भाष्यरत्नप्रभाव्याख्या
प्रथमाध्याये प्रथमः पादः (३)
दृष्ट इति ।
श्रुताविति शेषः ।
ननु 'चक्षोः सूर्यो अजायत' 'सूर्योऽस्तमेति' इति वाक्यममरा देवा इति प्रसिद्धिबाधितमित्याशङ्क्याह
अमरत्वमपीति ।
भीषा भयेनास्मादीश्वराद्वायुश्चलति । अग्निश्चेन्द्रश्च स्वस्वकार्यं कुरुतः । उक्तापेक्षया पञ्चमो मृत्युः समाप्तायुषां निकटे धावतीत्यर्थः ।
ईश्वरपक्षे दृश्यत इत्युक्तम् , तत्राह
अस्मिन्निति ।
दर्शनमनुभवः । तस्यशास्त्रे श्रुतस्य शास्त्रमेव करणं कल्प्यम् , संनिधानात् । तथाच शास्त्रकरणको विद्वदनुभव उपासनास्तुत्यर्थ उच्यत इत्यर्थः । तस्मादुपकोसलविद्यावाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १७ ॥
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् । बृहदारण्यकवाक्यमुदाहरति
य इति ।
अन्तर्यामिब्रह्मणे प्रतीयमानार्थमाह
अत्रेति ।
'यः पृथिव्याम्' इत्यादिना देवताः पृथिव्याद्या अधिकृत्य यमयिता श्रूयते । तथा 'यः सर्वेषु लोकेषु' इत्यधिलोकम् , 'यः सर्वेषु वेदेषु' इत्यधिवेदम् , 'यः सर्वेषु यज्ञेषु' इत्यधियज्ञम् , 'यः सर्वेषु भूतेषु' इत्यधिभूतम् , 'यः प्राणे तिष्ठन्' इत्यादि 'य आत्मानि' इत्यन्तमध्यात्मं चेति विभागः । अशरीरस्य नियन्तृत्वसम्भवासम्भवाभ्यां संशयः । पूर्वत्रेश्वरस्याक्षिस्थानत्वसिद्धये पृथिव्यादिस्थाननिर्देशो दृष्टान्त उक्तः, तस्य दृष्टान्तवाक्यस्येश्वरपरत्वमत्राक्षिप्य समाधीयत इत्याक्षेपसङ्गतिः । अतः पूर्वफलेनास्य पलवत्त्वम् । अवान्तरफलं तु पूर्वपक्षे अनीश्वरोपास्तिः, सिद्वान्ते प्रत्यग्ब्रह्मज्ञानमिति मन्तव्यम् ।
स्वयमेवारुचिं वदन्पक्षान्तरमाह
अथवेति ।
अनिश्चितार्थे फलाभावेनाफलस्य वेदार्थत्वायोगादिति भावः । तथाच श्रूयते वेदे । पृथिवी यस्य देवस्यायतनं शरीरम् , लोक्यतेऽनेनेति लोकश्चक्षुः, ज्योतिः सर्वार्थप्रकाशकं मन इत्यर्थः ।
उपक्रमादिनान्तर्याम्यैक्यनिश्चयादनेकदेवपक्षो न युक्त इत्यरुचेराह
योगिनो वेति ।
आगन्तुकसिद्धस्यान्तर्यामित्वेऽप्रसिद्धसाधनकल्पनागौरवान्नित्यसिद्ध एवान्तर्यामीति सिद्धान्तयति
एवं प्राप्त इति ।
देवतानिरासे हेत्वन्तरमाह
यं पृथिवीति ।
ईश्वरो न नियन्ता, अशरीरत्वात् , घटवदियुक्तं निरस्यति
नैष दोष इति ।
नियम्यातिरिक्तशरीरशून्यत्वं वा हेतुः, शरीरासम्बन्धित्वं वा । आद्ये, स्वदेहनियन्तरि जीवे व्यभिचारः । द्वितीयस्त्वसिद्धः, ईश्वरस्य स्वाविद्योपार्जितसर्वसम्बन्धित्वादित्याह
यान्नियच्छतीति ।
सशरीरो नियन्तेतिलोकदृष्टिमनुसृत्यैतदुक्तम् । वस्तुतस्तु चेतनसांनिध्याज्जडस्य व्यापारो नियमनं तच्छक्तिमत्त्वं नियन्तृत्वम् । तच्चाचिन्त्यमायाशक्तेश्चिदात्मनः शरीरं विनैवोपपन्नम् ।
ननु देहनियन्तुर्जीवस्यान्यो नियन्ता चेत्तस्याप्यन्य इत्यनवस्थेत्यत आह
तस्यापीति ।
निरङ्कुशं सर्वनियन्तृत्वमीश्वरस्य श्रुतम् , तस्य नियन्त्रन्तरानुमाने श्रुतिबाध दति नानवस्थेत्यर्थः । यद्वा ईश्वराद्भेदकल्पनया जीवस्य नियन्तृत्वोक्तेः सत्यभेदाभावान्नानवस्थेत्यर्थः ॥ १८ ॥
प्रधानं महदादिक्रमेण कथं प्रवर्तत इति तर्कस्याविषय इत्याह
अप्रतर्क्यमिति ।
रूपादिहीनत्वादविज्ञेयम् , सर्वतो दिक्षु प्रसुप्तमिव तिष्ठति जडत्वादित्यर्थः । अतत् अप्रधानं चेतनम् , तस्य धर्माणामभिधानादिति हेत्वर्थः ॥ १९ ॥
उत्तरसूत्रनिरस्याशङ्कामाह
यदि प्रधानमित्यादिना ।
अमृतश्चेति ।
विनाशिनो देहान्तरभोगानुपपत्तेरित्यर्थः ।
यथा देवदत्तकर्तृकगमनक्रियाया ग्रामः कर्म न देवदत्तः, तथात्मकर्तृकदर्शनादिक्रियाया अनात्मा विषयः न त्वात्मा, क्रियायाः कर्तृविषयत्वायोगादित्याह
कर्तरीति ।
क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोर्विरोधान्न कर्तुः कर्मत्वमित्यर्थः ।
दृष्टेर्द्रष्टारमात्मानं तया दृश्यया दृष्ट्या न विषयीकुर्या इत्यादिश्रुतेश्चादृष्टत्वादिधर्माः शारीरस्येत्याह
नेति ।
अपिशब्दसूचितं हेतुमुक्त्वा कण्ठोक्तं हेतुमाह
अपि चोभयेऽपीति ।
भेदेनेति सूत्रात्तात्त्विकभेदभ्रान्तिं निरसितुं शङ्कते
कथमिति ।
नन्वत्रैको भोक्ता जीवः, ईश्वरस्त्वभोक्तेति न विरोध इति शङ्कते
का पुनरिति ।
तयोर्भेदः श्रुतिविरुद्ध इति पूर्ववाद्याह
नान्य इति ।
स एव श्रुत्यर्थमाह
अत्रेति ।
श्रुतेरर्थान्तरमाशङ्क्य निषेधति
नियन्त्रन्तरेत्यादिना ।
न केवलमप्रसक्तप्रतिषेधः, किन्त्वविशेषेण द्रष्ट्रन्तरनिषेधश्रुतेरन्तर्याम्यन्तरनिषेधार्थत्वे बाधश्चेत्याह
अविशेषेति ।
तस्मात्सूत्रे, 'य आत्मानि तिष्ठन्' इति श्रुतौ च द्रष्टृभेदोक्तिरयुक्ता, 'नान्यः' इति वाक्यशेषे भेदनिरासादिति प्राप्ते, भेद उपाधिकल्पितः श्रुतिसूत्राभ्यामनूद्यत इति समाधत्ते
अत्रोच्यत इति ।
भेदः सत्यः किं न स्यादत आह
एको हीति ।
गौरवेण द्वयोरहन्धीगोचरत्वासम्भावदेक एव तद्गोचरः । तदगोचरस्य घटवदनात्मत्वान्नात्मभेदः सत्य इत्यर्थः ।
ततश्चेति ।
कल्पितभेदाङ्गीकाराद्भेदापेक्षं सर्वं युज्यत इत्यर्थः । तस्मादन्तर्यामिब्राह्मणं ज्ञेये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २० ॥
अदृश्यत्वादिगुणको धर्मोक्तेः । मुण्डकवाक्यमुदाहरति
अथेति ।
कर्म विद्यारूपापरविद्योक्त्यनन्तरं यया निर्गुणं ज्ञायते परा सोच्यते । तामैव विषयोक्त्या निर्दिशति
यत्तदिति ।
अद्रेश्यमदृश्यं ज्ञानेन्द्रियैः, अग्राह्यं कर्मेन्द्रियैः, गोत्रं वंशः, वर्णो ब्राह्मणत्वादिजातिः, चक्षुःश्रोत्रशून्यमचक्षुःश्रोत्रम् , पाणिपादशून्यमपाणिपादम् , ज्ञानकर्मेन्द्रियविकलमित्यर्थः । विभुं प्रभुम् , सुसूक्ष्मं दुर्ज्ञेयत्वात् । नित्याव्ययपदाभ्यां नाशापक्षययोर्निरासः । भूतानां योनिं प्रकृतिं यत्पश्यन्ति धीराः पण्डितास्तदक्षरं तद्विद्या परेत्यन्वयः । अद्रेश्यत्वादिगुणानां ब्रह्मप्रधानसाधारणत्वात्संशयः ।
पूर्ववद्रष्टृत्वादीनां चेतनधर्माणामत्राश्रुतेरस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्षयति
तत्रेति ।
पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्गुणधीरिति फलम् । ऊर्णनाभिर्लूताकीटः तन्तून्स्वदेहात्सृजति, उपसंहरति चेत्यर्थः । सतो जीवतः ।
ननु पूर्वं निरस्तं प्रधानं कथमुत्थाप्यते, तत्राह
अपिचेति ।
अत्र प्रधाने विरुध्यमानोऽसम्भावितो वाक्यशेषः श्रुत इति शङ्कते
ननु य इति ।
पञ्चम्यन्ताक्षरश्रुत्या भूतप्रकृतेः प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य जगन्निमित्तेश्वरस्य सर्वज्ञत्वादिकमित्याह
अत्रोच्यत इति ।
'सन्दिग्धे तु वाक्यशेषात्' इति न्यायेन सिद्धान्तयति
एवं प्राप्त इति ।
चेतनाचेतनत्वेन सन्दिग्धे भूतयोनौ 'यः सर्वज्ञः' इति वाक्यशेषादीश्वरत्वनिर्णय इत्ययुक्तम् , वाक्यशेषे भूतयोनेः प्रत्यभिज्ञापकाभावादिति शङ्कते
नन्विति ।
'जनिकर्तुः प्रकृतिः' इति सूत्रेण प्रकृतेरपादानसंज्ञायां पञ्चमीस्मरणादक्षरात्सम्भवतीति प्रकृतित्वेनोक्ताक्षरस्य भूतयोनेर्वाक्यशेषे तस्मादिति प्रकृतित्वलिङ्गेन प्रत्यभिज्ञानमस्तीति समाधत्ते
अत्रोच्यत इति ।
एतत्कार्यं ब्रह्म सूक्ष्मात्मकं नाम रूपम् , स्थूलं ततोऽन्नं व्रीह्यादीत्यर्थः ।
यदुक्तं पञ्चम्यन्ताक्षरश्रुत्या भूतयोनेः प्रत्यभिज्ञानादचेतनत्वमिति, तत्राह
अक्षरात्परत इति ।
नायमक्षरशब्दो भूतयोनिं परामृशति, परविद्याधिगम्यत्वेनोक्तस्याक्षरस्य भूतयोनेः 'अक्षरं पुरुषं वेदा' इत्यक्षरश्रुत्या वेद्यत्वलिङ्गवत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह
येनेति ।
येन ज्ञानेनाक्षरं भूतयोनिं सर्वज्ञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रूयादित्युपक्रम्य 'अप्राणो ह्यमनाः शुभ्रः' 'अक्षरात्परतः परः' इत्युच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः ।
तर्हि पञ्चम्यन्ताक्षरशब्दार्थः क इत्याशङ्क्याज्ञानमिति वक्ष्यत इत्याह
कथमिति ।
परविद्येति समाख्ययापि तद्विषयस्य ब्रह्मत्वमित्याह
अपिचेति ।
ननु प्रधानविद्यापि कारणविषयत्वात्परेत्यत आह
परापरविभागो हीति ।
अनित्यफलत्वेनापरविद्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्यशेषोक्तेरित्यर्थः ।
अस्तु प्रधानविद्यापि मुक्तिफलत्वेन परेत्यत आह
नचेति ।
ननु 'यः सर्वज्ञः' इत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवाक्येन तु प्रधानविद्योच्यत इत्यत आह
तिस्रश्चेति ।
इतश्च भूतयोनेर्ब्रह्मत्वमित्याह
कस्मिन्निति ।
अचेतनमात्रस्यैकायतनमुपादानं तज्ज्ञानात्कार्यज्ञानेऽपि तदकार्याणामात्मनां ज्ञानं न भवति । एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः ।
ब्रह्मविद्याशब्दाच्च भूतयोनिर्ब्रह्मेत्याह
अपिचेति ।
स ब्रह्मविद्यां सर्वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्मविद्यामुवाच । ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्तर्भावाद्ब्रह्मविद्या सर्वविद्याप्रतिष्ठा ।
नन्वपरविद्या परप्रकरणे किमर्थमुक्तेत्यत आह
अपरेति ।
प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, अदृढानित्यफलसम्पादनाशक्ताः, षोडशर्त्विजः पत्नीयजमानश्चेत्यष्टादश । यज्ञेन नामनिमित्तेन निरूप्यन्त इति यज्ञरूपाः । तथाहि ऋतुषु याचयन्ति यज्ञं कारयन्तीत्यृत्विजः, यजत इति यजमानः, 'पत्युर्नो यज्ञसंयोगे' इति सूत्रेण पतिशब्दस्य नकारोऽन्तादेशो यज्ञसम्बन्धे विहित इति पत्नी, एवमृत्विगादिनामप्रवृत्तिनिमित्तं यज्ञ इति यज्ञरूपाः । येष्ववरमनित्यफलकं कर्म श्रुत्युक्तम् , एतदेव कर्म श्रेयो नान्यदात्मज्ञानमिति ये मूढास्तुष्यन्ति ते पुनः पुनर्जन्ममरणमाप्नुवन्तीत्यर्थः । तद्विज्ञानार्थं ब्रह्मविज्ञानार्थं गुरुमभिगच्छेदेवेति नियमः ।
ब्रह्मनिष्ठस्याप्यनधीतवेदस्य गुरुत्वं वारयति
श्रोत्रियमिति ।
कार्यमुपादानाभिन्नमित्यंशे दृष्टान्तः ।
सर्वसाम्ये तवाप्यनिष्टापत्तेरित्याह
अपिच स्थूला इति ॥ २१ ॥
विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति हेतुद्वयं विभज्य व्याचष्टे
विशिनष्टि हीत्यादिना ।
दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, अमूर्तः पूर्णः, पुरुषः पुरिशयः प्रत्यगात्मा, बाह्यं स्थूलमाभ्यन्तरं कारणं सूक्ष्मं ताभ्यां सहाधिष्ठानत्वेन तिष्ठतीति सबाह्याभ्यन्तरः, हि तथा श्रुतिषु प्रसिद्ध इत्यर्थः । अविद्याकृतं नामरूपात्मकं शरीरं तेन परिच्छेदोऽल्पत्वम् । तस्य शरीरस्य धर्माज्जाड्यमूर्तत्वादीनित्यर्थः ।
नन्वक्षरशब्देन प्रधानोक्तावशब्दत्वं प्रधानस्य प्रतिज्ञातं बाध्येत, तत्राह
अक्षरमव्याकृतमिति ।
अश्नोति व्याप्नोति स्वविकारजातमित्यक्षरम् । अव्याकृतमव्यक्तम् । अनादीति यावत् । नामरूपयोर्बीजमीश्वरः तस्य शक्तिरूपम् । परतन्त्रत्वादुपादानमपि शक्तिरित्युक्तम् । भूतानां सूक्ष्माः संस्कारा यत्र तद्भूतसूक्ष्ममीश्वरश्चिन्मात्र आश्रयो यस्य तत्तथा । तस्यैव चिन्मात्रस्य जीवेश्वरभेदोपाधिभूतम् । यत्तु ईश्वर आश्रयो विषयो यस्येति नानाजीववादिनां व्याख्यानं तद्बाष्यबहिर्भूतम् , 'एतस्मिन्खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च' इत्योतप्रोतभावेनाव्याकृतस्य चिदाश्रयत्वश्रुतेराश्रयपदलक्षणाया निर्मूलत्वात् । नहि मूलप्रकृतेर्भेदे किञ्चिन्मानमस्ति । नच 'इन्द्रो मायाभिः' इति श्रुतिर्मानम् , 'अजामेकाम्' इत्याद्यनेकश्रुतिबलेन लाघवतर्कसहायेन तस्याः श्रुतेर्बुद्धिभेदेन मायाभेदानुवादित्वात् । तदुक्तं सुरेश्वराचार्यैः 'स्वतस्त्वविद्याभेदोऽत्र मनागपि न विद्यते' इति । साङ्ख्ययोगाचार्याः पुराणेतिहासकर्तारश्च मूलप्रकृत्यैक्यं वदन्ति । नन्वविद्यैक्ये बन्धमुक्तिव्यवस्था कथम् । नच व्यवस्था नास्तीति वाच्यम् , श्रवणे प्रवृत्त्यादिबाधापातादिति चेत् , उच्यतेये ह्यविद्यानानात्वमिच्छन्ति तैरपि परिणामित्वेन सांशत्वमविद्याया अङ्गीकार्यम् , तथा चानर्थात्मकस्वीयसङ्घातात्मना परिणताविद्यांशोपहितजीवभेदाद्व्यवस्था सिध्यति । यस्य ज्ञानमन्तःकरणे जायते तस्यान्तः करणपरिणाम्यज्ञानांशनशो मुक्तिरिति । एवं च श्रोतुः स्वरूपानन्दप्राप्तिः, श्रवणादो प्रवृत्तिः, विद्वदनुभवः, जीवन्मुक्तिशास्त्रं चेति सर्वमबाधितं भवति । नचैवं नानाजीवपक्षादविशेषः, मूलप्रकृतिनानात्वाभावादित्यलम् ।
परत्वेहेतुः
अविकार इति ।
ननु सूत्रकृता श्रुतौ प्रधानाद्भेदव्यपदेश उक्तस्तत्र कथमज्ञानाद्भेदोक्तिर्व्याख्यायते, तत्राह
