अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रथमाध्याये प्रथमः पादः (३)

दृष्ट इति ।
श्रुताविति शेषः ।

ननु 'चक्षोः सूर्यो अजायत' 'सूर्योऽ­स्त­मेति' इति वाक्यममरा देवा इति प्रसि­द्धि­बा­धि­त­मि­त्या­श­ङ्क्याह
अमरत्वमपीति ।
भीषा भये­ना­स्मा­दी­श्व­रा­द्वा­यु­श्च­लति । अग्नि­श्चे­न्द्रश्च स्वस्वकार्यं कुरुतः । उक्तापेक्षया पञ्चमो मृत्युः समाप्तायुषां निकटे धावतीत्यर्थः ।

ईश्वरपक्षे दृश्यत इत्युक्तम् , तत्राह
अस्मिन्निति ।
दर्शनमनुभवः । तस्यशास्त्रे श्रुतस्य शास्त्रमेव करणं कल्प्यम् , संनिधानात् । तथाच शास्त्रकरणको विद्वदनुभव उपा­स­ना­स्तु­त्यर्थ उच्यत इत्यर्थः । तस्मा­दु­प­को­स­ल­वि­द्या­वा­क्य­मु­पास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १७ ॥

अन्त­र्या­म्य­धि­दै­वा­दिषु तद्ध­र्म­व्य­प­दे­शात् । बृह­दा­र­ण्य­क­वा­क्य­मु­दा­ह­रति
य इति ।

अन्त­र्या­मि­ब्र­ह्मणे प्रती­य­मा­ना­र्थ­माह
अत्रेति ।
'यः पृथि­व्याम्' इत्यादिना देवताः पृथिव्याद्या अधिकृत्य यमयिता श्रूयते । तथा 'यः सर्वेषु लोकेषु' इत्यधिलोकम् , 'यः सर्वेषु वेदेषु' इत्यधिवेदम् , 'यः सर्वेषु यज्ञेषु' इत्यधियज्ञम् , 'यः सर्वेषु भूतेषु' इत्यधिभूतम् , 'यः प्राणे तिष्ठन्' इत्यादि 'य आत्मानि' इत्य­न्त­म­ध्यात्मं चेति विभागः । अशरीरस्य निय­न्तृ­त्व­स­म्भ­वा­स­म्भ­वाभ्यां संशयः । पूर्व­त्रे­श्व­र­स्या­क्षि­स्था­न­त्व­सि­द्धये पृथि­व्या­दि­स्था­न­नि­र्देशो दृष्टान्त उक्तः, तस्य दृष्टा­न्त­वा­क्य­स्ये­श्व­र­प­र­त्व­म­त्रा­क्षिप्य समाधीयत इत्या­क्षे­प­स­ङ्गतिः । अतः पूर्वफलेनास्य पलवत्त्वम् । अवान्तरफलं तु पूर्वपक्षे अनी­श्व­रो­पास्तिः, सिद्वान्ते प्रत्य­ग्ब्र­ह्म­ज्ञा­न­मिति मन्तव्यम् ।

स्वयमेवारुचिं वद­न्प­क्षा­न्त­र­माह
अथवेति ।
अनिश्चितार्थे फलाभावेनाफलस्य वेदा­र्थ­त्वा­यो­गा­दिति भावः । तथाच श्रूयते वेदे । पृथिवी यस्य देवस्यायतनं शरीरम् , लोक्यतेऽनेनेति लोकश्चक्षुः, ज्योतिः सर्वा­र्थ­प्र­का­शकं मन इत्यर्थः ।

उप­क्र­मा­दि­ना­न्त­र्या­म्यै­क्य­नि­श्च­या­द­ने­क­दे­व­पक्षो न युक्त इत्यरुचेराह
योगिनो वेति ।

आग­न्तु­क­सि­द्ध­स्या­न्त­र्या­मि­त्वेऽ­प्र­सि­द्ध­सा­ध­न­क­ल्प­ना­गौ­र­वा­न्नि­त्य­सिद्ध एवान्तर्यामीति सिद्धान्तयति
एवं प्राप्त इति ।

देवतानिरासे हेत्वन्तरमाह
यं पृथिवीति ।

ईश्वरो न नियन्ता, अशरीरत्वात् , घटवदियुक्तं निरस्यति
नैष दोष इति ।

निय­म्या­ति­रि­क्त­श­री­र­शू­न्यत्वं वा हेतुः, शरी­रा­स­म्ब­न्धित्वं वा । आद्ये, स्वदेहनियन्तरि जीवे व्यभिचारः । द्विती­य­स्त्व­सिद्धः, ईश्वरस्य स्वावि­द्यो­पा­र्जि­त­स­र्व­स­म्ब­न्धि­त्वा­दि­त्याह
यान्नियच्छतीति ।
सशरीरो निय­न्ते­ति­लो­क­दृ­ष्टि­म­नु­सृ­त्यै­त­दु­क्तम् । वस्तुतस्तु चेत­न­सां­नि­ध्या­ज्ज­डस्य व्यापारो नियमनं तच्छक्तिमत्त्वं नियन्तृत्वम् । तच्चा­चि­न्त्य­मा­या­श­क्ते­श्चि­दा­त्मनः शरीरं विनैवोपपन्नम् ।

ननु देह­नि­य­न्तु­र्जी­व­स्यान्यो नियन्ता चेत्तस्याप्यन्य इत्यनवस्थेत्यत आह
तस्यापीति ।
निरङ्कुशं सर्व­नि­य­न्तृ­त्व­मी­श्व­रस्य श्रुतम् , तस्य निय­न्त्र­न्त­रा­नु­माने श्रुतिबाध दति नानवस्थेत्यर्थः । यद्वा ईश्व­रा­द्भे­द­क­ल्प­नया जीवस्य निय­न्तृ­त्वोक्तेः सत्य­भे­दा­भा­वा­न्ना­न­व­स्थे­त्यर्थः ॥ १८ ॥

प्रधानं महदादिक्रमेण कथं प्रवर्तत इति तर्कस्याविषय इत्याह
अप्रतर्क्यमिति ।
रूपा­दि­ही­न­त्वा­द­वि­ज्ञे­यम् , सर्वतो दिक्षु प्रसुप्तमिव तिष्ठति जडत्वादित्यर्थः । अतत् अप्रधानं चेतनम् , तस्य धर्मा­णा­म­भि­धा­ना­दिति हेत्वर्थः ॥ १९ ॥

उत्त­र­सू­त्र­नि­र­स्या­श­ङ्का­माह
यदि प्रधा­न­मि­त्या­दिना ।

अमृतश्चेति ।
विनाशिनो देहा­न्त­र­भो­गा­नु­प­प­त्ते­रि­त्यर्थः ।

यथा देव­द­त्त­क­र्तृ­क­ग­म­न­क्रि­याया ग्रामः कर्म न देवदत्तः, तथा­त्म­क­र्तृ­क­द­र्श­ना­दि­क्रि­याया अनात्मा विषयः न त्वात्मा, क्रियायाः कर्तृ­वि­ष­य­त्वा­यो­गा­दि­त्याह
कर्तरीति ।
क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुण­त्व­प्र­धा­न­त्व­यो­र्वि­रो­धान्न कर्तुः कर्म­त्व­मि­त्यर्थः ।

दृष्टे­र्द्र­ष्टा­र­मा­त्मानं तया दृश्यया दृष्ट्या न विषयीकुर्या इत्या­दि­श्रु­ते­श्चा­दृ­ष्ट­त्वा­दि­धर्माः शारीरस्येत्याह
नेति ।

अपिशब्दसूचितं हेतुमुक्त्वा कण्ठोक्तं हेतुमाह
अपि चोभयेऽपीति ।

भेदेनेति सूत्रा­त्ता­त्त्वि­क­भे­द­भ्रान्तिं निरसितुं शङ्कते
कथमिति ।

नन्वत्रैको भोक्ता जीवः, ईश्व­र­स्त्व­भो­क्तेति न विरोध इति शङ्कते
का पुनरिति ।

तयोर्भेदः श्रुतिविरुद्ध इति पूर्ववाद्याह
नान्य इति ।

स एव श्रुत्यर्थमाह
अत्रेति ।

श्रुते­र­र्था­न्त­र­मा­शङ्क्य निषेधति
निय­न्त्र­न्त­रे­त्या­दिना ।

न केव­ल­म­प्र­स­क्त­प्र­ति­षेधः, किन्त्वविशेषेण द्रष्ट्र­न्त­र­नि­षे­ध­श्रु­ते­र­न्त­र्या­म्य­न्त­र­नि­षे­धा­र्थत्वे बाधश्चेत्याह
अविशेषेति ।

तस्मात्सूत्रे, 'य आत्मानि तिष्ठन्' इति श्रुतौ च द्रष्टृ­भे­दो­क्ति­र­युक्ता, 'नान्यः' इति वाक्यशेषे भेदनिरासादिति प्राप्ते, भेद उपाधिकल्पितः श्रुति­सू­त्रा­भ्या­म­नू­द्यत इति समाधत्ते
अत्रोच्यत इति ।

भेदः सत्यः किं न स्यादत आह
एको हीति ।
गौरवेण द्वयो­र­ह­न्धी­गो­च­र­त्वा­स­म्भा­व­देक एव तद्गोचरः । तदगोचरस्य घट­व­द­ना­त्म­त्वा­न्ना­त्म­भेदः सत्य इत्यर्थः ।

ततश्चेति ।
कल्पि­त­भे­दा­ङ्गी­का­रा­द्भे­दा­पेक्षं सर्वं युज्यत इत्यर्थः । तस्मा­द­न्त­र्या­मि­ब्रा­ह्मणं ज्ञेये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २० ॥

अदृ­श्य­त्वा­दि­गु­णको धर्मोक्तेः । मुण्ड­क­वा­क्य­मु­दा­ह­रति
अथेति ।

कर्म विद्या­रू­पा­प­र­वि­द्यो­क्त्य­न­न्तरं यया निर्गुणं ज्ञायते परा सोच्यते । तामैव विषयोक्त्या निर्दिशति
यत्तदिति ।
अद्रेश्यमदृश्यं ज्ञाने­न्द्रियैः, अग्राह्यं कर्मेन्द्रियैः, गोत्रं वंशः, वर्णो ब्राह्म­ण­त्वा­दि­जातिः, चक्षुः­श्रो­त्र­शू­न्य­म­च­क्षुः­श्रो­त्रम् , पाणि­पा­द­शू­न्य­म­पा­णि­पा­दम् , ज्ञान­क­र्मे­न्द्रि­य­वि­क­ल­मि­त्यर्थः । विभुं प्रभुम् , सुसूक्ष्मं दुर्ज्ञेयत्वात् । नित्या­व्य­य­प­दाभ्यां नाशा­प­क्ष­य­यो­र्नि­रासः । भूतानां योनिं प्रकृतिं यत्पश्यन्ति धीराः पण्डि­ता­स्त­द­क्षरं तद्विद्या परेत्यन्वयः । अद्रे­श्य­त्वा­दि­गु­णानां ब्रह्म­प्र­धा­न­सा­धा­र­ण­त्वा­त्सं­शयः ।

पूर्व­व­द्र­ष्टृ­त्वा­दीनां चेत­न­ध­र्मा­णा­म­त्रा­श्रु­ते­रस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्षयति
तत्रेति ।
पूर्वपक्षे प्रधा­ना­द्यु­पास्तिः, सिद्वान्ते निर्गुणधीरिति फलम् । ऊर्ण­ना­भि­र्लू­ता­कीटः तन्तू­न्स्व­दे­हा­त्सृ­जति, उपसंहरति चेत्यर्थः । सतो जीवतः ।

ननु पूर्वं निरस्तं प्रधानं कथमुत्थाप्यते, तत्राह
अपिचेति ।

अत्र प्रधाने विरु­ध्य­मा­नोऽ­स­म्भा­वितो वाक्यशेषः श्रुत इति शङ्कते
ननु य इति ।

पञ्च­म्य­न्ता­क्ष­र­श्रुत्या भूतप्रकृतेः प्रत्य­भि­ज्ञा­ना­त्प्र­थ­मा­न्त­प­र­श­ब्दो­क्तस्य जग­न्नि­मि­त्ते­श्व­रस्य सर्व­ज्ञ­त्वा­दि­क­मि­त्याह
अत्रोच्यत इति ।

'सन्दिग्धे तु वाक्य­शे­षात्' इति न्यायेन सिद्धान्तयति
एवं प्राप्त इति ।

चेतनाचेतनत्वेन सन्दिग्धे भूतयोनौ 'यः सर्वज्ञः' इति वाक्य­शे­षा­दी­श्व­र­त्व­नि­र्णय इत्ययुक्तम् , वाक्यशेषे भूतयोनेः प्रत्य­भि­ज्ञा­प­का­भा­वा­दिति शङ्कते
नन्विति ।

'जनिकर्तुः प्रकृतिः' इति सूत्रेण प्रकृ­ते­र­पा­दा­न­सं­ज्ञायां पञ्च­मी­स्म­र­णा­द­क्ष­रा­त्स­म्भ­व­तीति प्रकृ­ति­त्वे­नो­क्ता­क्ष­रस्य भूत­यो­ने­र्वा­क्य­शेषे तस्मादिति प्रकृ­ति­त्व­लि­ङ्गेन प्रत्य­भि­ज्ञा­न­म­स्तीति समाधत्ते
अत्रोच्यत इति ।
एतत्कार्यं ब्रह्म सूक्ष्मात्मकं नाम रूपम् , स्थूलं ततोऽन्नं व्रीह्या­दी­त्यर्थः ।

यदुक्तं पञ्च­म्य­न्ता­क्ष­र­श्रुत्या भूतयोनेः प्रत्य­भि­ज्ञा­ना­द­चे­त­न­त्व­मिति, तत्राह
अक्षरात्परत इति ।

नायमक्षरशब्दो भूतयोनिं परामृशति, पर­वि­द्या­धि­ग­म्य­त्वे­नो­क्त­स्या­क्ष­रस्य भूतयोनेः 'अक्षरं पुरुषं वेदा' इत्य­क्ष­र­श्रुत्या वेद्य­त्व­लि­ङ्ग­वत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह
येनेति ।
येन ज्ञानेनाक्षरं भूतयोनिं सर्वज्ञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रू­या­दि­त्यु­प­क्रम्य 'अप्राणो ह्यमनाः शुभ्रः' 'अक्ष­रा­त्प­रतः परः' इत्युच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः ।

तर्हि पञ्च­म्य­न्ता­क्ष­र­श­ब्दार्थः क इत्या­श­ङ्क्या­ज्ञा­न­मिति वक्ष्यत इत्याह
कथमिति ।

परविद्येति समाख्ययापि तद्विषयस्य ब्रह्म­त्व­मि­त्याह
अपिचेति ।

ननु प्रधानविद्यापि कार­ण­वि­ष­य­त्वा­त्प­रे­त्यत आह
परापरविभागो हीति ।
अनि­त्य­फ­ल­त्वे­ना­प­र­विद्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्य­शे­षो­क्ते­रि­त्यर्थः ।

अस्तु प्रधानविद्यापि मुक्तिफलत्वेन परेत्यत आह
नचेति ।

ननु 'यः सर्वज्ञः' इत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवाक्येन तु प्रधा­न­वि­द्यो­च्यत इत्यत आह
तिस्रश्चेति ।

इतश्च भूत­यो­ने­र्ब्र­ह्म­त्व­मि­त्याह
कस्मिन्निति ।
अचे­त­न­मा­त्र­स्यै­का­य­त­न­मु­पा­दानं तज्ज्ञा­ना­त्का­र्य­ज्ञा­नेऽपि तद­का­र्या­णा­मा­त्मनां ज्ञानं न भवति । एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः ।

ब्रह्म­वि­द्या­श­ब्दाच्च भूत­यो­नि­र्ब्र­ह्मे­त्याह
अपिचेति ।
स ब्रह्मविद्यां सर्वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्म­वि­द्या­मु­वाच । ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्त­र्भा­वा­द्ब्र­ह्म­विद्या सर्व­वि­द्या­प्र­तिष्ठा ।

नन्वपरविद्या परप्रकरणे किम­र्थ­मु­क्ते­त्यत आह
अपरेति ।
प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, अदृ­ढा­नि­त्य­फ­ल­स­म्पा­द­ना­शक्ताः, षोडशर्त्विजः पत्नी­य­ज­मा­न­श्चे­त्य­ष्टा­दश । यज्ञेन नामनिमित्तेन निरूप्यन्त इति यज्ञरूपाः । तथाहि ऋतुषु याचयन्ति यज्ञं कार­य­न्ती­त्यृ­त्विजः, यजत इति यजमानः, 'पत्युर्नो यज्ञ­सं­योगे' इति सूत्रेण पतिशब्दस्य नकारोऽन्तादेशो यज्ञसम्बन्धे विहित इति पत्नी, एव­मृ­त्वि­गा­दि­ना­म­प्र­वृ­त्ति­नि­मित्तं यज्ञ इति यज्ञरूपाः । येष्व­व­र­म­नि­त्य­फ­लकं कर्म श्रुत्युक्तम् , एतदेव कर्म श्रेयो नान्य­दा­त्म­ज्ञा­न­मिति ये मूढास्तुष्यन्ति ते पुनः पुन­र्ज­न्म­म­र­ण­मा­प्नु­व­न्ती­त्यर्थः । तद्विज्ञानार्थं ब्रह्म­वि­ज्ञा­नार्थं गुरु­म­भि­ग­च्छे­दे­वेति नियमः ।

ब्रह्म­नि­ष्ठ­स्या­प्य­न­धी­त­वे­दस्य गुरुत्वं वारयति
श्रोत्रियमिति ।
कार्य­मु­पा­दा­ना­भि­न्न­मि­त्यंशे दृष्टान्तः ।

सर्वसाम्ये तवा­प्य­नि­ष्टा­प­त्ते­रि­त्याह
अपिच स्थूला इति ॥ २१ ॥

विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति हेतुद्वयं विभज्य व्याचष्टे
विशिनष्टि हीत्यादिना ।
दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, अमूर्तः पूर्णः, पुरुषः पुरिशयः प्रत्यगात्मा, बाह्यं स्थूलमाभ्यन्तरं कारणं सूक्ष्मं ताभ्यां सहाधिष्ठानत्वेन तिष्ठतीति सबा­ह्या­भ्य­न्तरः, हि तथा श्रुतिषु प्रसिद्ध इत्यर्थः । अविद्याकृतं नामरूपात्मकं शरीरं तेन परि­च्छे­दोऽ­ल्प­त्वम् । तस्य शरीरस्य धर्मा­ज्जा­ड्य­मू­र्त­त्वा­दी­नि­त्यर्थः ।

नन्वक्षरशब्देन प्रधा­नो­क्ता­व­श­ब्दत्वं प्रधानस्य प्रतिज्ञातं बाध्येत, तत्राह
अक्ष­र­म­व्या­कृ­त­मिति ।
अश्नोति व्याप्नोति स्ववि­का­र­जा­त­मि­त्य­क्ष­रम् । अव्या­कृ­त­म­व्य­क्तम् । अनादीति यावत् । नाम­रू­प­यो­र्बी­ज­मी­श्वरः तस्य शक्तिरूपम् । पर­त­न्त्र­त्वा­दु­पा­दा­न­मपि शक्ति­रि­त्यु­क्तम् । भूतानां सूक्ष्माः संस्कारा यत्र तद्भू­त­सू­क्ष्म­मी­श्व­र­श्चि­न्मात्र आश्रयो यस्य तत्तथा । तस्यैव चिन्मात्रस्य जीवे­श्व­र­भे­दो­पा­धि­भू­तम् । यत्तु ईश्वर आश्रयो विषयो यस्येति नानाजीववादिनां व्याख्यानं तद्बा­ष्य­ब­हि­र्भू­तम् , 'एत­स्मि­न्ख­ल्व­क्षरे गार्गि आकाश ओतश्च प्रोतश्च' इत्यो­त­प्रो­त­भा­वे­ना­व्या­कृ­तस्य चिदा­श्र­य­त्व­श्रु­ते­रा­श्र­य­प­द­ल­क्ष­णाया निर्मूलत्वात् । नहि मूल­प्र­कृ­ते­र्भेदे किञ्चि­न्मा­न­मस्ति । नच 'इन्द्रो मायाभिः' इति श्रुतिर्मानम् , 'अजा­मे­काम्' इत्या­द्य­ने­क­श्रु­ति­ब­लेन लाघवतर्कसहायेन तस्याः श्रुते­र्बु­द्धि­भे­देन माया­भे­दा­नु­वा­दि­त्वात् । तदुक्तं सुरे­श्व­रा­चार्यैः 'स्वत­स्त्व­वि­द्या­भे­दोऽत्र मनागपि न विद्यते' इति । साङ्ख्य­यो­गा­चार्याः पुरा­णे­ति­हा­स­क­र्ता­रश्च मूल­प्र­कृ­त्यैक्यं वदन्ति । नन्वविद्यैक्ये बन्ध­मु­क्ति­व्य­वस्था कथम् । नच व्यवस्था नास्तीति वाच्यम् , श्रवणे प्रवृ­त्त्या­दि­बा­धा­पा­ता­दिति चेत् , उच्यतेये ह्यवि­द्या­ना­ना­त्व­मि­च्छन्ति तैरपि परिणामित्वेन सांश­त्व­म­वि­द्याया अङ्गीकार्यम् , तथा चान­र्था­त्म­क­स्वी­य­स­ङ्घा­ता­त्मना परि­ण­ता­वि­द्यां­शो­प­हि­त­जी­व­भे­दा­द्व्य­वस्था सिध्यति । यस्य ज्ञानमन्तःकरणे जायते तस्यान्तः कर­ण­प­रि­णा­म्य­ज्ञा­नां­श­नशो मुक्तिरिति । एवं च श्रोतुः स्वरू­पा­न­न्द­प्राप्तिः, श्रवणादो प्रवृत्तिः, विद्वदनुभवः, जीव­न्मु­क्ति­शास्त्रं चेति सर्वमबाधितं भवति । नचैवं नाना­जी­व­प­क्षा­द­वि­शेषः, मूल­प्र­कृ­ति­ना­ना­त्वा­भा­वा­दि­त्य­लम् ।

परत्वेहेतुः
अविकार इति ।

ननु सूत्रकृता श्रुतौ प्रधा­ना­द्भे­द­व्य­प­देश उक्तस्तत्र कथ­म­ज्ञा­ना­द्भे­दो­क्ति­र्व्या­ख्या­यते, तत्राह
नात्रेति ।
कार्यात्मना प्रधीयत इति प्रधानमज्ञानमेव । ततोऽ­न्य­स्या­प्रा­मा­णि­क­त्वा­दि­त्यर्थः । अतोऽ­त्रा­ज्ञा­न­मेव भूतयोनिरिति पूर्वपक्षं कृत्वा निरस्यते । तन्नि­रा­से­ना­र्था­त्सा­ङ्ख्या­क­ल्पि­त­प्र­धा­न­नि­रास इति मन्तव्यम् ॥ २२ ॥

