भाष्यरत्नप्रभाव्याख्या
प्रथमाध्याये प्रथमः पादः (४)
हिरण्यगर्भादयः पूर्वकल्पानुसन्धानशून्यः । संसारित्वात् , अस्मादादिवादित्याशङ्क्याह
यद्यपीति ।
इति यद्यपि तथापि न प्राकृतवदिति योजना ।
ज्ञानादेर्निकर्षवदुत्कर्षोऽप्यङ्गीकार्यः, बाधाभावादिति न्यायानुगृहीतश्रुत्यादिभिः सामान्यतो दृष्टानुमानं बाध्यमित्याह
यथा हीत्यादिना ।
ननु तथापि पूर्वकल्पेश्वराणां मुक्तत्वादस्मिन्कल्पे कोऽनुसन्धातेत्यत आह
ततश्चेति ।
ज्ञानाद्युत्कर्षादित्यर्थः । मुक्तेभ्योऽन्येऽनुसन्धातार इति भावः ।
परमेश्वरानुगृहीतानां ज्ञानातिशये पूर्वोक्तश्रुतिस्मृतिवादानाह
तथा चेति ।
पूर्वं कल्पादौ सृजति तस्मै ब्रह्मणे प्रहिणोति गमयति तस्य बुद्धौ वेदानाविर्भावयति यस्तं देवं स्वात्माकारं महावाक्योत्थबुद्धौ प्रकाशमानं शरणं परममभयस्थानं निःश्रेयसरूपमहं प्रपद्य इत्यर्थः ।
न केवलमेकस्यैव ज्ञानातिशयः किन्तु बहूनां शाखाद्रष्टृणामिति विश्वासार्थमाह
स्मरन्तीति ।
ऋग्वेदो दशमण्डलावयवास्तत्र भवा ऋचो दाशतम्यः । वेदान्तरेऽपि काण्डसूक्तमन्त्राणां द्रष्टारो बौधायनादिभिः स्मृता इत्याह
प्रतीति ।
किञ्च मन्त्राणामृष्यादिज्ञानावश्यकत्वज्ञापिका श्रुतिर्मन्त्रदृगृषीणां ज्ञानातिशयं दर्शयतीत्याह
श्रुतिरपीति ।
आर्षेय ऋषियोगः, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगः, एतान्यविदितानि यस्मिन्मन्त्रे तेनेत्यर्थः । स्थाणुं स्थावरम् , गर्तं नरकम् । तथाच ज्ञानाधिकैः कल्पान्तरितं वेदं स्मृत्वा व्यवहारस्य प्रवर्तितत्वाद्वेदस्यानादित्वमनपेक्षत्वं चाविरूद्धमिति भावः ।
अधुना समाननामरूपत्वं प्रपञ्चयति
प्राणिनां चेति ।
ततः किम् , तत्राह
दृष्टेति ।
ऐहिकामुष्मिकविषयसुखरागकृतधर्मस्य फलं पश्वादिकं दृष्टपश्वादिसदृशमिति युक्तम् , विसदृशे कामाभावेन हेत्वभावात् । तथा दृष्टदुःखद्वेषकृताधर्मफलं दृष्टसदृशदुःखमेव न सुखम् , कृतहान्यादिदोषापत्तेरित्यर्थः ।
तर्कितेऽर्थे मानमाह
स्मृतिश्चेति ।
उत्तरसृष्टिः पूर्वसृष्टिसजातीया, कर्मफलत्वात् , पूर्वसृष्टिवदित्यनुमानं चशब्दार्थः ।
तेषां प्राणिनां मध्ये तान्येव तज्जातीयान्येव । तानि दर्शयन् तत्प्राप्तौ हेतुमाह
हिंस्रेति ।
कर्माणि विहितनिषिद्धत्वाकारेणापूर्वम् , क्रियात्वेन संस्कारं च जनयन्ति । तत्रापूर्वात्फलं भुङ्क्ते, संस्कारभावितत्वात्पुनस्तज्जातीयानि करोतीत्यर्थः ।
संस्कारे लिङ्गमाह
तस्मादिति ।
संस्कारवशादेव पुण्यं पापं वा रोचते । अतोऽभिरुचिलिङ्गात्पुण्यापुण्यसंस्कारोऽनुमेयः । स एव स्वभावः प्रकृतिर्वासनेति च गीयते ।
एवं कर्मणां सृष्टिसादृश्यमुक्त्वा स्वोपादाने लीनकार्यसंस्काररूपशक्तिबलादपि सादृश्यमाह
प्रलीयमानमिति ।
इतरथा निःसंस्कारप्रलये जगद्वैचित्र्यस्याकस्मिकत्वं स्यादित्यर्थः ।
ननु जगद्वैचित्र्यकारिण्योऽन्याः शक्तयः कल्प्यन्ताम् , तत्राह
नचेति ।
अविद्यायां लीनकार्यात्मकसंस्कारादन्याः शक्तयो न कल्प्याः मनाभावाद्गौरवाच्च । स्वोपादाने लीनकार्यरूपा शक्तिस्तु 'महान्न्यग्रोधस्तिष्ठति' 'श्रद्धत्स्व सोम्य' इतिश्रुतिसिद्धा, अतोऽविद्यातत्कार्यादन्याः शक्तयो न सन्ति आत्माविद्यैव तच्छक्तिरिति सिद्धान्त इत्यर्थः । निमित्तेष्वप्युपादनस्थं कार्यमेवाविद्याघटनया शक्तिरन्या वेत्यनाग्रहः ।
उपादाने कार्यसंस्कारसिद्धेः फलमाह
ततश्चेति ।
यथा सुप्तोत्थितस्य पूर्वचक्षुर्जातीयमेव चक्षुर्जायते तच्च पूर्वरूपजातीयमेव रूपं गृह्णाति न रसादिकम् , एवं भोग्या लोका भोगाश्रयाः प्राणिनिकाया भोगहेतुकर्माणि संस्कारबलात्पूर्वलोकादितुल्यान्येवेति नियम इत्यर्थः । निकायाः समूहाः ।
दृष्टान्तासिद्धिमाशङ्क्यमाह
न हीति ।
यथा षष्ठेन्द्रियस्य मनसोऽसाधारणविषयो नास्ति, सुखादेः साक्षिवेद्यत्वात् , तथा व्यवहारान्यथात्वमसदित्यर्थः । षष्ठमिन्द्रियं तद्विषयश्चासन्निति वार्थः ।
उक्तार्थं सङ्क्षिपति
अतश्चेति ।
व्यवहारसाम्यात्सम्भवाच्च व्यवह्रियमाणा व्यक्तयः समाना एवेत्यर्थः ।
सूत्रे योजयति
समानेत्यादिना ।
भाविदृष्ट्या यजमानोऽग्निः अन्नादोऽरग्निरहं स्यामिति कामयित्वा कृत्तिकानक्षत्राभिमानिदेवायाग्नये अष्टसु कपालेषु पचनीयं हविर्निरुप्तवानित्यर्थः । नक्षत्रव्यक्तिबहुत्वाद्बहुवचनम् । [ननु यजमानोऽग्निर्भावी उद्देश्याग्निना समाननामरूपः कल्पान्तरे भवति । एवं 'रुद्रो वा अकामयत' 'विष्णुर्वा अकामयत' इत्यत्रापि तथा वक्तव्यम् , तदयुक्तम् । न ह्यग्नेरिव विष्णुरुद्रयोरधिकारिपुरुषत्वम् , तयोर्जगत्कारणत्वश्रवणात् । 'एक एव रुद्रो न' इति । 'एको विष्णुः' इत्यादि श्रुतिस्मृतिविरोधादिति । ] स्मृतौ वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतूनां वसन्तादीनां लिङ्गानि नवपल्लवादिनि । पर्यये घटीयन्त्रवदावृत्तौ । भावाः पदार्थाः तुल्या इति शेषः । तस्माज्जन्मनाशवद्विग्रहाङ्गीकारेऽपि कर्मणि शब्दे च विरोधाभावाद्देवानामस्ति विद्याधिकार इति स्थितम् ॥ ३० ॥
आक्षिपति
मध्वादिष्विति ।
ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदित्यर्थः ।
दृष्टान्तं विवृणोति
कथमित्यादिना ।
द्युलोकाख्यवंशदण्डे अन्तरिक्षरूपे मध्वपूपे स्थित आदित्यो देवानां मोदनान्मध्विव मध्वित्यारोप्य ध्यानं कार्यम् । तत्रादित्यस्याधिकारो न युक्तः, ध्यातृध्येयभेदाभावादित्याह
देवादिष्विति ।
अस्तु वस्वादीनां तत्राधिकार इत्याशङ्क्य तेषामपि तत्र ध्येयत्वात्प्राप्यत्वाच्च न ध्यातृत्वमित्याह
पुनश्चेति ।
चतुर्वेदोक्तकर्माणि प्रणवश्चेति पञ्च कुसुमानि, तेभ्यः सोमाज्यादिद्रव्याणि हुतानि लोहितशुक्लकृष्णपरः कृष्णगोप्याख्यानि पञ्चामृतानि तत्तन्मन्त्रभागैः प्रागाद्यूर्ध्वान्तरपञ्चदिगवस्थिताभिरादित्यरश्मिनाडीभिर्मध्वपूपस्थितच्छिद्ररूपाभिरादित्यमण्डलमानीतानि यशस्तेज इन्द्रियवीर्यान्नात्मना परिणतानि पञ्चदिक्षु स्थितैर्वस्वादिभिरूपजीव्यानीति ध्यायतो वस्वादिप्राप्तिरुक्तेत्यर्थः ।
सूत्रस्थादिपदार्थमाह
तथाग्निरिति ।
आकाशब्रह्मणश्चत्वारः पादाः, द्वौ कर्णौ, द्वे नेत्रे, द्वे नासिके, एका वागिति सप्तस्विन्द्रियेषु शिरश्चमसतीरस्थेषु सप्तर्षिध्यानं कार्यमित्याह
तथेमावेवेति ।
अथ दक्षिणः कर्णः गौतमः, वामो भारद्वाजः, एवं दक्षिणनेत्रनासिके विश्वामित्रवसिष्ठौ, वामे जमदग्निकश्यपौ, वागत्रिरित्यर्थः । अत्र ऋषीणां ध्येयत्वान्नाधिकारः ॥ ३१ ॥
किञ्च विग्रहाभावाद्देवादीनां न क्वाप्यधिकार इत्याह
ज्योतिषि भावाच्चेति ।
आदित्यः सूर्यश्चन्द्रः शुक्रोऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेषु प्रयोगस्य भावात्सत्त्वान्न विग्रहवान्देवः कश्चिदस्तीत्यर्थः ।
'आदित्यः पुरस्तादुदेता पश्चादस्तमेता' इति मधुविद्यावाक्यशेषे ज्योतिष्येवादित्यशब्दः प्रसिद्धः । तर्हि ज्योतिःपिण्डानामेवाधिकारोऽस्तु, तत्राह
न चेति ।
अग्न्यादीनामधिकारमाशङ्क्याह
एतेनेति ।
अग्निर्वायुर्भूमिरित्यादिशब्दानामचेतनवाचित्वेनेत्यर्थः ।
सिद्धान्ती शङ्कते
स्यादेतदित्यादिना ।
'वज्रहस्तः पुरन्दरः' इत्यादयो मन्त्राः । 'सोऽरोदीत्' इत्यादयोऽर्थवादाः । 'इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः' । 'ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः' । इत्यादीतिहासपुराणानि । लोकेऽपि यमं दण्डहस्तं लिखन्ति, इन्द्रं वज्रहस्तमिति विग्रहादिपञ्चकसद्भावादनधिकारदोषो नास्तीत्यर्थः । 'विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता । फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम् ' ॥
मानाभावादेतन्नास्तीति दूषयति
नेत्यादिना ।
न चात्रेति ।
विग्रहादावित्यर्थः ।
आर्थवादा मन्त्रा वा मूलमित्याशङ्क्याह
अर्थवादा इत्यादिना ।
व्रीह्यादिवद्प्रयोगविधिगृहीता मन्त्राः प्रयोगसम्बन्द्धाभिधानार्था नाज्ञातविग्रहादिपरा इति मीमांसका आचक्षत इत्यर्थः । तस्मात् विग्रहाभावादित्यर्थः ॥ ३२ ॥
सूत्राभ्यां प्राप्तं पूर्वपक्षं निरस्यति
तुशब्द इत्यादिना ।
ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदिति उक्तहेतुरप्रयोजक इत्याह
यद्यपीति ।
दर्शादिकम् , न ब्राह्मणमधिकरोति, कर्मत्वात् , राजसूयादिवदिति आभाससाम्यं विद्यात्वहेतोराह
नचेति ।
यत्र यस्याधिकारः सम्भवति स तत्राधिकारीति न्यायस्तुल्य इत्यर्थः । यतः सर्वेषां सर्वत्राधिकारो न सम्भवति ततो न चापोद्येतेत्यन्वयः । तद्ब्रह्म यो यो देवादीनां मध्ये प्रत्यक्त्वेनाबुध्यत स तद्ब्रह्माभवदित्यर्थः । ते ह देवा ऊचुरन्योन्यम् , तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापतिं ब्रह्मविद्याप्रदं जग्मतुरिति च लिङ्गमस्तीत्यर्थः ।
किमत्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवादीनामधिकारलिङ्गमित्याह
स्मार्तमिति ।
यथा बालानां गोलकेषु चक्षुरादिपदप्रयोगेऽपि शास्त्रज्ञैर्गोलकातिरिक्तेन्द्रियाणि स्वीक्रियन्ते, यथा ज्योतिरादौ सूर्यादिशब्दप्रयोगेऽपि विग्रहवद्देवता स्वीकार्या इत्याह
ज्योतिरादीति ।
तथा चेतनत्वेन व्यवहारादित्यर्थः ।
एकस्य जडचेतनोभयरूपत्वं कथम् , तत्राह
अस्तिहीति ।
तथाहि विग्रहवत्तया देवव्यवहारःश्रूयते । सुब्रह्मण्य उद्गातृगणस्थ ऋत्विक्तत्सम्बन्धी योऽर्थवादः इन्द्र, अगच्छऽइत्यादिः । तत्र मेधातिथेर्मेष, इतीन्द्रसम्बोधनं श्रुतम् , तद्व्याचष्टे
मेधेति ।
मुनिं मेषो भूत्वा जहारेति ज्ञापनार्थं मेष, इतीन्द्रसम्बोधनमित्यर्थः ।
यदुक्तमादित्यादयो मृदादिवदचेतना एवेति, तन्न, सर्वत्र जडजडांशद्वयसत्त्वादित्याह
मृदिति ।
आदित्यादौ को जडभागः कश्चेतनांश इति, तत्राह
ज्योतिरादेस्त्विति ।
मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ स्वार्थे न प्रमाणम् , अन्यपरत्वात् , विषं भुङ्क्ष्वेति वाक्यवदित्याह
यदपीति ।
अन्यपरादपि वाक्याद्बाधाभावे स्वार्थो ग्राह्य इत्याह
अत्र ब्रूम इति ।
तात्पर्यशून्येऽप्यर्थे प्रत्ययमात्रेणास्तित्वमुदाहरति
तथाहीति ।
तृणादौ प्रत्ययोऽस्ति विग्रहादौ स नास्तीति वैषम्यं शङ्कते
अत्राहेति ।
विध्युद्देशो विधिवाक्यम् , तदेकवाक्यतया प्रशस्तो विधिरित्येवार्थवादेषु प्रत्ययः । वृत्तान्तो भूतार्थः । विग्रहादिः तद्विषयः प्रत्ययो नास्तीत्यर्थः ।
नन्ववान्तरवाक्येन विग्रहादिप्रत्ययोऽस्त्वित्यत आह
नहीति ।
सुरापानप्रत्ययोऽपि स्यादिति भावः ।
पदैकवाक्यत्ववाक्यैकवाक्यत्ववैषम्यान्मैवमित्याह
अत्रोच्यत इति ।
नञ्पदमेकं यदा सुरां पिबेदिति पदाभ्यामन्वेति तदा पदैकवाक्यमेकमेवार्थानुभवं करोति नतु पदद्वयं पृथक्सुरापानं बोधयति, तस्य विधौ निषेधानुपपत्तेर्वाक्यार्थानुभवं प्रत्यद्वारत्वात् । अर्थवादस्तु भूतार्थसंसर्गं स्तुतिद्वारं बोधयन्विधिना वाक्यैकवाक्यतां भजत इत्यस्ति विग्रहाद्यनुभव इत्यर्थः ।
नन्वर्थवादस्थपदानामवान्तरसंसर्गबोधकत्वं विना साक्षादेव विध्यन्वयोऽस्तु तत्राह
यथा हीति ।
साक्षादन्वयायोगं दर्शयति
न हीति ।
अर्थवादात्सर्वत्र स्वार्थग्रहणमाशङ्क्यार्थवादान्विभजते
तद्यत्रेति ।
तत्तत्रार्थवादेषु यत्र 'अग्निर्हिमस्य भेषजम्' इत्यादावित्यर्थः । 'आदित्यो यूपः' इत्यभेदो बाधित इति तेजस्वित्वादिगुणवादः । यत्र 'वज्रहस्तः पुरन्दरः' इत्यादौ मानान्तरसंवादविसंवादौ न स्तस्तत्र भूतार्थवाद इत्यर्थः । इति विमृश्येत्यध्याहारः ।
विग्रहार्थवादः स्वार्थेऽपि तात्पर्यवान्, अन्यपरत्वे सत्यज्ञाताबाधितार्थकशब्दत्वात् , प्रयाजादिवाक्यवदिति न्यायं मन्त्रेष्वतिदिशति
