अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

द्वितीयाध्याये प्रथमः पादः

सच्चि­दा­न­न्द­रू­पाय कृष्णा­या­क्लि­ष्ट­का­रिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥१॥
साङ्ख्या­दि­स्मृ­ति­यु­क्ति­भिर्न चलितो वेदा­न्त­सि­द्धा­न्तगो निर्मू­लै­र्वि­वि­धा­ग­मै­र­वि­दितो व्योमा­दि­ज­न्मा­प्ययः ।
उत्प­त्त्य­न्त­वि­व­र्जि­त­श्चि­ति­व­पु­र्व्यापी च कर्तांशको लिङ्गेन प्रथितोऽपि नामतनुकृत्तं जानकीशं भजे ॥२॥
'नामरूपे व्याक­र­वाणि' इति श्रुते­र्ना­म­त­नु­कृ­दपि संज्ञा­मू­र्ति­व्या­क­र्तापि लिङ्ग­श­री­रो­पा­धिना कर्तेति अंश इति च प्रथितः प्रसिद्धो यस्तं प्रत्यगभिन्नं परमात्मानं मूल­प्र­कृ­ति­नि­य­न्तारं भजे इत्यर्थः ।

स्मृति­प्र­स­ङ्गा­त्पू­र्वो­त्त­रा­ध्या­य­यो­र्वि­ष­य­वि­ष­यि­भा­व­स­ङ्गतिं वक्तुं वृत्तं कीर्तयति -
प्रथमेऽध्याय इति ।
जन्मा­दि­सू­त्र­मा­रभ्य जग­दु­त्प­त्त्या­दि­का­रणं ब्रह्मेति प्रतिपादितम् , 'शास्त्र­दृष्ट्या तु' इत्यादिसूत्रेषु स एवाद्वितीयः सर्वा­त्मे­त्यु­क्तम् , 'आनु­मा­नि­कम्' इत्यादिना कार­णा­न्त­र­स्या­श्रौ­तत्वं दर्शितमित्यर्थः ।

एवं प्रथ­मा­ध्या­य­स्या­र्थ­म­नूद्य तस्मिन् विषये विरो­ध­प­रि­हा­र­वि­ष­यिणं द्विती­या­ध्या­य­स्यार्थं पादशः सङ्क्षिप्य कथयति -
इदानीमिति ।

अत्र प्रथमपादे समन्वयस्य साङ्ख्या­दि­स्मृ­ति­यु­क्ति­भि­र्वि­रो­ध­प­रि­हारः क्रियते । द्वितीयपादे साङ्ख्या­द्या­ग­मानां भ्रान्ति­मू­ल­त्व­म­वि­रो­धाय कथ्यते । तृतीयपादे प्रतिवेदान्तं सृष्टिश्रुतीनां जीवा­त्म­श्रु­तीनां च व्योमा­दि­म­हा­भू­तानां जन्म­ल­य­क्र­मा­दि­क­थ­ने­ना­वि­रोधः प्रतिपाद्यते । चतुर्थपादे लिङ्ग­श­री­र­श्रु­ती­ना­म­वि­रोध इत्यर्थः । अयमेवार्थः सुखबोधार्थं श्लोकेन सङ्गृहीतः 'द्वितीये स्मृति­त­र्का­भ्या­म­वि­रो­धोऽ­न्य­दु­ष्टता ।भू­त­भो­क्तृ­श्रु­ते­र्लि­ङ्ग­श्रु­ते­र­प्य­वि­रु­द्धता ॥ ' इति । तत्राज्ञाते विषये विरो­ध­श­ङ्का­स­मा­ध्य­यो­गा­त्स­म­न्व­या­ध्या­या­न­न्त­र्य­म­वि­रो­धा­ध्या­यस्य युक्तम् । तत्र प्रथ­मा­धि­क­र­ण­ता­त्प­र्य­माह -
प्रथममिति ।