वृत्ति­कृ­न्म­ते­नादौ सूत्रं व्याचष्टे
अपिचेत्यादिना ।
'प्राणो मनः सर्वेन्द्रियाणि च खं वायु­र्ज्यो­ति­रापः पृथिवी' इति श्रुतिः । अग्निर्धुलोकः, 'असौ वाव लोको गौत­माग्निः' इति श्रुतेः । विवृता वेदाः वागित्यन्वयः । पद्भ्यां पादावित्यर्थः । यस्येदं रूपं स एष सर्व­प्रा­णि­ना­म­न्त­रा­त्मे­त्यर्थः ।

तनुमहिम्न इति ।
अल्प­श­क्ते­रि­त्यर्थः ।

यथा कश्चि­ब्र­ह्म­वि­त्स्वस्य सर्वा­त्म­त्व­प्र­क­ट­ना­र्थ­म­ह­म­न्न­मिति साम गायति न त्वन्न­त्वा­दि­क­मा­त्मनो विवक्षति, अफलत्वात् , तथेहापीत्याह
अहमन्नमिति ।

वृत्ति­कृ­द्व्याख्यां दूषयति
अन्ये पुनरिति ।
एष सर्व­भू­ता­न्त­रात्मा सूत्रात्मा एत­स्मा­द्भू­त­यो­ने­र्जा­यत इति श्रुत्यन्वयेन हिर­ण्य­ग­र्भ­स्यात्र जाय­मा­न­त्वे­नो­प­न्या­सा­दि­त्यर्थः । निर­दि­क्ष­द­वो­च­दि­त्यर्थः । अग्निर्द्युलोको यस्य, यस्य समिद्रूपः सूर्यः सोऽपि­द्यु­लो­का­ग्नि­स्त­स्मा­द­जा­य­ते­त्यर्थः । 'तस्मा­दित्य एव समित्' इति श्रुत्यन्तरात् । अतो मध्येऽपि सृष्टिरेव वाच्या न रूपमिति भावः ।

यदुक्तम् 'अग्नि­र्मूर्धा' इत्यत्र भूतयोनेः सर्वात्मत्वं विवक्षितमिति, तत्रेत्याह
सर्वा­त्म­त्व­म­पीति ।

ननु हिरण्यगर्भस्य जन्मा­न्य­त्रा­नुक्तं कथमत्र वक्तव्यम् , तत्राह
श्रुतीति ।
अग्रे समवर्तत जातः सन्भू­त­ग्रा­म­स्यैकः पति­री­श्व­र­प्र­सा­दा­द­भ­वत् । स सूत्रात्मा द्यामिमां पृथिवीं च स्थूलं सर्वमधारयत् । कशब्दस्य प्रजा­प­ति­सं­ज्ञात्वे सर्व­ना­म­त्वा­भा­वेन स्मा इत्य­यो­गा­दे­का­र­लो­पे­नै­कस्मै देवाय प्राणात्मने हविषा विधेम परिचरेमेति व्याख्येयम् , 'कतम एको देव इति प्राणः' इति श्रुतेः । यद्वा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः, 'एको देवः सर्वभूतेषु गूढः' इति श्रुत्यन्तरात् ।

ननु तस्य भूता­न्त­रा­त्मत्वं कथम् , तत्राह
विकारेति ।
पूर्वकल्पे प्रकृ­ष्टो­पा­स­ना­क­र्म­स­मु­च्च­या­नु­ष्ठा­न­द­स्मि­न्कल्पे सर्व­प्रा­णि­व्य­ष्टि­लि­ङ्गानां व्यापकं सर्व­प्रा­ण्य­न्त­र्गतं ज्ञान­क­र्मे­न्द्रि­य­प्रा­णा­त्मकं सम­ष्टि­लि­ङ्ग­श­रीरं जायते तद्रूपस्य सूत्रात्मनः सर्व­भू­ता­न्त­रा­त्मत्वं युक्तमित्यर्थः ।

स्वपक्षे सूत्रार्थमाह
अस्मिन्पक्ष इति ।
कर्म सफलं सर्वं श्रौत­स्मा­र्ता­दिकं तपश्च पुरुष एवेति सर्वा­न्त­र­त्व­रू­पो­प­न्या­साच्च भूतयोनौ ज्ञेये वाक्यं सम­न्वि­त­मि­त्यर्थः ॥ २३ ॥

वैश्वानरः । छान्दो­ग्य­मु­दा­ह­रति
को न इति ।
प्राची­न­शा­ल­स­त्य­य­ज्ञे­न्द्र­द्यु­म्न­ज­न­बु­डिला मिलित्वा मीमांसां चक्रुः 'को न आत्मा किं ब्रह्म' इति । आत्मैव ब्रह्मेति ज्ञापनार्थं पदद्वयम् ।

ते पञ्चापि निश्च­या­र्थ­मु­द्दा­ल­क­मा­जग्मुः । सोऽपि सम्यङ्न वेदेति तेनोद्दालकेन सह षडप्यश्वपतिं कैकेयं राजानमागत्योचुः
आत्मानमिति ।

अध्येषि स्मरसि तमेव नो ब्रूहीति । राजा तु तेषां भ्रान्ति­नि­रा­सार्थं तान्प्र­त्ये­क­म­पृ­च्छत् 'कं त्वमा­त्मा­न­मु­पाःसे' इति । ते च प्राचीनशालादयः क्रमेण प्रत्ये­क­मू­चुः­दि­व­मे­वाहं वैश्वानरं वेद्मि । आदित्यमेवाहं वेद्मि । वायुमेव । आकाशमेव । अप एव । पृथिवीमेवाहं वेद्मीति । ततो राजा द्युसूर्यादीनां षण्णां यथाक्रमेण सुते­ज­स्त्व­वि­श्व­रू­प­त्व­पृ­थ­ग्व­र्त्मा­त्म­त्व­ब­हु­ल­त्व­र­यि­त्व­प्र­ति­ष्ठा­त्व­गु­णा­न्वि­धाय भवन्तो यदि मामपृष्ट्वा द्युसूर्यादिषु भगवतो वैश्वा­न­र­स्या­ङ्गे­ष्वेव प्रत्येकं वैश्वा­न­र­त्व­दृ­ष्टयो भवेयुस्तदा क्रमेण मूर्ध­पा­ता­न्ध­त्व­प्रा­णो­त्क्र­म­ण­दे­ह­वि­शी­र्ण­त्व­ब­स्ति­भे­द­पा­द­शोषा भवतां स्युरिति प्रत्येकोपासनं निन्दित्वा, सुतेजस्त्वगुणको द्युलो­कोऽ­स्या­त्मनो वैश्वानरस्य मूर्धा, विश्व­रू­प­त्व­गु­णकः सूर्योऽस्य चक्षुरित्येवं द्युसूर्यादीनां मूर्धा­दि­भा­व­मु­प­दिश्य सम­स्त­वै­श्वा­न­र­ध्या­न­वि­धि­रा­म्ना­यते
यस्त्वेतमिति ।
आभि­मु­ख्ये­ना­प­रो­क्ष­तया विश्वं मिमीते जाना­ती­त्य­भि­वि­मानः । तं सर्वज्ञं स तदुपासकः सर्वत्र भोगं भुङ्क्त इत्यर्थः । लोका भूरादयः, भूतानि शरीराणि, आत्मानो जीवा इति भेदः ।

सुष्ठु तेजः कान्तिर्यस्य द्युलोकस्य स सुतेजाः । विश्वानि रूपाण्यस्य सूर्यस्य, 'एष शुक्ल एष नीलः' इति श्रुतेः । पृथक्नानाविधं वर्त्म गमनमात्मा स्वभावो यस्य वायोः स नाना­ग­ति­त्व­गु­ण­कोऽस्य प्राणः । बहुलत्वं व्यापित्वं तद्गुण आकाशोऽस्य सन्देहो देहमध्यम् । रयित्वं धनत्वं तद्गुणा आपो यस्य बस्ति­र्मू­त्र­स्था­नम् । प्रति­ष्ठा­त्व­गुणा पृथिवी तस्य पादौ । तस्य होमाधारत्वं सम्पादयति
उर एवेत्यादिना ।

पूर्व­मु­प­क्र­म­स्था­दृ­श्य­त्वा­दि­सा­धा­र­ण­ध­र्मस्य वाक्य­शे­ष­स्थ­स­र्व­ज्ञ­त्वा­दि­लि­ङ्गेन ब्रह्म­नि­ष्ठ­त्व­मु­क्तम् , तद्व­द­त्रा­प्यु­प­क्र­म­स्थ­सा­धा­र­ण­वै­श्वा­न­र­श­ब्दस्य वाक्य­शे­ष­स्थ­हो­मा­धा­र­त्व­लि­ङ्गेन जाठ­र­नि­ष्ठ­त्व­मिति दृष्टान्तेन पूर्वपक्षयति
किन्ता­व­दि­त्या­दिना ।
पूर्वो­त्त­र­प­क्ष­यो­र्जा­ठ­र­ब्र­ह्म­णो­र्ध्यानं फलम् । यदद्यते तदन्नम् , येन पच्यते सोऽयं पुरु­ष­श­री­रेऽ­न्त­र­स्ती­त्यर्थः ।

पक्षान्तरमाह
अग्निमात्रं वेति ।
विश्वस्मै भुवनाय वैश्वा­न­र­म­ग्नि­मह्नां केतुं चिह्नं सूर्यं देवा अकृण्वन् कृतवन्तः । सूर्योदये दिन­व्य­व­हा­रा­दि­त्यर्थः । स्याद्वैश्वानर इत्यनुषङ्गः । हि यस्मात्कं सुखप्रदो भुवनानां राजा वैश्वा­न­रोऽ­भि­मुखा श्रीर­स्ये­त्य­भि­श्री­री­श्वरः, तस्मात्तस्य वैश्वानरस्य सुमतौ वयं स्याम तस्यास्मद्विषया शुभ­म­ति­र्भ­व­त्वि­त्यर्थः ।

पक्ष­त्र­येऽ­प्य­रुचिं वद­न्क­ल्पा­न्त­र­माह
अथेत्यादिना ।
'आत्मा वैश्वानरः' इति श्रुतेरित्यर्थः । केवलत्वं वैश्वा­न­र­श­ब्द­शू­न्य­त्वम् । अत्र जाठरो वैश्वानर इति मुख्यः पूर्वपक्षः, प्राणा­ग्नि­हो­त्र­हो­मा­धा­र­त्व­लि­ङ्गात् । तस्य देह­व्या­पि­त्वा­दा­त्मत्वं श्रुत्या द्युमू­र्ध­त्वा­दि­क­ल्प­नया बृह­त्त्वा­द्ब्र­ह्म­त्व­मिति ध्येयम् ।

सिद्वान्तयति
तत इदमिति ।
साधा­र­ण­श्रु­त्यो­रू­प­क्र­म­स्थ­यो­र्वि­शे­षा­त्प्र­थ­म­श्रु­त­मु­ख्य­त्रै­लो­क्य­श­री­र­लि­ङ्गा­त्स­र्वा­त्म­के­श्व­र­प­रत्वं युक्तम् , न चर­म­श्रु­त­क­ल्पि­त­हो­मा­धा­र­त्व­लि­ङ्गेन जाठ­र­त्व­मि­त्यर्थः ।

ननु निर्विशेषस्य कुतो विशेष इत्यत आह
अत्र हीति ।
अवस्थान्तरगतः त्रैलोक्यात्मना स्थित इत्यर्थः ।

जाठरस्यापि ध्यानार्थं विशेषकल्पनेति चेत् , न, अस­त्क­ल्प­ना­पत्तेः । ईश्वरस्य तु उपा­दा­न­त्वा­द्वि­शेषः सन्नेव ध्याना­र्थ­मु­च्य­ता­मि­त्याह
कारणत्वादिति ।

लिङ्गा­न्त­रा­ण्याह
स सर्वे­ष्वि­त्या­दिना ।
यथाग्नौ निक्षि­प्त­मि­षी­का­तूलं दह्यते एवं हास्य विदुष इत्यर्थः ॥ २४ ॥

नन्वसदारोपेणापि स्तुतिसम्भवान्न मूल­श्रु­त्य­पे­क्षे­त्या­श­ङ्क्याह
यद्यपि स्तुतिरिति ।

तथापीतिपदमर्थतः पठति
स्तुतित्वमपीति ।
द्युमू­र्ध­त्वा­दि­रू­पेण स्तुति­र्न­र­मा­त्रेण कर्तुमशक्या विना श्रुतिमित्यर्थः । सता रूपेण स्तुति सम्भ­वा­न्ना­स­दा­रोप इति भावः ॥ २५ ॥

शब्दादीनां गतिं वक्तु­मु­क्त­सि­द्वा­न्त­मा­क्षिप्य समाधत्ते
शब्दादिभ्य इति ।
'स एषोऽ­ग्नि­र्वै­श्वा­नरः' इत्यग्निरहस्ये वैश्वा­न­र­वि­द्यायां श्रुतोऽग्निशब्द ईश्वरे न सम्भवतीत्यन्वयः ।

सूत्र­स्था­दि­श­ब्दा­र्थ­माह
आदिशब्दादिति ।
भक्तमन्नम् , होमीयं होमसाधनम् , तेन प्राणा­ग्नि­होत्रं कार्यमित्यर्थः ।

वाज­स­ने­यि­ना­म­ग्नि­र­हस्ये सप्रपञ्चां वैश्वा­न­र­वि­द्या­मुक्त्वा 'स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरु­षेऽ­न्तः­प्र­ति­ष्ठितं वेद स सर्व­त्रा­न्न­मत्ति' इत्युक्तं देहान्तःस्थत्वं जाठरे सम्भवति, प्रसि­द्धे­रि­त्याह
तथेति ।
अत्र सूत्रे आदि­प­दे­नै­वा­न्तः­प्र­ति­ष्ठा­नस्य ग्रहे सम्भवति पृथगुक्तिः साधा­र­ण­लि­ङ्ग­त्व­द्यो­त­नार्था । शब्दा­दि­ब­ला­दि­द­मपि जाठरं गम­य­ती­त्य­भ्यु­च्चयः ।

यद्यपि द्युमू­र्ध­त्वा­दि­वि­शेष ईश्वरपक्षपाती होमा­धा­र­त्वा­दि­र्जा­ठ­र­प­क्ष­पा­तीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न सम्भवतीति बलवानित्यत आह
अथवेति ।
एष द्युमू­र्ध­त्वा­दि­नि­र्देश इत्यर्थः । इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तथो­र्म­ध्य­म­न्त­रिक्षं च यो भूता­ग्नि­र्भा­नु­रू­पे­णा­त­तान व्याप्तवान् स ध्यातव्य इत्यर्थः ।

जडमात्रस्य न ध्येयत्वमित्यत आह
अथवेति ।

सिद्धान्तयति
न तथा­दृ­ष्ट्यु­प­दे­शा­दि­तीति ।

पर­मे­श्व­र­दृ­ष्ट्यो­पा­स्य­जा­ठ­रा­ग्नि­प्र­ती­क­वा­च­का­भ्या­म­ग्नि­वै­श्वा­न­र­श­ब्दाभ्यां द्युमू­र्ध­त्वा­दि­मा­नी­श्वरो लक्ष्य इत्युक्त्वा कल्पान्तरमाह
अथवा जाठरेति ।
अस्मिन्पक्षे प्राधा­न्ये­ने­श्व­रो­पा­स्यता पूर्वत्र गुणतयेति भेदः । उपाधिवाचिभ्यां पदाभ्यामुपहितो लक्ष्य इत्यर्थः ।

लक्ष­णा­बी­ज­म­स­म्भवं व्याचष्टे
यदि चेति ।

पुरु­ष­म­पी­त्या­दि­सू­त्र­शेषं व्याचष्टे
यदि च केवल इति ।
ईश्व­र­प्र­ती­क­त्वो­पा­धि­त्व­शू­न्यै­त्यर्थो विवक्ष्येत तदेति शेषः । यत्यः, पुरुषः, स एषोऽ­ग्नि­र्वै­श्वा­न­र­श­ब्दि­त­जा­ठ­रो­पा­धिक इति श्रुत्यर्थः । यो वेद स सर्वत्र भुङ्क्त इत्यर्थः ।

पुरुषत्वं पूर्ण­त्व­म­चे­त­नस्य जाठरस्य नेत्युक्त्वा पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह
ये त्विति ।

ननु जाठरस्यापि देह­व्या­पि­त्वा­त्त­द्वि­धत्वं स्यादित्यत आह
पुरुषविधत्वं च प्रकरणादिति ।
न देहव्यापित्वं पुरुषविधत्वं किन्तु विरा­ड्दे­हा­का­र­त्वम् , अधिदैवं पुरु­ष­वि­ध­त्व­म­ध्यात्मं चोपा­स­क­मू­र्धा­दि­चु­बु­का­न्ते­ष्व­ङ्गेषु सम्प­न्न­त्व­मी­श्व­रस्य पुरु­ष­वि­ध­त्व­मि­त्यर्थः ॥ २६ ॥

ईश्वरस्याङ्गेषु सम्प­त्ति­र्व­क्ष्यते । एवं जाठरं निरस्य पक्षद्वयं निरस्यति
अत एवेति ।

सूत्रं व्याचष्टे
यत्पु­न­रि­त्या­दिना ।
द्युमू­र्ध­त्वादिः, सर्व­लो­क­फ­ल­भा­क्त्वम् , सर्व­पा­प्म­प्र­दाहः, आत्म­ब्र­ह्म­श­ब्दो­प­क्रम उक्तहेतवः ।

तानेव स्मारयति
न हि भूता­ग्ने­रि­त्या­दिना ।
'यो भानुना' इति मन्त्रे­णे­श्व­र­दृष्ट्या महिमोक्त इति भावः ॥ २७ ॥

पूर्व­म­ग्नि­वै­श्वा­न­र­श­ब्दा­वी­श्व­र­ल­क्ष­का­वि­त्यु­क्तम् । अधुना प्रती­को­पा­धि­प­रि­त्या­गेन विरा­ट्पु­रु­षा­का­रस्य भगवतो वैश्वा­न­र­स्या­ध्यात्मं मूर्धा­दि­चु­बु­का­न्तेषु सम्पा­द्यो­पा­स्य­त्वा­ङ्गी­का­रेऽपि न शब्दादिविरोधः शब्दयोरीश्वरे योगवृत्त्या मुख्यत्वात् , अन्तः­स्थ­त्वा­दीनां च तत्र सम्भवादित्याह
साक्षादपीति ।

साक्षा­त्प­द­स्या­र्थ­माह
विनैवेति ।
जाठ­रा­ग्नि­स­म्बन्धं विने­श्व­र­स्यो­पा­स्य­त्वेऽपि शब्दाद्यविरोधं जैमिनिर्मन्यत इत्यर्थः । इद­म­न्त­स्थ­त्व­मु­द­र­स्थ­त्व­रूपं नोच्यते किन्तु नखा­दि­शि­खा­न्ता­व­य­व­स­मु­दा­या­त्म­क­पु­रु­ष­श­रीरे मूर्धा­दि­चि­बु­का­न्ता­ङ्गानि वृक्षे शाखा­व­त्प्र­ति­ष्ठि­तानि, तेषु सम्पन्नो वैश्वानरः पुरु­षेऽ­न्तः­प्र­ति­ष्ठित इत्युच्यते ।

अतो यथा शाखास्थस्य पक्षिणो वृक्षा­न्तः­स्थत्वं तथा वैश्वानरस्य पुरु­षा­न्तः­स्थ­त्व­मि­त्याह
न हीह पुरु­ष­वि­ध­मि­त्या­दिना ।
अग्न्या­दि­श­ब्द­स्ये­श्व­र­वा­चि­त्वा­ज्जा­ठ­रा­ग्ने­र­सं­श­ब्दि­त­त्वम् । अत्रेश्वरस्य पुरुषावयवेषु सम्पा­द­ना­त्पु­रु­ष­वि­ध­त्व­म­न्तः­स्थत्वं चेत्यर्थः ।

पक्षान्तरमाह
अथवेति ।
पुरुषविधत्वं पूर्ववत् । अन्तःस्थत्वं माध्यस्थ्यं साक्षि­त्व­मि­त्यर्थः ।

एव­म­न्तः­स्थ­त्व­मी­श्वरे व्याख्याय शब्दादीनि व्याचष्टे
निश्चिते चेति ।
विश्वश्चायं नरो जीवश्च सर्वात्मत्वात् । विश्वेषां विकाराणां वा नरः कर्ता । विश्वे सर्वे नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तीति विश्वानरः । रक्ष एव राक्षस इतिवत्स्वार्थे तद्धितप्रत्ययः । 'नरे संज्ञायां' इति पूर्वपदस्य दीर्घता । अगि­धा­तो­र्ग­त्य­र्थस्य निप्र­त्य­या­न्तस्य रूपमग्निरिति । अङ्गयति गमयत्यग्रं कर्मणः फलं प्रापयतीति अग्नि­र­ग्र­णी­रुक्तः । अभितोऽग इति वा अग्निः ।

वैश्वा­न­रो­पा­स­क­स्या­ति­थि­भो­ज­ना­त्पूर्वं प्राणा­ग्नि­होत्रं विद्याङ्गत्वेन विहितम् , तद­र्थ­म­ग्नि­त्रे­ता­दि­क­ल्पनं प्रधानाविरोधेन नेतव्यमित्याह
गार्हपत्येति ॥ २८ ॥

मात्रां परि­मा­ण­म­ति­क्रा­न्तोऽ­ति­मात्रः तस्य विभोरित्यर्थः । उपासकानां कृतेऽनुग्रहाय प्रादे­श­मा­त्रोऽ­भि­व्य­ज्यते, प्रदेशेषु वा मीयतेऽभिव्यज्यत इति प्रादेशमात्रः ॥ २९ ॥

मतान्तरमाह
अनुस्मृतेरिति ।
प्रादेशेन मनसा मितः प्रादेशमात्र इत्यर्थः ।

यथाकथञ्चिदिति ।
मनःस्थं प्रादे­श­मा­त्रत्वं स्मृतिद्वारा स्मर्यमाणे कल्पितं श्रुते­रा­ल­म्ब­न­मि­त्यर्थः ।

सूत्र­स्या­र्था­न्त­र­माह
प्रादेशेति ॥ ३० ॥

सम्प्रति श्रुत्युक्तां प्रादे­श­मा­त्र­श्रु­ते­र्ग­ति­माह
सम्पत्तेरिति ।

ब्राह्मणं पठति
प्रादे­श­मा­त्र­मि­वेति ।
अप­रि­च्छि­न्न­म­पी­श्वरं प्रादे­श­मा­त्र­त्वेन सम्पत्त्या कल्पितं सम्य­ग्वि­दि­त­वन्तो देवा­स्त­मे­वे­श्व­र­मभि प्रत्यक्त्वेन सम्पन्नाः प्राप्तवन्तः, ह वै पूर्वकाले, ततो वो युष्मभ्यम् , तथा द्युप्र­भृ­ती­न­व­य­वा­न्व­क्ष्यामि यथा प्रादेशमात्रं प्रादे­श­प­रि­मा­ण­म­न­ति­क्रम्य मूर्धा­द्य­ध्या­त्मा­ङ्गेषु वैश्वानरं सम्पा­द­यि­ष्या­मीति प्राची­न­शा­ल­दी­न्प्रति राजा प्रतिज्ञाय स्वकी­य­मू­र्धा­न­मु­प­दि­शन् करेण दर्शयन्नुवाचएष वै मे मूर्धा भूरा­दीं­ल्लो­का­न­तीत्य उपरि तिष्ठ­ती­त्य­ति­ष्ठाासौ द्युलोको वैश्वानरः । तस्य मूर्धेति यावत् । अध्या­त्म­मू­र्धा­भे­दे­ना­धि­दै­व­मूर्धा सम्पाद्य ध्येय इत्यर्थः । एवं चक्षु­रा­दि­षू­ह­नी­यम् ।

