भाष्यरत्नप्रभाव्याख्या
द्वितीयाध्याये प्रथमः पादः (१)
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥१॥
साङ्ख्यादिस्मृतियुक्तिभिर्न चलितो वेदान्तसिद्धान्तगो निर्मूलैर्विविधागमैरविदितो व्योमादिजन्माप्ययः ।
उत्पत्त्यन्तविवर्जितश्चितिवपुर्व्यापी च कर्तांशको लिङ्गेन प्रथितोऽपि नामतनुकृत्तं जानकीशं भजे ॥२॥
'नामरूपे व्याकरवाणि' इति श्रुतेर्नामतनुकृदपि संज्ञामूर्तिव्याकर्तापि लिङ्गशरीरोपाधिना कर्तेति अंश इति च प्रथितः प्रसिद्धो यस्तं प्रत्यगभिन्नं परमात्मानं मूलप्रकृतिनियन्तारं भजे इत्यर्थः ।
स्मृतिप्रसङ्गात्पूर्वोत्तराध्याययोर्विषयविषयिभावसङ्गतिं वक्तुं वृत्तं कीर्तयति -
प्रथमेऽध्याय इति ।
जन्मादिसूत्रमारभ्य जगदुत्पत्त्यादिकारणं ब्रह्मेति प्रतिपादितम् , 'शास्त्रदृष्ट्या तु' इत्यादिसूत्रेषु स एवाद्वितीयः सर्वात्मेत्युक्तम् , 'आनुमानिकम्' इत्यादिना कारणान्तरस्याश्रौतत्वं दर्शितमित्यर्थः ।
एवं प्रथमाध्यायस्यार्थमनूद्य तस्मिन् विषये विरोधपरिहारविषयिणं द्वितीयाध्यायस्यार्थं पादशः सङ्क्षिप्य कथयति -
इदानीमिति ।
अत्र प्रथमपादे समन्वयस्य साङ्ख्यादिस्मृतियुक्तिभिर्विरोधपरिहारः क्रियते । द्वितीयपादे साङ्ख्याद्यागमानां भ्रान्तिमूलत्वमविरोधाय कथ्यते । तृतीयपादे प्रतिवेदान्तं सृष्टिश्रुतीनां जीवात्मश्रुतीनां च व्योमादिमहाभूतानां जन्मलयक्रमादिकथनेनाविरोधः प्रतिपाद्यते । चतुर्थपादे लिङ्गशरीरश्रुतीनामविरोध इत्यर्थः । अयमेवार्थः सुखबोधार्थं श्लोकेन सङ्गृहीतः 'द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता ।भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता ॥ ' इति । तत्राज्ञाते विषये विरोधशङ्कासमाध्ययोगात्समन्वयाध्यायानन्तर्यमविरोधाध्यायस्य युक्तम् । तत्र प्रथमाधिकरणतात्पर्यमाह -
प्रथममिति ।
श्रौते समन्वये विरोधनिरासार्थत्वादस्य पादस्य श्रुतिशास्त्राध्यायसङ्गतयः स्वमतस्थापनात्मकत्वात्सर्वेषामधिकरणानामेतत्पादसङ्गतिः । अत्र पूर्वपक्षे स्मृतिविरोधादुक्तसमन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति विवेकः । तत्र ब्रह्मण्युक्तवेदान्तसमन्वयो विषयः । स किं साङ्ख्यस्मृत्या विरुध्यते न वेति स्मृतिप्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह -
यदुक्तमिति ।
तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रं कपिलोक्तम् , अन्याश्च पञ्चशिखादिभिः प्रोक्ताः, एवं सति वेदान्तानामद्वयब्रह्मसमन्वये निरर्थकाः स्युरित्यर्थः ।
तासामपि ब्रह्मार्थकत्वमस्तीत्यविरोध इत्यत आह --
तासु हीति ।
ननु साङ्ख्यस्मृतिप्रामाण्याय प्रधानवादग्रहे मन्वादिस्मृतीनामप्रामाण्यं स्यादित्याशङ्क्य तासां धर्मे सावकाशत्वात्प्रामाण्यं स्यादित्याह -
मन्वादीति ।
तर्हि साङ्ख्यादिस्मृतीनामपि धर्मे तात्पर्येण प्रामाण्यमस्तु, तत्त्वं तु ब्रह्मैवेत्यविरोध इत्यत आह -
नैवमिति ।
तत्त्वे विकल्पनानुपपत्तेर्निरवकाशस्मृत्यनुसारेण श्रुतिव्याख्यानमुचितम् , सावकाशनिरवकाशयोर्निरवकाशं बलीय इति न्यायादित्याह -
तस्मादिति ।
श्रुतिविरोधे स्मृत्यप्रामाण्यस्येष्टत्वात्पूर्वपक्षो न युक्त इति शङ्कते -
कथमिति ।
ये स्वातन्त्र्येण श्रुत्यर्थं ज्ञातुं शक्नुवन्ति तेषामयं पूर्वपक्षो न भवेत् , साङ्ख्यवृद्धेषु श्रद्धालूनां तु भवेदित्याह -
भवेदिति ।
तेषामतीन्द्रियार्थज्ञानवत्त्वाच्च तत्र श्रद्धा स्यादित्याह -
कपिलप्रभृतीनां चेति ।
'आदौ यो जायमानं च कपिलं जनयेदृषिम् । प्रसूतं बिभृयाज्ज्ञानैस्तं पश्येत्परमेश्वरम् ॥ ' इति श्रुतियोजना ।
यथा साङ्ख्यस्मृतिविरोधाद्ब्रह्मवादस्त्याज्य इति त्वयोच्यते तथा स्मृत्यन्तरविरोधात्प्रधानवादास्त्याज्य इति मयोच्यत इति सिद्धान्तयति -
तस्य समाधिरिति ।
तस्माद्ब्रह्मणः सकाशादव्यक्तं मायायां लीनम् । सूक्ष्मात्मकं जगदिति यावत् ।
इतिहासवाक्यान्युक्त्वा पुराणसम्मतिमाह -
अतश्चेति ।
प्रभवत्यस्मादिति प्रभवो जन्महेतुः । प्रलीयते तस्मिन्निति प्रलयो लयाधिष्ठानम् । तस्मात्कर्तुरीश्वरात्काया ब्रह्मादयः प्रभवन्ति । स एव मूलमुपादानम् । किं परिणामि, न, शाश्वतिकः कूटस्थः । अतः स नित्य इत्यर्थः ।
ननु श्रुतिविरोधः किमिति नोक्त इत्यत आह -
स्मृतिबलेनेति ।
स्मृतीनां मिथो विरोधे कथं तत्त्वनिर्णयः, तत्राह -
दर्शितं त्विति ।
श्रुतिभिरेव तत्त्वनिर्णय इत्यर्थः ।
स्मृतीनां का गतिरित्यत आह -
विप्रतिपत्तौ चेति ।
वस्तुतत्त्वे स्मृतीनां मिथो विरोधे वस्तुनि विकल्पायोगात्कॢप्तश्रुतिमूलाः स्मृतयः प्रमाणम् , इतरास्तु कल्प्यश्रुतिमूला न प्रमाणमित्यर्थः ।
कॢप्तश्रुतिविरोधे स्मृतिर्न प्रमाणमित्यतः जैमिनीयन्यायमाह -
तदुक्तमिति ।
'औदुम्बरीं स्पृष्ट्वोद्गायेत्' इति प्रत्यक्षश्रुतिविरुद्धा 'सा सर्वा वेष्टयितव्या' इति स्मृतिर्मानं न वेति सन्देहे, मूलश्रुत्यनुमानान्मानमिति प्राप्ते सिद्धान्तः - कॢप्तश्रुतिविरोधे स्मृतिप्रामाण्यमनपेक्षमपेक्षाशून्यम् । हेयमिति यावत् । हि यतोऽसति विरोधे श्रुत्यनुमानं भवति, अत्र तु विरोधे सति श्रुत्यनुमानायोगान्मूलाभावात्सर्ववेष्टनस्मृतिरप्रमाणमित्यर्थः ।
अस्तु साङ्ख्यस्मृतिः प्रत्यक्षमूलेत्यत आह -
न चेति ।
योगिनां सिद्धिमहिम्नातीन्द्रियज्ञानं सम्भावयितुं शक्यमिति शङ्क्यते -
शक्यमिति ।
कपिलादिभिः किलादौ वेदप्रामाण्यं निश्चित्य तदर्थस्य धर्मस्यानुष्ठानेन सिद्धिः सम्पादिता, तया सिद्ध्या प्रणीतस्मृत्यनुसारेणानादिश्रुतिपीडा न युक्तोपजीव्यविरोधादिति परिहरति -
न । सिद्धेरपीति ।
अतिशङ्कितुमिति ।
श्रुतीनां मुख्यार्थमतिक्रम्योपचरितार्थत्वं शङ्कितुं न शक्यत इत्यर्थः । स्वतःसिद्धेर्वेदो नोपजीव्य इतिचेन्न । अनीश्वरस्य स्वतःसिद्धौ मानाभावात् ।
अङ्गीकृत्याप्याह -
सिद्धेति ।
सिद्धानां वचनमाश्रित्य वेदार्थकल्पनायामपि सिद्धोक्तीनां मिथो विरोधे श्रुत्याश्रितमन्वाद्युक्तिभिरेव वेदार्थनिर्णयो युक्त इत्यर्थः । श्रुतिरूपाश्रयं विना सिद्धोक्तिमात्रं न तत्त्वनिर्णयकारणमित्यक्षरार्थः ।
ननु मन्दमतेः साङ्ख्यस्मृतौ श्रद्धा भवति तस्य मतिर्वेदान्तमार्गे कथमानेयेत्यत आह -
परतन्त्रेत्यादिना ।
ननु श्रुत्या कपिलस्य सर्वज्ञत्वोक्तेस्तन्मते श्रद्धा दुर्वारेत्यत आह -
या त्विति ।
कपिलशब्दमात्रेण साङ्ख्यकर्ता श्रौत इति भ्रान्तिरयुक्ता, तस्य द्वैतवादिनः सर्वज्ञत्वायोगात् । अत्र च सर्वज्ञानसम्भृतत्वेन श्रुतः कपिलो वासुदेवांश एव । स हि सर्वात्मत्वज्ञानं वैदिकं साङ्ख्यमुपदिशतीति सर्वज्ञ इति भावः । प्रतप्तुः प्रदाहकस्य ।
किञ्च यः कपिलं ज्ञानैर्बिभर्ति तमीश्वरं पश्येदिति विधीयते, तथा चान्यार्थस्य ईश्वरप्रतिपत्तिशेषस्य कपिलसर्वज्ञत्वस्य दर्शनमनुवादस्तस्य मानान्तरेण प्राप्तिशून्यस्य स्वार्थसाधकत्वायोगान्नानुवादमात्रात्सर्वज्ञात्वप्रसिद्धिरित्याह -
अन्यार्थेति ।
द्वैतवादिनः कपिलस्य श्रौतत्वं निरस्य ब्रह्मवादिनो मनोः श्रौतत्वमाह -
भवति चेति ।
इतिहासेऽपि कापिलमतनिन्दापूर्वकमद्वैतं दर्शितमित्याह -
महाभारतेऽपीति ।
पुरुषा आत्मानः किं वस्तुतो भिन्ना उत सर्वदृश्यानां प्रत्यगात्मः एक इति विमर्शार्थः । बहूनां पुरुषाकाराणां देहानां यथैका योनिरुपादानं पृथ्वी तथा तं पुरुषमात्मानं विश्वं सर्वोपादानत्वेन सर्वात्मकं सर्वज्ञत्वादिगुणैः सम्पन्नं कथयिष्यामि । विश्वे सर्वे लोकप्रसिद्धा देवतिर्यङ्मनुष्यादीनां मूर्धानोऽस्यैवेति विश्वमूर्धा, एकस्यैव सर्वक्षेत्रेषु प्रतिबिम्बभावेन प्रविष्टत्वात् । एवं विश्वयुजत्वादियोजना । सर्वभूतेष्वेकश्चरत्यवगच्छति । सर्वत्र इत्यर्थः । स्वैरचारी स्वतन्त्रः । नास्य नियन्ता कश्चिदस्ति । सर्वेश्वर इत्यर्थः ।
यथासुखमिति ।
विशोकानन्दस्वरूप इति यावत् ।
कापिलतन्त्रस्य वेदमूलस्मृतिविरोधमुक्त्वा साक्षाद्वेदविरोधमाह -
श्रुतिश्चेति ।
यस्मिञ्ज्ञानकाले केवलं स्वतन्त्रप्रकृतिकल्पनयैव वेदविरुद्धं न किन्त्वात्मभेदकल्पनयापीति सिद्धमिति सम्बन्धः ।
स्मृतिविरोधे वेदस्यैवाप्रामाण्यं किं न स्यादित्यत आह -
वेदस्य हीति ।
वेदस्य प्रामाण्यं स्वतःसिद्धमपौरुषेयत्वात् । पौरुषेयवाक्यानां स्वार्थस्मृतितन्मूलानुभवयोः कल्पनया प्रामाण्यं ज्ञेयमिति व्यवहितं परतःप्रामाण्यमिति विप्रकर्षः । श्रुतिस्मृत्योर्विशेष इत्यक्षरार्थः । समयोर्विरोधे हि निरवकाशेन सावकाशं बाध्यम् । इह स्वतःपरतःप्रमाण्ययोर्वैषम्याज्झटिति निश्चितप्रामाण्येन चानुपसंजातविरोधिना वेदवाक्येन विरुद्धस्मृतेरेव बाध इति भावः ।
तस्मादिति ।
विशेषादित्यर्थः । भ्रान्तिमूलत्वसम्भवादिति भावः ॥१॥
महदहङ्कारौ तावदप्रसिद्धौ, अहङ्कारप्रकृतिकत्वेन तन्मात्राण्यप्यप्रसिद्धानि स्मर्तुं न शक्यन्त इत्याह -
इतरेषां चेति ।
ननु 'महतः परमव्यक्तम्' इतिश्रुतिप्रसिद्धानि महदादीनीत्यत आह -
यदपीति ।
सूत्रतात्पर्यमाह -
कार्येति ।
साङ्ख्यस्मृतेर्महदादिष्विव प्रधानेऽपि प्रामाण्यं नेति निश्चीयत इत्यर्थः ।
साङ्ख्यस्मृतेर्बाधेऽपि तदुक्तयुक्तीनां कथं बाध इत्यत आह -
तर्केति ॥२॥
ब्रह्मण्युक्तसमन्वयः प्रधानवादियोगस्मृत्या विरुध्यते न वेति सन्देहे पूर्वन्यायमतिदिशति -
एतेन योगः प्रत्युक्तः ।
अतिदेशत्वात्पूर्ववत्सङ्गत्यादिकं द्रष्टव्यम् ।
पूर्वत्रानुक्तनिरासं पूर्वपक्षमाह -
अस्तिह्यत्रेति ।
निदिध्यासनं योगः । त्रीणि उरोग्रीवाशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतं त्रिरुन्नतमितिपाठश्चेच्छान्दसः । युञ्जीतेति शेषः ।
न केवलं योगे विधिः किन्तु योगस्य ज्ञापकान्यर्थवादवाक्यान्यपि सन्तीत्याह -
लिङ्गानि चेति ।
तां पूर्वोक्तां धारणां योगविदो योगं परमं तप इति मन्यन्ते । उक्तामेतां ब्रह्मविद्यां योगविधिं ध्यानप्रकारं च मृत्युप्रसादान्न चिकेता लब्ध्वा ब्रह्म प्राप्त इति सम्बन्धः । योगस्मृतिः प्रधानादितत्त्वांशेऽपि प्रमाणत्वेन स्वीकार्या । सम्प्रतिपन्नः प्रामाणिकोऽर्थैकदेशो योगरूपो यस्यास्तत्त्वादित्यर्थः । 'अष्टकाः कर्तव्याः', 'गुरुरनुगन्तव्यः' इत्यादिस्मृतीनां वेदाविरुद्धार्थकत्वान्मूलश्रुत्यनुमानेन प्रामाण्यमुक्तं प्रमाणलक्षणे ।
एवं योगस्मृतेर्योगे प्रामाण्यात्तत्त्वांशेऽपि प्रामाण्यमिति पूर्वपक्षमनूद्य सिद्धान्तयति -
इयमिति ।
ननु बौद्धादिस्मृतयोऽत्र किमिति न निराकृता इत्यत आह -
सतीष्वपीति ।
तासां प्रतारकत्वेन प्रसिद्धत्वादशिष्टैः पशुप्रायैर्गृहीतत्वाद्वेदबाह्यत्वाच्चात्रोपेक्षेति भावः ।
तत्कारणमिति ।
तेषां प्रकृतानां कामानां कारणं साङ्ख्ययोगाभ्यां विवेकध्यानाभ्यामभिपन्नं प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिभिर्मुच्यत इत्यर्थः ।
समूलत्वे स्मृतिद्वयस्य निरासः किमिति कृत इत्यत आह -
निराकरणं त्विति ।
इति हेतोः । कृतमिति शेषः ।
प्रत्यासत्तेरिति ।
श्रुतिस्थसाङ्ख्ययोगशब्दयोः सजातीयश्रुत्यर्थग्राहित्वादिति यावत् ।
किं सर्वांशेषु स्मृत्यप्रामाण्यम् , नेत्याह -
येन त्वंशेनेति ।
ब्रह्मवादस्य कणभक्षादिभिर्विरोधमाशङ्क्यातिदिशति -
एतेनेति ।
श्रुतिविरोधेनेत्यर्थः ।
उपकारकबाधो न युक्त इत्याशङ्क्य योंऽश उपकारकः स न बाध्यः किन्तु तत्त्वांश इत्याह -
तान्यपीति ।
तर्कोऽनुमानम् ,तदनुग्राहिको युक्तिरुपपत्तिः ॥३॥
स्मृतीनामप्रामाण्यात्ताभिः समन्वयस्य न विरोध इति सिद्धान्तलक्षणत्वाद्वृत्तानुवादेनास्याधिकरणस्य तात्पर्यमाह -
ब्रह्मास्येति ।
पूर्वपक्षमाक्षिपति -
कुतःपुनरिति ।
अनवकाशे हेतुमाह -
ननु धर्म इवेति ।
मानान्तरानपेक्षे वेदैकसमधिगम्ये ब्रह्मण्यनुमानात्मकतर्कस्याप्रवेशः । तेनाक्षेपस्यानवकाशो भिन्नविषयत्वात्तर्कवेदयोरित्यर्थः ।
