भाष्यरत्नप्रभाव्याख्या
द्वितीयाध्याये प्रथमः पादः (३)
तस्मात्प्रतिज्ञासिद्धये आकाशस्य कार्यत्वेनैवाव्यतिरेको वाच्य इति दृष्टान्तसृष्टिसार्वात्म्यशब्दानाह -
तथा हीति ।
तेन तेन दृष्टान्तेनेति ।
यजुषि दुन्दुभ्यादिदृष्टान्तेनाथर्वणे ऊर्णनाभ्यादिदृष्टान्तेनेत्यर्थः । यजुषि प्रतिज्ञासाधका' इदं सर्वम्' इतिशब्दाः, आथर्वणे 'ब्रह्मैवेदम्' इति शब्दा इति भावः ।
एवमाकाशोत्पत्तिकथनादेकदेशिमते दूषिते श्रुत्यप्रामाण्यवादी स्वोक्तं स्मारयति -
सत्यं दर्शितमिति ।
मुख्यसिद्धान्त्याह -
न । एकेति ।
'तत्तेजोऽसृजत' इति सकृच्छ्रुतस्य स्रष्टुराकाशतेजोभ्यां युगपत्सम्बन्धे तित्तिरिक्रमबाधात् , क्रमेणाकाशं सृष्ट्वा तेजोऽसृजतेति सम्बन्धे तेजःप्राथम्यभङ्गप्रसङ्गात् , वस्तुनि विकल्पासम्भवेन तयोः शाखाभेदेन प्राथम्यव्यवस्थाया अयोगात् नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति -
नैष दोष इति ।
अप्रामाण्यकल्पनाद्वरमपौरुषेयश्रुतीनामेकवाक्यत्वेन प्रामाण्यकल्पनम् , तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यम् , बलवती च तित्तिरिश्रुतिः, प्रकृतिपञ्चम्या पौर्वापर्याख्यक्रमस्य श्रुतत्वात् । छान्दोग्यश्रुतिस्तु दुर्बला, तेजःप्राथम्यश्रुत्यभावात् । तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परिणेयमित्येकवाक्यतेत्यर्थः । यदुक्तमेकदेशिना छान्दोग्यश्रुत्याकाशोत्पत्तिर्वार्यत इति तन्निरस्तम् ।
किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म वियदनुत्पत्तिश्चेत्युभयपरा । आद्ये न तद्वारणमित्याह -
न हीति ।
अविरोधादित्यर्थः ।
न द्वितीयः, श्रुत्यन्तरविरोधेनोभयपरत्वकल्पनायोगाद्वाक्यभेदापत्तेश्चेत्याह -
एकस्येति ।
नन्वेकस्य स्रष्टुरनेकार्थसम्बन्धवद्वाक्यस्याप्यनेकार्थता किं न स्यादित्यत आह -
स्रष्टा त्विति ।
एकस्य कर्तुरनेकार्थसम्बन्धो दृष्टः । न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् । नानार्थकप्रयोगे तु पय आनयेत्यादावावृत्त्या वाक्यभेद एव । आनयनस्य जलक्षीराभ्यां पृथक्सम्बन्धादित्यर्थः ।
फलितमाह -
इत्येकेति ।
एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उपसंहृताकाशादिसम्बन्धार्थमावृत्तिदोषः स्यादित्यत आह -
न चेति ।
छान्दोग्यस्थतेजोजन्म आकाशादिजन्मपूर्वकम् , तेजोजन्मत्वात् , तित्तिरिस्थतेजोजन्मवदित्याकाशादिजन्मोपसंहारे 'तदाकाशमसृजत' इति वाक्यान्तरस्यैव कल्पनान्नावृत्तिदोष इत्यर्थः ।
श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह -
यथा चेति ।
सृष्टौ तात्पर्यातात्पर्याभ्यां दृष्टान्तश्रुतिवैषम्यं शङ्कते -
नन्वित्यादिना ।
तेजःप्राथम्यस्वीकारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम् , आकाशप्राथम्ये त्वार्थिकतेजः सर्गप्राथम्यमात्रबाध इति लाघवमिति मत्वाह -
नेत्युच्यत इति ।
किञ्च प्रधानधर्मित्यागाद्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह -
न हीति ।
किञ्च किं सृष्टिपरश्रुतिसिद्धत्वात्तेजःप्राथम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्गश्रुत्यार्थात्प्राथम्यभानात् ।
नाद्य इत्याह -
अपि चेति ।
द्वितीयमनूद्य दूषयति -
अर्थात्त्विति ।
यदुक्तं वस्तुनि विकल्पासम्भवादुभयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति, नाप्युभयोर्द्विदलाङ्कुरवत्समुच्चित्योत्पत्त्या प्राथम्यं वायोरग्निरिति क्रमबाधापातादिति, तदिष्टमेवेत्याह -
विकल्पेति ।
न केवलं श्रुतिदेव्योरविरोधः सौहार्दं चास्तीत्याह -
अपि चेति ।
वियदुपसङ्ग्राह्यमित्यन्वयः ।
वियदनुत्पत्तिवादिनोक्तमनूद्य प्रतिज्ञाया अद्वितीयश्रुतेश्च मुख्यार्थतात्पर्यावगमान्न गौणार्थतेति दूषयति -
यच्चोक्तमित्यादिना ।
प्रकृतिविकारन्यायस्तदनन्यत्वन्यायः । उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः ।
मास्तु सम्यग्ज्ञानं श्रुतेर्भ्रान्तिमूलत्वसम्भवादित्याशङ्क्यापौरुषेयत्वान्मैवमित्याह -
न च वेदस्येति ।
माया भ्रान्तिस्तयालीकं मिथ्याभाषणं तेन वञ्चनमयथार्थबोधनम् । आदिपदाद्विप्रलिप्साप्रमादकरणापाटवानि गृह्यन्ते ।
प्रतिज्ञामुख्यत्वमभिधायाद्वितीयश्रुतिमुख्यतामाह -
सावधारणेति ।
सर्वद्वैतनिषेधपरेत्यर्थः ।
उभयगौणत्वेऽद्भुतवदुपन्यासो मृदादिदृष्टान्तैस्तत्साधनं च न स्यादिति दोषान्तरमाह -
न चेत्यादिना ॥६॥
कार्यमेव वस्त्वेकदेश आकाशो नोत्पद्यते सामग्रीशून्यत्वादित्यत्र आकाशो विकारः विभक्तत्वात् घटादिवदिति सत्प्रतिपक्षमाह -
यत्पुनरित्यादिना ।
यो विभक्तः स विकार इत्यन्वयमुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यतिरिकव्याप्तिमाह -
न त्वविकृतमिति ।
दिगादिषु व्यभिचारमाशङ्क्य पक्षसमत्वान्मैवमित्याह -
एतेनेति ।
विभक्तत्वेनेत्यर्थः ।
आत्मनि व्यभिचारं शङ्कते -
नन्विति ।
धर्मिसमानसत्ताकविभागस्य हेतुत्वात्परमार्थात्मनि विभागस्य कल्पितत्वेन भिन्नसत्ताकत्वान्न व्यभिचार इत्याह -
नेति ।
अत्र चाज्ञानान्यद्रव्यत्वं विशेषणम् , अतो नाज्ञानतत्सम्बन्धादौ व्यभिचारः ।