एतेनेति ।
वेदान्तानुवादगुणवादानां निरासाय हेतौ पदानि । न चोभयपरत्वे वाक्यभेदः, अवान्तरार्थस्य महावाक्यार्थत्वादिति भावः ।
विध्यनुपपत्त्यापि स्वर्गवद्देवताविग्रहोऽङ्गीकार्य इत्याह
अपिचेति ।
ननु क्लेशात्मके कर्मणि विधिः फलं विनानुपपन्न इति भवतु 'यन्न दुःखेन सम्भिन्नम्' इत्यर्थवादसिद्धः स्वर्गो विधिप्रमाणकः । विग्रहं विना विधेः कानुपपत्तिः, तामाह
न हीति ।
उद्दिश्य त्यागानुपपत्त्या चेतस्यारोहोऽङ्गीकार्य इत्यत्र श्रुतिमप्याह
यस्या इति ।
अतश्चेतस्यारोहार्थं विग्रह एष्टव्यः । किञ्च कर्मप्रकरणपाठाद्विग्रहप्रमितिः प्रयाजवत्कर्माङ्गत्वेनाङ्गीकार्या, तां विना कर्मापूर्वासिद्धेः ।
किञ्च सुप्रसन्नविग्रहवद्देवतां त्यक्त्वा शब्दमात्रं देवतेति भक्तिरयुक्तेत्याह
नच शब्देति ।
न चाकृतिमात्रं शब्दशक्यमस्तु किं विग्रहेणेति वाच्यम् , निर्व्यक्त्याकृत्ययोगात् । अतः शब्दस्यार्थाकाङ्क्षायां मन्त्रादिप्रमितविग्रहोऽङ्गीकार्य इत्याह
तत्रेति ।
एवं मन्त्रार्थवादमूलकमितिहासादिकमपि विग्रहे मानमित्याह
इतिहासेति ।
प्रमाणत्वेन सम्भवदित्यर्थः ।
व्यासादीनां योगिनां देवतादिप्रत्यक्षमपीतिहासादेर्मूलमित्याह
प्रत्यक्षेति ।
व्यासादयो देवादिप्रत्यक्षशून्याः, प्राणित्वात् , अस्मद्वदित्यनुमानमतिप्रसङ्गेन दूषयति
यस्त्वित्यादिना ।
सर्वं घटाभिन्नम् , वस्तुत्वात् , घटवदिति जगद्वैचित्र्यं नास्तीत्यपि स ब्रूयात् । तथा क्षत्रियाभावं वर्णाश्रमाभावं वर्णाश्रमाद्यव्यवस्थां च ब्रूयात् , निरङ्कुशबुद्धित्वात् । तथाच राजसूयादिशास्त्रस्य कृतादियुगधर्मव्यवस्थाशास्त्रस्य बाध इत्यर्थः ।
योगसूत्रार्थादपि देवादिप्रत्यक्षसिद्धिरित्याह
अपिचेति ।
मन्त्रजपाद्देवतासांनिध्यं तत्सम्भाषणं चेति सूत्रार्थः ।
योगमाहात्म्यस्य श्रुतिस्मृतिसिद्धत्वाद्योगिनामस्ति देवादिप्रत्यक्षमित्याह
योग इति ।
पादतलादाजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चब्रह्मरन्ध्रं पृथिव्यादिपञ्चके समुत्थिते धारणया जिते योगगुणे चाणिमादिके प्रवृत्ते योगाभिव्यक्तं तेजोमयं शरीरं प्राप्तस्य योगिनो न रोगादिस्पर्श इत्यर्थः ।
चित्रकारादिप्रसिद्धिरपि विग्रहे मानमित्याह
लोकेति ।
अधिकरणार्थमुपसंहरति
तस्मादिति ।
चिन्तायाः फलमाह
क्रमेति ।
एवमेव देवादीनां ब्रह्मविद्याधिकारे सत्येव देवत्वप्राप्तिद्वारा क्रममुक्तिफलान्युपासनानि युज्यन्ते । देवानामनधिकारे ज्ञानाभावात्क्रममुक्त्यर्थिनामुपासनेषु प्रवृत्तिर्न स्यात् , अतोऽधिकारनिर्णयात्प्रवृत्तिसिद्धिरिति भावः ॥ ३३ ॥
शुगस्यसूच्यते हि । पूर्वेणास्य दृष्टान्तसङ्गतिमाह
यथेति ।
पूर्वत्र देवादीनामधिकारसिध्यर्यं मन्त्रादीनां भूतार्थे विग्रहादौ समन्वयोक्त्या वेदान्तानामपि भूतार्थे ब्रह्मणि समन्वयो दृढीकृतः । अत्रापि शूद्रशब्दस्य श्रौतस्य क्षत्रिये समन्वयोक्त्या स दृढीक्रियत इत्यधिकरणद्वयस्य प्रासङ्गिकस्यास्मिन्समन्वयाध्यायेऽन्तर्भाव इति मन्तव्यम् । पूर्वपक्षे शूद्रस्यापि द्विजवद्वेदान्तश्रवणे प्रवृत्तिः, सिद्धान्ते तदभाव इति फलम् ।
अत्र वेदान्तविचारो विषयः, स किं शूद्रमधिकरोति न वेति सम्भवासम्भवाभ्यां सन्देहे पूर्वपक्षमाह
तत्र शूद्रस्यापीत्यादिना ।
तस्मादनग्नित्वादनवल्कृप्तोऽसमर्थः ।
विद्यार्थिनि शूद्रशब्दप्रयोगाल्लिङ्गादपि शूद्रस्याधिकार इत्याह
भवतिचेति ।
जानश्रुतिः किल षट्शतानि गवां रथं च रैक्वाय गुरवे निवेद्य मां शिक्षयेत्युवाच । ततो रैक्वो विधुरः कन्यार्थी सन्निदमुवाच । अहेति निपातः खेदार्थः । हारेण निष्केण युक्त इत्वा गन्ता रथो हारेत्वा स च गोभिः सह हे शूद्र, तवैवास्तु किमल्पेनानेन मम गार्हस्थ्यानुपयोगिनेति भावः ।
अर्थित्वादिसम्भवे श्रेयःसाधने प्रवृत्तिरुचिता स्वाभाविकत्वादिति न्यायोपेताल्लिङ्गादित्याह
तस्मादिति ।
सूत्राद्बहिरेव सिद्धान्तयति
न शूद्रस्याधिकार इत्यादिना ।
आपाततो विदितो वेदार्थो येन तस्येत्यर्थः । अध्ययनविधिना संस्कृतो वेदस्तदुत्थमापातज्ञानं च वेदार्थविचारेषु शास्त्रीयं सामर्थ्यम् , तदभावाच्छूद्रस्यार्थित्वादिसम्भवन्यायासिद्धेर्नास्ति वेदान्तविचाराधिकार इत्यर्थः । यद्वाध्ययनसंस्कृतेन वेदेन विदितो निश्चितो वेदार्थो येन तस्य वेदार्थेषु विधिष्वधिकारो नान्यस्य, अनधीतवेदस्यापि वेदार्थानुष्ठानाधिकारेऽध्ययनविधिवैयर्थ्यापातात् । अतः फलपर्यन्तब्रह्मविद्यासाधनेषु श्रवणादिविधिषु शूद्रस्यानधिकार इत्यर्थः ।
अधीतवेदार्थज्ञानवत्त्वरूपस्याध्ययनविधिलभ्यस्य सामर्थ्यस्याभावादिति न्यायस्य तुल्यत्वात् , यज्ञपदं वेदार्थोपलक्षणार्थमित्याह
न्यायस्य साधारणत्वादिति ।
तस्माच्छूद्र इति तच्छब्दपरामृष्टन्यायस्य यज्ञब्रह्मविद्ययोस्तुल्यत्वादित्यर्थः ।
पूर्वोक्तं लिङ्गं दूषयति
यदिति ।
असामर्थ्यन्यायेनार्थित्वादिसम्भवन्यायस्य निरस्तत्वादित्यर्थः ।
ननु 'निषादस्थपतिं याजयेत्' इत्यत्राध्ययनाभावोऽपि निषादशब्दान्निषादस्येष्टाविव शूद्रशब्दाच्छूद्रस्य विद्यायामधिकारोऽस्त्वित्याशङ्क्य संवर्गविद्यायामधिकारमङ्गीकरोति
काममिति ।
तद्विषयत्वात्तत्र श्रुतत्वादित्यर्थः ।
वस्तुतस्तु विधिवाक्यस्थत्वान्निषादशब्दोऽप्यधिकारिसमर्पकः, शूद्रशब्दस्तु विद्याविधिपरार्थवादस्थो नाधिकारिणं बोधयति, असामर्थ्यन्यायविरोधेनान्यपरशब्दस्य स्वार्थबोधित्वासम्भवादिति मत्वाङ्गीकारं त्यजति
अर्थवादेति ।
तर्हि शूद्रशब्दस्यात्र श्रुतस्य कोऽर्थ इत्याशङ्क्य सूत्रेणार्थमाह
शक्यते चेत्यादिना ।
जानश्रुतिर्नाम राजा निदाघसमये रात्रौ प्रासादतले सुष्वाप, तदा तदीयान्नदानादिगुणगणतोषिता ऋषयोऽस्य हितार्थं हंसा भूत्वा मालारूपेण तस्योपर्याजग्मुः, तेषु पाश्चात्यो हंसोऽग्रेसरं हंसमुवाच, भो भो भद्राक्ष, किं न पश्यसि जानश्रुतेरस्य तेजः स्वर्गं व्याप्य स्थितम् , तत्त्वां धक्ष्यति न गच्छेति । तमग्रेसर उवाच, कमप्येनं वराकं विद्याहीनं सन्तम् , अरे, सयुग्वानं युग्वा गन्त्री शकटी तया सह स्थितं रैक्वमिवैतद्वचनमात्थ । रैक्वस्य हि ब्रह्मिष्ठस्य तेजो दुरतिक्रमं नास्यानात्मज्ञस्येत्यर्थः । अस्मद्वचनखिन्नो राजा शकटलिङ्गेन रैक्वं ज्ञात्वा विद्यावान्भविष्यतीति हंसानामभिप्रायः । कमु अरे इति पदच्छेदः । उशब्दोऽप्यर्थः । तेषां हंसानामनादरवाक्यश्रवणादस्य राज्ञः शुगुत्पन्ना, सा शूद्रशब्देन रैक्वेण सूच्यते हीति सूत्रान्वयः । श्रुतयौगिकार्थलाभे सति अनन्वितरूढ्यर्थस्त्याज्य इति न्यायद्योतनार्थो हिशब्दः । तदाद्रवणात्तया शुचा आद्रवणात् । शूद्रः शोकं प्राप्तवान् । शुचा वा कर्त्र्या राजाभिदुद्रुवे प्राप्तः । शुचा वा करणेन रैक्वं गतवानित्यर्थः ॥ ३४ ॥
शूद्रशब्दस्य यौगिकत्वे लिङ्गमाह
क्षत्रियत्वेति ।
संवर्गविद्याविध्यनन्तरमर्थवाद आरभ्यते । शुनकस्यापत्यं कपिगोत्रं पुरोहितमभिप्रतारिनामकं राजानं च कक्षसेनस्यापत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटुर्भिक्षितवानित्यर्थः ।
नन्वस्य चैत्ररथित्वं न श्रुतमित्यत आह
चैत्ररथित्वं चेति ।
एतेन द्विरात्रेणेति छान्दोग्यश्रुत्यैव पूर्वं चित्ररथस्य कापेययोग उक्तः । अभिप्रतारिणोऽपि तद्योगाच्चित्ररथवंश्यत्वं निश्चीयते । राजवंश्यानां हि प्रायेण पुरोहितवंश्या याजका भवन्तीत्यर्थः ।
नन्वस्त्वभिप्रतारिणश्चैत्ररथित्वम् , तावता कथं क्षत्रियत्वम् , तत्राह
तस्मादिति ।
चित्ररथादित्यर्थः । क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेषणमन्नगोदानादिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गम् ॥ ३५ ॥
अत्र शूद्रशब्दो यौगिक एवेति न शूद्रस्याधिकार इति स्थितम् । तत्र लिङ्गान्तरमाह
संस्कारेति ।
उपनयनं वेदग्रहणाङ्गं शूद्रस्य नास्तीति पूर्वमुक्तम् । इह विद्याग्रहणाङ्गस्योपनयनसंस्कारस्य सर्वत्र परामर्शाच्छूद्रस्य तदभावान्न विद्याधिकारः इत्युच्यते । भाष्ये आदिपदेनाध्ययनगुरुशुश्रूषादयो गृह्यन्ते । तं शिष्यमाचार्य उपनीतवानित्यर्थः ।
नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन्सनत्कुमारमुपगत इत्याह
अधीति ।
उपदिशेति यावत् । ब्रह्मपरा वेदपारगाः सगुणब्रह्मनिष्ठाः परं निर्गुणं ब्रह्मान्वेषमाणा एष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य ते भरद्वाजादयः षडृषयस्तमुपगता इत्यर्थः ।
ननु वैश्वानरविद्यायामृषीन् राजाऽनुपनीयैव विद्यामुवाचेति श्रुतेरनुपनीतस्याप्यस्ति विद्याधिकार इत्यत आह
तान्हेति ।
ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिर इति पूर्ववाक्ये ब्राह्मणा उपनयनार्थमागता इति उपनयनप्राप्तिं दर्शयित्वा निषिध्यते । हीनवर्णेनोत्तमवर्णाऽनुपनीयैवोपदेष्टव्या इत्याचारज्ञापनार्थमित्यर्थः । एकजातिरनुपनीतः । पातकमभक्ष्यभक्षणकृतम् ॥ ३६ ॥
सत्यकामः किलमृतपितृको जबालां मातरमपृच्छत् , किङ्गोत्रोऽहमिति । तं मातोवाच भर्तृसेवाव्यग्रतयाहमपि तव पितुर्गोत्रं न जानामि, जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति एतावज्जानामीति । ततः स जाबालो गौतममागत्य तेन किङ्गोत्रोऽसीति पृष्ट उवाच, नाहं गोत्रं वेद्मि न माता वेत्ति परन्तु मे मात्रा कथितम् , उपनयनार्थमाचार्यं गत्वा सत्यकामो जाबालोऽस्मीति ब्रूहीति । अनेन सत्यवचनेन तस्य शूद्रत्वाभावो निर्धारितः । अब्राह्मण एतत्सत्यं विविच्य वक्तुम् , नार्हतीति निर्धार्य, हे सोम्य, सत्यात्त्वं नागाः सत्यं न त्यक्तवानसि, अतस्त्वामुपनेष्ये, तदर्थं समिधमाहरेति गौतमस्य प्रवृत्तेश्च लिङ्गान्न शूद्रस्याधिकार इत्याह
तदभावेति ॥ ३७ ॥
स्मृत्या श्रवणादिनिषेधाच्च नाधिकार इत्याह
श्रवणेति ।
अस्य शूद्रस्य द्विजैः पठ्यमानं वेदं प्रमादाच्छृण्वतः सीसलाक्षाभ्यां तप्ताभ्यां श्रोत्रद्वयपूरणं प्रायश्चित्तं कार्यमित्यर्थः । पद्यु पादयुक्तं सञ्चरिष्णुरूपमिति यावत् । भवति च । स्मृतिरिति शेषः । मतिर्वेदार्थज्ञानम् । दानं नित्यं निषिध्यते शूद्रस्य । नैमित्तिकं तु दानमस्त्येव ।
यदुक्तं विदुरादीनां ज्ञानित्वं दृष्टमिति, तत्राह
येषामिति ।
सिद्धानां सिद्धेर्दुरपह्नवत्वेऽपि साधकैः शूद्रैः कथं ज्ञानं लब्धव्यमित्यत आह
श्रावयेदिति ॥ ३८ ॥
कम्पनात् । अस्यापि प्रासङ्गिकत्वमाशङ्क्याह
अवसित इति ।
समाप्त इत्यर्थः ।
काठकं पठति
यदिदमिति ।
सर्वं जगत्प्राणान्निःसृतमुत्पन्नं प्राणे चिदात्मनि प्रेरके सति एजति चेष्टते, तच्च प्राणाख्यं कारणं महद्ब्रह्म बिभेत्यस्मादिति भयम् । तस्मिन् भयहेतुत्वे दृष्टान्तमाह
वज्रमिति ।
यथोद्यतं वज्रं भयं तथेत्यर्थः ।
य एतत्प्राणाख्यं ब्रह्म निर्विशेषं विदुस्ते मुक्ता भवन्तीत्याह
य इति ।
नन्वस्मिन्सूत्रे कथमिदं वाक्यमुदाहृतमित्यत आह
एतदिति ।
एजत्यर्थस्य कम्पनस्य सूत्रितत्वादेजतिपदयुक्तं वाक्यमुदाहृतमित्यर्थः ।
प्रासङ्गिकाधिकारचिन्तयास्य सङ्गतिर्नापेक्षितेति 'शब्दादेव प्रमितः' इत्यनेनोच्यते । तत्राङ्गुष्ठवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानार्थ इत्युक्तम् , न तथेह प्राणानुवाद ऐक्यज्ञानार्थः सम्भवति, प्राणस्य स्वरूपेण कल्पितस्यैक्यायोगात् । अतः प्राणोपास्तिपरं वाक्यमिति प्रत्युदाहरणेन पूर्वपक्षयति
प्रसिद्धेः पञ्चवृत्तिरिति ।
ननु 'अत एव प्राणः' इत्यादौ ब्रह्मणि लिङ्गात्प्राणश्रुतिर्नीता, अत्रापि सर्वचेष्टाभयहेतुत्वं ब्रह्मलिङ्गमस्तीति नास्ति पूर्वपक्षावसरो गतार्थत्वादिति, अत आह
