अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

द्वितीयाध्याये प्रथमः पादः (३)

तस्मा­त्प्र­ति­ज्ञा­सि­द्धये आकाशस्य कार्य­त्वे­नै­वा­व्य­ति­रेको वाच्य इति दृष्टा­न्त­सृ­ष्टि­सा­र्वा­त्म्य­श­ब्दा­नाह -
तथा हीति ।

तेन तेन दृष्टान्तेनेति ।
यजुषि दुन्दु­भ्या­दि­दृ­ष्टा­न्ते­ना­थ­र्वणे ऊर्ण­ना­भ्या­दि­दृ­ष्टा­न्ते­ने­त्यर्थः । यजुषि प्रति­ज्ञा­सा­धका' इदं सर्वम्' इतिशब्दाः, आथर्वणे 'ब्रह्मै­वे­दम्' इति शब्दा इति भावः ।

एव­मा­का­शो­त्प­त्ति­क­थ­ना­दे­क­दे­शि­मते दूषिते श्रुत्य­प्रा­मा­ण्य­वादी स्वोक्तं स्मारयति -
सत्यं दर्शितमिति ।

मुख्य­सि­द्धा­न्त्याह -
न । एकेति ।

'तत्ते­जोऽ­सृ­जत' इति सकृच्छ्रुतस्य स्रष्टु­रा­का­श­ते­जोभ्यां युगपत्सम्बन्धे तित्ति­रि­क्र­म­बा­धात् , क्रमेणाकाशं सृष्ट्वा तेजोऽसृजतेति सम्बन्धे तेजः­प्रा­थ­म्य­भ­ङ्ग­प्र­स­ङ्गात् , वस्तुनि विकल्पासम्भवेन तयोः शाखाभेदेन प्राथ­म्य­व्य­व­स्थाया अयोगात् नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति -
नैष दोष इति ।
अप्रा­मा­ण्य­क­ल्प­ना­द्व­र­म­पौ­रु­षे­य­श्रु­ती­ना­मे­क­वा­क्य­त्वेन प्रामा­ण्य­क­ल्प­नम् , तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यम् , बलवती च तित्ति­रि­श्रुतिः, प्रकृतिपञ्चम्या पौर्वा­प­र्या­ख्य­क्र­मस्य श्रुतत्वात् । छान्दो­ग्य­श्रु­तिस्तु दुर्बला, तेजः­प्रा­थ­म्य­श्रु­त्य­भा­वात् । तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परि­णे­य­मि­त्ये­क­वा­क्य­ते­त्यर्थः । यदुक्तमेकदेशिना छान्दो­ग्य­श्रु­त्या­का­शो­त्प­त्ति­र्वा­र्यत इति तन्निरस्तम् ।

किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म विय­द­नु­त्प­त्ति­श्चे­त्यु­भ­य­परा । आद्ये न तद्वारणमित्याह -
न हीति ।
अवि­रो­धा­दि­त्यर्थः ।

न द्वितीयः, श्रुत्य­न्त­र­वि­रो­धे­नो­भ­य­प­र­त्व­क­ल्प­ना­यो­गा­द्वा­क्य­भे­दा­प­त्ते­श्चे­त्याह -
एकस्येति ।

नन्वेकस्य स्रष्टु­र­ने­का­र्थ­स­म्ब­न्ध­व­द्वा­क्य­स्या­प्य­ने­का­र्थता किं न स्यादित्यत आह -
स्रष्टा त्विति ।
एकस्य कर्तु­र­ने­का­र्थ­स­म्बन्धो दृष्टः । न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् । नानार्थकप्रयोगे तु पय आन­ये­त्या­दा­वा­वृत्त्या वाक्यभेद एव । आनयनस्य जलक्षीराभ्यां पृथ­क्स­म्ब­न्धा­दि­त्यर्थः ।

फलितमाह -
इत्येकेति ।

एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उप­सं­हृ­ता­का­शा­दि­स­म्ब­न्धा­र्थ­मा­वृ­त्ति­दोषः स्यादित्यत आह -
न चेति ।
छान्दो­ग्य­स्थ­ते­जो­जन्म आका­शा­दि­ज­न्म­पू­र्व­कम् , तेजोजन्मत्वात् , तित्ति­रि­स्थ­ते­जो­ज­न्म­व­दि­त्या­का­शा­दि­ज­न्मो­प­सं­हारे 'तदा­का­श­म­सृ­जत' इति वाक्यान्तरस्यैव कल्प­ना­न्ना­वृ­त्ति­दोष इत्यर्थः ।

श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह -
यथा चेति ।

सृष्टौ तात्प­र्या­ता­त्प­र्याभ्यां दृष्टा­न्त­श्रु­ति­वै­षम्यं शङ्कते -
नन्वित्यादिना ।

तेजः­प्रा­थ­म्य­स्वी­कारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम् , आकाशप्राथम्ये त्वार्थिकतेजः सर्ग­प्रा­थ­म्य­मा­त्र­बाध इति लाघवमिति मत्वाह -
नेत्युच्यत इति ।

किञ्च प्रधा­न­ध­र्मि­त्या­गा­द्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह -
न हीति ।
किञ्च किं सृष्टि­प­र­श्रु­ति­सि­द्ध­त्वा­त्ते­जः­प्रा­थम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्ग­श्रु­त्या­र्था­त्प्रा­थ­म्य­भा­नात् ।

नाद्य इत्याह -
अपि चेति ।

द्वितीयमनूद्य दूषयति -
अर्थात्त्विति ।

यदुक्तं वस्तुनि विक­ल्पा­स­म्भ­वा­दु­भयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति, नाप्यु­भ­यो­र्द्वि­द­ला­ङ्कु­र­व­त्स­मु­च्चि­त्यो­त्पत्त्या प्राथम्यं वायोरग्निरिति क्रम­बा­धा­पा­ता­दिति, तदिष्टमेवेत्याह -
विकल्पेति ।

न केवलं श्रुति­दे­व्यो­र­वि­रोधः सौहार्दं चास्तीत्याह -
अपि चेति ।
विय­दु­प­स­ङ्ग्रा­ह्य­मि­त्य­न्वयः ।

विय­द­नु­त्प­त्ति­वा­दि­नो­क्त­म­नूद्य प्रतिज्ञाया अद्वि­ती­य­श्रु­तेश्च मुख्या­र्थ­ता­त्प­र्या­व­ग­मान्न गौणार्थतेति दूषयति -
यच्चो­क्त­मि­त्या­दिना ।
प्रकृ­ति­वि­का­र­न्या­य­स्त­द­न­न्य­त्व­न्यायः । उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः ।

मास्तु सम्यग्ज्ञानं श्रुते­र्भ्रा­न्ति­मू­ल­त्व­स­म्भ­वा­दि­त्या­श­ङ्क्या­पौ­रु­षे­य­त्वा­न्मै­व­मि­त्याह -
न च वेदस्येति ।
माया भ्रान्ति­स्त­या­लीकं मिथ्याभाषणं तेन वञ्च­न­म­य­था­र्थ­बो­ध­नम् । आदि­प­दा­द्वि­प्र­लि­प्सा­प्र­मा­द­क­र­णा­पा­ट­वानि गृह्यन्ते ।

प्रति­ज्ञा­मु­ख्य­त्व­म­भि­धा­या­द्वि­ती­य­श्रु­ति­मु­ख्य­ता­माह -
सावधारणेति ।
सर्व­द्वै­त­नि­षे­ध­प­रे­त्यर्थः ।

उभ­य­गौ­ण­त्वेऽ­द्भु­त­व­दु­प­न्यासो मृदा­दि­दृ­ष्टा­न्तै­स्त­त्सा­धनं च न स्यादिति दोषान्तरमाह -
न चेत्यादिना ॥६॥

कार्यमेव वस्त्वेकदेश आकाशो नोत्पद्यते साम­ग्री­शू­न्य­त्वा­दि­त्यत्र आकाशो विकारः विभक्तत्वात् घटादिवदिति सत्प्रतिपक्षमाह -
यत्पु­न­रि­त्या­दिना ।

यो विभक्तः स विकार इत्य­न्व­य­मुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यति­रि­क­व्या­प्ति­माह -
न त्वविकृतमिति ।

दिगादिषु व्यभि­चा­र­मा­शङ्क्य पक्ष­स­म­त्वा­न्मै­व­मि­त्याह -
एतेनेति ।
विभ­क्त­त्वे­ने­त्यर्थः ।

आत्मनि व्यभिचारं शङ्कते -
नन्विति ।

धर्मि­स­मा­न­स­त्ता­क­वि­भा­गस्य हेतु­त्वा­त्प­र­मा­र्था­त्मनि विभागस्य कल्पितत्वेन भिन्न­स­त्ता­क­त्वान्न व्यभिचार इत्याह -
नेति ।
अत्र चाज्ञा­ना­न्य­द्र­व्यत्वं विशेषणम् , अतो नाज्ञा­न­त­त्स­म्ब­न्धादौ व्यभिचारः ।

नन्वात्मा कार्यः, विभक्तत्वात् , वस्तुत्वाद्वा, घट­व­दि­त्या­भा­स­तु­ल्य­मि­द­म­नु­मा­न­मि­त्या­श­ङ्क्या­त्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाध­क­स­त्त्वा­त्त­स्या­भा­व­त्वम् , नात्र किञ्चि­द्बा­ध­क­मस्ति प्रत्युत आका­श­स्या­का­र्यत्वे नित्या­ने­क­द्र­व्य­क­ल्पना श्रौत­प्र­ति­ज्ञा­हा­न्या­दयो बाधकाः सन्तीति नाभा­स­तु­ल्य­ते­त्याह -
आत्मन इति ।

इष्टप्रसङ्ग इति वदन्तं प्रत्याह -
आत्मत्वादिति ।
आत्माभावः केन चिज्ज्ञायते न वा । आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता । द्वितीयेऽपि न शून्यता माना­भा­वा­दि­त्यर्थः ।

किञ्च यद्धि कार्यं सत्ता­स्फू­र्त्यो­र­न्या­पेक्षं तन्निराकार्यम् , आत्मा त्वकार्यो निरपेक्षत्वान्न बाधयोग्य इत्याह -
नह्या­त्मे­त्या­दिना ।
कस्य­चि­त्का­र­ण­स्या­ग­न्तुकः कार्यो न हि । सत्ता­स्फूर्त्योः सिद्ध्यो­र­न­न्या­य­त्त­त्वा­दि­त्य­क्ष­रार्थः ।

तत्र स्फूर्ते­र­न­न्या­य­त्तत्वं विवृणोति -
न हीति ।
यदुक्तं सुरे­श्व­रा­चार्यैः 'प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसा­दा­त्सि­ध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।' इति । यथा श्रुतिराह 'पुरुषः स्वयं ज्योतिः', 'तस्य भासा सर्वमिदं विभाति' इति च ।

नन्वात्मनः स्वतः सिद्धौ प्रमा­ण­वै­य­र्थ्यम् , तत्राह -
तस्येति ।

ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह -
न हीति ।
अतो न प्रमा­ण­वै­य­र्थ्य­मिति भावः ।

आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह -
आत्मा त्विति ।
अयमर्थः - निश्चितसत्ताकं हि ज्ञानं प्रमे­य­स­त्ता­नि­श्चा­य­कम् , गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थ­स्व­रू­प­नि­श्च­यात् । ज्ञान­स­त्ता­नि­श्च­यश्च न स्वतः, कार्यस्य स्वप्र­का­श­त्वा­यो­गात् । नापि ज्ञानान्तरात् , अनवस्थानात् । अतः साक्षिणैव ज्ञान­स­त्ता­नि­श्चयो वाच्यः । तत्र साक्षि­ण­श्चे­ज्ज्ञा­ना­धी­न­स­त्ता­नि­श्चयः, अन्योन्याश्रयः स्यात् । अतः सर्व­सा­ध­क­त्वा­दात्मा स्वतः सिद्ध इति ।

स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह -
न चेति ।
जडं हि परा­य­त्त­प्र­का­श­त्वा­दा­ग­न्तुकं बाधयोग्यं न प्रका­शा­त्म­स्व­रू­पम् , तस्य सर्व­बा­ध­सा­क्षि­स्व­रू­पस्य निरा­क­र्त्र­न्त­रा­भा­वात् , स्वस्य च स्वनि­रा­क­र्तृ­त्वा­यो­गात् । न हि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः ।

एवं स्वतः स्फूर्ति­त्वा­दात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह -
तथाहमेवेति ।
ज्ञानज्ञेययोः सत्ता­व्य­भि­चा­रेऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः ।

मास्तु जीवतो ज्ञातु­र­न्य­था­स्व­भावः, मृतस्य तु स्यादित्यत आह -
तथेति ।
उच्छेदो विनाशः । अन्य­था­स्व­भा­वत्वं मिथ्यात्वं वा सम्भावयितुमपि न शक्यम् , अह­म­स्मी­त्य­नु­भ­व­सि­द्ध­स­त्स्व­भा­वस्य बाध­का­भा­वा­दि­त्यर्थः ।

एवमात्मनः शून्यत्वनिरासेन शून्य­ता­प्र­स­ङ्ग­स्या­नि­ष्ट­त्व­मु­क्तम् , ततश्चात्मनः कार्य­त्व­नु­मा­न­मा­भास इत्याह -
एवमिति ।

अकार्यात्मनः सिद्धौ तस्या­वि­द्या­स­हि­त­स्यो­पा­दा­न­स्या­दृ­ष्टा­दि­नि­मि­त्तस्य च सत्त्वा­दा­का­शा­नु­त्प­त्ति­हेतोः साम­ग्री­शू­न्य­त्वस्य स्वरू­पा­सि­द्धे­रु­क्त­स­त्प्र­ति­प­क्ष­बा­धा­च्चा­का­शस्य कार्यत्वं निरवद्यमित्याह -
कार्यत्वं चेति ।

आत्मा­वि­द्य­यो­र्वि­जा­ती­य­त्वा­न्ना­का­शा­र­म्भ­क­त्व­मि­त्यु­क्त­म­नूद्य निरस्यति -
यत्त्वित्यादिना ।

किं कारणमात्रस्य साजात्यनियम उत समवायिनः । तत्राद्यं निरस्य द्वितीयं शङ्कते -
स्यादेतदिति ।

किं सम­वा­यि­ता­व­च्छे­द­क­ध­र्मेण साजात्यमुत सत्त्वादिना । नाद्य इत्याह -
तदपीति ।
न च रज्जवादि न द्रव्यान्तरमिति वाच्यम् , पटादेरपि तथात्वापातात् ।

द्विती­योऽ­स्म­दिष्टः, आत्मा­वि­द्य­यो­र्व­स्तु­त्वेन साजात्यादित्याह -
सत्त्वेति ।

उपादानस्य साजात्यनियमं निरस्य संयु­क्ता­ने­क­त्व­नि­य­म­म­द्वि­ती­य­स्या­स­ङ्ग­स्या­प्या­त्मन उपा­दा­न­त्व­सि­द्धये निरस्यति -
नापीत्यादिना ।

किमा­र­म्भ­क­मा­त्र­स्यायं नियम उत द्रव्यारम्भकस्य । नाद्य इत्याह -
अण्विति ।
द्ध्वयणुकस्य ज्ञानस्य चास­म­वा­यि­का­र­ण­सं­यो­ग­ज­न­क­माद्यं कर्म ।

यद्य­प्य­दृ­ष्ट­व­दा­त्म­सं­युक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एक­त्वा­द­ने­क­त्व­नि­य­म­भङ्ग इत्याह -
एकैको हीति ।
द्रव्यान्तरैः । सम­वा­यि­भि­रि­त्यर्थः ।

द्विती­य­मु­त्था­प्या­र­म्भ­वा­दा­न­ङ्गी­का­रेण दूषयति -
द्रव्येत्यादिना ।
न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः । यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति । तन्न । क्षीरनाशे मानाभावात् , रस­व­द्द­ध्नोऽ­प्ये­क­द्र­व्या­र­भ्य­त्व­स­म्भ­वाच्च, द्रव्य­गु­ण­स­ङ्के­तस्य पौरुषेयस्य श्रुत्य­र्थ­नि­र्ण­या­हे­त­तु­त्वा­दिति भावः ।

लोके कर्तु सहा­य­द­र्श­ना­द­स­हा­या­द्ब्र­ह्मणः कथं सर्ग इति, तत्राह -
तथा चोक्तमिति ।

प्राग­भा­व­शू­न्य­त्व­हे­तु­र­प्य­सिद्ध इत्याह -
यच्चो­क्त­मि­त्या­दिना ।
शब्दाश्रयत्वं विशेषः । शब्दादिमानाकाशः प्रलये नास्ति, 'नासीद्रजो नो व्योम' इति श्रुतेः । नन्वाकाशाभावे काठिन्यं स्यादिति चेत् । सुशिक्षितोऽयं नैयायिकतनयः । न ह्याका­शा­भा­व­स्त­द्धर्मो वा काठिन्यं किन्तु मूर्त­द्र­व्य­वि­शे­ष­स्त­त्सं­यो­ग­वि­शेषो वा काठिन्यम् , तच्च प्रलये नास्तीति भावः ।

'आकाशशरीरं ब्रह्म' इति श्रुते­र­ग्न्यौ­ष्ण्य­व­द्ब्र­ह्म­स्व­भा­व­स्या­का­शस्य सति ब्रह्मणि कथमभावः, तत्राह -
यथा चेति ।
विभु­त्वा­दा­का­श­समं ब्रह्मेति श्रुत्यर्थः ।

विभु­त्वा­त्स्प­र्श­द्र­व्य­त्व­नि­र­व­य­व­द्र­व्य­त्व­लि­ङ्गानां विभ­क्त­त्वा­दि­लि­ङ्ग­स­हि­ता­ग­म­बा­ध­माह -
यदपीत्यादिना ।
धर्मिविकाराभावे गुणनाशो न स्यादिति तर्का­र्थ­म­नि­त्य­प­दम् । गुणाश्रयत्वमेव हेतुः । तच्च स्वस­मा­न­स­त्ता­क­गु­ण­व­त्त्वम् , अतो निर्गुणात्मनि न व्यभिचारः । भूत­त्व­मा­दि­श­ब्दार्थः ।

स्वरू­पा­सि­द्धि­म­प्याह -
विभुत्वादीनां चेति ।
सर्व­मू­र्त­द्र­व्य­सं­योगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति । संयोगस्य साव­य­व­त्व­नि­य­त­स्या­ज­त्व­सा­ध्य­वि­रु­द्धता च । स्वरूपोपचयरूपं तु विभु­त्व­मा­त्मा­का­श­योर्न समम् , 'ज्याया­ना­का­शात्' इति श्रुतेः । क्वचि­दा­का­श­साम्यं तु ब्रह्मणो यत्कि­ञ्चि­द्ध­र्म­स­म्ब­न्धेन व्यपदिश्यते । असक्तत्वेन वा । पञ्ची­क­र­णा­द­स्प­र्श­त्व­म­सि­द्धम् , कार्य­द्र­व्य­त्वा­न्नि­र­व­य­व­त्व­म­प्य­सि­द्धम् , द्रव्य­त्व­जा­ति­श्चा­त्म­न्य­सि­द्धे­त्यर्थः । नित्य इत्यंशेन साम्यं न विवक्षितम् ।

ननु 'स यथानन्तोऽयमाकाश एवमनन्त आत्मा' इति श्रुति­र्नि­त्य­त्वे­नैव साम्यं ब्रूते, नेत्याह -
एतेनेति ।
आकाशस्य कार्य­त्वे­ना­नि­त्य­त्वा­दि­त्यर्थः । श्रुति­स्त्वा­पे­क्षि­का­न­न्त्य­द्वारा मुख्यानन्त्यं बोधयतीति भावः ।

न्यून­त्वा­च्चा­का­शस्य न मुख्यो­प­मा­न­त्व­मि­त्याह -
ज्यायानिति ।
मुख्यो­प­मा­ना­सत्त्वे श्रुतिः 'न तस्य' इति । तस्मा­दा­का­श­स्यो­प­मा­न­त्व­मा­त्रेण नित्यत्वं नास्तीति भावः ।

अनि­त्य­त्वे­ना­सत्त्वे श्रुतिमाह -
अतोऽन्यदिति ।

यत्त्वेकस्यैव सम्भूतशब्दस्य गौणत्वं मुख्यत्वं चेति । तन्न । आकाशेऽपि तस्य मुख्य­त्व­स­म्भ­वा­दि­त्याह -
तपसीति ।

बल­व­त्ति­त्ति­रि­श्रुत्या छान्दो­ग्य­श्रु­ते­र्न­य­ना­दे­क­वा­क्य­तया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति -
तस्मादिति ॥७॥

एतेन मातरिश्वा व्याख्यातः ।

अतिदेशत्वान्न पृथ­क्स­ङ्ग­त्या­द्य­पेक्षा । 'तत्ते­जोऽ­सृ­जत' इति श्रुतेः । 'आका­शा­द्वायुः' इति श्रुत्या विरोधोऽस्ति न वेति एक­वा­क्य­त्व­भा­वा­भा­वाभ्यां संशये गौण­प­क्ष­पू­र्व­प­क्ष­सि­द्धा­न्त­प­क्षा­न­ति­दि­शति -
तत्रापीत्यादिना ।

पूर्वत्र ह्याका­शा­न­न्तर्यं तेजसः स्थापितम् , तत्र वायु­ते­ज­सो­स्तु­ल्य­व­दा­न­न्तर्ये वायोरग्निरिति क्रम­श्रु­ति­बा­धा­त्पौ­र्वा­पर्ये तेजः­प्रा­थ­म्य­भ­ङ्गा­न्नै­क­वा­क्य­तेति पूर्वपक्षे गौण­वा­द्य­भि­प्रा­य­माह -
ततश्चेति ।
अस्तमयप्रतिषेधो मुख्यो­त्प­त्त्य­स­म्भवे लिङ्गम् । 'वायु­श्चा­न्त­रिक्षं चैतदमृतम्' इति तस्यैव लिङ्गस्याभ्यासः । 'वायुरेव व्यष्टिः समष्टिश्च' इति सर्वा­त्म­त्व­लि­ङ्गा­न्त­र­मा­दि­प­दार्थः । तथा संवर्गविद्यायां 'वायु­र्ह्ये­वै­ता­न्स­र्वा­न­ग्न्या­दी­न्सं­ह­रति' इति शब्द­मा­त्रे­णै­श्व­र्य­श्र­वणं लिङ्गान्तरं ग्राह्यम् । एतै­र्लि­ङ्गै­र्वा­यु­र­ना­द्य­नन्त इति प्रती­ते­रु­त्प­त्ति­र्गौ­णी­त्य­वि­रोधः श्रुत्योरिति प्राप्ते प्रति­पि­पा­द­यि­षि­त­प्र­ति­ज्ञा­श्रु­ते­र्ब­ली­य­स्त्वा­त्त­त्सा­ध­कानां तत्र तत्र वायू­त्प­त्ति­वा­क्यानां भूय­स्त्वा­दु­क्त­वि­भ­क्त­त्वा­दि­लि­ङ्गा­नु­ग्र­हाच्च मुख्यैव वायोरुत्पत्तिः, तथा चाकाशं वायुं च सृष्ट्वा तेजोऽसृजतेति श्रुत्यो­रे­क­वा­क्य­तया ब्रह्मणि समन्वयः ।

लिङ्गानि तूपा­स्य­वा­यु­स्ता­व­क­त्वा­दा­पे­क्षि­क­तया व्याख्येयानीति मुख्य­सि­द्धा­न्त­माह -
प्रति­ज्ञे­त्या­दिना ।
कृतं प्रति­वि­धा­न­मा­पे­क्षि­क­त्वेन समाधानं यस्य तत्तथा ।

अधि­क­र­णा­र­म्भ­मा­क्षि­प्यो­क्ता­म­धि­का­श­ङ्का­माह -
नन्वित्यादिना ।

'वायु­र्ह्ये­वै­ता­न्स­वा­र्न्सं­वृङ्क्ते' इत्या­दि­श­ब्द­मात्रं शङ्कामूलं नार्थ इति द्योतनार्थं मात्रपदम् । तामेव शङ्कामाह -
संवर्गेति ।
व्यष्टि­स­म­ष्ट्यु­पास्तिः 'वायुं दिशां वत्सं वेद' इत्यु­पा­स्ति­श्चा­दि­श­ब्दार्थः ॥८॥

असम्भवस्तु सतोऽनुपपत्तेः ।

'अना­द्य­नन्तं महतः परं ध्रुवम् ', 'न चास्य कश्चि­ज्ज­निता' इत्यादि ब्रह्मा­ना­दि­त्व­श्रु­तीनां 'त्वं जातो भवसि विश्व­तो­मुखः' इत्यु­त्प­त्ति­श्रुत्या विरोधोऽस्ति न वेत्ये­क­वा­क्य­त्व­भा­वा­भा­वाभ्यां सन्देहेऽस्ति विरोध इति पूर्वपक्षे यथा वाय्वा­दे­र­मृ­त­त्वा­दि­क­मु­त्प­त्ति­श्रु­ति­ब­ला­दा­पे­क्षिकं तथा ब्रह्मा­ना­दि­त्व­मा­पे­क्षि­क­मिति दृष्टा­न्त­स­ङ्गत्या एकदेशिपक्षं प्रापयति -
वियदिति ।

