भाष्यरत्नप्रभाव्याख्या
द्वितीयाध्याये प्रथमः पादः (२)
न चैवमपसिद्धान्तः, कार्यानुसारेण गुणस्वभावाङ्गीकारादित्याह -
चलं गुणवृत्तमिति ।
पूर्वसूत्रोक्ताङ्गाङ्गित्वानुपपत्तिदोषाभावमङ्गीकृत्य परिहरति -
एवमपीति ।
कार्यार्थं ज्ञानशक्तिकल्पने ब्रह्मवादः स्यादित्यर्थः ।
अङ्गीकारं त्यजति -
वैषम्येति ॥९॥
सूत्रं व्याचष्टे -
परस्परेति ।
त्वङ्मात्रमेव ज्ञानेन्द्रियमेकमनेकशब्दादिज्ञानकारणम् , पञ्च कर्मेन्द्रियाणि मनश्चेति सप्तेन्द्रियाणि, ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च मनश्चेत्येकादश । बुद्धिरहङ्कारो मन इति त्रीणि । एकमिति बुद्धिरेव ।
एवं पूर्वापरविरोधादिति व्याख्याय श्रुतिस्मृतिविप्रतिषेधाच्चेत्यर्थान्तरमाह -
प्रसिद्ध इति ।
तस्माद्भ्रान्तिमूलत्वात्साङ्ख्यशास्त्रस्य तेन निर्देषवेदान्तसमन्वयस्य न विरोध इति सिद्धम् ।
स्वमतासामञ्जस्यमसहमानः साङ्ख्यः प्रत्यवतिष्ठते -
अत्राहेति ।
तप्यो जीवस्तापकः संसारस्तयोर्भेदानङ्गीकाराल्लोकप्रसिद्धस्तप्यतापकभावो लुप्येतेत्यर्थः ।
विवृणोति -
एकं हीति ।
तथा च भेदव्यवहारलोप इत्यसमञ्जसमित्यर्थः ।
ननु तयोरुपादानैक्येऽपि मिथो भेदोऽस्त्येव यथैकवह्न्यात्मकयोरौष्ण्यप्रकाशयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्यामात्मनोमोक्षो न स्यादित्याह -
यदि चेत्यादिना ।
ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्यादिनाशदर्शनादित्याशङ्क्य दृष्टान्तासिद्धिमाह -
योऽपीति ।
किञ्च भेदाङ्गीकारेऽपसिद्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह -
प्रसिद्धश्चेति ।
अर्थो ह्यर्जनालाभादिनार्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह -
यदीति ।
अर्थिनोऽन्यस्यार्थस्याभावादर्थित्वाभाववदर्थादन्यस्यार्थिनोऽसत्त्वादर्थत्वाभावः प्रसज्येतेत्याह -
तथार्थस्यापीति ।
प्रसङ्गस्येष्टत्वं निराकरोति -
न चैतदस्तीति ।
अर्थत्वं हि कामनाविषयत्वम् , तच्च काम्यादन्यस्य कामयितुरसत्त्वान्न स्यात् । न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव कामयितृत्वायोगात् । तस्माद्भेदोऽङ्गीकार्य इत्यर्थः ।
इतश्च भेद इत्याह -
सम्बन्धीति ।
तथानर्थानर्थिनावपि भिन्नावित्यन्वयः ।
अर्थानर्थयोः स्वरूपोक्तिपूर्वकं तापकत्वं स्फुटयति -
अर्थिनोऽनुकूल इति ।
अद्वैतमते मुक्तेरयोगमुक्त्वा स्वमते योगमाह -
जात्यन्तरेति ।
तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वामिभावस्तस्य हेतुरनादिरविवेकस्तस्य परिहारो विवेकस्तस्मान्नित्यमुक्तस्यापि पुरुषस्य कथञ्चिदुपचारान्मोक्षोपपत्तिरित्यर्थः । यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरुषादत्यन्तभिन्नबुद्धिगतौ बन्धमोक्षौ पुरुषे उपचर्येते । तदुक्तम् 'सैव च बध्यते मुच्यते च' इति ।
सिद्धान्तयति -
अत्रेति ।
किं परमार्थदृष्ट्या तप्यतापकभावानुपपत्तिरुच्यते, व्यवहारदृष्ट्या वा । नाद्य इत्याह -
न । एकत्वादेवेति ।
दोषत्वमिति शेषः ।
तस्या अदोषत्वं विवृणोति -
भवेदित्यादिना ।
एतत्तात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः ।
यत्र तप्यतापकभावो दृष्टस्तत्रैवेति व्यवहारपक्षमादाय सिद्धान्ती ब्रूते -
किं न पश्यसीति ।
देहस्य तप्यत्वे देहात्मवादापत्तिरिति शङ्कते -
नन्विति ।
अचेतनस्यैव देहस्य तप्तिर्नेति वदता साङ्ख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किं वा देहसंहतस्य, उत तप्तेः, आहोस्वित्सत्त्वस्य । नाद्य इत्याह -
उच्यत इति ।
न द्वितीयतृतीयावित्याह -
नापीत्यादिना ।
चतुर्थं शङ्कते -
सत्त्वमिति ।
सत्त्वरजसोस्तप्यतापकत्वे पुरुषस्य बन्धाभावाच्छास्त्रारम्भवैयर्थ्यमिति परिहरति -
न । ताभ्यामिति ।
असङ्गत्वेऽपि पुरुषस्य तप्यसत्त्वप्रतिबिम्बत्वात्तप्तिरिति शङ्कते -
सत्त्वेति ।
तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्तिरित्यस्मत्पक्ष आगत इत्याह -
परमार्थत इति ।
इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते - इवशब्दस्तप्यबुद्धिसत्त्वसादृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत्कल्पितमेव वस्तुतस्तप्त्यभावादित्युपपादयति -
न चेदिति ।
पुरुषो वस्तुतस्तप्तिशून्यश्चेदिवशब्दो न दोषाय मिथ्यातप्तिपरत्वादित्यर्थः ।
मिथ्यासादृश्यमेव दोष इति चेत् , नेत्याह -
न हीति ।
सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः । साङ्ख्यस्याविद्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव सम्पन्नमित्यर्थः । यदि मिथ्यातप्यत्वाङ्गीकारेऽपसिद्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथाप्यपसिद्धान्तः, कौटस्थ्यहानात् ।
अनिर्मोक्षश्च, सत्यस्यात्मवन्निवृत्त्योगादित्याह -
अथेत्यादिना ।
किञ्च रजसो नित्यत्वाद्दुःखसातत्यमित्याह -
नित्यत्वेति ।
अत्र साङ्ख्यः शङ्कते -
तप्येति ।
सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमित्तमविवेकात्मकदर्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुणस्वामित्वरूपस्तदपेक्षत्वादित्यर्थः । मोक्षस्तप्त्यभावः ।
निमित्तस्य निवृत्त्यभावान्न मोक्ष इति सिद्धान्ती परिहरति -
नेति ।
तमसो निवृत्त्यभावेऽपि विवेकेनोपरमान्मोक्ष इत्यत आह -
गुणानां चेति ।
'चलं गुणवृत्तम्' इत्यङ्गीकारादिति भावः ।
परपक्षे बन्धमोक्षानुपपत्तिमुक्त्वा स्वपक्षमुपसंहरति -
औपनिषदस्य त्विति ।
वस्तुत एकत्वेन बन्धाभावान्न मुक्त्यभावशङ्कावसरः । व्यवहारस्तु भेदाङ्गीकारात्तप्यतापकभावो बन्धः तत्त्वज्ञानात्तन्निवृत्तिश्चोपपद्यत इति न चोद्यावसर इत्यर्थः ॥१०॥
वृत्तानुवादेन 'महद्दीर्घवत्' इति स्वमतस्थापनात्मकाधिकरणस्य सङ्गतिमाह -
प्रधानेति ।
यद्यपि साङ्ख्यमतनिरासानन्तरं परमाणुवादो निराकर्तव्यः स्वमतस्थापनस्य स्मृतिपादे सङ्गतत्वात्तथापि पूर्वत्र प्रधानगुणानां सुखादीनां जगत्यनन्वयात्प्रधानस्यानुपादानत्वमुक्तम् , तथा ब्रह्मगुणचैतन्यानन्वयाद्ब्रह्मणोऽपि नोपादानत्वमिति दोषो दृष्टान्तसङ्गतिलाभादत्र समाधीयत इत्यर्थः ।
चेतनाद्ब्रह्मणो जगत्सर्गवादी वेदान्तसमन्वयो विषयः । स किं यः समवायिकारणगुणः स कार्यद्रव्ये स्वसमानजातीयगुणारम्भकस्तन्तुशौक्ल्यवदिति न्यायेन विरुध्यते न वेति सन्देहे न्यायस्याव्यभिचाराद्विरुध्यत इति प्राप्ते व्यभिचारान्न तद्विरोध इति सिद्धान्तसूत्रं व्याचष्टे -
एषेत्यादिना ।
यद्यपि 'न विलक्षणत्वात्' इत्यत्र चेतनादचेतनसर्गः साधितस्तथापि वैशेषिकन्यायस्य तदीयप्रक्रियया व्यभिचारोक्त्यर्थत्वादस्य सूत्रस्य न गतार्थता । प्रलयकाले परमाणवो निश्चला असंयुक्तास्तिष्ठन्ति सर्गकाले चादृष्टवदात्मसंयोगात्तेषु कर्म भवति, तेन संयोगाद्द्रव्यान्तरसृष्टिर्भवति, कारणगुणाः कार्ये गुणान्तरमानभन्त इति सामान्येन प्रक्रियामुक्त्वा विशेषतस्तामाह -
यदा द्वाविति ।
परमाणुः परिमण्डलः, तद्गतं परिमाणं पारिमाण्डल्यमित्युच्यते, तच्च स्वसमानजातीयगुणारम्भकं न भवतीत्युक्तन्यायस्य व्यभिचार इति भावः ।
व्यभिचारस्थलान्तरमाह -
यदापि द्वे इति ।
द्वे द्वे इति शब्दद्वयं पठितव्यम् , एवं सति चतुर्भिर्द्व्यणुकैश्चतुरणुकारम्भ उपपद्यते, यथाश्रुते तु द्वाभ्यां द्व्यणुकाभ्यां महतश्चतुरणुकस्यारम्भो न युज्यते, कारणगतं महत्वं बहुत्वं वा विना कार्ये महत्वायोगादिति मन्तव्यम् । प्रकटार्थकारास्तु यद्द्वाभ्यां द्व्यणुकाभ्यामारब्धं कार्ये महत्वं दृश्यते तस्य हेतुः प्रचयो नाम प्रशिथिलावयवसंयोग इति रावणप्रणीते भाष्ये दृश्यत इति चिरन्तनवैशेषिकदृष्ट्येदं भाष्यमित्याहुः । सर्वथापि द्व्यणुकगतह्रस्वत्वाणुत्वपरिमाणयोरनारम्भकत्वाद्व्यभिचरः ।
यद्यपि तार्किका द्वाभ्यामेव परमाणुभ्यां द्व्यणुकं त्रिभिर्द्व्यणुकैस्त्र्यणुकमिति कल्पयन्ति तथापि तर्कस्याप्रतिष्ठानान्न नियम इति मत्वा ब्रूते -
यदापि बहव इति ।
कारकगुणाः शुक्लादयः समानजातीयगुणारम्भकाः, कार्यद्रव्यपरिमाणं तु न कारणपरिमाणारभ्यं किन्तु कारणगतसङ्ख्यारभ्यमिति प्रक्रिया तुल्येत्यर्थः ।
एवं प्रक्रियां दर्शययित्वा सूत्रं योजयन् व्यभिचारमाह -
तदेवमिति ।
परमाणुभ्य एव महद्दीर्घं चेत्यनियतप्रक्रियामाश्रित्योक्तम् ।
नियतप्रक्रियामाश्रित्य व्यभिचारमाह -
यथा वेति ।
अणुह्रस्वेभ्यो द्व्यणुकेभ्योऽणुद्रव्यं न जायते ह्रस्वमपि न जायत इति व्यभिचार इत्यर्थः । सूत्रे वाशब्दश्चार्थोऽनुक्ताणुसमुच्चयार्थः । तथा च ह्रस्वपरिमण्डलाभ्यां द्व्यणुकपरमाणुभ्यां महद्दीर्घाणुवच्चेतनादचेतनं जायत इति सूत्रयोजना । तत्र ह्रस्वान्महद्दीर्घं त्र्यणुकं परिमण्डलादणु द्व्यणुकमिति विभागः ।
दृष्चान्तवैषम्यं शङ्कते -
अथ मन्यस इति ।
अचेतनैव विरोधिगुण इत्यत आह -
न ह्यचेतनेति ।
कार्यद्रव्यस्य परिमाणान्तराक्रान्तत्वमङ्गीकृत्य विवक्षितांशसाम्यमाह -
मैवमिति ।
अङ्गीकारं त्यजति -
न चेति ।
उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्विरोध्यभावात् द्व्यणुके पारिमाण्डल्यारम्भः किं न स्यादित्यर्थः ।
ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह -
आरब्धमपीति ।
सहोत्पत्तावपसिद्धान्तः । अतो विरोध्यभावः सिद्ध इति भावः ।
अणुत्वाद्यारम्भे व्यग्रत्वात्पारिमाण्डल्यादेः स्वसमानगुणानारम्भकत्वमित्याशङ्क्य निषेधति -
न चेति ।
व्यग्रत्वमन्यथासिद्धम् ।
तत्र हेतुः -
परिमाणन्तरस्येति ।
अन्यहेतुकत्वे सूत्राण्युदाहरति -
कारणेति ।
कारणानां द्व्यणुकानां बहुत्वात्त्र्यणुके महत्वं मृदो महत्वात् घटे महत्वम् , द्वितूलपिण्डारब्धेऽतिस्थूलतूलपिण्डे प्रचयादवयवसंयोगविशेषान्महत्वमित्यर्थः ।
महत्वविरुद्धमणुत्वं परमाणुगतद्वित्वसङ्ख्यया द्व्यणुके भवतीत्याह -
तदिति ।
यन्महत्वस्यासमवायिकारणं तदेव महत्वसमानाधिकरणस्य दीर्घत्वस्य, यच्चाणुत्वस्यासमवायिकारणं तदेवाणुत्वाविनाभूतहृस्वत्वस्यासमवायिकारणमित्यतिदिशति -
एतेनेति ।
अतो महत्वादावहेतुत्वात्पारिमाण्डल्यादीनां व्यग्रत्वमसिद्धमिति भावः ।
तेषां सन्निधिविशेषाभावान्न समानगुणारम्भकत्वमित्यपि न वाच्यमित्याह -
न चेति ।
पारिमाण्डल्यादीनामपि बहुत्वादिवत्समवायिकारणगतत्वाविशेषादित्यर्थः ।
तेषामनारम्भकत्वे कार्यद्रव्यस्य विरोधिगुणाक्रान्तत्वं व्यग्रत्वमसन्निधिर्वा न हेतुरित्युक्तिफलमाह -
तस्मादिति ।
यत्तु कारणगुणः स्वसमानगुणारम्भक इति व्याप्तेः सामान्यगुणेषु पारिमाण्डल्यादिषु व्यभिचारेऽपि यो द्रव्यसमवायिकारणगतो विशेषगुणः स स्वसमानजातीयगुणारम्भक इति व्याप्तेश्चैतन्यस्य विशेषगुणत्वादारम्भकत्वं दुर्वारमिति, तन्मन्दम् , चित्रपटहेतुतन्तुगतेषु नीलादिरूपेषु विजातीयचित्ररूपहेतुषु व्यभिचाराच्चैतन्यस्यात्मत्वेन गुणत्वाभावाच्चेति मन्तव्यम् ।
तस्माच्चेतनाद्विजातीयारम्भो युक्त इति स्थितम् । तत्रोदाहणान्तरमाह -
संयोगाच्चेति ।
ननु चेतनं ब्रह्म कार्योपादानत्वाद्द्रव्यम् , तन्न विलक्षणस्योपादानमिति प्रकृते किञ्चिद्द्रव्यमेव विलक्षणकार्यकरमुदाहर्तव्यम् , न संयोगस्य गुणस्योदाहरणमिति शङ्कते -
द्रव्य इति ।
गुणात् द्रव्यवच्चेतनादचेतनारम्भ इति विलक्षणारम्भकत्वांशेऽयं दृष्टान्त इति परिहरति -
नेति ।
अनियमः कणादसम्मत इत्याह -
सूत्रकारोऽपीति ।
एतावता कथमनियमः, तत्राह -
एतदुक्तमिति ।
न विलक्षणत्वन्यायेन पुनरुक्त्यभावेऽतिदेशाधिकरणेन पुनरुक्तिरिति शङ्कते -
नन्वतिदेश इति ।
समानगुणारम्भनियमस्य पारिमाण्डल्यादिदृष्टान्तेन भङ्गार्थमस्यारम्भ इत्याह -
सत्यमिति ।
तस्यैवातिदेशस्येत्यर्थः ॥११॥
वैशेषिकमतपरीक्षामारभते -
उभयथापि न कर्मातस्तदभावः ।
नास्य प्रासङ्गिकेन पूर्वाधिकरणेन सङ्गतिरपेक्षितेति मन्वानः प्रधानस्येश्वरानधिष्ठितस्याकारणत्वेऽपि परमाणूनां तदधिष्ठितानां कारणत्वमस्त्विति प्रत्युदाहरणसङ्गत्या साङ्ख्याधिकरणानन्तर्यमस्य वदंस्तात्पर्यमाह -
इदानीमिति ।
द्व्यणुकादिक्रमेण परमाणुभिर्जगदारभ्यत इति वैशेषिकराद्धान्तोऽत्र विषयः । स किं मानमूलो भ्रान्तिमूलो वेति सन्देहे पूर्वपक्षयति -
स चेति ।
तैः पटादिभिः सामान्यं क्षित्यादेः कार्यर्द्रव्यत्वं तेनेत्यर्थः । विमतं सावयवं क्षित्यादिकं स्वन्यूनपरिमाणसंयोगसचिवानेकद्रव्यारब्धम् , कार्यद्रव्यत्वात् , पटादिवदिति प्रयोगः । स्वेष्टपरमाणुसिद्ध्यर्थानि साध्यविशेषणानि ।