वायोश्चेति ।
प्रतिष्ठाय स्थितिं लब्ध्वा प्राणे वायौ निमित्ते जगच्चलतीति प्रसिद्धम् । अतः स्पष्टं ब्रह्मलिङ्गं नास्तीति भावः ।
वज्रलिङ्गाच्च वायुरित्याह
वाय्विति ।
व्यष्टिर्विशेषः । समष्टिः सामान्यम् ।
सूत्राद्वहिरेव सिद्धान्तं प्रतिजानीते
ब्रह्मैवेति ।
पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वाश्रयत्वं लिङ्गं वाक्यभेदकप्राणश्रुतेर्बाधकमित्याह
पूर्वत्रेत्यादिना ।
शुक्रं स्वप्रकाशम् । तदु नात्येति ब्रह्मानाश्रितः कोऽपि लोको नास्त्येवेत्युकारार्थः ।
सौत्रं लिङ्गं व्याचष्टे
एजयितृत्वमिति ।
सवायुकस्य सर्वस्य कम्पनश्रवणादपि प्राणः परमात्मैवेत्यर्थः ।
ब्रह्मणि वज्रशब्दः कथमित्याशङ्क्य गौण इत्याह
वज्रशब्द इति ।
बृहदारण्यके 'वायुरेव व्यष्टिः' इत्यत्र 'अपपुनर्मृत्युम्' इत्यपमृत्युजयरूपमापेक्षिकममृतत्वमुच्यते न मुख्यामृतत्वम् , तत्रैव वायूपास्तिप्रकरणं समाप्य 'अथ हैनमुषस्तः पप्रच्छ' इति ज्ञेयात्मानमुक्त्वा वाय्वादेर्नाशित्वोक्तेरित्याह
यत्तु वाय्वित्यादिना ।
तस्मात्काठकवाक्यं ज्ञेये समन्वितविति सिद्धम् ॥ ३९ ॥
ज्योतिर्दर्शनात् । छान्दोग्ये प्रजापतिविद्यावाक्यमाह
एष इति ।
परञ्ज्योतिः श्रुतिभ्यां संशयमाह
तत्रेति ।
घटादिविषयावरकतमोनाशकं सौरमित्यर्थः ।
पूर्वत्र ब्रह्मप्रकरणस्यानुग्राहकः सर्वशब्दसङ्कोचाद्ययोगोऽस्तीति प्राणश्रुतिर्ब्रह्मणि नीता । न तथात्र 'य आत्मापहतपाप्मा' इति प्रकरणस्यानुग्राहकं पश्याम इति प्रत्युदाहरणेन पूर्वपक्षमाह
प्रसिद्धमेवेत्यादिना ।
पूर्वपक्षे सूर्योपास्तिः, सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलम् ।
ननु ज्योतिरधिकरणे ज्योतिःशब्दस्य ब्रह्मणि वृत्तेरुक्तत्वात्कथं पूर्वपक्ष इत्यत आह
ज्योतिरिति ।
तत्र गायत्रीवाक्ये प्रकृतब्रह्मपरामर्शकयच्छब्दसामानाधिकरण्याज्ज्योतिःशब्दस्य स्वार्थत्यागः कृतः, तथात्र स्वार्थत्यागे हेत्वदर्शनात्पूर्वपक्ष इत्यर्थः ।
ज्योतिःश्रुतेरनुग्राहकत्वेनार्चिरादिमार्गस्थत्वं लिङ्गमाह
तथाचेति ।
'ता वा एता हृदयस्य नाड्यः' इति कण्डिकया नाडीनां रश्मीनां च मिथः संश्लेषमुक्त्वा अथ संज्ञालोपानन्तरं यत्र काले एतन्मरणं यथा स्यात्तथोत्क्रामति अथ तदा एतैर्नाडीसंश्लिष्टरश्मिभिरूर्ध्वः सन्नुपरि गच्छति, गत्वादित्यं ब्रह्मलोकद्वारभूतं गच्छतीत्यभिहितम् , तथैवात्रापि शरीरात्समुत्थाय मृत्वा परं ज्योतिरादित्याख्यमुपसम्पद्य तद्द्वारा ब्रह्मलोकं गत्वा स्वस्वरूपेणाभिनिष्पद्यत इति वक्तव्यम् । समुत्थायोपसम्पद्येति क्त्वाश्रुतिभ्यां ज्योतिषोऽर्चिरादिमार्गस्थत्वभानादित्यर्थः ।
अतो मार्गस्थसूर्योपास्त्या क्रममुक्तिपरं वाक्यमिति प्राप्ते सिद्धान्तयति
एवमिति ।
व्याख्येयत्वेनोपक्रान्त आत्मैवात्र ज्योतिःशब्देन व्याख्येय इति ज्योतिर्वाक्येनैकवाक्यताप्रयोजकप्रकरणानुगृहीतोत्तमपुरुषश्रुत्या वाक्यभेदकज्योतिःश्रुतिर्बाध्येति भावः ।
अशरीरत्वफललिङ्गाच्च ब्रह्मैव ज्योतिर्न सूर्य इत्याह
अशरीरमिति ।
नच सूर्यप्राप्त्या क्रमेणाशरीरत्वं स्यादिति वाच्यम् , परत्वेन विशेषितस्य ज्योतिष एव स उत्तम इति परामर्शेनाशरीरत्वनिश्चयादित्याह
परमिति ।
पूर्वोक्तलिङ्गं दूषयति
यत्त्विति ।
नाडीखण्डे दहरोपासकस्य या सूर्यप्राप्तिरुक्ता स न मोक्ष इति युक्ता सूर्योक्तिः, अत्र तु प्रजापतिवाक्ये निर्गुणविद्यायामर्चिरादिगतिस्थसूर्यस्यानन्वयादनर्थकत्वात्श्रुतिव्यत्यासेन स्वरूपं साक्षात्कृत्य परं ज्योतिस्तदेवोपसम्पद्यत इति व्याख्येयमिति भावः ॥ ४० ॥
आकाशो व्यपदेशात् । छान्दोग्यमुदाहरति
आकाश इति ।
यथोपक्रमबलाज्ज्योतिःश्रुतिबाधस्तथाकाशोपक्रमाद्ब्रह्मादिशब्दबाध इति दृष्टान्तेन पूर्वपक्षयति
भूतेति ।
श्रुतैर्गुणैराकाशोपास्तिर्निर्गुणब्रह्मज्ञानं चेत्युभयत्र फलम् ।
'आकाशस्तल्लिङ्गात्’ इत्यनेन पौनरुक्त्यमाशङ्क्य तद्वदत्र स्पष्टलिङ्गाश्रवणादिति परिहरति
स्रष्टृत्वादेश्चेति ।
वै नामेति प्रसिद्धिलिङ्गस्याकाशश्रुतेश्च वाक्यशेषगताभ्यां ब्रह्मात्मश्रुतिभ्यामनेकलिङ्गोपेताभ्यां बाधो युक्तः ।
यत्र बहुप्रमाणसंवादस्तत्र वाक्यस्य तात्पर्यमिति निर्णयादिति सिद्धान्तयति
परमेवेत्यादिना ।
नामरूपे शब्दर्थौ तदन्तःपातिनस्तद्भिन्नत्वे तत्कर्तृत्वं चायुक्तमित्यर्थः ।
नामादिकर्तृत्वं न ब्रह्मलिङ्गम् , जीवस्थत्वादिति शङ्कते
नन्विति ।
'अनेन जीवेन’ इत्यत्र जीवस्य ब्रम्हाभेदेन तत्कर्तृत्वमुच्यते साक्षादयोगादिति परिहरति
बाढमिति ।
यच्चोक्तं स्पष्टं लिङ्गं नास्तीति, तत्राह
नामेति ।
तर्हि पुनरुक्तिः, तत्राह
आकाशेति ।
तस्यैव साधकोऽयं विचारः । अत्राकाशशब्दस्य ब्रह्मणि वृत्तिं सिद्धवत्कृत्य तत्र संशयादिप्रवृत्तेरुक्तत्वादिति न पौनरुक्त्यमिति भावः ॥ ४१ ॥
सुषुप्त्युत्क्रान्त्योर्भेदेन । अहन्धीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह
योऽयमिति ।
विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः । सप्तमी व्यतिरेकार्था । प्राणबुद्धिभ्यां भिन्न इत्यर्थः ।
वृत्तेरज्ञानाच्च भेदमाह
अन्तर्ज्योतिरिति ।
पुरुषः पूर्ण इत्यर्थः ।
उभयलिङ्गानां दर्शनात्संशयमाह
तत्किमिति ।
पूर्वत्र नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मेत्युक्तम् , तदयुक्तम् , 'प्राज्ञेनात्मना सम्परिष्वक्तः' इत्यभिन्नेऽपि जीवात्मनि भेदोक्तिवदौपचारिकभेदोक्तिसम्भवादित्याक्षेपसङ्गतिः । पूर्वपक्षे कर्मकर्तृजीवस्तुतिः, सिद्धान्ते जीवानुवादेन ततः कल्पितभेदभिन्नस्य प्राज्ञस्य परमात्मनः स्वरूपैक्यप्रमितिरिति फलम् । बुद्धान्तो जाग्रदवस्था ।
आदिमध्यावसानेषु जीवोक्तेर्जीवस्तावकमिदं वाक्यमिति प्राप्ते सिद्धान्तयति
परमेश्वरेत्यादिना ।
वाक्यस्य जीवस्तावकत्वे जीवाद्भेदेन प्राज्ञस्याज्ञातस्योत्तरोक्तिरसङ्गता स्यात् , अतो ज्ञाताज्ञातसंनिपाते ज्ञातानुवादेनाज्ञातं प्रतिपादनीयम् , 'अपूर्वे वाक्यतात्पर्यम्' इति न्यायादिति सिद्धान्ततात्पर्यम् ।
पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्तिं वारयति
तत्र पुरुष इत्यादिना ।
देहस्य वेदनाप्रसक्तेर्निषेधायोगात्पुरुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः । अन्वारूढोऽधिष्ठितः । उत्सर्जन् घोराञ्शब्दान्मुञ्चन् । बुद्धौ ध्यायन्त्यामात्माध्यायतीव चलन्त्यां चलतीव ।
वस्तुतः सर्वविक्रियाशून्य इत्युक्तेर्न संसारिणि तात्पर्यमित्याह
यत इति ।
उपक्रमवदुपसंहारवाक्येऽप्यैक्यं विविक्षितमित्याह
तथेति ।
व्याचष्टे
योऽयमिति ।
अवस्थोपन्यासस्य त्वमर्थशुद्धिद्वारैक्यपरत्वान्न जीवलिङ्गत्वमित्याह
यतो न बुद्धान्तेति ।
प्रश्नोत्तराभ्यामसंसारित्वं गम्यत इत्याह
यदत ऊर्ध्वमिति ।
कामादिविवेकानन्तरमित्यर्थः ।
भवतीति चेति ।
यद्यस्माद्वक्ति तस्मादवगम्यत इति योजना । तेनावस्थाधर्मेणानन्वागतोऽस्पृष्टो भवति, असङ्गत्वात् । सुषुप्तावप्यात्मतत्त्वं पुण्यपापाभ्यामस्पृष्टं भवति । हि यस्मादात्मा सुषुप्तौ सर्वशोकातीतः तस्माधृदयस्यैव सर्वे शोका इति श्रुत्यर्थः ॥ ४२ ॥
वाक्यस्य ब्रह्मात्मैक्यपरत्वे हेत्वन्तरमाह
पत्यादीति ।
सूत्रं व्याचष्टे
इतश्चेति ।
वशी स्वतन्त्रः । अपराधीन इति यावत् । ईशानो नियमनशक्तिमान् । शक्तेः कार्यमाधिपत्यमिति भेदः । तस्माच्छोधितत्वमर्थैक्ये षष्ठाध्यायसमन्वय इति सिद्धम् ॥ ४३ ॥
इति श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्याये तृतीयः पादः ॥ ३ ॥
प्रथमाध्याये चतुर्थः पादः ।
अव्यक्तेशमजं पञ्चजनाधारं च कारणम् । वेदितन्यं प्रियं वन्दे प्रकृतिं पुरुषं परम् ॥ १ ॥
अस्मिन्पादेऽधिकरणत्रयस्येक्षत्यधिकरणेन सङ्गतिं वक्तुं वृत्तमनुवदति
ब्रह्मेति ।
तदशब्दत्वेन ।
प्रधानस्य वैदिकशब्दशून्यत्वेनेत्यर्थः । ईक्षत्यधिकरणे गतिसामान्यमशब्दत्वं च प्रतिज्ञातम् , तत्र ब्रह्मणि वेदान्तानां गतिसामान्यं प्रपञ्चितम् , अधुना प्रधानस्याशब्दत्वमसिद्धमित्याशङ्क्य निरूप्यत इत्याक्षेपसङ्गतिः । तेनाशब्दत्वनिरूपणेन ब्रह्मणि वेदान्तानां समन्वयो दृढीकृतो भवतीत्यध्यायसङ्गतिरप्यधिकरणत्रयस्य ज्ञेया । अत्राव्यक्तपदं विषयः ।
तत्किं प्रधानपरं पूर्वोक्तशरीरपरं वेति स्मृतिप्रकरणाभ्यां संशये पूर्वमप्रसिद्धब्रह्मपरत्वं यथा षष्ठाध्यायस्य दर्शितं तद्वदव्यक्तपदमप्रसिद्धप्रधानपरमिति पूर्वपक्षयति
आनुमानिकमिति ।
अपिशब्दाद्ब्रह्माङ्गीकारेणायमशब्दत्वाक्षेप इति सूचयति । तथा च ब्रह्मप्रधानयोर्विकल्पेन कारणत्वात् ब्रह्मण्येव वेदान्तानां समन्वय इति नियमासिद्धिः फलम् , सिद्धान्ते नियमसिद्धिरिति विवेकः । पदविचारत्वादधिकरणानामेतत्पादसङ्गतिर्बोध्या ।
स्मार्तक्रमरूढिभ्यामव्यक्तशब्दः प्रधानपरः शब्दस्पर्शादिशून्यत्वेन योगसम्भवाच्चेत्याह
शब्दादीति ।
प्रधानस्य वैदिकशब्दवाच्यत्वे का क्षतिरित्यत आह
तदेवेति ।
'अजामेकाम्' इत्याद्या श्रुतिः । 'हेतुः प्रकृतिरुच्यते' इत्याद्या स्मृतिः । 'यदल्पं तज्जडप्रकृतिकम्' इति न्यायः । ततो ब्रह्मैव कारणमिति मतक्षतिरिति भावः ।
सूत्रे नञर्थं वदन्सिद्धान्तयति
नैतदिति ।
प्रधानं वैदिकं नेत्यत्र तात्पर्याभावं हेतुमाह
नहीति ।
ननु प्रधानस्यात्र प्रत्यभिज्ञानाद्वैदिकत्वमित्यत आह
न ह्यत्रेति ।
ननु शब्दप्रत्यभिज्ञायामर्थोऽपि प्रत्यभिज्ञायत इत्याशङ्क्य यौगिकाच्छब्दादसति नियामके नार्थविशेषधीरित्याह
स चेति ।
रूढ्या तद्धीरित्याशङ्क्य रूढिः किं लौकिकी स्मार्ता वा । नाद्य इत्याह
न चेति ।
द्वितीयंप्रत्याह
या त्विति ।
पुरुषसङ्केतो नानादिवेदार्थनिर्णयहेतुः, पुंमतेर्विचित्रत्वादित्यर्थः ।
यत्तु स्मार्तक्रमप्रत्यभिज्ञया क्रमिकार्थः स्मार्त एवेति, तत्राह
नच क्रमेति ।
स्थानात्तद्रूपप्रत्यभिज्ञानाशङ्कायामसतीत्यन्वयान्नञो व्यत्यासेनातद्रूपस्य तद्रूपविरुद्धस्य प्रत्यभिज्ञाने सतीत्यर्थः ।
पूर्वज्ञातरूपार्थस्य स्थाने तद्विरुद्धार्थज्ञाने सति तस्य धीर्नास्तीत्यत्र दृष्टान्तमाह
न हीति ।
प्रकृते नास्ति विरुद्धज्ञानमित्याशङ्क्य प्रकरणाच्छरीरज्ञानमस्तीत्याह
प्रकरणेति ।
शरीरमेव रूपकेण रथसादृश्येन विन्यस्तं शरीररूपकविन्यस्तम् , तस्य पूर्ववाक्ये आत्मबुद्ध्योर्मध्यस्थानपठितस्यात्रापि मध्यस्थेनाव्यक्तशब्देन ग्रहणान्न प्रधानस्य वैदिकत्वमिति सूत्रार्थः ।
स्मार्तक्रमः किमिति त्यक्तव्य इत्याशङ्क्य श्रौतक्रमस्य प्रकरणाद्यनुग्रहेण बलवत्त्वादित्याह
कुत इत्यादिना ।
तदुभयं विवृणोति
तथा हीति ।
रूपककॢप्तिः सादृश्यकल्पना । प्रग्रहोऽश्वरशना । यदा बुद्धिसारथिर्विवेकी तदा मनसेन्द्रियहयान्विषमविषयमार्गादाकर्षति । यद्यविवेकी तदा मनोरशनाबद्धांस्तान् प्रवर्तयतीति मनसः प्रग्रहत्वं युक्तम् । तेषु हयेषु । गोचरान्मार्गान् ।
ननु स्वतश्चिदात्मनो भोगसम्भवात्किं रथादिनेत्यत आह
आत्मेति ।
आत्मा देहः, देहादिसङ्ककल्पनया भोक्तृत्वं न स्वतोऽसङ्गत्वादित्यर्थः ।
अधुना रथादिभिर्गन्तव्यं वदन्नाकाङ्क्षापूर्वकमुत्तरवाक्यमाह
तैश्चेत्यादिना ।
शरीरस्य प्रकृतत्वेऽप्यव्यक्तपदेन प्रधानं गृह्यतामित्यत आह
तत्र य एवेति ।
एवं प्रकरणं शोधयित्वा शरीरस्य परिशेषतामानयति
तत्रेन्द्रियेत्यादिना ।
अर्थानां पूर्वमनुक्तिशङ्कां वारयन् परत्वमुपपादयति
अर्था इति ।
