुलस्यार्थे' इति न्यायेनैकस्याः श्रुतेर्बाधो युक्त इत्याह
अत्र ब्रूम इति ।
आकाशपदाद्भूतस्यैव प्रथमप्रतीतिरिति नियमो नास्तीत्यपिशब्देन द्योतितम् । तत्र युक्तिमाह
दर्शितश्चेति ।
आकाशपदाद्गौणार्थस्य ब्रह्मणोऽपि प्रथमप्रतीतिरस्ति, तस्य तत्पर्यायाणां च ब्रह्मणि प्रयोगप्राचुर्यादिति भावः । अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति । प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः ।
ओङ्कारः कं सुखं ब्रह्म खं व्यापकमित्युपासीत । श्रुत्यन्तरप्रयोगमाह
खं पुराणमिति ।
व्याप्यनादि ब्रह्मेत्यर्थः । 'कं ब्रह्म खं ब्रह्म' इति छान्दोग्यम् , 'ओं खं ब्रह्म खं पुराणम्' इति बृहदारण्यकमिति भेदः । किञ्च तत्रैव प्रथमानुसारेणोत्तरं नेयम् , यत्र तन्नेतुं शक्यम् ।
यत्र त्वशक्यं तत्रोत्तरानुसारेण प्रथमं नेयमित्याह
वाक्येति ।
तस्मादुपास्ये ब्रह्मणि वाक्यं समन्वितमित्युपसंहरति
तस्मादिति ॥ २२ ॥
आकाशवाक्योक्तन्यायं तदुत्तरवाक्येऽतिदिशति
अत एव प्राणः ।
उद्गीथप्रकरणमिति ज्ञापनार्थमुद्गीथ इति भाष्यपदम् । उद्गीथप्रकरणे श्रूयत इत्यन्वयः । कश्चिदृषिश्चाक्रायणः प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमनुगता ध्यानार्थम् , तां चेदज्ञात्वा मम विदुषो निकटे प्रस्तोष्यसि मूर्धा ते पतिष्यतीति । ततो भीतः सन् पप्रच्छ, कतमा सा देवतेति । उत्तरम् , प्राण इति । प्राणमभिलक्ष्य सम्यग्विशन्ति लीयन्ते, तमभिलक्ष्योज्जिहते उत्पद्यन्त इत्यर्थः ।
अतिदेशत्वात्पूर्ववत्संशयादि द्रष्टव्यमित्युक्तं विवृणोति
प्राणेति ।
मनौपाधिको जीवः प्राणेन ब्रह्मणा बध्यते सुषुप्तावेकीभवति । प्राणस्य वायोः प्राणम्प्रेरकं तस्य सत्तास्फूर्तिप्रदमात्मानं ये विदुस्ते ब्रह्मविद इत्यर्थः ।
पूर्वेण गतर्थात्वात्पृथक्सूत्रं व्यर्थमिति शङ्कते
ननु पूर्ववदिति ।
अधिकाशङ्कानिरासार्थमतिदेशसूत्रमिति मत्वा शङ्कामाह
न । मुख्येऽपीति ।
तर्हि तदा चक्षुरप्येतीत्येवंप्रकारेण सर्वत्र सम्बन्धः ।
नन्वत्रेन्द्रियाणां प्राणे लयोदयौ श्रूयेते, तावता महाभूतलयादिप्रतिपादकवाक्यशेषोपपत्तिः कथमित्यत आह
इन्द्रियसारत्वादिति ।
'तस्य ह्येष रसः' इति श्रुतेः । इन्द्रियाणि लिङ्गात्मरूपाणि अपञ्चीकृतभूतानां साराणि तेषां लयाद्युक्त्या भूतानामपि प्राणे लयादिसिद्धेः वाक्यशेषोपपत्तिरित्यर्थः ।
अब्रह्मसहपाठाच्च प्राणो न ब्रह्मेत्याह
अपि चेति ।
उद्गातृप्रतिहर्तृभ्यामुद्गीथे प्रतिहारे च का देवतेति पृष्टेन चाक्रायणेनादित्योऽन्नं च निर्दिश्यते । 'आदित्य इति होवाच' 'अन्नमिति होवाच' इति श्रुतावित्यर्थः । सामान्यं सन्निधानम् । संनिध्यनुग्रहीतप्रथमश्रुतप्राणश्रुत्या मुख्यप्राणनिर्णये तद्दृष्ट्या प्रस्तावोपास्तिरिति पूर्वपक्षफलम् , सिद्धान्ते ब्रह्मदृष्टिरूपोपास्तिः । तस्याधिकरणस्यातिदेशत्वमेव पूर्वेण सङ्गतिरिति विभागः ।
भवन्तीति भूतानीति व्युत्पत्या यत्किञ्चिद्भवनधर्मकं कार्यमात्रम् , तस्य लयोदयौ वायुविकारे प्राणे न युक्तावित्युक्त्वा भूतशब्दस्य रूढार्थग्रहेऽपि लयादेर्ब्रह्मनिर्णायकत्वमित्याह
यदापीति ।
भैतिकप्राणस्य भूतयोनित्वायोगादित्यर्थः ।
तस्य तद्योनित्वं श्रुत्याशङ्कते
नन्विति ।
अथ यदा सुषुप्तो जीवः प्राणे ब्रह्मण्येकीभवति तदा एनं प्राणं सविषयवागादयोऽपियन्तीत्यर्थः ।
अत्र जीवाभिन्नत्वे सर्वलयाधारत्वलिङ्गान्न मुख्यः प्राण इत्याह
तत्रापीति ।
वाक्यान्तरसंनिध्यपेक्षया स्ववाक्यगतंलिङ्गं बलीय इत्याह
तदयुक्तमिति ।
एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्गतं लिङ्गं तेनेत्यर्थः ।
प्राणमेवेत्यवधारणेन सर्वभूतप्रकृतित्वलिङ्गेन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह
तदाकाशशब्दस्येवेति ।
वृत्तिकृतामुदाहरणं संशयाभावेनायुक्तमित्याह
अत्रेत्यादिना ।
शब्दभेदमुक्त्वा प्रकरणं प्रपञ्चयति
यस्य चेति ॥ २३ ॥
ज्योतिश्चरणाभिधानात् । छान्दोग्यमेवोदाहरति
इदमिति ।
गायत्र्युपाधिकब्रह्मोपास्त्यानन्तर्यार्थोऽथशब्दः । अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तद्यतदिदमिति जाठराग्नावध्यस्यते ।
कुत्र दीप्यते, तत्राह
विश्वत इति ।
विश्वस्मात्प्राणिवर्गादुपरि सर्वस्माद्भूरादिलोकादुपरि ये लोकास्तेषूत्तमेषु न विद्यन्ते उत्तमा येभ्य इत्यनुत्तमेषु सर्वसंसारमण्डलातीतं परं ज्योतिरिदमेव, यद्देहस्थमित्यर्थः ।
अस्य पूर्वेणागतार्थत्वं वदन्प्रत्युदाहरणसङ्गतिमाह
अर्थान्तरेति ।
अत्र स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावेऽपि 'पादोस्य' इति पूर्ववाक्ये भूतपादत्वं लिङ्गमस्तीति पादसङ्गतिः । पूर्वोत्तरपक्षयोर्जडब्रह्मज्योतिषोरुपास्तिः फलमिति भेदः ।
नन्वज्ञानतमोविरोधित्वाद्ब्रह्मापि ज्योतिःपदशक्यतया प्रसिद्धमस्ति, नेत्याह
चक्षुरिति ।
शर्वर्यां रात्रौ भवं शार्वरम् । नीलमिति यावत् । अनेनावरकत्वाद्रूपवत्त्वाच्च कुड्यवद्भावरूपं तम इत्यर्थादुक्तं भवति ।
ज्योतिःश्रुतेरनुग्राहकलिङ्गान्याह
तथेत्यादिना ।
भास्वररूपात्मिका दीप्तिस्तेजस एव लिङ्गमित्याह
न हीति ।
मास्तु मर्यादेत्याशङ्क्य श्रुतत्वान्मैवमित्याह
परो दिव इति ।
मर्यादां ब्रूत इति शेषः ।
ब्रह्मवत्कार्यस्यापि मर्यादायोगान्निरर्थकं ब्राह्मणमिति कश्चिदाक्षिपति
नन्विति ।
एकदेशी ब्रूते
अस्त्विति ।
स्वर्गादौ जातं किञ्चिदतीन्द्रियं तेजो दिवः परस्तादस्ति, श्रुतिप्रामाण्यादित्यर्थः ।
अध्ययनविध्युपात्तश्रुतेर्निष्फलं वस्तु नार्थ इत्याक्षिप्य ब्रूते
नेति ।
ध्यानं फलमित्याशङ्क्य निष्फलस्य क्वापि ध्यानं नास्तीत्याह
इदमेवेत्यादिना ।
प्रयोजनान्तरं तमोनाशादिकम् ।
अत्रिवृत्कृतं तेजोऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नास्तीत्याह
तासामिति ।
तेजोऽबन्नानां देवतानामेकैकं द्विधा विभज्य पुनश्चैकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य तन्त्रिगुणरज्जुवन्त्रिवृत्तं करवाणीत्यविशेषोक्तेर्नास्त्यत्रिवृत्कृतं किञ्चिदित्यर्थः । किञ्चात्र 'यदतः परः' इति यच्छब्देनान्यतः प्रसिद्धं द्युमर्यादत्वं ध्यानायानूद्यते
न चात्रिवृत्कृतस्य तस्य तत्क्वचित्प्रसिद्धमित्याह
न चेति ।