सिद्धस्य मानान्तरगम्यत्वादेकविषयत्वाद्विरोध इति पूर्वपक्षं समर्थयते -
भवेदयमिति ।
अवष्टम्भो दृष्टान्तः ।
नन्वेकविषयत्वेन विरोधेऽपि श्रुतिविरोधान्मानान्तरमेव बाध्यतामित्यत आह -
यथा चेति ।
प्रबलश्रुत्या दुर्बलश्रुतिबाधवन्निरवकाशमानान्तरेण लक्षणावृत्त्या सावकाशश्रुतिनयनं युक्तमित्यर्थः । किञ्च ब्रह्मसाक्षात्कारस्य मोक्षहेतुत्वे प्रधानस्यान्तरङ्गं तर्कस्तस्यापरोक्षदृष्टान्तगोचरत्वेन प्रधानवदपरोक्षार्थविषयत्वात् ।
शब्दस्तु परोक्षार्थकत्वाद्बहिरङ्गमतस्तर्केण बाध्य इत्याह -
दृष्टेति ।
ऐतिह्यमात्रेण । परोक्षतयेति यावत् ।
अनुभवस्य प्राधान्यं दर्शयति -
अनुभवावसानं चेति ।
'नैषा तर्केण मतिः' इत्यर्थवादेन तर्कस्य निषेधमाशङ्क्य विधिविरोधान्मैवमित्याह -
श्रुतिरपीति ।
एवं पूर्वपक्षं सम्भाव्य चेतनब्रह्मकारणवादिवेदान्तसमन्वयः, क्षित्यादिकं न चेतनप्रकृतिकम् , कार्यद्रव्यत्वात् , घटवदिति साङ्ख्ययोगन्यायेन विरुध्यते न वेति सन्देहे स्मृतेर्मूलाभावाद्दुर्बलत्वेऽप्यनुमानस्य व्याप्तिमूलत्वेन प्राबल्यात्तेन विरुध्यत इति प्रत्युदाहरणेन पूर्वपक्षयति -
न विलक्षणत्वादिति ।
पूर्वोत्तरपक्षयोः समन्वयासिद्धिः, तत्सिद्धिश्चेति पूर्ववत्फलम् । जगन्न ब्रह्मप्रकृतिकम् , तद्विलक्षणत्वात् , यद्यद्विलक्षणं तन्न तत्प्रकृतिकम् , यथा मृद्विलक्षणा रुचकादय इत्यर्थः । सुखदुःखमोहाः सत्त्वरजस्तमांसि ।
तथा च जगत्सुखदुःखमोहात्मकं सामान्यप्रकृतिकम् , तदन्वितत्वात् , यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह -
मृदैवेति ।
विलक्षणत्वं साधयति -
ब्रह्मविलक्षणत्वं चेति ।
यथा हि एक एव स्त्रीपिण्डः पतिसपत्न्युपपतीनां प्रीतिपरितापविषादादीन्करोति, एवमन्येऽपि भावा द्रष्टव्याः । तत्र प्रीतिः सुखम् , परितापः शोकः, विषादो भ्रमः, आदिपदाद्रागादिग्रहः ।
उभयोश्चेतनत्वेन साम्यादुपकार्योपकारकभावो न स्यादित्ययुक्तम् , स्वामिभृत्ययोर्व्यभिचारादिति शङ्कते -
ननु चेतनमपीति ।
भृत्यदेहस्यैव स्वामिचेतनोपकारकत्वान्न व्यभिचार इत्याह -
नेत्यादिना ।
उत्कर्षापकर्षशून्यत्वाच्चेतनानां मिथो नोपकारकत्वमित्याह -
निरतिशया इति ।
तस्मादुपकारकत्वात् ।
श्रुतचेतनप्रकृतिकत्वबलेन जगच्चेतनमेवेत्येकदेशिमतमुत्थापयति -
योऽपीति ।
घटादेश्चेतनत्वमनुपलब्धिबाधितमित्यत आह -
अविभावनं त्विति ।
अन्तःकरणान्यपरिणामत्वात्सतोऽपि चैतन्यस्यानुपलब्धिरित्यर्थः । अन्तःकरणादन्यस्य वृत्त्युपरागदशायामेव चैतन्याभिव्यक्तिर्नान्यदेति भावः ।
वृत्त्यभावे चैतन्यानभिव्यक्तौ दृष्टान्तः -
यथेति ।
आत्मानात्मनोश्चेतनत्वे स्वस्वामिभावः कुत इत्यत आह -
एतस्मादेवेति ।
साम्येऽपि प्रातिस्विकस्वरूपविशेषात् शेषित्वे दृष्टान्तः -
यथा चेति ।
चेतनाचेतनभेदः कथमित्यत आह -
प्रविभागेति ।
चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यामित्यर्थः ।
सर्वस्य चेतनत्वमेकदेश्युक्तमङ्गीकृत्य साङ्ख्यः परिहरति -
तेनापि कथञ्चिदिति ।
अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति -
न चेत्यादिना ।
इतरच्चेतनाचेतनत्वरूपम् । वैलक्षण्यं तथात्वशब्दार्थः । श्रुतार्थापत्तिः शब्देन बाध्येति भावः ॥४॥
श्रुतिसाहाय्यान्न बाध्येत्युत्तरसूत्रव्यावर्त्यं शङ्कते -
नन्विति ।
मृदादीनां वक्तृत्वादिश्रुतेस्तदभिमानिविषयत्वात् , तथा 'विज्ञानं चाविज्ञानं च' इति चेतनाचेतनविभागशब्दस्योपचरितार्थत्वं न युक्तमिति साङ्ख्यः समाधत्ते -
अभिमानीति ।
संवदनं विवादः । न भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यते । लोकवेदप्रसिद्धविभागबाधायोगादित्यर्थः ।
विशेषपदस्यार्थान्तरमाह -
अपि चेति ।
अहंश्रेयसे स्वस्वश्रेष्ठत्वाय प्राणा विवदमाना इत्युक्तप्राणानां चेतनवाचिदेवतापदेन विशेषितत्वात्प्राणादिपदैरभिमानिव्यपदेश इत्यर्थः । प्राणे निःश्रेयसं श्रैष्ठ्यं विदित्वा प्राणाधीना जाता इत्यर्थः ।
अनुगतिं बहुधा व्याचष्टे -
अनुगताश्चेति ।
तस्मै प्राणाय, बलिहरणं वागादिभिः स्वीयवसिष्ठत्वादिगुणसमर्पणं कृतम् । तेजआदिनामीक्षणं त्वयैवेक्षत्यधिकरणे चेतननिष्ठतया व्याख्यातं द्रष्टव्यमित्यर्थः । यस्मान्नास्ति जगतश्चेतनत्वं तस्मादिति पूर्वपक्षोपसंहारः ॥५॥
किं यत्किञ्चिद्वैलक्षण्यं हेतुः, बहुवैलक्षण्यं वा । आद्ये व्यभिचारमाह -
नायमेकान्तः । दृश्यते हीति ।
हेतोरसत्त्वान्न व्यभिचार इति शङ्कते -
नन्विति ।
यत्किञ्चिद्वैलक्षण्यमस्तीति व्यभिचार इत्याह -
उच्यत इति ।
शरीरस्य केशादीनां च प्राणित्वाप्राणित्वरूपं वैलक्षण्यमस्तीत्यर्थः ।
द्वितीयेऽपि तत्रैव व्यभिचारमाह -
महानिति ।
परिणामिकः । केशादीनां स्वगतपरिणामात्मक इत्यर्थः ।
किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति । आद्ये दोषमाह -
अत्यन्तेति ।
द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्सत्त्वात्प्रकृतिविकृतित्वसिद्धिरित्याह -
अथेत्यादिना ।
विलक्षणत्वं विकल्प्य दूषणान्तरमाह -
विलक्षणत्वेनेत्यादिना ।
जगति समस्तस्य ब्रह्मस्वभावस्य चेतनत्वादेरननुवर्तनान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृतिविकारत्वमित्युक्तं स्यात् , तदसङ्गतमित्याह -
प्रथम इति ।
तृतीये तु दृष्टान्ताभाव इति ।
न च जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावदिति दृष्टान्तोऽस्तीति वाच्यम् , अनादित्वस्योपाधित्वात् । न च ध्वंसे साध्याव्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृतिकत्वादभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति ।
सम्प्रति कल्पत्रयसाधारणं दोषमाह -
आगमेति ।
पूर्वोक्तमनूद्य ब्रह्मणः शुष्कतर्कविषयत्वासम्भवान्न तर्केणाक्षेप इत्याह -
यत्तूक्तमित्यादिना ।
लिङ्गसादृश्यपदप्रवृत्तिनिमित्तानामभावादनुमानोपमानशब्दानामगोचरः । ब्रह्म लक्षणया वेदैकवेद्यमित्यर्थः । एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न सम्पादनीया । यद्वा कुतर्केण न बाधनीया । कुतार्किकादन्येनैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञानायानुभवाय फलाय भवति । हे प्रेष्ठ, प्रियतमेति न चिकेतसं प्रति मृत्योर्वचनम् । इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को वा अद्धा साक्षाद्वेद । तिष्ठतु वेदनम् , क इह लोके तं प्रवोचत्प्रावोचत् । छान्दसो दीर्घलोपः । यथावद्वक्तापि नास्तीत्यर्थः । प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् । मिषेण मननविधिव्याजेन । शुष्कः श्रुत्यनपेक्षः । श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चात्पुरुषदोषस्यासम्भावनादेर्निरासाय गृहीतः श्रुत्यनुगृहीतः ।
तमाह -
स्वप्नान्तेति ।
जीवस्यावस्थावतो देहादिप्रपञ्चयुक्तस्य निष्प्रपञ्चब्रह्मैक्यमसम्भवि, द्वैतग्राहिप्रमाणविरोधाद्ब्रह्मणश्चाद्वितीयत्वमयुक्तमित्येवं श्रौतार्थासम्भावनायाम् , तन्निरासाय सर्वास्ववस्थास्वात्मनोऽनुगतस्य व्यभिचारिणीभिरवस्थाभिरनन्वागतत्वमसंस्पृष्टत्वमवस्थानां स्वाभाविकत्वे वह्न्यौष्णवदात्मव्यभिचारायोगात्सुषुप्तौ प्रपञ्चभ्रान्त्यभावे 'सता सोम्य' इत्युक्ताभेददर्शनान्निष्प्रपञ्चब्रह्मैक्यसम्भवः, यथा घटादयो मृदभिन्नास्तथा जगद्ब्रह्माभिन्नं तज्जत्वादित्यादिस्तर्क आश्रीयत इत्यर्थः । इतोऽन्यादृशतर्कस्यात्र ब्रह्मण्यप्रवेशादस्य चानुकूलत्वान्न तर्केणाक्षेपावकाश इति भावः ।
ब्रह्मणि शुष्कतर्कस्याप्रवेशः सूत्रसम्मत इत्याह -
तर्काप्रतिष्ठानादिति ।
विप्रलम्भकत्वमप्रमापकत्वम् । यदुक्तमेकदेशिना सर्वस्य जगतश्चेतनत्वोक्तौ विभागश्रुत्यनुपपत्तिरिति दूषणं साङ्ख्येन । तन्न । तत्र तेनैकदेशिना विभागश्रुतेश्चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यां योजयितुं शक्यत्वात् ।
साङ्ख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्वस्याचेतनत्वेन चेतनाचेतनकार्यविभागासम्भवादित्याह -
योऽपीत्यादिना ।
सिद्धान्ते चेतनाचेतनवैलक्षण्याङ्गीकारे कथं ब्रह्मणः प्रकृतित्वमित्यत आह -
प्रत्युक्तत्वादिति ।
अप्रयोजकत्वव्यभिचाराभ्यां निरस्तत्वादित्यर्थः ॥६॥
कार्यमुत्पत्तेः प्रागसदेव स्यात् , स्वविरुद्धकारणात्मना सत्त्वायोगादित्यपसिद्धान्तापत्तिमाशङ्क्य मिथ्यात्वात्कार्यस्य कालत्रयेऽपि कारणात्मना सत्त्वमविरुद्धमिति समाधत्ते -
असदिति चेदित्यादिना ।
असत्यादिति सत्त्वप्रतिषेधो निरर्थक इत्यर्थः ।
कार्यसत्यत्वाभावे श्रुतिमाह -
सर्वं तमिति ।
मिथ्यात्वमजानतः शङ्कामनूद्य परिहरति -
नन्वित्यादिना ।
विस्तरेण चैतदिति ।
मिथ्यात्वमित्यर्थः ॥७॥
सत्कार्यवादसिद्ध्यर्थं कार्याभेदे कारणस्यापि कार्यवदशुद्ध्यादिप्रसङ्ग इति शङ्कासूत्रं व्याचष्टे -
अत्राहेति ।
प्रतिसंसृज्यमानपदस्य व्याख्या -
कारणेति ।
यथा जले लीयमानं लवणद्रव्यं जलं दूषयति तद्वदित्यर्थः ।
सूत्रस्य योजनान्तरमाह -
अपि चेति ।
सर्वस्य कार्यस्यापीतौ कारणवदेकरूपत्वप्रसङ्ग इत्यर्थः ।
अर्थान्तरमाह -
अपि चेति ।
कर्मादीनामुत्पत्तिनिमित्तानां प्रलयेऽपि भोक्तृणामुत्पत्तौ तद्वदेव मुक्तानामप्युत्पत्तिप्रसङ्गादित्यर्थः ।
शङ्कापूर्वकं व्याख्यान्तरमाह -
अथेति ।
यदि लयकालेऽपि कार्यं कारणाद्विभक्तं तर्हि स्थितिकालवल्लयाभावप्रसङ्गात्कार्येण द्वैतापत्तेश्चासमञ्जसमिदं दर्शनमित्यर्थः ॥८॥
अपीतौ जगत्स्वकारणं न दूषयति, कारणे लीनत्वात् , मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे -
नैवेत्यादिना ।
अपिगच्छत् लीयमानम् । विभागावस्था स्थितिकालः ।
त्वत्पक्षस्येति ।
मधुरजलं लवणस्याकारणमित्यदृष्टान्तः ।
किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्लवणवदित्याह -
अपीतिरेवेति ।
असति कार्ये तद्धर्मेण कारणस्य योगो न सम्भवति । धर्म्यसत्त्वे धर्माणामप्यसत्त्वादिति भावः ।
ननु सत्कार्यवादे लयेऽपि कार्यस्य कारणाभेदेन सत्त्वाद्दूषकत्वं स्यादित्यत आह -
अनन्यत्वेऽपीति ।
कल्पितस्याधिष्ठानधर्मवत्त्वमभेदान्न त्वधिष्ठानस्य कल्पितकार्यधर्मवत्त्वं तस्य कार्यात्पृथक्सत्त्वादित्यर्थः ।
किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते -
अत्यल्पं चेति ।
परिणामदृष्टान्तं व्याख्याय विवर्तदृष्टान्तं व्याचष्टे -
अस्ति चेति ।
मायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह -
यथेति ।
अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह -
प्रबोधेति ।
जाग्रत्सुषुप्त्योः स्वप्नेनात्मनोऽस्पर्शात्तत्कालेऽप्यस्पर्श इत्यर्थः ।
यद्यज्ञस्य जीवस्यावस्थाभिरसंसर्गस्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टान्तिकमाह -
एवमिति ।
यद्वा जागज्जन्मस्थितिलया ईश्वरस्यावस्थात्रयम् । तदसङ्गित्वे वृद्धसम्मतिमाह -
अत्रोक्तमिति ।
यदा तत्त्वमसीत्युपदेशकाले प्रबुध्यते मायानिद्रां त्यजति तदा जन्मलयस्थित्यवस्थाशून्यमद्वैतमीश्वरमात्मत्वेनानुभवतीत्यर्थः ।
फलितमाह -
तत्रेति ।
द्वितीयमसामञ्जस्यमनूद्य तेनैव सूत्रेण परिहरति -
यत्पुनरिति ।
सुषुप्तावज्ञानसत्त्वे पुनर्विभागोत्पत्तौ च मानमाह -
श्रुतिश्चेति ।
सति ब्रह्मण्येकीभूय न विदुरित्यज्ञानोक्तिः । इह सुषुप्तेः प्राक्प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।
ननु सुषुप्तौ पुनर्विभागशक्त्यज्ञानसत्त्वेऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह -
यथा हीति ।