गृह्णन्ति पुरुषपशुं बध्नन्तीति ग्रहा इन्द्रियाणि । तेषां ग्रहत्वं विषयाधीनम् । असति विषये तेषामकिञ्चित्करत्वात् । ततो ग्रहेभ्यः श्रेष्ठा अतिग्रहा विषया इति बृहदारण्यके श्रवणात् । परत्वं श्रैष्ठ्याभिप्रायम् , न त्वान्तरत्वेनेति भावः । सविकल्पकं ज्ञानं मनः, निर्विकल्पकं निश्चयात्मिका बुद्धिः, आत्मशब्दात्स एव बुद्धेः परः, प्रत्यभिज्ञायत इति शेषः ।
हिरण्यगर्भाभेदेन ब्रह्मादिपदवेद्या समष्टिबुद्धिर्महानित्याह
अथवेति ।
मननशक्तिः, व्यापिनी, भाविनिश्चयः, ब्रह्मा आत्मा, भोग्यवर्गाश्रयः, तात्कालिकनिश्चयः, कीर्तिशक्तिः, नियमनशक्तिः, त्रैकालनिश्चयः, संविदभिव्यञ्जिका चिदध्यस्तातीतसर्वार्थग्राहिणी समष्टिबुद्धिरित्यर्थः ।
हिरण्यगर्भस्येयं बुद्धिरस्तीत्यत्र श्रुतिमाह
य इति ।
नन्वप्रकृता सा कथमुच्यते, तदुक्तौ च प्रधानेन किमपराद्धमित्यत आह
सा चेति ।
हिरुक्पृथक् । पूर्वं व्यष्टिबुद्ध्यभेदेनोक्तात्र ततो भेदेन परत्वमुच्यत इत्यर्थः ।
तर्हि रथरथिनौ द्वौ परिशिष्टौ स्याताम् , नेत्याह
एतस्मिंस्त्विति ।
अतो रथ एव परिशिष्ट इत्याह
तदेवमिति ।
तेषु पूर्वोक्तेषु षट्पदार्थेष्वित्यर्थः ।
परिशेषस्य फलमाह
इतराणीति ।
वेदो यमो वेति शेषः । दर्शयति चेति सूत्रभागो व्याख्यातः ।
किञ्च ब्रह्मात्मैकत्वपरत्वे ग्रन्थे भेदवादिनां प्रधानस्यावकाशो नास्तीत्याह
शरीरेत्यादिना ।
भोगो वेदना ।
काठकग्रन्थस्यैक्यतात्पर्ये गूढत्वज्ञेयत्वज्ञानहेतुयोगविधयो लिङ्गानि सन्तीत्याह
तथा चैष इत्यादिना ।
अग्र्या समाधिपरिपाकजा । वागित्यत्र द्वितीयालोपश्छान्दसः, मनसीति दैर्घ्यं च ॥ १ ॥
शङ्कोत्तरत्वेन सूत्रं व्याचष्टे
उक्तमेतदित्यादिना ।
कार्यकारणयोरभेदान्मूलप्रकृतिवाचकाव्यक्तशब्देन विकारो लक्ष्यत इत्यर्थः । गोभिर्गोविकारैः पयोभिर्मत्सरं सोमं श्रीणीत । मिश्रितं कुर्यादिति यावत् । 'श्रीञ्पाके' इति धातोर्लोटि मध्यमपुरुषबहुवचनमेतत् ।
अव्यक्तात्मना कार्यस्याव्यक्तशब्दयोग्यत्वे मानमाह
श्रुतिश्चेति ।
तर्हि प्रागवस्थायामिदं जगदव्याकृतमासीत् ह किलेत्यर्थः । बीजरूपा शक्तिः संस्कारस्तदवस्थम् ॥ २ ॥
अपसिद्धान्तशङ्कोत्तरत्वेन सूत्रं व्याचष्टे
अत्राहेत्यादिना ।
तर्हि तदा । एवं सति सूक्ष्मशब्दितप्रागवस्थाभ्युपगमे सति ।
ईश्वरे कल्पिता तन्नियम्येत्यङ्गीकारान्नापसिद्धान्त इत्याह
अत्रोच्यत इत्यादिना ।
कूटस्थब्रह्मणः स्रष्टृत्वसिद्ध्यर्थमविद्या स्वीकार्येत्युक्तम् । बन्धमुक्तिव्यवस्थार्थमपि सा स्वीकार्येत्याह
मुक्तानामिति ।
यन्नाशान्मुक्तिः सा स्वीकार्या, तां विनैव सृष्टौ मुक्तानां पुनर्बन्धापत्तेरित्यर्थः ।
तस्याः परपरिकल्पितसत्यस्वतन्त्रप्रधानाद्वैलक्षण्यमाह
अविद्येत्यादिना ।
मायामयी प्रसिद्धमायोपमिता । लोके मायाविनो मायावत्परतन्त्रेत्यर्थः ।
जीवभेदोपाधित्वेनापि सा स्वीकार्येत्याह
महासुषुप्तिरिति ।
बुद्ध्याद्युपाधिभेदाज्जीवा इति बहूक्तिः ।
अविद्यायां श्रुतिमप्याह
तदेतदिति ।
आकाशहेतुत्वादाकाशः । ज्ञानं विनान्ताभावादक्षरम् । विचित्रकारित्वान्मायेति भेदः ।
इदानीमविद्याया ब्रह्माभेदान्यत्वाभ्यामनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह
अव्यक्तेति ।
तस्य महतः परत्वं कथमित्यत आह
तदिदमिति ।
यदा बुद्धिर्महांस्तदा तद्धेतुत्वात्परत्वमित्युक्तमित्यन्वयः ।
प्रतिबिम्बस्योपाधिपरतन्त्रत्वादुपाधेः प्रतिबिम्बात्परत्वमाह
यदा त्विति ।
हेतुं स्फुटयति
अविद्येति ।
अव्यक्तस्य परत्वेऽपि शरीरस्य किं जातम् , तदाह
तच्चेति ।
नन्विन्द्रियादीनामप्यव्यक्ताभेदादव्यक्तत्वं परत्वं च किमिति नोच्यते, तत्राह
सत्यपीति ।
सूत्रद्वयस्य वृत्तिकृद्ध्याख्यानमुत्थापयति
अन्ये त्विति ।
पञ्चीकृतभूतानां सूक्ष्मा अवयवाः स्थूलदेहारम्भकाः । सूक्ष्मशरीरं प्रतिजीवं लिङ्गस्याश्रयत्वेन नियतमस्तीति वक्ष्यते । देहान्तरप्राप्तौ तेन युक्तो गच्छति परलोकमित्यर्थः ।
कथं तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीयसूत्रं व्याचष्टे
तदधीनत्वाच्चेति ।
अर्थवदिति ।
सूत्रस्थदृष्टान्तमाह
यथेति ।
तद्ध्याख्यानं दूषयति
तैरिति ।
अव्यक्तपदबलात्प्रकृतमपि स्थूलं त्यज्यत इति शङ्कते
आम्नातस्येति ।
एकार्थबोधकानां शब्दानां मिथ आकाङ्क्षयैकस्यां बुद्धावारूढत्वमेकवाक्यता । तव मते तस्या अभावात्कुतोऽर्थबोध इति समाधत्ते
नेति ।
तां विनाप्यर्थधीः किं न स्यादित्यत आह
नहीति ।
शरीरशब्देन रूढ्या स्थूलं प्रकृतम् , तस्य हानिरप्रकृतस्य भूतसूक्ष्मस्याव्यक्तपदेन ग्रहणमन्याय्यं स्यादित्यर्थः ।
अस्त्वेकवाक्यतेत्यत आह
न चेति ।
ततः किं तत्राह
तत्रेति ।
आकाङ्क्षया वाक्यैकवाक्यत्वे सति प्रकृतं शरीरद्वयमव्यक्तपदेन ग्राह्यम् । आकाङ्क्षायास्तुल्यत्वादिति भावः ।
अनात्मनिश्चयः शुद्धिः, तदर्थं सूक्ष्ममेवाकाङ्क्षितं ग्राह्यम् , तस्य सूक्ष्मत्वेनात्माभेदेन गृहीतस्य दुःशोधत्वात् । स्थूलस्य दृष्टदौर्गन्ध्यादिना लशुनादिवदनात्मत्वधीवैराग्ययोः सुलभत्वादिति शङ्कते
न चेति ।
दृष्टा बीभत्सा घृणा यस्मिन् तस्य भावस्तत्ता तयेत्यर्थः ।
दूषयति
यत इति ।
वैराग्यायशुद्धिरत्र न विवक्षिता, विध्यभावात् , किन्तु वैष्णवं परमं पदं विवक्षितमिति तद्दर्शनार्थं प्रकृतं स्थूलमेवाव्यक्तपदेन ग्राह्यमिति भावः । किञ्च सूक्ष्मस्य लिङ्गान्तःपातिन इन्द्रियादिग्रहणेनैव ग्रहणान्न पृथगव्यक्तशरीरपदाभ्यां ग्रहः ।
अभ्युपेत्याह
सर्वथेति ।
स्थूलस्य सूक्ष्मस्य वा ग्रहेऽपीत्यर्थः ।
तथा नामेति ।
सूक्ष्ममेवाव्यक्तमस्त्वित्यर्थः ॥ ३ ॥
अत्राव्यक्तं प्रधानं नेत्यत्र हेत्वन्तरार्थं सूत्रम्
ज्ञेयत्वेति ।
सत्त्वादिगुणरूपात्प्रधानात्पुरुषस्यान्तरं भेदस्तज्ज्ञानादित्यर्थः । नहि शक्यमिति च वदद्भिः प्रधानं ज्ञेयत्वेन स्मर्यत इति सम्बन्धः ।
न केवलं भेदप्रतियोगित्वेन प्रधानस्य ज्ञेयत्वं तैरिष्टं किन्तु तस्योपासनयाणिमादिप्राप्तयेऽपीत्याह
क्वचिच्चेति ।
ज्ञानविध्यभावेऽप्यव्यक्तपदजन्यज्ञानगम्यत्वमार्थिकं ज्ञेयत्वमस्तीत्यत आह
न चानुपदिष्टमिति ।
उपदिष्टं हि ज्ञानं फलवदिति ज्ञातुं शक्यं निष्फलस्योपदेशायोगादव्यक्तस्य च ज्ञानानुपदेशात्फलवज्ज्ञानगम्यत्वासिद्धिरित्यर्थः ।
फलितमाह
तस्मादिति ।
साङ्ख्येष्टसफलज्ञानगम्यत्वावचनाच्चेत्यर्थः ।
ननु शरीरस्यापि ज्ञेयत्वानुक्तेः कथमिह ग्रहणम् , तत्राह
अस्माकं त्विति ।
अस्मन्मते विष्ण्वाख्यपदस्यैकस्यैव ज्ञेयत्वात्तद्दर्शनार्थमव्यक्तपदेन शरीरोपन्यासो युक्त इत्यर्थः । साधारणशब्दमात्रान्न प्रधानस्य प्रत्यभिज्ञा स्मार्तलिङ्गस्यानुक्त्या नियामकाभावादिति तात्पर्यम् ॥ ४ ॥
लिङ्गोक्तिमाशङ्क्य निषेधति
वदतीति चेदिति ।
अत्र हि तादृशमेव निर्दिष्टमित्यन्वयः । स्पष्टमन्यत् ॥ ५ ॥
किञ्चात्र कठवल्ल्यां प्रधानस्य प्रश्नोत्तरयोरसत्त्वान्न ग्रहणमित्याह
त्रयाणामिति ।
मृत्युना नचिकेतसं प्रति त्रीन्वरान्वृणीष्वेत्युक्तेः त्रयाणामेव प्रश्नो नचिकेतसा कृतः । उपन्यासश्च मृत्युना कृतः । नान्यस्येत्यर्थः ।
प्रश्नत्रयं क्रमेण पठति
तत्र तावदिति ।
हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्गहेतुमग्निं स्मरसि । प्रेते मृते । देहादन्योऽस्ति न वेति संशयोऽस्ति । अत एतदात्मतत्त्वमसन्दिग्धं जानीयामित्यर्थः ।
क्रमेणोत्तरत्रयमाह
प्रतिवचनमपीति ।
लोकहेतुविराडात्मनोपास्यत्वाल्लोकादिश्चित्योऽग्निस्तं मृत्युरुवाच नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वा क्रमेणाग्निश्चीयते तत्सर्वमुवाचेत्यर्थः । हन्तेदानीं ब्रह्म वक्ष्यामीति ब्रह्मवाक्येन जीवप्रश्नाद्व्यवहितमपि 'यथा च मरणं प्राप्य' इत्यादि वाक्यं जीवविषयमुत्तरम् , योग्यत्वादित्यर्थः । वाक्यार्थस्तु आत्मा मरणं प्राप्य यथा भवति तथा वक्ष्यामीति ।
प्रतिज्ञातमाह
योनिमिति ।
चराचरदेहप्राप्तौ निमित्तमाह
यथेति ।
श्रुतमुपासनम् । सूत्रे आद्यश्चकारो यत इत्यर्थे । एवं च त्रयाणामेवोपन्यासः प्रश्नश्च यतः अतो न प्रधानमव्यक्तमिति योजना ।
उक्तार्थे सूत्रमाक्षिपति
अत्राहेति ।
एकः प्रश्नः द्वौ प्रश्नौ वेति पक्षद्वये फलितं पृच्छति
किञ्चात इति ।
सप्तम्यर्थे तसिः । अत्र च पक्षद्वयेऽपि किमित्यर्थः ।
प्रश्नैक्ये सूत्रासङ्गतिः । भेदे प्रधानस्य श्रौतत्वसिद्धिरिति पूर्ववाद्याह
स एवेत्यादिना ।
प्रश्नैक्यपक्षमादाय सिद्धान्त्याह
अत्रोच्यत इति ।
येन प्रधानसिद्धिः स्यादिति शेषः ।
चतुर्थप्रश्नकल्पने वरत्रित्वोपक्रमविरोधः स्यादिति विवृणोति
वरेत्यादिना ।
वरप्रदानमुपक्रमो यस्याः सा । प्रहिताय यमलोकं प्रति प्रेषिताय । इतः पुनः मर्त्यलोकं प्राप्तस्य मम पिता यथापूर्वं सुमनाः स्यादिति प्रथमं वव्रे ।
ननु द्वितीयवरो जीवविद्या तृतीयो ब्रह्मविद्येति प्रश्नभेदः किं न स्यादित्यत आह
येयमिति ।
प्रेते इत्युपक्रम्य तृतीयत्वोक्तिलिङ्गाज्जीवात्मविद्यैव तृतीयो वर इत्यर्थः ।
एवं वाक्योपक्रमे सति प्रश्नान्तरं न युक्तमित्याह
तत्रेति ।
मरणधर्माद्यस्पर्शलिङ्गाभ्यां प्रष्टव्ययोर्जीवेश्वरयोर्भेदात्प्रश्नभेदसिद्धेर्वाक्यबाधो युक्त इति शङ्कते
नन्वित्यादिना ।
गोचरत्वादाश्रयत्वात् ।
न केवलं प्रष्टव्यभेदात्प्रश्नभेदः किन्तु प्रश्नवाक्ययोः सादृश्याभावादपीत्याह
प्रश्नच्छायेति ।
प्रष्टव्यभेदोऽसिद्ध इति परिहरति
नेत्यादिना ।
किञ्च ब्रह्मप्रश्ने जन्मादिनिषेधेन जीवस्वरूपं वदन् यमस्तयोरैक्यं सूचयतीत्याह
इह चान्यत्रेति ।
तन्निषेधवाक्ये शिवोक्तिरसिद्धेत्यत आह
सतीति ।
भागी युक्तः । तस्मादविद्यया जीवस्य प्राप्तजन्मादिनिषेधेन स्वरूपमुक्तमित्यर्थः ।
किञ्च जीवो ब्रह्माभिन्नः, मोक्षहेतुज्ञानविषयत्वात् , ब्रह्मवदित्याह
तथा स्वप्नेति ।
अन्तोऽवस्था । येन साक्षिणा प्रमाता पश्यति तमात्मानमिति सम्बन्धः ।
हेतोरप्रयोजकत्वमाशङ्क्य 'तमेव विदित्वा' इति श्रुतिविरोधमाह
प्राज्ञेति ।
किञ्चाभेदमुक्त्वा भेदस्य निन्दितत्वादभेद एव सत्य इत्याह
तथेति ।
इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ । एवमिहाखण्डैकरसे ब्रह्मणि यो नानेव मिथ्याभेदं पश्यति स भेददर्शी मरणान्मरणं प्राप्नोति संसारभयान्न मुच्यत इत्यर्थः । किञ्च जीवप्रश्नानन्तरं 'तं दुर्दर्शम्' इति यदुत्तरमुवाच तेनाप्युत्तरेणाभेदो गम्यत इति सम्बन्धः ।
प्रष्टृप्रश्नयोः प्रशंसयापि लिङ्गेन पृष्टस्य दौर्लभ्यद्योतनाद्ब्रह्मत्वसिद्धिरित्याह
अन्यं वरमित्यादिना ।
पुत्रादिकं वृणीष्वेत्युक्तेऽपि विषयांस्तुच्छीकृत्यात्मज्ञानान्न चचाल 'नान्यं तस्मान्नचिकेता वृणीते' इति श्रवणात् । तदा सन्तुष्टो यमः 'अन्यच्छ्रेयोऽन्यदुतैव प्रेयः' इति भोगापवर्गमार्गयोर्वैलक्षण्यं प्रतिज्ञाय 'दूरमेते विपरीते विषूची अविद्या या च विद्या' इति दर्शितवानित्यर्थः । प्रेयः प्रियतमं स्वर्गादिकम् , विषूची विरुद्धफले, अविद्या कर्म, विद्या तत्त्वधीः । विद्याभीप्सिनं विद्यार्थिनं त्वामहं मन्ये, यतः त्वा त्वां बहवोऽपि कामाः पुत्रादयो मया दीयमाना दुर्लभा अपि नालोलुपन्त लोभवन्तं न कृतवन्त इति प्रष्टारं स्तुत्वा प्रश्नमपि 'त्वादृङ्नो भूयान्नचिकेतः प्रष्टा' इति स्तुवन्नित्यक्षरार्थः ।
इयं प्रशंसा प्रश्नभेदपक्षे न घटत इत्याह
यत्प्रश्नेति ।
यत्प्रश्नेन स्तुतिं लब्धवांस्तं प्रश्नं विहाय यद्यन्यमेवोत्थापयेत्तर्ह्यनवसरे स्तुतिः कृता स्यादित्यर्थः ।
तस्मादिति ।
प्रष्टव्यभेदाभावादित्यर्थः ।
प्रश्नवाक्यव्यक्त्योः सादृश्याभावात्प्रश्नभेद इत्युक्तं निरस्यति