एकदेशिमते निरस्ते साक्षात्पूर्वपक्षी ब्रूते
अस्तु तर्हीति ।
प्रदेशविशेषः दिवः परस्ताद्देदीप्यमानः सूर्यादितेजोवयवविशेषः, तस्य परिग्रह उपसनार्थो न विरुद्ध्यत इत्यन्वयः । स एव कौक्षेये ज्योतिषि उपास्यते । तस्यापि तेजस्त्वादिति भावः ।
ब्रह्मणोऽपि ध्यानार्थं प्रदेशस्थत्वं कल्प्यताम् , नेत्याह
नत्विति ।
निष्प्रदेशस्य निरवयवस्य विशेषेऽपि दिवः परस्ताद्देदीप्यमानब्रह्मावयवकल्पना भागिनी युक्ता न त्वित्यन्वयः । अप्रमाणिकगौरवापातादिति भावः ।
ततः किम् , तत्राह
सारूप्येति ।
यथा एकत्वसाम्याद्भूरितिव्याहृतौ प्रजापतेः शिरोदृष्टिः श्रुता तथा जाठराग्नावब्रह्मत्वं घोषादिश्रुत्या प्रसिद्धमिति जडज्योतिष्ट्वं साम्यं वाच्यमित्यर्थः । यद्देहस्पर्शनेनौष्ण्यज्ञानं प्रसिद्धं सैषा तस्य जाठराग्नेर्दृष्टिः, यत्कर्णपिधानेन घोषश्रवणम् , सैषा तस्य श्रुतिरित्यर्थः ।
ज्योतिषो जडत्वे लिङ्गान्तरमाह
तदेतदिति ।
ज्योतिरित्यर्थः । चक्षुष्यश्चक्षुर्हितः सुन्दरः, श्रुतो विख्यातः ।
न चान्यदपीति ।
ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीत्यन्वयः ।
ननु 'त्रिपादस्यामृतं दिवि' इति पूर्ववाक्योक्तं ब्रह्मात्र ज्योतिःपदेन गृह्यतामित्याशङ्क्याह
न चेति ।
ननु सर्वात्मकत्वामृतत्वाभ्यां ब्रह्मोक्तमित्यत आह
अथापीति ।
कथञ्चिच्छन्दोद्वारेत्यर्थः । दिवि दिव इति विभक्तिभेदान्न प्रत्यभिज्ञेत्यर्थः । प्रकृतेर्जातं प्राकृतम् , कार्यमित्यर्थः ।
आचारं निरस्यति
पादेति ।
'गायत्री वा इदं सर्वं भूतम्' 'वाग्वै गायत्री' 'येयं पृथिवी' 'यदिदं शरीरम्' 'यदस्मिन्पुरुषे हृदयम्' 'इमे प्राणाः' इति भूतवाक्पृथिवीशरीरहृदयप्राणात्मिका षड्विधा षड्भिरक्षरैश्चतुष्पदा गायत्रीति । यदुक्तं तावान् तत्परिमाणः सर्वः प्रपञ्चोऽस्य गायत्र्यनुगतस्य ब्रह्मणो महिमा विभूतिः, पुरुषस्तु पूर्णब्रह्मरूपः, अतः प्रपञ्चाज्ज्यायानधिकः ।
आधिक्यमेवाह
पाद इति ।
सर्वं जगदेकः पादोऽंशः, 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' इति स्मृतेः । अस्य पुरुषस्य दिवि स्वप्रकाशस्वरूपे त्रिपादमृतं रूपमस्ति, दिवि सूर्यमण्डले वा ध्यनार्थमस्ति, कल्पिताज्जगतो ब्रह्मस्वरूपामनन्तमस्तीत्यर्थः । यथा लोके पादात्पादत्रयमधिकं तथेदमधिकमिति बोधनार्थं त्रिपादमृतमित्युक्तम् , न त्रिपादत्वं विवक्षितमिति मन्तव्यम् ।
'यदतः परः' इति यच्छब्दस्य प्रसिद्धार्थवाचित्वात्पूर्ववाक्यप्रसिद्धं ब्रह्म ग्राह्ममित्याह
तत्रेति ।
ननु 'यदाग्नेयोऽष्टाकपालः' इत्यत्र यत्पदस्याप्रकृतार्थकत्वं दृष्टमित्यत आह
तत्परित्यज्येति ।
तत्र यागस्यान्यतः प्रसिद्धेरभावेनापूर्वत्वादगत्या यदोऽप्रसिद्धार्थत्वमाश्रितम् । इह तु पूर्ववाक्यप्रसिद्धस्य ब्रह्मणो द्युसम्बन्धेन प्रत्यभिज्ञातस्य यदर्थत्वनिश्चयाद्यत्पदैकार्थकज्योतिःपदस्यापि स एवार्थ इत्यर्थः ।
सन्दंशन्यायादप्येवमित्याह
न केवलमिति ।
'सर्वं खल्विदं ब्रह्म' इत्युत्तरत्र ब्रह्मानुवृत्तेर्मध्यस्थं ज्योतिर्वाक्यं ब्रह्मपरमित्यर्थः ।
प्रकरणादिति ।
प्रकृतापेक्षयत्पदश्रुत्या द्युसम्बन्धभूतपादत्वादिलिङ्गैश्चेत्यर्थः । अतः प्रकरणाज्ज्योतिःश्रुतिबाधो न युक्त इति निरस्तम् ।
अविशेषकत्वादिति ।
ब्रह्मव्यावर्तकत्वाभावादित्यर्थः । येन चेतसा चैतन्येनेद्धः प्रकाशितः सूर्यस्तपति प्रकाशयति तं बृहन्तमवेदविन्न मनुत इत्यर्थः ।
ज्योतिःशब्दस्य कार्यज्योतिष्येव शक्तिरित्यङ्गीकृत्य कारणब्रह्मलक्षकत्वमुक्त्वा ब्रह्मण्यपि शक्तिमाह
यद्वेति ।
गाढान्धकारे वाचैव ज्योतिषा लोक आसनादिव्यवहारं करोतीत्यर्थः । आज्यं जुषतां पिबतां मनो ज्योतिः प्रकाशकं भवति इत्याज्यस्तुतिः ।
यथा गच्छन्तमनुगच्छतः स्वस्यापि गतिरस्ति तथा सर्वस्य स्वनिष्ठं भानं स्यादित्यत आह
तस्य भासेति ।
तत्कालानवच्छिन्नं ब्रह्म सूर्यादिज्योतिषां साक्षिभूतमायुरमृतमिति च देवा उपासत इत्यर्थः ।
योषितोऽग्नित्ववत्द्युमर्यादत्वादिकं ध्यानार्थं कल्पितं ब्रह्मणो युक्तमित्याह
अत्रोच्यत इत्यादिना ।
दिवः परमपीत्यन्वयः ।
आरोप्यस्य ध्येयस्यालम्बनस्य च सादृश्यनियमो नास्तीत्याह
परस्यापीति ।
भविष्यति ब्रह्मज्योतिष इति शेषः ।
'तं यथा यथोपासते तथा तथा फलं भवति' इति श्रुतेरित्याह
न हीयत इति ।
ज्ञानफलवदुपास्तिफलमेकरूपं किं न स्यादत आह
यत्र हीति ।
ज्ञेयैकत्वादित्यर्थः ।
ध्येयं तु नानेत्याह
यत्र त्विति ।
ईश्वरो जीवरूपेणान्नमत्तीत्यन्नादः अन्नस्यासमन्ताद्दाता वा वसु हिरण्यं ददातीति वसुदान इति गुणविशेषसम्बन्धं यो वेद स धनं विन्दते, दीप्ताग्निश्च भवति । नाम्नो वागुत्तमा, मनो वा प्रतीकं वाचो भूय इति प्रतीकविशेषध्यानश्रुतिसङ्ग्रहार्थमाद्यपदम् ।
संनिधेः श्रुतिर्बलीयसीति शङ्कते
कथं पुनरिति ।
अथ प्रथमश्रुत्यनुसारेण चरमश्रुतिर्नीयत इत्याह
नैष इति ।
सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्थ्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना । अर्थाद्यत्पदसामानाधिकरण्यादित्यर्थः ॥ २४ ॥
छन्दोभिधानाद्ब्रह्म प्रकृतं नास्तीति शङ्कामेकदेशी दूषयति
कथमिति ।
शङ्कां साधयति
नैतदित्यादिना ।
चतुष्पदत्वादिकं पूर्वमेव व्याख्यातम् ।
य एतामेवमिति ।
वेदरहस्यभूतां मधुविद्यामेवमुक्तरीत्या यः कश्चिद्वेद तस्योदयास्तमयरहितब्रह्माप्राप्तिर्भवतीत्यर्थः । तथाच वेदत्वाद्गायत्र्यां ब्रह्मशब्दो युक्त इति भावः ।
गायत्रीशब्देन तदुपादानत्वेनानुगतब्रह्मलक्षणायां बीजमनुपपत्तिमाह
न ह्यक्षरेति ।
ब्रह्मणोऽपि कथं सर्वात्मकत्वम् , तत्राह
कार्यं चेति ।
नच गायत्र्या ध्यानार्थं सर्वात्मत्वारोप इति वाच्यम् , स्वतः सर्वात्मनो ध्यानसम्भवेनासदारोपायोगादीति भावः ।
'तथाहि दर्शनम्' इति सूत्रशेषं व्याचष्टे
तथान्यत्रेति ।
दृश्यत इति दर्शनम् । दृष्टमित्यर्थः । एतं परमात्मानं बह्वृचा ऋग्वेदिनो महत्युक्थे शस्त्रे तदनुगतमुपासते । एतमेवाग्निरहस्ये 'तमेतमग्निरित्यध्वर्यव उपासते' इति श्रुतेः यजुर्वेदिनोऽग्नौ उपासते । एतमेव छन्दोगाः सामवेदिनो महाव्रते क्रतौ उपासत इत्यैतरेयके दृष्टमित्यर्थः ।
गायत्रीशब्दो ब्रह्मलक्षक इति व्याख्याय गौण इत्याह
अपर इति ।
