अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रथमाध्याये प्रथमः पादः (४)

हिरण्यगर्भादयः पूर्व­क­ल्पा­नु­स­न्धा­न­शून्यः । संसारित्वात् , अस्मा­दा­दि­वा­दि­त्या­श­ङ्क्याह
यद्यपीति ।
इति यद्यपि तथापि न प्राकृतवदिति योजना ।

ज्ञाना­दे­र्नि­क­र्ष­व­दु­त्क­र्षोऽ­प्य­ङ्गी­कार्यः, बाधाभावादिति न्याया­नु­गृ­ही­त­श्रु­त्या­दिभिः सामान्यतो दृष्टानुमानं बाध्यमित्याह
यथा हीत्यादिना ।

ननु तथापि पूर्व­क­ल्पे­श्व­राणां मुक्त­त्वा­द­स्मि­न्कल्पे कोऽनु­स­न्धा­ते­त्यत आह
ततश्चेति ।
ज्ञाना­द्यु­त्क­र्षा­दि­त्यर्थः । मुक्ते­भ्योऽ­न्येऽ­नु­स­न्धा­तार इति भावः ।

पर­मे­श्व­रा­नु­गृ­ही­तानां ज्ञानातिशये पूर्वो­क्त­श्रु­ति­स्मृ­ति­वा­दा­नाह
तथा चेति ।
पूर्वं कल्पादौ सृजति तस्मै ब्रह्मणे प्रहिणोति गमयति तस्य बुद्धौ वेदा­ना­वि­र्भा­व­यति यस्तं देवं स्वात्माकारं महा­वा­क्यो­त्थ­बुद्धौ प्रकाशमानं शरणं परममभयस्थानं निःश्रेयसरूपमहं प्रपद्य इत्यर्थः ।

न केवलमेकस्यैव ज्ञानातिशयः किन्तु बहूनां शाखा­द्र­ष्टृ­णा­मिति विश्वासार्थमाह
स्मरन्तीति ।

ऋग्वेदो दश­म­ण्ड­ला­व­य­वा­स्तत्र भवा ऋचो दाशतम्यः । वेदान्तरेऽपि काण्ड­सू­क्त­म­न्त्राणां द्रष्टारो बौधायनादिभिः स्मृता इत्याह
प्रतीति ।

किञ्च मन्त्रा­णा­मृ­ष्या­दि­ज्ञा­ना­व­श्य­क­त्व­ज्ञा­पिका श्रुति­र्म­न्त्र­दृ­गृ­षीणां ज्ञानातिशयं दर्शयतीत्याह
श्रुतिरपीति ।
आर्षेय ऋषियोगः, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगः, एतान्यविदितानि यस्मिन्मन्त्रे तेनेत्यर्थः । स्थाणुं स्थावरम् , गर्तं नरकम् । तथाच ज्ञानाधिकैः कल्पान्तरितं वेदं स्मृत्वा व्यवहारस्य प्रव­र्ति­त­त्वा­द्वे­द­स्या­ना­दि­त्व­म­न­पे­क्षत्वं चाविरूद्धमिति भावः ।

अधुना समाननामरूपत्वं प्रपञ्चयति
प्राणिनां चेति ।

ततः किम् , तत्राह
दृष्टेति ।
ऐहि­का­मु­ष्मि­क­वि­ष­य­सु­ख­रा­ग­कृ­त­ध­र्मस्य फलं पश्वादिकं दृष्ट­प­श्वा­दि­स­दृ­श­मिति युक्तम् , विसदृशे कामाभावेन हेत्वभावात् । तथा दृष्ट­दुः­ख­द्वे­ष­कृ­ता­ध­र्म­फलं दृष्ट­स­दृ­श­दुः­ख­मेव न सुखम् , कृत­हा­न्या­दि­दो­षा­प­त्ते­रि­त्यर्थः ।

तर्कितेऽर्थे मानमाह
स्मृतिश्चेति ।
उत्तरसृष्टिः पूर्व­सृ­ष्टि­स­जा­तीया, कर्मफलत्वात् , पूर्व­सृ­ष्टि­व­दि­त्य­नु­मानं चशब्दार्थः ।

तेषां प्राणिनां मध्ये तान्येव तज्जातीयान्येव । तानि दर्शयन् तत्प्राप्तौ हेतुमाह
हिंस्रेति ।
कर्माणि विहि­त­नि­षि­द्ध­त्वा­का­रे­णा­पू­र्वम् , क्रियात्वेन संस्कारं च जनयन्ति । तत्रा­पू­र्वा­त्फलं भुङ्क्ते, संस्का­र­भा­वि­त­त्वा­त्पु­न­स्त­ज्जा­ती­यानि करोतीत्यर्थः ।

संस्कारे लिङ्गमाह
तस्मादिति ।
संस्कारवशादेव पुण्यं पापं वा रोचते । अतोऽ­भि­रु­चि­लि­ङ्गा­त्पु­ण्या­पु­ण्य­सं­स्का­रोऽ­नु­मेयः । स एव स्वभावः प्रकृ­ति­र्वा­स­नेति च गीयते ।

एवं कर्मणां सृष्टि­सा­दृ­श्य­मुक्त्वा स्वोपादाने लीन­का­र्य­सं­स्का­र­रू­प­श­क्ति­ब­ला­दपि सादृश्यमाह
प्रलीयमानमिति ।
इतरथा निःसं­स्का­र­प्र­लये जग­द्वै­चि­त्र्य­स्या­क­स्मि­कत्वं स्यादित्यर्थः ।

ननु जग­द्वै­चि­त्र्य­का­रि­ण्योऽन्याः शक्तयः कल्प्यन्ताम् , तत्राह
नचेति ।
अविद्यायां लीन­का­र्या­त्म­क­सं­स्का­रा­दन्याः शक्तयो न कल्प्याः मना­भा­वा­द्गौ­र­वाच्च । स्वोपादाने लीनकार्यरूपा शक्तिस्तु 'महा­न्न्य­ग्रो­ध­स्ति­ष्ठति' 'श्रद्धत्स्व सोम्य' इति­श्रु­ति­सिद्धा, अतोऽ­वि­द्या­त­त्का­र्या­दन्याः शक्तयो न सन्ति आत्माविद्यैव तच्छक्तिरिति सिद्धान्त इत्यर्थः । निमि­त्ते­ष्व­प्यु­पा­द­नस्थं कार्य­मे­वा­वि­द्या­घ­ट­नया शक्तिरन्या वेत्यनाग्रहः ।

उपादाने कार्य­सं­स्का­र­सिद्धेः फलमाह
ततश्चेति ।
यथा सुप्तोत्थितस्य पूर्व­च­क्षु­र्जा­ती­य­मेव चक्षुर्जायते तच्च पूर्व­रू­प­जा­ती­य­मेव रूपं गृह्णाति न रसादिकम् , एवं भोग्या लोका भोगाश्रयाः प्राणिनिकाया भोगहेतुकर्माणि संस्का­र­ब­ला­त्पू­र्व­लो­का­दि­तु­ल्या­न्ये­वेति नियम इत्यर्थः । निकायाः समूहाः ।

दृष्टा­न्ता­सि­द्धि­मा­श­ङ्क्य­माह
न हीति ।
यथा षष्ठेन्द्रियस्य मन­सोऽ­सा­धा­र­ण­वि­षयो नास्ति, सुखादेः साक्षि­वे­द्य­त्वात् , तथा व्यव­हा­रा­न्य­था­त्व­म­स­दि­त्यर्थः । षष्ठमिन्द्रियं तद्वि­ष­य­श्चा­स­न्निति वार्थः ।

उक्तार्थं सङ्क्षिपति
अतश्चेति ।
व्यव­हा­र­सा­म्या­त्स­म्भ­वाच्च व्यवह्रियमाणा व्यक्तयः समाना एवेत्यर्थः ।

सूत्रे योजयति
समानेत्यादिना ।
भाविदृष्ट्या यजमानोऽग्निः अन्ना­दोऽ­र­ग्नि­रहं स्यामिति कामयित्वा कृत्ति­का­न­क्ष­त्रा­भि­मा­नि­दे­वा­या­ग्नये अष्टसु कपालेषु पचनीयं हवि­र्नि­रु­प्त­वा­नि­त्यर्थः । नक्ष­त्र­व्य­क्ति­ब­हु­त्वा­द्ब­हु­व­च­नम् । [ननु यज­मा­नोऽ­ग्नि­र्भावी उद्देश्याग्निना समाननामरूपः कल्पान्तरे भवति । एवं 'रुद्रो वा अकामयत' 'विष्णुर्वा अकामयत' इत्यत्रापि तथा वक्तव्यम् , तदयुक्तम् । न ह्यग्नेरिव विष्णु­रु­द्र­यो­र­धि­का­रि­पु­रु­ष­त्वम् , तयो­र्ज­ग­त्का­र­ण­त्व­श्र­व­णात् । 'एक एव रुद्रो न' इति । 'एको विष्णुः' इत्यादि श्रुति­स्मृ­ति­वि­रो­धा­दिति । ] स्मृतौ वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतूनां वसन्तादीनां लिङ्गानि नवपल्लवादिनि । पर्यये घटी­य­न्त्र­व­दा­वृत्तौ । भावाः पदार्थाः तुल्या इति शेषः । तस्मा­ज्ज­न्म­ना­श­व­द्वि­ग्र­हा­ङ्गी­का­रेऽपि कर्मणि शब्दे च विरो­धा­भा­वा­द्दे­वा­ना­मस्ति विद्याधिकार इति स्थितम् ॥ ३० ॥

आक्षिपति
मध्वादिष्विति ।
ब्रह्मविद्या देवा­दी­न्ना­धि­क­रोति, विद्यात्वात् , मध्वा­दि­वि­द्या­व­दि­त्यर्थः ।

दृष्टान्तं विवृणोति
कथमित्यादिना ।

द्युलो­का­ख्य­वं­श­दण्डे अन्तरिक्षरूपे मध्वपूपे स्थित आदित्यो देवानां मोदनान्मध्विव मध्वित्यारोप्य ध्यानं कार्यम् । तत्रा­दि­त्य­स्या­धि­कारो न युक्तः, ध्यातृ­ध्ये­य­भे­दा­भा­वा­दि­त्याह
देवादिष्विति ।

अस्तु वस्वादीनां तत्राधिकार इत्याशङ्क्य तेषामपि तत्र ध्येय­त्वा­त्प्रा­प्य­त्वाच्च न ध्यातृ­त्व­मि­त्याह
पुनश्चेति ।
चतु­र्वे­दो­क्त­क­र्माणि प्रणवश्चेति पञ्च कुसुमानि, तेभ्यः सोमा­ज्या­दि­द्र­व्याणि हुतानि लोहि­त­शु­क्ल­कृ­ष्ण­परः कृष्ण­गो­प्या­ख्यानि पञ्चामृतानि तत्त­न्म­न्त्र­भागैः प्रागा­द्यू­र्ध्वा­न्त­र­प­ञ्च­दि­ग­व­स्थि­ता­भि­रा­दि­त्य­र­श्मि­ना­डी­भि­र्म­ध्व­पू­प­स्थि­त­च्छि­द्र­रू­पा­भि­रा­दि­त्य­म­ण्ड­ल­मा­नी­तानि यशस्तेज इन्द्रि­य­वी­र्या­न्ना­त्मना परिणतानि पञ्चदिक्षु स्थितै­र्व­स्वा­दि­भि­रू­प­जी­व्या­नीति ध्यायतो वस्वा­दि­प्रा­प्ति­रु­क्ते­त्यर्थः ।

सूत्र­स्था­दि­प­दा­र्थ­माह
तथाग्निरिति ।

आका­श­ब्र­ह्म­ण­श्च­त्वारः पादाः, द्वौ कर्णौ, द्वे नेत्रे, द्वे नासिके, एका वागिति सप्त­स्वि­न्द्रि­येषु शिर­श्च­म­स­ती­र­स्थेषु सप्तर्षिध्यानं कार्यमित्याह
तथेमावेवेति ।
अथ दक्षिणः कर्णः गौतमः, वामो भारद्वाजः, एवं दक्षि­ण­ने­त्र­ना­सिके विश्वा­मि­त्र­व­सिष्ठौ, वामे जमदग्निकश्यपौ, वाग­त्रि­रि­त्यर्थः । अत्र ऋषीणां ध्येय­त्वा­न्ना­धि­कारः ॥ ३१ ॥

किञ्च विग्र­हा­भा­वा­द्दे­वा­दीनां न क्वाप्यधिकार इत्याह
ज्योतिषि भावाच्चेति ।
आदित्यः सूर्यश्चन्द्रः शुक्रोऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेषु प्रयोगस्य भावा­त्स­त्त्वान्न विग्रहवान्देवः कश्चि­द­स्ती­त्यर्थः ।

'आदित्यः पुरस्तादुदेता पश्चा­द­स्त­मेता' इति मधु­वि­द्या­वा­क्य­शेषे ज्योति­ष्ये­वा­दि­त्य­शब्दः प्रसिद्धः । तर्हि ज्योतिः­पि­ण्डा­ना­मे­वा­धि­का­रोऽस्तु, तत्राह
न चेति ।

अग्न्या­दी­ना­म­धि­का­र­मा­श­ङ्क्याह
एतेनेति ।
अग्नि­र्वा­यु­र्भू­मि­रि­त्या­दि­श­ब्दा­ना­म­चे­त­न­वा­चि­त्वे­ने­त्यर्थः ।

सिद्धान्ती शङ्कते
स्यादे­त­दि­त्या­दिना ।
'वज्रहस्तः पुरन्दरः' इत्यादयो मन्त्राः । 'सोऽरो­दीत्' इत्या­द­योऽ­र्थ­वादाः । 'इष्टा­न्भो­गान्हि वो देवा दास्यन्ते यज्ञ­भा­विताः' । 'ते तृप्ता­स्त­र्प­य­न्त्येनं सर्वकामफलैः शुभैः' । इत्या­दी­ति­हा­स­पु­रा­णानि । लोकेऽपि यमं दण्डहस्तं लिखन्ति, इन्द्रं वज्रहस्तमिति विग्र­हा­दि­प­ञ्च­क­स­द्भा­वा­द­न­धि­का­र­दोषो नास्तीत्यर्थः । 'विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता । फल­प्र­दा­न­मि­त्ये­त­त्प­ञ्चकं विग्रहादिकम् ' ॥

माना­भा­वा­दे­त­न्ना­स्तीति दूषयति
नेत्यादिना ।

न चात्रेति ।
विग्र­हा­दा­वि­त्यर्थः ।

आर्थवादा मन्त्रा वा मूल­मि­त्या­श­ङ्क्याह
अर्थवादा इत्यादिना ।
व्रीह्या­दि­व­द्प्र­यो­ग­वि­धि­गृ­हीता मन्त्राः प्रयो­ग­स­म्ब­न्द्धा­भि­धा­नार्था नाज्ञा­त­वि­ग्र­हा­दि­परा इति मीमांसका आचक्षत इत्यर्थः । तस्मात् विग्र­हा­भा­वा­दि­त्यर्थः ॥ ३२ ॥

सूत्राभ्यां प्राप्तं पूर्वपक्षं निरस्यति
तुशब्द इत्यादिना ।

ब्रह्मविद्या देवा­दी­न्ना­धि­क­रोति, विद्यात्वात् , मध्वा­दि­वि­द्या­व­दिति उक्त­हे­तु­र­प्र­यो­जक इत्याह
यद्यपीति ।

दर्शादिकम् , न ब्राह्म­ण­म­धि­क­रोति, कर्मत्वात् , राजसूयादिवदिति आभाससाम्यं विद्या­त्व­हे­तो­राह
नचेति ।
यत्र यस्याधिकारः सम्भवति स तत्राधिकारीति न्यायस्तुल्य इत्यर्थः । यतः सर्वेषां सर्वत्राधिकारो न सम्भवति ततो न चापो­द्ये­ते­त्य­न्वयः । तद्ब्रह्म यो यो देवादीनां मध्ये प्रत्य­क्त्वे­ना­बु­ध्यत स तद्ब्र­ह्मा­भ­व­दि­त्यर्थः । ते ह देवा ऊचुरन्योन्यम् , तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापतिं ब्रह्म­वि­द्या­प्रदं जग्मतुरिति च लिङ्ग­म­स्ती­त्यर्थः ।

किमत्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवा­दी­ना­म­धि­का­र­लि­ङ्ग­मि­त्याह
स्मार्तमिति ।

यथा बालानां गोलकेषु चक्षु­रा­दि­प­द­प्र­यो­गेऽपि शास्त्र­ज्ञै­र्गो­ल­का­ति­रि­क्ते­न्द्रि­याणि स्वीक्रियन्ते, यथा ज्योतिरादौ सूर्या­दि­श­ब्द­प्र­यो­गेऽपि विग्रहवद्देवता स्वीकार्या इत्याह
ज्योतिरादीति ।
तथा चेतनत्वेन व्यव­हा­रा­दि­त्यर्थः ।

एकस्य जड­चे­त­नो­भ­य­रू­पत्वं कथम् , तत्राह
अस्तिहीति ।

तथाहि विग्रहवत्तया देव­व्य­व­हा­रः­श्रू­यते । सुब्रह्मण्य उद्गातृगणस्थ ऋत्वि­क्त­त्स­म्बन्धी योऽर्थवादः इन्द्र, अगच्छऽइत्यादिः । तत्र मेधातिथेर्मेष, इती­न्द्र­स­म्बो­धनं श्रुतम् , तद्व्याचष्टे
मेधेति ।
मुनिं मेषो भूत्वा जहारेति ज्ञापनार्थं मेष, इती­न्द्र­स­म्बो­ध­न­मि­त्यर्थः ।

यदु­क्त­मा­दि­त्या­दयो मृदादिवदचेतना एवेति, तन्न, सर्वत्र जड­ज­डां­श­द्व­य­स­त्त्वा­दि­त्याह
मृदिति ।

आदित्यादौ को जडभागः कश्चेतनांश इति, तत्राह
ज्योति­रा­दे­स्त्विति ।

मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ स्वार्थे न प्रमाणम् , अन्यपरत्वात् , विषं भुङ्क्ष्वेति वाक्यवदित्याह
यदपीति ।

अन्यपरादपि वाक्या­द्बा­धा­भावे स्वार्थो ग्राह्य इत्याह
अत्र ब्रूम इति ।

तात्प­र्य­शू­न्येऽ­प्यर्थे प्रत्य­य­मा­त्रे­णा­स्ति­त्व­मु­दा­ह­रति
तथाहीति ।

तृणादौ प्रत्ययोऽस्ति विग्रहादौ स नास्तीति वैषम्यं शङ्कते
अत्राहेति ।
विध्युद्देशो विधिवाक्यम् , तदेकवाक्यतया प्रशस्तो विधि­रि­त्ये­वा­र्थ­वा­देषु प्रत्ययः । वृत्तान्तो भूतार्थः । विग्रहादिः तद्विषयः प्रत्ययो नास्तीत्यर्थः ।

नन्व­वा­न्त­र­वा­क्येन विग्र­हा­दि­प्र­त्य­योऽ­स्त्वि­त्यत आह
नहीति ।
सुरा­पा­न­प्र­त्य­योऽपि स्यादिति भावः ।

पदै­क­वा­क्य­त्व­वा­क्यै­क­वा­क्य­त्व­वै­ष­म्या­न्मै­व­मि­त्याह
अत्रोच्यत इति ।
नञ्पदमेकं यदा सुरां पिबेदिति पदाभ्यामन्वेति तदा पदै­क­वा­क्य­मे­क­मे­वा­र्था­नु­भवं करोति नतु पदद्वयं पृथक्सुरापानं बोधयति, तस्य विधौ निषे­धा­नु­प­प­त्ते­र्वा­क्या­र्था­नु­भवं प्रत्य­द्वा­र­त्वात् । अर्थवादस्तु भूतार्थसंसर्गं स्तुतिद्वारं बोधयन्विधिना वाक्यैकवाक्यतां भजत इत्यस्ति विग्रहाद्यनुभव इत्यर्थः ।

नन्व­र्थ­वा­द­स्थ­प­दा­ना­म­वा­न्त­र­सं­स­र्ग­बो­ध­कत्वं विना साक्षादेव विध्यन्वयोऽस्तु तत्राह
यथा हीति ।

साक्षा­द­न्व­या­योगं दर्शयति
न हीति ।

अर्थ­वा­दा­त्स­र्वत्र स्वार्थ­ग्र­ह­ण­मा­श­ङ्क्या­र्थ­वा­दा­न्वि­भ­जते
तद्यत्रेति ।
तत्त­त्रा­र्थ­वा­देषु यत्र 'अग्नि­र्हि­मस्य भेषजम्' इत्या­दा­वि­त्यर्थः । 'आदित्यो यूपः' इत्यभेदो बाधित इति तेज­स्वि­त्वा­दि­गु­ण­वादः । यत्र 'वज्रहस्तः पुरन्दरः' इत्यादौ माना­न्त­र­सं­वा­द­वि­सं­वादौ न स्तस्तत्र भूतार्थवाद इत्यर्थः । इति विमृ­श्ये­त्य­ध्या­हारः ।

विग्रहार्थवादः स्वार्थेऽपि तात्पर्यवान्, अन्यपरत्वे सत्य­ज्ञा­ता­बा­धि­ता­र्थ­क­श­ब्द­त्वात् , प्रया­जा­दि­वा­क्य­व­दिति न्यायं मन्त्रे­ष्व­ति­दि­शति
एतेनेति ।
वेदा­न्ता­नु­वा­द­गु­ण­वा­दानां निरासाय हेतौ पदानि । न चोभयपरत्वे वाक्यभेदः, अवान्तरार्थस्य महा­वा­क्या­र्थ­त्वा­दिति भावः ।