स्वकीयचक्षुषी दर्शयन् 'एष वै सुतेजाः सूर्यो वैश्वानरस्य चक्षु­रि­त्यु­वाच' । नासिकापदेन तन्निष्ठः प्राणो लक्ष्यते तस्मि­न्ना­ध्या­त्मि­क­प्रा­णेऽ­धि­दै­व­प्रा­णस्य वायोर्दृष्टिमाह
नासिक इति ।
अत्र सर्वत्र वैश्वा­न­र­श­ब्द­स्त­द­ङ्ग­परः । मुखस्थं मुख्यं तस्मिन्नधिदैवं बहुलाकशदृष्टिः मुख­स्थ­ला­ला­रू­पा­स्वप्सु रैश­ब्दि­त­त­दी­य­ब­स्ति­स्थो­द­क­दृष्टिः चिबुके प्रतिष्ठा पादरूपा पृथिवी द्रष्टव्या ।

ननु गुणवैषम्येण विद्य­यो­र्भे­दा­द­ग्नि­र­हस्ये श्रुत्यनुसारेण छान्दो­ग्य­स्थ­प्रा­दे­श­मा­त्र­क्षुतिः कथं व्याख्ये­ये­त्या­श­ङ्क्याह
यद्यपीत्यादिना ।
एता­व­ता­ल्प­वै­ष­म्येण बहु­त­र­प्र­त्य­भि­ज्ञा­सिद्धं विद्यैक्यं न हीयते । शाखाभेदेऽपि सर्वशाखासु प्रतीयमानं वैश्वा­न­रा­द्यु­पा­स­न­मे­क­मिति न्यायस्य वक्ष्य­मा­ण­त्वाच्च । अति­ष्ठा­त्व­गु­ण­श्छा­न्दोग्य उपसंहर्तव्यः । विश्व­रू­प­त्व­गु­णश्च वाजि­भि­र्ग्राह्यः । तथाच द्युसूर्ययोः सुतेजस्त्वं सम­म­ति­ष्ठा­त्व­वि­श्व­रू­प­त्व­यो­र्व्य­वस्था । यद्वा शाखाभेदेन गुणव्यवस्थास्तु न विद्याभेद इति भावः ॥ ३१ ॥

प्रादेशत्वस्य सम्प­त्ति­प्र­यु­क्तत्वे श्रुत्यन्तरं संवादयति
आमनन्तीति ।
य एषोऽ­न­न्तोऽ­प­रि­च्छिन्नः अतोऽव्यक्तो दुर्विज्ञेयस्तं कथं जानी­या­मि­त्यत्रेः प्रश्ने याज्ञ­व­ल्क्य­स्यो­त्त­रम् , स ईश्वरोऽविमुक्ते कामादिभिर्बद्धे जीवे भेदकल्पनया प्रतिष्ठित उपास्यः । पुनरत्रिप्रश्नः स इति, उत्तरं वरणायामिति । एवं प्रश्नोत्तरे अग्रेऽपि ज्ञेये । तत्र च श्रुतौ इमामेव भ्रूसहितां नासिकां निरुच्येति भाष्ययोजना । सर्वा­नि­न्द्र­य­कृ­ता­न्दो­षा­न्वा­र­य­तीति वरणा भ्रूः, सर्वा­न्दो­षा­न्ना­श­य­तीति नासी नासिकेति निर्वचनं श्रुतम् । नासा­भ्रु­वो­र्जी­व­द्वा­रे­श्व­र­स्था­न­त्व­ध्या­ना­त्पा­प­वा­र­क­त्व­मिति मन्तव्यम् । तयोर्मध्येऽपि विशिष्य जीवस्य स्थानं पृच्छति कतमदिति, भ्रुवो­रि­त्यु­त्त­रम् । प्राणस्येति पाठेऽपि घ्राण­स्ये­त्यर्थः ।

स एष सन्धि­र्द्यु­लो­कस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येय इत्याह
स एष इति ।
आभिमुख्येनाहं ब्रह्मेति विमीयते ज्ञायते इत्यभिविमानः प्रत्यगात्मा । अभिगतश्चासौ विमानश्च, सर्वस्वरूपत्वे सत्यानन्त्यात् । मानमत्र परिमाणम् । अभिविमिमीते निर्मिमीते । तस्मा­द्वै­श्वा­न­र­वा­क्य­मु­पास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ ३२ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ श्रीम­च्छा­री­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥

प्रथमाध्याये तृतीयः पादः
द्युभ्वो­त­भू­म­प­द­म­क्ष­र­मी­क्ष­णीयं श्रीरा­म­म­ल्प­ह्रदि भान्तमधीशितारम् । इन्द्रा­दि­वे­द्य­म­खि­लस्य च शासितारं ज्योतिर्नभः पदमनिद्रमजं भजेऽहम् ॥ १ ॥
एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो द्वितीयपादे दर्शितः । अधुना यौगिकपदबहुलानां निर्वि­शे­ष­प्र­धा­नानां वाक्यानां समन्वयं वक्तुं तृतीयः पाद आरभ्यते । अतोऽ­त्रा­धि­क­र­णानां श्रुत्य­ध्या­य­पा­द­स­ङ्ग­तयः । तत्र पूर्व­मु­प­क्र­म­स्थ­सा­धा­र­ण­श­ब्दस्य वाक्य­शे­ष­स्थ­द्यु­मू­र्ध­त्वा­दिना ब्रह्म­प­र­त्व­मु­क्तम् , तद्व­द­त्रा­प्यु­प­क्र­म­स्थ­सा­धा­र­णा­य­त­न­त्वस्य वाक्य­शे­ष­स्थ­से­तु­श्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दृष्टा­न्त­ल­क्ष­णा­धि­क­र­ण­स­ङ्गतिः । पूर्वपक्षे प्रधा­ना­द्यु­पास्तिः, सिद्वान्ते निर्वि­शे­ष­ब्र­ह्म­धी­रिति फलम् । मुण्ड­क­वा­क्य­मु­दा­ह­रति
इदमिति ।
यस्मिन् लोकत्रयात्मा विराट् , प्राणैः सर्वैः सह मनः सूत्रात्मकम् , चकारादव्याकृतं कारणमोतं कल्पितं तदपवादेन तमे­वा­धि­ष्ठा­ना­त्मानं प्रत्यगभिन्नं जानथ श्रवणादिना । अन्या अनात्मवाचो विमुञ्चथ विशेषेण निःशेषं त्यजथ । एष वाग्वि­मो­क­पू­र्व­का­त्म­सा­क्षा­त्का­रोऽ­मृ­तस्य मोक्ष­स्या­सा­रा­पा­र­दु­र्वा­र­सं­सा­र­वा­रिधेः परपारस्य सेतुरिव सेतुः प्रापक इति मातृ­व­च्छ्रु­ति­र्मु­मु­क्षू­नु­प­दि­शति ।

तत्रायतनत्वस्य साधारणधर्मस्य दर्शनात्संशयमाह
तत्किमिति ।

अमृतस्य ब्रह्मणः सेतुरिति षष्ठ्या ब्रह्मणो भिन्नत्वेन सेतोः श्रुत­त्वा­दे­ष­श­ब्द­प­रा­मृष्टं द्युभ्वा­द्या­य­त­न­म­ब्र­ह्मैव सेतुरिव सेतुरित्याह
अमृतस्येति ।
भेद­श्र­व­णा­त्से­तु­रिति श्रव­ण­च्चे­त्यर्थः ।

तत्र भेदश्रवणं व्याख्यातम् । सेतुश्रवणं स्वयं विवृणोति
पारवानिति ।
अनन्तं कालतः । अपारं देशतः । जल­वि­धा­र­क­मु­ख्य­से­तो­र्ग्र­ह­णा­स­म्भ­वा­द्गौ­ण­से­तु­ग्रहे कर्तव्ये मुख्य­से­त्व­वि­ना­भू­त­पा­र­व­त्त्व­गु­ण­वा­नेव कश्चिद्ग्राह्यः । नतु मुख्य­स्या­नि­य­त­वि­धा­र­ण­गु­ण­वा­नी­श्वर इति भावः । यथा लोके मणयः सूत्रेण ग्रथिता एवं हे गौतम, सम­ष्टि­लि­ङ्गा­त्म­क­वा­युना स्थूलानि सर्वाणि सन्दृब्धानि ग्रथितानि भवन्तीति श्रुत्यर्थः ।

आत्म­श­ब्दा­त्प­क्ष­द्व­य­म­प्य­यु­क्त­मि­त्यत आह
शारीरो वेति ।
सद्वितीयत्वेन सेतु­श­ब्दो­प­प­त्ते­श्चे­त्यर्थः ।

नन्वात्मशब्दो जीवे सम्भवतीत्यत आह
आत्मशब्दश्चेति ।
उपा­धि­प­रि­च्छि­न्नस्य जीवस्य सर्ववस्तु प्रत्येकं मुख्यं नास्तीत्यर्थः । उप­क्र­म­स्थ­सा­धा­र­णा­य­त­नस्य गौण­से­तु­त्व­लि­ङ्गा­त्प्र­थ­म­श्रु­ता­त्म­श्रुत्या ब्रह्मनिश्चय इति भावः ।

स्वश­ब्दा­दि­त्य­स्या­र्था­न्त­र­माह
क्वचिच्चेति ।
प्रजा­ना­मु­त्पत्तौ सदेव मूलम् , स्थितावायतनम् , लये प्रतिष्ठेति ब्रह्म­वा­चि­स­त्प­देन छान्दोग्ये ब्रह्मण आय­त­न­त्व­श्रु­ते­र­त्रापि तथेत्यर्थः ।

अर्थान्तरमाह
स्वशब्देनैवेति ।
'यस्मिन् द्यौः' इति वाक्या­त्पू­र्वो­त्त­र­वा­क्ययोः पुरु­ष­ब्र­ह्मा­दि­श­ब्देन ब्रह्म­स­ङ्की­र्त­ना­न्म­ध्येऽपि ब्रह्म ग्राह्य­मि­त्यर्थः । पुरुष इति पूर्ववाक्यम् , ब्रह्मै­वे­त्यु­त्त­र­वा­क्यम् , सर्वासु दिक्षु स्थितं सर्वं ब्रह्मै­वे­त्यर्थः । उत्त­रे­णो­त्त­रस्यां दिशि ।

उदाहृतवाक्यस्य सवि­शे­ष­ब्र­ह्म­प­र­त्व­मा­शङ्क्य वाक्यं व्याचष्टे
तत्रेत्यादिना ।
सामा­ना­धि­क­र­ण्या­द्वि­चित्र आत्मेति सम्बन्धः ।

यस्मिन् सर्वमोतं तमे­वै­क­मि­त्ये­व­का­रै­क­श­ब्दाभ्यां निर्विशेषं ज्ञेय­मि­त्युक्त्वा हेत्वन्तरमाह
विकारानृतेति ।
विकारेऽनृते कल्पिते अभिसन्धोऽभिमानो यस्य तस्या­न­र्थ­भा­क्त्वेन निन्दाश्रुतेश्च कूटस्थसत्यं ज्ञेयमित्यर्थः ।

कथं तर्हि सामानाधिकरण्यम् , तत्राह
सर्वं ब्रह्मेति ।
यश्चोरः स स्थाणु­रि­ति­व­त्य­त्सर्वं तद्ब्रह्मेति सर्वोद्देशेन ब्रह्म­त्व­वि­धा­ना­द्बा­ध­ना­र्थम् , न तु यद्ब्रह्म तत्सर्वमिति नाना­र­स­त्वा­र्थ­मि­त्यर्थः ।

तत्र नियामकमाह
स यथेति ।
लव­ण­पि­ण्डोऽ­न्त­र्ब­हिश्च रसान्तरशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि, चिदेकरस आत्मेत्यर्थः ।

यद्यपि पार­व­त्त्व­सा­व­य­व­त्वा­दिकं मुख्य­से­त्व­व्य­भि­चारि तथापि सेतो­र्ज­ला­दि­ब­न्ध­न­रूपं यद्विधारणं तदेव व्यभि­चा­रि­त्वेऽपि सेतु­प­दा­र्थै­क­दे­श­त्वा­द्गु­ण­त्वेन ग्राह्यं नतु पदार्थबहिर्भूतं पार­व­त्त्वा­दि­क­मि­त्याह
अत्रोच्यत इति ।

दृष्ट­त्वा­त्त­द्ग्र­हेऽ­ति­प्र­स­ङ्ग­माह
नहीति ।
अत्र श्रुतौ परेणेति शेषः ।

विधारणस्य शब्दार्थत्वं स्फुटयति
षिञिति ।
सिनोति बध्नातीति सेतु­प­दा­र्थै­क­देशो विधारणमित्यर्थः । तथा चामृतपदस्य भाव­प्र­धा­न­त्वा­द­मृ­त­त्वस्य सेतुर्विधारकं ब्रह्म । अस्यैवामृतत्वं नान्य­स्ये­त्यर्थः ।

यद्वा द्युभ्वा­द्या­धारो ब्रह्म न सेतुशब्दार्थः किन्त्वव्यवहितं ज्ञानमित्याह
अपर इति ।

फलितमाह
तत्र यदुक्तमिति ।
ज्ञाने सेतौ गृहीते सतीत्यर्थः ॥ १ ॥

मुक्तैरूपसृप्यं प्रत्यक्त्वेन प्राप्यं यद्ब्रह्म तस्या­त्रो­क्ते­रिति सूत्रार्थः । मुक्ति­प्र­ति­यो­गिनं बन्धं दर्शयति
देहादिष्विति ।

तद्विपर्ययेणेति ।
उक्त­प­ञ्च­क्ले­शा­त्म­क­ब­न्ध­नि­वृ­त्त्या­त्मना स्थितमित्यर्थः ।

यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रात्मना तिष्ठन्ति तथा ब्रह्मात्मविदपि संसारं विहाय परा­त्का­र­णा­द­व्य­क्ता­त्परं पूर्णं स्वय­ञ्ज्यो­ति­रा­नन्दं प्रत्यक्त्वेन प्राप्य तिष्ठतीत्याह
तथा विद्वानिति ।

इदं प्रधानादेः किं न स्यादत आह
ब्रह्मणश्चेति ।
अस्य मुमुक्षोः, हृदीति पदे­ना­त्म­ध­र्मत्वं कामानां निरस्तम् । यदा कामनिवृत्तिरथ तदामृतो भवति, मरणहेत्वभावात् । न केव­ल­म­न­र्थ­नि­वृत्तिः किन्त्वत्र देहे तिष्ठन्नेव ब्रह्मा­न­न्द­म­श्नुत इत्यर्थः ।

लिङ्गान्तरमाह
अपिचेति ।

धीरो विवेकी तमेवात्मानं विज्ञाय विशुद्दं लक्ष्यपदार्थं ज्ञात्वा वाक्यार्थज्ञानं कुर्यात् । ज्ञानार्थिनो ज्ञान­प्र­ति­ब­न्ध­क­क­र्म­का­ण्डा­दे­र्वै­मु­ख्य­माह
नेति ।
बहूनित्युक्त्या अल्पा­न्वे­दा­न्त­श­ब्दा­न­ङ्गी­क­रोति । 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्थता । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च' ॥ इत्येतानि वागि­न्द्रि­य­स्था­न­त्वा­द्वा­क्श­ब्दे­नो­च्यन्ते । तेषां शोष­ण­मा­त्र­म­ना­त्म­श­ब्दो­च्चा­र­ण­फलं तद्ध्यानान्मनसो ग्लानि­मा­त्र­मि­त्यर्थः ॥ २ ॥

वैशेषिक इति ।
असाधारण आत्म­श­ब्दा­दि­रि­त्यर्थः ।

अत­च्छ­ब्दा­दि­त्य­स्या­र्था­न्त­र­माह
तद्विपरीतस्येति ।
अत एवातच्छब्दादेव ॥ ३ ॥

प्राणभृच्चेति ।
सूत्रे चकारः पूर्व­सू­त्र­स्थ­न­ञोऽ­नु­ष­ङ्गार्थः । सर्व­ज्ञ­प­द­स­मा­ना­धि­क­र­ण­मा­त्म­शब्दो न जीव­वा­ची­त्य­त­च्छ­ब्द­स्त­स्मा­दि­त्यर्थः ।

ननु 'नानु­मा­न­प्रा­ण­भृ­ता­व­त­च्छ­ब्दात्' इत्येकमेव सूत्रं किमर्थं न कृत­मु­भ­य­नि­रा­स­हे­तो­रे­क­त्वा­दि­त्यत आह
पृथगिति ।
योगः सूत्रम् । उत्त­र­सू­त्र­स्थ­हे­तूनां जीव­मा­त्र­नि­रा­से­ना­न्व­येऽपि सुबोधार्थं प्राणभृच्चेति पृथ­क्सू­त्र­क­र­ण­मि­त्यर्थः ॥ ४ ॥

तानेव हेतू­ना­का­ङ्क्षा­द्वारा व्याचष्टे
कुतश्चेत्यादिना ।
यद्यपि विशुद्धः प्रत्य­गा­त्मै­वात्र ज्ञेयः तथापि जीवत्वाकारेण ज्ञातु­र्ज्ञे­या­द्भे­दान्न ज्ञेय­रू­प­त्व­मि­त्यर्थः ।

एवं च जीव­त्व­लि­ङ्ग­वि­शि­ष्ट­त्वेन जीवस्य द्युभ्वा­दि­वा­क्या­र्थत्वं निरस्यते न शुद्धरूपेणेति मन्तव्यम् ॥ ५ ॥ ॥ ६ ॥

ननु स्थित्ये­श्व­र­स्या­द­ना­जी­वस्य 'द्वा सुपर्णा' इत्यत्रोक्तावपि ईश्वर आयतनवाक्येन किमर्थं ग्राह्य इत्यत आह
यदि चेश्वर इति ।
अत्र चेश्वरः शुद्धचिन्मात्रो ग्राह्यः, न सर्व­ज्ञ­त्वा­दि­वि­शिष्टः, तस्या­त्रा­प्र­ति­पा­द्य­त्वात् । तथा चाप्र­ति­पा­द्या­र्थ­स्या­क­स्मा­न्मध्ये वच­ना­स­म्भ­वा­दा­द्य­वा­क्येन ग्रहणं कार्य­मि­त्य­भि­सन्धिः ।

तमज्ञात्वा शङ्कते
ननु तवापीति ।

ब्रह्म­स्व­रू­प­प्र­ति­पा­द­ना­र्थ­म­क­स्मा­द­प्र­कृ­त­स्यापि लोकप्रसिद्धस्य जीव­स्या­नु­वा­द­स­म्भव इति परिहरति
नेति ।

ननु 'द्वा सुपर्णा' इत्यत्र बुद्धि­जी­व­यो­रुक्तेः कथमिदं सूत्रमित्यत आह
गुहामिति ।
स्थित्य­द­ना­भ्या­मी­श्व­र­क्षे­त्र­ज्ञ­यो­र­नु­वा­दे­नैक्यं दर्शितमित्यर्थः ।

नन्वत्र जीवेशौ नानुवाद्यौ, पैङ्गि­व्या­ख्या­वि­रो­धा­दतः सूत्रा­स­ङ्ग­ति­रि­त्यत आह
यदापीति ।
तदापि सूत्र­स्या­स­ङ्ग­ति­र्ना­स्ती­त्यर्थः ।

अदनवाक्येन बुद्धिमनूद्य स्थितिवाक्येन बुद्ध्या­दि­वि­ल­क्ष­ण­शु­द्ध­प्र­त्य­ग्ब्र­ह्मणो ज्ञेय­स्यो­क्ते­र्द्यु­भ्वा­दि­वाक्ये तदेव ग्राह्यम् , न बुद्ध्युपहितो जीव इति सूत्रसङ्गतिमाह
कथमित्यादिना ।

नन्वत्रानुपहितो जीव उक्तो न परं ब्रह्मेत्यत आह
यस्त्विति ।

पौनरुक्त्यं शङ्कते
तदेतदिति ।
द्युभ्वा­दि­वा­क्यस्य ब्रह्म­प­र­त्व­मि­त्यर्थः ।

समाधत्ते
प्रपञ्चार्थमिति ।
सेतु­श­ब्द­व्या­ख्या­नेन भूतयोनेः प्रत्य­गा­त्म­त्व­स्फु­टी­क­र­णा­र्थ­मि­त्यर्थः । तस्मा­न्मु­ण्ड­को­प­नि­ष­द्ब्र­ह्मणि समन्वितेति सिद्धम् ॥ ७ ॥

भूमा । छान्दो­ग्य­मु­दा­ह­रति
इदमिति ।

नाल्पे सुखमस्ति भूमैव सुखम् , तस्मा­न्नि­र­ति­श­य­सु­खा­र्थिना भूमैव विचार्य इति नारदं प्रति सन­त्कु­मा­रे­णोक्ते सति नारदो ब्रूते
भूमानमिति ।

भूम्नो लक्ष­ण­म­द्वि­ती­य­त्व­माह
यत्रेति ।

भूमलक्षणं परि­च्छि­न्न­ल­क्ष­णोक्त्या स्फुटयति
अथेति ।

अत्र संशयबीजं प्रश्नपूर्वकमाह
कुत इत्यादिना ।
बहोर्भाव इति विग्रहे 'पृथ्वा­दिभ्य इमनिच्' इतीमन्प्रत्यये कृते 'बहोर्लोपो भू च बहोः' इति सूत्रेण बहोः पर­स्ये­म­नि­च्प्र­त्य­य­स्या­दे­रि­का­रस्य लोपः स्यात् , बहोः स्थाने भूरित्यादेशश्च स्यादि­त्यु­क्ते­र्भू­म­न्निति शब्दो निष्पन्नः । तस्य भावा­र्थ­के­म­न्प्र­त्य­या­न्त­त्वा­द्ब­हुत्वं वाच्यम् । तत्कि­न्ध­र्मि­क­मि­त्या­का­ङ्क्षायां संनि­हि­त­प्र­क­र­णस्थः प्राणो धर्मो भाति । वाक्योपक्रमस्थ आत्मापि स्वप्र­ति­पा­द­ना­पेक्षो धर्मित्वेन भातीति संनि­हि­त­व्य­व­हि­त­प्र­क­र­णाभ्यां संशय इत्यर्थः ।

पूर्व­मा­त्म­श­ब्दा­त्द्यु­भ्वा­द्या­य­तनं ब्रह्मे­त्यु­क्तम् , तदयुक्तम् , 'तरति शोक­मा­त्म­वित्' इत्य­ब्र­ह्म­ण्य­प्या­त्म­श­ब्द­प्र­यो­गा­दि­त्या­क्षे­प­स­ङ्गत्या पूर्वपक्ष्यति
प्राणो भूमेति ।
धर्म­ध­र्मि­णो­र­भे­दा­त्सा­मा­ना­धि­क­रण्यं दृष्टव्यम् । पूर्वो­त्त­र­प­क्षयोः प्राणोपास्तिः ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम् ।