साक्षादेव । वाच्यार्थग्रहणं विनैवेति यावत् । पूर्वं तूपास्यतया गायत्रीपदेनाजहल्लक्षणया गायत्रीब्रह्मणी द्वे अपि लक्षिते । नच गायत्री सर्वमित्यन्वयासम्भवः, घटो रूपीति पदार्थैकदेशे व्यक्तौ रूपान्वयवत् , गायत्रीपदार्थैकदेशे गायत्र्यनुगते ब्रह्मणि प्रधाने सर्वात्मकत्वान्वयसम्भवादिति भावः । तथाच सूत्रे सिद्धान्तभागस्यायमर्थः- तथा गायत्रीवच्चतुष्पात्वगुणसामान्यात् , चेतो ब्रह्मणि समर्प्यते येन स चेतोर्पणो गायत्रीशब्दस्तेन ब्रह्मण एव निगदादभिधानात् छन्दोभिधानमसिद्धमिति ।
अधुना 'तथाहि दर्शनम्' इति शेषं व्याचष्टे
तथेति ।
संवर्गविद्यायामाधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयन्ते, अध्यात्मं वाक्चक्षुःश्रोत्रमनांसि प्राणमपियन्तीत्युक्तम् । ते वा एते पञ्चान्ये आधिदैविकाः, पञ्चान्ये आध्यात्मिकास्ते मिलित्वा दशसङ्ख्याकाः सन्तः कृतमित्युच्यन्ते । सन्ति हि कृतत्रेताद्वापरकलिसंज्ञकानि चत्वारि द्युतानि क्रमेण चतुरङ्कत्र्यङ्कद्व्यङ्कैकाङ्कानि । तत्र कृतं दशात्मकं भवति, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयोर्द्वयोरेकस्य चान्तर्भावात् । तथाच दशत्वगुणेन वाय्वादयः कृतशब्देनोच्यन्ते ।
एवं कृतत्वं वाय्वादीनामुपक्रम्याह
सैषेति ।
विधेयापेक्षया स्त्रीलिङ्गनिर्देशः । विराट्पदं छन्तोवाचकम् , 'दशाक्षरा विराट्' इति श्रुतेः । दशत्वसाम्येन वाय्वादयो विराडित्युच्यन्ते । एवंच दशत्वद्वारा वाय्वादिषु कृतत्वं विराट्त्वं च ध्येयम् । तत्र विराट्त्वध्यानात्सर्वमस्यान्नं भवति, 'अन्नं विराट्' इति श्रुतेः । कृतत्वध्यानादन्नादो भवति, कृतद्यूतस्यान्नादत्वात् । कृतं हि स्वीयचतुरङ्गेषु त्र्यङ्कादिकमन्तर्भावयदन्नमत्तीव लक्ष्यते । अत एव कृतजयादितरद्यूतजयः श्रुत्युक्तः 'कृतायविजितायाधरेयाः संयन्ति' इति । अयो द्यूतम् , कृतसंज्ञोऽयः कृतायः स विजितो येन तस्मै, अधरेयास्त्र्यङ्कादयः अयाः संयन्ति उपनमन्ते । तेन जिता भवन्तीत्यर्थः । एवंच सा वाय्वादिदशात्मिका एषा कृतशब्दिता विराडन्नम् , कृतत्वादन्नादिनीत्यर्थः ।
सर्वथापीति ।
गायत्रीति पदस्य लक्षकत्वे गौणत्वेऽपि चेत्यर्थः । अत्रापर आहेत्यपरपदेन गौणत्वे स्वमतं नेति द्योतयति । अजहल्लक्षणापक्षे हि 'वाग्वै गायत्री' इति वागात्मत्वं गायति च त्रायते च इति निरुक्तनामकत्वं च गायत्र्या उपाधित्वेनोपास्यत्वादुपपन्नतरम् । गौणपक्षे गायत्रीत्यागात्तदुभयं सर्वात्मकत्वमात्रेणोपपादनीयम् । एवं गायत्रीपदस्य स्वार्थत्यागः, अप्रसिद्धचतुष्पात्त्वगुणद्वारा विप्रकृष्टलक्षणा चेति बह्वसमञ्जसम् ॥ २५ ॥
ननु 'गायत्री वा इदं सर्वम्' इति प्रथम गायत्रीश्रुतेः कथं लक्षणेत्याशङ्क्य वाक्यशेषगतसर्वात्मकत्वाद्यनेकबलवत्प्रमाणसंवादेन ब्रह्मणि तात्पर्यावगमादित्याह
भूतादिपादेति ।
एवं पदार्थमाह
इतश्चेति ।
सूत्रस्थादिपदार्थं दर्शयति
भूतपृथिवीति ।
अत्र सूत्रभाष्यकारयोर्भूतादिभिश्चतुष्पदा गायत्रीति संमतम् , षडक्षरैश्चतुष्पात्वं वृत्तिकारोक्तमप्रसिद्धं चकारसूचितम् ।
युक्त्यन्तरमाह
अपि चेति ।
ब्रह्मपरसूक्तोत्पन्नत्वाच्च तस्यास्तत्परत्वमित्याह
पुरुषेति ।
ब्रह्मपदस्य छन्दोवाचित्वमुक्तं निरस्यति
यद्वै तद्ब्रह्मेति ।
पूर्वस्यामृचि ब्रह्मोक्तावित्यर्थः ।
हृदयस्य चतुर्दिक्षूर्ध्वं च पञ्च सुषयः सन्ति । तेषु ब्रह्मस्थानहृन्नगरस्य प्रागादिद्वारेषु क्रमेण प्राणव्यानापानसमानोदानाः पञ्चद्वारपाला इति ध्यानार्थं श्रुत्या कल्पितम् । तत्र हृदयच्छिद्रस्थप्राणेषु ब्रह्मपुरुषत्वश्रुतिर्हृदि गायत्र्याख्यब्राह्मण उपासनासम्बन्धितायां ब्रह्मणो द्वारपालत्वाद्ब्रह्मपुरुषा इति सम्भवतीत्याह
पञ्च ब्रह्मेति ॥ २६ ॥
दिवि दिव इति विभक्तिभेदात्प्रकृतप्रत्यभिज्ञा नास्तीत्युक्तं नोपक्षणीयमित्याह
तत्परिहर्तव्यमिति ।
परिहारं प्रतीजानीते
अत्रेति ।
सूत्रे नञर्थं वदन्परिहारमाह
नायमिति ।
एवं सर्वत्र व्याख्येयम् । प्रधानप्रातिपदिकार्थद्युसम्बन्धेन प्रत्यभिज्ञाया विभक्त्यर्थभेदो न प्रतिबन्धकः, कथञ्चिदाधारस्यापि मर्यादात्वसम्भवात् । यथा वृक्षाग्रं स्वलग्नभागावच्छिन्नश्येनस्याधारः सन्नेव स्वालग्नभागावच्छिन्नस्य तस्यैव मर्यादा भवति, एवं दिवि सूर्ये हार्दाकाशे वा मुख्ये आधारे सब्रह्मदिवो मर्यदात्वं तदलग्नाकाशावच्छिन्नं ब्रह्म प्रति कल्पयित्वा दिवः परमित्युच्यत इत्यर्थः ।
यद्याकाशेन अनवच्छिन्नं ब्रह्म गृहीत्वा पञ्चम्या दिवो मर्यादात्वमेव मुख्यं तदा गङ्गायां घेष इतिवत्सप्तम्या सामीप्यलक्षणयाधारत्वं व्याख्येयमित्याह
अपर इति ।
सम्बद्धं प्रत्याधारत्वं मुख्यं पूर्वमुक्तं दिव्येव सदिति । असम्बद्धं प्रति मर्यादात्वं मुख्यमधुनोच्यते दिवः परमपीति भेदः । तस्माज्ज्योतिर्वाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २७ ॥
प्राणस्तथानुगमात् ।
दिवोदासस्यापत्यं दैवोदासिः प्रतर्दनो नाम राजा युद्धेन पुरुषकारेण च कारणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम । तं ह इन्द्र उवाच, प्रतर्दन वरं ते ददानीति । स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्यसे तं वरं त्वमेवालोच्य मह्यं देहीति । तत इन्द्र इदमाह 'प्राणोऽस्मि' इत्यादि । मुख्यं प्राणं निरसितुं प्रज्ञात्मत्वमुक्तम् ।
निर्विशेषचिन्मात्रं निरस्यति
तं मामिति ।
इदं प्राणस्येन्द्रदेवतात्वे लिङ्गम् ।
मुख्यप्राणत्वे लिङ्गमाह
अथेति ।
वागादीनां देहधारणशक्त्यभावनिश्चयानन्तरमित्यर्थः ।
प्राणस्य देहधारकत्वमुत्थापकत्वं च प्रसिद्धमिति वक्तुं खल्वित्युक्तम् । प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह
न वाचमिति ।
आनन्दत्वादिकं ब्रह्मलिङ्गमाह
अन्ते चेति ।
अनेकेषु लिङ्गेषु दृश्यमानेषु बलाबलनिर्णयार्थमिदमधिकरणममित्यगतार्थमाह
अनेकलिङ्गेति ।
पूवर्त्र प्रकृतब्रह्मवाचकयच्छब्दबलाज्ज्योतिःश्रुतिःब्रह्मपरेत्युक्तम् , न तथेह प्राणश्रुतिभङ्गे किञ्चिद्बलमस्ति, मिथो विरुद्धानेकलिङ्गानामनिश्चायकत्वादिति प्रत्युदाहरणसङ्गत्या पूर्वपक्षयति
तत्रेति ।
पूर्वं प्रधानप्रातिपदिकार्थबलात्विभक्त्यर्थबाधवद्वाक्यार्थज्ञानं प्रति हेतुत्वेन प्रधानानेकपदार्थबलादेकवाक्यताभङ्ग इति दृष्टान्तसङ्गतिर्वास्तु । पूर्वपक्षे प्राणाद्यनेकोपास्तिः, सिद्धान्ते प्रत्यग्ब्रह्मधीरिति विवेकः ।