विध्य­नु­प­प­त्त्यापि स्वर्ग­व­द्दे­व­ता­वि­ग्र­होऽ­ङ्गी­कार्य इत्याह
अपिचेति ।

ननु क्लेशात्मके कर्मणि विधिः फलं विनानुपपन्न इति भवतु 'यन्न दुःखेन सम्भि­न्नम्' इत्य­र्थ­वा­द­सिद्धः स्वर्गो विधिप्रमाणकः । विग्रहं विना विधेः कानुपपत्तिः, तामाह
न हीति ।

उद्दिश्य त्यागा­नु­प­पत्त्या चेत­स्या­रो­होऽ­ङ्गी­कार्य इत्यत्र श्रुतिमप्याह
यस्या इति ।
अत­श्चे­त­स्या­रो­हार्थं विग्रह एष्टव्यः । किञ्च कर्म­प्र­क­र­ण­पा­ठा­द्वि­ग्र­ह­प्र­मितिः प्रया­ज­व­त्क­र्मा­ङ्ग­त्वे­ना­ङ्गी­कार्या, तां विना कर्मा­पू­र्वा­सिद्धेः ।

किञ्च सुप्र­स­न्न­वि­ग्र­ह­व­द्दे­वतां त्यक्त्वा शब्दमात्रं देवतेति भक्ति­र­यु­क्ते­त्याह
नच शब्देति ।

न चाकृतिमात्रं शब्दशक्यमस्तु किं विग्रहेणेति वाच्यम् , निर्व्य­क्त्या­कृ­त्य­यो­गात् । अतः शब्द­स्या­र्था­का­ङ्क्षायां मन्त्रा­दि­प्र­मि­त­वि­ग्र­होऽ­ङ्गी­कार्य इत्याह
तत्रेति ।

एवं मन्त्रा­र्थ­वा­द­मू­ल­क­मि­ति­हा­सा­दि­क­मपि विग्रहे मानमित्याह
इतिहासेति ।
प्रमाणत्वेन सम्भवदित्यर्थः ।

व्यासादीनां योगिनां देव­ता­दि­प्र­त्य­क्ष­म­पी­ति­हा­सा­दे­र्मू­ल­मि­त्याह
प्रत्यक्षेति ।

व्यासादयो देवा­दि­प्र­त्य­क्ष­शून्याः, प्राणित्वात् , अस्म­द्व­दि­त्य­नु­मा­न­म­ति­प्र­स­ङ्गेन दूषयति
यस्त्वित्यादिना ।
सर्वं घटाभिन्नम् , वस्तुत्वात् , घटवदिति जगद्वैचित्र्यं नास्तीत्यपि स ब्रूयात् । तथा क्षत्रियाभावं वर्णाश्रमाभावं वर्णा­श्र­मा­द्य­व्य­वस्थां च ब्रूयात् , निर­ङ्कु­श­बु­द्धि­त्वात् । तथाच राज­सू­या­दि­शा­स्त्रस्य कृता­दि­यु­ग­ध­र्म­व्य­व­स्था­शा­स्त्रस्य बाध इत्यर्थः ।

योग­सू­त्रा­र्था­दपि देवा­दि­प्र­त्य­क्ष­सि­द्धि­रि­त्याह
अपिचेति ।
मन्त्र­ज­पा­द्दे­व­ता­सां­निध्यं तत्सम्भाषणं चेति सूत्रार्थः ।

योगमाहात्म्यस्य श्रुति­स्मृ­ति­सि­द्ध­त्वा­द्यो­गि­ना­मस्ति देवा­दि­प्र­त्य­क्ष­मि­त्याह
योग इति ।
पाद­त­ला­दा­जा­नो­र्जा­नो­रा­ना­भे­र्ना­भे­रा­ग्रीवं ग्रीवा­या­श्चा­के­श­प्र­रोहं तत­श्च­ब्र­ह्म­रन्ध्रं पृथि­व्या­दि­प­ञ्चके समुत्थिते धारणया जिते योगगुणे चाणिमादिके प्रवृत्ते योगाभिव्यक्तं तेजोमयं शरीरं प्राप्तस्य योगिनो न रोगादिस्पर्श इत्यर्थः ।

चित्र­का­रा­दि­प्र­सि­द्धि­रपि विग्रहे मानमित्याह
लोकेति ।

अधि­क­र­णा­र्थ­मु­प­सं­ह­रति
तस्मादिति ।

चिन्तायाः फलमाह
क्रमेति ।
एवमेव देवादीनां ब्रह्म­वि­द्या­धि­कारे सत्येव देव­त्व­प्रा­प्ति­द्वारा क्रम­मु­क्ति­फ­ला­न्यु­पा­स­नानि युज्यन्ते । देवानामनधिकारे ज्ञाना­भा­वा­त्क्र­म­मु­क्त्य­र्थि­ना­मु­पा­स­नेषु प्रवृत्तिर्न स्यात् , अतोऽ­धि­का­र­नि­र्ण­या­त्प्र­वृ­त्ति­सि­द्धि­रिति भावः ॥ ३३ ॥

शुगस्यसूच्यते हि । पूर्वेणास्य दृष्टा­न्त­स­ङ्ग­ति­माह
यथेति ।
पूर्वत्र देवा­दी­ना­म­धि­का­र­सि­ध्यर्यं मन्त्रादीनां भूतार्थे विग्रहादौ समन्वयोक्त्या वेदान्तानामपि भूतार्थे ब्रह्मणि समन्वयो दृढीकृतः । अत्रापि शूद्रशब्दस्य श्रौतस्य क्षत्रिये समन्वयोक्त्या स दृढीक्रियत इत्य­धि­क­र­ण­द्व­यस्य प्रास­ङ्गि­क­स्या­स्मि­न्स­म­न्व­या­ध्या­येऽ­न्त­र्भाव इति मन्तव्यम् । पूर्वपक्षे शूद्रस्यापि द्विज­व­द्वे­दा­न्त­श्र­वणे प्रवृत्तिः, सिद्धान्ते तदभाव इति फलम् ।

अत्र वेदान्तविचारो विषयः, स किं शूद्रमधिकरोति न वेति सम्भ­वा­स­म्भ­वाभ्यां सन्देहे पूर्वपक्षमाह
तत्र शूद्र­स्या­पी­त्या­दिना ।
तस्मा­द­न­ग्नि­त्वा­द­न­व­ल्कृ­प्तोऽ­स­मर्थः ।

विद्यार्थिनि शूद्र­श­ब्द­प्र­यो­गा­ल्लि­ङ्गा­दपि शूद्रस्याधिकार इत्याह
भवतिचेति ।
जानश्रुतिः किल षट्शतानि गवां रथं च रैक्वाय गुरवे निवेद्य मां शिक्षयेत्युवाच । ततो रैक्वो विधुरः कन्यार्थी सन्निदमुवाच । अहेति निपातः खेदार्थः । हारेण निष्केण युक्त इत्वा गन्ता रथो हारेत्वा स च गोभिः सह हे शूद्र, तवैवास्तु किमल्पेनानेन मम गार्ह­स्थ्या­नु­प­यो­गि­नेति भावः ।

अर्थि­त्वा­दि­स­म्भवे श्रेयःसाधने प्रवृत्तिरुचिता स्वाभा­वि­क­त्वा­दिति न्यायो­पे­ता­ल्लि­ङ्गा­दि­त्याह
तस्मादिति ।

सूत्राद्बहिरेव सिद्धान्तयति
न शूद्रस्याधिकार इत्यादिना ।
आपाततो विदितो वेदार्थो येन तस्येत्यर्थः । अध्ययनविधिना संस्कृतो वेद­स्त­दु­त्थ­मा­पा­त­ज्ञानं च वेदार्थविचारेषु शास्त्रीयं सामर्थ्यम् , तद­भा­वा­च्छू­द्र­स्या­र्थि­त्वा­दि­स­म्भ­व­न्या­या­सि­द्धे­र्नास्ति वेदा­न्त­वि­चा­रा­धि­कार इत्यर्थः । यद्वा­ध्य­य­न­सं­स्कृ­तेन वेदेन विदितो निश्चितो वेदार्थो येन तस्य वेदार्थेषु विधिष्वधिकारो नान्यस्य, अनधीतवेदस्यापि वेदा­र्था­नु­ष्ठा­ना­धि­का­रेऽ­ध्य­य­न­वि­धि­वै­य­र्थ्या­पा­तात् । अतः फल­प­र्य­न्त­ब्र­ह्म­वि­द्या­सा­ध­नेषु श्रवणादिविधिषु शूद्रस्यानधिकार इत्यर्थः ।

अधी­त­वे­दा­र्थ­ज्ञा­न­व­त्त्व­रू­प­स्या­ध्य­य­न­वि­धि­ल­भ्यस्य साम­र्थ्य­स्या­भा­वा­दिति न्यायस्य तुल्यत्वात् , यज्ञपदं वेदा­र्थो­प­ल­क्ष­णा­र्थ­मि­त्याह
न्यायस्य साधारणत्वादिति ।
तस्माच्छूद्र इति तच्छ­ब्द­प­रा­मृ­ष्ट­न्या­यस्य यज्ञ­ब्र­ह्म­वि­द्य­यो­स्तु­ल्य­त्वा­दि­त्यर्थः ।

पूर्वोक्तं लिङ्गं दूषयति
यदिति ।
असा­म­र्थ्य­न्या­ये­ना­र्थि­त्वा­दि­स­म्भ­व­न्या­यस्य निर­स्त­त्वा­दि­त्यर्थः ।

ननु 'निषा­द­स्थ­पतिं याजयेत्' इत्य­त्रा­ध्य­य­ना­भा­वोऽपि निषा­द­श­ब्दा­न्नि­षा­द­स्ये­ष्टा­विव शूद्र­श­ब्दा­च्छू­द्रस्य विद्या­या­म­धि­का­रोऽ­स्त्वि­त्या­शङ्क्य संव­र्ग­वि­द्या­या­म­धि­का­र­म­ङ्गी­क­रोति
काममिति ।
तद्वि­ष­य­त्वा­त्तत्र श्रुत­त्वा­दि­त्यर्थः ।

वस्तुतस्तु विधि­वा­क्य­स्थ­त्वा­न्नि­षा­द­श­ब्दोऽ­प्य­धि­का­रि­स­म­र्पकः, शूद्रशब्दस्तु विद्या­वि­धि­प­रा­र्थ­वा­दस्थो नाधिकारिणं बोधयति, असा­म­र्थ्य­न्या­य­वि­रो­धे­ना­न्य­प­र­श­ब्दस्य स्वार्थ­बो­धि­त्वा­स­म्भ­वा­दिति मत्वाङ्गीकारं त्यजति
अर्थवादेति ।

तर्हि शूद्र­श­ब्द­स्यात्र श्रुतस्य कोऽर्थ इत्याशङ्क्य सूत्रेणार्थमाह
शक्यते चेत्यादिना ।
जानश्रुतिर्नाम राजा निदाघसमये रात्रौ प्रासादतले सुष्वाप, तदा तदी­या­न्न­दा­ना­दि­गु­ण­ग­ण­तो­षिता ऋषयोऽस्य हितार्थं हंसा भूत्वा मालारूपेण तस्यो­प­र्या­जग्मुः, तेषु पाश्चात्यो हंसोऽग्रेसरं हंसमुवाच, भो भो भद्राक्ष, किं न पश्यसि जानश्रुतेरस्य तेजः स्वर्गं व्याप्य स्थितम् , तत्त्वां धक्ष्यति न गच्छेति । तमग्रेसर उवाच, कमप्येनं वराकं विद्याहीनं सन्तम् , अरे, सयुग्वानं युग्वा गन्त्री शकटी तया सह स्थितं रैक्व­मि­वै­त­द्व­च­न­मात्थ । रैक्वस्य हि ब्रह्मिष्ठस्य तेजो दुरतिक्रमं नास्या­ना­त्म­ज्ञ­स्ये­त्यर्थः । अस्मद्वचनखिन्नो राजा शकटलिङ्गेन रैक्वं ज्ञात्वा विद्या­वा­न्भ­वि­ष्य­तीति हंसानामभिप्रायः । कमु अरे इति पदच्छेदः । उशब्दोऽप्यर्थः । तेषां हंसा­ना­म­ना­द­र­वा­क्य­श्र­व­णा­दस्य राज्ञः शुगुत्पन्ना, सा शूद्रशब्देन रैक्वेण सूच्यते हीति सूत्रान्वयः । श्रुत­यौ­गि­का­र्थ­लाभे सति अन­न्वि­त­रू­ढ्य­र्थ­स्त्याज्य इति न्याय­द्यो­त­नार्थो हिशब्दः । तदाद्रवणात्तया शुचा आद्रवणात् । शूद्रः शोकं प्राप्तवान् । शुचा वा कर्त्र्या राजाभिदुद्रुवे प्राप्तः । शुचा वा करणेन रैक्वं गतवानित्यर्थः ॥ ३४ ॥

शूद्रशब्दस्य यौगिकत्वे लिङ्गमाह
क्षत्रियत्वेति ।
संव­र्ग­वि­द्या­वि­ध्य­न­न्त­र­म­र्थ­वाद आरभ्यते । शुनकस्यापत्यं कपिगोत्रं पुरो­हि­त­म­भि­प्र­ता­रि­ना­मकं राजानं च कक्ष­से­न­स्या­पत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटु­र्भि­क्षि­त­वा­नि­त्यर्थः ।

नन्वस्य चैत्ररथित्वं न श्रुतमित्यत आह
चैत्ररथित्वं चेति ।
एतेन द्विरात्रेणेति छान्दो­ग्य­श्रु­त्यैव पूर्वं चित्ररथस्य कापेययोग उक्तः । अभिप्रतारिणोऽपि तद्यो­गा­च्चि­त्र­र­थ­वं­श्यत्वं निश्चीयते । राजवंश्यानां हि प्रायेण पुरोहितवंश्या याजका भवन्तीत्यर्थः ।

नन्व­स्त्व­भि­प्र­ता­रि­ण­श्चै­त्र­र­थि­त्वम् , तावता कथं क्षत्रियत्वम् , तत्राह
तस्मादिति ।
चित्र­र­था­दि­त्यर्थः । क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेष­ण­म­न्न­गो­दा­ना­दिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गम् ॥ ३५ ॥

अत्र शूद्रशब्दो यौगिक एवेति न शूद्रस्याधिकार इति स्थितम् । तत्र लिङ्गान्तरमाह
संस्कारेति ।
उपनयनं वेदग्रहणाङ्गं शूद्रस्य नास्तीति पूर्वमुक्तम् । इह विद्या­ग्र­ह­णा­ङ्ग­स्यो­प­न­य­न­सं­स्का­रस्य सर्वत्र परा­म­र्शा­च्छू­द्रस्य तदभावान्न विद्याधिकारः इत्युच्यते । भाष्ये आदि­प­दे­ना­ध्य­य­न­गु­रु­शु­श्रू­षा­दयो गृह्यन्ते । तं शिष्यमाचार्य उप­नी­त­वा­नि­त्यर्थः ।

नारदोऽपि विद्यार्थी मन्त्र­मु­च्चा­र­य­न्स­न­त्कु­मा­र­मु­प­गत इत्याह
अधीति ।
उपदिशेति यावत् । ब्रह्मपरा वेदपारगाः सगु­ण­ब्र­ह्म­निष्ठाः परं निर्गुणं ब्रह्मा­न्वे­ष­माणा एष पिप्प­ला­द­स्त­ज्जि­ज्ञा­सितं सर्वं वक्ष्यतीति निश्चित्य ते भरद्वाजादयः षडृषयस्तमुपगता इत्यर्थः ।

ननु वैश्वा­न­र­वि­द्या­या­मृ­षीन् राजाऽनुपनीयैव विद्यामुवाचेति श्रुते­र­नु­प­नी­त­स्या­प्यस्ति विद्याधिकार इत्यत आह
तान्हेति ।
ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिर इति पूर्ववाक्ये ब्राह्मणा उपनयनार्थमागता इति उपनयनप्राप्तिं दर्शयित्वा निषिध्यते । हीन­व­र्णे­नो­त्त­म­व­र्णाऽ­नु­प­नी­यै­वो­प­दे­ष्टव्या इत्या­चा­र­ज्ञा­प­ना­र्थ­मि­त्यर्थः । एकजातिरनुपनीतः । पात­क­म­भ­क्ष्य­भ­क्ष­ण­कृ­तम् ॥ ३६ ॥

सत्यकामः किलमृतपितृको जबालां मातरमपृच्छत् , किङ्गो­त्रोऽ­ह­मिति । तं मातोवाच भर्तृ­से­वा­व्य­ग्र­त­या­ह­मपि तव पितुर्गोत्रं न जानामि, जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति एतावज्जानामीति । ततः स जाबालो गौतममागत्य तेन किङ्गोत्रोऽसीति पृष्ट उवाच, नाहं गोत्रं वेद्मि न माता वेत्ति परन्तु मे मात्रा कथितम् , उप­न­य­ना­र्थ­मा­चार्यं गत्वा सत्यकामो जाबालोऽस्मीति ब्रूहीति । अनेन सत्यवचनेन तस्य शूद्रत्वाभावो निर्धारितः । अब्राह्मण एतत्सत्यं विविच्य वक्तुम् , नार्हतीति निर्धार्य, हे सोम्य, सत्यात्त्वं नागाः सत्यं न त्यक्तवानसि, अत­स्त्वा­मु­प­नेष्ये, तदर्थं समिधमाहरेति गौतमस्य प्रवृत्तेश्च लिङ्गान्न शूद्रस्याधिकार इत्याह
तदभावेति ॥ ३७ ॥

स्मृत्या श्रव­णा­दि­नि­षे­धाच्च नाधिकार इत्याह
श्रवणेति ।
अस्य शूद्रस्य द्विजैः पठ्यमानं वेदं प्रमा­दा­च्छृ­ण्वतः सीसलाक्षाभ्यां तप्ताभ्यां श्रोत्र­द्व­य­पू­रणं प्रायश्चित्तं कार्यमित्यर्थः । पद्यु पादयुक्तं सञ्च­रि­ष्णु­रू­प­मिति यावत् । भवति च । स्मृतिरिति शेषः । मति­र्वे­दा­र्थ­ज्ञा­नम् । दानं नित्यं निषिध्यते शूद्रस्य । नैमित्तिकं तु दानमस्त्येव ।

यदुक्तं विदुरादीनां ज्ञानित्वं दृष्टमिति, तत्राह
येषामिति ।

सिद्धानां सिद्धे­र्दु­र­प­ह्न­व­त्वेऽपि साधकैः शूद्रैः कथं ज्ञानं लब्धव्यमित्यत आह
श्रावयेदिति ॥ ३८ ॥

कम्पनात् । अस्यापि प्रास­ङ्गि­क­त्व­मा­श­ङ्क्याह
अवसित इति ।
समाप्त इत्यर्थः ।

काठकं पठति
यदिदमिति ।

सर्वं जग­त्प्रा­णा­न्निः­सृ­त­मु­त्पन्नं प्राणे चिदात्मनि प्रेरके सति एजति चेष्टते, तच्च प्राणाख्यं कारणं महद्ब्रह्म बिभेत्यस्मादिति भयम् । तस्मिन् भयहेतुत्वे दृष्टान्तमाह
वज्रमिति ।
यथोद्यतं वज्रं भयं तथेत्यर्थः ।

य एतत्प्राणाख्यं ब्रह्म निर्विशेषं विदुस्ते मुक्ता भवन्तीत्याह
य इति ।

नन्व­स्मि­न्सूत्रे कथमिदं वाक्य­मु­दा­हृ­त­मि­त्यत आह
एतदिति ।
एजत्यर्थस्य कम्पनस्य सूत्रि­त­त्वा­दे­ज­ति­प­द­युक्तं वाक्य­मु­दा­हृ­त­मि­त्यर्थः ।

प्रास­ङ्गि­का­धि­का­र­चि­न्त­यास्य सङ्ग­ति­र्ना­पे­क्षि­तेति 'शब्दादेव प्रमितः' इत्यनेनोच्यते । तत्रा­ङ्गु­ष्ठ­वाक्ये जीवानुवादो ब्रह्मै­क्य­ज्ञा­नार्थ इत्युक्तम् , न तथेह प्राणानुवाद ऐक्यज्ञानार्थः सम्भवति, प्राणस्य स्वरूपेण कल्पि­त­स्यै­क्या­यो­गात् । अतः प्राणोपास्तिपरं वाक्यमिति प्रत्युदाहरणेन पूर्वपक्षयति
प्रसिद्धेः पञ्चवृत्तिरिति ।

ननु 'अत एव प्राणः' इत्यादौ ब्रह्मणि लिङ्गा­त्प्रा­ण­श्रु­ति­र्नीता, अत्रापि सर्व­चे­ष्टा­भ­य­हे­तुत्वं ब्रह्म­लि­ङ्ग­म­स्तीति नास्ति पूर्वपक्षावसरो गतार्थत्वादिति, अत आह
वायोश्चेति ।
प्रतिष्ठाय स्थितिं लब्ध्वा प्राणे वायौ निमित्ते जगच्चलतीति प्रसिद्धम् । अतः स्पष्टं ब्रह्मलिङ्गं नास्तीति भावः ।

वज्रलिङ्गाच्च वायुरित्याह
वाय्विति ।
व्यष्टिर्विशेषः । समष्टिः सामान्यम् ।

सूत्राद्वहिरेव सिद्धान्तं प्रतिजानीते
ब्रह्मैवेति ।

पूर्वो­त्त­र­वा­क्यै­क­वा­क्य­ता­नु­गृ­हीतं सर्वाश्रयत्वं लिङ्गं वाक्य­भे­द­क­प्रा­ण­श्रु­ते­र्बा­ध­क­मि­त्याह
पूर्व­त्रे­त्या­दिना ।
शुक्रं स्वप्रकाशम् । तदु नात्येति ब्रह्मानाश्रितः कोऽपि लोको नास्त्ये­वे­त्यु­का­रार्थः ।