ब्रह्म कुतश्चिज्जायते, कारणत्वात् , आका­श­वा­दि­त्य­नु­मा­ना­नु­ग्र­हा­ज्ज­न्म­श्रु­ति­र्ब­ली­य­सी­त्याह -
तथेति ।

न चाना­दि­का­र­णा­भा­वे­ना­न­वस्था बीजा­ङ्कु­र­व­द­ना­दि­त्वो­प­पत्तेः । तथा च दीपा­द्दी­प­व­द्ब्र­ह्मा­न्त­रा­द्ब्र­ह्मा­न्त­रो­त्पत्तिः, उत्प­त्ति­श्रुत्या चाना­दि­त्व­श्रु­ति­र्ने­ये­त्य­ना­द्य­न­न्त­ब्र­ह्म­स­म­न्व­या­सि­द्धि­रिति प्राप्ते मुख्य­सि­द्धा­न्त­माह -
तामिति ।

ब्रह्म न च जायते, कारणशून्यत्वात् , नरविषाणवत् , व्यतिरेकेण घट­व­च्चे­त्य­नु­मा­ना­नु­ग्र­हा­द्वि­पक्षे चाका­र­ण­क­का­र्य­वा­द­प्र­स­ङ्गा­द्ब्र­ह्मा­ना­दि­त्व­श्रु­तयो बलीयस्य इति कार­ण­त्व­लि­ङ्ग­बा­धा­ज्ज­न्म­श्रुतिः कार्याभेदेन व्याख्ये­ये­त्य­ना­द्य­न­न्त­ब्र­ह्म­स­म­न्व­य­सि­द्धि­रिति सिद्धान्तफलम् । न हेत्वसिद्धिः, कार­ण­स्या­नि­रू­प­णात् । तथा हि किं सन्मात्रस्य ब्रह्मणः सन्मात्रमेव सामान्यं कारणं सद्विशेषो वा असद्वा । न त्रेधापीत्याह -
सन्मात्रं हीत्यादिना ।
दीपस्तु दीपान्तरे निमि­त्त­मि­त्य­नु­दा­ह­र­णम् । विय­त्प­व­न­यो­र्ब्र­ह्म­णश्च विभ­क्त­त्वा­वि­भ­क्त­त्वाभ्यां कार­ण­भा­वा­भा­वाभ्यां च वैषम्यम् । कार­ण­त्व­लि­ङ्ग­स्या­प्रा­मा­णि­का­न­वस्था ।

तर्केणापि बाधमाह -
न च विकारेभ्य इत्यादिना ।
कार­ण­स्या­न­भ्यु­प­गमे यदृ­च्छा­वा­द­प्र­सङ्गः, अना­दि­का­र­णा­न­भ्यु­प­ग­मेऽ­न­व­स्था­प्र­सङ्गः, तदभ्युपगमे ब्रह्म­वा­द­प्र­सङ्गः, कारणान्तरस्य प्रधा­ना­दे­र्नि­रा­सा­दिति भावः ॥९॥

तेजोऽ­त­स्त­था­ह्याह ।

'तत्ते­जोऽ­सृ­जत' इति 'वायो­रग्निः' इति च श्रुत्यो­र्वि­रो­धोऽस्ति न वेति सन्देहे सामा­न्या­त्सा­मा­न्यो­त्प­त्त्य­स­म्भ­वेऽपि ब्रह्मवाय्वोः सामा­न्य­यो­स्ते­जो­रू­प­वि­शे­षो­पा­दा­न­त्व­स­म्भ­वा­त्तु­ल्य­ब­ल­त­यास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः । सर्व­त्रा­ध्या­य­स­मा­प्ते­रे­क­वा­क्य­त्वा­स­म्भ­वा­स­म्भवौ संशयबीजम् । पूर्वपक्षे श्रुतीनां विरो­धा­द­प्रा­माण्यं फलम् , सिद्धान्ते प्रामा­ण्य­मि­त्युक्तं न विस्मर्तव्यम् । एवं पूर्वपक्षे कार्यमात्रस्य विव­र्त­त्वा­त्क­ल्पि­तस्य वायो­स्ते­जः­क­ल्प­ना­धि­ष्ठा­न­त्वा­यो­गा­द्ब्र­ह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मै­वो­पा­दा­न­मि­त्यर्थे श्रुतीनां भूयस्त्वाच्च तद­नु­रो­धा­द्वा­यो­रिति क्रमार्था पञ्चमीत्यविरोध इत्ये­क­दे­शि­सि­द्धान्तं प्रापयति -
प्राप्तं ताव­द्ब्र­ह्म­यो­निकं तेज इत्यादिना ।
श्रुतीनां विरो­ध­मा­त्रो­प­न्या­सेन पूर्वपक्षः, अप­सि­द्धा­न्ते­ना­वि­रो­धा­त्ता­व­दे­क­दे­शि­पक्ष इति ज्ञेयम् । तदुभयमपि मुख्य­सि­द्धा­न्ता­पे­क्षया पूर्वपक्षत्वेन व्यवह्रियते ।

सिद्धान्तयति -
एवं प्राप्त इति ।

कदर्थिता ।
बाधितार्थेति यावत् । वायो­स्ते­जः­प्र­कृ­तित्वं पञ्चमीश्रुत्या निर्धारितम् , न च कल्पि­त­स्यो­पा­दा­न­त्वा­स­म्भवः, अधि­ष्ठा­न­त्वा­स­म्भ­वेऽपि मृदा­दि­व­त्प­रि­णा­मि­त्व­स­म्भ­वात् , स्वतस्तु ब्रह्म­ण­श्छा­न्दोग्ये स्रष्टृ­त्व­मात्रं श्रुतं नोपादानत्वम् । न च 'बहु स्याम्' इति कार्याभेदे क्षण­लि­ङ्गा­दु­पा­दा­न­त्व­सिद्धिः लिङ्गा­च्छ्रु­ते­र्ब­ली­य­स्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् । नयनं चेत्थं वायो­र्ब्र­ह्मा­न­न्य­त्वा­द्वा­यु­ज­स्यापि तेजसो ब्रह्म­प्र­कृ­ति­क­त्व­म­वि­रु­द्ध­मिति सिद्धा­न्त­ग्र­न्था­शयः ।

इहाधिकारादिति ।
वायोरग्निः सम्भूत इति वाक्ये सम्ब­न्धा­दि­त्यर्थः । तदधिकारे सम्भूत्यधिकारे ।

निर­पे­क्ष­का­र­क­वि­भ­क्ते­रू­प­प­द­सा­पे­क्ष­वि­भ­क्त्य­पे­क्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह -
अपि चेति ।
ऊर्ध्व­म­न­न्त­र­मिति वोपपदं विना पञ्च­मी­मा­त्रा­त्क्रमो न भातीति कल्प्य उपपदार्थयोगः । प्रकृ­त्या­ख्या­पा­दा­न­का­रकं तु निर­पे­क्ष­प­ञ्चम्या भाति । विशेषतोऽत्र प्रक­र­णा­द­पा­दा­ना­र्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः ।

पार­म्प­र्य­ज­त्व­मे­वाह -
यदापीति ।
तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यम् , दध्यादिकं तु पार­म्प­र्य­ज­मि­त्यर्थः । दधिसंसृष्टं कठि­न­क्षी­र­मा­मिक्षा ।

ब्रह्मणे वायुभावे मानमाह -
दर्शयति चेति ।

पार­म्प­र्य­ज­स्यापि तज्जत्वव्यपदेशे स्मृतिमाह -
तथा चेति ।

अन्तःकरणादिभ्यो जाय­मा­न­बु­द्ध्या­दीनां मत्त एवेत्यवधारणं कथ­मि­त्या­श­ङ्क्याह -
यद्यपीत्यादिना ।
प्रनाड्या पर­म्प­र­ये­श्व­र­वं­श्य­त्वा­त्त­ज्ज­त्वा­त्प­र­म­का­र­णा­न्त­र­नि­रा­सा­र्थ­म­व­धा­रणं युक्तमिति शेषः ।

एतत्पदार्थमाह -
तासामिति ।
'तज्ज­लान्' इत्या­द्यु­क्त­श्रु­तीनां साक्षा­त्प्र­नाड्या वा ब्रह्म­ज­त्व­मा­त्रे­णो­प­प­त्ते­रि­त्यर्थः । अक्रमश्रुतीनां बल­व­त्क्र­म­श्रु­त्य­नु­सा­रे­णे­क­वा­क्य­त्वा­द्वि­य­द्वा­यु­द्वारा तेजःकारणे ब्रह्मणि इति सिद्धम् ॥१०॥

आपः ।
अतिदेशोऽयम् ।

तथा ह्याथर्वणे मुण्डकग्रन्थे 'एत­स्मा­ज्जा­यते प्राणो मनः सर्वे­न्द्रि­या­णिच । खं वायु­र्ज्यो­ति­रापः पृथिवी विश्वस्य धारिणी' इति मन्त्रेऽपां ब्रह्मजत्वं श्रुतम् । 'अग्ने­रापः' इति श्रुत्या तस्य विरोधोऽस्ति न वेति सन्देहे तुल्यत्वादस्ति विरोध इति पूर्वपक्षे अपा­म­ग्नि­दा­ह्य­त्वेन विरो­धा­द­ग्नि­ज­त्वा­स­म्भ­वा­त्क्र­मार्था पञ्चमीत्यविरोध इत्य­धि­का­श­ङ्का­या­मु­क्त­ते­जो­न्या­य­म­ति­दिश्य व्याचष्टे -
अत इति ।

प्रत्यक्षविरोधे कथ­म­पा­म­ग्नि­ज­त्व­नि­र्णयः, तत्राह -
सति वचन इति ।
त्रिवृ­त्कृ­त­यो­र­प्ते­ज­सो­र्वि­रो­धेऽ­प्य­ग्ने­राप इति वच­ना­द­ती­न्द्रि­य­यो­स्त­यो­र्नास्ति विरोध इति निर्णीयत इत्यर्थः ।

न केवलं श्रुत्य­वि­रो­ध­ज्ञा­ना­या­य­म­ति­देशः किन्तु पञ्च­भू­तो­त्प­त्ति­क्र­म­नि­र्ण­यार्थं चेत्याह -
तेजसस्त्विति ।
तस्मा­त्ते­जो­भा­वा­पन्ने ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ॥११॥

पृथि­व्य­धि­का­र­रू­प­श­ब्दा­न्त­रेभ्यः ।

विष­य­मु­क्त्वा­न्न­श­ब्द­म­हा­भू­त­प्र­क­र­णाभ्यां संशयमाह -
ता इति ।
अभ्यवहार्यं भक्ष्यम् । अत्र श्रुतौ यद्य­न्न­मो­द­ना­दिकं तदा 'अद्भ्यः पृथिवी' इति श्रुत्या विरोधः, यदि पृथिवी तदा न विरोध इति फलं बोध्यम् । अप्पृथिव्योः कार्य­का­र­ण­भा­वा­द­धि­क­र­ण­स­ङ्गतिः । अन्न­श्रु­ति­वृ­ष्टि­भ­व­न­त्व­लि­ङ्गाभ्यां पूर्वपक्षः । तदेव तत्रैवेति श्रुत्यर्थः ।

तथा च क्वचिदन्नं क्वचिदद्भयः पृथिवी ततोऽन्नमिति विरो­धा­न्नै­क­वा­क्य­तेति प्राप्ते सिद्धान्तयति -
एवं प्राप्त इति ।
अधिकारः प्रकरणम् । रूपं लिङ्गम् । पयः क्षीरं तद्वत्पाण्डुरं श्वेतम् , अङ्गारवद्रोहितं रक्तम् ।

शब्दा­न्त­र­श­ब्दितं स्थानं व्याचष्टे -
श्रुत्य­न्त­र­म­पीति ।
अबानन्तर्यं पृथिव्याः स्थानं श्रुत्य­न्त­र­सिद्धं तेनाप्यन्नस्य पृथि­वी­त्व­मि­त्यर्थः । तत्तत्र सृष्टिकाले यदपां शरः यो मण्डवद्घनीभाव आसीत्स एव समहन्यत कठिनः सङ्घा­तोऽ­भू­त्सापां कठिना परिणतिः पृथिव्यभवदिति श्रुत्यर्थः ।

व्रीह्या­द्य­न्न­सर्गः कस्मिन्स्थान इति विवक्षायामाह -
पृथि­व्या­स्त्विति ।
पञ्चमीयम् ।

वृष्टि­भ­व­त्व­लि­ङ्ग­स­हि­ता­न्न­श्रुतेः कथं प्रक­र­ण­लि­ङ्ग­स्था­नै­र्बाध इत्याशङ्क्याह -
वाक्यशेषोऽपीति ।
प्रब­ल­दु­र्ब­ल­प्र­मा­ण­स­न्नि­पाते बहूनां दुर्ब­ला­ना­म­त्य­न्त­बा­धा­द्वरं प्रब­ल­प्र­मा­ण­स्या­ल्प­बा­धेन कथञ्चिन्नयनमिति न्यायेन श्रुति­लि­ङ्ग­यो­र­न्न­मा­त्र­नि­ष्ठत्वं बाधि­त्वा­न्ना­न­न्ना­त्म­क­पृ­थि­वी­नि­ष्ठत्वं नीयते । ताभ्या­म­न्न­मा­त्र­ग्रहे प्रकरणादीनां पृथि­वी­मा­त्र­वि­ष­या­णा­म­त्य­न्त­बा­धा­प­त्ते­रिति भावः । अन्नस्य वृष्टि­ज­त्वो­क्ति­द्वारा पृथिव्या अब्जन्यत्वं सूच्यते । पृथिव्यब्जा, पृथिवीत्वात् , अन्न­व­दि­त्य­नु­मा­ना­दि­त्य­क्ष­रार्थः । एवं तित्ति­रि­श्रु­त्य­नु­सा­रेण छन्दो­ग­श्रु­ते­र्न­य­ना­द­वि­रुद्धो भूत­सृ­ष्टि­श्रु­तीनां ब्रह्मणि समन्वय इति सिद्धम् ॥१२॥

सम्प्रति तानि भूता­न्या­श्रि­त्या­श्र­या­श्र­यि­भा­व­स­ङ्गत्या तेषां स्वात­न्त्र्य­मा­शङ्क्य निषेधति -
तदभिध्यानादेव तु तल्लिङ्गात्सः ।

उक्त­भू­ता­न्या­श्रित्य संशयपूर्वपक्षौ दर्शयति -
किमि­मा­नी­त्या­दिना ।
संशयबीजानुक्तौ पूर्वो­त्त­र­प­क्ष­यु­क्तयो बीजमिति ज्ञेयम् ।

नन्वत्र भूतानां किं स्वात­न्त्र्ये­णो­पा­दा­न­त्व­मा­श­ङ्क्यते कर्तृत्वं वा । नाद्यः, 'रच­ना­नु­प­पत्तेः' इत्या­दि­न्या­य­वि­रो­धा­दिति शङ्कते -
नन्विति ।
न द्वितीयः, अचेतनत्वादिति भावः । यथा मनु­ष्या­दि­श­ब्दै­स्त­त्त­द्दे­हा­भि­मा­निनो जीवा उच्यन्ते तथा 'आका­शा­द्वायुः' इत्या­दि­श्रु­ता­वा­का­शा­दि­श­ब्दै­स्त­त्त­द्भू­ता­भि­मा­नि­दे­वता उच्यन्ते, तासां स्वकार्ये वाय्वादौ कर्तृ­त्व­स­म्भ­वा­न्नि­र­पे­क्ष­नि­मि­त्तत्वं पञ्चम्यर्थः । एवं 'तदात्मानं स्वय­म­कु­रुत' इति श्रुतौ स्वयमिति विशे­ष­णा­द्ब्र­ह्म­णोऽ­न्या­न­पे­क्ष­स­र्व­क­र्तृ­त्व­स­म्भ­वा­न्नि­र­पे­क्ष­नि­मि­त्तत्वं श्रुतम् ।

तथा च मिथो­नि­र­पे­क्षे­श्व­र­भू­त­क­र्तृ­श्रु­त्यो­र्वि­रो­धान्न ब्रह्मणि समन्वय इति सफलं पूर्वपक्षमाह -
नैष दोष इति ।
भूतानां तद­भि­मा­नि­दे­व­ता­ना­मि­त्यर्थः । यथा आका­शा­दि­भा­वा­प­न्न­ब्र­ह्मणः सर्वोपादानत्वं तथा तद­भि­मा­नि­दे­व­ता­जी­व­भा­व­मा­प­न्न­ब्र­ह्मणः कर्तृत्वमिति परम्परया ईश्व­र­क­र्तृ­त्व­श्रु­त्य­वि­रोधः । स्वयमिति विशे­ष­ण­मी­श्व­रा­न्त­र­नि­रा­सार्थं न जीव­भा­वा­पे­क्षा­नि­रा­सा­र्थ­मि­त्ये­क­दे­शि­सि­द्धान्त ऊहनीयः ।

मुख्य­सि­द्धा­न्त­माह -
एवं प्राप्त इति ।
आकाशादिशब्दैर्न देवतालक्षणा मुख्यार्थे बाध­का­भा­वा­त्प­ञ्च­म्यश्च प्रकृ­ति­त्वा­र्था­स्तत्र रूढतरत्वात् , तथा चाचेतनानां भूतानां कर्तृत्वमेव नास्ति, कुत ईश्व­रा­न­पे­क्ष­क­र्तृ­त्वम् ।

यद्यपि देवतानां कर्तृत्वं सम्भवति तथा­पी­श्व­र­नि­य­म्य­त्व­श्र­व­णा­च्चे­त­ना­ना­मपि न स्वातन्त्र्यम् , किमु वाच्यमचेतनानां भूतानां न स्वात­न्त्र्य­मिति मत्वोक्तम् -
तल्लिङ्गादिति ।
तत्त­द­चे­त­ना­त्म­ना­व­स्थि­तस्य ब्रह्मण उपादानत्वेऽपि जीव­व्या­वृ­त्ते­श्व­र­त्वा­का­रे­णैव साक्षा­त्स­र्व­क­र्तृत्वं न जीवत्वद्वारा तस्य सर्व­नि­य­न्तृ­त्वा­ल्लि­ङ्गा­दि­त्यर्थः ।

प्रकरणाच्च साक्षा­त्स­र्व­क­र्तृ­त्व­मि­त्याह -
तथेति ।

पूर्वोक्तमनूद्य निरस्यति -
यत्त्विति ।
पर­मे­श्व­र­स्या­न्त­र्या­मि­भा­वे­ना­वेशः सम्ब­न्ध­स्त­द्व­शा­द्भू­ते­ष्वी­क्ष­ण­श्र­वणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः । अनेन 'तद­भि­ध्या­नात्' इति पदं व्याख्यातम् । इत्थं सूत्रयोजना - स ईश्व­र­स्त­त्त­दा­त्मना स्थितोऽपि साक्षादेव सर्वकर्ता तस्या­न्त­र्या­मि­त्व­लि­ङ्गात् । जीवत्वद्वारा कर्तृत्वं नाम जीवस्यैव कर्तृ­त्व­मि­त्य­न्त­र्या­मिणः कर्तृ­त्वा­सि­द्धे­र­न्त­र्या­मि­त्वा­यो­गा­त्त­द­भि­ध्या­ना­दी­श्व­रे­क्ष­णा­देव भूतेषु श्रुते­क्ष­णो­प­प­त्ते­श्चेति ।

तत्तेज ऐक्षतेति श्रुत ईक्षिता पर­मा­त्मै­वे­त्यत्र श्रुत्यन्तरं प्रकरणं चाह -
नान्य इति ।
तस्मा­दी­श्व­र­प­दा­र्थ­लो­प­प्र­स­ङ्गे­ने­श्व­रा­द­न्यस्य स्वात­न्त्र्या­भा­वा­न्ने­श्व­र­क­र्तृ­त्व­श्रु­ते­र्भू­त­श्रुत्या विरोध इति सिद्धम् ॥१३॥

विपर्ययेण तु ।

यद्यप्यत्र श्रुतिविरोधो न परिह्रियत इत्य­स­ङ्ग­ति­स्त­था­प्यु­त्प­त्ति­क्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रास­ङ्गि­क्या­वेव पादा­वा­न्त­र­स­ङ्गती इति मत्वाह -
भूतानामिति ।
अत्रो­त्प­त्ति­क्र­मा­द्वि­प­री­त­क्र­म­नि­र्ण­या­त्सि­द्धान्ते भूतानां प्रातिलोम्येन लयध्यानपूर्वकं प्रत्य­ग्ब्र­ह्मणि मनःसमाधानं फलम् , पूर्वपक्षे तु कारणनाशे सति कार्यनाश इति सर्व­ल­या­धा­र­ब्र­ह्मा­सि­द्धे­रु­क्त­स­मा­ध्य­सि­द्धि­रिति भेदः ।

सति महाभूतानां लये क्रमचिन्ता स एव नास्तीति केचि­त्ता­न्प्र­त्याह -
त्रयोऽपीति ।
अनियम इत्यनास्थयोक्तं श्रौतस्य प्रलयस्य क्रमा­का­ङ्क्षायां श्रौत उत्पत्तिक्रम एव ग्राह्यः, श्रौत­त्वे­ना­न्त­र­ङ्ग­त्वा­दि­त्येवं पूर्वपक्षः । सति कारणे कार्यं नश्यतीति लोके दृश्यते । तथा च श्रौतोऽ­प्यु­त्प­त्ति­क्रमो लये न गृह्यते किन्तु लौकिकक्रम एव गृह्यते श्रुते­र्लो­क­दृ­ष्ट­प­दा­र्थ­बो­धा­धी­न­त्वेन श्रौतादपि लौकि­क­स्या­न्त­र­ङ्ग­त्वा­द्यो­ग्य­त्वाच्च । कारणमेव हि कार्यस्य स्वरूपमिति तद­न­न्य­त्व­न्या­येन स्थापितम् ।

न हि स्वरूपनाशे कार्यस्य क्षणमपि स्थितिर्युक्ता तस्मादयोग्य उत्पत्तिक्रमो लयस्य न ग्राह्यः लौकि­क­क्र­मा­व­रो­धेन निरा­का­ङ्क्षा­त्वा­दिति सिद्धान्तयति -
ततो ब्रूम इत्यादिना ।

क्रमेण परम्परया सर्व­का­र्य­ल­या­धा­रत्वं ब्रह्मणः किमि­त्या­श्री­यते, साक्षादेव तत्किं न स्यादित्यत आह -
न हि स्वका­र­ण­व्य­ति­क्र­मे­णेति ।
घटनाशे मृद­नु­प­ल­ब्धि­प्र­स­ङ्गा­दि­त्यर्थः । 'वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते' इति स्मृतिशेष आदिपदार्थः । 'योग्य­ता­धीनः सम्बन्धः' इति न्याया­द­यो­ग्य­क्र­म­बाध इति सिद्धम् ॥१४॥

अन्तराविशेषात् ।

उक्त­भू­तो­त्प­त्ति­ल­य­क्र­म­मु­प­जीव्य स किं कर­णो­त्प­त्ति­क्र­मेण विरुध्यते न वेति कर­णा­ना­म­भौ­ति­क­त्व­भौ­ति­क­त्वाभ्यां सन्देहे वृत्ता­नु­वा­द­पू­र्वकं पूर्वपक्षमाह -
भूता­ना­मि­त्या­दिना ।

करणान्येव न सन्तीति वदन्तं प्रत्याह -
सेन्द्रियस्येति ।
'मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ', 'श्रोत्रा­दी­नी­न्द्रि­या­ण्यन्ये' इति स्मृति­र्द्र­ष्टव्या । अन्यपराः शब्दाः लिङ्गा­नी­त्यु­च्यन्ते ।

करणानां क्रमा­का­ङ्क्षा­माह -
तयोरिति ।

आकाङ्क्षायां श्रुतिसिद्धः क्रमो ग्राह्य इत्याह -
अपि चेति ।
विज्ञा­य­तेऽ­ने­नेति विज्ञानं सेन्द्रिया बुद्धिः । आत्मनो भूतानां चान्तरा मध्ये तल्लि­ङ्गा­त्सृ­ष्टि­वा­क्यात् 'एत­स्मा­ज्जा­यते प्राणो मनः' इत्या­दि­रू­पा­द्वि­ज्ञा­न­म­नसी अनुक्रम्येते । तथा च करणक्रमेण पूर्वो­क्त­क्र­म­भङ्ग इति शङ्का­सू­त्रां­शार्थः । न च करणानां भौति­क­त्वा­द्भू­ता­न­न्त­र्य­मिति वाच्यम् , तेषां भौतिकत्वे मानाभावात् । तथा चात्मनः प्रथममाकाशस्य जन्म पश्चा­द्वा­यो­रि­त्यु­क्त­क्र­म­स्या­त्मनः करणानि ततो भूतानीति क्रमेण विरोध इति तित्ति­र्य­थ­र्व­ण­श्रु­त्यो­र्वि­रो­धान्न ब्रह्मणि समन्वय इति पूर्वपक्षफलम् ।