नन्वेतावता कथं परमाणुसिद्धिः, तत्राह -
स चायमिति ।
विमतं सावयवत्वं पक्षतावच्छेदकं यतो निवर्तते स न्यूनपरिमाणस्यापकर्षस्य पर्यन्तत्वेनावसानभूमित्वेनावगतः परमाणुरित्यर्थः । यावत्सावयवमनुमानप्रवृत्तेः द्व्यणुकन्यूनद्रव्यं निरवयवं सिद्ध्यतीति भावः ।
जगन्नित्यत्ववादात्कार्यद्रव्यत्वहेत्वसिद्धिरिति वदन्तं प्रत्याह -
सर्वं चेति ।
विमतमाद्यन्तवत् , सावयवत्वात् , पटवदित्यर्थः ।
हेतोरसिद्धिं निरस्याप्रयोजकत्वं निरस्यति -
न चेति ।
ते कतिविधा इत्याकाङ्क्षायामाह -
तानीति ।
प्रलये चैषामपि नाशान्न जगत्कारणत्वमित्याशङ्क्याह -
तेषां चेति ।
अवयवानां विभागान्नाशाद्वावयविनो नाशः । परमाणूनां निरवयवत्वेनावयवविभागादेर्नाशहेतोरसम्भवान्न नाश इत्यर्थः ।
तेषां नित्यत्वे फलितं सृष्टिक्रममाह -
तत इति ।
एवं काणादमतस्य मानमूलत्वात्तेन वेदान्तसमन्वयस्य विरोधादसिद्धिरिति पूर्वपक्षे फलम् ।
तस्य भ्रान्तिमूलत्वादविरोध इति सिद्धान्तयति -
तत्रेदमिति ।
प्रलये विभक्तानां परमाणूनामन्यतरकर्मणोभयकर्मणा वा संयोगो वाच्यः, कर्मणश्च निमित्तं प्रयत्नादिकं दृष्टम् , यथा प्रयत्नवदात्मकसंयोगाद्देहचेष्टा, वाय्वाद्यभिघाताद्वृक्षादिचलनम् , हस्तनोदनादिष्वादिगमनम् , तद्वदणुकर्मणो दृष्टं निमित्तमभ्युपगम्यते न वा । द्वितीये कर्मानुत्पत्तिः नाद्यः, प्रयत्नादेः सृष्ट्युत्तरकालीनत्वादित्युभयथापि न कर्म सम्भवति । अतः कर्मासम्भवात्तस्य संयोगपूर्वकद्व्यणुकादिसर्गस्याभाव इति सूत्रार्थः । स्थिरस्य वेगवद्द्रव्यसंयोगाविशेषोऽभिघातः स एव चलस्य नोदनमिति भेदः ।
दृष्टनिमित्ताभावेऽप्यदृष्टवदात्मसंयोगादणुषु कर्मेति शङ्कते -
अथादृष्टमिति ।
विकल्पपुरःसरं दूषयति -
तत्पुनरिति ।
जडात्मवदणोराश्रयत्वं किं न स्यादिति मत्वा विकल्पः कृत इति मन्तव्यम् ।
अत्रापि सूत्रं योजयति -
उभयथेति ।
जीवाधिष्ठितमदृष्टं निमित्तमस्त्वित्यत आह -
आत्मनश्चेति ।
अचेतनत्वान्नाधिष्ठातृत्वमिति शेषः । भिन्नेश्वरस्याधिष्ठातृत्वमग्रे निराकरिष्यते । अचेतनत्वमदृष्टस्य कर्मनिमित्तत्वाभावे हेतुरुक्तः ।
हेत्वन्तरमाह -
आत्मसमवायित्वेति ।
गुरुत्ववददृष्टमपि स्वाश्रयसंयुक्ते क्रियाहेतुरिति शङ्कते -
अदृष्टवतेति ।
विभुसंयोगस्याणुषु सदा सत्त्वात्क्रियासातत्ये प्रलयाभावः स्यादिति दूषयति -
सम्बन्धेति ।
कादाचित्कप्रवृत्तेरदृष्टनियम्यत्वायोगेऽपीश्वरान्नियम इत्यत आह -
नियामकान्तरेति ।
यज्ज्ञानं तच्छरीरजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेस्तद्गुण ईश्वरो नास्ति, अस्तित्वेऽपि सदा सत्त्वान्न नियामकत्वमिति भावः ।
सूत्रार्थं निगमयति -
तदेवमिति ।
संयोगस्य हेतुत्वं खण्डयित्वा स्वरूपं खण्डयति -
संयोगश्चाणोरिति ।
संयोगस्य व्याप्यवृत्तित्वे एकस्मिन्नितरस्यान्तर्भावात्कार्यस्य पृथुत्वायोगात्सर्वं कार्यं परमाणुमात्रं स्यादित्यर्थः ।
किञ्च सांशद्रव्ये संयोगस्यैकांशवृत्तित्वं दृष्टं तद्विरोधाद्व्याप्यवृत्तित्वं न कल्प्यमित्याह -
दृष्टेति ।
परमाणोः संयोग एकदेशेन चेदिति सम्बन्धः । दिग्भेदेन कल्पितप्रदेशस्थसंयोगस्यापि कल्पितत्वात्ततः कार्यं नोत्पद्येत, उत्पन्नं वा मिथ्या स्यादित्यपसिद्धान्त इत्यर्थः ।
काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयनिरासेऽपि सूत्रं योजयति -
यथा चेति ।
परमाणूनां कर्मणा संयोगात्सर्गः, विभागात्प्रलय इति प्रक्रिया न युक्ता, युगपदनन्तपरमाणूनां विभागे नियतस्याभिघातादेर्दृष्टस्य निमित्तस्यासत्त्वात् धर्माधर्मरूपादृष्टस्य सुखदुःखार्थत्वेन सुखदुःखशून्यप्रलयप्रयोजकत्वायोगान्नादृष्टनिमित्तेन कर्मणा विभागः सम्भवति । तथा च दृष्टादृष्टनिमित्तयोरसत्त्वादुभयथापि संयोगार्थत्वेन विभागार्थत्वेन च कर्म नास्ति, अतः कर्माभावात्तयोः संयोगविभागपूर्वकयोः सर्गप्रलययोरभाव इति सूत्रयोजना ॥१२॥
समवायाभ्युपगमाच्च तदभावः ।
अणुवादासम्भव इति योग्यतया सम्बध्यते द्व्यणुकसमवाययोः परमाणुभिन्नत्वसाम्यात् द्व्यणुकवत्समवायस्यापि समवायान्तरमित्यनवस्थितिरित्यर्थः ।
नन्विह तन्तुषु पट इत्यादिविशिष्टधीनियामकः समवायो न सम्बन्धान्तरमपेक्षते, स्वरूपेणैव नित्यसम्बद्धत्वादिति शङ्कते -
नन्विहेति ।
संयोगस्यापि स्वरूपसम्बन्धोपपत्तेः समवायो न स्यादिति दूषयति -
नेति ।
सम्बन्धिभिन्नत्वाच्चेदपेक्षा समवायस्यापि तुल्या ।
गुणपरिभाषायाश्चेति ।
गुणत्वाभावेऽपि कर्मसामान्यादीनां समवायाङ्गीकाराद्गुणत्वं समवायित्वे न व्यापकम् । नापि व्याप्यम् , गुणस्यापि समवायवत्स्वरूपसम्बन्धसम्भवेन व्याप्त्यनुकूलतर्काभावात् । तस्मात्सम्बन्धिभिन्नत्वमेव सम्बन्धान्तरापेक्षायां कारणम् , तस्य समवायेऽपि तुल्यत्वादनवस्था दुर्वारा । सा च मूलक्षयकारी । तया समवायासिद्धौ समवेतद्व्यणुकासिद्धिरित्यर्थः ॥१३॥
सूत्रं व्याचष्टे -
अपि चेति ।
अनुभवस्वभावत्वे नैमित्तिकी प्रवृत्तिर्वाच्या, निमित्तं च कालादृष्टादिकं नित्यसन्निहितमिति नित्यमेव प्रवृत्तिप्रसङ्गः, तस्यानिमित्तत्वे प्रवृत्त्यभाव इत्यर्थः ॥१४॥
किं च परमाणवः समवायिकारणवन्तः कारणापेक्षया स्थूला अनित्याश्च, रूपवत्त्वात् रसवत्त्वाद्गन्धवत्त्वात्स्पर्शवत्त्वात् घटवदिति सूत्रं योजयितुं परप्रक्रियामाह -
सावयवानामित्यादिना ।
नन्वत्र परमाणुत्वं पक्षतावच्छेदकं तद्विरुद्धं स्थूलत्वं कथं साध्यत इति चेत् । न । वायुत्वतेजस्त्वादेः पृथगवच्छेदकत्वात् । न चाप्रयोजकता, कारणशून्यत्वे नित्यत्वे चात्मवद्रूपादिमत्त्वायोगात् । न च तर्हि वायुः कारणवानिति पृथक्साधने रूपादिहेतूनां भागासिद्ध्यभावेऽपि सिद्धसाधनता स्यादिति वाच्यम् , यत्र स्पर्शस्तत्सकारणम् , यत्र रूपं तत्सकारणमिति व्याप्तिग्रहकाले वायुत्वाद्यवच्छेदेन साध्यसिद्ध्यभावादिति भावः ।
परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् , आत्मवदिति सत्प्रतिपक्षमुत्थाप्य विशेष्यासिद्ध्या दूषयति -
यच्च नित्यत्व इति ।
सत्त्वं भावत्वं प्रागभावनिरासार्थम् ।
नित्यत्वप्रतिषेधः सप्रतियोगिकः, अभावत्वात् , घटाभावावदिति नित्यस्य क्वचित्सिद्धौ कार्यमनित्यमिति विशेषतः कार्ये नित्यत्वप्रतिषेधात्कारणभूतपरमाणुषु नित्यत्वं सिध्यति, अन्यथा प्रतियोग्यभावे प्रतिषेधानुपपत्तेरिति कणादोक्तमनूद्यान्यथासिद्ध्या दूषयति -
यदपीति ।
कार्ये नित्यत्वप्रतिषेधव्यवहारमङ्गीकृत्य ब्रह्मणि प्रतियोगिप्रसिद्धिरुक्ता ।
वस्तुतस्तु विशेषव्यवहार एवासिद्धः, कारणनित्यत्वस्य प्रमाणान्तरेण ज्ञानं विना कार्यमनित्यमिति व्यवहारायोगादित्याह -
न च शब्देति ।
यदि प्रमाणान्तरं कारणनित्यत्वे स्यात्तदायं व्यवहारः समूलो भवति, ततो मूलज्ञानात्प्राग्व्यवहारमात्रान्न वस्तुसिद्धिः, वटे यक्षव्यवहारादपि तत्सिद्धिप्रसङ्गात् मूलज्ञाने तु तेनैव अशेषसिद्धेर्व्यवहारोपन्यासवैयर्थ्यमिति भावः ।
एवं परमाणुनित्यत्वे काणादसूत्रद्वयं निरस्य तृतीयं निरस्यति -
यदपीति ।
सतामणूनां दृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणज्ञानमविद्येति यदि सूत्रार्थः, तर्ह्यप्रत्यक्षकारणत्वं नित्यत्वे हेतुः स्यात् । तन्न द्व्यणुके व्यभिचारादित्यर्थः ।
यद्यारम्भकद्रव्यशून्यत्वं हेतुविशेषेणं तदा विशेष्यवैयर्थ्यमापद्येत, पुनरुक्तिश्चेत्याह -
अथेत्यादिना ।
परमाणवो नित्याः, नाशकानुपलम्भात् , आत्मवदिति सूत्रार्थमाशङ्कते -
अथापीति ।
तन्त्वाद्यवयवानां विभागान्नाशाद्वा पटादिनाशो दृष्टः, तच्च द्वयं निरवयवाणूनां नास्तीति नित्यत्वमित्यर्थः ।
परिणामवादमाश्रित्याणूनां नाशकं किञ्चित्सम्भवतीति परिहरति -
नेति ।
अवयवानां संयोगेन द्रव्यान्तरोत्पत्तिरारम्भ इति यदि मतं स्यात् , तदा द्रव्यविनाशो द्वाभ्यामेवेतिनियमः स्यात् । नारम्भे मानमस्ति संयुक्ततन्त्वन्यवपटादर्शनात् । अतः कारणमेव स्वतो निर्विशेषं विशेषवदवस्थात्मना कार्यमित्यनुभवबलादास्थेयम् । तथा चाणूनामप्यविद्यापरिणामरूपाणां प्रलयनिमित्तेन कालादिना पिण्डात्मकस्वरूपतिरोभावेन कारणभावापत्तिर्विनाश उपपद्यते । यथाग्निसम्पर्काद्घृतकाठिन्यमवयवसंयोगस्यावयवानां च नाशं विनैव लीयते तद्वत् । न च काठिन्यस्य संयोगविशेषत्वेन गुणत्वाद्द्रव्यनाशेऽनुदाहरणत्वमिति शङ्क्यम् , गुणवद्द्रव्यस्यापि कुतश्चिद्विनाश इत्यंशेनोदहरणात् , गुणपरिभाषायाश्चातन्त्रत्वात् । वस्तुतस्तु घृतं कठिनं द्रवमित्यनुस्यूतघृतपरिणामविशेषो द्रव्यमेव काठिन्यम् । न च द्रव्यत्वेऽप्यवयवविभागादेव तस्य नाश इति वाच्यम् , घृतस्य परिणामिन एकत्वेन विभागासम्भवात् , परमाणुकाठिन्यनाशे तदसम्भवाच्चेति भावः । किञ्च प्रलये नासीद्रजो नान्यत्किञ्चनेत्यणूनां नाशसिद्धिः ।
तस्मान्न तेषां परमकारणत्वमित्युपसंहरति -
तस्मादिति ॥१५॥
यद्यस्मादधिकगुणवत्तत्तस्मात्स्थूलमिति व्याप्तिमुक्त्वा विकल्पयति -
तद्वदिति ।
पार्थिवः परमाणुरधिकगुणस्तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्प्यते, न वा । आद्ये दोषमाह -
कल्प्यमान इति ।
मूर्त्युपचयात्स्थौल्यादित्यर्थः । पार्थिवोऽणुराप्यात्स्थूलः, अधिकगुणत्वात् , घटवदित्येवं प्रयोक्तव्यः ।
अप्रयोजकत्वं निरस्यति -
न चान्तरेणेति ।
दृष्टविरोधः स्यादिति भावः ।
नेति पक्षे सर्वेषामणूनां साम्यार्थमेकैकगुणवत्त्वं वा स्याच्चतुर्गुणवत्वं वा । उभयथापि दोषमाह -
अकल्प्यमाने त्वित्यादिना ॥१६॥
न केवलमणुवादस्यायुक्तत्वादुपेक्षा किन्तु शिष्टबहिष्कृतत्वाद्ग्रन्थतोऽर्थतश्चाग्राह्यत्वमित्याह -
अपरिग्रहाच्चेति ।
चकारार्थं प्रपञ्चयितुमुपक्रमते -
अपि चेति ।
अत्यन्तभेदज्ञापकमाह -
भिन्नलक्षणादिति ।
द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वजातयो लक्षणानि, गुणाश्रयत्वाद्युपाधयो वा, निर्गुणत्वे सति जातिमदक्रियत्वं गुणलक्षणम् , संयोगविभागयोर्निरपेक्षकारणं कर्म, नित्यमेकमनेकसमवेतं सामान्यम् , नित्यद्रव्यवृत्तयो विशेषाः, नित्यः सम्बन्धः समवाय इति भिन्नानि लक्षणानि । तैर्मिथोऽत्यन्तभेदसिद्धिरित्यर्थः । तथात्वमत्यन्तभिन्नत्वम् । तेन विरुद्धो यो धर्मधर्मिभावः । गुणादयो न द्रव्यधर्माः स्युः, ततोऽत्यन्तभिन्नत्वात् , शशकुशादिवदित्यर्थः ।
भेदबाधकत्वमुपन्यस्याभेदमाह -
अथ भवतीति ।
गुणादिषु तदधीनत्वं तावदन्वयव्यतिरेकसिद्धम् , तथा च गुणादयो द्रव्याभिन्नाः, द्रव्याधीनत्वात् , यद्यस्माद्भिन्नं तन्न तदधीनम् , यथा शशभिन्नः कुश इत्यर्थः ।
अभेदे द्रव्यं गुण इति शब्दप्रत्ययभेदः कथम् , तत्राह -
द्रव्यमिति ।
कल्पितभेदोऽप्यस्तीत्याशयः । अन्यथात्यन्तभेदवदत्यन्ताभेदेऽपि धर्मधर्मित्वायोगादिति मन्तव्यम् ।
अस्तु गुणादीनां द्रव्यतादात्म्यमिति वदन्तं तार्किकमन्यं प्रत्याह -
तथा सतीति ।
साङ्ख्योऽत्र वेदान्ती ग्राह्यः । यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति साङ्ख्यग्रहणम् ।
यद्यपि तदधीनत्वं तद्धर्मत्वम् , तच्च धूमे नास्ति, अग्निं विनापि भावात् , तथापि तत्कार्यत्वं तदधीनत्वं मत्वा व्यभिचारं शङ्कते -
नन्विति ।
कार्यत्वमन्यत्वं चाङ्गीकरोति -
सत्यमिति ।
तथापि तादात्म्येन प्रतीयमानत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याशयः ।
अस्य हेतोरन्यथासिद्धिमाशङ्कते -
गुणादीनामिति ।
गुणादीनां द्रव्येणाभेदाभावेऽप्ययुतसिद्धत्वेन तादात्म्यप्रतीतिसिद्धिरित्यर्थः ।
दूषयितुं विकल्पयति -
तत्पुनरिति ।
शौक्ल्यस्य पटनिष्ठत्वात्पटस्य तन्तुदेशत्वात्पटशौक्ल्ययोरपृथग्देशत्वाभावाच्छुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यादित्याद्यं दूषयति -
अपृथग्देशत्व इति ।
काणादसूत्रद्वयं व्याचष्टे -
तन्तवो हीति ।
स्वभावो हि स्वरूपं तस्यापृथक्त्वेऽस्मदिष्टाभेदसिद्धिरित्याह -
अपृथक्त्वभावत्व इति ।
अभेदे युक्तिमाह -
तस्येति ।
गुणस्येत्यर्थः । एवं षट्पदार्था अत्यन्तभिन्ना इति सिद्धान्तोऽनुभवविरोधेन दूषितः ।
सिद्धान्तान्तरं दूषयति -
युतेति ।
अयुतसिद्धत्वं किमुभयोरुतान्यतरस्य । नाद्य इत्याह -
प्रागिति ।
द्वितीयमाशङ्क्य दूषयति -
अथेत्यादिना ।
कारणस्य पृथक्सिद्धत्वेऽपि कार्यमपृथक्सिद्धमित्युक्तमुपेत्य सम्बन्धोऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं दूषयित्वा द्वितीयं शङ्कते -
