अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

द्वितीयाध्याये प्रथमः पादः (२)

न चैव­म­प­सि­द्धान्तः, कार्यानुसारेण गुण­स्व­भा­वा­ङ्गी­का­रा­दि­त्याह -
चलं गुणवृत्तमिति ।

पूर्व­सू­त्रो­क्ता­ङ्गा­ङ्गि­त्वा­नु­प­प­त्ति­दो­षा­भा­व­म­ङ्गी­कृत्य परिहरति -
एवमपीति ।
कार्यार्थं ज्ञान­श­क्ति­क­ल्पने ब्रह्मवादः स्यादित्यर्थः ।

अङ्गीकारं त्यजति -
वैषम्येति ॥९॥

सूत्रं व्याचष्टे -
परस्परेति ।
त्वङ्मात्रमेव ज्ञाने­न्द्रि­य­मे­क­म­ने­क­श­ब्दा­दि­ज्ञा­न­का­र­णम् , पञ्च कर्मेन्द्रियाणि मनश्चेति सप्ते­न्द्रि­याणि, ज्ञाने­न्द्रि­याणि पञ्च कर्मेन्द्रियाणि पञ्च मनश्चेत्येकादश । बुद्धिरहङ्कारो मन इति त्रीणि । एकमिति बुद्धिरेव ।

एवं पूर्वा­प­र­वि­रो­धा­दिति व्याख्याय श्रुति­स्मृ­ति­वि­प्र­ति­षे­धा­च्चे­त्य­र्था­न्त­र­माह -
प्रसिद्ध इति ।
तस्मा­द्भ्रा­न्ति­मू­ल­त्वा­त्सा­ङ्ख्य­शा­स्त्रस्य तेन निर्दे­ष­वे­दा­न्त­स­म­न्व­यस्य न विरोध इति सिद्धम् ।

स्वम­ता­सा­म­ञ्ज­स्य­म­स­ह­मानः साङ्ख्यः प्रत्यवतिष्ठते -
अत्राहेति ।
तप्यो जीवस्तापकः संसा­र­स्त­यो­र्भे­दा­न­ङ्गी­का­रा­ल्लो­क­प्र­सि­द्ध­स्त­प्य­ता­प­क­भावो लुप्येतेत्यर्थः ।

विवृणोति -
एकं हीति ।
तथा च भेदव्यवहारलोप इत्य­स­म­ञ्ज­स­मि­त्यर्थः ।

ननु तयो­रु­पा­दा­नै­क्येऽपि मिथो भेदोऽस्त्येव यथै­क­व­ह्न्या­त्म­क­यो­रौ­ष्ण्य­प्र­का­शयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्या­मा­त्म­नो­मोक्षो न स्यादित्याह -
यदि चेत्यादिना ।

ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्या­दि­ना­श­द­र्श­ना­दि­त्या­शङ्क्य दृष्टा­न्ता­सि­द्धि­माह -
योऽपीति ।

किञ्च भेदा­ङ्गी­का­रेऽ­प­सि­द्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह -
प्रसिद्धश्चेति ।

अर्थो ह्यर्ज­ना­ला­भा­दि­ना­र्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह -
यदीति ।

अर्थि­नोऽ­न्य­स्या­र्थ­स्या­भा­वा­द­र्थि­त्वा­भा­व­व­द­र्था­द­न्य­स्या­र्थि­नोऽ­स­त्त्वा­द­र्थ­त्वा­भावः प्रसज्येतेत्याह -
तथार्थस्यापीति ।

प्रस­ङ्ग­स्ये­ष्टत्वं निराकरोति -
न चैतदस्तीति ।
अर्थत्वं हि कामनाविषयत्वम् , तच्च काम्यादन्यस्य काम­यि­तु­र­स­त्त्वान्न स्यात् । न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव काम­यि­तृ­त्वा­यो­गात् । तस्मा­द्भे­दोऽ­ङ्गी­कार्य इत्यर्थः ।

इतश्च भेद इत्याह -
सम्बन्धीति ।
तथा­न­र्था­न­र्थि­ना­वपि भिन्ना­वि­त्य­न्वयः ।

अर्थानर्थयोः स्वरू­पो­क्ति­पू­र्वकं तापकत्वं स्फुटयति -
अर्थिनोऽनुकूल इति ।

अद्वैतमते मुक्ते­र­यो­ग­मुक्त्वा स्वमते योगमाह -
जात्यन्तरेति ।
तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वा­मि­भा­व­स्तस्य हेतु­र­ना­दि­र­वि­वे­क­स्तस्य परिहारो विवे­क­स्त­स्मा­न्नि­त्य­मु­क्त­स्यापि पुरुषस्य कथ­ञ्चि­दु­प­चा­रा­न्मो­क्षो­प­प­त्ति­रि­त्यर्थः । यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरु­षा­द­त्य­न्त­भि­न्न­बु­द्धि­गतौ बन्धमोक्षौ पुरुषे उपचर्येते । तदुक्तम् 'सैव च बध्यते मुच्यते च' इति ।

सिद्धान्तयति -
अत्रेति ।

किं परमार्थदृष्ट्या तप्य­ता­प­क­भा­वा­नु­प­प­त्ति­रु­च्यते, व्यवहारदृष्ट्या वा । नाद्य इत्याह -
न । एकत्वादेवेति ।
दोषत्वमिति शेषः ।

तस्या अदोषत्वं विवृणोति -
भवेदित्यादिना ।
एतत्तात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः ।

यत्र तप्यतापकभावो दृष्ट­स्त­त्रै­वेति व्यव­हा­र­प­क्ष­मा­दाय सिद्धान्ती ब्रूते -
किं न पश्यसीति ।

देहस्य तप्यत्वे देहा­त्म­वा­दा­प­त्ति­रिति शङ्कते -
नन्विति ।

अचेतनस्यैव देहस्य तप्तिर्नेति वदता साङ्ख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किं वा देहसंहतस्य, उत तप्तेः, आहो­स्वि­त्स­त्त्वस्य । नाद्य इत्याह -
उच्यत इति ।

न द्विती­य­तृ­ती­या­वि­त्याह -
नापीत्यादिना ।

चतुर्थं शङ्कते -
सत्त्वमिति ।

सत्त्व­र­ज­सो­स्त­प्य­ता­प­कत्वे पुरुषस्य बन्धा­भा­वा­च्छा­स्त्रा­र­म्भ­वै­य­र्थ्य­मिति परिहरति -
न । ताभ्यामिति ।

असङ्गत्वेऽपि पुरुषस्य तप्य­स­त्त्व­प्र­ति­बि­म्ब­त्वा­त्त­प्ति­रिति शङ्कते -
सत्त्वेति ।

तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्ति­रि­त्य­स्म­त्पक्ष आगत इत्याह -
परमार्थत इति ।

इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते - इव­श­ब्द­स्त­प्य­बु­द्धि­स­त्त्व­सा­दृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत्कल्पितमेव वस्तु­त­स्त­प्त्य­भा­वा­दि­त्यु­प­पा­द­यति -
न चेदिति ।
पुरुषो वस्तु­त­स्त­प्ति­शू­न्य­श्चे­दि­व­शब्दो न दोषाय मिथ्या­त­प्ति­प­र­त्वा­दि­त्यर्थः ।

मिथ्या­सा­दृ­श्य­मेव दोष इति चेत् , नेत्याह -
न हीति ।
सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः । साङ्ख्य­स्या­वि­द्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव सम्प­न्न­मि­त्यर्थः । यदि मिथ्या­त­प्य­त्वा­ङ्गी­का­रेऽ­प­सि­द्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथा­प्य­प­सि­द्धान्तः, कौटस्थ्यहानात् ।

अनिर्मोक्षश्च, सत्य­स्या­त्म­व­न्नि­वृ­त्त्यो­गा­दि­त्याह -
अथेत्यादिना ।

किञ्च रजसो नित्य­त्वा­द्दुः­ख­सा­त­त्य­मि­त्याह -
नित्यत्वेति ।

अत्र साङ्ख्यः शङ्कते -
तप्येति ।
सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमि­त्त­म­वि­वे­का­त्म­क­द­र्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुण­स्वा­मि­त्व­रू­प­स्त­द­पे­क्ष­त्वा­दि­त्यर्थः । मोक्ष­स्त­प्त्य­भावः ।

निमित्तस्य निवृ­त्त्य­भा­वान्न मोक्ष इति सिद्धान्ती परिहरति -
नेति ।

तमसो निवृ­त्त्य­भा­वेऽपि विवे­के­नो­प­र­मा­न्मोक्ष इत्यत आह -
गुणानां चेति ।
'चलं गुण­वृ­त्तम्' इत्य­ङ्गी­का­रा­दिति भावः ।

परपक्षे बन्ध­मो­क्षा­नु­प­प­त्ति­मुक्त्वा स्वप­क्ष­मु­प­सं­ह­रति -
औपनिषदस्य त्विति ।
वस्तुत एकत्वेन बन्धाभावान्न मुक्त्य­भा­व­श­ङ्का­व­सरः । व्यवहारस्तु भेदा­ङ्गी­का­रा­त्त­प्य­ता­प­क­भावो बन्धः तत्त्व­ज्ञा­ना­त्त­न्नि­वृ­त्ति­श्चो­प­प­द्यत इति न चोद्यावसर इत्यर्थः ॥१०॥

वृत्तानुवादेन 'मह­द्दी­र्घ­वत्' इति स्वम­त­स्था­प­ना­त्म­का­धि­क­र­णस्य सङ्गतिमाह -
प्रधानेति ।
यद्यपि साङ्ख्य­म­त­नि­रा­सा­न­न्तरं परमाणुवादो निराकर्तव्यः स्वमतस्थापनस्य स्मृतिपादे सङ्ग­त­त्वा­त्त­थापि पूर्वत्र प्रधानगुणानां सुखादीनां जग­त्य­न­न्व­या­त्प्र­धा­न­स्या­नु­पा­दा­न­त्व­मु­क्तम् , तथा ब्रह्म­गु­ण­चै­त­न्या­न­न्व­या­द्ब्र­ह्म­णोऽपि नोपादानत्वमिति दोषो दृष्टा­न्त­स­ङ्ग­ति­ला­भा­दत्र समाधीयत इत्यर्थः ।

चेतनाद्ब्रह्मणो जगत्सर्गवादी वेदान्तसमन्वयो विषयः । स किं यः समवायिकारणगुणः स कार्यद्रव्ये स्वस­मा­न­जा­ती­य­गु­णा­र­म्भ­क­स्त­न्तु­शौ­क्ल्य­व­दिति न्यायेन विरुध्यते न वेति सन्देहे न्याय­स्या­व्य­भि­चा­रा­द्वि­रु­ध्यत इति प्राप्ते व्यभिचारान्न तद्विरोध इति सिद्धान्तसूत्रं व्याचष्टे -
एषेत्यादिना ।

यद्यपि 'न विल­क्ष­ण­त्वात्' इत्यत्र चेतनादचेतनसर्गः साधितस्तथापि वैशेषिकन्यायस्य तदीयप्रक्रियया व्यभि­चा­रो­क्त्य­र्थ­त्वा­दस्य सूत्रस्य न गतार्थता । प्रलयकाले परमाणवो निश्चला असं­यु­क्ता­स्ति­ष्ठन्ति सर्गकाले चादृ­ष्ट­व­दा­त्म­सं­यो­गा­त्तेषु कर्म भवति, तेन संयो­गा­द्द्र­व्या­न्त­र­सृ­ष्टि­र्भ­वति, कारणगुणाः कार्ये गुणान्तरमानभन्त इति सामान्येन प्रक्रि­या­मुक्त्वा विशेषतस्तामाह -
यदा द्वाविति ।
परमाणुः परिमण्डलः, तद्गतं परिमाणं पारि­मा­ण्ड­ल्य­मि­त्यु­च्यते, तच्च स्वस­मा­न­जा­ती­य­गु­णा­र­म्भकं न भव­ती­त्यु­क्त­न्या­यस्य व्यभिचार इति भावः ।

व्यभि­चा­र­स्थ­ला­न्त­र­माह -
यदापि द्वे इति ।
द्वे द्वे इति शब्दद्वयं पठितव्यम् , एवं सति चतु­र्भि­र्द्व्य­णु­कै­श्च­तु­र­णु­का­रम्भ उपपद्यते, यथाश्रुते तु द्वाभ्यां द्व्यणुकाभ्यां मह­त­श्च­तु­र­णु­क­स्या­रम्भो न युज्यते, कारणगतं महत्वं बहुत्वं वा विना कार्ये महत्वायोगादिति मन्तव्यम् । प्रक­टा­र्थ­का­रास्तु यद्द्वाभ्यां द्व्यणु­का­भ्या­मा­रब्धं कार्ये महत्वं दृश्यते तस्य हेतुः प्रचयो नाम प्रशि­थि­ला­व­य­व­सं­योग इति रावणप्रणीते भाष्ये दृश्यत इति चिर­न्त­न­वै­शे­षि­क­दृ­ष्ट्येदं भाष्यमित्याहुः । सर्वथापि द्व्यणु­क­ग­त­ह्र­स्व­त्वा­णु­त्व­प­रि­मा­ण­यो­र­ना­र­म्भ­क­त्वा­द्व्य­भि­चरः ।

यद्यपि तार्किका द्वाभ्यामेव परमाणुभ्यां द्व्यणुकं त्रिभि­र्द्व्य­णु­कै­स्त्र्य­णु­क­मिति कल्पयन्ति तथापि तर्क­स्या­प्र­ति­ष्ठा­नान्न नियम इति मत्वा ब्रूते -
यदापि बहव इति ।
कारकगुणाः शुक्लादयः समा­न­जा­ती­य­गु­णा­र­म्भकाः, कार्य­द्र­व्य­प­रि­माणं तु न कार­ण­प­रि­मा­णा­रभ्यं किन्तु कार­ण­ग­त­स­ङ्ख्या­र­भ्य­मिति प्रक्रिया तुल्येत्यर्थः ।

एवं प्रक्रियां दर्शययित्वा सूत्रं योजयन् व्यभिचारमाह -
तदेवमिति ।
परमाणुभ्य एव महद्दीर्घं चेत्य­नि­य­त­प्र­क्रि­या­मा­श्रि­त्यो­क्तम् ।

निय­त­प्र­क्रि­या­मा­श्रित्य व्यभिचारमाह -
यथा वेति ।
अणुह्रस्वेभ्यो द्व्यणु­के­भ्योऽ­णु­द्रव्यं न जायते ह्रस्वमपि न जायत इति व्यभिचार इत्यर्थः । सूत्रे वाश­ब्द­श्चा­र्थोऽ­नु­क्ता­णु­स­मु­च्च­यार्थः । तथा च ह्रस्व­प­रि­म­ण्ड­लाभ्यां द्व्यणु­क­प­र­मा­णुभ्यां मह­द्दी­र्घा­णु­व­च्चे­त­ना­द­चे­तनं जायत इति सूत्रयोजना । तत्र ह्रस्वा­न्म­ह­द्दीर्घं त्र्यणुकं परिमण्डलादणु द्व्यणुकमिति विभागः ।

दृष्चा­न्त­वै­षम्यं शङ्कते -
अथ मन्यस इति ।

अचेतनैव विरोधिगुण इत्यत आह -
न ह्यचेतनेति ।

कार्यद्रव्यस्य परि­मा­णा­न्त­रा­क्रा­न्त­त्व­म­ङ्गी­कृत्य विव­क्षि­तां­श­सा­म्य­माह -
मैवमिति ।

अङ्गीकारं त्यजति -
न चेति ।
उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्वि­रो­ध्य­भा­वात् द्व्यणुके पारि­मा­ण्ड­ल्या­रम्भः किं न स्यादित्यर्थः ।

ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह -
आरब्धमपीति ।
सहो­त्प­त्ता­व­प­सि­द्धान्तः । अतो विरोध्यभावः सिद्ध इति भावः ।

अणु­त्वा­द्या­रम्भे व्यग्र­त्वा­त्पा­रि­मा­ण्ड­ल्यादेः स्वस­मा­न­गु­णा­ना­र­म्भ­क­त्व­मि­त्या­शङ्क्य निषेधति -
न चेति ।
व्यग्र­त्व­म­न्य­था­सि­द्धम् ।

तत्र हेतुः -
परि­मा­ण­न्त­र­स्येति ।

अन्यहेतुकत्वे सूत्रा­ण्यु­दा­ह­रति -
कारणेति ।
कारणानां द्व्यणुकानां बहु­त्वा­त्त्र्य­णुके महत्वं मृदो महत्वात् घटे महत्वम् , द्वितू­ल­पि­ण्डा­र­ब्धेऽ­ति­स्थू­ल­तू­ल­पिण्डे प्रच­या­द­व­य­व­सं­यो­ग­वि­शे­षा­न्म­ह­त्व­मि­त्यर्थः ।

मह­त्व­वि­रु­द्ध­म­णुत्वं पर­मा­णु­ग­त­द्वि­त्व­स­ङ्ख्यया द्व्यणुके भवतीत्याह -
तदिति ।

यन्म­ह­त्व­स्या­स­म­वा­यि­का­रणं तदेव मह­त्व­स­मा­ना­धि­क­र­णस्य दीर्घत्वस्य, यच्चा­णु­त्व­स्या­स­म­वा­यि­का­रणं तदे­वा­णु­त्वा­वि­ना­भू­त­हृ­स्व­त्व­स्या­स­म­वा­यि­का­र­ण­मि­त्य­ति­दि­शति -
एतेनेति ।
अतो मह­त्वा­दा­व­हे­तु­त्वा­त्पा­रि­मा­ण्ड­ल्या­दीनां व्यग्र­त्व­म­सि­द्ध­मिति भावः ।

तेषां सन्नि­धि­वि­शे­षा­भा­वान्न समा­न­गु­णा­र­म्भ­क­त्व­मि­त्यपि न वाच्यमित्याह -
न चेति ।
पारि­मा­ण्ड­ल्या­दी­ना­मपि बहु­त्वा­दि­व­त्स­म­वा­यि­का­र­ण­ग­त­त्वा­वि­शे­षा­दि­त्यर्थः ।

तेषा­म­ना­र­म्भ­कत्वे कार्यद्रव्यस्य विरो­धि­गु­णा­क्रा­न्तत्वं व्यग्र­त्व­म­स­न्नि­धिर्वा न हेतु­रि­त्यु­क्ति­फ­ल­माह -
तस्मादिति ।
यत्तु कारणगुणः स्वस­मा­न­गु­णा­र­म्भक इति व्याप्तेः सामान्यगुणेषु पारि­मा­ण्ड­ल्या­दिषु व्यभिचारेऽपि यो द्रव्य­स­म­वा­यि­का­र­ण­गतो विशेषगुणः स स्वस­मा­न­जा­ती­य­गु­णा­र­म्भक इति व्याप्ते­श्चै­त­न्यस्य विशे­ष­गु­ण­त्वा­दा­र­म्भ­कत्वं दुर्वारमिति, तन्मन्दम् , चित्र­प­ट­हे­तु­त­न्तु­ग­तेषु नीलादिरूपेषु विजा­ती­य­चि­त्र­रू­प­हे­तुषु व्यभि­चा­रा­च्चै­त­न्य­स्या­त्म­त्वेन गुण­त्वा­भा­वा­च्चेति मन्तव्यम् ।

तस्मा­च्चे­त­ना­द्वि­जा­ती­या­रम्भो युक्त इति स्थितम् । तत्रो­दा­ह­णा­न्त­र­माह -
संयोगाच्चेति ।

ननु चेतनं ब्रह्म कार्यो­पा­दा­न­त्वा­द्द्र­व्यम् , तन्न विल­क्ष­ण­स्यो­पा­दा­न­मिति प्रकृते किञ्चि­द्द्र­व्य­मेव विल­क्ष­ण­का­र्य­क­र­मु­दा­ह­र्त­व्यम् , न संयोगस्य गुण­स्यो­दा­ह­र­ण­मिति शङ्कते -
द्रव्य इति ।

गुणात् द्रव्य­व­च्चे­त­ना­द­चे­त­ना­रम्भ इति विल­क्ष­णा­र­म्भ­क­त्वां­शेऽयं दृष्टान्त इति परिहरति -
नेति ।

अनियमः कणादसम्मत इत्याह -
सूत्रकारोऽपीति ।

एतावता कथमनियमः, तत्राह -
एतदुक्तमिति ।

न विल­क्ष­ण­त्व­न्या­येन पुन­रु­क्त्य­भा­वेऽ­ति­दे­शा­धि­क­र­णेन पुनरुक्तिरिति शङ्कते -
नन्वतिदेश इति ।

समा­न­गु­णा­र­म्भ­नि­य­मस्य पारि­मा­ण्ड­ल्या­दि­दृ­ष्टा­न्तेन भङ्गा­र्थ­म­स्या­रम्भ इत्याह -
सत्यमिति ।
तस्यै­वा­ति­दे­श­स्ये­त्यर्थः ॥११॥

वैशे­षि­क­म­त­प­री­क्षा­मा­र­भते -
उभयथापि न कर्मातस्तदभावः ।

नास्य प्रासङ्गिकेन पूर्वाधिकरणेन सङ्ग­ति­र­पे­क्षि­तेति मन्वानः प्रधा­न­स्ये­श्व­रा­न­धि­ष्ठि­त­स्या­का­र­ण­त्वेऽपि परमाणूनां तदधिष्ठितानां कार­ण­त्व­म­स्त्विति प्रत्यु­दा­ह­र­ण­स­ङ्गत्या साङ्ख्या­धि­क­र­णा­न­न्त­र्य­मस्य वदं­स्ता­त्प­र्य­माह -
इदानीमिति ।

द्व्यणु­का­दि­क्र­मेण पर­मा­णु­भि­र्ज­ग­दा­र­भ्यत इति वैशे­षि­क­रा­द्धा­न्तोऽत्र विषयः । स किं मानमूलो भ्रान्तिमूलो वेति सन्देहे पूर्वपक्षयति -
स चेति ।
तैः पटादिभिः सामान्यं क्षित्यादेः कार्य­र्द्र­व्यत्वं तेनेत्यर्थः । विमतं सावयवं क्षित्यादिकं स्वन्यू­न­प­रि­मा­ण­सं­यो­ग­स­चि­वा­ने­क­द्र­व्या­र­ब्धम् , कार्य­द्र­व्य­त्वात् , पटादिवदिति प्रयोगः । स्वेष्ट­प­र­मा­णु­सि­द्ध्य­र्थानि साध्यविशेषणानि ।

नन्वेतावता कथं परमाणुसिद्धिः, तत्राह -
स चायमिति ।
विमतं सावयवत्वं पक्षतावच्छेदकं यतो निवर्तते स न्यून­प­रि­मा­ण­स्या­प­क­र्षस्य पर्य­न्त­त्वे­ना­व­सा­न­भू­मि­त्वे­ना­व­गतः परमाणुरित्यर्थः । याव­त्सा­व­य­व­म­नु­मा­न­प्र­वृत्तेः द्व्यणु­क­न्यू­न­द्रव्यं निरवयवं सिद्ध्यतीति भावः ।