नात्रेति ।
कार्यात्मना प्रधीयत इति प्रधानमज्ञानमेव । ततोऽन्यस्याप्रामाणिकत्वादित्यर्थः । अतोऽत्राज्ञानमेव भूतयोनिरिति पूर्वपक्षं कृत्वा निरस्यते । तन्निरासेनार्थात्साङ्ख्याकल्पितप्रधाननिरास इति मन्तव्यम् ॥ २२ ॥
वृत्तिकृन्मतेनादौ सूत्रं व्याचष्टे
अपिचेत्यादिना ।
'प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी' इति श्रुतिः । अग्निर्धुलोकः, 'असौ वाव लोको गौतमाग्निः' इति श्रुतेः । विवृता वेदाः वागित्यन्वयः । पद्भ्यां पादावित्यर्थः । यस्येदं रूपं स एष सर्वप्राणिनामन्तरात्मेत्यर्थः ।
तनुमहिम्न इति ।
अल्पशक्तेरित्यर्थः ।
यथा कश्चिब्रह्मवित्स्वस्य सर्वात्मत्वप्रकटनार्थमहमन्नमिति साम गायति न त्वन्नत्वादिकमात्मनो विवक्षति, अफलत्वात् , तथेहापीत्याह
अहमन्नमिति ।
वृत्तिकृद्व्याख्यां दूषयति
अन्ये पुनरिति ।
एष सर्वभूतान्तरात्मा सूत्रात्मा एतस्माद्भूतयोनेर्जायत इति श्रुत्यन्वयेन हिरण्यगर्भस्यात्र जायमानत्वेनोपन्यासादित्यर्थः । निरदिक्षदवोचदित्यर्थः । अग्निर्द्युलोको यस्य, यस्य समिद्रूपः सूर्यः सोऽपिद्युलोकाग्निस्तस्मादजायतेत्यर्थः । 'तस्मादित्य एव समित्' इति श्रुत्यन्तरात् । अतो मध्येऽपि सृष्टिरेव वाच्या न रूपमिति भावः ।
यदुक्तम् 'अग्निर्मूर्धा' इत्यत्र भूतयोनेः सर्वात्मत्वं विवक्षितमिति, तत्रेत्याह
सर्वात्मत्वमपीति ।
ननु हिरण्यगर्भस्य जन्मान्यत्रानुक्तं कथमत्र वक्तव्यम् , तत्राह
श्रुतीति ।
अग्रे समवर्तत जातः सन्भूतग्रामस्यैकः पतिरीश्वरप्रसादादभवत् । स सूत्रात्मा द्यामिमां पृथिवीं च स्थूलं सर्वमधारयत् । कशब्दस्य प्रजापतिसंज्ञात्वे सर्वनामत्वाभावेन स्मा इत्ययोगादेकारलोपेनैकस्मै देवाय प्राणात्मने हविषा विधेम परिचरेमेति व्याख्येयम् , 'कतम एको देव इति प्राणः' इति श्रुतेः । यद्वा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः, 'एको देवः सर्वभूतेषु गूढः' इति श्रुत्यन्तरात् ।
ननु तस्य भूतान्तरात्मत्वं कथम् , तत्राह
विकारेति ।
पूर्वकल्पे प्रकृष्टोपासनाकर्मसमुच्चयानुष्ठानदस्मिन्कल्पे सर्वप्राणिव्यष्टिलिङ्गानां व्यापकं सर्वप्राण्यन्तर्गतं ज्ञानकर्मेन्द्रियप्राणात्मकं समष्टिलिङ्गशरीरं जायते तद्रूपस्य सूत्रात्मनः सर्वभूतान्तरात्मत्वं युक्तमित्यर्थः ।
स्वपक्षे सूत्रार्थमाह
अस्मिन्पक्ष इति ।
कर्म सफलं सर्वं श्रौतस्मार्तादिकं तपश्च पुरुष एवेति सर्वान्तरत्वरूपोपन्यासाच्च भूतयोनौ ज्ञेये वाक्यं समन्वितमित्यर्थः ॥ २३ ॥
वैश्वानरः । छान्दोग्यमुदाहरति
को न इति ।
प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिला मिलित्वा मीमांसां चक्रुः 'को न आत्मा किं ब्रह्म' इति । आत्मैव ब्रह्मेति ज्ञापनार्थं पदद्वयम् ।
ते पञ्चापि निश्चयार्थमुद्दालकमाजग्मुः । सोऽपि सम्यङ्न वेदेति तेनोद्दालकेन सह षडप्यश्वपतिं कैकेयं राजानमागत्योचुः
आत्मानमिति ।
अध्येषि स्मरसि तमेव नो ब्रूहीति । राजा तु तेषां भ्रान्तिनिरासार्थं तान्प्रत्येकमपृच्छत् 'कं त्वमात्मानमुपाःसे' इति । ते च प्राचीनशालादयः क्रमेण प्रत्येकमूचुःदिवमेवाहं वैश्वानरं वेद्मि । आदित्यमेवाहं वेद्मि । वायुमेव । आकाशमेव । अप एव । पृथिवीमेवाहं वेद्मीति । ततो राजा द्युसूर्यादीनां षण्णां यथाक्रमेण सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मात्मत्वबहुलत्वरयित्वप्रतिष्ठात्वगुणान्विधाय भवन्तो यदि मामपृष्ट्वा द्युसूर्यादिषु भगवतो वैश्वानरस्याङ्गेष्वेव प्रत्येकं वैश्वानरत्वदृष्टयो भवेयुस्तदा क्रमेण मूर्धपातान्धत्वप्राणोत्क्रमणदेहविशीर्णत्वबस्तिभेदपादशोषा भवतां स्युरिति प्रत्येकोपासनं निन्दित्वा, सुतेजस्त्वगुणको द्युलोकोऽस्यात्मनो वैश्वानरस्य मूर्धा, विश्वरूपत्वगुणकः सूर्योऽस्य चक्षुरित्येवं द्युसूर्यादीनां मूर्धादिभावमुपदिश्य समस्तवैश्वानरध्यानविधिराम्नायते
यस्त्वेतमिति ।
आभिमुख्येनापरोक्षतया विश्वं मिमीते जानातीत्यभिविमानः । तं सर्वज्ञं स तदुपासकः सर्वत्र भोगं भुङ्क्त इत्यर्थः । लोका भूरादयः, भूतानि शरीराणि, आत्मानो जीवा इति भेदः ।
सुष्ठु तेजः कान्तिर्यस्य द्युलोकस्य स सुतेजाः । विश्वानि रूपाण्यस्य सूर्यस्य, 'एष शुक्ल एष नीलः' इति श्रुतेः । पृथक्नानाविधं वर्त्म गमनमात्मा स्वभावो यस्य वायोः स नानागतित्वगुणकोऽस्य प्राणः । बहुलत्वं व्यापित्वं तद्गुण आकाशोऽस्य सन्देहो देहमध्यम् । रयित्वं धनत्वं तद्गुणा आपो यस्य बस्तिर्मूत्रस्थानम् । प्रतिष्ठात्वगुणा पृथिवी तस्य पादौ । तस्य होमाधारत्वं सम्पादयति
उर एवेत्यादिना ।
पूर्वमुपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञत्वादिलिङ्गेन ब्रह्मनिष्ठत्वमुक्तम् , तद्वदत्राप्युपक्रमस्थसाधारणवैश्वानरशब्दस्य वाक्यशेषस्थहोमाधारत्वलिङ्गेन जाठरनिष्ठत्वमिति दृष्टान्तेन पूर्वपक्षयति
किन्तावदित्यादिना ।
पूर्वोत्तरपक्षयोर्जाठरब्रह्मणोर्ध्यानं फलम् । यदद्यते तदन्नम् , येन पच्यते सोऽयं पुरुषशरीरेऽन्तरस्तीत्यर्थः ।
पक्षान्तरमाह
अग्निमात्रं वेति ।
विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यं देवा अकृण्वन् कृतवन्तः । सूर्योदये दिनव्यवहारादित्यर्थः । स्याद्वैश्वानर इत्यनुषङ्गः । हि यस्मात्कं सुखप्रदो भुवनानां राजा वैश्वानरोऽभिमुखा श्रीरस्येत्यभिश्रीरीश्वरः, तस्मात्तस्य वैश्वानरस्य सुमतौ वयं स्याम तस्यास्मद्विषया शुभमतिर्भवत्वित्यर्थः ।
पक्षत्रयेऽप्यरुचिं वदन्कल्पान्तरमाह
अथेत्यादिना ।
'आत्मा वैश्वानरः' इति श्रुतेरित्यर्थः । केवलत्वं वैश्वानरशब्दशून्यत्वम् । अत्र जाठरो वैश्वानर इति मुख्यः पूर्वपक्षः, प्राणाग्निहोत्रहोमाधारत्वलिङ्गात् । तस्य देहव्यापित्वादात्मत्वं श्रुत्या द्युमूर्धत्वादिकल्पनया बृहत्त्वाद्ब्रह्मत्वमिति ध्येयम् ।
सिद्वान्तयति
तत इदमिति ।
साधारणश्रुत्योरूपक्रमस्थयोर्विशेषात्प्रथमश्रुतमुख्यत्रैलोक्यशरीरलिङ्गात्सर्वात्मकेश्वरपरत्वं युक्तम् , न चरमश्रुतकल्पितहोमाधारत्वलिङ्गेन जाठरत्वमित्यर्थः ।
ननु निर्विशेषस्य कुतो विशेष इत्यत आह
अत्र हीति ।
अवस्थान्तरगतः त्रैलोक्यात्मना स्थित इत्यर्थः ।
जाठरस्यापि ध्यानार्थं विशेषकल्पनेति चेत् , न, असत्कल्पनापत्तेः । ईश्वरस्य तु उपादानत्वाद्विशेषः सन्नेव ध्यानार्थमुच्यतामित्याह
कारणत्वादिति ।
लिङ्गान्तराण्याह
स सर्वेष्वित्यादिना ।
यथाग्नौ निक्षिप्तमिषीकातूलं दह्यते एवं हास्य विदुष इत्यर्थः ॥ २४ ॥
नन्वसदारोपेणापि स्तुतिसम्भवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह
यद्यपि स्तुतिरिति ।
तथापीतिपदमर्थतः पठति
स्तुतित्वमपीति ।
द्युमूर्धत्वादिरूपेण स्तुतिर्नरमात्रेण कर्तुमशक्या विना श्रुतिमित्यर्थः । सता रूपेण स्तुति सम्भवान्नासदारोप इति भावः ॥ २५ ॥
शब्दादीनां गतिं वक्तुमुक्तसिद्वान्तमाक्षिप्य समाधत्ते
शब्दादिभ्य इति ।
'स एषोऽग्निर्वैश्वानरः' इत्यग्निरहस्ये वैश्वानरविद्यायां श्रुतोऽग्निशब्द ईश्वरे न सम्भवतीत्यन्वयः ।
सूत्रस्थादिशब्दार्थमाह
आदिशब्दादिति ।
भक्तमन्नम् , होमीयं होमसाधनम् , तेन प्राणाग्निहोत्रं कार्यमित्यर्थः ।
वाजसनेयिनामग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा 'स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वत्रान्नमत्ति' इत्युक्तं देहान्तःस्थत्वं जाठरे सम्भवति, प्रसिद्धेरित्याह
तथेति ।
अत्र सूत्रे आदिपदेनैवान्तःप्रतिष्ठानस्य ग्रहे सम्भवति पृथगुक्तिः साधारणलिङ्गत्वद्योतनार्था । शब्दादिबलादिदमपि जाठरं गमयतीत्यभ्युच्चयः ।
यद्यपि द्युमूर्धत्वादिविशेष ईश्वरपक्षपाती होमाधारत्वादिर्जाठरपक्षपातीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न सम्भवतीति बलवानित्यत आह
अथवेति ।
एष द्युमूर्धत्वादिनिर्देश इत्यर्थः । इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तथोर्मध्यमन्तरिक्षं च यो भूताग्निर्भानुरूपेणाततान व्याप्तवान् स ध्यातव्य इत्यर्थः ।
जडमात्रस्य न ध्येयत्वमित्यत आह
अथवेति ।
सिद्धान्तयति
न तथादृष्ट्युपदेशादितीति ।
परमेश्वरदृष्ट्योपास्यजाठराग्निप्रतीकवाचकाभ्यामग्निवैश्वानरशब्दाभ्यां द्युमूर्धत्वादिमानीश्वरो लक्ष्य इत्युक्त्वा कल्पान्तरमाह
अथवा जाठरेति ।
अस्मिन्पक्षे प्राधान्येनेश्वरोपास्यता पूर्वत्र गुणतयेति भेदः । उपाधिवाचिभ्यां पदाभ्यामुपहितो लक्ष्य इत्यर्थः ।
लक्षणाबीजमसम्भवं व्याचष्टे
यदि चेति ।
पुरुषमपीत्यादिसूत्रशेषं व्याचष्टे
यदि च केवल इति ।
ईश्वरप्रतीकत्वोपाधित्वशून्यैत्यर्थो विवक्ष्येत तदेति शेषः । यत्यः, पुरुषः, स एषोऽग्निर्वैश्वानरशब्दितजाठरोपाधिक इति श्रुत्यर्थः । यो वेद स सर्वत्र भुङ्क्त इत्यर्थः ।
पुरुषत्वं पूर्णत्वमचेतनस्य जाठरस्य नेत्युक्त्वा पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह
ये त्विति ।
ननु जाठरस्यापि देहव्यापित्वात्तद्विधत्वं स्यादित्यत आह
पुरुषविधत्वं च प्रकरणादिति ।
न देहव्यापित्वं पुरुषविधत्वं किन्तु विराड्देहाकारत्वम् , अधिदैवं पुरुषविधत्वमध्यात्मं चोपासकमूर्धादिचुबुकान्तेष्वङ्गेषु सम्पन्नत्वमीश्वरस्य पुरुषविधत्वमित्यर्थः ॥ २६ ॥
ईश्वरस्याङ्गेषु सम्पत्तिर्वक्ष्यते । एवं जाठरं निरस्य पक्षद्वयं निरस्यति
अत एवेति ।
सूत्रं व्याचष्टे
यत्पुनरित्यादिना ।
द्युमूर्धत्वादिः, सर्वलोकफलभाक्त्वम् , सर्वपाप्मप्रदाहः, आत्मब्रह्मशब्दोपक्रम उक्तहेतवः ।
तानेव स्मारयति
न हि भूताग्नेरित्यादिना ।
'यो भानुना' इति मन्त्रेणेश्वरदृष्ट्या महिमोक्त इति भावः ॥ २७ ॥
पूर्वमग्निवैश्वानरशब्दावीश्वरलक्षकावित्युक्तम् । अधुना प्रतीकोपाधिपरित्यागेन विराट्पुरुषाकारस्य भगवतो वैश्वानरस्याध्यात्मं मूर्धादिचुबुकान्तेषु सम्पाद्योपास्यत्वाङ्गीकारेऽपि न शब्दादिविरोधः शब्दयोरीश्वरे योगवृत्त्या मुख्यत्वात् , अन्तःस्थत्वादीनां च तत्र सम्भवादित्याह
साक्षादपीति ।
साक्षात्पदस्यार्थमाह
विनैवेति ।
जाठराग्निसम्बन्धं विनेश्वरस्योपास्यत्वेऽपि शब्दाद्यविरोधं जैमिनिर्मन्यत इत्यर्थः । इदमन्तस्थत्वमुदरस्थत्वरूपं नोच्यते किन्तु नखादिशिखान्तावयवसमुदायात्मकपुरुषशरीरे मूर्धादिचिबुकान्ताङ्गानि वृक्षे शाखावत्प्रतिष्ठितानि, तेषु सम्पन्नो वैश्वानरः पुरुषेऽन्तःप्रतिष्ठित इत्युच्यते ।
अतो यथा शाखास्थस्य पक्षिणो वृक्षान्तःस्थत्वं तथा वैश्वानरस्य पुरुषान्तःस्थत्वमित्याह
न हीह पुरुषविधमित्यादिना ।
अग्न्यादिशब्दस्येश्वरवाचित्वाज्जाठराग्नेरसंशब्दितत्वम् । अत्रेश्वरस्य पुरुषावयवेषु सम्पादनात्पुरुषविधत्वमन्तःस्थत्वं चेत्यर्थः ।
पक्षान्तरमाह
अथवेति ।
पुरुषविधत्वं पूर्ववत् । अन्तःस्थत्वं माध्यस्थ्यं साक्षित्वमित्यर्थः ।
एवमन्तःस्थत्वमीश्वरे व्याख्याय शब्दादीनि व्याचष्टे
निश्चिते चेति ।
विश्वश्चायं नरो जीवश्च सर्वात्मत्वात् । विश्वेषां विकाराणां वा नरः कर्ता । विश्वे सर्वे नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तीति विश्वानरः । रक्ष एव राक्षस इतिवत्स्वार्थे तद्धितप्रत्ययः । 'नरे संज्ञायां' इति पूर्वपदस्य दीर्घता । अगिधातोर्गत्यर्थस्य निप्रत्ययान्तस्य रूपमग्निरिति । अङ्गयति गमयत्यग्रं कर्मणः फलं प्रापयतीति अग्निरग्रणीरुक्तः । अभितोऽग इति वा अग्निः ।
वैश्वानरोपासकस्यातिथिभोजनात्पूर्वं प्राणाग्निहोत्रं विद्याङ्गत्वेन विहितम् , तदर्थमग्नित्रेतादिकल्पनं प्रधानाविरोधेन नेतव्यमित्याह
गार्हपत्येति ॥ २८ ॥
मात्रां परिमाणमतिक्रान्तोऽतिमात्रः तस्य विभोरित्यर्थः । उपासकानां कृतेऽनुग्रहाय प्रादेशमात्रोऽभिव्यज्यते, प्रदेशेषु वा मीयतेऽभिव्यज्यत इति प्रादेशमात्रः ॥ २९ ॥
मतान्तरमाह
अनुस्मृतेरिति ।
प्रादेशेन मनसा मितः प्रादेशमात्र इत्यर्थः ।
यथाकथञ्चिदिति ।
मनःस्थं प्रादेशमात्रत्वं स्मृतिद्वारा स्मर्यमाणे कल्पितं श्रुतेरालम्बनमित्यर्थः ।
सूत्रस्यार्थान्तरमाह
प्रादेशेति ॥ ३० ॥
सम्प्रति श्रुत्युक्तां प्रादेशमात्रश्रुतेर्गतिमाह
सम्पत्तेरिति ।
ब्राह्मणं पठति
प्रादेशमात्रमिवेति ।