नन्वात्मा कार्यः, विभक्तत्वात् , वस्तुत्वाद्वा, घटवदित्याभासतुल्यमिदमनुमानमित्याशङ्क्यात्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाधकसत्त्वात्तस्याभावत्वम् , नात्र किञ्चिद्बाधकमस्ति प्रत्युत आकाशस्याकार्यत्वे नित्यानेकद्रव्यकल्पना श्रौतप्रतिज्ञाहान्यादयो बाधकाः सन्तीति नाभासतुल्यतेत्याह -
आत्मन इति ।
इष्टप्रसङ्ग इति वदन्तं प्रत्याह -
आत्मत्वादिति ।
आत्माभावः केन चिज्ज्ञायते न वा । आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता । द्वितीयेऽपि न शून्यता मानाभावादित्यर्थः ।
किञ्च यद्धि कार्यं सत्तास्फूर्त्योरन्यापेक्षं तन्निराकार्यम् , आत्मा त्वकार्यो निरपेक्षत्वान्न बाधयोग्य इत्याह -
नह्यात्मेत्यादिना ।
कस्यचित्कारणस्यागन्तुकः कार्यो न हि । सत्तास्फूर्त्योः सिद्ध्योरनन्यायत्तत्वादित्यक्षरार्थः ।
तत्र स्फूर्तेरनन्यायत्तत्वं विवृणोति -
न हीति ।
यदुक्तं सुरेश्वराचार्यैः 'प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसादात्सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।' इति । यथा श्रुतिराह 'पुरुषः स्वयं ज्योतिः', 'तस्य भासा सर्वमिदं विभाति' इति च ।
नन्वात्मनः स्वतः सिद्धौ प्रमाणवैयर्थ्यम् , तत्राह -
तस्येति ।
ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह -
न हीति ।
अतो न प्रमाणवैयर्थ्यमिति भावः ।
आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह -
आत्मा त्विति ।
अयमर्थः - निश्चितसत्ताकं हि ज्ञानं प्रमेयसत्तानिश्चायकम् , गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थस्वरूपनिश्चयात् । ज्ञानसत्तानिश्चयश्च न स्वतः, कार्यस्य स्वप्रकाशत्वायोगात् । नापि ज्ञानान्तरात् , अनवस्थानात् । अतः साक्षिणैव ज्ञानसत्तानिश्चयो वाच्यः । तत्र साक्षिणश्चेज्ज्ञानाधीनसत्तानिश्चयः, अन्योन्याश्रयः स्यात् । अतः सर्वसाधकत्वादात्मा स्वतः सिद्ध इति ।
स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह -
न चेति ।
जडं हि परायत्तप्रकाशत्वादागन्तुकं बाधयोग्यं न प्रकाशात्मस्वरूपम् , तस्य सर्वबाधसाक्षिस्वरूपस्य निराकर्त्रन्तराभावात् , स्वस्य च स्वनिराकर्तृत्वायोगात् । न हि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः ।
एवं स्वतः स्फूर्तित्वादात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह -
तथाहमेवेति ।
ज्ञानज्ञेययोः सत्ताव्यभिचारेऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः ।
मास्तु जीवतो ज्ञातुरन्यथास्वभावः, मृतस्य तु स्यादित्यत आह -
तथेति ।