जग­न्नि­त्य­त्व­वा­दा­त्का­र्य­द्र­व्य­त्व­हे­त्व­सि­द्धि­रिति वदन्तं प्रत्याह -
सर्वं चेति ।
विमतमाद्यन्तवत् , सावयवत्वात् , पटवदित्यर्थः ।

हेतोरसिद्धिं निर­स्या­प्र­यो­ज­कत्वं निरस्यति -
न चेति ।

ते कतिविधा इत्या­का­ङ्क्षा­या­माह -
तानीति ।

प्रलये चैषामपि नाशान्न जग­त्का­र­ण­त्व­मि­त्या­श­ङ्क्याह -
तेषां चेति ।
अवयवानां विभा­गा­न्ना­शा­द्वा­व­य­विनो नाशः । परमाणूनां निर­व­य­व­त्वे­ना­व­य­व­वि­भा­गा­दे­र्ना­श­हे­तो­र­स­म्भ­वान्न नाश इत्यर्थः ।

तेषां नित्यत्वे फलितं सृष्टिक्रममाह -
तत इति ।
एवं काणादमतस्य मानमूलत्वात्तेन वेदा­न्त­स­म­न्व­यस्य विरो­धा­द­सि­द्धि­रिति पूर्वपक्षे फलम् ।

तस्य भ्रान्ति­मू­ल­त्वा­द­वि­रोध इति सिद्धान्तयति -
तत्रेदमिति ।
प्रलये विभक्तानां पर­मा­णू­ना­म­न्य­त­र­क­र्म­णो­भ­य­क­र्मणा वा संयोगो वाच्यः, कर्मणश्च निमित्तं प्रयत्नादिकं दृष्टम् , यथा प्रय­त्न­व­दा­त्म­क­सं­यो­गा­द्दे­ह­चेष्टा, वाय्वा­द्य­भि­घा­ता­द्वृ­क्षा­दि­च­ल­नम् , हस्त­नो­द­ना­दि­ष्वा­दि­ग­म­नम् , तद्वदणुकर्मणो दृष्टं निमि­त्त­म­भ्यु­प­ग­म्यते न वा । द्वितीये कर्मानुत्पत्तिः नाद्यः, प्रयत्नादेः सृष्ट्यु­त्त­र­का­ली­न­त्वा­दि­त्यु­भ­य­थापि न कर्म सम्भवति । अतः कर्मा­स­म्भ­वा­त्तस्य संयो­ग­पू­र्व­क­द्व्य­णु­का­दि­स­र्ग­स्या­भाव इति सूत्रार्थः । स्थिरस्य वेग­व­द्द्र­व्य­सं­यो­गा­वि­शे­षोऽ­भि­घातः स एव चलस्य नोदनमिति भेदः ।

दृष्ट­नि­मि­त्ता­भा­वेऽ­प्य­दृ­ष्ट­व­दा­त्म­सं­यो­गा­द­णुषु कर्मेति शङ्कते -
अथादृष्टमिति ।

विकल्पपुरःसरं दूषयति -
तत्पुनरिति ।
जडा­त्म­व­द­णो­रा­श्र­यत्वं किं न स्यादिति मत्वा विकल्पः कृत इति मन्तव्यम् ।

अत्रापि सूत्रं योजयति -
उभयथेति ।

जीवा­धि­ष्ठि­त­म­दृष्टं निमि­त्त­म­स्त्वि­त्यत आह -
आत्मनश्चेति ।
अचे­त­न­त्वा­न्ना­धि­ष्ठा­तृ­त्व­मिति शेषः । भिन्ने­श्व­र­स्या­धि­ष्ठा­तृ­त्व­मग्रे निराकरिष्यते । अचे­त­न­त्व­म­दृ­ष्टस्य कर्म­नि­मि­त्त­त्वा­भावे हेतुरुक्तः ।

हेत्वन्तरमाह -
आत्म­स­म­वा­यि­त्वेति ।

गुरु­त्व­व­द­दृ­ष्ट­मपि स्वाश्र­य­सं­युक्ते क्रियाहेतुरिति शङ्कते -
अदृष्टवतेति ।

विभु­सं­यो­ग­स्या­णुषु सदा सत्त्वा­त्क्रि­या­सा­तत्ये प्रलयाभावः स्यादिति दूषयति -
सम्बन्धेति ।

कादा­चि­त्क­प्र­वृ­त्ते­र­दृ­ष्ट­नि­य­म्य­त्वा­यो­गेऽ­पी­श्व­रा­न्नि­यम इत्यत आह -
नियामकान्तरेति ।
यज्ज्ञानं तच्छरीरजन्यमिति व्याप्तिविरोधेन नित्य­ज्ञा­ना­सि­द्धे­स्त­द्गुण ईश्वरो नास्ति, अस्तित्वेऽपि सदा सत्त्वान्न नियामकत्वमिति भावः ।

सूत्रार्थं निगमयति -
तदेवमिति ।

संयोगस्य हेतुत्वं खण्डयित्वा स्वरूपं खण्डयति -
संयोगश्चाणोरिति ।
संयोगस्य व्याप्य­वृ­त्तित्वे एक­स्मि­न्नि­त­र­स्या­न्त­र्भा­वा­त्का­र्यस्य पृथु­त्वा­यो­गा­त्सर्वं कार्यं परमाणुमात्रं स्यादित्यर्थः ।

किञ्च सांशद्रव्ये संयो­ग­स्यै­कां­श­वृ­त्तित्वं दृष्टं तद्वि­रो­धा­द्व्या­प्य­वृ­त्तित्वं न कल्प्यमित्याह -
दृष्टेति ।
परमाणोः संयोग एकदेशेन चेदिति सम्बन्धः । दिग्भेदेन कल्पि­त­प्र­दे­श­स्थ­सं­यो­ग­स्यापि कल्पितत्वात्ततः कार्यं नोत्पद्येत, उत्पन्नं वा मिथ्या स्यादि­त्य­प­सि­द्धान्त इत्यर्थः ।

काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयनिरासेऽपि सूत्रं योजयति -
यथा चेति ।
परमाणूनां कर्मणा संयोगात्सर्गः, विभागात्प्रलय इति प्रक्रिया न युक्ता, युग­प­द­न­न्त­प­र­मा­णूनां विभागे निय­त­स्या­भि­घा­ता­दे­र्दृ­ष्टस्य निमि­त्त­स्या­स­त्त्वात् धर्मा­ध­र्म­रू­पा­दृ­ष्टस्य सुख­दुः­खा­र्थ­त्वेन सुख­दुः­ख­शू­न्य­प्र­ल­य­प्र­यो­ज­क­त्वा­यो­गा­न्ना­दृ­ष्ट­नि­मि­त्तेन कर्मणा विभागः सम्भवति । तथा च दृष्टा­दृ­ष्ट­नि­मि­त्त­यो­र­स­त्त्वा­दु­भ­य­थापि संयोगार्थत्वेन विभागार्थत्वेन च कर्म नास्ति, अतः कर्माभावात्तयोः संयो­ग­वि­भा­ग­पू­र्व­कयोः सर्गप्रलययोरभाव इति सूत्रयोजना ॥१२॥

सम­वा­या­भ्यु­प­ग­माच्च तदभावः ।
अणुवादासम्भव इति योग्यतया सम्बध्यते द्व्यणु­क­स­म­वा­ययोः पर­मा­णु­भि­न्न­त्व­सा­म्यात् द्व्यणु­क­व­त्स­म­वा­य­स्यापि सम­वा­या­न्त­र­मि­त्य­न­व­स्थि­ति­रि­त्यर्थः ।

नन्विह तन्तुषु पट इत्या­दि­वि­शि­ष्ट­धी­नि­या­मकः समवायो न सम्ब­न्धा­न्त­र­म­पे­क्षते, स्वरूपेणैव नित्य­स­म्ब­द्ध­त्वा­दिति शङ्कते -
नन्विहेति ।

संयोगस्यापि स्वरू­प­स­म्ब­न्धो­प­पत्तेः समवायो न स्यादिति दूषयति -
नेति ।
सम्ब­न्धि­भि­न्न­त्वा­च्चे­द­पेक्षा समवायस्यापि तुल्या ।

गुण­प­रि­भा­षा­या­श्चेति ।
गुणत्वाभावेऽपि कर्म­सा­मा­न्या­दीनां सम­वा­या­ङ्गी­का­रा­द्गु­णत्वं समवायित्वे न व्यापकम् । नापि व्याप्यम् , गुणस्यापि सम­वा­य­व­त्स्व­रू­प­स­म्ब­न्ध­स­म्भ­वेन व्याप्त्य­नु­कू­ल­त­र्का­भा­वात् । तस्मा­त्स­म्ब­न्धि­भि­न्न­त्व­मेव सम्ब­न्धा­न्त­रा­पे­क्षायां कारणम् , तस्य समवायेऽपि तुल्य­त्वा­द­न­वस्था दुर्वारा । सा च मूलक्षयकारी । तया समवायासिद्धौ सम­वे­त­द्व्य­णु­का­सि­द्धि­रि­त्यर्थः ॥१३॥

सूत्रं व्याचष्टे -
अपि चेति ।
अनुभवस्वभावत्वे नैमित्तिकी प्रवृ­त्ति­र्वाच्या, निमित्तं च कालादृष्टादिकं नित्य­स­न्नि­हि­त­मिति नित्यमेव प्रवृ­त्ति­प्र­सङ्गः, तस्या­नि­मि­त्तत्वे प्रवृत्त्यभाव इत्यर्थः ॥१४॥

किं च परमाणवः समवायिकारणवन्तः कारणापेक्षया स्थूला अनित्याश्च, रूपवत्त्वात् रस­व­त्त्वा­द्ग­न्ध­व­त्त्वा­त्स्प­र्श­व­त्त्वात् घटवदिति सूत्रं योजयितुं परप्रक्रियामाह -
साव­य­वा­ना­मि­त्या­दिना ।
नन्वत्र परमाणुत्वं पक्षतावच्छेदकं तद्विरुद्धं स्थूलत्वं कथं साध्यत इति चेत् । न । वायु­त्व­ते­ज­स्त्वादेः पृथ­ग­व­च्छे­द­क­त्वात् । न चाप्रयोजकता, कारणशून्यत्वे नित्यत्वे चात्म­व­द्रू­पा­दि­म­त्त्वा­यो­गात् । न च तर्हि वायुः कारणवानिति पृथक्साधने रूपादिहेतूनां भागा­सि­द्ध्य­भा­वेऽपि सिद्धसाधनता स्यादिति वाच्यम् , यत्र स्पर्श­स्त­त्स­का­र­णम् , यत्र रूपं तत्सकारणमिति व्याप्ति­ग्र­ह­काले वायु­त्वा­द्य­व­च्छे­देन साध्य­सि­द्ध्य­भा­वा­दिति भावः ।

परमाणवो नित्याः, सत्त्वे सत्य­का­र­ण­व­त्त्वात् , आत्मवदिति सत्प्र­ति­प­क्ष­मु­त्थाप्य विशे­ष्या­सिद्ध्या दूषयति -
यच्च नित्यत्व इति ।
सत्त्वं भावत्वं प्राग­भा­व­नि­रा­सा­र्थम् ।

नित्य­त्व­प्र­ति­षेधः सप्रतियोगिकः, अभावत्वात् , घटाभावावदिति नित्यस्य क्वचित्सिद्धौ कार्यमनित्यमिति विशेषतः कार्ये नित्य­त्व­प्र­ति­षे­धा­त्का­र­ण­भू­त­प­र­मा­णुषु नित्यत्वं सिध्यति, अन्यथा प्रतियोग्यभावे प्रति­षे­धा­नु­प­प­त्ते­रिति कणा­दो­क्त­म­नू­द्या­न्य­था­सिद्ध्या दूषयति -
यदपीति ।
कार्ये नित्य­त्व­प्र­ति­षे­ध­व्य­व­हा­र­म­ङ्गी­कृत्य ब्रह्मणि प्रति­यो­गि­प्र­सि­द्धि­रुक्ता ।

वस्तुतस्तु विशेषव्यवहार एवासिद्धः, कारणनित्यत्वस्य प्रमाणान्तरेण ज्ञानं विना कार्यमनित्यमिति व्यव­हा­रा­यो­गा­दि­त्याह -
न च शब्देति ।
यदि प्रमाणान्तरं कारणनित्यत्वे स्यात्तदायं व्यवहारः समूलो भवति, ततो मूल­ज्ञा­ना­त्प्रा­ग्व्य­व­हा­र­मा­त्रान्न वस्तुसिद्धिः, वटे यक्षव्यवहारादपि तत्सि­द्धि­प्र­स­ङ्गात् मूलज्ञाने तु तेनैव अशे­ष­सि­द्धे­र्व्य­व­हा­रो­प­न्या­स­वै­य­र्थ्य­मिति भावः ।

एवं परमाणुनित्यत्वे काणादसूत्रद्वयं निरस्य तृतीयं निरस्यति -
यदपीति ।
सतामणूनां दृश्य­मा­न­स्थू­ल­का­र्याणां प्रत्यक्षेण कार­ण­ज्ञा­न­म­वि­द्येति यदि सूत्रार्थः, तर्ह्य­प्र­त्य­क्ष­का­र­णत्वं नित्यत्वे हेतुः स्यात् । तन्न द्व्यणुके व्यभि­चा­रा­दि­त्यर्थः ।

यद्या­र­म्भ­क­द्र­व्य­शू­न्यत्वं हेतुविशेषेणं तदा विशे­ष्य­वै­य­र्थ्य­मा­प­द्येत, पुन­रु­क्ति­श्चे­त्याह -
अथेत्यादिना ।

परमाणवो नित्याः, नाशकानुपलम्भात् , आत्मवदिति सूत्रा­र्थ­मा­श­ङ्कते -
अथापीति ।
तन्त्वा­द्य­व­य­वानां विभा­गा­न्ना­शाद्वा पटादिनाशो दृष्टः, तच्च द्वयं निरवयवाणूनां नास्तीति नित्य­त्व­मि­त्यर्थः ।

परि­णा­म­वा­द­मा­श्रि­त्या­णूनां नाशकं किञ्चि­त्स­म्भ­व­तीति परिहरति -
नेति ।
अवयवानां संयोगेन द्रव्या­न्त­रो­त्प­त्ति­रा­रम्भ इति यदि मतं स्यात् , तदा द्रव्यविनाशो द्वाभ्या­मे­वे­ति­नि­यमः स्यात् । नारम्भे मानमस्ति संयु­क्त­त­न्त्व­न्य­व­प­टा­द­र्श­नात् । अतः कारणमेव स्वतो निर्विशेषं विशे­ष­व­द­व­स्था­त्मना कार्य­मि­त्य­नु­भ­व­ब­ला­दा­स्थे­यम् । तथा चाणू­ना­म­प्य­वि­द्या­प­रि­णा­म­रू­पाणां प्रलयनिमित्तेन कालादिना पिण्डा­त्म­क­स्व­रू­प­ति­रो­भा­वेन कार­ण­भा­वा­प­त्ति­र्वि­नाश उपपद्यते । यथा­ग्नि­स­म्प­र्का­द्घृ­त­का­ठि­न्य­म­व­य­व­सं­यो­ग­स्या­व­य­वानां च नाशं विनैव लीयते तद्वत् । न च काठिन्यस्य संयोगविशेषत्वेन गुण­त्वा­द्द्र­व्य­ना­शेऽ­नु­दा­ह­र­ण­त्व­मिति शङ्क्यम् , गुण­व­द्द्र­व्य­स्यापि कुतश्चिद्विनाश इत्यं­शे­नो­द­ह­र­णात् , गुण­प­रि­भा­षा­या­श्चा­त­न्त्र­त्वात् । वस्तुतस्तु घृतं कठिनं द्रव­मि­त्य­नु­स्यू­त­घृ­त­प­रि­णा­म­वि­शेषो द्रव्यमेव काठिन्यम् । न च द्रव्य­त्वेऽ­प्य­व­य­व­वि­भा­गा­देव तस्य नाश इति वाच्यम् , घृतस्य परिणामिन एकत्वेन विभागासम्भवात् , पर­मा­णु­का­ठि­न्य­नाशे तदसम्भवाच्चेति भावः । किञ्च प्रलये नासीद्रजो नान्य­त्कि­ञ्च­ने­त्य­णूनां नाशसिद्धिः ।

तस्मान्न तेषां पर­म­का­र­ण­त्व­मि­त्यु­प­सं­ह­रति -
तस्मादिति ॥१५॥

यद्य­स्मा­द­धि­क­गु­ण­व­त्त­त्त­स्मा­त्स्थू­ल­मिति व्याप्ति­मुक्त्वा विकल्पयति -
तद्वदिति ।

पार्थिवः पर­मा­णु­र­धि­क­गु­ण­स्तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्प्यते, न वा । आद्ये दोषमाह -
कल्प्यमान इति ।
मूर्त्यु­प­च­या­त्स्थौ­ल्या­दि­त्यर्थः । पार्थि­वोऽ­णु­रा­प्या­त्स्थूलः, अधिकगुणत्वात् , घटवदित्येवं प्रयोक्तव्यः ।

अप्रयोजकत्वं निरस्यति -
न चान्तरेणेति ।
दृष्टविरोधः स्यादिति भावः ।

नेति पक्षे सर्वेषामणूनां साम्या­र्थ­मे­कै­क­गु­ण­वत्त्वं वा स्याच्च­तु­र्गु­ण­वत्वं वा । उभयथापि दोषमाह -
अकल्प्यमाने त्वित्यादिना ॥१६॥

न केव­ल­म­णु­वा­द­स्या­यु­क्त­त्वा­दु­पेक्षा किन्तु शिष्ट­ब­हि­ष्कृ­त­त्वा­द्ग्र­न्थ­तोऽ­र्थ­त­श्चा­ग्रा­ह्य­त्व­मि­त्याह -
अपरिग्रहाच्चेति ।

चकारार्थं प्रप­ञ्च­यि­तु­मु­प­क्र­मते -
अपि चेति ।

अत्य­न्त­भे­द­ज्ञा­प­क­माह -
भिन्नलक्षणादिति ।
द्रव्य­गु­ण­क­र्मणां द्रव्य­त्व­गु­ण­त्व­क­र्म­त्व­जा­तयो लक्षणानि, गुणा­श्र­य­त्वा­द्यु­पा­धयो वा, निर्गुणत्वे सति जातिमदक्रियत्वं गुणलक्षणम् , संयो­ग­वि­भा­ग­यो­र्नि­र­पे­क्ष­का­रणं कर्म, नित्य­मे­क­म­ने­क­स­म­वेतं सामान्यम् , नित्य­द्र­व्य­वृ­त्तयो विशेषाः, नित्यः सम्बन्धः समवाय इति भिन्नानि लक्षणानि । तैर्मि­थोऽ­त्य­न्त­भे­द­सि­द्धि­रि­त्यर्थः । तथा­त्व­म­त्य­न्त­भि­न्न­त्वम् । तेन विरुद्धो यो धर्मधर्मिभावः । गुणादयो न द्रव्यधर्माः स्युः, ततोऽ­त्य­न्त­भि­न्न­त्वात् , शश­कु­शा­दि­व­दि­त्यर्थः ।

भेद­बा­ध­क­त्व­मु­प­न्य­स्या­भे­द­माह -
अथ भवतीति ।
गुणादिषु तदधीनत्वं ताव­द­न्व­य­व्य­ति­रे­क­सि­द्धम् , तथा च गुणादयो द्रव्याभिन्नाः, द्रव्या­धी­न­त्वात् , यद्य­स्मा­द्भिन्नं तन्न तदधीनम् , यथा शशभिन्नः कुश इत्यर्थः ।

अभेदे द्रव्यं गुण इति शब्दप्रत्ययभेदः कथम् , तत्राह -
द्रव्यमिति ।
कल्पि­त­भे­दोऽ­प्य­स्ती­त्या­शयः । अन्य­था­त्य­न्त­भे­द­व­द­त्य­न्ता­भे­देऽपि धर्म­ध­र्मि­त्वा­यो­गा­दिति मन्तव्यम् ।

अस्तु गुणादीनां द्रव्य­ता­दा­त्म्य­मिति वदन्तं तार्किकमन्यं प्रत्याह -
तथा सतीति ।
साङ्ख्योऽत्र वेदान्ती ग्राह्यः । यद्वा कापिलस्यापि तादा­त्म्य­सि­द्धान्त इति साङ्ख्यग्रहणम् ।

यद्यपि तदधीनत्वं तद्धर्मत्वम् , तच्च धूमे नास्ति, अग्निं विनापि भावात् , तथापि तत्कार्यत्वं तदधीनत्वं मत्वा व्यभिचारं शङ्कते -
नन्विति ।

कार्य­त्व­म­न्यत्वं चाङ्गीकरोति -
सत्यमिति ।
तथापि तादात्म्येन प्रतीयमानत्वस्य हेतो­र्वि­व­क्षि­त­त्वान्न व्यभिचार इत्याशयः ।

अस्य हेतो­र­न्य­था­सि­द्धि­मा­श­ङ्कते -
गुणादीनामिति ।
गुणादीनां द्रव्ये­णा­भे­दा­भा­वेऽ­प्य­यु­त­सि­द्ध­त्वेन तादा­त्म्य­प्र­ती­ति­सि­द्धि­रि­त्यर्थः ।

दूषयितुं विकल्पयति -
तत्पुनरिति ।

शौक्ल्यस्य पट­नि­ष्ठ­त्वा­त्प­टस्य तन्तु­दे­श­त्वा­त्प­ट­शौ­क्ल्य­यो­र­पृ­थ­ग्दे­श­त्वा­भा­वा­च्छुक्लः पट इति सामा­ना­धि­क­र­ण्य­प्र­ती­तिर्न स्यादित्याद्यं दूषयति -
अपृथग्देशत्व इति ।

काणादसूत्रद्वयं व्याचष्टे -
तन्तवो हीति ।

स्वभावो हि स्वरूपं तस्या­पृ­थ­क्त्वेऽ­स्म­दि­ष्टा­भे­द­सि­द्धि­रि­त्याह -
अपृथक्त्वभावत्व इति ।

अभेदे युक्तिमाह -
तस्येति ।
गुणस्येत्यर्थः । एवं षट्पदार्था अत्यन्तभिन्ना इति सिद्धा­न्तोऽ­नु­भ­व­वि­रो­धेन दूषितः ।

सिद्धान्तान्तरं दूषयति -
युतेति ।

अयुतसिद्धत्वं किमु­भ­यो­रु­ता­न्य­त­रस्य । नाद्य इत्याह -
प्रागिति ।

द्वितीयमाशङ्क्य दूषयति -
अथेत्यादिना ।

कारणस्य पृथ­क्सि­द्ध­त्वेऽपि कार्य­म­पृ­थ­क्सि­द्ध­मि­त्यु­क्त­मु­पेत्य सम्ब­न्धोऽ­सि­द्धस्य सिद्धस्य वेति विकल्प्याद्यं दूषयित्वा द्वितीयं शङ्कते -
सिद्धं भूत्वेति ।
सतोरप्राप्तयोः प्राप्तिः संयोग इत्य­भ्यु­प­ग­मा­त्त­न्तु­प­ट­यो­रपि संयो­गा­प­त्ति­रि­त्य­प­सि­द्धान्तः स्यादित्यर्थः ।