यथा सुषुप्तौ परमात्मनि सर्वकार्याणामविभागेऽपि पुनर्विभागहेत्वज्ञानशक्तिरस्ति एवमपीतौ महाप्रलयेऽपि मिथ्याभूताज्ञानसम्बन्धात्पुनः सृष्टिविभागशक्तिरनुमास्यते । यतः स्थिताविदानीं मिथ्याज्ञानकार्यो विभागव्यवहारस्तत्त्वबोधाभावात्स्वप्नवदबाधितो दृश्यते, अतः कार्यदर्शनात्कारणसत्त्वसिद्धिरित्यर्थः । अज्ञानां जीवानां महाप्रलयेऽप्यज्ञानशक्तिनियमात्पुनर्जन्मनियम इति भावः ।
एतेनेति ।
जन्मकारणाज्ञानशक्त्यभावेनेत्यर्थः ॥९॥
वैलक्षण्यादीनां साङ्ख्यपक्षेऽपि दोषत्वान्नास्माभिस्तन्निरासप्रयासः कार्य इत्याह -
स्वपक्षेति ।
सूत्रं व्याचष्टे -
स्वेति ।
प्रादुःष्युः प्रादुर्भवेयुः ।
अत एवेति ।
सत्यकार्यस्य विरुद्धकारणात्मना सत्त्वायोगात्साङ्ख्यस्यैवायं दोषो न कार्यमिथ्यात्ववादिन इति मन्तव्यम् ।
'अपीतौ' इति सूत्रोक्तदोषचतुष्टयमाह -
तथापीताविति ।
कार्यवत्प्रधानस्य रूपादिमत्त्वप्रसङ्गः । इदं कर्मादिकमस्योपादानं भोग्यमस्य नेत्यनियमः । बद्धमुक्तव्यवस्था च । यदि व्यवस्थार्थं मुक्तानां भेदाः सङ्घातविशेषाः प्रधाने लीयन्ते बद्धानां भेदास्तु न लीयन्त इत्युच्येत तर्ह्यलीनानां पुरुषवत्कार्यत्वव्याघात इत्यर्थः ॥१०॥
किञ्च तर्कस्य सम्भावितदोषत्वात्तेन निर्दोषवेदान्तसमन्वयो न बाध्य इत्याह -
तर्काप्रतिष्ठानादपीति ।
पुरुषमतीनां विचित्रत्वेऽपि कपिलस्य सर्वज्ञत्वात्तदीयतर्के विश्वास इति शङ्कते -
अथेति ।
'कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा' इति न्यायेन परिहरति -
एवमपीति ।
सूत्रमध्यस्थशङ्काभागं व्याचष्टे -
अथोच्येतेति ।
विलक्षणत्वादितर्काणामप्रतिष्ठितत्वेऽपि व्याप्तिपक्षधर्मतासम्पन्नः कश्चित्तर्कः प्रतिष्ठितो भविष्यति तेन प्रधानमनुमेयमित्यर्थः ।
ननु सोऽप्यप्रतिष्ठितः तर्कजातीयत्वाविलक्षणत्वादिवदित्यत आह -
न हीति ।
तर्कजातीयत्वादिति तर्कः प्रतिष्ठितो न वा । आद्येऽत्रैवाप्रतिष्ठितत्वसाध्याभावाद्वयभिचारः ।
द्वितीयेऽपि न सर्वतर्काणामप्रतिष्ठितत्वं हेत्वभावादित्यभिसन्धिमानाह -
एतदपीति ।
किञ्चानागतपाक इष्टसाधनम् , पाकत्वात् , अतीतपाकवदित्यादिष्टानिष्टसाधनानुमानात्मकतर्कस्य प्रवृत्तिनिवृत्तिव्यवहारहेतुत्वान्नाप्रतिष्ठेत्याह -
सर्वतर्केति ।
अध्वा विषयः पाकभोजनादिर्विषभक्षणादिश्च, तत्सामान्येन पाकत्वादिनानागतविषये पाकादौ सुखदुःखहेतुत्वानुमित्या प्रवृत्त्यादिरित्यर्थः ।
किञ्च पूर्वोत्तरमीमांसयोस्तर्केणैव वाक्यतात्पर्यनिर्णयस्य क्रियमाणत्वात्तर्कः प्रतिष्ठित इत्याह -
श्रुत्यर्थेति ।
मनुरपि केषाञ्चित्तर्काणां प्रतिष्ठां मन्यत इत्याह -
मनुरिति ।
धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः ।
कस्यचित्तर्कस्याप्रतिष्ठितत्वमङ्गीकरोति -
अयमेवेति ।
सर्वतर्काणां प्रतिष्ठायां पूर्वपक्ष एव न स्यादिति भावः ।
पूर्वपक्षतर्कवत्सिद्धान्ततर्कोऽप्यप्रतिष्ठितः, तर्कत्वाविशेषादिति वदन्तमुपहसति -
न हीति ।
क्वचित्तर्कस्य प्रतिष्ठायामपि जगत्कारणविशेषे तर्कस्य स्वातन्त्र्यं नास्तीति सूत्रशेषं व्याचष्टे -
यद्यपीत्यादिना ।
अतिगम्भीरत्वं ब्रह्मणो वेदान्यमानागम्यत्वम् । भावस्य जगत्कारणस्य याथात्म्यमद्वयत्वम् । मुक्तिनिबन्धनं मुक्त्यालम्बनम् ।
ब्रह्मणो वेदान्यमानागम्यत्वं दर्शयति -
रूपादिति ।
अविमोक्षो मुक्त्यभाव इत्यर्थान्तरमाह -
अपि चेत्यादिना ।
एकरूपवस्तुज्ञानस्य सम्यग्ज्ञानत्वेऽपि तर्कजन्यत्वं किं न स्यादित्यत आह -
तत्रैवं सतीति ।
तर्कोत्थज्ञानानां मिथो विप्रतिपत्तेर्न सम्यग्ज्ञानत्वम् । सम्यग्ज्ञाने विप्रतिपत्त्ययोगादित्यर्थः । एकरूपेणानवस्थितो विषयो यस्य तत्तर्कप्रभवं कथं सम्यग्ज्ञानं भवेदिति योजना ।
ननु साङ्ख्यस्य श्रेष्ठत्वात्तज्ज्ञानं सम्यगित्याशङ्क्य हेत्वसिद्धिमाह -
न च प्रधानेति ।
ननु सर्वतार्किकैर्मिलित्वा निश्चिततर्कोत्था मतिर्मुक्तिहेतुरित्यत आह -
न च शक्यन्त इति ।
तस्मात्तर्कोत्थज्ञानान्मुक्त्ययोगात्तर्केण वेदान्तसमन्वयबाधो न युक्तः, तद्बाधे सम्यग्ज्ञानालाभेनानिर्मोक्षप्रसङ्गादिति सूत्रांशार्थमुपसंहरति -
अतोऽन्यत्रेति ।
समन्वयस्य तर्केणाविरोधे फलितमधिकरणार्थमुपसंहरति -
अत आगमेति ॥११॥
ब्रह्म जगदुपादानमिति ब्रुवन् वेदान्तसमन्वयो विषयः । स किं यद्विभु तन्न द्रव्योपादानमिति वैशेषिकादिन्यायेन विरुध्यते न वेति सन्देहे साङ्ख्यवृद्धानां तर्काकुशलमतित्वेऽपि वैशेषिकादीनां तर्कमतिकुशलत्वप्रसिद्धेस्तदीयन्यायस्याबाधितत्वाद्विरुध्यत इति प्रत्युदाहरणेन प्राप्तेऽतिदिशति -
एतेनेति ।
फलं पूर्ववत् ।
ननु साङ्ख्यमतस्योपदेशस्तार्किकमतस्यातिदेशः किमिति कृतो वैपरीत्यस्यापि सम्भवादित्याशङ्क्य पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावे कारणमाह -
वैदिकस्येति ।
सत्कार्यत्वात्मासङ्गत्वस्वप्रकाशत्वाद्यंशैर्वेदान्तशास्त्रस्य प्रत्यासन्नः प्रधानवादः शिष्टैर्देबलादिभिः सत्कार्यत्वांशेन स्वीकृत इति प्रबलत्वादुपदेशः । अण्वादिवादानां निर्मूलत्वेन दुर्बलत्वेन दुर्बलत्वादतिदेश इति भावः ।
किं निराकरणकारणमिति प्रष्टव्यं नास्तीत्याह -
तुल्यत्वादिति ।
कारणमेवाह -
तुल्यमिति ।
यदुक्तं विभुत्वान्न द्रव्योपादानं ब्रह्मेति, तत्र पक्षसाधकत्वेन श्रुतेरुपजीव्यत्वात्तया बाधः । महापरिमाणवत्त्वस्य सर्वसंयोगिकत्वरूपविभुत्वस्य निर्गुणे ब्रह्मण्यसिद्धेश्चेति द्रष्टव्यम् । अतः समन्वयस्य तार्किकन्यायेन न विरोध इति सिद्धम् ॥१२॥
अद्वितीयाद्ब्रह्मणो जगत्सर्गादिवादी वेदान्तसमन्वयो विषयः । स किं यन्मिथो भिन्नं तन्नाद्वितीयकारणाभिन्नं यथा मृत्तन्तुजौ घटपठाविति तर्कसहितभेदप्रत्यक्षादिना विरुध्यते न वेति सन्देहे ब्रह्मणि तर्कस्याप्रतिष्ठितत्वेऽपि जगद्भेदे प्रतिष्ठितत्वाद्विरुध्यत इति पूर्वपक्षयति -
भोक्त्रापत्तेरिति ।
विरोधादद्वैतासिद्धिः पूर्वपक्षफलम् , सिद्धान्ते तत्सिद्धिरिति भेदः ।
अनपेक्षश्रुत्या स्वार्थनिर्णयात्तर्केणाक्षेपो न युक्त इत्युक्तमिति शङ्कते -
यद्यपीति ।
मानान्तरायोग्यश्रुत्यर्थे भवत्यनाक्षेपः ।
यस्त्वद्वितीयब्रह्माभेदाद्भूजलादीनामभेदो ब्रह्मोपादानकत्वश्रुतिविषयः स 'आदित्यो यूपः' इत्यर्थवादार्थवन्मानान्तरयोग्य एवेति द्वैतप्रमाणैरपह्रियत इति समाधत्ते -
तथापीति ।
अन्यपरत्वं गौणार्थकत्वम् ।
स्वविषये जगद्भेदे तर्कस्य प्रतिष्ठितत्वात्तेनाक्षेप इत्याह -
तर्कोऽपीति ।
तर्कादेर्द्वैते प्रामाण्येऽपि ततः समन्वयविरोधे किमायातमिति शङ्कते -
किमत इति ।
पूर्वपक्षी समाधत्ते -
अत इति ।
तर्कादेः प्रामाण्यात् द्वैतबाधकत्वं श्रुतेरयुक्तमित्यद्वैतसमन्वयबाधो युक्त इत्यर्थः ।
इयमर्थं शङ्कापूर्वकं स्फुटयति -
कथमित्यादिना ।
ननु भोक्तृभोग्ययोर्मिथ एकत्वं केनोक्तमित्याशङ्क्य श्रुतार्थापत्त्येत्याह -
तयोश्चेति ।
तयोरेकब्रह्माभेदश्रवणादेकत्वं कल्प्यते, एकस्मादभिन्नयोर्भेदे एकस्यापि भेदापत्तेः । ततश्च भेदो बाध्येतेत्यर्थः ।
इष्टापत्तिं वारयति -
न चास्येति ।
श्रुतेर्गौणार्थत्वेन सावकाशत्वान्निरवकाशद्वैतमानबाधो न युक्त इत्यर्थः ।
ननु विभागस्याधुनिकत्वादनाद्यद्वैतश्रुत्या बाध इत्यत आह -
यथेति ।
अतीतानागतकालौ भोक्त्रादिविभागाश्रयौ, कालत्वात् , वर्तमानकालवदित्यनुमानाद्विभागोऽनाद्यनन्त इत्यर्थः ।
एवं प्राप्ते परिणामदृष्टान्तेनापाततः सिद्धान्तमाह -
स्याल्लोकवदिति ।
दृष्टान्तेऽपि कथमेकसमुद्राभिन्नानां परिणामानां मिथो भेदः, कथं वा तेषां भेदे सत्येकस्मादभिन्नत्वमित्याशङ्क्य न हि दृष्टेनुपपत्तिरिति न्यायेनाह -
न चेति ।
एवं भोक्तृभोग्ययोर्मिथो भेदो ब्रह्माभेदश्चेत्याह -
एवमिहेति ।
जीवस्य ब्रह्मविकारत्वाभावाद्दृष्टान्तवैषम्यमिति शङ्कते -
यद्यपीति ।
औपाधिकं जन्मास्तीति तरङ्गादिसाम्यमाह -
तथापीति ।
विभागो जन्म । यद्वा तथापीतिशब्देनैवोक्तः परिहारः ।
ननु भोक्तुः प्रतिदेहं विभागः कथमित्यत आह -
कार्यमनुप्रविष्टस्येति ।
औपाधिकविभागे फलितमुपसंहरति -
इत्यत इति ।
एकब्रह्माभिन्नत्वेऽपि भोक्त्रादेस्तरङ्गादिवद्भेदाङ्गीकारान्न द्वैतमानेनाद्वैतसमन्वयस्य विरोध इत्यर्थः ॥१३॥
पूर्वस्मिन्नेव पूर्वपक्षे विवर्तवादेन मुख्यं समाधानमाह -
तदनन्यत्वमिति ।
समानविषयत्वं सङ्गतिं वदन्नुभयोः परिहारयोः परिणामविवर्ताश्रयत्वेनार्थभेदमाह -
अभ्युपगम्येति ।
प्रत्यक्षादीनाम् उत्सर्गिकप्रामाण्यमङ्गीकृत्य स्थूलबुद्धिसमाधानार्थं परिणामदृष्टान्तेन भेदाभेदावुक्तौ, सम्प्रत्यङ्गीकृतं प्रामाण्यम् , तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे स्थाप्यते, तथा च मिथ्याद्वैतग्राहिप्रमाणैरद्वैतश्रुतेर्न बाधः, एकस्यां रज्ज्वां दण्डस्रगादिद्वैतदर्शनादित्ययं मुख्यः परिहार इति भावः ।
एवमद्वैतसमन्वयस्याविरोधार्थं द्वैतस्य मिथ्यात्वं साधयति -
यस्मात्तयोरिति ।
स्वरूपैक्ये कार्यकारणत्वव्याघात इत्यत आह -
व्यतिरेकेणेति ।
कारणात्पृथक्सत्त्वशून्यत्वं कार्यस्य साध्यते नैक्यमित्यर्थः ।
वागारभ्यं नाममात्रं विकारो न कारणात्पृथगस्तीत्येवकारार्थ इति श्रुतिं योजयति -
एतदुक्तमिति ।
आरम्भणशब्दार्थान्तरमाह -
पुनश्चेति ।
अपागादग्नित्वमपगतं कारणमात्रत्वात् । त्रीणि तेजोबन्नानां रूपाणि रूपतन्मात्रात्मकानि सत्यम् । तेषामपि सन्मात्रत्वात्सदेव शिष्यत इत्यभिप्रायः ।
जीवगजतोर्ब्रह्मान्यत्वे प्रतिज्ञाबाध इत्याह -
न चान्यथेति ।
तयोरनन्यत्वे क्रमेण दृष्टान्तावाह -
तस्माद्यथेति ।
प्रतिज्ञाबलादित्यर्थः । दृष्टं प्रातीतिकं नष्टमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति सम्बन्धः ।
शुद्धाद्वैतं स्वमतमुक्त्वा भेदाभेदमतमुत्थापयति -
नन्विति ।
अनेकाभिः शक्तिभिस्तदधीनप्रकृतिभिः परिणामैर्युक्तमित्यर्थः ।
भेदाभेदमते सर्वव्यवस्थासिद्धिरत्यन्ताभेदे द्वैतमानबाध इत्यभिमन्यमानो दूषयति -
नैवं स्यादिति ।
एवकारवाचारम्भणशब्दाभ्यां विकारसत्तानिषेधात्परिणामवादः श्रुतिबाह्य इत्यर्थः ।
किञ्च संसारस्य सत्यत्वे तद्विशिष्टस्य जीवस्य ब्रह्मैक्योपदेशो न स्याद्विरोधादित्याह -
स आत्मेति ।
एकत्वं ज्ञानकर्मसमुच्चयसाध्यमित्युपदेशार्थमित्याशङ्क्या असीतिपदविरोधान्मैवमित्याह -
स्वयमिति ।
अतस्तत्त्वज्ञानबाध्यत्वात्संसारित्वं मिथ्येत्याह -
अतश्चेति ।
स्वतःसिद्धोपदेशादित्यर्थः ।
यदुक्तं व्यवहारार्थं नानात्वं सत्यमिति, तत्किं ज्ञानादूर्ध्वं व्यवहारार्थं प्राग्वा । नाद्य इत्याह -
बाधिते चेति ।
स्वभावोऽत्राविद्या तया कृतः स्वाभाविकः । ज्ञानादूर्ध्वं प्रमातृत्वादिव्यवहारस्याभावान्नानात्वं न कल्प्यमित्यर्थः । न द्वितीयः, ज्ञानात्प्राक्कल्पितनानात्वेन व्यवहारोपपत्तौ नानात्वस्य सत्यत्वासिद्धेः ।
यत्तु प्रमातृत्वादिव्यवहारः सत्य एव मोक्षावस्थायां निवर्तत इति, तन्नेत्याह -
न चायमिति ।
संसारसत्यत्वे तदवस्थायां जीवस्य ब्रह्मत्वं न स्यात् , भेदाभेदयोरेकदैकत्र विरोधात् । अतोऽसंसारिब्रह्माभेदस्य सदातनत्वावगमात्संसारोऽपि मिथ्यैवेत्यर्थः । किञ्च यथा लोके कश्चित्तस्करबुद्ध्या भटैर्गृहीतोऽनृतवादी चेत्तप्तपरशुं गृह्णाति स दह्यते बध्यते च, तथा नानात्ववादी दह्यते सत्यवादी चेन्न दह्यते मुच्यते च ।
तथैतदात्म्यमिदं सर्वमित्येकत्वदर्शी मुच्यत इति श्रुतदृष्टान्तेनैकत्वं सत्यं नानात्वं मिथ्येत्याह -
तस्करेति ।
व्यवहारगोचरो नानात्वव्यवहाराश्रयः ।
नानात्वनिन्दयाप्येकत्वमेव सत्यमित्याह -
मृत्योरिति ।
किञ्चास्मिन्भेदाभेदमते जीवस्य ब्रह्माभेदज्ञानाद्भेदज्ञाननिवृत्तेर्मुक्तिरिष्टा सा न युक्ता, भेदज्ञानस्य भ्रमत्वानभ्युपगमात् , प्रमायाः प्रमान्तराबाध्यत्वादित्याह -
न चास्मिन्निति ।
वैपरीत्यस्यापि सम्भवादिति भावः ।
इदानीं प्रत्यक्षादिप्रामाण्यान्यथानुपपत्त्या नानात्वस्य सत्यत्वमिति पूर्वपक्षबीजमुद्घाटयति -