अत्राध्याये भूयः प्रश्नो­त्त­र­भे­दा­द­र्थ­भेदो दृश्यते । भूमा तु प्राणात्परं भूयःप्रश्नं विनै­वो­क्त­लि­ङ्गेन प्राणादभिन्न इत्याह
कस्मादित्यादिना ।
प्राणाद्भूय इति न दृश्यत इति पूर्वेण सम्बन्धः ।

ननु 'एष तु वा अतिवदति' इति तुशब्देन प्राण­प्र­क­र­ण­वि­च्छे­दान्न प्राणो भूमेत्यत आह
प्राणमेवेति ।
नामा­द्या­शा­न्ता­नु­पा­स्या­न­तीत्य प्राणं श्रेष्ठं वदतीत्यतिवादि प्राणविद्तं प्रति अतिवाद्यसीति केनचित्प्रश्ने कृते अस्मीति ब्रूयात् , नाह­म­ति­वा­दी­त्य­प­ह्नवं न कुर्या­दि­त्यु­क्तम् । प्राणविदमेष इति परामृश्य सत्य­व­च­न­ध्या­न­म­न­न­श्र­द्धा­दि­ध­र्म­प­र­म्परां विधाय भूमोपदेशान्न प्रकरणविच्छेदः । तुशब्दो नामा­द्यु­पा­स­क­स्या­ति­वा­दि­त्व­नि­रा­सार्थ इत्यर्थः ।

भूम्नो लक्षणवचनं सुखत्वममृतत्वं च प्राणे प्रश्नपूर्वकं योजयति
कथं पुनरित्यादिना ।
प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुषुप्तपुरुष इति शेषः । 'गार्ह­पत्यो ह वा एषोऽपानो व्यानोऽ­न्वा­हा­र्य­प­चन आहवनीयः प्राणः' इति श्रुतेः प्राणा अग्नय इह पुरे शरीरे जाग्रति सव्यापारा एव तिष्ठ­न्ती­त्यर्थः । देवो जीवः । अथ तदा स्वप्ना­द­र्श­न­काले सुख­श्र­व­णा­त्प्रा­णस्य सुख­त्व­म­वि­रु­द्ध­मि­त्य­न्वयः ।

आत्म­प­दे­नो­प­क्र­म­वि­रोधं परिहरति
प्राण एवेति ।

प्राण­स्या­त्मत्वं कथमित्याशङ्क्य श्रुत­त्वा­दि­त्याह
तथा हीति ।
सर्वं समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुति­रि­त्य­न्वयः । अत आत्मत्वं प्राणेपि मुख्यमिति भावः ।

भूमरूपत्वं योजयति -
सर्वात्मत्वेति ।

सम्प्रसादशब्देन प्राणं लक्षयितुं मुख्यार्थं दर्शयति
सम्प्रसाद इति ।
स वा एष एत­स्मि­न्स­म्प्र­सादे स्थित्वा पुनराद्रवतीति प्रयोगाच्च ।

तत्पदं सुषु­प्ति­वा­च­क­मि­त्याह
बृहदिति ।

वाच्या­र्थ­स­म्ब­न्धा­त्प्राणो लक्ष्य इत्याह
तस्यां चेति ।
अत्र सूत्र इत्यर्थः । भूमा प्राणा­द्भि­न्नोऽ­त्रा­ध्याये, तस्मा­दू­र्ध्व­मु­प­दि­ष्ट­त्वात् , नामा­दे­रू­र्ध्व­मु­प­दि­ष्ट­वा­गा­दि­व­दि­त्यर्थः ।

विप­क्ष­हे­तू­च्छेदं बाधकमाह
प्राण एव चेदिति ।
स्वस्यैव स्वस्मा­दू­र्ध्व­मु­प­दि­ष्ट­त्व­म­यु­क्तम् , नामादिष्वदृष्टं चेत्यर्थः ।

हेत्वसिद्धिं शङ्कते
नन्विहेति ।

प्रकृ­त­प्रा­ण­वि­त्प­रा­म­र्शक एषशब्दो न भवति, तस्य यच्छ­ब्द­प­र­त­न्त्र­त्वेन सत्य­वा­दि­वा­चि­त्वात् । अतः प्राणप्रकरणं विच्छिन्नमिति हेतु­सि­द्वि­रि­त्याह
अत्रोच्यत इति ।
सत्ये­ना­ति­वा­दित्वं विशेषः, तद्वतो य एष इत्युक्तेर्न पूर्वानुकर्ष इत्यर्थः ।

य एष प्राण­वि­द­ति­व­द­ती­त्य­नूद्य स सत्यं वदेदिति विधानान्न प्राण­प्र­क­र­ण­वि­च्छेद इति दृष्टान्तेन शङ्कते
नन्विति ।

सत्यशब्दो ह्यबाधिते रूढो ब्रह्मवाचकः, तदन्यस्य मिथ्यात्वात् । सत्यवचने त्वबा­धि­ता­र्थ­स­म्ब­न्धा­ल्ला­क्ष­णिक इति नात्र लक्ष्य­व­च­न­वि­धि­रि­त्याह
नेति ब्रूम इति ।

किञ्च सत्येन ब्रह्म­णा­ति­व­द­तीति तृतीयाश्रुत्या ब्रह्म­क­र­ण­क­म­ति­वा­दित्वं श्रुतम् , तस्य प्रकरणाद्बाधो न युक्त इत्याह
श्रुत्या हीत्यादिना ।

अत्रेति ।
सत्यवाक्य इत्यर्थः ।

एवं सत्येनेति श्रुत्या प्रकरणं बाध्य­मि­त्युक्त्वा तुशब्देनापि बाध्यमाह
प्रकृतेति ।

विजि­ज्ञा­स्य­त्व­लि­ङ्गाच्च पूर्वो­क्ता­द्भि­न्न­मि­त्याह
सत्यं त्वेवेति ।

प्रकरणविच्छेदे दृष्टान्तमाह
तस्मादिति ।
श्रुति­लि­ङ्ग­ब­ला­दे­त­त्सत्यं प्रकृ­ता­त्प्रा­णा­त्प्रा­धा­न्येन भिन्नं द्रष्ट­व्य­मि­त्यर्थः ।

एवमतिवादित्वस्य ब्रह्म­स­म्ब­न्धोक्त्या प्राणलिङ्गत्वं निरस्तम् । यत्तु प्रश्नं विनो­क्त­त्व­लि­ङ्गा­द्भूमा प्राण इति, तन्न, तस्या­प्र­यो­ज­क­त्वा­दि­त्याह
न चेति ।
प्रश्न­भे­दा­द­र्थ­भेद इति न नियमः, एकस्यात्मनो मैत्रेय्या बहुशः पृष्टत्वात् । प्रश्नं विनो­क्त­चा­तु­र्वे­दस्य प्रकृ­तै­क­वे­दा­द्भि­न्न­त्व­द­र्श­ना­च्चे­त्यर्थः ।

तत्र यथा चतुर्वेदत्वस्य प्रकृ­ता­स­म्ब­न्धा­द­र्थ­भेदः, एवमिहापीति स्फुटयति
तत्रेत्यदिना ।

सत्यपदेन प्राणो­क्ति­रि­त्यत आह
तत्र सत्यमिति ।

विज्ञानं निदिध्यासनम् । आदि­प­दा­न्म­न­न­श्र­द्धा­श्र­व­ण­म­नः­शु­द्धि­नि­ष्टा­त­द्धे­तु­क­र्माणि गृह्यन्ते । इमान्यपि श्रवणादीनि ज्ञेयस्य सत्यस्य ब्रह्मत्वे लिङ्गानि । एवं श्रुतिलिङ्गैः प्राण­स्या­वा­न्त­र­प्र­क­रणं बाधित्वा प्रस्तुतं सत्यं ब्रह्म भूम­प­दो­क्त­ब­हु­त्व­ध­र्मी­त्याह
तत्र यदिति ।

किञ्च 'संनि­हि­ता­दपि व्यवहितं साकाङ्क्षं बलीयः' इति न्यायेन संनिहितं निराकाङ्क्षं प्राणं दृष्ट्वा वाक्योपक्रमस्थ आत्मा स्वप्रतिपादनाय भूमवाक्यापेक्ष इह भूमा ग्राह्य इत्याह
एवं चेति ।

किञ्च शोकस्य पार­मि­त्यु­प­क्रम्य तमसः पार­मि­त्यु­प­सं­हा­रात् , शोकस्य मूलोच्छेदं विना तरणायोगाच्च, शोकपदेन मूलतमो गृह्यते । तन्नि­व­र्त­क­ज्ञा­न­ग­म्य­त्व­लि­ङ्गा­दात्मा ब्रह्मेत्याह
न चान्यत्रेति ।
ब्राह्म­ण­मा­त्मा­य­त्तत्वं प्राणस्य वदतीति सम्बन्धः ।

नन्विदं चरमं ब्राह्मणं ब्रह्मपरमस्तु, ततः प्रागुक्तो भूमा प्राण इति शङ्कते
प्रकरणान्त इति ।

तच्छब्देन भूमा­नु­क­र्षा­न्मै­व­मि­त्याह
नेति ॥ ८ ॥

भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह
धर्मेति ।
सूत्रम् ।

यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदनूद्य विघटयति
योऽप्य­सा­वि­त्या­दिना ।
सति बुद्ध्या­द्यु­पा­धा­वा­त्मनो द्रष्टृत्वादिः, तदभावे सुषुप्तौ तदभाव इत्य­स­ङ्ग­त्व­ज्ञा­नार्थं प्रश्नोपनिषदि 'न शृणोति न पश्यति' इति परमात्मानं प्रकृत्योक्तम् । तथा तत्रैवात्मनः सुखत्वमुक्तं न प्राणस्य । यतः श्रुत्य­न्त­र­मा­त्मन एव सुखत्वमाह तस्मादित्यर्थः । आमयो नाशादिदोषः तत्सहितं सामयम् । आर्तं नश्वरम् । 'स एवाधस्तात्स उप­रि­ष्टात्' इति सर्वगतत्वम् , 'स एवेदं सर्वम्' इति सर्वात्मत्वं च श्रुतम् , तस्मा­द्भू­मा­ध्यायो निर्गुणे समन्वित इति सिद्धम् ॥ ९ ॥

अक्ष­र­म­म्ब­रा­न्त­धृतेः । बृहदारण्यकं पठति
कस्मिन्न्विति ।
यद्भूतं भवच्च भविष्यच्च तत्सर्वं कस्मिन्नोतमिति गार्ग्या पृष्टेन मुनिना याज्ञ­व­ल्क्ये­ना­व्या­कृ­ता­काशः कार्यमात्राश्रय उक्तः । आकाशः कस्मिन्नोत इति द्वितीयप्रश्ने स मुनिरुवाच, तद­व्या­कृ­त­स्या­धि­क­र­ण­मे­त­द­क्ष­र­म­स्थू­ला­दि­रू­प­मि­त्यर्थः । उभ­य­त्रा­क्ष­र­श­ब्द­प्र­यो­गा­त्सं­शयः । यथा सत्यशब्दो ब्रह्मणि रूढ इति ब्रह्म भूमेत्युक्तं तथाक्षरशब्दो वर्णे रूढ इति दृष्टान्तेन पूर्वपक्षः । तत्र ओङ्कारोपास्तिः फलम् , सिद्धान्ते निर्गु­ण­ब्र­ह्म­धी­रिति विवेकः ।

ननु न क्षर­ती­त्य­च­ल­त्वा­ना­शि­त्व­यो­गा­द्ब्र­ह्म­ण्य­प्य­क्ष­र­शब्दो मुख्य इत्यत आह
प्रसि­द्ध्य­ति­क्र­म­स्येति ।
'रूढि­र्यो­ग­म­प­ह­रति' इति न्यायादित्यर्थः ।

वर्णस्य ओङ्कारस्य सर्वाश्रयत्वं कथमित्याशङ्क्य ध्यानार्थमिदं यथा श्रुत्यन्तरे सर्वा­त्म­त्व­मि­त्याह
ओङ्कार इति ।

प्रश्न­प्र­ति­व­च­ना­भ्या­मा­का­शा­न्त­ज­ग­दा­धा­रत्वे तात्प­र्य­नि­श्च­यान्न ध्यानार्थता, अत­स्त­ल्लि­ङ्ग­ब­ला­द्रूढिं बाधित्वा योग­वृ­त्ति­र्ग्रा­ह्येति सिद्वान्तयति
एवमित्यादिना ॥ १० ॥

आकाशं भूतं कृत्वा शङ्कते
स्यादेतदिति ।

चेत­न­क­र्तृ­क­शि­क्षाया अत्र श्रुते­र्मै­व­मि­त्याह
सा चेति ।

सूत्रं व्याचष्टे
सा चेति ।
चकार आकाशस्य भूत­त्व­नि­रा­सार्थः । भूताकाशस्य कार्यन्तःपातिनः श्रुत­स­र्व­का­र्या­श्र­य­त्वा­यो­गा­द­व्या­कृ­त­म­ज्ञा­न­मे­वा­काशः प्रधानशब्दित इति तदा­श्र­य­त्वा­च्चा­क्षरं न प्रधानमित्यर्थः । विधृतौ विषयत्वेन धृतौ ॥ ११ ॥

प्रश्नपूर्वकं सूत्रं व्याकरोति
किमिदमिति ।

घट­त्वा­द्व्या­वृ­त्ति­रिति भ्रान्तिं निरस्यति
एतदिति ।
अम्ब­रा­न्त­स्या­धा­र­म­क्षरं श्रुति­र­चे­त­न­त्वा­द्व्या­व­र्त­य­ती­त्यर्थः ।

जीव­नि­रा­स­प­र­त्वे­नापि सूत्रं योजयति
तथेति ।
अन्यभावो भेद­स्त­न्नि­षे­धा­दिति सूत्रार्थः ।

तर्हि शोधितो जीव एवाक्षरं न पर इत्यत आह
नहीति ।
शोधिते जीवत्वं नास्तीत्यर्थः । तस्मा­द्गा­र्गि­ब्रा­ह्मणं निर्गुणाक्षरे समन्वितमिति सिद्धम् ॥ १२ ॥

ईक्ष­ति­क­र्म­व्य­प­दे­शात्सः । प्रश्नो­प­नि­ष­द­मु­दा­ह­रति
एतदिति ।

पिप्पलादो गुरुः सत्यकामेन पृष्टो ब्रूते, हे सत्यकाम, परं निर्गुणमपरं सगुणं ब्रह्मैतदेव योऽयमोङ्कारः । स हि प्रतिमेव विष्णोस्तस्य प्रतीकः । तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनैव ओङ्का­र­ध्या­ने­ना­य­त­नेन प्राप्तिसाधनेन यथाध्यानं परमपरं वान्वेति प्राप्नोतीति प्रकृत्य मध्ये एक­मा­त्र­द्वि­मा­त्रो­ङ्का­र­यो­र्ध्या­न­मुक्त्वा ब्रवीति
यः पुनरिति ।
इत्थम्भावे तृतीया, ब्रह्मो­ङ्का­र­यो­र­भे­दो­प­क्र­मात् । यो ह्यका­रा­दि­मा­त्रा­त्रये एकस्या मात्राया अकारस्य ऋष्यादिकं जाग्र­दा­दि­वि­भूतिं च जानाति तेन सम्यग्ज्ञाता एका मात्रा यस्योङ्कारस्य स एकमात्रः । एवं मात्राद्वयस्य सम्य­ग्वि­भू­ति­ज्ञाने द्विमात्रस्तथा त्रिमात्रः । तमोङ्कारं पुरुषं योऽभिध्यायीत स ओङ्का­र­वि­भू­ति­त्वेन ध्यातैः सामभिः सूर्यद्वारा ब्रह्मलोकं गत्वा परमात्मानं पुरुषमीक्षत इत्यर्थः ।

संशयं तद्बीजं चाह
किमित्यादिना ।
अस्मिन् त्रिमात्रवाक्य इत्यर्थः । पूर्वत्र पूर्व­प­क्ष­त्वे­नोक्ते ओङ्कारे बुद्धिस्थं ध्यातव्यं निश्चीयत इति प्रसङ्गसङ्गतिः ।

यद्वा पूर्वत्र वर्णे रूढ­स्या­क्ष­र­श­ब्दस्य लिङ्गा­द्ब्र­ह्मणि वृत्तिरुक्ता, तद्वदत्रापि ब्रह्म­लो­क­प्रा­प्ति­लि­ङ्गा­त्प­र­श­ब्दस्य हिरण्यगर्भे वृत्तिरिति दृष्टान्तेन पूर्वपक्षयति
तत्रापरमिति ।
कार्य­प­र­ब्र­ह्म­णो­रू­पा­स्ति­रू­भ­यत्र फलम् । स उपासकः । सूर्ये सम्पन्नः प्रविष्टः ।

ननु वसुदान ईश्वर इति ध्यानाद्विन्दते वस्वित्यल्पमपि फलं ब्रह्मोपासकस्य श्रुतमित्यत आह
नहीति ।
अन्यत्र तथात्वेऽपि अत्र पर­वि­त्प­र­म­प­र­वि­द­प­र­म­न्वे­ती­त्यु­प­क्र­मा­त्प­र­वि­दोऽ­प­र­प्रा­प्ति­र­युक्ता, उपक्रमविरोधात् । न चात्र पर­प्रा­प्ति­रे­वो­क्तेति वाच्यम् , परस्य सर्व­ग­त­त्वा­द­त्रैव प्राप्तिसम्भवेन सूर्यद्वारा गतिवैयर्थ्यात् । तस्मा­दु­प­क्र­मा­नु­गृ­ही­ता­द­प­र­प्रा­प्ति­रू­पा­ल्लि­ङ्गा­त्परं पुरुषमिति पर­श्रु­ति­र्बा­ध्ये­त्यर्थः ।

परश्रुतेर्गतिं पृच्छति
नन्विति ।
पिण्डः स्थूलो विराट्तदपेक्षया सूत्रस्य परत्वमिति समाध्यर्थः ।

सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञतत्वेन तं व्याचष्टे
परमेवेति ।
स उपासक एत­स्मा­द्धि­र­ण्य­ग­र्भा­त्परं पुरुषं ब्रह्मा­ह­मि­ती­क्षत इत्यर्थः ।

नन्वी­क्ष­ण­वि­ष­योऽ­प्य­प­रोस्तु, तत्राह
तत्रा­भि­ध्या­य­ते­रिति ।

नन्वीक्षणं प्रमा­त्वा­द्वि­ष­य­स­त्य­ता­म­पे­क्षत इति भवतु सत्यः पर ईक्षणीयः । ध्यात­व्य­स्त्व­स­त्योऽ­परः किं न स्यादित्यत आह
स एवेति ।
श्रुतिभ्यां प्रत्य­भि­ज्ञा­नात्स एवायमिति सौत्रः सशब्दो व्याख्यातः । अत्रैवं सूत्रयोजना ओङ्कारे यो ध्येयः स पर एवात्मा, वाक्यशेषे ईक्ष­णी­य­त्वोक्तेः । अत्र च श्रुति­प्र­त्य­भि­ज्ञा­नात्स एवायमिति ।

ननु शब्दभेदान्न प्रत्यभिज्ञेति शङ्कते
नन्विति ।

परात्पर इति शब्द­भे­द­म­ङ्गी­कृत्य श्रुति­भ्या­मु­क्त­प्र­त्य­भि­ज्ञाया अविरोधमाह
अत्रेति ।

ननु 'एत­स्मा­ज्जी­व­घ­ना­त्प­रात्' इत्ये­त­त्प­दे­नो­प­क्रा­न्त­ध्या­त­व्य­प­रा­म­र्शा­दी­क्ष­णीयः परात्मा ध्येयादन्य इत्यत आह
न चात्रेति ।
ध्यानस्य तत्फलेक्षणस्य च लोके समा­न­वि­ष­य­त्वा­द्ध्येय एवेक्षणीयः । एवं चोप­क्र­मो­प­सं­हा­र­यो­रे­क­वा­क्यता भवतीति भावः ।

''स सामभिरून्नीयते ब्रह्मलोकम्” 'स एत­स्मा­ज्जी­व­घ­नात्' इत्येतत्पदेन संनिहिततरो ब्रह्मलोकस्वामी परामृश्यत इति प्रश्नपूर्वकं व्याचष्टे
कस्त­र्ही­त्या­दिना ।
'मूर्तौ घनः' इति सूत्रादिति भावः । सैन्धवखिल्यो लवणपिण्डः । खिल्यवदल्पो भावः परिच्छेदो यस्य स खिल्यभावः ।

एतत्पदेन ब्रह्मलोको वा परामृश्यत इत्याह
अपर इति ।

जीवघनशब्दस्य ब्रह्मलोके लक्षणां दर्शयति
जीवानां हीति ।
व्यष्टि­क­र­णा­भि­मा­निनां जीवानां घनः सङ्घातो यस्मि­न्स­र्व­क­र­णा­भि­मा­निनि स जीवघनः तत्स्वा­मि­क­त्वा­त्प­र­म्प­रा­स­म्ब­न्धेन लोको लक्ष्य इत्यर्थः । तस्मात्परः सर्वलोकातीतः शुद्ध इत्यर्थः ।

परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह
परमिति ।
यस्मात्परं नापरमस्ति किञ्चित्स एवं मुख्यः परः न तु पिण्डात्परः सूत्रा­त्मे­त्यर्थः ।

किञ्च परशब्देनोपक्रमे निश्चितं परं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यमित्याह
परं चापरं चेति ।

पाप­नि­वृ­त्ति­लि­ङ्गा­च्चे­त्याह
यथेति ।
पादोदरः सर्पः ।

ओङ्कारे परब्रह्मोपासनया सूर्यद्वारा ब्रह्मलोकं गत्वा पर­ब्र­ह्मे­क्षित्वा तदेव शान्तमभयं परं प्राप्नो­ती­त्य­वि­रो­ध­माह
अत्रोच्यत इति ।
एव­मे­क­वा­क्य­ता­स­म­र्थ­न­प्र­क­र­णा­नु­गृ­ही­त­प­र­पु­रु­ष­श्रु­तिभ्यां पर­ब्र­ह्म­प्र­त्य­भि­ज्ञया ब्रह्म­लो­क­प्रा­प्ति­लिङ्गं बाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १३ ॥

दहर उत्तरेभ्यः । छान्दो­ग्य­मु­दा­ह­रति
अथेति ।
भूमविद्यानन्तरं दह­र­वि­द्या­प्रा­र­म्भा­र्थोऽ­थ­शब्दः । ब्रह्म­णोऽ­भि­व्य­क्ति­स्था­न­त्वा­द्ब्र­ह्म­पुरं शरीरम् । अस्मिन् यत्प्रसिद्धं दहरमल्पं हृत्पद्मं तस्मिन्हृदये यद­न्त­रा­का­श­श­ब्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः ।