यत्त्वित्यादिना ।
धर्माद्याश्रयस्य जीवस्य ब्रह्मत्वं कथमित्यत आह
यावदिति ।
अविद्यानाशानन्तरं ब्रह्मत्वं चेदागन्तुकमनित्यं च स्यादित्यत आह
न चाविद्यावत्त्व इति ।
जीवस्य ब्रह्मत्वे स्वाभाविके सति ब्रह्मप्रश्नस्य यदुत्तरं तज्जीवप्रश्नस्यापि भवतीति लाभं दर्शयति
ततश्च न जायत इति ।
जीवब्रह्मैक्ये 'त्रयाणाम्' इति सूत्रं कथमित्यत आह
सूत्रं त्विति ।
कल्पितभेदात्प्रश्नभेदकल्पनेत्याह
ततश्चेति ।
परमात्मनः सकाशात्प्रधानस्य वैषम्यमनात्मत्वेन तृतीयवरान्तर्भावायोगादिति भावः ॥ ६ ॥
श्रौतोऽव्यक्तशब्दो न साङ्ख्यासाधारणतत्त्वगोचरः, वैदिकशब्दत्वात् , महच्छब्दवदित्याह
महद्वच्चेति ।
सूत्रं व्याचष्टे
यथेत्यादिना ।
न चाकाशादिशब्दे व्यभिचारः, आकाशादेर्मतान्तरसाधारणत्वेन साङ्ख्यासाधारणत्वासिद्धेः साध्यस्यापि सत्त्वादिति मन्तव्यम् ।
सत्तामात्रे ।
सत्त्वप्रधानप्रकृतेराद्यपरिणामे । निर्विकल्पकबुद्धावित्यर्थः । आत्मा महानित्यात्मशब्दप्रयोगात् , तं मत्वा न शोचति, 'तमसः परस्तादि' त्यादिना शोकात्ययतमः परत्वादिभ्यश्च महच्छब्दः साङ्ख्यतत्त्वं नाभिधत्त इति सम्बन्धः ।
अधिकरणार्थमुपसंहरति
अतश्चेति ॥ ७ ॥
चमसवदविशेषात् । अत्राजापदं विषयः, तत्किं प्रधानपरं मायापरं वेति रूढ्यर्थासम्भवात्संशये पूर्वत्राव्यक्तशब्दमात्रेण प्रधानस्याप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजापदात्प्रत्यभिज्ञास्तीति प्रत्युदाहरणेन पूर्वपक्षयति
पुनरपीति ।
फलं पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति पूर्ववद्द्रष्टव्यम् ।
रागहेतुत्वादिगुणयोगात् लोहितादिशब्दै रजआदिगुणलाभेऽपि कथं प्रधानलाभः, तत्राह
तेषां साम्येति ।
अवयवाः प्रधानस्य रजआदयस्तेषां धर्मा रञ्जकत्वादयः तैर्निमित्तैर्लोहितादिशब्दैः प्रधानमुच्यत इत्यर्थः । गुणाभेदात्प्रधानलाभ इति भावः ।
तत्राजाशब्दं योजयति
नेति ।
'रूढिर्योगमपहरति' इति न्यायेन शङ्कते
नन्विति ।
रूढ्यसम्भवाद्योग आश्रयणीय इत्याह
बाढमिति ।
अजाशब्दितप्रकृतित्वपुरुषभेदलिङ्गाभ्यामपि प्रधानप्रत्यभिज्ञेत्याह
सा चेत्यादिना ।
प्रजायन्त इति प्रजा महदादयः । त्रैगुण्यं सुखदुःखमोहाः ।
अनुशयनं विवृणोति
तामेवाविद्ययेति ।
अविवेकेनेत्यर्थः । विषयधीर्भोगः । गुणभिन्नात्मख्यातिरपवर्गः ।
सिद्धान्तयति
एवं प्राप्त इति ।
मायादावपि साधारणान्मन्त्राद्विशेषार्थग्रहो न युक्तः, विशेषग्रहहेतोः प्रकरणादेरभावादिति हेतुं व्याख्याय दृष्टान्तं व्याचष्टे
चमसवदिति ।
सर्वत्र गिरिगुहादावपि ॥ ८ ॥
उत्तरसूत्रव्यावर्त्यां शङ्कामाह
तत्र त्विदमिति ।
चतुर्विधस्येति ।
जरायुजाण्डजस्वेदजोद्भिज्जरूपस्येत्यर्थः ।
स्मृत्युक्ता कुतो न ग्राह्येति शङ्कते
कस्मादिति ।
श्रुतेः श्रुत्यन्तरादर्थग्रहो युक्तः, साजात्यान्मूलानपेक्षत्वाच्चेत्याह
तथा हीति ।
शाखिनश्छन्दोगाः ।
किञ्च लोहितादिशब्दैरपि द्रव्यलक्षणा न्याय्या अव्यवधानात्न तु रञ्जनीयत्वादिगुणव्यवहिता सत्त्वादिगुणलक्षणेत्याह
लोहितादीनां चेति ।
ननु शाखान्तरेण शाखान्तरस्थमन्त्रस्य निर्णयः कथमित्यत आह
असन्दिग्धेनेति ।
सर्वशाखाप्रत्ययन्यायादिति भावः ।
यथा शाखान्तरवाक्यान्न प्रधानग्रहस्तथेहापि श्वेताश्वतरोपनिषदि मायाप्रकरणान्न तद्ब्रह्म इत्याह
तथेति ।
सृष्ट्यादौ किंसहायं ब्रह्मेति विमृश्यते । ब्रह्मवादिनो ध्यानाख्ययोगेन परमात्मानमनुप्रविष्टाः सन्तः तत्रैव देवस्यात्मभूतामैक्येनाध्यस्तां शक्तिं परतन्त्रां मायां सत्त्वादिगुणवतीं ब्रह्मणः सहायमपश्यन्नित्यन्वयः । मायाया एकत्वेऽपि तदंशानां जीवोपाधीनां तत्तत्सङ्घातयोनीनामविद्याख्यानां भेदाद्वीप्सा । अव्याकृते अनभिव्यक्ते नामरूपे यस्यां सा । अनेन 'तद्धेदं तर्ह्यव्याकृतमासीत्' इति श्रुत्यन्तरप्रसिद्धिरुक्ता ।
तस्यां शक्तौ व्यक्ताव्यक्तकार्यलिङ्गकानुमानं सूचयति
नामेति ।
मायाया रोहितादिरूपवत्त्वं कथमित्यत आह
तस्या इति ।
विषय आश्रयः ॥ ९ ॥
एवं प्रकरणबलान्मायैवाजेति भाष्यकृन्मतम् । छान्दोग्यश्रुत्या तेजोऽबन्नलक्षणावान्तरप्रकृतिरजेति सूत्रकृन्मतेनोत्तरसूत्रव्यावर्त्यं शङ्कते
कथमिति ।
किं तेजोबन्नेष्वजाशब्दो रूढो, न जायत इति यौगिको वा । नाद्यः, तेष्वजात्वजातेरसत्त्वादित्याह
यावतेति ।
यत इत्यर्थः । अतो न रूढ इति शेषः ।
न द्वितीय इत्याह
नचेति ।
जातिर्जन्म । अजातिरजन्म ।
लौकिकाजाशब्दसादृश्यकल्पनया तेजोऽबन्नानामजात्वोपदेशाद्गौणोऽयं शब्द इति परिहरति
कल्पनेति ।
अनियमो यदृच्छा । बर्करो बालपशुः ।
यदुक्तं जीवभेदेन प्रधानवादप्रत्यभिज्ञेति, तन्नेत्याह
न चेदमिति ।
व्यवस्थार्थो भेदोऽप्यर्थात्प्रतिपाद्यत इत्याह
प्रसिद्धं त्विति ।
सत्य एव प्रसिद्ध इत्यत आह
भेदस्त्विति ।
कल्पनोपदेशे दृष्टान्तं व्याचष्टे
मध्विति ।
नच योगस्य मुख्यवृत्तित्वात्तेन प्रधानग्रहो न्याय्य इति वाच्यम् , रूढार्थानपेक्षाद्योगात्तदाश्रितगुणलक्षणाया बलीयस्त्वात् । गुणवृत्तौ हि रूढिराश्रिता भवति । तथाच रोहितादिशब्दसमभिव्याहारानुगृहीतया रूढ्याश्रितया गुणवृत्त्या प्रधाने योगं बाधित्वावान्तरप्रकृतिरजाशब्देन ग्राह्या, यथा मध्वादिशब्दैः प्रसिद्धमध्वाद्याश्रितगुणलक्षणया आदित्यादयो गृह्यन्ते तद्वत् । तस्मादशब्दं प्रधानमिति सिद्धम् ॥ १० ॥
न सङ्ख्योपसङ्ग्रहात् । पञ्चजनशब्दः साङ्ख्यतत्त्वपरोऽन्यपरो वेति योगरूढ्योरनिश्चयात्संशये यथा तत्त्वविद्याधिकारे छागायां तात्पर्याभावादजापदे रूढित्यागस्तथा पञ्चमनुष्येषु तात्पर्याभावात्पञ्चजनशब्देन रूढिं त्यक्त्वा तत्त्वानि ग्राह्याणीतिदृष्टान्तसङ्गतिं सूचयन्मन्त्रमुदाहृत्य पूर्वपक्षयति
एवमित्यादिना ।
फलं पूर्ववत् । प्राणचक्षुःश्रोत्रान्नमनांसि वाक्यशेषस्थाः पञ्चजनाः पञ्च । तत्र चत्वारः सूत्रमन्नं विराट्तयोः कारणमव्याकृतमाकाशश्च यस्मिन्नध्यस्तास्तमेवात्मानममृतं ब्रह्म मन्ये । तस्मान्मननात् विद्वानहममृतोऽस्मीति मन्त्रदृशो वचनम् ।
नन्वस्तु पञ्चत्वविशिष्टेषु पञ्चजनेषु पुनः पञ्चत्वान्वयात्पञ्चविंशतिसङ्ख्याप्रतीतिः, तावता कथं साङ्ख्यतत्त्वग्रह इत्याशङ्क्य सङ्ख्याया धर्म्याकाङ्क्षायां तत्त्वानि ग्राह्याणीत्याह
तथेति ।
जगतो मूलभूता प्रकृतिस्त्रिगुणात्मकं प्रधानमनादित्वादविकृतिः । कस्यचित्कार्यं न भवतीत्यर्थः । महदहङ्कारपञ्चतन्मात्राणीति सप्त प्रकृतयो विकृतयश्च । तत्र महान्प्रधानस्य विकृतिरहङ्कारस्य प्रकृतिः । अहङ्कारस्तामसः पञ्चतन्मात्राणां शब्दादीनां प्रकृतिः, सात्त्विक एकादशेन्द्रियाणाम् । पञ्च तन्मात्राश्च पञ्चानां स्थूलभूतानामाकाशादीनां प्रकृतयः पञ्च स्थूलभूतान्येकादशेन्द्रियाणि चेति षोडशसङ्ख्याको गणो विकार एव न प्रकृतिः, तत्त्वान्तरोपादानत्वाभावात् । पुरुषस्तूदासीन इति साङ्ख्यकारिकार्थः ।
सङ्ख्यया तत्त्वानामुपसंग्रहात् शब्दवत्त्वमिति प्राप्ते सिद्धान्तयति
नेति ।
नानात्वमिष्टमित्यत आह
नैषामिति ।
पञ्चसु पञ्चसु साधारणस्येतरपञ्चकाद्व्यावृत्तस्य धर्मस्याभावोऽत्र नानात्वं विवक्षितमित्यर्थः । यद्यपि ज्ञानकर्मेन्द्रियेषु दशसु ज्ञानकरणत्वं कर्मकरणत्वं च पञ्चकद्वयेऽस्ति, पञ्चतन्मात्रासु पञ्चसु स्थूलप्रकृतित्वं च, तथापि यस्मिन्नित्यात्मन आकाशस्य च पृथगुक्तेः सत्त्वरजस्तमोमहदहङ्काराः पञ्च कर्तव्याः, मनश्चत्वारि भूतानि च पञ्च । अस्मिन् पञ्चकद्वये मिथोऽनुवृत्तेतरपञ्चकव्यावृत्तधर्मो नास्तीत्यभिप्रायः ।
मास्त्वित्यत आह
येनेति ।
धर्मेणेत्यर्थः ।
तदेव स्फुटयति
नहीति ।
महासङ्ख्यायामवान्तरसङ्ख्याः प्रविशन्ति, यथा द्वावश्विनौ सप्तर्षयोऽष्टौ वसवश्चेति सप्तदशेत्यत्राश्वित्वादिकमादाय द्वित्वादयः प्रविशन्ति । नान्यथेत्यर्थः ।
पञ्चशब्दद्वयेन स्ववाच्यन्यूनसङ्ख्याद्वारेण तद्व्याप्या महासङ्ख्यैव लक्ष्यत इति सदृष्टान्तं शङ्कते
अथेति ।
मुख्यार्थस्य वक्ष्यमाणत्वाल्लक्षणा न युक्तेति परिहरति
तदपि नेति ।
पञ्चजनशब्दयोरसमासमङ्गीकृत्य पञ्चविंशतिसङ्ख्याप्रतीर्निरस्ता । सम्प्रति समासनिश्चयान्न तत्प्रतीतिरित्याह
परश्चेति ।
समासे हेतुमाह
पारिभाषिकेणेति ।
अयमर्थः अस्मिन्मन्त्रे प्रथमःपञ्चशब्द आद्युदात्तः । द्वितीयः सर्वानुदात्तः । जनशब्दश्चान्तोदात्तः । तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासं विनान्त्यस्याकारस्योदात्तत्वं पूर्वेषामनुदात्ततत्वं च घटते 'समासस्य' इति सूत्रेण समासस्यान्तोदात्तविधानात् । 'अनुदात्तं पदमेकवर्जम्' इति च सूत्रेण यस्मिन्पदे उदात्तः स्वरितो वा यस्य वर्णस्य विधीयते तमेकं वर्जयित्वावशिष्टं तत्पदमनुदात्तं भवतीति विधानादेव मान्त्रिकान्तोदात्तस्वरेणैकपदत्वनिश्चयः भाषिकाख्ये तु शतपथब्राह्मणस्वरविधायकग्रन्थे 'स्वरितोऽनुदात्तो वा' इति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्राह्मणदशायामुदात्तो भवतीत्यपवाद आश्रितः । तथा चान्त्यादाकारात्पूर्वेषामनुदात्तानामुदात्तत्वं ब्राह्मणावस्थायां प्राप्तम् , 'उदात्तमनुदात्तमनन्त्यम्' इति सूत्रेण मन्त्र दशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितम् , तथा चान्त्यनकारादुपरितन आकार आकाशश्चेत्यनेन श्लिष्टतया पठ्यमानोऽनुदात्तो भवति, अयमन्तानुदात्तस्वरः पारिभाषिकस्तेन ब्राह्मणस्वरेणैकपदत्वं निश्चीयत इति । प्रकटार्थकारैस्तु पाठकप्रसिद्धोऽन्तोदात्तस्वरः पारिभाषिक इति व्याख्यातम् । तद्व्याख्यानं कल्पतरुकारैर्दूषितम् । अन्तानुदात्तं हि समाम्नातारः पञ्चजनशब्दमधीयत इति पाठकप्रसिद्धिरसिद्धेति । तथा च पञ्च पञ्चजना इति मान्त्रिकान्तोदात्तः स्वरः, यस्मिन् पञ्च पञ्चजना इत्यन्तानुदात्तो ब्राह्नणस्वर इति विभागः । उभयथाप्यैकपद्यात्समाससिद्धिरिति ।
तैत्तिरीयकप्रयोगादप्येकपदत्वमित्याह
प्रयोगान्तरे चेति ।
आज्य, त्वा त्वां पञ्चानां पञ्चजनानां देवविशेषाणां यन्त्राय धर्त्राय गृह्णामि इत्याज्यग्रहणमन्त्रशेषः । देवतानां कर्मणि यन्त्रवदवस्थितं शरीरं तदेव धर्त्रम् इहामित्रभोगाधारम् , तस्मै तस्यावैकल्यार्थमिति यजमानोक्तिः ।
अस्तु समासस्ततः किमित्यत आह
समस्तत्वाच्चेति ।
आवृतिर्वीप्सा तदभावे पञ्चकद्वयाग्रहणात्पञ्चविंशतिसङ्ख्याप्रतीतिरसिद्धेति भावः । जनपञ्चकमेकं पञ्चकानां पञ्चकं द्वितीयमिति पञ्चकद्वयं तस्य पञ्चपञ्चेति ग्रहणं नेत्यक्षरार्थः ।
किञ्चासमासपक्षेऽपि किं पञ्चशब्दद्वयोक्तयोः पञ्चत्वयोः परस्परान्वयः, किं वा तयोः शुद्धजनैरन्वयः, अथवा पञ्चत्वविशिष्टैर्जनैरपरपञ्चत्वस्यान्वयः । नाद्य इत्याह
नच पञ्चसङ्ख्याया इति ।
विशेषणमन्वयः ।
अनन्वये हेतुमाह
उपसर्जनस्येति ।
अप्रधानानां सर्वेषां प्रधानेनैव विशेष्येणैवान्वयो वाच्यः । गुणानां परस्परान्वये वाक्यभेदापातादित्यर्थः । द्वितीये दशसङ्ख्याप्रतीतिः स्यान्न पञ्चविंशतिसङ्ख्याप्रतीतिः ।
तृतीयमुत्थापयति
नन्विति ।
पञ्चत्वविशिष्टेषु पञ्चत्वान्तरान्वये विशेषणीभूतपञ्चत्वेऽपि पञ्चत्वान्वयात्पञ्चविंशतित्वप्रतीतिरित्यर्थः ।
दृष्टान्तवैषम्येण परिहरति
नेति ब्रूम इति ।
पञ्चानां पूलानां समाहारा इत्यत्र 'सङ्ख्यापूर्वो द्विगुः' इति समासो विहितः । ततो 'द्विगोः' इति सूत्रेण ङीपो विधानात्समाहारप्रतीतौ समाहाराः कतीत्याकाङ्क्षायां सत्यां पञ्चेतिपदान्तरान्वयो युक्तः । पञ्चजना इत्यत्र तु ङीबन्तत्वाभावेन समाहारस्याप्रतीतेः जनानां चादित एव पञ्चत्वोपादानात्सङ्ख्याकाङ्क्षाया असत्त्वात्पञ्चेति पदान्तरं नान्वेति । आकाङ्क्षाधीनत्वादन्वयस्येत्यर्थः । भेदो विशेषणम् ।