सौत्रं लिङ्गं व्याचष्टे
एजयितृत्वमिति ।
सवायुकस्य सर्वस्य कम्पनश्रवणादपि प्राणः पर­मा­त्मै­वे­त्यर्थः ।

ब्रह्मणि वज्रशब्दः कथमित्याशङ्क्य गौण इत्याह
वज्रशब्द इति ।

बृहदारण्यके 'वायुरेव व्यष्टिः' इत्यत्र 'अप­पु­न­र्मृ­त्युम्' इत्य­प­मृ­त्यु­ज­य­रू­प­मा­पे­क्षि­क­म­मृ­त­त्व­मु­च्यते न मुख्यामृतत्वम् , तत्रैव वायू­पा­स्ति­प्र­क­रणं समाप्य 'अथ हैनमुषस्तः पप्रच्छ' इति ज्ञेया­त्मा­न­मुक्त्वा वाय्वा­दे­र्ना­शि­त्वो­क्ते­रि­त्याह
यत्तु वाय्वित्यादिना ।
तस्मा­त्का­ठ­क­वाक्यं ज्ञेये समन्वितविति सिद्धम् ॥ ३९ ॥

ज्योति­र्द­र्श­नात् । छान्दोग्ये प्रजा­प­ति­वि­द्या­वा­क्य­माह
एष इति ।

परञ्ज्योतिः श्रुतिभ्यां संशयमाह
तत्रेति ।
घटा­दि­वि­ष­या­व­र­क­त­मो­ना­शकं सौरमित्यर्थः ।

पूर्वत्र ब्रह्म­प्र­क­र­ण­स्या­नु­ग्रा­हकः सर्व­श­ब्द­स­ङ्को­चा­द्य­यो­गोऽ­स्तीति प्राण­श्रु­ति­र्ब्र­ह्मणि नीता । न तथात्र 'य आत्मा­प­ह­त­पाप्मा' इति प्रक­र­ण­स्या­नु­ग्रा­हकं पश्याम इति प्रत्युदाहरणेन पूर्वपक्षमाह
प्रसि­द्ध­मे­वे­त्या­दिना ।
पूर्वपक्षे सूर्योपास्तिः, सिद्धान्ते ब्रह्म­ज्ञा­ना­न्मु­क्ति­रिति फलम् ।

ननु ज्योतिरधिकरणे ज्योतिःशब्दस्य ब्रह्मणि वृत्ते­रु­क्त­त्वा­त्कथं पूर्वपक्ष इत्यत आह
ज्योतिरिति ।
तत्र गायत्रीवाक्ये प्रकृ­त­ब्र­ह्म­प­रा­म­र्श­क­य­च्छ­ब्द­सा­मा­ना­धि­क­र­ण्या­ज्ज्यो­तिः­श­ब्दस्य स्वार्थत्यागः कृतः, तथात्र स्वार्थत्यागे हेत्व­द­र्श­ना­त्पू­र्व­पक्ष इत्यर्थः ।

ज्योतिः­श्रु­ते­र­नु­ग्रा­ह­क­त्वे­ना­र्चि­रा­दि­मा­र्ग­स्थत्वं लिङ्गमाह
तथाचेति ।
'ता वा एता हृदयस्य नाड्यः' इति कण्डिकया नाडीनां रश्मीनां च मिथः संश्लेषमुक्त्वा अथ संज्ञा­लो­पा­न­न्तरं यत्र काले एतन्मरणं यथा स्यात्त­थो­त्क्रा­मति अथ तदा एतै­र्ना­डी­सं­श्लि­ष्ट­र­श्मि­भि­रूर्ध्वः सन्नुपरि गच्छति, गत्वादित्यं ब्रह्म­लो­क­द्वा­र­भूतं गच्छ­ती­त्य­भि­हि­तम् , तथैवात्रापि शरीरात्समुत्थाय मृत्वा परं ज्योति­रा­दि­त्या­ख्य­मु­प­स­म्पद्य तद्द्वारा ब्रह्मलोकं गत्वा स्वस्व­रू­पे­णा­भि­नि­ष्प­द्यत इति वक्तव्यम् । समु­त्था­यो­प­स­म्प­द्येति क्त्वाश्रु­तिभ्यां ज्योति­षोऽ­र्चि­रा­दि­मा­र्ग­स्थ­त्व­भा­ना­दि­त्यर्थः ।

अतो मार्ग­स्थ­सू­र्यो­पास्त्या क्रममुक्तिपरं वाक्यमिति प्राप्ते सिद्धान्तयति
एवमिति ।
व्याख्ये­य­त्वे­नो­प­क्रान्त आत्मैवात्र ज्योतिःशब्देन व्याख्येय इति ज्योति­र्वा­क्ये­नै­क­वा­क्य­ता­प्र­यो­ज­क­प्र­क­र­णा­नु­गृ­ही­तो­त्त­म­पु­रु­ष­श्रुत्या वाक्य­भे­द­क­ज्यो­तिः­श्रु­ति­र्बा­ध्येति भावः ।

अश­री­र­त्व­फ­ल­लि­ङ्गाच्च ब्रह्मैव ज्योतिर्न सूर्य इत्याह
अशरीरमिति ।

नच सूर्यप्राप्त्या क्रमेणाशरीरत्वं स्यादिति वाच्यम् , परत्वेन विशेषितस्य ज्योतिष एव स उत्तम इति परा­म­र्शे­ना­श­री­र­त्व­नि­श्च­या­दि­त्याह
परमिति ।

पूर्वोक्तलिङ्गं दूषयति
यत्त्विति ।
नाडीखण्डे दहरोपासकस्य या सूर्य­प्रा­प्ति­रुक्ता स न मोक्ष इति युक्ता सूर्योक्तिः, अत्र तु प्रजापतिवाक्ये निर्गु­ण­वि­द्या­या­म­र्चि­रा­दि­ग­ति­स्थ­सू­र्य­स्या­न­न्व­या­द­न­र्थ­क­त्वा­त्श्रु­ति­व्य­त्या­सेन स्वरूपं साक्षात्कृत्य परं ज्योति­स्त­दे­वो­प­स­म्प­द्यत इति व्याख्येयमिति भावः ॥ ४० ॥

आकाशो व्यपदेशात् । छान्दो­ग्य­मु­दा­ह­रति
आकाश इति ।

यथो­प­क्र­म­ब­ला­ज्ज्यो­तिः­श्रु­ति­बा­ध­स्त­था­का­शो­प­क्र­मा­द्ब्र­ह्मा­दि­श­ब्द­बाध इति दृष्टान्तेन पूर्वपक्षयति
भूतेति ।
श्रुतै­र्गु­णै­रा­का­शो­पा­स्ति­र्नि­र्गु­ण­ब्र­ह्म­ज्ञानं चेत्युभयत्र फलम् ।

'आका­श­स्त­ल्लि­ङ्गात्’ इत्यनेन पौन­रु­क्त्य­मा­शङ्क्य तद्वदत्र स्पष्ट­लि­ङ्गा­श्र­व­णा­दिति परिहरति
स्रष्टृ­त्वा­दे­श्चेति ।
वै नामेति प्रसि­द्धि­लि­ङ्ग­स्या­का­श­श्रु­तेश्च वाक्य­शे­ष­ग­ताभ्यां ब्रह्मा­त्म­श्रु­ति­भ्या­म­ने­क­लि­ङ्गो­पे­ताभ्यां बाधो युक्तः ।

यत्र बहु­प्र­मा­ण­सं­वा­द­स्तत्र वाक्यस्य तात्पर्यमिति निर्णयादिति सिद्धान्तयति
परमेवेत्यादिना ।
नामरूपे शब्दर्थौ तद­न्तः­पा­ति­न­स्त­द्भि­न्नत्वे तत्कर्तृत्वं चायु­क्त­मि­त्यर्थः ।

नामादिकर्तृत्वं न ब्रह्मलिङ्गम् , जीवस्थत्वादिति शङ्कते
नन्विति ।

'अनेन जीवेन’ इत्यत्र जीवस्य ब्रम्हाभेदेन तत्क­र्तृ­त्व­मु­च्यते साक्षादयोगादिति परिहरति
बाढमिति ।

यच्चोक्तं स्पष्टं लिङ्गं नास्तीति, तत्राह
नामेति ।

तर्हि पुनरुक्तिः, तत्राह
आकाशेति ।
तस्यैव साधकोऽयं विचारः । अत्राकाशशब्दस्य ब्रह्मणि वृत्तिं सिद्धवत्कृत्य तत्र संश­या­दि­प्र­वृ­त्ते­रु­क्त­त्वा­दिति न पौनरुक्त्यमिति भावः ॥ ४१ ॥

सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन । अहन्धीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह
योऽयमिति ।
विज्ञानं बुद्धि­स्त­न्म­य­स्त­त्प्रायः । सप्तमी व्यतिरेकार्था । प्राण­बु­द्धिभ्यां भिन्न इत्यर्थः ।

वृत्ते­र­ज्ञा­नाच्च भेदमाह
अन्त­र्ज्यो­ति­रिति ।
पुरुषः पूर्ण इत्यर्थः ।

उभयलिङ्गानां दर्शनात्संशयमाह
तत्किमिति ।
पूर्वत्र नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मे­त्यु­क्तम् , तदयुक्तम् , 'प्राज्ञे­ना­त्मना सम्प­रि­ष्वक्तः' इत्यभिन्नेऽपि जीवात्मनि भेदो­क्ति­व­दौ­प­चा­रि­क­भे­दो­क्ति­स­म्भ­वा­दि­त्या­क्षे­प­स­ङ्गतिः । पूर्वपक्षे कर्म­क­र्तृ­जी­व­स्तुतिः, सिद्धान्ते जीवानुवादेन ततः कल्पि­त­भे­द­भि­न्नस्य प्राज्ञस्य परमात्मनः स्वरू­पै­क्य­प्र­मि­ति­रिति फलम् । बुद्धान्तो जाग्रदवस्था ।

आदिमध्यावसानेषु जीवो­क्ते­र्जी­व­स्ता­व­क­मिदं वाक्यमिति प्राप्ते सिद्धान्तयति
पर­मे­श्व­रे­त्या­दिना ।
वाक्यस्य जीवस्तावकत्वे जीवाद्भेदेन प्राज्ञ­स्या­ज्ञा­त­स्यो­त्त­रो­क्ति­र­स­ङ्गता स्यात् , अतो ज्ञाता­ज्ञा­त­सं­नि­पाते ज्ञाता­नु­वा­दे­ना­ज्ञातं प्रतिपादनीयम् , 'अपूर्वे वाक्य­ता­त्प­र्यम्' इति न्यायादिति सिद्धा­न्त­ता­त्प­र्यम् ।

पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्तिं वारयति
तत्र पुरुष इत्यादिना ।
देहस्य वेद­ना­प्र­स­क्ते­र्नि­षे­धा­यो­गा­त्पु­रुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः । अन्वा­रू­ढोऽ­धि­ष्ठितः । उत्सर्जन् घोरा­ञ्श­ब्दा­न्मु­ञ्चन् । बुद्धौ ध्याय­न्त्या­मा­त्मा­ध्या­य­तीव चलन्त्यां चलतीव ।

वस्तुतः सर्व­वि­क्रि­या­शून्य इत्युक्तेर्न संसारिणि तात्पर्यमित्याह
यत इति ।

उप­क्र­म­व­दु­प­सं­हा­र­वा­क्येऽ­प्यैक्यं विवि­क्षि­त­मि­त्याह
तथेति ।

व्याचष्टे
योऽयमिति ।

अवस्थोपन्यासस्य त्वम­र्थ­शु­द्धि­द्वा­रै­क्य­प­र­त्वान्न जीव­लि­ङ्ग­त्व­मि­त्याह
यतो न बुद्धान्तेति ।

प्रश्नो­त्त­रा­भ्या­म­सं­सा­रित्वं गम्यत इत्याह
यदत ऊर्ध्वमिति ।
कामा­दि­वि­वे­का­न­न्त­र­मि­त्यर्थः ।

भवतीति चेति ।
यद्यस्माद्वक्ति तस्मादवगम्यत इति योजना । तेना­व­स्था­ध­र्मे­णा­न­न्वा­ग­तोऽ­स्पृष्टो भवति, असङ्गत्वात् । सुषु­प्ता­व­प्या­त्म­तत्त्वं पुण्य­पा­पा­भ्या­म­स्पृष्टं भवति । हि यस्मादात्मा सुषुप्तौ सर्वशोकातीतः तस्माधृदयस्यैव सर्वे शोका इति श्रुत्यर्थः ॥ ४२ ॥

वाक्यस्य ब्रह्मा­त्मै­क्य­प­रत्वे हेत्वन्तरमाह
पत्यादीति ।

सूत्रं व्याचष्टे
इतश्चेति ।
वशी स्वतन्त्रः । अपराधीन इति यावत् । ईशानो नियमनशक्तिमान् । शक्तेः कार्य­मा­धि­प­त्य­मिति भेदः । तस्मा­च्छो­धि­त­त्व­म­र्थैक्ये षष्ठा­ध्या­य­स­म­न्वय इति सिद्धम् ॥ ४३ ॥
इति श्रीम­च्छा­री­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां प्रथमाध्याये तृतीयः पादः ॥ ३ ॥

प्रथमाध्याये चतुर्थः पादः ।
अव्यक्तेशमजं पञ्चजनाधारं च कारणम् । वेदितन्यं प्रियं वन्दे प्रकृतिं पुरुषं परम् ॥ १ ॥
अस्मि­न्पा­देऽ­धि­क­र­ण­त्र­य­स्ये­क्ष­त्य­धि­क­र­णेन सङ्गतिं वक्तुं वृत्तमनुवदति
ब्रह्मेति ।

तदशब्दत्वेन ।
प्रधानस्य वैदि­क­श­ब्द­शू­न्य­त्वे­ने­त्यर्थः । ईक्षत्यधिकरणे गति­सा­मा­न्य­म­श­ब्दत्वं च प्रतिज्ञातम् , तत्र ब्रह्मणि वेदान्तानां गतिसामान्यं प्रपञ्चितम् , अधुना प्रधा­न­स्या­श­ब्द­त्व­म­सि­द्ध­मि­त्या­शङ्क्य निरूप्यत इत्या­क्षे­प­स­ङ्गतिः । तेना­श­ब्द­त्व­नि­रू­प­णेन ब्रह्मणि वेदान्तानां समन्वयो दृढीकृतो भव­ती­त्य­ध्या­य­स­ङ्ग­ति­र­प्य­धि­क­र­ण­त्र­यस्य ज्ञेया । अत्राव्यक्तपदं विषयः ।

तत्किं प्रधानपरं पूर्वो­क्त­श­री­र­परं वेति स्मृति­प्र­क­र­णाभ्यां संशये पूर्व­म­प्र­सि­द्ध­ब्र­ह्म­प­रत्वं यथा षष्ठाध्यायस्य दर्शितं तद्व­द­व्य­क्त­प­द­म­प्र­सि­द्ध­प्र­धा­न­प­र­मिति पूर्वपक्षयति
आनुमानिकमिति ।
अपि­श­ब्दा­द्ब्र­ह्मा­ङ्गी­का­रे­णा­य­म­श­ब्द­त्वा­क्षेप इति सूचयति । तथा च ब्रह्म­प्र­धा­न­यो­र्वि­क­ल्पेन कारणत्वात् ब्रह्मण्येव वेदान्तानां समन्वय इति नियमासिद्धिः फलम् , सिद्धान्ते नियमसिद्धिरिति विवेकः । पद­वि­चा­र­त्वा­द­धि­क­र­णा­ना­मे­त­त्पा­द­स­ङ्ग­ति­र्बोध्या ।

स्मार्त­क्र­म­रू­ढि­भ्या­म­व्य­क्त­शब्दः प्रधानपरः शब्द­स्प­र्शा­दि­शू­न्य­त्वेन योग­स­म्भ­वा­च्चे­त्याह
शब्दादीति ।

प्रधानस्य वैदि­क­श­ब्द­वा­च्यत्वे का क्षतिरित्यत आह
तदेवेति ।
'अजा­मे­काम्' इत्याद्या श्रुतिः । 'हेतुः प्रकृ­ति­रु­च्यते' इत्याद्या स्मृतिः । 'यदल्पं तज्ज­ड­प्र­कृ­ति­कम्' इति न्यायः । ततो ब्रह्मैव कारणमिति मतक्षतिरिति भावः ।

सूत्रे नञर्थं वद­न्सि­द्धा­न्त­यति
नैतदिति ।

प्रधानं वैदिकं नेत्यत्र तात्पर्याभावं हेतुमाह
नहीति ।

ननु प्रधानस्यात्र प्रत्य­भि­ज्ञा­ना­द्वै­दि­क­त्व­मि­त्यत आह
न ह्यत्रेति ।

ननु शब्द­प्र­त्य­भि­ज्ञा­या­म­र्थोऽपि प्रत्यभिज्ञायत इत्याशङ्क्य यौगि­का­च्छ­ब्दा­द­सति नियामके नार्थ­वि­शे­ष­धी­रि­त्याह
स चेति ।

रूढ्या तद्धी­रि­त्या­शङ्क्य रूढिः किं लौकिकी स्मार्ता वा । नाद्य इत्याह
न चेति ।

द्विती­यं­प्र­त्याह
या त्विति ।
पुरुषसङ्केतो नाना­दि­वे­दा­र्थ­नि­र्ण­य­हेतुः, पुंम­ते­र्वि­चि­त्र­त्वा­दि­त्यर्थः ।

यत्तु स्मार्त­क्र­म­प्र­त्य­भि­ज्ञया क्रमिकार्थः स्मार्त एवेति, तत्राह
नच क्रमेति ।
स्थाना­त्त­द्रू­प­प्र­त्य­भि­ज्ञा­ना­श­ङ्का­या­म­स­ती­त्य­न्व­या­न्नञो व्यत्या­से­ना­त­द्रू­पस्य तद्रू­प­वि­रु­द्धस्य प्रत्यभिज्ञाने सतीत्यर्थः ।

पूर्व­ज्ञा­त­रू­पा­र्थस्य स्थाने तद्वि­रु­द्धा­र्थ­ज्ञाने सति तस्य धीर्ना­स्ती­त्यत्र दृष्टान्तमाह
न हीति ।

प्रकृते नास्ति विरु­द्ध­ज्ञा­न­मि­त्या­शङ्क्य प्रक­र­णा­च्छ­री­र­ज्ञा­न­म­स्ती­त्याह
प्रकरणेति ।
शरीरमेव रूपकेण रथसादृश्येन विन्यस्तं शरी­र­रू­प­क­वि­न्य­स्तम् , तस्य पूर्ववाक्ये आत्म­बु­द्ध्यो­र्म­ध्य­स्था­न­प­ठि­त­स्या­त्रापि मध्य­स्थे­ना­व्य­क्त­श­ब्देन ग्रहणान्न प्रधानस्य वैदिकत्वमिति सूत्रार्थः ।

स्मार्तक्रमः किमिति त्यक्तव्य इत्याशङ्क्य श्रौतक्रमस्य प्रक­र­णा­द्य­नु­ग्र­हेण बल­व­त्त्वा­दि­त्याह
कुत इत्यादिना ।

तदुभयं विवृणोति
तथा हीति ।
रूपककॢप्तिः सादृश्यकल्पना । प्रग्र­होऽ­श्व­र­शना । यदा बुद्धि­सा­र­थि­र्वि­वेकी तदा मन­से­न्द्रि­य­ह­या­न्वि­ष­म­वि­ष­य­मा­र्गा­दा­क­र्षति । यद्यविवेकी तदा मनो­र­श­ना­ब­द्धां­स्तान् प्रवर्तयतीति मनसः प्रग्रहत्वं युक्तम् । तेषु हयेषु । गोचरान्मार्गान् ।

ननु स्वतश्चिदात्मनो भोगसम्भवात्किं रथादिनेत्यत आह
आत्मेति ।
आत्मा देहः, देहा­दि­स­ङ्क­क­ल्प­नया भोक्तृत्वं न स्वतोऽ­स­ङ्ग­त्वा­दि­त्यर्थः ।

अधुना रथा­दि­भि­र्ग­न्तव्यं वद­न्ना­का­ङ्क्षा­पू­र्व­क­मु­त्त­र­वा­क्य­माह
तैश्चेत्यादिना ।

शरीरस्य प्रकृ­त­त्वेऽ­प्य­व्य­क्त­प­देन प्रधानं गृह्यतामित्यत आह
तत्र य एवेति ।

एवं प्रकरणं शोधयित्वा शरीरस्य परिशेषतामानयति
तत्रे­न्द्रि­ये­त्या­दिना ।

अर्थानां पूर्व­म­नु­क्ति­शङ्कां वारयन् परत्वमुपपादयति
अर्था इति ।
गृह्णन्ति पुरुषपशुं बध्नन्तीति ग्रहा इन्द्रियाणि । तेषां ग्रहत्वं विषयाधीनम् । असति विषये तेषा­म­कि­ञ्चि­त्क­र­त्वात् । ततो ग्रहेभ्यः श्रेष्ठा अतिग्रहा विषया इति बृहदारण्यके श्रवणात् । परत्वं श्रैष्ठ्या­भि­प्रा­यम् , न त्वान्त­र­त्वे­नेति भावः । सविकल्पकं ज्ञानं मनः, निर्विकल्पकं निश्चयात्मिका बुद्धिः, आत्मशब्दात्स एव बुद्धेः परः, प्रत्यभिज्ञायत इति शेषः ।