अत्राकाशो जिज्ञास्यः, तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः । तत्र यद्याकाशस्तदा संशयद्वयम् । तत्रा­का­श­श­ब्दा­देकं संशयमुक्त्वा ब्रह्म­पु­र­श­ब्दा­त्सं­श­या­न्त­र­माह
तथा ब्रह्मपुरमितीति ।
अत्र शब्दे । जीवस्य ब्रह्मणो वा पुरमिति संशयः । तत्र तस्मिन्संशये सतीति योजना ।

परपुरुषशब्दस्य ब्रह्मणि मुख्य­त्वा­द्ब्रह्म ध्येय­मि­त्यु­क्तम् । तथे­हा­प्या­का­श­प­दस्य भूताकाशे रूढ­त्वा­द्भू­ता­काशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति
तत्रा­का­शे­त्या­दिना ।
दह­र­वा­क्य­स्या­न­न्त­र­प्र­जा­प­ति­वा­क्यस्य च सगुणे निर्गुणे च समन्वयोक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे भूता­का­शा­द्यु­पास्तिः, सिद्धान्ते सगु­ण­ब्र­ह्मो­पास्त्या निर्गुणधीरिति फलभेदः । नच 'आका­श­स्त­ल्लि­ङ्गात्' इत्यनेनास्य पुनरुक्तता शङ्कनीया । अत्र तस्मिन् 'यद­न्त­स्त­द­न्वे­ष्ट­व्यम्' इत्याकाशान्तः स्थस्या­न्वे­ष्ट­व्य­त्वा­दि­लि­ङ्गा­न्व­येन दहराकाशस्य ब्रह्मत्वे स्पष्ट­लि­ङ्गा­भा­वात् ।

ननु भूता­का­श­स्या­ल्पत्वं कथम् , एक­स्यो­प­मा­न­त्व­मु­प­मे­यत्वं च कथम् , 'उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च' इत्यादिना श्रुत­स­र्वा­श्र­यत्वं च कथमित्याशङ्क्य क्रमेण परिहरति
तस्येत्यादिना ।
हृदयापेक्षया अल्पत्वम् , ध्यानार्थं कल्पि­त­भे­दा­त्सा­दृ­श्यम् , स्वत एक­त्वा­त्स­र्वा­श्र­य­त्व­मि­त्यर्थः ।

ननु 'एष आत्मा' इत्यात्मशब्दो भूते न युक्त इत्यरूचेराह
अथवेति ।

भक्त्येति ।
चैत­न्य­गु­ण­यो­गे­ने­त्यर्थः ।

मुख्यं ब्रह्म गृह्यतामित्यत आह
न हीति ।

अस्तु पुरस्वामीजीवः, हृदयस्थाकाशस्तु ब्रह्मेत्यत आह
तत्रेति ।
पुरस्वामिन एव तद­न्तः­स्थ­त्व­स­म्भ­वा­न्ना­न्या­पे­क्षे­त्यर्थः ।

व्यापि­नोऽ­न्तः­स्थत्वं कथमित्यत आह
मन इति ।

आकाशपदेन दह­र­म­नु­कृ­ष्यो­क्तो­प­मा­दिकं ब्रह्मा­भे­द­वि­व­क्षया भविष्यतीत्याह
आकाशेति ।

ननु जीव­स्या­का­श­प­दा­र्थ­त्व­म­यु­क्त­मि­त्या­शङ्क्य तर्हि भूताकाश एव दहरोऽस्तु तस्मि­न्न­न्तःस्थं किञ्चि­द्ध्ये­य­मिति पक्षान्तरमाह
न चात्रेति ।
परमन्तःस्थं वस्तु, तद्वि­शे­ष­ण­त्वे­ना­धा­र­त्वेन दहराकाशस्य तच्छ­ब्दे­नो­पा­दा­ना­दि­त्यर्थः । यद्वा अन्वे­ष्य­त्वा­दि­लि­ङ्गा­द्द­ह­रस्य ब्रह्म­त्व­नि­श्च­यात् 'आका­श­स्त­ल्लि­ङ्गात्' इत्यनेन गतार्थत्वमिति शङ्कात्र निरसनीया । अन्वेष्यत्वादेः परविशेषणत्वेन ग्रहणाद्दरहस्य ब्रह्मत्वे लिङ्गं नास्तीत्यर्थः ।

अप­ह­त­पा­प्म­त्वा­दि­लि­ङ्गो­पे­ता­त्म­क­श्रुत्या केव­ला­का­श­श्रु­ति­र्बा­ध्येति सिद्धान्तयति
परमेश्वर इत्यादिना ।
आका­श­स्या­क्षे­प­पू­र्व­क­मिति सम्बन्धः । तमाचार्यं प्रति यदि ब्रूयुः, हृदयमेव तावदल्पं तत्र­त्या­का­शोऽ­ल्प­तरः किं तदत्राल्पे विद्यते यद्विचार्य ज्ञेयमिति, तदा स आचार्यो ब्रूया­दा­का­श­स्या­ल्प­ता­नि­वृ­त्ति­मि­त्यर्थः ।

वाक्यस्य तात्पर्यमाह
तत्रेति ।
निवर्तयति । आचार्य इति शेषः ।

नन्वाकाशशब्देन रूढ्या भूताकाशस्य भानात्कथं तन्नि­वृ­त्ति­रि­त्या­श­ङ्क्याह
यद्यपीति ।
ननु 'राम­रा­व­ण­यो­र्युद्धं राम­रा­व­ण­यो­रिव' इत्य­भे­देऽ­प्यु­पमा दृष्टेतिचेत् , न अभेदे सादृ­श्य­स्या­न­न्व­येन युद्धस्य निरूपमत्वे तात्प­र्या­द­य­म­न­न्व­या­ल­ङ्कार इति काव्यविदः ।

पूर्वोक्तमनूद्य निरस्यति
नन्वित्यादिना ।
'सीता­श्लिष्ट इवाभाति कोदण्डप्रभया युतः' इत्यादौ प्रभा­यो­ग­सी­ता­श्ले­ष­रू­प­वि­शे­ष­ण­भे­दा­द्भे­दा­श्र­य­ण­मे­क­स्यैव श्रीरा­म­स्यो­प­मा­नो­प­मे­य­भा­व­सि­द्ध्य­र्थ­म­गत्या कृत­मि­त्य­नु­दा­ह­रणं द्रष्टव्यम् । नैवमत्राश्रयणं युक्तम् । वाक्य­स्या­ल्प­त्व­नि­वृ­त्ति­प­र­त्वेन गतिसद्भावात् ।

किञ्च हार्दा­का­श­स्या­न्त­र­त्वा­त्यागे अल्पत्वेन व्याप­क­बा­ह्या­का­श­सा­दृश्यं न युक्तमित्याह
अपिचेति ।
आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमिति भावः ।

ननु हार्दा­का­श­स्या­ल्प­त्व­नि­वृत्तौ तावत्त्वे च तात्पर्यं किं न स्यादित्यत आह
उभयेति ।
अतोऽ­ल्पा­व­नि­वृ­त्ता­वेव तात्पर्यमिति भावः ।

एव­मा­का­शो­प­मि­त­त्वा­द्द­ह­रा­काशो न भूतमित्युक्तम् । सर्वा­श्र­य­त्वा­दि­लि­ङ्गे­भ्यश्च तथेत्याह
नचेत्यादिना ।
विगता जिघत्सा जग्धुमिच्छा यस्य सोऽयं विजिघत्सः । बुभुक्षाशून्य इत्यर्थः ।

प्रथ­म­श्रु­त­ब्र­ह्म­श­ब्देन तत्सा­पे­क्ष­च­र­म­श्रु­त­ष­ष्ठी­वि­भ­क्त्यर्थः सम्बन्धो नेयः, न तु ब्रह्मणः पुरमिति षष्ठ्यर्थः स्वस्वामिभावो ग्राह्यः 'निर­पे­क्षेण तत्सापेक्षं बाध्यम्' इति न्यायादित्याह
अत्र ब्रूम इति ।

शरीरस्य ब्रह्मण तदु­प­ल­ब्धि­स्था­न­त्व­रूपे सम्बन्धे मानमाह
स इति ।
पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः ।

ननु ब्रह्मशब्दस्य जीवेऽ­प्य­न्ना­दिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठ्यर्थः कथञ्चिन्नेय इत्यत आह
अथवेति ।
बृंहयति देहमिति ब्रह्म जीवः तत्स्वामिके पुरे हृदयं ब्रह्मवेश्म भवतु, राजपुरे मैत्र­स­द्भा­व­दि­त्यर्थः ।

अन­न्त­फ­ल­लि­ङ्गा­दपि दहरः परमात्मेत्याह
तद्यथेति ।
अथ कर्म­फ­ला­द्वौ­रा­ग्या­न­न्त­र­मिह जीव­द­शा­या­मा­त्मानं दहरं तदाश्रितांश्च सत्य­का­मा­दि­गु­णा­ना­चा­र्यो­प­दे­श­म­नु­विद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां सर्व­लो­के­ष्व­न­न्त­मै­श्वर्यं स्वेच्छया सञ्चलनादिकं भवतीत्यर्थः ।

दहरे उक्त­लि­ङ्गा­न्य­न्य­था­सि­द्धानि तेषां तद­न्तः­स्थ­गु­ण­त्वा­दि­युक्तं स्मारयित्वा दूषयति
यदपीत्यादिना ।

उत्त­र­त्रा­का­श­स्व­रू­प­प्र­ति­पा­द­ना­न्य­था­नु­प­पत्त्या पूर्वं तस्या­न्वे­ष्य­त्वा­दि­क­मि­त्य­त्रा­न्य­थो­प­पत्तिं शङ्कते
नन्विति ।
एतत् आकाशस्वरूपम् । आक्षे­प­बी­ज­मा­का­श­स्या­ल्प­त्व­मु­प­मया निर­स्या­न्तः­स्थ­व­स्तू­क्ते­स्त­द­न्तः­स्थ­मेव ध्येयमित्यर्थः ।

तर्हि जगदेव ध्येयं स्यादित्याह
नैतदेवमिति ।

अस्तु को दोषः, तत्राह
तत्रेति ।
सर्वनामभ्यां दह­रा­का­श­मा­कृ­ष्या­त्म­त्वा­दि­गु­णा­नुक्त्वा गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो ब्रूते तद्विरोध इत्यर्थः ।

'तस्मिन् यदन्तः'इति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह
तस्मादिति ।

यद्वा आकाशस्तस्मिन् यद­न्त­स्त­दु­भ­य­म­न्वे­ष्ट­व्य­मिति योजनां सूचयति
सहान्तःस्थैरिति ॥ १४ ॥

दहराकाशस्य ब्रह्मत्वे हेत्वन्तरमाह
गतीति ।
प्रजा जीवा एतं हृदयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छ­न्त्य­स्त­दा­त्मना स्थिता अप्य­नृ­ता­ज्ञा­ने­ना­वृ­तास्तं न जानन्ति अतः पुन­रु­त्ति­ष्ठ­न्ती­त्यर्थः ।

नन्वे­त­त्प­द­प­रा­मृ­ष्ट­द­ह­रस्य स्वापे जीवगम्यत्वेऽपि ब्रह्मत्वे किमा­या­त­मि­त्य­शङ्क्य 'तथा हि दृष्टम्' इति व्याचष्टे
तथा हीति ।

लोकेऽपि दृष्ट­मि­त्य­र्था­न्त­र­माह
लोकेऽपीति ।

गतिलिङ्गं व्याख्याय शब्दं व्याचष्टे
तथेति ।
जीव­भू­ता­का­श­यो­र्ब्र­ह्म­लो­क­श­ब्द­स्या­प्र­सि­द्धे­रिति भावः ।

ब्रह्मण्यपि तस्याप्रसिद्धिं शङ्कते
नन्विति ।

निषा­द­स्थ­प­ति­न्या­येन समाधत्ते
गमयेदिति ।
षष्ठे चिन्तितम् स्थपतिर्निषादः, शब्दसामर्थ्यात् । रौद्रीमिष्टिं विधाय 'एतया निषादस्थपतिं याजयेत्' इत्याम्नायते । तत्र निषादानां स्थपतिः स्वामीति षष्ठीसमासेन त्रैवर्णिको ग्राह्यः, अग्नि­वि­द्या­दि­सा­म­र्थ्यात् । न तु निषादश्चासौ स्थपतिरिति कर्मधारयेण निषादो ग्राह्यः, असामर्थ्यादिति प्राप्ते सिद्धान्तः । निषाद एव स्थपतिः स्यात् , निषादशब्दस्य निषादे शक्तत्वात् , तस्या­श्रु­त­ष­ष्ठ्य­र्थ­स­म्ब­न्ध­ल­क्ष­क­त्व­क­ल्प­ना­यो­गा­त्श्रु­त­द्वि­ती­या­वि­भक्तेः पूर्व­प­द­स­म्ब­न्ध­क­ल्प­नायां लाघवात् , अतो निषा­द­स्ये­ष्टि­सा­म­र्थ्य­मात्रं कल्प्यमिति । तद्व­द्ब्र­ह्म­लो­क­शब्दे कर्मधारय इत्यर्थः ।

कर्मधारये लिङ्गं चास्तीति व्याचष्टे
एतदेवेति ।
सूत्रे चकार उक्त­न्या­य­स­मु­च्च­यार्थः ॥ १५ ॥

सर्व­ज­ग­द्धा­र­ण­लि­ङ्गाच्च दहरः पर इत्याह
धृतेरिति ।

नन्व­थ­श­ब्दा­द्द­ह­र­प्र­क­रणं विच्छिद्य श्रुता धृतिर्न दहरलिङ्गमिति शङ्कते
कथमिति ।

'य आत्मा’ इति प्रकृ­ता­क­र्षा­द­थ­शब्दो दहरस्य धृति­गु­ण­वि­धि­प्रा­र­म्भार्थ इत्याह
दह­रोऽ­स्मि­न्नि­त्या­दिना ।
श्रुतौ विधृतिशब्दः कर्तृवाचित्वात् क्तिजन्तः । सूत्रे तु महि­म­श­ब्द­सा­मा­ना­धि­क­र­ण्या­द्धृ­ति­शब्दः क्तिन्नन्तो विधारणं ब्रूते, 'स्त्रियां क्तिन्' इति भावे क्तिनो विधानादिति विभागः ।

सेतु­र­स­ङ्क­र­हेतुः, विधृतिस्तु स्थिति­हे­तु­रि­त्य­पौ­न­रु­क्त्य­माह
यथोदकेति ।

सूत्रं योजयति
एवमिहेति ।
धृतेश्च दहरः परः अस्य धृतिरूपस्य नियमनस्य च महि­म्नोऽ­स्मि­न्प­र­मा­त्म­न्येव श्रुत्यन्तर उपलब्धेरिति सूत्रार्थः ।

धृतेश्चेति चका­रा­त्से­तु­प­दो­क्त­नि­या­म­क­त्व­लिङ्गं ग्राह्यम् । तत्र नियमने श्रुत्य­न्त­रो­प­ल­ब्धि­माह
एतस्येति ।

धृतौ तमाह
तथेति ॥ १६ ॥

आ समन्तात्काशते दीप्यत इति स्वयञ्ज्योतिषि ब्रह्म­ण्या­का­श­श­ब्दस्य विभुत्वगुणतो वा प्रसिद्धिः प्रयो­ग­प्रा­चु­र्यम् ॥ १७ ॥

यदि 'एष आत्मा­प­ह­त­पाप्मा' इत्या­दि­वा­क्य­शे­ष­ब­लेन दहरः परस्तर्हि जीवोऽ­पी­त्या­शङ्क्य निषेधति
इतरेति ।

जीवस्यापि वाक्यशेषमाह
अथेति ।
दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते । य एष सम्प्रसादो जीवोऽ­स्मा­त्का­र्य­क­र­ण­स­ङ्घा­ता­त्स­म्य­गु­त्थाय आत्मानं तस्माद्विविच्य विविक्तमात्मानं स्वेन ब्रह्म­रू­पे­णा­भि­नि­ष्पद्य साक्षात्कृत्य तदेव प्रत्यक्परं ज्योति­रू­प­स­म्प­द्यते प्राप्नोतीति व्याख्येयम् । यथा मुखं व्यादाय स्वपितीति वाक्यं सुप्त्वा मुखं व्यादत्ते इति व्याख्यायते तद्वत् ।

ज्योति­षोऽ­ना­त्मत्वं निरस्यति
एष इति ।
'सम्प्र­सादे रत्वाचरित्वा’ इति श्रुत्यन्तरम् ।

अव­स्था­व­दु­त्था­न­मपि जीवस्य लिङ्गमित्याह
तथेति ।

तदाश्रितस्य तस्मा­त्स­मु­त्थाने दृष्टान्तः
यथेति ।

ननु क्वाप्या­का­श­शब्दो जीवे न दृष्ट इत्या­श­ङ्क्यो­क्ता­व­स्थो­त्था­न­लि­ङ्ग­ब­ला­त्कल्प्य इत्याह
यथा चेति ।

निया­म­का­भा­वा­ज्जीवो दहरः किं न स्यादिति प्राप्ते नियामकमाह
नैतदित्यादिना ।
दहरे श्रुत­ध­र्मा­णा­म­स­म्भ­वान्न जीवो दहर इत्यर्थः ।

तर्हि पुनरुक्तिः, तत्राह
अतिरेकेति ।
उत्त­रा­च्चे­त्या­धि­का­श­ङ्का­नि­रा­सा­र्थ­मि­त्यर्थः ।

का तर्हि जीवपरामर्शस्य गतिः, तत्राह
पठिष्यतीति ।
जीवस्य स्वाप­स्था­न­भू­त­ब्र­ह्म­ज्ञा­ना­र्थोऽयं परामर्श इति वक्ष्यते ॥ १८ ॥

असम्भवादिति हेतो­र­सि­द्धि­मा­शङ्क्य परिहरति
उत्तराच्चेदिति ।
सूत्रनिराकृताया जीवाशङ्कायाः प्रजा­प­ति­वा­क्य­ब­ला­त्पुनः समुत्थानं क्रियते । तत्र जीव­स्यै­वा­प­ह­त­पा­प्म­त्वा­दि­ग्र­ह­णे­ना­स­म्भ­वा­सि­द्धे­रि­त्यर्थः ।

कथं तत्र जीवोक्तिः, तत्राह
तत्रेत्यादिना ।
यद्यप्युपक्रमे जीवशब्दो नास्ति तथा­प्य­प­ह­त­पा­प्म­त्वा­दि­गु­ण­क­मा­त्मा­न­मु­प­क्रम्य तस्य जाग्र­दा­द्य­व­स्था­त्र­यो­प­न्या­सा­द­व­स्था­लि­ङ्गेन जीव­नि­श्च­या­त्त­स्यैव ते गुणाः सम्भवन्तीति समुदायार्थः ।

इन्द्रं प्रजापतिर्बूते
य एष इति ।

प्राधा­न्या­द­क्षि­ग्र­हणं सर्वै­रि­न्द्रि­यै­र्वि­ष­य­द­र्श­न­रू­प­जा­ग्र­द­व­स्था­प­न्न­मि­त्याह
द्रष्टारमिति ।
महीयमानः वास­ना­म­यै­र्वि­षयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजा­प­ति­र्व्या­चष्ट इत्यन्वयः । यत्र काले तदेतत्स्वपनं यथा स्यात्तथा सुप्तः, सम्यकस्तो निरस्तः करणग्रामो यस्य स समस्तः, अत एवो­प­हृ­त­क­र­ण­त्वा­त्त­त्कृ­त­का­लु­ष्य­हीनः सम्प्रसन्नः, स्वप्नं प्रप­ञ्च­म­ज्ञा­न­मा­त्र­त्वेन विलापयति अतोऽ­ज्ञा­न­स­त्त्वा­त्मु­क्ता­द्वि­ल­क्षणः प्राज्ञ एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्ता­स्फू­र्ति­प्र­द­त्वा­दा­त्मे­त्यर्थः ।

चतुर्थपर्याये ब्रह्मो­क्ते­स्त­स्यै­वा­प­ह­त­पा­प्म­त्वा­दि­गुणा इत्याशङ्क्य तस्यापि पर्यायस्य जीवत्वमाह
नाहेति ।
अहेति निपातः खेदार्थे ।

खिद्यमानो हीन्द्र उवाच, न खलु सुप्तः पुमानयं सम्प्रति सुषु­प्त्य­व­स्था­या­मयं देव­द­त्तोऽ­ह­मि­त्ये­व­मा­त्मानं जानाति । नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति, नाहमत्र भोग्यं पश्यामीति दोषमुपलभ्य पुनः प्रजापतिमुपससार । तं दोषं श्रुत्वा प्रजापतिराह
एतमिति ।
एत­स्मा­त्प्र­कृ­ता­दा­त्म­नोऽ­न्य­त्रान्यं न व्याख्या­स्या­मी­त्यु­प­क्रम्य 'मघ­व­न्मर्त्यं वा इदं शरीरम्'इति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः । तस्मा­त्प्र­जा­प­ति­वा­क्यात् । अतः सम्भवासिद्धेः ।

सिद्धान्तयति
तं प्रतीति ।
अव­स्था­त्र­य­शो­ध­ने­ना­वि­र्भू­तत्वं शोधितत्वमर्थस्य वाक्यो­त्थ­वृ­त्त्य­भि­व्य­क्त­त्व­मि­त्यर्थः ।

तर्हि सूत्रे पुंलिङ्गेन जीवोक्तिः कथम् , ज्ञानेन जीवत्वस्य निवृ­त्त­त्वा­दि­त्यत आह
भूतपूर्वेति ।
ज्ञाना­त्पू­र्व­म­वि­द्या­त­त्का­र्य­प्र­ति­बि­म्बि­त­त्व­रूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपोऽपि जीवनाम्नोच्यत इत्यर्थः ।

विश्व­तै­ज­स­प्रा­ज्ञ­तु­री­य­प­र्या­य­च­तु­ष्ट­या­त्म­क­प्र­जा­प­ति­वा­क्यस्य तात्पर्यमाह
एतदिति ।
जन्मा­ना­श­व­त्त्वात् ।

प्रति­बि­म्ब­व­द्बि­म्ब­देहो नात्मेति ज्ञापनार्थं प्रजा­प­ति­रि­न्द्र­वि­रो­चनौ प्रत्युवाच, उदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्यादि ब्राह्म­णे­ने­त्याह
उदशरावेति ।
उदकपूर्णे शरावे प्रति­बि­म्बा­त्मानं देहं दृष्ट्वा स्वस्याज्ञातं यत्तन्मह्यं वाच्य­मि­त्यु­क्त­श्रु­त्यर्थः । व्युत्थाप्य विचार्य । अभिनिष्पद्यत इत्यत्रैतदुक्तं भवतीति सम्बन्धः ।

किमुक्तमित्यत आह
यदस्येति ।
जीवत्वरूपेण जीवं न व्याचष्टे, लोकसिद्धत्वात्, किन्तु तमनूद्य पर­स्प­र­व्य­भि­चा­रि­णी­भ्योऽ­व­स्थाभ्यो विविच्य ब्रह्मस्वरूपं बोधयति, अतो यद्ब्रह्म तदे­वा­प­ह­त­पा­प्म­त्वा­दि­ध­र्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्माभेदेन तद्ध­र्मो­क्ते­रि­त्यर्थः । एव­म­व­स्थो­प­न्या­सस्य विवे­का­र्थ­त्वान्न जीवलिङ्गत्वम् , 'एत­द­मृ­त­म­भ­य­मे­त­ब्रह्म' इति लिङ्गो­पे­त­श्रु­ति­वि­रो­धा­दि­ति­म­न्त­व्यम् ।