सिद्धं भूत्वेति ।
सतोरप्राप्तयोः प्राप्तिः संयोग इत्यभ्युपगमात्तन्तुपटयोरपि संयोगापत्तिरित्यपसिद्धान्तः स्यादित्यर्थः ।
सद्योजातपटस्य क्रियाभावात्कथं संयोगः, तत्राह -
यथेति ।
किञ्च सम्बन्धस्यापि सम्बन्धेऽनवस्थानादसम्बद्धस्यानियामकत्वात्सम्बन्धोऽपि दुर्निरूप इत्याह -
नापीति ।
सम्बन्धः सम्बन्धिभिन्नः, तद्विलक्षणशब्दधीगम्यत्वात् , वस्त्वन्तरवदिति शङ्कते -
सम्बन्धीति ।
कल्पितभेदसाधने सिद्धसाधनता, वस्तुभेदसाधने तु व्यभिचार इति समाधत्ते -
न । एकत्वेऽपीति ।
स्वरूपेणैव मनुष्यादिशब्दभागेव पुत्राद्यपेक्षया पितेत्यादिविलक्षणशब्दधीगम्यो भवति, न च भिद्यत इति व्यभिचार इत्यर्थः ।
फलितमाह -
इत्युपलब्धीति ।
विलक्षणशब्दधीगम्यत्वादित्युपलब्धिघटितेन लक्षणेन लिङ्गेन प्राप्तस्य वस्त्वन्तरस्य संयोगादेः सम्बन्धिव्यतिरेकेणानुपलब्धेरभावो निश्चीयत इत्यर्थः । न ह्यङ्गुलिद्वयस्य नैरन्तर्यातिरेकेण संयोग उपलभ्यते । समवायस्तु न कस्यापि क्वचिदप्यनुभवमारोहतीति भावः ।
सम्बन्धस्य सम्बन्ध्यभेदे सम्बन्धिनः सदा सत्त्वात्सर्वदा सम्बन्धबुद्धिप्रसङ्ग इति शङ्कां निषेधति -
नापीति ।
परापेक्षया नैरन्तर्यावस्थायामङ्गुल्योः रूपरूपिणोश्च सम्बन्धिधीः, न स्वत इत्युक्तमित्यर्थः ।
पूर्वं परमाण्वोः संयोगनिरासेन द्व्यणुकादिसृष्टिर्निरस्ता, सम्प्रत्यदृष्टवदात्मनाणूनां संयोगोऽणुषु क्रियाहेतुः, आत्ममनसोः संयोगो बुद्ध्याद्यसमवायिकारणं निरस्यते -
तथाण्वात्मेति ।
निरस्तमपि कल्पितप्रदेशपक्षमतिप्रसङ्गाख्यदोषान्तरं वक्तुं पुनरुद्भावयति -
कल्पिता इति ।
कल्पनमूहः । ऊहितार्थाः सन्तोऽसन्तो वा । द्वितीये न संयोगसिद्धिः स्वस्वाभावयोरेकत्र वृत्त्यवच्छेदकासत्त्वात् । आद्ये तूहमात्रेण सर्वार्थसिद्धिप्रसङ्गः, ऊहस्य स्वाधीनत्वात् । प्रभूतत्वं निरवधित्वं तत्सम्भवाच्चेत्यर्थः ।
यद्यूहात्सर्वसिद्धिस्तदा पदार्थबन्धमुक्तिनियमा लुप्येरन्नित्याह -
न चेत्यादिना ।
संयोगं दूषयित्वा समवायं दूषयति -
किञ्चान्यदिति ।
तन्मते दूषणान्तरमुच्यत इत्यर्थः । संश्लेषः सङ्ग्रहः । यत एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः । द्व्यणुकं निरवयवासमवेतम् , सावयवत्वात् , आकाशासमवेतभूमिवदिति भावः ।
ननु द्व्यणुकस्यासमवेतत्वे तदाश्रितत्वं न स्यात् , सम्बन्धं विना तदयोगात् । न च संयोगादाश्रितत्वं कार्यद्रव्यस्य प्रकृत्यसंयोगादिति शङ्कते -
कार्येति ।
प्रकृतिविकारयोरभेदादाश्रयाश्रयिभावानुपपत्तिरिष्टेति परिहरति -
नेति ।
भेदात्तद्भाव इति वदन्तं प्रत्याह -
इतरेतराश्रयत्वादिति ।
कथं तर्हि कार्यस्य कारणाश्रितत्वव्यवहारः कल्पितभेदादित्याह -
कारणस्यैवेति ।
परमाणूनां निरवयवत्वमप्ययुक्तमित्याह -
किञ्चेति ।
परमाणवः सावयवाः, अल्पत्वात् , घटवत् । विपक्षे तेषां दिग्भेदावधित्वं न स्यादात्मवदित्यर्थः ।
ननु परमाण्वपेक्षया योऽयं प्राची दक्षिणेत्यादिदिग्भेदव्यवहारस्तदवधित्वेन येऽवयवास्त्वयोच्यन्ते त एव मम परमाणवस्तेऽपि सावयवाश्चेत्तदवयवा एवेति, एवं यतः परं न विभागः स एव निरवयवः परमाणुरिति शङ्कते -
यांस्त्वमिति ।
परिहरति -
न । स्थूलेति ।
अयमर्थः - यत्सवात्मना विभागायोग्यं वस्तु स परमाणुरिति यद्युच्येत तर्हि ब्रह्मण एव परमाणुसंज्ञा कृता स्यात् , तदन्यस्याल्पस्य दिग्विभागार्हत्वेनावयवविभागावश्यं भावात् । यदि पृथिव्यादिजातीयोऽल्पपरिमाणविश्रान्तिभूमिर्यः स परमाणुरित्युच्येत तर्हि तस्य न मूलकारणत्वम् , विनाशित्वात् , घटवत् । न च हेत्वसिद्धिः, अणवो विनाशिनः, पृथिव्यादिजातीयत्वात् , घटवदिति साधनादिति ।
सम्प्रति निरवयवद्रव्यस्य नाशहेत्वभावादात्मवदविनाश इत्याशङ्क्य पूर्वोक्तं परिहारं स्मारयति -
विनश्यन्त इत्यादिना ।
ब्रह्मातिरिक्तस्याज्ञानिकत्वाच्च द्रव्यस्य निरवयवत्वमसिद्धम् । निमित्तादृष्टादिनाशाद्विनाशः प्रलये सम्भवति, मुक्तौ ज्ञानादज्ञाननाशे तत्कार्याणुनाशसम्भव इति भावः ।
यदुक्तं यत्कार्यद्रव्यं तत्संयोगसचिवानेकद्रव्यारब्धमिति, तन्नेत्याह -
तथा कार्यारम्भोऽपीति ।
कैवल्यं प्राधान्यम् । कार्यद्रव्यस्थितावपि हेतुत्वात्संयोगस्य क्षीरारम्भकसंयोगाद्दध्यारम्भकं न संयोगान्तरम् , तथा च दध्यादौ व्यभिचारान्न व्याप्तिरित्यर्थः । किञ्च यत्कार्यद्रव्यं तद्द्रव्यारभ्यमित्येव व्याप्तिरस्तु लाघवात् , न तु संयोगसचिवस्वन्यूनपरिमाणानेकद्रव्यारभ्यमिति, गौरवात् , दीर्घविस्तृतदुकूलारब्धरज्जौ न्यूनपरिमाणायां व्यभिचाराच्च । न च रज्जुर्न द्रव्यान्तरमिति वाच्यम् , अवयविमात्रविप्लवापातात् । किञ्च निरवयवद्रव्यत्वस्यैकात्मवृत्तित्वे लाघवान्न निरवयवानेकाणुसिद्धिः । यत्त्वणुत्वतारतम्यविश्रान्तिभूमित्वेन तत्सिद्धिरिति । तन्न । त्र्यणुकत्वेनोक्तत्रुटिषु विश्रान्तेः । न च त एव त्रुटिनामानो जगद्धतेव इति वाच्यम् , पृथिवीत्वादिना सावयवत्वानित्यत्वयोरनुमानात् । न चावयवत्वस्य क्वचिद्विश्रान्तौ परमाणुसिद्धिरविश्रान्तावनवस्थेति वाच्यम् , मायायां ब्रह्मणि वावयवत्वविश्रान्तिसम्भवात् । अतो न किञ्चिदणुसद्भावे प्रमाणम् । निरवयवानां संयोगसमवाययोरसम्भवात्समवेतद्व्यणुकाद्यारम्भकत्वायोग इत्यादि बाधकमुक्तमेव ।
सम्प्रति 'अपरिग्रहाच्च' इति सूत्रवाक्यशेषं पूरयन्नधिकरणार्थमुपसंहरति -
तदेवमिति ।
तस्माद्भ्रान्तिमूलेन वैशेषिकमतेन वेदान्ततात्पर्यस्याविरोध इति सिद्धम् ॥१७॥
वैशेषिकं निरस्य वैनाशिकं निरस्यति -
समुदाय इति ।
परिमाणभेदेन देहादेराशुतरविनाशाङ्गीकारादर्धवैनाशिको वैशेषिकस्तस्य निरासानन्तरं सर्वक्षणिकवादी बुद्धिस्थो निरस्यत इति प्रसङ्गसङ्गतिमाह -
वैशेषिकेति ।
'नाभाव उपलब्धेः' इति निरसनीयसिद्धान्तादत्र निरस्यसिद्धान्तस्य भेदं वक्तुं तत्सिद्धान्तं विभजते -
स चेति ।
ननु सुगतप्रोक्तागमस्यैक्यात्कुतो बहुप्रकारता, तत्राह -
प्रतिपत्तीति ।
एकस्यैवागमव्याख्यातुः शिष्यस्यावस्थाभेदेन बुद्धिभेदात् , मन्दमध्यमोत्तमधियां शिष्याणां वा भेदाद्बहुप्रकारतेत्यर्थः ।
तानेव प्रकारानाह -
तत्रेति ।
सौत्रान्तिको वैभाषिको योगाचारी माध्यमिकश्चेति चत्वारः शिष्याः ।
तेष्वाद्ययोर्बाह्यार्थानां परोक्षत्वापरोक्षत्वविवादेऽप्यस्तित्वसम्प्रतिपत्तेस्तयोः सिद्धान्तमेकीकृत्य निरस्यत इत्याह -
तत्र ये सर्वास्तित्वेति ।
भूतं भौतिकं बाह्यम् , चित्तं चैत्तं च कामाद्यान्तरमिति विभागः ।
तत्र सन्दिह्यते किं मानमूलो भ्रान्तिमूलो वायं सिद्धान्त इति । तत्र प्रमाणमूल इति पूर्वपक्षयन् सिद्धान्तं तदीयं दर्शयति -
तत्र भूतमिति ।
स्थिरः प्रपञ्चो ब्रह्महेतुक इति वेदान्तसिद्धान्तस्य मानमूलक्षणिकसिद्धान्तविरोधादसिद्धिः पूर्वपक्षे फलम् , सिद्धान्ते तदविरोध इति ज्ञेयम् ।
पृथिव्यादिभूतचतुष्टयं विषयेन्द्रियात्मकं भौतिकं च परमाणुसमुदाय एव नावयव्यन्तरमिति मत्वा परमाणून् विभजते -
चतुष्टये चेति ।
चतुर्विधा इत्यर्थः । खरः कठिनस्तत्स्वभावाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णास्तैजसाः, ईरणं चलनस्वभावो वायव्यानामिति ।
बाह्यसमुदायमुक्त्वाध्यात्मिकसमुदायमाह -
तथेति ।
सविषयेन्द्रियाणि रूपस्कन्धः विषयाणां बाह्यत्वेऽपि देहस्थेन्द्रियग्राह्यत्वादाध्यात्मिकत्वम् , अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदनास्कन्धः, गौरश्व इत्येवं नामविशिष्टसविकल्पकप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माधर्माः संस्कारस्कन्धः । तत्र विज्ञानस्कन्धश्चित्तमात्मेति गीयते । अन्ये चत्वारः स्कन्धाश्चैत्तास्तेषां सङ्घात आध्यात्मिकः । सकललोकयात्रानिर्वाहक इत्यर्थः ।
अवयवातिरिक्तावयव्यनुपलब्धेरवयवाः शिष्यन्ते, यत्सत्तत्क्षणिकम् , यथा विद्युदिति तेषां क्षणिकत्वमिति मानमूलोऽयं सिद्धान्त इति प्राप्ते सिद्धान्तसूत्रं योजयति -
योऽयमिति ।
सर्गादौ परमाणूनां च स्कन्धानां च स्वतःसङ्घातस्तावन्न सम्भवति, अचेतनत्वात् । नापि चित्ताख्यमभिज्वलनं विज्ञानं समुदायहेतुः, सङ्घाते देहाकारे जाते विज्ञानं विज्ञाने जाते सङ्घात इत्यन्योन्याश्रयात् । न च क्षणिकविज्ञानादन्यः कश्चिज्जीव ईश्वरो वा त्वयाभ्युपगम्यते यः सङ्घातकर्ता भवेत् । न च कर्तारमनपेक्ष्याणवः स्कन्धाश्च स्वयमेव सङ्घातार्थं प्रवर्तन्त इति वाच्यम् , अनिर्मोक्षप्रसङ्गात् ।
नन्वालयविज्ञानसन्तानः संहन्तास्त्वित्यत आह -
आशयस्येति ।
आशेरतेऽस्मिन् रागादय इत्याशयः सन्तानः, स किं सन्तानिभ्योऽन्यो विज्ञानिभ्योऽन्योऽनन्यो वा । आद्येऽपि स्थिरः क्षणिको वा । नाद्यः, अस्मदिष्टनित्यात्मवादप्रसङ्गात् ।
द्वितीये दोषमाह -
क्षणिकत्वेति ।
क्षणिकस्य जन्मातिरिक्तव्यापारो नास्ति, तस्मात्तस्य परमाण्वादिमेलनार्थं प्रवृत्तिरनुपपन्ना । क्षणिकत्वव्याघातादित्यर्थः । एतेनानन्यः सन्तान इति पक्षो निरस्तः, क्षणिकस्य मेलकत्वानुपपत्तेः । तस्मात्संहन्तुरसत्त्वात्सङ्घातानुपपत्तिरित्यर्थः ॥१८॥
संहन्तुरभावेऽपि सङ्घातोपपत्तिमाशङ्क्य निषेधति -
इतरेति ।
कार्यं प्रत्ययते गच्छतीति प्रत्ययः कारणम् । अविद्यादिभिरेवार्थात्सङ्घातसिद्धौ व्यवहारोपपत्तिरित्यर्थः ।
अविद्यादीनाह -
ते चेति ।
क्षणिकेषु स्थिरत्वबुद्धिरविद्या, ततो रागद्वेषमोहाः संस्कारा भवन्ति, तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते, तस्माच्चालयविज्ञानात्पृथिव्यादिचतुष्टयं नामाश्रयत्वान्नाम भवति । ततो रूपं सितासितात्मकं शुक्रशोणितं निष्पद्यते ।गर्भस्य कललबुद्बुदावस्था नामरूपशब्दार्थ इति निष्कर्षः । विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत्षडायतनम् , नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः, ततः सुखादिका वेदना, तया पुनर्विषयतृष्णा, तया प्रवृत्तिरूपादानम् , तेन भवत्यस्माज्जन्मेति भवो धर्मादिः, ततो जातिर्देहजन्म पञ्चस्कन्धसमुदाय इति यावत् । जातानां स्कन्धानां परिपाको जरास्कन्धः, मरणं नाशः, म्रियमाणस्य पुत्रादिस्नेहादन्तर्दाहः शोकः, तेन हा पुत्रेत्यादिविलापः परिदेवना, अनिष्टानुभवो दुःखम् , तेनं दुर्मनस्ता मानसी व्यथा, इतिशब्दो मानापमानादिक्लेशसङ्ग्रहार्थः ।
न केवलं सुगतानामेवाविद्यादयः सम्मताः, किन्तु सर्ववादिनामपीत्याह -
सर्वेषामिति ।
अविद्यादिहेतुका जन्मादयो जन्मादिहेतुकाश्चाविद्यादय इति मिथो हेतुहेतुमद्भावादर्थात्सङ्घातसिद्धिरिति शङ्कामुपसंहरति -
तदेवमिति ।
सिद्धान्तभागं व्याचष्टे -
तन्नेति ।
अविद्यादीनामुत्तरोत्तरहेतुत्वमङ्गीकृत्य सङ्घातहेत्वभावात्सङ्घातो न स्यादित्युक्ते पूर्वोक्तं स्मारयति -
नन्विति ।
किमविद्यादयः सङ्घातस्य गमका उतोत्पादका इति विकल्प्याद्ये सङ्घातस्योत्पादकं किञ्चिद्वाच्यम् , तन्नास्तीत्याह -
अत्रोच्यते, यदीति ।
आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् । अदृष्टाश्रयेष्वित्यर्थः ।
यदा स्थिरेष्वणुषु सङ्घातयोग्येषु कर्तृषु चादृष्टसहायेषु सत्सु ज्ञानाभावमात्रेण संहतिकर्तृत्वायोगात्सङ्घातापत्तेर्निमित्तं नास्तीत्युक्तं तदा क्षणिकपक्षे तन्नास्तीति किमु वक्तव्यमित्याह -
किमिति ।
आश्रयाश्रयः सङ्घातकर्ता तच्छून्येष्वित्यर्थः । 'आश्रयाश्रयिशून्येषु' इति पाठे उपकार्योपकारकत्वशून्येष्वित्यर्थः ।
द्वितीयं शङ्कते -
अथायमिति ।
सङ्घातस्याविद्यादीनां चोत्पत्तावन्योन्याश्रयः स्यादिति दूषयति -
कथमिति ।
स्वाभाविकः खल्वयं सङ्घातानां हेतुहेतुमद्भावेन प्रवाहो न संहन्तारमपेक्षते, पूर्वसङ्घाताश्रया अविद्यादय उत्तरसङ्घातप्रवर्तका इति नान्योन्याश्रयदोषोऽपीत्याशङ्कते -
अथ मन्यस इति ।
स्वभावस्य नियमानियमयोरपसिद्धान्तापातः स्यादिति परिहारार्थः । पूर्यते गलति चेति पुद्गलो देहः ।
किञ्च भोक्तुः क्षणिकत्वपक्षे भोगापवर्गव्यवहारोऽपि दुर्घट इत्याह -
अपि चेति ।
यो यदिच्छति स तत्काले नास्ति चेदिच्छा व्यर्था, अस्ति चेत्क्षणिकत्वभङ्ग इत्यर्थः ।
प्रकृतं सङ्घातनिरासमुपसंहरति -
तस्मादिति ॥१९॥
द्विविधो हि कार्यसमुत्पादः सुगतसम्मतो हेत्वधीनः कारणसमुदायाधीनश्चेति । तत्राविद्यातः संस्कारस्ततो विज्ञानमित्येवंरूपः प्रथमः, पृथिव्यादिसमुदायात्काय इत्येवं द्वितीयः । तत्राद्यमङ्गीकृत्य द्वितीयः सङ्घातकर्त्रभावेन दूषितः । सम्प्रत्याद्यं दूषयति सूत्रकारः -