हिर­ण्य­ग­र्भा­भे­देन ब्रह्मा­दि­प­द­वेद्या सम­ष्टि­बु­द्धि­र्म­हा­नि­त्याह
अथवेति ।
मननशक्तिः, व्यापिनी, भाविनिश्चयः, ब्रह्मा आत्मा, भोग्य­व­र्गा­श्रयः, तात्का­लि­क­नि­श्चयः, कीर्तिशक्तिः, नियमनशक्तिः, त्रैकालनिश्चयः, संवि­द­भि­व्य­ञ्जिका चिद­ध्य­स्ता­ती­त­स­र्वा­र्थ­ग्रा­हिणी सम­ष्टि­बु­द्धि­रि­त्यर्थः ।

हिर­ण्य­ग­र्भ­स्येयं बुद्धि­र­स्ती­त्यत्र श्रुतिमाह
य इति ।

नन्वप्रकृता सा कथमुच्यते, तदुक्तौ च प्रधानेन किमपराद्धमित्यत आह
सा चेति ।
हिरुक्पृथक् । पूर्वं व्यष्टि­बु­द्ध्य­भे­दे­नो­क्तात्र ततो भेदेन परत्वमुच्यत इत्यर्थः ।

तर्हि रथरथिनौ द्वौ परिशिष्टौ स्याताम् , नेत्याह
एतस्मिंस्त्विति ।

अतो रथ एव परिशिष्ट इत्याह
तदेवमिति ।
तेषु पूर्वोक्तेषु षट्प­दा­र्थे­ष्वि­त्यर्थः ।

परिशेषस्य फलमाह
इतराणीति ।
वेदो यमो वेति शेषः । दर्शयति चेति सूत्रभागो व्याख्यातः ।

किञ्च ब्रह्मा­त्मै­क­त्व­प­रत्वे ग्रन्थे भेदवादिनां प्रधानस्यावकाशो नास्तीत्याह
शरीरेत्यादिना ।
भोगो वेदना ।

काठ­क­ग्र­न्थ­स्यै­क्य­ता­त्पर्ये गूढ­त्व­ज्ञे­य­त्व­ज्ञा­न­हे­तु­यो­ग­वि­धयो लिङ्गानि सन्तीत्याह
तथा चैष इत्यादिना ।
अग्र्या समाधिपरिपाकजा । वागित्यत्र द्विती­या­लो­प­श्छा­न्दसः, मनसीति दैर्घ्यं च ॥ १ ॥

शङ्कोत्तरत्वेन सूत्रं व्याचष्टे
उक्त­मे­त­दि­त्या­दिना ।
कार्य­का­र­ण­यो­र­भे­दा­न्मू­ल­प्र­कृ­ति­वा­च­का­व्य­क्त­श­ब्देन विकारो लक्ष्यत इत्यर्थः । गोभिर्गोविकारैः पयोभिर्मत्सरं सोमं श्रीणीत । मिश्रितं कुर्यादिति यावत् । 'श्रीञ्पाके' इति धातोर्लोटि मध्य­म­पु­रु­ष­ब­हु­व­च­न­मे­तत् ।

अव्यक्तात्मना कार्य­स्या­व्य­क्त­श­ब्द­यो­ग्यत्वे मानमाह
श्रुतिश्चेति ।
तर्हि प्राग­व­स्था­या­मिदं जग­द­व्या­कृ­त­मा­सीत् ह किलेत्यर्थः । बीजरूपा शक्तिः संस्का­र­स्त­द­व­स्थम् ॥ २ ॥

अप­सि­द्धा­न्त­श­ङ्को­त्त­र­त्वेन सूत्रं व्याचष्टे
अत्राहेत्यादिना ।
तर्हि तदा । एवं सति सूक्ष्म­श­ब्दि­त­प्रा­ग­व­स्था­भ्यु­प­गमे सति ।

ईश्वरे कल्पिता तन्नि­य­म्ये­त्य­ङ्गी­का­रा­न्ना­प­सि­द्धान्त इत्याह
अत्रोच्यत इत्यादिना ।

कूटस्थब्रह्मणः स्रष्टृ­त्व­सि­द्ध्य­र्थ­म­विद्या स्वीका­र्ये­त्यु­क्तम् । बन्ध­मु­क्ति­व्य­व­स्था­र्थ­मपि सा स्वीकार्येत्याह
मुक्तानामिति ।
यन्ना­शा­न्मुक्तिः सा स्वीकार्या, तां विनैव सृष्टौ मुक्तानां पुन­र्ब­न्धा­प­त्ते­रि­त्यर्थः ।

तस्याः पर­प­रि­क­ल्पि­त­स­त्य­स्व­त­न्त्र­प्र­धा­ना­द्वै­ल­क्ष­ण्य­माह
अविद्येत्यादिना ।
मायामयी प्रसि­द्ध­मा­यो­प­मिता । लोके मायाविनो माया­व­त्प­र­त­न्त्रे­त्यर्थः ।

जीव­भे­दो­पा­धि­त्वे­नापि सा स्वीकार्येत्याह
महासुषुप्तिरिति ।
बुद्ध्या­द्यु­पा­धि­भे­दा­ज्जीवा इति बहूक्तिः ।

अविद्यायां श्रुतिमप्याह
तदेतदिति ।
आका­श­हे­तु­त्वा­दा­काशः । ज्ञानं विना­न्ता­भा­वा­द­क्ष­रम् । विचि­त्र­का­रि­त्वा­न्मा­येति भेदः ।

इदानीमविद्याया ब्रह्मा­भे­दा­न्य­त्वा­भ्या­म­नि­र्वा­च्य­त्वे­ना­व्य­क्त­श­ब्दा­र्ह­त्व­माह
अव्यक्तेति ।

तस्य महतः परत्वं कथमित्यत आह
तदिदमिति ।
यदा बुद्धि­र्म­हां­स्तदा तद्धे­तु­त्वा­त्प­र­त्व­मि­त्यु­क्त­मि­त्य­न्वयः ।

प्रति­बि­म्ब­स्यो­पा­धि­प­र­त­न्त्र­त्वा­दु­पाधेः प्रति­बि­म्बा­त्प­र­त्व­माह
यदा त्विति ।

हेतुं स्फुटयति
अविद्येति ।

अव्यक्तस्य परत्वेऽपि शरीरस्य किं जातम् , तदाह
तच्चेति ।

नन्वि­न्द्रि­या­दी­ना­म­प्य­व्य­क्ता­भे­दा­द­व्य­क्तत्वं परत्वं च किमिति नोच्यते, तत्राह
सत्यपीति ।

सूत्रद्वयस्य वृत्ति­कृ­द्ध्या­ख्या­न­मु­त्था­प­यति
अन्ये त्विति ।
पञ्चीकृतभूतानां सूक्ष्मा अवयवाः स्थूल­दे­हा­र­म्भकाः । सूक्ष्मशरीरं प्रतिजीवं लिङ्ग­स्या­श्र­य­त्वेन नियतमस्तीति वक्ष्यते । देहा­न्त­र­प्राप्तौ तेन युक्तो गच्छति परलोकमित्यर्थः ।

कथं तस्य महतो जीवा­त्प­र­त्व­मि­त्या­शङ्क्य द्वितीयसूत्रं व्याचष्टे
तदधीनत्वाच्चेति ।

अर्थवदिति ।

सूत्र­स्थ­दृ­ष्टा­न्त­माह
यथेति ।

तद्ध्याख्यानं दूषयति
तैरिति ।

अव्य­क्त­प­द­ब­ला­त्प्र­कृ­त­मपि स्थूलं त्यज्यत इति शङ्कते
आम्नातस्येति ।

एकार्थबोधकानां शब्दानां मिथ आका­ङ्क्ष­यै­कस्यां बुद्धा­वा­रू­ढ­त्व­मे­क­वा­क्यता । तव मते तस्या अभा­वा­त्कु­तोऽ­र्थ­बोध इति समाधत्ते
नेति ।

तां विनाप्यर्थधीः किं न स्यादित्यत आह
नहीति ।
शरीरशब्देन रूढ्या स्थूलं प्रकृतम् , तस्य हानिरप्रकृतस्य भूत­सू­क्ष्म­स्या­व्य­क्त­प­देन ग्रहणमन्याय्यं स्यादित्यर्थः ।

अस्त्वे­क­वा­क्य­ते­त्यत आह
न चेति ।

ततः किं तत्राह
तत्रेति ।
आकाङ्क्षया वाक्यै­क­वा­क्यत्वे सति प्रकृतं शरी­र­द्व­य­म­व्य­क्त­प­देन ग्राह्यम् । आका­ङ्क्षा­या­स्तु­ल्य­त्वा­दिति भावः ।

अनात्मनिश्चयः शुद्धिः, तदर्थं सूक्ष्म­मे­वा­का­ङ्क्षितं ग्राह्यम् , तस्य सूक्ष्म­त्वे­ना­त्मा­भे­देन गृहीतस्य दुःशोधत्वात् । स्थूलस्य दृष्ट­दौ­र्ग­न्ध्या­दिना लशु­ना­दि­व­द­ना­त्म­त्व­धी­वै­रा­ग्ययोः सुलभत्वादिति शङ्कते
न चेति ।
दृष्टा बीभत्सा घृणा यस्मिन् तस्य भावस्तत्ता तयेत्यर्थः ।

दूषयति
यत इति ।
वैरा­ग्या­य­शु­द्धि­रत्र न विवक्षिता, विध्यभावात् , किन्तु वैष्णवं परमं पदं विवक्षितमिति तद्दर्शनार्थं प्रकृतं स्थूल­मे­वा­व्य­क्त­प­देन ग्राह्यमिति भावः । किञ्च सूक्ष्मस्य लिङ्गान्तःपातिन इन्द्रि­या­दि­ग्र­ह­णे­नैव ग्रहणान्न पृथ­ग­व्य­क्त­श­री­र­प­दाभ्यां ग्रहः ।

अभ्युपेत्याह
सर्वथेति ।
स्थूलस्य सूक्ष्मस्य वा ग्रहेऽपीत्यर्थः ।

तथा नामेति ।
सूक्ष्म­मे­वा­व्य­क्त­म­स्त्वि­त्यर्थः ॥ ३ ॥

अत्राव्यक्तं प्रधानं नेत्यत्र हेत्वन्तरार्थं सूत्रम्
ज्ञेयत्वेति ।
सत्त्वा­दि­गु­ण­रू­पा­त्प्र­धा­ना­त्पु­रु­ष­स्या­न्तरं भेद­स्त­ज्ज्ञा­ना­दि­त्यर्थः । नहि शक्यमिति च वदद्भिः प्रधानं ज्ञेयत्वेन स्मर्यत इति सम्बन्धः ।

न केवलं भेद­प्र­ति­यो­गि­त्वेन प्रधानस्य ज्ञेयत्वं तैरिष्टं किन्तु तस्यो­पा­स­न­या­णि­मा­दि­प्रा­प्त­येऽ­पी­त्याह
क्वचिच्चेति ।

ज्ञान­वि­ध्य­भा­वेऽ­प्य­व्य­क्त­प­द­ज­न्य­ज्ञा­न­ग­म्य­त्व­मा­र्थिकं ज्ञेय­त्व­म­स्ती­त्यत आह
न चानुपदिष्टमिति ।
उपदिष्टं हि ज्ञानं फलवदिति ज्ञातुं शक्यं निष्फ­ल­स्यो­प­दे­शा­यो­गा­द­व्य­क्तस्य च ज्ञाना­नु­प­दे­शा­त्फ­ल­व­ज्ज्ञा­न­ग­म्य­त्वा­सि­द्धि­रि­त्यर्थः ।

फलितमाह
तस्मादिति ।
साङ्ख्ये­ष्ट­स­फ­ल­ज्ञा­न­ग­म्य­त्वा­व­च­ना­च्चे­त्यर्थः ।

ननु शरीरस्यापि ज्ञेय­त्वा­नुक्तेः कथमिह ग्रहणम् , तत्राह
अस्माकं त्विति ।
अस्मन्मते विष्ण्वा­ख्य­प­द­स्यै­क­स्यैव ज्ञेय­त्वा­त्त­द्द­र्श­ना­र्थ­म­व्य­क्त­प­देन शरीरोपन्यासो युक्त इत्यर्थः । साधा­र­ण­श­ब्द­मा­त्रान्न प्रधानस्य प्रत्यभिज्ञा स्मार्त­लि­ङ्ग­स्या­नुक्त्या नियामकाभावादिति तात्पर्यम् ॥ ४ ॥

लिङ्गो­क्ति­मा­शङ्क्य निषेधति
वदतीति चेदिति ।
अत्र हि तादृशमेव निर्दि­ष्ट­मि­त्य­न्वयः । स्पष्टमन्यत् ॥ ५ ॥

किञ्चात्र कठवल्ल्यां प्रधानस्य प्रश्नो­त्त­र­यो­र­स­त्त्वान्न ग्रहणमित्याह
त्रयाणामिति ।
मृत्युना नचिकेतसं प्रति त्रीन्व­रा­न्वृ­णी­ष्वे­त्युक्तेः त्रयाणामेव प्रश्नो नचिकेतसा कृतः । उपन्यासश्च मृत्युना कृतः । नान्य­स्ये­त्यर्थः ।

प्रश्नत्रयं क्रमेण पठति
तत्र तावदिति ।
हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्ग­हे­तु­मग्निं स्मरसि । प्रेते मृते । देहादन्योऽस्ति न वेति संशयोऽस्ति । अत एत­दा­त्म­त­त्त्व­म­स­न्दिग्धं जानीयामित्यर्थः ।

क्रमे­णो­त्त­र­त्र­य­माह
प्रतिवचनमपीति ।
लोक­हे­तु­वि­रा­डा­त्म­नो­पा­स्य­त्वा­ल्लो­का­दि­श्चि­त्योऽ­ग्निस्तं मृत्युरुवाच नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वा क्रमे­णा­ग्नि­श्ची­यते तत्स­र्व­मु­वा­चे­त्यर्थः । हन्तेदानीं ब्रह्म वक्ष्यामीति ब्रह्मवाक्येन जीव­प्र­श्ना­द्व्य­व­हि­त­मपि 'यथा च मरणं प्राप्य' इत्यादि वाक्यं जीवविषयमुत्तरम् , योग्य­त्वा­दि­त्यर्थः । वाक्यार्थस्तु आत्मा मरणं प्राप्य यथा भवति तथा वक्ष्यामीति ।

प्रतिज्ञातमाह
योनिमिति ।

चरा­च­र­दे­ह­प्राप्तौ निमित्तमाह
यथेति ।
श्रुतमुपासनम् । सूत्रे आद्यश्चकारो यत इत्यर्थे । एवं च त्रया­णा­मे­वो­प­न्यासः प्रश्नश्च यतः अतो न प्रधा­न­म­व्य­क्त­मिति योजना ।

उक्तार्थे सूत्रमाक्षिपति
अत्राहेति ।

एकः प्रश्नः द्वौ प्रश्नौ वेति पक्षद्वये फलितं पृच्छति
किञ्चात इति ।
सप्तम्यर्थे तसिः । अत्र च पक्षद्वयेऽपि किमित्यर्थः ।

प्रश्नैक्ये सूत्रासङ्गतिः । भेदे प्रधानस्य श्रौत­त्व­सि­द्धि­रिति पूर्ववाद्याह
स एवेत्यादिना ।

प्रश्नै­क्य­प­क्ष­मा­दाय सिद्धान्त्याह
अत्रोच्यत इति ।
येन प्रधानसिद्धिः स्यादिति शेषः ।

चतु­र्थ­प्र­श्न­क­ल्पने वर­त्रि­त्वो­प­क्र­म­वि­रोधः स्यादिति विवृणोति
वरेत्यादिना ।
वर­प्र­दा­न­मु­प­क्रमो यस्याः सा । प्रहिताय यमलोकं प्रति प्रेषिताय । इतः पुनः मर्त्यलोकं प्राप्तस्य मम पिता यथापूर्वं सुमनाः स्यादिति प्रथमं वव्रे ।

ननु द्वितीयवरो जीवविद्या तृतीयो ब्रह्मविद्येति प्रश्नभेदः किं न स्यादित्यत आह
येयमिति ।
प्रेते इत्युपक्रम्य तृती­य­त्वो­क्ति­लि­ङ्गा­ज्जी­वा­त्म­वि­द्यैव तृतीयो वर इत्यर्थः ।

एवं वाक्योपक्रमे सति प्रश्नान्तरं न युक्तमित्याह
तत्रेति ।

मर­ण­ध­र्मा­द्य­स्प­र्श­लि­ङ्गाभ्यां प्रष्ट­व्य­यो­र्जी­वे­श्व­र­यो­र्भे­दा­त्प्र­श्न­भे­द­सि­द्धे­र्वा­क्य­बाधो युक्त इति शङ्कते
नन्वित्यादिना ।
गोच­र­त्वा­दा­श्र­य­त्वात् ।

न केवलं प्रष्ट­व्य­भे­दा­त्प्र­श्न­भेदः किन्तु प्रश्नवाक्ययोः सादृ­श्या­भा­वा­द­पी­त्याह
प्रश्नच्छायेति ।

प्रष्ट­व्य­भे­दोऽ­सिद्ध इति परिहरति
नेत्यादिना ।

किञ्च ब्रह्मप्रश्ने जन्मादिनिषेधेन जीवस्वरूपं वदन् यमस्तयोरैक्यं सूचयतीत्याह
इह चान्यत्रेति ।

तन्निषेधवाक्ये शिवो­क्ति­र­सि­द्धे­त्यत आह
सतीति ।
भागी युक्तः । तस्मादविद्यया जीवस्य प्राप्त­ज­न्मा­दि­नि­षे­धेन स्वरू­प­मु­क्त­मि­त्यर्थः ।

किञ्च जीवो ब्रह्माभिन्नः, मोक्ष­हे­तु­ज्ञा­न­वि­ष­य­त्वात् , ब्रह्मवदित्याह
तथा स्वप्नेति ।
अन्तोऽवस्था । येन साक्षिणा प्रमाता पश्यति तमात्मानमिति सम्बन्धः ।

हेतो­र­प्र­यो­ज­क­त्व­मा­शङ्क्य 'तमेव विदित्वा' इति श्रुतिविरोधमाह
प्राज्ञेति ।

किञ्चा­भे­द­मुक्त्वा भेदस्य निन्दितत्वादभेद एव सत्य इत्याह
तथेति ।
इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ । एवमिहाखण्डैकरसे ब्रह्मणि यो नानेव मिथ्याभेदं पश्यति स भेददर्शी मरणान्मरणं प्राप्नोति संसारभयान्न मुच्यत इत्यर्थः । किञ्च जीव­प्र­श्ना­न­न्तरं 'तं दुर्द­र्शम्' इति यदुत्तरमुवाच तेना­प्यु­त्त­रे­णा­भेदो गम्यत इति सम्बन्धः ।

प्रष्टृ­प्र­श्नयोः प्रशंसयापि लिङ्गेन पृष्टस्य दौर्ल­भ्य­द्यो­त­ना­द्ब्र­ह्म­त्व­सि­द्धि­रि­त्याह
अन्यं वरमित्यादिना ।
पुत्रादिकं वृणी­ष्वे­त्यु­क्तेऽपि विष­यां­स्तु­च्छी­कृ­त्या­त्म­ज्ञा­नान्न चचाल 'नान्यं तस्मान्नचिकेता वृणीते' इति श्रवणात् । तदा सन्तुष्टो यमः 'अन्य­च्छ्रे­योऽ­न्य­दु­तैव प्रेयः' इति भोगा­प­व­र्ग­मा­र्ग­यो­र्वै­ल­क्षण्यं प्रतिज्ञाय 'दूरमेते विपरीते विषूची अविद्या या च विद्या' इति दर्शि­त­वा­नि­त्यर्थः । प्रेयः प्रियतमं स्वर्गादिकम् , विषूची विरुद्धफले, अविद्या कर्म, विद्या तत्त्वधीः । विद्याभीप्सिनं विद्यार्थिनं त्वामहं मन्ये, यतः त्वा त्वां बहवोऽपि कामाः पुत्रादयो मया दीयमाना दुर्लभा अपि नालोलुपन्त लोभवन्तं न कृतवन्त इति प्रष्टारं स्तुत्वा प्रश्नमपि 'त्वादृङ्नो भूयान्नचिकेतः प्रष्टा' इति स्तुव­न्नि­त्य­क्ष­रार्थः ।

इयं प्रशंसा प्रश्नभेदपक्षे न घटत इत्याह
यत्प्रश्नेति ।
यत्प्रश्नेन स्तुतिं लब्धवांस्तं प्रश्नं विहाय यद्य­न्य­मे­वो­त्था­प­ये­त्त­र्ह्य­न­व­सरे स्तुतिः कृता स्यादित्यर्थः ।

तस्मादिति ।
प्रष्ट­व्य­भे­दा­भा­वा­दि­त्यर्थः ।

प्रश्न­वा­क्य­व्यक्त्योः सादृ­श्या­भा­वा­त्प्र­श्न­भेद इत्युक्तं निरस्यति
यत्त्वित्यादिना ।

धर्मा­द्या­श्र­यस्य जीवस्य ब्रह्मत्वं कथमित्यत आह
यावदिति ।

अवि­द्या­ना­शा­न­न्तरं ब्रह्मत्वं चेदा­ग­न्तु­क­म­नित्यं च स्यादित्यत आह
न चाविद्यावत्त्व इति ।