ननु जीव­त्व­ब्र­ह्म­त्व­वि­रु­द्ध­ध­र्म­वतोः कथमभेदः, तत्राह
तदेवेति ।

अन्व­य­व्य­ति­रे­काभ्यां जीव­त्व­स्या­वि­द्या­क­ल्पि­त­त्वा­द­वि­रोध इति मत्वा दृष्टा­न्ते­ना­न्व­य­माह
यावदिति ।

व्यतिरेकमाह
यदेति ।
अविद्यायां सत्यां जीवत्वम् , वाक्यो­त्थ­प्र­भो­धा­त्त­न्नि­वृत्तौ तन्नि­वृ­त्ति­रि­त्या­वि­द्यकं तदित्यर्थः ।

संसारित्वस्य कल्पितत्वे सिद्धं निगमयति
तदेव चास्येति ।

'समुत्थाय स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति श्रुतिं व्याख्या­तु­मा­क्षि­पति
कथं पुनरित्यादिना ।
कूटस्थनित्यस्य स्वरू­प­मि­त्य­न्वयः ।

मनःसङ्गिनो हि क्रियया मल­ना­शा­द­भि­व्य­क्तिर्न तु कूट­स्थ­स्या­स­ङ्गिन इत्याह
सुवर्णेति ।
द्रव्यान्तरं पार्थिवो मलः । अभिभूतेत्यस्य व्याख्या­न­म­न­भि­व्य­क्तेति । असाधारणो भास्वरत्वादिः । अभिभावकः सौरालोकः ।

जीव­स्व­रू­प­स्या­भि­भवे बाधकमाह
दृष्टेति ।
'विज्ञानघन एव’ इति श्रुत्या चिन्मा­त्र­स्ता­व­दात्मा । तच्चैतन्यं चक्षु­रा­दि­ज­न्य­वृ­त्ति­व्यक्तं दृष्ट्या­दि­प­द­वाच्यं सत्व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत । हेत्व­भा­वा­द्व्य­व­हारो न स्यादित्यर्थः ।

अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्त­मि­त्य­ङ्गी­का­र्यम् , व्यव­हा­र­द­र्श­ना­दि­त्याह
तच्चेति ।

अन्यथेत्युक्तं स्फुटयति
तच्चेदिति ।
स्वरूपं चेज्ज्ञानिन एव व्यज्येत ज्ञानात्पूर्वं व्यव­हा­रो­च्छि­त्ति­रि­त्यर्थः । अतः सदैव व्यक्त­स्व­रू­प­त्वा­दि­त्यर्थः ।

सदा वृत्तिषु व्यक्तस्य वस्तु­तोऽ­स­ङ्ग­स्या­त्मन आवि­द्य­क­दे­हा­द्य­वि­वे­क­रू­पस्य मलसङ्गस्य सत्त्वा­त्त­द्वि­वे­का­पे­क्षया समु­त्था­ना­दि­श्रु­ति­रि­त्यु­त्त­र­माह
अत्रेति ।
वेदना हर्षशोकादिः । अविविक्तमिवेति तादात्म्यस्य सङ्गस्य कल्पि­त­त्व­मु­क्तम् ।

तत्र कल्पितसङ्गे दृष्टान्तः
यथेति ।

श्रुतिकृतमिति ।
त्वम्प­दा­र्थ­श्रुत्या 'योऽयं विज्ञानमयः प्राणेषु' इत्याद्यया सिद्धमित्यर्थः ।

प्राणा­दि­भि­न्न­शु­द्ध­त्व­म्प­दा­र्थ­ज्ञा­नस्य वाक्या­र्थ­सा­क्षा­त्कारः फलमित्याह
केवलेति ।

सशरीरत्वस्य सत्य­त्वा­त्स­मु­त्था­न­मु­त्क्रा­न्ति­रिति व्याख्येयं न विवेक इत्याशङ्क्याह
तथा विवेकेति ।
उक्त­श्रु­त्य­नु­सा­रे­णे­त्यर्थः । शरी­रे­ष्व­श­री­र­म­व­स्थि­त­मिति श्रुते­र­वि­वे­क­मा­त्र­क­ल्पितं सशरीरत्वम् । अतो विवेक एव समु­त्था­न­मि­त्यर्थः ।

ननु स्वकर्मार्जिते शरीरे भोग­स्या­प­रि­हा­र्य­त्वा­त्कथं जीवत एव स्वरूपाविर्भाव इत्यत आह
शरीरस्थोऽपीति ।
अश­री­र­त्व­व­च्छ­री­र­स्थ­स्यापि बन्धा­भा­व­स्मृ­ते­र्जी­वतो मुक्ति­र्यु­क्ते­त्यर्थः ।

अविरुद्धे श्रुत्यर्थे सूत्रशेषो युक्त इत्याह
तस्मादिति ।
अन्यादृशौ सत्यावित्यर्थः ।

ज्ञाना­ज्ञा­न­कृ­ता­वा­वि­र्भा­व­ति­रो­भा­वा­विति स्थिते भेदोऽ­प्यं­शां­शि­त्व­कृतो निरस्त इत्याह
एवमिति ।
अंशा­दि­शू­न्य­त्व­म­स­ङ्ग­त्वम् । आत्मा द्रव्य­त्व­व्या­प्य­जा­ति­शून्यः विभुत्वात् , व्योम­व­दि­त्या­त्मै­क्य­सि­द्धे­र्भेदो मिथ्येत्यर्थः ।

प्रजा­प­ति­वा­क्याच्च भेदो मिथ्ये­त्या­का­ङ्क्षा­पू­र्व­क­माह
कुतश्चेत्यादिना ।
एतद्भेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयः ।

छायायां ब्रह्म­दृ­ष्टि­प­र­मिदं वाक्यं नाभेदपरमित्यत आह
नापीति ।
यस्य ज्ञाना­त्कृ­त­कृ­त्यता सर्व­का­म­प्रा­प्ति­स्त­मा­त्मा­न­म­न्वि­च्छाव इति प्रवृ­त्त­यो­रि­न्द्र­वि­रो­च­न­यो­र्य­द्य­ना­त्म­च्छायां प्रजा­प­ति­र्ब्रू­या­त्तदा मृषावादी स्यादित्यर्थः ।

प्रथ­म­व­त्द्वि­ती­या­दि­प­र्याये व्यावृ­त्ता­स्व­व­स्थासु अनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह
तथेति ।

अव­स्था­भे­देऽ­प्य­नु­स्यूतौ युक्तिमाह
किञ्चेति ।

सुषुप्तौ ज्ञातु­र्व्या­वृ­त्ति­मा­श­ङ्क्याह
तथा तृतीय इति ।

सषुप्तौ निर्वि­क­ल्प­ज्ञा­न­रूप आत्मास्तीयत्र बृह­दा­र­ण्य­क­श्रु­ति­माह
नहीति ।
बुद्धेः साक्षिणो नाशो नास्ति, नाश­का­भा­वा­दि­त्यर्थः ।

एत­म­व­स्था­भि­र­स­ङ्ग­त्वे­नोक्त आत्मैव तुरीयेऽपि ब्रह्मत्वेनोक्त इत्याह
तथेति ।

श्रुते­रे­क­दे­शि­व्याख्यां दूषयति
केचित्त्विति ।
जीव­प­र­यो­र्भ­दा­दिति भावः ।

श्रुति­बा­धा­न्मै­व­मि­त्याह
तेषामिति ।
संनिहितो जीव एव सर्वनामार्थ इत्यर्थः ।

उक्तस्य पुनरुक्तौ भूय इति युज्यते । तव तु उप­क्रा­न्त­प­र­मा­त्म­न­श्च­तुर्थ एवोक्तेस्तद्बाध इत्याह
भूय इति ।

लोक­सि­द्ध­जी­वा­नु­वा­देन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति
तस्मादिति ।
व्याख्या­ना­न्त­र­स­म्भ­वा­दि­त्यर्थः । विलयनं शोधनम् । विद्यया महावाक्येनेति यावत् ।

ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारी­र­क­मे­वो­त्त­र­मि­त्याह
अपरे त्वित्यादिना ।

शारीरकस्यार्थं सङ्क्षे­पे­णो­प­दि­शति
एक एवेति ।
अवि­द्या­मा­य­यो­र्भेदं निरसितुं सामानाधिकरण्यम् , आव­र­ण­वि­क्षे­प­श­क्ति­रू­प­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­भे­दा­त्स­ह­प्र­योगः । ब्रह्मै­वा­वि­द्यया संसरति न ततोऽन्यो जीव इति शारीरकार्थ इत्यर्थः ।

तर्हि सूत्रकारः किमिति भेदं ब्रूते, तत्राह
यस्त्त्विति ।
पर­मा­त्म­नोऽ­सं­सा­रि­त्व­सि­द्यर्थं जीवाद्भेदं द्रढयति । तस्या­सं­सा­रि­त्व­नि­श्च­या­भावे तदभेदोक्तावपि जीवस्य संसा­रि­त्वा­न­पा­या­दि­त्यर्थः ।

अधिष्ठानस्य कल्पि­ता­द्भे­देऽपि कल्पि­त­स्या­धि­ष्ठा­नान्न पृथ­क्स­त्त्व­मि­त्याह
जीवस्यत्विति ।

कल्पि­त­भे­दा­नु­वा­दस्य फलमाह
एवं हीति ।

सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति
प्रतिपाद्यमिति ।
आत्मेति तूप­ग­च्छ­न्ती­त्या­दि­सू­त्रा­ण्या­दि­प­दार्थः ।

नन्वद्वैतस्य शास्त्रार्थत्वे द्वैता­पे­क्ष­वि­धि­वि­रोधः तत्राह
वर्णितश्चेति ।
अद्वैतमजानतः कल्पि­त­द्वै­ता­श्रया विधयो न विदुष इति सर्व­मु­प­प­न्न­मि­त्यर्थः ॥ १९ ॥

एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवा­प­ह­त­पा­प्म­त्वा­द्यु­क्ते­र्जीवे तदसम्भवान्न जीवो दहर इत्युक्तम् । तर्हि जीवपरामर्शस्य का गतिरित्यत आह
अन्यार्थश्चेति ।

सूत्रं व्याचष्टे
अथेत्यादिना ।
प्रकृते दहरे विशेषो गुण­स्त­दु­प­दे­शोऽपि नेत्यर्थः ।

तत्र दहरवाक्यशेषरूपं सम्प्र­सा­द­वा­क्य­मा­श­ङ्का­पू­र्वकं दह­र­ब्र­ह्म­प­र­त्वेन व्याचष्टे
कथमित्यादिना ॥ २० ॥

उपा­स्य­त्वा­द­ल्प­त्व­मु­क्त­मिति व्याख्याय श्रुत्या निर­स्त­मि­त्य­र्था­न्त­र­माह
श्रुत्यैव चेदमिति ।
एवं दहरवाक्यं प्रजापतिवाक्यं च सगुणे निर्गुणे च समन्वितमिति सिद्धम् ॥ २१ ॥

अनुकृतेस्तस्य च । मुण्ड­क­वा­क्य­मु­दा­ह­रति
न तत्रेति ।
तस्मिन् ब्रह्मणि विषये न भाति, तं न भासयतीति यावत् ।

यदा चन्द्र­भा­स्क­रा­दिर्न भासयति तदा अल्प­दी­प्ते­रग्नेः का कथेत्याह
कुत इति ।

किञ्च सर्वस्य सूर्या­दे­स्त­द्भा­स्य­त्वान्न तद्भा­स­क­त्व­मि­त्याह
तमेवेति ।

अनुगमनवदनुमानं स्वगतमिति शङ्कां निरस्यति
तस्येति ।

तत्रेति सप्तम्याः सति विषये च साधा­र­ण्या­त्सं­श­य­माह
तत्रेति ।
पूर्व­त्रा­त्म­श्रु­त्या­दि­ब­ला­दा­का­श­श­ब्दस्य रूढि­त्या­गा­दी­श्वरे वृत्तिराश्रिता । तथेहापि सति­स­प्त­मी­ब­ला­द्व­र्त­मा­ना­र्थ­त्या­गेन यस्मिन्सति सूर्यादयो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्ति­रा­श्र­य­णीया ।

अधुना भासमाने सूर्यादौ न भातीति विरोधादिति दृष्टान्तेन पूर्वपक्षयति
तेजोधातुरिति ।
तेजोधानम् , निर्गु­ण­स्व­य­ञ्ज्यो­ति­रा­त्म­ज्ञा­न­मि­त्यु­भ­यत्र फलम् ।

तेजोधातुत्वे लिङ्गमाह
तेजोधातूनामिति ।

यत्ते­ज­सोऽ­भि­भा­वकं तत्तेज इति व्याप्तिमाह
तेजःस्वभावकमिति ।

यस्मिन्सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह
अनुभानमिति ।
ततो निकृष्टभानं विवक्षितमिति भावः ।

मुख्यसम्भवे विव­क्षा­नु­प­पत्तेः मुख्या­नु­भा­न­लि­ङ्गा­त्स­र्व­भा­सकः परमात्मा स्वप्रकाशकोऽत्र ग्राह्य इति सिद्धान्तमाह
प्राज्ञ इति ।
प्राज्ञत्वं स्वप्रकाशकत्वं भास­क­त्वा­र्थ­मु­क्तम् ।

तत्र श्रुतिमाह
भारूप इति ।

मानाभावाच्च तेजोधातुर्न ग्राह्य इत्याह
न त्विति ।

किञ्च सूर्या­द­य­स्ते­जो­न्त­र­भा­न­मनु न भान्ति, तेजस्त्वात् , प्रदीपवदित्याह
समत्वाच्चेति ।

योऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह
नायमेकान्त इति ।

पौन­रु­क्त्य­मा­श­ङ्क्यो­क्ता­नु­वा­द­पू­र्वकं सूत्रोक्तं हेत्वन्तरं व्याचष्टे
अनुकृतेरिति ।

'तमेव भान्तम्’ इत्येवकारोक्तं तद्भानं विना सर्वस्य पृथ­ग्भा­ना­भा­व­रू­प­म­नु­भा­न­म­नु­कृ­ते­रि­त्य­ने­नो­क्तम्
तस्य चेति ।
सर्व­भा­स­क­त्व­मु­क्त­मि­त्य­पौ­न­रु­क्त्य­मि­त्यर्थः ।

आत्मनः सूर्या­दि­भा­स­कत्वं श्रुत्य­न्त­र­प्र­सि­द्ध­म­वि­रुद्धं चेत्याह
तद्देवा इति ।
सर्वशब्दः प्रकृ­त­सू­र्या­दि­वा­च­क­त्वेन व्याख्यातः ।

सम्प्रति तस्या­स­ङ्कु­च­द्वृ­त्तितां मत्वा­र्था­न्त­र­माह
अथवेति ।

तत्रेति सर्वनामश्रुत्या प्रकृतं ब्रह्म ग्राह्यमित्याह
न तत्र सूर्य इति ।

किञ्च स्पष्ट­ब्र­ह्म­प­र­पू­र्व­म­न्त्रा­का­ङ्क्षा­पू­र­क­त्वा­दयं मन्त्रो ब्रह्मपर इत्याह
अनन्तरं चेति ।
हिरण्मये ज्योतिर्मये अन्न­म­या­द्य­पे­क्षया परे कोशे आनन्दमयाख्ये पुच्छशब्दितं ब्रह्म विर­ज­मा­ग­न्तु­क­म­ल­शू­न्यम् , निष्कलं निरवयवम् , शुभ्रं नैस­र्गि­क­म­ल­शू­न्यम् , सूर्या­दि­सा­क्षि­भूतं ब्रह्म­वि­त्प्र­सि­द्ध­मि­त्यर्थः ।

सति­स­प्त­मी­प­क्ष­म­नु­व­दति
यदपीति ।

सूर्या­द्य­भि­भा­व­क­ते­जो­धातौ प्रामाणिके तस्येह ग्रहणशङ्का स्यात् , न तत्र प्रमा­ण­म­स्ती­त्याह
तत्रेति ।
सिद्धान्ते तत्रेति वाक्यार्थः ।

कथ­मि­त्या­श­ङ्क्याह
ब्रह्मण्यपीति ।
सतिसप्तमीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यक्त्वा तस्मिन्सति न भास्य­न्ती­त्य­श्रु­त­भ­वि­ष्यत्त्वं कल्पनीयं प्रत्य­क्ष­वि­रो­ध­नि­रा­साय । विषयसप्तमीपक्षे तु न भास­य­ती­त्य­श्रु­त­णि­ज­ध्या­हा­र­मात्रं कल्प्यं न श्रुतत्याग इति लाघवम् , अतो ब्रह्मणि विषये सूर्या­दे­र्भा­स­क­त्व­नि­षे­धेन ब्रह्म­भा­स्य­त्व­मु­च्यत इत्यर्थः । येना­न्या­भा­स्य­त्वेन हेतुना सूर्या­द­य­स्त­स्मि­न्ब्र­ह्मणि विषये भासकाः स्युस्तथा तु ब्रह्मान्येन नोपलभ्यते स्वप्र­का­श­त्वा­दिति योजना ।

उक्तमेव श्रुत्यन्तरेण द्रढयति
ब्रह्मेति ।
स्वप्र­का­श­त्वेऽ­न्या­भा­स्यत्वे च श्रुतिद्वयम् । ग्रह­णा­यो­ग्य­त्वा­द­ग्राह्य इत्यर्थः ॥ २२ ॥

णिजध्याहारपक्षे स्मृति­ब­ल­म­प्य­स्ती­त्याह
अपिचेति ।

सूत्रं व्याचष्टे
अपिचेति ।
अभास्यत्वे सर्वभासकत्वे च श्लोकद्वयं द्रष्टव्यम् । तस्मा­द­नु­भा­न­मन्त्रो ब्रह्मणि समन्वित इति सिद्धम् ॥ २३ ॥

शब्दादेव प्रमितः । काठकवाक्यं पठति
अङ्गुष्ठेति ।

पुरुषः पूर्णोऽ­प्या­त्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठ­ती­त्य­ङ्गु­ष्ठ­मात्र इत्युच्यते, तस्यैव पर­मा­त्म­त्व­वा­दि­वा­क्या­न्त­र­माह
तथेति ।
अधूमकमिति पठनीयम् ।

योऽङ्गु­ष्ठ­मात्रो जीवः स वस्तुतो निर्धू­म­ज्यो­ति­र्व­न्नि­र्म­ल­प्र­का­श­रूप इति तमर्थं संशोध्य तस्य ब्रह्मत्वमाह
ईशान इति ।

तस्या­द्वि­ती­य­त्व­माह
स एवेति ।
कालत्रयेऽपि स एवास्ति नान्यत्किञ्चित् । यन्नचिकेतसा पृष्टं ब्रह्म तदेतदेवेत्यर्थः ।

परि­मा­णे­शा­न­श­ब्दाभ्यां संशयमाह
तत्रेति ।

यथा­नु­भा­ना­दि­लि­ङ्गा­त्णि­ज­ध्या­ह­रेण सूर्याद्यगोचरो ब्रह्मेत्युक्तं तथा प्रथ­म­श्रु­त­प­रि­मा­ण­लि­ङ्गा­ज्जी­व­प्र­ती­ता­वी­शा­नोऽ­स्मीति ध्यायेदिति विध्यध्याहरेण ध्यानपरं वाक्यमिति पूर्वपक्षयति
तत्र परिमाणेति ।
पूर्वपक्षे ब्रह्मदृष्ट्या जीवोपास्तिः, सिद्धान्ते तु प्रत्य­ग्ब्र­ह्मै­क्य­ज्ञानं फलमिति मन्तव्यम् । आयामो दैर्घ्यम् , विस्तारो महत्त्वमिति भेदः ।

कयाचिदिति ।
अङ्गु­ष्ठ­मा­त्र­हृ­द­यस्य विज्ञा­न­श­ब्दि­त­बु­द्ध्य­भे­दा­ध्या­स­क­ल्प­न­ये­त्यर्थः ।

स्मृति­सं­वा­दा­द­प्य­ङ्गु­ष्ठ­मात्रो जीवैत्याह
स्मृतेश्चेति ।
अथ मरणानन्तरं यमपाशौर्बद्धं कर्मवशं प्राप्त­मि­त्यर्थः ।

तत्रापीश्वरः किं न स्यादित्यत आह
नहीति ।
'प्रभवति संयमने ममापि विष्णुः’ इति यम­स्ये­श्व­र­नि­य­म्य­त्व­स्म­र­णा­दिति भावः ।

भूत­भ­व्य­स्वे­त्यु­प­प­दा­द्बा­ध­का­भा­वाच्च ईशान इती­श­त्व­श­ब्दा­न्नि­र­ङ्कु­श­मी­शिता भातीति श्रुत्या लिङ्गं बाध्यमिति सिद्धान्तयति
परमात्मैवेति ।

प्रकरणाच्च ब्रह्मपरमिदं वाक्यमित्याह
एतदिति ।
शब्दो वाक्यं लिङ्गा­द्दु­र्ब­ल­मि­त्या­श­ङ्क्या­ह­श­ब्दा­दिति ॥ २४ ॥

करः सकनिष्ठोऽरत्निः । मुख्या­ङ्गु­ष्ठ­मात्रो जीवो गृह्यतां किं गौणग्रहणेनेत्यत आह
न चान्य इति ।
सति सम्भवे मुख्यग्रहो न्याय्यः । अत्र तु श्रुति­वि­रो­धा­द­स­म्भव इति गौणग्रह इत्यर्थः ।

मनुष्यानेवेति ।
त्रैव­र्णि­का­ने­वे­त्यर्थः । शक्त­त्वा­दि­त्य­नेन पश्वादीनां देवानामृषीणां चाधिकारो वारितः । तत्र पश्वादीनां शास्त्रा­र्थ­ज्ञा­ना­दि­सा­म­ग्र्य­भा­वा­त्क­र्म­ण्य­शक्तिः । इन्द्रादेः स्वदेवताके कर्मणि स्वोद्देशेन द्रव्य­त्या­गा­यो­गा­द­शक्तिः । ऋषी­णा­मा­र्षे­य­व­रणे ऋष्य­न्त­रा­भा­वा­द­शक्तिः । अर्थि­त्वा­दि­त्य­नेन निष्कामानां मुमुक्षूणां स्थावराणां चाधिकारो वारितः । तत्र मुमुक्षूणां शुद्ध्यर्थित्वे नित्या­दि­ष्व­धि­कारो न काम्येषु । शुद्धचित्तानां मोक्षार्थित्वे श्रवणादिषु व्यञ्ज­के­ष्व­धि­कारो न कर्मस्विति मन्तव्यम् ।