तथा ब्रह्मपरत्वेन पदानामन्वयावगमादिति हेत्वर्थमाह
तथाहीति ।
हिततमत्वकर्मक्षयादिपदार्थानां सम्बन्धो ब्रह्मणि तात्पर्यनिश्चायक उपलभ्यत इत्युक्तं विवृणोति
उपक्रम इत्यादिना ।
यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः ।
स यः कश्चिन्मां ब्रह्मरूपं वेदसाक्षादनुभवति, तस्य विदुषो लोको मोक्षो महतापि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानाग्निना कर्मतूलराशेर्दग्धत्वादित्याह
स य इति ।
साध्वसाधुनी पुण्यपापे । ताभ्यामस्पृष्टत्वम् , तत्कारयितृत्वम् , निरङ्कुशैश्वर्यं च सर्वमेतदित्यर्थः ॥ २८ ॥
अहङ्कारवादेन स्वात्मवाचकशब्दैराचचक्षे, उक्तवानित्यर्थः । वाक्यस्य इन्द्रोपासनापरत्वे लिङ्गान्तरमाह
तथा विग्रहेति ।
त्रीणि शीर्षाणि यस्येति त्रिशीर्षा त्वष्टुः पुत्रो विश्वरूपो नाम ब्राह्मणः तं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यम् , तन्मुखे येषां ते रुन्मुखास्तेभ्योऽन्यान्वेदान्तबहिर्मुखान् यतीनरण्यश्वभ्यो दत्तवानस्मीत्यर्थः ।
इन्द्रे प्राणशब्दोपपत्तिमाह
प्राणत्वं चेति ।
वदन्ति लौकिका अपीत्यर्थः । बलवाचिना प्राणशब्देन बलदेवता लक्ष्यत इति भावः ।
इन्द्रो हितप्रदातृत्वाद्धिततमः, कर्मानधिकारादपाप इत्येवं व्याख्येयानीत्याह
निश्चिते चेति ।
किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मात्रमुच्यते उत विग्रहः । आद्ये वाक्यस्य ब्रह्मपरत्वं सिद्धम् । न द्वितीय इत्याह
अध्यात्मेति ।
आत्मनि देहेऽधिगत इत्यध्यात्मं प्रत्यगात्मा । स सम्बध्यते यैः शरीरस्थत्वादिभिरिन्द्रतनावसम्भावितैर्धर्मैस्ते अध्यात्मसम्बन्धास्तेषां भूमेत्यर्थः ।
आयुरत्र देहे प्राणवायुसञ्चारः । अस्तित्वे प्राणस्थितौ प्राणानामिन्द्रियाणां स्थितिरित्यर्थतः श्रुतिमाह
अस्तित्व इति ।
'अथातो निश्रेयसादानम्' इत्याद्या श्रुतिः ।
इन्द्रियस्थापकत्ववद्देहोत्थापकत्वमाह
तथेति ।
वक्तृत्वमुक्त्वा सर्वाधिष्ठानत्वं दर्शितमित्याह
इति चोपक्रम्येति ।
तत्तत्र नानाप्रपञ्चस्यात्मनि कल्पनायां यथा दृष्टान्तः, लोके प्रसिद्धस्य रथस्यारेषु नेमिनाभ्योर्मध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौचक्रपिण्डिकायामरा अर्पिताः, एवं भूतानि पञ्च पृथिव्यादीनि मीयन्त इति, मात्राः भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः । इन्द्रियजाः पञ्च शब्दादिविषयप्रज्ञाः मीयन्ते आभिरिति मात्राः पञ्च धीन्द्रियाणि । नेमिवद्ग्राह्यं ग्राहकेषु अरेषु कल्पितमित्युक्त्वा नाभिस्थानीये प्राणे सर्वं कल्पितमित्याह
प्राणेऽर्पिता इति ।
स प्राणो मम स्वरूपमित्याह
स म इति ।
तर्हि प्रत्यगात्मनि समन्वयो न तु ब्रह्मणि, तत्राह
अयमिति ॥ २९ ॥
अहङ्कारवादस्य गतिं पृच्छति
कथमिति ।
सूत्रमुत्तरम् । तद्व्याख्याति
इन्द्र इति ।
जन्मान्तरकृतश्रवणादिना अस्मिञ्जन्मनि स्वतःसिद्धं दर्शनमार्षम् । विज्ञेयेन्द्रस्तुत्यर्थ उपन्यासो न चेत्कथं तर्हि स इति पृच्छति
कथमिति ।
ब्रह्मज्ञानस्तुत्यर्थः स इत्याह
विज्ञानेति ।
नियामकं ब्रूते
यदिति ।
परेण ।
'तस्य मे' इत्यादिना वाक्येनेत्यन्वयः ।
स्तुतिमाह
एतदुक्तमिति ।
तस्माज्ज्ञानं श्रेष्ठमिति शेषः ।
स्तुतज्ञानविषय इन्द्र इत्यत आह
विज्ञेयं त्विति ॥ ३० ॥
देहोत्थापनं जीवलिङ्गं किं न स्यात् , तत्राह
शरीरधारणं चेति ।
सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वागादीन्वरिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्य धारयामीत्यर्थः ।
द्विवचनसहवासोत्क्रान्तिश्रुतेश्च न ब्रह्म ग्राह्यमित्याह
जीवमुख्येति ।
अभेदनिर्देशमाह
यो वा इति ।
भेदमाह
सहेति ।
यदि जीवमुख्यप्राणयोर्लिङ्गादुपास्यत्वं तर्हि ब्रह्मणोऽपि लिङ्गानामुक्तत्वादुपासनं स्यात् । न चेष्टापत्तिः । उपक्रमादिन निश्चितैकवाक्यताभङ्गप्रसङ्गादित्याह
नैतदेवमित्यादिना ।
नच स्वतन्त्रपदार्थभेदाद्वाक्यभेदः किं न स्यादिति वाच्यम् , जीवमुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणिनेतुं शक्यतया स्वातन्त्र्यासिद्धेः, अफलपदार्थस्य फलवद्वाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्लिङ्गनयस्योचितत्वाच्च । नहि प्रधानवाक्यार्थब्रह्मलिङ्गमन्यथा नेतुं शक्यम् , न वा तदुचितमित्याह
नच ब्रह्मलिङ्गमिति ।
सूत्रशेषं व्याचष्टे
आश्रितत्वाच्चेति ।
अन्यत्र 'अत एव प्राणः' इत्यादौ वृत्तेराश्रितत्वादिहापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः ।
प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्यनायासेन नेतुं शक्यनीत्याह
यत्त्वित्यादिना ।
यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः । विशेषं परिच्छेदाभिमानमित्यर्थः ।
'वक्तारं विद्यात्' इति न वक्तुर्ज्ञेयत्वमुच्यते, तस्य लोकसिद्धत्वात् , किन्तु तस्य ब्रह्मत्वं बोध्यते । तद्बोधाभिमुख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह
यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः ।
तत्त्वम्पदवाच्ययोः स्वरूपतो भेदस्ताभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दिश्यत इत्याह
नैष दोष इति ।
स्वमतेन सूत्रं व्याख्याय वृत्तिकृन्मतेन व्याचष्टे
अथवेति ।
उपासनात्रित्वप्रसङ्गादिति पूर्वमुक्तम् । अत्र त्रिप्रकारकस्यैकब्रह्मविशेषेकस्यैकस्योपासनस्य विवक्षितत्वादित्यर्थः । अतो न वाक्यभेद इति भावः ।
देहचेष्टात्मकजीवनहेतुत्वं प्राणस्यायुष्ट्वं देहापेक्षया तस्य आमुक्तेरवस्थानादमृतत्वम् , उत्थापयतीत्युक्थत्वमिति प्राणधर्मः । जीवधर्मानाह
अथेति ।
बुद्धिप्राणयोः सहस्थित्युत्क्रान्त्युक्त्यनन्तरमित्यर्थः ।
अत्र प्रज्ञापदेन साभासा जीवाख्या बुद्धिरुच्यते । तस्याः सम्भन्धीनि दृश्यानि सर्वाणि भूतानि यथैकं भवन्त्यधिष्ठानचिदात्मना तथा व्याख्यास्याम इत्युपक्रम्योक्तम्
'वागेव' इत्यादि ।