जीवस्य ब्रह्मत्वे स्वाभाविके सति ब्रह्मप्रश्नस्य यदुत्तरं तज्जी­व­प्र­श्न­स्यापि भवतीति लाभं दर्शयति
ततश्च न जायत इति ।

जीवब्रह्मैक्ये 'त्रया­णाम्' इति सूत्रं कथमित्यत आह
सूत्रं त्विति ।

कल्पि­त­भे­दा­त्प्र­श्न­भे­द­क­ल्प­ने­त्याह
ततश्चेति ।
परमात्मनः सका­शा­त्प्र­धा­नस्य वैष­म्य­म­ना­त्म­त्वेन तृती­य­व­रा­न्त­र्भा­वा­यो­गा­दिति भावः ॥ ६ ॥

श्रौतोऽ­व्य­क्त­शब्दो न साङ्ख्या­सा­धा­र­ण­त­त्त्व­गो­चरः, वैदिकशब्दत्वात् , मह­च्छ­ब्द­व­दि­त्याह
महद्वच्चेति ।

सूत्रं व्याचष्टे
यथेत्यादिना ।
न चाकाशादिशब्दे व्यभिचारः, आका­शा­दे­र्म­ता­न्त­र­सा­धा­र­ण­त्वेन साङ्ख्या­सा­धा­र­ण­त्वा­सिद्धेः साध्यस्यापि सत्त्वादिति मन्तव्यम् ।

सत्तामात्रे ।
सत्त्व­प्र­धा­न­प्र­कृ­ते­रा­द्य­प­रि­णामे । निर्वि­क­ल्प­क­बु­द्धा­वि­त्यर्थः । आत्मा महा­नि­त्या­त्म­श­ब्द­प्र­यो­गात् , तं मत्वा न शोचति, 'तमसः परस्तादि' त्यादिना शोकात्ययतमः परत्वादिभ्यश्च महच्छब्दः साङ्ख्यतत्त्वं नाभिधत्त इति सम्बन्धः ।

अधि­क­र­णा­र्थ­मु­प­सं­ह­रति
अतश्चेति ॥ ७ ॥

चमसवदविशेषात् । अत्राजापदं विषयः, तत्किं प्रधानपरं मायापरं वेति रूढ्य­र्था­स­म्भ­वा­त्सं­शये पूर्व­त्रा­व्य­क्त­श­ब्द­मा­त्रेण प्रधा­न­स्या­प्र­त्य­भि­ज्ञा­या­म­प्यत्र त्रिगु­ण­त्वा­दि­लि­ङ्गो­पे­ता­द­जा­प­दा­त्प्र­त्य­भि­ज्ञा­स्तीति प्रत्युदाहरणेन पूर्वपक्षयति
पुनरपीति ।
फलं पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति पूर्व­व­द्द्र­ष्ट­व्यम् ।

राग­हे­तु­त्वा­दि­गु­ण­यो­गात् लोहितादिशब्दै रजआदिगुणलाभेऽपि कथं प्रधानलाभः, तत्राह
तेषां साम्येति ।
अवयवाः प्रधानस्य रजआदयस्तेषां धर्मा रञ्जकत्वादयः तैर्नि­मि­त्तै­र्लो­हि­ता­दि­शब्दैः प्रधानमुच्यत इत्यर्थः । गुणा­भे­दा­त्प्र­धा­न­लाभ इति भावः ।

तत्राजाशब्दं योजयति
नेति ।

'रूढि­र्यो­ग­म­प­ह­रति' इति न्यायेन शङ्कते
नन्विति ।

रूढ्य­स­म्भ­वा­द्योग आश्रयणीय इत्याह
बाढमिति ।

अजा­श­ब्दि­त­प्र­कृ­ति­त्व­पु­रु­ष­भे­द­लि­ङ्गा­भ्या­मपि प्रधा­न­प्र­त्य­भि­ज्ञे­त्याह
सा चेत्यादिना ।
प्रजायन्त इति प्रजा महदादयः । त्रैगुण्यं सुखदुःखमोहाः ।

अनुशयनं विवृणोति
तामेवाविद्ययेति ।
अवि­वे­के­ने­त्यर्थः । विषयधीर्भोगः । गुण­भि­न्ना­त्म­ख्या­ति­र­प­वर्गः ।

सिद्धान्तयति
एवं प्राप्त इति ।

मायादावपि साधा­र­णा­न्म­न्त्रा­द्वि­शे­षा­र्थ­ग्रहो न युक्तः, विशेषग्रहहेतोः प्रक­र­णा­दे­र­भा­वा­दिति हेतुं व्याख्याय दृष्टान्तं व्याचष्टे
चमसवदिति ।
सर्वत्र गिरिगुहादावपि ॥ ८ ॥

उत्त­र­सू­त्र­व्या­वर्त्यां शङ्कामाह
तत्र त्विदमिति ।

चतुर्विधस्येति ।
जरा­यु­जा­ण्ड­ज­स्वे­द­जो­द्भि­ज्ज­रू­प­स्ये­त्यर्थः ।

स्मृत्युक्ता कुतो न ग्राह्येति शङ्कते
कस्मादिति ।

श्रुतेः श्रुत्य­न्त­रा­द­र्थ­ग्रहो युक्तः, साजा­त्या­न्मू­ला­न­पे­क्ष­त्वा­च्चे­त्याह
तथा हीति ।
शाखिनश्छन्दोगाः ।

किञ्च लोहि­ता­दि­श­ब्दै­रपि द्रव्यलक्षणा न्याय्या अव्यवधानात्न तु रञ्ज­नी­य­त्वा­दि­गु­ण­व्य­व­हिता सत्त्वा­दि­गु­ण­ल­क्ष­णे­त्याह
लोहितादीनां चेति ।

ननु शाखान्तरेण शाखा­न्त­र­स्थ­म­न्त्रस्य निर्णयः कथमित्यत आह
असन्दिग्धेनेति ।
सर्व­शा­खा­प्र­त्य­य­न्या­या­दिति भावः ।

यथा शाखा­न्त­र­वा­क्यान्न प्रधा­न­ग्र­ह­स्त­थे­हापि श्वेता­श्व­त­रो­प­नि­षदि मायाप्रकरणान्न तद्ब्रह्म इत्याह
तथेति ।
सृष्ट्यादौ किंसहायं ब्रह्मेति विमृश्यते । ब्रह्मवादिनो ध्यानाख्ययोगेन पर­मा­त्मा­न­म­नु­प्र­विष्टाः सन्तः तत्रैव देव­स्या­त्म­भू­ता­मै­क्ये­ना­ध्यस्तां शक्तिं परतन्त्रां मायां सत्त्वा­दि­गु­ण­वतीं ब्रह्मणः सहा­य­म­प­श्य­न्नि­त्य­न्वयः । मायाया एकत्वेऽपि तदंशानां जीवोपाधीनां तत्त­त्स­ङ्घा­त­यो­नी­ना­म­वि­द्या­ख्यानां भेदाद्वीप्सा । अव्याकृते अनभिव्यक्ते नामरूपे यस्यां सा । अनेन 'तद्धेदं तर्ह्य­व्या­कृ­त­मा­सीत्' इति श्रुत्य­न्त­र­प्र­सि­द्धि­रुक्ता ।

तस्यां शक्तौ व्यक्ता­व्य­क्त­का­र्य­लि­ङ्ग­का­नु­मानं सूचयति
नामेति ।

मायाया रोहि­ता­दि­रू­प­वत्त्वं कथमित्यत आह
तस्या इति ।
विषय आश्रयः ॥ ९ ॥

एवं प्रक­र­ण­ब­ला­न्मा­यै­वा­जेति भाष्यकृन्मतम् । छान्दो­ग्य­श्रुत्या तेजोऽ­ब­न्न­ल­क्ष­णा­वा­न्त­र­प्र­कृ­ति­र­जेति सूत्र­कृ­न्म­ते­नो­त्त­र­सू­त्र­व्या­वर्त्यं शङ्कते
कथमिति ।

किं तेजो­ब­न्ने­ष्व­जा­शब्दो रूढो, न जायत इति यौगिको वा । नाद्यः, तेष्व­जा­त्व­जा­ते­र­स­त्त्वा­दि­त्याह
यावतेति ।
यत इत्यर्थः । अतो न रूढ इति शेषः ।

न द्वितीय इत्याह
नचेति ।
जातिर्जन्म । अजातिरजन्म ।

लौकि­का­जा­श­ब्द­सा­दृ­श्य­क­ल्प­नया तेजोऽ­ब­न्ना­ना­म­जा­त्वो­प­दे­शा­द्गौ­णोऽयं शब्द इति परिहरति
कल्पनेति ।
अनियमो यदृच्छा । बर्करो बालपशुः ।

यदुक्तं जीवभेदेन प्रधा­न­वा­द­प्र­त्य­भि­ज्ञेति, तन्नेत्याह
न चेदमिति ।

व्यवस्थार्थो भेदोऽ­प्य­र्था­त्प्र­ति­पा­द्यत इत्याह
प्रसिद्धं त्विति ।

सत्य एव प्रसिद्ध इत्यत आह
भेदस्त्विति ।

कल्पनोपदेशे दृष्टान्तं व्याचष्टे
मध्विति ।
नच योगस्य मुख्य­वृ­त्ति­त्वा­त्तेन प्रधानग्रहो न्याय्य इति वाच्यम् , रूढा­र्था­न­पे­क्षा­द्यो­गा­त्त­दा­श्रि­त­गु­ण­ल­क्ष­णाया बलीयस्त्वात् । गुणवृत्तौ हि रूढिराश्रिता भवति । तथाच रोहि­ता­दि­श­ब्द­स­म­भि­व्या­हा­रा­नु­गृ­ही­तया रूढ्याश्रितया गुणवृत्त्या प्रधाने योगं बाधि­त्वा­वा­न्त­र­प्र­कृ­ति­र­जा­श­ब्देन ग्राह्या, यथा मध्वादिशब्दैः प्रसि­द्ध­म­ध्वा­द्या­श्रि­त­गु­ण­ल­क्ष­णया आदित्यादयो गृह्यन्ते तद्वत् । तस्मादशब्दं प्रधानमिति सिद्धम् ॥ १० ॥

न सङ्ख्यो­प­स­ङ्ग्र­हात् । पञ्चजनशब्दः साङ्ख्य­त­त्त्व­प­रोऽ­न्य­परो वेति योग­रू­ढ्यो­र­नि­श्च­या­त्सं­शये यथा तत्त्व­वि­द्या­धि­कारे छागायां तात्प­र्या­भा­वा­द­जा­पदे रूढित्यागस्तथा पञ्चमनुष्येषु तात्प­र्या­भा­वा­त्प­ञ्च­ज­न­श­ब्देन रूढिं त्यक्त्वा तत्त्वानि ग्राह्या­णी­ति­दृ­ष्टा­न्त­स­ङ्गतिं सूच­य­न्म­न्त्र­मु­दा­हृत्य पूर्वपक्षयति
एवमित्यादिना ।
फलं पूर्ववत् । प्राण­च­क्षुः­श्रो­त्रा­न्न­म­नांसि वाक्यशेषस्थाः पञ्चजनाः पञ्च । तत्र चत्वारः सूत्रमन्नं विराट्तयोः कार­ण­म­व्या­कृ­त­मा­का­शश्च यस्मि­न्न­ध्य­स्ता­स्त­मे­वा­त्मा­न­म­मृतं ब्रह्म मन्ये । तस्मान्मननात् विद्वा­न­ह­म­मृ­तोऽ­स्मीति मन्त्रदृशो वचनम् ।

नन्वस्तु पञ्च­त्व­वि­शि­ष्टेषु पञ्चजनेषु पुनः पञ्च­त्वा­न्व­या­त्प­ञ्च­विं­श­ति­स­ङ्ख्या­प्र­तीतिः, तावता कथं साङ्ख्य­त­त्त्व­ग्रह इत्याशङ्क्य सङ्ख्याया धर्म्या­का­ङ्क्षायां तत्त्वानि ग्राह्याणीत्याह
तथेति ।
जगतो मूलभूता प्रकृ­ति­स्त्रि­गु­णा­त्मकं प्रधा­न­म­ना­दि­त्वा­द­वि­कृतिः । कस्यचित्कार्यं न भवतीत्यर्थः । मह­द­ह­ङ्का­र­प­ञ्च­त­न्मा­त्रा­णीति सप्त प्रकृतयो विकृतयश्च । तत्र महान्प्रधानस्य विकृ­ति­र­ह­ङ्का­रस्य प्रकृतिः । अहङ्कारस्तामसः पञ्च­त­न्मा­त्राणां शब्दादीनां प्रकृतिः, सात्त्विक एका­द­शे­न्द्रि­या­णाम् । पञ्च तन्मात्राश्च पञ्चानां स्थूल­भू­ता­ना­मा­का­शा­दीनां प्रकृतयः पञ्च स्थूल­भू­ता­न्ये­का­द­शे­न्द्रि­याणि चेति षोडशसङ्ख्याको गणो विकार एव न प्रकृतिः, तत्त्वा­न्त­रो­पा­दा­न­त्वा­भा­वात् । पुरुषस्तूदासीन इति साङ्ख्य­का­रि­कार्थः ।

सङ्ख्यया तत्त्वा­ना­मु­प­सं­ग्र­हात् शब्दवत्त्वमिति प्राप्ते सिद्धान्तयति
नेति ।

नाना­त्व­मि­ष्ट­मि­त्यत आह
नैषामिति ।
पञ्चसु पञ्चसु साधा­र­ण­स्ये­त­र­प­ञ्च­का­द्व्या­वृ­त्तस्य धर्म­स्या­भा­वोऽत्र नानात्वं विव­क्षि­त­मि­त्यर्थः । यद्यपि ज्ञान­क­र्मे­न्द्रि­येषु दशसु ज्ञानकरणत्वं कर्मकरणत्वं च पञ्च­क­द्व­येऽस्ति, पञ्चतन्मात्रासु पञ्चसु स्थूल­प्र­कृ­तित्वं च, तथापि यस्मि­न्नि­त्या­त्मन आकाशस्य च पृथगुक्तेः सत्त्व­र­ज­स्त­मो­म­ह­द­ह­ङ्काराः पञ्च कर्तव्याः, मनश्चत्वारि भूतानि च पञ्च । अस्मिन् पञ्चकद्वये मिथोऽ­नु­वृ­त्ते­त­र­प­ञ्च­क­व्या­वृ­त्त­धर्मो नास्ती­त्य­भि­प्रायः ।

मास्त्वित्यत आह
येनेति ।
धर्मेणेत्यर्थः ।

तदेव स्फुटयति
नहीति ।
महा­स­ङ्ख्या­या­म­वा­न्त­र­सङ्ख्याः प्रविशन्ति, यथा द्वावश्विनौ सप्तर्षयोऽष्टौ वसवश्चेति सप्त­द­शे­त्य­त्रा­श्वि­त्वा­दि­क­मा­दाय द्वित्वादयः प्रविशन्ति । नान्यथेत्यर्थः ।

पञ्चशब्दद्वयेन स्ववा­च्य­न्यू­न­स­ङ्ख्या­द्वा­रेण तद्व्याप्या महासङ्ख्यैव लक्ष्यत इति सदृष्टान्तं शङ्कते
अथेति ।

मुख्यार्थस्य वक्ष्य­मा­ण­त्वा­ल्ल­क्षणा न युक्तेति परिहरति
तदपि नेति ।

पञ्च­ज­न­श­ब्द­यो­र­स­मा­स­म­ङ्गी­कृत्य पञ्च­विं­श­ति­स­ङ्ख्या­प्र­ती­र्नि­रस्ता । सम्प्रति समासनिश्चयान्न तत्प्र­ती­ति­रि­त्याह
परश्चेति ।

समासे हेतुमाह
पारिभाषिकेणेति ।
अयमर्थः अस्मिन्मन्त्रे प्रथमःपञ्चशब्द आद्युदात्तः । द्वितीयः सर्वानुदात्तः । जन­श­ब्द­श्चा­न्तो­दात्तः । तथाच न द्विती­य­प­ञ्च­श­ब्द­ज­न­श­ब्दयोः समासं विना­न्त्य­स्या­का­र­स्यो­दा­त्तत्वं पूर्वे­षा­म­नु­दा­त्त­तत्वं च घटते 'समा­सस्य' इति सूत्रेण समा­स­स्या­न्तो­दा­त्त­वि­धा­नात् । 'अनुदात्तं पद­मे­क­व­र्जम्' इति च सूत्रेण यस्मिन्पदे उदात्तः स्वरितो वा यस्य वर्णस्य विधीयते तमेकं वर्ज­यि­त्वा­व­शिष्टं तत्पदमनुदात्तं भवतीति विधानादेव मान्त्रि­का­न्तो­दा­त्त­स्व­रे­णै­क­प­द­त्व­नि­श्चयः भाषिकाख्ये तु शत­प­थ­ब्रा­ह्म­ण­स्व­र­वि­धा­य­क­ग्रन्थे 'स्वरि­तोऽ­नु­दात्तो वा' इति सूत्रेण यो मन्त्र­द­शा­या­म­नु­दात्तः स्वरितो वा स ब्राह्म­ण­द­शा­या­मु­दात्तो भवतीत्यपवाद आश्रितः । तथा चान्त्या­दा­का­रा­त्पू­र्वे­षा­म­नु­दा­त्ता­ना­मु­दा­त्तत्वं ब्राह्म­णा­व­स्थायां प्राप्तम् , 'उदा­त्त­म­नु­दा­त्त­म­न­न्त्यम्' इति सूत्रेण मन्त्र दशा­या­मु­दा­त्त­स्या­न­न्त्यस्य पर­ल­ग्न­त­यो­च्चा­र्य­मा­ण­स्या­नु­दा­त्तत्वं विहितम् , तथा चान्त्य­न­का­रा­दु­प­रि­तन आकार आकाशश्चेत्यनेन श्लिष्टतया पठ्य­मा­नोऽ­नु­दात्तो भवति, अय­म­न्ता­नु­दा­त्त­स्वरः पारिभाषिकस्तेन ब्राह्म­ण­स्व­रे­णै­क­प­दत्वं निश्चीयत इति । प्रक­टा­र्थ­का­रैस्तु पाठ­क­प्र­सि­द्धोऽ­न्तो­दा­त्त­स्वरः पारिभाषिक इति व्याख्यातम् । तद्व्याख्यानं कल्प­त­रु­का­रै­र्दू­षि­तम् । अन्तानुदात्तं हि समाम्नातारः पञ्चजनशब्दमधीयत इति पाठ­क­प्र­सि­द्धि­र­सि­द्धेति । तथा च पञ्च पञ्चजना इति मान्त्रि­का­न्तो­दात्तः स्वरः, यस्मिन् पञ्च पञ्चजना इत्य­न्ता­नु­दात्तो ब्राह्नणस्वर इति विभागः । उभ­य­था­प्यै­क­प­द्या­त्स­मा­स­सि­द्धि­रिति ।

तैत्ति­री­य­क­प्र­यो­गा­द­प्ये­क­प­द­त्व­मि­त्याह
प्रयोगान्तरे चेति ।
आज्य, त्वा त्वां पञ्चानां पञ्चजनानां देवविशेषाणां यन्त्राय धर्त्राय गृह्णामि इत्या­ज्य­ग्र­ह­ण­म­न्त्र­शेषः । देवतानां कर्मणि यन्त्रवदवस्थितं शरीरं तदेव धर्त्रम् इहा­मि­त्र­भो­गा­धा­रम् , तस्मै तस्या­वै­क­ल्या­र्थ­मिति यजमानोक्तिः ।

अस्तु समासस्ततः किमित्यत आह
समस्तत्वाच्चेति ।
आवृतिर्वीप्सा तदभावे पञ्च­क­द्व­या­ग्र­ह­णा­त्प­ञ्च­विं­श­ति­स­ङ्ख्या­प्र­ती­ति­र­सि­द्धेति भावः । जनपञ्चकमेकं पञ्चकानां पञ्चकं द्वितीयमिति पञ्चकद्वयं तस्य पञ्चपञ्चेति ग्रहणं नेत्यक्षरार्थः ।

किञ्चा­स­मा­स­प­क्षेऽपि किं पञ्च­श­ब्द­द्व­यो­क्तयोः पञ्चत्वयोः परस्परान्वयः, किं वा तयोः शुद्धजनैरन्वयः, अथवा पञ्च­त्व­वि­शि­ष्टै­र्ज­नै­र­प­र­प­ञ्च­त्व­स्या­न्वयः । नाद्य इत्याह
नच पञ्चसङ्ख्याया इति ।
विशेषणमन्वयः ।

अनन्वये हेतुमाह
उपसर्जनस्येति ।
अप्रधानानां सर्वेषां प्रधानेनैव विशे­ष्ये­णै­वा­न्वयो वाच्यः । गुणानां परस्परान्वये वाक्य­भे­दा­पा­ता­दि­त्यर्थः । द्वितीये दश­स­ङ्ख्या­प्र­तीतिः स्यान्न पञ्च­विं­श­ति­स­ङ्ख्या­प्र­तीतिः ।

तृतीयमुत्थापयति
नन्विति ।
पञ्च­त्व­वि­शि­ष्टेषु पञ्च­त्वा­न्त­रा­न्वये विशे­ष­णी­भू­त­प­ञ्च­त्वेऽपि पञ्च­त्वा­न्व­या­त्प­ञ्च­विं­श­ति­त्व­प्र­ती­ति­रि­त्यर्थः ।