सद्योजातपटस्य क्रियाभावात्कथं संयोगः, तत्राह -
यथेति ।

किञ्च सम्बन्धस्यापि सम्ब­न्धेऽ­न­व­स्था­ना­द­स­म्ब­द्ध­स्या­नि­या­म­क­त्वा­त्स­म्ब­न्धोऽपि दुर्निरूप इत्याह -
नापीति ।

सम्बन्धः सम्बन्धिभिन्नः, तद्वि­ल­क्ष­ण­श­ब्द­धी­ग­म्य­त्वात् , वस्त्वन्तरवदिति शङ्कते -
सम्बन्धीति ।

कल्पितभेदसाधने सिद्धसाधनता, वस्तुभेदसाधने तु व्यभिचार इति समाधत्ते -
न । एकत्वेऽपीति ।
स्वरूपेणैव मनु­ष्या­दि­श­ब्द­भा­गेव पुत्रा­द्य­पे­क्षया पिते­त्या­दि­वि­ल­क्ष­ण­श­ब्द­धी­गम्यो भवति, न च भिद्यत इति व्यभिचार इत्यर्थः ।

फलितमाह -
इत्युपलब्धीति ।
विल­क्ष­ण­श­ब्द­धी­ग­म्य­त्वा­दि­त्यु­प­ल­ब्धि­घ­टि­तेन लक्षणेन लिङ्गेन प्राप्तस्य वस्त्वन्तरस्य संयोगादेः सम्ब­न्धि­व्य­ति­रे­के­णा­नु­प­ल­ब्धे­र­भावो निश्चीयत इत्यर्थः । न ह्यङ्गु­लि­द्व­यस्य नैर­न्त­र्या­ति­रे­केण संयोग उपलभ्यते । समवायस्तु न कस्यापि क्वचि­द­प्य­नु­भ­व­मा­रो­ह­तीति भावः ।

सम्बन्धस्य सम्बन्ध्यभेदे सम्बन्धिनः सदा सत्त्वात्सर्वदा सम्ब­न्ध­बु­द्धि­प्र­सङ्ग इति शङ्कां निषेधति -
नापीति ।
परापेक्षया नैर­न्त­र्या­व­स्था­या­म­ङ्गुल्योः रूपरूपिणोश्च सम्बन्धिधीः, न स्वत इत्यु­क्त­मि­त्यर्थः ।

पूर्वं परमाण्वोः संयोगनिरासेन द्व्यणु­का­दि­सृ­ष्टि­र्नि­रस्ता, सम्प्र­त्य­दृ­ष्ट­व­दा­त्म­ना­णूनां संयोगोऽणुषु क्रियाहेतुः, आत्ममनसोः संयोगो बुद्ध्या­द्य­स­म­वा­यि­का­रणं निरस्यते -
तथाण्वात्मेति ।

निरस्तमपि कल्पि­त­प्र­दे­श­प­क्ष­म­ति­प्र­स­ङ्गा­ख्य­दो­षा­न्तरं वक्तुं पुनरुद्भावयति -
कल्पिता इति ।
कल्पनमूहः । ऊहितार्थाः सन्तोऽसन्तो वा । द्वितीये न संयोगसिद्धिः स्वस्वा­भा­व­यो­रे­कत्र वृत्त्य­व­च्छे­द­का­स­त्त्वात् । आद्ये तूहमात्रेण सर्वा­र्थ­सि­द्धि­प्र­सङ्गः, ऊहस्य स्वाधीनत्वात् । प्रभूतत्वं निरवधित्वं तत्स­म्भ­वा­च्चे­त्यर्थः ।

यद्यू­हा­त्स­र्व­सि­द्धि­स्तदा पदा­र्थ­ब­न्ध­मु­क्ति­नि­यमा लुप्ये­र­न्नि­त्याह -
न चेत्यादिना ।

संयोगं दूषयित्वा समवायं दूषयति -
किञ्चान्यदिति ।
तन्मते दूषणान्तरमुच्यत इत्यर्थः । संश्लेषः सङ्ग्रहः । यत एका­क­र्ष­णे­ना­प­रा­क­र्षणं तस्या­नु­प­प­त्ति­रि­त्यर्थः । द्व्यणुकं निरवयवासमवेतम् , सावयवत्वात् , आका­शा­स­म­वे­त­भू­मि­व­दिति भावः ।

ननु द्व्यणु­क­स्या­स­म­वे­तत्वे तदाश्रितत्वं न स्यात् , सम्बन्धं विना तदयोगात् । न च संयो­गा­दा­श्रि­तत्वं कार्यद्रव्यस्य प्रकृ­त्य­सं­यो­गा­दिति शङ्कते -
कार्येति ।

प्रकृ­ति­वि­का­र­यो­र­भे­दा­दा­श्र­या­श्र­यि­भा­वा­नु­प­प­त्ति­रि­ष्टेति परिहरति -
नेति ।

भेदात्तद्भाव इति वदन्तं प्रत्याह -
इत­रे­त­रा­श्र­य­त्वा­दिति ।

कथं तर्हि कार्यस्य कार­णा­श्रि­त­त्व­व्य­व­हारः कल्पि­त­भे­दा­दि­त्याह -
कारणस्यैवेति ।

परमाणूनां निर­व­य­व­त्व­म­प्य­यु­क्त­मि­त्याह -
किञ्चेति ।
परमाणवः सावयवाः, अल्पत्वात् , घटवत् । विपक्षे तेषां दिग्भेदावधित्वं न स्यादा­त्म­व­दि­त्यर्थः ।

ननु परमाण्वपेक्षया योऽयं प्राची दक्षि­णे­त्या­दि­दि­ग्भे­द­व्य­व­हा­र­स्त­द­व­धि­त्वेन येऽव­य­वा­स्त्व­यो­च्यन्ते त एव मम परमाणवस्तेऽपि साव­य­वा­श्चे­त्त­द­व­यवा एवेति, एवं यतः परं न विभागः स एव निरवयवः परमाणुरिति शङ्कते -
यांस्त्वमिति ।

परिहरति -
न । स्थूलेति ।
अयमर्थः - यत्सवात्मना विभागायोग्यं वस्तु स परमाणुरिति यद्युच्येत तर्हि ब्रह्मण एव परमाणुसंज्ञा कृता स्यात् , तदन्यस्याल्पस्य दिग्वि­भा­गा­र्ह­त्वे­ना­व­य­व­वि­भा­गा­वश्यं भावात् । यदि पृथि­व्या­दि­जा­ती­योऽ­ल्प­प­रि­मा­ण­वि­श्रा­न्ति­भू­मिर्यः स पर­मा­णु­रि­त्यु­च्येत तर्हि तस्य न मूलकारणत्वम् , विनाशित्वात् , घटवत् । न च हेत्वसिद्धिः, अणवो विनाशिनः, पृथि­व्या­दि­जा­ती­य­त्वात् , घटवदिति साधनादिति ।

सम्प्रति निरवयवद्रव्यस्य नाश­हे­त्व­भा­वा­दा­त्म­व­द­वि­नाश इत्याशङ्क्य पूर्वोक्तं परिहारं स्मारयति -
विनश्यन्त इत्यादिना ।
ब्रह्मा­ति­रि­क्त­स्या­ज्ञा­नि­क­त्वाच्च द्रव्यस्य निर­व­य­व­त्व­म­सि­द्धम् । निमि­त्ता­दृ­ष्टा­दि­ना­शा­द्वि­नाशः प्रलये सम्भवति, मुक्तौ ज्ञाना­द­ज्ञा­न­नाशे तत्का­र्या­णु­ना­श­स­म्भव इति भावः ।

यदुक्तं यत्कार्यद्रव्यं तत्सं­यो­ग­स­चि­वा­ने­क­द्र­व्या­र­ब्ध­मिति, तन्नेत्याह -
तथा कार्या­र­म्भोऽ­पीति ।
कैवल्यं प्राधान्यम् । कार्य­द्र­व्य­स्थि­ता­वपि हेतु­त्वा­त्सं­यो­गस्य क्षीरा­र­म्भ­क­सं­यो­गा­द्द­ध्या­र­म्भकं न संयोगान्तरम् , तथा च दध्यादौ व्यभिचारान्न व्याप्ति­रि­त्यर्थः । किञ्च यत्कार्यद्रव्यं तद्द्र­व्या­र­भ्य­मि­त्येव व्याप्तिरस्तु लाघवात् , न तु संयो­ग­स­चि­व­स्व­न्यू­न­प­रि­मा­णा­ने­क­द्र­व्या­र­भ्य­मिति, गौरवात् , दीर्घ­वि­स्तृ­त­दु­कू­ला­र­ब्ध­रज्जौ न्यूनपरिमाणायां व्यभिचाराच्च । न च रज्जुर्न द्रव्यान्तरमिति वाच्यम् , अव­य­वि­मा­त्र­वि­प्ल­वा­पा­तात् । किञ्च निर­व­य­व­द्र­व्य­त्व­स्यै­का­त्म­वृ­त्तित्वे लाघवान्न निर­व­य­वा­ने­का­णु­सिद्धिः । यत्त्व­णु­त्व­ता­र­त­म्य­वि­श्रा­न्ति­भू­मि­त्वेन तत्सिद्धिरिति । तन्न । त्र्यणु­क­त्वे­नो­क्त­त्रु­टिषु विश्रान्तेः । न च त एव त्रुटिनामानो जगद्धतेव इति वाच्यम् , पृथिवीत्वादिना साव­य­व­त्वा­नि­त्य­त्व­यो­र­नु­मा­नात् । न चावयवत्वस्य क्वचि­द्वि­श्रान्तौ पर­मा­णु­सि­द्धि­र­वि­श्रा­न्ता­व­न­व­स्थेति वाच्यम् , मायायां ब्रह्मणि वाव­य­व­त्व­वि­श्रा­न्ति­स­म्भ­वात् । अतो न किञ्चि­द­णु­स­द्भावे प्रमाणम् । निरवयवानां संयो­ग­स­म­वा­य­यो­र­स­म्भ­वा­त्स­म­वे­त­द्व्य­णु­का­द्या­र­म्भ­क­त्वा­योग इत्यादि बाधकमुक्तमेव ।

सम्प्रति 'अप­रि­ग्र­हाच्च' इति सूत्रवाक्यशेषं पूर­य­न्न­धि­क­र­णा­र्थ­मु­प­सं­ह­रति -
तदेवमिति ।
तस्मा­द्भ्रा­न्ति­मू­लेन वैशेषिकमतेन वेदा­न्त­ता­त्प­र्य­स्या­वि­रोध इति सिद्धम् ॥१७॥

वैशेषिकं निरस्य वैनाशिकं निरस्यति -
समुदाय इति ।

परिमाणभेदेन देहा­दे­रा­शु­त­र­वि­ना­शा­ङ्गी­का­रा­द­र्ध­वै­ना­शिको वैशेषिकस्तस्य निरासानन्तरं सर्वक्षणिकवादी बुद्धिस्थो निरस्यत इति प्रस­ङ्ग­स­ङ्ग­ति­माह -
वैशेषिकेति ।

'नाभाव उपलब्धेः' इति निर­स­नी­य­सि­द्धा­न्ता­दत्र निर­स्य­सि­द्धा­न्तस्य भेदं वक्तुं तत्सिद्धान्तं विभजते -
स चेति ।

ननु सुग­त­प्रो­क्ता­ग­म­स्यै­क्या­त्कुतो बहुप्रकारता, तत्राह -
प्रतिपत्तीति ।
एक­स्यै­वा­ग­म­व्या­ख्यातुः शिष्य­स्या­व­स्था­भे­देन बुद्धिभेदात् , मन्द­म­ध्य­मो­त्त­म­धियां शिष्याणां वा भेदा­द्ब­हु­प्र­का­र­ते­त्यर्थः ।

तानेव प्रकारानाह -
तत्रेति ।
सौत्रान्तिको वैभाषिको योगाचारी माध्यमिकश्चेति चत्वारः शिष्याः ।

तेष्वा­द्य­यो­र्बा­ह्या­र्थानां परो­क्ष­त्वा­प­रो­क्ष­त्व­वि­वा­देऽ­प्य­स्ति­त्व­स­म्प्र­ति­प­त्ते­स्तयोः सिद्धा­न्त­मे­की­कृत्य निरस्यत इत्याह -
तत्र ये सर्वास्तित्वेति ।
भूतं भौतिकं बाह्यम् , चित्तं चैत्तं च कामा­द्या­न्त­र­मिति विभागः ।

तत्र सन्दिह्यते किं मानमूलो भ्रान्तिमूलो वायं सिद्धान्त इति । तत्र प्रमाणमूल इति पूर्वपक्षयन् सिद्धान्तं तदीयं दर्शयति -
तत्र भूतमिति ।
स्थिरः प्रपञ्चो ब्रह्महेतुक इति वेदा­न्त­सि­द्धा­न्तस्य मान­मू­ल­क्ष­णि­क­सि­द्धा­न्त­वि­रो­धा­द­सिद्धिः पूर्वपक्षे फलम् , सिद्धान्ते तदविरोध इति ज्ञेयम् ।

पृथि­व्या­दि­भू­त­च­तु­ष्टयं विष­ये­न्द्रि­या­त्मकं भौतिकं च परमाणुसमुदाय एव नावयव्यन्तरमिति मत्वा परमाणून् विभजते -
चतुष्टये चेति ।
चतुर्विधा इत्यर्थः । खरः कठि­न­स्त­त्स्व­भावाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णास्तैजसाः, ईरणं चलनस्वभावो वायव्यानामिति ।

बाह्य­स­मु­दा­य­मु­क्त्वा­ध्या­त्मि­क­स­मु­दा­य­माह -
तथेति ।
सवि­ष­ये­न्द्रि­याणि रूपस्कन्धः विषयाणां बाह्यत्वेऽपि देह­स्थे­न्द्रि­य­ग्रा­ह्य­त्वा­दा­ध्या­त्मि­क­त्वम् , अह­म­ह­मि­त्या­ल­य­वि­ज्ञा­न­प्र­वाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदनास्कन्धः, गौरश्व इत्येवं नाम­वि­शि­ष्ट­स­वि­क­ल्प­क­प्र­त्ययः संज्ञास्कन्धः, राग­द्वे­ष­मो­ह­ध­र्मा­धर्माः संस्कारस्कन्धः । तत्र विज्ञा­न­स्क­न्ध­श्चि­त्त­मा­त्मेति गीयते । अन्ये चत्वारः स्कन्धा­श्चै­त्ता­स्तेषां सङ्घात आध्यात्मिकः । सक­ल­लो­क­या­त्रा­नि­र्वा­हक इत्यर्थः ।

अव­य­वा­ति­रि­क्ता­व­य­व्य­नु­प­ल­ब्धे­र­व­यवाः शिष्यन्ते, यत्स­त्त­त्क्ष­णि­कम् , यथा विद्युदिति तेषां क्षणिकत्वमिति मानमूलोऽयं सिद्धान्त इति प्राप्ते सिद्धान्तसूत्रं योजयति -
योऽयमिति ।
सर्गादौ परमाणूनां च स्कन्धानां च स्वतः­स­ङ्घा­त­स्ता­वन्न सम्भवति, अचेतनत्वात् । नापि चित्ता­ख्य­म­भि­ज्व­लनं विज्ञानं समुदायहेतुः, सङ्घाते देहाकारे जाते विज्ञानं विज्ञाने जाते सङ्घात इत्य­न्यो­न्या­श्र­यात् । न च क्षणि­क­वि­ज्ञा­ना­दन्यः कश्चिज्जीव ईश्वरो वा त्वया­भ्यु­प­ग­म्यते यः सङ्घातकर्ता भवेत् । न च कर्ता­र­म­न­पे­क्ष्या­णवः स्कन्धाश्च स्वयमेव सङ्घातार्थं प्रवर्तन्त इति वाच्यम् , अनि­र्मो­क्ष­प्र­स­ङ्गात् ।

नन्वा­ल­य­वि­ज्ञा­न­स­न्तानः संह­न्ता­स्त्वि­त्यत आह -
आशयस्येति ।
आशेरतेऽस्मिन् रागादय इत्याशयः सन्तानः, स किं सन्ता­नि­भ्योऽन्यो विज्ञा­नि­भ्योऽ­न्योऽ­नन्यो वा । आद्येऽपि स्थिरः क्षणिको वा । नाद्यः, अस्म­दि­ष्ट­नि­त्या­त्म­वा­द­प्र­स­ङ्गात् ।

द्वितीये दोषमाह -
क्षणिकत्वेति ।
क्षणिकस्य जन्मा­ति­रि­क्त­व्या­पारो नास्ति, तस्मात्तस्य पर­मा­ण्वा­दि­मे­ल­नार्थं प्रवृ­त्ति­र­नु­प­पन्ना । क्षणि­क­त्व­व्या­घा­ता­दि­त्यर्थः । एतेनानन्यः सन्तान इति पक्षो निरस्तः, क्षणिकस्य मेल­क­त्वा­नु­प­पत्तेः । तस्मा­त्सं­ह­न्तु­र­स­त्त्वा­त्स­ङ्घा­ता­नु­प­प­त्ति­रि­त्यर्थः ॥१८॥

संहन्तुरभावेऽपि सङ्घा­तो­प­प­त्ति­मा­शङ्क्य निषेधति -
इतरेति ।
कार्यं प्रत्ययते गच्छतीति प्रत्ययः कारणम् । अवि­द्या­दि­भि­रे­वा­र्था­त्स­ङ्घा­त­सिद्धौ व्यव­हा­रो­प­प­त्ति­रि­त्यर्थः ।

अविद्यादीनाह -
ते चेति ।
क्षणिकेषु स्थिर­त्व­बु­द्धि­र­विद्या, ततो रागद्वेषमोहाः संस्कारा भवन्ति, तेभ्यो गर्भस्थस्याद्यं विज्ञा­न­मु­त्प­द्यते, तस्मा­च्चा­ल­य­वि­ज्ञा­ना­त्पृ­थि­व्या­दि­च­तु­ष्टयं नामा­श्र­य­त्वा­न्नाम भवति । ततो रूपं सितासितात्मकं शुक्रशोणितं निष्पद्यते ।गर्भस्य कल­ल­बु­द्बु­दा­वस्था नामरूपशब्दार्थ इति निष्कर्षः । विज्ञानं पृथि­व्या­दि­च­तु­ष्टयं रूपं चेति षडायतनानि यस्ये­न्द्रि­य­जा­तस्य तत्षडायतनम् , नाम­रू­पे­न्द्रि­याणां मिथः संयोगः स्पर्शः, ततः सुखादिका वेदना, तया पुन­र्वि­ष­य­तृष्णा, तया प्रवृ­त्ति­रू­पा­दा­नम् , तेन भव­त्य­स्मा­ज्ज­न्मेति भवो धर्मादिः, ततो जातिर्देहजन्म पञ्च­स्क­न्ध­स­मु­दाय इति यावत् । जातानां स्कन्धानां परिपाको जरास्कन्धः, मरणं नाशः, म्रियमाणस्य पुत्रा­दि­स्ने­हा­द­न्त­र्दाहः शोकः, तेन हा पुत्रे­त्या­दि­वि­लापः परिदेवना, अनिष्टानुभवो दुःखम् , तेनं दुर्मनस्ता मानसी व्यथा, इतिशब्दो माना­प­मा­ना­दि­क्ले­श­स­ङ्ग्र­हार्थः ।

न केवलं सुग­ता­ना­मे­वा­वि­द्या­दयः सम्मताः, किन्तु सर्व­वा­दि­ना­म­पी­त्याह -
सर्वेषामिति ।

अविद्यादिहेतुका जन्मादयो जन्मा­दि­हे­तु­का­श्चा­वि­द्या­दय इति मिथो हेतु­हे­तु­म­द्भा­वा­द­र्था­त्स­ङ्घा­त­सि­द्धि­रिति शङ्कामुपसंहरति -
तदेवमिति ।

सिद्धान्तभागं व्याचष्टे -
तन्नेति ।

अवि­द्या­दी­ना­मु­त्त­रो­त्त­र­हे­तु­त्व­म­ङ्गी­कृत्य सङ्घा­त­हे­त्व­भा­वा­त्स­ङ्घातो न स्यादित्युक्ते पूर्वोक्तं स्मारयति -
नन्विति ।

किमविद्यादयः सङ्घातस्य गमका उतोत्पादका इति विकल्प्याद्ये सङ्घा­त­स्यो­त्पा­दकं किञ्चिद्वाच्यम् , तन्नास्तीत्याह -
अत्रोच्यते, यदीति ।
आश्र­या­श्र­यि­भू­ते­ष्विति भोक्तृविशेषणम् । अदृ­ष्टा­श्र­ये­ष्वि­त्यर्थः ।

यदा स्थिरेष्वणुषु सङ्घातयोग्येषु कर्तृषु चादृष्टसहायेषु सत्सु ज्ञाना­भा­व­मा­त्रेण संह­ति­क­र्तृ­त्वा­यो­गा­त्स­ङ्घा­ता­प­त्ते­र्नि­मित्तं नास्तीत्युक्तं तदा क्षणिकपक्षे तन्नास्तीति किमु वक्तव्यमित्याह -
किमिति ।
आश्रयाश्रयः सङ्घातकर्ता तच्छू­न्ये­ष्वि­त्यर्थः । 'आश्र­या­श्र­यि­शू­न्येषु' इति पाठे उप­का­र्यो­प­का­र­क­त्व­शू­न्ये­ष्वि­त्यर्थः ।

द्वितीयं शङ्कते -
अथायमिति ।

सङ्घा­त­स्या­वि­द्या­दीनां चोत्प­त्ता­व­न्यो­न्या­श्रयः स्यादिति दूषयति -
कथमिति ।

स्वाभाविकः खल्वयं सङ्घातानां हेतु­हे­तु­म­द्भा­वेन प्रवाहो न संह­न्ता­र­म­पे­क्षते, पूर्व­स­ङ्घा­ता­श्रया अविद्यादय उत्त­र­स­ङ्घा­त­प्र­व­र्तका इति नान्यो­न्या­श्र­य­दो­षोऽ­पी­त्या­श­ङ्कते -
अथ मन्यस इति ।
स्वभावस्य निय­मा­नि­य­म­यो­र­प­सि­द्धा­न्ता­पातः स्यादिति परिहारार्थः । पूर्यते गलति चेति पुद्गलो देहः ।

किञ्च भोक्तुः क्षणिकत्वपक्षे भोगा­प­व­र्ग­व्य­व­हा­रोऽपि दुर्घट इत्याह -
अपि चेति ।
यो यदिच्छति स तत्काले नास्ति चेदिच्छा व्यर्था, अस्ति चेत्क्ष­णि­क­त्व­भङ्ग इत्यर्थः ।

प्रकृतं सङ्घा­त­नि­रा­स­मु­प­सं­ह­रति -
तस्मादिति ॥१९॥

द्विविधो हि कार्यसमुत्पादः सुगतसम्मतो हेत्वधीनः कार­ण­स­मु­दा­या­धी­न­श्चेति । तत्राविद्यातः संस्कारस्ततो विज्ञा­न­मि­त्ये­वं­रूपः प्रथमः, पृथि­व्या­दि­स­मु­दा­या­त्काय इत्येवं द्वितीयः । तत्रा­द्य­म­ङ्गी­कृत्य द्वितीयः सङ्घा­त­क­र्त्र­भा­वेन दूषितः । सम्प्रत्याद्यं दूषयति सूत्रकारः -
उत्तरेति ।
क्षणिकोऽर्थः क्षणिक इत्युच्यते । निरुध्यमानत्वं विना­श­क­सा­न्नि­ध्यम् , निरु­द्ध­त्व­म­ती­त­त्वम् ।