उत्तरेति ।
क्षणिकोऽर्थः क्षणिक इत्युच्यते । निरुध्यमानत्वं विनाशकसान्निध्यम् , निरुद्धत्वमतीतत्वम् ।
ननु कार्यकाले विनाशव्याप्तत्वेऽपि पूर्वक्षणे सत्त्वात्क्षणिकार्थस्य हेतुत्वमक्षतमिति शङ्कते -
अथ भावेति ।
सद्रूप इत्यर्थः ।
किं हेतोरुत्पत्त्यतिरिक्तः कार्योत्पादनाख्यो व्यापारः, अनतिरिक्तो वा । नाद्य इत्युक्त्या द्वितीयं शङ्कते -
अथेति ।
भाव उत्पत्तिः । उक्तं हि 'भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत' इति । येषां क्षणिकभावानां या भूतिः सैव क्रिया कारकं चेत्यर्थः । नष्टस्यापि निमित्तत्त्वं स्यान्नोपादानत्वम् , तथा च मृदादेर्घटादिकालासत्त्वे घटाद्यनुत्पत्तिः ।
सत्त्वे च क्षणिकत्वहानिरिति परिहरति -
तथापीत्यादिना ।
प्रथमपक्षेक्तदोषं द्रढयति -
विनैवेति ।
वस्तुनो जन्मध्वंसानिरूपाणाच्च न क्षणिकत्वमित्याह -
अपि चेति ।
तयोः स्वरूपत्वे वस्तुन्यन्तर्भावाद्वस्तुनोऽनाद्यनन्तत्वमित्यपि द्रष्टव्यम् ।
द्वितीयं शङ्कते -
अथास्तीति ।
विशेषमेवाह -
उत्पादेति ।
दूषयति -
एवमपीति ।
ताभ्यां संसर्गे वस्तुनः क्षणिकत्वभङ्गः स्यात् ।
संसर्ग एव नास्तीति तृतीयकल्पमुत्थाप्य दूषयति -
अथात्यन्तेति ॥२०॥
सूत्रं व्याख्यातुं वृत्तं स्मारयति -
क्षणभङ्गेति ।
किं कार्योत्पत्तिर्निर्हेतुका सहेतुका वा । आद्ये प्रतिज्ञाहानिरित्याह -
अथासत्येवेत्यादिना ।
विषयकरणसहकारिसंस्काराश्चतुर्विधा हेतवस्तान् प्रतीत्य प्राप्य चित्तं रूपादिविज्ञानं चैत्ताश्चित्तात्मकाः सुखादयश्च जायन्त इति प्रतिज्ञार्थः । यथा नीलविज्ञानस्य नीलवस्त्वालम्बनप्रत्ययो विषयः, चक्षुः करणमधिपतिप्रत्ययः, सहकारिप्रत्यय आलोकः, समनन्तरपूर्वप्रत्ययः संस्कार इति भेदः ।
प्रतिज्ञाहानिं पुरुषदोषमुक्त्वा वस्तुदोषमप्याह -
निर्हेतुकायां चेति ।
सहेतुकत्वपक्षेऽन्वयिकारणस्य मृदादेः कार्यसहभावापत्त्या क्षणिकत्वप्रतिज्ञाहानिरिति सूत्रशेषं व्याचष्टे -
अथोत्तरक्षणेत्यादिना ।
सम्यक्क्रियन्त इति संस्काराः । आद्यन्तवन्तो भावा इत्यर्थः ॥२१॥
एवमाद्यसूत्राभ्यां समुदायो निरस्तः । उत्तरसूत्राभ्यां कार्यकारणभावक्षणिकत्वे निरस्ते । सम्प्रति तदभिमतं द्विविधं विनाशं दूषयति -
प्रतिसङ्ख्येति ।
संस्कृतमुत्पाद्यं बुद्धिबोध्यं प्रमेयमात्रम् , त्रयात्तुच्छरूपादन्यदित्यर्थः ।
किं तत्त्रयम् , तदाह -
तदपीति ।
निरुपाख्यं निःस्वरूपम् । प्रतीपा प्रतिकूला सङ्ख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसङ्ख्या, तया निरोधः कस्यचिद्भावस्य भवति ।
अबुद्धिपूर्वकस्तु स्तम्भादीनां स्वरसभङ्गुराणामित्याह -
तद्विपरीत इति ।
परक्रियामुक्त्वा सूत्रं व्याचष्टे -
तेषामिति ।
भावाः सन्तानिनः । सन्तानो नाम भावानां हेतुफलभावेन प्रवाहः, तस्मिन् सन्ताने चरमक्षणः क्षणान्तरं करोति वा न वा । आद्ये चरमत्वव्याघातः, सन्तानाविच्छेदात् । द्वितीये चरमस्यासत्त्वप्रसङ्गः, अर्थक्रियाकारित्वं सत्त्वमिति स्वसिद्धान्तात् , चरमस्यासत्त्वे पूर्वेषामप्यसत्त्वप्रसङ्गः, अर्थक्रियाशून्यत्वात् ।
तस्मात्सन्तानस्य विच्छेदासम्भवान्निरोधाप्राप्तिरित्याह -
न तावदिति ।
न द्वितीय इत्याह -
नापीति ।
घटकपालचूर्णाद्यवस्थासु सेयं मृदिति प्रत्यभिज्ञानादन्वयिभावस्य मृदादेर्नात्यन्तिकविनाश इत्यर्थः ।
बीजस्याङ्कुरादिषु प्रत्यभिज्ञानादर्शनादन्वयिनो विच्छेद इत्यत आह -
अस्पष्टेति ।
अङ्कुरादयोऽनुस्यूतान्वयिभावस्थाः, कार्यत्वात् पटवदित्यन्वय्यविच्छेदसिद्धिरित्यर्थः । यस्माद्भावानां स्थायित्वं तस्मात्प्रतिक्षणनिरोधासम्भव इत्युपसंहारः ॥२२॥
अविद्यादीनां प्रतिसङ्ख्यानिरोधं तदभिमतं दूषयति -
उभयथेति ।
यमनियमादयः परिकराः । सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः ॥२३॥
आगमप्रामाण्यादिति ।
तत्राकाशस्य कार्यत्वोक्त्या घटादिवद्वस्तुत्वं प्रसिध्यतीत्यर्थः ।
नन्वागमप्रामाण्ये विप्रतिपन्नान्सुगतान्प्रत्याकाशस्य वस्तुत्वं कथं सिध्यतीत्यत आह -
विप्रतिपन्नानिति ।
शब्दो वस्तुनिष्ठः गुणत्वात् , गन्धादिवदित्यनुमानादाकाशस्य वस्तुत्वं सिध्यति । पृथिव्याद्यष्टद्रव्याणां श्रोत्रग्राह्यगुणाश्रयत्वायोगादित्यर्थः ।
आकाशस्य भावत्वं प्रसाध्याभावत्वं दूषयति -
अपि चेति ।
यथैकघटसत्त्वेऽपि घटसामान्याभावो नास्ति तथैकपक्षिसत्त्वेऽपि मूर्तद्रव्यसामान्याभावात्मकाकाशो नास्त्येवेति पक्ष्यन्तरसञ्चारो न स्यादित्यर्थः ।
देशविशेषावच्छेदेनावरणाभावोऽस्तीत्याशङ्क्याभावावच्छेदकदेशविशेष एवाकाशो नाभाव इत्याह -
यत्रेत्यादिना ।
पतिष्यति । पक्षी सञ्चरिष्यतीत्यर्थः ।
आकाशस्यावस्तुत्वं स्वग्रन्थविरुद्धं चेत्याह -
अपि चेति ।
किं सम्यक् निश्रय आश्रयोऽस्या इति किंसन्निश्रया । अवस्तुनः शशविषाणस्याश्रयत्वादर्शनादिति ।
व्याघातान्तरमाह -
अपि चेति ।
ध्वंसाप्रतियोगिताख्यो धर्मो नित्यत्वं नासति सम्भवति । धर्मिणोऽसत्त्वव्याघातादित्यर्थः ॥२४॥
आत्मनः क्षणिकत्वं दूषयति -
अनुस्मृतेरिति ।
अनुभवजन्यस्मृतिरनुस्मृतिस्तस्यामनुभवसमानाश्रयत्वात्तदुभयाश्रयात्मनः स्थायित्वमित्यर्थः ।
क्षणिकत्वे ज्ञानद्वयानुसन्धानं च न स्यादित्याह -
कथं ह्यहमिति ।
पूर्वदर्शनकर्तुरद्राक्षमिति स्मरणकर्तैक्यप्रत्यभिज्ञानाच्चात्मानः स्थायित्वमित्याह -
अपि चेति ।
योऽहमदः पूर्वमद्राक्षं स एवाहमद्य तत्स्मरामीति प्रत्यभिज्ञानाकारो द्रष्टव्यः । इदं पश्यामीति ज्ञानान्तरसम्बन्धकथनम् , योऽहमद्राक्षं सोऽहं पश्यामीति प्रत्यभिज्ञान्तरद्योतनार्थम् ।
विपक्षे बाधकमाह -
यदि हीति ।
द्रष्टृस्मर्त्रोर्भेदेऽहं स्मरामि अन्योऽद्राक्षीदिति प्रतीतिः स्यादित्यत्र दृष्टान्तमाह -
यत्रैवमिति ।
प्रत्ययमाह -
स्मरामीति ।
स्मराम्यहमन्योऽद्राक्षीदिति प्रत्ययो यत्र तत्र भिन्नमेव कर्तारं लोकोऽवगच्छतीत्यविवादमित्यर्थः ।
प्रकृतप्रत्यभिज्ञायां तादृशभेदप्रत्ययस्य बाधकस्यादर्शनादात्मस्थायित्वं दुर्वारमित्याह -
इह त्वहमद इति ।
यथाग्नेरौष्ण्यादिकं न बाधते कश्चित्तथा नाहमद्राक्षमिति पूर्वदर्शनं न निह्नुत इत्यनेन बाधाभावात्प्रत्यभिज्ञा प्रमेत्युक्तं भवति ।
तथा द्रष्टृस्मर्त्रोरैक्ये सति स्थायित्वं फलितमित्याह -
तत्रैवं सतीति ।
क्षणद्वयसम्बन्धेऽप्यात्मनस्तृतीयक्षणे भङ्गोऽस्त्विति वदन्तं प्रत्याह -
तथेति ।
वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरामनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन्ना जन्मनश्च वर्तमानदशापर्यन्तमतीताः प्रतिपत्तीः स्वकर्तृकाः प्रतिसन्दधानःसन्निति योजना ।
दीपज्वालास्विवात्मनि प्रत्यभिज्ञानं सादृश्यदोषादिति शङ्कते -
स इति ।
सादृश्यज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनत्वात्स्थिरस्य ज्ञातुरसत्त्वान्न सादृश्यज्ञानं सम्भवति, सत्त्वे वापसिद्धान्तः स्यादिति परिहरति -
तमित्यादिना ।
स्यादेतत् । न सादृश्यप्रत्ययः पूर्वोत्तरवस्तुद्वयज्ञानजन्यस्तद्द्वयसादृश्यावगाही, किं तर्हि कश्चिदेष विकल्पः स्वाकारमेव बाह्यत्वेन विषयीकुर्वाणः क्षणान्तरास्पर्शी, अतो न स्थिरद्रष्ट्रपेक्षेति शङ्कते -
तेनेदमिति ।
अत्र वक्तव्यं सादृश्यप्रत्यये तेनेदं सदृशमिति वस्तुत्रयं भासते न वेति । नेति वदतः स्वानुभवविरोधः । किञ्चार्थभेदाभावात्पदत्रयप्रयोगो न स्यात् ।
तस्मात्पदत्रयेण मिथःसंसृष्टभिन्नार्थभानादभानमसिद्धमिति परिहरति -
न तेनेति ।
अथ भासते वस्तुत्रयं तच्च प्रत्ययाभिन्नमेव न बाह्यमिति चेत् । न । त्रयाणामेकप्रत्ययाभेदे मिथोऽप्यभेदापत्तेः ।
इष्टापत्तिरिति ब्रुवाणं विज्ञानवादिनं प्रत्याह -
यदा हीति ।
वस्तुत्रयं ज्ञेयं सादृश्यप्रत्ययाद्भिन्नं सर्वलोकप्रसिद्धं तच्चेन्नाङ्गीक्रियते स्थायिद्रष्टृप्रसङ्गभयेन, तर्हि तत्तदाकाराणां क्षणिकविज्ञानानां मिथो वार्तानभिज्ञत्वादेकस्मिन् धर्मिणि विरुद्धानेकपक्षस्फुरणात्मकविप्रतिपत्त्यसम्भवात्स्वपक्षसाधनादिव्यवहारो लुप्येत, अतो यथानुभवं ज्ञानज्ञेयभेदोऽङ्गीकार्यः । तथा च तेनेदं सदृशमिति बाह्यार्थयोर्ज्ञानपूर्वकं सादृश्यं जानत आत्मनः स्थायित्वं दुर्वारमित्यर्थः ।
ननु सन्त्येव बाह्यार्थाः क्षणिकस्वलक्षणा निर्विकल्पकग्राह्याः, सविकल्पाध्यवसेयास्तु स्थायित्वसादृश्यादयो बाह्याः कल्पिता अवभासन्ते, अतो विप्रतिपत्त्यादिव्यवहार इति बाह्यार्थवादमाशङ्क्य निरस्यति -
एवमेवेति ।
यत्प्रमाणसिद्धं तदेव वक्तव्यम् । न हि क्षणिकत्वे किञ्चित्प्रमाणमस्ति । न चेदानीं घट इति प्रत्यक्षमवर्तमानकालासत्त्वं घटस्य गोचरयद्वर्तमानक्षणमात्रसत्त्वरूपे क्षणिकत्वे मानमिति वाच्यम् , तस्य वर्तमानत्वमात्रगोचरत्वेन कालान्तरासत्त्वासिद्धेः । न च यत्सत्तत्क्षणिकमिति व्याप्तिरस्ति, विद्युदादेरपि द्वित्रिक्षणस्थायित्वेन दृष्टान्ताभावात् । न च स्थायिनमनुमातारमन्तरेणानुमानं सम्भवति । तस्मादमानसिद्धार्थवक्ता तथागतोऽश्रद्धेयवचन इत्यर्थः । किञ्च सादृश्यं प्रत्यभिज्ञायां दोषतया निमित्तं विषयतया वा । आद्येऽपि स्वरूपसत् ज्ञातं वा । नाद्यः, मन्दान्धकारे शुक्तिमात्रग्रहे श्वैत्याज्ञानेऽपि रूप्याभेदभ्रमापत्तेः । न द्वितीयः, स्थायिज्ञातारं विना तज्ज्ञानासम्भवस्योक्तत्वात् ।
नापि विषयतया निमित्तमित्याह -
न चेति ।
सोऽहमित्युल्लेखात्तेनाहं सदृश इत्यनुल्लेखादित्यर्थः ।
सोऽहमिति प्रत्यभिज्ञाया भ्रमत्वं निरस्य संशयत्वं निरस्यति -
भवेदिति ।
जडार्थे प्रत्यभिज्ञातेऽपि बाधसम्भावनया संशयः कदाचित्स्यान्नात्मनीत्यर्थः ।
असन्दिग्घाविपर्यस्तप्रत्यभिज्ञाविरोधादात्मक्षणिकत्वमतमत्यन्तासङ्गतमित्युपसंहरति -
तस्मादिति ॥२५॥
अभावः शशविषाणवदत्यन्तासन्नित्यङ्गीकृत्य मृदादिनाशादसतो घटादिकं जायते इति सुगता वदन्ति, तद्दूषयति -
नासत इति ।
न केवलं बलादापद्यते किन्तु स्वयं दर्शयन्ति च । द्वौ नञौ प्रकृतार्थं गमयतः ।
मृदादिकमुपमृद्य घटादेः प्रादुर्भावादितीममर्थमाह -
विनष्टादिति ।
कारणविनाशात्कार्यजन्मेत्यत्र युक्तिमाह -
कूटस्थादिति ।
विनाशशून्यात् । नित्यादित्यर्थः । नित्यस्य निरतिशयस्य कार्यशक्तत्वे तत्कार्याणि सर्वाण्येकस्मिन्नेव क्षणे स्युः, तथा चोत्तरक्षणे कार्याभावादसत्त्वापत्तिः । न च सहकारिकृतातिशयक्रमात्कार्यक्रम इति युक्तम् । अतिशयस्यातिशयान्तरापेक्षायामनवस्थानात् । अनपेक्षायां कार्यस्याप्यतिशयानपेक्षत्वेन सहकारिवैयर्थ्यात् । तस्मान्न स्थायिभवात्कार्यजन्मेत्यर्थः । क्षणिकभावस्य हेतुत्वम् 'उत्तरोत्पादे च' इत्यत्र निरस्तम् ।
अभावस्य हेतुत्वनिरासार्थं सूत्रं व्याचष्टे -
तत्रेदमिति ।
यदि बीजाभावस्याभावान्तराद्विशेषः स्यात् , तदा विशेषवदभावद्वारा बीजादेवाङ्कुर इति लौकायतिकानामभ्युपगमोऽर्थवान्स्यात् , न सोऽस्तीत्याह -
येनेति ।
सूत्रं योजयति -
निर्विशेषस्येति ।
शशविषाणादेः कार्यकारित्वस्यादृष्टत्वान्नाभावस्यासतो हेतुत्वमित्यर्थः ।
अस्त्वभावस्यापि विशेष इत्यत आह -
यदीति ।
अभावस्य हेतुत्वेऽतिप्रसङ्ग इति तर्कमुक्त्वानुमानमाह -
नापीति ।
अभावो न हेतुः, असत्त्वात् । सम्मतवदित्यर्थः ।
अभावो न प्रकृतिः, कार्यानन्वितत्वात् , यथा शरावाद्यनन्वितस्तन्तुर्न शरावादिप्रकृतिरिति तर्कपूर्वकमाह -
अभावाच्चेति ।
अतोऽन्वितत्वान्मृदादिर्भाव एव प्रकृतिरित्याह -
मृदिति ।
स्थायिनः कारणत्वायोगमुक्तमनूद्य दूषयति -
यत्तूक्तमित्यादिना ।
अनुभवबलात्स्थिरस्वभावानामेव सहकारिसन्निधिक्रमेण कार्यक्रमहेतुत्वमङ्गीकार्यम् । न च शक्तस्य सहकार्यपेक्षा न युक्तेति वाच्यम् , यतोऽशक्तस्यापि नापेक्षेत्यसहकारि विश्वं स्यात् । ततः स्वर्णादौ स्वतोऽतिशयशून्येऽग्नितापादिसहकारिकृतातिशयक्रमाद्रुचकादिकार्यक्रमः । न चातिशयस्यातिशयान्तरानपेक्षत्वे कार्यस्याप्यनपेक्षेति वाच्यम् , पटस्य मृदनपेक्षत्वे कार्यत्वाविशेषाद्घटस्यापि मृदनपेक्षाप्रसङ्गादन्वयव्यतिरेकाभ्यामपेक्षा सहकारिष्वपि तुल्या । यदुक्तं कार्याभावदशायां कारणस्यासत्त्वापत्तिरिति । तन्न । अकारणस्यापि बाधाभावेन सत्त्वोपपत्तेः । न ह्यर्थक्रियाकारित्वमेव सत्त्वम् , असतस्तदयोगेन सत्त्वस्य ततो भेदात् । सतो ह्यर्थक्रियाकारित्वं नासतः । अतः कारणतावच्छेदकमबाधितस्वरूपात्मकं सत्त्वं कारणत्वाद्भिन्नमेव । तस्मादनुस्यूतस्थिरभावानां हेतुत्वमुपपन्नमिति भावः ।