ननु जनानां निराकाङ्क्षत्वेऽपि तद्विशेषणीभूतपञ्चत्वानि कतीत्याकाङ्क्षायां पञ्चत्वान्तरं विशेषणं भवत्वित्याशङ्कते
भवदपीति ।
नोपसर्जनस्योपसर्जनान्तरेणान्वयः किन्तु प्रधानेनैवेति नोपसर्जनन्यायविरोध उक्त इति परिहरति
तत्र चेति ।
एवं नानाभावादिति व्याख्यायातिरेकाच्चेति व्याचष्टे
अतिरेकाच्चेत्यादिना ।
अतिरेक आधिक्यम् ।
जनशब्दितपञ्चविंशतितत्त्वेषु आत्मान्तर्भूतो न वा । नाद्य इत्युक्त्वा द्वितीये दोषमाह
अर्थान्तरेति ।
तथाकाशं विकल्प्य दूषयति
तथेति ।
उक्तो दोषः सङ्ख्याधिक्यम् । पञ्चविंशतिजना आत्माकाशौ चेति सप्तविंशतिसङ्ख्या स्यादित्यर्थः । नच सत्त्वरजस्तमसां पृथग्गणनया सेष्टेति वाच्यम् , आकाशस्य पृथगुक्तिवैयर्थ्यात् , यस्मिन्नित्यात्मनि तत्त्वानां प्रतिष्ठोक्तिविरोधात्तव मते स्वतन्त्रप्रधानस्यैवानाधारत्वात् , 'नेह नानास्ति' इति वाक्यशेषविरोधाच्च तव सत्यद्वैतवादित्वात् ।
किं च पञ्चविंशतिसङ्ख्याप्रतीतावपि न साङ्ख्यतत्त्वानां ग्रहणमित्याह
कथं चेति ।
किं जनशब्दात्तत्त्वग्रहः उत सङ्ख्ययेति कथंशब्दार्थः । नाद्य इत्याह
जनेति ।
न द्वितीय इत्याह
अर्थान्तरेति ।
किं तदर्थान्तरं यदर्थकमिदं वाक्यमिति पृच्छति
कथमिति ।
पञ्च च ते जनाश्चेति कर्मधारयादिसमासान्तरात्संज्ञासमासस्याप्तोक्त्या बलवत्त्वं तावदाह
उच्यत इति ।
विग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञायां गम्यमानायां सुबन्तेनोत्तरपदेन समस्यन्ते । यथा दक्षिणाग्निः सप्तर्षय इत्यादि । अयं च समासस्तत्पुरुषभेदः ॥ ११ ॥
पञ्चजनशब्दस्य संज्ञात्वमुक्त्वा संज्ञिकथनार्थं सूत्रं गृह्णाति
के पुनस्त इति ।
श्रुतौ उतशब्दोऽप्यर्थः । ये प्राणादिप्रेरकं तत्साक्षिणमात्मानं विदुस्ते ब्रह्मविद इत्यर्थः ।
पञ्चजनशब्दस्य प्राणादिषु कया वृत्त्या प्रयोग इति शङ्कते
कथं पुनरिति ।
यथा तव तत्त्वेषु जनशब्दस्य लक्षणया प्रयोगस्तथा मम प्राणादिषु पञ्चजनशब्दस्य लक्षणयेत्याह
तत्त्वेष्विति ।
तर्हि रूढ्यतिक्रमसाम्यात्तत्त्वान्येव ग्राह्याणीत्यत आह
समाने त्विति ।
संनिहितसजातीयानपेक्षश्रुतिस्था एव ग्राह्याः । न तु व्यवहितविजातीयसापेक्षस्मृतिस्था इत्यर्थः ।
लक्षणाबीजं सम्बन्धमाह
जनेति ।
जनः पञ्चजन इति पर्यायः ।
पुरुषमित्रादिशब्दवच्च पञ्चजनशब्दस्य प्राणादिलक्षकत्वं युक्तमित्याह
जनवचनश्चेति ।
ननु जायन्त इति जना महदादयः, जनकत्वाज्जनः प्रधानमिति योगसम्भवे किमिति रूढिमाश्रित्य लक्षणाप्रयास इत्यत आह
समासेति ।
यथा अश्वकर्णशब्दस्य वर्णसमुदायस्य वृक्षे रूढिरेवं पञ्चजनशब्दस्य रूढिरेव नावयवशक्त्यात्मको योग इत्यर्थः ।
पूर्वकालिकप्रयोगाभावान्न रूढिरित्याक्षिपति
कथमिति ।
'स्युः पुमांसः पञ्चजनाः' इत्यमरकोशादौ प्रयोगोऽस्त्येव, तदभावमङ्गीकृत्याप्याह
शक्येति ।
जनसम्बन्धाच्चेति पूर्वभाष्ये नरेषु पञ्चजनशब्दस्य रूढिमाश्रित्य प्राणादिषु लक्षणोक्ता । इह तु प्रौढिवादेन प्राणादिषु रूढिरुच्यत इति मन्तव्यम् ।
सङ्गृहीतं विवृणोति
प्रसिद्धेत्यादिना ।
'उद्भिदा यजेत पशुकामः' इत्यत्रोद्भित्पदं विधेयगुणार्थकं कर्मनामधेयं वेति संशये खनित्रादावुद्भित्पदस्य प्रसिद्धेर्यागनामत्वे प्रसिद्धिविरोधाज्ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्धान्तःयजेत यागेनेष्टं भावयेदित्यर्थः । ततश्चोद्भिदेत्यप्रसिद्धस्य तृतीयान्तस्य यागेनेत्यनेन प्रसिद्धार्थकेन सामानाधिकरण्येन तन्नामत्वं निश्चीयते, उद्भिनत्ति पशून्साधयतीति प्रसिद्धेरविरोधादप्रकृतज्योतिष्टोमे गुणविध्ययोगात् , तद्विधौ चोद्भिदाख्यगुणवता यागेनेति मत्वर्थसम्बन्धलक्षणाप्रसङ्गाच्चेति कर्मनामैवोद्भित्पदम् । तथा छिनत्तीति प्रसिद्धार्थच्छेदनयोग्यार्थकशब्दसमभिव्याहाराद्दारुविशेषो यूपशब्दार्थः करोतीति समभिव्याहाराद्वेदिशब्दार्थः संस्कारयोग्यस्थण्डिलविशेष इति गम्यते । तथा प्रसिद्धार्थकप्राणादिशब्दसमभिव्याहारात्पञ्चजनशब्दः प्राणाद्यर्थक इति निश्चीयत इत्यर्थः ।
एकदेशिनां मतद्वयमाह
कैश्चिदित्यादिना ।
शूद्रायां ब्राह्मणाज्जातो निषादः ।
श्रुत्या पञ्चजनशब्दस्यार्थान्तरमाह
क्वचिच्चेति ।
पाञ्चजन्यया प्रजया विशतीति विट् तया विशापुरुषरूपयेन्द्रस्याह्वानार्थं घोषाः सृष्टा इति यत्तद्युक्तम् , घोषातिरेकेणेन्द्राह्वानायोगादिति श्रुत्यनुसारेण प्रजामात्रग्रहेऽपि न विरोध इत्यर्थः ।
सूत्रविरोधमाशङ्क्याह
आचार्यस्त्विति ।
अतः साङ्ख्यतत्त्वातिरिक्तयत्किञ्चित्परतया पञ्चजनशब्दव्याख्यायामविरोध इति भावः ॥ १२ ॥
शङ्कोत्तरत्वेन सूत्रं गृह्णाति
भवेयुरिति ।
ज्योतिषां सूर्यादीनां ज्योतिस्तद्ब्रह्म देवा उपासत इत्यर्थः ।
नन्विदं षष्ठ्यन्तज्योतिःपदोक्तं सूर्यादिकं ज्योतिः शाखाद्वयेऽप्यस्ति, तत्काण्वानां पञचत्वपूरणाय गृह्यते नान्येषामिति विकल्पो न युक्त इति शङ्कते
कथं पुनरिति ।
आकाङ्क्षाविशेषाद्विकल्पो युक्त इत्याह
सिद्धान्तीअपेक्षेति ।
यथा अतिरात्रे षोडशिनं गृह्णाति न गृह्णाति इति वाक्यभेदाद्विकल्पस्तद्वच्छाखाभेदेनान्नपाठापाठाभ्यां ज्योतिषो विकल्प इत्यर्थः । ननु क्रियायां विकल्पो युक्तो न वस्तुनीति चेत् । सत्यम् । अत्रापि शाखाभेदेन सान्ना ज्योतिःसहिता वा पञ्च प्राणादयो यत्र प्रतिष्ठितास्तन्मनसानुद्रष्टव्यमिति ध्यानक्रियायां विकल्पोपपत्तिरित्यनवद्यम् ।
उक्तं प्रधानस्याशब्दत्वमुपसंहरति
तदेवमिति ।
तथापि स्मृतियुक्तिभ्यां प्रधानमेव जगत्कारणमित्यत आह
स्मृतीति ॥ १३ ॥
कारणत्वेन चाकाशादिषु तथाव्यपदिष्टोक्तेः । पूर्वग्रन्थेनास्य सङ्गतिं वक्तुं वृत्तमनुवदति
प्रतिपादितमिति ।
अधिकरणत्रयेण प्रधानस्याश्रौतत्वोक्त्या जगत्कारणत्वलक्षणेन ब्रह्मण एव बुद्धिस्थता, तस्मिन्नेव बुद्धिस्थे निर्विशेषे ब्रह्मणि वेदान्तानां समन्वय इति साधितं पूर्वसूत्रसन्दर्भेण । तत्र लक्षणसमन्वययोरसिद्धिरेव, श्रुतीनां विरोधदर्शनादित्याक्षेपरूपां तेनास्य सङ्गतिमाह
तत्रेति ।
न चाविरोधचिन्ताया द्वितीयाध्याये सङ्गतिर्नास्मिन्नध्याय इति वाच्यम् , सिद्धे समन्वये स्मृत्यादिमानान्तरविरोधनिरासस्य द्वितीयाध्यायार्थत्वात् , तत्पदवाच्यजगत्कारणवादिश्रुतीनां मिथो विरोधाद्वाच्यार्थानिर्णयेन लक्ष्ये समन्वयासिद्धौ प्राप्तायां तत्साधकाविरोधचिन्ताया अत्रैव सङ्गतत्वात् । न चैवं सृष्टिश्रुतीनामप्यविरोधोऽत्रैव चिन्तनीय इति वाच्यम् , स्वप्नवत्कल्पितसृष्टौ विरोधस्यैवाभावात् । किमर्थं तर्हि द्वितीये तच्चिन्तनम् , स्थूलबुद्धिसमाधानार्थमिति ब्रूमः । इह तु सूक्ष्मदृशां वाक्यार्थे समन्वयज्ञानाय तत्पदार्थश्रुतिविरोधः परिह्रियते । यद्यपि त्वम्पदार्थश्रुतिविरोधोऽत्र परिहर्तव्यः तथापि प्रथमसूत्रेण बन्धमिथ्यात्वसूचनादविरोधः सिद्धः । प्रपञ्चस्तु स्थूलबुद्धिसमाधनप्रसङ्गेन भविष्यतीति मन्यते सूत्रकारः । अत्र जगत्कारणश्रुतयो विषयः ।
ताः किं ब्रह्मणि मानं न वेति संशयेऽन्नज्योतिषोः सङ्ख्यादृष्टिक्रियायां विकल्पेऽपि कारणे वस्तुन्यसद्वा सद्वा कारणमित्यादिविकल्पासम्भवादप्रामाण्यमिति प्रत्युदाहरणेन पूर्वपक्षयन्नुक्ताक्षेपं विवृणोति
प्रतिवेदान्तमित्यादिना ।
वेदान्तानां समन्वयसाधनाच्छ्रुत्यध्यायसङ्गतिः । असदादिपदानां सत्कारणे समन्वयोक्तेः पादसङ्गतिः । पूर्वपक्षे समन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति विवेकः ।
क्रमाक्रमाभ्यां सृष्टिविरोधं तावद्दर्शयतितथाहि
क्वचिदित्यादिना ।
स परमात्मा लोकानसृजत । अंमयशरीरप्रचुरस्वर्गलोकोऽम्भः शब्दार्थः । सूर्यरश्मिमव्याप्तोऽन्तरिक्षलोको मरीचयः । मरो मर्त्यलोकः । अब्बहुलाः पाताललोका आप इति श्रुत्यर्थः ।
सृष्टिविरोधमुक्त्वा कारणविरोधमाह
तथेति ।
असदनभिव्यक्तनामरूपात्मकं कारणम् , ततः कारणात्सदभिव्यक्तम् । एतत्तुल्यार्थं छान्दोग्यवाक्यमाह
असदेवेति ।
किं शून्यमेव, नेत्याह
तत्सदिति ।
अबाधितं ब्रह्मैवासीदित्यर्थः । तद्ब्रह्मात्मना स्थितं जगत्सृष्टिकाले सम्यगभिव्यक्तमभवत् । प्रक्रिया सृष्टिः । तत्तत्र कारणे । एके बाह्याः ।
तेषां मतं श्रुतिरेव दूषयति
कुत इति ।
कुत एवंपदयोरर्थमाह
कथमिति ।
स्वमतमाह
सदिति ।
तदिदं जगद्ध किल तर्हि प्राक्कालेऽव्याकृतं कारणात्मकमासीत् ।
श्रुतीनां विरोधमुपसंहरति
एवमिति ।
किमत्र न्याय्यमित्याशङ्क्य मानान्तरसिद्धप्रधानलक्षकत्वं वेदान्तानां न्याय्यमित्याह
स्मृतीति ।
तत्र सृष्टौ विरोधमङ्गीकृत्य स्रष्टरि विरोधं परिहरति
सत्यपीति ।
आकाशादिषु ब्रह्मणः कारणत्वे विरोधो नैवास्तीति प्रतिज्ञायां हेतुमाह
कुत इति ।
यथाभूतत्वमेवाह
सर्वज्ञ इति ।
कारणस्य सर्वज्ञत्वादिकं प्रतिवेदान्तं दृश्यत इत्याह
तद्यथेत्यादिना ।
तद्विषयेण ब्रह्मविषयेण । चेतनं सर्वज्ञम् । 'तदात्मानं स्वयमकुरुत' इति श्रुतेरपरप्रयोज्यत्वम् । 'तस्माद्वा एतस्मादात्मनः' इति प्रत्यगात्मत्वम् । स्वस्य बहुरूपत्वकामनया स्थितिकालेऽप्यद्वितीयत्वम् ।
यथा तैत्तिरीयके सर्वज्ञत्वादिकं कारणस्य तथा छान्दोग्यादावपि दृश्यत इत्याह
तदत्र यल्लक्षणमिति ।
मिषत्सव्यापारम् । अविगीतार्थत्वादविरुद्धार्थकत्वात्कारणे नास्ति विप्रतिपत्तिरिति शेषः ।
तथापि कार्ये विरोधात्कारणेऽपि विरोधः स्यादित्याशङ्क्य निषेधति
कार्यविषयं त्वित्यादिना ।
स्वप्नसृष्टीनां प्रत्यहमन्यथात्वेन सोऽहमिति प्रत्यभिज्ञायमाने द्रष्टर्यपि नानात्वं प्रसज्येतेत्याह
अतिप्रसङ्गादिति ।
सृष्टिविरोधमङ्गीकृत्य स्रष्टरि न विरोध इत्युक्तम् । अधुनाङ्गीकारं त्यजति
समाधास्यति चेति ।
किमर्थं तर्हि श्रुतयः सृष्टिमन्यथान्यथा वदन्तीत्याशङ्क्य सृष्टावतात्पर्यज्ञापनायेत्याह
भवेदित्यादिना ।
अतात्पर्यार्थविरोधो न दोषायेत्यतात्पर्यं साधयति
नहीति ।
फलवद्ब्रह्मवाक्यशेषत्वेन सृष्टिवाक्यानामर्थवत्त्वसम्भवान्न स्वार्थे पृथक्फलं कल्प्यम् , वाक्यभेदापत्तेरित्याह
नच कल्पयितुमिति ।
न्यायादेकवाक्यत्वं सिद्धं श्रुतिरपि दर्शयतीत्याह
दर्शयति चेति ।
शुङ्गेन कार्येण लिङ्गेन कारणब्रह्मज्ञानार्थत्वं सृष्टिश्रुतीनामुक्त्वा कारणस्याद्वयत्वज्ञानं फलान्तरमाह
मृदादीति ।
एवं निष्फलायामन्यार्थायां सृष्टौ तात्पर्याभावाद्विरोधो न दोष इत्यत्र वृद्धसंमतिमाह
तथाचेति ।
अन्यथान्यथेति वीप्सा द्रष्टव्या । अवताराय ब्रह्माधिजन्मने । अतस्तदन्यथात्वेऽपि ब्रह्मणि न भेदः । ज्ञेये न विगानमित्यर्थः ।
ब्रह्मज्ञानस्य सृष्टिशेषित्वमुक्तम् , तन्निर्वाहाय तस्य फलमाह
ब्रह्मेति ।
मृत्युमत्येतीत्यन्वयः ॥ १४ ॥
एवं सृष्टिद्वारकं विरोधमुत्सूत्रं समाधाय कारणस्य सदसत्त्वादिना साक्षाच्छ्रुतिविरोधनिरासार्थं सूत्रमादत्ते
यत्पुनरिति ।
यतोऽस्तित्वलक्षणं ब्रह्म निर्धार्य तस्मिन्नेव श्लोकमुदाहरति, अतोऽत्र श्लोके निरात्मकमसन्न श्राव्यत इति योजना । तत्तत्र सदात्मनि श्लोको मन्त्रो भवति ।
सदात्मसमाकर्षादतीन्द्रियार्थकासत्पदेन ब्रह्म लक्ष्यत इत्याह
तस्मादिति ।
नच प्रधानमेव लक्ष्यतामिति वाच्यम् । चेतनार्थकब्रह्मादिशब्दानामनेकेषां लक्षणागौरवादिति भावः ।
तैत्तिरीयकश्रुतौ सूत्रं योजयित्वा छान्दोग्यादौ योजयति
एषैवेति ।
सदेकार्थकतत्पदेन पूर्वोक्तासतः समाकर्षान्न शून्यत्वमित्यर्थः ।
नन्वसत्पदलक्षणा न युक्ता, श्रुतिभिरेव स्वमतभेदेनोदितानुदितहोमवद्विकल्पस्य दर्शितत्वादित्यत आह