चक्षुरेवास्या एकमङ्गमदूदुहदित्यादिपर्यायाणां सङ्क्षिप्तार्थमुच्यते । उत्पन्नाया असत्कल्पनायाः साभासबुद्धेर्नामप्रपञ्चविषयित्वमर्धं शरीरम् , अर्थात्मकरूपप्रपञ्चविषयित्वमर्धं शरीरमिति मिलित्वा विषयित्वाख्यं पूर्णं शरीरमिन्द्रियसाध्यम् । तत्र कर्मेन्द्रियेषु वागेवास्याः प्रज्ञाया एकमङ्गं देहार्धमदूदुहत्पूरयामास । वागिन्द्रियद्वारा नामप्रपञ्चविषयित्वं बुद्धिर्लभत इत्यर्थः । चतुर्थी षष्ठ्यर्था । तस्याः पुनर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापिताभूतमात्रा रूपाद्यर्थरूपा परस्तादपरार्धे कारणं भवति । ज्ञानकारणद्वरार्थप्रपञ्चविषयित्वं बुद्धिः प्राप्नोतीत्यर्थः ।
एवं बुद्धेः सर्वार्थद्रष्टृत्वमुपपाद्य तन्निष्ठचित्प्रतिबिम्बद्वारा साक्षिणि द्रष्टृत्वाध्यासमाह
प्रज्ञयेति ।
बुद्धिद्वारा चिदात्मा वाचमिन्द्रियंसमारुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्टा भवतीत्यर्थः ।
तथाच सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृत्वाध्यासनिमित्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वाधारत्वानन्दत्वादिः ब्रह्मधर्म इत्याह
ता वा इति ।
दशत्वं व्याख्यातम् ।
प्रज्ञा इन्द्रियजात्या अधिकृत्य ग्राह्या भूतमात्रा वर्तन्ते, प्रज्ञामात्रा इन्द्रियाणि ग्राह्यं भूतजातमधिकृत्य वर्तन्त इति ग्राह्य ग्राहकयोर्मिथः सापेक्षत्वमुक्तं साधयति
यदिति ।
तदेव स्फुटयति
न हीति ।
ग्राह्येण ग्राह्यस्वरूपं न सिध्यति किन्तु ग्राहकेण । एवं ग्राहकमपि ग्राह्यमनपेक्ष्य न सिध्यति । तस्मात्सापेक्षत्वादेतद्ग्राह्यग्राहकद्वयं वस्तुतो न भिन्नं किन्तु चिदात्मन्यरोपितमित्याह
नो इति ।
तद्यथेत्यादि कृतव्याख्यानम् ।
सूत्रार्थमुपसंहरति
तस्मादिति ।
अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह
अन्यत्रापीति ।
उपाधिर्जीवः । तत् अन्यधर्मेणोपासनम् । इयमसङ्गता व्याख्या । तथाहिन तावदारुण्याद्यनेकगुणविशिष्टप्राप्तक्रयणवदुपासात्रयविशिष्टस्य ब्रह्मणो विधिः सम्भवति, सिद्धस्य विध्यनर्हत्वात् । नापि ब्रह्मानुवादेनोपासात्रयविधिः, वाक्यभेदात् । नच नानाधर्मविशिष्टमेकमुपासनं विधीयत इति वाच्यम् , तादृशविधिवाक्यस्यात्राश्रवणात् । नच 'तं मामायुरमृतमित्युपाःस्व' इत्यत्र मामिति जीवेन, आयुरिति प्राणेन, अमृतमिति ब्रह्मणा स्वस्वधर्मवता विशिष्टोपासनाविधिरिति वाच्यम् , सर्वेषां धर्माणामश्रवणात् , ब्रह्माश्रुतेश्च । 'प्राणो वा अमृतम्' इति प्राणस्यैवामृतत्वश्रुतेः । अत उपासनाविधिलुब्धेन 'वक्तारं विद्यात्' 'एतदेवोक्थमुपासीत' 'स म आत्मेति विद्यात्' इति जीवप्राणब्रह्मोपासनविधयः, अन्ये गुणविधय इति स्वीकृत्यैकवाक्यत्वं त्याज्यम् , तच्चायुक्तम् , उपक्रमादिनैकवाक्यतानिर्णयादिति ।
तस्माज्ज्ञेयप्रत्यग्ब्रह्मपरमिदं वाक्यमित्युपसंहरति
तस्मादिति ॥ ३१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥
प्रथमाध्याये द्वितीयः पादः ।
श्रीरामं सिद्धमत्तारं गुहाशायिनमान्तरम् । अन्तर्यामिणमज्ञेयं वैश्वानरमहं भजे ॥ १ ॥
पूर्वपादेनोत्तरपादयोः सङ्गतिं वक्तुं वृत्तमनुवदति
प्रथम इति ।
जगत्कारणत्वोक्त्या व्यापित्वादिकमर्थात्सिद्धम् । तदुपजीव्योत्तरं पादद्वयं प्रवर्तत इति हेतुहेतुमद्वावः सङ्गतिः ।
कथं पादभेद इत्याशङ्क्य पादानां प्रमेयभेदमाह
अर्थान्तरेति ।
आकाशादिशब्दानां स्पष्टब्रह्मलिङ्गैर्ब्रह्मणि समन्वयो दर्शितः । अस्पष्टब्रह्मलिङ्गवाक्यसमन्वयः पादद्वये वक्ष्यते । प्रायेणोपास्यज्ञेयब्रह्मभेदात्पादयोरवान्तरभेद इति भावः ।
छान्दोग्यवाक्यमुदाहरति
इदमिति ।
तस्माज्जायत इति तज्जम् , तस्मिंल्लीयत इति तल्लम् , तस्मिन्ननिति चेष्टत इति तदनम् , तज्जं च तल्लं च तदनं चेति तज्जलान् । कर्मधारयेऽस्मिन् शाकपार्थिवन्यायेन मध्यमपदस्य तच्छब्दस्य लोपः । तज्जलानमिति वाच्ये छान्दसोऽवयवलोपः । इतिशब्दो हेतौ । सर्वमिदं जगद्ब्रह्मैव, तद्विवर्तत्वादित्यर्थः ।
ब्रह्मणि मित्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः । सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य 'उपासीत' इत्यनुवादात्फलमाह
अथेति ।
क्रतुमयः सङ्कल्पविकार इत्यर्थः ।
पुरुषस्य ध्यानविकारत्वं स्फुटयति
यथेति ।
इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः । क्रतुमयः सङ्कल्पप्रधान इति वार्थः ।
क्रतोर्विषयमाह
मन इति ।
ब्रह्मेत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमन्तर्ह्रदये ध्येयमित्यर्थः ।
पूर्वत्र ब्रह्मलिङ्गैरब्रह्मलिङ्गबाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् । तच्च शान्तिगुणविधानार्थमन्यथासिद्वम् । अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति
शारीर इत्यादिना ।
श्रुतिमाशङ्क्यान्यथासिद्ध्या परिहरति
नैष दोष इति ।
शमविधिपरत्वे हेतुमाह
यत्कारणमिति ।
यत एवमाह तस्माच्छमविधिपरमित्यन्वयः । [अत्रेदंशब्दः प्रकृतब्रह्मपरामर्शार्थो नतु जगत्परामर्शार्थः, जगद्विशेषणे प्रयोजनाभावात् । अत्र प्रयोजनाभावेऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणम् , यथा 'आत्मैवेदं सर्वम्' । अत्र बाधायां समानाधिकरणदार्ढ्यार्थं विशेषणमावश्यकम् , तद्वाक्यस्य ज्ञेयब्रह्मविषयत्वात् । अत्र तूपासनायां बाधानावश्यकत्वाद्विषयाभेदेन ब्रह्मण उपास्यत्वात् । ]
नच शमेति ।
शमध्यानयोर्विधौ वाक्यभेदापत्तेरित्यर्थः ।
जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसम्भवमाह
सर्वकर्मेति ।
सर्वाणि कर्माणि यस्य । सर्वे कामा भोग्या यस्य । सर्वगन्धः सर्वरस इत्यादिरादिशब्दार्थः ।
आराग्रमात्रस्येति ।
तोत्रप्रोतायःशलाकाग्रपरिमाणस्येत्यर्थः ।
सर्वत्र प्रसिद्वब्रह्मण एवात्रोपास्यत्वोपदेशान्न जीव उपास्य इति सूत्रार्थमाह
सर्वत्रेति ।
यत्र फलं नोच्यते तत्र पूर्वोत्तरपक्षसिद्विः फलमिति मन्तव्यम् । यद्यपि निराकाङ्क्षं ब्रह्म तथापि मनःप्रचुरमुपधिरस्य, प्राणः शरीरमस्येति समासान्तर्गतसर्वनाम्नः संनिहितविशेष्याकाङ्क्षत्वाद्ब्रह्म सम्बध्यते ।
'स्योनं ते सदनं करोमि' इति संस्कारार्थसदनस्य निराकाङ्क्षस्यापि 'तस्मिन्सीद' इति साकाङ्क्षतच्छब्देन परामर्शदर्शनादित्याह
अत्रोच्यत इति ।
स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः ।
जीवोऽपि लिङ्गात्संनिहित इत्यत आह
जीवस्त्विति ।