उच्छेदो विनाशः । अन्यथास्वभावत्वं मिथ्यात्वं वा सम्भावयितुमपि न शक्यम् , अहमस्मीत्यनुभवसिद्धसत्स्वभावस्य बाधकाभावादित्यर्थः ।
एवमात्मनः शून्यत्वनिरासेन शून्यताप्रसङ्गस्यानिष्टत्वमुक्तम् , ततश्चात्मनः कार्यत्वनुमानमाभास इत्याह -
एवमिति ।
अकार्यात्मनः सिद्धौ तस्याविद्यासहितस्योपादानस्यादृष्टादिनिमित्तस्य च सत्त्वादाकाशानुत्पत्तिहेतोः सामग्रीशून्यत्वस्य स्वरूपासिद्धेरुक्तसत्प्रतिपक्षबाधाच्चाकाशस्य कार्यत्वं निरवद्यमित्याह -
कार्यत्वं चेति ।
आत्माविद्ययोर्विजातीयत्वान्नाकाशारम्भकत्वमित्युक्तमनूद्य निरस्यति -
यत्त्वित्यादिना ।
किं कारणमात्रस्य साजात्यनियम उत समवायिनः । तत्राद्यं निरस्य द्वितीयं शङ्कते -
स्यादेतदिति ।
किं समवायितावच्छेदकधर्मेण साजात्यमुत सत्त्वादिना । नाद्य इत्याह -
तदपीति ।
न च रज्जवादि न द्रव्यान्तरमिति वाच्यम् , पटादेरपि तथात्वापातात् ।
द्वितीयोऽस्मदिष्टः, आत्माविद्ययोर्वस्तुत्वेन साजात्यादित्याह -
सत्त्वेति ।
उपादानस्य साजात्यनियमं निरस्य संयुक्तानेकत्वनियममद्वितीयस्यासङ्गस्याप्यात्मन उपादानत्वसिद्धये निरस्यति -
नापीत्यादिना ।
किमारम्भकमात्रस्यायं नियम उत द्रव्यारम्भकस्य । नाद्य इत्याह -
अण्विति ।
द्ध्वयणुकस्य ज्ञानस्य चासमवायिकारणसंयोगजनकमाद्यं कर्म ।
यद्यप्यदृष्टवदात्मसंयुक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एकत्वादनेकत्वनियमभङ्ग इत्याह -
एकैको हीति ।
द्रव्यान्तरैः । समवायिभिरित्यर्थः ।
द्वितीयमुत्थाप्यारम्भवादानङ्गीकारेण दूषयति -
द्रव्येत्यादिना ।
न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः । यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति । तन्न । क्षीरनाशे मानाभावात् , रसवद्दध्नोऽप्येकद्रव्यारभ्यत्वसम्भवाच्च, द्रव्यगुणसङ्केतस्य पौरुषेयस्य श्रुत्यर्थनिर्णयाहेततुत्वादिति भावः ।
लोके कर्तु सहायदर्शनादसहायाद्ब्रह्मणः कथं सर्ग इति, तत्राह -
तथा चोक्तमिति ।
प्रागभावशून्यत्वहेतुरप्यसिद्ध इत्याह -
यच्चोक्तमित्यादिना ।
शब्दाश्रयत्वं विशेषः । शब्दादिमानाकाशः प्रलये नास्ति, 'नासीद्रजो नो व्योम' इति श्रुतेः । नन्वाकाशाभावे काठिन्यं स्यादिति चेत् । सुशिक्षितोऽयं नैयायिकतनयः । न ह्याकाशाभावस्तद्धर्मो वा काठिन्यं किन्तु मूर्तद्रव्यविशेषस्तत्संयोगविशेषो वा काठिन्यम् , तच्च प्रलये नास्तीति भावः ।
'आकाशशरीरं ब्रह्म' इति श्रुतेरग्न्यौष्ण्यवद्ब्रह्मस्वभावस्याकाशस्य सति ब्रह्मणि कथमभावः, तत्राह -
यथा चेति ।