अपरिच्छिन्नमपीश्वरं प्रादेशमात्रत्वेन सम्पत्त्या कल्पितं सम्यग्विदितवन्तो देवास्तमेवेश्वरमभि प्रत्यक्त्वेन सम्पन्नाः प्राप्तवन्तः, ह वै पूर्वकाले, ततो वो युष्मभ्यम् , तथा द्युप्रभृतीनवयवान्वक्ष्यामि यथा प्रादेशमात्रं प्रादेशपरिमाणमनतिक्रम्य मूर्धाद्यध्यात्माङ्गेषु वैश्वानरं सम्पादयिष्यामीति प्राचीनशालदीन्प्रति राजा प्रतिज्ञाय स्वकीयमूर्धानमुपदिशन् करेण दर्शयन्नुवाचएष वै मे मूर्धा भूरादींल्लोकानतीत्य उपरि तिष्ठतीत्यतिष्ठाासौ द्युलोको वैश्वानरः । तस्य मूर्धेति यावत् । अध्यात्ममूर्धाभेदेनाधिदैवमूर्धा सम्पाद्य ध्येय इत्यर्थः । एवं चक्षुरादिषूहनीयम् ।
स्वकीयचक्षुषी दर्शयन् 'एष वै सुतेजाः सूर्यो वैश्वानरस्य चक्षुरित्युवाच' । नासिकापदेन तन्निष्ठः प्राणो लक्ष्यते तस्मिन्नाध्यात्मिकप्राणेऽधिदैवप्राणस्य वायोर्दृष्टिमाह
नासिक इति ।
अत्र सर्वत्र वैश्वानरशब्दस्तदङ्गपरः । मुखस्थं मुख्यं तस्मिन्नधिदैवं बहुलाकशदृष्टिः मुखस्थलालारूपास्वप्सु रैशब्दिततदीयबस्तिस्थोदकदृष्टिः चिबुके प्रतिष्ठा पादरूपा पृथिवी द्रष्टव्या ।
ननु गुणवैषम्येण विद्ययोर्भेदादग्निरहस्ये श्रुत्यनुसारेण छान्दोग्यस्थप्रादेशमात्रक्षुतिः कथं व्याख्येयेत्याशङ्क्याह
यद्यपीत्यादिना ।
एतावताल्पवैषम्येण बहुतरप्रत्यभिज्ञासिद्धं विद्यैक्यं न हीयते । शाखाभेदेऽपि सर्वशाखासु प्रतीयमानं वैश्वानराद्युपासनमेकमिति न्यायस्य वक्ष्यमाणत्वाच्च । अतिष्ठात्वगुणश्छान्दोग्य उपसंहर्तव्यः । विश्वरूपत्वगुणश्च वाजिभिर्ग्राह्यः । तथाच द्युसूर्ययोः सुतेजस्त्वं सममतिष्ठात्वविश्वरूपत्वयोर्व्यवस्था । यद्वा शाखाभेदेन गुणव्यवस्थास्तु न विद्याभेद इति भावः ॥ ३१ ॥
प्रादेशत्वस्य सम्पत्तिप्रयुक्तत्वे श्रुत्यन्तरं संवादयति
आमनन्तीति ।
य एषोऽनन्तोऽपरिच्छिन्नः अतोऽव्यक्तो दुर्विज्ञेयस्तं कथं जानीयामित्यत्रेः प्रश्ने याज्ञवल्क्यस्योत्तरम् , स ईश्वरोऽविमुक्ते कामादिभिर्बद्धे जीवे भेदकल्पनया प्रतिष्ठित उपास्यः । पुनरत्रिप्रश्नः स इति, उत्तरं वरणायामिति । एवं प्रश्नोत्तरे अग्रेऽपि ज्ञेये । तत्र च श्रुतौ इमामेव भ्रूसहितां नासिकां निरुच्येति भाष्ययोजना । सर्वानिन्द्रयकृतान्दोषान्वारयतीति वरणा भ्रूः, सर्वान्दोषान्नाशयतीति नासी नासिकेति निर्वचनं श्रुतम् । नासाभ्रुवोर्जीवद्वारेश्वरस्थानत्वध्यानात्पापवारकत्वमिति मन्तव्यम् । तयोर्मध्येऽपि विशिष्य जीवस्य स्थानं पृच्छति कतमदिति, भ्रुवोरित्युत्तरम् । प्राणस्येति पाठेऽपि घ्राणस्येत्यर्थः ।
स एष सन्धिर्द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येय इत्याह
स एष इति ।
आभिमुख्येनाहं ब्रह्मेति विमीयते ज्ञायते इत्यभिविमानः प्रत्यगात्मा । अभिगतश्चासौ विमानश्च, सर्वस्वरूपत्वे सत्यानन्त्यात् । मानमत्र परिमाणम् । अभिविमिमीते निर्मिमीते । तस्माद्वैश्वानरवाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ ३२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥
प्रथमाध्याये तृतीयः पादः
द्युभ्वोतभूमपदमक्षरमीक्षणीयं श्रीराममल्पह्रदि भान्तमधीशितारम् । इन्द्रादिवेद्यमखिलस्य च शासितारं ज्योतिर्नभः पदमनिद्रमजं भजेऽहम् ॥ १ ॥
एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो द्वितीयपादे दर्शितः । अधुना यौगिकपदबहुलानां निर्विशेषप्रधानानां वाक्यानां समन्वयं वक्तुं तृतीयः पाद आरभ्यते । अतोऽत्राधिकरणानां श्रुत्यध्यायपादसङ्गतयः । तत्र पूर्वमुपक्रमस्थसाधारणशब्दस्य वाक्यशेषस्थद्युमूर्धत्वादिना ब्रह्मपरत्वमुक्तम् , तद्वदत्राप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषस्थसेतुश्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दृष्टान्तलक्षणाधिकरणसङ्गतिः । पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्विशेषब्रह्मधीरिति फलम् । मुण्डकवाक्यमुदाहरति
इदमिति ।
यस्मिन् लोकत्रयात्मा विराट् , प्राणैः सर्वैः सह मनः सूत्रात्मकम् , चकारादव्याकृतं कारणमोतं कल्पितं तदपवादेन तमेवाधिष्ठानात्मानं प्रत्यगभिन्नं जानथ श्रवणादिना । अन्या अनात्मवाचो विमुञ्चथ विशेषेण निःशेषं त्यजथ । एष वाग्विमोकपूर्वकात्मसाक्षात्कारोऽमृतस्य मोक्षस्यासारापारदुर्वारसंसारवारिधेः परपारस्य सेतुरिव सेतुः प्रापक इति मातृवच्छ्रुतिर्मुमुक्षूनुपदिशति ।
तत्रायतनत्वस्य साधारणधर्मस्य दर्शनात्संशयमाह
तत्किमिति ।
अमृतस्य ब्रह्मणः सेतुरिति षष्ठ्या ब्रह्मणो भिन्नत्वेन सेतोः श्रुतत्वादेषशब्दपरामृष्टं द्युभ्वाद्यायतनमब्रह्मैव सेतुरिव सेतुरित्याह
अमृतस्येति ।
भेदश्रवणात्सेतुरिति श्रवणच्चेत्यर्थः ।
तत्र भेदश्रवणं व्याख्यातम् । सेतुश्रवणं स्वयं विवृणोति
पारवानिति ।
अनन्तं कालतः । अपारं देशतः । जलविधारकमुख्यसेतोर्ग्रहणासम्भवाद्गौणसेतुग्रहे कर्तव्ये मुख्यसेत्वविनाभूतपारवत्त्वगुणवानेव कश्चिद्ग्राह्यः । नतु मुख्यस्यानियतविधारणगुणवानीश्वर इति भावः । यथा लोके मणयः सूत्रेण ग्रथिता एवं हे गौतम, समष्टिलिङ्गात्मकवायुना स्थूलानि सर्वाणि सन्दृब्धानि ग्रथितानि भवन्तीति श्रुत्यर्थः ।
आत्मशब्दात्पक्षद्वयमप्ययुक्तमित्यत आह
शारीरो वेति ।
सद्वितीयत्वेन सेतुशब्दोपपत्तेश्चेत्यर्थः ।
नन्वात्मशब्दो जीवे सम्भवतीत्यत आह
आत्मशब्दश्चेति ।
उपाधिपरिच्छिन्नस्य जीवस्य सर्ववस्तु प्रत्येकं मुख्यं नास्तीत्यर्थः । उपक्रमस्थसाधारणायतनस्य गौणसेतुत्वलिङ्गात्प्रथमश्रुतात्मश्रुत्या ब्रह्मनिश्चय इति भावः ।
स्वशब्दादित्यस्यार्थान्तरमाह
क्वचिच्चेति ।
प्रजानामुत्पत्तौ सदेव मूलम् , स्थितावायतनम् , लये प्रतिष्ठेति ब्रह्मवाचिसत्पदेन छान्दोग्ये ब्रह्मण आयतनत्वश्रुतेरत्रापि तथेत्यर्थः ।
अर्थान्तरमाह
स्वशब्देनैवेति ।
'यस्मिन् द्यौः' इति वाक्यात्पूर्वोत्तरवाक्ययोः पुरुषब्रह्मादिशब्देन ब्रह्मसङ्कीर्तनान्मध्येऽपि ब्रह्म ग्राह्यमित्यर्थः । पुरुष इति पूर्ववाक्यम् , ब्रह्मैवेत्युत्तरवाक्यम् , सर्वासु दिक्षु स्थितं सर्वं ब्रह्मैवेत्यर्थः । उत्तरेणोत्तरस्यां दिशि ।
उदाहृतवाक्यस्य सविशेषब्रह्मपरत्वमाशङ्क्य वाक्यं व्याचष्टे
तत्रेत्यादिना ।
सामानाधिकरण्याद्विचित्र आत्मेति सम्बन्धः ।
यस्मिन् सर्वमोतं तमेवैकमित्येवकारैकशब्दाभ्यां निर्विशेषं ज्ञेयमित्युक्त्वा हेत्वन्तरमाह
विकारानृतेति ।
विकारेऽनृते कल्पिते अभिसन्धोऽभिमानो यस्य तस्यानर्थभाक्त्वेन निन्दाश्रुतेश्च कूटस्थसत्यं ज्ञेयमित्यर्थः ।
कथं तर्हि सामानाधिकरण्यम् , तत्राह
सर्वं ब्रह्मेति ।
यश्चोरः स स्थाणुरितिवत्यत्सर्वं तद्ब्रह्मेति सर्वोद्देशेन ब्रह्मत्वविधानाद्बाधनार्थम् , न तु यद्ब्रह्म तत्सर्वमिति नानारसत्वार्थमित्यर्थः ।
तत्र नियामकमाह
स यथेति ।
लवणपिण्डोऽन्तर्बहिश्च रसान्तरशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि, चिदेकरस आत्मेत्यर्थः ।
यद्यपि पारवत्त्वसावयवत्वादिकं मुख्यसेत्वव्यभिचारि तथापि सेतोर्जलादिबन्धनरूपं यद्विधारणं तदेव व्यभिचारित्वेऽपि सेतुपदार्थैकदेशत्वाद्गुणत्वेन ग्राह्यं नतु पदार्थबहिर्भूतं पारवत्त्वादिकमित्याह
अत्रोच्यत इति ।
दृष्टत्वात्तद्ग्रहेऽतिप्रसङ्गमाह
नहीति ।
अत्र श्रुतौ परेणेति शेषः ।
विधारणस्य शब्दार्थत्वं स्फुटयति
षिञिति ।
सिनोति बध्नातीति सेतुपदार्थैकदेशो विधारणमित्यर्थः । तथा चामृतपदस्य भावप्रधानत्वादमृतत्वस्य सेतुर्विधारकं ब्रह्म । अस्यैवामृतत्वं नान्यस्येत्यर्थः ।
यद्वा द्युभ्वाद्याधारो ब्रह्म न सेतुशब्दार्थः किन्त्वव्यवहितं ज्ञानमित्याह
अपर इति ।
फलितमाह
तत्र यदुक्तमिति ।
ज्ञाने सेतौ गृहीते सतीत्यर्थः ॥ १ ॥
मुक्तैरूपसृप्यं प्रत्यक्त्वेन प्राप्यं यद्ब्रह्म तस्यात्रोक्तेरिति सूत्रार्थः । मुक्तिप्रतियोगिनं बन्धं दर्शयति
देहादिष्विति ।
तद्विपर्ययेणेति ।
उक्तपञ्चक्लेशात्मकबन्धनिवृत्त्यात्मना स्थितमित्यर्थः ।
यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रात्मना तिष्ठन्ति तथा ब्रह्मात्मविदपि संसारं विहाय परात्कारणादव्यक्तात्परं पूर्णं स्वयञ्ज्योतिरानन्दं प्रत्यक्त्वेन प्राप्य तिष्ठतीत्याह
तथा विद्वानिति ।
इदं प्रधानादेः किं न स्यादत आह
ब्रह्मणश्चेति ।
अस्य मुमुक्षोः, हृदीति पदेनात्मधर्मत्वं कामानां निरस्तम् । यदा कामनिवृत्तिरथ तदामृतो भवति, मरणहेत्वभावात् । न केवलमनर्थनिवृत्तिः किन्त्वत्र देहे तिष्ठन्नेव ब्रह्मानन्दमश्नुत इत्यर्थः ।
लिङ्गान्तरमाह
अपिचेति ।
धीरो विवेकी तमेवात्मानं विज्ञाय विशुद्दं लक्ष्यपदार्थं ज्ञात्वा वाक्यार्थज्ञानं कुर्यात् । ज्ञानार्थिनो ज्ञानप्रतिबन्धककर्मकाण्डादेर्वैमुख्यमाह
नेति ।
बहूनित्युक्त्या अल्पान्वेदान्तशब्दानङ्गीकरोति । 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्थता । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च' ॥ इत्येतानि वागिन्द्रियस्थानत्वाद्वाक्शब्देनोच्यन्ते । तेषां शोषणमात्रमनात्मशब्दोच्चारणफलं तद्ध्यानान्मनसो ग्लानिमात्रमित्यर्थः ॥ २ ॥
वैशेषिक इति ।
असाधारण आत्मशब्दादिरित्यर्थः ।
अतच्छब्दादित्यस्यार्थान्तरमाह
तद्विपरीतस्येति ।
अत एवातच्छब्दादेव ॥ ३ ॥
प्राणभृच्चेति ।
सूत्रे चकारः पूर्वसूत्रस्थनञोऽनुषङ्गार्थः । सर्वज्ञपदसमानाधिकरणमात्मशब्दो न जीववाचीत्यतच्छब्दस्तस्मादित्यर्थः ।
ननु 'नानुमानप्राणभृतावतच्छब्दात्' इत्येकमेव सूत्रं किमर्थं न कृतमुभयनिरासहेतोरेकत्वादित्यत आह
पृथगिति ।
योगः सूत्रम् । उत्तरसूत्रस्थहेतूनां जीवमात्रनिरासेनान्वयेऽपि सुबोधार्थं प्राणभृच्चेति पृथक्सूत्रकरणमित्यर्थः ॥ ४ ॥
तानेव हेतूनाकाङ्क्षाद्वारा व्याचष्टे
कुतश्चेत्यादिना ।
यद्यपि विशुद्धः प्रत्यगात्मैवात्र ज्ञेयः तथापि जीवत्वाकारेण ज्ञातुर्ज्ञेयाद्भेदान्न ज्ञेयरूपत्वमित्यर्थः ।
एवं च जीवत्वलिङ्गविशिष्टत्वेन जीवस्य द्युभ्वादिवाक्यार्थत्वं निरस्यते न शुद्धरूपेणेति मन्तव्यम् ॥ ५ ॥ ॥ ६ ॥
ननु स्थित्येश्वरस्यादनाजीवस्य 'द्वा सुपर्णा' इत्यत्रोक्तावपि ईश्वर आयतनवाक्येन किमर्थं ग्राह्य इत्यत आह
यदि चेश्वर इति ।
अत्र चेश्वरः शुद्धचिन्मात्रो ग्राह्यः, न सर्वज्ञत्वादिविशिष्टः, तस्यात्राप्रतिपाद्यत्वात् । तथा चाप्रतिपाद्यार्थस्याकस्मान्मध्ये वचनासम्भवादाद्यवाक्येन ग्रहणं कार्यमित्यभिसन्धिः ।
तमज्ञात्वा शङ्कते
ननु तवापीति ।
ब्रह्मस्वरूपप्रतिपादनार्थमकस्मादप्रकृतस्यापि लोकप्रसिद्धस्य जीवस्यानुवादसम्भव इति परिहरति
नेति ।
ननु 'द्वा सुपर्णा' इत्यत्र बुद्धिजीवयोरुक्तेः कथमिदं सूत्रमित्यत आह
गुहामिति ।
स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञयोरनुवादेनैक्यं दर्शितमित्यर्थः ।
नन्वत्र जीवेशौ नानुवाद्यौ, पैङ्गिव्याख्याविरोधादतः सूत्रासङ्गतिरित्यत आह
यदापीति ।
तदापि सूत्रस्यासङ्गतिर्नास्तीत्यर्थः ।
अदनवाक्येन बुद्धिमनूद्य स्थितिवाक्येन बुद्ध्यादिविलक्षणशुद्धप्रत्यग्ब्रह्मणो ज्ञेयस्योक्तेर्द्युभ्वादिवाक्ये तदेव ग्राह्यम् , न बुद्ध्युपहितो जीव इति सूत्रसङ्गतिमाह
कथमित्यादिना ।
नन्वत्रानुपहितो जीव उक्तो न परं ब्रह्मेत्यत आह
यस्त्विति ।
पौनरुक्त्यं शङ्कते
तदेतदिति ।
द्युभ्वादिवाक्यस्य ब्रह्मपरत्वमित्यर्थः ।
समाधत्ते
प्रपञ्चार्थमिति ।
सेतुशब्दव्याख्यानेन भूतयोनेः प्रत्यगात्मत्वस्फुटीकरणार्थमित्यर्थः । तस्मान्मुण्डकोपनिषद्ब्रह्मणि समन्वितेति सिद्धम् ॥ ७ ॥
भूमा । छान्दोग्यमुदाहरति
इदमिति ।
नाल्पे सुखमस्ति भूमैव सुखम् , तस्मान्निरतिशयसुखार्थिना भूमैव विचार्य इति नारदं प्रति सनत्कुमारेणोक्ते सति नारदो ब्रूते
भूमानमिति ।
भूम्नो लक्षणमद्वितीयत्वमाह
यत्रेति ।
भूमलक्षणं परिच्छिन्नलक्षणोक्त्या स्फुटयति
अथेति ।
अत्र संशयबीजं प्रश्नपूर्वकमाह
कुत इत्यादिना ।
बहोर्भाव इति विग्रहे 'पृथ्वादिभ्य इमनिच्' इतीमन्प्रत्यये कृते 'बहोर्लोपो भू च बहोः' इति सूत्रेण बहोः परस्येमनिच्प्रत्ययस्यादेरिकारस्य लोपः स्यात् , बहोः स्थाने भूरित्यादेशश्च स्यादित्युक्तेर्भूमन्निति शब्दो निष्पन्नः । तस्य भावार्थकेमन्प्रत्ययान्तत्वाद्बहुत्वं वाच्यम् । तत्किन्धर्मिकमित्याकाङ्क्षायां संनिहितप्रकरणस्थः प्राणो धर्मो भाति । वाक्योपक्रमस्थ आत्मापि स्वप्रतिपादनापेक्षो धर्मित्वेन भातीति संनिहितव्यवहितप्रकरणाभ्यां संशय इत्यर्थः ।
पूर्वमात्मशब्दात्द्युभ्वाद्यायतनं ब्रह्मेत्युक्तम् , तदयुक्तम् , 'तरति शोकमात्मवित्' इत्यब्रह्मण्यप्यात्मशब्दप्रयोगादित्याक्षेपसङ्गत्या पूर्वपक्ष्यति
प्राणो भूमेति ।
धर्मधर्मिणोरभेदात्सामानाधिकरण्यं दृष्टव्यम् । पूर्वोत्तरपक्षयोः प्राणोपास्तिः ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम् ।