इदं हि लिङ्गद्वयं लोकसिद्वं जीवं न संनिधापयति, दुःखिन उपास्त्ययोग्यत्वात्फलाभावाच्च । अतो विश्वजिन्न्यायेन सर्वाभिलषितमानन्दरूपं ब्रह्मैवोपासनाक्रियानुबन्धीति भावः ।
किञ्च ब्रह्मपदश्रुत्या लिङ्गबाध इत्याह
नचेति ।
अन्यतराकाङ्क्षानुगृहीतं फलवत्प्रकरणं विफललिङ्गाद्वलीय इति समुदायार्थः ॥ १ ॥
वस्तुनो विवक्षायाः फलमुपादानं स्वीकारः, स च प्रकृतेषु गुणेष्वस्तीति विवक्षोपचार इत्याह
तथाप्युपादानेनेति ।
नन्विदं ग्राह्यमिदं त्याज्यमिति धीर्विवक्षाधीना वेदे कुतः स्यादित्यत आह
उपादानानुपादाने त्विति ।
तात्पर्यं नाम फलवदर्थप्रतीत्यनुकूलत्वं शब्दधर्मः । उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः ।
तदिहेति ।
तत्तस्मात् । तात्पर्यवत्त्वादित्यर्थः ।
सर्वात्मत्वे प्रमाणमाह
तथाचेति ।
जीर्णः स्थविरो यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । यो जातो बालः स त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्येति सर्वतः श्रुतिमत् । सर्वजन्तूनां प्रसिद्वाः पाण्यादयस्तस्येति सर्वात्मत्वोक्तिः ॥ २ ॥
ननु जीवधर्माःश्चेत्ब्रह्मणि योज्यन्ते तर्हि ब्रह्मधर्मा एव जीवे किमिति न योज्यन्ते, तत्राह
अनुपपत्तेरिति ।
सूत्रं व्याचष्टे
पूर्वेणेति ।
सर्वात्मत्वादिरूक्तन्यायः । कल्पितस्य धर्मा अधिष्ठाने सम्बध्यन्ते, नाधिष्ठानधर्माः कल्पित इति भावः । अधिष्ठानज्ञानकाले कल्पितधर्माभावात् । वागेव वाकः सोऽस्यास्तीति वाकी, न वाकी अवाकी । अनिन्द्रिय इत्यर्थः । कुत्राप्यादरः कामोऽस्य नास्तीत्यनादरः । नित्यतृप्त इत्यर्थः ।
ज्यायस्त्वाद्यनुपपत्तौ शारीर इति परिच्छेदो हेतुः सूत्रोक्तः । स तु जीवस्यैव नोश्वरस्येत्याह
सत्यमित्यादिना ॥ ३ ॥
प्रापकत्वेन व्यपदिशतीति सम्बन्धः । कर्मकर्तृव्यपदेशपदस्यार्थान्तरमाह
तथोपास्येति ॥ ४ ॥
एकार्थत्वं प्रकरणस्य समानत्वम् । अन्तरात्मन्निति विभक्तिलोपश्छान्दसः । शब्दयोर्विशेषो विभक्तिभेदः । तस्मात्तदर्थयोर्भेद इति सूत्रार्थः ॥ ५ ॥
स्मृतौ हृदिस्थस्य जीवाद्भेदोक्तेरत्रापि हृदिस्थो मनोमय ईश्वर इत्याह
स्मृतेश्चेति ।
भूतानि जीवान् । यन्त्रं शरीरम् ।
अत्र सूत्रकृता सत्यभेद उक्त इति भ्रान्तिनिरासायेक्षत्यधिकरणे निरस्तमपि चोद्यमुद्भाव्य निरस्यति
अत्राहेत्यादिना ।
त्वदुक्तरीत्या वस्तुत एकत्वमेव, भेदस्तु कल्पितः सूत्रेष्वनूद्यत इत्याह
सत्यमिति ॥ ६ ॥
अर्भकमोको यस्य सोऽर्भकौकाः तस्य भावस्तत्त्वं तस्मादार्थिकमल्पत्वम् । अणीयानित्यल्पत्ववाचकशब्देनापि श्रुतमित्याह
स्वशब्देनेति ।
नायं दोष इत्युक्तं विवृणोति
न तावदिति ।
कथमपि ।
ब्रह्मभावापेक्षयापीत्यर्थः । परिच्छेदत्यागं विना ब्रह्मत्वासम्भवात्तत्त्यागे च ब्रह्मण एवोपास्यत्वमायातीति भावः ।
विभोः परिच्छेदोक्तौ दृष्टान्तमाह
यथा समस्येति ।
सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षया परिच्छेदोक्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः ।
ननु किमिति हृदयमेव प्रायेणोच्यते, तत्राह
तत्रेति ।
हृदये परमात्मनो बुद्विवृत्तिरर्ग्राहिका भवति । अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः ।
व्योमदृष्टान्तासिना शङ्कालतापि काचिच्छिन्नेत्याह
तत्र यदाशङ्क्यत इत्यादिना ।
भिन्नायतनत्वेऽपि व्योम्नः सत्यभेदाद्यभावादिति भावः ॥ ७ ॥
ब्रह्मणो हार्दत्वेऽनिष्टसम्भोगापत्तेर्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे
व्योमवदिति ।
ब्रह्म भोक्तृ स्यात्, हार्दत्वे सति चेतनत्वात् , जीवाभिन्नत्वाच्च जीववदित्युक्तं निरस्यति
न । वैशेष्यादिति ।
धर्माधर्मवत्त्वमुपाधिरित्यर्थः । अयमेव विशेषो वैशेष्यम् । स्वार्थे ष्यञ्प्रत्ययः । विशेषस्यातिशयार्थो वा । धर्मादेः स्वाश्रये फलहेतुत्वमतिशयः, तस्मादिति सूत्रार्थः ।
किञ्च विभवो बहव आत्मान इति वादिनामेकस्मिन्देहे सर्वात्मनां भोक्तृत्वप्रसङ्गः, स्वकर्मार्जित एव देहे भोग इति परिहारश्च तुल्य इति न वयं पर्यनुयोज्या इत्याह
सर्वगतेति ।
वस्तुतस्तेषामेव भोगसाङ्कर्यमित्यग्रे वक्ष्यते ।
ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य तेन भोक्तृत्वानुमाने उपजीव्यश्रुतिबाधमाह
यथाशास्त्रमिति ।
अर्थं मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सोऽयमर्धजरतीयन्यायः । स चात्र न युक्तः ।
न ह्यभेदमङ्गीकृत्याभोक्तृत्वं त्यक्तुं युक्तम् , श्रुत्यैवाभेद सिद्ध्यर्थं भोक्तृत्ववारणादित्याह
शास्त्रं चेति ।
नन्वेकत्वं मया श्रुत्या न गृहीतम् , योनोपजीव्यबाधः स्यात् । किन्तु त्वदुक्त्या गृहीतमित्याशङ्क्य बिम्बप्रतिबिम्बयोः कल्पितभेदेन भोक्तृत्वाभोक्तृत्वव्यवस्थोपपत्तेरप्रयोजको हेतुरित्याह
अथागृहीतमित्यादिना ।
कल्पितासङ्गित्वमधिष्ठानस्य वैशेष्यमित्यस्मिन्नर्थेऽपि सूत्रं पातयति
तदाहेति ।
ब्रह्मणो हार्दत्वे बाधकाभावच्छाण्डिल्यविद्यावाक्यं ब्रह्मण्युपास्ये समन्वितमिति सिद्वम् ॥ ८ ॥
अत्ताचराचरग्रहणात् ।
'यस्य ब्रह्मक्षत्रादिजगदोदनः, मृत्युः सर्वप्राणिमारकोऽपि यस्योपसेचनमोदनसंस्कारकघृतप्रायः', सोऽत्ता यत्र शुद्धे चिन्मात्रेऽभेदकल्पनया वर्तते तच्छुद्धं ब्रह्म इत्था इत्थमीश्वरस्याप्यधिष्ठानभूतं को वेद । चित्तशुद्ध्याद्युपायं विना कोऽपि न जानातीत्यर्थः ।'
संशयबीजमाह
विशेषेति ।
'स त्वमग्निं प्रब्रूहि' इत्यग्नेः, 'येयं प्रेते विचिकित्सा' इति जीवस्य, 'अन्यत्र धर्मात्'इति ब्रह्मणः प्रश्नः । 'लोकादिमग्निं तमुवाच' इत्यग्नेः, 'हन्त त इदं प्रवक्ष्यामि' इतीतरयोः प्रतिवचनमुपलभ्यत इत्यर्थः ।
पूर्वत्र ब्रह्मणो भोक्तृत्वं नास्तीत्युक्तम् , तदुपजीव्य पूर्वपक्षयति
किं तावदिति ।
अग्निप्रकरणमतीतमित्यरुचेराह
जीवो वेति ।
पूर्वपक्षे जीवोपास्तिः, सिद्वान्ते निर्विशेषब्रह्मज्ञानमिति फलभेदः ।
ओदनशब्दो भोग्यवाचीति पूर्वपक्षः । सिद्वान्तस्तु ब्रह्मक्षत्रशब्दैरूपस्थापितकार्यमात्रे गौण ओदनशब्दः । गुणश्चात्र मृत्यूपसेचनपदेन संनिधापितं प्रसिद्वौदनगतं विनाश्यत्वं गृह्यते, गौणशब्दस्य संनिहितगुणग्राहित्वात् । तथाच सर्वस्य विनाश्यत्वेन भानाल्लिङ्गादीश्वरोऽत्तेत्या ह
नैष दोष इति ।
तस्य संनिहितत्वादिति ।