दृष्टा­न्त­वै­ष­म्येण परिहरति
नेति ब्रूम इति ।
पञ्चानां पूलानां समाहारा इत्यत्र 'सङ्ख्या­पूर्वो द्विगुः' इति समासो विहितः । ततो 'द्विगोः' इति सूत्रेण ङीपो विधा­ना­त्स­मा­हा­र­प्र­तीतौ समाहाराः कती­त्या­का­ङ्क्षायां सत्यां पञ्चे­ति­प­दा­न्त­रा­न्वयो युक्तः । पञ्चजना इत्यत्र तु ङीबन्तत्वाभावेन समा­हा­र­स्या­प्र­तीतेः जनानां चादित एव पञ्च­त्वो­पा­दा­ना­त्स­ङ्ख्या­का­ङ्क्षाया अस­त्त्वा­त्प­ञ्चेति पदान्तरं नान्वेति । आका­ङ्क्षा­धी­न­त्वा­द­न्व­य­स्ये­त्यर्थः । भेदो विशेषणम् ।

ननु जनानां निरा­का­ङ्क्ष­त्वेऽपि तद्वि­शे­ष­णी­भू­त­प­ञ्च­त्वानि कती­त्या­का­ङ्क्षायां पञ्चत्वान्तरं विशेषणं भव­त्वि­त्या­श­ङ्कते
भवदपीति ।

नोप­स­र्ज­न­स्यो­प­स­र्ज­ना­न्त­रे­णा­न्वयः किन्तु प्रधानेनैवेति नोप­स­र्ज­न­न्या­य­वि­रोध उक्त इति परिहरति
तत्र चेति ।

एवं नानाभावादिति व्याख्या­या­ति­रे­का­च्चेति व्याचष्टे
अति­रे­का­च्चे­त्या­दिना ।
अतिरेक आधिक्यम् ।

जन­श­ब्दि­त­प­ञ्च­विं­श­ति­त­त्त्वेषु आत्मान्तर्भूतो न वा । नाद्य इत्युक्त्वा द्वितीये दोषमाह
अर्थान्तरेति ।

तथाकाशं विकल्प्य दूषयति
तथेति ।
उक्तो दोषः सङ्ख्याधिक्यम् । पञ्चविंशतिजना आत्माकाशौ चेति सप्त­विं­श­ति­सङ्ख्या स्यादित्यर्थः । नच सत्त्वरजस्तमसां पृथग्गणनया सेष्टेति वाच्यम् , आकाशस्य पृथ­गु­क्ति­वै­य­र्थ्यात् , यस्मि­न्नि­त्या­त्मनि तत्त्वानां प्रति­ष्ठो­क्ति­वि­रो­धा­त्तव मते स्वत­न्त्र­प्र­धा­न­स्यै­वा­ना­धा­र­त्वात् , 'नेह नानास्ति' इति वाक्य­शे­ष­वि­रो­धाच्च तव सत्य­द्वै­त­वा­दि­त्वात् ।

किं च पञ्च­विं­श­ति­स­ङ्ख्या­प्र­ती­ता­वपि न साङ्ख्य­त­त्त्वानां ग्रहणमित्याह
कथं चेति ।

किं जन­श­ब्दा­त्त­त्त्व­ग्रहः उत सङ्ख्ययेति कथंशब्दार्थः । नाद्य इत्याह
जनेति ।

न द्वितीय इत्याह
अर्थान्तरेति ।

किं तदर्थान्तरं यदर्थकमिदं वाक्यमिति पृच्छति
कथमिति ।

पञ्च च ते जनाश्चेति कर्म­धा­र­या­दि­स­मा­सा­न्त­रा­त्सं­ज्ञा­स­मा­स­स्या­प्तोक्त्या बलवत्त्वं तावदाह
उच्यत इति ।
विग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञायां गम्यमानायां सुब­न्ते­नो­त्त­र­प­देन समस्यन्ते । यथा दक्षिणाग्निः सप्तर्षय इत्यादि । अयं च समा­स­स्त­त्पु­रु­ष­भेदः ॥ ११ ॥

पञ्चजनशब्दस्य संज्ञा­त्व­मुक्त्वा संज्ञिकथनार्थं सूत्रं गृह्णाति
के पुनस्त इति ।
श्रुतौ उतशब्दोऽप्यर्थः । ये प्राणादिप्रेरकं तत्सा­क्षि­ण­मा­त्मानं विदुस्ते ब्रह्मविद इत्यर्थः ।

पञ्चजनशब्दस्य प्राणादिषु कया वृत्त्या प्रयोग इति शङ्कते
कथं पुनरिति ।

यथा तव तत्त्वेषु जनशब्दस्य लक्षणया प्रयोगस्तथा मम प्राणादिषु पञ्चजनशब्दस्य लक्षणयेत्याह
तत्त्वेष्विति ।

तर्हि रूढ्य­ति­क्र­म­सा­म्या­त्त­त्त्वा­न्येव ग्राह्याणीत्यत आह
समाने त्विति ।
संनि­हि­त­स­जा­ती­या­न­पे­क्ष­श्रु­तिस्था एव ग्राह्याः । न तु व्यव­हि­त­वि­जा­ती­य­सा­पे­क्ष­स्मृ­तिस्था इत्यर्थः ।

लक्षणाबीजं सम्बन्धमाह
जनेति ।
जनः पञ्चजन इति पर्यायः ।

पुरु­ष­मि­त्रा­दि­श­ब्द­वच्च पञ्चजनशब्दस्य प्राणा­दि­ल­क्ष­कत्वं युक्तमित्याह
जनवचनश्चेति ।

ननु जायन्त इति जना महदादयः, जनकत्वाज्जनः प्रधानमिति योगसम्भवे किमिति रूढिमाश्रित्य लक्षणाप्रयास इत्यत आह
समासेति ।
यथा अश्वकर्णशब्दस्य वर्णसमुदायस्य वृक्षे रूढिरेवं पञ्चजनशब्दस्य रूढिरेव नाव­य­व­श­क्त्या­त्मको योग इत्यर्थः ।

पूर्व­का­लि­क­प्र­यो­गा­भा­वान्न रूढि­रि­त्या­क्षि­पति
कथमिति ।

'स्युः पुमांसः पञ्चजनाः' इत्यमरकोशादौ प्रयो­गोऽ­स्त्येव, तद­भा­व­म­ङ्गी­कृ­त्या­प्याह
शक्येति ।
जन­स­म्ब­न्धा­च्चेति पूर्वभाष्ये नरेषु पञ्चजनशब्दस्य रूढिमाश्रित्य प्राणादिषु लक्षणोक्ता । इह तु प्रौढिवादेन प्राणादिषु रूढिरुच्यत इति मन्तव्यम् ।

सङ्गृहीतं विवृणोति
प्रसि­द्धे­त्या­दिना ।
'उद्भिदा यजेत पशुकामः' इत्य­त्रो­द्भि­त्पदं विधेयगुणार्थकं कर्मनामधेयं वेति संशये खनि­त्रा­दा­वु­द्भि­त्प­दस्य प्रसि­द्धे­र्या­ग­ना­मत्वे प्रसि­द्धि­वि­रो­धा­ज्ज्यो­ति­ष्टोमे गुणविधिरिति प्राप्ते राद्धान्तःयजेत यागेनेष्टं भावयेदित्यर्थः । तत­श्चो­द्भि­दे­त्य­प्र­सि­द्धस्य तृतीयान्तस्य यागेनेत्यनेन प्रसिद्धार्थकेन सामानाधिकरण्येन तन्नामत्वं निश्चीयते, उद्भिनत्ति पशून्साधयतीति प्रसि­द्धे­र­वि­रो­धा­द­प्र­कृ­त­ज्यो­ति­ष्टोमे गुणविध्ययोगात् , तद्विधौ चोद्भि­दा­ख्य­गु­ण­वता यागेनेति मत्व­र्थ­स­म्ब­न्ध­ल­क्ष­णा­प्र­स­ङ्गा­च्चेति कर्म­ना­मै­वो­द्भि­त्प­दम् । तथा छिनत्तीति प्रसि­द्धा­र्थ­च्छे­द­न­यो­ग्या­र्थ­क­श­ब्द­स­म­भि­व्या­हा­रा­द्दा­रु­वि­शेषो यूपशब्दार्थः करोतीति सम­भि­व्या­हा­रा­द्वे­दि­श­ब्दार्थः संस्का­र­यो­ग्य­स्थ­ण्डि­ल­वि­शेष इति गम्यते । तथा प्रसि­द्धा­र्थ­क­प्रा­णा­दि­श­ब्द­स­म­भि­व्या­हा­रा­त्प­ञ्च­ज­न­शब्दः प्राणाद्यर्थक इति निश्चीयत इत्यर्थः ।

एकदेशिनां मतद्वयमाह
कैश्चि­दि­त्या­दिना ।
शूद्रायां ब्राह्मणाज्जातो निषादः ।

श्रुत्या पञ्च­ज­न­श­ब्द­स्या­र्था­न्त­र­माह
क्वचिच्चेति ।
पाञ्चजन्यया प्रजया विशतीति विट् तया विशा­पु­रु­ष­रू­प­ये­न्द्र­स्या­ह्वा­नार्थं घोषाः सृष्टा इति यत्तद्युक्तम् , घोषा­ति­रे­के­णे­न्द्रा­ह्वा­ना­यो­गा­दिति श्रुत्यनुसारेण प्रजा­मा­त्र­ग्र­हेऽपि न विरोध इत्यर्थः ।

सूत्र­वि­रो­ध­मा­श­ङ्क्याह
आचार्यस्त्विति ।
अतः साङ्ख्य­त­त्त्वा­ति­रि­क्त­य­त्कि­ञ्चि­त्प­र­तया पञ्च­ज­न­श­ब्द­व्या­ख्या­या­म­वि­रोध इति भावः ॥ १२ ॥

शङ्कोत्तरत्वेन सूत्रं गृह्णाति
भवेयुरिति ।
ज्योतिषां सूर्यादीनां ज्योति­स्त­द्ब्रह्म देवा उपासत इत्यर्थः ।

नन्विदं षष्ठ्य­न्त­ज्यो­तिः­प­दोक्तं सूर्यादिकं ज्योतिः शाखा­द्व­येऽ­प्यस्ति, तत्काण्वानां पञचत्वपूरणाय गृह्यते नान्येषामिति विकल्पो न युक्त इति शङ्कते
कथं पुनरिति ।

आका­ङ्क्षा­वि­शे­षा­द्वि­कल्पो युक्त इत्याह
सिद्धा­न्ती­अ­पे­क्षेति ।
यथा अतिरात्रे षोडशिनं गृह्णाति न गृह्णाति इति वाक्य­भे­दा­द्वि­क­ल्प­स्त­द्व­च्छा­खा­भे­दे­ना­न्न­पा­ठा­पा­ठाभ्यां ज्योतिषो विकल्प इत्यर्थः । ननु क्रियायां विकल्पो युक्तो न वस्तुनीति चेत् । सत्यम् । अत्रापि शाखाभेदेन सान्ना ज्योतिःसहिता वा पञ्च प्राणादयो यत्र प्रति­ष्ठि­ता­स्त­न्म­न­सा­नु­द्र­ष्ट­व्य­मिति ध्यानक्रियायां विक­ल्पो­प­प­त्ति­रि­त्य­न­व­द्यम् ।

उक्तं प्रधा­न­स्या­श­ब्द­त्व­मु­प­सं­ह­रति
तदेवमिति ।

तथापि स्मृति­यु­क्तिभ्यां प्रधानमेव जगत्कारणमित्यत आह
स्मृतीति ॥ १३ ॥

कारणत्वेन चाकाशादिषु तथा­व्य­प­दि­ष्टोक्तेः । पूर्व­ग्र­न्थे­नास्य सङ्गतिं वक्तुं वृत्तमनुवदति
प्रतिपादितमिति ।

अधिकरणत्रयेण प्रधा­न­स्या­श्रौ­त­त्वोक्त्या जग­त्का­र­ण­त्व­ल­क्ष­णेन ब्रह्मण एव बुद्धिस्थता, तस्मिन्नेव बुद्धिस्थे निर्विशेषे ब्रह्मणि वेदान्तानां समन्वय इति साधितं पूर्व­सू­त्र­स­न्द­र्भेण । तत्र लक्ष­ण­स­म­न्व­य­यो­र­सि­द्धि­रेव, श्रुतीनां विरो­ध­द­र्श­ना­दि­त्या­क्षे­प­रूपां तेनास्य सङ्गतिमाह
तत्रेति ।
न चाविरोधचिन्ताया द्वितीयाध्याये सङ्ग­ति­र्ना­स्मि­न्न­ध्याय इति वाच्यम् , सिद्धे समन्वये स्मृत्या­दि­मा­ना­न्त­र­वि­रो­ध­नि­रा­सस्य द्विती­या­ध्या­या­र्थ­त्वात् , तत्प­द­वा­च्य­ज­ग­त्का­र­ण­वा­दि­श्रु­तीनां मिथो विरो­धा­द्वा­च्या­र्था­नि­र्ण­येन लक्ष्ये समन्वयासिद्धौ प्राप्तायां तत्सा­ध­का­वि­रो­ध­चि­न्ताया अत्रैव सङ्गतत्वात् । न चैवं सृष्टि­श्रु­ती­ना­म­प्य­वि­रो­धोऽ­त्रैव चिन्तनीय इति वाच्यम् , स्वप्न­व­त्क­ल्पि­त­सृष्टौ विरो­ध­स्यै­वा­भा­वात् । किमर्थं तर्हि द्वितीये तच्चिन्तनम् , स्थूल­बु­द्धि­स­मा­धा­ना­र्थ­मिति ब्रूमः । इह तु सूक्ष्मदृशां वाक्यार्थे समन्वयज्ञानाय तत्प­दा­र्थ­श्रु­ति­वि­रोधः परिह्रियते । यद्यपि त्वम्प­दा­र्थ­श्रु­ति­वि­रो­धोऽत्र परिहर्तव्यः तथापि प्रथमसूत्रेण बन्ध­मि­थ्या­त्व­सू­च­ना­द­वि­रोधः सिद्धः । प्रपञ्चस्तु स्थूल­बु­द्धि­स­मा­ध­न­प्र­स­ङ्गेन भविष्यतीति मन्यते सूत्रकारः । अत्र जगत्कारणश्रुतयो विषयः ।

ताः किं ब्रह्मणि मानं न वेति संश­येऽ­न्न­ज्यो­तिषोः सङ्ख्या­दृ­ष्टि­क्रि­यायां विकल्पेऽपि कारणे वस्तुन्यसद्वा सद्वा कार­ण­मि­त्या­दि­वि­क­ल्पा­स­म्भ­वा­द­प्रा­मा­ण्य­मिति प्रत्युदाहरणेन पूर्व­प­क्ष­य­न्नु­क्ता­क्षेपं विवृणोति
प्रति­वे­दा­न्त­मि­त्या­दिना ।
वेदान्तानां सम­न्व­य­सा­ध­ना­च्छ्रु­त्य­ध्या­य­स­ङ्गतिः । असदादिपदानां सत्कारणे समन्वयोक्तेः पादसङ्गतिः । पूर्वपक्षे समन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति विवेकः ।

क्रमाक्रमाभ्यां सृष्टिविरोधं ताव­द्द­र्श­य­ति­त­थाहि
क्वचिदित्यादिना ।
स परमात्मा लोकानसृजत । अंम­य­श­री­र­प्र­चु­र­स्व­र्ग­लो­कोऽम्भः शब्दार्थः । सूर्य­र­श्मि­म­व्या­प्तोऽ­न्त­रि­क्ष­लोको मरीचयः । मरो मर्त्यलोकः । अब्बहुलाः पाताललोका आप इति श्रुत्यर्थः ।

सृष्टि­वि­रो­ध­मुक्त्वा कारणविरोधमाह
तथेति ।

अस­द­न­भि­व्य­क्त­ना­म­रू­पा­त्मकं कारणम् , ततः कार­णा­त्स­द­भि­व्य­क्तम् । एतत्तुल्यार्थं छान्दो­ग्य­वा­क्य­माह
असदेवेति ।

किं शून्यमेव, नेत्याह
तत्सदिति ।
अबाधितं ब्रह्मै­वा­सी­दि­त्यर्थः । तद्ब्रह्मात्मना स्थितं जगत्सृष्टिकाले सम्य­ग­भि­व्य­क्त­म­भ­वत् । प्रक्रिया सृष्टिः । तत्तत्र कारणे । एके बाह्याः ।

तेषां मतं श्रुतिरेव दूषयति
कुत इति ।

कुत एवंपदयोरर्थमाह
कथमिति ।

स्वमतमाह
सदिति ।
तदिदं जगद्ध किल तर्हि प्राक्का­लेऽ­व्या­कृतं कारणात्मकमासीत् ।

श्रुतीनां विरोधमुपसंहरति
एवमिति ।

किमत्र न्याय्य­मि­त्या­शङ्क्य माना­न्त­र­सि­द्ध­प्र­धा­न­ल­क्ष­कत्वं वेदान्तानां न्याय्यमित्याह
स्मृतीति ।

तत्र सृष्टौ विरोधमङ्गीकृत्य स्रष्टरि विरोधं परिहरति
सत्यपीति ।

आकाशादिषु ब्रह्मणः कारणत्वे विरोधो नैवास्तीति प्रतिज्ञायां हेतुमाह
कुत इति ।

यथाभूतत्वमेवाह
सर्वज्ञ इति ।

कारणस्य सर्वज्ञत्वादिकं प्रतिवेदान्तं दृश्यत इत्याह
तद्यथेत्यादिना ।
तद्विषयेण ब्रह्मविषयेण । चेतनं सर्वज्ञम् । 'तदात्मानं स्वय­म­कु­रुत' इति श्रुते­र­प­र­प्र­यो­ज्य­त्वम् । 'तस्माद्वा एत­स्मा­दा­त्मनः' इति प्रत्य­गा­त्म­त्वम् । स्वस्य बहुरूपत्वकामनया स्थिति­का­लेऽ­प्य­द्वि­ती­य­त्वम् ।

यथा तैत्तिरीयके सर्वज्ञत्वादिकं कारणस्य तथा छान्दोग्यादावपि दृश्यत इत्याह
तदत्र यल्लक्षणमिति ।
मिषत्सव्यापारम् । अवि­गी­ता­र्थ­त्वा­द­वि­रु­द्धा­र्थ­क­त्वा­त्का­रणे नास्ति विप्र­ति­प­त्ति­रिति शेषः ।

तथापि कार्ये विरो­धा­त्का­र­णेऽपि विरोधः स्यादि­त्या­शङ्क्य निषेधति
कार्यविषयं त्वित्यादिना ।

स्वप्नसृष्टीनां प्रत्य­ह­म­न्य­था­त्वेन सोऽहमिति प्रत्य­भि­ज्ञा­य­माने द्रष्टर्यपि नानात्वं प्रसज्येतेत्याह
अतिप्रसङ्गादिति ।

सृष्टि­वि­रो­ध­म­ङ्गी­कृत्य स्रष्टरि न विरोध इत्युक्तम् । अधुनाङ्गीकारं त्यजति
समाधास्यति चेति ।

किमर्थं तर्हि श्रुतयः सृष्टि­म­न्य­था­न्यथा वद­न्ती­त्या­शङ्क्य सृष्टा­व­ता­त्प­र्य­ज्ञा­प­ना­ये­त्याह
भवेदित्यादिना ।

अता­त्प­र्या­र्थ­वि­रोधो न दोषा­ये­त्य­ता­त्पर्यं साधयति
नहीति ।

फल­व­द्ब्र­ह्म­वा­क्य­शे­ष­त्वेन सृष्टि­वा­क्या­ना­म­र्थ­व­त्त्व­स­म्भ­वान्न स्वार्थे पृथक्फलं कल्प्यम् , वाक्य­भे­दा­प­त्ते­रि­त्याह
नच कल्पयितुमिति ।

न्याया­दे­क­वा­क्यत्वं सिद्धं श्रुतिरपि दर्शयतीत्याह
दर्शयति चेति ।

शुङ्गेन कार्येण लिङ्गेन कार­ण­ब्र­ह्म­ज्ञा­ना­र्थत्वं सृष्टि­श्रु­ती­ना­मुक्त्वा कार­ण­स्या­द्व­य­त्व­ज्ञानं फलान्तरमाह
मृदादीति ।

एवं निष्फ­ला­या­म­न्या­र्थायां सृष्टौ तात्प­र्या­भा­वा­द्वि­रोधो न दोष इत्यत्र वृद्धसंमतिमाह
तथाचेति ।
अन्यथान्यथेति वीप्सा द्रष्टव्या । अवताराय ब्रह्माधिजन्मने । अत­स्त­द­न्य­था­त्वेऽपि ब्रह्मणि न भेदः । ज्ञेये न विगानमित्यर्थः ।

ब्रह्मज्ञानस्य सृष्टि­शे­षि­त्व­मु­क्तम् , तन्निर्वाहाय तस्य फलमाह
ब्रह्मेति ।
मृत्यु­म­त्ये­ती­त्य­न्वयः ॥ १४ ॥

एवं सृष्टिद्वारकं विरोधमुत्सूत्रं समाधाय कारणस्य सदसत्त्वादिना साक्षा­च्छ्रु­ति­वि­रो­ध­नि­रा­सार्थं सूत्रमादत्ते
यत्पुनरिति ।
यतोऽ­स्ति­त्व­ल­क्षणं ब्रह्म निर्धार्य तस्मिन्नेव श्लोकमुदाहरति, अतोऽत्र श्लोके निरात्मकमसन्न श्राव्यत इति योजना । तत्तत्र सदात्मनि श्लोको मन्त्रो भवति ।

सदा­त्म­स­मा­क­र्षा­द­ती­न्द्रि­या­र्थ­का­स­त्प­देन ब्रह्म लक्ष्यत इत्याह
तस्मादिति ।
नच प्रधानमेव लक्ष्यतामिति वाच्यम् । चेत­ना­र्थ­क­ब्र­ह्मा­दि­श­ब्दा­ना­म­ने­केषां लक्षणागौरवादिति भावः ।