विभुत्वादाकाशसमं ब्रह्मेति श्रुत्यर्थः ।
विभुत्वात्स्पर्शद्रव्यत्वनिरवयवद्रव्यत्वलिङ्गानां विभक्तत्वादिलिङ्गसहितागमबाधमाह -
यदपीत्यादिना ।
धर्मिविकाराभावे गुणनाशो न स्यादिति तर्कार्थमनित्यपदम् । गुणाश्रयत्वमेव हेतुः । तच्च स्वसमानसत्ताकगुणवत्त्वम् , अतो निर्गुणात्मनि न व्यभिचारः । भूतत्वमादिशब्दार्थः ।
स्वरूपासिद्धिमप्याह -
विभुत्वादीनां चेति ।
सर्वमूर्तद्रव्यसंयोगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति । संयोगस्य सावयवत्वनियतस्याजत्वसाध्यविरुद्धता च । स्वरूपोपचयरूपं तु विभुत्वमात्माकाशयोर्न समम् , 'ज्यायानाकाशात्' इति श्रुतेः । क्वचिदाकाशसाम्यं तु ब्रह्मणो यत्किञ्चिद्धर्मसम्बन्धेन व्यपदिश्यते । असक्तत्वेन वा । पञ्चीकरणादस्पर्शत्वमसिद्धम् , कार्यद्रव्यत्वान्निरवयवत्वमप्यसिद्धम् , द्रव्यत्वजातिश्चात्मन्यसिद्धेत्यर्थः । नित्य इत्यंशेन साम्यं न विवक्षितम् ।
ननु 'स यथानन्तोऽयमाकाश एवमनन्त आत्मा' इति श्रुतिर्नित्यत्वेनैव साम्यं ब्रूते, नेत्याह -
एतेनेति ।
आकाशस्य कार्यत्वेनानित्यत्वादित्यर्थः । श्रुतिस्त्वापेक्षिकानन्त्यद्वारा मुख्यानन्त्यं बोधयतीति भावः ।
न्यूनत्वाच्चाकाशस्य न मुख्योपमानत्वमित्याह -
ज्यायानिति ।
मुख्योपमानासत्त्वे श्रुतिः 'न तस्य' इति । तस्मादाकाशस्योपमानत्वमात्रेण नित्यत्वं नास्तीति भावः ।
अनित्यत्वेनासत्त्वे श्रुतिमाह -
अतोऽन्यदिति ।
यत्त्वेकस्यैव सम्भूतशब्दस्य गौणत्वं मुख्यत्वं चेति । तन्न । आकाशेऽपि तस्य मुख्यत्वसम्भवादित्याह -
तपसीति ।
बलवत्तित्तिरिश्रुत्या छान्दोग्यश्रुतेर्नयनादेकवाक्यतया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति -
तस्मादिति ॥७॥
एतेन मातरिश्वा व्याख्यातः ।
अतिदेशत्वान्न पृथक्सङ्गत्याद्यपेक्षा । 'तत्तेजोऽसृजत' इति श्रुतेः । 'आकाशाद्वायुः' इति श्रुत्या विरोधोऽस्ति न वेति एकवाक्यत्वभावाभावाभ्यां संशये गौणपक्षपूर्वपक्षसिद्धान्तपक्षानतिदिशति -
तत्रापीत्यादिना ।
पूर्वत्र ह्याकाशानन्तर्यं तेजसः स्थापितम् , तत्र वायुतेजसोस्तुल्यवदानन्तर्ये वायोरग्निरिति क्रमश्रुतिबाधात्पौर्वापर्ये तेजःप्राथम्यभङ्गान्नैकवाक्यतेति पूर्वपक्षे गौणवाद्यभिप्रायमाह -
ततश्चेति ।