ननु कार्यकाले विना­श­व्या­प्त­त्वेऽपि पूर्वक्षणे सत्त्वा­त्क्ष­णि­का­र्थस्य हेतु­त्व­म­क्ष­त­मिति शङ्कते -
अथ भावेति ।
सद्रूप इत्यर्थः ।

किं हेतो­रु­त्प­त्त्य­ति­रिक्तः कार्यो­त्पा­द­नाख्यो व्यापारः, अनतिरिक्तो वा । नाद्य इत्युक्त्या द्वितीयं शङ्कते -
अथेति ।
भाव उत्पत्तिः । उक्तं हि 'भूति­र्येषां क्रिया सैव कारकं सैव चोच्यत' इति । येषां क्षणिकभावानां या भूतिः सैव क्रिया कारकं चेत्यर्थः । नष्टस्यापि निमित्तत्त्वं स्यान्नो­पा­दा­न­त्वम् , तथा च मृदा­दे­र्घ­टा­दि­का­ला­सत्त्वे घटा­द्य­नु­त्पत्तिः ।

सत्त्वे च क्षणि­क­त्व­हा­नि­रिति परिहरति -
तथापीत्यादिना ।

प्रथ­म­प­क्षे­क्त­दोषं द्रढयति -
विनैवेति ।

वस्तुनो जन्म­ध्वं­सा­नि­रू­पा­णाच्च न क्षणि­क­त्व­मि­त्याह -
अपि चेति ।
तयोः स्वरूपत्वे वस्तु­न्य­न्त­र्भा­वा­द्व­स्तु­नोऽ­ना­द्य­न­न्त­त्व­मि­त्यपि द्रष्टव्यम् ।

द्वितीयं शङ्कते -
अथास्तीति ।

विशेषमेवाह -
उत्पादेति ।

दूषयति -
एवमपीति ।
ताभ्यां संसर्गे वस्तुनः क्षणिकत्वभङ्गः स्यात् ।

संसर्ग एव नास्तीति तृती­य­क­ल्प­मु­त्थाप्य दूषयति -
अथात्यन्तेति ॥२०॥

सूत्रं व्याख्यातुं वृत्तं स्मारयति -
क्षणभङ्गेति ।

किं कार्यो­त्प­त्ति­र्नि­र्हे­तुका सहेतुका वा । आद्ये प्रति­ज्ञा­हा­नि­रि­त्याह -
अथा­स­त्ये­वे­त्या­दिना ।
विष­य­क­र­ण­स­ह­का­रि­सं­स्का­रा­श्च­तु­र्विधा हेतवस्तान् प्रतीत्य प्राप्य चित्तं रूपादिविज्ञानं चैत्ता­श्चि­त्ता­त्मकाः सुखादयश्च जायन्त इति प्रतिज्ञार्थः । यथा नीलविज्ञानस्य नील­व­स्त्वा­ल­म्ब­न­प्र­त्ययो विषयः, चक्षुः कर­ण­म­धि­प­ति­प्र­त्ययः, सहकारिप्रत्यय आलोकः, सम­न­न्त­र­पू­र्व­प्र­त्ययः संस्कार इति भेदः ।

प्रतिज्ञाहानिं पुरु­ष­दो­ष­मुक्त्वा वस्तुदोषमप्याह -
निर्हेतुकायां चेति ।

सहे­तु­क­त्व­प­क्षेऽ­न्व­यि­का­र­णस्य मृदादेः कार्य­स­ह­भा­वा­पत्त्या क्षणि­क­त्व­प्र­ति­ज्ञा­हा­नि­रिति सूत्रशेषं व्याचष्टे -
अथो­त्त­र­क्ष­णे­त्या­दिना ।
सम्यक्क्रियन्त इति संस्काराः । आद्यन्तवन्तो भावा इत्यर्थः ॥२१॥

एव­मा­द्य­सू­त्राभ्यां समुदायो निरस्तः । उत्त­र­सू­त्राभ्यां कार्य­का­र­ण­भा­व­क्ष­णि­कत्वे निरस्ते । सम्प्रति तदभिमतं द्विविधं विनाशं दूषयति -
प्रतिसङ्ख्येति ।
संस्कृ­त­मु­त्पाद्यं बुद्धिबोध्यं प्रमेयमात्रम् , त्रया­त्तु­च्छ­रू­पा­द­न्य­दि­त्यर्थः ।

किं तत्त्रयम् , तदाह -
तदपीति ।
निरुपाख्यं निःस्वरूपम् । प्रतीपा प्रतिकूला सङ्ख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसङ्ख्या, तया निरोधः कस्यचिद्भावस्य भवति ।

अबु­द्धि­पू­र्व­कस्तु स्तम्भादीनां स्वर­स­भ­ङ्गु­रा­णा­मि­त्याह -
तद्विपरीत इति ।

पर­क्रि­या­मुक्त्वा सूत्रं व्याचष्टे -
तेषामिति ।
भावाः सन्तानिनः । सन्तानो नाम भावानां हेतुफलभावेन प्रवाहः, तस्मिन् सन्ताने चरमक्षणः क्षणान्तरं करोति वा न वा । आद्ये चरमत्वव्याघातः, सन्ता­ना­वि­च्छे­दात् । द्वितीये चर­म­स्या­स­त्त्व­प्र­सङ्गः, अर्थ­क्रि­या­का­रित्वं सत्त्वमिति स्वसिद्धान्तात् , चरमस्यासत्त्वे पूर्वे­षा­म­प्य­स­त्त्व­प्र­सङ्गः, अर्थ­क्रि­या­शू­न्य­त्वात् ।

तस्मा­त्स­न्ता­नस्य विच्छे­दा­स­म्भ­वा­न्नि­रो­धा­प्रा­प्ति­रि­त्याह -
न तावदिति ।

न द्वितीय इत्याह -
नापीति ।
घट­क­पा­ल­चू­र्णा­द्य­व­स्थासु सेयं मृदिति प्रत्य­भि­ज्ञा­ना­द­न्व­यि­भा­वस्य मृदा­दे­र्ना­त्य­न्ति­क­वि­नाश इत्यर्थः ।

बीज­स्या­ङ्कु­रा­दिषु प्रत्य­भि­ज्ञा­ना­द­र्श­ना­द­न्व­यिनो विच्छेद इत्यत आह -
अस्पष्टेति ।
अङ्कु­रा­द­योऽ­नु­स्यू­ता­न्व­यि­भा­वस्थाः, कार्यत्वात् पट­व­दि­त्य­न्व­य्य­वि­च्छे­द­सि­द्धि­रि­त्यर्थः । यस्माद्भावानां स्थायित्वं तस्मा­त्प्र­ति­क्ष­ण­नि­रो­धा­स­म्भव इत्युपसंहारः ॥२२॥

अविद्यादीनां प्रति­स­ङ्ख्या­नि­रोधं तदभिमतं दूषयति -
उभयथेति ।
यमनियमादयः परिकराः । सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः ॥२३॥

आग­म­प्रा­मा­ण्या­दिति ।
तत्राकाशस्य कार्यत्वोक्त्या घटा­दि­व­द्व­स्तुत्वं प्रसि­ध्य­ती­त्यर्थः ।

नन्वा­ग­म­प्रा­माण्ये विप्र­ति­प­न्ना­न्सु­ग­ता­न्प्र­त्या­का­शस्य वस्तुत्वं कथं सिध्यतीत्यत आह -
विप्र­ति­प­न्ना­निति ।
शब्दो वस्तुनिष्ठः गुणत्वात् , गन्धा­दि­व­दि­त्य­नु­मा­ना­दा­का­शस्य वस्तुत्वं सिध्यति । पृथि­व्या­द्य­ष्ट­द्र­व्याणां श्रोत्र­ग्रा­ह्य­गु­णा­श्र­य­त्वा­यो­गा­दि­त्यर्थः ।

आकाशस्य भावत्वं प्रसा­ध्या­भा­वत्वं दूषयति -
अपि चेति ।
यथै­क­घ­ट­स­त्त्वेऽपि घटसामान्याभावो नास्ति तथै­क­प­क्षि­स­त्त्वेऽपि मूर्त­द्र­व्य­सा­मा­न्या­भा­वा­त्म­का­काशो नास्त्येवेति पक्ष्य­न्त­र­स­ञ्चारो न स्यादित्यर्थः ।

देश­वि­शे­षा­व­च्छे­दे­ना­व­र­णा­भा­वोऽ­स्ती­त्या­श­ङ्क्या­भा­वा­व­च्छे­द­क­दे­श­वि­शेष एवाकाशो नाभाव इत्याह -
यत्रेत्यादिना ।
पतिष्यति । पक्षी सञ्च­रि­ष्य­ती­त्यर्थः ।

आका­श­स्या­व­स्तुत्वं स्वग्र­न्थ­वि­रुद्धं चेत्याह -
अपि चेति ।
किं सम्यक् निश्रय आश्रयोऽस्या इति किंसन्निश्रया । अवस्तुनः शश­वि­षा­ण­स्या­श्र­य­त्वा­द­र्श­ना­दिति ।

व्याघातान्तरमाह -
अपि चेति ।
ध्वंसा­प्र­ति­यो­गि­ताख्यो धर्मो नित्यत्वं नासति सम्भवति । धर्मि­णोऽ­स­त्त्व­व्या­घा­ता­दि­त्यर्थः ॥२४॥

आत्मनः क्षणिकत्वं दूषयति -
अनुस्मृतेरिति ।
अनु­भ­व­ज­न्य­स्मृ­ति­र­नु­स्मृ­ति­स्त­स्या­म­नु­भ­व­स­मा­ना­श्र­य­त्वा­त्त­दु­भ­या­श्र­या­त्मनः स्थायि­त्व­मि­त्यर्थः ।

क्षणिकत्वे ज्ञान­द्व­या­नु­स­न्धानं च न स्यादित्याह -
कथं ह्यहमिति ।

पूर्व­द­र्श­न­क­र्तु­र­द्रा­क्ष­मिति स्मर­ण­क­र्तै­क्य­प्र­त्य­भि­ज्ञा­ना­च्चा­त्मानः स्थायि­त्व­मि­त्याह -
अपि चेति ।
योऽहमदः पूर्वमद्राक्षं स एवाहमद्य तत्स्मरामीति प्रत्य­भि­ज्ञा­ना­कारो द्रष्टव्यः । इदं पश्यामीति ज्ञाना­न्त­र­स­म्ब­न्ध­क­थ­नम् , योऽहमद्राक्षं सोऽहं पश्यामीति प्रत्य­भि­ज्ञा­न्त­र­द्यो­त­ना­र्थम् ।

विपक्षे बाधकमाह -
यदि हीति ।

द्रष्टृ­स्म­र्त्रो­र्भे­देऽहं स्मरामि अन्योऽ­द्रा­क्षी­दिति प्रतीतिः स्यादित्यत्र दृष्टान्तमाह -
यत्रैवमिति ।

प्रत्ययमाह -
स्मरामीति ।
स्मरा­म्य­ह­म­न्योऽ­द्रा­क्षी­दिति प्रत्ययो यत्र तत्र भिन्नमेव कर्तारं लोकोऽ­व­ग­च्छ­ती­त्य­वि­वा­द­मि­त्यर्थः ।

प्रकृ­त­प्र­त्य­भि­ज्ञायां तादृ­श­भे­द­प्र­त्य­यस्य बाध­क­स्या­द­र्श­ना­दा­त्म­स्था­यित्वं दुर्वारमित्याह -
इह त्वहमद इति ।
यथा­ग्ने­रौ­ष्ण्या­दिकं न बाधते कश्चित्तथा नाहमद्राक्षमिति पूर्वदर्शनं न निह्नुत इत्यनेन बाधा­भा­वा­त्प्र­त्य­भिज्ञा प्रमेत्युक्तं भवति ।

तथा द्रष्टृ­स्म­र्त्रो­रैक्ये सति स्थायित्वं फलितमित्याह -
तत्रैवं सतीति ।

क्षण­द्व­य­स­म्ब­न्धेऽ­प्या­त्म­न­स्तृ­ती­य­क्षणे भङ्गोऽस्त्विति वदन्तं प्रत्याह -
तथेति ।
वर्त­मा­न­द­शा­मा­र­भ्यो­त्त­मा­दु­च्छ्वा­सा­दा­म­र­णा­द­न­न्त­रा­म­न­न्तरां स्वस्यैव प्रति­प­त्ति­मा­त्मै­क­क­र्तृकां प्रत्यभिजानन्ना जन्मनश्च वर्त­मा­न­द­शा­प­र्य­न्त­म­तीताः प्रतिपत्तीः स्वकर्तृकाः प्रति­स­न्द­धा­नः­स­न्निति योजना ।

दीप­ज्वा­ला­स्वि­वा­त्मनि प्रत्यभिज्ञानं सादृश्यदोषादिति शङ्कते -
स इति ।

सादृश्यज्ञानस्य धर्मि­प्र­ति­यो­गि­ज्ञा­ना­धी­न­त्वा­त्स्थि­रस्य ज्ञातु­र­स­त्त्वान्न सादृश्यज्ञानं सम्भवति, सत्त्वे वापसिद्धान्तः स्यादिति परिहरति -
तमित्यादिना ।

स्यादेतत् । न सादृश्यप्रत्ययः पूर्वो­त्त­र­व­स्तु­द्व­य­ज्ञा­न­ज­न्य­स्त­द्द्व­य­सा­दृ­श्या­व­गाही, किं तर्हि कश्चिदेष विकल्पः स्वाकारमेव बाह्यत्वेन विषयीकुर्वाणः क्षणा­न्त­रा­स्पर्शी, अतो न स्थिर­द्र­ष्ट्र­पे­क्षेति शङ्कते -
तेनेदमिति ।
अत्र वक्तव्यं सादृश्यप्रत्यये तेनेदं सदृशमिति वस्तुत्रयं भासते न वेति । नेति वदतः स्वानुभवविरोधः । किञ्चा­र्थ­भे­दा­भा­वा­त्प­द­त्र­य­प्र­योगो न स्यात् ।

तस्मात्पदत्रयेण मिथः­सं­सृ­ष्ट­भि­न्ना­र्थ­भा­ना­द­भा­न­म­सि­द्ध­मिति परिहरति -
न तेनेति ।
अथ भासते वस्तुत्रयं तच्च प्रत्य­या­भि­न्न­मेव न बाह्यमिति चेत् । न । त्रया­णा­मे­क­प्र­त्य­या­भेदे मिथोऽ­प्य­भे­दा­पत्तेः ।

इष्टापत्तिरिति ब्रुवाणं विज्ञानवादिनं प्रत्याह -
यदा हीति ।
वस्तुत्रयं ज्ञेयं सादृ­श्य­प्र­त्य­या­द्भिन्नं सर्व­लो­क­प्र­सिद्धं तच्चे­न्ना­ङ्गी­क्रि­यते स्थायि­द्र­ष्टृ­प्र­स­ङ्ग­भ­येन, तर्हि तत्तदाकाराणां क्षणि­क­वि­ज्ञा­नानां मिथो वार्ता­न­भि­ज्ञ­त्वा­दे­क­स्मिन् धर्मिणि विरु­द्धा­ने­क­प­क्ष­स्फु­र­णा­त्म­क­वि­प्र­ति­प­त्त्य­स­म्भ­वा­त्स्व­प­क्ष­सा­ध­ना­दि­व्य­व­हारो लुप्येत, अतो यथानुभवं ज्ञान­ज्ञे­य­भे­दोऽ­ङ्गी­कार्यः । तथा च तेनेदं सदृशमिति बाह्या­र्थ­यो­र्ज्ञा­न­पू­र्वकं सादृश्यं जानत आत्मनः स्थायित्वं दुर्वा­र­मि­त्यर्थः ।

ननु सन्त्येव बाह्यार्थाः क्षणिकस्वलक्षणा निर्वि­क­ल्प­क­ग्राह्याः, सवि­क­ल्पा­ध्य­व­से­यास्तु स्थायि­त्व­सा­दृ­श्या­दयो बाह्याः कल्पिता अवभासन्ते, अतो विप्र­ति­प­त्त्या­दि­व्य­व­हार इति बाह्या­र्थ­वा­द­मा­शङ्क्य निरस्यति -
एवमेवेति ।
यत्प्रमाणसिद्धं तदेव वक्तव्यम् । न हि क्षणिकत्वे किञ्चि­त्प्र­मा­ण­मस्ति । न चेदानीं घट इति प्रत्य­क्ष­म­व­र्त­मा­न­का­ला­सत्त्वं घटस्य गोच­र­य­द्व­र्त­मा­न­क्ष­ण­मा­त्र­स­त्त्व­रूपे क्षणिकत्वे मानमिति वाच्यम् , तस्य वर्त­मा­न­त्व­मा­त्र­गो­च­र­त्वेन काला­न्त­रा­स­त्त्वा­सिद्धेः । न च यत्स­त्त­त्क्ष­णि­क­मिति व्याप्तिरस्ति, विद्युदादेरपि द्वित्रि­क्ष­ण­स्था­यि­त्वेन दृष्टा­न्ता­भा­वात् । न च स्थायि­न­म­नु­मा­ता­र­म­न्त­रे­णा­नु­मानं सम्भवति । तस्मा­द­मा­न­सि­द्धा­र्थ­वक्ता तथा­ग­तोऽ­श्र­द्धे­य­व­चन इत्यर्थः । किञ्च सादृश्यं प्रत्यभिज्ञायां दोषतया निमित्तं विषयतया वा । आद्येऽपि स्वरूपसत् ज्ञातं वा । नाद्यः, मन्दान्धकारे शुक्ति­मा­त्र­ग्रहे श्वैत्या­ज्ञा­नेऽपि रूप्या­भे­द­भ्र­मा­पत्तेः । न द्वितीयः, स्थायिज्ञातारं विना तज्ज्ञा­ना­स­म्भ­व­स्यो­क्त­त्वात् ।

नापि विषयतया निमित्तमित्याह -
न चेति ।
सोऽह­मि­त्यु­ल्ले­खा­त्ते­नाहं सदृश इत्य­नु­ल्ले­खा­दि­त्यर्थः ।

सोऽहमिति प्रत्यभिज्ञाया भ्रमत्वं निरस्य संशयत्वं निरस्यति -
भवेदिति ।
जडार्थे प्रत्य­भि­ज्ञा­तेऽपि बाधसम्भावनया संशयः कदा­चि­त्स्या­न्ना­त्म­नी­त्यर्थः ।

अस­न्दि­ग्घा­वि­प­र्य­स्त­प्र­त्य­भि­ज्ञा­वि­रो­धा­दा­त्म­क्ष­णि­क­त्व­म­त­म­त्य­न्ता­स­ङ्ग­त­मि­त्यु­प­सं­ह­रति -
तस्मादिति ॥२५॥

अभावः शश­वि­षा­ण­व­द­त्य­न्ता­स­न्नि­त्य­ङ्गी­कृत्य मृदादिनाशादसतो घटादिकं जायते इति सुगता वदन्ति, तद्दूषयति -
नासत इति ।
न केवलं बलादापद्यते किन्तु स्वयं दर्शयन्ति च । द्वौ नञौ प्रकृतार्थं गमयतः ।

मृदादिकमुपमृद्य घटादेः प्रादु­र्भा­वा­दि­ती­म­म­र्थ­माह -
विनष्टादिति ।

कार­ण­वि­ना­शा­त्का­र्य­ज­न्मे­त्यत्र युक्तिमाह -
कूटस्थादिति ।
विनाशशून्यात् । नित्यादित्यर्थः । नित्यस्य निरतिशयस्य कार्यशक्तत्वे तत्कार्याणि सर्वा­ण्ये­क­स्मि­न्नेव क्षणे स्युः, तथा चोत्तरक्षणे कार्या­भा­वा­द­स­त्त्वा­पत्तिः । न च सह­का­रि­कृ­ता­ति­श­य­क्र­मा­त्का­र्य­क्रम इति युक्तम् । अति­श­य­स्या­ति­श­या­न्त­रा­पे­क्षा­या­म­न­व­स्था­नात् । अनपेक्षायां कार्य­स्या­प्य­ति­श­या­न­पे­क्ष­त्वेन सह­का­रि­वै­य­र्थ्यात् । तस्मान्न स्थायि­भ­वा­त्का­र्य­ज­न्मे­त्यर्थः । क्षणिकभावस्य हेतुत्वम् 'उत्त­रो­त्पादे च' इत्यत्र निरस्तम् ।

अभावस्य हेतु­त्व­नि­रा­सार्थं सूत्रं व्याचष्टे -
तत्रेदमिति ।

यदि बीजा­भा­व­स्या­भा­वा­न्त­रा­द्वि­शेषः स्यात् , तदा विशे­ष­व­द­भा­व­द्वारा बीजादेवाङ्कुर इति लौका­य­ति­का­ना­म­भ्यु­प­ग­मोऽ­र्थ­वा­न्स्यात् , न सोऽस्तीत्याह -
येनेति ।

सूत्रं योजयति -
निर्विशेषस्येति ।
शशविषाणादेः कार्य­का­रि­त्व­स्या­दृ­ष्ट­त्वा­न्ना­भा­व­स्या­सतो हेतु­त्व­मि­त्यर्थः ।

अस्त्वभावस्यापि विशेष इत्यत आह -
यदीति ।

अभावस्य हेतु­त्वेऽ­ति­प्र­सङ्ग इति तर्क­मु­क्त्वा­नु­मा­न­माह -
नापीति ।
अभावो न हेतुः, असत्त्वात् । सम्मतवदित्यर्थः ।

अभावो न प्रकृतिः, कार्या­न­न्वि­त­त्वात् , यथा शरा­वा­द्य­न­न्वि­त­स्त­न्तुर्न शरा­वा­दि­प्र­कृ­ति­रिति तर्कपूर्वकमाह -
अभावाच्चेति ।