पूर्वापरविरोधमप्याह -
अपि चेति ॥२६॥
अभावादुत्पत्तौ शशविषाणादप्युत्पत्तिः स्यादित्युक्तम् । अतिप्रसङ्गान्तरमाह -
उदासीनानामिति ।
अनीहमानानां प्रयत्नशून्यानाम् । अमत्रं घटादिपात्रम् । तन्वानस्यव्यापारयतः । तस्माद्भ्रान्तिमूलेन क्षणिकबाह्यार्थवादेन कूटस्थनित्यब्रह्मसमन्वयस्य न विरोध इति सिद्धम् ॥२७॥
नाभाव उपलब्धेः ।
अखण्डनिर्विशेषं ब्रह्म विज्ञानं बाह्यार्थोपादानं वदतां वेदान्तानां भिन्नं साकारं क्षणिकं विज्ञानं न ततोऽन्योऽर्थोऽस्तीति योगाचारमतेन विरुध्यते न वेति तन्मतस्य मानभ्रान्तिमूलत्वाभ्यां संशये पूर्वोक्तबाह्यार्थवादनिरासमुपजीव्य पूर्वपक्षमाह -
एवमित्यादिना ।
पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलम् ।
नन्वेकस्य सुगतागमस्य कथं बाह्यार्थसत्त्वासत्त्वयोस्तात्पर्यं विरोधादित्याशङ्क्याधिकारिभेदादविरोध इति वदन् विज्ञानवादिनः सुगताभिप्रायज्ञत्वेन मन्दाधिकारिभ्यो बाह्यार्थवादिभ्यः श्रैष्ठ्यमाह -
केषाञ्चिदिति ।
उक्तं च धर्मकीर्तिना 'देशना लोकनाथानां सत्त्वाशयवशानुगाः' इति । सुगतानामुपदेशाः शिष्यमत्यनुसारिण इत्यर्थः ।
नन्वसति बाह्यार्थे मानमेयव्यवहारः कथम् , तत्राह -
तस्मिन्निति ।
विज्ञानमेव कल्पितनीलाद्याकारत्वेन प्रमेयम् , अवभासात्मना मानफलम् , शक्त्यात्मना मानम् , शक्त्याश्रयत्वाकारेण प्रमातेति भेदकल्पनया व्यवहार इत्यर्थः ।
मुख्य एव भेदः किं न स्यादत आह -
सत्यपीति ।
न हि बुद्ध्यनारूढस्य नीलादेः प्रमेयत्वव्यवहारोऽस्ति । अतो बुद्ध्यारूढाकार एव प्रमेयं न बाह्यमित्यर्थः ।
बाह्यार्थासत्त्वे प्रश्नपूर्वकं युक्तीरुपन्यस्यति -
कथमित्यादिना ।
ज्ञेयं ज्ञानातिरेकेणासत् , तदतिरेकेणासम्भवात् , नरशृङ्गवदित्याह -
तदसम्भवादिति ।
असम्भवं विवृणोति -
स हीति ।
परमाणवश्चेदेकस्थूलस्तम्भ इति ज्ञानं न स्यात् । समूहस्त्वसन्नित्यर्थः ।
अवयव्यभावेऽपि जात्यादयो बाह्यार्थाः स्युः, तत्राह -
एवमिति ।
जातिगुणकर्मणां धर्मिणः सकाशादभेदेऽत्यन्तभेदे वा धर्मिवद्धर्म्यन्तरवच्च न धर्मधर्मिभावः । भेदाभेदौ च विरुद्धाविति न सन्ति जात्याद्यर्था इत्यर्थः ।
किञ्च ज्ञानस्य ज्ञेयसारूप्यरूपविशेषसम्बन्धाभावे सर्वविषयत्वापत्तेर्विशेषोऽङ्गीकार्यः, तथा च ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिर्मानाभावाद्गौरवाच्चेत्याह -
अपि चेति ।
पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः ।
किञ्च ज्ञेयं ज्ञानाभिन्नम् , ज्ञानोपलम्भक्षणनियतोपलम्भग्राह्यत्वात् , ज्ञानवदित्याह -
अपि चेति ।
ज्ञानार्थयोः वास्तवभेदेऽपि सहोपलम्भनं स्यात् , ग्राह्यग्राहकभावादित्यत आह -
न चैतदिति ।
क्षणिकज्ञानस्यार्थेन सम्बन्धहेत्वभावान्न ग्राह्यग्राहकभाव इत्यर्थः ।
किञ्च जाग्रद्विज्ञानं न बाह्यालम्बनम् , विज्ञानत्वात् , स्वप्नादिज्ञानवदित्याह -
स्वप्नेति ।
विज्ञानानां वैचित्र्यानुपपत्तिबाधितमनुमानमिति शङ्कते -
कथमिति ।
अन्यथोपपत्त्या परिहरति -
वासनेति ।
अनादिसन्तानान्तर्गतपूर्वज्ञानमेव वासना, तद्वशादनेकक्षणव्यवधानेऽपि नीलाद्याकारज्ञानवैचित्र्यं भवति, यथा बीजवासनया कार्पासरक्तत्वं तद्वदित्यर्थः ।
उभयवादिसम्मतत्वाच्च वासना एव ज्ञानवैचित्र्यहेतवो न बाह्यार्था इत्याह -
अपि चेति ।
क्षणिकविज्ञानमात्रवादस्य मानमूलत्वात्तेन नित्यविज्ञानवादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -
नाभाव इत्यादिना ।
किं बाह्यार्थस्यानुपलब्धेरभाव उत ज्ञानाद्भेदेनानुपलब्धेः ।
नाद्य इत्युक्तम् -
उपलब्धेरिति ।
द्वितीयं शङ्कते -
ननु नाहमिति ।
ज्ञानज्ञेययोर्विषयिविषयभावेन भेदस्य साक्षिप्रत्यक्षसिद्धत्वात्प्रत्यक्षविरुद्धमभेदाभिधानमित्याह -
बाढमित्यादिना ।
त्वद्वचनादपि जनो बाह्यार्थं ज्ञानाद्भेदेनैवोपलभत इत्याह -
अतश्चेति ।
बाह्यार्थस्यात्यन्तासत्त्वे प्रत्यक्षोपलम्भायोगात् , दृष्टान्तत्वासम्भवाच्च बहिर्वच्छब्दो न स्यादित्याह -
इतरथेति ।
अबाधितभेदानुभवादेवकारो युक्तो न वत्कार इत्याह -
तस्मादिति ।
ज्ञेयार्थो ज्ञानातिरेकेणासन्नसम्भवादित्युक्तबाधाद्वत्करणमिति शङ्कते -
नन्विति ।
कोऽसावसम्भवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्कटकोटिकसंशयात्मकसम्भवस्याभावो वा । नाद्यः, साध्याभेदात् ।
न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूलत्वद्वित्वघटत्वस्तम्भत्वरूपविरुद्धधर्मवतोरर्थयोरस्थूलादेकस्माद्वयावगाहिविज्ञानाद्भेदसत्त्वनिश्चये नासम्भवासिद्धरित्याह -
नायं साधुरिति ।
सम्भवः सत्तानिश्चयः प्रमाणाधीनः ।
असम्भवोऽसत्त्वनिश्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति -
यद्धीति ।
उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः सम्भवं वदन्नेव तृतीयं दूषयति -
इहेति ।
प्रमाणनिश्चितबाह्यार्थस्य स्तम्भादेः परमाणुभ्यो भेदाभेदविकल्पैरयुक्तत्वमात्रेणासत्त्वनिश्चयो न युक्तः, त्वत्पक्षेऽप्ययुक्तत्वस्य तुल्यत्वात् । न ह्यस्थूलस्यैकस्य विज्ञानस्य स्थूलानेकसमूहालम्बनस्य विषयाभेदो युक्तः, स्थूलत्वानेकत्वप्रसङ्गात् । न चेष्टापत्तिः, समूहालम्बनोच्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विषयद्वित्वादिव्यवहारलोपापत्तेः । तस्मादयुक्तत्वेऽपि यथानुभवं व्यवहारयोग्योऽर्थः स्वीकार्यः । न चतुर्थः, निश्चिते तादृशसम्भवस्यानुपयोगात् । तस्य क्वचित्प्रमाणप्रवृत्तेः पूर्वाङ्गत्वादिति भावः ।
यच्चोक्तं ज्ञानगतार्थसारूप्यस्यैव ज्ञानालम्बनत्वोपपत्तेर्बहिरर्थाभाव इति, तत्राह -
न चेति ।
यत्तु गौरवमुक्तम् , तन्न दूषणम् , प्रामाणिकत्वादित्याह -
बहिरिति ।
यत एव ज्ञानार्थयोर्भेदः सर्वलोके साक्ष्यनुभवसिद्धः, अत एव सहोपलम्भनियमोऽपि नाभेदसाधक इत्याह -
अत एवेति ।
यथा चाक्षुषद्रव्यरूपस्यालोकोपलम्भनियतोपलब्धिकत्वेऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदेऽपि ग्राह्यग्राहकभावेन नियमेपपत्तेः । न च ज्ञानस्य क्षणिकत्वात्स्वभिन्नग्राह्यसम्बन्धायोगः, स्थायित्वादिति भावः ।
विज्ञानमनेकार्थेभ्यो भिन्नम् , एकत्वात् , गोत्ववदिति सत्प्रतिपक्षमाह -
अपि चेति ।
न च हेत्वसिद्धिः, ज्ञानं ज्ञानमित्येकाकारप्रतीतेर्ज्ञानैक्यनिश्चयात् ।
न च सा जातिविषया, व्यक्तिभेदानिश्चयादित्याह -
न विशेष्यस्येति ।
घटादेश्चैतन्याद्भेदमुक्त्वा वृत्तिज्ञानाद्भेदमाह -
तथेति ।
घटो द्वाभ्यां भिन्नः एकत्वात् , क्षीरवदित्यर्थः ।
ज्ञानभिन्नार्थानङ्गीकारे स्वशास्त्रव्यवहारलोपं बाधकमाह -
अपि चेति ।
क्रमिकयोः स्वप्रकाशयोः क्षणिकज्ञानयोर्मिथो ग्राह्यग्राहकत्वमयुक्तमनभ्युपगतं च । तथा च तयोर्भेदप्रतिज्ञा न युक्ता, धर्मिप्रतियोगिनोर्मिथः परेण चाग्रहेण भेदग्रहायोगात् । तथा च तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः । एवं पक्षसाध्यहेतुदृष्टान्तभेदाभावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता । सर्वतो व्यावृत्तं व्यक्तिमात्रत्वं स्वलक्षणम् , अनेकानुगतं सामान्यमतद्व्यावृत्तिरूपमिति प्रतिज्ञा न युक्ता, सर्वानेकार्थानां ज्ञानमात्रत्वे मिथः परेण वा दुर्ज्ञानत्वातुत्तरनीलज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् । किञ्चाविद्योपप्लवोऽविद्यासंसर्गः, तेन नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामूर्तत्वादिप्रतिज्ञा दुर्लभा, अनेकार्थज्ञानसाध्यत्वात् । अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्वर्थज्ञानसाध्या । आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्यहितेपदेशोऽनेकज्ञानसाध्यो गृहीतः । तस्मात्प्रतिज्ञादिव्यवहाराय ग्राह्यग्राहकभेदोऽङ्गीकार्य इत्यर्थः ।
ज्ञानार्थयोभेदे युक्त्यन्तरमस्तीत्याह -
किञ्चान्यदिति ।
ज्ञानवदर्थस्याप्यनुभवाविशेषात्स्वीकारो युक्त इत्यर्थः ।
स्वविषयत्वाद्विज्ञानं स्वीक्रियते नार्थः परग्राह्यत्वादिति शङ्कते -
अथ विज्ञानमिति ।
विरुद्धं स्वीकृत्याविरुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह -
अत्यन्तेति ।
ज्ञानं स्ववेद्यमित्यङ्गीकृत्य मौर्ख्यमापादितम् , वस्तुतः स्ववेद्यत्वमयुक्तमित्याह -
न चेति ।
कर्तरि क्रियां प्रति गुणभूते प्रधानत्वाख्यकर्मत्वायोगात्स्वकर्तृकवेदनकर्मत्वमसदित्यर्थः । न च स्वविषयत्वमात्रं स्ववेद्यत्वमिति वाच्यम् , अभेदे विषयविषयित्वस्याप्यसम्भवादिति भावः ।
ज्ञानस्य स्ववेद्यत्वाभावे दोषद्वयं स्यादिति शङ्कते -
नन्विति ।
अनवस्था च साम्यं चेति दोषद्वयं परिहरति -
तदुभयमपीति ।
अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीयजन्मादिग्रहायोगादस्ति ग्राहकाकाङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निरपेक्षत्वान्नानवस्था । नापि साम्यम् । चिज्जडत्ववैषम्यादित्यर्थः ।
साक्षी क्वेत्यत आह -
स्वयंसिद्धस्येति ।
निरपेक्षस्य साक्षिणोऽसत्त्वे क्षणिकविज्ञानभेदासिद्धेः सोऽङ्गीकार्य इत्यर्थः ।
अनित्यज्ञानस्वरूपसाधकत्वाच्च साक्षी स्वीकार्य इत्याह -
किञ्चेति ।
विज्ञानं ज्ञानान्तरानपेक्षमिति ब्रुवता तस्याप्रामाणिकत्वमुक्तं स्यात् , स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्तं स्यात् , तथा च ज्ञातृज्ञानाविषयत्वाच्छिलास्थप्रदीपवदसदेव विज्ञानं स्यात् । अतस्तत्साक्ष्येष्टव्य इत्यर्थः ।
विज्ञानस्य स्वान्यज्ञातृशून्यत्वमिष्टमेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यम् , स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते -
बाढमिति ।
अभेदे ज्ञातृज्ञेयत्वायोगाज्ज्ञात्रन्तरमावश्यकमिति परिहरति -
नेति ।
विमतं विज्ञानं स्वातिरिक्तवेद्यम् , वेद्यत्वात् , देहवदित्यर्थः ।
अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा । आद्येऽनवस्था । द्वितीये विज्ञानवाद एव भङ्ग्यन्तरेणोक्तः स्यादितिशङ्कते -
साक्षिण इति ।
त्वया विज्ञानं जन्मविनाशयुक्तमुच्यते । अतः कार्यस्य जडत्वनियमात्स्वातिरिक्तवेद्यत्वमस्माभिः साधितम् , कूटस्थचिदात्मनो ग्राहकानपेक्षत्वान्नानवस्थेति चोक्तमतो महद्वैलक्षण्यमावयोरेति परिहरति -
न । विज्ञानस्येति ॥२८॥
एवं वेद्यविज्ञानवदर्थस्याप्युपलब्धेर्न बाह्यार्थाभाव इत्युक्तम् । सम्प्रति जाग्रद्विज्ञानं स्वप्नादिविज्ञानवन्न बाह्यालम्बनमित्यनुमानं दूषयति -
वैधर्म्याच्चेति ।
किमत्र निर्विषयत्वं साध्यमुत पारमार्थिकविषयशून्यत्वम् , अथवा व्यावहारिकविषयशून्यत्वम् । नाद्यः, स्वप्नादिविभ्रमाणामपि मिथ्यार्थालम्बनत्वेन दृष्टान्ते साध्यवैकल्यात् । न द्वितीयः, सिद्धसाधनादिति सूत्रस्थचकारार्थः ।
तृतीये तु व्यवहारदशायां बाधितार्थग्राहित्वमुपाधिरित्याह -
बाध्यते हीत्यादिना ।
निद्राग्लानमिति ।
करणदोषोक्तिः ।
साधनव्यापकत्वनिरासायाह -
न चैवमिति ।
किञ्च प्रमाणजानुभव उपलब्धिः पक्षोऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् ।
परमतेन स्वप्नस्य स्मृतित्वमङ्गीकृत्याह -
अपि चेति ।
स्मृतिप्रत्यक्षोपलब्ध्योर्वैधर्म्यान्तरमाह -
अर्थविप्रयोरेति ।
असम्बन्धश्चावर्तमानश्च स्मृतेरर्थो विषय इति निरालम्बनत्वमप्यस्याः कदाचिद्भवेत् , न सम्प्रयुक्तवर्तमानार्थमात्रग्राहिण्या उपलब्धेरिति भावः ।
पूर्वोक्तप्रमाणाप्रमाणजत्ववैधर्म्योक्तिफलमाह -
तत्रैवंसतीति ।
वैधर्म्ये सतीत्यर्थः । अप्रमाणजत्वोपाधेर्निरालम्बनत्वानुमानं न युक्तमिति भावः ।
वैधर्म्यासिद्धिं निरस्यति -
न चेति ।
बाधमप्याह -
अपि चेति ।
वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो यदि स्यात्तदा किं दृष्टान्ताग्रहेण, प्रत्यक्षतोऽपि वक्तुं शक्यत्वात् । न हि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् । यदि न वस्तुतो धर्मोऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् । अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयानुमातुमारब्धं तथापि बाधो न मुञ्चतीत्यर्थः ।
उक्तोपाधिरपि न विस्मर्तव्य इत्याह -
दर्शितं त्विति ॥२९॥