अत्राध्याये भूयः प्रश्नोत्तरभेदादर्थभेदो दृश्यते । भूमा तु प्राणात्परं भूयःप्रश्नं विनैवोक्तलिङ्गेन प्राणादभिन्न इत्याह
कस्मादित्यादिना ।
प्राणाद्भूय इति न दृश्यत इति पूर्वेण सम्बन्धः ।
ननु 'एष तु वा अतिवदति' इति तुशब्देन प्राणप्रकरणविच्छेदान्न प्राणो भूमेत्यत आह
प्राणमेवेति ।
नामाद्याशान्तानुपास्यानतीत्य प्राणं श्रेष्ठं वदतीत्यतिवादि प्राणविद्तं प्रति अतिवाद्यसीति केनचित्प्रश्ने कृते अस्मीति ब्रूयात् , नाहमतिवादीत्यपह्नवं न कुर्यादित्युक्तम् । प्राणविदमेष इति परामृश्य सत्यवचनध्यानमननश्रद्धादिधर्मपरम्परां विधाय भूमोपदेशान्न प्रकरणविच्छेदः । तुशब्दो नामाद्युपासकस्यातिवादित्वनिरासार्थ इत्यर्थः ।
भूम्नो लक्षणवचनं सुखत्वममृतत्वं च प्राणे प्रश्नपूर्वकं योजयति
कथं पुनरित्यादिना ।
प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुषुप्तपुरुष इति शेषः । 'गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचन आहवनीयः प्राणः' इति श्रुतेः प्राणा अग्नय इह पुरे शरीरे जाग्रति सव्यापारा एव तिष्ठन्तीत्यर्थः । देवो जीवः । अथ तदा स्वप्नादर्शनकाले सुखश्रवणात्प्राणस्य सुखत्वमविरुद्धमित्यन्वयः ।
आत्मपदेनोपक्रमविरोधं परिहरति
प्राण एवेति ।
प्राणस्यात्मत्वं कथमित्याशङ्क्य श्रुतत्वादित्याह
तथा हीति ।
सर्वं समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुतिरित्यन्वयः । अत आत्मत्वं प्राणेपि मुख्यमिति भावः ।
भूमरूपत्वं योजयति -
सर्वात्मत्वेति ।
सम्प्रसादशब्देन प्राणं लक्षयितुं मुख्यार्थं दर्शयति
सम्प्रसाद इति ।
स वा एष एतस्मिन्सम्प्रसादे स्थित्वा पुनराद्रवतीति प्रयोगाच्च ।
तत्पदं सुषुप्तिवाचकमित्याह
बृहदिति ।
वाच्यार्थसम्बन्धात्प्राणो लक्ष्य इत्याह
तस्यां चेति ।
अत्र सूत्र इत्यर्थः । भूमा प्राणाद्भिन्नोऽत्राध्याये, तस्मादूर्ध्वमुपदिष्टत्वात् , नामादेरूर्ध्वमुपदिष्टवागादिवदित्यर्थः ।
विपक्षहेतूच्छेदं बाधकमाह
प्राण एव चेदिति ।
स्वस्यैव स्वस्मादूर्ध्वमुपदिष्टत्वमयुक्तम् , नामादिष्वदृष्टं चेत्यर्थः ।
हेत्वसिद्धिं शङ्कते
नन्विहेति ।
प्रकृतप्राणवित्परामर्शक एषशब्दो न भवति, तस्य यच्छब्दपरतन्त्रत्वेन सत्यवादिवाचित्वात् । अतः प्राणप्रकरणं विच्छिन्नमिति हेतुसिद्विरित्याह
अत्रोच्यत इति ।
सत्येनातिवादित्वं विशेषः, तद्वतो य एष इत्युक्तेर्न पूर्वानुकर्ष इत्यर्थः ।
य एष प्राणविदतिवदतीत्यनूद्य स सत्यं वदेदिति विधानान्न प्राणप्रकरणविच्छेद इति दृष्टान्तेन शङ्कते
नन्विति ।
सत्यशब्दो ह्यबाधिते रूढो ब्रह्मवाचकः, तदन्यस्य मिथ्यात्वात् । सत्यवचने त्वबाधितार्थसम्बन्धाल्लाक्षणिक इति नात्र लक्ष्यवचनविधिरित्याह
नेति ब्रूम इति ।
किञ्च सत्येन ब्रह्मणातिवदतीति तृतीयाश्रुत्या ब्रह्मकरणकमतिवादित्वं श्रुतम् , तस्य प्रकरणाद्बाधो न युक्त इत्याह
श्रुत्या हीत्यादिना ।
अत्रेति ।
सत्यवाक्य इत्यर्थः ।
एवं सत्येनेति श्रुत्या प्रकरणं बाध्यमित्युक्त्वा तुशब्देनापि बाध्यमाह
प्रकृतेति ।
विजिज्ञास्यत्वलिङ्गाच्च पूर्वोक्ताद्भिन्नमित्याह
सत्यं त्वेवेति ।
प्रकरणविच्छेदे दृष्टान्तमाह
तस्मादिति ।
श्रुतिलिङ्गबलादेतत्सत्यं प्रकृतात्प्राणात्प्राधान्येन भिन्नं द्रष्टव्यमित्यर्थः ।
एवमतिवादित्वस्य ब्रह्मसम्बन्धोक्त्या प्राणलिङ्गत्वं निरस्तम् । यत्तु प्रश्नं विनोक्तत्वलिङ्गाद्भूमा प्राण इति, तन्न, तस्याप्रयोजकत्वादित्याह
न चेति ।
प्रश्नभेदादर्थभेद इति न नियमः, एकस्यात्मनो मैत्रेय्या बहुशः पृष्टत्वात् । प्रश्नं विनोक्तचातुर्वेदस्य प्रकृतैकवेदाद्भिन्नत्वदर्शनाच्चेत्यर्थः ।
तत्र यथा चतुर्वेदत्वस्य प्रकृतासम्बन्धादर्थभेदः, एवमिहापीति स्फुटयति
तत्रेत्यदिना ।
सत्यपदेन प्राणोक्तिरित्यत आह
तत्र सत्यमिति ।
विज्ञानं निदिध्यासनम् । आदिपदान्मननश्रद्धाश्रवणमनःशुद्धिनिष्टातद्धेतुकर्माणि गृह्यन्ते । इमान्यपि श्रवणादीनि ज्ञेयस्य सत्यस्य ब्रह्मत्वे लिङ्गानि । एवं श्रुतिलिङ्गैः प्राणस्यावान्तरप्रकरणं बाधित्वा प्रस्तुतं सत्यं ब्रह्म भूमपदोक्तबहुत्वधर्मीत्याह
तत्र यदिति ।
किञ्च 'संनिहितादपि व्यवहितं साकाङ्क्षं बलीयः' इति न्यायेन संनिहितं निराकाङ्क्षं प्राणं दृष्ट्वा वाक्योपक्रमस्थ आत्मा स्वप्रतिपादनाय भूमवाक्यापेक्ष इह भूमा ग्राह्य इत्याह
एवं चेति ।
किञ्च शोकस्य पारमित्युपक्रम्य तमसः पारमित्युपसंहारात् , शोकस्य मूलोच्छेदं विना तरणायोगाच्च, शोकपदेन मूलतमो गृह्यते । तन्निवर्तकज्ञानगम्यत्वलिङ्गादात्मा ब्रह्मेत्याह
न चान्यत्रेति ।
ब्राह्मणमात्मायत्तत्वं प्राणस्य वदतीति सम्बन्धः ।
नन्विदं चरमं ब्राह्मणं ब्रह्मपरमस्तु, ततः प्रागुक्तो भूमा प्राण इति शङ्कते
प्रकरणान्त इति ।
तच्छब्देन भूमानुकर्षान्मैवमित्याह
नेति ॥ ८ ॥
भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह
धर्मेति ।
सूत्रम् ।
यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदनूद्य विघटयति
योऽप्यसावित्यादिना ।
सति बुद्ध्याद्युपाधावात्मनो द्रष्टृत्वादिः, तदभावे सुषुप्तौ तदभाव इत्यसङ्गत्वज्ञानार्थं प्रश्नोपनिषदि 'न शृणोति न पश्यति' इति परमात्मानं प्रकृत्योक्तम् । तथा तत्रैवात्मनः सुखत्वमुक्तं न प्राणस्य । यतः श्रुत्यन्तरमात्मन एव सुखत्वमाह तस्मादित्यर्थः । आमयो नाशादिदोषः तत्सहितं सामयम् । आर्तं नश्वरम् । 'स एवाधस्तात्स उपरिष्टात्' इति सर्वगतत्वम् , 'स एवेदं सर्वम्' इति सर्वात्मत्वं च श्रुतम् , तस्माद्भूमाध्यायो निर्गुणे समन्वित इति सिद्धम् ॥ ९ ॥
अक्षरमम्बरान्तधृतेः । बृहदारण्यकं पठति
कस्मिन्न्विति ।
यद्भूतं भवच्च भविष्यच्च तत्सर्वं कस्मिन्नोतमिति गार्ग्या पृष्टेन मुनिना याज्ञवल्क्येनाव्याकृताकाशः कार्यमात्राश्रय उक्तः । आकाशः कस्मिन्नोत इति द्वितीयप्रश्ने स मुनिरुवाच, तदव्याकृतस्याधिकरणमेतदक्षरमस्थूलादिरूपमित्यर्थः । उभयत्राक्षरशब्दप्रयोगात्संशयः । यथा सत्यशब्दो ब्रह्मणि रूढ इति ब्रह्म भूमेत्युक्तं तथाक्षरशब्दो वर्णे रूढ इति दृष्टान्तेन पूर्वपक्षः । तत्र ओङ्कारोपास्तिः फलम् , सिद्धान्ते निर्गुणब्रह्मधीरिति विवेकः ।
ननु न क्षरतीत्यचलत्वानाशित्वयोगाद्ब्रह्मण्यप्यक्षरशब्दो मुख्य इत्यत आह
प्रसिद्ध्यतिक्रमस्येति ।
'रूढिर्योगमपहरति' इति न्यायादित्यर्थः ।
वर्णस्य ओङ्कारस्य सर्वाश्रयत्वं कथमित्याशङ्क्य ध्यानार्थमिदं यथा श्रुत्यन्तरे सर्वात्मत्वमित्याह
ओङ्कार इति ।
प्रश्नप्रतिवचनाभ्यामाकाशान्तजगदाधारत्वे तात्पर्यनिश्चयान्न ध्यानार्थता, अतस्तल्लिङ्गबलाद्रूढिं बाधित्वा योगवृत्तिर्ग्राह्येति सिद्वान्तयति
एवमित्यादिना ॥ १० ॥
आकाशं भूतं कृत्वा शङ्कते
स्यादेतदिति ।
चेतनकर्तृकशिक्षाया अत्र श्रुतेर्मैवमित्याह
सा चेति ।
सूत्रं व्याचष्टे
सा चेति ।
चकार आकाशस्य भूतत्वनिरासार्थः । भूताकाशस्य कार्यन्तःपातिनः श्रुतसर्वकार्याश्रयत्वायोगादव्याकृतमज्ञानमेवाकाशः प्रधानशब्दित इति तदाश्रयत्वाच्चाक्षरं न प्रधानमित्यर्थः । विधृतौ विषयत्वेन धृतौ ॥ ११ ॥
प्रश्नपूर्वकं सूत्रं व्याकरोति
किमिदमिति ।
घटत्वाद्व्यावृत्तिरिति भ्रान्तिं निरस्यति
एतदिति ।
अम्बरान्तस्याधारमक्षरं श्रुतिरचेतनत्वाद्व्यावर्तयतीत्यर्थः ।
जीवनिरासपरत्वेनापि सूत्रं योजयति
तथेति ।
अन्यभावो भेदस्तन्निषेधादिति सूत्रार्थः ।
तर्हि शोधितो जीव एवाक्षरं न पर इत्यत आह
नहीति ।
शोधिते जीवत्वं नास्तीत्यर्थः । तस्माद्गार्गिब्राह्मणं निर्गुणाक्षरे समन्वितमिति सिद्धम् ॥ १२ ॥
ईक्षतिकर्मव्यपदेशात्सः । प्रश्नोपनिषदमुदाहरति
एतदिति ।
पिप्पलादो गुरुः सत्यकामेन पृष्टो ब्रूते, हे सत्यकाम, परं निर्गुणमपरं सगुणं ब्रह्मैतदेव योऽयमोङ्कारः । स हि प्रतिमेव विष्णोस्तस्य प्रतीकः । तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनैव ओङ्कारध्यानेनायतनेन प्राप्तिसाधनेन यथाध्यानं परमपरं वान्वेति प्राप्नोतीति प्रकृत्य मध्ये एकमात्रद्विमात्रोङ्कारयोर्ध्यानमुक्त्वा ब्रवीति
यः पुनरिति ।
इत्थम्भावे तृतीया, ब्रह्मोङ्कारयोरभेदोपक्रमात् । यो ह्यकारादिमात्रात्रये एकस्या मात्राया अकारस्य ऋष्यादिकं जाग्रदादिविभूतिं च जानाति तेन सम्यग्ज्ञाता एका मात्रा यस्योङ्कारस्य स एकमात्रः । एवं मात्राद्वयस्य सम्यग्विभूतिज्ञाने द्विमात्रस्तथा त्रिमात्रः । तमोङ्कारं पुरुषं योऽभिध्यायीत स ओङ्कारविभूतित्वेन ध्यातैः सामभिः सूर्यद्वारा ब्रह्मलोकं गत्वा परमात्मानं पुरुषमीक्षत इत्यर्थः ।
संशयं तद्बीजं चाह
किमित्यादिना ।
अस्मिन् त्रिमात्रवाक्य इत्यर्थः । पूर्वत्र पूर्वपक्षत्वेनोक्ते ओङ्कारे बुद्धिस्थं ध्यातव्यं निश्चीयत इति प्रसङ्गसङ्गतिः ।
यद्वा पूर्वत्र वर्णे रूढस्याक्षरशब्दस्य लिङ्गाद्ब्रह्मणि वृत्तिरुक्ता, तद्वदत्रापि ब्रह्मलोकप्राप्तिलिङ्गात्परशब्दस्य हिरण्यगर्भे वृत्तिरिति दृष्टान्तेन पूर्वपक्षयति
तत्रापरमिति ।
कार्यपरब्रह्मणोरूपास्तिरूभयत्र फलम् । स उपासकः । सूर्ये सम्पन्नः प्रविष्टः ।
ननु वसुदान ईश्वर इति ध्यानाद्विन्दते वस्वित्यल्पमपि फलं ब्रह्मोपासकस्य श्रुतमित्यत आह
नहीति ।
अन्यत्र तथात्वेऽपि अत्र परवित्परमपरविदपरमन्वेतीत्युपक्रमात्परविदोऽपरप्राप्तिरयुक्ता, उपक्रमविरोधात् । न चात्र परप्राप्तिरेवोक्तेति वाच्यम् , परस्य सर्वगतत्वादत्रैव प्राप्तिसम्भवेन सूर्यद्वारा गतिवैयर्थ्यात् । तस्मादुपक्रमानुगृहीतादपरप्राप्तिरूपाल्लिङ्गात्परं पुरुषमिति परश्रुतिर्बाध्येत्यर्थः ।
परश्रुतेर्गतिं पृच्छति
नन्विति ।
पिण्डः स्थूलो विराट्तदपेक्षया सूत्रस्य परत्वमिति समाध्यर्थः ।
सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञतत्वेन तं व्याचष्टे
परमेवेति ।
स उपासक एतस्माद्धिरण्यगर्भात्परं पुरुषं ब्रह्माहमितीक्षत इत्यर्थः ।
नन्वीक्षणविषयोऽप्यपरोस्तु, तत्राह
तत्राभिध्यायतेरिति ।
नन्वीक्षणं प्रमात्वाद्विषयसत्यतामपेक्षत इति भवतु सत्यः पर ईक्षणीयः । ध्यातव्यस्त्वसत्योऽपरः किं न स्यादित्यत आह
स एवेति ।
श्रुतिभ्यां प्रत्यभिज्ञानात्स एवायमिति सौत्रः सशब्दो व्याख्यातः । अत्रैवं सूत्रयोजना ओङ्कारे यो ध्येयः स पर एवात्मा, वाक्यशेषे ईक्षणीयत्वोक्तेः । अत्र च श्रुतिप्रत्यभिज्ञानात्स एवायमिति ।
ननु शब्दभेदान्न प्रत्यभिज्ञेति शङ्कते
नन्विति ।
परात्पर इति शब्दभेदमङ्गीकृत्य श्रुतिभ्यामुक्तप्रत्यभिज्ञाया अविरोधमाह
अत्रेति ।
ननु 'एतस्माज्जीवघनात्परात्' इत्येतत्पदेनोपक्रान्तध्यातव्यपरामर्शादीक्षणीयः परात्मा ध्येयादन्य इत्यत आह
न चात्रेति ।
ध्यानस्य तत्फलेक्षणस्य च लोके समानविषयत्वाद्ध्येय एवेक्षणीयः । एवं चोपक्रमोपसंहारयोरेकवाक्यता भवतीति भावः ।
''स सामभिरून्नीयते ब्रह्मलोकम्” 'स एतस्माज्जीवघनात्' इत्येतत्पदेन संनिहिततरो ब्रह्मलोकस्वामी परामृश्यत इति प्रश्नपूर्वकं व्याचष्टे
कस्तर्हीत्यादिना ।
'मूर्तौ घनः' इति सूत्रादिति भावः । सैन्धवखिल्यो लवणपिण्डः । खिल्यवदल्पो भावः परिच्छेदो यस्य स खिल्यभावः ।
एतत्पदेन ब्रह्मलोको वा परामृश्यत इत्याह
अपर इति ।
जीवघनशब्दस्य ब्रह्मलोके लक्षणां दर्शयति
जीवानां हीति ।
व्यष्टिकरणाभिमानिनां जीवानां घनः सङ्घातो यस्मिन्सर्वकरणाभिमानिनि स जीवघनः तत्स्वामिकत्वात्परम्परासम्बन्धेन लोको लक्ष्य इत्यर्थः । तस्मात्परः सर्वलोकातीतः शुद्ध इत्यर्थः ।
परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह
परमिति ।
यस्मात्परं नापरमस्ति किञ्चित्स एवं मुख्यः परः न तु पिण्डात्परः सूत्रात्मेत्यर्थः ।
किञ्च परशब्देनोपक्रमे निश्चितं परं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यमित्याह
परं चापरं चेति ।
पापनिवृत्तिलिङ्गाच्चेत्याह
यथेति ।
पादोदरः सर्पः ।
ओङ्कारे परब्रह्मोपासनया सूर्यद्वारा ब्रह्मलोकं गत्वा परब्रह्मेक्षित्वा तदेव शान्तमभयं परं प्राप्नोतीत्यविरोधमाह
अत्रोच्यत इति ।
एवमेकवाक्यतासमर्थनप्रकरणानुगृहीतपरपुरुषश्रुतिभ्यां परब्रह्मप्रत्यभिज्ञया ब्रह्मलोकप्राप्तिलिङ्गं बाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १३ ॥
दहर उत्तरेभ्यः । छान्दोग्यमुदाहरति
अथेति ।
भूमविद्यानन्तरं दहरविद्याप्रारम्भार्थोऽथशब्दः । ब्रह्मणोऽभिव्यक्तिस्थानत्वाद्ब्रह्मपुरं शरीरम् । अस्मिन् यत्प्रसिद्धं दहरमल्पं हृत्पद्मं तस्मिन्हृदये यदन्तराकाशशब्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः ।