सिद्धान्तयति -
नेति ।
'आत्मन आकाशः' इत्यादि तित्तिरिश्रुतौ पञ्चम्याः कार्य­का­र­ण­भा­वे­ना­र्थतः क्रमो भाति । न तस्याथर्वणपाठेन बाधः अर्थ­क्र­म­वि­रो­धि­क्र­म­वि­शे­ष­स्या­श्रुतेः पाठ­क्र­म­स्या­र्थ­क्र­म­धी­शे­षस्य शेषि­बा­ध­क­त्वा­यो­गा­दितः श्रुत्य­र्थ­क्र­मा­वि­रो­धेन पाठस्य नेय­त्वा­द्भू­ता­न­न्तर्यं करणानामित्यर्थः ।

किञ्च भौति­क­त्वा­त्तेषां तदा­न­न्त­र्य­मि­त्याह -
यदीति ।
न च प्राण­स्या­ब्वि­का­र­त्वा­यो­गा­द­न्न­म­य­मि­त्या­दि­म­यटो न विकारार्थतेति वाच्यम् , करणानां विभक्तत्वेन कार्यतया कार­णा­का­ङ्क्षा­या­म­न्न­म­य­मि­त्या­दि­श्रु­ते­रा­का­ङ्क्षि­तो­क्त्य­र्थ­म­सति बाधके मयटो विकारार्थताया युक्तत्वात् । प्राचु­र्या­र्थत्वे त्वना­का­ङ्क्षि­तो­क्ति­प्र­स­ङ्गा­च्छ्रु­त्यैव तेजोबन्नप्राशने वाक्प्राणमनसां वृद्धिस्तदभावे तन्नाश इति विकारत्वस्य दर्शितत्वान्न विवादावसरः । यद्वा स्थूलभूताधीना तेषां वृद्धिर्विकारो मयडर्थः श्रूयमाणो भौतिकत्वे लिङ्गं प्राणे­न्द्रि­य­म­नांसि भौतिकानि भूता­धी­न­वृ­द्धि­म­त्त्वा­द्दे­ह­व­दिति भावः ।

ननु तेषां भौतिकत्वे कथमाथर्वणे पृथ­क्त­ज्ज­न्म­क­थनं भूतजन्मोक्त्यैव तज्ज­न्म­सि­द्धे­रि­त्यत आह -
व्यपदेशोऽपीति ।

प्रौढवादेन तेषा­म­भौ­ति­क­त्व­मु­पे­त्यापि श्रुत्यविरोधमाह -
अथ त्विति ।
करणानां भूतानां च पूर्वापरत्वे माना­भा­वा­न्नो­क्त­भू­त­क्र­म­भङ्गः । न चाथर्वणवाक्यं मानं पाठ­मा­त्र­त्वा­दि­त्यर्थः ।

तर्हि कथं क्रमनिर्णयः, तत्राह -
तथेति ।
इदं स्थूलमुत्पत्तेः प्राक्प्रजापतिः सूत्रात्मासीत् । अत्र सूक्ष्म­भू­ता­त्म­क­प्र­जा­प­ति­सर्गः प्रथमस्ततो मनआदिसर्ग इति क्रमो भातीति भावः ।

एवञ्च भूत­क­र­णो­त्प­त्ति­श्रु­त्यो­र­वि­रो­धा­द्ब्र­ह्मणि सम­न्व­य­सि­द्धि­रिति सिद्धान्तफलं निगमयति -
तस्मादिति ॥१५॥

चराचरभावित्वात् ।

एवं ताव­त्त­त्प­द­वा­च्य­का­र­ण­नि­र्ण­याय भूतश्रुतीनां विरोधो निरस्तः इदानीमा पाद­मा­प्ते­स्त्व­म्प­दा­र्थ­शुद्ध्यै जीवश्रुतीनां विरोधो निरस्यते । इह जीवो 'न जायते म्रियते' इत्या­दि­श्रु­ते­र्जा­ते­ष्टि­श्रा­द्ध­शा­स्त्रेण विरोधोऽस्ति न वेति सन्देहे विरोधोऽस्तीति प्राप्ते लौकि­क­ज­न्मा­दि­व्य­प­दे­श­स­हा­या­ज्जा­ते­ष्ट्या­दि­शा­स्त्रेण जीवा­ज­त्वा­दि­श्रु­ति­र्बा­ध्यत इति पूर्वपक्षयति -
स्त इति ।
तथा च कर­णो­त्प­त्ति­क्र­मेण भूतक्रमस्य बाधाभावेऽपि जीवो­त्प­त्ति­क्र­मेण बाधः स्यादिति प्रत्यु­दा­ह­र­ण­स­ङ्गतिः । पूर्वपक्षे जीव­ब्र­ह्मै­क्या­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । चेत­न­ज­न्मा­द्यु­द्दे­शेन चेतनस्य तस्य जन्मा­न्त­री­य­फ­ल­सा­धनं जात­क­र्मा­दि­सं­स्कारो विधीयते ।

तथा चोद्दे­श्य­वि­धे­य­यो­र्मि­थो­वि­रोधे सति 'विधे­या­वि­रो­धे­नो­द्देश्यं नेयम्' इति न्याया­ज्ज­न्मा­दिकं देहोपाधिकं न स्वत इति सिद्धान्तयति -
तामित्यादिना ।
जीवापेतं जीवेन त्यक्तमिदं शरीरम् । जन्मा­दि­व्य­प­दे­श­श्च­रा­च­र­दे­ह­वि­षयो मुख्यः । जीवे तु भाक्तो गौण औपा­धि­क­ज­न्मा­दि­वि­षयः स्यादु­पा­धि­ज­न्म­भावे भावा­द­स­त्य­भा­वा­दिति सूत्रार्थः ।

जीव­स्यौ­पा­धि­क­ज­न्म­मृत्यौ श्रुतिमप्याह -
स वा इति ।

जायमानपदार्थमाह -
शरीरमिति ।

म्रियमाणत्वं व्याचष्टे -
उत्क्रामन्निति ।

ननूत्तरत्र जीवस्य जन्मादि निरस्यते, अत्रापि तन्निरासे पुन­रु­क्ति­रि­त्या­श­ङ्क्याह -
जीवस्येति ।
तदेवं जाते­ष्ट्या­दि­शा­स्त्र­स्यौ­पा­धि­क­ज­न्मा­दि­वि­ष­य­त्वान्न जीवा­द्य­ज­न्य­त्व­श्रु­ति­वि­रोध इति सिद्धम् ॥१६॥

नात्मा­श्रु­ते­र्नि­त्य­त्वाच्च ताभ्यः ।

अग्ने­र्वि­स्फु­लि­ङ्ग­व­दे­त­स्मा­त्प­र­मा­त्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्या­दि­जी­वो­त्प­त्ति­श्रु­तीनां 'स एष इह प्रविष्ट आनखाग्रेभ्यः ' 'अज आत्मा' इत्या­द्य­नु­त्प­त्ति­श्रु­तीनां च मिथो­वि­रो­धा­त्सं­शये मा भूतां देह­ज­न्म­ना­श­यो­र्जी­व­ज­न्म­नाशौ, देहा­न्त­र­भो­ग्य­स्व­र्गा­दि­हे­तु­वि­ध्या­द्य­स­म्भ­वात् , कल्पा­द्य­न्त­यो­र्न­भस इव जीवस्य तौ किं न स्यातां तत्सम्भवादिति प्रत्युदाहरणेन पूर्वपक्षमाह -
तत्र प्राप्तं तावदिति ।
फलं पूर्ववत् । उपरोधो बाधः ।

नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रति­ज्ञा­सिद्धिः, तत्राह -
न चेति ।
जीवः परस्माद्भिन्नः, विरु­द्ध­ध­र्म­व­त्त्वा­द्भि­न्न­स्या­वि­का­रत्वे प्रतिज्ञाबाध इति तर्को­पे­त­वि­भ­क्त­त्व­लि­ङ्गा­नु­गृ­ही­तो­त्प­त्ति­श्रु­ते­र्ब­ली­य­स्त्वा­त्प्र­वे­श­श्रु­ति­र्जी­व­रू­प­वि­का­रा­त्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः ।

सरूपेति ।
दृष्टा­न्त­श्रु­ते­र्भावा जीवा इति निश्चीयते ।

ननु 'आत्मन आकाशः सम्भूतः' इत्यादौ जीव­स्यो­त्प­त्त्य­श्र­व­णा­द­नु­पत्तिः, तत्राह -
न चेति ।
एवं विकारत्वे सति विका­र­प्र­प­ञ्चा­त्मना स्वात्मा­न­म­कु­रु­ते­ति­व­द्वि­का­र­जी­वा­त्मना प्रवेश इत्यर्थः ।

अजत्वादिश्रुतिः कल्पमध्ये जीव­स्या­नु­त्प­त्त्या­दि­वि­षया, तत्त्वमसीति श्रुतिश्च मृद् , घट इत्य­भे­द­वा­क्य­व­द्व्या­ख्ये­येति प्राप्ते सिद्धान्तयति -
एवमिति ।

धर्मिवत्सत्यो विभागो हेतुरौपाधिको वा । नाद्यः, असिद्धेरित्याह -
अत्रोच्यते नास्येति ।

द्वितीये जीवस्य न स्वतो विका­र­त्व­सिद्धिः, अप्र­यो­ज­क­त्वा­दि­त्याह -
बुद्ध्यादीति ।

औपाधिकभेदे मानमाह -
तथा चेति ।

मयटो विका­रा­र्थ­त्व­मा­श­ङ्क्याह -
तन्मयत्वं चेति ।
जाल्मः कामजडः स्त्रीपरतन्त्रः । स्त्रीमय इतिवज्जीवस्य स्वरू­पा­ज्ञा­ना­द्बु­द्ध्या­दि­प­र­त­न्त्र­त्वेन भेद­क­र्तृ­त्वा­दि­भा­क्त्वा­त्प्रा­चु­र्यार्थे मयट्प्रयोग इत्यर्थः ।

लिङ्गं निरस्य तद­नु­ग्रा­ह्य­श्रु­ते­र्ग­ति­माह -
यदपीति ।

जीव­स्यौ­पा­धि­क­ज­न्म­ना­शयोः श्रुतिमाह -
तथेति ।
एतेभ्यो देहात्मन परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति । प्रेत्यौ­पा­धि­क­म­र­णा­न­न्तरं संज्ञा नास्तीत्यर्थः ।

ननु प्रज्ञानघनः, संज्ञा नास्तीति च विरुद्धमित्यत आह -
तथेति ।
उपा­धि­ल­या­द्वि­शे­ष­ज्ञा­ना­भाव एव संज्ञाभावो नात्म­स्व­रू­प­वि­ज्ञा­ना­भाव इत्युत्तरं प्रतिपादयति श्रुति­रि­त्य­न्वयः । अत्रैवात्मनि विज्ञानघने प्रेत्यसंज्ञा नास्ती­त्युक्त्या मा मोहान्तं मोहमध्यं भ्रान्ति­मा­पी­प­द­दा­पा­दि­त­वा­नि­म­मर्थं न जानामि ब्रूहि त्वदु­क्ते­र­र्थ­मिति मैत्रे­यी­प्र­श्नार्थः ।

मुनिराह -
न वा इति ।
मोहं मोहकरं वाक्य­मु­च्छित्तिः पूर्वावस्थानाशो धर्मोऽ­स्ये­त्यु­च्छि­त्ति­धर्मा परिणामी स नेत्य­नु­च्छि­त्ति­ध­र्मा­प­रि­णामी, तस्मा­द­वि­ना­शी­त्यर्थः ।

तर्हि न प्रेत्य संज्ञेति कथमुक्तम् , तत्राह -
मात्रेति ।
मात्रा­भि­र्वि­ष­यै­र­सं­स­र्गा­त्त­थो­क्त­मि­त्यर्थः ।

बिम्ब­प्र­ति­बि­म्ब­यो­रिव विरु­द्ध­ध­र्म­भे­दोऽ­ध्यस्त इत्यत्र हेतुमाह -
अत ऊर्ध्वमिति ।
जीवस्य विकारित्वे मुक्त्य­यो­गा­त्त­त्त्व­म­सीति वाक्य­म­ख­ण्डा­र्थ­मिति च वक्तव्यम् , तथा च फल­व­त्प्र­धा­न­वा­क्या­पे­क्षि­त­जी­व­नि­त्य­त्व­श्रु­तीनां बल­व­त्त्वा­दु­त्प­त्त्या­धि­क­म­ध्य­स्त­म­नु­व­द­न्त्यु­त्प­त्त्या­दि­श्रु­तय इत्यविरोध इति सिद्धम् ॥१७॥

ज्ञोऽत एव ।

'आत्मै­वास्य ज्योतिः' इत्या­द्या­त्म­स्व­प्र­का­श­त्व­श्रु­तीनां 'पश्यं­श्चक्षुः शृण्व­ञ्च्छ्रो­त्रम्' इत्य­नि­त्य­ज्ञा­न­व­त्त्व­श्रु­ति­भि­र्वि­रो­धोऽत्र निरस्यते । अस्य लोकस्य चक्षुर्द्रष्टा श्रोत्रं श्रोतेत्यर्थः । प्रागु­क्त­जी­वा­नु­त्प­त्ति­हे­तु­मा­दाय स्वप्र­का­श­त्व­सा­ध­ना­द्धे­तु­सा­ध्य­भावः सङ्गतिः । अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति जीवस्य स्वप्रकाशता सिध्यति । न चैवं गतार्थता, अनुत्पन्नस्यापि जीवस्य स्वप्रकाशत्वे ज्ञान­सा­ध­न­वै­य­र्थ्य­मिति तर्क­स­हि­ता­नि­त्य­ज्ञा­न­श्रु­ति­ब­लेन स्वप्र­का­श­त्व­श्रु­ते­र्बा­ध्य­तया ब्रह्मा­न्य­त्व­श­ङ्कायां तदैक्ययोग्यतायै स्वप्र­का­श­त्व­स्यात्र साधनात् । तथा च पूर्वपक्षे जीवस्य ब्रह्मै­क्या­यो­ग्यता सिद्धान्ते तद्यो­ग्य­ते­त्या­पा­द­स­माप्तेः फलमवगन्तव्यम् । इष्टापत्तिं निराचष्टे -
ते पृष्टा इति ।

साध­ना­धी­न­ज्ञा­न­त्वान्न स्वप्रकाशो जीवो व्यति­रे­के­णे­श्व­र­व­दि­त्याह -
अतः कादाचित्केति ।
यथाश्रुते भाष्ये हेतोः साध्याविशेष इति मन्तव्यम् ।

अतो जीवस्य स्वप्र­का­श­त्व­श्रु­ति­र्बा­ध्येति प्राप्ते सिद्धान्तयति -
एवमिति ।
चेच्छब्दो निश्चयार्थः ।

न केवलं स्वप्र­का­श­ब्र­ह्मा­भे­दा­ज्जी­वस्य स्वप्रकाशता किन्तु श्रुति­तोऽ­पी­त्याह -
विज्ञानमयेति ।
योऽयं विज्ञानमय इति प्रकरण इत्यर्थः । असुप्तः स्वयं भासमान एवात्मा सप्तां­ल्लु­प्त­व्या­पा­रा­न्वा­गा­दी­न­भि­लक्ष्य चाकशीति । सुप्ता­र्था­न्प­श्य­तीति यावत् । अत्र स्वप्ने विज्ञा­तु­र्बु­द्धि­स­त्त्वस्य साक्षिणो विज्ञा­ते­र्वि­नाशो नास्तीत्यर्थः ।

घ्राणा­दि­ज­न्य­ग­न्धा­दि­ज्ञा­ना­नु­स­न्धा­न­सि­द्धये आत्मनो ज्ञानरूपत्वं वाच्यमिति श्रुत्यन्तरेणाह -
अथेति ।

आत्मनो नित्य­चि­द्रू­प­त्वेऽपि स्वतोऽसङ्गतया गन्धा­द्य­स­म्ब­न्धा­त्त­त्स­म्ब­न्ध­घ­ट­ना­त्म­क­वृ­त्त्य­र्थानि ज्ञानसाधनानीति न तेषां वैयर्थ्यमित्याह -
न गन्धेति ।
परिच्छेदो वृत्तिः । गन्धाय तद्गो­च­रा­न्तः­क­र­ण­वृ­त्तये इत्यर्थः ।

सुप्ता­द्य­व­स्था­स्वा­त्म­स­त्त्वेऽपि चैत­न्या­भा­वा­न्नात्मा चिद्रूप इत्युक्तं दूषयति -
यत्त्विति ।

तत्तदासुषुप्तौ न पश्यतीति यत्त­त्प­श्य­न्ने­वा­लु­प्त­ज्ञान एव सन्न पश्यतीत्यत्र हेतुः -
न हीति ।
नाशा­यो­ग्य­त्वा­दि­त्यर्थः ।

किमिति न पश्यतीत्यत आह -
न त्विति ।
वृत्तेः साध­ना­धी­न­त्वोक्त्या स्वरू­प­ज्ञा­न­स्या­सा­ध­ना­धी­नत्वं हेतुरसिद्ध इत्युक्तम् । साध­न­वै­य­र्थ्य­त­र्कोऽपि निरस्तः । शृण्व­न्नि­त्या­द्य­नि­त्य­ज्ञा­न­श्रु­तीनां वृत्तिविषयत्वं व्याख्यातम् । आत्मा न ज्ञानम् , द्रव्यत्वात् , इत्या­दि­त­र्का­श्चा­ग­म­बा­धिताः । फल­व­त्प्र­धा­न­वा­क्या­पे­क्षि­त­स्व­प्र­का­श­त्वा­ग­मस्य बलवत्त्वात् । किञ्च निरवयवात्मनो मनः­सं­यो­गा­न्ना­नि­त्य­ज्ञा­न­गु­णता समवायाभावाच्च न स्वस­म­वे­त­ज्ञा­न­वे­द्यता कर्म­क­र्तृ­त्व­वि­रो­धाच्च । किञ्च ज्ञान­त्व­स्यै­क­वृ­त्तित्वे लाघवादात्मैव ज्ञानं वृत्तेश्च मनः­प­रि­णा­म­त्व­श्रुत्या 'कामः सङ्कल्पः' इत्याद्यया जड­त्वा­न्ना­स्माकं ज्ञान­द्वै­वि­ध्य­गौ­र­व­मि­त्य­न­व­द्य­मा­त्मनः स्वप्र­का­श­त्व­मिति सिद्धम् ॥१८॥

स्वप्र­का­श­त्वा­दा­त्म­स्व­रू­पा­दी­ष­द्ब­हिष्ठं परि­मा­ण­मे­वा­श्रि­ता­श्र­य­त्वे­ना­न्त­र्ब­हि­र्भा­वेन वा सङ्गत्या विचारयति -
उत्क्रा­न्ति­ग­त्या­ग­ती­नाम् ।

विषयसंशयौ दर्शयति -
इदानीमिति ।

नात्मा­श्रु­ते­रि­त्या­दिना गता­र्थ­त्व­म­स्या­श­ङ्क्या­त्मा­णु­त्व­श्रु­तीनां मह­त्त्व­श्रु­तीनां चावि­रो­ध­क­थ­ना­र्थ­म­स्या­धि­क­र­ण­स्या­रम्भ इत्याह -
नन्वित्यादिना ।

न केवलं श्रुतो­त्क्रा­न्त्या­द्य­नु­प­प­त्त्या­त्म­नोऽ­णुत्वं किन्त्वे­षोऽ­णु­रा­त्मेति श्रुत्यापीत्याह -
स्वशब्देनेति ।

पूर्वपक्षे जीव­स्या­णु­त्वा­द्ब्र­ह्मै­क्या­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकु­र्व­न्पू­र्व­प­क्ष­माह -
तत्र प्राप्त­मि­त्या­दिना ।
श्रुतेरणुरिति उत्त­र­सू­त्रा­दा­कृष्य सूत्रं पूरितम् । उत्क्रान्तिः श्रूयत इति शेषः । स मुमूर्षुः जीव एतै­र्बु­द्ध्या­दि­भि­स्त­स्मा­च्च­न्द्र­लो­का­दिमं लोकं प्रति कर्म कर्तु­मा­या­ती­त्यर्थः ॥१९॥

उत्क्रा­न्ति­रा­त्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात्किन्तु स्वामि­त्व­नि­वृ­त्ति­रिति केचित् । तद­ङ्गी­कृ­त्या­प्य­णु­त्व­मा­व­श्य­क­मि­त्याह -
स्वात्मनेति ।
उत्क्रा­न्ते­रु­त्त­र­यो­र्ग­त्या­गत्योः स्वात्मना कर्त्रा सम्ब­न्धा­द­णु­त्व­मिति सूत्रयोजना ।

पाकानाश्रयस्य पक्तृ­त्व­व­द्ग­त्य­ना­श्र­य­स्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह -
गमेरिति ।
गमनस्य कर्तरि संयो­ग­वि­भा­ग­रू­पा­ति­श­य­हे­तु­त्वा­त्क­र्त्रा­श्रि­तत्वं लोक­सि­द्ध­मि­त्यर्थः ।

जीवोऽ­णु­र­म­ध्य­म­प­रि­मा­णत्वे सति गति­म­त्त्वा­त्प­र­मा­णु­व­दि­त्याह -
अमध्यमेति ।

अङ्गीकारं त्यजति -
सत्योश्चेति ।
न स्वाम्य­नि­वृ­त्ति­मा­त्र­मु­त्क्रा­न्ति­रि­त्यर्थः ।

देहान्निर्गम एवो­त्क्रा­न्ति­रि­त्यत्र लिङ्गान्तरमाह -
देह­प्र­दे­शा­ना­मिति ।
अपा­दा­न­त्व­म­व­धि­त्वम् । अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः ।

किञ्च देहमध्येऽपि जीवस्य गत्या­ग­ति­श्रु­ते­र­णु­त्व­मि­त्याह -
स इति ।
इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रका­श­क­मि­न्द्रि­य­ग्रा­म­मा­दाय पुन­र्जा­ग­रि­त­स्था­न­मा­ग­च्छ­ती­त्यर्थः ॥२०॥

इतराधिकारात् ।
ब्रह्मप्रकरणात् ।

ननु महत्त्वश्रुतेः कथं पर­प्र­क­र­ण­स्थ­त्व­मि­त्यत आह -
परस्येति ।

या वेदान्तश्रुतिः सा पर­प्र­क­र­ण­स्थे­त्यु­त्स­र्गा­त्त­स्या­स्त­त्स्थत्वं ब्रह्मा­र­भ्या­धी­त­त्वा­च्चे­त्याह -
विरज इति ।
निर्दोष इत्यर्थः ।

विज्ञा­न­म­य­श्रुत्या प्रकरणं बाध्यमिति शङ्कते -
नन्विति ।

अणोर्जीवस्य ब्रह्मणा भेद­भे­दा­ङ्गी­का­रा­च्छा­स्त्री­या­भे­द­दृष्ट्या महत्त्वोक्तिः, यथा वामदेवस्याहं मनुरिति सर्वा­त्म­त्वो­क्ति­रि­त्य­वि­रो­ध­माह -
शास्त्रेति ॥२१॥

एव­मु­त्क्रा­न्त्या­दि­श्रु­त्या­णु­त्व­म­नु­मि­तम् , तत्र श्रुतिमप्याह -
स्वशब्देति ।
बाला­ग्रा­दु­द्धृतः शततमो भाग­स्त­स्मा­द­प्यु­द्धृतः शततमो भागो जीव इति, उद्धृत्य मान­मु­न्मा­न­म­त्य­न्ता­ल्प­त्व­मि­त्यर्थः । बालः केशः, तोत्र­प्रो­ता­यः­श­ला­का­ग्र­मा­रा­ग्रम् । तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा ॥२२॥

आत्म­सं­यु­क्ता­या­स्त्वचो देह­व्या­पि­स्प­र्शो­प­ल­ब्धि­क­र­णस्य महि­म्ना­त्म­नो­व्या­पि­का­र्य­का­रि­त्व­म­वि­रु­द्धम् । -
त्वगात्मनोरिति ।
सम्बन्धस्य त्वग­व­य­वि­नि­ष्ठ­त्वा­द­व­य­वि­न­श्चै­क­त्वा­दा­त्म­सं­यो­गस्य कृत्स्न­त्व­ङ्नि­ष्ठ­ते­त्यर्थः ॥२३॥