तद्धैक इति ।
एके शाखिन इत्यर्थो न भवति, किन्तु अनादिसंसारचक्रस्था वेदबाह्या इत्यर्थः । शून्यनिरासेन श्रुतिभिः सद्वादस्यैवेष्टत्वात्तासां विरोधस्फूर्तिनिरासाय लक्षणा युक्तेति भावः ।
यदुक्तं क्वचिदकर्तृका सृष्टिः कथितेति, तन्नेत्याह
तद्धेदमिति ।
अध्यक्षः कर्ता ।
ननु कर्त्रभाव एव परामृश्यत इत्यत आह
चेतनस्य चायमिति ।
चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यत इत्यर्थः ।
आद्यकार्यं सकर्तृकम् , कार्यत्वात् , घटवदित्याह
अपिचेति ।
अद्यत्वे इदानीम् ।
ननु कर्मकारकादन्यस्य कर्तुः सत्त्वे कर्मण एव कर्तृवाचिलकारो विरुद्ध इत्यत आह
व्याक्रियत इति ।
अनायासेन सिद्धिमपेक्ष्य कर्मणः । कर्तृत्वमुपचर्यत इत्यर्थः ।
व्याक्रियते जगत्स्वयमेव निष्पन्नमिति व्याख्याय केनचिद्व्याकृतमिति व्याचष्टे
यद्वेति ।
अतः श्रुतीनामविरोधात्कारणद्वारा समन्वय इति सिद्धम् ॥ १५ ॥
जगद्वाचित्वात् । विषयमाह
कौषीतकीति ।
बलाकाया अपत्यं बालाकिर्ब्राह्मणस्तं प्रति राजोवाच
यो वा इति ।
न केवलमादित्यादीनां कर्ता किन्तु सर्वस्य जगत इत्याह
यस्येति ।
एतज्जगद्यस्य कर्म । क्रियते इति व्युत्पत्त्या कार्यमित्यर्थः ।
कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह
तत्रेति ।
पूर्वत्रैकवाक्यस्थसदादिशब्दबलादसच्छब्दो नीतः । इह तु वाक्यभेदात् 'ब्रह्म ते ब्रवाणि' इति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणेन पूर्वपक्षमाह
किं तावदिति ।
पूर्वपक्षे वाक्यस्य प्राणाद्युपास्तिपरत्वाद्ब्रह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये समन्वयसिद्धिरिति फलम् । अथ सुषुप्तौ । द्रष्टेति शेषः ।
श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यत आह
ये चैत इति ।
सूत्रात्मकप्राणस्य विकाराः सूर्यादय इत्यत्र मानमाह
क्रतम इति ।
यस्य महिमानः सर्वे देवा इति पूर्ववाक्ये दर्शितम् , अतः सर्वदेवात्मकत्वात् , स प्राणो ब्रह्म । त्यत् परोक्षम् । शास्त्रैकवेद्यत्वादित्यर्थः ।
पूर्वपक्षान्तरमाह
जीवो वेति ।
यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना । तौ ह पुरुषं सुप्तमाजग्मतुः । तं राजा हे बृहत्पाण्डरवासः सोमराजन्नित्यामन्त्र्य सम्बोध्य सम्बोधनानभिज्ञत्वात्प्राणादेरनात्मत्वमुक्त्वा यष्ठ्याघातेनोत्थाप्य जीवं बोधितवानित्यर्थः । श्रेष्ठी प्रधानः स्वैर्भृत्यैर्ज्ञातिभिरुपहृतं भुङ्क्ते स्वाः ज्ञातयश्च तमुपजीवन्ति, एवं जीवोऽपि आदित्यादिभिः प्रकाशादिना भोगोपकरणैर्भुङ्क्ते ते च हविर्ग्रहणादिना जीवमुपजीवन्तीत्युक्तं भोक्तृत्वं जीवलिङ्गम् ।
ननु 'प्राण एवैकधा भवति' इति श्रुतः प्राणशब्दो जीवे कथमित्यत आह
प्राणभृत्त्वाच्चेति ।
सूत्राद्बहिरेव सिद्धान्तयति
एवमिति ।
स च बालाकिर्ब्रह्मत्वभ्रान्त्या व्यष्टिलिङ्गरूपान्पुरुषानुक्त्वा राज्ञा निरस्तस्तूष्णीं स्थितः । त्वदुक्तं ब्रह्म मृषेत्युक्त्वा राज्ञोच्यमानं ब्रह्मैवेति वक्तव्यमन्यथाराज्ञोऽपि मृषावादित्वप्रसङ्गादित्याह
यदि सोऽपीति ।
वेदितव्योऽपीत्यर्थः ।
मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङ्गम् , प्राणजीवयोस्तन्नियम्यत्वेनास्वातन्त्र्यादित्याह
कर्तृत्वं चेति ।
यदुक्तं चलनादृष्टयोर्वाचकः कर्मशब्दः प्राणजीवयोरुपस्थापक इति, तन्नेत्याह
यस्येति ।
अनेकार्थकाच्छब्दादन्यतरार्थस्य प्रकरणादुपपदाद्वा ग्रहणं न्याय्यम् । अत्र प्रकरणोपपदयोरसत्त्वात्कस्य ग्रहणमिति संशये पुरुषकर्तृपदसांनिध्यात्क्रियत इति योगाज्जगद्ग्रहणमित्यर्थः ।
एतत्कर्मेतिप्रकृतपरामर्शात्पुरुषाः पूर्वोक्तः कर्मशब्देन निर्दिश्यन्तामित्यत आह
नापीति ।
पौनरुक्त्यातात्पुरुषाणां नपुंसकैकवचनेन परामर्शायोगाच्चेत्यर्थः ।
ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करोत्यर्थमुत्पादनं तस्यफलं पुरुषजन्म तदन्यतरवाची कर्मशब्दोऽस्त्वित्यत आह
नापीति ।
कर्तृशब्देनेति ।
क्रियाफलाभ्यां विना कर्तृत्वायोगात्कर्तृशब्देनैव तयोर्ग्रहणमित्यर्थः ।
जगतोऽपि प्रकरणोपपदे न स्त इत्युक्तमङ्गीकरोति
सत्यमिति ।
प्रकरणादिकं हि सर्वनाम्नः सङ्कोचकम् , तस्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते । अत्र च सङ्कोचकासत्त्वात्सर्वार्थकेन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह
तथापीति ।
किञ्च जगदेकदेशोक्त्या जगत्प्रकृतमित्याह
पूर्वत्रेति ।
जगद्ग्रहे पुरुषाणामपि ग्रहात्पृथगुक्तिर्व्यर्थेत्यत आह
एतदुक्तमिति ।
स वेदितव्य इति सम्बन्धः । पुरुषमात्रनिरूपितं कर्तृत्वमिति भ्रान्तिनिरासार्थो वाशब्दः ।
ब्राह्मणा भोजयितव्याः परिव्राजकाश्चेत्यत्र यथा ब्राह्मणशब्दः परिव्राजकान्यविषयः तथात्र कर्मशब्दः पुरुषान्यजगद्वाचीत्याह
एवमिति ।
अस्तु जगत्कर्ता वेदितव्यः, परमेश्वरस्य किमायातमित्यत आह
परमेश्वरेति ॥ १६ ॥
सिद्धान्तमुक्त्वा पूर्वपक्षबीजमनूद्य दूषयति
जीवमुख्यप्राणलिङ्गादिति ।
उक्तमेव स्मारयति
त्रिविधमिति ।
श्रैष्ठ्यं गुणाधिक्यम् , आधिपत्यं नियन्तृत्वम् । स्वाराज्यमनियम्यत्वमिति भेदः ।
'सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते' इत्युक्तं चेत्पुनरुक्तिः स्यादिति शङ्कते
नन्वेवमिति ।
कर्मपदस्य रूढ्या पूर्वपक्षप्राप्तौ तन्निरासार्थमस्यारम्भो युक्त इत्याह
नेत्यादिना ।
प्राणशब्दजीवलिङ्गयोर्गतिमाह
प्राणशब्दोऽपीति ।
मनो जीवः ॥ १७ ॥
जीवलिङ्गेन ब्रह्मैव लक्ष्यत इत्युक्तम् । इदानीं तल्लिङ्गेन जीवोक्तिद्वारा ब्रह्म ग्राह्यमित्याह
अन्यार्थमिति ।
जीवपरामर्शस्य जीवाधिकरणब्रह्मज्ञानार्थत्वे प्रश्नमाह
क्वैष इति ।
हे बालाके, एतच्छयनं विशेषज्ञानाभावरूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट । कस्मिन्नधिकरणे शयनं कृतवानित्यर्थः ।
एकीभावाश्रयज्ञानार्थं पृच्छति
क्व वेति ।
एतद्भवनमेकीभावरूपं यथा स्यात्तथा एष पुरुषः क्वाभूत्सुप्तः । केनैक्यं प्राप्नोतीति यावत् ।
उत्थानापादानं पृच्छति
कुत इति ।
एतदागमनमैक्यभ्रंशरूपं यथा स्यात्तथा पुरुषः कुत आगत इत्यर्थः ।
प्रश्नमुक्त्वा व्याख्यानमाह
प्रतिवचनमिति ।
शयनभवनयोराधार उत्थानापादानं च प्राणशब्दितं ब्रह्मैवेत्यर्थः ।
उत्तरे प्राणोक्तेः प्रश्नोऽपि प्राणविशय इत्यत आह
सुषुप्तिकाले चेति ।
जगद्धेतुत्व जीवैक्याभ्यां प्राणोऽत्र ब्रह्मेत्यर्थः ।
जीवोक्तेरन्यार्थत्वमुपसंहरति
तस्मादिति ।
निःसम्बोधता विशेषधीशून्यता । स्वच्छता विक्षेपमलशून्यता ।
भेदभ्रान्तिशून्यता स्वरूपैक्यमाह
उपाधीति ।
प्रश्नव्याख्यानयोर्ब्रह्मविषयत्वे शाखान्तरसंवादमाह
अपि चैवमेके शाखिन इति ।
ननु तत्राकाशः सुषुप्तिस्थानमुक्तं न ब्रह्मेत्यत आह
आकाशेति ।
उपाधिद्वारा प्रमात्रात्मजन्महेतुत्वाच्चाकाशो ब्रह्मेत्याह
सर्व इति ।
एवं जीवनिरासार्थकत्वेन सूत्रं व्याख्याय प्राणनिरासपरत्वेनापि व्याचष्टे
प्राणेति ।
अस्मिन्वाक्ये प्राणोपदेशं ब्रह्मज्ञानार्थं मन्यते जैमिनिः, उक्तप्रश्नव्याख्यानाभ्यां वाक्यस्य ब्रह्मपरत्वावगमात् । अपि चैके शाखिन एवमेव प्राणातिरिक्तं जीवात्मानमामनन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोजना । अतिरिक्तजीवोपदेशः प्राणनिराकरणस्याप्यभ्युच्चयो हेत्वन्तरमिति भाष्यार्थः । तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धम् ॥ १८ ॥
वाक्यान्वयात् । विषयवाक्यमाह
बृहदिति ।
पत्यादेरात्मशेषत्वेन प्रियत्वादात्मैव सर्वशेषी प्रियतमः, अतोऽन्यत्परित्यज्यात्मैव द्रष्टव्यः । दर्शनार्थं श्रवणादिकं कार्यमित्यर्थः ।
प्रियसंसूचितेनेति ।
पतिजायादिभिः । प्रियैर्भोग्यैर्जीवतयानुमितेनेत्यर्थः ।
यथा 'ब्रह्म ते ब्रवाणि' इत्युपक्रमबलाद्वाक्यस्य ब्रह्मपरत्वं तथात्र जीवोपक्रमादस्य वाक्यस्य जीवपरत्वमिति दृष्टान्तेन पूर्वपक्षयति
किं तावदिति ।
पूर्वपक्षे वाक्यस्य जीवोपास्तिपरत्वम् , सिद्धान्ते ज्ञेये प्रत्यग्ब्रह्मणि समन्वय इति फलम् । इदं प्रत्यक् । महदपरिच्छिन्नम् । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतं चिदेकरसम् । एतेभ्यःकार्यकारणात्मना जायमानेभ्यो भूतेभ्यः साम्येनोत्थाय भूतोपाधिकं जन्मानुभूय तान्येव भूतानि नीयमानान्यनुसृत्य विनश्यति । औपाधिकमरणानन्तरं विशेषधीर्नास्तीति श्रुत्यर्थः ।
विज्ञातारं
विज्ञानकर्तारम् । भोक्तरि ज्ञाते भोग्यं ज्ञातमित्युपचारः ।
मोक्षसाधनज्ञानगम्यत्वादिलिङ्गैर्वाक्यस्यान्वयाद्ब्रह्मण्येव तात्पर्यावगमाद्ब्रह्मप्रमापकत्वमिति सिद्धान्तयति
एवमिति ।
न वित्तेन । तत्साध्येन कर्मणेत्यर्थः ।
भेदनिन्दापूर्वकमभेदसाधनेनैकविज्ञानात्सर्वविज्ञानस्य समर्थनादौपचारिकत्वं न युक्तमित्याह
न चैतदौपचारिकमित्यादिना ।
पराकरोति ।
श्रेयोमार्गाद्भ्रंशयति ।
यथा दुन्दुभिशङ्खवीणाशब्दसामान्यग्रहणेनैव गृह्यमाणास्तदवान्तरविशेषाः शुक्तिग्रहणग्राह्यरजतवत्सामान्ये कल्पितास्ततो न भिद्यन्ते, एवमात्मभानभास्यं सर्वमात्ममात्रमिति निश्चितमित्याह
दुन्दुभ्यादिति ।
एवमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्ब्रह्मनिश्चयः ।
सर्वस्रष्टृत्वलिङ्गादपीत्याह
अस्यमहत इति ।
ऋग्वेदादिकं नाम । इष्टं हुतमिति कर्म । अयं च लोकः परश्च लोक इति रूपम् ।
किञ्च 'स यथा सर्वासामपां समुद्र एकायनम्' इति कण्डिकया सर्वप्रपञ्चस्य मुख्यलयाधारत्वमात्मनो ब्रह्मत्वे लिङ्गमित्याह
तथैवैकायनेति ॥ १९ ॥
जीवब्रह्मणोर्भेदाभेदसत्त्वादभेदांशेनेदं जीवोपक्रमणं प्रतिज्ञासाधकमित्याश्मरथ्यमतम् ॥ २० ॥
सत्यसंसारदशायां भेद एव, मुक्तावेवाभेद इत्यौडुलोमिमतम् । तत्र मानमाह
श्रुतिश्चेति ।
समुत्थानमुत्क्रान्तिः ।
ननु संसारस्यौपाधिकत्वात्सर्वदैवाभेद इत्याशङ्क्य दृष्टान्तबलेन संसारस्य स्वाभाविकत्वमित्याह
क्वचिच्चेति ।
'यथा नद्यः स्यन्दमानाः समुद्रेस्तं गच्छन्ति नामरूपे विहाय' इति नदीनिदर्शनं व्याचष्टे
यथा लोक इति ॥ २१ ॥
सिद्धान्तमाह
अवस्थितेरिति ।
अत्यन्ताभेदज्ञापनार्थं जीवमुपक्रम्य द्रष्टव्यत्वादयो ब्रह्मधर्मा उक्ता इत्यर्थः । एतेन जीवलिङ्गानां ब्रह्मपरत्वकथनार्थमिदमधिकरणं न भवति, प्रतर्दनाधिकरणे कथितत्वात् । नापि जीवानुवादेन ब्रह्मप्रतिपादनार्थम् , 'सुषुप्त्युत्क्रान्त्योः' इत्यत्र गतत्वात् । अतो व्यर्थमिदमधिकरणमिति निरस्तम् । जीवोद्देशेन ब्रह्मत्वप्रतिपादने भेदोऽप्यावश्यक इति भेदाभेदशङ्काप्राप्तौ कल्पितभेदेनोद्देश्यत्वादिकं स्वतोऽत्यन्ताभेद इति ज्ञापनार्थमस्यारम्भात् । ज्ञापने चात्र लिङ्गमात्मशब्देनोपक्रान्तस्य जीवस्य धर्मिणो ब्रह्मणो धर्म्यन्तरस्य ग्रहणं विनैव ब्रह्मधर्मकथनं भेदाभेदे धर्मिद्वयग्रहः स्यादिति मन्तव्यम् । धीरः सर्वज्ञः ।
सर्वाणि रूपाणि कार्याणि विचित्य सृष्ट्वा तेषां नामानि च कृत्वा तेषु बुद्ध्यादिषु प्रविश्याभिवदनादिकं कुर्वन् यो वर्तते तद्विद्वानिहैवामृतो भवतीति मन्त्रोऽपि जीवपरयोरैक्यं दर्शयतीत्याह
मन्त्रेति ।
जीवस्य ब्रह्मविकारत्वान्नैक्यमित्यत आह
नच तेज इति ।
मतत्रयं विभज्य दर्शयति
काशेत्यादिना ।
कियानपीति ।
अभेदवद्भेदोऽपीत्यर्थः ।
तत्रान्त्यस्य मतस्योपादेयत्वमाह
तत्र काशेति ।
सोऽयं देवदत्त इतिवत्तत्त्वमस्यादिवाक्येभ्यः परापरयोरत्यन्ताभेदः प्रतिपादयितुमिष्टोऽर्थः, तदनुसारित्वादित्यर्थः,
ज्ञानान्मुक्तिश्रुत्यन्यथानुपपत्त्याप्ययमेव पक्ष आदेय इत्याह
एवं चेति ।