अतोऽ­न्वि­त­त्वा­न्मृ­दा­दि­र्भाव एव प्रकृतिरित्याह -
मृदिति ।

स्थायिनः कार­ण­त्वा­यो­ग­मु­क्त­म­नूद्य दूषयति -
यत्तू­क्त­मि­त्या­दिना ।
अनु­भ­व­ब­ला­त्स्थि­र­स्व­भा­वा­ना­मेव सह­का­रि­स­न्नि­धि­क्र­मेण कार्य­क्र­म­हे­तु­त्व­म­ङ्गी­का­र्यम् । न च शक्तस्य सहकार्यपेक्षा न युक्तेति वाच्यम् , यतोऽशक्तस्यापि नापे­क्षे­त्य­स­ह­कारि विश्वं स्यात् । ततः स्वर्णादौ स्वतोऽ­ति­श­य­शू­न्येऽ­ग्नि­ता­पा­दि­स­ह­का­रि­कृ­ता­ति­श­य­क्र­मा­द्रु­च­का­दि­का­र्य­क्रमः । न चाति­श­य­स्या­ति­श­या­न्त­रा­न­पे­क्षत्वे कार्य­स्या­प्य­न­पे­क्षेति वाच्यम् , पटस्य मृदनपेक्षत्वे कार्य­त्वा­वि­शे­षा­द्घ­ट­स्यापि मृद­न­पे­क्षा­प्र­स­ङ्गा­द­न्व­य­व्य­ति­रे­का­भ्या­म­पेक्षा सहकारिष्वपि तुल्या । यदुक्तं कार्याभावदशायां कार­ण­स्या­स­त्त्वा­प­त्ति­रिति । तन्न । अकारणस्यापि बाधाभावेन सत्त्वोपपत्तेः । न ह्यर्थ­क्रि­या­का­रि­त्व­मेव सत्त्वम् , असतस्तदयोगेन सत्त्वस्य ततो भेदात् । सतो ह्यर्थ­क्रि­या­का­रित्वं नासतः । अतः कार­ण­ता­व­च्छे­द­क­म­बा­धि­त­स्व­रू­पा­त्मकं सत्त्वं कार­ण­त्वा­द्भि­न्न­मेव । तस्मा­द­नु­स्यू­त­स्थि­र­भा­वानां हेतु­त्व­मु­प­प­न्न­मिति भावः ।

पूर्वा­प­र­वि­रो­ध­म­प्याह -
अपि चेति ॥२६॥

अभावादुत्पत्तौ शश­वि­षा­णा­द­प्यु­त्पत्तिः स्यादित्युक्तम् । अति­प्र­स­ङ्गा­न्त­र­माह -
उदासीनानामिति ।
अनीहमानानां प्रय­त्न­शू­न्या­नाम् । अमत्रं घटादिपात्रम् । तन्वा­न­स्य­व्या­पा­र­यतः । तस्मा­द्भ्रा­न्ति­मू­लेन क्षणि­क­बा­ह्या­र्थ­वा­देन कूट­स्थ­नि­त्य­ब्र­ह्म­स­म­न्व­यस्य न विरोध इति सिद्धम् ॥२७॥

नाभाव उपलब्धेः ।

अखण्डनिर्विशेषं ब्रह्म विज्ञानं बाह्या­र्थो­पा­दानं वदतां वेदान्तानां भिन्नं साकारं क्षणिकं विज्ञानं न ततोऽ­न्योऽ­र्थोऽ­स्तीति योगाचारमतेन विरुध्यते न वेति तन्मतस्य मान­भ्रा­न्ति­मू­ल­त्वाभ्यां संशये पूर्वो­क्त­बा­ह्या­र्थ­वा­द­नि­रा­स­मु­प­जीव्य पूर्वपक्षमाह -
एवमित्यादिना ।
पूर्वो­त्त­र­प­क्ष­यो­र्वि­रो­धा­वि­रोधौ फलम् ।

नन्वेकस्य सुगतागमस्य कथं बाह्या­र्थ­स­त्त्वा­स­त्त्व­यो­स्ता­त्पर्यं विरो­धा­दि­त्या­श­ङ्क्या­धि­का­रि­भे­दा­द­वि­रोध इति वदन् विज्ञानवादिनः सुग­ता­भि­प्रा­य­ज्ञ­त्वेन मन्दाधिकारिभ्यो बाह्या­र्थ­वा­दिभ्यः श्रैष्ठ्यमाह -
केषाञ्चिदिति ।
उक्तं च धर्मकीर्तिना 'देशना लोकनाथानां सत्त्वा­श­य­व­शा­नुगाः' इति । सुगतानामुपदेशाः शिष्य­म­त्य­नु­सा­रिण इत्यर्थः ।

नन्वसति बाह्यार्थे मानमेयव्यवहारः कथम् , तत्राह -
तस्मिन्निति ।
विज्ञानमेव कल्पि­त­नी­ला­द्या­का­र­त्वेन प्रमेयम् , अवभासात्मना मानफलम् , शक्त्यात्मना मानम् , शक्त्या­श्र­य­त्वा­का­रेण प्रमातेति भेदकल्पनया व्यवहार इत्यर्थः ।

मुख्य एव भेदः किं न स्यादत आह -
सत्यपीति ।
न हि बुद्ध्यनारूढस्य नीलादेः प्रमे­य­त्व­व्य­व­हा­रोऽस्ति । अतो बुद्ध्यारूढाकार एव प्रमेयं न बाह्यमित्यर्थः ।

बाह्या­र्था­सत्त्वे प्रश्नपूर्वकं युक्ती­रु­प­न्य­स्यति -
कथमित्यादिना ।

ज्ञेयं ज्ञाना­ति­रे­के­णा­सत् , तद­ति­रे­के­णा­स­म्भ­वात् , नरशृङ्गवदित्याह -
तदसम्भवादिति ।

असम्भवं विवृणोति -
स हीति ।
पर­मा­ण­व­श्चे­दे­क­स्थू­ल­स्तम्भ इति ज्ञानं न स्यात् । समू­ह­स्त्व­स­न्नि­त्यर्थः ।

अवयव्यभावेऽपि जात्यादयो बाह्यार्थाः स्युः, तत्राह -
एवमिति ।
जातिगुणकर्मणां धर्मिणः सका­शा­द­भे­देऽ­त्य­न्त­भेदे वा धर्मि­व­द्ध­र्म्य­न्त­र­वच्च न धर्मधर्मिभावः । भेदाभेदौ च विरुद्धाविति न सन्ति जात्याद्यर्था इत्यर्थः ।

किञ्च ज्ञानस्य ज्ञेय­सा­रू­प्य­रू­प­वि­शे­ष­स­म्ब­न्धा­भावे सर्व­वि­ष­य­त्वा­प­त्ते­र्वि­शे­षोऽ­ङ्गी­कार्यः, तथा च ज्ञान­ग­त­वि­शे­ष­स्यैव ज्ञानेन विषयीकरणान्न बाह्या­र्थ­सि­द्धि­र्मा­ना­भा­वा­द्गौ­र­वा­च्चे­त्याह -
अपि चेति ।
पक्षपातो विष­य­वि­शे­ष­वै­शि­ष्ट्य­व्य­व­हारः ।

किञ्च ज्ञेयं ज्ञानाभिन्नम् , ज्ञानो­प­ल­म्भ­क्ष­ण­नि­य­तो­प­ल­म्भ­ग्रा­ह्य­त्वात् , ज्ञानवदित्याह -
अपि चेति ।

ज्ञानार्थयोः वास्तवभेदेऽपि सहोपलम्भनं स्यात् , ग्राह्य­ग्रा­ह­क­भा­वा­दि­त्यत आह -
न चैतदिति ।
क्षणि­क­ज्ञा­न­स्या­र्थेन सम्ब­न्ध­हे­त्व­भा­वान्न ग्राह्य­ग्रा­ह­क­भाव इत्यर्थः ।

किञ्च जाग्रद्विज्ञानं न बाह्यालम्बनम् , विज्ञानत्वात् , स्वप्ना­दि­ज्ञा­न­व­दि­त्याह -
स्वप्नेति ।

विज्ञानानां वैचि­त्र्या­नु­प­प­त्ति­बा­धि­त­म­नु­मा­न­मिति शङ्कते -
कथमिति ।

अन्यथोपपत्त्या परिहरति -
वासनेति ।
अना­दि­स­न्ता­ना­न्त­र्ग­त­पू­र्व­ज्ञा­न­मेव वासना, तद्व­शा­द­ने­क­क्ष­ण­व्य­व­धा­नेऽपि नीला­द्या­का­र­ज्ञा­न­वै­चित्र्यं भवति, यथा बीजवासनया कार्पासरक्तत्वं तद्वदित्यर्थः ।

उभ­य­वा­दि­स­म्म­त­त्वाच्च वासना एव ज्ञान­वै­चि­त्र्य­हे­तवो न बाह्यार्था इत्याह -
अपि चेति ।

क्षणि­क­वि­ज्ञा­न­मा­त्र­वा­दस्य मानमूलत्वात्तेन नित्य­वि­ज्ञा­न­वादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -
नाभाव इत्यादिना ।
किं बाह्या­र्थ­स्या­नु­प­ल­ब्धे­र­भाव उत ज्ञाना­द्भे­दे­ना­नु­प­लब्धेः ।

नाद्य इत्युक्तम् -
उपलब्धेरिति ।

द्वितीयं शङ्कते -
ननु नाहमिति ।

ज्ञान­ज्ञे­य­यो­र्वि­ष­यि­वि­ष­य­भा­वेन भेदस्य साक्षि­प्र­त्य­क्ष­सि­द्ध­त्वा­त्प्र­त्य­क्ष­वि­रु­द्ध­म­भे­दा­भि­धा­न­मि­त्याह -
बाढमित्यादिना ।

त्वद्वचनादपि जनो बाह्यार्थं ज्ञाना­द्भे­दे­नै­वो­प­ल­भत इत्याह -
अतश्चेति ।

बाह्या­र्थ­स्या­त्य­न्ता­सत्त्वे प्रत्य­क्षो­प­ल­म्भा­यो­गात् , दृष्टा­न्त­त्वा­स­म्भ­वाच्च बहिर्वच्छब्दो न स्यादित्याह -
इतरथेति ।

अबा­धि­त­भे­दा­नु­भ­वा­दे­व­कारो युक्तो न वत्कार इत्याह -
तस्मादिति ।

ज्ञेयार्थो ज्ञाना­ति­रे­के­णा­स­न्न­स­म्भ­वा­दि­त्यु­क्त­बा­धा­द्व­त्क­र­ण­मिति शङ्कते -
नन्विति ।
कोऽसावसम्भवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्क­ट­को­टि­क­सं­श­या­त्म­क­स­म्भ­व­स्या­भावो वा । नाद्यः, साध्याभेदात् ।

न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूल­त्व­द्वि­त्व­घ­ट­त्व­स्त­म्भ­त्व­रू­प­वि­रु­द्ध­ध­र्म­व­तो­र­र्थ­यो­र­स्थू­ला­दे­क­स्मा­द्व­या­व­गा­हि­वि­ज्ञा­ना­द्भे­द­स­त्त्व­नि­श्चये नास­म्भ­वा­सि­द्ध­रि­त्याह -
नायं साधुरिति ।
सम्भवः सत्तानिश्चयः प्रमाणाधीनः ।

अस­म्भ­वोऽ­स­त्त्व­नि­श्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति -
यद्धीति ।

उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः सम्भवं वदन्नेव तृतीयं दूषयति -
इहेति ।
प्रमा­ण­नि­श्चि­त­बा­ह्या­र्थस्य स्तम्भादेः परमाणुभ्यो भेदा­भे­द­वि­क­ल्पै­र­यु­क्त­त्व­मा­त्रे­णा­स­त्त्व­नि­श्चयो न युक्तः, त्वत्प­क्षेऽ­प्य­यु­क्त­त्वस्य तुल्यत्वात् । न ह्यस्थू­ल­स्यै­कस्य विज्ञानस्य स्थूला­ने­क­स­मू­हा­ल­म्ब­नस्य विषयाभेदो युक्तः, स्थूल­त्वा­ने­क­त्व­प्र­स­ङ्गात् । न चेष्टापत्तिः, समू­हा­ल­म्ब­नो­च्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विष­य­द्वि­त्वा­दि­व्य­व­हा­र­लो­पा­पत्तेः । तस्मा­द­यु­क्त­त्वेऽपि यथानुभवं व्यव­हा­र­यो­ग्योऽर्थः स्वीकार्यः । न चतुर्थः, निश्चिते तादृ­श­स­म्भ­व­स्या­नु­प­यो­गात् । तस्य क्वचि­त्प्र­मा­ण­प्र­वृत्तेः पूर्वा­ङ्ग­त्वा­दिति भावः ।

यच्चोक्तं ज्ञान­ग­ता­र्थ­सा­रू­प्य­स्यैव ज्ञाना­ल­म्ब­न­त्वो­प­प­त्ते­र्ब­हि­र­र्था­भाव इति, तत्राह -
न चेति ।

यत्तु गौरवमुक्तम् , तन्न दूषणम् , प्रामा­णि­क­त्वा­दि­त्याह -
बहिरिति ।

यत एव ज्ञाना­र्थ­यो­र्भेदः सर्वलोके साक्ष्य­नु­भ­व­सिद्धः, अत एव सहो­प­ल­म्भ­नि­य­मोऽपि नाभेदसाधक इत्याह -
अत एवेति ।
यथा चाक्षु­ष­द्र­व्य­रू­प­स्या­लो­को­प­ल­म्भ­नि­य­तो­प­ल­ब्धि­क­त्वेऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदेऽपि ग्राह्य­ग्रा­ह­क­भा­वेन नियमेपपत्तेः । न च ज्ञानस्य क्षणि­क­त्वा­त्स्व­भि­न्न­ग्रा­ह्य­स­म्ब­न्धा­योगः, स्थायित्वादिति भावः ।

विज्ञा­न­म­ने­का­र्थेभ्यो भिन्नम् , एकत्वात् , गोत्ववदिति सत्प्रतिपक्षमाह -
अपि चेति ।
न च हेत्वसिद्धिः, ज्ञानं ज्ञान­मि­त्ये­का­का­र­प्र­ती­ते­र्ज्ञा­नै­क्य­नि­श्च­यात् ।

न च सा जातिविषया, व्यक्ति­भे­दा­नि­श्च­या­दि­त्याह -
न विशेष्यस्येति ।

घटा­दे­श्चै­त­न्या­द्भे­द­मुक्त्वा वृत्ति­ज्ञा­ना­द्भे­द­माह -
तथेति ।
घटो द्वाभ्यां भिन्नः एकत्वात् , क्षीरवदित्यर्थः ।

ज्ञान­भि­न्ना­र्था­न­ङ्गी­कारे स्वशा­स्त्र­व्य­व­हा­र­लोपं बाधकमाह -
अपि चेति ।
क्रमिकयोः स्वप्रकाशयोः क्षणि­क­ज्ञा­न­यो­र्मिथो ग्राह्य­ग्रा­ह­क­त्व­म­यु­क्त­म­न­भ्यु­प­गतं च । तथा च तयो­र्भे­द­प्र­तिज्ञा न युक्ता, धर्मि­प्र­ति­यो­गि­नो­र्मिथः परेण चाग्रहेण भेदग्रहायोगात् । तथा च तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः । एवं पक्ष­सा­ध्य­हे­तु­दृ­ष्टा­न्त­भे­दा­भावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता । सर्वतो व्यावृत्तं व्यक्ति­मा­त्रत्वं स्वलक्षणम् , अनेकानुगतं सामा­न्य­म­त­द्व्या­वृ­त्ति­रू­प­मिति प्रतिज्ञा न युक्ता, सर्वा­ने­का­र्थानां ज्ञानमात्रत्वे मिथः परेण वा दुर्ज्ञा­न­त्वा­तु­त्त­र­नी­ल­ज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् । किञ्चा­वि­द्यो­प­प्ल­वोऽ­वि­द्या­सं­सर्गः, तेन नीलमिति सद्धर्मः, नर­वि­षा­ण­मि­त्य­स­द्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामू­र्त­त्वा­दि­प्र­तिज्ञा दुर्लभा, अने­का­र्थ­ज्ञा­न­सा­ध्य­त्वात् । अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्व­र्थ­ज्ञा­न­साध्या । आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्य­हि­ते­प­दे­शोऽ­ने­क­ज्ञा­न­साध्यो गृहीतः । तस्मा­त्प्र­ति­ज्ञा­दि­व्य­व­हा­राय ग्राह्य­ग्रा­ह­क­भे­दोऽ­ङ्गी­कार्य इत्यर्थः ।

ज्ञानार्थयोभेदे युक्त्य­न्त­र­म­स्ती­त्याह -
किञ्चान्यदिति ।
ज्ञान­व­द­र्थ­स्या­प्य­नु­भ­वा­वि­शे­षा­त्स्वी­कारो युक्त इत्यर्थः ।

स्ववि­ष­य­त्वा­द्वि­ज्ञानं स्वीक्रियते नार्थः पर­ग्रा­ह्य­त्वा­दिति शङ्कते -
अथ विज्ञानमिति ।

विरुद्धं स्वीकृ­त्या­वि­रुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह -
अत्यन्तेति ।

ज्ञानं स्ववे­द्य­मि­त्य­ङ्गी­कृत्य मौर्ख्य­मा­पा­दि­तम् , वस्तुतः स्ववे­द्य­त्व­म­यु­क्त­मि­त्याह -
न चेति ।
कर्तरि क्रियां प्रति गुणभूते प्रधा­न­त्वा­ख्य­क­र्म­त्वा­यो­गा­त्स्व­क­र्तृ­क­वे­द­न­क­र्म­त्व­म­स­दि­त्यर्थः । न च स्ववि­ष­य­त्व­मात्रं स्ववेद्यत्वमिति वाच्यम् , अभेदे विष­य­वि­ष­यि­त्व­स्या­प्य­स­म्भ­वा­दिति भावः ।

ज्ञानस्य स्ववे­द्य­त्वा­भावे दोषद्वयं स्यादिति शङ्कते -
नन्विति ।

अनवस्था च साम्यं चेति दोषद्वयं परिहरति -
तदुभयमपीति ।
अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीय­ज­न्मा­दि­ग्र­हा­यो­गा­दस्ति ग्राह­का­काङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निर­पे­क्ष­त्वा­न्ना­न­वस्था । नापि साम्यम् । चिज्ज­ड­त्व­वै­ष­म्या­दि­त्यर्थः ।

साक्षी क्वेत्यत आह -
स्वयं­सि­द्ध­स्येति ।
निरपेक्षस्य साक्षि­णोऽ­सत्त्वे क्षणि­क­वि­ज्ञा­न­भे­दा­सिद्धेः सोऽङ्गीकार्य इत्यर्थः ।

अनि­त्य­ज्ञा­न­स्व­रू­प­सा­ध­क­त्वाच्च साक्षी स्वीकार्य इत्याह -
किञ्चेति ।
विज्ञानं ज्ञाना­न्त­रा­न­पे­क्ष­मिति ब्रुवता तस्या­प्रा­मा­णि­क­त्व­मुक्तं स्यात् , स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्तं स्यात् , तथा च ज्ञातृ­ज्ञा­ना­वि­ष­य­त्वा­च्छि­ला­स्थ­प्र­दी­प­व­द­स­देव विज्ञानं स्यात् । अत­स्त­त्सा­क्ष्ये­ष्टव्य इत्यर्थः ।

विज्ञानस्य स्वान्य­ज्ञा­तृ­शू­न्य­त्व­मि­ष्ट­मेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यम् , स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते -
बाढमिति ।

अभेदे ज्ञातृ­ज्ञे­य­त्वा­यो­गा­ज्ज्ञा­त्र­न्त­र­मा­व­श्य­क­मिति परिहरति -
नेति ।
विमतं विज्ञानं स्वाति­रि­क्त­वे­द्यम् , वेद्यत्वात् , देहवदित्यर्थः ।

अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा । आद्येऽनवस्था । द्वितीये विज्ञानवाद एव भङ्ग्य­न्त­रे­णोक्तः स्यादितिशङ्कते -
साक्षिण इति ।

त्वया विज्ञानं जन्म­वि­ना­श­यु­क्त­मु­च्यते । अतः कार्यस्य जड­त्व­नि­य­मा­त्स्वा­ति­रि­क्त­वे­द्य­त्व­म­स्माभिः साधितम् , कूटस्थचिदात्मनो ग्राह­का­न­पे­क्ष­त्वा­न्ना­न­व­स्थेति चोक्तमतो मह­द्वै­ल­क्ष­ण्य­मा­व­यो­रेति परिहरति -
न । विज्ञानस्येति ॥२८॥

एवं वेद्य­वि­ज्ञा­न­व­द­र्थ­स्या­प्यु­प­ल­ब्धेर्न बाह्यार्थाभाव इत्युक्तम् । सम्प्रति जाग्रद्विज्ञानं स्वप्ना­दि­वि­ज्ञा­न­वन्न बाह्या­ल­म्ब­न­मि­त्य­नु­मानं दूषयति -
वैधर्म्याच्चेति ।
किमत्र निर्विषयत्वं साध्यमुत पार­मा­र्थि­क­वि­ष­य­शू­न्य­त्वम् , अथवा व्याव­हा­रि­क­वि­ष­य­शू­न्य­त्वम् । नाद्यः, स्वप्ना­दि­वि­भ्र­मा­णा­मपि मिथ्या­र्था­ल­म्ब­न­त्वेन दृष्टान्ते साध्यवैकल्यात् । न द्वितीयः, सिद्धसाधनादिति सूत्र­स्थ­च­का­रार्थः ।

तृतीये तु व्यवहारदशायां बाधि­ता­र्थ­ग्रा­हि­त्व­मु­पा­धि­रि­त्याह -
बाध्यते हीत्यादिना ।

निद्राग्लानमिति ।
करणदोषोक्तिः ।

साध­न­व्या­प­क­त्व­नि­रा­सा­याह -
न चैवमिति ।
किञ्च प्रमाणजानुभव उपलब्धिः पक्षोऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् ।

परमतेन स्वप्नस्य स्मृति­त्व­म­ङ्गी­कृ­त्याह -
अपि चेति ।

स्मृति­प्र­त्य­क्षो­प­ल­ब्ध्यो­र्वै­ध­र्म्या­न्त­र­माह -
अर्थविप्रयोरेति ।
अस­म्ब­न्ध­श्चा­व­र्त­मा­नश्च स्मृतेरर्थो विषय इति निरा­ल­म्ब­न­त्व­म­प्यस्याः कदाचिद्भवेत् , न सम्प्र­यु­क्त­व­र्त­मा­ना­र्थ­मा­त्र­ग्रा­हिण्या उपलब्धेरिति भावः ।

पूर्वो­क्त­प्र­मा­णा­प्र­मा­ण­ज­त्व­वै­ध­र्म्यो­क्ति­फ­ल­माह -
तत्रैवंसतीति ।
वैधर्म्ये सतीत्यर्थः । अप्र­मा­ण­ज­त्वो­पा­धे­र्नि­रा­ल­म्ब­न­त्वा­नु­मानं न युक्तमिति भावः ।

वैध­र्म्या­सिद्धिं निरस्यति -
न चेति ।

बाधमप्याह -
अपि चेति ।
वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो यदि स्यात्तदा किं दृष्टा­न्ता­ग्र­हेण, प्रत्यक्षतोऽपि वक्तुं शक्यत्वात् । न हि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् । यदि न वस्तुतो धर्मोऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टा­न्त­स­ह­स्रे­णापि दुःसाध्यत्वात् । अतः स्वतो निरा­ल­म्ब­न­त्वोक्तौ साल­म्ब­न­त्वा­नु­भ­व­बा­ध­भिया त्वया­नु­मा­तु­मा­रब्धं तथापि बाधो न मुञ्चतीत्यर्थः ।

उक्तोपाधिरपि न विस्मर्तव्य इत्याह -
दर्शितं त्विति ॥२९॥

सूत्र­व्या­वर्त्यं स्मारयित्वा दूषयति -
यद­प्यु­क्त­मि­त्या­दिना ।
भाव उत्पत्तिः सत्ता वा ।