सिद्धे हीति ।
न तु सिद्ध­मि­त्य­तु­ल्य­ते­त्यर्थः । विशेष एव वैशेष्यम् । चन्द­न­बि­न्दो­र­ल्प­त्वस्य प्रत्य­क्ष­त्वा­त्त्व­ग्व्याप्त्या व्यापि­का­र्य­का­रि­त्व­क­ल्पना युक्ता, जीवस्य त्वणुत्वे सन्दे­हा­द्व्या­पि­का­र्य­दृष्ट्या व्यापि­त्व­क­ल्प­न­मेव युक्तम् । व्यापि­का­र्या­श्रयो व्यापी­त्यु­त्स­र्गा­दिति सूत्र­श­ङ्का­भा­गार्थः ।

आत्माल्पः, व्यापि­का­र्य­का­रि­त्वात् , चन्द­न­बि­न्दु­व­दि­त्य­नु­मा­न­म­यु­क्तम् , त्वगादौ व्यभि­चा­रा­दि­त्याह -
न चात्रानुमानमिति ।

पूर्वो­क्त­श्रु­ति­भि­र्जी­व­स्या­णु­त्व­नि­श्च­या­द्धृ­दि­स्थ­त्व­श्रु­ति­भि­रे­क­दे­श­स्थ­त्व­नि­श्च­याच्च न दृष्टा­न्त­वै­ष­म्य­मिति परि­हा­र­भा­गा­र्थ­माह -
अत्रोच्यत इति ॥२४॥

आत्म­व­त्त­द्ध­र्म­ज्ञा­न­स्या­प्य­णुत्वं स्वतः, कादाचित्कं तु देह­प­रि­मा­ण­त्व­मि­त्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह -
गुणाद्वेति ।

वाशब्देन चन्द­न­दृ­ष्टा­न्ता­प­रि­तोषः सूचितस्तमाह -
स्यादिति ॥२५॥

उत्त­र­सू­त्र­व्या­वर्त्यं शङ्कते -
कथमिति ।

ज्ञानं न गुणि­व्य­ति­रि­क्त­दे­श­व्यापि, गुणत्वात् , रूपवत् , न च प्रभायां व्यभिचारस्तस्या अपि द्रव्यत्वादिति प्राप्ते गन्धे व्यभिचारमाह -
अत उत्तरमिति ।
गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः ।

ननु विश्लि­ष्टा­व­य­वा­ना­म­ल्प­त्वा­द्र­व्य­क्षयो न भातीत्यत आह -
अक्षीयमाणमपीति ।
अपिरवधारणे पूर्वा­व­स्था­लि­ङ्गे­ना­क्षी­य­मा­ण­मेव तद्द्र­व्य­म­नु­मी­यत इत्यर्थः । विम­त­म­वि­श्लि­ष्टा­व­य­वम् , पूर्वावस्थातो गुरु­त्वा­द्य­प­च­य­ही­न­त्वात् , सम्मतवदिति भावः ।

शङ्कते -
स्यादेतदिति ।
विश्लि­ष्टा­ना­म­ल्प­त्वा­दि­त्यु­प­ल­क्ष­णम् , अवयवान्तराणां प्रवेशादित्यपि द्रष्टव्यम् । विशेषोऽवयवानां विश्ले­ष­प्र­वे­श­रूपः सन्नपि न ज्ञायते, तथा च गुरुत्वापचयो न भवतीति हेतो­र­न्य­था­सि­द्धि­रिति शङ्कार्थः ।

आगच्छन्तोऽवयवाः पर­मा­ण­व­स्त्र­स­रे­णवो वा, नाद्यः, तद्ग­त­रू­प­व­द्ग­न्ध­स्या­प्य­नु­प­ल­ब्धि­प्र­स­ङ्गा­दिति परिहरति -
नेति ।

द्वितीयं प्रत्याह -
स्फुटेति ।
त्रस­रे­णु­ग­न्ध­श्चे­त्स्फुटो न स्यादित्यर्थः । अतो गन्धस्य पुष्पा­दि­स्थ­स्यैव गुणव्यतिरेको वाच्य इति भावः ।

गन्धो न गुणिविश्लिष्टः गुणत्वात् , रूपवदिति शङ्कते -
रूपेति ।

विश्लेषस्य प्रत्य­क्ष­त्वा­द्बाध इत्याह -
नेति ॥२६॥

आत्म­न­श्चै­त­न्य­गु­णे­नैव देह­व्या­प्ति­रि­त्यत्र श्रुतिमाह सूत्रकारः -
तथा च दर्शयतीति ।

तद्व्याचष्टे -
हृदयेति ॥२७॥

तत्रैव श्रुत्य­न्त­रार्थं सूत्रम् -
पृथगिति ।
विज्ञा­न­मि­न्द्रि­याणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः । एतं चैत­न्य­गु­ण­व्या­प्ति­गो­च­र­म­भि­प्रा­यम् ॥२८॥

तत्रा­त्मा­णु­त्व­वि­भु­त्व­श्रु­तीनां विरो­धा­द­प्रा­मा­ण्य­प्रा­प्ता­व­णुत्वं जीवस्य विभु­त्व­मी­श्व­र­स्ये­त्य­वि­रोध इत्येकदेशिपक्षो दर्शितः । तं दूष­य­न्सि­द्धा­न्त­सूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।

तस्मा­द्ब्र­ह्मा­भि­न्न­त्वा­द्वि­भु­र्जीवः ब्रह्म­व­दि­त्य­नु­मा­ना­नु­गृ­हीते श्रुतिस्मृती आह -
तथा च स वा एष इति ।
नित्यः सर्वगतः स्थाणु­रि­त्याद्याः स्मार्तवादाः । एतेन जीवस्य ब्रह्मा­भे­द­ज्ञा­नेऽ­णु­त्वा­भा­व­धी­स्तस्यां तदि­त्य­न्यो­न्या­श्रय इति निरस्तम् । प्रधा­न­म­हा­वा­क्या­नु­गु­ण­श्रु­ति­स्मृ­ति­भि­र­णु­त्वा­भा­व­नि­श्च­या­न­न्त­र­म­भे­द­ज्ञा­ना­त्प्र­धा­न­वा­क्य­वि­रोधे गुण­भू­ता­णु­त्व­श्रु­ती­ना­मौ­पा­धि­का­णु­त्व­वि­ष­य­त्व­क­ल्प­नात् । 'गुणे त्वन्या­य्य­क­ल्पना' इति न्यायादिति भावः । किञ्च सर्व­दे­ह­व्या­पि­शै­त्या­नु­भ­वा­न्य­था­नु­प­प­त्त्या­णु­त्व­श्रु­त­योऽ­ध्य­स्ता­णु­त्व­वि­ष­य­त्वेन कथञ्चिदर्थवादा नेयाः ।

लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह -
न चाणोरिति ।

शङ्कते -
त्वगिति ।

यद्य­ण्वा­त्म­स­म्ब­न्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्त­र्ह्य­ति­प्र­सङ्ग इति दूषयति -
नेति ।

प्रस­ङ्ग­स्ये­ष्टत्वं निरस्यति -
पादतल एवेति ।
तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देह­व्या­प्त्य­द­र्श­नात् , तथा चाण्वा­त्म­सं­यो­ग­स्त्व­गे­क­दे­शस्थ एवेति देह­व्या­पि­वे­द­ना­नु­प­पत्तिः । न च सिद्धान्ते त्वगा­त्म­स­म्ब­न्धस्य व्यापि­त्वा­त्क­ण्ट­क­स­म्बन्धे देह­व्या­पि­वे­द­ना­प्र­सङ्ग इति वाच्यम् । यावती विषयसम्बद्धा त्वक्ता­व­द्व्या­प्या­त्म­स­म्ब­न्ध­स्ता­व­द्व्या­पि­वे­द­ना­हे­तु­रिति नियमात् । न चैवं विष­य­त्व­क्स­म्बन्ध एव तद्धेतुरस्तु किमा­त्म­व्या­प्त्येति वाच्यम् । वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्या­णा­म­ल्प­मु­पा­दानं सम्भवति कार्य­स्यो­पा­दा­ना­द्वि­श्ले­षा­नु­प­पत्तेः । न चैषां व्याप­क­त्व­म­सि­द्धम् , सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वा­ङ्ग­व्या­पि­दुः­ख­सु­खा­नु­भ­वस्य दुरपह्नवत्वात् ।

यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह -
न चाणोरिति ।

गन्धो नाश्र­या­द्वि­श्लिष्टः, गुणत्वात् , रूप­व­दि­त्य­त्रा­ग­म­माह -
तथा चोक्तमिति ।
न च प्रत्यक्षबाधः, गन्धस्य प्रत्य­क्ष­त्वेऽपि निरा­श्र­य­त्व­स्या­प्र­त्य­क्ष­त्वा­न्म­हतां त्रस­रे­णू­ना­म­नु­द्भू­त­स्प­र्शा­ना­मु­द्भू­त­ग­न्धा­ना­मा­ग­म­ना­त्स्फु­ट­ग­न्धो­प­ल­म्भ­स­म्भवः, अव­य­वा­न्त­र­प्र­वे­शान्न सहसा मूलद्रव्यक्षय इति भावः ।

पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्या­त्मा­णुत्वं निरस्तम् , सम्प्रति तस्य गुण­त्व­म­सि­द्ध­मि­त्याह -
यदि च चैतन्यमिति ।

उत्सूत्रं विभुत्वं प्रसा­ध्या­णु­त्वा­द्यु­क्ते­र्ग­ति­प्र­द­र्श­नार्थं सूत्रं व्याचष्टे -
कथमित्यादिना ।
'अन्तरा विज्ञानमनसी हृदि हि' इति च प्रकृता बुद्धि­र्यो­ग्य­त्वा­त्त­च्छ­ब्देन परामृश्यते ।

बुद्धि­गु­णा­ना­मा­त्म­न्य­ध्या­सा­द­णु­त्वा­द्यु­क्तिर्न स्वतः, आन­न्त्य­श्रु­ति­वि­रो­धा­दि­त्याह -
तथा चेति ।
अका­र्य­का­र­ण­द्र­व्य­स­मा­ना­धि­क­र­ण­तया तत्त्वमसीति वाक्यस्य सोऽयमिति वाक्य­व­द­ख­ण्डा­भे­दा­र्थ­त्वा­दा­नन्त्यं सत्य­म­णु­त्व­म­ध्य­स्त­मि­त्यर्थः । उक्तं चैत­द­ङ्गु­ष्ठा­धि­क­रणे 'प्रति­पा­द्य­वि­रु­द्ध­मु­द्दे­श्य­ग­त­वि­शे­ष­ण­म­वि­व­क्षि­तम्' इति ।

बाला­ग्र­वा­क्य­मा­रा­ग्र­वाक्यं चेत्यु­न्मा­न­द्व­य­मु­क्तम् । तत्राद्यं निरस्य द्वितीयं निरस्यति -
तथे­त­र­स्मि­न्न­पीति ।
बुद्धेर्गुणेन निमि­त्ते­ना­त्म­न्य­ध्यस्तो गुणो भवति तेना­त्म­गु­णे­ना­ध्य­स्ते­नै­वा­रा­ग्र­प­रि­मा­णोऽ­प­कृ­ष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः ।

'न चक्षुषा गृह्यते नापि वाचा नान्यै­र्दे­वै­स्त­पसा कर्मणा वा । ज्ञानप्रसादेन विशु­द्ध­स­त्त्व­स्त­तस्तु तं पश्यति निष्कलं ध्यायमानः' इत्युक्त्वा 'एषोऽ­णु­रात्मा' इत्युक्तः पर एव, यदि जीव­स्त­था­प्य­ध्य­स्ता­णु­त्व­म­णु­श­ब्दार्थ इत्याह -
जीवस्यापीति ।

यदुक्तं पृथ­गु­प­दे­शा­च्चै­त­न्य­गु­णे­नै­वा­त्मनो देह­व्या­प्ति­रिति, तत्राह -
तथा प्रज्ञयेति ।
बुद्धिः प्रज्ञेत्यर्थः ।

यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह -
व्यपदेशमात्रं वेति ।

ननु चैतन्यं गुण इति भेदो मुख्योऽस्तु, नेत्याह -
न ह्यत्रेति ।
निर्गु­ण­त्व­श्रु­ते­रि­त्यर्थः ।

अन्यदपि पूर्वोक्तं बुद्ध्या­द्यु­पा­धि­क­मि­त्याह -
हृदयेत्यादिना ।

सौत्रं दृष्टान्तं विवृणोति -
यथेति ।
अस­त्त्व­मि­त्या­पा­ततः । असं­सा­रि­त्व­मा­पा­द्यम् । शेषं सुबोधम् ॥२९॥

ननु स्वतः संसारित्वमस्तु किं बुद्ध्यु­पा­धि­ने­त्यत आह -
यावदेव चायमिति ।
समानो बुद्धि­ता­दा­त्म्या­पन्नः सन् विज्ञानं ब्रह्म तन्मयो विका­रोऽ­णु­रि­त्यर्थः ।

किं न स्यादित्यत आह -
प्रदेशान्तर इति ।
विज्ञानमयो बुद्धिप्रचुर इत्यर्थः । केन समान इत्या­का­ङ्क्षा­या­मिति शेषः ।

श्रुति­ब­ला­द्बु­द्धे­र्या­व­त्सं­सा­र्या­त्म­भा­वि­त्व­मु­क्तम् , सति मूले कार्यस्य वियो­गा­स­म्भ­वा­च्चेति युक्त्याप्याह -
अपि च मिथ्येति ।

सम्यग्ज्ञानादेव बुद्ध्या­दि­ब­न्ध­ध्वंस इत्यत्र श्रुतिमाह -
दर्शयतीति ।
मृत्यु­म­त्ये­ती­त्य­न्वयः । आदित्यवर्णं स्वप्रकाशम् । तमसः पर­स्ता­द­ज्ञा­ना­स्पृ­ष्ट­मि­त्यर्थः ॥३०॥

याव­दा­त्म­भा­वि­त्व­स्या­सिद्धिं शङ्कते -
नन्विति ।
सुषुप्तौ बुद्धिसत्त्वे ब्रह्म­स­म्प­त्तिर्न स्यात् । प्रलये तत्सत्त्वे प्रल­य­व्या­ह­ति­रि­त्यर्थः ।

स्थूल­सू­क्ष्मा­त्मना बुद्धे­र्या­व­दा­त्म­भा­वि­त्व­म­स्ती­त्याह -
पुंस्त्वेति ।
पुंस्त्वं रेतः । आदिपदेन श्मश्वादिग्रहः । अस्य बुद्धि­स­म्ब­न्ध­स्ये­त्यर्थः ।

स्वापे बीजात्मना सतो बुद्धयादेः प्रबो­धेऽ­भि­व्य­क्ति­रि­त्यत्र श्रुतिमाह -
दर्शयतीति ।
न विदु­रि­त्य­वि­द्या­त्म­क­बी­ज­स­द्भा­वोक्तिः । ते व्याघ्रादयः पुनराविर्भवन्ति इत्य­भि­व्य­क्ति­नि­र्देशः ॥३१॥

बुद्धिसद्भावे मानमाह सूत्रकारः -
नित्येति ।
'मनसा ह्येव पश्यति', 'बुद्धिश्च न विचे­ष्टति', 'विज्ञानं यज्ञं तनुते', 'चेतसा वेदि­तव्यः', 'चित्तं च चेत­यि­त­व्यम्' इति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं ताव­द्बु­द्धि­द्रव्यं प्रसि­द्ध­मि­त्यर्थः ।

कथ­मे­क­स्या­ने­क­धोक्तिः, तत्राह -
क्वचिच्चेति ।
गर्व­वृ­त्ति­कोऽ­ह­ङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् ।

यद्यपि साक्षि­प्र­त्य­क्ष­सि­द्ध­म­न्तः­क­रणं श्रुत्यनूदितं च तथापि प्रत्य­क्ष­श्रु­त्यो­र्वि­व­द­मानं प्रति व्यास­ङ्गा­नु­प­पत्त्या तत्साधयति -
तच्चेत्यादिना ।

सूत्रं योजयति -
अन्यथेति ।
पञ्चे­न्द्रि­याणां पञ्च­वि­ष­य­स­म्बन्धे सति नित्यं युग­प­त्प­ञ्चो­प­ल­ब्धयः स्युः, मनोऽ­ति­रि­क्त­सा­मग्र्याः सत्त्वात् । यदि सत्यामपि साम­ग्र्या­मु­प­ल­ब्ध्य­भा­व­स्तर्हि सदै­वा­नु­प­ल­ब्धि­प्र­सङ्ग इत्यर्थः । अतः कादा­चि­त्को­प­ल­ब्धि­नि­या­मकं मन एष्टव्यमिति भावः ।

ननु सत्यपि कराग्रिसंयोगे दाह­का­दा­चि­त्क­त्व­व­दु­प­ल­ब्धि­का­दा­चि­त्क­त्व­मस्तु किं मन­से­त्या­श­ङ्क्या­न्य­त­र­नि­यमो वेत्ये­त­द्व्या­चष्टे -
अथवेति ।
सत्यां सामग्र्यां नित्यो­प­ल­ब्धि­र्वा­ङ्गी­कार्या अन्यतरस्य कारणस्य केन­चि­च्छ­क्ति­प्र­ति­ब­न्ध­नि­यमो वाङ्गीकार्यः, यथा मणि­ना­ग्नि­श­क्ति­प्र­ति­बन्ध इति वाकारार्थः ।

अस्तु प्रतिबन्ध इत्यत आह -
न चेति ।
न चेन्द्रि­य­स्यै­वास्तु शक्तिप्रतिबन्ध इति वाच्यम् । प्रति­ब­न्ध­का­भा­वात् । न च दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्त­म­ति­प्र­स­ङ्गात् । न च व्यासङ्गः, प्रति­ब­न्ध­क­म­नोऽ­सत्त्वे तस्यासम्भवात् । तथा हि - रसादीनां सहो­प­ल­ब्धि­प्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपा­द्यु­प­ल­ब्धि­प्र­ति­ब­न्धको वाच्यः, स च गुण­त्वा­द्रू­प­व­द्गु­ण्या­श्रयः, तत्रा­त्म­नोऽ­स­ङ्ग­नि­र्गु­ण­कू­ट­स्थस्य गुणि­त्वा­यो­गा­न्मन एव गुणि­त्वे­नै­ष्ट­व्य­मिति व्यास­ङ्गा­नु­प­पत्त्या मनःसिद्धिः ।

एत­द­भि­प्रे­त्यो­प­सं­ह­रति -
तस्मादिति ।
अवधानं बुभुत्सा । न चानिच्छतोऽपि दुर्ग­न्धा­द्यु­प­ल­म्भान्न बुभु­त्सो­प­ल­ब्धि­र्नि­या­मि­केति वाच्यम् , अनेकविषयसन्निधौ क्वचिदेव तस्या निया­म­क­त्वा­ङ्गी­का­रात् । तेषां मते पुन­रि­च्छा­दी­ना­मा­त्म­ध­र्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् । इच्छा­दि­ध­र्मि­णै­वा­त्मना व्यास­ङ्गो­प­पत्तेः ।

सम्प्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह -
तथा चेति ।

न केवलं व्यास­ङ्गा­न्म­नः­सिद्धिः, किन्तु कामा­द्या­श्र­य­त्वे­ना­पी­त्याह -
कामादयश्चेति ।

बुद्धेः प्रामा­णि­क­त्वो­क्ति­फ­ल­माह -
तस्मादिति ॥३२॥

एव­मा­त्म­न्य­णु­त्वा­ध्या­सोक्त्या स्वाभाविकं महत्त्वं स्थापितम् । सम्प्रति ततो बहिष्ठं कर्तृत्वं साधयति -
कर्ता शास्त्रा­र्थ­व­त्त्वात् ।

स नित्यश्चिद्रूपो महानात्मा कर्ता न वेत्य­स­ङ्ग­त्व­श्रु­तीनां विध्या­दि­श्रु­तीनां च विप्रतिपत्त्या संशये बुद्धि­क­र्तृ­त्वे­नैव विध्या­दि­शा­स्त्रो­प­प­त्ते­र­क­र्ता­त्मेति साङ्ख्य­प­क्ष­प्राप्तौ सिद्धान्तयन्नैव तद्गु­ण­सा­र­त्वो­क्त्या­त्मनि कर्तृ­त्वा­ध्या­स­स्यापि सिद्ध­त्वा­त्पु­न­रु­क्ति­मा­शङ्क्य साङ्ख्य­प­क्ष­नि­रा­सा­र्थ­मा­त्मनि कर्तृ­त्वा­ध्या­स­प्र­प­ञ्च­नान्न पुन­रु­क्ति­रि­त्याह -
तद्गुणेति ।
अधिकारः प्रसङ्गः । वस्तु­तोऽ­स­ङ्ग­त्वम् । अविद्यातः कर्तृ­त्व­मि­त्य­स­ङ्ग­त्व­क­र्तृ­त्व­श्रु­ती­ना­म­वि­रो­धोक्तेः कर्तृ­त्व­वि­चा­रा­त्म­का­धि­क­र­ण­त्र­यस्य पादसङ्गतिः । श्रुतीनां मिथो विरोधाविरोधौ पूर्वो­त्त­र­प­क्षयोः फलम् । यद्वात्र पूर्वपक्षे बन्धा­भा­वा­च्छा­स्त्र­वै­यर्थ्यं फलम् , सिद्धान्ते कर्तृ­त्वा­दि­स­म्ब­न्ध­स­त्त्वा­च्छा­स्त्रा­र्थ­व­त्तेति भेदः ।

ननु बुद्धि­क­र्तृ­त्वेन शास्त्रा­र्थ­व­त्तास्तु किं जीवकर्तृत्वेन तत्राह -
तद्धि कर्तुः सत इति ।
मयेदं कर्तव्यमिति बोधसमर्थस्य चेतनस्यैव कर्तृत्वं वाच्यं न त्वचेतनाया बुद्धेः । किं च भोक्तुरात्मन एव कर्तृता वाच्या 'शास्त्र­फलं प्रयो­क्तरि' इति न्यायादिति भावः ॥३३॥
सन्ध्यं स्थानं स्वप्नः । अमृतः स आत्मा यथेष्टमीयते गच्छतीति विहारोपदेशात् , आत्मा कर्ता ॥३४॥
प्राणानां मध्ये विज्ञानेन बुद्ध्या विज्ञा­न­स­म­र्थ­मि­न्द्रि­य­जा­त­मा­दाय शेते इति प्राणान् गृहीत्वा परिवर्तत इति उपा­दा­न­क­र्तृ­त्व­मा­त्मनः अकर्तृत्वे उपा­दा­ना­नु­प­प­त्ते­रिति भावः ॥३५॥
विज्ञानशब्दो जीवस्य निर्देशो न चेत्तदा प्रथ­मा­नि­र्दे­शा­द्वि­प­र्ययः । कर­ण­द्यो­ति­तृ­ती­यया निर्देशः स्यात् । तस्मादिह श्रुतौ तनुत इत्याख्यातेन कर्तृवाचिना विज्ञानपदस्य सामा­ना­धि­क­र­ण्य­नि­र्दे­शा­त्क्रि­या­या­मा­त्मनः कर्तृत्वं सूच्यत इति सूत्र­भा­ष्य­यो­रर्थः ॥३६॥

सूत्रा­न्त­र­म­व­ता­र­यति -
अत्राहेति ।
जीवः स्वत­न्त्र­श्चे­दि­ष्ट­मेव कुर्या­द­स्व­त­न्त्र­श्चेन्न कर्ता, 'स्वतन्त्रः कर्ता' इति न्यायादित्यर्थः ।

सत्यपि स्वातन्त्र्ये कार­क­वै­चि­त्र्या­द­नि­यता प्रवृत्तिरिति सूत्रेण परिहरति -
यथेति ।

दृष्टा­न्ता­स­म्प्र­ति­पत्त्या शङ्कते -
उपलब्धावपीति ।

चक्षुरादीनां चैतन्येन विष­य­स­म्ब­न्धा­र्थ­त्वा­त्स्व­स­म्ब­न्धो­प­लब्धौ चात्म­न­श्चै­त­न्य­स्व­भा­व­त्वेन स्वात­न्त्र्या­द्दृ­ष्टा­न्त­सि­द्धि­रि­त्याह -
नेति ।

नन्वात्मा विषयसम्बन्धाय करणान्यपेक्षते चेत्कथं स्वतन्त्र इत्याशङ्क्यमाह -
अपि चेति ।
स्वातन्त्र्यं नाम न स्वान्या­न­पे­क्ष­त्वम् , ईश्वरस्यापि प्राणि­क­र्मा­पे­क्ष­त्वे­ना­स्वा­त­न्त्र्य­प्र­स­ङ्गात् । किं तु स्वेत­र­का­र­क­प्र­यो­क्तृत्वे सति कार­का­प्रे­र्यत्वं स्वातन्त्र्यं तेन स्वतन्त्रोऽपि जीव इष्ट­सा­ध­न­त्व­भ्रा­न्त्य­नि­ष्ट­सा­ध­न­म­प्य­नु­ति­ष्ठ­ती­त्य­नि­यता प्रवृत्तिः स्वातन्त्र्यं चेत्य­वि­रु­द्ध­मि­त्यर्थः ॥३७॥