सूत्रव्यावर्त्यं स्मारयित्वा दूषयति -
यदप्युक्तमित्यादिना ।
भाव उत्पत्तिः सत्ता वा ।
ननु बाह्यार्थानुपलब्धावपि पूर्वपूर्ववासनाबलादुत्तरोत्तरविज्ञानवैचित्र्यमस्तु बीजाङ्कुरवदनादित्वादित्यत आह -
अनादित्वेऽपीति ।
बीजादङ्कुरो दृष्ट इत्यदृष्टेऽपि तज्जातीययोः कार्यकारणभावकल्पना युक्ता, इह त्वर्थानुभवनिरपेक्षवासनोत्पत्तेरादावेव कल्प्यत्वादनादित्वकल्पना निर्मूलेति नाभिप्रेतधीवैचित्र्यसिद्धिरित्यर्थः ।
ननु निरपेक्षवासनानां सत्त्वे धीवैचित्र्यमसत्त्वे तु नेति स्वप्ने दृष्टमिति समूलानवस्थेत्यत आह -
याविति ।
वासनानां बाह्यार्थानुभवकार्यत्वे सति नैरपेक्ष्यासिद्धेर्नान्वयादिदृष्टिरित्यर्थः ।
कार्यत्वग्राहकं व्यतिरेकमाह -
विनेति ।
अर्थानुभवकार्याणां वासनानां तदनपेक्षत्वायोगान्न त्वदुक्तान्वयादिदृष्टिरित्युक्तम् ।
अभिनवार्थोपलब्धिवैचित्र्यस्य वासनां विनापि भावेन व्यतिरेकव्यभिचाराच्च न क्वापि वासनामात्रकृतं धीवैचित्र्यं किन्त्वर्थानुभवे सति वासनासति नेत्यन्वयव्यतिरेकाभ्यां वासनामूलानुभवावच्छेदकार्थकृतमेवेति बाह्यार्थसद्भावसिद्धिरित्याह -
अपि चेति ।
यः संस्कारः स साश्रयो लोके दृष्टः यथा वेगादिरिष्वाद्याश्रयः, अतो विज्ञानसंस्काराणां न भाव आश्रयानुपलब्धेरित्यर्थान्तरमाह -
अपि चेति ॥३०॥
अस्त्वालयविज्ञानमाश्रय इत्यत आह -
क्षणिकत्वाच्चेति ।
सूत्रं व्याचष्टे -
यदपीति ।
सहोत्पन्नयोः सव्येतरविषाणवदाश्रयाश्रयिभावायोगात् , पौर्वापर्ये चाधेयक्षणेऽसत आधारत्वायोगात् , सत्त्वे क्षणिकत्वव्याघातान्नाधारत्वमालयविज्ञानस्य क्षणिकत्वान्नीलादिविज्ञानवदित्यर्थः ।
अस्तु तर्ह्यालयविज्ञानसन्तानाश्रया वासनेत्यत आह -
न हीति ।
सविकारः कूटस्थो वा स्थाय्यात्मा यदि नास्ति तदा सन्तानस्यावस्तुत्वाद्देशाद्यपेक्षया यद्वासनानामाधानं निक्षेपो ये च स्मृतिप्रत्यभिज्ञे यश्च तन्मूलो व्यवहारः, तत्सर्वं न सम्भवतीत्यर्थः ।
यदि व्यवहारार्थमात्मस्थायित्वं तदापसिद्धान्त इत्याह -
स्थिरेति ।
सूत्रमतिदेशार्थत्वेनापि व्याचष्टे -
अपि चेति ।
मतद्वयनिरासमुपसंहरति -
एवमिति ।
ज्ञानज्ञेयात्मकस्य सर्वस्य सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यतावशिष्यत इति माध्यमिकपक्षस्यापि मानमूलत्वमाशङ्क्य सूत्रकारः किमिति न निराचकारेत्यत आह -
शून्येति ।
आदरः पृथक्सूत्रारम्भो न क्रियते । एतान्येव तन्मतनिरासार्थत्वेनापि योज्यन्त इत्यर्थः । तथा हि ज्ञानार्थयोर्नाभावः, प्रमाणत उपलब्धेः ।
ननु जाग्रत्स्वप्नौ ज्ञानार्थशून्यौ, अवस्थात्वात् , सुषुप्तिवदित्यत आह 'वैधर्म्याच्च न स्वप्नादिवत्' । स्वप्न आदिर्यस्याः सुषुप्तेस्तद्वन्नेतरावस्थयोः शून्यत्वम् , उपलब्ध्यनुपलब्धिवैधर्म्यलक्षणाबाधितज्ञानार्थोपलब्धिबाधात् । सुषुप्तावप्यात्मज्ञानसत्त्वेन साध्यवैकल्याच्च नानुमानमित्यर्थः । किञ्च निरधिष्ठाननिषेधायोगादधिष्ठानमेव तत्त्वं वाच्यम् , तस्य त्वन्मते न भावः । मानतोऽनुपलब्धेरित्याह 'न भावोऽनुपलब्धेः' । तदर्थमाह -
न ह्ययमिति ।
यद्भाति तन्नासदित्युत्सर्गतः प्रपञ्चस्य न शून्यत्वम् । बाधाभावादित्यर्थः । न च सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यत्वम् । मिथ्यात्वसम्भवादिति भावः । 'क्षणिकत्वाच्च' इति सूत्रं 'क्षणिकत्वोपदेशाच्च' इति पठनीयम् । शून्यत्वविरुद्धक्षणिकत्वोपदेशादसङ्गतप्रलापी सुगत इत्यर्थः ॥३१॥
सुगतमतासाङ्गत्यमुपसंहरति -
सर्वथेति ।
सर्वज्ञस्य कथं विरुद्धप्रलापः, तत्राह -
प्रद्वेषो वेति ।
वेदबाह्या अत्र प्रजा ग्राह्याः । अतो भ्रान्त्येकमूलसुगतसिद्धान्तेन वेदान्तसिद्धान्तस्य न विरोध इति सिद्धम् ॥३२॥
नैकस्मिन्नसम्भवात् ।
मुक्तकच्छमते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थं भवति तन्निरस्यत इति प्रसङ्गसङ्गतिमाह -
निरस्त इति ।
एकरूपं ब्रह्मेति वैदिकसिद्धान्तस्यानैकान्तवादेन विरोधोऽस्ति न वेति तद्वादस्य मानभ्रान्तिमूलत्वाभ्यां सन्देहे मानमूलत्वाद्विरोध इति पूर्वपक्षफलमभिसन्धाय तन्मतमुपन्यस्यति -
सप्त चेति ।
जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेन्द्रियाणां प्रवृत्तिराश्रवः, तां संवृणोति इति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् ।
नन्वास्रवादीनां भोग्यान्तर्भावात्कथं सप्तत्वमित्यत आह -
सङ्क्षेपतस्त्विति ।
सङ्क्षेपविस्तराभ्यामुक्तार्थेषु मध्यमरीत्या विस्तरान्तरमाह -
तयोरिति ।
अस्तिकायशब्दः साङ्केतिकः पदार्थवाची । जीवश्चासावस्तिकायश्चेत्येवं विग्रहः । पूर्यन्ते गलन्तीति पुद्गलाः परमाणुसङ्घाः कायाः, सम्यक्प्रवृत्त्यनुमेयो धर्मः, ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थितिहेतुरधर्मः, आवरणाभाव आकाश इत्यर्थः ।
पञ्चपदार्थानामवान्तरभेदमाह -
सर्वेषामिति ।
अयमर्थः - जीवास्तिकायस्त्रिविधः कश्चिज्जीवो नित्यसिद्धोऽर्हन्मुख्यः, केचित्साम्प्रतिकमुक्ताः, केचिद्बद्धा इति । पुद्गलास्तिकायः षोढापृथिव्यादीनि चत्वारि भूतानि, स्थावरं जङ्गमं चेति । प्रवृत्तिस्थितिलिङ्गौ धर्माधर्मावुक्तौ । आकाशास्तिकायो द्विविधः - लोकाकाशः सांसारिकः, अलोकाकाशो मुक्ताश्रय इति । बन्धाख्यं कर्माष्टविधं चत्वारि घातिकर्माणि चत्वार्यघातीनि । तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति घातिकर्माणि । तत्त्वज्ञानान्न मुक्तिरिति ज्ञानमाद्यं कर्म, आर्हततन्त्रश्रवणान्न मुक्तिरिति ज्ञानं द्वितीयम् , बहुषु तीर्थकरप्रदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् , मोक्षमार्गप्रवृत्तिविघ्नकरणमन्तरायम् , इमानि चत्वारि श्रेयोहन्तृत्वात् घातिकर्माणि । अथाघातीनि चत्वारि कर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमिति । मम वेदितव्यं तत्त्वमस्तीत्यभिमानो वेदनीयम् , एतन्नामाहमस्मीत्यभिमानो नामिकम् , अहमत्र भवतो देशिकस्यार्हतः शिष्यवंशे प्रविष्टोऽस्मीत्यभिमानो गोत्रिकम् , शरीरस्थित्यर्थं कर्म आयुष्कम् । अथवा शुक्रशोणितमिश्रितमायुष्कम् , तस्य तत्त्वज्ञानानुकूलदेहपरिणामशक्तिर्गोत्रिकम् , शक्तस्य तस्य द्रवीभावात्मककललावस्थाया बुद्बुदावस्थायाश्चारम्भकः क्रियाविशेषो नामिकम् , सक्रियस्य बीजस्य जाठराग्निवायुभ्यामीषद्घनीभावो वेदनीयम् , तत्त्ववेदनानुकूलत्वात् । तान्येतानि तत्त्वावेदकशुक्लपुद्गलार्थत्वादघातीनि । तदेतत्कर्माष्टकं जन्मार्थत्वाद्बन्ध आस्रवादिद्वारेति ।
इयं प्रक्रिया मानशून्येति द्योतयति -
स्वसमयपरिकल्पितानिति ।
स्वीयतन्त्रसङ्केतमात्रकल्पितानित्यर्थः ।
स्वीयतन्त्रसङ्केतमात्रकल्पितानित्यर्थः । पदार्थानामुक्तानामनैकान्तत्वं वदन्तीत्याह -
सर्वत्रेति ।
अस्तित्वनास्तित्वादिविरुद्धधर्मद्वयमादाय वस्तुमात्रे न्यायं योजयन्ति । सप्तानामस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी, तस्या नयो न्यायः । घटादेर्हि सर्वात्मना सदैकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्प्राप्तये यत्नो न स्यात् । अतो घटत्वादिरूपेण कथञ्चिदस्ति, प्राप्यत्वादिरूपेण कथञ्चिन्नास्तीत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयमिति भावः ।
के ते सप्तभङ्गाः, तानाह -
स्यादस्तीति ।
स्यादित्यव्ययं तिङन्तप्रतिरूपकं कथञ्चिदर्थकम् । स्यादस्ति । कथञ्चिदस्तीत्यर्थः । एवमग्रेेऽपि । तत्र वस्तुनोऽस्तित्ववाञ्छायां स्यादस्तीत्याद्यो भङ्गः प्रवर्तते । नास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयो भङ्गः । क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयो भङ्गः । युगपदुभयवाञ्छायामस्ति नास्तीति शब्दद्वयस्य सकृद्वक्त्तुमशक्यत्वात्स्यादवक्तव्य इति चतुर्थो भङ्गः । आद्यचतुर्थभङ्गयोर्वाञ्छायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः । द्वितीयचतुर्थेच्छायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठो भङ्गः । तृतीयचतुर्थेच्छायां स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तमो भङ्ग इति विभागः । एवमेकत्वमनेकत्वं चेति द्वयमादाय स्यादेकः स्यादनेकः स्यादेकोऽनेकश्च स्यादवक्तव्यः स्यादेको वक्तव्यः स्यादनेकोऽवक्तव्यः स्यादेकोऽनेकश्चावक्तव्यश्चेति, तथा स्यान्नित्यः स्यादनित्य इत्याद्यूह्यम् ।
एवमनेकरूपत्वे वस्तुनि प्राप्तित्यागादिव्यवहारः सम्भवति, एकरूपत्वे सर्वं सर्वत्र सर्वदास्त्येवेति व्यवहारविलोपापत्तिः स्यात् , तस्मादनैकान्तं सर्वमित्येकरूपब्रह्मवादबाध इति प्राप्ते सिद्धान्तयति -
अत्रेति ।
यदस्ति तत्सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा । न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम् , अप्राप्तिभ्रान्त्या यत्नसम्भवात् । यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि । प्रपञ्चस्तूभयविलक्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः । तथा हि किं येनाकारेण वस्तुनः सत्त्वं तेनैवाकारेणासत्त्वमुताकारान्तरेण । द्वितीये वस्तुन आकारान्तरमेवासदिति वस्तुनः सदैकरूपत्वमेव । न हि दूरस्थग्रामस्य प्राप्तेरसत्त्वे ग्रामोऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्तियत्नानुपपत्तेः । अतो यथाव्यवहारं प्रपञ्चस्यैकरूपत्वमास्थेयम् ।
नाद्य इत्याह -
नायमिति ।
ननु विमतमनैकात्मकम् , वस्तुत्वात् , नारसिंहवदिति चेत् । न । घट इदानीमस्त्येवेत्यनुभवबाधात् । किञ्च जीवादिपदार्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् । आद्ये व्यभिचार इत्याह -
य इति ।
द्वितीये पदार्थनिश्चयो न स्यादित्याह -
इतरथेति ।
अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते -
नन्विति ।
तस्य निश्चयरूपत्वं नियतमनियतं वा । आद्ये वस्तुत्वस्य तस्मिन्नेवैकरूपे निश्चये व्यभिचारः । द्वितीये तस्य संशयत्वं स्यादित्याह -
नेति ब्रूम इति ।
प्रमायामुक्तन्यायं प्रमात्रादावतिदिशति -
एवमिति ।
निर्धारणं फलं यस्य प्रमाणादेस्तस्येत्यर्थः ।
इत्येवं सर्वत्रानिर्धारणे सत्युपदेशो निष्कम्पप्रवृत्तिश्च न स्यादित्याह -
एवं सतीति ।
अनैकान्तवादे अस्तिकायपञ्चत्वमपि न स्यादित्याह -
तथा पञ्चानामिति ।
यदुक्तमवक्तव्यत्वं तत्किं केनापि शब्देनावाच्यत्वमुत सकृदनेकशब्दावाच्यत्वम् । नाद्यः, व्याघातादित्याह -
न चैषामिति ।
उच्यन्ते च । अवक्तव्यादिपदैरिति शेषः । न द्वितीयः, सकृदेकवक्तृमुखजानेकशब्दानामप्रसिद्धेर्निषेधायोगात् , शेषस्यापि मुखभेदात् । न चार्थस्य युगपद्विरुद्धधर्मवाञ्छायां वक्तुर्मूकत्वमात्रमवक्तव्यपदेन विवक्षितमिति वाच्यम् , तादृशवाञ्छाया एवानुत्पत्तेरिति ।
किञ्च विरुद्धानेकप्रलापित्वादर्हन्ननाप्त इत्याह -
उच्यमानाश्चेत्यादिना ।
इति च प्रलपन्नित्यन्वयः । अर्हन्निति शेषः । अनाप्तपक्षस्यैवान्तर्गतः स्यान्नाप्तपक्षस्येत्यर्थः ।
इतश्चासङ्गतोऽनैकान्तवाद इत्याह -
स्वर्गेति ।
किञ्चानादिसिद्धोऽर्हन्मुनिः, अन्ये तु हेत्वनुष्ठानान्मुच्यन्ते, अननुष्ठानाद्बध्यन्त इत्यार्हततन्त्रावधृतस्वभावानां त्रिविधजीवानां त्रैविध्यनियमोऽपि न स्यादित्याह -
अनादीति ।
प्रपञ्चितं सूत्रार्थं निगमयति -
एवमिति ।
एतेनेति ।
सत्त्वासत्त्वयोरेकत्र निरासेनेत्यर्थः । परमाणुसङ्घाताः पृथिव्यादय इति ।
दिगम्बरसिद्धान्तः किमिति सूत्रकृतोपेक्षितः, तत्राह -
यत्त्विति ॥३३॥
जीवस्य देहपरिमाणतां दूषयति -
एवं चेति ।
अकार्त्स्न्यं मध्यमपरिमाणत्वम् । तेनानित्यत्वं स्यादित्यर्थः ।
अर्थान्तरमाह -
शरीराणां चेति ।
विपाकः कर्मणामभिव्यक्तिः । जीवस्य कृत्स्नगजशरीरव्यापित्वमकार्त्स्न्यम् । शरीरैकदेशो निर्जीवः स्यादित्यर्थः । पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् । देहाद्बहिरपि जीवः स्यादित्यर्थः ।
किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित्स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह -
समान इति ।
यथा दीपावयवानां घटे सङ्कोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते -
स्यादिति ।
दीपांशवज्जीवांशा भिन्नदेशा एकदेशा वेति विकल्प्याद्येऽल्पदेहाद्बहिरपि जीवः स्यादिति दूषयति -
तेषामित्यादिना ।