नन्वित्यादिना ।
एकत्वस्यैकान्तः कैवल्यम् । व्याहन्येरन्नप्रमाणानि स्युः । उपजीव्यप्रत्यक्षादिप्रामाण्याय वेदान्तानां भेदाभेदपरत्वमुचितमिति भावः ।
ननु कर्मकारकाणां यजमानादीनां विद्याकारकाणां शिष्यादीनां च कल्पितभेदमाश्रित्य कर्मज्ञानकाण्डयोः प्रवृत्तेः स्वप्रमेयस्य धर्मादेरबाधात्प्रामाण्यमव्याहतमित्याशङ्क्याह -
कथं चानृतेनेति ।
धूलिकल्पितधूमेनानुमितस्य वह्नेरिव प्रमेयबाधापत्तेरिति भावः ।
तत्र द्वैतविषये प्रत्यक्षादीनां यावद्बाधं व्यावहारिकं प्रामाण्यमुपपद्यत इत्याह -
अत्रोच्यत इत्यादिना ।
सत्यत्वं बाधाभावः । बाधो मिथ्यात्वनिश्चयः ।
वस्तुतो मिथ्यात्वेऽपि विकारेषु तन्निश्चयाभावेन प्रत्यक्षादिव्यवहारोपपत्तावुक्तदृष्टान्तं विवृणोति -
यथा सुप्तस्य प्राकृतस्येति ।
एवं द्वैतप्रमाणानां व्यवहारकाले बाधशून्यार्थबोधकत्वं व्यावहारिकं प्रामाण्यमुपपाद्य द्वैतप्रमाणानां वेदान्तानां सर्वकालेषु बाधशून्यब्रह्मबोधकत्वं तात्त्विकं प्रामाण्यमुपपादयितुमुक्तशङ्कामनुवदति -
कथं त्वसत्येनेति ।
किमसत्यात्सत्यं न जायते, किमुत सत्यस्य ज्ञानं न । आद्य इष्ट एव । न हि वयं वाक्योत्थज्ञानं सत्यमित्यङ्गीकुर्मः ।
अङ्गीकृत्यापि दृष्टान्तमाह -
नैष दोष इति ।
सर्पेणादष्टस्यापि दष्टत्वभ्रान्तिकल्पितविषात्सत्यमरणमूर्च्छादिदर्शनादसत्यात्सत्यं न जायत इत्यनियम इत्यर्थः ।
दृष्टान्तान्तरमाह -
स्वप्नेति ।
असत्यात्सर्पोदरादेः सत्यस्य दंशनस्नानादिज्ञानस्य कार्यस्य दर्शनाद्व्यभिचार इत्यर्थः ।
यथाश्रुतमादाय शङ्कते -
तत्कार्यमपीति ।
उक्तमर्थं प्रकटयति -
तत्र ब्रूम इत्यादिना ।
अवगतिर्वृत्तिः घटादिवत्सत्यापि प्रातिभासिकस्वप्नदृष्टवस्तुनः फलं चैतन्यं वा वृत्त्यभिव्यक्तमवगतिशब्दार्थः ।
प्रसङ्गाद्देहात्मवादोऽपि निरस्त इत्याह -
एतेनेति ।
स्वप्नस्थावगतेः स्वप्नदेहधर्मत्व उत्थितस्य मया तादृशः स्वप्नोऽवगत इत्यबाधितावगतिप्रतिसन्धानं न स्यात् । अतो देहभेदेऽप्यनुसन्धानदर्शनाद्देहान्योऽनुसन्धातेत्यर्थः ।
असत्यात्सत्यस्य ज्ञानं न जायत इति द्वितीयनियमस्य श्रुत्या व्यभिचारमाह -
तथा च श्रुतिरिति ।
न च स्त्रियो मिथ्यात्वेऽपि तद्दर्शनात्सत्यादेव सत्यायाः समृद्धेर्ज्ञानमिति वाच्यम् , विषयविशिष्टत्वेन दर्शनस्यापि मिथ्यात्वात्प्रकृतेऽपि सत्ये ब्रह्मणि मिथ्यावेदानुगतचैतन्याज्ज्ञानसम्भवाच्चेति भावः ।
असत्यात्सत्यस्येष्टस्य ज्ञानमुक्त्वानिष्टस्य ज्ञानमाह -
तथेति ।
असत्यात्सत्यस्य ज्ञाने दृष्टान्तान्तरमाह -
तथाकारादीति ।
रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धमित्यर्थः । एवमसत्यात्सत्यस्य जन्मोक्त्या तदर्थक्रियाकारि तत्सत्यमिति नियमो भग्नः, अनृतात्सत्यस्य ज्ञानोक्त्या यदनृतकरणगम्यं तद्बाध्यं कूटलिङ्गानुमितवह्निवदिति व्याप्तिर्भग्ना । तथा च कल्पितानामपि वेदान्तानां सत्यब्रह्मबोधकत्वं सम्भवतीति तात्त्विकं प्रामाण्यमिति भावः ।
यदुक्तमेकत्वनानात्वव्यवहारसिद्धये उभयं सत्यमिति, तन्न । भेदस्य लोकसिद्धस्यापूर्वफलवदभेदविरोधेन सत्यत्वकल्पनायोगात् । किञ्च यद्युभयोरेकदा व्यवहारः स्यात्तदा स्यादपि सत्यत्वम् । नैवमस्ति । एकत्वज्ञानेन चरमेणानपेक्षेण नानात्वस्य निःशेषं बाधात् , शुक्तिज्ञानेनेव रजतस्येत्याह -
अपि चान्त्यमिति ।
ननूपजीव्यद्वैतप्रमाणविरोधादेकत्वावगतिर्नोत्पद्यत इत्यत आह -
न चेयमिति ।
तत्किलात्मतत्त्वमस्य पितुर्वाक्यात्श्वेतकेतुर्विज्ञातवानिति ज्ञानोत्पत्तेः श्रुतत्वात्सामग्रीसत्त्वाच्चेत्यर्थः । व्यावहारिकगुरुशिष्यादिभेदमुपजीव्य ज्ञायमानवाक्यार्थावगतेः प्रत्यक्षादिगतं व्यावहारिकं प्रामाण्यमुपजीव्यम् , तच्च पारमार्थिकैकत्वावगत्या न विरुध्यते । किन्तु तया विरोधादनुपजीव्यं प्रत्यक्षादेस्तात्त्विकं प्रामाण्यं बाध्यत इति भावः ।
किञ्चैकत्वावगतेः फलवत्प्रमात्वान्निष्फलो द्वैतभ्रमो बाध्य इत्याह -
न चेयमिति ।
ननु सर्वस्य द्वैतस्य मिथ्यात्वे स्वप्नो मिथ्या जाग्रत् सत्यमित्यादिर्लौकिको व्यवहारः, सत्यं चानृतं च सत्यमभवदिति वैदिकश्च कथमित्याशङ्क्य यथा स्वप्ने इदं सत्यमिदमनृतमिति तात्कालिकबाधाबाधाभ्यां व्यवहारस्तथा दीर्घस्वप्न 'पीत्युक्तस्वप्नदृष्टान्तं स्मारयति -
प्राक्चेति ।
व्यवहारार्थे नानात्वं सत्यमिति कल्पनमसङ्गतमित्युपसंहरति -
तस्मादिति ।
नेदं कल्पितम् , किन्तु श्रुतमिति शङ्कते -
नन्विति ।
कार्यकारणयोरनन्यत्वांशेऽयं दृष्टान्तः, न परिणामित्वे, ब्रह्मणः कूटस्थत्वश्रुतिविरोधादिति परिहरति -
नेत्युच्यत इति ।
सृष्टौ परिणामित्वं प्रलये तद्राहित्यं च क्रमेणाविरुद्धमिति दृष्टान्तेन शङ्कते -
स्थितीति ।
कूटस्थस्य कदाचिदपि विक्रिया न युक्ता कूटस्थत्वव्याघातादित्याह -
नेति ।
कूटस्थत्वासिद्धिमाशङ्क्याह -
कूटस्थस्येति ।
कूटस्थस्य निरवयवस्य पूर्वरूपत्यागेनावस्थान्तरात्मकपरिणामायोगाच्छुक्तिरजतवद्विवर्त एव प्रपञ्च इति भावः ।
किञ्च निष्फलस्य जगतः फलवन्निष्प्रपञ्चब्रह्मधीशेषत्वेनानुवादान्न सत्यतेत्याह -
न च यथेत्यादिना ।
'तं यथा यथोपासते तदेव भवति' इति श्रुतेर्ब्रह्मणः परिणामित्वविज्ञानात्तत्प्राप्तिर्विदुषः फलमित्याशङ्क्याह -
न हि परिणामवत्त्वेति ।
'ब्रह्मविदाप्नोति परम्' इति श्रुतकूटस्थनित्यमोक्षफलसम्भवे दुःखानित्यपरिणामित्वफलकल्पनायोगादिति भावः ।
ननु पूर्वं 'जन्माद्यस्य यतः' इति ईश्वरकारणप्रतिज्ञा कृता । अधुना तदनन्यत्वमित्यन्ताभेदप्रतिपादने ईशित्रीशितव्यभेदाभावात्तद्विरोधः स्यादिति शङ्कते -
कूटस्थेति ।
कल्पितद्वैतमपेक्ष्येश्वरत्वादिकं परमार्थतोऽनन्यत्वमित्यविरोधमाह -
नेत्यादिना ।
अविद्यात्मके चिदात्मनि लीने नामरूपे एव बीजं तस्य व्याकरणं स्थूलात्मना सृष्टिस्तदपेक्षत्वादीश्वरत्वादेर्न विरोध इत्यर्थः ।
सङ्गृहीतार्थं विवृणोति -
तस्मादित्यादिना ।
तत्वान्यत्वाभ्यामिति ।
नामरूपयोरीश्वरत्वं वक्युमशक्यं जडत्वात् । नापीश्वरादन्यत्वं कल्पितस्य पृथक्सत्तास्फूर्त्योरभावादित्यर्थः ।
संस्कारात्मकनामरूपयोरविद्यैक्यविवक्षया ब्रूते -
मायेति ।
नामरूपे चेदीश्वरस्यात्मभूते तर्हीश्वरो जड इत्यत आह -
ताभ्यामन्य इति ।
अन्यत्वे व्याकरणे च श्रुतिमाह -
आकाश इत्यादिना ।
अविद्याद्युपाधिना कल्पितभेदेन बिम्बस्थानस्येश्वरत्वम् , प्रतिबिम्बभूतानां जीवानां नियम्यत्वमित्याह -
स च स्वात्मभूतानिति ।
न चात्र नानाजीवा भाष्योक्ता इति भ्रमितव्यम् , बुद्ध्यादिसङ्घातभेदेन भेदोक्तेः । अविद्याप्रतिबिम्बस्त्वेक एव जीव इत्युक्तम् ।
परमार्थत ईश्वरत्वादिद्वैताभावे श्रुतिमाह -
तथा चेति ।
कथं तर्हि कर्तृत्वादिकमित्यत आह -
स्वभावस्त्विति ।
अनाद्यविद्यैव कर्तृत्वादिरूपेण प्रवर्तत इत्यर्थः ।
भक्ताभक्तयोः पापसुकृतनाशकत्वादीश्वरस्य वास्तवमीश्वरत्वमित्यत आह -
नादत्त इति ।
न संहरतीत्यर्थः । तेन स्वरूपज्ञानावरणेन कर्ताहमीश्वरो मे नियन्तेत्येवं भ्रमन्ति ।
उक्तार्थः सूत्रकारसम्मत इत्याह -
सूत्रकारोऽपीति ।
न केवलं लौकिकव्यवहारार्थं परिणामप्रक्रियाश्रयणं किन्तूपासनार्थं चेत्याह -
परिणामप्रक्रियां चेति ।
तदुक्तम् 'कृपणाधीः परिणाममुदीक्षते क्षयितकल्मषधीस्तु विवर्तताम्' इति ॥१४॥
एवं तदनन्यत्वे प्रत्यक्षादिविरोधं परिहृत्यानुमानमाह -
भावे चेति ।
कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः । घटो मृदनन्यः, मृत्सत्त्वोपलब्धिक्षणनियतसत्त्वोपलब्धिमत्त्वात्मृद्वत् ।
अन्यत्वेऽप्ययं हेतुः किं न स्यादित्यप्रयोजकत्वमाशङ्क्य निरस्यति -
न चेति ।
मृद्घटयोरन्यत्वे गवाश्वयोरिव हेतूच्छित्तिः स्यादित्यर्थः । गवाश्वयोर्निमित्तनैमित्तिकत्वाभावाद्धेत्वभावः ।
अतो मृद्घटयोस्तेन हेतुना निमित्तादिभावः सिध्यति नानन्यत्वमित्यर्थान्तरतामाशङ्कायह -
न च कुलालेति ।
न चोपादानोपादेयभावेनार्थान्तरता, मृद्दृष्टान्ते तद्भावाभावेऽपि हेतुसत्त्वादन्यत्वे गवाश्ववत्तद्भावायोगाच्चेति भावः । कुलालघटयोर्निमित्तादिभावे सत्यप्यन्यत्वात् कुलालसत्त्वनियतोपलब्धिर्घटस्य नैवेत्यक्षरार्थः ।
यथाश्रुतसूत्रस्थहेतोर्व्यभिचारं शङ्कते -
नन्विति ।
अग्निभाव एव धूमोपलब्धिरिति नियमात्मको हेतुस्तत्र नास्तीत्याह -
नेति ।
अविच्छिन्नमूलदीर्धरेखावस्थधूमे नियमोऽस्तीति व्यभिचार इत्याशङ्कते -
अथेति ।
तद्भावनियतभावत्वे सति तद्बुद्ध्यनुरक्तबुद्धिविषयत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याह -
नैवमिति ।
आलोकबुद्ध्यनुरक्तबुद्धिग्राह्ये रूपे व्यभिचारनिरासाय सत्यन्तम् । आलोकाभावेऽपि घटादिरूपसत्त्वान्न व्यभिचारः । उक्तधूमविशेषस्याग्निबुद्धिं विनाप्युपलम्भान्न तत्र व्यभिचार इत्यर्थः । तथा च तयोः कार्यकारणयोर्भावेन सत्तयानुरक्तां सहकृतामिति भाष्यार्थः । यद्वा । तद्भावः सामानाधिकरण्यं तद्विषयकबुद्धिग्राह्यत्वं हेतुं वदामः । मृद्घट इति सामानाधिकरण्यबुद्धिदर्शनादग्निधूर्म इत्यदर्शनादित्यर्थः ।
अनुमानार्थत्वेन सूत्रं व्याख्याय पाठान्तरेण प्रत्यक्षपरतया व्याचष्टे -
भावाच्चेति ।
पूर्वसूत्रोक्तारम्भणशब्दसमुच्चयार्थश्चकारः । न चैकः पट इति प्रत्यक्षं पटस्य तन्तुभ्यः पृथक्सत्त्वे प्रमाणम् , अपृथक्सत्ताकमिथ्याकार्यविषयत्वेनाप्युपपत्तेः । अत आतानवितानसंयोगवन्तस्तन्तव एव पट इति प्रत्यक्षोपलब्धेः सत्त्वादनन्यत्वमित्यर्थः ।
पटन्यायं तन्त्वादावतिदिशति -
तथेत्यादिना ।
प्रत्यक्षोपलब्ध्या तत्तत्कार्ये कारणमात्रं परिशिष्यत इत्यर्थः ।
यत्र प्रत्यक्षं नास्ति तत्र कार्ये विमतकारणादभिन्नम् , कार्यत्वात् , पटवदित्यनुमेयमित्याह -
अनयेति ।
कारणपरिशेषे प्रधानादिकं परिशिष्यताम् , न ब्रह्मेत्यत आह -
तत्र सर्वेति ।
ब्रह्मणि वेदान्तानां सर्वेषां तात्पर्यस्योक्तत्वात्तदेवाद्वितीयं परिशिष्यते न कारणान्तरमप्रामाणिकत्वादिति भावः ॥१५॥
इदं जगत्सदात्मैवेति सामानाधिकरण्यश्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतम् , तदन्यथानुपपत्त्योत्पन्नस्यापि जगतः कारणादनन्यत्वमित्याह सूत्रकारः -
सत्त्वाच्चेति ।
श्रुत्यर्थे युक्तिमप्याह -
यच्च यदात्मनेति ।
घटादिकं प्राग्मृदाद्यात्मना वर्तते तत उत्पद्यमानत्वात्सामान्यतो व्यतिरेकेण सिकताभ्यस्तैलवदित्यर्थः ।
कारणवत्कार्यस्यापि सत्त्वात्सत्त्वभेदे मानाभावात्कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह -
यथा चेति ।
इदानीं सतः कार्यस्य प्रागुत्तरकालयोरसत्त्वायोगात्सत्त्वाव्यभिचारः । तच्च सत्त्वं सर्वानुस्यूतचिन्मात्रमेकम् । तदभेदेन सती मृत्सन् घट इति भासमानयोः कार्यकारणयोरनन्यत्वमित्यर्थः ॥१६॥ न चैवं घटपटयोरप्यैकसत्त्वाभेदादनन्यत्वं स्यादिति वाच्यम् , वस्तुत एकसत्त्वात्मनानन्यत्वस्येष्टत्वात् । तर्हि मृद्घटयोः को विशेषः । तादात्म्यमिति ब्रूमः । वस्तुतः सर्वत्र सत्तैक्येऽपि घटपटयोर्भेदेन सत्ताया भिन्नत्वान्न तादात्म्यम् , कार्यकारणयोर्भेदस्य सत्ताभेदकत्वाभावादभिन्नसत्ताकत्वं तादात्म्यमिति विशेषः ॥१६॥
उक्तं कार्यस्य प्राक्कारणात्मना सत्त्वमसिद्धमित्याशङ्क्य समाधत्ते -
असदिति ।
'अक्ताः शर्करा उपदध्यात्' इत्युपक्रमे केनाक्ता इति सन्देहे 'तेजो वै घृतम्' इति वाक्यशेषाद्धृतेनेति यथा निश्चयः, एवमत्रापि 'तत्सत्' इति वाक्यशेषात्सन्निश्चय इत्यर्थः ।
आसीदित्यतीतकालसम्बन्धोक्तेश्चासदव्याकृतमेव न शून्यमित्याह -
असतश्च पूर्वापरेति ।
उक्तन्यायं वाक्यान्तरेऽतिदिशति -
असद्वेति ।
क्रियमाणत्वविशेषणं शून्यस्यासम्भवीति भावः ॥१७॥
सत्त्वानन्यत्वयोर्हेत्वन्तरमाह सूत्रकारः -
युक्तेरिति ।