तैत्ति­री­य­क­श्रुतौ सूत्रं योजयित्वा छान्दोग्यादौ योजयति
एषैवेति ।
सदे­का­र्थ­क­त­त्प­देन पूर्वोक्तासतः समाकर्षान्न शून्य­त्व­मि­त्यर्थः ।

नन्वसत्पदलक्षणा न युक्ता, श्रुतिभिरेव स्वम­त­भे­दे­नो­दि­ता­नु­दि­त­हो­म­व­द्वि­क­ल्पस्य दर्शि­त­त्वा­दि­त्यत आह
तद्धैक इति ।
एके शाखिन इत्यर्थो न भवति, किन्तु अना­दि­सं­सा­र­च­क्रस्था वेदबाह्या इत्यर्थः । शून्यनिरासेन श्रुतिभिः सद्वा­द­स्यै­वे­ष्ट­त्वा­त्तासां विरो­ध­स्फू­र्ति­नि­रा­साय लक्षणा युक्तेति भावः ।

यदुक्तं क्वचिदकर्तृका सृष्टिः कथितेति, तन्नेत्याह
तद्धेदमिति ।
अध्यक्षः कर्ता ।

ननु कर्त्रभाव एव परामृश्यत इत्यत आह
चेतनस्य चायमिति ।
चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यत इत्यर्थः ।

आद्यकार्यं सकर्तृकम् , कार्यत्वात् , घटवदित्याह
अपिचेति ।
अद्यत्वे इदानीम् ।

ननु कर्म­का­र­का­द­न्यस्य कर्तुः सत्त्वे कर्मण एव कर्तृवाचिलकारो विरुद्ध इत्यत आह
व्याक्रियत इति ।
अनायासेन सिद्धिमपेक्ष्य कर्मणः । कर्तृ­त्व­मु­प­च­र्यत इत्यर्थः ।

व्याक्रियते जगत्स्वयमेव निष्पन्नमिति व्याख्याय केन­चि­द्व्या­कृ­त­मिति व्याचष्टे
यद्वेति ।
अतः श्रुती­ना­म­वि­रो­धा­त्का­र­ण­द्वारा समन्वय इति सिद्धम् ॥ १५ ॥

जगद्वाचित्वात् । विषयमाह
कौषीतकीति ।

बलाकाया अपत्यं बाला­कि­र्ब्रा­ह्म­णस्तं प्रति राजोवाच
यो वा इति ।

न केव­ल­मा­दि­त्या­दीनां कर्ता किन्तु सर्वस्य जगत इत्याह
यस्येति ।
एतज्जगद्यस्य कर्म । क्रियते इति व्युत्पत्त्या कार्यमित्यर्थः ।

कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह
तत्रेति ।

पूर्व­त्रै­क­वा­क्य­स्थ­स­दा­दि­श­ब्द­ब­ला­द­स­च्छब्दो नीतः । इह तु वाक्यभेदात् 'ब्रह्म ते ब्रवाणि' इति बाला­कि­वा­क्य­स्थ­ब्र­ह्म­श­ब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणेन पूर्वपक्षमाह
किं तावदिति ।
पूर्वपक्षे वाक्यस्य प्राणा­द्यु­पा­स्ति­प­र­त्वा­द्ब्र­ह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये सम­न्व­य­सि­द्धि­रिति फलम् । अथ सुषुप्तौ । द्रष्टेति शेषः ।

श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यत आह
ये चैत इति ।

सूत्रा­त्म­क­प्रा­णस्य विकाराः सूर्यादय इत्यत्र मानमाह
क्रतम इति ।
यस्य महिमानः सर्वे देवा इति पूर्ववाक्ये दर्शितम् , अतः सर्व­दे­वा­त्म­क­त्वात् , स प्राणो ब्रह्म । त्यत् परोक्षम् । शास्त्रै­क­वे­द्य­त्वा­दि­त्यर्थः ।

पूर्व­प­क्षा­न्त­र­माह
जीवो वेति ।
यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना । तौ ह पुरुषं सुप्तमाजग्मतुः । तं राजा हे बृहत्पाण्डरवासः सोम­रा­ज­न्नि­त्या­मन्त्र्य सम्बोध्य सम्बो­ध­ना­न­भि­ज्ञ­त्वा­त्प्रा­णा­दे­र­ना­त्म­त्व­मुक्त्वा यष्ठ्या­घा­ते­नो­त्थाप्य जीवं बोधि­त­वा­नि­त्यर्थः । श्रेष्ठी प्रधानः स्वैर्भृ­त्यै­र्ज्ञा­ति­भि­रु­प­हृतं भुङ्क्ते स्वाः ज्ञातयश्च तमुपजीवन्ति, एवं जीवोऽपि आदित्यादिभिः प्रकाशादिना भोगो­प­क­र­णै­र्भुङ्क्ते ते च हविर्ग्रहणादिना जीव­मु­प­जी­व­न्ती­त्युक्तं भोक्तृत्वं जीवलिङ्गम् ।

ननु 'प्राण एवैकधा भवति' इति श्रुतः प्राणशब्दो जीवे कथमित्यत आह
प्राण­भृ­त्त्वा­च्चेति ।

सूत्राद्बहिरेव सिद्धान्तयति
एवमिति ।

स च बाला­कि­र्ब्र­ह्म­त्व­भ्रान्त्या व्यष्टि­लि­ङ्ग­रू­पा­न्पु­रु­षा­नुक्त्वा राज्ञा निरस्तस्तूष्णीं स्थितः । त्वदुक्तं ब्रह्म मृषेत्युक्त्वा राज्ञोच्यमानं ब्रह्मैवेति वक्त­व्य­म­न्य­था­रा­ज्ञोऽपि मृषा­वा­दि­त्व­प्र­स­ङ्गा­दि­त्याह
यदि सोऽपीति ।
वेदि­त­व्योऽ­पी­त्यर्थः ।

मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङ्गम् , प्राण­जी­व­यो­स्त­न्नि­य­म्य­त्वे­ना­स्वा­त­न्त्र्या­दि­त्याह
कर्तृत्वं चेति ।

यदुक्तं चल­ना­दृ­ष्ट­यो­र्वा­चकः कर्मशब्दः प्राण­जी­व­यो­रु­प­स्था­पक इति, तन्नेत्याह
यस्येति ।
अने­का­र्थ­का­च्छ­ब्दा­द­न्य­त­रा­र्थस्य प्रक­र­णा­दु­प­प­दाद्वा ग्रहणं न्याय्यम् । अत्र प्रक­र­णो­प­प­द­यो­र­स­त्त्वा­त्कस्य ग्रहणमिति संशये पुरु­ष­क­र्तृ­प­द­सां­नि­ध्या­त्क्रि­यत इति योगा­ज्ज­ग­द्ग्र­ह­ण­मि­त्यर्थः ।

एत­त्क­र्मे­ति­प्र­कृ­त­प­रा­म­र्शा­त्पु­रुषाः पूर्वोक्तः कर्मशब्देन निर्दि­श्य­न्ता­मि­त्यत आह
नापीति ।
पौन­रु­क्त्या­ता­त्पु­रु­षाणां नपुंसकैकवचनेन परा­म­र्शा­यो­गा­च्चे­त्यर्थः ।

ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करो­त्य­र्थ­मु­त्पा­दनं तस्यफलं पुरुषजन्म तदन्यतरवाची कर्म­श­ब्दोऽ­स्त्वि­त्यत आह
नापीति ।

कर्तृशब्देनेति ।
क्रियाफलाभ्यां विना कर्तृ­त्वा­यो­गा­त्क­र्तृ­श­ब्दे­नैव तयो­र्ग्र­ह­ण­मि­त्यर्थः ।

जगतोऽपि प्रकरणोपपदे न स्त इत्यु­क्त­म­ङ्गी­क­रोति
सत्यमिति ।

प्रकरणादिकं हि सर्वनाम्नः सङ्कोचकम् , तस्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते । अत्र च सङ्को­च­का­स­त्त्वा­त्स­र्वा­र्थ­केन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह
तथापीति ।

किञ्च जगदेकदेशोक्त्या जग­त्प्र­कृ­त­मि­त्याह
पूर्वत्रेति ।

जगद्ग्रहे पुरुषाणामपि ग्रहा­त्पृ­थ­गु­क्ति­र्व्य­र्थे­त्यत आह
एतदुक्तमिति ।
स वेदितव्य इति सम्बन्धः । पुरु­ष­मा­त्र­नि­रू­पितं कर्तृत्वमिति भ्रान्ति­नि­रा­सार्थो वाशब्दः ।

ब्राह्मणा भोजयितव्याः परि­व्रा­ज­का­श्चे­त्यत्र यथा ब्राह्मणशब्दः परि­व्रा­ज­का­न्य­वि­षयः तथात्र कर्मशब्दः पुरु­षा­न्य­ज­ग­द्वा­ची­त्याह
एवमिति ।

अस्तु जगत्कर्ता वेदितव्यः, परमेश्वरस्य किमायातमित्यत आह
परमेश्वरेति ॥ १६ ॥

सिद्धा­न्त­मुक्त्वा पूर्व­प­क्ष­बी­ज­म­नूद्य दूषयति
जीव­मु­ख्य­प्रा­ण­लि­ङ्गा­दिति ।

उक्तमेव स्मारयति
त्रिविधमिति ।
श्रैष्ठ्यं गुणाधिक्यम् , आधिपत्यं नियन्तृत्वम् । स्वारा­ज्य­म­नि­य­म्य­त्व­मिति भेदः ।

'सम्भ­व­त्ये­क­वा­क्यत्वे वाक्यभेदो हि नेष्यते' इत्युक्तं चेत्पुनरुक्तिः स्यादिति शङ्कते
नन्वेवमिति ।

कर्मपदस्य रूढ्या पूर्व­प­क्ष­प्राप्तौ तन्नि­रा­सा­र्थ­म­स्या­रम्भो युक्त इत्याह
नेत्यादिना ।

प्राण­श­ब्द­जी­व­लि­ङ्ग­यो­र्ग­ति­माह
प्राणशब्दोऽपीति ।
मनो जीवः ॥ १७ ॥

जीवलिङ्गेन ब्रह्मैव लक्ष्यत इत्युक्तम् । इदानीं तल्लिङ्गेन जीवोक्तिद्वारा ब्रह्म ग्राह्यमित्याह
अन्यार्थमिति ।

जीवपरामर्शस्य जीवा­धि­क­र­ण­ब्र­ह्म­ज्ञा­ना­र्थत्वे प्रश्नमाह
क्वैष इति ।
हे बालाके, एतच्छयनं विशे­ष­ज्ञा­ना­भा­व­रूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट । कस्मिन्नधिकरणे शयनं कृतवानित्यर्थः ।

एकी­भा­वा­श्र­य­ज्ञा­नार्थं पृच्छति
क्व वेति ।
एत­द्भ­व­न­मे­की­भा­व­रूपं यथा स्यात्तथा एष पुरुषः क्वाभूत्सुप्तः । केनैक्यं प्राप्नोतीति यावत् ।

उत्थानापादानं पृच्छति
कुत इति ।
एत­दा­ग­म­न­मै­क्य­भ्रं­श­रूपं यथा स्यात्तथा पुरुषः कुत आगत इत्यर्थः ।

प्रश्नमुक्त्वा व्याख्यानमाह
प्रतिवचनमिति ।
शयनभवनयोराधार उत्थानापादानं च प्राणशब्दितं ब्रह्मै­वे­त्यर्थः ।

उत्तरे प्राणोक्तेः प्रश्नोऽपि प्राणविशय इत्यत आह
सुषुप्तिकाले चेति ।
जगद्धेतुत्व जीवैक्याभ्यां प्राणोऽत्र ब्रह्मेत्यर्थः ।

जीवो­क्ते­र­न्या­र्थ­त्व­मु­प­सं­ह­रति
तस्मादिति ।
निःसम्बोधता विशेषधीशून्यता । स्वच्छता विक्षे­प­म­ल­शू­न्यता ।

भेद­भ्रा­न्ति­शू­न्यता स्वरूपैक्यमाह
उपाधीति ।

प्रश्न­व्या­ख्या­न­यो­र्ब्र­ह्म­वि­ष­यत्वे शाखा­न्त­र­सं­वा­द­माह
अपि चैवमेके शाखिन इति ।

ननु तत्राकाशः सुषु­प्ति­स्था­न­मुक्तं न ब्रह्मेत्यत आह
आकाशेति ।

उपाधिद्वारा प्रमा­त्रा­त्म­ज­न्म­हे­तु­त्वा­च्चा­काशो ब्रह्मेत्याह
सर्व इति ।

एवं जीव­नि­रा­सा­र्थ­क­त्वेन सूत्रं व्याख्याय प्राण­नि­रा­स­प­र­त्वे­नापि व्याचष्टे
प्राणेति ।
अस्मिन्वाक्ये प्राणोपदेशं ब्रह्म­ज्ञा­नार्थं मन्यते जैमिनिः, उक्त­प्र­श्न­व्या­ख्या­नाभ्यां वाक्यस्य ब्रह्म­प­र­त्वा­व­ग­मात् । अपि चैके शाखिन एवमेव प्राणातिरिक्तं जीवा­त्मा­न­मा­म­नन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोजना । अति­रि­क्त­जी­वो­प­देशः प्राण­नि­रा­क­र­ण­स्या­प्य­भ्यु­च्चयो हेत्वन्तरमिति भाष्यार्थः । तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धम् ॥ १८ ॥

वाक्यान्वयात् । विषयवाक्यमाह
बृहदिति ।
पत्या­दे­रा­त्म­शे­ष­त्वेन प्रिय­त्वा­दा­त्मैव सर्वशेषी प्रियतमः, अतोऽ­न्य­त्प­रि­त्य­ज्या­त्मैव द्रष्टव्यः । दर्शनार्थं श्रवणादिकं कार्यमित्यर्थः ।

प्रिय­सं­सू­चि­ते­नेति ।
पतिजायादिभिः । प्रियै­र्भो­ग्यै­र्जी­व­त­या­नु­मि­ते­ने­त्यर्थः ।

यथा 'ब्रह्म ते ब्रवाणि' इत्यु­प­क्र­म­ब­ला­द्वा­क्यस्य ब्रह्मपरत्वं तथात्र जीवोपक्रमादस्य वाक्यस्य जीवपरत्वमिति दृष्टान्तेन पूर्वपक्षयति
किं तावदिति ।
पूर्वपक्षे वाक्यस्य जीवो­पा­स्ति­प­र­त्वम् , सिद्धान्ते ज्ञेये प्रत्य­ग्ब्र­ह्मणि समन्वय इति फलम् । इदं प्रत्यक् । महदपरिच्छिन्नम् । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतं चिदेकरसम् । एते­भ्यः­का­र्य­का­र­णा­त्मना जायमानेभ्यो भूतेभ्यः साम्येनोत्थाय भूतोपाधिकं जन्मानुभूय तान्येव भूतानि नीय­मा­ना­न्य­नु­सृत्य विनश्यति । औपा­धि­क­म­र­णा­न­न्तरं विशे­ष­धी­र्ना­स्तीति श्रुत्यर्थः ।

विज्ञातारं
विज्ञानकर्तारम् । भोक्तरि ज्ञाते भोग्यं ज्ञात­मि­त्यु­प­चारः ।

मोक्ष­सा­ध­न­ज्ञा­न­ग­म्य­त्वा­दि­लि­ङ्गै­र्वा­क्य­स्या­न्व­या­द्ब्र­ह्म­ण्येव तात्प­र्या­व­ग­मा­द्ब्र­ह्म­प्र­मा­प­क­त्व­मिति सिद्धान्तयति
एवमिति ।
न वित्तेन । तत्साध्येन कर्मणेत्यर्थः ।

भेद­नि­न्दा­पू­र्व­क­म­भे­द­सा­ध­ने­नै­क­वि­ज्ञा­ना­त्स­र्व­वि­ज्ञा­नस्य सम­र्थ­ना­दौ­प­चा­रि­कत्वं न युक्तमित्याह
न चैत­दौ­प­चा­रि­क­मि­त्या­दिना ।

पराकरोति ।
श्रेयो­मा­र्गा­द्भ्रं­श­यति ।

यथा दुन्दु­भि­श­ङ्ख­वी­णा­श­ब्द­सा­मा­न्य­ग्र­ह­णे­नैव गृह्य­मा­णा­स्त­द­वा­न्त­र­वि­शेषाः शुक्ति­ग्र­ह­ण­ग्रा­ह्य­र­ज­त­व­त्सा­मान्ये कल्पितास्ततो न भिद्यन्ते, एव­मा­त्म­भा­न­भास्यं सर्व­मा­त्म­मा­त्र­मिति निश्चितमित्याह
दुन्दुभ्यादिति ।
एवमेकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञाया मुख्य­त्वा­द्ब्र­ह्म­नि­श्चयः ।

सर्व­स्र­ष्टृ­त्व­लि­ङ्गा­द­पी­त्याह
अस्यमहत इति ।
ऋग्वेदादिकं नाम । इष्टं हुतमिति कर्म । अयं च लोकः परश्च लोक इति रूपम् ।

किञ्च 'स यथा सर्वासामपां समुद्र एकायनम्' इति कण्डिकया सर्वप्रपञ्चस्य मुख्य­ल­या­धा­र­त्व­मा­त्मनो ब्रह्मत्वे लिङ्गमित्याह
तथैवैकायनेति ॥ १९ ॥

जीव­ब्र­ह्म­णो­र्भे­दा­भे­द­स­त्त्वा­द­भे­दां­शे­नेदं जीवोपक्रमणं प्रति­ज्ञा­सा­ध­क­मि­त्या­श्म­र­थ्य­म­तम् ॥ २० ॥

सत्यसंसारदशायां भेद एव, मुक्तावेवाभेद इत्यौडुलोमिमतम् । तत्र मानमाह
श्रुतिश्चेति ।
समु­त्था­न­मु­त्क्रान्तिः ।

ननु संसा­र­स्यौ­पा­धि­क­त्वा­त्स­र्व­दै­वा­भेद इत्याशङ्क्य दृष्टान्तबलेन संसारस्य स्वाभा­वि­क­त्व­मि­त्याह
क्वचिच्चेति ।

'यथा नद्यः स्यन्दमानाः समुद्रेस्तं गच्छन्ति नामरूपे विहाय' इति नदीनिदर्शनं व्याचष्टे
यथा लोक इति ॥ २१ ॥

सिद्धान्तमाह
अवस्थितेरिति ।
अत्य­न्ता­भे­द­ज्ञा­प­नार्थं जीवमुपक्रम्य द्रष्ट­व्य­त्वा­दयो ब्रह्मधर्मा उक्ता इत्यर्थः । एतेन जीवलिङ्गानां ब्रह्म­प­र­त्व­क­थ­ना­र्थ­मि­द­म­धि­क­रणं न भवति, प्रतर्दनाधिकरणे कथितत्वात् । नापि जीवानुवादेन ब्रह्म­प्र­ति­पा­द­ना­र्थम् , 'सुषु­प्त्यु­त्क्रान्त्योः' इत्यत्र गतत्वात् । अतो व्यर्थ­मि­द­म­धि­क­र­ण­मिति निरस्तम् । जीवोद्देशेन ब्रह्म­त्व­प्र­ति­पा­दने भेदोऽप्यावश्यक इति भेदा­भे­द­श­ङ्का­प्राप्तौ कल्पि­त­भे­दे­नो­द्दे­श्य­त्वा­दिकं स्वतोऽ­त्य­न्ता­भेद इति ज्ञाप­ना­र्थ­म­स्या­र­म्भात् । ज्ञापने चात्र लिङ्ग­मा­त्म­श­ब्दे­नो­प­क्रा­न्तस्य जीवस्य धर्मिणो ब्रह्मणो धर्म्यन्तरस्य ग्रहणं विनैव ब्रह्मधर्मकथनं भेदाभेदे धर्मिद्वयग्रहः स्यादिति मन्तव्यम् । धीरः सर्वज्ञः ।

सर्वाणि रूपाणि कार्याणि विचित्य सृष्ट्वा तेषां नामानि च कृत्वा तेषु बुद्ध्यादिषु प्रवि­श्या­भि­व­द­ना­दिकं कुर्वन् यो वर्तते तद्वि­द्वा­नि­है­वा­मृतो भवतीति मन्त्रोऽपि जीवपरयोरैक्यं दर्शयतीत्याह
मन्त्रेति ।

जीवस्य ब्रह्म­वि­का­र­त्वा­न्नै­क्य­मि­त्यत आह
नच तेज इति ।

मतत्रयं विभज्य दर्शयति
काशेत्यादिना ।

कियानपीति ।
अभे­द­व­द्भे­दोऽ­पी­त्यर्थः ।

तत्रान्त्यस्य मत­स्यो­पा­दे­य­त्व­माह
तत्र काशेति ।
सोऽयं देवदत्त इति­व­त्त­त्त्व­म­स्या­दि­वा­क्येभ्यः परा­प­र­यो­र­त्य­न्ता­भेदः प्रति­पा­द­यि­तु­मि­ष्टोऽर्थः, तद­नु­सा­रि­त्वा­दि­त्यर्थः,

ज्ञाना­न्मु­क्ति­श्रु­त्य­न्य­था­नु­प­प­त्त्या­प्य­य­मेव पक्ष आदेय इत्याह
एवं चेति ।
अत्यन्ताभेदे सतीत्यर्थः । कल्पितस्य भेदस्य ज्ञाना­न्नि­वृत्तिः सम्भवति न सत्यस्येत्यपि द्रष्टव्यम् ।