दीपस्य तु न घटाद्बहिः सत्त्वमधिकावयवानां विनाशात् ।
द्वितीयं दूषयति -
अप्रतिघात इति ।
अवयवानां नित्यत्वं चासिद्धमल्पत्वाद्दीपांशवदित्याह -
अपि चेति ॥३४॥
एवं जीवावयवा नित्या इति मते देहमानत्वं निरस्तम् । सम्प्रति जीवस्य केचिदेव कूटस्था अवयवा अन्ये त्वागमापायिन इति शङ्कते -
अथेति ।
बृहत्तनुकायाप्तौ जीवस्यावयवागमापायाभ्यां देहमानत्वमित्यर्थः ।
सूत्रेण परिहरति -
न चेति ।
आगमापायौ पर्यायः ।
किमागमापायिनामवयवानामात्मत्वमस्ति न वा । आद्ये आह -
विकारादिदोषेति ।
कोऽसौ बन्धमोक्षाभ्युपगम इत्यत आह -
कर्माष्टकेति ।
व्याख्यातमेतत् ।
आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति -
किञ्चेति ।
अवशिष्टकूटस्थावयवस्य दुर्ज्ञानत्वादात्मज्ञानाभावान्न मुक्तिरित्यर्थः ।
यथा दीपावयवनामाकारस्तेजस्तथात्मावयवनामाकारकारणाभावान्नागमापायौ युक्तावित्याह -
किञ्चेति ।
सर्वजीवसाधारणः प्रतिजीवमसाधारणो वेत्यर्थः ।
किञ्चात्मन आगमापायिशीलावयवत्वे सति कियन्त आयान्त्यवयवाः कियन्तोऽपयन्तीत्यज्ञानादात्मनिश्चयाभावादनिर्मोक्षः स्यादित्याह -
किञ्चेति ।
अपि चावयवारब्धावयवित्वे जीवस्यानित्यत्वम् , अवयवसमूहत्वे चासत्त्वम् , आत्मत्वस्य यावदवयववृत्तित्वे यत्किञ्चिदवयवापायेऽपि सद्यः शरीरस्याचेतनत्वम् , गोत्ववत्प्रत्येकं समाप्तावेकस्मिञ्छरीर आत्मनानात्वं स्यादतो न देहपरिमाणत्वसावयवत्वे आत्मन इत्युपसंहरति -
अत इति ।
सूत्रस्यार्थान्तरमाह -
अथवेति ।
स्थूलसूक्ष्मशरीरप्राप्तावकार्त्स्न्योक्तिद्वारेणात्मानित्यतायामुक्तायां सुगतवत्सन्तानरूपेणात्मनित्यतामाशङ्क्यानेनोत्तरमुच्यत इत्यन्वयः ।
पर्यायेणेत्यस्य व्याख्या -
स्रोत इति ।
देहभेदेन परिमाणस्यात्मनश्चानवस्थानेऽपि नाशेऽपि । स्रोतः प्रवाहः ।
तदात्मकस्यात्मव्यक्तिसन्तानस्य नित्यतयात्मनित्यता स्यादित्यत्र दृष्टान्तमाह -
यथेति ।
सिग्वस्त्रं विगतं येभ्यस्ते विसिचो दिगम्बरास्तेषामित्यर्थः । पर्यायात्सन्तानादप्यात्मनित्यत्वस्याविरोध इति न च । कुतः । विकारादिभ्यः । सन्तानस्यावस्तुनः आत्मत्वे शून्यवादः, सन्तानस्य वस्तुत्वे सन्तान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्युक्तदोषप्रसङ्गात्सन्तानात्मपक्षोऽनुपपन्न इति सूत्रार्थः ॥३५॥
यं स्थूलं वा सूक्ष्मं वा देहं गृह्णाति तद्देहपरिमाण एव जीव इति नियमं दूषयति -
अन्त्येति ।
अन्त्यशरीरपरिमाणस्यावस्थितेर्नित्यत्वदर्शनादुभयोराद्यमध्यमपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषस्त्रयाणां नित्यपरिमाणानां साम्यं स्याद्विरुद्धपरिमाणानामेकत्रायोगादिति सूत्रयोजना । आद्यमध्यमपरिमाणे नित्ये, आत्मपरिमाणत्वात् , अन्त्यपरिमाणवत् । न चाप्रयोजकता, परिमाणनाशे सत्यात्मनोऽपि नाशादन्त्यपरिमाणनित्यत्वायोगादिति भावः ।
परिमाणत्रयसाम्यापादानफलमाह -
एकेति ।
अन्त्यशरीरसामान्येव पूर्वशरीराणि स्युः, विषमशरीरप्राप्तावात्मनस्तत्परिमाणत्वे परिमाणत्रयसाम्यानुमानविरोधादित्यर्थः । पूर्वं कालत्रये परिमाणत्रयमङ्गीकृत्यान्त्यदृष्टान्तेन नित्यत्वमनुमाय साम्यमापादितम् ।
सम्प्रत्यन्त्यस्य मुक्तपरिमाणस्याणुत्वस्थूलत्वयोरन्यतरत्वेनावस्थितेस्तदेवान्त्यमाद्यमध्यमकालयोरपि नित्यत्वात्स्यात् , प्रागसतो नित्यत्वायोगात् , तथा चाविशेषः कालत्रयेऽपि जीवपरिमाणाभेद इत्याह -
अथवेति ।
तस्माद्भ्रान्त्येकशरणक्षपणकसिद्धान्तेनाविरोधः समन्वयस्येति सिद्धम् ॥३६॥
लुञ्चितकेशमतनिरसनानन्तरं जटाधारिशैवमतं बुद्धिस्थं निराक्रियत इति प्रसङ्गसङ्गतिमाह -
इदानीमिति ।
सामान्यत ईश्वरनिरास एवात्र किं न स्यादिति शङ्कते -
तदिति ।
स्वोक्तिविरोधान्मैवमित्याह -
प्रकृतिश्चेत्यादिना ।
प्रतिष्ठापितत्वात्केवलनिमित्तेश्वरप्रतिषेधोऽवगम्यत इत्यन्वयः । व्याहतो विरुद्धोऽभिव्याहार उक्तिर्यस्य स तथा ।
अद्वितीयब्रह्मप्रकृतिकं जगदिति वदतो वेदान्तसमन्वयस्य कर्तैवेश्वरो न प्रकृतिरिति शैवादिमतेन विरोधोऽस्ति न वेति सन्देहे तन्मतस्य मानमूलत्वाद्विरोधे सति वेदान्तोक्ताद्वयब्रह्मासिद्धिरिति फलमभिप्रेत्य सत्त्वासत्त्वयोरेकत्रासम्भववत्कर्तृत्वोपादानत्वयोरप्येकत्रासम्भवात्कर्तैवेश्वर इति पूर्वपक्षं कुर्वन्नवान्तरमतभेदमाह -
सा चेति ।
सेश्वराः साङ्ख्याः साङ्ख्यशब्दार्थः । चत्वारो माहेश्वराः शैवाः पाशुपताः कारुणिकसिद्धान्तिनः कापालिकाश्चेति । सर्वोऽप्यमी महेश्वरप्रोक्तागमानुगामित्वान्माहेश्वरा उच्यन्ते । कार्यं महदादिकम् , कारणं प्रधानमीश्वरश्च, योगः समाधिः, विधिस्त्रिषवणस्नानादिः , दुःखान्तो मोक्ष इति पञ्च पदार्थाः । पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः ।
पाशुपतागमप्रमाण्यात्पशुपतिर्निमित्तमेवेति मतमुक्त्वानुमानिकेश्वरमतमाह -
तथेति ।
विमतं सकर्तृकम् , कार्यत्वात् , घटवदिति वैशेषिकाः कर्तारमीश्वरं साधयन्ति । कर्मफलं सपरिकराभिज्ञदातृकम् , कालान्तरभाविफलत्वात् , सेवाफलवदिति गौतमा दिगम्बराश्च ।
ज्ञानैश्वर्योत्कर्षः क्वचिद्विश्रान्तः, सातिशयत्वात् , परिमाणवदिति साङ्ख्यसौगतपातञ्जला इति मत्वोक्तम् -
केचित्कथञ्चिदिति ।
सिद्धान्तयति -
अत इति ।
आगमादिना निर्देषेश्वरसिद्धेः कथं दोषवत्वमित्याह -
किमिति ।
न तावत्स्वस्वागमादीश्वरनिर्णयः, आगमानां निर्मूलत्वेनाप्रामाण्यात् । न च सर्वज्ञज्ञानं मूलम् , तत्र मानाभावात् । न चागम एव मानम् , आगममानत्वनिश्चये मूलनिश्चयस्तन्निश्चये तन्निश्चय इत्यन्योन्याश्रयात् । न च पुरुषवचसां स्वतोमानत्वं युक्तम् , मिथो विरोधेन तत्त्वाव्यवस्थानाच्च । नाप्यनुमानादीश्वरः सर्वज्ञः कर्तैवेति निर्णयः सम्भवति, अनुमानस्य दृष्टानुसारित्वेन दृष्टविपरीतार्थासाधकत्वात् । तथा च लोके यादृशाः कर्तारो दृष्टास्तादृशा एव जगत्कर्तारो रागद्वेषादिमन्तः सिध्येयुः । यदि लोके विचित्रप्रासादादिकर्तुरेकत्वाद्यदर्शनेऽपि जगत्कर्तरि लाघवादेकत्वं नित्यज्ञानं निर्देषत्वं च कल्प्येत, तर्हि द्रव्योपादानत्वमपि कल्प्यताम् , कर्तुरेवोपादानत्वेन लाघवात् , अन्यथा स्वतन्त्रप्रधानपरमाण्वाद्युपादानकल्पनागौरवात् । अदृष्टत्वाच्चेत्कर्तुर्द्रव्योपादानत्वासिद्धिरेकत्वादिकमपि न सिध्येत् । अस्माकं त्वपौरुषेयतया स्वतःसिद्धप्रमाणभावया श्रुत्या स्वप्रमेयबोधने दृष्टान्तानपेक्षया भवत्येव लौकिककर्तृविपरीताद्वितीयकर्त्रुपादानात्मकसर्वज्ञनिर्दोषेश्वरनिर्णयः ।
निर्णीते च तस्मिन् धर्मिग्राहकमानबाधान्न रागादिदोषापादानस्यावकाश इत्यानुमानिकेश्वरवादिभ्यो वैषम्यम् , तदभिप्रेत्याश्रौतस्येश्वरस्यासामञ्जस्यमाह -
हीनेति ।
यदि कर्तुरुपादानत्वमदृष्टत्वान्न कल्प्यते तर्हि निर्देषत्वस्याप्यदृष्टत्वाद्यो विषमकारी स दोषवानिति व्याप्तिदृष्टेश्च जगत्कर्ता दोषवान् स्यात् । न चात्र धर्मिग्राहकानुमानबाधः, कार्यत्वलिङ्गस्य कर्तृमात्रसाधकत्वेन निर्दोषत्वादावुदासीनत्वात् । न चोत्कर्षसमा जातिः, व्यापकधर्मापादानात् , दोषाभावे तद्व्याप्यविषमकर्तृत्वायोगाच्च । दृष्टान्तस्थाव्यापकधर्माणां पक्षे आपादनं ह्युत्कर्षसमा जातिः । यथा शब्दो यदि कृतकत्वेन हेतुना घटवदनित्यः स्यात्तर्हि तेनैव हेतुना सावयवोऽपि स्यादिति । न ह्यनित्यत्वस्य व्यापकं सावयवत्वं गन्धादौ व्यभिचारादिति भावः ।
ननु प्राणिकर्मप्रेरित ईश्वरो विषमफलान् प्राणिनः करोति न स्वेच्छयेति शङ्कते -
प्राणीति ।
जडस्य कर्मणः प्रेरकत्वायोगान्मैवमित्याह -
नेति ।
न चेश्वरप्रेरितं कर्मेश्वरस्य प्रेरकमिति वाच्यमित्याह -
कर्मेति ।
अतीतकर्मणा प्रेरित ईश्वरो वर्तमानं कर्म तत्फलाय प्रेरयतीत्यनादित्वात्प्रेर्यप्रेरकभावस्य नानुपपत्तिरिति शङ्कते -
नानादित्वादिति ।
अतीतकर्मणोऽपि जडत्वान्नेश्वरप्रेरकता । न च तदपीश्वरेण प्रेरितं सदीश्वरं प्रेरयति, उक्तान्योन्याश्रयात् । ततोऽप्यतीतकर्मप्रेरितेश्वरप्रेरितं तदेवेश्वरं वर्तमाने कर्मणि फलदानाय प्रेरयतीति चेत् । न । मानहीनाया मूलक्षयावहाया अनवस्थायाः प्रसङ्गात् । अतः कर्मनिरपेक्ष एवेश्वरो विषमस्रष्टेत्यसामञ्जस्यं दुर्वारमित्यर्थः । यत्तु फलदाने ईश्वरस्य कर्म निमित्तमात्रं न प्रेरकमिति नोक्तदोष इति । तन्न । विषमकर्मकारयितुरीश्वरस्य दोषवत्त्वानपायात् , पूर्वकर्मापेक्षया कर्मकारयितृत्वे चोक्ताप्रामाणिकानवस्थानात् । अस्माकं तु 'एष ह्येव साध्वसाधु कारयति' इति, 'निरवद्यम्' इति च श्रुतिमूलं पूर्वकर्मापेक्षाकल्पनमिति वैषम्यम् ।
किञ्च परमतानुसारेणापीश्वरस्य रागादिमत्त्वं प्राप्नोतीत्याह -
अपि चेति ।
प्रवर्तकत्वलिङ्गाद्दोषा इति तार्किकाणां स्थितिः, तथा चेश्वरः स्वार्थे रागादिमान् , प्रवर्तकत्वात् , सम्मतवत् । न च कारुणिके व्यभिचारः, परदुःखप्रयुक्तस्वदुःखनिवृत्त्यर्थित्वात्तस्येत्यर्थः ।
उदासीनः प्रवर्तक इति च व्याहतमिति योगान्प्रत्याह -
पुरुषेति ॥३७॥
प्रधानवादे दोषान्तरमाह सूत्रकारः -
सम्बन्धेति ।
ईश्वरेणासम्बद्धस्य प्रधानादेः प्रेर्यत्वायोगात्सम्बन्धो वाच्यः । स च संयेगः समवायो वा नास्तीत्यर्थः ।
कार्यबलात्प्रेरणयोग्यत्वाख्यः सम्बन्धः कल्प्यतामित्यत आह -
नाप्यन्य इति ।
ईश्वरप्रेरितप्रधानकार्यं जगदिति सिद्धं चेत्सम्बन्धकल्पना स्यात् । तच्चाद्याप्यसिद्धमित्यर्थः । मायाब्रह्मणोस्त्वनिर्वाच्यतादात्म्यसम्बन्धः, 'देवात्मशक्तिम्' इति श्रुतेः ।
किञ्च वेदस्यापूर्वार्थत्वान्न लोकदृष्टमृत्कुलालसम्बन्धो वैदिकेनानुसर्तव्यः । आनुमानिकेन त्वनुसर्तव्य इति विशेषमाह -
अपि चेति ।
सर्वज्ञस्यागमप्रामाण्यस्य च ज्ञप्तावन्योन्याश्रयः, अनुमानात्सर्वज्ञसिद्धेर्निरस्तत्वात् । न ह्यमनस्कस्य ज्ञानं सम्भवति, ज्ञानं मनोजन्यमिति व्याप्तिविरोधान्नित्यज्ञानकल्पनानवकाशादिति भावः ।
प्रधानवत्परमाणूनामपि निरवयवेश्वरेण संयोगाद्यसत्त्वात्प्रेर्यत्वायोगः , प्रेरकत्वे चेश्वरस्य दोषवत्त्वमित्याह -
एवमन्यास्वपीति ॥३८॥
ईश्वरस्य प्रधानादिप्रेरणानुपपत्तेश्चासामञ्जस्यमित्याह सूत्रकारः -
अधिष्ठानेति ।
प्रधानादिकं चेतनस्यानधिष्ठेयम् , अप्रत्यक्षत्वात् , ईश्वरवत् , व्यतिरेकेण मृगादिवच्चेत्यर्थः ॥३९॥
चक्षुरादौ व्यभिचारमाशङ्क्य निषेधति -
करणवदिति ।
रूपमुद्भूतं नास्तीत्यप्रत्यक्षत्वं स्फुटयति -
रूपेति ।
स्वभोगाहेतुत्वे सतीति विशेषणान्न व्यभिचार इत्याह -
तथापीति ।
भोगः सुखदुःखानुभवः । आदिपदाद्विषयानुभवग्रहः । न च यद्येनाधिष्ठेयं तत्तदीयभोगहेतुत्वे सति प्रत्यक्षमिति व्यतिरेकव्याप्तौ करणेषु व्यभिचारतादवस्थ्यमिति वाच्यम् , भोगाहेतुत्वविशिष्टाप्रत्यक्षत्वस्य हेतुत्वात् , करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् । न च विशेष्यवैयर्थ्यम् , परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारात् । न च प्रधानादेरीश्वरप्रत्यक्षत्वाद्विशेष्यासिद्धिः, अतीन्द्रियत्वरूपाप्रत्यक्षत्वस्य सत्त्वादित्यभिप्रायः । जीवे करणकृता भोगदयो दृश्यन्ते, ईश्वरे तु प्रधानकृतास्ते न दृश्यन्त इत्यक्षरार्थः ।
विपक्षे दोषं वदन्नप्रयोजकत्वं हेतोर्निरस्यति -
करणेति ।
प्रधानादेः प्रेर्यत्वाङ्गीकारे प्रेरकभोगहेतुत्वं स्यात् । अतीन्द्रियस्य प्रेर्यस्य भोगहेतुत्वनियमादित्यर्थः ।
सूत्रद्वयस्यार्थान्तरमाह -
अन्यथा वेति ।
यः प्रवर्तकश्चेतनः स शरीरीति लोके व्याप्तिदृष्टेरीश्वरस्य च शरीरानुपपत्तेर्न प्रवर्तकत्वमिति सूत्रार्थमाह -
इतश्चेति ।
विमतं सेश्वरम् , कार्यत्वात् , राष्ट्रवदिति कल्पयतो राजवत्सशरीर एवेश्वरः स्यादित्युक्तम् । तत्रेष्टापत्तिं निरस्यति -
न च तद्वर्णयितुमिति ।
न च नित्यं शरीरं सर्गात्प्रागपि सम्भवतीति वाच्यम् , शरीरस्य भौतिकत्वनियमादित्यर्थः ।
अस्त्वशरीर एवेश्वर इत्यत आह -
निरधिष्ठानत्वे चेति ।
जीवस्यैव शरीरं भौतिकमीश्वरस्य तु स्वेच्छानिर्मितं प्रागपि स्यादित्याशङ्कां निरस्यति -
करणवदिति ।
करणान्यत्र सन्तीति करणवच्छरीरम् । इच्छामयशरीरकल्पनैवानुपपन्ना, मानाभावाद्दृष्टभौतिकत्वनियमविरोधाच्चेति मन्तव्यम् ॥४०॥
एवमीश्वरस्य शुष्कतर्केण कर्तृत्वनिर्णयो नेत्युपपाद्य नित्यत्वसर्वज्ञत्वनिर्णयोऽपि न सम्भवतीत्याह सूत्रकारः -
अन्तवत्वमिति ।
प्रधानपुरुषेश्वरत्रयमनित्यम् , इयत्तापरिच्छिन्नत्वात्घटवदित्याह -