ननु बाह्या­र्था­नु­प­ल­ब्धा­वपि पूर्व­पू­र्व­वा­स­ना­ब­ला­दु­त्त­रो­त्त­र­वि­ज्ञा­न­वै­चि­त्र्य­मस्तु बीजा­ङ्कु­र­व­द­ना­दि­त्वा­दि­त्यत आह -
अनादित्वेऽपीति ।
बीजादङ्कुरो दृष्ट इत्यदृष्टेऽपि तज्जातीययोः कार्य­का­र­ण­भा­व­क­ल्पना युक्ता, इह त्वर्था­नु­भ­व­नि­र­पे­क्ष­वा­स­नो­त्प­त्ते­रा­दा­वेव कल्प्य­त्वा­द­ना­दि­त्व­क­ल्पना निर्मूलेति नाभि­प्रे­त­धी­वै­चि­त्र्य­सि­द्धि­रि­त्यर्थः ।

ननु निर­पे­क्ष­वा­स­नानां सत्त्वे धीवै­चि­त्र्य­म­सत्त्वे तु नेति स्वप्ने दृष्टमिति समूलानवस्थेत्यत आह -
याविति ।
वासनानां बाह्या­र्था­नु­भ­व­का­र्यत्वे सति नैर­पे­क्ष्या­सि­द्धे­र्ना­न्व­या­दि­दृ­ष्टि­रि­त्यर्थः ।

कार्यत्वग्राहकं व्यतिरेकमाह -
विनेति ।
अर्था­नु­भ­व­का­र्याणां वासनानां तद­न­पे­क्ष­त्वा­यो­गान्न त्वदु­क्ता­न्व­या­दि­दृ­ष्टि­रि­त्यु­क्तम् ।

अभि­न­वा­र्थो­प­ल­ब्धि­वै­चि­त्र्यस्य वासनां विनापि भावेन व्यति­रे­क­व्य­भि­चा­राच्च न क्वापि वासनामात्रकृतं धीवैचित्र्यं किन्त्व­र्था­नु­भवे सति वासनासति नेत्य­न्व­य­व्य­ति­रे­काभ्यां वास­ना­मू­ला­नु­भ­वा­व­च्छे­द­का­र्थ­कृ­त­मे­वेति बाह्या­र्थ­स­द्भा­व­सि­द्धि­रि­त्याह -
अपि चेति ।

यः संस्कारः स साश्रयो लोके दृष्टः यथा वेगा­दि­रि­ष्वा­द्या­श्रयः, अतो विज्ञा­न­सं­स्का­राणां न भाव आश्र­या­नु­प­ल­ब्धे­रि­त्य­र्था­न्त­र­माह -
अपि चेति ॥३०॥

अस्त्वा­ल­य­वि­ज्ञा­न­मा­श्रय इत्यत आह -
क्षणि­क­त्वा­च्चेति ।

सूत्रं व्याचष्टे -
यदपीति ।
सहोत्पन्नयोः सव्ये­त­र­वि­षा­ण­व­दा­श्र­या­श्र­यि­भा­वा­यो­गात् , पौर्वापर्ये चाधेयक्षणेऽसत आधारत्वायोगात् , सत्त्वे क्षणि­क­त्व­व्या­घा­ता­न्ना­धा­र­त्व­मा­ल­य­वि­ज्ञा­नस्य क्षणि­क­त्वा­न्नी­ला­दि­वि­ज्ञा­न­व­दि­त्यर्थः ।

अस्तु तर्ह्या­ल­य­वि­ज्ञा­न­स­न्ता­ना­श्रया वासनेत्यत आह -
न हीति ।
सविकारः कूटस्थो वा स्थाय्यात्मा यदि नास्ति तदा सन्ता­न­स्या­व­स्तु­त्वा­द्दे­शा­द्य­पे­क्षया यद्वा­स­ना­ना­मा­धानं निक्षेपो ये च स्मृति­प्र­त्य­भिज्ञे यश्च तन्मूलो व्यवहारः, तत्सर्वं न सम्भवतीत्यर्थः ।

यदि व्यव­हा­रा­र्थ­मा­त्म­स्था­यित्वं तदापसिद्धान्त इत्याह -
स्थिरेति ।

सूत्र­म­ति­दे­शा­र्थ­त्वे­नापि व्याचष्टे -
अपि चेति ।

मत­द्व­य­नि­रा­स­मु­प­सं­ह­रति -
एवमिति ।

ज्ञान­ज्ञे­या­त्म­कस्य सर्वस्य सत्त्वा­स­त्त्वाभ्यां विचा­रा­स­ह­त्वा­च्छू­न्य­ता­व­शि­ष्यत इति माध्य­मि­क­प­क्ष­स्यापि मान­मू­ल­त्व­मा­शङ्क्य सूत्रकारः किमिति न निराचकारेत्यत आह -
शून्येति ।
आदरः पृथ­क्सू­त्रा­रम्भो न क्रियते । एतान्येव तन्म­त­नि­रा­सा­र्थ­त्वे­नापि योज्यन्त इत्यर्थः । तथा हि ज्ञाना­र्थ­यो­र्ना­भावः, प्रमाणत उपलब्धेः ।

ननु जाग्रत्स्वप्नौ ज्ञाना­र्थ­शून्यौ, अवस्थात्वात् , सुषुप्तिवदित्यत आह 'वैध­र्म्याच्च न स्वप्ना­दि­वत्' । स्वप्न आदिर्यस्याः सुषु­प्ते­स्त­द्व­न्ने­त­रा­व­स्थयोः शून्यत्वम् , उप­ल­ब्ध्य­नु­प­ल­ब्धि­वै­ध­र्म्य­ल­क्ष­णा­बा­धि­त­ज्ञा­ना­र्थो­प­ल­ब्धि­बा­धात् । सुषु­प्ता­व­प्या­त्म­ज्ञा­न­स­त्त्वेन साध्यवैकल्याच्च नानु­मा­न­मि­त्यर्थः । किञ्च निर­धि­ष्ठा­न­नि­षे­धा­यो­गा­द­धि­ष्ठा­न­मेव तत्त्वं वाच्यम् , तस्य त्वन्मते न भावः । मान­तोऽ­नु­प­ल­ब्धे­रि­त्याह 'न भावोऽ­नु­प­लब्धेः' । तदर्थमाह -
न ह्ययमिति ।
यद्भाति तन्ना­स­दि­त्यु­त्स­र्गतः प्रपञ्चस्य न शून्यत्वम् । बाधा­भा­वा­दि­त्यर्थः । न च सत्त्वा­स­त्त्वाभ्यां विचा­रा­स­ह­त्वा­च्छू­न्य­त्वम् । मिथ्या­त्व­स­म्भ­वा­दिति भावः । 'क्षणि­क­त्वाच्च' इति सूत्रं 'क्षणि­क­त्वो­प­दे­शाच्च' इति पठनीयम् । शून्य­त्व­वि­रु­द्ध­क्ष­णि­क­त्वो­प­दे­शा­द­स­ङ्ग­त­प्र­लापी सुगत इत्यर्थः ॥३१॥

सुग­त­म­ता­सा­ङ्ग­त्य­मु­प­सं­ह­रति -
सर्वथेति ।

सर्वज्ञस्य कथं विरुद्धप्रलापः, तत्राह -
प्रद्वेषो वेति ।
वेदबाह्या अत्र प्रजा ग्राह्याः । अतो भ्रान्त्ये­क­मू­ल­सु­ग­त­सि­द्धा­न्तेन वेदा­न्त­सि­द्धा­न्तस्य न विरोध इति सिद्धम् ॥३२॥

नैक­स्मि­न्न­स­म्भ­वात् ।

मुक्तकच्छमते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थं भवति तन्निरस्यत इति प्रस­ङ्ग­स­ङ्ग­ति­माह -
निरस्त इति ।

एकरूपं ब्रह्मेति वैदि­क­सि­द्धा­न्त­स्या­नै­का­न्त­वा­देन विरोधोऽस्ति न वेति तद्वादस्य मान­भ्रा­न्ति­मू­ल­त्वाभ्यां सन्देहे मान­मू­ल­त्वा­द्वि­रोध इति पूर्व­प­क्ष­फ­ल­म­भि­स­न्धाय तन्म­त­मु­प­न्य­स्यति -
सप्त चेति ।
जीवाजीवौ भोक्तृभोग्यौ, विष­या­भि­मु­ख्ये­ने­न्द्रि­याणां प्रवृ­त्ति­रा­श्रवः, तां संवृणोति इति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्ज­र­स्त­प्त­शि­ला­रो­ह­णादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्य­लो­का­का­श­प्र­वि­ष्टस्य सततोर्ध्वगमनम् ।

नन्वास्रवादीनां भोग्या­न्त­र्भा­वा­त्कथं सप्तत्वमित्यत आह -
सङ्क्षे­प­त­स्त्विति ।

सङ्क्षे­प­वि­स्त­रा­भ्या­मु­क्ता­र्थेषु मध्यमरीत्या विस्तरान्तरमाह -
तयोरिति ।
अस्तिकायशब्दः साङ्केतिकः पदार्थवाची । जीव­श्चा­सा­व­स्ति­का­य­श्चे­त्येवं विग्रहः । पूर्यन्ते गलन्तीति पुद्गलाः परमाणुसङ्घाः कायाः, सम्य­क्प्र­वृ­त्त्य­नु­मेयो धर्मः, ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थिति­हे­तु­र­धर्मः, आवरणाभाव आकाश इत्यर्थः ।

पञ्च­प­दा­र्था­ना­म­वा­न्त­र­भे­द­माह -
सर्वेषामिति ।
अयमर्थः - जीवा­स्ति­का­य­स्त्रि­विधः कश्चिज्जीवो नित्य­सि­द्धोऽ­र्ह­न्मुख्यः, केचि­त्सा­म्प्र­ति­क­मुक्ताः, केचिद्बद्धा इति । पुद्गलास्तिकायः षोढा­पृ­थि­व्या­दीनि चत्वारि भूतानि, स्थावरं जङ्गमं चेति । प्रवृ­त्ति­स्थि­ति­लिङ्गौ धर्मा­ध­र्मा­वुक्तौ । आकाशास्तिकायो द्विविधः - लोकाकाशः सांसारिकः, अलोकाकाशो मुक्ताश्रय इति । बन्धाख्यं कर्माष्टविधं चत्वारि घातिकर्माणि चत्वार्यघातीनि । तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति घातिकर्माणि । तत्त्वज्ञानान्न मुक्तिरिति ज्ञानमाद्यं कर्म, आर्ह­त­त­न्त्र­श्र­व­णान्न मुक्तिरिति ज्ञानं द्वितीयम् , बहुषु तीर्थ­क­र­प्र­द­र्शि­तेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् , मोक्ष­मा­र्ग­प्र­वृ­त्ति­वि­घ्न­क­र­ण­म­न्त­रा­यम् , इमानि चत्वारि श्रेयो­ह­न्तृ­त्वात् घातिकर्माणि । अथाघातीनि चत्वारि कर्माणि वेदनीयं नामिकं गोत्रि­क­मा­यु­ष्क­मिति । मम वेदितव्यं तत्त्व­म­स्ती­त्य­भि­मानो वेदनीयम् , एत­न्ना­मा­ह­म­स्मी­त्य­भि­मानो नामिकम् , अहमत्र भवतो देशिकस्यार्हतः शिष्यवंशे प्रवि­ष्टोऽ­स्मी­त्य­भि­मानो गोत्रिकम् , शरीरस्थित्यर्थं कर्म आयुष्कम् । अथवा शुक्र­शो­णि­त­मि­श्रि­त­मा­यु­ष्कम् , तस्य तत्त्व­ज्ञा­ना­नु­कू­ल­दे­ह­प­रि­णा­म­श­क्ति­र्गो­त्रि­कम् , शक्तस्य तस्य द्रवी­भा­वा­त्म­क­क­ल­ला­व­स्थाया बुद्बु­दा­व­स्था­या­श्चा­र­म्भकः क्रियाविशेषो नामिकम् , सक्रियस्य बीजस्य जाठ­रा­ग्नि­वा­यु­भ्या­मी­ष­द्घ­नी­भावो वेदनीयम् , तत्त्व­वे­द­ना­नु­कू­ल­त्वात् । तान्येतानि तत्त्वा­वे­द­क­शु­क्ल­पु­द्ग­ला­र्थ­त्वा­द­घा­तीनि । तदे­त­त्क­र्मा­ष्टकं जन्मा­र्थ­त्वा­द्बन्ध आस्र­वा­दि­द्वा­रेति ।

इयं प्रक्रिया मानशून्येति द्योतयति -
स्वस­म­य­प­रि­क­ल्पि­ता­निति ।
स्वीय­त­न्त्र­स­ङ्के­त­मा­त्र­क­ल्पि­ता­नि­त्यर्थः ।

स्वीय­त­न्त्र­स­ङ्के­त­मा­त्र­क­ल्पि­ता­नि­त्यर्थः । पदा­र्था­ना­मु­क्ता­ना­म­नै­का­न्तत्वं वदन्तीत्याह -
सर्वत्रेति ।
अस्ति­त्व­ना­स्ति­त्वा­दि­वि­रु­द्ध­ध­र्म­द्व­य­मा­दाय वस्तुमात्रे न्यायं योजयन्ति । सप्ता­ना­म­स्ति­त्वा­दीनां भङ्गानां समाहारः सप्तभङ्गी, तस्या नयो न्यायः । घटादेर्हि सर्वात्मना सदैकरूपत्वे प्राप्या­त्म­ना­प्य­स्त्येव स इति तत्प्राप्तये यत्नो न स्यात् । अतो घटत्वादिरूपेण कथञ्चिदस्ति, प्राप्य­त्वा­दि­रू­पेण कथ­ञ्चि­न्ना­स्ती­त्ये­व­म­ने­क­रू­पत्वं वस्तु­मा­त्र­स्या­स्थे­य­मिति भावः ।

के ते सप्तभङ्गाः, तानाह -
स्यादस्तीति ।
स्यादित्यव्ययं तिङ­न्त­प्र­ति­रू­पकं कथञ्चिदर्थकम् । स्यादस्ति । कथ­ञ्चि­द­स्ती­त्यर्थः । एवमग्रेेऽपि । तत्र वस्तु­नोऽ­स्ति­त्व­वा­ञ्छायां स्याद­स्ती­त्याद्यो भङ्गः प्रवर्तते । नास्ति­त्व­वा­ञ्छायां स्यान्नास्तीति द्वितीयो भङ्गः । क्रमे­णो­भ­य­वा­ञ्छायां स्यादस्ति च नास्ति चेति तृतीयो भङ्गः । युग­प­दु­भ­य­वा­ञ्छा­या­मस्ति नास्तीति शब्दद्वयस्य सकृ­द्व­क्त्तु­म­श­क्य­त्वा­त्स्या­द­व­क्तव्य इति चतुर्थो भङ्गः । आद्य­च­तु­र्थ­भ­ङ्ग­यो­र्वा­ञ्छायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः । द्विती­य­च­तु­र्थे­च्छायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठो भङ्गः । तृती­य­च­तु­र्थे­च्छायां स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तमो भङ्ग इति विभागः । एव­मे­क­त्व­म­ने­कत्वं चेति द्वयमादाय स्यादेकः स्यादनेकः स्यादेकोऽनेकश्च स्यादवक्तव्यः स्यादेको वक्तव्यः स्याद­ने­कोऽ­व­क्तव्यः स्यादे­कोऽ­ने­क­श्चा­व­क्त­व्य­श्चेति, तथा स्यान्नित्यः स्यादनित्य इत्याद्यूह्यम् ।

एवमनेकरूपत्वे वस्तुनि प्राप्ति­त्या­गा­दि­व्य­व­हारः सम्भवति, एकरूपत्वे सर्वं सर्वत्र सर्व­दा­स्त्ये­वेति व्यव­हा­र­वि­लो­पा­पत्तिः स्यात् , तस्मादनैकान्तं सर्व­मि­त्ये­क­रू­प­ब्र­ह्म­वा­द­बाध इति प्राप्ते सिद्धान्तयति -
अत्रेति ।
यदस्ति तत्सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा । न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम् , अप्रा­प्ति­भ्रान्त्या यत्नसम्भवात् । यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि । प्रप­ञ्च­स्तू­भ­य­वि­ल­क्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः । तथा हि किं येनाकारेण वस्तुनः सत्त्वं तेनै­वा­का­रे­णा­स­त्त्व­मु­ता­का­रा­न्त­रेण । द्वितीये वस्तुन आका­रा­न्त­र­मे­वा­स­दिति वस्तुनः सदैकरूपत्वमेव । न हि दूरस्थग्रामस्य प्राप्ते­र­सत्त्वे ग्रामोऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्ति­य­त्ना­नु­प­पत्तेः । अतो यथाव्यवहारं प्रप­ञ्च­स्यै­क­रू­प­त्व­मा­स्थे­यम् ।

नाद्य इत्याह -
नायमिति ।

ननु विमतमनैकात्मकम् , वस्तुत्वात् , नारसिंहवदिति चेत् । न । घट इदा­नी­म­स्त्ये­वे­त्य­नु­भ­व­बा­धात् । किञ्च जीवा­दि­प­दा­र्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् । आद्ये व्यभिचार इत्याह -
य इति ।

द्वितीये पदार्थनिश्चयो न स्यादित्याह -
इतरथेति ।

अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते -
नन्विति ।

तस्य निश्चयरूपत्वं नियतमनियतं वा । आद्ये वस्तुत्वस्य तस्मि­न्ने­वै­क­रूपे निश्चये व्यभिचारः । द्वितीये तस्य संशयत्वं स्यादित्याह -
नेति ब्रूम इति ।

प्रमा­या­मु­क्त­न्यायं प्रमा­त्रा­दा­व­ति­दि­शति -
एवमिति ।
निर्धारणं फलं यस्य प्रमा­णा­दे­स्त­स्ये­त्यर्थः ।

इत्येवं सर्व­त्रा­नि­र्धा­रणे सत्युपदेशो निष्क­म्प­प्र­वृ­त्तिश्च न स्यादित्याह -
एवं सतीति ।

अनैकान्तवादे अस्ति­का­य­प­ञ्च­त्व­मपि न स्यादित्याह -
तथा पञ्चानामिति ।

यदु­क्त­म­व­क्त­व्यत्वं तत्किं केनापि शब्दे­ना­वा­च्य­त्व­मुत सकृ­द­ने­क­श­ब्दा­वा­च्य­त्वम् । नाद्यः, व्याघातादित्याह -
न चैषामिति ।
उच्यन्ते च । अव­क्त­व्या­दि­प­दै­रिति शेषः । न द्वितीयः, सकृ­दे­क­व­क्तृ­मु­ख­जा­ने­क­श­ब्दा­ना­म­प्र­सि­द्धे­र्नि­षे­धा­यो­गात् , शेषस्यापि मुखभेदात् । न चार्थस्य युग­प­द्वि­रु­द्ध­ध­र्म­वा­ञ्छायां वक्तु­र्मू­क­त्व­मा­त्र­म­व­क्त­व्य­प­देन विवक्षितमिति वाच्यम् , तादृशवाञ्छाया एवा­नु­त्प­त्ते­रिति ।

किञ्च विरु­द्धा­ने­क­प्र­ला­पि­त्वा­द­र्ह­न्न­नाप्त इत्याह -
उच्य­मा­ना­श्चे­त्या­दिना ।
इति च प्रल­प­न्नि­त्य­न्वयः । अर्हन्निति शेषः । अना­प्त­प­क्ष­स्यै­वा­न्त­र्गतः स्यान्ना­प्त­प­क्ष­स्ये­त्यर्थः ।

इत­श्चा­स­ङ्ग­तोऽ­नै­का­न्त­वाद इत्याह -
स्वर्गेति ।

किञ्चा­ना­दि­सि­द्धोऽ­र्ह­न्मुनिः, अन्ये तु हेत्व­नु­ष्ठा­ना­न्मु­च्यन्ते, अन­नु­ष्ठा­ना­द्ब­ध्यन्त इत्या­र्ह­त­त­न्त्रा­व­धृ­त­स्व­भा­वानां त्रिविधजीवानां त्रैवि­ध्य­नि­य­मोऽपि न स्यादित्याह -
अनादीति ।

प्रपञ्चितं सूत्रार्थं निगमयति -
एवमिति ।

एतेनेति ।
सत्त्वा­स­त्त्व­यो­रे­कत्र निरासेनेत्यर्थः । परमाणुसङ्घाताः पृथिव्यादय इति ।

दिग­म्ब­र­सि­द्धान्तः किमिति सूत्र­कृ­तो­पे­क्षितः, तत्राह -
यत्त्विति ॥३३॥

जीवस्य देहपरिमाणतां दूषयति -
एवं चेति ।
अकार्त्स्न्यं मध्य­म­प­रि­मा­ण­त्वम् । तेनानित्यत्वं स्यादित्यर्थः ।

अर्थान्तरमाह -
शरीराणां चेति ।
विपाकः कर्म­णा­म­भि­व्यक्तिः । जीवस्य कृत्स्न­ग­ज­श­री­र­व्या­पि­त्व­म­का­र्त्स्न्यम् । शरीरैकदेशो निर्जीवः स्यादित्यर्थः । पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् । देहाद्बहिरपि जीवः स्यादित्यर्थः ।

किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित्स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह -
समान इति ।

यथा दीपावयवानां घटे सङ्कोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते -
स्यादिति ।

दीपां­श­व­ज्जी­वांशा भिन्नदेशा एकदेशा वेति विक­ल्प्या­द्येऽ­ल्प­दे­हा­द्ब­हि­रपि जीवः स्यादिति दूषयति -
तेषामित्यादिना ।
दीपस्य तु न घटाद्बहिः सत्त्व­म­धि­का­व­य­वानां विनाशात् ।

द्वितीयं दूषयति -
अप्रतिघात इति ।

अवयवानां नित्यत्वं चासि­द्ध­म­ल्प­त्वा­द्दी­पां­श­व­दि­त्याह -
अपि चेति ॥३४॥

एवं जीवावयवा नित्या इति मते देहमानत्वं निरस्तम् । सम्प्रति जीवस्य केचिदेव कूटस्था अवयवा अन्ये त्वागमापायिन इति शङ्कते -
अथेति ।
बृह­त्त­नु­का­याप्तौ जीव­स्या­व­य­वा­ग­मा­पा­याभ्यां देह­मा­न­त्व­मि­त्यर्थः ।

सूत्रेण परिहरति -
न चेति ।
आगमापायौ पर्यायः ।

किमा­ग­मा­पा­यि­ना­म­व­य­वा­ना­मा­त्म­त्व­मस्ति न वा । आद्ये आह -
विकारादिदोषेति ।

कोऽसौ बन्ध­मो­क्षा­भ्यु­प­गम इत्यत आह -
कर्माष्टकेति ।
व्याख्यातमेतत् ।

आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति -
किञ्चेति ।
अव­शि­ष्ट­कू­ट­स्था­व­य­वस्य दुर्ज्ञा­न­त्वा­दा­त्म­ज्ञा­ना­भा­वान्न मुक्तिरित्यर्थः ।