दध्याद्यर्थिनां क्षीरादौ प्रवृत्त्यन्यथानुपपत्तिर्युक्तिस्तया कार्यस्य प्राक्कारणानन्यत्वेन सत्त्वं सिध्यतीत्यर्थः ।
असतोऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृत्तिरित्यन्यथोपपत्तिमाशङ्क्याह -
अविशिष्टे हीति ।
असत उत्पत्त्यभावादुत्पत्तौ वा सर्वस्मात्सर्वोत्पत्तिप्रसङ्गात्तत्तदुपादानविशेषे प्रवृत्तिर्न स्यादित्यर्थः । तदुक्तं साङ्ख्यवृद्धैः 'असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्' इति । शक्तस्य कारणस्य शक्यकार्यकारित्वाच्छक्तिविषयस्य कार्यस्य सत्त्वमसतोऽशक्यत्वात् । किञ्च सत्कारणाभेदात्कार्यं सदित्युत्तरार्धार्थः ।
कार्यस्यासत्त्वेऽपि कुतश्चिदतिशयात्प्रवृत्तिनियमोपपत्तिरिति शङ्कते -
अथेति ।
अतिशयः कार्यधर्मः कारणधर्मो वा ।
आद्ये धर्मित्वात्प्रागवस्थारूपस्य कार्यस्य सत्त्वं दुर्वारमित्याह -
तर्ह्यतिशयवत्त्वादिति ।
द्वितीयेऽपि कार्यसत्त्वमायातीत्याह -
शक्तिश्चेति ।
कार्यकारणाभ्यामन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा नियामकत्वप्रसङ्गादन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् । तस्मात्कारणात्मना लीनं कार्यमेवाभिव्यक्तिनियामकतया शक्तिरित्येष्टव्यम् , ततः सत्कार्यसिद्धिरित्यर्थः ।
किञ्च कार्यकारणयोरन्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह -
अपि चेति ।
तयोरन्यत्वेऽपि समवायवशात्तथा बुद्धिर्नोदेतीत्याशङ्क्य समवायं दूषयति -
समवायेति ।
समवायः समवायिभिः सम्बद्धोन न वा । आद्ये स सम्बन्धः किं समवायः उत स्वरूपम् । आद्ये समवायानवस्था । द्वितीये मृद्घटयोरपि स्वरूपसम्बन्धादेवोपपत्तेः समवायासिद्धिः ।
असम्बद्ध इति पक्षे दोषमाह -
अनभ्युपगम्यमान इति ।
द्रव्यगुणादीनां विशिष्टधीविरहप्रसङ्गः । असम्बद्धस्य विशिष्टधीनियामकत्वायोगादित्यर्थः ।
विशिष्टधीनियामको हि सम्बन्धः, न तस्य नियामकान्तरापेक्षा, अनवस्थानात् , अतः स्वपरनिर्वाहकः समवाय इति शङ्कते -
अथेति ।
सम्बध्यते । स्वस्य स्वसम्बन्धिनश्च विशिष्टधियं करोतीत्यर्थः ।
प्रतिबन्द्या दूषयति -
संयोगोऽपीति ।
यत्तु गुणत्वात्संयोगस्य समवायापेक्षा न सम्बन्धत्वादिति, तन्न, धर्मत्वात् समवायस्यापि सम्बन्धान्तरापत्तेरसम्बद्धस्याश्वत्वस्य गोधर्मत्वादर्शनात् । किञ्च 'निष्पापत्वादयो गुणाः' इति श्रुतिस्मृत्यादिषु 'व्यवहारादिष्टधर्मो गुणः' इति परिभाषया समायस्यापि गुणत्वाच्च । 'जातिविशेषो गुणत्वम्' इति परिभाषा तु समवायसिध्युत्तरकालीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य समवायज्ञानाधीनत्वात् । अतः समवायसिद्धेः प्राक्संयोगस्य गुणत्वमसिद्धमिति दिक् । किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आलम्बनमित्यस्यापि सुवचत्वात् ।
तथा च मृद्घट इत्यभेदप्रतीतेरभेद एव स्वीकार्यः, ताभ्यामत्यन्तभिन्नस्य समवायस्य तन्नियामकत्वासम्भवादित्याह -
तादात्म्येति ।
एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वम् , स्वरूपेण तु मिथ्यात्मेत्युक्तम् ।
वृत्त्यनिरूपणाच्च तस्य मिथ्यात्वमित्याह -
कथं चेति ।
तत्राद्यमनूद्यवयविनः पटादेस्तन्त्वादिष्ववयवेषु त्रित्वादिवत्स्वरूपेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति -
यदीत्यादिना ।
व्यासज्यवृत्तिवस्तुप्रत्यक्षस्य यावदाश्रयप्रत्यक्षजन्यत्वात्संवृतपटादेर्यावदवयवानामप्रत्यक्षत्वादप्रत्यक्षत्वं प्रसज्येतेत्यर्थः ।
द्वितीयं शङ्कते -
अथेति ।
यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्तमात्रग्रहेऽपि गृह्यते, एवं यत्किञ्चिदवयवग्रहेणावयविनो ग्रहसम्भवेऽप्यवयवानामनवस्था स्यादिति दूषयति -
तदापीति ।
आद्यद्वितीयमुद्भाव्य दूषयति -
अथ प्रत्यवयवमित्यादिना ।
एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात् , वृत्तावनेकत्वापत्तेरित्यर्थः ।
यथा युगपदनेकव्यक्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते -
गोत्वेति ।
जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति -
न, तथेति ।
दोषान्तरमाह -
प्रत्येकेति ।
अधिकारात्सम्बन्धात् । यथा देवदत्तः स्वकार्यमध्ययनं ग्रामेऽरण्ये वा करोति, तथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्गपुच्छादावपि कुर्यादित्यर्थः । एवं वृत्त्यनिरूपणादनिर्वाच्यत्वं कार्यस्य दर्शितम् ।
सम्प्रत्यसत्कार्यवादे दोषान्तरमाह -
प्रागिति ।
यथा घटश्चलतीत्युक्ते चलनक्रियां प्रत्याश्रयत्वरूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनिक्रियाकर्तृत्वमनुभूयते । अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् । कर्तुरसत्त्वे क्रियाया अप्यसत्त्वापत्तेरित्यर्थः ।
जनेरनुभवसिद्धेऽपि सकर्तृकत्वे क्रियात्वेनानुमानमाह -
उत्पत्तिश्चेति ।
असतो घटस्योत्पत्तौ कर्तृत्वासम्भवेऽपि कुलालादेः सत्त्वात्कर्तृत्वमित्याशङ्कयाह -
घटस्य चेति ।
घटोत्पत्तिवदसत्कपालाद्युत्पत्तिरित्यतिदिशति -
तथेति ।
शङ्कामनूद्य दोषमाह -
तथा चेति ।
अनुभवविरोध इत्यर्थः ।
उत्पत्तिर्भावस्याद्याविक्रियेति स्वमतेन कार्यसत्त्वमानीतम् , सम्प्रति कार्यस्योत्पत्तिर्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्किकमतमाशङ्कते -
अथेति ।
तन्मतेनापि कार्यस्य सत्त्वमावश्यकम् , असतः सम्बन्धित्वायोगादित्याह -
कथमिति ।
असतोर्वेति दृष्टान्तोक्तिः ।
ननु नरशृङ्गादिवत्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक्ध्वंसानन्तरं चासत्मध्ये तु सदेवेति वैषम्यात्सम्बन्धित्वोपपत्तिरित्याशङ्क्याह -
अभावस्येति ।
अत्राभावशब्दा असच्छब्दापरपर्याया व्याख्येयाः । असतः कालेनासम्बन्धात्प्राक्त्वं न युक्तमित्यर्थः ।
ननु कारकव्यापारादूर्ध्वभाविनः कार्यस्य वन्ध्यापुत्रतुल्यत्वं कथमित्यत आह -
यदि चेति ।
कार्याभावोऽसत्कार्यमित्यर्थ इत्युपापत्स्यत उपपन्नमभविष्यदित्यन्वयः ।
कस्तर्हि निर्णयः, तत्राह -
वयं त्विति ।
'नासतो विद्यते भावः' इति स्मृतेरिति भावः ।
सत्कार्यवादे कारकवैयर्थ्यं शङ्कते -
नन्विति ।
सिद्धकारणानन्यत्वाच्च कार्यस्य सिद्धत्वमित्याह -
तदनन्यत्वाच्चेति ।
अनिर्वाच्यकार्यात्मना कारणस्याभिव्यक्त्यर्थः कारकव्यापार इत्याह -
नैष दोष इति ।
कार्यसत्यत्वमिच्छतां साङ्ख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् । अद्वैतवादिनां त्वघटितघठनावभासन चतुरमायामहिम्ना स्वप्नवद्यथादर्शनं सर्वमुपपन्नम् । विचार्यमाणे सर्वमयुक्तम् , युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समाधानान्तराभावात् ।
ननु कारणाद्भिन्नमसदेवोत्पद्यत इति समाधानं किं न स्यादित्याशङ्क्यासत्पक्षस्य दूषणमुक्तं स्मरेत्याह -
कार्याकारोऽपीति ।
अतः कारणाद्भेदाभेदाभ्यां दुर्निरूपस्य सदसद्विलक्षणस्यानिर्वाच्याभिव्यक्तिरनिर्वाच्यकारकव्यापाराणां फलमिति पक्ष एव श्रेयानिति भावः ।
ननु मृद्यदृष्टः पृथुबुध्नत्वाद्यवस्थाविशेषो घटे दृश्यते । तथा च घटो मृद्भिन्नः, तद्विरुद्धविशेषवत्त्वात् , वृक्षवदित्यत आह -
न चेति ।
वस्तुतोऽन्यत्वं सत्यो भेदः ।
हेतोर्व्यभिचारस्थलान्तरमाह -
तथा प्रतिदिनमिति ।
प्रत्यहं पित्रादिदेहस्यावस्थाभेदेऽपि जन्मनाशयोरभावादभेदो युक्तः ।
दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्मविनाशरूपविरुद्धधर्मवत्त्वात्कार्यकारणयोरभेदो न युक्त इति शङ्कते -
जन्मेति ।
कारणस्य नाशाभावाद्धेत्वसिद्धिरिति परिहरति -
नेति ।
दधिघटादिकार्यान्वितत्वेन क्षीरमृदादीनां प्रत्यक्षत्वान्नाशासिद्धिरित्यर्थः ।
ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वटबीजादीनामन्वयो न दृश्यते तत्र हेतुसत्त्वाद्वसत्वन्यत्वं स्यादित्यत आह -
अदृश्येति ।
तत्राप्यङ्कुरादौ बीजाद्यवयवानामन्वयान्न स्त एव जन्मविनाशौ किन्त्ववयान्तरोपचयापचयाभ्यां तद्व्यवहार इत्यर्थः ।
अस्तूपचयापचयलिङ्गेन वस्तुभेदानुमानं ततोऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह -
तत्रेदृगिति ।
पितृदेहेऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह -
पित्रादीति ।
एतेनेति ।
कारणस्य सर्वकार्येष्वन्वयकथनेनेत्यर्थः ।
स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति -
यस्य पुनरिति ।
असतः कार्यस्य कारकव्यापाराहितातिशयाश्रयत्वायोगादविषयत्वेऽपि मृदादेर्विषयत्वं स्यादिति शङ्कते -
समवायीति ।
समवायिकारणात्कार्यं भिन्नमभिन्नं वेति विकल्प्याद्यं निरस्यति -
नेत्यादिना ।
द्वितीयमाशङ्क्येष्टापत्तिमाह -
समवायीति ।
कार्याणामवान्तरकारणानन्यत्वमुपसंहरति -
तस्मादिति ।
परमकारणानन्यत्वं फलितमाह -
तथा मूलेति ।
असत्कार्यवादे प्रतिज्ञाबाधः स्यादित्याह -
यदि तु प्रागुत्पत्तेरिति ॥१८॥
कार्यमुपादानाद्भिन्नं तदुपलब्धावप्यनुपलभ्यमानत्वात्ततोऽधिकपरिमाणत्वाच्च मशकादिव शशक इत्यत्र व्यभिचारार्थं सूत्रम् -
पटवच्चेति ।
द्वितीयहेतोर्व्यभिचारं स्फुटयति -
यथा च संवेष्टनेति ।
आयामो दैर्घ्यम् ॥१९॥
तत्रैव विलक्षणकार्यकारित्वं कार्यमुपादानाद्भिन्नम् , भिन्नकार्यकरत्वात् , सम्मतवदिति हेतुमाशङ्क्य व्यभिचारमाह सूत्रकारः -
यथा च प्राणादीति ।
एवं जीवजगतेर्ब्रह्मानन्यत्वात्प्रतिज्ञासिद्धिरित्यधिकरणार्थमुपपसंहरति -
अतश्च कृत्स्नस्येति ॥२०॥
जीवाभिन्नं ब्रह्म जगत्कारणमितिवदन्वेदान्तसमन्वयो विषयः । स यदि तादृग्ब्रह्मजगज्जनयेत्तर्हि स्वानिष्टं नरकादिकं न जनयेत्स्वतन्त्रचेतनत्वादिति न्यायेन विरुध्यते न वेति सन्देहे पूर्वोक्तजीवानन्यत्वमुपजीव्य जीवदोषा ब्रह्मणि प्रसज्येरन्निति पूर्वपक्षसूत्रं गृहीत्वा व्याचष्टे -
इतरव्यपदेशादित्यादिना ।
पूर्वपक्षे जीवाभिन्ने समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् । हिताकरणेत्यत्र नञ्व्यत्यासेनाहितकरणं दोषो व्याख्यातः ।
आदिपदोक्तं भ्रान्त्यादिकमापादयति -
न च स्वयमित्यादिना ॥२१॥
जीवेशयोरभेदाज्जीवजगतेर्देषा ब्रह्मणि स्युः ब्रह्मगताश्च सृष्टिसंहारशक्तिसर्वस्मर्तृत्वादयो गुणा जीवे स्युः । न चेष्टापत्तिः । जीवस्य स्वशरीरेऽपि संहारसामर्थ्यादर्शनादिति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।
जीवेश्वरयोर्लोके बिम्बप्रतिबिम्बयोरिव कल्पितभेदाङ्गीकाराद्धर्मव्यवस्थेति सिद्धान्तग्रन्थार्थः । यदि वयं जीवं स्रष्टारं ब्रूमस्तदा दोषाः प्रसज्यन्ते न तु तं ब्रूम इत्यन्वयः ।
किञ्चाभेदाज्ञानादूर्ध्वं वा दोषा आपाद्यन्ते, पूर्वं वा । नाद्य इत्याह -
अपि चेति ।
उक्तं मिथ्याज्ञानविजृम्भितत्वं स्फुटयति -
अविद्येति ।
कर्तृत्वादिबुद्धिधर्माध्यासे देहधर्माध्यासं दृष्टान्तयति -
जन्मेति ।
द्वितीयं प्रत्याह -
अबाधिते त्विति ।
ज्ञानादूर्ध्वं स्रष्टृत्वादिधर्माणां बाधात्पूर्वं च कल्पितभेदेन व्यवस्थोपपत्तेर्न किञ्चिदवद्यमित्यर्थः ॥२२॥
नन्वखण्डैकरूपे ब्रह्मणि कथं जीवेश्वरवैचित्र्यम् , कथं च तत्कार्यवैचित्र्यमित्यनुपपत्तिं दृष्टान्तैः परिहरति सूत्रकारः -
अश्मादिवच्चेति ।
किम्पाको महातालफलम् । तत्तत्कार्यसंस्काररूपानादिशक्तिभेदाद्वैचित्र्यमिति भावः ।
सूत्रस्थचकारार्थमाह -
श्रुतेश्चेति ।
ब्रह्म जीवगतदोषवत् , जीवाभिन्नत्वात् , जीववदित्याद्यनुमानं स्वतःप्रमाणनिरवद्यत्वादिश्रुतिबाधितम् । किञ्च कर्तृत्वभोक्तृत्वादिविकारस्य मिथ्यात्वाज्जीवस्यैव तावद्दोषो नास्ति कुतो बिम्बस्थानीयस्याशेषविशेषदर्शिनः परमेश्वरस्य दोषप्रसक्तिः । यत्तु ब्रह्म न विचित्रकार्यप्रकृति, एकरूपात्वात् , व्यतिरेकेण मृत्तन्त्वादिवदिति । तन्न । एकरूपे स्वप्नदृशीव विचित्रदृश्यवस्तुवैचित्र्यदर्शनेन व्यभिचारादित्यर्थः । तस्मात्प्रत्यगभिन्ने ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥२३॥