शूद्रस्याधिकारं निरस्यति
अप­र्यु­द­स्त­त्वा­दिति ।
शूद्रो 'यज्ञेऽ­व­न­कॢप्तः' इति पर्युदासात् , 'उपनयीत तम­ध्या­प­यीत' इति शास्त्राच्च न शूद्रस्य वैदिके कर्मण्यधिकारः । तस्यै­क­जा­ति­त्व­स्मृ­ते­रू­प­न­य­न­प्र­यु­क्त­द्वि­जा­ति­त्वा­भा­वेन वेदा­ध्य­य­ना­भा­वात् ।

अत्रापेक्षितो न्यायः षष्ठाध्याये वर्णित इत्याह
वर्णितमिति ।
'स्वर्ग­कामो यजेत’ इत्या­दि­शा­स्त्र­स्या­वि­शे­षेण सर्वा­न्फ­ला­र्थिनः प्रति प्रवृत्तत्वात् , प्राणिमात्रस्य सुखार्थित्वाच्च फलार्थे कर्मणि पश्वा­दी­ना­म­प्य­धि­कार इत्या­श­ङ्क्यो­क्त­री­त्या­तेषां शक्त­त्वा­द्य­भा­वा­त्स्व­र्ग­का­म­पदं मनुष्यपरतया सङ्कोच्य मनु­ष्या­धि­का­रत्वे स्थापिते चातु­र्व­र्ण्या­धि­का­रि­त्व­मा­शङ्क्य 'वसन्ते ब्राह्म­णोऽ­ग्नी­ना­द­धीत ग्रीष्मे राजन्यः शरदि वैश्यः' इति त्रया­णा­मे­वा­ग्नि­स­म्ब­न्ध­श्र­व­णा­त्ते­षा­मे­वा­धि­कार इति वर्णितमित्यर्थः ।

अस्तु, प्रस्तुते किमायातम् , तत्राह
मनुष्याणां चेति ।
प्रायेण सप्त­वि­त­स्ति­प­रि­मितो मनुष्यदेह इत्यर्थः ।

एवमङ्गुष्ठशब्दो हृत्प­रि­मा­ण­वा­च­क­स्त­त्रस्थं ब्रह्म लक्ष­य­ती­त्यु­क्तम् । सम्प्रति तच्छ­ब्दे­ना­ङ्गु­ष्ठ­मात्रं जीव­म­नू­द्या­य­मी­शान इति ब्रह्माभेदो बोध्य इति वक्तुमनुवदति
यदपीति ।

प्रति­पा­द्या­भे­द­वि­रो­धा­द­नु­वा­द्या­ङ्गु­ष्ठ­मा­त्रत्वं बाध्यम् , तात्पर्यार्थस्य बल­व­त्त्वा­दि­त्याह
तदिति ।
क्वचित् 'अस्थू­लम्' इत्यादौ । क्वचित् 'तत्त्व­मसि' इत्यादौ । [ननु पर­मा­त्म­नोऽ­ङ्गु­ष्ठ­प­रि­मा­णत्वं न सम्भवतीति सूत्रकारेण हृद­या­पे­क्ष­म­ङ्गु­ष्ठ­मा­त्र­त्व­मु­क्तम् , द्विवि­धे­त्या­दि­भा­ष्यात्तु जीवमुद्दिश्य ब्रह्म­त्व­बो­ध­न­मिति प्रतीयत इति सूत्रा­र्था­स्प­र्शि­त्वा­द्भा­ष्य­म­नु­प­प­न्न­मिति चेत् , न, भाष्य­ता­त्प­र्या­न­भि­ज्ञा­नात् । कठ­व­ल्ली­वा­क्य­स्या­वा­न्त­र­ता­त्प­र्य­मेकं महातात्पर्यं चैकम् । तत्रा­वा­न्त­र­ता­त्प­र्य­मु­पास्ये ब्रह्मणि, महातात्पर्यं च ज्ञेये ब्रह्मणि । अत एव भाष्य­का­रै­र्वा­क्य­द्व­यो­प­न्या­सः­कृतः । अत एवोपासनाफलं कठवल्ल्यामेव 'शतं चैका च हृदयस्य नाड्यः' इत्यादिना बोधितम् । अत एव चतुर्थाध्याये द्वितीयचरणे 'तदोकः' इति सूत्रे हार्दविद्यां प्रकृत्य समामनन्ति इति भाष्यकारैः प्रथमवाक्यस्य उपास्ये ब्रह्मणि तात्पर्यमिति प्रकटीकृतम् । इत्थं चात्रत्यभाष्यं महा­ता­त्प­र्या­भि­प्रा­य­क­मिति द्रष्टव्यम् । रामा­नु­ज­भा­ष्य­कृता तु पूर्व­प­क्षोऽ­स्म­द्भा­ष्य­ता­त्प­र्या­ज्ञा­ने­नैव कृत इत्यवधेयम् । ]

एकत्वार्थे वाक्य­शे­ष­म­नु­कू­ल­यति
एतमिति ।
श्रुतिर्यमो वा द्रष्टव्यः । तं जीवं प्रवृ­हे­त्पृ­थ­क्कु­र्यात् , धैर्येण बल­व­दि­न्द्रि­य­नि­ग्र­हा­दिना, तं विविक्तमात्मानं शुक्लं स्वप्रकाशममृतं कूटस्थं ब्रह्म जानीयादित्यर्थः । तस्मात्कठवाक्यं प्रत्य­ग्ब्र­ह्मणि ज्ञेये समन्वितमिति सिद्धम् ॥ २५ ॥

शास्त्रस्य मनु­ष्या­धि­का­रत्वे देवादीनां ब्रह्म­वि­द्या­या­म­प्य­न­धि­कारः स्यादि­त्या­श­ङ्क्याह
तदुपर्यपि बादरायणः सम्भवात् ।

ननु सम­न्व­या­ध्या­येऽ­धि­का­र­चिन्ता न सङ्गतेत्यत आह
अङ्गुष्ठेति ।

स्मृत­स्यो­पे­क्षा­न­र्हत्वं प्रसङ्गः । अत्र मनु­ष्या­धि­का­र­त्वोक्त्या स्मृतानां देवादिनां वेदा­न्त­श्र­व­णा­दा­व­धि­का­रोऽस्ति न वेति सन्देहे भोगासक्तानां वैरा­ग्या­द्य­स­म्भ­वा­न्नेति प्राप्ते सिद्धान्तमाह
बाढमिति ।
एव­म­धि­का­र­वि­चा­रा­त्म­का­धि­क­र­ण­द्व­यस्य प्रासङ्गिकी सङ्गतिः । अत्र पूर्वपक्षे देवादिनां ज्ञाना­न­धि­का­रा­द्दे­व­त्व­प्रा­प्ति­द्वारा क्रममुक्तिफलासु दहराद्युपासनासु क्रम­मु­क्त्य­र्थिनां मनु­ष्या­णा­म­प्र­वृत्तिः फलम् , सिद्धान्ते तु प्रवृत्तिः । उपा­स­ना­भि­र्दे­वत्वं प्राप्तानां श्रवणादिना ज्ञाना­न्मु­क्ति­स­म्भ­वा­दिति सफलोऽयं विचारः ।

ननु भोगासक्तानां तेषां मोक्षा­र्थि­त्वा­भा­वा­न्ना­धि­कार इत्यत आह
अर्थित्वं तावदिति ।
विका­र­त्वे­ना­नृ­त­वि­ष­य­सु­खस्य क्षया­सू­या­दि­दो­ष­द्दष्ट्या निर­ति­श­य­सु­ख­मो­क्षा­र्थित्वं सत्त्व­प्र­कृ­तीनां देवानां सम्भवतीत्यर्थः ।

नन्विन्द्राय स्वाहेत्यादौ चतु­र्थ्य­न्त­श­ब्दा­ति­रिक्ता विग्रहवती देवता नास्ति, शब्दस्य चासा­म­र्थ्या­न्ना­धि­कार इत्यत आह
तथेति ।
अर्थि­त्व­व­दि­त्यर्थः ।

अप­र्यु­द­स्त­त्व­माह
नचतेषामिति ।
'शूद्रो यज्ञे नव­क्लृप्तः' इतिवद्देवादीनां विद्या­धि­का­र­नि­षेधो नास्तीत्यर्थः ।

ननु विग्रहवत्त्वेन दृष्टसामर्थ्ये सत्य­प्यु­प­न­य­ना­भा­वा­च्छा­स्त्रीयं सामर्थ्यं नास्तीत्यत आह
न चेति ।
जन्मा­न्त­रा­ध्य­य­न­ब­ला­त्स्व­य­मेव प्रतिभाताः स्मृता वेदा येषां ते तथा तद्भा­वा­दि­त्यर्थः । बालादिषु प्रवि­ष्ट­पि­शा­चा­दीनां वेदो­द्घो­ष­द­र्श­ना­द्दे­व­यो­नीनां जन्मा­न्त­र­स्म­र­ण­म­स्तीति स्मृत­वे­दा­न्ता­ना­म­र्थ­वि­चारो युक्त इत्यर्थः ।

देवानामृषीणां च विद्याधिकारे कार­ण­म­र्थि­त्वा­दि­क­मुक्त्वा श्रौतं गुरु­कु­ल­वा­सा­दि­लि­ङ्ग­माह
अपिचेति ।

ननु ब्रह्मविद्या देवा­दी­न्ना­धि­क­रोति, वेदार्थत्वात् , अग्नि­हो­त्र­व­दि­त्यत आह
यदपीति ।
देवानां कर्मसु नाधिकारः, देव­ता­न्त­रा­णा­मु­द्दे­श्या­ना­म­भा­वा­दिति प्रथमसूत्रार्थः । ऋषीणामनधिकारः, ऋष्य­न्त­रा­भा­वा­दृ­षि­युक्ते कर्म­ण्य­श­क्ते­रिति द्विती­य­सू­त्रार्थः ।

असा­म­र्थ्य­मु­पा­धि­रिति परिहरति
न तदिति ।
असामर्थ्यरूपं कारणमित्यर्थः । न ह्यस्ति येनासामर्थ्यं स्यादिति शेषः । 'तद्यो यो देवानां प्रत्यबुध्यत स एव तद­भ­व­त्त­थ­र्षी­णाम्' इति­वा­क्य­बा­धोऽ­प्य­नु­मा­नस्य द्रष्टव्यः ।

ननु देवा­दी­न्प्र­त्य­ङ्गु­ष्ठ­मा­त्र­श्रुतिः कथम् , तेषां महादेहत्वेन हृद­य­स्या­स्म­द­ङ्गु­ष्ठ­मा­त्र­त्वा­भा­वात् । अतः श्रुतिषु तेषां नाधिकार इत्यत आह
देवा­द्य­धि­का­रेऽ­पीति ॥ २६ ॥

ननु मन्त्रादीनां प्रती­य­मा­न­वि­ग्र­ह­वत्त्वे तात्पर्यं कल्पयित्वा देवादीनामधिकार उक्तः, स चायुक्तः, अन्यपराणां तेषां प्रत्य­क्षा­दि­वि­रो­धेन स्वार्थे तात्प­र्य­क­ल्प­ना­नु­प­प­त्ते­रि­त्या­क्षिप्य सूत्रचतुष्टयेन परिहरति
विरो­धः­क­र्म­णी­त्या­दिना ।
वर्ण्येत, तर्हीति शेषः । स्वरूपं विग्रहः ।

अभ्युपगमे प्रत्यक्षेण देवता दृश्येत, नच दृश्यते, अतो योग्या­नु­प­लब्ध्या देवताया विग्रहवत्या अभा­वा­त्स­म्प्र­दा­न­का­र­का­भा­वेन कर्म­नि­ष्प­त्तिर्न स्यादित्याह
तदा चेति ।

विग्र­ह­स्या­ङ्ग­त्व­मु­प­ल­ब्धि­बा­धितं युक्त्या च न सम्भवतीत्याह
न चेति ।
तस्मा­द­र्थो­प­हि­त­शब्द एव देवता, तस्या अचेतनत्वान्न विद्याधिकार इति शङ्कार्थः ।

परिहरति
नायमिति ।

एकस्यापि देवस्य योग­ब­ला­द­ने­क­दे­ह­प्राप्तिः श्रुति­स्मृ­ति­द­र्श­ना­त्स­म्भ­वति । अतो न कर्मणि विरोध इति व्याचष्टे
कस्मादित्यादिना ।
वैश्वदेवशस्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा 'त्रयश्च' इत्या­दि­रू­प­यो­त्तरं ददौ । निविन्नाम शस्य­मा­न­दे­व­स­ङ्ख्या­वा­चकः शब्दः । षडधिकानि त्रीणि शतानि त्रीणि सहस्राणीति सङ्ख्योक्तौ सङ्ख्ये­य­स्व­रू­प­प्रश्ने, महिमानो विभूतयः सर्वे देवा एषां त्रय­स्त्रिं­श­द्दे­वा­ना­म­तोऽष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्चेति त्रय­स्त्रिं­श­दे­वा­स्तेऽपि षण्णा­म­ग्नि­पृ­थि­वी­वा­य्व­न्त­रि­क्षा­दि­त्य­दिवां महिमानस्तेऽपि षट्सु देवे­ष्व­न्त­र्भ­वन्ति । षट्देवास्त्रिषु लोकेषु त्रयश्च द्वयो­र­न्न­प्रा­ण­योर्द्वै च एकस्मिन्प्राणे हिर­ण्य­ग­र्भेऽ­न्त­र्भ­वत इति दर्शितमित्यर्थः । त्रय­स्त्रिं­श­तोऽपि देवानामिति सम्बन्धः ।

दर्शनं श्रौतं व्याख्याय स्मार्तं व्याचष्टे
तथा स्मृतिरिति ।
बलं योगसिद्धिम् । 'अणिमा महिमा चैव लघिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्र­का­मा­व­सा­यिता' ॥ इत्य­ष्टै­श्व­र्याणि । क्षणेन अणुर्महान् लघुर्गुरुश्च भवति योगी । अङ्गुल्या चन्द्रस्पर्शः प्राप्तिः । ईशिता सृष्टिशक्तिः । प्राका­म्य­मि­च्छा­ना­भि­घातः । वशित्वं नियमनशक्तिः । सङ्क­ल्प­मा­त्रा­दि­ष्ट­लाभो यत्र­का­मा­व­सा­यि­तेति भेदः । आजानसिद्धानां जन्मना सिद्धा­ना­मि­त्यर्थः ।

फलितमाह
अनेकेति ।
अनेकेषु कर्मस्वेकस्य प्रति­प­त्ति­र­ङ्ग­भावः ।

तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह
क्वचिदेक इति ।

प्रकृ­तो­प­यु­क्त­म­न्व­य­दृ­ष्टा­न्त­माह
क्वचिच्चेति ॥ २७ ॥

कर्म­ण्य­वि­रो­ध­म­ङ्गी­कृत्य शब्द­प्रा­मा­ण्य­वि­रो­ध­मा­शङ्क्य परिहरति -
शब्द इति चेदिति ।
मा प्रसञ्जि प्रसक्तो मा भून्नामेत्यर्थः ।

औत्पत्तिकसूत्रे शब्दा­र्थ­यो­र­नाद्योः सम्ब­न्ध­स्या­ना­दि­त्वा­द्वे­दस्य स्वार्थे माना­न्त­रा­न­पे­क्ष­त्वेन प्रामा­ण्य­मु­क्तम् । इदा­नी­म­नि­त्य­वि­ग्र­ह­व्य­क्त्य­भ्यु­प­गमे तत्स­म्ब­न्ध­स्या­प्य­नि­त्य­त्वा­न्मा­ना­न्त­रेण व्यक्तिं ज्ञात्वा शब्दस्य सङ्केतः पुंसा कर्तव्य इति माना­न्त­रा­पे­क्ष­त्वा­त्प्रा­मा­ण्यस्य विरोधः स्यादित्याह
कथमित्यादिना ।

किं शब्दा­ना­म­नि­त्य­तया सम्बन्धस्य कार्य­त्व­मा­प­द्यते, उता­र्था­ना­म­नि­त्य­तया । नाद्य इत्याह
नायमपीति ।
कर्म­ण्य­वि­रो­ध­व­दि­त्य­पे­रर्थः । देवा­दि­व्य­क्ति­हे­तु­त्वेन प्रागेव शब्दानां सत्त्वा­न्ना­नि­त्य­त्व­मिति भावः ।

अत्र पूर्वापरविरोधं शङ्कते
नन्विति ।

शब्दस्य निमित्तत्वेन ब्रह्म­स­ह­का­रि­त्वा­द­वि­रोध इत्याशङ्क्य द्वितीयं कल्पमुत्थापयति
अपिचेति ।
अनित्यत्वं सादित्वम् । व्यक्ति­रू­पा­र्था­ना­म­नि­त्य­तया शब्दानां सम्ब­न्ध­स्या­नि­त्यत्वं दुर्वारम् , तस्मा­त्पौ­रु­षे­य­स­म्ब­न्ध­सा­पे­क्ष­त्वा­त्प्रा­मा­ण्य­वि­रोध इत्यर्थः । नच व्यक्ति­ना­म­नि­त्य­त्वेऽपि घट­त्वा­दि­जा­ति­स­म­वा­य­व­च्छ­ब्द­स­म्ब­न्धोऽपि नित्यः स्यादिति वाच्यम् , उभ­या­श्रि­त­स­म्ब­न्ध­स्या­न्य­त­रा­भावे स्थित्ययोगेन दृष्टा­न्ता­सि­द्वे­रिति भावः ।

यथा गोत्वादयो गवा­दि­श­ब्द­वा­च्या­स्तथा वसु­त्वा­द्या­कृ­तयो वस्वा­दि­श­ब्दार्था न व्यक्त्य इति परिहरति
नेत्यादिना ।

शब्दानां तदर्थानां जातीनां च नित्य­त्वा­त्त­त्स­म्ब­न्धोऽपि नित्य इति प्रतिपादयति
नहीत्यादिना ।

व्यक्ती­ना­मा­न­न्त्या­दिति ।
नच गोत्वावच्छेदेन व्यक्तिषु शक्तिः सुग्रहेति वाच्यम् , सामा­न्य­स्या­प्र­त्या­स­त्ति­त्वेन सर्व­व्य­क्त्यु­प­स्थि­त्य­भा­वात् , गोत्वं शक्य­ता­व­च्छे­द­क­मिति ग्रहापेक्षया गोत्वं शक्यमिति लाघवात् , निरू­ढा­ज­ह­ल्ल­क्ष­णया व्यक्ते­र्ला­भे­ना­न्य­ल­भ्य­त्वा­भा­वा­च्चेति भावः । यद्वा केवलव्यक्तिषु शक्तिरत्र निरस्यते, अनुपपत्तिज्ञानं विनैव व्यक्तेः शब्द­श­क्त्या­य­त्त­जा­ति­ज्ञा­न­वि­ष­य­त्वे­नो­भ­य­श­क्ते­रा­व­श्य­क­त्वात् । तथाच नित्य­जा­ति­ता­दा­त्म्येन व्यक्ते­र­ना­दि­त्वा­त्त­त्स­म्ब­न्धोऽ­प्य­नादिः, सत्कार्यवादात् । अत एव वाक्यवृत्तौ तत्त्व­म­स्या­दि­वाक्ये भागलक्षणोक्ता युज्यते, केवलसामान्यस्य वाच्य­त्वेऽ­ख­ण्डा­र्थस्य वाच्यै­क­दे­श­त्वा­भा­वात् । 'अतः­प्र­भ­वात्' इति सूत्र­स्वा­र­स्याच्च केव­ल­व्य­क्ति­श­क्ति­नि­रास इति गम्यते । केव­ल­व्य­क्ति­व­चनाः खलु डित्थादिशब्दा अर्था­न­न्त­र­भा­विनः साङ्केतिकाः गवादिशब्दास्तु व्यक्ति­प्र­भ­व­हे­तु­त्वेन प्रागेवसन्धीति न व्यक्ति­मा­त्र­व­चनाः साङ्केतिकाः किन्तु स्थूल­सू­क्ष्म­भा­वे­ना­नु­स्यू­त­व्य­क्त्य­वि­ना­भू­त­सा­मा­न्य­व­चना इति मन्तव्यम् । न चेन्द्रा­दि­व्य­क्ते­रे­क­त्वेन जात्य­भा­वा­दा­का­श­श­ब्द­व­दि­न्द्र­च­न्द्रा­दि­शब्दाः केवलव्यक्तिवचना इति साम्प्रतम् । अती­ता­ना­ग­त­व्य­क्ति­भे­देन जात्यु­प­प­त्ते­रि­त्यलं प्रपञ्चेन ।

दृष्टा­न्त­मु­प­सं­हृत्य दार्ष्टा­न्ति­क­माह
व्यक्ति­ष्वि­त्या­दिना ।
आकृतिर्जातिः ।

ननु का सा व्यक्तिः, यद­नु­ग­ते­न्द्र­त्वा­दि­जातिः शब्दार्थः स्यादित्यत आह
आकृ­ति­वि­शे­ष­स्त्विति ।
'वज्र­ह­स्तः­पु­र­न्दरः' इत्यादिभ्य इत्यर्थः ।

इन्द्रा­दि­श­ब्दानां जाति­रि­न्द्रा­दिषु प्रवृ­त्ति­नि­मि­त्त­मि­त्युक्त्वा उपाधिनिमित्तमाह
स्थानेति ।

व्यक्ति­प्र­ल­येऽपि स्थानस्य स्थायि­त्वा­च्छ­ब्दा­र्थ­स­म्ब­न्ध­नि­त्य­ते­त्यत आह
ततश्चेति ।

उक्तं पूर्वापरविरोधं परिहरति
नचेति ।

शब्दो निमि­त्त­मि­त्य­वि­रोधं मत्वा सूत्र­शे­ष­म­व­ता­र­यति
कथं पुनरिति ।
स्मृत्या स्वप्रा­मा­ण्यार्थं मूल­श्रु­ति­र­नु­मी­यत इत्यनुमानं स्मृतिः । 'एते असृ­ग्र­मि­न्द­व­स्तिरः पवित्रमाशवः । विश्वा­न्य­स्या­भि­सौ­भगा' । इत्ये­त­न्म­न्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत् । तत्रैत इति पदं सर्व­ना­म­त्वा­द्दे­वानां स्मारकम् । असृग्रुधिरं तत्प्रधाने देहे रमन्त इति असृग्रा मनुष्याः । चन्द्रस्थानां पितृ­णा­मि­न्दु­शब्दः स्मारकः । पवित्रं सोमं स्वान्त­स्ति­र­स्कु­र्वतां ग्रहाणां तिरः पवित्रशब्दः । ऋचोऽश्नुवतां स्तोत्राणां गीति­रू­पा­णा­मा­शु­शब्दः । 'ऋच्य­ध्यूढं साम' इति श्रुतेः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः । सर्वत्र सौभा­ग्य­यु­क्ता­ना­म­भि­सौ­भ­ग­श­ब्दः­स्मा­रक इति छन्दो­ग­ब्रा­ह्म­ण­वा­क्यार्थः । स प्रजापतिर्मनसा वाचं त्रयीं मिथुनं सम­भ­व­त्म­नो­वा­ग्रूपं मिथुनं सम्भावितवान् । मनसा त्रयीप्रकाशितां सृष्टि­मा­लो­चि­त­वा­नि­त्यर्थः । 'रश्मि­रि­त्ये­वा­दि­त्य­म­सृ­जत' इत्या­दि­श्रु­ति­रा­दि­श­ब्दार्थः । सम्प्रदायो गुरु­शि­ष्य­प­र­म्प­रा­ध्य­य­नम् । संस्था अवस्थाः ।