अत्राकाशो जिज्ञास्यः, तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः । तत्र यद्याकाशस्तदा संशयद्वयम् । तत्राकाशशब्दादेकं संशयमुक्त्वा ब्रह्मपुरशब्दात्संशयान्तरमाह
तथा ब्रह्मपुरमितीति ।
अत्र शब्दे । जीवस्य ब्रह्मणो वा पुरमिति संशयः । तत्र तस्मिन्संशये सतीति योजना ।
परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्म ध्येयमित्युक्तम् । तथेहाप्याकाशपदस्य भूताकाशे रूढत्वाद्भूताकाशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति
तत्राकाशेत्यादिना ।
दहरवाक्यस्यानन्तरप्रजापतिवाक्यस्य च सगुणे निर्गुणे च समन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे भूताकाशाद्युपास्तिः, सिद्धान्ते सगुणब्रह्मोपास्त्या निर्गुणधीरिति फलभेदः । नच 'आकाशस्तल्लिङ्गात्' इत्यनेनास्य पुनरुक्तता शङ्कनीया । अत्र तस्मिन् 'यदन्तस्तदन्वेष्टव्यम्' इत्याकाशान्तः स्थस्यान्वेष्टव्यत्वादिलिङ्गान्वयेन दहराकाशस्य ब्रह्मत्वे स्पष्टलिङ्गाभावात् ।
ननु भूताकाशस्याल्पत्वं कथम् , एकस्योपमानत्वमुपमेयत्वं च कथम् , 'उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च' इत्यादिना श्रुतसर्वाश्रयत्वं च कथमित्याशङ्क्य क्रमेण परिहरति
तस्येत्यादिना ।
हृदयापेक्षया अल्पत्वम् , ध्यानार्थं कल्पितभेदात्सादृश्यम् , स्वत एकत्वात्सर्वाश्रयत्वमित्यर्थः ।
ननु 'एष आत्मा' इत्यात्मशब्दो भूते न युक्त इत्यरूचेराह
अथवेति ।
भक्त्येति ।
चैतन्यगुणयोगेनेत्यर्थः ।
मुख्यं ब्रह्म गृह्यतामित्यत आह
न हीति ।
अस्तु पुरस्वामीजीवः, हृदयस्थाकाशस्तु ब्रह्मेत्यत आह
तत्रेति ।
पुरस्वामिन एव तदन्तःस्थत्वसम्भवान्नान्यापेक्षेत्यर्थः ।
व्यापिनोऽन्तःस्थत्वं कथमित्यत आह
मन इति ।
आकाशपदेन दहरमनुकृष्योक्तोपमादिकं ब्रह्माभेदविवक्षया भविष्यतीत्याह
आकाशेति ।
ननु जीवस्याकाशपदार्थत्वमयुक्तमित्याशङ्क्य तर्हि भूताकाश एव दहरोऽस्तु तस्मिन्नन्तःस्थं किञ्चिद्ध्येयमिति पक्षान्तरमाह
न चात्रेति ।
परमन्तःस्थं वस्तु, तद्विशेषणत्वेनाधारत्वेन दहराकाशस्य तच्छब्देनोपादानादित्यर्थः । यद्वा अन्वेष्यत्वादिलिङ्गाद्दहरस्य ब्रह्मत्वनिश्चयात् 'आकाशस्तल्लिङ्गात्' इत्यनेन गतार्थत्वमिति शङ्कात्र निरसनीया । अन्वेष्यत्वादेः परविशेषणत्वेन ग्रहणाद्दरहस्य ब्रह्मत्वे लिङ्गं नास्तीत्यर्थः ।
अपहतपाप्मत्वादिलिङ्गोपेतात्मकश्रुत्या केवलाकाशश्रुतिर्बाध्येति सिद्धान्तयति
परमेश्वर इत्यादिना ।
आकाशस्याक्षेपपूर्वकमिति सम्बन्धः । तमाचार्यं प्रति यदि ब्रूयुः, हृदयमेव तावदल्पं तत्रत्याकाशोऽल्पतरः किं तदत्राल्पे विद्यते यद्विचार्य ज्ञेयमिति, तदा स आचार्यो ब्रूयादाकाशस्याल्पतानिवृत्तिमित्यर्थः ।
वाक्यस्य तात्पर्यमाह
तत्रेति ।
निवर्तयति । आचार्य इति शेषः ।
नन्वाकाशशब्देन रूढ्या भूताकाशस्य भानात्कथं तन्निवृत्तिरित्याशङ्क्याह
यद्यपीति ।
ननु 'रामरावणयोर्युद्धं रामरावणयोरिव' इत्यभेदेऽप्युपमा दृष्टेतिचेत् , न अभेदे सादृश्यस्यानन्वयेन युद्धस्य निरूपमत्वे तात्पर्यादयमनन्वयालङ्कार इति काव्यविदः ।
पूर्वोक्तमनूद्य निरस्यति
नन्वित्यादिना ।
'सीताश्लिष्ट इवाभाति कोदण्डप्रभया युतः' इत्यादौ प्रभायोगसीताश्लेषरूपविशेषणभेदाद्भेदाश्रयणमेकस्यैव श्रीरामस्योपमानोपमेयभावसिद्ध्यर्थमगत्या कृतमित्यनुदाहरणं द्रष्टव्यम् । नैवमत्राश्रयणं युक्तम् । वाक्यस्याल्पत्वनिवृत्तिपरत्वेन गतिसद्भावात् ।
किञ्च हार्दाकाशस्यान्तरत्वात्यागे अल्पत्वेन व्यापकबाह्याकाशसादृश्यं न युक्तमित्याह
अपिचेति ।
आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमिति भावः ।
ननु हार्दाकाशस्याल्पत्वनिवृत्तौ तावत्त्वे च तात्पर्यं किं न स्यादित्यत आह
उभयेति ।
अतोऽल्पावनिवृत्तावेव तात्पर्यमिति भावः ।
एवमाकाशोपमितत्वाद्दहराकाशो न भूतमित्युक्तम् । सर्वाश्रयत्वादिलिङ्गेभ्यश्च तथेत्याह
नचेत्यादिना ।
विगता जिघत्सा जग्धुमिच्छा यस्य सोऽयं विजिघत्सः । बुभुक्षाशून्य इत्यर्थः ।
प्रथमश्रुतब्रह्मशब्देन तत्सापेक्षचरमश्रुतषष्ठीविभक्त्यर्थः सम्बन्धो नेयः, न तु ब्रह्मणः पुरमिति षष्ठ्यर्थः स्वस्वामिभावो ग्राह्यः 'निरपेक्षेण तत्सापेक्षं बाध्यम्' इति न्यायादित्याह
अत्र ब्रूम इति ।
शरीरस्य ब्रह्मण तदुपलब्धिस्थानत्वरूपे सम्बन्धे मानमाह
स इति ।
पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः ।
ननु ब्रह्मशब्दस्य जीवेऽप्यन्नादिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठ्यर्थः कथञ्चिन्नेय इत्यत आह
अथवेति ।
बृंहयति देहमिति ब्रह्म जीवः तत्स्वामिके पुरे हृदयं ब्रह्मवेश्म भवतु, राजपुरे मैत्रसद्भावदित्यर्थः ।
अनन्तफललिङ्गादपि दहरः परमात्मेत्याह
तद्यथेति ।
अथ कर्मफलाद्वौराग्यानन्तरमिह जीवदशायामात्मानं दहरं तदाश्रितांश्च सत्यकामादिगुणानाचार्योपदेशमनुविद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां सर्वलोकेष्वनन्तमैश्वर्यं स्वेच्छया सञ्चलनादिकं भवतीत्यर्थः ।
दहरे उक्तलिङ्गान्यन्यथासिद्धानि तेषां तदन्तःस्थगुणत्वादियुक्तं स्मारयित्वा दूषयति
यदपीत्यादिना ।
उत्तरत्राकाशस्वरूपप्रतिपादनान्यथानुपपत्त्या पूर्वं तस्यान्वेष्यत्वादिकमित्यत्रान्यथोपपत्तिं शङ्कते
नन्विति ।
एतत् आकाशस्वरूपम् । आक्षेपबीजमाकाशस्याल्पत्वमुपमया निरस्यान्तःस्थवस्तूक्तेस्तदन्तःस्थमेव ध्येयमित्यर्थः ।
तर्हि जगदेव ध्येयं स्यादित्याह
नैतदेवमिति ।
अस्तु को दोषः, तत्राह
तत्रेति ।
सर्वनामभ्यां दहराकाशमाकृष्यात्मत्वादिगुणानुक्त्वा गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो ब्रूते तद्विरोध इत्यर्थः ।
'तस्मिन् यदन्तः'इति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह
तस्मादिति ।
यद्वा आकाशस्तस्मिन् यदन्तस्तदुभयमन्वेष्टव्यमिति योजनां सूचयति
सहान्तःस्थैरिति ॥ १४ ॥
दहराकाशस्य ब्रह्मत्वे हेत्वन्तरमाह
गतीति ।
प्रजा जीवा एतं हृदयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छन्त्यस्तदात्मना स्थिता अप्यनृताज्ञानेनावृतास्तं न जानन्ति अतः पुनरुत्तिष्ठन्तीत्यर्थः ।
नन्वेतत्पदपरामृष्टदहरस्य स्वापे जीवगम्यत्वेऽपि ब्रह्मत्वे किमायातमित्यशङ्क्य 'तथा हि दृष्टम्' इति व्याचष्टे
तथा हीति ।
लोकेऽपि दृष्टमित्यर्थान्तरमाह
लोकेऽपीति ।
गतिलिङ्गं व्याख्याय शब्दं व्याचष्टे
तथेति ।
जीवभूताकाशयोर्ब्रह्मलोकशब्दस्याप्रसिद्धेरिति भावः ।
ब्रह्मण्यपि तस्याप्रसिद्धिं शङ्कते
नन्विति ।
निषादस्थपतिन्यायेन समाधत्ते
गमयेदिति ।
षष्ठे चिन्तितम् स्थपतिर्निषादः, शब्दसामर्थ्यात् । रौद्रीमिष्टिं विधाय 'एतया निषादस्थपतिं याजयेत्' इत्याम्नायते । तत्र निषादानां स्थपतिः स्वामीति षष्ठीसमासेन त्रैवर्णिको ग्राह्यः, अग्निविद्यादिसामर्थ्यात् । न तु निषादश्चासौ स्थपतिरिति कर्मधारयेण निषादो ग्राह्यः, असामर्थ्यादिति प्राप्ते सिद्धान्तः । निषाद एव स्थपतिः स्यात् , निषादशब्दस्य निषादे शक्तत्वात् , तस्याश्रुतषष्ठ्यर्थसम्बन्धलक्षकत्वकल्पनायोगात्श्रुतद्वितीयाविभक्तेः पूर्वपदसम्बन्धकल्पनायां लाघवात् , अतो निषादस्येष्टिसामर्थ्यमात्रं कल्प्यमिति । तद्वद्ब्रह्मलोकशब्दे कर्मधारय इत्यर्थः ।
कर्मधारये लिङ्गं चास्तीति व्याचष्टे
एतदेवेति ।
सूत्रे चकार उक्तन्यायसमुच्चयार्थः ॥ १५ ॥
सर्वजगद्धारणलिङ्गाच्च दहरः पर इत्याह
धृतेरिति ।
नन्वथशब्दाद्दहरप्रकरणं विच्छिद्य श्रुता धृतिर्न दहरलिङ्गमिति शङ्कते
कथमिति ।
'य आत्मा’ इति प्रकृताकर्षादथशब्दो दहरस्य धृतिगुणविधिप्रारम्भार्थ इत्याह
दहरोऽस्मिन्नित्यादिना ।
श्रुतौ विधृतिशब्दः कर्तृवाचित्वात् क्तिजन्तः । सूत्रे तु महिमशब्दसामानाधिकरण्याद्धृतिशब्दः क्तिन्नन्तो विधारणं ब्रूते, 'स्त्रियां क्तिन्' इति भावे क्तिनो विधानादिति विभागः ।
सेतुरसङ्करहेतुः, विधृतिस्तु स्थितिहेतुरित्यपौनरुक्त्यमाह
यथोदकेति ।
सूत्रं योजयति
एवमिहेति ।
धृतेश्च दहरः परः अस्य धृतिरूपस्य नियमनस्य च महिम्नोऽस्मिन्परमात्मन्येव श्रुत्यन्तर उपलब्धेरिति सूत्रार्थः ।
धृतेश्चेति चकारात्सेतुपदोक्तनियामकत्वलिङ्गं ग्राह्यम् । तत्र नियमने श्रुत्यन्तरोपलब्धिमाह
एतस्येति ।
धृतौ तमाह
तथेति ॥ १६ ॥
आ समन्तात्काशते दीप्यत इति स्वयञ्ज्योतिषि ब्रह्मण्याकाशशब्दस्य विभुत्वगुणतो वा प्रसिद्धिः प्रयोगप्राचुर्यम् ॥ १७ ॥
यदि 'एष आत्मापहतपाप्मा' इत्यादिवाक्यशेषबलेन दहरः परस्तर्हि जीवोऽपीत्याशङ्क्य निषेधति
इतरेति ।
जीवस्यापि वाक्यशेषमाह
अथेति ।
दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते । य एष सम्प्रसादो जीवोऽस्मात्कार्यकरणसङ्घातात्सम्यगुत्थाय आत्मानं तस्माद्विविच्य विविक्तमात्मानं स्वेन ब्रह्मरूपेणाभिनिष्पद्य साक्षात्कृत्य तदेव प्रत्यक्परं ज्योतिरूपसम्पद्यते प्राप्नोतीति व्याख्येयम् । यथा मुखं व्यादाय स्वपितीति वाक्यं सुप्त्वा मुखं व्यादत्ते इति व्याख्यायते तद्वत् ।
ज्योतिषोऽनात्मत्वं निरस्यति
एष इति ।
'सम्प्रसादे रत्वाचरित्वा’ इति श्रुत्यन्तरम् ।
अवस्थावदुत्थानमपि जीवस्य लिङ्गमित्याह
तथेति ।
तदाश्रितस्य तस्मात्समुत्थाने दृष्टान्तः
यथेति ।
ननु क्वाप्याकाशशब्दो जीवे न दृष्ट इत्याशङ्क्योक्तावस्थोत्थानलिङ्गबलात्कल्प्य इत्याह
यथा चेति ।
नियामकाभावाज्जीवो दहरः किं न स्यादिति प्राप्ते नियामकमाह
नैतदित्यादिना ।
दहरे श्रुतधर्माणामसम्भवान्न जीवो दहर इत्यर्थः ।
तर्हि पुनरुक्तिः, तत्राह
अतिरेकेति ।
उत्तराच्चेत्याधिकाशङ्कानिरासार्थमित्यर्थः ।
का तर्हि जीवपरामर्शस्य गतिः, तत्राह
पठिष्यतीति ।
जीवस्य स्वापस्थानभूतब्रह्मज्ञानार्थोऽयं परामर्श इति वक्ष्यते ॥ १८ ॥
असम्भवादिति हेतोरसिद्धिमाशङ्क्य परिहरति
उत्तराच्चेदिति ।
सूत्रनिराकृताया जीवाशङ्कायाः प्रजापतिवाक्यबलात्पुनः समुत्थानं क्रियते । तत्र जीवस्यैवापहतपाप्मत्वादिग्रहणेनासम्भवासिद्धेरित्यर्थः ।
कथं तत्र जीवोक्तिः, तत्राह
तत्रेत्यादिना ।
यद्यप्युपक्रमे जीवशब्दो नास्ति तथाप्यपहतपाप्मत्वादिगुणकमात्मानमुपक्रम्य तस्य जाग्रदाद्यवस्थात्रयोपन्यासादवस्थालिङ्गेन जीवनिश्चयात्तस्यैव ते गुणाः सम्भवन्तीति समुदायार्थः ।
इन्द्रं प्रजापतिर्बूते
य एष इति ।
प्राधान्यादक्षिग्रहणं सर्वैरिन्द्रियैर्विषयदर्शनरूपजाग्रदवस्थापन्नमित्याह
द्रष्टारमिति ।
महीयमानः वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः । यत्र काले तदेतत्स्वपनं यथा स्यात्तथा सुप्तः, सम्यकस्तो निरस्तः करणग्रामो यस्य स समस्तः, अत एवोपहृतकरणत्वात्तत्कृतकालुष्यहीनः सम्प्रसन्नः, स्वप्नं प्रपञ्चमज्ञानमात्रत्वेन विलापयति अतोऽज्ञानसत्त्वात्मुक्ताद्विलक्षणः प्राज्ञ एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्तास्फूर्तिप्रदत्वादात्मेत्यर्थः ।
चतुर्थपर्याये ब्रह्मोक्तेस्तस्यैवापहतपाप्मत्वादिगुणा इत्याशङ्क्य तस्यापि पर्यायस्य जीवत्वमाह
नाहेति ।
अहेति निपातः खेदार्थे ।
खिद्यमानो हीन्द्र उवाच, न खलु सुप्तः पुमानयं सम्प्रति सुषुप्त्यवस्थायामयं देवदत्तोऽहमित्येवमात्मानं जानाति । नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति, नाहमत्र भोग्यं पश्यामीति दोषमुपलभ्य पुनः प्रजापतिमुपससार । तं दोषं श्रुत्वा प्रजापतिराह
एतमिति ।
एतस्मात्प्रकृतादात्मनोऽन्यत्रान्यं न व्याख्यास्यामीत्युपक्रम्य 'मघवन्मर्त्यं वा इदं शरीरम्'इति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः । तस्मात्प्रजापतिवाक्यात् । अतः सम्भवासिद्धेः ।
सिद्धान्तयति
तं प्रतीति ।
अवस्थात्रयशोधनेनाविर्भूतत्वं शोधितत्वमर्थस्य वाक्योत्थवृत्त्यभिव्यक्तत्वमित्यर्थः ।
तर्हि सूत्रे पुंलिङ्गेन जीवोक्तिः कथम् , ज्ञानेन जीवत्वस्य निवृत्तत्वादित्यत आह
भूतपूर्वेति ।
ज्ञानात्पूर्वमविद्यातत्कार्यप्रतिबिम्बितत्वरूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपोऽपि जीवनाम्नोच्यत इत्यर्थः ।
विश्वतैजसप्राज्ञतुरीयपर्यायचतुष्टयात्मकप्रजापतिवाक्यस्य तात्पर्यमाह
एतदिति ।
जन्मानाशवत्त्वात् ।
प्रतिबिम्बवद्बिम्बदेहो नात्मेति ज्ञापनार्थं प्रजापतिरिन्द्रविरोचनौ प्रत्युवाच, उदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्यादि ब्राह्मणेनेत्याह