उपसंहारदर्शनात् ।
असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।
स किं यदसहायं तन्न कारणमिति लौकिकन्यायेन विरुध्यते न वेति सन्देहे पूर्वमौपाधिकजीवभेदाद्ब्रह्मणि जीवदोषा न प्रसज्यन्त इत्युक्तम् , सम्प्रति उपाधितोऽपि विभक्तं ब्रह्मणः प्रेरकादिकं सहकारि नास्ति ईशनानात्वाभावादिति प्रत्युदाहरणेन पूर्वपक्षसूत्रांशं व्याचष्टे -
चेतनमित्यादिना ।
फलं पूर्ववत् । कारकाणामुपसंहारो मेलनम् ।
उक्तन्यायस्य क्षीरादौ व्यभिचार इति सिद्धान्तयति -
नैष दोष इति ।
शुद्धस्य ब्रह्मणोऽकारणत्वमिष्टमेव ।
विशिष्टस्येश्वरस्य तु मायैव सहाय इति भावेनाह -
बाह्यमिति ।
क्षीरस्याप्यातञ्चनादिसहायोऽस्तीत्यसहायत्वहेतोर्न व्यभिचार इत्याशङ्क्य सहायाभावेऽपि यस्य कस्यचित्परिणामस्य क्षीरे दर्शनाद्व्यभिचारतादवस्थ्यमित्याह -
नन्वित्यादिना ।
तर्हि सहायो व्यर्थः, तत्राह -
त्वार्यत इति ।
ननु त्वार्यते क्षीरं दधिभावाय शैघ्र्यं कार्यत इति किमर्थं कल्प्यते, स्वतोऽशक्तं क्षीरं सहायेन शक्तं क्रियत इति किं न स्यात् , तत्राह -
यदि चेति ।
शक्तस्य सहायसम्पदा किं कार्यमित्यत्राह -
साधनेति ।
सहायविशेषाभावे कश्चिद्विकारः क्षीरस्य भवति, तत्र आतञ्चनप्रक्षेपौष्ण्याभ्यां तूत्तमदधिभावसामर्थ्यं व्यज्यत इत्यर्थः ।
तर्हि शक्तिव्यञ्जकोऽपि सहायो ब्रह्मणो वाच्यः, तत्राह -
परिपूर्णेति ।
निरपेक्षमायाशक्तिकमित्यर्थः ।
तादृशशक्तौ मानमाह -
श्रुतिश्चेति ॥२४॥
ननु ब्रह्म न कारणं चेतनत्वे सत्यसहायत्वान्मृदादिशून्यकुलालादिवदिति न क्षीरादौ व्यभिचार इति सूत्रव्यावर्त्यां शङ्कामाह -
स्यदेतदिति ।
तस्यापि हेतोर्देवादौ व्यभिचार इत्याह -
देवादिवदिति ।
लोक्यते ज्ञायतेऽर्थोऽनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च । अभिध्यानं सङ्कल्पः ।
ननु देवाद्यूर्णनाभान्तदृष्टान्तेषु शरीरेषु चेतनत्वं नास्ति, बलाकापद्मिनीचेतनयोर्गर्भप्रस्थानकर्तृत्वे मेघशब्दः शरीरं च सहायोऽस्ति, अतो विशिष्टहेतोर्न व्यभिचार इति शङ्कते -
स यदि ब्रूयादित्यादिना ।
व्यभिचारोऽस्तीति परिहरति -
तं प्रति ब्रूयादिति ।
अयं दोषः दृष्टान्तवैषम्याख्यः । अत्र हि हेतौ चेतनत्वमहन्धीविषयत्वरूपं चित्तादात्म्यापन्नदेहसाधारणं ग्राह्यं न तु मुख्यात्मत्वम् , तव कुलालदृष्टान्ते साधनवैकल्यापत्तेः । असहायत्वं च चेतनस्य स्वातिरिक्तहेतुशून्यत्वम् , तदुभयं देवादिष्वस्तीति व्यभिचारः, देहस्य स्वान्तःपातित्वेन स्वातिरिक्तत्वाभावात् । तथा च कुलालवैलक्षण्यं देवादीनां घटादिकार्ये स्वातिरिक्तानपेक्षत्वात् । देववैलक्षण्यं ब्रह्मणः देहस्याप्यनपेक्षणात् । नरदेवादीनां कार्यारम्भे नास्त्येकरूपा सामग्री । श्रूयते हि महाभारते श्रीकृष्णस्य सङ्कल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः । अतः सिद्धमसहायस्यापि ब्रह्मणः कारणत्वम् ॥२५॥
कृत्स्नप्रसक्तिः ।
क्षीरदृष्टान्तेन ब्रह्म परिणामीति भ्रमोत्पत्त्या पूर्वपक्षे प्राप्ते शास्त्रार्थो विवर्तो न परिणाम इति निर्णयार्थमिदमधिकरणमिति पूर्वाधिकरणेनोत्तराधिकरणस्य कार्यत्वं सङ्गतिमाह -
चेतनमिति ।
निरवयवाद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः । स किं यन्निरवयवं तन्न परिणामीति न्यायेन विरुध्यते न वेति सन्देहे विरुध्यत इति पूर्वपक्षसूत्रं व्याचष्टे -
कृत्स्नेति ।
ब्रह्म परिणामीति वदता वक्तव्यं ब्रह्म निरवयवं सावयवं वा । आद्ये सर्वस्य ब्रह्मणः परिणामात्मना स्थितिः स्यादित्युक्तं व्यतिरेकदृष्टान्तेन विवृणोति -
यदि ब्रह्मेत्यादिना ।
पर्यणंस्यत्परिणतोऽभविष्यत् । एकदेशश्चावास्थास्यदपरिणतोऽभविष्यत् ।
उक्तश्रुतिभ्यो निरवयवत्वसिद्धेः फलितं दोषमाह -
ततश्चेति ।
यदा परिणामव्यतिरेकेण मूलब्रह्मात्मा नास्ति तदात्मा द्रष्टव्य इत्युपदेशोऽर्थशून्यः स्यादिति दोषान्तरमाह -
द्रष्टव्यतेति ।
ब्रह्मणः परिणामात्मना जन्मनाशाङ्गीकारे 'अजोऽमरः' इति श्रुतिविरोधश्चेत्याह -
अजत्वादीति ।
सावयवत्वपक्षमाशङ्क्य सूत्रशेषेण परिहरति -
अथेत्यादिना ॥२६॥
परिणामपक्षो दुर्घट इति यदुक्तं तदस्मदिष्टमेवेति विवर्तवादेन सिद्धान्तयति -
श्रुतेरिति ।
स्वपक्षे पूर्वोक्तदोषद्वयं नास्तीति सूत्रयोजनया दर्शयति -
तुशब्देनेत्यादिना ।
ईक्षितृत्वेन व्याकर्तृत्वेन चेक्षणीयव्याकर्तव्यप्रपञ्चात्पृथगीश्वरसत्त्वश्रुतेर्न कृत्स्नप्रसक्तिरित्याह -
सेयं देवतेति ।
न्यूनाधिकभावेनापि पृथक्सत्त्वं श्रुतमित्याह -
तावानिति ।
इतश्चास्त्यविकृतं ब्रह्मेत्याह -
तथेति ।
'स वा एष आत्मा हृदि' इति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म । 'तदा' इति सुषुप्तिकालरूपविशेषणाच्चेत्यर्थः ।
लिङ्गान्तरमाह -
तथेन्द्रियेति ।
भूम्यादेर्विकारस्येन्द्रियगोचरत्वात् 'न चक्षुषा गृह्यते' इत्यादिश्रुत्या ब्रह्मणस्तत्प्रतिषेधादवाङ्मनसगोचरत्वश्रुतेश्चास्ति कूटस्थं ब्रह्मेत्यर्थः ।
कृत्स्नप्रसक्तिदोषो नास्तीत्युक्त्वा द्वितीयदोषोऽपि नास्तीत्याह -
न चेति ।
ननु ब्रह्म कार्यात्मनाप्यस्ति, पृथगप्यस्ति चेत्सावयवत्वं दुर्वारम् , निरवयवस्यैकस्य द्विधा सत्त्वायोगात् , अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति -
शब्दमूलं चेति ।
यदा लौकिकानां प्रत्यक्षदृष्टानामपि शक्तिरचिन्त्या तदा शब्दैकसमधिगम्यस्य ब्रह्मणः किमु वक्तव्यम् । अतो ब्रह्मणो निरवयवत्वं द्विधाभावश्चेत्युभयं यथाशब्दमभ्युपगन्तव्यम् । न तर्केण बाधनीयमित्यर्थः । प्रकृतिभ्यः प्रत्यक्षदृष्टवस्तुस्वभावेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तदचिन्त्यस्वरूपमिति स्मृत्यर्थः ।
आशयानवबोधेन शङ्कते -
ननु शब्देनापीति ।
यद्वा ब्रह्म परिणामीत्येकदेशिनामियं सिद्धान्तसूत्रव्याख्या दर्शिता तामाक्षिपति -
नन्विति ।
शब्दस्य योग्यताज्ञानसापेक्षत्वादित्यर्थः ।
ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्वश्रुतिसमाधानं स्यादित्यत आह -
क्रियेति ।
निरवयवत्वे ब्रह्मणः प्रकृतित्वश्रुतिविरोधः, सावयवत्वे निरवयवत्वशब्दविरोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रकारान्तरानुपलम्भाच्छ्रुतीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाशयमुद्धाटयति -
नैष दोष इति ।
निरवयवस्य वस्तुनः कूटस्थस्याप्यविद्यया कल्पितनामरूपविकाराङ्गीकाराद्दुर्घटत्वदोषो नास्ति । वास्तवकौटस्थ्यस्य कल्पितविकारप्रकृतित्वेनाविरोधादित्यर्थः ।
रूपभेदाङ्गीकारे सावयवत्वं स्यादित्याशङ्क्योक्तं विवृणोति -
न हीत्यादिना ।
कृत्स्नप्रसक्तिं निरस्य दोषान्तरं निरस्यति -
वाचारम्भणेति ।
ननु श्रुतिप्रतिपाद्यस्य परिणामस्य कथं मिथ्यात्मत्वम् , तत्राह -
न चेयमिति ।
निष्प्रपञ्चब्रह्मधीशेषत्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्यसकृदावेदितम् , अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति -
तस्मादिति ॥२७॥
पूर्वावस्थानाशेनावस्थान्तरं परिणामः, यथा दुग्धस्य दधिभावः । पूर्वरूपानुपमर्देनावस्थान्तरं विवर्तः, यथा शुक्तेः रजतभावः । तत्र ब्रह्मणो विवर्तोपादानत्वं स्वप्नसाक्षिदृष्टान्तेन द्रढयन्मायावादं स्फुटयति सूत्रकारः -
आत्मनि चेति ।
रथयोगाः अश्वाः ॥२८॥
किञ्च कृत्स्नप्रसक्त्यादीनां साङ्ख्यादिपक्षेऽपि दोषत्वान्नास्मान् प्रत्युद्भावनीयत्वम् , 'यश्चोभयोः समो दोषः' इति न्यायादित्याह सूत्रकारः -
स्वपक्षेति ।
प्रधानस्य निरवयवत्वे कृत्स्नप्रसक्तिः सावयवत्वे च निरवयवत्वाभ्युपगमविरोध इत्यत्र शङ्कते -
नन्विति ।
किं साम्यावस्था गुणानां विकारः, समुदायो वा । आद्ये तस्या न मूलप्रकृतित्वम् , विकारत्वात् । द्वितीये प्रपञ्चाभावः, समुदायस्यावस्तुत्वेन मूलाभावात् ।
अथ निरवयवा गुणा एव विविधपरिणामानां प्रकृतिरिति चेत् , तर्हि कृत्स्नप्रसक्तेर्मूलोच्छेदो दुर्वार इत्यभिप्रेत्य परिहरति -
नैवमित्यादिना ।
इति यतोऽतः समानत्वान्न वयं पर्यनुयोज्या इत्यन्वयः ।
प्रत्येकं सत्त्वादिकमितरगुणद्वयसचिवं निरवयवं यद्युपादानं तर्हि कृत्स्नस्योपादानस्य कार्यरूपत्वप्रसक्तेर्मूलोच्छेद इत्युक्तेर्निरवयवत्वसाधकतर्कस्याभासत्वाद्गुणानां सावयवत्वमेव परिणामित्वेन मृदादिवदतो न कृत्स्नप्रसक्तिरेकदेशपरिणामसम्भवादिति शङ्कते -
तर्केति ।
एतद्दोषाभावेऽपि दोषान्तरं स्यादिति परिहरति -
एवमपीति ।
ननु गुणानामवयवास्तन्तुवदारम्भका न भवन्ति किन्तु कार्यवैचित्र्यानुमितास्तद्गताः शक्तय इत्याशङ्क्य मायिकशक्तिभिर्ब्रह्मणोऽपि सावयवत्वं तुल्यमित्याह -
अथेत्यादिना ।
अणुवादेऽपि दोषसाम्यमाह -
तथेति ।
साङ्ख्यवद्दोषः समान इति सम्बन्धः । निरवयवयोः परमाण्वोः संयोगो व्याप्यवृत्तिरव्याप्यवृत्तिर्वा । आद्ये तत्कार्यस्य द्व्यणुकस्यैकपरमाणुमात्रत्वापत्तिः, प्रथिम्नोऽधिकपरिमाणस्यानुपपत्तेः । न ह्यणोरण्वन्तरेणोपर्यधः पार्श्वतश्च व्याप्तौ ततोऽधिकद्रव्यं सम्भवति । द्वितीये परमाण्वोः सावयवत्वापत्तिरित्यर्थः ।
ननु त्वं चोर इत्युक्ते त्वमपि चोर इतिवद्दोषसाम्योक्तिरयुक्तेत्यत आह -
परिहृतस्त्विति ।
उक्तं हि मायावादे स्वप्नवत्सर्वं सामञ्जस्यम् , अतो निरवयवे ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥२९॥
सर्वोपेता ।
मायाशक्तिमतो ब्रह्मणो जगत्सर्गं वदतः समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधोऽस्ति न वेति सन्देहे न्यायस्यानाभासत्वादस्तीति पूर्वपक्षे पूर्वोक्तशक्तिमत्त्वसमर्थनादेकविषयत्वं सङ्गतिं वदन् सिद्धान्तसूत्रं व्याचष्टे -
एकस्येत्यादिना ।
पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलमित्युक्तमेवापादसमाप्तेरवगन्तव्यम् । अभ्यात्तः अभितो व्याप्तः । अवाकी वागिन्द्रियशून्यः । अनादरो निष्कामः ॥३०॥
पूर्वपक्षन्यायमनूद्य दूषयति -
विकरणत्वादिति ।
देवादिचेतनानां शक्तानामपि देहाभिमाने सत्येव कर्तृत्वं दृष्टं तदभावे सुषुप्ते तन्न दृष्टम् , अतो ब्रह्मणः शक्तत्वेऽप्यदेहत्वान्न कर्तृत्वम् । नाप्यदेहस्य शक्तिः सम्भवतीति शङ्कार्थः । विकरणस्य जीवस्य कर्तृत्वासम्भवेऽपीश्वरस्य सम्भवतीति, 'देवादिवदपि लोके' इत्यत्रोक्तम् । तत्र शरीरस्य कल्पितस्य मायाश्रयत्वायोगान्निर्विशेषचिन्मात्रस्यैव मायाधिष्ठानत्वं युक्तमिति समाधानार्थः ॥३१॥
न प्रयोजनवत्त्वात् ।
परितृप्ताद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः ।
स किमभ्रान्तश्चेतनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति सन्देहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसङ्गत्या पूर्वपक्षसूत्रं व्याचष्टे -
अन्यथेत्यादिना ।
ईश्वरस्य फलाभावेऽपि परप्रयोजनाय सृष्टौ प्रवृत्तिरस्त्वित्याशङ्क्य श्रुतिमाह -
भवति चेति ।
या प्रेक्षावत्प्रवृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः । न च दयालुप्रवृत्तौ व्यभिचारः, तस्यापि परदुःखासहनप्रयुक्तस्वचित्तव्याकुलतानिवृत्त्यर्थित्वादिति भावः ।
किञ्च गुरुतरायासस्य फलं वाच्यमित्याह -
गुरुतरेति ।
तर्ह्यस्तीश्वरस्यापि प्रवृत्तिः स्वार्थेत्यत आह -
यदीयमपीति ।
अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः ।
ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह -
अथेत्यादिना ।
बुद्धेरपराधो विवेकाभावः ॥३२॥
उक्तन्यायस्य राज्ञां लीलायां व्यभिचार इति सिद्धान्तसूत्रं व्याचष्टे -
तुशब्देनेति ।
व्यतिरिक्तम् । लीलातिरिक्तम् । क्रीडारूपा विहारा येषु रम्यदेशेषु तेष्वित्यर्थः ।