जीवस्य कर्तृत्वे हेत्वन्तरार्थं सूत्रम् -
शक्तीति ।
बुद्धेः करणशक्तिविपरीता कर्तृशक्तिः स्यादित्यर्थः ।

ततः किम् , तत्राह -
सत्यां च बुद्धेरिति ।
योऽहन्धीगम्यः । स कर्ता स एव जीवो यत्तदपेक्षितं करणं तन्मन इति जीव­क­र्तृ­त्व­सि­द्धि­रिति भावः ॥३८॥

ज्ञान­सा­ध­न­वि­ध्य­न्य­था­नु­प­प­त्त्या­प्या­त्मनः कर्तृत्वं वाच्यमित्याह -
समाधीति ।
मुक्ति­फ­ल­भो­क्तु­रेव तदु­पा­य­स­मा­धि­क­र्तृत्वं युक्तम् , अन्य­था­त्म­नोऽ­क­र्तृत्वे बुद्धेरपि अभोक्त्र्याः कर्तृ­त्वा­यो­गा­त्स­मा­ध्य­भा­व­प्र­सङ्ग इत्यर्थः ॥३९॥

यथा च तक्षोभयथा ।

उक्तमात्मनः कर्तृ­त्व­मु­प­जीव्य संश­य­पू­र्व­प­क्षा­वाह -
एवं तावदित्यादिना ।

साङ्ख्य­नि­रा­से­ना­त्मनः कर्तृत्वे साधिते बाध­का­भा­वा­त्त­त्स­त्य­मिति मीमांसकादिपक्षः प्राप्तः । न चासङ्गत्वागमेन बाधः, अहं कर्ते­त्य­नु­भ­व­स­हि­त­क­र्तृ­त्व­श्रु­ति­ब­लेन तस्यागमस्य स्तावकत्वादिति प्राप्त उत्सूत्रमेव सिद्धान्तयति -
न स्वाभाविकमिति ।

यदुक्तं बाधकाभावादिति तदसिद्धमित्याह -
अनिर्मोक्षेति ।

ननु कर्तृत्वं नाम क्रिया­श­क्ति­र्मु­क्ता­व­प्यस्ति तथापि शक्तिकार्यस्य क्रिया­रू­प­श­क्य­स्या­भा­वा­न्मुक्तेः पुरु­षा­र्थ­त्व­सि­द्धि­रिति शङ्कते -
ननु स्थितायामिति ।

सत्यां शक्तौ कथं कार्यपरिहारः, तत्राह -
तत्परिहारश्चेति ।
मुक्तौ शक्तिसत्त्वे कार्यमपि स्यात् , शक्याभावे शक्त्ययोगात् ।

अस्ति हि प्रलयेऽपि कार्यं पुनरुद्भवयोग्यं सूक्ष्मं शक्यम् , तथा च शक्त्या धर्मा­दि­नि­मित्तैः सहि­त­का­र्या­क्षे­पा­न्मु­क्ति­लोप इति परिहरति -
न निमित्तानामपीति ।
सनिमित्तस्य कार्यस्य शक्यत्वेन शक्त्या सम्ब­न्धा­न्न­मि­त्ता­ना­मपि परम्परया शक्ति­स­म्ब­न्धि­त्व­मुक्तं मन्तव्यम् । सम्बन्धेन सम्ब­न्धि­ने­त्यर्थः । यद्वा शक्ति­र्ल­क्ष­ण­मा­क्षे­पकं यस्य कार्यस्य तेन कार्येण यः सम्बन्धस्तेनेति व्यधिकरणे तृतीये ।

ननु नरस्य कर्मणा देव­त्व­व­च्छा­स्त्र­ब­ला­त्क­र्तु­रे­वा­क­र्तृ­ता­सि­द्धि­रिति शङ्कते -
नन्विति ।
ज्ञाना­द­क­र्तृ­त्वा­ख्य­मो­क्ष­श्चे­त्क­र्तृ­त्व­मा­वि­द्यकं स्याद्यतो ज्ञान­म­ज्ञा­न­स्यैव निवर्तकम् ।

यदि कर्मणा मोक्षः तत्राह -
नेति ।

आत्मनः स्वाभाविकं कर्तृ­त्व­म­भ्यु­प­ग­म्या­नि­र्मोक्ष उक्तः । सम्प्र­त्य­स­ङ्ग­नि­र्वि­का­र­त्वा­ने­क­श्रु­ति­व्या­को­पा­त्तन्न स्वाभा­वि­क­मि­त्याह -
अपि चेति ।
न चाभ्य­स्ता­ने­क­श्रु­तीनां स्तावकत्वकल्पनं युक्तम् , न चाहं कर्तेत्यनुभवो विरुध्यते, तस्य सत्य­मि­थ्यो­दा­सी­न­क­र्तृ­त्वा­व­गा­हि­नोऽ­ध्या­स­त्वे­ना­प्यु­प­प­त्ते­रि­त्यर्थः ।

कर्तृ­त्व­स्या­ध्य­स्तत्वे श्रुतिमाह -
तथा चेति ।

विद्व­द­नु­भ­व­बा­धितं च कर्तृत्वमित्याह -
न हीति ।

बुद्ध्या­दि­स­ङ्घा­ता­द्व्य­ति­रिक्तो यदि पर­स्मा­द­न्य­श्चे­तनो न स्यात्तदा पर एव संसारी प्रसज्येत, तच्चानिष्टम् , परस्य नित्य­मु­क्त­त्व­व्या­घा­ता­दिति शङ्कते -
पर एवेति ।
न वयं शुद्धस्य चिद्धातोः परस्य बन्धं वदामः, किन्तु तस्यै­वा­वि­द्या­बु­द्ध्या­दि­प्र­ति­बि­म्बि­त­स्या­वि­द्यया भिन्नस्य जीवत्वं प्राप्तस्य बन्धमोक्षाविति ब्रूमः ।

कल्पितभेदोऽपि लोके बिम्ब­प्र­ति­बि­म्ब­यो­र्ध­र्म­व्य­व­स्था­पको दृष्ट इति परिहरति -
नाविद्येति ।

अविद्योपहिते बन्धो न शूद्धा­त्म­नी­त्यत्र श्रुतिमाह -
तथा चेति ।

कर्तृत्वस्य बुद्ध्यु­पा­ध्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­त्वा­च्छ्रु­तेश्च न स्वाभा­वि­क­त्व­मि­त्याह -
तथा स्वप्नेति ।

आत्मैव काम्यते आन­न्द­त्वा­दि­त्या­त्म­कामं स्वरूपं स्वाति­रि­क्त­का­म्या­स­त्त्वा­द­का­मम् , आत्म­का­म­त्वा­द­का­म­त्वा­च्चा­प्त­कामं विशो­क­त्वा­च्चे­त्याह -
शोकेति ।
शोकान्तरं दुःखा­स्पृ­ष्ट­मि­त्यर्थः ।

तस्यैव सुषु­प्ता­त्म­रू­पस्य पर­म­पु­रु­षा­र्थ­ता­माह -
एष इति ।
गतिः प्राप्यम् , सम्पदैश्वर्यं लोको बोग्यं सुखम् , चैत­स्मा­द­न्य­त्रा­स्ती­त्यर्थः ।

आत्मा स्वतोऽकर्ता बुद्ध्या­द्यु­पा­धिना तु कर्ते­त्यु­भ­य­था­भाव उक्तः । तत्रार्थे सूत्रं योजयति -
तदे­त­दा­हे­त्या­दिना ।
सम्प्रसादः सुषुप्तिः । यथा स्फटिकस्य लौहित्यं कुसु­मा­द्यु­पा­धिकं तथात्मनः कर्तृत्वं बुद्ध्या­द्यु­पा­धि­क­म­न्व­य­व्य­ति­रे­काभ्यां सिद्धम् । न च तौ बुद्धे­रा­त्म­क­र्तृत्वे करणत्वविषयौ नोपा­दा­न­त्व­वि­ष­या­विति युक्तम् , कर­ण­त्वा­त्का­र्या­न्व­य्यु­पा­दा­न­त्व­स्या­न्त­र­ङ्ग­तया चित्सं­व­लि­त­बु­द्धे­स्ता­भ्या­मु­पा­दा­न­त्व­स्यैव सिद्धेः, एवं चिद­भे­दे­ना­ध्य­स्त­बु­द्ध्या­ख्या­ह­ङ्का­रस्य कर्तृ­त्वो­पा­दा­न­त्वेन महा­वा­क्य­स­म्म­ति­श्चेति भावः ।

ननु तक्षा स्वहस्तादिना वास्या­दि­प्रे­र­ण­श­क्त­त्वा­त्स्वतः कर्ता आत्मा तु निरवयवत्वादशक्त इति दृष्टा­न्त­वै­ष­म्य­मा­श­ङ्क्यौ­पा­धि­क­क­र्तृ­त्वां­शेन विवक्षितेन साम्यमाह -
तक्ष­दृ­ष्टा­न्त­श्चेति ।

शास्त्रे­णा­नू­द्य­मानं कर्तृत्वं स्वाभाविकमेव किं न स्यादित्यत आह -
न च स्वाभाविकमिति ।

उपाध्यभावकाले श्रुतं कर्तृत्वं स्वाभाविकमेवेति शङ्कते -
ननु सन्ध्य इति ।

किञ्च कर­णै­र्वि­शि­ष्टस्य कर्तृत्वे तेषां कर्त्र­न्त­र्भा­वा­त्ते­ष्वपि कर्तृविभक्तिः स्यात् । न चैवमस्ति ततः केवलात्मनः कर्तृत्वमित्याह -
तथेति ।

स्वप्नविहारे ताव­दु­पा­ध्य­भा­वोऽ­सिद्ध इत्याह -
न तावत्सन्ध्य इति ।

विहारस्य मिथ्या­त्वा­त्त­त्क­र्तृ­त्व­मपि मिथ्येत्याह -
विहारोऽपीति ।
जक्षत्भुञ्जान इव ।

कर­ण­त्व­वि­शि­ष्टस्य कर्तृत्वे करणेषु कर्तृविभक्तिः स्यात् , न कर­ण­वि­भ­क्ति­रि­त्युक्तं प्रत्याह -
भवति च लोक इति ।
कर्तृष्वपि करणविभक्तिर्न विरुध्यते दृष्टत्वात् । अस्ति च कर्तृ­त्व­प्र­योगः, 'विज्ञानं यज्ञं तनुते' इत्यादाविति भावः ।

उपादानस्य सक­र्तृ­क­त्व­म­ङ्गी­कृत्य केवलात्मनः कर्तृत्वं निरस्तम् । इदानीं तस्या­क्रि­य­त्वान्न कर्त्र­पे­क्षे­त्याह -
अपि चेति ।

पूर्वं विज्ञानं जीव इत्यङ्गीकृत्य जीवस्य कर्तृत्वे तनुत इति श्रुतिरुक्ता, सम्प्रति तया श्रुत्या­नु­प­हि­ता­त्मनः कर्तृत्वमिति प्राप्तौ विज्ञानं बुद्धिरेव तस्या एवात्र कर्तृत्वमुच्यते । तदुपहितात्मनः कर्तृत्वसिद्धय इत्यभिप्रेत्याह -
यस्त्विति ।
'योऽयं विज्ञा­न­मयः' इत्यादिश्रुतिषु विज्ञानब्दस्य बुद्धौ प्रसि­द्ध­त्वा­दत्र च मनोमयकोशानन्तरं पठि­त­त्वा­च्छ्र­द्धा­दि­लि­ङ्गाच्च बुद्धिरेव विज्ञा­न­मि­त्यर्थः ।

तत्रैव लिङ्गान्तरमाह -
विज्ञानं देवा इति ।
'महद्यक्षं प्रथमजम्' इत्यादिश्रुतौ हिर­ण्य­ग­र्भ­ब्र­ह्मा­त्म­क­बु­द्धे­र्ज्ये­ष्ठ­त्वो­क्ते­रत्र देवै­रि­न्द्रि­यै­रू­पा­स्य­मानं ज्येष्ठं ब्रह्म विज्ञानं बुद्धि­रे­वे­त्यर्थः । यक्षं पूज्यम् ।

किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धि­का­र्य­त्वो­क्ते­र­त्रापि यज्ञ­क­र्तृ­वि­ज्ञानं बुद्धिरित्याह -
स एष इति ।
चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते ततश्चित्तस्य वाचः पूर्वोत्तरभावो यज्ञ इत्यर्थः ।

यच्चोक्तं बुद्धेः कर्तृत्वे शक्ति­वै­प­री­त्य­प्र­सङ्ग इति । तन्न विक्लिद्यन्ते तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति स्वस्व­व्या­पा­रेषु सर्वकारकाणां कर्तृ­त्व­स्वी­का­रा­दि­त्याह -
न चेति ।

तर्हि बुद्ध्यादीनां कर्तृत्वे करणत्ववार्ता तेषु न स्यादित्यत आह -
उपलब्धीति ।
यथा काष्ठानां स्वव्यापारे कर्तृत्वेऽपि पाकापेक्षया करणत्वं तथा बुद्ध्या­दी­ना­म­ध्य­व­सा­य­स­ङ्क­ल्पा­दि­क्रि­या­क­र्तृ­त्वेऽ­प्यु­प­ल­ब्ध्य­पे­क्षया करणत्वमित्यर्थः ।

ननु तर्ह्युपलब्धिः कस्य व्यापार इत्याह -
सा चेति ।

तर्हि तस्यामात्मा केवलः कर्ता स्यात् , यस्य यो व्यापारः स तस्य कर्तेति स्थितेरित्यत आह -
न चेति ।
उप­ल­ब्धे­र्नि­त्यत्वे बुद्ध्यादीनां कथं करणत्वमुक्तमिति चेदुच्यते - अख­ण्ड­सा­क्षि­चै­तन्यं बुद्धि­वृ­त्ति­भि­र्भिन्नं सद्वि­ष­या­वा­च्छि­न्न­त्वेन जायते, तथा च विषयावच्छिन्न चैत­न्या­ख्यो­प­लब्धौ बुद्ध्यादीनां करणत्वं बुद्ध्या­द्यु­प­हि­ता­त्मनः कर्तृत्वं न केवलस्य, न च बुद्धेरेव तत्कर्तृत्वं चैतन्यस्य जड­व्या­पा­र­त्वा­यो­गा­दिति भावः ।

यच्चोक्तं बुद्धेः कर्तृत्वे स एवाहन्धीगम्यो जीव इति तस्य करणान्तरं कल्पनीयम् , तथा च नाममात्रे विवाद इति तत्र केवलात्मनः कर्तृ­त्व­मु­क्त­मिति भ्रान्तिं निरस्यति -
अहङ्कारेति ।
साङ्ख्य­नि­रा­सार्थं बुद्ध्य­भे­दे­ना­ध्य­स्त­चि­दा­त्म­का­ह­ङ्का­र­गतं कर्तृत्वं यदुक्तं तदहन्धीगम्यस्य बुद्धि­वि­शि­ष्टा­त्मन एव न केवलस्य साक्षिणो भवितुमर्हति, दृश्यधर्मस्य साक्षि­स्व­भा­व­त्वा­यो­गात् । एवं विशिष्टात्मनः कर्तृत्वे विशेषणीभूताया जडबुद्धेरेव कर­ण­त्वो­प­प­त्तेर्न कर­णा­न्त­र­क­ल्प­ना­प्र­सङ्गः । अध्यासं विना केव­ल­बु­द्धि­क­र्तृ­त्व­वा­दि­नस्तु कर­णा­न्त­र­प्र­सङ्गो दुर्वार इत्यर्थः । एवं शास्त्रा­र्थ­व­त्त्वा­दि­हे­तू­ना­मा­त्मनः कर्तृ­त्व­मा­त्र­सा­ध­क­त्वेऽपि स्वाभा­वि­क­क­र्तृ­त्व­सा­ध­न­सा­म­र्थ्या­भा­वा­द­ध्य­स्त­मेव कर्तृत्वं विध्या­दि­क­र्तृ­त्व­श्रु­ती­ना­मु­प­जी­व्यम् । तस्मा­द­स­ङ्ग­त्व­वि­ध्या­दि­क­र्तृ­त्व­श्रु­ती­ना­म­वि­रोध इति सिद्धम् ॥४०॥

परात्तु तच्छ्रुतेः ।

यथा स्फटिके लौहित्याध्यासे लोहितद्रव्यं करणं तेनायं स्फटिको लोहित इत्यनुभवात् , तथा कामा­दि­प­रि­णा­मि­बु­द्धि­रा­त्मनि कर्तृ­त्वा­द्य­ध्यासे करणमित्युक्तम् । तदध्यस्तं कर्तृ­त्व­मु­प­जीव्य जीवस्य कार­क­स­म्प­न्न­त्वा­दी­श्व­रस्य कार­यि­तृ­त्व­श्रु­तेश्च संशयमाह -
यदिदमिति ।
अत्र 'एष ह्येव' इत्या­दि­श्रु­तीनां कर्तृ­स्वा­त­न्त्र्य­द्यो­त­क­वि­ध्या­दि­श्रु­ति­भि­र्वि­रो­ध­स­मा­धा­ना­त्पा­द­स­ङ्गतिः ।

कर्ममीमांसकमतेन पूर्वपक्षयति -
तत्रेत्यादिना ।
बुद्ध्या­दि­का­र­क­स­म्प­त्ता­वी­श्व­र­व्य­ति­रेके कर्तृ­त्व­व्य­ति­रे­का­नु­प­ल­ब्धे­र्ने­श्वरः प्रयोजकः ।

किञ्च प्रयोजकत्वे नैर्घृ­ण्या­दि­प्र­सङ्ग इत्याह -
क्लेशात्मकेन चेति ।

दत्तोत्तरमिदं चोद्यमिति शङ्कते -
नन्विति ।

पूर्वं जीवस्य धर्मा­ध­र्म­वत्त्वं सिद्धवत्कृत्य तत्सा­पे­क्ष­त्वा­द्वि­ष­म­ज­ग­त्क­र्तृ­त्व­म­वि­रु­द्ध­मि­त्युक्तं सम्प्रति ईश्वराधीनत्वे जीवस्य कर्तृत्वे सिद्धे धर्मा­ध­र्म­व­त्त्व­सिद्धिः, तद्वत्त्वसिद्धौ तत्सा­पे­क्ष­का­र­यि­तृ­त्व­सिद्धिः, ईश्वरस्य कारयितृत्वे सिद्धे जीवस्य कर्तृ­त्व­सि­द्धि­रिति चक्रकापत्तेः कर्मसापेक्षत्वं न सम्भवतीत्युच्यत इत्याह -
सत्यमिति ।

अस्तु कर्मानपेक्षस्य प्रवर्तकत्वम् , तत्राह -
अकृतेति ।
अनपेक्षस्य प्रवर्तकत्वे धर्मवतो नरान् दुःखेनाधर्मवतः सुखेन योजयेत् , कारुणिकत्वे वा सर्वे सुखेन एकरूपाः स्युरिति जगद्वैचित्र्यं विध्या­दि­शास्त्रं च न स्यात् । तस्मा­द्वि­ध्या­दि­शा­स्त्रा­र्थ­व­त्त्वाय रागद्वेषायत्तं स्वत एव जीवस्य कर्तृत्वं वाच्यम् , तथा च कार­यि­तृ­त्व­श्रु­ति­वि­रोधः ।

ईश्वरस्ताविका वा सा श्रुतिरिति प्राप्ते सिद्धान्तयति -
एतामिति ।
यथा चन्द­ना­दि­सा­मग्र्यां सत्यां धर्मव्यतिरेके सुख­व्य­ति­रे­क­ग्र­हा­भा­वेऽपि 'पुण्यो वै पुण्येन कर्मणा भवति' इत्या­दि­शा­स्त्र­प्रा­मा­ण्या­देव धर्मस्य हेतुत्वसिद्धिः, एवमीश्वरस्यापि शास्त्र­ब­ला­त्का­र­यि­तृ­त्व­सि­द्धि­रिति भावः ॥४१॥

धर्मा­ध­र्मा­भ्या­मेव फल­वै­ष­म्य­सि­द्धे­र­ल­मी­श्व­रे­णे­त्या­शङ्क्य बीजै­रे­वा­ङ्कु­र­वै­ष­म्य­सिद्धेः पर्ज­न्य­वै­यर्थ्यं स्यात् । यदि विशेषहेतूनां साधा­र­ण­हे­त्व­पे­क्ष­त्वान्न वैयर्थ्यं तर्हि ईश्वरस्यापि साधा­र­ण­हे­तु­त्वान्न वैयर्थ्यमित्याह -
पर्जन्यवदिति ।

दृष्टान्तं विवृणोति -
यथेति ।
अति­दी­र्घ­व­ल्ली­ग्र­न्थयो गुच्छाः पुष्पस्तबका वा, गुल्मास्तु ह्रस्ववल्ल्य इति भेदः ।

किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं न स्यादि­त्या­पा­द्यते उत चक्रकापत्तिर्वा । नाद्य इत्याह -
नैष दोष इति ।
अध्यापकाधीनस्य बटो­र्मु­ख्या­ध्य­य­न­क­र्तृ­त्व­द­र्श­ना­दिति भावः ।

चक्रकं निरस्यति -
अपि चेति ।
अनवद्यं जीवस्य कर्तृ­त्व­मी­श्व­रस्य कारयितृत्वं चेति शेषः ।

ईश्वरस्य सापेक्षत्वे विध्या­दि­शा­स्त्र­प्रा­मा­ण्या­न्य­था­नु­प­पत्तिं प्रमाणयति -
कथमित्यादिना ।

एवं सापेक्षत्वे सत्यवैयर्थ्यं भवति, अन्य­था­न­पे­क्षत्वे वैयर्थ्यं प्रपञ्चयति -
ईश्वर इति ।
तयोः स्थाने स एव नियुज्येत अभिषिच्येत । तयोः कार्यं स एव कुर्यादिति यावत् । तथा च जीवस्य निर­पे­क्षे­श्व­र­प­र­त­न्त्र­त्वा­द्वि­ध्या­दि­शा­स्त्र­म­कि­ञ्चि­त्क­र­म­न­र्थकं स्यादिति सम्बन्धः । पुरुषकारः प्रयत्नः ।

आदिशब्दार्थमाह -
तथेति ।
पूर्वो­क्त­दे­षोऽ­कृ­ता­भ्या­ग­मादिः । तस्मा­त्क­र्म­सा­पे­क्षे­श्व­रस्य कारयितृत्वात् 'एष ह्येव' इत्या­दि­श्रु­ते­र्वि­ध्या­दि­श्रु­त्य­वि­रोध इति सिद्धम् ॥४२॥

अंश एके ।

'नित्यः स्वप्र­का­शोऽ­न­णु­र­कर्ता जीव' इति शोधि­त­त्व­म्प­दा­र्थ­स्यात्र ब्रह्मै­क्य­सा­ध­नेन भेदा­भे­द­श्रु­तीनां विरो­ध­स­मा­धा­ना­त्पा­द­स­ङ्गतिः । पूर्वपक्षे प्रत्य­ग­भि­न्न­ब्र­ह्म­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । पूर्वो­क्तो­प­का­र्यो­प­का­र­क­भा­वा­क्षिप्तं जीवेशयोः सम्बन्धं विषयीकृत्य द्विवि­ध­दृ­ष्टा­न्त­द­र्श­ना­त्सं­श­य­माह -
ततश्चेति ।

प्रसि­द्ध­स्व­स्वा­मि­त्व­स­म्ब­न्ध­स­म्भ­वाद्यः कश्चित्सम्बन्ध इत्यनियमो न युक्त इत्यरुचेराह -
अथवेति ।
अनेन 'य आत्मनि तिष्ठन्' इत्या­दि­श्रु­ति­प्र­सि­द्ध­भे­द­को­टि­र्द­र्शिता । एवं तत्त्व­म­सी­त्या­दि­श्रु­ति­सिद्धा भेद­को­टि­र्द्र­ष्टव्या, तथा च भेदा­भे­द­श्रु­तीनां सम­ब­ल­त्वा­द्वि­रोधे सति सम्ब­न्धा­नि­श्च­या­त्स­म्ब­न्धा­पे­क्षस्य पूर्वो­क्तो­प­का­र्यो­प­का­र­क­भा­व­स्या­सि­द्धि­रि­त्या­क्षे­पा­त्स­ङ्गतिः ।

लोक­सि­द्धा­न­र्था­त्म­क­भे­दा­नु­वा­दि­त्वेन भेदश्रुतीनां दुर्ब­ल­त्वा­द­ज्ञा­त­फ­ल­व­द­भे­द­श्रु­त्य­नु­सा­रेण प्रक­ल्पि­त­भे­द­नि­ब­न्धनों 'शांशिभावः सम्बन्ध इति सिद्धान्तयति -
अत इत्यादिना ।

अग्नेः सांशत्वेऽपि निष्कलेश्वरस्य कथं सांशत्वमत आह -
अंश इवेति ।
जीव इत्यनुषङ्गः ।