उदशरावेति ।
उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं दृष्ट्वा स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तश्रुत्यर्थः । व्युत्थाप्य विचार्य । अभिनिष्पद्यत इत्यत्रैतदुक्तं भवतीति सम्बन्धः ।
किमुक्तमित्यत आह
यदस्येति ।
जीवत्वरूपेण जीवं न व्याचष्टे, लोकसिद्धत्वात्, किन्तु तमनूद्य परस्परव्यभिचारिणीभ्योऽवस्थाभ्यो विविच्य ब्रह्मस्वरूपं बोधयति, अतो यद्ब्रह्म तदेवापहतपाप्मत्वादिधर्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्माभेदेन तद्धर्मोक्तेरित्यर्थः । एवमवस्थोपन्यासस्य विवेकार्थत्वान्न जीवलिङ्गत्वम् , 'एतदमृतमभयमेतब्रह्म' इति लिङ्गोपेतश्रुतिविरोधादितिमन्तव्यम् ।
ननु जीवत्वब्रह्मत्वविरुद्धधर्मवतोः कथमभेदः, तत्राह
तदेवेति ।
अन्वयव्यतिरेकाभ्यां जीवत्वस्याविद्याकल्पितत्वादविरोध इति मत्वा दृष्टान्तेनान्वयमाह
यावदिति ।
व्यतिरेकमाह
यदेति ।
अविद्यायां सत्यां जीवत्वम् , वाक्योत्थप्रभोधात्तन्निवृत्तौ तन्निवृत्तिरित्याविद्यकं तदित्यर्थः ।
संसारित्वस्य कल्पितत्वे सिद्धं निगमयति
तदेव चास्येति ।
'समुत्थाय स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुतिं व्याख्यातुमाक्षिपति
कथं पुनरित्यादिना ।
कूटस्थनित्यस्य स्वरूपमित्यन्वयः ।
मनःसङ्गिनो हि क्रियया मलनाशादभिव्यक्तिर्न तु कूटस्थस्यासङ्गिन इत्याह
सुवर्णेति ।
द्रव्यान्तरं पार्थिवो मलः । अभिभूतेत्यस्य व्याख्यानमनभिव्यक्तेति । असाधारणो भास्वरत्वादिः । अभिभावकः सौरालोकः ।
जीवस्वरूपस्याभिभवे बाधकमाह
दृष्टेति ।
'विज्ञानघन एव’ इति श्रुत्या चिन्मात्रस्तावदात्मा । तच्चैतन्यं चक्षुरादिजन्यवृत्तिव्यक्तं दृष्ट्यादिपदवाच्यं सत्व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत । हेत्वभावाद्व्यवहारो न स्यादित्यर्थः ।
अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्तमित्यङ्गीकार्यम् , व्यवहारदर्शनादित्याह
तच्चेति ।
अन्यथेत्युक्तं स्फुटयति
तच्चेदिति ।
स्वरूपं चेज्ज्ञानिन एव व्यज्येत ज्ञानात्पूर्वं व्यवहारोच्छित्तिरित्यर्थः । अतः सदैव व्यक्तस्वरूपत्वादित्यर्थः ।
सदा वृत्तिषु व्यक्तस्य वस्तुतोऽसङ्गस्यात्मन आविद्यकदेहाद्यविवेकरूपस्य मलसङ्गस्य सत्त्वात्तद्विवेकापेक्षया समुत्थानादिश्रुतिरित्युत्तरमाह
अत्रेति ।
वेदना हर्षशोकादिः । अविविक्तमिवेति तादात्म्यस्य सङ्गस्य कल्पितत्वमुक्तम् ।
तत्र कल्पितसङ्गे दृष्टान्तः
यथेति ।
श्रुतिकृतमिति ।
त्वम्पदार्थश्रुत्या 'योऽयं विज्ञानमयः प्राणेषु' इत्याद्यया सिद्धमित्यर्थः ।
प्राणादिभिन्नशुद्धत्वम्पदार्थज्ञानस्य वाक्यार्थसाक्षात्कारः फलमित्याह
केवलेति ।
सशरीरत्वस्य सत्यत्वात्समुत्थानमुत्क्रान्तिरिति व्याख्येयं न विवेक इत्याशङ्क्याह
तथा विवेकेति ।
उक्तश्रुत्यनुसारेणेत्यर्थः । शरीरेष्वशरीरमवस्थितमिति श्रुतेरविवेकमात्रकल्पितं सशरीरत्वम् । अतो विवेक एव समुत्थानमित्यर्थः ।
ननु स्वकर्मार्जिते शरीरे भोगस्यापरिहार्यत्वात्कथं जीवत एव स्वरूपाविर्भाव इत्यत आह
शरीरस्थोऽपीति ।
अशरीरत्ववच्छरीरस्थस्यापि बन्धाभावस्मृतेर्जीवतो मुक्तिर्युक्तेत्यर्थः ।
अविरुद्धे श्रुत्यर्थे सूत्रशेषो युक्त इत्याह
तस्मादिति ।
अन्यादृशौ सत्यावित्यर्थः ।
ज्ञानाज्ञानकृतावाविर्भावतिरोभावाविति स्थिते भेदोऽप्यंशांशित्वकृतो निरस्त इत्याह
एवमिति ।
अंशादिशून्यत्वमसङ्गत्वम् । आत्मा द्रव्यत्वव्याप्यजातिशून्यः विभुत्वात् , व्योमवदित्यात्मैक्यसिद्धेर्भेदो मिथ्येत्यर्थः ।
प्रजापतिवाक्याच्च भेदो मिथ्येत्याकाङ्क्षापूर्वकमाह
कुतश्चेत्यादिना ।
एतद्भेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयः ।
छायायां ब्रह्मदृष्टिपरमिदं वाक्यं नाभेदपरमित्यत आह
नापीति ।
यस्य ज्ञानात्कृतकृत्यता सर्वकामप्राप्तिस्तमात्मानमन्विच्छाव इति प्रवृत्तयोरिन्द्रविरोचनयोर्यद्यनात्मच्छायां प्रजापतिर्ब्रूयात्तदा मृषावादी स्यादित्यर्थः ।
प्रथमवत्द्वितीयादिपर्याये व्यावृत्तास्ववस्थासु अनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह
तथेति ।
अवस्थाभेदेऽप्यनुस्यूतौ युक्तिमाह
किञ्चेति ।
सुषुप्तौ ज्ञातुर्व्यावृत्तिमाशङ्क्याह
तथा तृतीय इति ।
सषुप्तौ निर्विकल्पज्ञानरूप आत्मास्तीयत्र बृहदारण्यकश्रुतिमाह
नहीति ।
बुद्धेः साक्षिणो नाशो नास्ति, नाशकाभावादित्यर्थः ।
एतमवस्थाभिरसङ्गत्वेनोक्त आत्मैव तुरीयेऽपि ब्रह्मत्वेनोक्त इत्याह
तथेति ।
श्रुतेरेकदेशिव्याख्यां दूषयति
केचित्त्विति ।
जीवपरयोर्भदादिति भावः ।
श्रुतिबाधान्मैवमित्याह
तेषामिति ।
संनिहितो जीव एव सर्वनामार्थ इत्यर्थः ।
उक्तस्य पुनरुक्तौ भूय इति युज्यते । तव तु उपक्रान्तपरमात्मनश्चतुर्थ एवोक्तेस्तद्बाध इत्याह
भूय इति ।
लोकसिद्धजीवानुवादेन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति
तस्मादिति ।
व्याख्यानान्तरसम्भवादित्यर्थः । विलयनं शोधनम् । विद्यया महावाक्येनेति यावत् ।
ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारीरकमेवोत्तरमित्याह
अपरे त्वित्यादिना ।
शारीरकस्यार्थं सङ्क्षेपेणोपदिशति
एक एवेति ।
अविद्यामाययोर्भेदं निरसितुं सामानाधिकरण्यम् , आवरणविक्षेपशक्तिरूपशब्दप्रवृत्तिनिमित्तभेदात्सहप्रयोगः । ब्रह्मैवाविद्यया संसरति न ततोऽन्यो जीव इति शारीरकार्थ इत्यर्थः ।
तर्हि सूत्रकारः किमिति भेदं ब्रूते, तत्राह
यस्त्त्विति ।
परमात्मनोऽसंसारित्वसिद्यर्थं जीवाद्भेदं द्रढयति । तस्यासंसारित्वनिश्चयाभावे तदभेदोक्तावपि जीवस्य संसारित्वानपायादित्यर्थः ।
अधिष्ठानस्य कल्पिताद्भेदेऽपि कल्पितस्याधिष्ठानान्न पृथक्सत्त्वमित्याह
जीवस्यत्विति ।
कल्पितभेदानुवादस्य फलमाह
एवं हीति ।
सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति
प्रतिपाद्यमिति ।
आत्मेति तूपगच्छन्तीत्यादिसूत्राण्यादिपदार्थः ।
नन्वद्वैतस्य शास्त्रार्थत्वे द्वैतापेक्षविधिविरोधः तत्राह
वर्णितश्चेति ।
अद्वैतमजानतः कल्पितद्वैताश्रया विधयो न विदुष इति सर्वमुपपन्नमित्यर्थः ॥ १९ ॥
एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवापहतपाप्मत्वाद्युक्तेर्जीवे तदसम्भवान्न जीवो दहर इत्युक्तम् । तर्हि जीवपरामर्शस्य का गतिरित्यत आह
अन्यार्थश्चेति ।
सूत्रं व्याचष्टे
अथेत्यादिना ।
प्रकृते दहरे विशेषो गुणस्तदुपदेशोऽपि नेत्यर्थः ।
तत्र दहरवाक्यशेषरूपं सम्प्रसादवाक्यमाशङ्कापूर्वकं दहरब्रह्मपरत्वेन व्याचष्टे
कथमित्यादिना ॥ २० ॥
उपास्यत्वादल्पत्वमुक्तमिति व्याख्याय श्रुत्या निरस्तमित्यर्थान्तरमाह
श्रुत्यैव चेदमिति ।
एवं दहरवाक्यं प्रजापतिवाक्यं च सगुणे निर्गुणे च समन्वितमिति सिद्धम् ॥ २१ ॥
अनुकृतेस्तस्य च । मुण्डकवाक्यमुदाहरति
न तत्रेति ।
तस्मिन् ब्रह्मणि विषये न भाति, तं न भासयतीति यावत् ।
यदा चन्द्रभास्करादिर्न भासयति तदा अल्पदीप्तेरग्नेः का कथेत्याह
कुत इति ।
किञ्च सर्वस्य सूर्यादेस्तद्भास्यत्वान्न तद्भासकत्वमित्याह
तमेवेति ।
अनुगमनवदनुमानं स्वगतमिति शङ्कां निरस्यति
तस्येति ।
तत्रेति सप्तम्याः सति विषये च साधारण्यात्संशयमाह
तत्रेति ।
पूर्वत्रात्मश्रुत्यादिबलादाकाशशब्दस्य रूढित्यागादीश्वरे वृत्तिराश्रिता । तथेहापि सतिसप्तमीबलाद्वर्तमानार्थत्यागेन यस्मिन्सति सूर्यादयो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्तिराश्रयणीया ।
अधुना भासमाने सूर्यादौ न भातीति विरोधादिति दृष्टान्तेन पूर्वपक्षयति
तेजोधातुरिति ।
तेजोधानम् , निर्गुणस्वयञ्ज्योतिरात्मज्ञानमित्युभयत्र फलम् ।
तेजोधातुत्वे लिङ्गमाह
तेजोधातूनामिति ।
यत्तेजसोऽभिभावकं तत्तेज इति व्याप्तिमाह
तेजःस्वभावकमिति ।
यस्मिन्सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह
अनुभानमिति ।
ततो निकृष्टभानं विवक्षितमिति भावः ।
मुख्यसम्भवे विवक्षानुपपत्तेः मुख्यानुभानलिङ्गात्सर्वभासकः परमात्मा स्वप्रकाशकोऽत्र ग्राह्य इति सिद्धान्तमाह
प्राज्ञ इति ।
प्राज्ञत्वं स्वप्रकाशकत्वं भासकत्वार्थमुक्तम् ।
तत्र श्रुतिमाह
भारूप इति ।
मानाभावाच्च तेजोधातुर्न ग्राह्य इत्याह
न त्विति ।
किञ्च सूर्यादयस्तेजोन्तरभानमनु न भान्ति, तेजस्त्वात् , प्रदीपवदित्याह
समत्वाच्चेति ।
योऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह
नायमेकान्त इति ।
पौनरुक्त्यमाशङ्क्योक्तानुवादपूर्वकं सूत्रोक्तं हेत्वन्तरं व्याचष्टे
अनुकृतेरिति ।
'तमेव भान्तम्’ इत्येवकारोक्तं तद्भानं विना सर्वस्य पृथग्भानाभावरूपमनुभानमनुकृतेरित्यनेनोक्तम्
तस्य चेति ।
सर्वभासकत्वमुक्तमित्यपौनरुक्त्यमित्यर्थः ।
आत्मनः सूर्यादिभासकत्वं श्रुत्यन्तरप्रसिद्धमविरुद्धं चेत्याह
तद्देवा इति ।
सर्वशब्दः प्रकृतसूर्यादिवाचकत्वेन व्याख्यातः ।
सम्प्रति तस्यासङ्कुचद्वृत्तितां मत्वार्थान्तरमाह
अथवेति ।
तत्रेति सर्वनामश्रुत्या प्रकृतं ब्रह्म ग्राह्यमित्याह
न तत्र सूर्य इति ।
किञ्च स्पष्टब्रह्मपरपूर्वमन्त्राकाङ्क्षापूरकत्वादयं मन्त्रो ब्रह्मपर इत्याह
अनन्तरं चेति ।
हिरण्मये ज्योतिर्मये अन्नमयाद्यपेक्षया परे कोशे आनन्दमयाख्ये पुच्छशब्दितं ब्रह्म विरजमागन्तुकमलशून्यम् , निष्कलं निरवयवम् , शुभ्रं नैसर्गिकमलशून्यम् , सूर्यादिसाक्षिभूतं ब्रह्मवित्प्रसिद्धमित्यर्थः ।
सतिसप्तमीपक्षमनुवदति
यदपीति ।
सूर्याद्यभिभावकतेजोधातौ प्रामाणिके तस्येह ग्रहणशङ्का स्यात् , न तत्र प्रमाणमस्तीत्याह
तत्रेति ।
सिद्धान्ते तत्रेति वाक्यार्थः ।
कथमित्याशङ्क्याह
ब्रह्मण्यपीति ।
सतिसप्तमीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यक्त्वा तस्मिन्सति न भास्यन्तीत्यश्रुतभविष्यत्त्वं कल्पनीयं प्रत्यक्षविरोधनिरासाय । विषयसप्तमीपक्षे तु न भासयतीत्यश्रुतणिजध्याहारमात्रं कल्प्यं न श्रुतत्याग इति लाघवम् , अतो ब्रह्मणि विषये सूर्यादेर्भासकत्वनिषेधेन ब्रह्मभास्यत्वमुच्यत इत्यर्थः । येनान्याभास्यत्वेन हेतुना सूर्यादयस्तस्मिन्ब्रह्मणि विषये भासकाः स्युस्तथा तु ब्रह्मान्येन नोपलभ्यते स्वप्रकाशत्वादिति योजना ।
उक्तमेव श्रुत्यन्तरेण द्रढयति
ब्रह्मेति ।
स्वप्रकाशत्वेऽन्याभास्यत्वे च श्रुतिद्वयम् । ग्रहणायोग्यत्वादग्राह्य इत्यर्थः ॥ २२ ॥
णिजध्याहारपक्षे स्मृतिबलमप्यस्तीत्याह
अपिचेति ।
सूत्रं व्याचष्टे
अपिचेति ।
अभास्यत्वे सर्वभासकत्वे च श्लोकद्वयं द्रष्टव्यम् । तस्मादनुभानमन्त्रो ब्रह्मणि समन्वित इति सिद्धम् ॥ २३ ॥
शब्दादेव प्रमितः । काठकवाक्यं पठति
अङ्गुष्ठेति ।
पुरुषः पूर्णोऽप्यात्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठतीत्यङ्गुष्ठमात्र इत्युच्यते, तस्यैव परमात्मत्ववादिवाक्यान्तरमाह
तथेति ।
अधूमकमिति पठनीयम् ।
योऽङ्गुष्ठमात्रो जीवः स वस्तुतो निर्धूमज्योतिर्वन्निर्मलप्रकाशरूप इति तमर्थं संशोध्य तस्य ब्रह्मत्वमाह
ईशान इति ।
तस्याद्वितीयत्वमाह
स एवेति ।
कालत्रयेऽपि स एवास्ति नान्यत्किञ्चित् । यन्नचिकेतसा पृष्टं ब्रह्म तदेतदेवेत्यर्थः ।
परिमाणेशानशब्दाभ्यां संशयमाह
तत्रेति ।
यथानुभानादिलिङ्गात्णिजध्याहरेण सूर्याद्यगोचरो ब्रह्मेत्युक्तं तथा प्रथमश्रुतपरिमाणलिङ्गाज्जीवप्रतीतावीशानोऽस्मीति ध्यायेदिति विध्यध्याहरेण ध्यानपरं वाक्यमिति पूर्वपक्षयति
तत्र परिमाणेति ।
पूर्वपक्षे ब्रह्मदृष्ट्या जीवोपास्तिः, सिद्धान्ते तु प्रत्यग्ब्रह्मैक्यज्ञानं फलमिति मन्तव्यम् । आयामो दैर्घ्यम् , विस्तारो महत्त्वमिति भेदः ।
कयाचिदिति ।
अङ्गुष्ठमात्रहृदयस्य विज्ञानशब्दितबुद्ध्यभेदाध्यासकल्पनयेत्यर्थः ।
स्मृतिसंवादादप्यङ्गुष्ठमात्रो जीवैत्याह
स्मृतेश्चेति ।
अथ मरणानन्तरं यमपाशौर्बद्धं कर्मवशं प्राप्तमित्यर्थः ।
तत्रापीश्वरः किं न स्यादित्यत आह
नहीति ।
'प्रभवति संयमने ममापि विष्णुः’ इति यमस्येश्वरनियम्यत्वस्मरणादिति भावः ।
भूतभव्यस्वेत्युपपदाद्बाधकाभावाच्च ईशान इतीशत्वशब्दान्निरङ्कुशमीशिता भातीति श्रुत्या लिङ्गं बाध्यमिति सिद्धान्तयति
परमात्मैवेति ।
प्रकरणाच्च ब्रह्मपरमिदं वाक्यमित्याह
एतदिति ।
शब्दो वाक्यं लिङ्गाद्दुर्बलमित्याशङ्क्याहशब्दादिति ॥ २४ ॥
करः सकनिष्ठोऽरत्निः । मुख्याङ्गुष्ठमात्रो जीवो गृह्यतां किं गौणग्रहणेनेत्यत आह
न चान्य इति ।