पूर्वस्मिन्निति ।
सङ्ख्या वा परिमाणं वेयत्ता । तथा च निश्चितसङ्ख्यत्वान्निश्चितपरिमाणत्वाच्चेति हेतुद्वयम् । यद्यपि सङ्ख्यावत्वमात्रं हेतुः सम्भवति तथापि सर्वज्ञनिश्चयेन हेत्वसिद्धिनिरासं द्योतयितुं निश्चितपदम् ।
तत्राद्यहेतोरसिद्धिर्नास्तीत्याह -
सङ्ख्यापरिमाणमिति ।
सङ्ख्यास्वरूपमित्यर्थः ।
द्वितीयहेतुं साधयति -
स्वरूपेति ।
प्रधानादयो निश्चितपरिमाणाः, वस्तुतो भिन्नत्वात् , घटवदित्यर्थः ।
ननु प्रधानपुरुषेश्वरास्त्रय इति ज्ञातेऽपि जीवानामानन्त्यात्कथं सङ्ख्यानिश्चयः, तत्राह -
पुरुषेति ।
जीवसङ्ख्यापीश्वरेण निश्चीयते । अनिश्चये सर्वज्ञत्वायोगादित्यर्थः ।
हेतुसिद्धेः फलमाह -
ततश्चेति ।
माषराशिवत्केषाञ्चिज्जीवानां सङ्घस्तद्बन्धश्च नश्येदित्येवं सर्वमुक्तेरिदानीं शून्यं जगत्स्यादित्यर्थः । नित्यस्यानवशेषादिति भावः । ननु ईश्वरः शिष्यतामिति चेत् । न । तस्यापि भिन्नित्वेनान्तवत्त्वात् ।
किञ्चेशितव्याभावादीश्वराभावः स्यादित्याह -
प्रधानमिति ।
दोषान्तरमाह -
प्रधानेति ।
इयत्तानिश्चयाभावान्न शून्यतेति द्वितीयं शङ्कते -
अथेति ।
इयत्ता नास्ति न निश्चीयते चेत्यर्थः ।
प्रदानादयः सङ्ख्यापरिमाणवन्तः, द्रव्यत्वात् , माषादिवदित्यनुमानादस्तीयत्ता, तदज्ञाने स्यादसर्वज्ञता, इयत्तायां चान्तवत्त्वमप्यक्षतमिति परिहरति -
तत इति ।
तस्मात्केवलकर्त्रीश्वरवादस्य निर्मूलत्वान्न कर्त्रुपादानाद्वयेश्वरसमन्वयविरोध इति सिद्धम् ॥४१॥
पञ्चपदार्थवादिमाहेश्वरमतनिरासानन्तरं चतुर्व्यूहवादं बुद्धिस्थं निरस्यति -
उत्पत्त्यसम्भवात् ।
अधिकरणतात्पर्यमाह -
येषामिति ।
अधिकरणारम्भमाक्षिपति -
नन्विति ।
वेदाविरुद्धांशमङ्गीकृत्य वेदविरुद्धं जीवोत्पत्त्यंशं निराकर्तुमधिकरणारम्भ इत्याह -
उच्यत इति ।
अत्र भागवतपञ्चरात्रागमो विषयः । स किं जीवोत्पत्त्याद्यंशे मानं न वेति सन्देहे बाधानुपलम्भान्मानमिति पूर्वपक्षयति -
तत्रेति ।
पूर्वपक्षे तदागमविरोधाज्जीवाभिन्नब्रह्मसमन्वयासिद्धिः, सिद्धान्ते तदंशे तस्यामानत्वादविरोधात्तत्सिद्धिरिति फलभेदः ।
सावयवत्वं निरस्यति -
निरञ्जनेति ।
कथं तर्ह्यद्वितीये वासुदेवे मूर्तिभेदः, तत्राह -
स इति ।
व्यूहो मूर्तिः ।
सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह -
तमित्थम्भूतमिति ।
यथोक्तव्यूहवन्तं सर्वप्रकृतिं निरञ्जनं विज्ञानरूपं परमात्मानमिति यावत् । वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् । पूजाद्रव्याणामर्जनमुपादानम् । इज्या पूजा । स्वाध्यायोऽष्टाक्षरादि जपः । योगो ध्यानम् ।
तत्राविरुद्धांशमुपादत्ते -
तत्रेति ।
'समाहितः श्रद्धावित्तो भूत्वा' इति, 'तं यथा यथोपासते' इत्याद्या च श्रुतिः । 'मत्कर्मकृन्मत्परमः' इत्याद्या स्मृतिः ।
विरुद्धांशमनूद्य दूषयति -
यत्पुनरिति ।
कृतहान्यादिदोष आदिशब्दार्थः । न्यायोपेतया 'अज आत्मा' इत्यादिश्रुत्या पञ्चरात्रागमस्योत्पत्त्यंशे मानत्वाभावनिश्चयाज्जीवाभिन्नब्रह्मसमन्वयस्थैर्यमिति भावः ॥४२॥
जीवस्योत्पत्तिं निरस्य जीवान्मनस उत्पत्तिं निरस्यति -
न च कर्तुरिति ।
यस्मात्कर्तुः करणोत्पत्तिर्न दृश्यते तस्मादसङ्गता कल्पनेत्यन्वयः । सिद्धानां करणानां प्रयोक्ता कर्तेति प्रसिद्ध्यर्थो हिशब्दः ।
वर्णनं निर्मूलमित्याह -
न चेति ।
ननु लोके कश्चिच्छिल्पिवरः कुठारं निर्माय तेन वृक्षं छिनत्तीति दृष्टमिति चेत् । सत्यम् । शिल्पिनो हस्तादिकरणान्तरसत्त्वात्कुठारकर्तृत्वं युक्तम् , जीवस्य तु करणान्तरासत्त्वान्न मनसः कर्तृत्वम् । विनैव करणं कर्तृत्वे वा मनोवैयर्थ्यमिति भावः ॥४३॥
सङ्कर्षणादीनामुत्पत्त्यसम्भवेऽपि व्यूहचतुष्टयं स्यादिति सूत्रव्यावर्त्यमाशङ्कते -
अथापि स्यादिति ।
ज्ञानैश्वर्ययोः शक्तिरान्तरं सामर्थ्यम् , बलं शरीरसामर्थ्यम् , वीर्यं शौर्यम् , तेजः प्रागल्भ्यमेतैरन्विता यस्मात्सङ्कर्षणादयस्तस्मादीश्वरा एवेत्यर्थः ।
सर्वेषामीश्वरत्वे पञ्चरात्रोक्तिमाह -
वासुदेवा एवेति ।
निर्दोषा रागादिशून्याः । निरधिष्ठानाः प्रकृत्यजन्याः । निरवद्या नाशादिरहिता इत्यर्थः ।
ईश्वरत्वाज्जन्मासम्भवो गुण एवेत्याह -
तस्मादिति ।
सूत्रेण सिद्धान्तयति -
अत्रेति ।
एवमपि । चतुर्णामीश्वरत्वेन विज्ञानशक्त्यादिभावेऽपीत्यर्थः ।
प्रकारान्तरं पृच्छति -
कथमिति ।
किं चत्वारः स्वतन्त्रा भिन्ना एव उतैकस्य विकारत्वेनाभिन्नाः । आद्यमनूद्य दूषयति -
यदीत्यादिना ।
द्वितीये विकाराः प्रकृतितुल्या वा न्यूना वा । आद्यमुत्थाप्य निषेधति -
अथेत्यादिना ।
न्यूनत्वपक्षेऽपसिद्धान्तमाह -
न च पञ्चेति ।
यदि न्यूना अपि भगवतो व्यूहास्तदा चतुष्ट्वव्याघात इत्याह -
न चैत इति ॥४४॥
इतश्च जीवोत्पत्तिवाद उपेक्ष्य इत्याह सूत्रकारः -
विप्रतिषेधाच्चेति ।
स्वस्यैव गुणत्वं गुणित्वं च विरुद्धम् । आदिपदात्प्रद्युम्नानिरुद्धौ भिन्नावात्मन इत्युक्त्वात्मन एवैते इति विरुद्धोक्तिग्रहः ।
पूर्वापरविरोधादसाङ्गत्यमिति सूत्रार्थमुक्त्वार्थान्तरमाह -
वेदेति ।
एकस्यापि तन्त्राक्षरस्याध्येता चतुर्वेदिभ्योऽधिक इति निन्दादिपदार्थः । तस्मान्मिथो विरुद्धाभिः पौरुषेयकल्पनाभिर्नापौरुषेयवेदान्तसमन्वयविरोध इति सिद्धम् ॥४५॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य द्वितीयः पादः ॥२॥
वियदादिविधातारं सीतास्याब्जमधुव्रतम् ।
नित्यचिद्विश्वकर्त्रात्माभिन्नं सर्वेश्वरं भजे ॥१॥
जीवस्यानुत्पत्तिप्रसङ्गेनाकाशस्याप्युत्पत्त्यसम्भवमाशङ्क्य परिहरन्नादावेकदेशितमाह -
न वियदश्रुतेः ।
वियत्प्राणापादयोरर्थं सङ्क्षिपन् पूर्वपादेन सङ्गतिमाह -
वेदान्तेष्विति ।
भिन्नोपक्रमत्वमेवाह -
केचिदित्यादिना ।
भूतभोक्तृश्रुतीनां मिथोविरोधशङ्कानिरासो वियत्पादार्थः । लिङ्गशरीरश्रुतीनां तन्निरासः प्राणपादार्थः । यथा मिथोविरोधात्पूर्वापरविरोधाच्च परपक्षा उपेक्ष्यास्तथा श्रुतिपक्षोऽपि उपेक्ष्य इति शङ्कोत्थाने पादद्वयस्यारम्भात्पूर्वपादेन दृष्टान्तसङ्गतिरिति समुदायार्थः । आकाशवाय्वोरुत्पत्तिमामनन्ति तैत्तिरीयकाः । नामनन्ति छन्दोगाः । जीवस्य प्राणानां चोत्पत्तिं 'सर्व एत आत्मनो व्युच्चरन्ति' इति वाजिनः । 'एतस्माज्जायते प्राणः' इत्याथर्वणिकाश्चामनन्ति नान्ये । एवमाकाशपूर्विका क्वचित्सृष्टिः, क्वचित्तेज पूर्विकेति क्रमविरोधः । आदिपदात् 'स इमांल्लोकानसृजत' इत्यक्रमः, क्वचित्सप्त प्राणाः, क्वचिदष्टावित्यादि सङ्ख्याद्वारकश्च विरोधो ग्राह्यः । प्रपञ्चः पादद्वयम् । तथा च पादद्वयस्य श्रुतीनां मिथोविरोधनिरासार्थत्वाच्छ्रुतिशास्त्राध्यायसङ्गतयः सिद्धाः ।
अत्राकाशस्योत्पत्त्यनुत्पत्तिश्रुत्योर्मिथोविरिधोऽस्ति न वेति वाक्यभेदैकवाक्यत्वाभ्यां सन्देहे यद्युत्पत्तिस्तदा वाक्यभेदेन विरोधादप्रामाण्यमनयोः श्रुत्योरिति पूर्वपक्षयिष्यन्नादावनुत्पत्तिपक्षमेकदेशि गृह्णातीत्याह -
तत्र तावदिति ।
उत्पत्तिश्रुतिर्मुख्या नास्तीति गूढाभिसन्धिः ॥१॥
सम्प्रति पूर्वपक्षयति सूत्रकारः -
अस्ति त्विति ।
एकवाक्यत्वेन प्रामाण्यसम्भवे किमिति श्रुत्योरप्रामाण्यमिति शङ्कते -
नन्वेकवाक्यतेति ।
एकवाक्यत्वासम्भवादप्रामाण्यं युक्तमित्याह -
सत्यमित्यादिना ।
एकस्य युगपत्कार्यद्वयासम्बन्धेऽपि क्रमेण सम्बन्धसम्भवादेकवाक्यतेति मुख्यसिद्धान्ती शङ्कते -
ननु सकृदिति ।
अप्रामाण्यवादी दूषयति -
नैवमिति ।
क्रमो न युज्यते द्वयोः श्रुतप्राथम्यभङ्गापत्तेरित्यर्थः ।
एकस्माद्द्विदलबीजाद्दलद्वयवदस्तूभयं प्रथमजमित्यत आह -
न चेति ।
वायोरग्निरिति क्रमश्रुतिभङ्गादिति शेषः ।
छान्दोग्यश्रुतेस्तित्तिरिश्रुतिविरुद्धार्थत्वमुक्त्वा तित्तिरिश्रुतेस्तद्विरुद्धार्थत्वमाह -
एतेनेति ।
एतत्पदार्थमाह -
तस्मादिति ।
छान्दोग्येऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्योज्यमित्यर्थः ।
किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह -
वायोरिति ॥२॥
एवं श्रुत्योर्विरोधादप्रामाण्यमिति पूर्वपक्षे प्राप्ते स एव वियदनुत्पत्तिवादि स्वमतेन प्रामाण्यं ब्रूत इत्याह -
अस्मिन्निति ।
एवमाध्यायसमाप्तेरधिकरणेषु प्रथमं विरोधाच्छ्रुत्यप्रामाण्यमिति पूर्वपक्षफलं तत एकदेशिसिद्धान्तः, पश्चान्मुख्यसिद्धान्ते श्रुतीनामविरोधेनैक वाक्यतया ब्रह्मणि समन्वयसिद्धिरिति फलं क्रमश्चेत्यवगन्तव्यम् ।
तत्र श्रुत्योर्विरोधे सत्यध्ययनविध्युपात्तयोरप्रामाण्यायोगाद्वियदुत्पत्त्यसम्भवरूपतर्कानुगृहीतच्छान्दोग्यश्रुतिर्मुख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति -
नास्तीत्यादिना ।
आकाशो नोत्पद्यते सामग्रीशून्यत्वात् , आत्मवत् । न चाविद्याब्रह्मणोः सत्त्वाद्धेत्वसिद्धिः, विजातीयत्वेनानयोरारम्भकत्वायोगादसंयुक्तत्वाच्च । संयोग एव हि द्रव्यस्यासमवायिकारणमतः समवाय्यसमवायिनोरभावान्न हेत्वसिद्धिरित्यर्थः ।
प्रागभावशून्यत्वाच्चात्मवदाकाशो नोत्पद्यत इत्याह -
उत्पत्तिमतां चेति ।
प्रकाशश्चाक्षुषानुभवः । आदिपदात्तमोध्वंसपाकयोर्ग्रहणम् । मूर्तद्रव्याश्रयत्वं ह्यकाशस्य कार्यम् , तच्च प्रलयेऽप्यस्ति परमाण्वाश्रयत्वात् । अतो न प्रागभाव इत्यर्थः ।
प्रागभावसत्त्वं स्फुटयति -
किं हीति ।
स्थूलाश्रयोऽवकाशः सूक्ष्माश्रयच्छिद्रमण्वाश्रयः सुषिरमिति भेदः ।
किञ्चात्मवदाकाशो न जायते, विभुत्वात् , अस्पर्शद्रव्यत्वाच्चेत्याह -
पृथिव्यादीति ।
तस्मादुक्ततर्कबलाद्गौणी द्रष्टव्येत्यन्वयः ।
भेदोक्तेर्गौणत्वे वैदिकोदाहरणमाह -
वेदेऽप्यारण्यानिति ।
आकाशेष्विति भेदव्यपदेशो गौण इति सम्बन्धः ॥३॥
न केवलं तर्कादाकाशस्यानुत्पत्तिः, किन्तु श्रुतितोऽपीत्याहसूत्रकारः -
शब्दाच्चेति ।
नित्यभावस्यानादित्वादिति भावः । आत्मेति च शब्द इहोदाहरणमित्यन्वयः । आकाशः शरीरमस्येति बहुव्रीहिणात्यन्तसाम्यभानाद्ब्रह्मवदाकाशस्यानादित्वमित्यर्थः ॥४॥
पदोत्तरमिति ।
शङ्कोत्तरमिति यावत् ।
तान्येव शङ्कापदानि पठति -
स्यादेतदिति ।
अधिकारे प्रकरणे ।
यथैकस्मिन्ब्रह्मप्रकरणे 'अन्नं ब्रह्म', 'आनन्दो ब्रह्म' इति वाक्ययोर्ब्रह्मशब्दस्यान्ने गौणत्वमानन्दे मुख्यता तथैकवाक्यस्थस्यैकस्यापि सम्भूतशब्दस्य गुणमुख्यार्थभेदो योग्यताबलादित्याह -
स्याच्चेति ।
उदाहरणान्तरमाह -
यथा चेति ।
अभेदोपचारो भक्तिः ।
मुख्यसिद्धान्त्याक्षिपति -
कथं पुनरिति ।
स एवाक्षेपद्वयं स्पष्टयति -
नन्विति ।
अद्वितीयत्वश्रुतिबाधः सर्वविज्ञानप्रतिज्ञाबाधश्चेत्यर्थः ।
प्रथमाक्षेपं दृष्टान्तेन परिहरति -
एकमेवेति ।
कार्यरूपद्वितीयशून्यत्वं प्रागवस्थायामवधारणश्रुत्यर्थ इत्यर्थः । कुले गृहे । अमत्राणि घटादीनि पात्राणि ।
एकमेवेत्यवधारणव्यावर्त्यं कार्यमिति व्याख्यायाद्वितीयपदव्यावर्त्यमाह -
अद्वितीयश्रुतिरिति ।
आकाशस्य द्वितीयत्वमङ्गीकृत्याद्वितीयादिपदसङ्कोचः कृतः, तदपि नास्तीत्याह -
न च नभसापीति ।
धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह -
सर्गकाले त्विति ।
धर्मसाम्यादद्वितीयत्वोपचार इत्यर्थे श्रुतिमाह -
तथा चाकशेति ।
द्वितीयमाक्षेपं परिहरति -
अत एवेति ।
अभेदोपचारादेवेत्यर्थः ।
नभसो ब्रह्मतत्कार्याभ्यासभिन्नदेशकालत्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह -
अपि चेति ॥५॥
एवमाकाशस्यानुत्पत्तौ सर्वश्रुतीनामविरोध इत्येकदेशिसिद्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति -
प्रतिज्ञेति ।
अहानिरबाधः । सामयजुरथर्वणशाखाभेदज्ञापनार्था इति शब्दाः ।
न काचनेति ।
आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः ।
ननु सर्वस्य ब्रह्माव्यतिरेकात्प्रतिज्ञाया अहानिरित्यस्तु, तथापि जीवादिवदनुत्पन्नस्यापि नभसो ब्रह्मणि कल्पितत्वेनाव्यतिरेकात्प्रतिज्ञासिद्धिः किं न स्यात् , किमुत्पत्त्येत्यत आह -
शब्देभ्यश्चेति ।
अव्यतिरेक एव न्यायस्तेनेत्यर्थः ।अयं भावःजीवस्य तावदात्मत्वाद्ब्रह्माव्यतिरेकः । अज्ञानतत्सम्बन्धयोः कल्पितत्वेनाव्यतिरेकः । स्वतन्त्राज्ञानायोगादज्ञानान्यजडद्रव्यस्य तु कार्यत्वेनैवाव्यतिरेकसिद्धिः, तस्याकार्यत्वे प्रधानवत्स्वातन्त्र्यादव्यतिरेकायोगात् । तथाहुर्न्यायविदः 'नित्यद्रव्याणि स्वतन्त्राणि भिन्नान्यनाश्रितानि' इति ।