भेद एव चेत्स्व­स्वा­मि­भावो युक्तो नांशांशिभाव इति शङ्कते -
ननु चेति ।

अभेदस्यापि सत्त्वा­दं­शां­शि­भाव इत्याह -
अत इति ।
वञ्चसि गच्छसि यदास्ते यो नामरूपे निर्माय प्रविश्य व्यवहरन्वर्तते तं विद्वानमृतो भवतीति श्रुत्यर्थः ।

श्रुति­सि­द्धा­भेदे युक्तिमाह -
चैतन्यं चेति ।
जीवो ब्रह्मैव चेतनत्वात् ब्रह्म­व­दि­त्यर्थः ॥४३॥

अस्य सह­स्र­शी­र्ष­पु­रु­षस्य तावान्प्रपञ्चो महिमा विभूतिः पुरुषस्तस्मात् प्रपञ्चात् ज्यायान्महत्तरः । भूतानि देहिनो जीवा इत्यत्र नियामकमाह -
अहिंसन्निति ।
तीर्थानि शास्त्रो­क्त­क­र्माणि, तेभ्योऽन्यत्र सर्व­प्रा­णि­हिं­सा­म­कु­र्व­न्ब्र­ह्म­लो­क­मा­प्नो­ती­त्यर्थः । अत्र भूतशब्दस्य प्राणिषु प्रयो­गा­त्सू­त्रो­क्त­म­न्त्रेऽपि तथेति भावः ।

भूतानां पाद­त्वेऽ­प्यं­शत्वं कुतः, तत्राह -
अंशः पाद इति ॥४४॥

जीवस्य पुरु­ष­सू­क्त­म­न्त्रो­क्त­भ­ग­व­दं­शत्वे भग­व­द्गी­ता­मु­दा­ह­रति सूत्रकारः -
अपि चेति ।

अत्य­न्त­भि­न्ने­शि­त्री­शि­त­व्य­भा­व­प्र­सिद्धेः ईशितव्यजीवस्य कथ­मी­श्व­रां­श­त्व­मि­त्या­शङ्क्य कल्पि­त­भे­दे­ना­पी­शि­त­व्य­त्वो­प­पत्तेः, अन­न्य­था­सि­द्धा­भे­द­शा­स्त्र­ब­ला­दं­श­त्व­मि­त्याह -
यत्त्वित्यादिना ।

औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह -
निरतिशयेति ।
नितरां हीनः शरीराद्युपाधिः, आज्ञा­नि­को­पा­धि­ता­र­त­म्या­दी­शे­शि­त­व्य­व्य­वस्था, न वस्तुतः । तदुक्तं सुरे­श्व­रा­चार्यैः 'ईशे­शि­त­व्य­स­म्बन्धः प्रत्य­ग­ज्ञा­न­हे­तुजः । सम्यग्ज्ञाने तमो­ध्व­स्ता­वी­श्व­रा­णा­म­पी­श्वरः ॥' इति ॥४५॥

उत्त­र­सू­त्र­म­व­ता­र­यति -
अत्राहेति ।
ईश्वरः स्वांश­दुः­खै­र्दुःखी, अंशित्वात् , देव­द­त्त­व­दि­त्यर्थः ।

ततः किम् , तत्राह -
ततश्चेति ।
ज्ञाना­त्स­र्वां­श­दुः­ख­स­म­ष्टि­प्रा­प्त्य­पे­क्षया संसारो वरं तत्र स्वदुः­ख­मा­त्रा­नु­भ­वा­दि­त्यर्थः ।

नैवम्पर इति प्रतिज्ञानं विभजते -
यथा जीव इति ।
देव­द­त्त­दृ­ष्टान्ते भ्रान्ति­का­म­क­र्म­रू­प­दुः­ख­सा­म­ग्री­म­त्त्व­मु­पाधिः, तद­भा­वा­न्ने­श्व­रस्य दुःखि­त्व­प्राप्तिः । उक्तं चैतदभेदेऽपि बिम्ब­प्र­ति­बि­म्ब­यो­र्ध­र्म­व्य­व­स्थेति भावः ।

दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति -
जीव­स्या­पी­त्या­दिना ।

भ्रान्तौ सत्यां दुःख­मि­त्य­न्व­य­मुक्त्वा भ्रान्त्यभावे दुःखा­भा­व­द­र्श­नाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह -
व्यतिरेकेति ।
इत­रे­ष्व­भि­मा­न­शू­न्ये­ष्वि­त्यर्थः ।

जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्य­स­र्व­ज्ञे­श्व­र­स्ये­त्याह -
अतश्चेति ।

एवमंशित्वे हेतोः सोपा­धि­क­त्व­मुक्त्वा यों 'शी स वस्तुतः स्वांश­ध­र्म­वा­निती व्याप्तिं स्थलत्रये व्यभिचारयति -
प्रकाशादिवदिति ।

वस्तुतः स्वांश­दुः­खि­त्व­सा­ध्यस्य देव­द­त्त­दृ­ष्टान्ते वैकल्यमप्याह -
जीवस्येति ।
कल्पि­त­दुः­खि­त्व­साध्यं तु भ्रान्त्या­द्य­भा­वा­दी­श्वरे नास्तीत्युक्तम् ।

किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्त­मा­ग­म­बा­धा­दि­त्याह -
तथा चेति ।
दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः ॥४६॥

स्मृत्या­प्य­नु­मानं बाध्यमित्याह -
स्मरन्ति चेति ।

सूत्रं व्याचष्टे -
स्मरन्तीति ।
तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः । दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसङ्ख्याको राशिर्लिङ्गम् ।

सूत्रे चशब्दः श्रुति­स­मु­च्च­यार्थ इत्याह -
चशब्दादिति ।
यथादित्यः प्राका­श्य­दो­षैर्न लिप्यते तथेत्यर्थः ।

यतो बाह्योऽ­स­ङ्ग­स्त­स्मान्न लिप्यते एव­मं­शि­त्व­कृ­त­मी­श्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहा­द्यु­पा­धि­क­मिति स्फुट­यि­तु­म­त्य­न्त­स्व­रू­पै­क्य­मा­दा­या­क्षि­पति -
अत्राहेत्यादिना ।
कथं तर्हि इत्यन्वयः । तद्भे­दा­दं­श­भे­दात् । निरवयवब्रह्मणो मुख्यांशो न सम्भवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशां­शि­त्वा­भा­वा­द­नु­ज्ञा­दि­भे­द­व्य­व­हा­रा­नु­प­प­त्ति­रि­त्या­क्षे­पा­भि­प्रायः ।

न वयं भेदस्यासत्त्वं नर­शृ­ङ्ग­व­द्ब्रूमः, किन्तु मिथ्यात्वं वदामः । तथा च देहा­द्यु­पा­धि­भे­दे­नां­श­जी­वा­ना­मा­ब्र­ह्म­बो­धा­त्क­ल्पि­त­भे­दा­द्भे­द­व्य­व­हा­रो­प­प­त्ति­रिति सूत्रेण समाधत्ते -
तामित्यादिना ॥४७॥

ननु भ्रान्तेः कुत­श्चि­न्नि­वृत्तौ व्यवहारविच्छेदः स्यादित्यत आह -
न ह्यस्या इत्यादिना ।
प्रतता सन्तता, विशेषो भेदः ।

अनि­यो­ज्य­त्वा­द्ब्र­ह्म­विदः शास्त्रा­न­र्थ­क्य­मि­ष्ट­मि­त्याह -
न तस्येति ।
नियो­ग­वि­ष­य­द्वै­ता­भा­वा­दा­त्म­न्य­साध्ये नियो­गा­नु­प­प­त्तेर्न ब्रह्म­वि­न्नि­योज्य इत्यर्थः ।

नन्वा­मु­ष्मि­क­फ­ल­हे­तुके कर्मणि देह­भि­न्ना­त्म­वि­वे­किन एवाधिकारो वाच्यः । तथा च ब्रह्म­वि­न्नि­योज्यः, विवेकित्वात् , कर्मा­धि­का­रि­व­दिति शङ्कते -
शरीरव्यतिरेकेति ।

परो­क्ष­वि­वे­क­स्या­प­रो­क्ष­भ्र­मा­वि­रो­धि­त्वा­त्क­र्मिणो देहा­भे­द­भ्र­मोऽस्ति, तथा च भ्रम उपाधिरिति परिहरति -
नेत्यादिना ।
यथा व्योम देहाद्भिन्नं तद्व­द­ह­मि­त्य­प­श्यतः भ्रान्त­स्ये­त्यर्थः ।

ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात् , सुषुप्तवदित्याह -
न हीति ।
देहा­दि­ष्व­सं­ह­त­त्व­द­र्शिनः संह­त­त्व­द­र्श­न­शू­न्यस्य भेद­भ्रा­न्ति­र­हि­तस्य सुषुप्तस्येति यावत् । अज्ञस्यापि भ्रान्त्य­भा­व­काले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः ।

अनियोज्यत्वे बाधकमाशङ्क्य परिहरति -
न चेति ।
विषयवैराग्यस्य ज्ञाना­र्थ­म­भ्य­स्तस्य ज्ञाना­न­न्त­र­म­नु­वृत्त्या विषयेषु प्रव­र्त­क­रा­ग­नि­वृ­त्ते­र्ना­ति­प्र­सङ्ग इत्यर्थः । तदुक्तं भगवता 'रसोऽ­प्यस्य परं दृष्ट्वा निवर्तते' इति ।

एव­म­नु­ज्ञा­दि­प्र­स­ङ्गे­ना­नि­यो­ज्यम् , विदुष उक्त्वा प्रकृ­ति­मु­प­सं­ह­रति -
तस्मादिति ।

एक­स्या­प्यु­पा­धि­भे­दा­द­नु­ज्ञा­प­रि­हा­र­यो­र्दृ­ष्टा­न्त­माह -
ज्योतिरिति ।
क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशा­ना­ग्नि­रि­त्यर्थः ॥४८॥

शङ्कोत्तरत्वेन सूत्रं व्याचष्टे -
स्याता­मि­त्या­दिना ।
यद्यपि स्थूल­दे­ह­स­म्ब­न्धा­दु­पा­दा­न­प­रि­त्यागौ स्यातां तथा­प्य­न्य­कृ­त­क­र्म­फ­ल­मि­त­रे­णापि भुज्येतेति कर्मफलव्यतिकरः साङ्कर्यं स्याद्दे­ह­वि­शि­ष्टस्य स्वर्गा­दि­भो­गा­यो­गे­ना­वि­शि­ष्टा­त्मन एकस्यैव भोक्तृत्वात् । तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः । भवेत्तदा साङ्कर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् । न त्वेतदस्ति । 'तद्गु­ण­सा­र­त्वात्' इत्यत्र मोक्षस्यापि, बुद्ध्यु­प­हि­त­स्यैव कर्तृ­त्वा­दि­स्था­प­नात् , तथा च बुद्धेः पर­दे­हा­स­म्ब­न्धा­त्त­दु­प­हि­त­जी­वस्य नास्ति परदेहसम्बन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मा­दि­सा­ङ्क­र्य­मिति समाधानार्थः ॥४९॥

अंशे­त्या­द्य­सूत्रे जीवस्यांशत्वं घटा­का­श­स्ये­वो­पा­ध्य­व­च्छे­द­बु­द्ध्यो­क्तम् , सम्प्रति एव­का­रे­णा­व­च्छे­द­प­क्षा­रुचिं सूचयन् 'रूपं रूपं प्रतिरूपो बभूव' इत्या­दि­श्रु­ति­सि­द्ध­म्प्र­ति­बि­म्ब­प­क्ष­मु­प­न्य­स्यति भगवान् सूत्रकारः -
आभास एव चेति ।
पर­मा­त्मै­वा­नु­प­हितो जीवो न भवति, उपाध्यनुभवात् । नापि ततो भिन्नः, 'स एष इह प्रविष्टः' इत्या­द्य­भे­द­श्रु­ति­स्मृ­ति­वि­रो­धात् । तस्मा­द­वि­द्या­त­त्का­र्य­बु­द्ध्या­दि­प्र­ति­बिम्ब एव जीव इत्यर्थः ।

अस्मिन् पक्षे बुद्धि­प्र­ति­बि­म्ब­भे­दा­त्स्वर्गी नार­की­त्या­दि­व्य­वस्था जीव­त्व­स्या­वि­द्य­क­त्वा­द्वि­द्यया मोक्ष­श्चे­त्यु­प­प­द्यत इत्याह -
अतश्चेत्यादिना ।
यस्त्वयं भास्करस्य प्रलापः प्रतिबिम्बस्य नोपा­धि­सं­सृ­ष्ट­तया कल्पितत्वं किन्तु स्वरूपेणैव, अतः कल्पि­त­प्र­ति­बि­म्बस्य मुक्तौ स्थित्ययोगान्न जीवत्वमिति स सिद्धा­न्त­र­ह­स्या­ज्ञा­न­कृत इत्युपेक्षणीयः । यदि दर्पणे मुखं शुक्तौ रजतवत्कल्पितं स्यात्तदा नेदं रजतमिति स्वरू­प­बा­ध­व­न्नेदं मुखमिति बाधः स्यात् । अतो नास्ति दर्पणे मुखमिति संस­र्ग­मा­त्र­बा­धा­न्म­दीयं मुख­मे­वे­द­मि­त्य­बा­धि­त­मु­खा­भे­दा­नु­भ­वा­त्सं­सृ­ष्ट­त्वे­नैव कल्पितत्वं प्रवे­श­वा­क्यै­श्चा­वि­कृ­त­ब्र­ह्मण एव प्रति­बि­म्ब­भा­वा­ख्य­प्र­वे­शो­क्तेर्न स्वरूपकल्पना, पराक्रान्तं चात्र दर्प­ण­टी­का­या­मा­चा­र्यै­रि­त्यु­प­र­म्यते ।

एवं स्वमते स्वरू­पै­क्येऽ­प्यु­प­हि­त­जी­व­भे­दा­द­सा­ङ्क­र्य­मु­क्तम् , सम्प्रति सूत्रे चकारसूचितं परेषां साङ्कर्यं वक्तुमुपक्रमते -
येषमित्यादिना ।
बुद्धि­सु­ख­दुः­खे­च्छा­द्वे­ष­प्र­य­त्न­ध­र्मा­ध­र्म­भा­वना नवा­त्म­वि­शे­ष­गुणाः, सन्नि­धा­ना­दी­त्या­दि­प­दा­दौ­दा­सी­न्य­मु­क्तम् ।

साङ्ख्यः स्वाभिप्रायं शङ्कते -
स्यादेतदिति ।
सर्वेषां पुंसां प्रकृ­ति­सा­न्नि­ध्या­द्य­वि­शे­षेऽपि प्रकृतिरेव प्रतिपुरुषं नियमेन भोगापवर्गार्थं प्रवर्तते, तथा चोद्दे­श्य­पु­रु­षा­र्थ­नि­यता प्रधा­न­प्र­वृ­त्ति­रिति भोगादिव्यवस्था, अन्यथा निय­त­प्र­वृ­त्त्य­न­ङ्गी­कारे स्वमा­हा­त्म्य­ख्या­प­नार्था प्रधानस्य प्रवृ­त्ति­रि­त्यु­द्दे­श्य­वि­घातः स्यादित्यर्थः ।

जड­प्र­धा­न­स्यो­द्दे­श्य­वि­वे­का­भा­वा­त्पु­रु­षा­र्थ­स्या­प्य­ना­ग­त­स्या­चे­त­न­स्या­नि­या­म­क­त्वान्न व्यवस्था, मान­यु­क्ति­शू­न्य­त्वा­दि­त्याह -
नैतदिति ।
यो हि निया­म­क­भा­वे­नो­द्दे­श्य­वि­घा­त­मा­पा­द­यति तं प्रति तस्यै­वा­पा­द­न­मि­ष्ट­मिति भावः ।

तार्किकमतेऽपि भोगा­दि­सा­ङ्क­र्य­मि­त्याह -
काणादानामिति ।

हेतु­र्म­नः­सं­योगः, फलं सुखादि, यदा­त्मा­दृ­ष्ट­कृतो यो मनःसंयोगः स तदात्मन एव सुखादिहेतुरिति व्यवस्थां शङ्कते -
स्यादेतदिति ।

सूत्रेण परिहरति -
नेत्याहेति ॥५०॥

पूर्व­व­न्म­नः­सं­यो­ग­व­द­दृ­ष्ट­स्यापि सर्वा­त्म­सा­ध­र­ण­त्वान्न व्यवस्थेत्यर्थः । रागा­दि­नि­य­मा­त्त­ज्जा­दृ­ष्ट­नि­यम इत्या­श­ङ्क्यो­त्त­र­त्वेन सूत्रं गृह्णाति -
स्यादे­त­दि­त्या­दिना ॥५१॥

अनियम उक्तदोषः । आत्मा­न्त­र­प्र­दे­शस्य परदेहे अन्त­र्भा­वा­द्व्य­व­स्थेति शङ्कार्थः ॥५२॥

किं मनसा संयु­क्ता­त्मै­वा­त्मनः प्रदेशः । उत कल्पितः । आद्ये सर्वात्मनां सर्वदेहेषु अन्त­र्भा­वा­द­व्य­वस्था । द्वितीयं दूषयति -
तत्र न वैशेषिकैरिति ।
सर्वा­त्म­सा­न्निध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः । निया­म­क­भा­वा­दि­त्यर्थः ।

प्रदे­श­क­ल्प­ना­म­ङ्गी­कृ­त्या­प्याह -
कल्प्येति ।

कार्य­म­भि­स­न्ध्या­दिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यव­स्था­मा­श­ङ्क्याह -
शरीरमपीति ।

प्रदेशपक्षे दोषान्तरमाह -
प्रदेशेति ।

यस्मि­न्ना­त्म­प्र­दे­शेऽ­दृ­ष्टो­त्पत्तिः स किं चलः स्थितो वा । नाद्यः, अचलें 'शिन्यं­शस्य चल­न­वि­भा­ग­यो­र­स­म्भ­वा­द­ण्वा­त्म­वा­दा­पा­ताच्च । द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोग­द­र्श­ना­द­दृ­ष्ट­म­स्ती­त्ये­के­नापि शरीरेण द्वयो­रा­त्म­नो­र्भो­ग­प्र­सङ्गः । यद्या­त्म­भे­दा­त्प्र­दे­श­यो­र्भे­द­स्त­दापि तयो­रे­क­दे­हा­न्त­र्भा­वा­द्भो­ग­सा­ङ्कर्यं तदवस्थं साव­य­वा­त्म­वा­द­प्र­प­ङ्गश्च । किञ्च यत्तु यत्रात्मनः प्रदेशे शरी­रा­दि­सं­यो­गा­द­दृ­ष्ट­मु­त्पन्नं तत्त­त्रै­वा­च­ल­प्र­देशे स्थितमिति स्वर्गा­दि­श­री­रा­व­च्छि­न्ना­त्म­न्य­दृ­ष्टा­भा­वा­द्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः । यत्त्व­त्रो­त्प­न्न­म­दृष्टं स्वाश्रये यत्र क्वचि­द्भो­ग­हे­तु­रिति स्वर्गा­दि­भो­ग­सि­द्धि­रिति । तन्न । भोग­श­री­रा­द्दू­र­स्था­दृष्टे मानाभावादिति भावः । यदपि केचिदाहुः - मनस एक­त्वेऽ­प्या­त्मनां भेदेन संयोगव्यक्तीनां भेदा­त्क­या­चि­त्सं­यो­ग­व्यक्त्या कस्मिं­श्चे­दे­वा­त्म­न्य­दृ­ष्टा­दि­क­मि­त्य­सा­ङ्क­र्य­मिति । तन्न । संयोगव्यक्तीनां वैजात्याभावेन सर्वा­सा­मे­वै­क­दे­हा­न्तः­स्थ­स­र्वा­त्म­स्व­दृ­ष्ट­हे­तु­त्वा­पत्तेः । तथा च सर्वा­त्म­ना­मे­क­स्मिन् देहे भोक्तृत्वं दुर्वारम् । किञ्च बहूनां विभु­त्व­म­ङ्गी­कृत्य साङ्कर्यमुक्तम् , सम्प्रति कर्तृणां विभु­त्व­म­सि­द्ध­म­ह­मि­है­वास्मि इत्य­ल्प­त्वा­नु­भ­वा­न्मा­ना­भा­वा­च्चे­त्याह -
सर्व­ग­त­त्वा­नु­प­प­त्ति­श्चेति ।

किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यम् , तच्चा­यु­क्त­म­दृ­ष्ट­त्वा­दि­त्याह -
वदेति ।
ननु रूप­र­सा­दी­ना­मे­क­घ­ट­स्थत्वं दृष्टमिति चेत् , नायमस्मत्सम्मतो दृष्टान्तः । रूपस्य तेजो­मा­त्र­त्वा­द्र­सस्य जल­मा­त्र­त्वा­द्ग­न्धस्य पृथि­वी­मा­त्र­त्वा­दि­त्येवं तत्तद्गुणस्य स्वस्व­ध­र्म्यं­शे­ना­भे­दा­त्ते­ज­आ­दि­ध­र्म्य­ति­रि­क्त­घ­टा­भा­वात् । किञ्चात्मनां बहु­त्व­म­प्य­सि­द्धम् , आत्म­त्व­रू­प­ल­क्ष­ण­स्या­भे­दात् , तथा च देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात् , यज्ञदत्तात्मवत् ।

अत्र वैशेषिकः शङ्कते -
अन्त्यविशेषेति ।
नित्य­द्र­व्य­मा­त्र­वृ­त्तयो विशेषास्ते च स्वयं स्वाश्र­य­व्या­व­र्तका एव न स्वेषां व्याव­र्त­क­म­पे­क्षन्त इत्यन्त्या उच्यन्ते । तथा च विशे­ष­रू­प­ल­क्ष­ण­भे­दा­द्भ­व­त्या­त्म­भेद इत्यर्थः । न ताव­दा­त्म­न्य­ना­त्मनः सका­शा­द्भे­द­ज्ञा­नार्था विशेषकल्पना, आत्म­त्वा­दे­वा­ना­त्म­भे­द­सिद्धेः । नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्म­भे­द­स्या­द्या­प्य­सिद्धेः । न च विशे­ष­भे­द­क­ल्प­ना­दे­वा­त्म­भे­द­क­ल्पना युक्ता, आत्म­भे­द­ज्ञ­प्ता­वा­त्मसु विशे­ष­भे­द­सि­द्धि­स्त­त्सिद्धौ तज्ज्ञ­प्ति­रि­त्य­न्यो­न्या­श्र­या­दिति परिहारार्थः ।

यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सोऽप्यसम्मत इत्याह -
आकाशादीनामिति ।
विभु­त्व­स्यै­क­वृ­त्तित्वे लाघवान्न विभुभेदः ।

यथै­क­स्मि­न्ना­काशे भेरीवीणादिभेदेन तार­म­न्द्रा­दि­श­ब्द­व्य­वस्था एव­मे­क­स्मि­न्न­प्या­त्मनि बुद्ध्यु­पा­धि­भे­देन सुखा­दि­व्य­व­स्थो­प­प­त्ते­रा­त्म­भे­देऽपि व्यव­स्था­नु­प­प­त्ते­रु­क्त­त्वा­न्मुधा भेद­क­ल्प­ने­त्यु­प­सं­ह­रति -
तस्मादिति ।
एवं भूत­भो­क्तृ­श्रु­तीनां विरो­धा­भा­वा­द्ब्र­ह्म­ण्य­द्वये समन्वय इति सिद्धम् ॥५३॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां द्विती­या­ध्या­यस्य तृतीयः पादः ॥३॥

पूर्वाधिकरणे कर्तुः स्वरूपं विचार्य तदु­प­क­र­णा­ना­मि­न्द्रि­या­णा­मु­त्पत्तिं साधयति -
तथा प्राणाः ।

भूत­भो­क्तृ­वि­चा­रा­न­न्तरं भौतिकप्राणविचार इति हेतुहेतुमद्भावं पादयोः सङ्गतिमाह -
वियदादीति ।

तमेव विप्रतिषेधमाह -
तत्रेत्यादिना ।

यद्यपि प्राणा­ना­म­नु­त्पत्तौ एक­वि­ज्ञा­न­प्र­ति­ज्ञा­नु­प­प­त्ते­र्वि­य­द­धि­क­र­ण­न्या­या­त्ते­षा­मु­त्पत्तिः सिध्यति तथापि प्रलये प्राण­स­द्भा­व­श्रु­ते­र्ग­ति­क­थ­ना­र्थ­मे­त­द­धि­क­र­ण­मि­त्य­पौ­न­रु­क्त्यम् । अत्र प्राणा विषयाः । ते किमुत्पद्यन्ते न वेति श्रुतीनां विप्रतिपत्त्या संशये तासां समबलत्वादनिर्णय इत्य­प्रा­मा­ण्य­मिति पूर्वपक्षफलम् , तत्र गौणवादी समाधानमाह -
अथवेति ।
प्राणानां प्रलये सद्भा­व­श्रु­ते­र्नि­र­व­का­श­त्वेन बली­य­स्त्वा­दु­त्प­त्ति­श्रु­ति­र्जी­वो­त्प­त्ति­श्रु­ति­व­द्गौ­णी­त्य­वि­रोध इत्यर्थः । अप्र­मा­ण­प­क्ष­व­द्गौ­ण­प­क्षोऽपि मुख्य­सि­द्धा­न्तिनः पूर्वपक्ष एवेति ज्ञाप­ना­र्थ­म­थ­वे­त्यु­क्तम् ।