सति सम्भवे मुख्यग्रहो न्याय्यः । अत्र तु श्रुतिविरोधादसम्भव इति गौणग्रह इत्यर्थः ।
मनुष्यानेवेति ।
त्रैवर्णिकानेवेत्यर्थः । शक्तत्वादित्यनेन पश्वादीनां देवानामृषीणां चाधिकारो वारितः । तत्र पश्वादीनां शास्त्रार्थज्ञानादिसामग्र्यभावात्कर्मण्यशक्तिः । इन्द्रादेः स्वदेवताके कर्मणि स्वोद्देशेन द्रव्यत्यागायोगादशक्तिः । ऋषीणामार्षेयवरणे ऋष्यन्तराभावादशक्तिः । अर्थित्वादित्यनेन निष्कामानां मुमुक्षूणां स्थावराणां चाधिकारो वारितः । तत्र मुमुक्षूणां शुद्ध्यर्थित्वे नित्यादिष्वधिकारो न काम्येषु । शुद्धचित्तानां मोक्षार्थित्वे श्रवणादिषु व्यञ्जकेष्वधिकारो न कर्मस्विति मन्तव्यम् ।
शूद्रस्याधिकारं निरस्यति
अपर्युदस्तत्वादिति ।
शूद्रो 'यज्ञेऽवनकॢप्तः' इति पर्युदासात् , 'उपनयीत तमध्यापयीत' इति शास्त्राच्च न शूद्रस्य वैदिके कर्मण्यधिकारः । तस्यैकजातित्वस्मृतेरूपनयनप्रयुक्तद्विजातित्वाभावेन वेदाध्ययनाभावात् ।
अत्रापेक्षितो न्यायः षष्ठाध्याये वर्णित इत्याह
वर्णितमिति ।
'स्वर्गकामो यजेत’ इत्यादिशास्त्रस्याविशेषेण सर्वान्फलार्थिनः प्रति प्रवृत्तत्वात् , प्राणिमात्रस्य सुखार्थित्वाच्च फलार्थे कर्मणि पश्वादीनामप्यधिकार इत्याशङ्क्योक्तरीत्यातेषां शक्तत्वाद्यभावात्स्वर्गकामपदं मनुष्यपरतया सङ्कोच्य मनुष्याधिकारत्वे स्थापिते चातुर्वर्ण्याधिकारित्वमाशङ्क्य 'वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः' इति त्रयाणामेवाग्निसम्बन्धश्रवणात्तेषामेवाधिकार इति वर्णितमित्यर्थः ।
अस्तु, प्रस्तुते किमायातम् , तत्राह
मनुष्याणां चेति ।
प्रायेण सप्तवितस्तिपरिमितो मनुष्यदेह इत्यर्थः ।
एवमङ्गुष्ठशब्दो हृत्परिमाणवाचकस्तत्रस्थं ब्रह्म लक्षयतीत्युक्तम् । सम्प्रति तच्छब्देनाङ्गुष्ठमात्रं जीवमनूद्यायमीशान इति ब्रह्माभेदो बोध्य इति वक्तुमनुवदति
यदपीति ।
प्रतिपाद्याभेदविरोधादनुवाद्याङ्गुष्ठमात्रत्वं बाध्यम् , तात्पर्यार्थस्य बलवत्त्वादित्याह
तदिति ।
क्वचित् 'अस्थूलम्' इत्यादौ । क्वचित् 'तत्त्वमसि' इत्यादौ । [ननु परमात्मनोऽङ्गुष्ठपरिमाणत्वं न सम्भवतीति सूत्रकारेण हृदयापेक्षमङ्गुष्ठमात्रत्वमुक्तम् , द्विविधेत्यादिभाष्यात्तु जीवमुद्दिश्य ब्रह्मत्वबोधनमिति प्रतीयत इति सूत्रार्थास्पर्शित्वाद्भाष्यमनुपपन्नमिति चेत् , न, भाष्यतात्पर्यानभिज्ञानात् । कठवल्लीवाक्यस्यावान्तरतात्पर्यमेकं महातात्पर्यं चैकम् । तत्रावान्तरतात्पर्यमुपास्ये ब्रह्मणि, महातात्पर्यं च ज्ञेये ब्रह्मणि । अत एव भाष्यकारैर्वाक्यद्वयोपन्यासःकृतः । अत एवोपासनाफलं कठवल्ल्यामेव 'शतं चैका च हृदयस्य नाड्यः' इत्यादिना बोधितम् । अत एव चतुर्थाध्याये द्वितीयचरणे 'तदोकः' इति सूत्रे हार्दविद्यां प्रकृत्य समामनन्ति इति भाष्यकारैः प्रथमवाक्यस्य उपास्ये ब्रह्मणि तात्पर्यमिति प्रकटीकृतम् । इत्थं चात्रत्यभाष्यं महातात्पर्याभिप्रायकमिति द्रष्टव्यम् । रामानुजभाष्यकृता तु पूर्वपक्षोऽस्मद्भाष्यतात्पर्याज्ञानेनैव कृत इत्यवधेयम् । ]
एकत्वार्थे वाक्यशेषमनुकूलयति
एतमिति ।
श्रुतिर्यमो वा द्रष्टव्यः । तं जीवं प्रवृहेत्पृथक्कुर्यात् , धैर्येण बलवदिन्द्रियनिग्रहादिना, तं विविक्तमात्मानं शुक्लं स्वप्रकाशममृतं कूटस्थं ब्रह्म जानीयादित्यर्थः । तस्मात्कठवाक्यं प्रत्यग्ब्रह्मणि ज्ञेये समन्वितमिति सिद्धम् ॥ २५ ॥
शास्त्रस्य मनुष्याधिकारत्वे देवादीनां ब्रह्मविद्यायामप्यनधिकारः स्यादित्याशङ्क्याह
तदुपर्यपि बादरायणः सम्भवात् ।
ननु समन्वयाध्यायेऽधिकारचिन्ता न सङ्गतेत्यत आह
अङ्गुष्ठेति ।
स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । अत्र मनुष्याधिकारत्वोक्त्या स्मृतानां देवादिनां वेदान्तश्रवणादावधिकारोऽस्ति न वेति सन्देहे भोगासक्तानां वैराग्याद्यसम्भवान्नेति प्राप्ते सिद्धान्तमाह
बाढमिति ।
एवमधिकारविचारात्मकाधिकरणद्वयस्य प्रासङ्गिकी सङ्गतिः । अत्र पूर्वपक्षे देवादिनां ज्ञानानधिकाराद्देवत्वप्राप्तिद्वारा क्रममुक्तिफलासु दहराद्युपासनासु क्रममुक्त्यर्थिनां मनुष्याणामप्रवृत्तिः फलम् , सिद्धान्ते तु प्रवृत्तिः । उपासनाभिर्देवत्वं प्राप्तानां श्रवणादिना ज्ञानान्मुक्तिसम्भवादिति सफलोऽयं विचारः ।
ननु भोगासक्तानां तेषां मोक्षार्थित्वाभावान्नाधिकार इत्यत आह
अर्थित्वं तावदिति ।
विकारत्वेनानृतविषयसुखस्य क्षयासूयादिदोषद्दष्ट्या निरतिशयसुखमोक्षार्थित्वं सत्त्वप्रकृतीनां देवानां सम्भवतीत्यर्थः ।
नन्विन्द्राय स्वाहेत्यादौ चतुर्थ्यन्तशब्दातिरिक्ता विग्रहवती देवता नास्ति, शब्दस्य चासामर्थ्यान्नाधिकार इत्यत आह
तथेति ।
अर्थित्ववदित्यर्थः ।
अपर्युदस्तत्वमाह
नचतेषामिति ।
'शूद्रो यज्ञे नवक्लृप्तः' इतिवद्देवादीनां विद्याधिकारनिषेधो नास्तीत्यर्थः ।
ननु विग्रहवत्त्वेन दृष्टसामर्थ्ये सत्यप्युपनयनाभावाच्छास्त्रीयं सामर्थ्यं नास्तीत्यत आह
न चेति ।
जन्मान्तराध्ययनबलात्स्वयमेव प्रतिभाताः स्मृता वेदा येषां ते तथा तद्भावादित्यर्थः । बालादिषु प्रविष्टपिशाचादीनां वेदोद्घोषदर्शनाद्देवयोनीनां जन्मान्तरस्मरणमस्तीति स्मृतवेदान्तानामर्थविचारो युक्त इत्यर्थः ।
देवानामृषीणां च विद्याधिकारे कारणमर्थित्वादिकमुक्त्वा श्रौतं गुरुकुलवासादिलिङ्गमाह
अपिचेति ।
ननु ब्रह्मविद्या देवादीन्नाधिकरोति, वेदार्थत्वात् , अग्निहोत्रवदित्यत आह
यदपीति ।
देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावादिति प्रथमसूत्रार्थः । ऋषीणामनधिकारः, ऋष्यन्तराभावादृषियुक्ते कर्मण्यशक्तेरिति द्वितीयसूत्रार्थः ।
असामर्थ्यमुपाधिरिति परिहरति
न तदिति ।
असामर्थ्यरूपं कारणमित्यर्थः । न ह्यस्ति येनासामर्थ्यं स्यादिति शेषः । 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणाम्' इतिवाक्यबाधोऽप्यनुमानस्य द्रष्टव्यः ।
ननु देवादीन्प्रत्यङ्गुष्ठमात्रश्रुतिः कथम् , तेषां महादेहत्वेन हृदयस्यास्मदङ्गुष्ठमात्रत्वाभावात् । अतः श्रुतिषु तेषां नाधिकार इत्यत आह
देवाद्यधिकारेऽपीति ॥ २६ ॥
ननु मन्त्रादीनां प्रतीयमानविग्रहवत्त्वे तात्पर्यं कल्पयित्वा देवादीनामधिकार उक्तः, स चायुक्तः, अन्यपराणां तेषां प्रत्यक्षादिविरोधेन स्वार्थे तात्पर्यकल्पनानुपपत्तेरित्याक्षिप्य सूत्रचतुष्टयेन परिहरति
विरोधःकर्मणीत्यादिना ।
वर्ण्येत, तर्हीति शेषः । स्वरूपं विग्रहः ।
अभ्युपगमे प्रत्यक्षेण देवता दृश्येत, नच दृश्यते, अतो योग्यानुपलब्ध्या देवताया विग्रहवत्या अभावात्सम्प्रदानकारकाभावेन कर्मनिष्पत्तिर्न स्यादित्याह
तदा चेति ।
विग्रहस्याङ्गत्वमुपलब्धिबाधितं युक्त्या च न सम्भवतीत्याह
न चेति ।
तस्मादर्थोपहितशब्द एव देवता, तस्या अचेतनत्वान्न विद्याधिकार इति शङ्कार्थः ।
परिहरति
नायमिति ।
एकस्यापि देवस्य योगबलादनेकदेहप्राप्तिः श्रुतिस्मृतिदर्शनात्सम्भवति । अतो न कर्मणि विरोध इति व्याचष्टे
कस्मादित्यादिना ।
वैश्वदेवशस्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा 'त्रयश्च' इत्यादिरूपयोत्तरं ददौ । निविन्नाम शस्यमानदेवसङ्ख्यावाचकः शब्दः । षडधिकानि त्रीणि शतानि त्रीणि सहस्राणीति सङ्ख्योक्तौ सङ्ख्येयस्वरूपप्रश्ने, महिमानो विभूतयः सर्वे देवा एषां त्रयस्त्रिंशद्देवानामतोऽष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्चेति त्रयस्त्रिंशदेवास्तेऽपि षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानस्तेऽपि षट्सु देवेष्वन्तर्भवन्ति । षट्देवास्त्रिषु लोकेषु त्रयश्च द्वयोरन्नप्राणयोर्द्वै च एकस्मिन्प्राणे हिरण्यगर्भेऽन्तर्भवत इति दर्शितमित्यर्थः । त्रयस्त्रिंशतोऽपि देवानामिति सम्बन्धः ।
दर्शनं श्रौतं व्याख्याय स्मार्तं व्याचष्टे
तथा स्मृतिरिति ।
बलं योगसिद्धिम् । 'अणिमा महिमा चैव लघिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता' ॥ इत्यष्टैश्वर्याणि । क्षणेन अणुर्महान् लघुर्गुरुश्च भवति योगी । अङ्गुल्या चन्द्रस्पर्शः प्राप्तिः । ईशिता सृष्टिशक्तिः । प्राकाम्यमिच्छानाभिघातः । वशित्वं नियमनशक्तिः । सङ्कल्पमात्रादिष्टलाभो यत्रकामावसायितेति भेदः । आजानसिद्धानां जन्मना सिद्धानामित्यर्थः ।
फलितमाह
अनेकेति ।
अनेकेषु कर्मस्वेकस्य प्रतिपत्तिरङ्गभावः ।
तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह
क्वचिदेक इति ।
प्रकृतोपयुक्तमन्वयदृष्टान्तमाह
क्वचिच्चेति ॥ २७ ॥
कर्मण्यविरोधमङ्गीकृत्य शब्दप्रामाण्यविरोधमाशङ्क्य परिहरति -
शब्द इति चेदिति ।
मा प्रसञ्जि प्रसक्तो मा भून्नामेत्यर्थः ।
औत्पत्तिकसूत्रे शब्दार्थयोरनाद्योः सम्बन्धस्यानादित्वाद्वेदस्य स्वार्थे मानान्तरानपेक्षत्वेन प्रामाण्यमुक्तम् । इदानीमनित्यविग्रहव्यक्त्यभ्युपगमे तत्सम्बन्धस्याप्यनित्यत्वान्मानान्तरेण व्यक्तिं ज्ञात्वा शब्दस्य सङ्केतः पुंसा कर्तव्य इति मानान्तरापेक्षत्वात्प्रामाण्यस्य विरोधः स्यादित्याह
कथमित्यादिना ।
किं शब्दानामनित्यतया सम्बन्धस्य कार्यत्वमापद्यते, उतार्थानामनित्यतया । नाद्य इत्याह
नायमपीति ।
कर्मण्यविरोधवदित्यपेरर्थः । देवादिव्यक्तिहेतुत्वेन प्रागेव शब्दानां सत्त्वान्नानित्यत्वमिति भावः ।
अत्र पूर्वापरविरोधं शङ्कते
नन्विति ।
शब्दस्य निमित्तत्वेन ब्रह्मसहकारित्वादविरोध इत्याशङ्क्य द्वितीयं कल्पमुत्थापयति
अपिचेति ।
अनित्यत्वं सादित्वम् । व्यक्तिरूपार्थानामनित्यतया शब्दानां सम्बन्धस्यानित्यत्वं दुर्वारम् , तस्मात्पौरुषेयसम्बन्धसापेक्षत्वात्प्रामाण्यविरोध इत्यर्थः । नच व्यक्तिनामनित्यत्वेऽपि घटत्वादिजातिसमवायवच्छब्दसम्बन्धोऽपि नित्यः स्यादिति वाच्यम् , उभयाश्रितसम्बन्धस्यान्यतराभावे स्थित्ययोगेन दृष्टान्तासिद्वेरिति भावः ।
यथा गोत्वादयो गवादिशब्दवाच्यास्तथा वसुत्वाद्याकृतयो वस्वादिशब्दार्था न व्यक्त्य इति परिहरति
नेत्यादिना ।
शब्दानां तदर्थानां जातीनां च नित्यत्वात्तत्सम्बन्धोऽपि नित्य इति प्रतिपादयति
नहीत्यादिना ।
व्यक्तीनामानन्त्यादिति ।
नच गोत्वावच्छेदेन व्यक्तिषु शक्तिः सुग्रहेति वाच्यम् , सामान्यस्याप्रत्यासत्तित्वेन सर्वव्यक्त्युपस्थित्यभावात् , गोत्वं शक्यतावच्छेदकमिति ग्रहापेक्षया गोत्वं शक्यमिति लाघवात् , निरूढाजहल्लक्षणया व्यक्तेर्लाभेनान्यलभ्यत्वाभावाच्चेति भावः । यद्वा केवलव्यक्तिषु शक्तिरत्र निरस्यते, अनुपपत्तिज्ञानं विनैव व्यक्तेः शब्दशक्त्यायत्तजातिज्ञानविषयत्वेनोभयशक्तेरावश्यकत्वात् । तथाच नित्यजातितादात्म्येन व्यक्तेरनादित्वात्तत्सम्बन्धोऽप्यनादिः, सत्कार्यवादात् । अत एव वाक्यवृत्तौ तत्त्वमस्यादिवाक्ये भागलक्षणोक्ता युज्यते, केवलसामान्यस्य वाच्यत्वेऽखण्डार्थस्य वाच्यैकदेशत्वाभावात् । 'अतःप्रभवात्' इति सूत्रस्वारस्याच्च केवलव्यक्तिशक्तिनिरास इति गम्यते । केवलव्यक्तिवचनाः खलु डित्थादिशब्दा अर्थानन्तरभाविनः साङ्केतिकाः गवादिशब्दास्तु व्यक्तिप्रभवहेतुत्वेन प्रागेवसन्धीति न व्यक्तिमात्रवचनाः साङ्केतिकाः किन्तु स्थूलसूक्ष्मभावेनानुस्यूतव्यक्त्यविनाभूतसामान्यवचना इति मन्तव्यम् । न चेन्द्रादिव्यक्तेरेकत्वेन जात्यभावादाकाशशब्दवदिन्द्रचन्द्रादिशब्दाः केवलव्यक्तिवचना इति साम्प्रतम् । अतीतानागतव्यक्तिभेदेन जात्युपपत्तेरित्यलं प्रपञ्चेन ।
दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमाह
व्यक्तिष्वित्यादिना ।
आकृतिर्जातिः ।
ननु का सा व्यक्तिः, यदनुगतेन्द्रत्वादिजातिः शब्दार्थः स्यादित्यत आह
आकृतिविशेषस्त्विति ।
'वज्रहस्तःपुरन्दरः' इत्यादिभ्य इत्यर्थः ।
इन्द्रादिशब्दानां जातिरिन्द्रादिषु प्रवृत्तिनिमित्तमित्युक्त्वा उपाधिनिमित्तमाह
स्थानेति ।
व्यक्तिप्रलयेऽपि स्थानस्य स्थायित्वाच्छब्दार्थसम्बन्धनित्यतेत्यत आह
ततश्चेति ।
उक्तं पूर्वापरविरोधं परिहरति
नचेति ।
शब्दो निमित्तमित्यविरोधं मत्वा सूत्रशेषमवतारयति
कथं पुनरिति ।