यथा दीपा­व­य­व­ना­मा­का­र­स्ते­ज­स्त­था­त्मा­व­य­व­ना­मा­का­र­का­र­णा­भा­वा­न्ना­ग­मा­पायौ युक्तावित्याह -
किञ्चेति ।
सर्वजीवसाधारणः प्रति­जी­व­म­सा­धा­रणो वेत्यर्थः ।

किञ्चात्मन आग­मा­पा­यि­शी­ला­व­य­वत्वे सति कियन्त आयान्त्यवयवाः किय­न्तोऽ­प­य­न्ती­त्य­ज्ञा­ना­दा­त्म­नि­श्च­या­भा­वा­द­नि­र्मोक्षः स्यादित्याह -
किञ्चेति ।

अपि चाव­य­वा­र­ब्धा­व­य­वित्वे जीव­स्या­नि­त्य­त्वम् , अवयवसमूहत्वे चासत्त्वम् , आत्मत्वस्य याव­द­व­य­व­वृ­त्तित्वे यत्कि­ञ्चि­द­व­य­वा­पा­येऽपि सद्यः शरी­र­स्या­चे­त­न­त्वम् , गोत्व­व­त्प्र­त्येकं समा­प्ता­वे­क­स्मि­ञ्छ­रीर आत्मनानात्वं स्यादतो न देह­प­रि­मा­ण­त्व­सा­व­य­वत्वे आत्मन इत्युपसंहरति -
अत इति ।

सूत्र­स्या­र्था­न्त­र­माह -
अथवेति ।
स्थूल­सू­क्ष्म­श­री­र­प्रा­प्ता­व­का­र्त्स्न्यो­क्ति­द्वा­रे­णा­त्मा­नि­त्य­ता­या­मु­क्तायां सुग­त­व­त्स­न्ता­न­रू­पे­णा­त्म­नि­त्य­ता­मा­श­ङ्क्या­ने­नो­त्त­र­मु­च्यत इत्यन्वयः ।

पर्यायेणेत्यस्य व्याख्या -
स्रोत इति ।
देहभेदेन परि­मा­ण­स्या­त्म­न­श्चा­न­व­स्था­नेऽपि नाशेऽपि । स्रोतः प्रवाहः ।

तदा­त्म­क­स्या­त्म­व्य­क्ति­स­न्ता­नस्य नित्य­त­या­त्म­नि­त्यता स्यादित्यत्र दृष्टान्तमाह -
यथेति ।
सिग्वस्त्रं विगतं येभ्यस्ते विसिचो दिग­म्ब­रा­स्ते­षा­मि­त्यर्थः । पर्या­या­त्स­न्ता­ना­द­प्या­त्म­नि­त्य­त्व­स्या­वि­रोध इति न च । कुतः । विकारादिभ्यः । सन्ता­न­स्या­व­स्तुनः आत्मत्वे शून्यवादः, सन्तानस्य वस्तुत्वे सन्तान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्यु­क्त­दो­ष­प्र­स­ङ्गा­त्स­न्ता­ना­त्म­प­क्षोऽ­नु­प­पन्न इति सूत्रार्थः ॥३५॥

यं स्थूलं वा सूक्ष्मं वा देहं गृह्णाति तद्देहपरिमाण एव जीव इति नियमं दूषयति -
अन्त्येति ।
अन्त्य­श­री­र­प­रि­मा­ण­स्या­व­स्थि­ते­र्नि­त्य­त्व­द­र्श­ना­दु­भ­यो­रा­द्य­म­ध्य­म­प­रि­मा­ण­यो­र्नि­त्य­त्व­प्र­स­ङ्गा­द­वि­शे­ष­स्त्र­याणां नित्यपरिमाणानां साम्यं स्याद्वि­रु­द्ध­प­रि­मा­णा­ना­मे­क­त्रा­यो­गा­दिति सूत्रयोजना । आद्य­म­ध्य­म­प­रि­माणे नित्ये, आत्म­प­रि­मा­ण­त्वात् , अन्त्यपरिमाणवत् । न चाप्रयोजकता, परिमाणनाशे सत्यात्मनोऽपि नाशा­द­न्त्य­प­रि­मा­ण­नि­त्य­त्वा­यो­गा­दिति भावः ।

परि­मा­ण­त्र­य­सा­म्या­पा­दा­न­फ­ल­माह -
एकेति ।
अन्त्य­श­री­र­सा­मा­न्येव पूर्वशरीराणि स्युः, विष­म­श­री­र­प्रा­प्ता­वा­त्म­न­स्त­त्प­रि­मा­णत्वे परि­मा­ण­त्र­य­सा­म्या­नु­मा­न­वि­रो­धा­दि­त्यर्थः । पूर्वं कालत्रये परि­मा­ण­त्र­य­म­ङ्गी­कृ­त्या­न्त्य­दृ­ष्टा­न्तेन नित्यत्वमनुमाय साम्यमापादितम् ।

सम्प्र­त्य­न्त्यस्य मुक्त­प­रि­मा­ण­स्या­णु­त्व­स्थू­ल­त्व­यो­र­न्य­त­र­त्वे­ना­व­स्थि­ते­स्त­दे­वा­न्त्य­मा­द्य­म­ध्य­म­का­ल­यो­रपि नित्य­त्वा­त्स्यात् , प्रागसतो नित्यत्वायोगात् , तथा चाविशेषः कालत्रयेऽपि जीवपरिमाणाभेद इत्याह -
अथवेति ।
तस्मा­द्भ्रा­न्त्ये­क­श­र­ण­क्ष­प­ण­क­सि­द्धा­न्ते­ना­वि­रोधः समन्वयस्येति सिद्धम् ॥३६॥

लुञ्चि­त­के­श­म­त­नि­र­स­ना­न­न्तरं जटाधारिशैवमतं बुद्धिस्थं निराक्रियत इति प्रस­ङ्ग­स­ङ्ग­ति­माह -
इदानीमिति ।

सामान्यत ईश्वरनिरास एवात्र किं न स्यादिति शङ्कते -
तदिति ।

स्वोक्ति­वि­रो­धा­न्मै­व­मि­त्याह -
प्रकृ­ति­श्चे­त्या­दिना ।
प्रति­ष्ठा­पि­त­त्वा­त्के­व­ल­नि­मि­त्ते­श्व­र­प्र­ति­षे­धोऽ­व­ग­म्यत इत्यन्वयः । व्याहतो विरु­द्धोऽ­भि­व्या­हार उक्तिर्यस्य स तथा ।

अद्वि­ती­य­ब्र­ह्म­प्र­कृ­तिकं जगदिति वदतो वेदा­न्त­स­म­न्व­यस्य कर्तैवेश्वरो न प्रकृतिरिति शैवादिमतेन विरोधोऽस्ति न वेति सन्देहे तन्मतस्य मान­मू­ल­त्वा­द्वि­रोधे सति वेदा­न्तो­क्ता­द्व­य­ब्र­ह्मा­सि­द्धि­रिति फलमभिप्रेत्य सत्त्वा­स­त्त्व­यो­रे­क­त्रा­स­म्भ­व­व­त्क­र्तृ­त्वो­पा­दा­न­त्व­यो­र­प्ये­क­त्रा­स­म्भ­वा­त्क­र्तै­वे­श्वर इति पूर्वपक्षं कुर्व­न्न­वा­न्त­र­म­त­भे­द­माह -
सा चेति ।
सेश्वराः साङ्ख्याः साङ्ख्य­श­ब्दार्थः । चत्वारो माहेश्वराः शैवाः पाशुपताः कारु­णि­क­सि­द्धा­न्तिनः कापालिकाश्चेति । सर्वोऽप्यमी महे­श्व­र­प्रो­क्ता­ग­मा­नु­गा­मि­त्वा­न्मा­हे­श्वरा उच्यन्ते । कार्यं महदादिकम् , कारणं प्रधा­न­मी­श्व­रश्च, योगः समाधिः, विधि­स्त्रि­ष­व­ण­स्ना­नादिः , दुःखान्तो मोक्ष इति पञ्च पदार्थाः । पशवो जीवास्तेषां पाशो बन्ध­स्त­न्ना­शा­ये­त्यर्थः ।

पाशु­प­ता­ग­म­प्र­मा­ण्या­त्प­शु­प­ति­र्नि­मि­त्त­मे­वेति मत­मु­क्त्वा­नु­मा­नि­के­श्व­र­म­त­माह -
तथेति ।
विमतं सकर्तृकम् , कार्यत्वात् , घटवदिति वैशेषिकाः कर्तारमीश्वरं साधयन्ति । कर्मफलं सप­रि­क­रा­भि­ज्ञ­दा­तृ­कम् , काला­न्त­र­भा­वि­फ­ल­त्वात् , सेवाफलवदिति गौतमा दिगम्बराश्च ।

ज्ञानै­श्व­र्यो­त्कर्षः क्वचि­द्वि­श्रान्तः, सातिशयत्वात् , परिमाणवदिति साङ्ख्य­सौ­ग­त­पा­त­ञ्जला इति मत्वोक्तम् -
केचि­त्क­थ­ञ्चि­दिति ।

सिद्धान्तयति -
अत इति ।

आगमादिना निर्दे­षे­श्व­र­सिद्धेः कथं दोषवत्वमित्याह -
किमिति ।
न ताव­त्स्व­स्वा­ग­मा­दी­श्व­र­नि­र्णयः, आगमानां निर्मू­ल­त्वे­ना­प्रा­मा­ण्यात् । न च सर्वज्ञज्ञानं मूलम् , तत्र मानाभावात् । न चागम एव मानम् , आग­म­मा­न­त्व­नि­श्चये मूल­नि­श्च­य­स्त­न्नि­श्चये तन्निश्चय इत्य­न्यो­न्या­श्र­यात् । न च पुरुषवचसां स्वतोमानत्वं युक्तम् , मिथो विरोधेन तत्त्वा­व्य­व­स्था­नाच्च । नाप्य­नु­मा­ना­दी­श्वरः सर्वज्ञः कर्तैवेति निर्णयः सम्भवति, अनुमानस्य दृष्टा­नु­सा­रि­त्वेन दृष्ट­वि­प­री­ता­र्था­सा­ध­क­त्वात् । तथा च लोके यादृशाः कर्तारो दृष्टास्तादृशा एव जगत्कर्तारो राग­द्वे­षा­दि­मन्तः सिध्येयुः । यदि लोके विचि­त्र­प्रा­सा­दा­दि­क­र्तु­रे­क­त्वा­द्य­द­र्श­नेऽपि जगत्कर्तरि लाघवादेकत्वं नित्यज्ञानं निर्देषत्वं च कल्प्येत, तर्हि द्रव्यो­पा­दा­न­त्व­मपि कल्प्यताम् , कर्तु­रे­वो­पा­दा­न­त्वेन लाघवात् , अन्यथा स्वत­न्त्र­प्र­धा­न­प­र­मा­ण्वा­द्यु­पा­दा­न­क­ल्प­ना­गौ­र­वात् । अदृ­ष्ट­त्वा­च्चे­त्क­र्तु­र्द्र­व्यो­पा­दा­न­त्वा­सि­द्धि­रे­क­त्वा­दि­क­मपि न सिध्येत् । अस्माकं त्वपौरुषेयतया स्वतः­सि­द्ध­प्र­मा­ण­भा­वया श्रुत्या स्वप्रमेयबोधने दृष्टा­न्ता­न­पे­क्षया भवत्येव लौकि­क­क­र्तृ­वि­प­री­ता­द्वि­ती­य­क­र्त्रु­पा­दा­ना­त्म­क­स­र्व­ज्ञ­नि­र्दो­षे­श्व­र­नि­र्णयः ।

निर्णीते च तस्मिन् धर्मि­ग्रा­ह­क­मा­न­बा­धान्न रागा­दि­दो­षा­पा­दा­न­स्या­व­काश इत्या­नु­मा­नि­के­श्व­र­वा­दिभ्यो वैषम्यम् , तद­भि­प्रे­त्या­श्रौ­त­स्ये­श्व­र­स्या­सा­म­ञ्ज­स्य­माह -
हीनेति ।
यदि कर्तु­रु­पा­दा­न­त्व­म­दृ­ष्ट­त्वान्न कल्प्यते तर्हि निर्दे­ष­त्व­स्या­प्य­दृ­ष्ट­त्वाद्यो विषमकारी स दोषवानिति व्याप्ति­दृ­ष्टेश्च जगत्कर्ता दोषवान् स्यात् । न चात्र धर्मि­ग्रा­ह­का­नु­मा­न­बाधः, कार्य­त्व­लि­ङ्गस्य कर्तृ­मा­त्र­सा­ध­क­त्वेन निर्दो­ष­त्वा­दा­वु­दा­सी­न­त्वात् । न चोत्कर्षसमा जातिः, व्याप­क­ध­र्मा­पा­दा­नात् , दोषाभावे तद्व्या­प्य­वि­ष­म­क­र्तृ­त्वा­यो­गाच्च । दृष्टा­न्त­स्था­व्या­प­क­ध­र्माणां पक्षे आपादनं ह्युत्कर्षसमा जातिः । यथा शब्दो यदि कृतकत्वेन हेतुना घटवदनित्यः स्यात्तर्हि तेनैव हेतुना सावयवोऽपि स्यादिति । न ह्यनित्यत्वस्य व्यापकं सावयवत्वं गन्धादौ व्यभिचारादिति भावः ।

ननु प्राणि­क­र्म­प्रे­रित ईश्वरो विषमफलान् प्राणिनः करोति न स्वेच्छयेति शङ्कते -
प्राणीति ।

जडस्य कर्मणः प्रेर­क­त्वा­यो­गा­न्मै­व­मि­त्याह -
नेति ।

न चेश्वरप्रेरितं कर्मेश्वरस्य प्रेरकमिति वाच्यमित्याह -
कर्मेति ।

अतीतकर्मणा प्रेरित ईश्वरो वर्तमानं कर्म तत्फलाय प्रेर­य­ती­त्य­ना­दि­त्वा­त्प्रे­र्य­प्रे­र­क­भा­वस्य नानुपपत्तिरिति शङ्कते -
नानादित्वादिति ।
अतीतकर्मणोऽपि जड­त्वा­न्ने­श्व­र­प्रे­र­कता । न च तदपीश्वरेण प्रेरितं सदीश्वरं प्रेरयति, उक्ता­न्यो­न्या­श्र­यात् । ततोऽ­प्य­ती­त­क­र्म­प्रे­रि­ते­श्व­र­प्रे­रितं तदेवेश्वरं वर्तमाने कर्मणि फलदानाय प्रेरयतीति चेत् । न । मानहीनाया मूलक्षयावहाया अनवस्थायाः प्रसङ्गात् । अतः कर्मनिरपेक्ष एवेश्वरो विष­म­स्र­ष्टे­त्य­सा­म­ञ्जस्यं दुर्वा­र­मि­त्यर्थः । यत्तु फलदाने ईश्वरस्य कर्म निमित्तमात्रं न प्रेरकमिति नोक्तदोष इति । तन्न । विष­म­क­र्म­का­र­यि­तु­री­श्व­रस्य दोष­व­त्त्वा­न­पा­यात् , पूर्व­क­र्मा­पे­क्षया कर्मकारयितृत्वे चोक्ता­प्रा­मा­णि­का­न­व­स्था­नात् । अस्माकं तु 'एष ह्येव साध्वसाधु कारयति' इति, 'निर­व­द्यम्' इति च श्रुतिमूलं पूर्व­क­र्मा­पे­क्षा­क­ल्प­न­मिति वैषम्यम् ।

किञ्च पर­म­ता­नु­सा­रे­णा­पी­श्व­रस्य रागादिमत्त्वं प्राप्नोतीत्याह -
अपि चेति ।
प्रव­र्त­क­त्व­लि­ङ्गा­द्दोषा इति तार्किकाणां स्थितिः, तथा चेश्वरः स्वार्थे रागादिमान् , प्रवर्तकत्वात् , सम्मतवत् । न च कारुणिके व्यभिचारः, पर­दुः­ख­प्र­यु­क्त­स्व­दुः­ख­नि­वृ­त्त्य­र्थि­त्वा­त्त­स्ये­त्यर्थः ।

उदासीनः प्रवर्तक इति च व्याहतमिति योगान्प्रत्याह -
पुरुषेति ॥३७॥

प्रधानवादे दोषान्तरमाह सूत्रकारः -
सम्बन्धेति ।
ईश्व­रे­णा­स­म्ब­द्धस्य प्रधानादेः प्रेर्य­त्वा­यो­गा­त्स­म्बन्धो वाच्यः । स च संयेगः समवायो वा नास्तीत्यर्थः ।

कार्य­ब­ला­त्प्रे­र­ण­यो­ग्य­त्वाख्यः सम्बन्धः कल्प्यतामित्यत आह -
नाप्यन्य इति ।
ईश्व­र­प्रे­रि­त­प्र­धा­न­कार्यं जगदिति सिद्धं चेत्स­म्ब­न्ध­क­ल्पना स्यात् । तच्चा­द्या­प्य­सि­द्ध­मि­त्यर्थः । माया­ब्र­ह्म­णो­स्त्व­नि­र्वा­च्य­ता­दा­त्म्य­स­म्बन्धः, 'देवा­त्म­श­क्तिम्' इति श्रुतेः ।

किञ्च वेद­स्या­पू­र्वा­र्थ­त्वान्न लोक­दृ­ष्ट­मृ­त्कु­ला­ल­स­म्बन्धो वैदि­के­ना­नु­स­र्तव्यः । आनुमानिकेन त्वनुसर्तव्य इति विशेषमाह -
अपि चेति ।
सर्व­ज्ञ­स्या­ग­म­प्रा­मा­ण्यस्य च ज्ञप्ता­व­न्यो­न्या­श्रयः, अनु­मा­ना­त्स­र्व­ज्ञ­सि­द्धे­र्नि­र­स्त­त्वात् । न ह्यमनस्कस्य ज्ञानं सम्भवति, ज्ञानं मनोजन्यमिति व्याप्ति­वि­रो­धा­न्नि­त्य­ज्ञा­न­क­ल्प­ना­न­व­का­शा­दिति भावः ।

प्रधा­न­व­त्प­र­मा­णू­ना­मपि निरवयवेश्वरेण संयो­गा­द्य­स­त्त्वा­त्प्रे­र्य­त्वा­योगः , प्रेरकत्वे चेश्वरस्य दोष­व­त्त्व­मि­त्याह -
एवमन्यास्वपीति ॥३८॥

ईश्वरस्य प्रधा­ना­दि­प्रे­र­णा­नु­प­प­त्ते­श्चा­सा­म­ञ्ज­स्य­मि­त्याह सूत्रकारः -
अधिष्ठानेति ।
प्रधानादिकं चेत­न­स्या­न­धि­ष्ठे­यम् , अप्र­त्य­क्ष­त्वात् , ईश्वरवत् , व्यतिरेकेण मृगा­दि­व­च्चे­त्यर्थः ॥३९॥

चक्षुरादौ व्यभि­चा­र­मा­शङ्क्य निषेधति -
करणवदिति ।

रूपमुद्भूतं नास्ती­त्य­प्र­त्य­क्षत्वं स्फुटयति -
रूपेति ।

स्वभोगाहेतुत्वे सतीति विशेषणान्न व्यभिचार इत्याह -
तथापीति ।
भोगः सुखदुःखानुभवः । आदि­प­दा­द्वि­ष­या­नु­भ­व­ग्रहः । न च यद्येनाधिष्ठेयं तत्त­दी­य­भो­ग­हे­तुत्वे सति प्रत्यक्षमिति व्यति­रे­क­व्याप्तौ करणेषु व्यभि­चा­र­ता­द­व­स्थ्य­मिति वाच्यम् , भोगा­हे­तु­त्व­वि­शि­ष्टा­प्र­त्य­क्ष­त्वस्य हेतुत्वात् , करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् । न च विशे­ष्य­वै­य­र्थ्यम् , परा­र्थ­पा­च­का­धि­ष्ठे­य­का­ष्ठादौ व्यभिचारात् । न च प्रधा­ना­दे­री­श्व­र­प्र­त्य­क्ष­त्वा­द्वि­शे­ष्या­सिद्धिः, अती­न्द्रि­य­त्व­रू­पा­प्र­त्य­क्ष­त्वस्य सत्त्वा­दि­त्य­भि­प्रायः । जीवे करणकृता भोगदयो दृश्यन्ते, ईश्वरे तु प्रधानकृतास्ते न दृश्यन्त इत्यक्षरार्थः ।

विपक्षे दोषं वद­न्न­प्र­यो­ज­कत्वं हेतोर्निरस्यति -
करणेति ।
प्रधानादेः प्रेर्य­त्वा­ङ्गी­कारे प्रेर­क­भो­ग­हे­तुत्वं स्यात् । अतीन्द्रियस्य प्रेर्यस्य भोग­हे­तु­त्व­नि­य­मा­दि­त्यर्थः ।

सूत्र­द्व­य­स्या­र्था­न्त­र­माह -
अन्यथा वेति ।

यः प्रवर्तकश्चेतनः स शरीरीति लोके व्याप्ति­दृ­ष्टे­री­श्व­रस्य च शरी­रा­नु­प­प­त्तेर्न प्रवर्तकत्वमिति सूत्रार्थमाह -
इतश्चेति ।

विमतं सेश्वरम् , कार्यत्वात् , राष्ट्रवदिति कल्पयतो राजवत्सशरीर एवेश्वरः स्यादित्युक्तम् । तत्रेष्टापत्तिं निरस्यति -
न च तद्वर्णयितुमिति ।
न च नित्यं शरीरं सर्गात्प्रागपि सम्भवतीति वाच्यम् , शरीरस्य भौति­क­त्व­नि­य­मा­दि­त्यर्थः ।

अस्त्वशरीर एवेश्वर इत्यत आह -
निरधिष्ठानत्वे चेति ।

जीवस्यैव शरीरं भौतिकमीश्वरस्य तु स्वेच्छा­नि­र्मितं प्रागपि स्यादि­त्या­शङ्कां निरस्यति -
करणवदिति ।
करणान्यत्र सन्तीति करणवच्छरीरम् । इच्छा­म­य­श­री­र­क­ल्प­नै­वा­नु­प­पन्ना, माना­भा­वा­द्दृ­ष्ट­भौ­ति­क­त्व­नि­य­म­वि­रो­धा­च्चेति मन्तव्यम् ॥४०॥

एवमीश्वरस्य शुष्कतर्केण कर्तृत्वनिर्णयो नेत्युपपाद्य नित्य­त्व­स­र्व­ज्ञ­त्व­नि­र्ण­योऽपि न सम्भवतीत्याह सूत्रकारः -
अन्तवत्वमिति ।

प्रधा­न­पु­रु­षे­श्व­र­त्र­य­म­नि­त्यम् , इय­त्ता­प­रि­च्छि­न्न­त्वा­त्घ­ट­व­दि­त्याह -
पूर्वस्मिन्निति ।
सङ्ख्या वा परिमाणं वेयत्ता । तथा च निश्चि­त­स­ङ्ख्य­त्वा­न्नि­श्चि­त­प­रि­मा­ण­त्वा­च्चेति हेतुद्वयम् । यद्यपि सङ्ख्या­व­त्व­मात्रं हेतुः सम्भवति तथापि सर्वज्ञनिश्चयेन हेत्व­सि­द्धि­नि­रासं द्योतयितुं निश्चितपदम् ।