अत्यन्ताभेदे सतीत्यर्थः । कल्पितस्य भेदस्य ज्ञानान्निवृत्तिः सम्भवति न सत्यस्येत्यपि द्रष्टव्यम् ।
यदुक्तं नदीदृष्टान्तात्संसारः स्वाभाविक इति, तन्नेत्याह
अतश्चेति ।
अनामरूपब्रह्मत्वाज्जीवस्येत्यर्थः ।
उत्पत्तिश्रुत्या जीवस्य ब्रह्मणा भेदाभेदावित्यत आह
अत एवेति ।
उत्पत्तेः स्वाभाविकत्वे मुक्त्ययोगादेवेत्यर्थः ।
अत्र पूर्वपक्षे बीजत्रयमुक्तं जीवेनोपक्रमः परस्यैव समुत्थानश्रुत्या जीवाभेदाभिधानं विज्ञातृशब्दश्चेति । तत्राद्यं बीजं त्रिसूत्र्या निरस्तम् । सम्प्रति द्वितीयमनूद्य तथैव निराचष्टे
यदप्युक्तमित्यादिना ।
आत्मज्ञानात्सर्वविज्ञानं यत्प्रतिज्ञातं तत्र हेतुः 'इदं सर्वं यदयमात्मा' इत्यव्यतिरेक उक्तस्तस्य प्रतिपादनात्तदेव प्रतिज्ञातमुपपादितमिति योजना । एकस्मात्प्रसवो यस्य, एकस्मिन्प्रलयो यस्य तद्भावादित्यर्थः । समुत्थानमभेदाभिधानमिति यावत् ।
जन्मनाशावुक्तौ नाभेद इत्याक्षिप्य परिहरति
नन्वित्यादिना ।
मृतस्य संज्ञा नास्तीति वाक्येऽत्रैव मां मोहितवानसि ज्ञानरूपस्यात्मनो ज्ञानाभावे नाशप्रसङ्गादिति मैत्रेय्योक्तो मुनिराह
न वा अरे इति ।
मोहं मोहकरं वाक्यम् , अविनाशी नाशहेतुशून्यः, अत उच्छित्तिधर्मा नाशवान्न भवतीत्यनुच्छित्तिधर्मेत्यर्थः ।
तृतीयं बीजं तृतीयेन मतेनैव निरसनीयमित्याह
यदपीत्यादिना ।
आद्यमतद्वयेऽपि सत्यभेदाङ्गीकारात्केनेत्याक्षेपो न युक्तः । काशकृत्स्नस्य मते त्वत्यन्ताभेदाद्विज्ञानस्य कारकाभावात्स युक्त इति श्रुत्यनुसारित्वात्तन्मते मनःकल्पितं विज्ञातृत्वं मुक्ते ब्रह्मात्मनि भूतपूर्वगत्योक्तमिति परिहरणीयमित्यर्थः ।
किञ्च पूर्वापरपर्यालोचनया वाक्यस्य मुक्तात्मपरत्वावगमाद्विज्ञातृत्वं कल्पितमेवानूद्यत इति न तल्लिङ्गेन जीवपरत्वमित्याह
अपि चेति ।
आर्षेषु पक्षेषु काशकृत्स्नपक्षस्यैवादेयत्वे किं बीजम् , तदाह
दर्शितमिति ।
अतश्चश्रुतिमत्त्वाच्च ।
पुनरपि श्रुतिस्मृतिमत्त्वमाह
सदेवेत्यादिना ।
हेतूनां भेदो न पारमार्थिक इति प्रतिज्ञया सम्बन्धः ।
भेदाभेदपक्षे जीवस्य जन्मादिविकारवत्त्वात्तन्निषेधो न स्यादित्याह
स वा एष इति ।
भेदस्य सत्यत्वे तत्प्रमया बाधादहं ब्रह्मेति निर्बाधं ज्ञानं न स्यादित्याह
अन्यथाचेति ।
अभेदस्यापि सत्त्वात्प्रमेत्याशङ्क्य भेदाभेदयोर्विरोधात्संशयः स्यादित्याह
सुनिश्चितेति ।
मास्तु निर्बाधज्ञानमित्यत आह
निरपवादमिति ।
अहं ब्रह्मेत्यबाधितनिश्चयस्यैव शोकादिनिवर्तकत्वमित्यत्र स्मृतिमप्याह
स्थितेति ।
आत्यन्तिकैकत्वे हि प्रज्ञा प्रतिष्ठिता भवति न भेदाभेदयोरिति भावः ।
ननु जीवपरमात्मानौ स्वतो भिन्नौ, अपर्यायनामवत्त्वात् , स्तम्भकुम्भवदित्यत आह
स्थिते चेति ।
कथं तर्ह्यपर्यायनामभेद इत्याशङ्क्य जीवत्वेश्वरत्वादिनिमित्तभेदादित्याह
एको हीति ।
किञ्चाविद्यातज्जबुद्धिरूपायां गुहायां स्थितो जीवो भवति, तस्यामेव ब्रह्म निहितमिति श्रुतेः ।
स्थानैक्याज्जीव एव ब्रह्मेत्याह
नहीति ।
काञ्चिदेवैकामिति ।
जीवस्थानादन्यामित्यर्थः ।
नन्वेकस्यां गुहायां द्वौ किं न स्यातामित्यत आह
नचेति ।
स्रष्टुरेव प्रवेशेन जीवत्वान्न भेदः । नन्वत्यन्ताभेदे जीवस्य स्पष्टभानाद्ब्रह्मापि स्पष्टं स्यादतः स्पष्टत्वास्पष्टत्वाभ्यां तयोर्भेद इति चेत् । न । दर्पणे प्रतिबिम्बस्य स्फुटत्वेऽपि बिम्बस्यास्फुटत्ववत्कल्पितभेदेन विरुद्धधर्मव्यवस्थोपपत्तेः ।
सत्यभेदे येषामाग्रहस्तेषां दोषमाह
ये त्विति ।
सोऽयमितिवत्तत्त्वमसीत्यकार्यकारणद्रव्यसामानाधिकरण्यादत्यन्ताभेदो वेदान्तार्थस्तद्बोध एव निःश्रेयससाधनं तस्य बाधो न युक्त इत्यर्थः । किञ्च भेदभेदवादिनो ज्ञानकर्मभ्यां कृतकं मोक्षं कल्पयन्ति, तत्रानित्यत्वं दोषः । यत्तु कृतकमपि नित्यमिति, तच्च 'यत्क्रियासाध्यं तदनित्यम्' इति न्यायबाधितम् । अस्माकं त्वनर्थध्वंसस्य ज्ञानसाध्यत्वान्नित्यमुक्तात्ममात्रत्वाच्च नानित्यत्वदोष इति भावः । तस्मान्मैत्रेयीब्राह्मणं प्रत्यग्ब्रह्मणि समन्वितमिति सिद्धम् ॥ २२ ॥
प्रकृतिश्चेति । लक्षणसूत्रेणास्य सङ्गतिं वक्तुं वृत्तं स्मारयति
यथेति ।
तत्र हि ब्रह्मणो बुद्धिस्थत्वार्थं सामान्यतो जगत्कारणत्वं लक्षणमुक्तम् , तेन बुद्धिस्थे ब्रह्मणि कृत्स्नवेदान्तसमन्वयं प्रतिपाद्य तत्कारणत्वं किं कर्तृत्वमात्रमुत प्रकृतित्वकर्तृत्वोभयरूपमिति । विशेषजिज्ञासायमिदमारभ्यते । तथाच सामान्यज्ञानस्य विशेषचिन्ताहेतुत्वात्तेनास्य सङ्गतिः । यद्यपि तदानन्तर्यमस्य युक्तं तथापि निश्चिततात्पर्यैर्वेदान्तैः कर्तृमात्रेश्वरमतनिरासः सुकर इति समन्वयान्ते इदं लिखितम् । लक्षणसूत्रस्याध्यायादिसङ्गतत्वादस्याप्यध्यायादिसङ्गतिः ।
पूर्वत्र सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्वाक्यस्य जीवपरत्वं निरस्तम् , तदयुक्तम् , कर्त्रुपादनयोर्भेदेन प्रतिज्ञाया गौणत्वादित्याक्षिपति
तत्र निमित्तेत्यादिना ।
पूर्वोत्तरपक्षयोर्द्वैताद्वैतसिद्धिः फलम्
ईक्षापूर्वकेति ।
ईक्षणश्रुत्या कर्तृत्वं निश्चितम् , तथा च ब्रह्म न प्रकृतिः, कर्तृत्वात् , यो यत्कर्ता स तत्प्रकृतिर्न, यथा घटकर्ता कुलाल इत्यर्थः ।
जगत्भिन्नकर्त्रुपादानकम् , कार्यत्वात्घटवदित्याह
अनेकेति ।
ब्रह्म नोपादानम् , ईश्वरत्वात् , राजादिवदित्याह
ईश्वरत्वेति ।
जगन्न ब्रह्मप्रकृतिकम् , तद्विलक्षणत्वात् , यदित्थं तत्तथा कुलालविलक्षणघटवदित्याह
कार्यं चेति ।
निष्कलं निरवयवम् , निष्क्रियमचलम् , शान्तमपरिणामि, निरवद्यं निरस्तसमस्तदोषम् । तत्र हेतुः
निरञ्जनमिति ।
अञ्जनतुल्यतमःशून्यमित्यर्थः ।
तर्हि जगतः सदृशोपादानं किमित्यत आह
पारिशेष्यादिति ।
ब्रह्मनिषेधे प्रधानं परिशिष्यत इत्यभिमन्यमानः सिद्धान्तयति
प्रकृतिश्चेति ।
चकारान्निमित्तत्वग्रहः ।
एवमुभयरूपे कारणत्वे तयोरबाधो भवतीत्याह
एवमिति ।
कर्तृज्ञानादपि सर्वकार्यज्ञानं किं न स्यादित्यत आह
निमित्तकारणाव्यतिरेकस्त्विति ।
मृदादीनामुपादानानां दृष्टान्तत्वाद्दार्ष्टान्तिकस्य ब्रह्मण उपादानत्वं वाच्यमित्याह
दृष्टान्तोऽपीति ।
वागारभ्यं नाममात्रं विकारो न वस्तुतोऽस्तीति सत्यकारणज्ञानाद्विकारज्ञानं युक्तमित्यर्थः ।
गतिसामान्यार्थं मुण्डकेऽपि प्रतिज्ञादृष्टान्तावाह
तथान्यत्रापीति ।
बृहदारण्यकेऽपि तावाह
तथात्मनीति ।
घटः स्फुरतीत्यनुगतस्फुरणं प्रकृतिस्तदतिरेकेण विकारा न सन्तीति सोऽयमर्थो यथा स्फुटः तथा दृष्टान्तः स उच्यते । हन्यमानदुन्दुभिजन्याच्छब्दसामान्याद्बाह्यान् विशेषशब्दान् सामान्यग्रहणातिरिकेण पृथग्ग्रहीतुं श्रोता न शक्नुयात् । सामान्यस्य तु ग्रहणेन दुन्दुभ्याघातजशब्दविशेषो गृहीतो भवति, तस्य वा ग्रहणेन तदवान्तरविशेषशब्दो गृहीतो भवति । अतः शब्दसामान्यग्रहणग्राह्या विशेषाः सामान्ये कल्पिताः, तद्वदात्मभानभास्या घटादय आत्मनि कल्पिता इत्यर्थः ।
प्रतिज्ञादृष्टान्तानुपरोधाल्लिङ्गाद्ब्रह्मणः प्रकृतित्वमुक्त्वा पञ्चमीश्रुत्याप्याह
यत इति ।
'यतो वा' इत्यत्र श्रुतौ यत इति पञ्चमी प्रकृतौ द्रष्टव्येत्यन्वयः । जनिकर्तुर्जायमानस्य कार्यस्य प्रकृतिरपादानसंज्ञिका भवतीति सूत्रार्थः । संज्ञायाः फलं 'अपादाने पञ्चमी' इति सूत्रात्प्रकृतौ पञ्चमीलाभः ।
एवं ब्रह्मणः प्रकृतित्वं प्रसाध्य कर्तृत्वं साधयति
निमित्तत्वमिति ।
ब्रह्म स्वातिरिक्तकर्त्रधिष्ठेयम् , प्रकृतित्वात् , मृदादिवदित्याद्यनुमानानामागमबाधकमाह
प्रागुत्पत्तेरिति ।
जगत्कर्तृ ब्रह्मैवेत्यत्रापि सूत्रं योजयति
अधिष्ठात्रन्तरेति ॥ २३ ॥
एकस्योभयरूपं कारणत्वमविरुद्धमिति सूत्रचतुष्टयेन साधयति
कुतश्चेत्यादिना ।
अभिध्या सृष्टिसङ्कल्पः ॥ २४ ॥
अभ्युच्चयो
हेत्वन्तरम् । आकाशादेवेत्येवकारसूचितमुपादानान्तरानुपादानमग्रहणं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ॥ २५ ॥
आत्मसम्बन्धिनी कृतिरात्मकृतिः । सम्बन्धश्चात्मनः कृतिं प्रति विषयत्वमाश्रयत्वं च । ननु कृतेराश्रयःसिद्धोभवति विषयस्तु साध्य इत्येकस्योभयं विरुद्धमित्याशङ्कते
कथं पुनरिति ।
यथा मृदः साध्यपरिणामाभेदेन कृतिविषयत्वं तद्वदात्मन इत्याह
परिणामादिति ।
आत्मानमिति ।
अविरोध इति शेषः ।
सिद्धस्यापि साध्यत्वे दृष्टान्तमाह
विकारात्मनेति ।
ननु ब्रह्मण आत्मानमिति द्वितीयया कार्यात्मना साध्यत्वश्रुत्यास्तु प्रकृतित्वं कर्ता त्वन्योऽस्त्वित्यत आह
स्वयमिति चेति ।
ब्रह्मणः कृतिकर्मत्वोपपादनार्थं परिणामादिति पदं व्याख्यायान्यथापि व्याचष्टे
पृथक्सूत्रमिति ।
मृद्घट इतिवद्ब्रह्म सच्च त्यच्चेति परिणामसामानाधिकरण्यश्रुतेर्ब्रह्मणः प्रकृतित्वमित्यर्थः । सत्प्रत्यक्षं भूतत्रयम् , त्यत्परोक्षं भूतद्वयम् , निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकं च ब्रह्मैवाभवदित्यर्थः । अत्र सूत्रे परिणामशब्दः कार्यमात्रपरः, नतु सत्यकार्यात्मकपरिणामपरः, 'तदनन्यत्वम्' इति विवर्तवादस्य वक्ष्यमाणत्वात् ॥ २६ ॥
योनिशब्दाच्च प्रकृतित्वमित्याह
योनिश्चेति ।
कर्तारं क्रियाशक्तिमन्तम् , ईशं नियन्तारम् , पुरुषं प्रत्यञ्चम् , ब्रह्म पूर्णम् , योनिं प्रकृतिम् , धीरा ध्यानेन पश्यन्तीत्यर्थः ।
नन्वनुपादानेऽपि स्त्रीयोनौ योनिशब्दो दृष्ट इत्यत आह
स्त्रीयोनेरिति ।
शोणितमवयवशब्दार्थः ।
योनिशब्दस्य स्थानमप्यर्थो भवति सोऽत्र भूतयोन्यादिशब्दैर्न ग्राह्यः, उर्णनाभ्यादिप्रकृतदृष्टान्तवाक्यशेषविरोधादित्याह
क्वचिदिति ।
हे इन्द्र, ते तव निषदे उपवेशनाय योनिः, स्थानं मया अकारि कृतमित्यर्थः ।
पूर्वपक्षोक्तानुमानानि अनूद्यागमबाधमाह
यत्पुनरित्यादिना ।
नन्वनुमानस्य श्रुत्यनपेक्षत्वान्न तया बाध इत्यत आह
नहीति ।
जगत्कर्ता पक्षः श्रुत्यैव सिद्ध्यति, या कृतिः सा शरीरजन्येति व्याप्तिविरोधेन नित्यकृतिमतोऽनुमानासम्भवात् । अतः श्रौतमीश्वरं पक्षीकृत्यानुपादानत्वसाधने भवत्येवोपजीव्यया प्रकृतित्वबोधकश्रुत्या बाध इत्यर्थः ।
यदुक्तं विलक्षणत्वाद्ब्रह्मणो न जगदुपादानत्वमिति, तत्राह
पुनश्चेति ।
'न विलक्षणत्वात्' इत्यारभ्येत्यर्थः । अत उभयरूपं कारणत्वं ब्रह्मणो लक्षणमिति सिद्धम् ॥ २७ ॥
एतेन सर्वे व्याख्याताः । अस्यातिदेशाधिकरणस्य तात्पर्यं वक्तुं वृत्तमनुवदति
ईक्षतेरिति ।
प्रधानवादस्य प्राधान्येन निराकरणे हेतूनाह
तस्य हीत्यादिना ।
तर्ह्यण्वादिवादा उपेक्षणीयाः, दुर्बलत्वादित्यत आह
तेऽपि त्विति ।
निर्मूलास्ते कथं प्रतिपक्षा इत्यत आह
तेषामिति ।
तथा हि छान्दोग्ये जगत्कारणत्वज्ञापनार्थं पिता पुत्रमुवाच, आसां वटधानानां मध्ये एकां भिन्धीति । भिन्ना भगव इत्युवाच पुत्रः । पुनः पित्रा किमत्र पश्यसीत्युक्ते न किञ्चन भगव इत्याह । तत्र पित्राणिमानं न पश्यसीत्युक्तम् , तथा च न किञ्चनशब्दाच्छून्यस्वभाववादौ प्रतीयेते, अणुशब्दात्परमाणुवाद इति । एवं 'असदेवेदमग्र आसीत्','अणोरणीयान्' इत्यादिलिङ्गं द्रष्टव्यम् ।
अत्राण्वादिवादाः श्रौता न वेति संशये सत्यसदण्वादिशब्दबलाच्छ्रौता इति प्राप्तेऽतिदिशति
एतेनेति ।
अस्यातिदेशत्वान्न पृथक्सङ्गत्याद्यपेक्षा । न किञ्चनासच्छब्दयोः प्रत्यक्षायोग्यवस्तुपरत्वादाणुशब्दस्य सूक्ष्माभिप्रायत्वादशब्दत्वम् , तेषां वादानां प्रधानवादवदश्रौतत्वम् , ब्रह्मकारणश्रुतिबाधितत्वं च, तस्माद्ब्रह्मैव परमकारणम् , तस्मिन्नेव सर्वेषां वेदान्तानां समन्वय इति सिद्धम् ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य यतुर्थः पादः ॥ ४ ॥