मुख्य­सि­द्धा­न्त्याह -
अत इति ।

तथा­श­ब्द­मा­क्षि­पति -
कथमिति ।
आनु­लो­म्य­मा­ञ्ज­स्य­मि­त्यर्थः ।

साम्यं स्फुटयति -
यथादृष्टस्येति ।
दूषणवत्प्राणा इत्यनन्वितम् । यद्य­प्य­दृ­ष्ट­व­त्प्राणा अप्यनियता इति सूत्रमन्वेति तथापि पुनरुक्तम् । जीववत्प्राणा नोत्पद्यन्त इति सूत्रा­र्थ­श्चे­द­प­सि­द्धान्त इत्याक्षेपार्थः ।

समाधत्ते -
न । उदाहरणेति ।
दृष्टान्तो दार्ष्टा­न्ति­क­स­न्नि­हितो वाच्य इत्य­ङ्गी­कृ­त्यै­क­वा­क्य­स्थ­त्वेन सान्नि­ध्य­मु­क्तम् । सम्प्रति नायं नियमः ।

जैमिनिना भगवता व्यव­हि­त­दृ­ष्टा­न्त­स्या­श्रि­त­त्वा­दि­त्याह -
अथवेति ।
अस्ति तृती­या­ध्या­येऽ­श्व­प्र­ति­ग्र­हे­ष्ट्य­धि­क­र­णम् , तस्येदं विषयवाक्यम् , 'याव­तोऽ­श्वा­न्प्र­ति­गृ­ह्णी­या­त्ता­वतो वारु­णां­श्च­तु­ष्क­पा­ला­न्नि­र्व­पेत्' इत्ये­त­दु­त्त­रा­धि­क­रणे किमियं वारु­णी­ष्टि­र्दा­तु­रुत प्रति­ग्र­ही­तु­रिति विशये 'प्रति­गृ­ह्णी­यात्' इति श्रुतेः प्रति­ग्र­ही­तु­रि­त्या­शङ्क्य 'प्रजा­प­ति­र्व­रु­णा­या­श्व­म­न­यत्' इत्युपक्रमे दातृ­की­र्त­ना­ल्लि­ङ्गा­द­श्व­दा­तु­रे­वेति स्थास्यति, अतः प्रति­गृ­ह्णी­या­दि­त्यस्य पदस्याश्वान् यः प्रति­ग्रा­ह­ये­दि­त्यर्थः दद्यादिति यावत् । 'योऽश्व­दाता स वारुणीमिष्टिं कुर्यात्' इति वाक्यार्थे स्थिते चिन्ता - अश्व­दा­न­नि­मि­त्ते­य­मिष्टिः किं लौकिकेऽश्वदाने वैदिके वेति । तत्र 'न केसरिणो ददाति ' इति निषि­द्ध­लौ­कि­का­श्व­दाने दोष­स­म्भ­वा­त्त­न्नि­रा­सा­र्थे­य­मि­ष्टि­रिति दोषा­त्त्वि­ष्टि­र्लौ­किके स्यादिति सूत्रेण प्राप्ते सिद्धान्तः 'अत्र हि वरुणो वा एतं गृह्णाति योऽश्वं प्रति­गृ­ह्णाति' इति दातुर्दोषं सङ्की­र्त्ये­ष्टि­र्वि­हिता । वरुणशब्दो जलोदराख्यरोगे रूढः । न च लौकि­केऽ­श्व­दा­नेऽयं रोगो भवति इति प्रसिद्धम् । न चानेनैव वाक्येन प्रसिद्धिः । दाने दोष­स्त­न्नि­रा­सार्था चेष्टि­रि­ति­व­द­तोऽ­र्थ­भेदे वाक्यभेदात् । न च वृणोतीति व्युत्पत्त्या वरुणशब्दो निषे­धा­ति­क्र­म­कृ­त­दो­षा­नु­वा­दक इति युक्तम् , रूढि­त्या­गा­पा­तात् ।

तत्त्यागे च वैदिकेऽपि दानेऽ­श्व­त्या­ग­ज­न्य­दुःखं प्राप्त­मु­क्त­व्यु­त्पत्त्या शक्नो­त्य­नु­व­दि­तुम् , तस्मा­त्प्रा­प्ता­नु­वा­द्य­र्थ­वा­दोऽ­य­मिति यज्ञ­स­म्ब­न्धि­न्य­श्व­दाने इय­मि­ष्टि­रि­त्येवं विचार्योक्तम् -
पानव्यापच्च तद्वदिति ।
सोमपाने क्रियमाणे व्यापद्वमनं यदि स्यात्तदा 'एतं सौमेन्द्रं श्यामाकं चरुं निर्वपेत्' इति श्रूयते । तत्रा­श्व­प्र­ति­ग्र­हे­ष्ट्य­धि­क­र­ण­पू­र्व­प­क्ष­न्यायो बहु­सू­त्र­व्य­व­हि­त­स्त­द्व­दिति परामृश्यते, तद्वल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमनेऽयं चरुः स्याद्व­म­न­नि­मि­त्ते­न्द्रि­य­शो­षा­ख्य­दो­षस्य दृष्टस्य' इन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमति' इत्यनुवादादिति पूर्व­प­क्ष­सू­त्रार्थः । वैदिके तु सोमपाने शेष­प्र­ति­प­त्ते­र्जा­त­त्वा­द्व­म­नेऽपि न दोष इति सिद्धान्तः । लोके वम­न­कृ­ते­न्द्रि­य­शो­षस्य धातु­सा­म्य­क­र­त्वेन गुणत्वान्न दोषता । वेदे तु 'मा मे वाङ्ना­भि­म­तिगाः' इति सम्य­ग्ज­र­णा­र्थ­म­न्त्र­लि­ङ्गा­द्व­मने कर्म­वै­गु­ण्या­त्तस्य दोषता । तस्मा­द्वै­दि­क­सो­म­व­मने सौमे­न्द्र­श्च­रु­रिति स्थित­मि­त्ये­व­मा­दिषु सूत्रे­ष्वि­त्यर्थः ॥१॥

ननु प्रतिज्ञापि गौणी कं न स्यादित्यत आह -
तथा च प्रति­ज्ञा­ता­र्थ­मिति ।
उप­क्र­मो­प­सं­हा­राभ्यां प्रति­पि­पा­द­यि­षि­ता­द्वि­ती­य­त्व­प्र­ति­ज्ञा­नु­रो­धेन प्राणो­त्प­त्ति­र्मु­ख्यै­वेति भावः ।

मुण्ड­क­व­च्छ्रु­त्य­न्त­रेऽपि प्रति­ज्ञा­द­र्श­नात्सा मुख्येत्याह -
तथेति ।
एषा प्रतिज्ञा प्राणो­त्प­त्ति­मु­ख्यत्वे हेतुत्वेन द्रष्ट­व्ये­त्यर्थः ।

इदानीं प्रलये प्राण­स­त्व­श्रु­ते­र्गतिं प्रश्नपूर्वकमाह -
कथमित्यादिना ।
नेदं वाक्यं महाप्रलये परमकारणस्य ब्रह्मणः प्राणवत्त्वपरं किन्त्व­वा­न्त­र­प्र­लये हिर­ण्य­ग­र्भा­ख्या­वा­न्त­र­प्र­कृ­ति­रू­प­प्रा­ण­स­द्भा­व­प­र­मि­त्यर्थः ।

ननु हिर­ण्य­ग­र्भ­रू­प­वि­का­रस्य सत्त्वे कथं तदा विका­रा­स­त्त्व­क­थ­नम् , तत्राह -
स्वविकारेति ।
स्वस्य कार्यब्रह्मणो यत्कार्यं स्थूलं तस्यो­त्प­त्ति­रि­त्यर्थः । ननु यथाश्रुति महाप्रलये प्राणसद्भावरूपं लिङ्गं प्राणा­नु­त्प­त्ति­सा­धकं किमि­त्य­वा­न्त­र­प्र­ल­य­प­र­तया नीयत इति चेत् 'एत­स्मा­ज्जा­यते प्राणः' इत्यादि प्रब­ल­ज­न्म­श्रु­ति­ब­ला­दिति वदामः ।

ननु विकारस्य ब्रह्मणः कथं प्रकृ­ति­त्व­मि­त्यत आह -
व्याकृतेति ।
'हिर­ण्य­गर्भः सम­व­र्त­ताग्रे' इत्यादिश्रुतौ 'आदिकर्ता स भूतानां' इत्यादि स्मृतौ च विकारात्मनामपि मूल­का­र­णा­व­स्था­रू­पाणां ब्रह्म­वि­रा­डा­दीनां प्रकृ­ति­वि­का­र­भा­वेन प्रसिद्धिरस्ति । पूर्वापेक्षया विका­र­स्या­प्यु­त्त­रा­पे­क्षया प्रकृ­ति­त्व­मि­त्यर्थः ।

केचि­द्वि­य­द­धि­क­र­णा­नु­रो­धे­नेदं सूत्रं व्याचक्षते तान्दूषयति -
वियदिति ॥२॥

तस्य जायत इति पदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतेर्मुख्यं जन्मेति सूत्रयोजना -
तत्सामान्यादिति ।
तेना­का­शा­दि­ज­न्मना सामा­न्य­मे­क­श­ब्दो­क्तत्वं तस्मादित्यर्थः ।

एकस्मिन्वाक्ये एकस्य शब्दस्य क्वचि­न्मु­ख्यत्वं क्वचि­द्गौ­ण­त्व­मिति वैरूप्यं न युक्तमिति न्याय­म­न्य­त्रा­प्य­ति­दि­शति -
यत्रापि पश्चाच्छ्रुत इति ॥३॥

यच्चोक्तं छान्दोग्येऽपि प्राणा­ना­मु­त्प­त्तिर्न श्रूयत इति, तत्राह -
तत्पू­र्व­क­त्वा­द्वाच इति ।
अत्र सूत्रे वाक्पदं प्राण­म­न­सो­रु­प­ल­क्ष­णम् । वाक्प्राणमनसां तेजो­ब­न्न­पू­र्व­क­त्वो­क्ते­र­श्र­व­ण­म­सि­द्ध­मिति योजना । तैर्वा­गा­दि­भि­श्च­क्षु­रा­दीनां सामान्यं करणत्वं तत्सा­मा­न्या­दि­त्यर्थः । अत्र मयड्विकारे मुख्य इति पक्षे वर्तत एव प्राणानां ब्रह्मकार्यत्वं तेजोबन्नानां ब्रह्म­वि­का­र­त्वात् । यदि प्राणस्य वायो­र्ज­ल­वि­का­र­त्वा­यो­गा­त्त­द­धी­न­स्थि­ति­क­त्व­मा­त्रेण भाक्तस्तथापि प्राणानां विकारत्वे भूता­धी­न­स्थि­ति­कत्वं लिङ्गं मयटोक्तमिति सिद्धं ब्रह्मकार्यत्वं 'स प्राण­म­सृ­जत' इत्या­दि­श्रु­त्य­न्तरे स्पष्टं ब्रह्म­का­र्य­त्वो­क्तेश्च । तस्मा­त्प्रा­णा­ना­मु­त्प­त्ति­श्रु­तीनां सद्भा­व­श्रु­त्य­वि­रो­धा­त्का­रणे ब्रह्मणि समन्वय इति सिद्धम् । लिङ्ग­श­री­र­वि­चा­रा­त्म­का­धि­क­र­णानां लिङ्गा­त्त्व­म्प­दा­र्थ­भे­दधीः फलमिति द्रष्टव्यम् ॥४॥

एवं जन्म­ल­ब्ध­स­त्ता­कानां प्राणा­ना­मु­प­जी­व्यो­प­जी­व­क­त्व­स­ङ्गत्या सङ्ख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति -
सप्त­ग­ते­र्वि­शे­षि­त­त्वाच्च ।
विशयः संशयः । इन्द्रियाण्यत्र विषयः । पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ । ग्रहत्वं बन्धकत्वम् । गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विष­या­धी­न­मि­त्य­ति­ग्रहाः ग्रहा­न­ति­क्रान्ता विषया इत्यर्थः । द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञान­क­र्मे­न्द्रि­याणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धा­न्त­को­टि­रुक्ता । एत एव हृदयाख्यया बुद्ध्या सहद्वादश । अहङ्कारेण सह त्रयोदश । श्रुतितः सप्त­त्वा­व­ग­तेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्ष­ण्यो­द्दे­शेन प्राण­त्व­वि­शे­ष­णाद्वा शीर्षण्यानां प्राण­त्व­श­ब्दिता, इन्द्रि­य­त्व­प­रि­स­ङ्ख्यया सप्तैव प्राणा इति सूत्रयोजना ।

सप्तत्वं वीप्सा­वि­रु­द्ध­मिति शङ्कते -
नन्विति ।
गुहायां हृदये शेरत इति गुहाशयाः । स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः । चित्तेन चतुर्दशत्वं मन्तव्यम् ।

पूर्वपक्षी परिहरति -
नैष दोष इति ॥५॥

सिद्धा­न्ति­ना­प्ये­का­द­शसु मनो­वृ­त्ति­भे­दा­न्नि­श्च­या­त्मिका बुद्धिः, गर्वा­त्म­कोऽ­ह­ङ्कारः, स्मरणात्मकं चित्तमिति द्वाद­शा­दि­स­ङ्ख्या­न्त­र्भा­व­नीया । ततो वरं प्राथ­मि­क­स­प्त­त्वेऽ­न्त­र्भावः लाघवादिति प्राप्ते सिद्धान्तयति -
अत्रेति ।
आदानेन कर्मणा गृहीतः सम्बद्धः ।

सम्बन्धमेवाह -
हस्ताभ्यामिति ।
अतोऽ­धि­क­स­ङ्ख्याया न्यूना­या­म­न्त­र्भा­वा­यो­गा­त्स­प्तैव प्राणाः स्युर्ला­घ­वा­नु­रो­धा­दि­त्येवं न मन्त­व्य­मि­त्य­न्वयः ।

तर्हि कती­न्द्रि­या­णी­त्या­का­ङ्क्ष­या­माह -
उत्तरेति ।

'श्रुतीनां मिथो विरोधे सति माना­न्त­रा­नु­गृ­हीता श्रुति­र्ब­ली­यसी' इति न्यायेन कार्य­लि­ङ्गा­नु­मा­ना­नु­गृ­ही­तै­का­द­श­प्रा­ण­श्रु­त्य­नु­सा­रे­णान्याः श्रुतयो नेया इत्यभिसन्धायाह -
सत्यमिति ।

एका­द­श­का­र्य­लि­ङ्गा­न्याह -
शब्देति ।
त्रयः काला­स्त्रै­काल्यं तद्विषया वृत्तिर्यस्य तत्रै­का­ल्य­वृत्ति । इन्द्रि­या­न्त­राणां वर्त­मा­न­मा­त्रा­ग्रा­हि­त्वा­द­ती­ता­दि­ज्ञा­नाय मनोऽ­ङ्गी­का­र्य­मि­त्यर्थः ।

विशे­षि­त­त्वा­दि­त्युक्तं निरस्यति -
अपि च सप्तेति ।

न च तावतामिति ।
आदानादीनां श्रोत्रा­दि­भ्योऽ­त्य­न्त­वै­जा­त्या­दि­त्यर्थः । तेषां तद्वृत्तित्वे बधि­रा­दी­ना­मा­दा­नादि न स्यादिति भावः ।

कथं तर्हि छिद्रे प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह -
मुख्यस्य त्विति ।
'सप्त प्राणाः प्रभवन्ति' इत्युपासनार्थम् । 'अष्टौ ग्रहा' इति श्रुति­स्तू­प­ल­क्ष­णार्था । पायू­प­स्थ­पा­दा­ना­मपि बन्ध­क­त्वा­वि­शे­षा­दिति विवेक्तव्यम् ।

नन्विदं सूत्र­व्या­ख्या­न­म­स­ङ्गतं पञ्च­धी­न्द्रि­य­वा­ङ्म­नसां सप्तत्वावगतिः शीर्षण्यानां चतुर्णां विशेषितत्वमिति हेतो­र्वै­य­धि­क­र­ण्या­दु­क्त­प­रि­स­ङ्ख्या­दो­षा­च्चे­त्य­रु­चे­राह -
इयमपरेति ।

इन्द्रियाणि कतीति सन्देहे पूर्वपक्षसूत्रं योजयति -
सप्तेति ।
तं जीवात्मानं ये प्राणाः सह गच्छन्ति तेषामेव भोग­हे­तु­त्वा­दि­न्द्रि­य­त्व­मि­त्यर्थः । विप­न्ना­व­स्था­या­मेष चाक्षु­ष­श्च­क्षुषि स्थितोऽ­नु­ग्रा­ह­क­सू­र्यां­श­रूपः पुरुषः परा­ङ्प­र्या­व­र्तते बहि­र्दे­शा­त्स्वां­शिनं सुर्यं प्रतिगच्छति । अथ तदानीमयं मुमू­र्षु­र­रू­पज्ञो भवति । देवांशे देवं प्रविष्टे लिङ्गां­श­श्च­क्षु­र्हृ­दये मनसैकीभवति तदायं न पश्यतीति पार्श्वस्था आहुरित्यर्थः । आदिपदात् 'न जिघ्रति न वदति न रमयते न शृणोति न मनुते न स्पृशति न विजानाति' इति गृह्यते ।

सप्तानामेव जीवेन सह गतिरित्यसिद्धम् , ग्रहत्वश्रुत्या हस्तादीनामपि गतिप्रतीतेरिति सिद्धान्तयति -
एवमित्यादिना ।

हस्तादिबन्धस्य प्राङ्मो­क्षा­त्स­ह­गतौ स्मृतिमाह -
पुर्यष्टकेनेति ।

प्राणादिपञ्चकं भूत­सू­क्ष्म­प­ञ्चकं ज्ञाने­न्द्रि­य­प­ञ्चकं कर्मे­न्द्रि­य­प­ञ्च­क­म­न्तः­क­र­ण­च­तु­ष्ट­य­म­विद्या कामः कर्म चेति पुर्य­ष्ट­क­मा­त्मनो ज्ञाप­क­त्वा­ल्लिङ्गं सति सम्भवे सर्व­श्रु­ति­स­ङ्कोचो न युक्त इत्याह -
सर्वशब्दोऽपीति ।
तस्मा­त्स­ङ्ख्या­श्रु­ती­ना­म­वि­रो­धा­दे­का­द­शे­न्द्रि­य­का­रणे ब्रह्मणि समन्वय इति सिद्धम् ॥६॥

अणवश्च ।

'प्राणाः सर्वेऽ­नन्ताः' इति श्रुते­रि­न्द्रि­याणां विभु­त्वा­त्ते­षा­मु­त्क्रा­न्ति­र­सिद्धा किन्तु तत्तद्देहे तेषा­म­भि­व्य­क्ति­रूपाः प्रादेशिक्यो वृत्तयः सन्ति न तासा­मु­त्क्रा­न्त्या­दि­रिति साङ्ख्या­ना­मा­क्षेपः, तत्सङ्गत्या प्राणाः किम्परिमाणा इति सन्देहे सिद्धान्तयति -
अधुनेत्यादिना ।
उत्प­त्ति­स­ङ्ख्या­नि­र्ण­या­न­न्तरं परिमाणं निरूप्यत इत्यर्थः । अनु­द्भू­त­रू­प­स्प­र्शत्वं सूक्ष्मत्वम् । परि­च्छे­दोऽ­ल्प­त्वम् ।

बुद्ध्यादीनां विभुत्वे तदु­पा­धि­क­मा­त्म­नोऽ­णु­त्वा­दिकं न सिद्ध्ये­दि­त्यु­क्त­न्या­य­वि­रो­ध­माह -
तद्गु­ण­सा­र­त्व­मिति ।

उक्ता­क्षे­प­म­नूद्य निरस्यति -
सर्वगतानामिति ।
आन­न्त्य­श्रु­ते­रु­पा­स­ना­र्थ­त्वा­न्नो­त्क्रा­न्त्या­दि­श्रु­तीनां तया विरोध इति सिद्धम् ॥७॥

श्रेष्ठश्च ।

अतिदेशत्वान्न सङ्ग­त्या­द्य­पेक्षा । 'तथा प्राणाः' इत्यु­क्त­न्या­योऽ­त्रा­ति­दि­श्यते । ननु प्राणो जायते न वेति संश­या­भा­वा­द­ति­देशो न युक्त इत्याक्षिपति -
किमर्थ इति ।

निश्चि­त­म­हा­प्र­लये प्राण­स­द्भा­व­श्रु­त्या­धिकां शङ्कामाह -
नासदासीये हीति ।
'नास­दा­सीत्' इत्यारभ्याधीत इत्यर्थः । तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत् , अमृतं च देवभोग्यं नासीत् , रात्र्याः प्रके­त­श्चि­ह्न­रू­प­श्चन्द्रः अह्नः प्रकेतः सूर्यश्च नास्ताम् , स्वधया सहेत्यन्वयः । पितृभ्यो देयमन्नं स्वधा । यद्वा स्वेन धृता माया स्वधा तया सह तदेकं ब्रह्मा­नी­दा­सी­दिति परमार्थः । अत्रानीदिति तच्चेष्टां कृतवदिति पूर्वपक्षार्थः । तस्माद्ब्रह्मणः परः पर­मु­त्कृ­ष्ट­म­न्यच्च किमपि न बभूवेत्यर्थः । परिहारः सुबोधः ।

ननु श्रेष्ठशब्दस्य प्राणे प्रसि­द्ध्य­भा­वा­त्कथं सूत्रमिति, तत्राह -
श्रेष्ठ इति चेति ।

श्रुतिं व्याचष्टे -
ज्येष्ठश्च प्राण इत्यादिना ।
पूयेत पूयं भवेत् । न सम्भ­वे­त्त­द्गर्भो न भवेदित्यर्थः । वागा­दि­जी­व­न­हे­तुत्वं प्राणस्य गुणः । एव­मा­नी­च्छ्रु­त्य­वि­रो­धा­त्प्रा­णो­त्प­त्ति­श्रु­तीनां ब्रह्मणि समन्वय इति सिद्धम् ॥८॥

इन्द्रियाणि विचार्य तद्व्या­पा­रा­त्प्राणं पृथ­क्क­र्तु­मु­त्प­त्ति­र­ति­दिष्टा । सम्प्र­त्यु­त्प­न्न­प्रा­ण­स्व­रूपं पृथक्करोति -
न वायुक्रिये पृथगुपदेशात् ।

मुख्यः प्राणः किं वायुमात्रमुत करणानां साधारणव्यापार आहो­स्वि­त्त­त्त्वा­न्त­र­मिति वायु­प्रा­ण­यो­र्भे­दा­भे­द­श्रु­तीनां मिथो­वि­रो­धा­त्सं­शये पूर्वपक्षमाह -
तत्रेति ।

द्वितीयं साङ्ख्य­पू­र्व­प­क्ष­माह -
अथवेति ।

सिद्धान्तत्वेन सूत्रमादत्ते -
अत्रोच्यत इति ।
मनोरूपब्रह्मणो वाक्प्रा­ण­च­क्षुः­श्रो­त्रै­श्च­तु­ष्पात्त्वं श्रुतावुक्तम् , तत्र प्राणो वायुनाधिदैविकेन भात्य­भि­व्य­ञ्ज्यते अभिव्यक्तः संस्तपति । कार्यक्षमो भवतीत्यर्थः ।

श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथ­गु­त्प­त्ति­लि­ङ्गेन चेन्द्रि­य­त­द­भि­न्न­व्या­पा­रे­भ्योऽपि भिन्नत्वमित्याह -
तथेति ।

प्राण­स्ये­न्द्रि­य­वृ­त्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति -
न च समस्तानामिति ।
या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रा­दि­साध्या, करणानां प्रत्ये­क­मे­कै­क­रू­प­ग्र­हा­दि­वृ­त्ता­वैव हेतुत्वात् । न च समुदायस्य वृत्तिः सम्भवति तस्या­स­त्त्वा­दि­त्यर्थः ।

प्राणाभावादिति ।
श्रोत्रा­दी­ना­मे­क­प्रा­ण­ना­ख्य­वृ­त्त्य­नु­कू­ल­प­रि­स्प­न्देषु मानाभावात् , श्रव­णा­दी­ना­म­प­रि­स्प­न्द­त्वेन विजातीयानाम् , परि­स्प­न्द­रू­प­प्रा­ण­ना­न­नु­कू­ल­त्वा­द­वा­न्त­र­व्या­पा­रा­भा­वान्न समस्तकरणवृत्तिः प्राण इत्यर्थः ।

किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यम् , नैतदस्तीत्याह -
तथा प्राणस्येति ।

यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात् , तथा वायोर्विकारः प्राण इत्य­भे­द­श्रु­ते­र्ग­ति­माह -
उच्यत इति ।
देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः ॥९॥

प्राणस्य कर­ण­वृ­त्ति­त्वा­भावे जीव­व­द्भो­क्तृत्वं स्यादिति शङ्कते -
स्यादेतदिति ।

प्राणो न भोक्ता, भोगोपकरणत्वात् , चक्षुरादिवदिति सूत्रार्थमाह -
तुशब्द इत्यादिना ।
यथा बृहद्रथन्तरयोः सर्वत्र सह­प्र­यु­ज्य­मा­न­त्वेन सामत्वेन वा साम्या­त्स­ह­पा­ठ­स्तथा करणैः सहोपकरणत्वेन साम्या­त्प्रा­णस्य पाठ इति न हेत्व­सि­द्धि­रि­त्यर्थः । किञ्च प्राणो न भोक्ता, सावयवत्वात् , जड­त्वा­द्भौ­ति­क­त्वाच्च, देहवत् ॥१०॥

ननु यद्भोगोपकरणं तत्सविषयं दृष्टं यथा चक्षुरादिकम् , प्राणस्य तु निर्वि­ष­य­त्वा­द­सा­धा­र­ण­का­र्या­भा­वाच्च नोपकरणत्वमिति शङ्कते -
स्यादेतदिति ।

उक्तव्याप्तेः शरीरे व्यभि­चा­रा­द्दे­हे­न्द्रि­य­धा­र­णो­त्क्रा­न्त्या­द्य­सा­धा­र­ण­का­र्य­स­त्वाच्च निर्विषयस्यापि प्राणस्य शरी­र­व­द्भो­गो­प­क­र­ण­त्व­म­क्षतं न तु चक्षु­रा­दि­व­ज्ज्ञा­न­क­र्म­क­र­ण­त्व­मस्ति येन सविषयत्वं स्यादिति परिहरति -
न तावदित्यादिना ।
अहंश्रेयसि स्वस्य श्रेष्ठ­ता­नि­मि­त्तम् । व्यूदिरे विवादं चक्रिरे ।

तद्वृ­त्ति­मा­त्र­ही­न­मिति ।
मूकादिभावेन स्थितमित्यर्थः । अवरं नीचम् , कुलायं देहाख्यं गृहम् , प्राणेन रक्षञ्जीवः स्वपितीत्यर्थः । तदैव तदानीमेव । तेन प्राणेन यदश्नाति जीवस्तेन प्राण­कृ­ता­श­ने­नेति यावत् । एवं श्रुतेः प्राण­स्या­सा­धा­रणं कार्य­म­स्ती­त्यु­क्तम् ॥११॥

तत्रैव हेत्वन्तरार्थं सूत्रं व्याचष्टे -
इतश्चेत्यादिना ।
वृत्तिरवस्था । अग्निमन्थनादिकं वीर्यवत्कर्म ।

कामा­दि­वृ­त्ति­व­ज्ज्ञा­नेऽपि पञ्चत्वनियमो नास्तीत्यरुचिं स्वयमेवोद्भाव्य पक्षान्तरं गृह्णाति -
नन्व­त्रा­पी­त्या­दिना ।
प्रमाणं प्रमितिः विपर्ययो भ्रमः । शश­वि­षा­णा­दि­ज्ञानं विकल्पः । तामसी वृत्तिर्निद्रा । स्मृतिः प्रसिद्धा ।

भ्रम­नि­द्र­यो­र­वि­द्या­वृ­त्ति­त्वान्न मनो­वृ­त्ति­त्व­मि­त्य­रुच्या स्वमतमाह -
बह्विति ।

सूत्र­स्या­र्था­न्त­र­माह -
जीवेति ।
तदेवं प्राण­वा­यो­र्भे­दा­भे­द­श्रु­त्यो­र­वि­रोध इति सिद्धम् ॥१२॥

एवं मुख्य­प्रा­ण­स्यो­त्पत्तिं स्वरूपं चोक्त्वा परि­मा­ण­स­न्दे­हेऽ­णु­त्व­मु­प­दि­शति -
अणुश्चेति ।

अधिकाशङ्कामाह -
ननु विभुत्वमपीति ।
प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्ति­के­त्यु­च्यते । नागो हस्ती ।

प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाति, समोऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्या­त्मि­क­प्रा­ण­स्या­ल्प­त्व­मा­धि­दै­वि­कस्य विभुत्वमिति विष­य­भे­दा­च्छ्रु­त्यो­र­वि­रोध इति समाधत्ते -
तदुच्यत इति ।
किञ्चोपक्रमे प्राणस्य प्लुष्या­दि­स­म­त्वे­ना­ल्प­त्वोक्तेः सम एभि­स्त्रि­भि­र्लो­कै­रिति विरा­ड्दे­ह­सा­म्यम् ।

समोऽनेनेति सूत्रा­त्म­त्व­मिति विषयव्यवस्था सुस्थेत्याह -
अपि चेति ।
अणवश्चेत्यत्र सर्वेऽनन्ता इति इन्द्रि­या­न­न्त्य­मु­पा­स­ना­र्थ­मिति समाहितम् , अत्र तु प्राण­वि­भु­त्व­मा­धि­दै­वि­क­मिति समा­धा­ना­न्त­रो­क्ते­र­पौ­न­रु­क्त्यम् । अन्ये तु प्रसङ्गात्तत्र साङ्ख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्य­पौ­न­रु­क्त्य­माहुः ॥१३॥

पूर्वं प्राण­स्या­ध्या­त्मि­का­धि­दै­वि­क­वि­भा­गे­ना­प्य­णु­त्व­वि­भु­त्व­व्य­व­स्थोक्ता तत्प्र­स­ङ्गे­ना­ध्या­त्मि­कानां प्राणा­ना­मा­धि­दै­वि­का­धी­न­त्व­माह -
ज्योति­रा­द्य­धि­ष्ठानं तु तदामननात् ।
'वाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यति' इति तृती­या­श्रु­त्या­न्व­य­व्य­ति­रे­क­वत्या वागादीनां निर­पे­क्ष­सा­ध­न­त्वो­क्ति­वि­रो­धात् 'अग्नि­र्वा­ग्भूत्वा' इत्या­दि­श्रु­ति­स्ते­षा­म­चे­त­ना­ग्न्या­द्यु­पा­दा­न­क­त्व­परा न तु तेषा­म­धि­ष्ठा­तृ­दे­व­ता­परा । न च स्वकार्ये शक्तानामपि वागा­दी­ना­म­चे­त­न­त्वा­द­धि­ष्ठा­त्र­पेक्षा न विरुध्यत इति वाच्यम् , जीव­स्या­धि­ष्ठा­तृ­त्वात् । किञ्च देव­ता­ना­म­धि­ष्ठा­तृत्वे जीव­व­द्भो­क्तृ­त्व­म­स्मिन् देहे स्यात् , तथा चैक­त्रा­ने­क­भो­क्तृणां विरो­धा­द्दु­र्ब­लस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः ।

सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।

अग्नि­र्वा­ग्भू­त्वा­दि­त्य­श्च­क्षु­र्भू­त्वेति च तद्भा­वोऽ­त्रा­ग्न्या­दि­दे­व­ता­धि­ष्ठे­य­त्व­रूप एव सम्बन्धो न तदु­पा­दा­न­क­त्व­रूपो दूर­स्था­दि­त्य­म­ण्ड­ला­दे­र्मु­ख­स्थ­च­क्षु­रा­द्यु­पा­दा­न­त्वा­स­म्भ­वा­दि­त्याह -
अग्नेश्चायमिति ।

वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्ये­य­मि­त्याह -
तथेति ।
भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः ।

एत­स्मि­न्न­धि­ष्ठा­त्र­धि­ष्ठे­य­त्व­रू­पार्थे लिङ्गान्तरमाह -
स वै वाचमिति ।
स प्राणो वाचं प्रथ­मा­मु­द्गी­थ­क­र्मणि प्रधा­ना­म­नृ­ता­दि­पा­प्म­रूपं मृत्यु­म­ती­त्या­व­ह­न्मृ­त्युना मुक्तां कृत्वा अग्नि­दे­व­ता­त्मत्वं प्रापि­त­वा­नि­त्यर्थः ।

किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षु­रा­दि­त्य­मि­त्या­दि­श्रु­ति­र­प्य­धि­ष्ठा­त्र­धि­ष्ठे­य­त्व­स­म्बन्धं द्योतयतीत्याह -
सर्वत्रेति ।

ननु शकटादीनां बली­व­र्दा­दि­प्रे­रि­तानां प्रवृ­त्ति­र्दृष्टा, क्षीरादीनां त्वन­धि­ष्ठि­ता­ना­मपि दध्या­दि­प्र­वृ­त्ति­र्दृ­श्यते, तथा चोभयथासम्भवे कथं निश्चयः, तत्राह -
उभयथोपपत्तौ चेति ।

उक्त­दो­षा­न्त­र­नि­रा­साय सूत्रमवतारयति -
यदपीति ॥१४॥

शारीरेणैवेति ।
भोक्त्रेति शेषः । सम्बन्धो भोक्तृभोग्यभावः । अथ देहे प्राण­प्र­वे­शा­न­न्तरं यत्र गोलके एत­च्छि­द्र­म­नु­प्र­विष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः । यद्यप्यात्मा करणान्यपेक्षते तथापि ज्ञेय­ज्ञा­न­त­दा­श्र­या­ह­ङ्का­रान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धा­दि­प्र­वृ­त्त­येऽ­पे­क्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः ।

किञ्च योऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रति­स­न्धा­ना­देकः शारीर एव भोक्ता न बहवो देवा इत्याह -
अपि चेति ॥१५॥

कदा­चि­द्दे­वा­ना­मत्र भोक्तृत्वं कदा­चि­ज्जी­व­स्ये­त्य­नि­य­मोऽ­स्त्वि­त्या­शङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृ­त्व­नि­य­मा­न्मै­व­मि­त्याह - सूत्रकारः -
तस्य चेति ।

उत्क्रमाणादिषु जीवस्य प्राणा­व्य­भि­चा­रा­त्त­स्यैव प्राण­स्वा­मि­त्वम् , देवतानां तु पर­स्वा­मि­क­र­थ­सा­र­थि­व­द­धि­ष्ठा­तृ­त्व­मा­त्र­मिति व्याख्यान्तरमाह -
शारीरेणैव च नित्य इति ।
यथा प्रदीपादिः करणोपकारकतया कर­ण­प­क्ष­स्या­न्त­र्ग­त­स्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः । जीव­स्या­दृ­ष्ट­द्वारा कर­णा­धि­ष्ठा­तृ­त्वा­द्र­थ­स्वा­मि­व­द्भो­क्तृ­त्वम् , देवानां तु कर­णो­प­का­रा­भि­ज्ञ­तया सार­थि­व­द­धि­ष्ठा­तृ­त्व­मिति न जीवे­ना­न्य­था­सिद्धिः । देवा­ना­म­धि­ष्ठा­तृ­त्वे­ना­स्मि­न्देहे भोक्तृ­त्वा­नु­मानं तु 'न ह वै देवान् पापं गच्छति' इत्यु­क्त­श्रु­ति­बा­धि­तम् । तस्मात् 'चक्षुषा हि रूपाणि पश्यति' इति श्रुतेः साध­न­त्व­मा­त्र­बो­धि­त्वा­द­ग्नि­र्वा­ग्भू­त्वे­त्या­द्य­धि­ष्ठा­तृ­दे­व­ता­पे­क्षा­बो­ध­क­श्रु­ति­भि­र­वि­रोध इति सिद्धम् ॥१६॥

सत्स्वि­न्द्रि­येषु तद­धि­ष्ठा­तृ­दे­व­ता­चिन्ता, तान्येव प्राण­वृ­त्ति­व्य­ति­रे­केण न सन्तीत्याक्षेपं प्रत्याह -
त इन्द्रियाणि तद्व्य­प­दे­शा­द­न्यत्र श्रेष्ठात् ।

प्राणा­दि­न्द्रि­याणां भेदा­भे­द­श्रु­तिभ्यां संशयं वदन् पूर्वपक्षयति -
मुख्य­श्चे­त्या­दिना ।
हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति सङ्कल्प्य ते वागा­द­य­स्त­था­भ­व­न्नि­त्य­भे­द­श्रु­त्यर्थः ।

ते प्राणादभिन्नाः, प्राण­प­द­वा­च्य­त्वात् , प्राणवदित्याह -
प्राणेति ।

ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रति­ज्ञा­र्थ­त्वेन पदत्रयं व्याचष्टे -
तत्त्वा­न्त­रा­ण्ये­वेति ।
तद्व्य­प­दे­शा­दि­त्यत्र तच्चब्दः प्रति­ज्ञा­ता­न्यत्वं परामृशति ।

प्राणा इन्द्रि­या­णी­त्य­प­र्या­य­श­ब्दा­भ्या­म­न्य­त्वो­क्ते­रिति हेतू­प­पा­द­ना­र्थ­त्वेन पुनस्तानि सूत्रपदानि योजयति -
क इत्यादिना ।
सूत्रस्य विश्व­तो­मु­ख­त्वा­दु­भ­या­र्थ­त्व­म­ल­ङ्कार एव न दूषणम् । एतेन प्रति­ज्ञा­ध्या­हारः तच्छ­ब्द­स्या­प्र­कृ­त­भे­द­प­रा­म­र्शित्वं चेति दोषद्वयमपास्तम् ।

शब्द­भे­दा­द्व­स्तु­भे­द­सा­ध­नेऽ­ति­प्र­सङ्गं शङ्कते -
नन्विति ।
प्राणवन्मनसोऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः ।

अप­र्या­य­सं­ज्ञा­भे­दा­त्स्व­त­न्त्र­सं­ज्ञि­व­स्तु­भेद इत्युत्सर्गः । स च 'मनः षष्ठा­नी­न्द्रि­याणि' इत्या­दि­स्मृ­ति­बा­धा­न्म­न­स्य­पो­द्यते, प्राणे तु बाध­का­भा­वा­दु­त्स­र्ग­सि­द्धि­रिति समाधत्ते -
सत्यमित्यादिना ।
मन इन्द्रियाणि चेति भेदो­क्ति­र्गो­ब­ली­व­र्द­न्या­येन नेया । सिद्धान्ते मनसः प्रमो­पा­दा­न­त्वा­दा­त्म­व­द­नि­न्द्रि­य­त्व­मिष्टं ततो नोत्सर्गबाध इति केचित् ।

किञ्च 'एत­स्मा­ज्जा­यते प्राणो मनः सर्वेन्द्रियाणि च' इति पृथ­ग्ज­न्म­व्य­प­दे­शा­त्स्व­त­न्त्र­व­स्तु­भेद इत्याह -
व्यप­दे­श­भे­द­श्चा­य­मिति ।
एकस्मिन् वाक्ये प्राण इन्द्रि­य­श­ब्द­मै­क्या­ल्ल­भते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः ॥१७॥

एवं भेदे­ना­प­र्या­य­सं­ज्ञा­भ्या­मुक्तेः पृथ­ग्ज­नो­क्ते­श्चेति तद्व्यपदेशादिति हेतु­र्व्या­ख्यातः । भेदश्रुतेरिति सूत्रेण प्रकरणभेदो हेतुरुक्त इति न पौनरुक्त्यम् । ते ह देवाः शास्त्री­ये­न्द्रि­य­म­नो­वृ­त्ति­रूपा असुराणां पाप­वृ­त्ति­रू­पाणां जया­र्थ­मु­द्गी­थ­क­र्मणि प्रथमं व्यापृतां वाचमूचुस्तन्न उद्गा­या­सु­र­ना­शा­र्थ­मिति तथा­स्त्वि­त्य­ङ्गी­कृ­त्यो­द्गा­यन्तीं वाचमनृतादिदोषेण विध्वं­सि­त­व­न्तोऽ­सुरा इत्येवं क्रमेण सर्वे­ष्वि­न्द्रि­येषु पापग्रस्तेषु पश्चादथेति प्रकरणं विच्छिद्य प्रसिद्धमास्ये भवमासन्यं मुख्यं प्राणमूचुस्तन्न तद्गायेति तेन प्राणे­नो­द्गात्रा निर्विषयतया सङ्ग­दो­ष­शू­न्ये­ना­सुरा नष्टा इत्यसुराणां विध्वंसिनो मुख्य­प्रा­ण­स्यो­क्ते­र्भे­द­सि­द्धि­रि­त्याह -
ते हेति ।
तानि त्रीण्य­न्या­न्या­त्मने स्वार्थं प्रजापतिः कृतवानित्यर्थः ॥१८॥

विरु­द्ध­ध­र्म­व­त्त्वाच्च भेद इत्याह -
वैल­क्ष­ण्या­च्चेति ।
मृत्यु­रा­स­ङ्ग­दोषः । वाग्दध्रे व्रतं धृतवतीत्यर्थः । बहु­भि­र्भे­द­लि­ङ्गै­र्वि­रो­धा­द्वा­गा­दीनां प्राणरूपभवनं प्राणा­धी­न­स्थि­ति­क­त्व­रूपं व्याख्येयम् । एतदेव प्राण­श­ब्द­स्ये­न्द्रि­येषु लक्षणाबीजं श्रुतौ 'तस्मादेत एते­ना­ख्या­यन्त' इति परामृष्टम् , इति न भेदा­भे­द­श्रु­त्यो­र्वि­रोध इति सिद्धम् ॥१९॥

उत्प­त्ति­रु­त्पा­द­नेति च कार्य­क­र्त्रो­र्व्या­पारौ प्रसिद्धौ तत्र जग­दु­त्प­त्ति­श्रु­ति­वि­रोधः अतीतेन पादद्वयेन निरस्तः, सम्प्र­त्यु­त्पा­द­न­श्रु­ति­वि­रोधो निरस्यते । तत्रापि सूक्ष्म­भू­तो­त्पा­दनं पारमेश्वरमेवेति श्रुति­ष्व­वि­प्र­ति­प­न्नम् , स्थूल­भू­तो­त्पा­दने त्वस्ति श्रुति­वि­प्र­ति­प­त्ति­रिति तन्निरासार्थमाह -
संज्ञा­मू­र्ति­कॢ­प्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।
नाम­रू­प­भे­दा­त्क­र­ण­भिन्नः प्राण इत्युक्तम् , तत्प्रसङ्गेन स्थूल­ना­म­रू­प­कॢप्तिः किङ्कर्तृकेति चिन्त्यत इत्य­वा­न्त­र­स­ङ्गतिः । प्रक्रिया प्रकरणम् ।

ईक्षणमेवाह -
हन्तेत्यादिना ।
हन्त इदानीं देवताः सूक्ष्मा अनुप्रविश्येति सम्बन्धः । तासां तिसृणां देवतानामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्ची­क­र­णो­प­ल­क्ष­णार्था । छान्दो­ग्येऽ­प्या­का­श­वा­य्वो­रु­प­सं­हा­र­स्यो­क्त­त्वात् । एवं स्थूलीकृतेषु भूतेषु प्राणिनां व्यवहारः सेत्स्यतीति पर­दे­व­ता­या­स्ता­त्प­र्यम् ।

जीवेनेतिपदस्य व्याक­र­वा­णी­त्य­नेन सम्ब­न्ध­स­म्भ­वा­स­म्भ­वाभ्यां संशयमाह -
तत्रेति ।
पूर्वपक्षे जीवस्यैव भौति­क­स्र­ष्टृ­त्वा­द्ब्र­ह्मणः सर्व­स्र­ष्टृ­त्वा­सिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।

जीवेनेत्यस्य व्याक­र­वा­णी­ति­प्र­धा­न­क्रि­या­प­देन सम्बन्ध इति पूर्वपक्षमाह -
तत्र प्राप्तमिति ।

परदेवताया अकर्तृत्वे कथ­मु­त्त­म­पु­रु­ष­प्र­योग इत्याशङ्क्य प्रयो­ज­क­त्वा­त्क­र्तृ­त्वो­प­चार इत्याह -
यथा लोक इति ।

सिद्धान्तयति -
तुश­ब्दे­ने­त्या­दिना ।

प्रत्याकृति ।
प्रति­जा­ती­त्यर्थः । अनेन स्थूलसर्वसर्गे जीव­स्या­सा­मर्थ्यं द्योतितम् । तथा च पदान्वयस्य पदा­र्थ­यो­ग्य­ता­धी­न­त्वा­ज्जी­व­रू­पेण प्रविश्याहमेव व्याक­र­वा­णी­त्य­न्वयः । न तु जीवेन व्याकरवाणीति ।

ननु तर्हि प्रवेशक्रिया जीवकर्तृका व्याक­र­ण­मी­श्व­र­क­र्तृ­क­मिति कर्तृ­भे­दा­त्क्त्वा­प्र­त्ययो न स्यादित्यत आह -
न च जीवो नामेति ।
वस्तुतस्तु सूर्यो जले प्रविष्ट इति प्रति­बि­म्ब­भा­वा­ख्य­प्र­वेशे सूर्यस्यैव कर्तृ­त्व­प्र­यो­गा­ज्जी­वा­त्मना प्रवेशेऽपीश्वर एव कर्तेति क्त्वाश्रु­ति­र्यु­क्तेति बोध्यम् ।

नन्व­भे­द­श्चे­ज्जीव एव व्याकर्ता किं न स्यादि­त्या­शङ्क्य कल्पनया भिन्नस्य तस्या­श­क्त­त्वा­च्छ्रु­ति­वि­रो­धाच्च मैवमित्याह -
परमेश्वर इति ।

प्रत्येकं महाभूतसर्गस्य प्रागु­क्त­त्वा­दिह व्याकरणवाक्ये यत्नपूर्वकं स्थूलभौतिकसर्ग उच्यत इति पाठव्यत्ययेन सूत्रसूचितं श्रुत्यर्थमाह -
त्रिवृ­त्क­र­ण­पू­र्व­क­मिति ।

ईश्वरकृतं त्र्यात्म­त्व­मिति क्व दृष्टमित्यत आह -
तच्चेति ।

इदानीं नामरूपव्याकरणे क्रममाह -
तत्राग्निरिति ।
यद्यपि 'अतः प्रभवात्' इत्यत्र वेद­श­ब्द­पू­र्वि­का­र्थ­सृ­ष्टि­रुक्ता तथा­प्य­व्य­क्ता­त्स्मृ­ता­च्छ­ब्दा­द­र्थ­सृष्टौ सत्यां स्फुट­ना­म­स­म्ब­न्धा­भि­व्य­क्ति­र­त्रो­क्ते­त्य­वि­रोधः ।

नन्वग्न्यादीनां तैजसानामेव श्रुता­वु­दा­ह­र­णा­द्भू­ज­ल­यो­स्त्र्या­त्म­कत्वं न विवक्षितमित्यत आह -
अनेन चेति ।
उपक्रमे तासां मध्य इति शेषः । यत्कपोतरूपादिकं कृष्ण­त्वा­दि­वि­शे­षा­का­रेण विज्ञातमिव भवति तद्देवतानां समु­दा­य­रू­प­मि­त्यर्थः ॥२०॥

बाह्यं त्रिवृ­त्क­र­ण­मु­क्त्वा­ध्या­त्मि­क­म­परं पूर्वो­क्त­वि­ल­क्षणं वद­न्नु­त्त­र­सू­त्र­म­व­ता­र­यति -
तासामित्यादिना ।
पुरुषशरीरं प्राप्यैकैका त्रिवृद्भवति कार्यत्रयात्मना भवतीत्यर्थः । उत्त­र­सू­त्रे­णा­श­ङ्कितं दोषं निरसितुमादौ शङ्का­वि­ष­य­मा­ध्या­त्मि­क­त्रि­वृ­त्क­रणं दर्शयतीति भाष्यार्थः ।

नन्वन्नमयं मांसादि कथं भौममित्यत आह -
त्रिवृत्कृता भूमिरेवेति ।
प्राणस्य वायो­र­प्का­र्य­त्व­मौ­प­चा­रिकं द्रष्टव्यम् ॥२१॥

एवं विषयमुक्त्वा दोषं शङ्कते -
अत्राहेति ।

तदुत्तरत्वेन सूत्रं व्याचष्टे -
तुशब्देनेति ।

स्वभावाधिक्यं वैशेष्यं किमर्थं कृतमित्यत आह -
व्यव­हा­र­प्र­सि­द्ध्य­र्थ­मिति ।
एवं स्मृति­न्या­य­म­ता­न्त­र­श्रु­ति­भि­र­वि­रोधो ब्रह्मणि वेदा­न्त­ता­त्प­र्य­स्येति सिद्धम् ॥२२॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­द्गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां द्विती­या­ध्या­यस्य चतुर्थः पादः ॥४॥