'पिप्पलं स्वाद्वत्ति' इति भोगस्य पूर्वोक्तत्वादित्यर्थः ॥ ९ ॥ ॥ १० ॥
अत्तृवाक्यानन्तरवाक्यस्यापि ज्ञेयात्मनि समन्वयमाह
गुहामिति ।
ऋतमवश्यम्भावि कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य कर्मणो लोके कार्ये देहे परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं परमं श्रेष्ठं तस्मिन्या गुहा नभोरूपा बुद्विरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथो विरुद्वौ तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः तेऽपि वदन्तीत्यर्थः । नाचिकेतवाक्यानामध्ययनम् , तदर्थज्ञानम् , तदनुष्ठानं चेति त्रित्वं बोध्यम् ।
बुद्ध्यवच्छिन्नजीवस्य परमात्मनश्च प्रकृतत्वात्संशयमाह
तत्रेति ।
पूर्वोत्तरपक्षयोः फलं स्वयमेवाह
यदीत्यादिना ।
तदपि जीवस्य बुद्विवैलक्षण्यमपीत्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोके भोक्तास्तीत्येके, नास्तीत्यन्ये । अतस्त्वयोपदिष्टोऽहमेतदात्मतत्त्वं जानीयामित्यर्थः । तदपि परमात्मस्वरूपमपीत्यर्थः ।
उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति
अत्राहेति ।
छत्रिपदेन गन्तार इव पिबत्पदेनाजहल्लक्षणया प्रविष्टावुच्येते इत्याह
अत्रोच्यत इति ।
पानकर्तृवाचिपदेन पानानुकूलौ वा लक्ष्यावित्याह
यद्वेति ।
नियतपूर्वभाविकृतिमत्त्वरूपमनुकूलत्वं कर्तृकारयित्रोः साधारणम् । यः कारयति स करोत्येवेति न्यायादिति भावः । अत्र प्रकृतिर्मुख्यार्था शतृप्रत्यये लक्षणा । मिश्रास्तु कृतिः, प्रत्ययार्थो मुख्यः । प्रकृत्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः ।
पूर्वपक्षे 'पिबन्तौ' इति कर्तृवाचिशतृप्रत्ययेन बुद्धिजीवसाधारणं कारकत्वं लक्ष्यमित्याह
बुद्वीति ।
एधांसि काष्ठानि पचन्तीत्याख्यातेन कारकत्वं लक्ष्यम् , प्रकृतिस्तु मुख्यैवेति भावः ।
मुख्यपातारौ प्रसिद्वपक्षिणौ ग्राह्यावित्यत आह
न चेति ।
ब्रह्मक्षत्रपदस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबत्पदस्य संनिहितगुहापदाद्बुद्धिजीवपरतेति दृष्टान्तेन पूर्वपक्षयति
किं तावदिति ।
गोचरः फलम् ।
एकस्मिञ्जातिमति कॢप्ते सजातीयमेव द्वितीयं ग्राह्यम् , व्यक्तिमात्रग्रहे लाघवात् । न विजातीयम् , जातिव्यक्त्युभयकल्पनागौरवात् । न चास्तु कारकत्वेन सजातीया बुद्विरेव जीवस्य द्वितीयेति वाच्यम् , चेतनत्वस्य जीवस्वभावस्य कारकत्वादन्तरङ्गत्वात् । तथाच लोके द्वितीयस्यान्तरङ्गजातिमत्त्वदर्शनाज्जीवस्य द्वितीयश्चेतन एवेति सूत्रार्थमाह
सङ्ख्याश्रवणे चेति ।
गुहायां बुद्वौ स्थितम् , गह्वरेऽनेकानर्थसङ्कुले देहे स्थितं पुराणमनादिपुरुषं विदित्वा हर्षशोकौ जहाति । परमे श्रेष्ठे, व्योमन् हार्दाकाशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वेद सोऽश्नुते सर्वान्कामानित्यन्वयः । अन्विच्छ विचारयेत्यर्थः ॥ ११ ॥
विशेषणं गन्तृगन्तव्यत्वादिकं लिङ्गमाह
विशेषणाच्चेति ।
स जीवोऽध्वनः संसारमार्गस्य परमं पारम् , किं तत् , विष्णोर्व्यापनशीलस्य परमात्मनः पदं स्वरूपमाप्नोतीत्यर्थः । दुर्दर्शं दुर्ज्ञानम् , तत्र हेतुर्गूढं मायावृतं मायानुप्रविष्टं पश्चाद्गुहाहितं गुहाद्वारा गह्वरेष्ठम् , एवं बहिरागतमात्मानम् , अध्यात्मयोगः स्थूलसूक्ष्मकारणदेहलयक्रमेण प्रत्यगात्मनि चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः ।
ऋतपानमन्त्रे जीवानुवादेन वाक्यार्थज्ञानाय तत्पदार्थो ब्रह्म प्रतिपाद्यत इत्युपसंहरति
तस्मादिहेति ।
उक्तन्यायमतिदिशति
एष इति ।
द्वा द्वौ । छान्दसो द्विवचनस्याकारः । सुपर्णाविव सहैव युज्येते नियम्यनियामकभावेनेति सयुजौ । सखायौ चेतनत्वेन तुल्यस्वभावौ । समानमेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः । गुहां प्रविष्टाविति यावत् ।
एतावात्मानौ, तल्लिङ्गदर्शनादित्याह
तयोरन्य इति ।
विशेषणाच्चेत्याह
अनन्तरे चेति ।
अनीशया स्वस्येश्वरत्वाप्रतीत्या देहे निमग्नः पुरुषो जीवः शोचति । निमग्नपदार्थमाह
मुह्यमान इति ।
नरोऽहमिति भ्रान्त इत्यर्थः । जुष्टं ध्यानादिना सेवितं यदा ध्यानपरिपाकदशायामीशमन्यं विशिष्टरूपाद्भिन्नं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदास्य महिमानं स्वरूपमेति प्राप्नोतीव । ततो वीतशोको भवतीत्यर्थः ।
'द्वा सुपर्णा' इति वाक्यं जीवेश्वरपरं कृत्वा चिन्तितम् । अधुनाकृत्वाचिन्तामुद्धाटयति
अपर इति ।
अन्यथा बुद्धिविलक्षणत्वं पदलक्ष्यपरत्वेनेत्यर्थः ।
सत्त्वं बुद्धिरिति शङ्कते
सत्त्वशब्द इति ।
बुद्धिजीवौ चेत्पूर्वपक्षार्थः स्यादित्यत आह
नापीति ।
पूर्वपक्षार्थस्तदा स्यात् , यद्यत्र बुद्धिभिन्नः संसारी प्रतिपाद्येत । नह्यत्र संसारी विवक्ष्यते किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः । श्रुतिस्मृतिभ्यश्चायमर्थो युक्त इति शेषः । तावता मन्त्रव्याख्यामात्रेण । एवमेव जीवस्य ब्रह्मत्वोक्तावेव । नाहि जीवो बुद्धिभिन्न इति विवेकमात्रेणोपसंहारो युक्तः । भेदज्ञानस्य भ्रन्तित्वाद्वैफल्याच्चेति भावः । अविद्या विदुषि किमपि स्वकार्यं नाध्वंसते न सम्पादयति, ज्ञानाग्निना स्वस्या एव दग्धत्वादित्यर्थः । अविद्या नागच्छतीति वार्थः ।
जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते
कथमिति ।
बुद्धेर्भौक्तृत्वोक्तावतात्पर्यान्नात्र युक्तिचिन्तया मनः खेदनीयमित्याह
उच्यत इति ।
तदर्थं ब्रह्मत्वभोधनार्थं भोक्तृत्वमुपाधिमस्तके निक्षिपतीत्यर्थः ।
वस्तुतो जीवस्याभोक्तृत्वे भोक्तृत्वधीः कथमित्यत आह
इदं हीति ।
चित्तादात्म्येन कल्पिता बुद्धिः सुखादिरूपेण परिणमते । बुद्ध्यविवेकाच्चिदात्मनः सुखादिरूपवृत्तिव्यक्तचैतन्यवत्त्वं भोक्तृत्वं भातीत्यर्थः ।
भोक्तृत्वमाविद्यकम् , न वस्तुत इत्यत्र मानमाह
तथाचेति ।
यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा । द्रष्टृत्वादिकं न वस्तुनि ज्ञात इत्यर्थः । तस्मात् 'ऋतं पिबन्तौ' इति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥ १२ ॥
अन्तर उपपत्तेः । उपकोसलविद्यावाक्यमुदाहरति
य इति ।
तदक्षिस्थानमसङ्गत्वेन ब्रह्मणोऽनुरूपं यतोऽस्मिन्क्षिप्तं वर्त्मनी पक्ष्मणी एव गच्छतीत्यर्थः ।
दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह
तत्रेति ।
पूर्वं 'पिबन्तौ' इति प्रथमश्रुतचेतनत्वानुसारेण चरमश्रुता गुहाप्रवेशादयो नीताः, तद्वदिहापि दृश्यत इति चाक्षुषत्वानुसारेणामृतत्वादयो ध्यानार्थं कल्पितत्वेन नेया इति दृष्टान्तेन पूर्वपक्षयति
छायात्मेति ।
पूर्वपक्षे प्रतिबिम्बोपास्तिः, सिद्वान्ते ब्रह्मोपास्तिरिति फलम् ।
प्रसिद्ववदिति ।
चाक्षुषत्वेनेत्यर्थः ।
सम्भावनामात्रेण पक्षान्तरमाह
विज्ञानात्मन इत्यादिना ।
'मनो ब्रह्म' इतिवत् , 'एतद्ब्रह्मेति' इति वाक्यस्येतिपदशिरस्कत्वान्न स्वार्थपरत्वमिति पूर्वपक्षः ।
'मनो ब्रह्मेत्युपासीत' इत्यत्र इतिपदस्य प्रत्ययपरत्वात् , इह च ब्रह्मेत्युवाचेत्यन्वयेन इतिपदस्योक्तिसम्बन्धिनोऽर्थपरत्वाद्वैषम्यमिति सिद्वान्तयति
परमेश्वर एवेति ।
बहुप्रमाणसंवादस्तात्पर्यानुग्राहक इति न्यायानुगृहीताभ्यामात्मब्रह्मश्रुतिभ्यां दृश्यलिङ्गं बाध्यमित्याह
संयद्वामेति ।
वामानि कर्मफलान्येतमक्षिपुरुषमभिलक्ष्य संयन्ति उत्पद्यन्ते । सर्वफलोदयहेतुरित्यर्थः ।
लोकानां फलदाताप्ययमेवेत्याह
वामनीरिति ।
नयति फलानि लोकान्प्रापयतीत्यर्थः ।
भामानि भानानि नयत्ययमित्याह
भामनीरिति ।
सर्वार्थप्रकाशक इत्यर्थः ॥ १३ ॥
स्थाननामरूपाणां ध्यानार्थं श्रुत्यन्तरेऽप्युपदेशादक्षिस्थानत्वोक्तिरत्र न दोष इति सूत्रयोजना । अनवकॢप्तिः अकॢप्तकल्पना तदा भवेत् , यद्यत्रैव निर्दिष्टं भवेदित्यन्वयः । नन्वनुचितबाहुल्योक्तिरसमाधानमित्याशङ्क्य युक्तिमाह
निर्गुणमपीति ॥ १४ ॥
प्रकरणादपि ब्रह्म ग्राह्यमित्याह
सुखविशिष्टेति ।
ध्यानार्थं भेदकल्पनया सुखगुणविशिष्टस्य ब्रह्मणः प्रकृतस्य य एष इति सर्वनाम्नाभिधानादन्तरः परमात्मा स्यादिति सूत्रार्थः ।
ननु प्रकरणात्प्रबलेन दृश्यत्वलिङ्गेनोपस्थापितश्छायात्मा सर्वनामार्थ इत्यत आह
आचार्यस्त्विति ।
उपकोसलो नाम कश्चिद्ब्रह्मचारी जाबालस्याचार्यस्याग्नीन्द्वादशवत्सरान्परिचचार । तमनुपदिश्य देशान्तरगते जाबाले गार्हपत्याद्यग्निभिर्दयया 'प्राणो ब्रह्म' इत्यात्मविद्यामुपदिश्योक्तम्
आचार्यस्त्विति ।
तवात्मविद्याफलावाप्तये मार्गमर्चिरादिकं वदिष्यतीत्यर्थः । पश्चादाचार्येणागत्य 'य एषोऽक्षिणि' इत्युक्तार्चिरादिका गतिरुक्ता । तथा चाग्निभिरुक्तात्मविद्यावाक्यस्य गतिवाक्येनैकवाक्यता वाच्या, सा च सर्वनाम्ना प्रकृतात्मग्रहे निर्वहतीत्येकवाक्यतानिर्वाहकं प्रकरणं वाक्यभेदकाल्लिङ्गाद्बलवदिति भावः ।
श्रुतिं व्यचष्टे
उच्यत इति ।
प्राणश्च सूत्रात्मा बृहत्त्वाद्ब्रह्मेति यत्तज्जानामि, कं विषयसुखं खं च भूताकाशं ब्रह्मत्वेन ज्ञातुं न शक्नोमीत्यर्थः ।
खं कथम्भूतम् , यत्कं तदेव खमिति सुखेन विशेषितस्य खस्य भूतत्वनिरासः । तथा कं कथम्भूतम् , यत्खं तदेव कमिति विभुत्वेन विशेषितस्य कस्य जन्यत्वनिरास इति व्यतिरेकमुखेनाह
तत्र खमित्यादिना ।
'आत्मविद्या' इति श्रुतिविरोधात्प्रतीकध्यानमत्रानिष्टमिति भावः ।
सामय इति ।
आमयो दोषः साधनपारतन्त्र्यानित्यत्वादिः, तत्सहित इत्यर्थः ।
प्रत्येकग्रहणे दोषमुक्त्वा द्वयोर्ग्रहणे फलितमाह
इतरेतरेति ।
विशेषितार्थकावित्यर्थः ।
नन्वेकं ब्रह्मैवात्र ध्येयं चेद्ब्रह्मपदान्तरं किमर्थमित्यत आह
तत्रेति ।
विशेषणत्वेन खस्य भूतत्वव्यावर्तकत्वेनेत्यर्थः । ब्रह्मशब्दः शिरो ययोस्तत्त्वमिति विग्रहः ।
अध्येयत्वे को दोषः, तत्राह
इष्टं हीति ।
मार्गोक्त्या सुगुणविद्यात्वावगमादिति भावः ।
आत्मविद्यापदेनोपसंहारादपि प्रकृतं ब्रह्मेत्याह
प्रत्येकं चेति ।
पृथिव्यग्निरन्नमादित्य इति मम चतस्रस्तनवो विभूतिरिति गार्हपत्य उपदिदेश । आपो दिशो नक्षत्राणि चन्द्रमा इत्यन्वाहार्यपचन उवाच । प्राण आकाशो द्यौर्विद्युदिति स्वमहिमानमाहवनीयो जगादेति विभागः । इयमस्माकमग्नीनां विद्या प्रत्येकमुक्ता । आत्मविद्या तु पूर्वमस्माभिर्मिलित्वा 'प्राणो ब्रह्म' इत्युक्तेत्यर्थः ।
उच्यतामग्निभिर्ब्रह्म, छायात्मा गुरुणोच्यतां वक्तृभेदादिति तत्राह
आचार्यस्त्विति ।
एकवाक्यतानिश्चयाद्वक्तृभेदेऽपि नार्थभेद इत्यर्थः ॥ १५ ॥
श्रुता अनुष्ठिता उपनिषत्रहस्यं सगुणब्रह्मोपासनं येन तस्य या गतिः श्रुतौ स्मृतौ च प्रसिद्वा तस्या अत्राभिधानाल्लिङ्गादिति सूत्रार्थमाह
इतश्चेति ।
यस्मादृश्यते तत्तस्मादिहेत्यन्वयः ।
श्रुतिमाह
अथेति ।
देहपातानन्तरमित्यर्थः । स्वधर्मस्तपः तपोब्रह्मचर्यश्रद्धाविद्याभिरात्मानं ध्यात्वा तया ध्यानविद्ययोत्तरं देवयानमार्गं प्राप्यते नोत्तरेण पथा । आदित्यद्वारा सगुणब्रह्मस्थानं गच्छन्ति, एतद्वै ब्रह्म प्राणानां व्यष्टिसमष्टिरूपाणामायतनं लिङ्गात्मकं हिरण्यगर्भरूपम् , वस्तुतस्त्वेतदमृतादिरूपं निर्गुणं सर्वाधिष्ठानम् । अतः कार्यं ब्रह्म प्राप्य तत्स्वरूपं निर्गुणं ज्ञात्वा मुच्यन्त इत्यर्थः । अग्निरेव ज्योतिर्देवता एवमहराद्या देवता एव स्मृतावुक्ताः । अस्मिन्नुपासके मृते सति यदि पुत्रादयः शव्यं शवसंस्कारादिकं कुर्वन्ति यदि च न कुर्वन्ति उभयथाप्युपास्तिमहिम्ना अर्चिरादिदेवान्क्रमेण गच्छन्ति । आर्चिषमग्निम् , ततोऽहः, अह्नः शुक्लपक्षम् , तत्र उत्तरायणम् , तस्मात्संवत्सरम् , ततो देवलोकम् , ततो वायुम् , वायोरादित्यम् , ततश्चन्द्रम् , चन्द्राद्विद्युतं गत्वा तत्र विद्युल्लोके स्थितानुपासकानमानवः पुरुषो ब्रह्मलोकादागत्य कार्यं ब्रह्मलोकं प्रापयति । एषोऽर्चिरादिभिर्देवैर्विशिष्टो देवपथो गन्तव्येन ब्रह्मणा योगाद्ब्रह्मपथश्च । त एतत्कार्यं ब्रह्म प्रतिपद्यमाना उपासका इमं मानवं मनोः सर्गमावर्तं जन्ममरणावृत्तियुक्तं नावर्तन्ते नागच्छन्तीत्यर्थः ॥ १६ ॥
चक्षुरासीदतीति ।
उपगच्छतीत्यर्थः । अनवस्थितस्योपास्यत्वं सदा न सिद्ध्यतीति भावः । किञ्चाव्यवधानात्स्वाक्षिस्थ उपास्यः ।
नच तस्य स्वचक्षुषा दर्शनं सम्भवतीत्याह
य एष इति ।
अस्तु तर्हि परेण दृश्यमानस्योपास्तिरित्यत आह
नचेति ।
कल्पनागौरवादित्यर्थः ।
युक्तिसिद्धानवस्थितत्वे श्रुतिमाह
अस्येति ।
छायाकरस्य बिम्बस्य नाशमदर्शनमनुसृत्यैष छायात्मा नश्यतीत्यर्थः ।
जीवं निरस्यति
तथेति ।
जात्यन्धस्याप्यहमित्यविशेषण जीवस्याभिव्यक्तेश्चक्षुरेव स्थानमित्ययुक्तमित्यर्थः ।