यदुक्तं नदी­दृ­ष्टा­न्ता­त्सं­सारः स्वाभाविक इति, तन्नेत्याह
अतश्चेति ।
अना­म­रू­प­ब्र­ह्म­त्वा­ज्जी­व­स्ये­त्यर्थः ।

उत्प­त्ति­श्रुत्या जीवस्य ब्रह्मणा भेदाभेदावित्यत आह
अत एवेति ।
उत्पत्तेः स्वाभाविकत्वे मुक्त्य­यो­गा­दे­वे­त्यर्थः ।

अत्र पूर्वपक्षे बीजत्रयमुक्तं जीवेनोपक्रमः परस्यैव समु­त्था­न­श्रुत्या जीवाभेदाभिधानं विज्ञा­तृ­श­ब्द­श्चेति । तत्राद्यं बीजं त्रिसूत्र्या निरस्तम् । सम्प्रति द्वितीयमनूद्य तथैव निराचष्टे
यद­प्यु­क्त­मि­त्या­दिना ।
आत्म­ज्ञा­ना­त्स­र्व­वि­ज्ञानं यत्प्रतिज्ञातं तत्र हेतुः 'इदं सर्वं यदयमात्मा' इत्यव्यतिरेक उक्तस्तस्य प्रति­पा­द­ना­त्त­देव प्रति­ज्ञा­त­मु­प­पा­दि­त­मिति योजना । एकस्मात्प्रसवो यस्य, एकस्मिन्प्रलयो यस्य तद्भा­वा­दि­त्यर्थः । समु­त्था­न­म­भे­दा­भि­धा­न­मिति यावत् ।

जन्मनाशावुक्तौ नाभेद इत्याक्षिप्य परिहरति
नन्वित्यादिना ।

मृतस्य संज्ञा नास्तीति वाक्येऽत्रैव मां मोहितवानसि ज्ञान­रू­प­स्या­त्मनो ज्ञानाभावे नाशप्रसङ्गादिति मैत्रेय्योक्तो मुनिराह
न वा अरे इति ।
मोहं मोहकरं वाक्यम् , अविनाशी नाशहेतुशून्यः, अत उच्छित्तिधर्मा नाशवान्न भव­ती­त्य­नु­च्छि­त्ति­ध­र्मे­त्यर्थः ।

तृतीयं बीजं तृतीयेन मतेनैव निरसनीयमित्याह
यदपीत्यादिना ।
आद्यमतद्वयेऽपि सत्य­भे­दा­ङ्गी­का­रा­त्के­ने­त्या­क्षेपो न युक्तः । काशकृत्स्नस्य मते त्वत्य­न्ता­भे­दा­द्वि­ज्ञा­नस्य कारकाभावात्स युक्त इति श्रुत्य­नु­सा­रि­त्वा­त्त­न्मते मनःकल्पितं विज्ञातृत्वं मुक्ते ब्रह्मात्मनि भूत­पू­र्व­ग­त्यो­क्त­मिति परि­ह­र­णी­य­मि­त्यर्थः ।

किञ्च पूर्वा­प­र­प­र्या­लो­च­नया वाक्यस्य मुक्ता­त्म­प­र­त्वा­व­ग­मा­द्वि­ज्ञा­तृत्वं कल्पि­त­मे­वा­नू­द्यत इति न तल्लिङ्गेन जीवपरत्वमित्याह
अपि चेति ।

आर्षेषु पक्षेषु काश­कृ­त्स्न­प­क्ष­स्यै­वा­दे­यत्वे किं बीजम् , तदाह
दर्शितमिति ।
अत­श्च­श्रु­ति­म­त्त्वाच्च ।

पुनरपि श्रुति­स्मृ­ति­म­त्त्व­माह
सदेवेत्यादिना ।
हेतूनां भेदो न पारमार्थिक इति प्रतिज्ञया सम्बन्धः ।

भेदाभेदपक्षे जीवस्य जन्मा­दि­वि­का­र­व­त्त्वा­त्त­न्नि­षेधो न स्यादित्याह
स वा एष इति ।

भेदस्य सत्यत्वे तत्प्रमया बाधादहं ब्रह्मेति निर्बाधं ज्ञानं न स्यादित्याह
अन्यथाचेति ।

अभेदस्यापि सत्त्वा­त्प्र­मे­त्या­शङ्क्य भेदा­भे­द­यो­र्वि­रो­धा­त्सं­शयः स्यादित्याह
सुनिश्चितेति ।

मास्तु निर्बा­ध­ज्ञा­न­मि­त्यत आह
निरपवादमिति ।

अहं ब्रह्मे­त्य­बा­धि­त­नि­श्च­य­स्यैव शोका­दि­नि­व­र्त­क­त्व­मि­त्यत्र स्मृतिमप्याह
स्थितेति ।
आत्यन्तिकैकत्वे हि प्रज्ञा प्रतिष्ठिता भवति न भेदाभेदयोरिति भावः ।

ननु जीवपरमात्मानौ स्वतो भिन्नौ, अप­र्या­य­ना­म­व­त्त्वात् , स्तम्भ­कु­म्भ­व­दि­त्यत आह
स्थिते चेति ।

कथं तर्ह्य­प­र्या­य­ना­म­भेद इत्याशङ्क्य जीव­त्वे­श्व­र­त्वा­दि­नि­मि­त्त­भे­दा­दि­त्याह
एको हीति ।
किञ्चा­वि­द्या­त­ज्ज­बु­द्धि­रू­पायां गुहायां स्थितो जीवो भवति, तस्यामेव ब्रह्म निहितमिति श्रुतेः ।

स्थानैक्याज्जीव एव ब्रह्मेत्याह
नहीति ।

काञ्चि­दे­वै­का­मिति ।
जीव­स्था­ना­द­न्या­मि­त्यर्थः ।

नन्वेकस्यां गुहायां द्वौ किं न स्यातामित्यत आह
नचेति ।
स्रष्टुरेव प्रवेशेन जीवत्वान्न भेदः । नन्वत्यन्ताभेदे जीवस्य स्पष्ट­भा­ना­द्ब्र­ह्मापि स्पष्टं स्यादतः स्पष्ट­त्वा­स्प­ष्ट­त्वाभ्यां तयोर्भेद इति चेत् । न । दर्पणे प्रतिबिम्बस्य स्फुटत्वेऽपि बिम्ब­स्या­स्फु­ट­त्व­व­त्क­ल्पि­त­भे­देन विरु­द्ध­ध­र्म­व्य­व­स्थो­प­पत्तेः ।

सत्यभेदे येषा­मा­ग्र­ह­स्तेषां दोषमाह
ये त्विति ।
सोऽय­मि­ति­व­त्त­त्त्व­म­सी­त्य­का­र्य­का­र­ण­द्र­व्य­सा­मा­ना­धि­क­र­ण्या­द­त्य­न्ता­भेदो वेदा­न्ता­र्थ­स्त­द्बोध एव निःश्रेयससाधनं तस्य बाधो न युक्त इत्यर्थः । किञ्च भेदभेदवादिनो ज्ञानकर्मभ्यां कृतकं मोक्षं कल्पयन्ति, तत्रानित्यत्वं दोषः । यत्तु कृतकमपि नित्यमिति, तच्च 'यत्क्रि­या­साध्यं तदनित्यम्' इति न्यायबाधितम् । अस्माकं त्वनर्थध्वंसस्य ज्ञान­सा­ध्य­त्वा­न्नि­त्य­मु­क्ता­त्म­मा­त्र­त्वाच्च नानित्यत्वदोष इति भावः । तस्मा­न्मै­त्रे­यी­ब्रा­ह्मणं प्रत्य­ग्ब्र­ह्मणि समन्वितमिति सिद्धम् ॥ २२ ॥

प्रकृतिश्चेति । लक्ष­ण­सू­त्रे­णास्य सङ्गतिं वक्तुं वृत्तं स्मारयति
यथेति ।
तत्र हि ब्रह्मणो बुद्धि­स्थ­त्वार्थं सामान्यतो जगत्कारणत्वं लक्षणमुक्तम् , तेन बुद्धिस्थे ब्रह्मणि कृत्स्न­वे­दा­न्त­स­म­न्वयं प्रतिपाद्य तत्कारणत्वं किं कर्तृ­त्व­मा­त्र­मुत प्रकृ­ति­त्व­क­र्तृ­त्वो­भ­य­रू­प­मिति । विशे­ष­जि­ज्ञा­सा­य­मि­द­मा­र­भ्यते । तथाच सामान्यज्ञानस्य विशे­ष­चि­न्ता­हे­तु­त्वा­त्ते­नास्य सङ्गतिः । यद्यपि तदानन्तर्यमस्य युक्तं तथापि निश्चि­त­ता­त्प­र्यै­र्वे­दान्तैः कर्तृ­मा­त्रे­श्व­र­म­त­नि­रासः सुकर इति समन्वयान्ते इदं लिखितम् । लक्ष­ण­सू­त्र­स्या­ध्या­या­दि­स­ङ्ग­त­त्वा­द­स्या­प्य­ध्या­या­दि­स­ङ्गतिः ।

पूर्वत्र सर्व­वि­ज्ञा­न­प्र­ति­ज्ञाया मुख्य­त्वा­द्वा­क्यस्य जीवपरत्वं निरस्तम् , तदयुक्तम् , कर्त्रु­पा­द­न­यो­र्भे­देन प्रतिज्ञाया गौण­त्वा­दि­त्या­क्षि­पति
तत्र निमि­त्ते­त्या­दिना ।

पूर्वो­त्त­र­प­क्ष­यो­र्द्वै­ता­द्वै­त­सिद्धिः फलम्
ईक्षापूर्वकेति ।
ईक्षणश्रुत्या कर्तृत्वं निश्चितम् , तथा च ब्रह्म न प्रकृतिः, कर्तृत्वात् , यो यत्कर्ता स तत्प्रकृतिर्न, यथा घटकर्ता कुलाल इत्यर्थः ।

जग­त्भि­न्न­क­र्त्रु­पा­दा­न­कम् , कार्य­त्वा­त्घ­ट­व­दि­त्याह
अनेकेति ।

ब्रह्म नोपादानम् , ईश्वरत्वात् , राजादिवदित्याह
ईश्वरत्वेति ।

जगन्न ब्रह्म­प्र­कृ­ति­कम् , तद्वि­ल­क्ष­ण­त्वात् , यदित्थं तत्तथा कुला­ल­वि­ल­क्ष­ण­घ­ट­व­दि­त्याह
कार्यं चेति ।

निष्कलं निरवयवम् , निष्क्रियमचलम् , शान्तमपरिणामि, निरवद्यं निर­स्त­स­म­स्त­दो­षम् । तत्र हेतुः
निरञ्जनमिति ।
अञ्ज­न­तु­ल्य­त­मः­शू­न्य­मि­त्यर्थः ।

तर्हि जगतः सदृशोपादानं किमित्यत आह
पारिशेष्यादिति ।

ब्रह्मनिषेधे प्रधानं परिशिष्यत इत्यभिमन्यमानः सिद्धान्तयति
प्रकृतिश्चेति ।
चका­रा­न्नि­मि­त्त­त्व­ग्रहः ।

एवमुभयरूपे कारणत्वे तयोरबाधो भवतीत्याह
एवमिति ।

कर्तृज्ञानादपि सर्वकार्यज्ञानं किं न स्यादित्यत आह
निमि­त्त­का­र­णा­व्य­ति­रे­क­स्त्विति ।

मृदा­दी­ना­मु­पा­दा­नानां दृष्टा­न्त­त्वा­द्दा­र्ष्टा­न्ति­कस्य ब्रह्मण उपादानत्वं वाच्यमित्याह
दृष्टान्तोऽपीति ।
वागारभ्यं नाममात्रं विकारो न वस्तुतोऽस्तीति सत्य­का­र­ण­ज्ञा­ना­द्वि­का­र­ज्ञानं युक्तमित्यर्थः ।

गतिसामान्यार्थं मुण्डकेऽपि प्रति­ज्ञा­दृ­ष्टा­न्ता­वाह
तथान्यत्रापीति ।

बृहदारण्यकेऽपि तावाह
तथात्मनीति ।
घटः स्फुर­ती­त्य­नु­ग­त­स्फु­रणं प्रकृ­ति­स्त­द­ति­रे­केण विकारा न सन्तीति सोऽयमर्थो यथा स्फुटः तथा दृष्टान्तः स उच्यते । हन्य­मा­न­दु­न्दु­भि­ज­न्या­च्छ­ब्द­सा­मा­न्या­द्बा­ह्यान् विशेषशब्दान् सामा­न्य­ग्र­ह­णा­ति­रि­केण पृथग्ग्रहीतुं श्रोता न शक्नुयात् । सामान्यस्य तु ग्रहणेन दुन्दु­भ्या­घा­त­ज­श­ब्द­वि­शेषो गृहीतो भवति, तस्य वा ग्रहणेन तद­वा­न्त­र­वि­शे­ष­शब्दो गृहीतो भवति । अतः शब्द­सा­मा­न्य­ग्र­ह­ण­ग्राह्या विशेषाः सामान्ये कल्पिताः, तद्व­दा­त्म­भा­न­भास्या घटादय आत्मनि कल्पिता इत्यर्थः ।

प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धा­ल्लि­ङ्गा­द्ब्र­ह्मणः प्रकृ­ति­त्व­मुक्त्वा पञ्च­मी­श्रु­त्या­प्याह
यत इति ।
'यतो वा' इत्यत्र श्रुतौ यत इति पञ्चमी प्रकृतौ द्रष्ट­व्ये­त्य­न्वयः । जनि­क­र्तु­र्जा­य­मा­नस्य कार्यस्य प्रकृ­ति­र­पा­दा­न­सं­ज्ञिका भवतीति सूत्रार्थः । संज्ञायाः फलं 'अपादाने पञ्चमी' इति सूत्रात्प्रकृतौ पञ्चमीलाभः ।

एवं ब्रह्मणः प्रकृतित्वं प्रसाध्य कर्तृत्वं साधयति
निमित्तत्वमिति ।

ब्रह्म स्वाति­रि­क्त­क­र्त्र­धि­ष्ठे­यम् , प्रकृतित्वात् , मृदा­दि­व­दि­त्या­द्य­नु­मा­ना­ना­मा­ग­म­बा­ध­क­माह
प्रागु­त्प­त्ते­रिति ।

जगत्कर्तृ ब्रह्मै­वे­त्य­त्रापि सूत्रं योजयति
अधि­ष्ठा­त्र­न्त­रेति ॥ २३ ॥

एकस्योभयरूपं कार­ण­त्व­म­वि­रु­द्ध­मिति सूत्रचतुष्टयेन साधयति
कुतश्चेत्यादिना ।

अभिध्या सृष्टिसङ्कल्पः ॥ २४ ॥

अभ्युच्चयो
हेत्वन्तरम् । आका­शा­दे­वे­त्ये­व­का­र­सू­चि­त­मु­पा­दा­ना­न्त­रा­नु­पा­दा­न­म­ग्र­हणं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ॥ २५ ॥

आत्मसम्बन्धिनी कृतिरात्मकृतिः । सम्ब­न्ध­श्चा­त्मनः कृतिं प्रति विष­य­त्व­मा­श्र­यत्वं च । ननु कृते­रा­श्र­यः­सि­द्धो­भ­वति विषयस्तु साध्य इत्येकस्योभयं विरु­द्ध­मि­त्या­श­ङ्कते
कथं पुनरिति ।

यथा मृदः साध्य­प­रि­णा­मा­भे­देन कृतिविषयत्वं तद्वदात्मन इत्याह
परिणामादिति ।

आत्मानमिति ।
अविरोध इति शेषः ।

सिद्धस्यापि साध्यत्वे दृष्टान्तमाह
विकारात्मनेति ।

ननु ब्रह्मण आत्मानमिति द्वितीयया कार्यात्मना साध्य­त्व­श्रु­त्यास्तु प्रकृतित्वं कर्ता त्वन्योऽ­स्त्वि­त्यत आह
स्वयमिति चेति ।

ब्रह्मणः कृति­क­र्म­त्वो­प­पा­द­नार्थं परिणामादिति पदं व्याख्या­या­न्य­थापि व्याचष्टे
पृथक्सूत्रमिति ।
मृद्घट इतिवद्ब्रह्म सच्च त्यच्चेति परि­णा­म­सा­मा­ना­धि­क­र­ण्य­श्रु­ते­र्ब्र­ह्मणः प्रकृ­ति­त्व­मि­त्यर्थः । सत्प्रत्यक्षं भूतत्रयम् , त्यत्परोक्षं भूतद्वयम् , निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकं च ब्रह्मै­वा­भ­व­दि­त्यर्थः । अत्र सूत्रे परिणामशब्दः कार्यमात्रपरः, नतु सत्य­का­र्या­त्म­क­प­रि­णा­म­परः, 'तद­न­न्य­त्वम्' इति विवर्तवादस्य वक्ष्यमाणत्वात् ॥ २६ ॥

योनिशब्दाच्च प्रकृ­ति­त्व­मि­त्याह
योनिश्चेति ।
कर्तारं क्रिया­श­क्ति­म­न्तम् , ईशं नियन्तारम् , पुरुषं प्रत्यञ्चम् , ब्रह्म पूर्णम् , योनिं प्रकृतिम् , धीरा ध्यानेन पश्यन्तीत्यर्थः ।

नन्वनुपादानेऽपि स्त्रीयोनौ योनिशब्दो दृष्ट इत्यत आह
स्त्रीयोनेरिति ।
शोणि­त­म­व­य­व­श­ब्दार्थः ।

योनिशब्दस्य स्थानमप्यर्थो भवति सोऽत्र भूत­यो­न्या­दि­श­ब्दैर्न ग्राह्यः, उर्ण­ना­भ्या­दि­प्र­कृ­त­दृ­ष्टा­न्त­वा­क्य­शे­ष­वि­रो­धा­दि­त्याह
क्वचिदिति ।
हे इन्द्र, ते तव निषदे उपवेशनाय योनिः, स्थानं मया अकारि कृतमित्यर्थः ।

पूर्व­प­क्षो­क्ता­नु­मा­नानि अनूद्यागमबाधमाह
यत्पु­न­रि­त्या­दिना ।

नन्वनुमानस्य श्रुत्य­न­पे­क्ष­त्वान्न तया बाध इत्यत आह
नहीति ।
जगत्कर्ता पक्षः श्रुत्यैव सिद्ध्यति, या कृतिः सा शरीरजन्येति व्याप्तिविरोधेन नित्य­कृ­ति­म­तोऽ­नु­मा­ना­स­म्भ­वात् । अतः श्रौतमीश्वरं पक्षी­कृ­त्या­नु­पा­दा­न­त्व­सा­धने भव­त्ये­वो­प­जी­व्यया प्रकृ­ति­त्व­बो­ध­क­श्रुत्या बाध इत्यर्थः ।

यदुक्तं विल­क्ष­ण­त्वा­द्ब्र­ह्मणो न जग­दु­पा­दा­न­त्व­मिति, तत्राह
पुनश्चेति ।
'न विल­क्ष­ण­त्वात्' इत्या­र­भ्ये­त्यर्थः । अत उभयरूपं कारणत्वं ब्रह्मणो लक्षणमिति सिद्धम् ॥ २७ ॥

एतेन सर्वे व्याख्याताः । अस्या­ति­दे­शा­धि­क­र­णस्य तात्पर्यं वक्तुं वृत्तमनुवदति
ईक्षतेरिति ।

प्रधानवादस्य प्राधान्येन निराकरणे हेतूनाह
तस्य हीत्यादिना ।

तर्ह्य­ण्वा­दि­वादा उपेक्षणीयाः, दुर्ब­ल­त्वा­दि­त्यत आह
तेऽपि त्विति ।

निर्मूलास्ते कथं प्रतिपक्षा इत्यत आह
तेषामिति ।
तथा हि छान्दोग्ये जग­त्का­र­ण­त्व­ज्ञा­प­नार्थं पिता पुत्रमुवाच, आसां वटधानानां मध्ये एकां भिन्धीति । भिन्ना भगव इत्युवाच पुत्रः । पुनः पित्रा किमत्र पश्यसीत्युक्ते न किञ्चन भगव इत्याह । तत्र पित्राणिमानं न पश्यसीत्युक्तम् , तथा च न किञ्च­न­श­ब्दा­च्छू­न्य­स्व­भा­व­वादौ प्रतीयेते, अणु­श­ब्दा­त्प­र­मा­णु­वाद इति । एवं 'अस­दे­वे­द­मग्र आसी­त्','अ­णो­र­णी­यान्' इत्यादिलिङ्गं द्रष्टव्यम् ।

अत्रा­ण्वा­दि­वादाः श्रौता न वेति संशये सत्य­स­द­ण्वा­दि­श­ब्द­ब­ला­च्छ्रौता इति प्राप्तेऽ­ति­दि­शति
एतेनेति ।
अस्या­ति­दे­श­त्वान्न पृथ­क्स­ङ्ग­त्या­द्य­पेक्षा । न किञ्च­ना­स­च्छ­ब्दयोः प्रत्य­क्षा­यो­ग्य­व­स्तु­प­र­त्वा­दा­णु­श­ब्दस्य सूक्ष्मा­भि­प्रा­य­त्वा­द­श­ब्द­त्वम् , तेषां वादानां प्रधा­न­वा­द­व­द­श्रौ­त­त्वम् , ब्रह्म­का­र­ण­श्रु­ति­बा­धि­तत्वं च, तस्माद्ब्रह्मैव परमकारणम् , तस्मिन्नेव सर्वेषां वेदान्तानां समन्वय इति सिद्धम् ॥ २८ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां प्रथमाध्यायस्य यतुर्थः पादः ॥ ४ ॥