कदाचिद्राजादीनां लीलाया अपि किञ्चित्फलं सुखोल्लासादिकं सम्भाव्येत तथापि निःश्वासादौ प्रेक्षावत्प्रवृत्तित्वमस्ति न तु स्वस्य तत्रोद्देश्यं फलं किञ्चिदस्तीति व्यभिचारस्थलान्तरमाह -
यथा चेति ।
प्राणस्य स्वभावश्चलत्वं प्रारब्धं वोच्छ्वासादिहेतुः, ईश्वरस्य स्वभावः कालकर्मसहितमाया ।
नन्वीश्वरस्य जगद्रचनायाः केवललीलात्वं किमित्युच्यते, फलमेव किञ्चित् कल्प्यताम् , तत्राह -
न हीति ।
आप्तकामत्वव्याघातादित्यर्थः ।
नन्वीश्वरस्तूष्णीं किमिति न तिष्ठति, किमिति स्वस्याफलां परेषां दुःखावहां सृष्टिं करोति, तत्राह -
न च स्वभाव इति ।
कालधर्मादिसामाग्र्यां सत्यां सृष्टेरपरिहार्यत्वादित्यर्थः ।
यदुक्तं गुरुतरायासत्वात्फलं वाच्यमिति, तत्र हेत्वसिद्धिमाह -
यद्यपीत्यादिना ।
अल्पप्रवृत्तेरपि फलं वाच्यं लोके तथादर्शनादित्यादितर्कस्यागमबाधमाह -
यदि नामेति ।
सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः ।
स्वप्नसृष्टिवदस्याः सृष्टेर्मायामात्रत्वान्न फलापेक्षेत्याह -
न चेयमिति ।
न च निष्फलसृष्टिश्रुतीनामानर्थक्यम् , सफलब्रह्मधीशेषत्वेनार्थवत्त्वादित्युक्तं न विस्मर्तव्यमित्यर्थः ॥३३॥
वैषम्यनैर्घृण्ये न ।
निर्देषाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।
स किं यो विषमकारी स दोषवानिति न्यायेन विरुध्यते न वेति सन्देहे पूर्वत्र लीलया यत्स्रष्टृत्वमुक्तं तदेव कर्मादिसापेक्षस्य न युक्तमनीश्वरत्वापत्तेः, निरपेक्षत्वे रागादिदोषापत्तेरित्याक्षेपसङ्गत्या पूर्वपक्षयति -
पुनश्चेत्यादिना ।
ब्रह्मैव जगत्कारणमिति जन्मादिसूत्रे प्रतिज्ञातोऽर्थः । पृथग्जनः पामरः, 'निरवद्यं निरञ्जनम्' इति श्रुतिः, 'न मे द्वेष्योऽस्ति न प्रियः' इति स्मृतिः । स्वच्छत्वादीत्यादिपदेन कूटस्थत्वाग्रहः, स्वच्छत्वादिश्चासावीश्वरस्वभावश्चेति विग्रहः ।
निमित्तमनपेक्ष्य विषमकारित्वे वैषम्यादिदोषः स्यात् , न त्वनपेक्षत्वमीश्वरस्यास्तीति सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।
न च सापेक्षत्वे अनीश्वरत्वम् , सेवामपेक्ष्य फलदातरि राज्ञीश्वरत्वानपायात् ।
ननु तर्हि धर्माधर्माभ्यामेव विचित्रा सृष्टिरस्तु किमीश्वरेणेत्यत आह -
ईश्वरस्तु पर्जन्यवदिति ।
साधारणहेतुसहितस्यैवासाधारणहेतोः कार्यकारित्वान्नेश्वरवैयर्थ्यम् , अन्यथा पर्जन्यवैयर्थ्यप्रसङ्गादिति भावः । यं जनमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः । न च कञ्चिज्जनं साधु कञ्चिदसाधु कर्म कारयतो वैषम्यं तदवस्थमिति वाच्यम् , अनादिपूर्वार्जितसाध्वसाधुवासनया स्वभावेन जनस्य तत्तत्कर्मसु प्रवृत्तावीश्वरस्य साधारणहेतुत्वात् । अतोऽनवद्य ईश्वर इति भावः ॥३४॥
प्रथमसर्गस्य वैषम्यहेतुकर्माभावादेकरूपत्वं स्यात् , तथा तथा तदुत्तरकल्पानामपीत्याक्षिप्य समाधत्ते सूत्रकारः -
न कर्मेति ।
प्रथमसृष्टेः पश्चाद्भाविकर्मकृतं वैषम्यमित्याशङ्क्यान्योन्याश्रयमाह -
सृष्ट्युत्तरेति ।
आद्या सृष्टिरित्युपलक्षणम् । आदावेकरूपत्वे मध्ये विषमकर्मोत्पत्तौ हेत्वभावेनोत्तरसृष्टीनामपि तुल्यत्वस्य दुर्वारत्वादिति द्रष्टव्यम् । परिहारः सुगमः ॥३५॥
प्रथमः सर्गः कश्चिन्नास्तीत्यत्र प्रमाणं पृच्छति -
कथं पुनरिति ।
उपपत्तिसहितश्रुत्यादिकं प्रमाणमिति सूत्रव्याख्यया दर्शयति -
उपपद्यत इति ।
हेतुं विनैव सर्गाङ्गीकारे ज्ञानकर्मकाण्डवैयर्थ्यं स्यादित्यर्थः ।
ननु सुखादिवैषम्ये ईश्वरोऽविद्या वा हेतुरस्त्वित्याशङ्क्य क्रमेण दूषयति -
न चेश्वर इत्यादिना ।
कस्तर्हि हेतुः, तत्राह -
रागादीति ।
रागद्वैषमोहाः क्लेशास्तेषां वासनाभिराक्षिप्तानि कर्माणि धर्माधर्मव्यामिश्ररूपाणि, तदपेक्षा त्वविद्या सुखादिसर्गवैचित्र्यहेतुः । तस्मादविद्यासहकारित्वेन क्लेशकर्मणामनादिप्रवाहोऽङ्गीकर्तव्य इति भावः ।
किञ्च सृष्टेः सादित्वे प्रथमशरीरस्योत्पत्तिर्न सम्भवति, हेत्वभावात् । न च कर्म हेतुः, शरीरात्प्राक्कर्मासम्भवात् । तस्मात्कर्मशरीरयोरन्योन्याश्रयपरिहाराय सर्वैरेव वादिभिः संसारस्यानादित्वमङ्गीकार्यमित्याह -
न चेति ।
सर्गप्रमुखे सृष्ट्यादौ प्रागनवधारितप्राणोऽपि सन् प्रत्यगात्मा भाविधारणनिमित्तेन जीवशब्देनोच्यतामित्यत्राह -
न च धारयिष्यतीति ।
'गृहस्थः सदृशीं भार्यामुपेयात्' इत्यादावगत्या भाविवृत्त्याश्रयणमिति भावः । अस्य संसारवृक्षस्य स्वरूपं सत्यं मिथ्या वेत्युपदेशं विना नोपलभ्यते । ज्ञानं विनान्तोऽपि नास्ति । नाप्यादिरुपलभ्यते, असत्त्वादेव । न च सम्प्रतिष्ठा मध्ये स्थितिः, दृष्टनष्टस्वरूपत्वादिति गीतावाक्यार्थः । संसारस्यानादित्वेऽपि मिथ्यात्वात् 'एकमेवाद्वितीयम्' इत्यवधारणमुपपन्नम् । तस्मान्निरवद्ये ब्रह्मणि समन्वयाविरोध इति सिद्धम् ॥३६॥
सर्वधर्मोपपत्तेश्च ।
निर्गुणस्य ब्रह्मणो जगदुपादनत्ववादिवेदान्तसमन्वयो विषयः स किं यन्निर्गुणं तन्नोपादानं यथा रूपमिति न्यायेन विरुध्यते न वेति सन्देहे, भवत्वीश्वरस्य विषमसृष्टिनिमित्तत्वं तत्प्रयोजकस्य कर्मणः सत्त्वात् , न तूपादानत्वं तद्व्यापकस्य सगुणत्वस्याभावादिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तसूत्रतात्पर्यमाह -
चेतनमिति ।
विवर्तोपादानत्वं निर्गुणस्याप्यविरुद्धम् , अज्ञातत्वस्य भ्रमाधिष्ठानत्वप्रयोजकस्य सत्त्वात् , सगुणत्वं त्वव्यापकं शब्दादिगुणेषु नित्यत्वादिभ्रमदर्शनादिति भावः ।
यद्यपि सर्वज्ञत्वं सर्वशक्तित्वं च लोके कारणधर्मत्वेनाप्रसिद्धं तथापि यो यस्य कर्ता स तस्य सर्वस्य ज्ञाता शक्तश्चेति प्रसिद्धम् , ईश्वरस्यपि सर्वकर्तृत्वश्रवणात्प्रसिद्ध्यनुसारेणार्थान्निरतिशयसर्वज्ञत्वं सर्वशक्तित्वं च सिध्यतीत्यभिसन्धायाह -
सर्वज्ञं सर्वशक्तीति ।
महामायमिति ।
कर्तृत्वोपादानत्वकथने सर्वशङ्कापङ्कक्षालनायोक्तम् । तस्मादौपनिषदसिद्धान्ते न कश्चिद्दोष इति सिद्धम् ॥३७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयस्याध्यायस्य प्रथमपादः समाप्तः ॥१॥
साङ्ख्यतार्किकबौद्धाश्च जैनाः पाशुपतादयः ।
यस्य तत्त्वं न जानन्ति तं वन्दे रघुपुङ्गवम् ॥१॥
ब्रह्मणि सर्वधर्मोपपत्तिवत्प्रधानेऽपि तदुपपत्तिमाशङ्क्य निराचष्टे -
रचनानुपपत्तेश्च नानुमानम् ।
ननु मुमुक्षूणां वाक्यार्थनिर्णयप्रतिबन्धनिरासाय वेदान्तानां तात्पर्यं निश्चेतुमिदं शास्त्रमारब्धं तच्च निर्देषतया निश्चितम् , ततः परपक्षनिरासात्मकोऽयं पादोऽस्मिन् शास्त्रे न सङ्गतः, तन्निरासस्य मुमक्ष्वनपेक्षितत्वादित्याक्षिपति -
यद्यपीति ।
परपक्षनिराकरणं विनास्वपक्षस्थैर्यायोगात्तत्कर्तव्यमित्याह -
तथापीति ।
तर्हि स्वपक्षस्थापनात्प्रागेव परपक्षप्रत्याख्यानं कार्यमित्यत आह -
वेदान्तार्थेति ।
वेदान्ततात्पर्यनिर्णयस्य फलवज्ज्ञानकरणान्तर्भावादभ्यर्हितत्वम् ।
ननु रागद्वेषकरणत्वात्परमतनिराकरणं न कार्यमिति शङ्कते -
नन्विति ।
तत्त्वनिर्णयप्रधाना खल्वियं कथारब्धा,तत्त्वनिर्णयश्च परमतेष्वश्रद्धां विना न सिध्यति, सा च तेषु भ्रान्तिमूलत्वनिश्चयं विना न सिध्यति, स च इमं पादं विना नेति स्वसिद्धान्तसंरक्षणार्थत्वात्प्रधानसिध्यर्थत्वादयं पादोऽस्मिन् शास्त्रे सङ्गतः, सङ्गतत्वाद्वीतरागेणापि कर्तव्य इत्यभिसन्धायोक्ताङ्गीकारेण समाधत्ते -
बाढमित्यादिना ।
अपदेशेन व्याजेन । मन्दमतीनां तेषु श्रद्धानिमित्तानि बहूनि सन्तीति तन्निरासाय यत्नः क्रियत इत्यर्थः । स्वमतश्रद्धापरमतद्वेषौ तु प्रधानसिद्ध्यर्थत्वादङ्गीकृतौ । नाप्ययं द्वेषः । परपक्षत्वबुद्ध्या हि निरासो द्वेषमावहति न तु तत्त्वनिर्णयेच्छया कृत इति मन्तव्यम् ।
पौनरुक्त्यं शङ्कते -
नन्वीक्षतेरिति ।
पूर्वं साङ्ख्यादीनां श्रुत्यर्थानुग्राहकतर्कनिरासादश्रौतत्वमुक्तम् , सम्प्रति श्रुत्यनपेक्षास्तदीयाः स्वतन्त्रा युक्तयो निरस्यन्त इत्यर्थभेदान्न पुनरुक्तिरित्याह -
तदुच्यत इति ।
प्रधानमचेतनं जगदुपादानमिति साङ्ख्यसिद्धान्तोऽत्र विषयः स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देहे 'सर्वधर्मोपपत्तेश्च' इत्युक्तधर्माणां प्रधाने सम्भवात्तदेवोपादानमित्याक्षेपसङ्गत्या प्रमाणमूलत्वं दर्शयन् पूरवपक्षमाह -
तत्र साङ्ख्या इति ।
स्वसिद्धान्तज्ञानस्य परमतनिरासं प्रत्युपजीव्यत्वात्पादयोः सङ्गतिः । परमतनिरासात्मकत्मात्सर्वेषामधिकरणानामेतत्पादसङ्गतिः । पूर्वपक्षे प्रमाणमूलमतविरोधादुक्तश्रुत्यर्थसमन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरित्यापादं द्रष्टव्यम् । मूलश्रौतसमन्वयदार्ढ्यार्थत्वादस्य पादस्य श्रुतिसङ्गतिरिति विवेकः ।
भिद्यन्त इति भेदा विकाराः, ये विकारा येनान्वितास्ते तत्प्रकृतिका इति व्याप्तिमाह -
यथेति ।
सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकम् , तदन्वितत्वात् , घटादिवदित्यनुमानमाह -
तथेति ।
किमर्थं प्रधानं परिणमते, तत्राह -
चेतनस्येति ।
अर्थो भोगापवर्गरूपः, तदर्थं स्वभावत एव प्रवर्तते न तु केन चिच्चेतनेन प्रेर्यत इत्यर्थः । तदुक्तम् 'पुरुषार्थ एव हेतुर्न केन चित्कार्यते करणम्' इति ।
अनुमानान्तराणि तैरुक्तानि स्मारयति -
तथेति ।
उक्तं हि 'भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ ' इति । अत्र कारिकायां समन्वयादिति लिङ्गं व्याख्यातम् । शिष्टानि व्याख्यायन्ते । तथा हि क्षित्यादीनां भेदानां कारणमव्यक्तमस्ति, परिमितत्वात् , घटवत् । न च दृष्टान्ते साध्यवैकल्यम् , घटोत्पत्तेः प्रागनभिव्यक्तघटादिरूपकार्यविशिष्टत्वेन मृदोऽप्यव्यक्तत्वात् । तथा घटादीनां कारणशक्तितः प्रवृत्तेर्महदादिकार्याणामपि कारणशक्तितः प्रवृत्तिर्वाच्या, तच्छक्तिमत्कारणमव्यक्तम् । किञ्च कारणात्कार्यस्य विभागो जन्म दृश्यते क्षितेर्मृत्तिका जायते ततो घट इति । एवमविभागः प्रातिलोम्येन प्रलयो दृश्यते घटस्य मृत्तिकायां लयः तस्याः क्षितौ क्षितेरप्सु अपां तेजसीति । एतौ विभागाविभागौ वैश्वरूप्यस्य विचित्रस्य भावजातस्य दृश्यमानौ पृथक्पक्षीकृतौ क्वचित्कारणे विश्रान्तौ विभागत्वादविभागत्वाच्च मृदि घटविभागाविभागवदित्यर्थः ।
सिद्धान्तयति -
तत्र वदाम इति ।
किमनुमानैरचेतनप्रकृतिकत्वं जगतः साध्यते, स्वतन्त्राचेतनप्रकृतिकत्वं वा । आद्ये सिद्धसाधनता, अस्माभिरनादित्रिगुणमायाङ्गीकारात् । द्वितीये घटादिदृष्टान्ते साध्याप्रसिद्धिरित्याह -
यदीति ।
स्वतन्त्रमचेतनं प्रकृतिरित्येतद्दृष्टान्तबलेन तदा निरूप्येत यदि दृष्टान्तः क्वचित्स्यात् । न तु दृष्टः क्वचिदित्यन्वयः ।
स्वतन्त्रपदार्थमाह -
चेतनानधिष्टितमिति ।
परकीयस्य साध्यस्याप्रसिद्धिमुक्त्वा सत्प्रतिपक्षं वक्तुं यद्विचित्ररचनात्मकं कार्यं तच्चेतनाधिष्ठिताचेतनप्रकृतिकमिति व्याप्तिमाह -
गेहेति ।
इदं जगच्चेतनाधिष्ठिताचेतनप्रकृतिकम् , कार्यत्वात् , गेहवदिति प्रयोगः ।
विपक्षे विचित्ररचनानुपपत्तिरूपं सूत्रोक्तं बाधकतर्कं वक्तुं जगतो वैचित्र्यमाह -
तथेति ।
बाह्यं पृथिव्यादि भोग्यम् , आध्यात्मिकं शरीरादि च भोगाधिष्ठानमिति विभागः । प्रतिनियतोऽसाधारणोऽवयवानां विन्यासो रचना यस्य तदित्यर्थः । इत्थं विचित्रं जगच्चेतनानधिष्ठिता जडप्रकृतिः कथं रचयेत् । न कथमपीत्यर्थः ।
यच्चेतनानधिष्ठितमचेतनं तन्न कार्यकारीति व्याप्तिमुक्ततर्कमूलभूतामाह -
लोष्टेति ।
चेतनाप्रेरितेषु लोष्टादिषु कार्यकारित्वादर्शनादित्यर्थः ।
किञ्चानादिजडप्रकृतिश्चेतनाधिष्टिता, परिणामित्वात् , मृदादिवदित्याह -
मृदिति ।
ननु मृदादिदृष्टान्ते द्वयमप्यस्त्यचेतनत्वं चेतनाधिष्ठितत्वं चेति, तत्र परिणामित्वहेतोरचेतनत्वमेव व्यापकं मृदादिस्वरूपत्वेनान्तरङ्गत्वात् , न तु चेतनाधिष्ठितत्वं व्यापकम् , तस्य मृदादिबाह्यकुलालादिसापेक्षत्वेन बहिरङ्गत्वात् , तथा च परिणामित्वेऽपि मूलप्रकृतेरचेतनत्वधर्मेणैव योगो न चेतनाधिष्ठितत्वेनेत्याशङ्क्य निषेधति -