स्मृत्या स्वप्रामाण्यार्थं मूलश्रुतिरनुमीयत इत्यनुमानं स्मृतिः । 'एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यस्याभिसौभगा' । इत्येतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत् । तत्रैत इति पदं सर्वनामत्वाद्देवानां स्मारकम् । असृग्रुधिरं तत्प्रधाने देहे रमन्त इति असृग्रा मनुष्याः । चन्द्रस्थानां पितृणामिन्दुशब्दः स्मारकः । पवित्रं सोमं स्वान्तस्तिरस्कुर्वतां ग्रहाणां तिरः पवित्रशब्दः । ऋचोऽश्नुवतां स्तोत्राणां गीतिरूपाणामाशुशब्दः । 'ऋच्यध्यूढं साम' इति श्रुतेः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः । सर्वत्र सौभाग्ययुक्तानामभिसौभगशब्दःस्मारक इति छन्दोगब्राह्मणवाक्यार्थः । स प्रजापतिर्मनसा वाचं त्रयीं मिथुनं समभवत्मनोवाग्रूपं मिथुनं सम्भावितवान् । मनसा त्रयीप्रकाशितां सृष्टिमालोचितवानित्यर्थः । 'रश्मिरित्येवादित्यमसृजत' इत्यादिश्रुतिरादिशब्दार्थः । सम्प्रदायो गुरुशिष्यपरम्पराध्ययनम् । संस्था अवस्थाः ।
या प्रजापतिसृष्टिः सा शब्दपूर्विका, सृष्टित्वात् , प्रत्यक्षघटादिवदिति प्रत्यक्षानुमानाभ्यामित्यस्यार्थान्तरमाह
अपिचेति ।
अतः प्रभवत्वप्रसङ्गाच्छब्दस्वरूपं वक्तुमुक्तमाक्षिपति
किमात्मकमिति ।
वर्णरूपं तदतिरिक्तस्फोटरूपं वेति किंशब्दार्थः ।
तत्र वर्णानामनित्यत्वात्स्फोटस्य चासत्त्वान्न जगद्धेतुत्वमित्याक्षेपे द्वितीयपक्षं वैयाकरणो गृह्णाति
स्फोटमिति ।
स्फुट्यते वर्णैर्व्यज्यत इति स्फोटोवर्णाभिव्यङ्ग्योऽर्थस्तस्य व्यञ्जको गवादिशब्दो नित्यस्तमभिप्रेत्येदमुच्यत इति पूर्वेणान्वयः ।
स एवाद्यपक्षं दूषयति
वर्णेति ।
सोऽयं गकार इति प्रत्यभिज्ञया वर्णनित्यत्वसिद्धेर्नानुपपत्तिरित्यत आह
उत्पन्नेति ।
तारत्वमन्द्रत्वादिविरुद्धधर्मवत्त्वेन तारो गकारो मन्द्रो गकार इति प्रतीयमानगकारस्य भेदानुमानात्प्रत्यभिज्ञा गत्वजातिविषयेत्यर्थः ।
ननु विरुद्धधर्मज्ञानं ध्वन्युपाधिकं भ्रम इत्यत आह
नचेति ।
तथाच वर्णानामनित्यत्वान्न जगद्धेतुत्वमिति भावः ।
किञ्च तेषामर्थबोधकत्वायोगात्स्फोटोऽङ्गीकार्य इत्याह
नच वर्णेभ्य इत्यादिना ।
व्यभिचारादेकस्माद्वर्णादर्थप्रतीत्यदर्शनात् , वर्णान्तरवैयर्थ्यप्रसङ्गाच्चेत्यर्थः ।
तर्हि वर्णानां समुदायो बोधक इत्याशङ्क्य क्षणिकानां स नास्तीत्याह
नचेति ।
वर्णानां स्वतः साहित्याभावेऽपि संस्कारलक्षणापूर्वद्वारा साहित्यमाग्नेयादियागानामिवेति शङ्कते
पूर्वेति ।
किमयं संस्कारो वर्णैर्जनितोऽपूर्वाख्यः कश्चित् , उत वर्णानुभवजनितो भावनाख्यः । नाद्यः, मानाभावात् । किञ्चायमज्ञातो ज्ञातो वार्थधीहेतुः । नाद्य इत्याह
तन्नेति ।
संस्कारसहितः शब्दो ज्ञात एवार्थधीहेतुः, सम्बन्धग्रहणमपेक्ष्य बोधकत्वात् , धूमादिवदित्यर्थः ।
द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन । नाद्य इत्याह
नचेति ।
द्वितीयं शङ्कते
कार्येति ।
कार्यमर्थधीस्तस्यां जातायां संस्कारप्रत्ययः तस्मिञ्जाते सेति परस्पराश्रयेण दूषयति
नेति ।
पदार्थस्मरणस्यापि पदज्ञानान्तरभावित्वात्तेन संस्कारसहितान्त्यवर्णात्मकपदस्य ज्ञानं न युक्तमित्यक्षरार्थः । अपिशब्दः परस्पराश्रयद्योतनार्थः । एतेन भावानासंस्कारपक्षोऽपि निरस्तः । तस्य वर्णस्मृतिमात्रहेतुत्वेनार्थधीहेतुत्वायोगात् । न चान्त्यवर्णसाहित्यादर्थधीहेतुत्वम् , केवलसंस्कारस्य तु वर्णस्मृतिहेतुत्वमिति वाच्यम् , अर्थधीपूर्वकाले भावनाया ज्ञानाभावेनार्थधीहेतुत्वायोगात् । नच वर्णस्मरणेनानुमिता सा अन्त्यवर्णसहितार्थधीहेतुरिति वाच्यम् , तत्कार्यस्य क्रमिकस्य वर्णस्मरणस्याप्यन्त्यवर्णानुभवानन्तरभावित्वेन तेनानुमितभावनानामन्त्यवर्णसाहित्याभावादिति भावः ।
वर्णानामर्थबोधकत्वासम्भवे फलमाह
तस्मादिति ।
स्फोटेऽपि किं मानमित्याशङ्क्यैकं पदमिति प्रत्यक्षप्रमाणमित्याह
स चेति ।
यथा रत्नतत्त्वं बहुभिश्चाक्षुषप्रत्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गकारद्येकैकवर्णकृतप्रत्ययैः स्फोटविषयैराहिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्यवर्णकृतप्रत्ययेन जनितः परिपाकोऽन्त्यः संस्कारोयस्मिंस्तस्मिन्प्रत्ययिनि चित्ते एकं गौरितिपदमिति प्रत्ययः प्रत्यक्षस्तद्विषयतया स्पष्टमवभासत इत्यर्थः । अनेन वर्णान्वयव्यतिरेकयोः स्फोटज्ञानेऽन्यथासिद्धिः । नचैकस्माद्वर्णात्सम्यक्स्फोटाभिव्यक्तिः, येन वर्णान्तरवैयर्थ्यं किन्तु रत्नवद्बहुप्रत्ययसंस्कृते चित्ते सम्यक्स्फोटाभिव्यक्तिरित्युक्तं भवति ।
नन्वेकपदमेकं वाक्यमिति प्रत्ययः पदवाक्यस्फोटयोर्न प्रमाणम् , तस्य वर्णसमूहालम्बनस्मृतित्वादित्याशङ्क्य निषेधति
न चेति ।
स्फोटस्य जगद्धेतुत्वार्थं नित्यत्वमाह
तस्य चेति ।
ननु तदेवेदं पदमिति प्रत्यभिज्ञा भ्रमः, उदात्तादिभेदप्रत्ययादित्यत आह
भेदेति ।
आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तयति
वर्णा एवेति ।
वर्णातिरिक्तस्फोटात्मकशब्दस्यानुभवानारोहादित्यर्थः ।
सादृश्यदोषादियं भ्रान्तिरिति शङ्कते
सादृश्यादिति ।
वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तम् , भेदधीविरोधात् । स एवायं वर्ण इति धीस्तु प्रमैव, बाधकाभावादित्याह
नेति ।
गोत्वादिप्रत्यभिज्ञावद्वर्णेषु प्रत्यभिज्ञा गवादिविषयेति शङ्कते
प्रत्यभिज्ञानमिति ।
व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात् , यत्त्वया पीतं जलं तदेव मया पीतमित्यादौ । न तथेह व्यक्तिभेदः सिद्ध इति परिहरति
न । व्यक्तीति ।
न त्वेतदिति ।
व्यक्त्यन्यत्वज्ञानमित्यर्थः ।
उदात्तत्वादिविरुद्धधर्मत्वाद्व्यक्तिभेदोऽनुमानसिद्ध इत्यनुवदति
नन्विति ।
भेदप्रत्ययस्य कुम्भकूपाकाशभेदप्रत्ययवदौपाधिकभेदविषयत्वादन्यथासिद्धेरनन्यथासिद्धव्यक्त्यैक्यप्रत्यभिज्ञया निरपेक्षस्वरूपालम्बनया बाध इत्युत्तरमाह
अत्रेति ।
ताल्वादिदेशैः कोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्ग्यत्वाद्वर्णेषु वैचित्र्यधीरित्यर्थः ।
कल्पनागौरवाच्च वर्णेषु स्वतो भेदो नास्तीत्याह
अपिचेति ।
अनन्ता गकारादिव्यक्तयस्तासु प्रत्यभिज्ञानार्थं गत्वादिजातयस्तासु चोदात्तत्वादिभेदस्यौपाधिकत्वमिति कल्पनाद्वरं वर्णव्यक्तिभेदमात्रस्यौपाधिकत्वकल्पनमिति व्यक्त्यानन्त्यस्य जातीनां च कल्पनमयुक्तमित्यर्थः ।
ननु भेदस्य बाधकाभावान्नौपाधिकत्वमित्यत आह
एष इति ।
अस्तु तर्हि प्रत्ययद्वयप्रामाण्याय भेदाभेदयोः सत्यत्वम् , तत्राह
कथं हीति ।
उभयोरेकत्वविरोधाद्भेद औपाधिक एवेत्यर्थः ।
ननु वायुसंयोगादेरतीन्द्रियत्वान्न तद्गतवैचित्र्यस्योदात्तत्वादेर्वर्णेषु प्रत्यक्षारोपः सम्भवतीत्यरुचिं वदिष्यन्स्वमतमाह
अथवेति ।
ध्वनिधर्मा उदात्तत्वादयो ध्वन्यभेदाध्यासाद्वर्णेषु भान्तीत्यर्थः ।
प्रश्नपूर्वकं ध्वनिस्वरूपमाह
क इति ।
अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः ।
समीपं गतस्य पुंसस्तारत्वमन्दत्वादिधर्मान्स्वगतान्वर्णेषु स एवारोपयतीत्याह
प्रत्यासीदतश्चेति ।
आदिपदं विवृणोति
तदिति ।
नन्वव्यक्तवर्ण एव ध्वनिर्नातिरिक्त इत्यत आह
वर्णानामिति ।
प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिर्व्यावर्तत इति भेद इत्यर्थः । अन्यथा वाचिके जपे वर्णेष्वव्यक्तेषु ध्वनिबुद्धिः स्यात् , दुन्दुभ्यादिध्वनौ शब्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यम् ।
एवं ध्वन्युपाधिकत्वे स्वमते गुणं वदन्वायूपाधिकत्वे पूर्वोक्तामरुचिं दर्शयति
एवंचेत्यादिना ।
अस्तु को दोषः, तत्राह
संयोगेति ।
वायुसंयोगादेरश्रावणत्वादित्यर्थः । तस्मात्श्रावणध्वनिरेवोदात्तत्वाद्यारोपोपाधिरिति भावः ।
एवं विरुद्धधर्मकध्वनीनां भेदेऽपि न तेष्वनुगता वर्णा भिद्यन्त इत्युक्तम् । तदेव दृष्टान्तेन द्रढयति
अपिचेति ।
यथा खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः । उदात्तादिर्ध्वनिस्तद्भेदेन हेतुना वर्णानामपीति योजना । प्रत्यभिज्ञाविरोधादित्यक्षरार्थः ।
यद्वा उदात्तत्वादिभेदविशिष्टतया प्रत्यभिज्ञायमानत्वाद्वर्णानां भेद इत्याशङ्कां दृष्टान्तेन निरस्यति
अपिचेति ।
वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति
वर्णेभ्यश्चेति ।
कल्पनामसहमान आशङ्कते
नेति ।
चक्षुषा दर्पणयुक्तायां बुद्धौ मुखवच्छ्रोत्रेण वर्णयुक्तायां बुद्धौ विनैव हेत्वन्तरं स्फोटः प्रत्यक्ष इत्याह
झटितीति ।
यस्यां संविदि योऽर्थो भासते सा तत्र प्रमाणम् ।
एकपदमिति बुद्धौ वर्णा एव स्फुरन्ति नातिरिक्तस्फोट इति न सा स्फोटे प्रमाणमित्याह
न । अस्या अपीत्यादिना ।
ननु गोपदबुद्धेः स्फोटो विषयो गकारादीनां तु व्यञ्जकत्वादनुवृत्तिरित्यत आह
यदि हीति ।
व्यङ्ग्यवह्निबुद्धौ व्यञ्जकधूमानुवृत्तेरदर्शनादित्यर्थः ।
वर्णसमूहालम्बनत्वोपपत्तेर्न स्फोटः कल्पनीयः, पदार्थान्तरकल्पनागौरवादित्याह
तस्मादिति ।
अनेकस्याप्यौपाधिकमेकत्वं युक्तमित्याह
सम्भवतीति ।
ननु तत्रैकदेशादिरूपाधिरस्ति, प्रकृते क उपाधिरित्यत आह
या त्विति ।
एकार्थे शक्तमेकं पदम् , प्रधानार्थ एकस्मिन् तात्पर्यवदेकं वाक्यमित्येकार्थसम्बन्धादेकत्वोपचार इत्यर्थः । न चैकपदत्वे ज्ञाते एकार्थज्ञानम् , अस्मिंज्ञाते तदित्यन्योन्याश्रय इति वाच्यम् , उत्तमवृद्धोक्तानां वर्णानां क्रमेणान्त्यवर्णश्रवणानन्तरं बालस्यैकस्मृत्यारूढानां मध्यमवृद्धस्य प्रवृत्त्यादिलिङ्गानुमितैकार्थधीहेतुत्वनिश्चये सत्येकपदवाक्यत्वनिश्चयात् ।
वर्णसाम्येऽपि पदभेददृष्टेर्वर्णातिरिक्तं पदं स्फोटाख्यमङ्गीकार्यमिति शङ्कते
अत्राहेति ।
क्रमभेदाद्वर्णेष्वेव पदभेददृष्टिरिति परिहरति
अत्रेति ।
ननु नित्यविभूनां वर्णानां कथं क्रमः कथं वा पदत्वज्ञानेनार्थधीहेतुत्वम् , तत्राह
वृद्धेति ।
व्युत्पत्तिदशायामुच्चारणक्रमेणोपलब्धिक्रममुपलभ्यमानवर्णेष्वारोप्यैते वर्णा एतत्क्रमैतत्सङ्ख्यावन्त एतदर्थशक्ता इति गृहीताः सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढाः स्वस्वार्थं बोधयन्तीत्यर्थः ।
स्थायिवर्णवादमुपसंहरति
वर्णेति ।
दृष्टं वर्णानामर्थबोधकत्वम् , अदृष्टः स्फोटः । सम्प्रति वर्णानामस्थिरत्वमङ्गीकृत्य प्रौढिवादेन स्फोटं विघटयति
अथापीति ।
स्थिराणि गत्यादिसामान्यानि क्रमविशेषवन्ति गृहीतसङ्गतिकान्यर्थबोधकानीति कॢप्तेषु सामान्येषु प्रक्रिया सञ्चारयितव्या न त्वकॢप्तः स्फोटः कल्पनीय इत्यर्थः ।
वर्णानां स्थायित्ववाचकत्वयोः सिद्धौ फलितमाह
ततश्चेति ॥ २८ ॥
पूर्वतन्त्रवृत्तानुवादपूर्वकं सूत्रं व्याचष्टे
कर्तुरित्यादिना ।
पूर्वतन्त्रसिद्धमेव वेदस्य नित्यत्वं देवादिव्यक्तिसृष्टौ तद्वाचकशब्दस्यापि सृष्टेरसिद्धमित्याशङ्क्य नित्याकृतिवाचकाच्छब्दाद्व्यक्तिजन्मोक्त्या साङ्केतिकत्वं निरस्य वेदोऽवान्तरप्रलयावस्थायी जागद्धेतुत्वादीश्वरवदित्यनुमानेन द्रढयतीत्यर्थः । यज्ञेन पूर्वसुकृतेन वाचो वेदस्य लाभयोग्यतां प्राप्ताः सन्तो याज्ञिकास्तामृषिषु स्थितां लब्धवन्त इति मन्त्रार्थः । अनुविन्नामुपलब्धाम् । पूर्वमवान्तरकल्पादौ ॥ २९ ॥
ननु महाप्रलये जातेरप्यसत्त्वाच्छब्दार्थसम्बन्धानित्यत्वमित्याशङ्क्याह
समानेति ।
सूत्रनिरस्यां शङ्कामाह
अथापीति ।
व्यक्तिसन्तत्या जातीनामवान्तरप्रलये सत्त्वात्सम्बन्धस्तिष्ठति, व्यवहाराविच्छेदाज्ज्ञायते चेति वेदस्यानपेक्षत्वेन प्रामाण्ये न कश्चिद्विरोधः स्यात् । निर्लेपलये तु सम्बन्धनाशात्पुनः सृष्टौ केनचित्पुंसा सङ्केतः कर्तव्य इति पुरुषबुद्धिसापेक्षत्वेन वेदस्याप्रामाण्यम् , अध्यापकस्याश्रयस्य नाशादाश्रितस्य तस्यानित्यत्वं च प्राप्तमित्यर्थः । महाप्रलयेऽपि निर्लेपलयोऽसिद्धः, सत्कार्यवादात् । तथाच संस्कारात्मना शब्दार्थतत्सम्बन्धानां सतामेव पुनः सृष्टावभिव्यक्तेर्नानित्यत्वम् । अभिव्यक्तानां पूर्वकल्पीयनामरूपसमानत्वान्न सङ्केतः केनचित्कार्यः ।
विषमसृष्टौ हि सङ्केतापेक्षा न तुल्यसृष्टाविति परिहरति
तत्रेदमित्यादिना ।
नन्वाद्यसृष्टौ सङ्केतः केनचित्कार्य इत्यत आह
तदापीति ।
महासर्गप्रलयप्रवृत्तावपीत्यर्थः ।
नन्वस्त्वनादिसंसारे सम्बन्धस्यानादित्वं तथापि महाप्रलयव्यवधानादस्मरणे कथं वेदार्थव्यवहारः, तत्राह
अनादौ चेति ।
न कश्चिद्विरोधः, शब्दार्थसम्बन्धस्मरणादेरिति शेषः ।
स्वापप्रबोधयोर्लयसर्गासिद्धिमाशङ्क्य श्रुतिमाह
स्वापेति ।
अथ तदा सुषुप्तौ प्राणे परमात्मनि जीव एकीभवति एनं प्राणं स जीवः तदैतीति शेषः । एतस्मात्प्राणात्मनः । आयतनं गोलकम् । आनन्तर्ये पञ्चमी प्राणेभ्य इत्याद्या द्रष्टव्या । स्वप्नवत्कल्पितस्याज्ञातसत्त्वाभावात् दर्शनं सृष्टिः अदर्शनं लय इति दृष्टिसृष्टिपक्षः श्रुत्यभिप्रेत इति भावः ।
दृष्टान्तवैषम्यमाशङ्क्य परिहरति
स्यादित्यादिना ।
अविरुद्धमनुसन्धानादिकमिति शेषः ।