या प्रजापतिसृष्टिः सा शब्दपूर्विका, सृष्टित्वात् , प्रत्य­क्ष­घ­टा­दि­व­दिति प्रत्य­क्षा­नु­मा­ना­भ्या­मि­त्य­स्या­र्था­न्त­र­माह
अपिचेति ।

अतः प्रभ­व­त्व­प्र­स­ङ्गा­च्छ­ब्द­स्व­रूपं वक्तु­मु­क्त­मा­क्षि­पति
किमात्मकमिति ।
वर्णरूपं तद­ति­रि­क्त­स्फो­ट­रूपं वेति किंशब्दार्थः ।

तत्र वर्णा­ना­म­नि­त्य­त्वा­त्स्फो­टस्य चासत्त्वान्न जग­द्धे­तु­त्व­मि­त्या­क्षेपे द्वितीयपक्षं वैयाकरणो गृह्णाति
स्फोटमिति ।
स्फुट्यते वर्णैर्व्यज्यत इति स्फोटो­व­र्णा­भि­व्य­ङ्ग्योऽ­र्थ­स्तस्य व्यञ्जको गवादिशब्दो नित्य­स्त­म­भि­प्रे­त्ये­द­मु­च्यत इति पूर्वेणान्वयः ।

स एवाद्यपक्षं दूषयति
वर्णेति ।

सोऽयं गकार इति प्रत्यभिज्ञया वर्ण­नि­त्य­त्व­सि­द्धे­र्ना­नु­प­प­त्ति­रि­त्यत आह
उत्पन्नेति ।
तार­त्व­म­न्द्र­त्वा­दि­वि­रु­द्ध­ध­र्म­व­त्त्वेन तारो गकारो मन्द्रो गकार इति प्रती­य­मा­न­ग­का­रस्य भेदा­नु­मा­ना­त्प्र­त्य­भिज्ञा गत्व­जा­ति­वि­ष­ये­त्यर्थः ।

ननु विरु­द्ध­ध­र्म­ज्ञानं ध्वन्युपाधिकं भ्रम इत्यत आह
नचेति ।
तथाच वर्णा­ना­म­नि­त्य­त्वान्न जगद्धेतुत्वमिति भावः ।

किञ्च तेषा­म­र्थ­बो­ध­क­त्वा­यो­गा­त्स्फो­टोऽ­ङ्गी­कार्य इत्याह
नच वर्णेभ्य इत्यादिना ।
व्यभि­चा­रा­दे­क­स्मा­द्व­र्णा­द­र्थ­प्र­ती­त्य­द­र्श­नात् , वर्णा­न्त­र­वै­य­र्थ्य­प्र­स­ङ्गा­च्चे­त्यर्थः ।

तर्हि वर्णानां समुदायो बोधक इत्याशङ्क्य क्षणिकानां स नास्तीत्याह
नचेति ।

वर्णानां स्वतः साहित्याभावेऽपि संस्का­र­ल­क्ष­णा­पू­र्व­द्वारा साहि­त्य­मा­ग्ने­या­दि­या­गा­ना­मि­वेति शङ्कते
पूर्वेति ।

किमयं संस्कारो वर्णै­र्ज­नि­तोऽ­पू­र्वाख्यः कश्चित् , उत वर्णानुभवजनितो भावनाख्यः । नाद्यः, मानाभावात् । किञ्चायमज्ञातो ज्ञातो वार्थधीहेतुः । नाद्य इत्याह
तन्नेति ।
संस्कारसहितः शब्दो ज्ञात एवार्थधीहेतुः, सम्ब­न्ध­ग्र­ह­ण­म­पेक्ष्य बोधकत्वात् , धूमा­दि­व­दि­त्यर्थः ।

द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन । नाद्य इत्याह
नचेति ।

द्वितीयं शङ्कते
कार्येति ।

कार्य­म­र्थ­धी­स्तस्यां जातायां संस्कारप्रत्ययः तस्मिञ्जाते सेति परस्पराश्रयेण दूषयति
नेति ।
पदा­र्थ­स्म­र­ण­स्यापि पद­ज्ञा­ना­न्त­र­भा­वि­त्वा­त्तेन संस्का­र­स­हि­ता­न्त्य­व­र्णा­त्म­क­प­दस्य ज्ञानं न युक्त­मि­त्य­क्ष­रार्थः । अपिशब्दः पर­स्प­रा­श्र­य­द्यो­त­नार्थः । एतेन भावा­ना­सं­स्का­र­प­क्षोऽपि निरस्तः । तस्य वर्ण­स्मृ­ति­मा­त्र­हे­तु­त्वे­ना­र्थ­धी­हे­तु­त्वा­यो­गात् । न चान्त्य­व­र्ण­सा­हि­त्या­द­र्थ­धी­हे­तु­त्वम् , केवलसंस्कारस्य तु वर्ण­स्मृ­ति­हे­तु­त्व­मिति वाच्यम् , अर्थधीपूर्वकाले भावनाया ज्ञाना­भा­वे­ना­र्थ­धी­हे­तु­त्वा­यो­गात् । नच वर्ण­स्म­र­णे­ना­नु­मिता सा अन्त्य­व­र्ण­स­हि­ता­र्थ­धी­हे­तु­रिति वाच्यम् , तत्कार्यस्य क्रमिकस्य वर्ण­स्म­र­ण­स्या­प्य­न्त्य­व­र्णा­नु­भ­वा­न­न्त­र­भा­वि­त्वेन तेना­नु­मि­त­भा­व­ना­ना­म­न्त्य­व­र्ण­सा­हि­त्या­भा­वा­दिति भावः ।

वर्णा­ना­म­र्थ­बो­ध­क­त्वा­स­म्भवे फलमाह
तस्मादिति ।

स्फोटेऽपि किं मान­मि­त्या­श­ङ्क्यैकं पदमिति प्रत्य­क्ष­प्र­मा­ण­मि­त्याह
स चेति ।
यथा रत्नतत्त्वं बहु­भि­श्चा­क्षु­ष­प्र­त्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गका­र­द्ये­कै­क­व­र्ण­कृ­त­प्र­त्ययैः स्फोट­वि­ष­यै­रा­हिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्य­व­र्ण­कृ­त­प्र­त्य­येन जनितः परिपाकोऽन्त्यः संस्का­रो­य­स्मिं­स्त­स्मि­न्प्र­त्य­यिनि चित्ते एकं गौरितिपदमिति प्रत्ययः प्रत्य­क्ष­स्त­द्वि­ष­य­तया स्पष्टमवभासत इत्यर्थः । अनेन वर्णा­न्व­य­व्य­ति­रे­कयोः स्फोट­ज्ञा­नेऽ­न्य­था­सिद्धिः । नचै­क­स्मा­द्व­र्णा­त्स­म्य­क्स्फो­टा­भि­व्यक्तिः, येन वर्णा­न्त­र­वै­यर्थ्यं किन्तु रत्न­व­द्ब­हु­प्र­त्य­य­सं­स्कृते चित्ते सम्य­क्स्फो­टा­भि­व्य­क्ति­रि­त्युक्तं भवति ।

नन्वेकपदमेकं वाक्यमिति प्रत्ययः पद­वा­क्य­स्फो­ट­योर्न प्रमाणम् , तस्य वर्ण­स­मू­हा­ल­म्ब­न­स्मृ­ति­त्वा­दि­त्या­शङ्क्य निषेधति
न चेति ।

स्फोटस्य जग­द्धे­तु­त्वार्थं नित्यत्वमाह
तस्य चेति ।

ननु तदेवेदं पदमिति प्रत्यभिज्ञा भ्रमः, उदा­त्ता­दि­भे­द­प्र­त्य­या­दि­त्यत आह
भेदेति ।

आचा­र्य­स­म्प्र­दा­यो­क्ति­पू­र्वकं सिद्धान्तयति
वर्णा एवेति ।
वर्णा­ति­रि­क्त­स्फो­टा­त्म­क­श­ब्द­स्या­नु­भ­वा­ना­रो­हा­दि­त्यर्थः ।

सादृश्यदोषादियं भ्रान्तिरिति शङ्कते
सादृश्यादिति ।

वपनानन्तरं त एवेमे केशा इति धीर्भ्रा­न्ति­रिति युक्तम् , भेदधीविरोधात् । स एवायं वर्ण इति धीस्तु प्रमैव, बाध­का­भा­वा­दि­त्याह
नेति ।

गोत्वा­दि­प्र­त्य­भि­ज्ञा­व­द्व­र्णेषु प्रत्यभिज्ञा गवादिविषयेति शङ्कते
प्रत्य­भि­ज्ञा­न­मिति ।

व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात् , यत्त्वया पीतं जलं तदेव मया पीतमित्यादौ । न तथेह व्यक्तिभेदः सिद्ध इति परिहरति
न । व्यक्तीति ।

न त्वेतदिति ।
व्यक्त्य­न्य­त्व­ज्ञा­न­मि­त्यर्थः ।

उदा­त्त­त्वा­दि­वि­रु­द्ध­ध­र्म­त्वा­द्व्य­क्ति­भे­दोऽ­नु­मा­न­सिद्ध इत्यनुवदति
नन्विति ।

भेदप्रत्ययस्य कुम्भ­कू­पा­का­श­भे­द­प्र­त्य­य­व­दौ­पा­धि­क­भे­द­वि­ष­य­त्वा­द­न्य­था­सि­द्धे­र­न­न्य­था­सि­द्ध­व्य­क्त्यै­क्य­प्र­त्य­भि­ज्ञया निर­पे­क्ष­स्व­रू­पा­ल­म्ब­नया बाध इत्युत्तरमाह
अत्रेति ।
ताल्वादिदेशैः कोष्ठ­स्थ­वा­यु­सं­यो­ग­वि­भा­गाभ्यां विचित्राभ्यां व्यङ्ग्य­त्वा­द्व­र्णेषु वैचि­त्र्य­धी­रि­त्यर्थः ।

कल्पनागौरवाच्च वर्णेषु स्वतो भेदो नास्तीत्याह
अपिचेति ।
अनन्ता गका­रा­दि­व्य­क्त­य­स्तासु प्रत्य­भि­ज्ञा­नार्थं गत्वा­दि­जा­त­य­स्तासु चोदा­त्त­त्वा­दि­भे­द­स्यौ­पा­धि­क­त्व­मिति कल्पनाद्वरं वर्ण­व्य­क्ति­भे­द­मा­त्र­स्यौ­पा­धि­क­त्व­क­ल्प­न­मिति व्यक्त्या­न­न्त्यस्य जातीनां च कल्प­न­म­यु­क्त­मि­त्यर्थः ।

ननु भेदस्य बाध­का­भा­वा­न्नौ­पा­धि­क­त्व­मि­त्यत आह
एष इति ।

अस्तु तर्हि प्रत्य­य­द्व­य­प्रा­मा­ण्याय भेदाभेदयोः सत्यत्वम् , तत्राह
कथं हीति ।
उभ­यो­रे­क­त्व­वि­रो­धा­द्भेद औपाधिक एवेत्यर्थः ।

ननु वायु­सं­यो­गा­दे­र­ती­न्द्रि­य­त्वान्न तद्ग­त­वै­चि­त्र्य­स्यो­दा­त्त­त्वा­दे­र्व­र्णेषु प्रत्यक्षारोपः सम्भवतीत्यरुचिं वदि­ष्य­न्स्व­म­त­माह
अथवेति ।
ध्वनिधर्मा उदात्तत्वादयो ध्वन्य­भे­दा­ध्या­सा­द्व­र्णेषु भान्तीत्यर्थः ।

प्रश्नपूर्वकं ध्वनिस्वरूपमाह
क इति ।
अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः ।

समीपं गतस्य पुंस­स्ता­र­त्व­म­न्द­त्वा­दि­ध­र्मा­न्स्व­ग­ता­न्व­र्णेषु स एवारोपयतीत्याह
प्रत्या­सी­द­त­श्चेति ।

आदिपदं विवृणोति
तदिति ।

नन्वव्यक्तवर्ण एव ध्वनि­र्ना­ति­रिक्त इत्यत आह
वर्णानामिति ।
प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनि­र्व्या­व­र्तत इति भेद इत्यर्थः । अन्यथा वाचिके जपे वर्णे­ष्व­व्य­क्तेषु ध्वनिबुद्धिः स्यात् , दुन्दु­भ्या­दि­ध्वनौ शब्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यम् ।

एवं ध्वन्यु­पा­धि­कत्वे स्वमते गुणं वद­न्वा­यू­पा­धि­कत्वे पूर्वो­क्ता­म­रुचिं दर्शयति
एवंचेत्यादिना ।

अस्तु को दोषः, तत्राह
संयोगेति ।
वायु­सं­यो­गा­दे­र­श्रा­व­ण­त्वा­दि­त्यर्थः । तस्मा­त्श्रा­व­ण­ध्व­नि­रे­वो­दा­त्त­त्वा­द्या­रो­पो­पा­धि­रिति भावः ।

एवं विरु­द्ध­ध­र्म­क­ध्व­नीनां भेदेऽपि न तेष्वनुगता वर्णा भिद्यन्त इत्युक्तम् । तदेव दृष्टान्तेन द्रढयति
अपिचेति ।
यथा खण्ड­मु­ण्डा­दि­वि­रु­द्धा­ने­क­व्य­क्ति­ष्व­भिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः । उदा­त्ता­दि­र्ध्व­नि­स्त­द्भे­देन हेतुना वर्णानामपीति योजना । प्रत्य­भि­ज्ञा­वि­रो­धा­दि­त्य­क्ष­रार्थः ।

यद्वा उदा­त्त­त्वा­दि­भे­द­वि­शि­ष्ट­तया प्रत्य­भि­ज्ञा­य­मा­न­त्वा­द्व­र्णानां भेद इत्याशङ्कां दृष्टान्तेन निरस्यति
अपिचेति ।

वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति
वर्णेभ्यश्चेति ।

कल्पनामसहमान आशङ्कते
नेति ।

चक्षुषा दर्पणयुक्तायां बुद्धौ मुखवच्छ्रोत्रेण वर्णयुक्तायां बुद्धौ विनैव हेत्वन्तरं स्फोटः प्रत्यक्ष इत्याह
झटितीति ।
यस्यां संविदि योऽर्थो भासते सा तत्र प्रमाणम् ।

एकपदमिति बुद्धौ वर्णा एव स्फुरन्ति नातिरिक्तस्फोट इति न सा स्फोटे प्रमाणमित्याह
न । अस्या अपीत्यादिना ।

ननु गोपदबुद्धेः स्फोटो विषयो गकारादीनां तु व्यञ्ज­क­त्वा­द­नु­वृ­त्ति­रि­त्यत आह
यदि हीति ।
व्यङ्ग्य­व­ह्नि­बुद्धौ व्यञ्ज­क­धू­मा­नु­वृ­त्ते­र­द­र्श­ना­दि­त्यर्थः ।

वर्ण­स­मू­हा­ल­म्ब­न­त्वो­प­प­त्तेर्न स्फोटः कल्पनीयः, पदा­र्था­न्त­र­क­ल्प­ना­गौ­र­वा­दि­त्याह
तस्मादिति ।

अने­क­स्या­प्यौ­पा­धि­क­मे­कत्वं युक्तमित्याह
सम्भवतीति ।

ननु तत्रै­क­दे­शा­दि­रू­पा­धि­रस्ति, प्रकृते क उपाधिरित्यत आह
या त्विति ।
एकार्थे शक्तमेकं पदम् , प्रधानार्थ एकस्मिन् तात्पर्यवदेकं वाक्य­मि­त्ये­का­र्थ­स­म्ब­न्धा­दे­क­त्वो­प­चार इत्यर्थः । न चैकपदत्वे ज्ञाते एकार्थज्ञानम् , अस्मिंज्ञाते तदि­त्य­न्यो­न्या­श्रय इति वाच्यम् , उत्त­म­वृ­द्धो­क्तानां वर्णानां क्रमे­णा­न्त्य­व­र्ण­श्र­व­णा­न­न्तरं बाल­स्यै­क­स्मृ­त्या­रू­ढानां मध्यमवृद्धस्य प्रवृ­त्त्या­दि­लि­ङ्गा­नु­मि­तै­का­र्थ­धी­हे­तु­त्व­नि­श्चये सत्ये­क­प­द­वा­क्य­त्व­नि­श्च­यात् ।

वर्णसाम्येऽपि पद­भे­द­दृ­ष्टे­र्व­र्णा­ति­रिक्तं पदं स्फोटा­ख्य­म­ङ्गी­का­र्य­मिति शङ्कते
अत्राहेति ।

क्रम­भे­दा­द्व­र्णे­ष्वेव पदभेददृष्टिरिति परिहरति
अत्रेति ।

ननु नित्यविभूनां वर्णानां कथं क्रमः कथं वा पद­त्व­ज्ञा­ने­ना­र्थ­धी­हे­तु­त्वम् , तत्राह
वृद्धेति ।
व्युत्प­त्ति­द­शा­या­मु­च्चा­र­ण­क्र­मे­णो­प­ल­ब्धि­क्र­म­मु­प­ल­भ्य­मा­न­व­र्णे­ष्वा­रो­प्यैते वर्णा एत­त्क्र­मै­त­त्स­ङ्ख्या­वन्त एतदर्थशक्ता इति गृहीताः सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढाः स्वस्वार्थं बोधयन्तीत्यर्थः ।

स्थायि­व­र्ण­वा­द­मु­प­सं­ह­रति
वर्णेति ।

दृष्टं वर्णा­ना­म­र्थ­बो­ध­क­त्वम् , अदृष्टः स्फोटः । सम्प्रति वर्णा­ना­म­स्थि­र­त्व­म­ङ्गी­कृत्य प्रौढिवादेन स्फोटं विघटयति
अथापीति ।
स्थिराणि गत्या­दि­सा­मा­न्यानि क्रमविशेषवन्ति गृही­त­स­ङ्ग­ति­का­न्य­र्थ­बो­ध­का­नीति कॢप्तेषु सामान्येषु प्रक्रिया सञ्चारयितव्या न त्वकॢप्तः स्फोटः कल्पनीय इत्यर्थः ।

वर्णानां स्थायि­त्व­वा­च­क­त्वयोः सिद्धौ फलितमाह
ततश्चेति ॥ २८ ॥

पूर्व­त­न्त्र­वृ­त्ता­नु­वा­द­पू­र्वकं सूत्रं व्याचष्टे
कर्तुरित्यादिना ।
पूर्व­त­न्त्र­सि­द्ध­मेव वेदस्य नित्यत्वं देवा­दि­व्य­क्ति­सृष्टौ तद्वा­च­क­श­ब्द­स्यापि सृष्टे­र­सि­द्ध­मि­त्या­शङ्क्य नित्या­कृ­ति­वा­च­का­च्छ­ब्दा­द्व्य­क्ति­ज­न्मोक्त्या साङ्केतिकत्वं निरस्य वेदोऽ­वा­न्त­र­प्र­ल­या­व­स्थायी जाग­द्धे­तु­त्वा­दी­श्व­र­व­दि­त्य­नु­मा­नेन द्रढयतीत्यर्थः । यज्ञेन पूर्वसुकृतेन वाचो वेदस्य लाभयोग्यतां प्राप्ताः सन्तो याज्ञि­का­स्ता­मृ­षिषु स्थितां लब्धवन्त इति मन्त्रार्थः । अनु­वि­न्ना­मु­प­ल­ब्धाम् । पूर्व­म­वा­न्त­र­क­ल्पादौ ॥ २९ ॥

ननु महाप्रलये जाते­र­प्य­स­त्त्वा­च्छ­ब्दा­र्थ­स­म्ब­न्धा­नि­त्य­त्व­मि­त्या­श­ङ्क्याह
समानेति ।

सूत्रनिरस्यां शङ्कामाह
अथापीति ।
व्यक्तिसन्तत्या जाती­ना­म­वा­न्त­र­प्र­लये सत्त्वा­त्स­म्ब­न्ध­स्ति­ष्ठति, व्यव­हा­रा­वि­च्छे­दा­ज्ज्ञा­यते चेति वेद­स्या­न­पे­क्ष­त्वेन प्रामाण्ये न कश्चिद्विरोधः स्यात् । निर्लेपलये तु सम्ब­न्ध­ना­शा­त्पुनः सृष्टौ केनचित्पुंसा सङ्केतः कर्तव्य इति पुरु­ष­बु­द्धि­सा­पे­क्ष­त्वेन वेद­स्या­प्रा­मा­ण्यम् , अध्या­प­क­स्या­श्र­यस्य नाशादाश्रितस्य तस्यानित्यत्वं च प्राप्त­मि­त्यर्थः । महाप्रलयेऽपि निर्ले­प­ल­योऽ­सिद्धः, सत्कार्यवादात् । तथाच संस्कारात्मना शब्दा­र्थ­त­त्स­म्ब­न्धानां सतामेव पुनः सृष्टा­व­भि­व्य­क्ते­र्ना­नि­त्य­त्वम् । अभिव्यक्तानां पूर्व­क­ल्पी­य­ना­म­रू­प­स­मा­न­त्वान्न सङ्केतः केनचित्कार्यः ।

विषमसृष्टौ हि सङ्केतापेक्षा न तुल्यसृष्टाविति परिहरति
तत्रे­द­मि­त्या­दिना ।

नन्वाद्यसृष्टौ सङ्केतः केनचित्कार्य इत्यत आह
तदापीति ।
महा­स­र्ग­प्र­ल­य­प्र­वृ­त्ता­व­पी­त्यर्थः ।

नन्व­स्त्व­ना­दि­सं­सारे सम्ब­न्ध­स्या­ना­दित्वं तथापि महा­प्र­ल­य­व्य­व­धा­ना­द­स्म­रणे कथं वेदा­र्थ­व्य­व­हारः, तत्राह
अनादौ चेति ।
न कश्चिद्विरोधः, शब्दा­र्थ­स­म्ब­न्ध­स्म­र­णा­दे­रिति शेषः ।

स्वाप­प्र­बो­ध­यो­र्ल­य­स­र्गा­सि­द्धि­मा­शङ्क्य श्रुतिमाह
स्वापेति ।
अथ तदा सुषुप्तौ प्राणे परमात्मनि जीव एकीभवति एनं प्राणं स जीवः तदैतीति शेषः । एत­स्मा­त्प्रा­णा­त्मनः । आयतनं गोलकम् । आनन्तर्ये पञ्चमी प्राणेभ्य इत्याद्या द्रष्टव्या । स्वप्न­व­त्क­ल्पि­त­स्या­ज्ञा­त­स­त्त्वा­भा­वात् दर्शनं सृष्टिः अदर्शनं लय इति दृष्टि­सृ­ष्टि­पक्षः श्रुत्यभिप्रेत इति भावः ।

दृष्टा­न्त­वै­ष­म्य­मा­शङ्क्य परिहरति
स्यादित्यादिना ।
अवि­रु­द्ध­म­नु­स­न्धा­ना­दि­क­मिति शेषः ।