न चेति ।
महानसदृष्टान्तेऽन्तरङ्गस्यापि महानसस्वरूपस्य धूमव्यापकत्वं नास्ति तद्भिन्नस्य बहिरङ्गस्यापि वह्नेस्तदस्तीत्यन्तरङ्गत्वं व्यापकत्वे प्रयोजकं न भवतीति भावः ।
किञ्च यदचेतनं तच्चेतनाधिष्ठितमेव परिणमत इत्यङ्गीकारे बाधकाभावात्प्रत्युत श्रुत्यनुग्रहाच्च तथाङ्गीकार्यमित्याह -
न चैवं सतीति ।
सुखदुःखमोहान्वयादिति हेतोरसिद्धिद्योतनार्थं सूत्रे चकार इत्याह -
अन्वयाद्यनुपपत्तेश्चेति ।
नानुमानं युक्तमित्यर्थः । आदिशब्दः परिमाणादिग्रहार्थः । श्ब्दादीनां बाह्यत्वानुभवादान्तरसुखाद्यात्मकत्वमसिद्धं तन्निमित्तत्वाच्च । न हि निमित्तनैमित्तिकयोरभेदेन योगोऽस्ति, दण्डघटयोरदर्शनादित्यर्थः । किञ्च यदि घटे मृद्वत्सुखादिकं शब्दाद्यन्वितं स्यात्तर्हि सर्वैरविशेषेण सुखादिकमुपलभ्येत घटे मृद्वत् ।
न तथोपलब्धिरस्तीति योग्यानुपलब्ध्या हेत्वभावनिश्चय इत्याह -
शब्दादीति ।
विषयस्यैकत्वेऽपि पुरुषवासनावैचित्र्यात्कस्यचित्सुखबुद्धिः कस्यचिद्दुःखबुद्धिः कस्यचिन्मोहबुद्धिर्दृश्यतेऽतो विषयाः सुखाद्यात्मका न भवन्तीत्यर्थः ।
एवं समन्वयादिति हेतुं दूषयित्वा परिमाणादिहेतून् दूषयति -
तथेति ।
बुद्ध्यादीनां परिमितत्वेन संसर्गपूर्वकत्वसिद्धौ संसृष्टान्यनेकानि सत्त्वरजस्तमांसि सिद्ध्यन्ति, एकस्मिन् संसर्गासम्भवान्न ब्रह्मसिद्धिरिति साङ्ख्यस्य भावः । किमिदं परिमितत्वम् , न तावद्देशतः परिच्छेदः, पक्षान्तर्गताकाशे तस्याभावेन भावासिद्धेः । नापि कालतः परिच्छेदः, साङ्ख्यैः कालस्यानङ्गीकारात् , अविद्यागुणसंसर्गेण सिद्धसाधनाच्च ।
नापि वस्तुतः परिच्छेदः, सत्त्वादीनां परस्परं भिन्नत्वे सत्यपि साध्याभावेन व्यभिचारादित्याह -
सत्त्वेति ।
यदुक्तं कार्यकारणविभागो यत्र समाप्यते तत्प्रधानमिति । तन्न । ब्रह्मणि मायायां वा समाप्तिसम्भवात् ।
न च यः कार्यस्य विभागः स चेतनानधिष्ठिताचेतने समाप्त इति व्याप्तिरस्ति, सर्वत्राचेतनेषु चेतनाधिष्ठानदर्शनादित्याह -
कार्येति ।
एतेनाविभागोऽपि व्याख्यातः । यत्तु यत्परिमितं तदव्यक्तप्रकृतिपूर्वकमिति व्याप्त्यन्तरम् , तस्यापि गुणेष्वनादिषु परिमितेषु व्यभिचारः । एतेन सदृशयोरेव प्रकृतिविकारभावादचेतनविकाराणामचेतनमेव प्रकृतिरिति निरस्तम् । चेतनाधिष्ठिताचेतनप्रकृतिकत्वेऽपि सादृश्योपपत्तेः, 'न विलक्षणत्वात्' इत्यत्र सादृश्यनियमस्य निरस्तत्वाच्च । एवं चेतनाधीनकारणशक्तितः कार्यप्रवृत्तिसम्भवात् शक्तितः प्रवृत्तिलिङ्गमन्यथासिद्धमिति भावः ॥१॥
स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यम् , तस्य सृष्ट्यर्थं प्रवृत्तेरनुपपत्तेरिति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयम् । रचनाप्रवृत्त्योः को भेद इत्याशङ्क्य प्रवृत्तिस्वरूपमाह -
साम्येति ।
गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित्कार्यं भवति प्रलयाभावप्रसङ्गात् । किन्त्वादौ साम्यप्रच्युतिरूपं वैषम्यं भवति, ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गिभावो भवति, तस्मिन् सति महदादिकार्योत्पादनात्मिका प्रवृत्तिः, तया विविधकार्यविन्यासो रचनेति भेद इत्यर्थः ।
गुणानां प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, प्रवृत्तित्वात् , रथादिप्रवृत्तिवदित्याह -
सापीति ।
विपक्षे स्वतन्त्रे प्रवृत्त्यनुपपत्तिरित्यर्थः । केचित्तु भेदानां प्रवृत्तिशक्तिमत्वाच्चेतनानधिष्ठताचेतनप्रकृतिकत्वमिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते । अस्यापि गुणेषु व्यभिचारः । कार्यत्वविशेषणे च विरुद्धता, प्रवृत्तिशक्तिमत्वे सति कार्यत्वस्य घटादिषु चेतनाधिष्टितप्रकृतिकत्वेनोक्तसाध्यविरुद्धेन व्याप्तिदर्शनादिति 'प्रवृत्तेश्च' इति सूत्रेण ज्ञापितम् ।
ननु लोके स्वतन्त्राचेतनानां प्रवृत्यदर्शनेऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह -
दृष्टाच्चेति ।
अनुमानशरणस्य तव दृष्टन्तं विनातीन्द्रियार्थसिद्ध्ययोगादिति भावः ।
ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृत्तिर्वाच्या सा न युक्तेति साङ्ख्यः शङ्कते -
नन्विति ।
शुद्धचेतनस्य प्रवृत्त्ययोगमङ्गीकरोति -
सत्यमिति ।
तर्हि केवलस्याचेतनस्य प्रवृत्तिसिद्धिरन्यथा सृष्ट्ययोगात् , तत्राह -
तथापीति ।
केवलस्य चेतनस्याप्रवृत्तावपि चेतनाचेतनयोर्मिथः सम्बन्धात्सृष्टिप्रवृत्तिरिति भावः ।
इमं वेदान्तसिद्धान्तं साङ्ख्यो दूषयति -
न त्विति ।
सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा । न त्वचेतनसम्बन्धेनापि चेतनस्य क्वचित्प्रवृत्तिर्दृष्टा । तस्मान्न चेतनात्सृष्टिरित्यर्थः ।
मतद्वयं श्रुत्वा मध्यस्थः पृच्छति -
किं पुनरिति ।
यस्मिन्न चेतने रथादौ प्रवृत्तिर्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं साङ्ख्यमतं साधु उत येन चेतनेनाश्वादिना संयोगादचेतनस्य प्रवृत्तिस्तत्प्रयुक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः ।
साङ्ख्य आह -
नन्विति ।
उभयोः ।
प्रवृत्तितदाश्रययोरित्यर्थः । दृष्टाश्रयेणैव प्रवृत्तेरुपपत्तावदृष्टचेतनप्रवृत्तिर्न कल्प्येति भावः ।
आत्मनोऽप्रत्यक्षत्वे कथं सिद्धिः, तत्राह -
प्रवृत्तीति ।
जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्त्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धिरित्यन्वयः । जीवद्देहः सात्मकः प्राणादिमत्वात् , व्यतिरेकेण रथादिवदित्यात्मसिद्धिरित्यर्थः । देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात् , रथप्रवृत्तिवदित्यनुमानान्तरसूचनाय प्रवृत्त्याश्रयेत्युक्तम् , सद्भावसिद्धिरेव न प्रवर्तकत्वमित्येवकारार्थः । अनुमितस्य सद्भावमात्रेण प्रवृत्तिहेतुत्वे सर्वत्राकाशस्यापि हेतुत्वप्रसङ्गादिति भावः ।
आत्मनोऽप्रत्यक्षत्वे चार्वाकाणां भ्रमोऽपि लिङ्गमित्याह -
अत एवेति ।
अप्रत्यक्षत्वादेवेत्यर्थः । देहान्यात्मनः प्रत्यक्षत्वे भ्रमासम्भवादिति भावः ।
दर्शनात् ।
प्रवृत्तिचैतन्ययोरिति शेषः ।
प्रवृत्तिं प्रत्याश्रयत्वमचेतनस्यैवेत्युक्तमङ्गीकृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति -
तदभिधीयत इति ।
रथादिप्रवृत्तावश्वादिचेतनस्यान्वयव्यतिरेकौ स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि सम्मतमित्याह -
लौकायतिकानामपीति ।
यः प्रवर्तकः सः स्वयं प्रवृत्तिमानश्वादिवदिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते -
नन्विति ।
मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति -
नेति ।
वस्तुत एकत्वेऽपि कल्पितं द्वैतं प्रवर्त्यमस्तीत्याह -
न । अविद्येति ।
अविद्याकल्पिते नामरूपप्रपञ्चे तयैवाविद्यारूपया मायया य आवेशश्चिदात्मनः कल्पितः सम्बन्धस्तस्य वशः सामर्थ्यं तेनान्तर्यामित्वादिकमीश्वरस्येत्युक्तत्वान्न चोद्यावसर इत्यर्थः ॥२॥
अनादिजडस्य प्रवृत्तिश्चेतनादिना, प्रवृत्तित्वात् , रथादिप्रवृत्तिवदिति स्थितम् । तत्र क्षीरादौ व्यभिचारमाशङ्क्य तस्यापि पक्षसमत्वेनोक्तानुमानादागमेन च साध्यसिद्धिर्न व्यभिचार इति सूत्रं व्याचष्टे -
स्यादेतदित्यादिना ।
साध्यपक्षेति ।
साध्यवता पक्षेणतुल्यत्वादित्यर्थः ।
अनुपन्यासः ।
न व्यभिचारभूमिरिति यावत् ।
क्षीरे प्रवर्तकत्वेन धेन्वादेः सत्त्वाच्च न व्यभिचार इत्याह -
चेतनायाश्चेति ।
उपदर्शितम् । अनुमानागमाभ्यामिति शेषः ।
सूत्रकारस्य 'क्षीरवद्धि', 'तत्रापि' इति च वक्तुः पूर्वापरविरोधमाशङ्क्य लोकदृष्ट्या शास्त्रदृष्ट्या च सूत्रद्वयमित्यविरोधमाह -
उपसंहारेति ॥३॥
अस्तु प्रधानस्यापि धर्मादि कर्म पुरुषो वा प्रवर्तक इत्याशङ्क्य सूत्रं प्रवृत्तम् , तद्व्याचष्टे -
साङ्ख्यानामित्यादिना ।
प्रधानव्यतिरेकेण कर्मणोऽनवस्थितेः पुरुषस्योदासीनत्वात्कदाचित्सृष्टिप्रवृत्तिः कदाचित्प्रलय इत्ययुक्तमित्यर्थः । कर्मणोऽपि प्रधानात्मकस्याचेतनत्वात्सदासत्त्वाच्च न कादाचित्कप्रवृत्तिनियामकत्वमिति भावः ॥४॥
पुनरपि दृष्टान्तबलात्प्रधानस्य स्वत एव कादाचित्कप्रवृत्तिरित्याशङ्क्य निषेधति सूत्रकारः -
अन्यत्रेत्यादिना ।
पृच्छति -
कथमिति ।
उत्तरम् -
निमित्तान्तरेति ।
धेन्वादिनिमित्तान्तरमस्तीति सिद्धान्तयति -
अत्रोच्यत इति ।
प्रहीणं नष्टम् ।
यदुक्तं क्षीरस्य स्वेच्छया सम्पादयितुमशक्यत्वात्स्वाभाविकत्वमिति, तत्राह -
न च यथाकाममिति ॥५॥
प्रधानस्य न स्वतःप्रवृत्तिः, स्वतःप्रवृत्त्यभ्युपगमे पुरुषार्थस्याप्यपेक्षाभावप्रसङ्गादित्येकोऽर्थः । तत्रेष्टापत्तिं निरस्यति -
इत्यतः प्रधानमिति ।
उक्तप्रसङ्गस्येष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः ।
अर्थासम्भवान्न स्वतःप्रवृत्तिरित्यर्थान्तरं शङ्कापूर्वकमाह -
स यदीत्यादिना ।
प्रयोजनमपेक्षितं चेद्वक्तव्यमित्याह -
तथापीति ।
कूटस्थे पुरुषे स्वतःसुखादिरूपस्यातिशयस्याधातुमशक्यत्वादध्यासानङ्गीकाराच्च भोगो न युक्तः । किं च प्रधानप्रवृत्तेर्भोगार्थत्वे मोक्षहेतुविवेकख्यात्यभावादनिर्मोक्षप्रसङ्गश्च, अपवर्गार्थत्वे स्वरूपावस्थानरूपमुक्तेः स्वतःसिद्धत्वात्प्रवृत्तिवैयर्थ्यम् , भोगाभावप्रसङ्गश्चेत्यर्थः ।
तृतीयं दूषयति -
उभयार्थतेति ।
मीयन्ते भुज्यन्त इति मात्रा भोग्याः ।
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति -
न चेति ।
औत्सुक्यमिच्छाविशेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः ।
अस्ति पुरुषस्य दृक्शक्तिश्चिद्रूपत्वात् , अस्ति च प्रधानस्य सर्गशक्तिस्त्रिगुणत्वात् , तयोः शक्त्योर्दृश्यसृष्टी विना सार्थक्यायोगात्प्रधानस्य सृष्टौ प्रवृत्तिरिति चेत् । न । शक्त्योर्नित्यत्वात्सृष्टिनित्यत्वापत्तिरित्याह -
दृक्शक्तीति ॥६॥
पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निषेधति -
पुरुषाश्मवदिति चेत्तथापि ।
प्रधानस्य स्वातन्त्र्यं पुरुषस्यौदासीन्यं चाभ्युपेतं त्यज्यत इति वदन्तं साङ्ख्यम्प्रत्याह -
कथं चेति ।
पुरुषस्य परिस्पन्दः प्रयत्नगुणो वा नास्तीति वक्तुं हेतुद्वयम् । प्रधानपुरुषयोर्नित्यत्वाद्व्यापित्वाच्च नित्यः सन्निधिः, अश्मनस्तु परिमार्जनमृजुत्वेन स्थापनमनित्यसन्निधिश्चेति व्यापारोऽस्तीत्यनुपन्यासः, समदृष्टान्तोपन्यासो न भवतीत्यर्थः ।
ननु चिज्जडयोर्द्रष्टृदृश्यभावयोग्यतास्ति, तया तद्भावः सम्बन्ध इत्यत आह -
योग्यतेति ।
चिज्जडत्वरूपाया योग्यताया नित्यत्वात्सम्बन्धनित्यत्वापत्तिरित्यर्थः ।
यथा स्वतन्त्रप्रधानप्रवृत्तिपक्षो भोगोऽपवर्ग उभयं वा फलमिति विकल्प्य दूषितः, एवं पुरुषाधीनप्रधानप्रवृत्तिपक्षोऽपि फलाभावेन दूषणीय इत्याह -
पूर्ववच्चेति ।
सिद्धान्ते परमात्मन उदासीनस्य कथं प्रवर्तकत्वमित्याशङ्क्याह -
परमात्मेति ।
साङ्ख्यमते उभयं विरुद्धं सत्यत्वात् ।अस्मन्मते कल्पिताकल्पितयोरविरोध इत्यतिशयः ॥७॥
किं प्रधानावस्था कूटस्थवन्नित्या, उत विकारिणी । आद्ये दोषमाह -
तस्यामिति ।
अङ्गाङ्गिभावे साम्यस्वरूपनाशः स्यात् , ततः कौटस्थ्यभङ्ग इति भयादङ्गाङ्गित्वानुपपत्तेः सृष्ट्यनुपपत्तिरित्यर्थः ।
द्वितीयं दूषयति -
बाह्यस्येति ।
चिरकालस्थितस्य साम्यस्य च्युतौ निमित्तं वाच्यं तन्नास्तीत्यर्थः ॥८॥
गुणानां मिथोऽनपेक्षस्वभावत्वान्न स्वतो वैषम्यमित्युक्तम् , तत्र हेत्वसिद्धिमाशङ्क्य सूत्रकारः परिहरति -
अन्यथेति ।
अनपेक्षस्वभावादन्यथा सापेक्षत्वेन गुणानामनुमानात्पूर्वसूत्रोक्तो दोषो न प्रसज्यते ।