तत्रा­द्य­हे­तो­र­सि­द्धि­र्ना­स्ती­त्याह -
सङ्ख्या­प­रि­मा­ण­मिति ।
सङ्ख्या­स्व­रू­प­मि­त्यर्थः ।

द्वितीयहेतुं साधयति -
स्वरूपेति ।
प्रधानादयो निश्चि­त­प­रि­माणाः, वस्तुतो भिन्नत्वात् , घटवदित्यर्थः ।

ननु प्रधा­न­पु­रु­षे­श्व­रा­स्त्रय इति ज्ञातेऽपि जीवा­ना­मा­न­न्त्या­त्कथं सङ्ख्यानिश्चयः, तत्राह -
पुरुषेति ।
जीव­स­ङ्ख्या­पी­श्व­रेण निश्चीयते । अनिश्चये सर्व­ज्ञ­त्वा­यो­गा­दि­त्यर्थः ।

हेतुसिद्धेः फलमाह -
ततश्चेति ।
माष­रा­शि­व­त्के­षा­ञ्चि­ज्जी­वानां सङ्घ­स्त­द्ब­न्धश्च नश्येदित्येवं सर्व­मु­क्ते­रि­दानीं शून्यं जग­त्स्या­दि­त्यर्थः । नित्य­स्या­न­व­शे­षा­दिति भावः । ननु ईश्वरः शिष्यतामिति चेत् । न । तस्यापि भिन्नि­त्वे­ना­न्त­व­त्त्वात् ।

किञ्चे­शि­त­व्या­भा­वा­दी­श्व­रा­भावः स्यादित्याह -
प्रधानमिति ।

दोषान्तरमाह -
प्रधानेति ।

इय­त्ता­नि­श्च­या­भा­वान्न शून्यतेति द्वितीयं शङ्कते -
अथेति ।
इयत्ता नास्ति न निश्चीयते चेत्यर्थः ।

प्रदानादयः सङ्ख्या­प­रि­मा­ण­वन्तः, द्रव्यत्वात् , माषा­दि­व­दि­त्य­नु­मा­ना­द­स्ती­यत्ता, तदज्ञाने स्यादसर्वज्ञता, इयत्तायां चान्त­व­त्त्व­म­प्य­क्ष­त­मिति परिहरति -
तत इति ।
तस्मा­त्के­व­ल­क­र्त्री­श्व­र­वा­दस्य निर्मूलत्वान्न कर्त्रु­पा­दा­ना­द्व­ये­श्व­र­स­म­न्व­य­वि­रोध इति सिद्धम् ॥४१॥

पञ्च­प­दा­र्थ­वा­दि­मा­हे­श्व­र­म­त­नि­रा­सा­न­न्तरं चतुर्व्यूहवादं बुद्धिस्थं निरस्यति -
उत्प­त्त्य­स­म्भ­वात् ।

अधि­क­र­ण­ता­त्प­र्य­माह -
येषामिति ।

अधि­क­र­णा­र­म्भ­मा­क्षि­पति -
नन्विति ।

वेदा­वि­रु­द्धां­श­म­ङ्गी­कृत्य वेदविरुद्धं जीवोत्पत्त्यंशं निरा­क­र्तु­म­धि­क­र­णा­रम्भ इत्याह -
उच्यत इति ।

अत्र भाग­व­त­प­ञ्च­रा­त्रा­गमो विषयः । स किं जीवो­त्प­त्त्या­द्यंशे मानं न वेति सन्देहे बाधा­नु­प­ल­म्भा­न्मा­न­मिति पूर्वपक्षयति -
तत्रेति ।
पूर्वपक्षे तदा­ग­म­वि­रो­धा­ज्जी­वा­भि­न्न­ब्र­ह्म­स­म­न्व­या­सिद्धिः, सिद्धान्ते तदंशे तस्या­मा­न­त्वा­द­वि­रो­धा­त्त­त्सि­द्धि­रिति फलभेदः ।

सावयवत्वं निरस्यति -
निरञ्जनेति ।

कथं तर्ह्यद्वितीये वासुदेवे मूर्तिभेदः, तत्राह -
स इति ।
व्यूहो मूर्तिः ।

सविशेषं शास्त्रा­र्थ­मुक्त्वा सहेतुं पुरुषार्थमाह -
तमित्थम्भूतमिति ।
यथो­क्त­व्यू­ह­वन्तं सर्वप्रकृतिं निरञ्जनं विज्ञानरूपं परमात्मानमिति यावत् । वाक्का­य­चे­त­सा­म­व­धा­न­पू­र्वकं देव­ता­गृ­ह­ग­म­न­म­भि­ग­म­नम् । पूजा­द्र­व्या­णा­म­र्ज­न­मु­पा­दा­नम् । इज्या पूजा । स्वाध्या­योऽ­ष्टा­क्ष­रादि जपः । योगो ध्यानम् ।

तत्रा­वि­रु­द्धां­श­मु­पा­दत्ते -
तत्रेति ।
'समाहितः श्रद्धावित्तो भूत्वा' इति, 'तं यथा यथोपासते' इत्याद्या च श्रुतिः । 'मत्क­र्म­कृ­न्म­त्प­रमः' इत्याद्या स्मृतिः ।

विरु­द्धां­श­म­नूद्य दूषयति -
यत्पुनरिति ।
कृतहान्यादिदोष आदिशब्दार्थः । न्यायोपेतया 'अज आत्मा' इत्यादिश्रुत्या पञ्च­रा­त्रा­ग­म­स्यो­त्प­त्त्यंशे मान­त्वा­भा­व­नि­श्च­या­ज्जी­वा­भि­न्न­ब्र­ह्म­स­म­न्व­य­स्थै­र्य­मिति भावः ॥४२॥

जीवस्योत्पत्तिं निरस्य जीवान्मनस उत्पत्तिं निरस्यति -
न च कर्तुरिति ।
यस्मात्कर्तुः करणोत्पत्तिर्न दृश्यते तस्मादसङ्गता कल्पनेत्यन्वयः । सिद्धानां करणानां प्रयोक्ता कर्तेति प्रसिद्ध्यर्थो हिशब्दः ।

वर्णनं निर्मूलमित्याह -
न चेति ।
ननु लोके कश्चि­च्छि­ल्पि­वरः कुठारं निर्माय तेन वृक्षं छिनत्तीति दृष्टमिति चेत् । सत्यम् । शिल्पिनो हस्ता­दि­क­र­णा­न्त­र­स­त्त्वा­त्कु­ठा­र­क­र्तृत्वं युक्तम् , जीवस्य तु कर­णा­न्त­रा­स­त्त्वान्न मनसः कर्तृत्वम् । विनैव करणं कर्तृत्वे वा मनोवैयर्थ्यमिति भावः ॥४३॥

सङ्क­र्ष­णा­दी­ना­मु­त्प­त्त्य­स­म्भ­वेऽपि व्यूहचतुष्टयं स्यादिति सूत्र­व्या­व­र्त्य­मा­श­ङ्कते -
अथापि स्यादिति ।
ज्ञानैश्वर्ययोः शक्तिरान्तरं सामर्थ्यम् , बलं शरीरसामर्थ्यम् , वीर्यं शौर्यम् , तेजः प्राग­ल्भ्य­मे­तै­र­न्विता यस्मा­त्स­ङ्क­र्ष­णा­द­य­स्त­स्मा­दी­श्वरा एवेत्यर्थः ।

सर्वे­षा­मी­श्व­रत्वे पञ्च­रा­त्रो­क्ति­माह -
वासुदेवा एवेति ।
निर्दोषा रागादिशून्याः । निरधिष्ठानाः प्रकृत्यजन्याः । निरवद्या नाशादिरहिता इत्यर्थः ।

ईश्व­र­त्वा­ज्ज­न्मा­स­म्भवो गुण एवेत्याह -
तस्मादिति ।

सूत्रेण सिद्धान्तयति -
अत्रेति ।
एवमपि । चतु­र्णा­मी­श्व­र­त्वेन विज्ञा­न­श­क्त्या­दि­भा­वेऽ­पी­त्यर्थः ।

प्रकारान्तरं पृच्छति -
कथमिति ।

किं चत्वारः स्वतन्त्रा भिन्ना एव उतैकस्य विका­र­त्वे­ना­भिन्नाः । आद्यमनूद्य दूषयति -
यदीत्यादिना ।

द्वितीये विकाराः प्रकृतितुल्या वा न्यूना वा । आद्यमुत्थाप्य निषेधति -
अथेत्यादिना ।

न्यून­त्व­प­क्षेऽ­प­सि­द्धा­न्त­माह -
न च पञ्चेति ।

यदि न्यूना अपि भगवतो व्यूहास्तदा चतुष्ट्वव्याघात इत्याह -
न चैत इति ॥४४॥

इतश्च जीवोत्पत्तिवाद उपेक्ष्य इत्याह सूत्रकारः -
विप्र­ति­षे­धा­च्चेति ।
स्वस्यैव गुणत्वं गुणित्वं च विरुद्धम् । आदि­प­दा­त्प्र­द्यु­म्ना­नि­रुद्धौ भिन्नावात्मन इत्युक्त्वात्मन एवैते इति विरु­द्धो­क्ति­ग्रहः ।

पूर्वा­प­र­वि­रो­धा­द­सा­ङ्ग­त्य­मिति सूत्रा­र्थ­मु­क्त्वा­र्था­न्त­र­माह -
वेदेति ।
एकस्यापि तन्त्रा­क्ष­र­स्या­ध्येता चतु­र्वे­दि­भ्योऽ­धिक इति निन्दादिपदार्थः । तस्मान्मिथो विरुद्धाभिः पौरु­षे­य­क­ल्प­ना­भि­र्ना­पौ­रु­षे­य­वे­दा­न्त­स­म­न्व­य­वि­रोध इति सिद्धम् ॥४५॥
इति श्रीप­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां द्विती­या­ध्या­यस्य द्वितीयः पादः ॥२॥

वियदादिविधातारं सीता­स्या­ब्ज­म­धु­व्र­तम् ।
नित्य­चि­द्वि­श्व­क­र्त्रा­त्मा­भिन्नं सर्वेश्वरं भजे ॥१॥

जीव­स्या­नु­त्प­त्ति­प्र­स­ङ्गे­ना­का­श­स्या­प्यु­त्प­त्त्य­स­म्भ­व­मा­शङ्क्य परि­ह­र­न्ना­दा­वे­क­दे­शि­त­माह -
न वियदश्रुतेः ।

विय­त्प्रा­णा­पा­द­यो­रर्थं सङ्क्षिपन् पूर्वपादेन सङ्गतिमाह -
वेदान्तेष्विति ।

भिन्नो­प­क्र­म­त्व­मे­वाह -
केचिदित्यादिना ।
भूत­भो­क्तृ­श्रु­तीनां मिथो­वि­रो­ध­श­ङ्का­नि­रासो वियत्पादार्थः । लिङ्ग­श­री­र­श्रु­तीनां तन्निरासः प्राणपादार्थः । यथा मिथो­वि­रो­धा­त्पू­र्वा­प­र­वि­रो­धाच्च परपक्षा उपेक्ष्यास्तथा श्रुतिपक्षोऽपि उपेक्ष्य इति शङ्कोत्थाने पाद­द्व­य­स्या­र­म्भा­त्पू­र्व­पा­देन दृष्टा­न्त­स­ङ्ग­ति­रिति समुदायार्थः । आका­श­वा­य्वो­रु­त्प­त्ति­मा­म­नन्ति तैत्तिरीयकाः । नामनन्ति छन्दोगाः । जीवस्य प्राणानां चोत्पत्तिं 'सर्व एत आत्मनो व्युच्च­रन्ति' इति वाजिनः । 'एत­स्मा­ज्जा­यते प्राणः' इत्या­थ­र्व­णि­का­श्चा­म­नन्ति नान्ये । एवमाकाशपूर्विका क्वचित्सृष्टिः, क्वचित्तेज पूर्विकेति क्रमविरोधः । आदिपदात् 'स इमां­ल्लो­का­न­सृ­जत' इत्यक्रमः, क्वचित्सप्त प्राणाः, क्वचि­द­ष्टा­वि­त्यादि सङ्ख्या­द्वा­र­कश्च विरोधो ग्राह्यः । प्रपञ्चः पादद्वयम् । तथा च पादद्वयस्य श्रुतीनां मिथो­वि­रो­ध­नि­रा­सा­र्थ­त्वा­च्छ्रु­ति­शा­स्त्रा­ध्या­य­स­ङ्ग­तयः सिद्धाः ।

अत्रा­का­श­स्यो­त्प­त्त्य­नु­त्प­त्ति­श्रु­त्यो­र्मि­थो­वि­रि­धोऽस्ति न वेति वाक्य­भे­दै­क­वा­क्य­त्वाभ्यां सन्देहे यद्यु­त्प­त्ति­स्तदा वाक्यभेदेन विरो­धा­द­प्रा­मा­ण्य­म­नयोः श्रुत्योरिति पूर्व­प­क्ष­यि­ष्य­न्ना­दा­व­नु­त्प­त्ति­प­क्ष­मे­क­देशि गृह्णातीत्याह -
तत्र तावदिति ।
उत्प­त्ति­श्रु­ति­र्मुख्या नास्तीति गूढाभिसन्धिः ॥१॥

सम्प्रति पूर्वपक्षयति सूत्रकारः -
अस्ति त्विति ।

एकवाक्यत्वेन प्रामाण्यसम्भवे किमिति श्रुत्यो­र­प्रा­मा­ण्य­मिति शङ्कते -
नन्वेकवाक्यतेति ।

एक­वा­क्य­त्वा­स­म्भ­वा­द­प्रा­माण्यं युक्तमित्याह -
सत्यमित्यादिना ।

एकस्य युग­प­त्का­र्य­द्व­या­स­म्ब­न्धेऽपि क्रमेण सम्ब­न्ध­स­म्भ­वा­दे­क­वा­क्य­तेति मुख्यसिद्धान्ती शङ्कते -
ननु सकृदिति ।

अप्रामाण्यवादी दूषयति -
नैवमिति ।
क्रमो न युज्यते द्वयोः श्रुत­प्रा­थ­म्य­भ­ङ्गा­प­त्ते­रि­त्यर्थः ।

एक­स्मा­द्द्वि­द­ल­बी­जा­द्द­ल­द्व­य­व­द­स्तू­भयं प्रथमजमित्यत आह -
न चेति ।
वायोरग्निरिति क्रम­श्रु­ति­भ­ङ्गा­दिति शेषः ।

छान्दो­ग्य­श्रु­ते­स्ति­त्ति­रि­श्रु­ति­वि­रु­द्धा­र्थ­त्व­मुक्त्वा तित्ति­रि­श्रु­ते­स्त­द्वि­रु­द्धा­र्थ­त्व­माह -
एतेनेति ।

एतत्पदार्थमाह -
तस्मादिति ।
छान्दोग्येऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्यो­ज्य­मि­त्यर्थः ।

किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह -
वायोरिति ॥२॥

एवं श्रुत्यो­र्वि­रो­धा­द­प्रा­मा­ण्य­मिति पूर्वपक्षे प्राप्ते स एव विय­द­नु­त्प­त्ति­वादि स्वमतेन प्रामाण्यं ब्रूत इत्याह -
अस्मिन्निति ।
एव­मा­ध्या­य­स­मा­प्ते­र­धि­क­र­णेषु प्रथमं विरो­धा­च्छ्रु­त्य­प्रा­मा­ण्य­मिति पूर्वपक्षफलं तत एक­दे­शि­सि­द्धान्तः, पश्चा­न्मु­ख्य­सि­द्धान्ते श्रुती­ना­म­वि­रो­धे­नैक वाक्यतया ब्रह्मणि सम­न्व­य­सि­द्धि­रिति फलं क्रम­श्चे­त्य­व­ग­न्त­व्यम् ।

तत्र श्रुत्यो­र्वि­रोधे सत्य­ध्य­य­न­वि­ध्यु­पा­त्त­यो­र­प्रा­मा­ण्या­यो­गा­द्वि­य­दु­त्प­त्त्य­स­म्भ­व­रू­प­त­र्का­नु­गृ­ही­त­च्छा­न्दो­ग्य­श्रु­ति­र्मु­ख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति -
नास्तीत्यादिना ।
आकाशो नोत्पद्यते साम­ग्री­शू­न्य­त्वात् , आत्मवत् । न चावि­द्या­ब्र­ह्मणोः सत्त्वा­द्धे­त्व­सिद्धिः, विजा­ती­य­त्वे­ना­न­यो­रा­र­म्भ­क­त्वा­यो­गा­द­सं­यु­क्त­त्वाच्च । संयोग एव हि द्रव्य­स्या­स­म­वा­यि­का­र­ण­मतः सम­वा­य्य­स­म­वा­यि­नो­र­भा­वान्न हेत्व­सि­द्धि­रि­त्यर्थः ।

प्राग­भा­व­शू­न्य­त्वा­च्चा­त्म­व­दा­काशो नोत्पद्यत इत्याह -
उत्पत्तिमतां चेति ।
प्रका­श­श्चा­क्षु­षा­नु­भवः । आदि­प­दा­त्त­मो­ध्वं­स­पा­क­यो­र्ग्र­ह­णम् । मूर्त­द्र­व्या­श्र­यत्वं ह्यकाशस्य कार्यम् , तच्च प्रलयेऽप्यस्ति पर­मा­ण्वा­श्र­य­त्वात् । अतो न प्रागभाव इत्यर्थः ।

प्रागभावसत्त्वं स्फुटयति -
किं हीति ।
स्थूला­श्र­योऽ­व­काशः सूक्ष्मा­श्र­य­च्छि­द्र­म­ण्वा­श्रयः सुषिरमिति भेदः ।

किञ्चा­त्म­व­दा­काशो न जायते, विभुत्वात् , अस्प­र्श­द्र­व्य­त्वा­च्चे­त्याह -
पृथिव्यादीति ।
तस्मा­दु­क्त­त­र्क­ब­ला­द्गौणी द्रष्ट­व्ये­त्य­न्वयः ।

भेदो­क्ते­र्गौ­णत्वे वैदिकोदाहरणमाह -
वेदेऽ­प्या­र­ण्या­निति ।
आकाशेष्विति भेदव्यपदेशो गौण इति सम्बन्धः ॥३॥

न केवलं तर्का­दा­का­श­स्या­नु­त्पत्तिः, किन्तु श्रुति­तोऽ­पी­त्या­ह­सू­त्र­कारः -
शब्दाच्चेति ।
नित्य­भा­व­स्या­ना­दि­त्वा­दिति भावः । आत्मेति च शब्द इहो­दा­ह­र­ण­मि­त्य­न्वयः । आकाशः शरीरमस्येति बहु­व्री­हि­णा­त्य­न्त­सा­म्य­भा­ना­द्ब्र­ह्म­व­दा­का­श­स्या­ना­दि­त्व­मि­त्यर्थः ॥४॥

पदोत्तरमिति ।
शङ्कोत्तरमिति यावत् ।

तान्येव शङ्कापदानि पठति -
स्यादेतदिति ।
अधिकारे प्रकरणे ।

यथै­क­स्मि­न्ब्र­ह्म­प्र­क­रणे 'अन्नं ब्रह्म', 'आनन्दो ब्रह्म' इति वाक्य­यो­र्ब्र­ह्म­श­ब्द­स्यान्ने गौणत्वमानन्दे मुख्यता तथै­क­वा­क्य­स्थ­स्यै­क­स्यापि सम्भूतशब्दस्य गुण­मु­ख्या­र्थ­भेदो योग्य­ता­ब­ला­दि­त्याह -
स्याच्चेति ।

उदाहरणान्तरमाह -
यथा चेति ।
अभेदोपचारो भक्तिः ।

मुख्य­सि­द्धा­न्त्या­क्षि­पति -
कथं पुनरिति ।

स एवाक्षेपद्वयं स्पष्टयति -
नन्विति ।
अद्वि­ती­य­त्व­श्रु­ति­बाधः सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­बा­ध­श्चे­त्यर्थः ।

प्रथमाक्षेपं दृष्टान्तेन परिहरति -
एकमेवेति ।
कार्य­रू­प­द्वि­ती­य­शू­न्यत्वं प्राग­व­स्था­या­म­व­धा­र­ण­श्रु­त्यर्थ इत्यर्थः । कुले गृहे । अमत्राणि घटादीनि पात्राणि ।

एक­मे­वे­त्य­व­धा­र­ण­व्या­वर्त्यं कार्यमिति व्याख्या­या­द्वि­ती­य­प­द­व्या­व­र्त्य­माह -
अद्वि­ती­य­श्रु­ति­रिति ।

आकाशस्य द्विती­य­त्व­म­ङ्गी­कृ­त्या­द्वि­ती­या­दि­प­द­स­ङ्कोचः कृतः, तदपि नास्तीत्याह -
न च नभसापीति ।

धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह -
सर्गकाले त्विति ।

धर्म­सा­म्या­द­द्वि­ती­य­त्वो­प­चार इत्यर्थे श्रुतिमाह -
तथा चाकशेति ।

द्वितीयमाक्षेपं परिहरति -
अत एवेति ।
अभे­दो­प­चा­रा­दे­वे­त्यर्थः ।

नभसो ब्रह्म­त­त्का­र्या­भ्या­स­भि­न्न­दे­श­का­ल­त्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह -
अपि चेति ॥५॥

एव­मा­का­श­स्या­नु­त्पत्तौ सर्व­श्रु­ती­ना­म­वि­रोध इत्ये­क­दे­शि­सि­द्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति -
प्रतिज्ञेति ।
अहानिरबाधः । साम­य­जु­र­थ­र्व­ण­शा­खा­भे­द­ज्ञा­प­नार्था इति शब्दाः ।

न काचनेति ।
आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः ।

ननु सर्वस्य ब्रह्मा­व्य­ति­रे­का­त्प्र­ति­ज्ञाया अहानिरित्यस्तु, तथापि जीवा­दि­व­द­नु­त्प­न्न­स्यापि नभसो ब्रह्मणि कल्पि­त­त्वे­ना­व्य­ति­रे­का­त्प्र­ति­ज्ञा­सिद्धिः किं न स्यात् , किमु­त्प­त्त्ये­त्यत आह -
शब्देभ्यश्चेति ।
अव्यतिरेक एव न्याय­स्ते­ने­त्यर्थः ।अयं भावःजीवस्य ताव­दा­त्म­त्वा­द्ब्र­ह्मा­व्य­ति­रेकः । अज्ञा­न­त­त्स­म्ब­न्धयोः कल्पि­त­त्वे­ना­व्य­ति­रेकः । स्वत­न्त्रा­ज्ञा­ना­यो­गा­द­ज्ञा­ना­न्य­ज­ड­द्र­व्यस्य तु कार्य­त्वे­नै­वा­व्य­ति­रे­क­सिद्धिः, तस्याकार्यत्वे प्रधा­न­व­त्स्वा­त­न्त्र्या­द­व्य­ति­रे­का­यो­गात् । तथा­हु­र्न्या­य­विदः 'नित्य­द्र­व्याणि स्वतन्त्राणि भिन्ना­न्य­ना­श्रि­तानि' इति ।