अस्तमयप्रतिषेधो मुख्योत्पत्त्यसम्भवे लिङ्गम् । 'वायुश्चान्तरिक्षं चैतदमृतम्' इति तस्यैव लिङ्गस्याभ्यासः । 'वायुरेव व्यष्टिः समष्टिश्च' इति सर्वात्मत्वलिङ्गान्तरमादिपदार्थः । तथा संवर्गविद्यायां 'वायुर्ह्येवैतान्सर्वानग्न्यादीन्संहरति' इति शब्दमात्रेणैश्वर्यश्रवणं लिङ्गान्तरं ग्राह्यम् । एतैर्लिङ्गैर्वायुरनाद्यनन्त इति प्रतीतेरुत्पत्तिर्गौणीत्यविरोधः श्रुत्योरिति प्राप्ते प्रतिपिपादयिषितप्रतिज्ञाश्रुतेर्बलीयस्त्वात्तत्साधकानां तत्र तत्र वायूत्पत्तिवाक्यानां भूयस्त्वादुक्तविभक्तत्वादिलिङ्गानुग्रहाच्च मुख्यैव वायोरुत्पत्तिः, तथा चाकाशं वायुं च सृष्ट्वा तेजोऽसृजतेति श्रुत्योरेकवाक्यतया ब्रह्मणि समन्वयः ।
लिङ्गानि तूपास्यवायुस्तावकत्वादापेक्षिकतया व्याख्येयानीति मुख्यसिद्धान्तमाह -
प्रतिज्ञेत्यादिना ।
कृतं प्रतिविधानमापेक्षिकत्वेन समाधानं यस्य तत्तथा ।
अधिकरणारम्भमाक्षिप्योक्तामधिकाशङ्कामाह -
नन्वित्यादिना ।
'वायुर्ह्येवैतान्सवार्न्संवृङ्क्ते' इत्यादिशब्दमात्रं शङ्कामूलं नार्थ इति द्योतनार्थं मात्रपदम् । तामेव शङ्कामाह -
संवर्गेति ।
व्यष्टिसमष्ट्युपास्तिः 'वायुं दिशां वत्सं वेद' इत्युपास्तिश्चादिशब्दार्थः ॥८॥
असम्भवस्तु सतोऽनुपपत्तेः ।
'अनाद्यनन्तं महतः परं ध्रुवम् ', 'न चास्य कश्चिज्जनिता' इत्यादि ब्रह्मानादित्वश्रुतीनां 'त्वं जातो भवसि विश्वतोमुखः' इत्युत्पत्तिश्रुत्या विरोधोऽस्ति न वेत्येकवाक्यत्वभावाभावाभ्यां सन्देहेऽस्ति विरोध इति पूर्वपक्षे यथा वाय्वादेरमृतत्वादिकमुत्पत्तिश्रुतिबलादापेक्षिकं तथा ब्रह्मानादित्वमापेक्षिकमिति दृष्टान्तसङ्गत्या एकदेशिपक्षं प्रापयति -
वियदिति ।
ब्रह्म कुतश्चिज्जायते, कारणत्वात् , आकाशवादित्यनुमानानुग्रहाज्जन्मश्रुतिर्बलीयसीत्याह -
तथेति ।
न चानादिकारणाभावेनानवस्था बीजाङ्कुरवदनादित्वोपपत्तेः । तथा च दीपाद्दीपवद्ब्रह्मान्तराद्ब्रह्मान्तरोत्पत्तिः, उत्पत्तिश्रुत्या चानादित्वश्रुतिर्नेयेत्यनाद्यनन्तब्रह्मसमन्वयासिद्धिरिति प्राप्ते मुख्यसिद्धान्तमाह -
तामिति ।
ब्रह्म न च जायते, कारणशून्यत्वात् , नरविषाणवत् , व्यतिरेकेण घटवच्चेत्यनुमानानुग्रहाद्विपक्षे चाकारणककार्यवादप्रसङ्गाद्ब्रह्मानादित्वश्रुतयो बलीयस्य इति कारणत्वलिङ्गबाधाज्जन्मश्रुतिः कार्याभेदेन व्याख्येयेत्यनाद्यनन्तब्रह्मसमन्वयसिद्धिरिति सिद्धान्तफलम् । न हेत्वसिद्धिः, कारणस्यानिरूपणात् । तथा हि किं सन्मात्रस्य ब्रह्मणः सन्मात्रमेव सामान्यं कारणं सद्विशेषो वा असद्वा । न त्रेधापीत्याह -
सन्मात्रं हीत्यादिना ।
दीपस्तु दीपान्तरे निमित्तमित्यनुदाहरणम् । वियत्पवनयोर्ब्रह्मणश्च विभक्तत्वाविभक्तत्वाभ्यां कारणभावाभावाभ्यां च वैषम्यम् । कारणत्वलिङ्गस्याप्रामाणिकानवस्था ।
तर्केणापि बाधमाह -
न च विकारेभ्य इत्यादिना ।
कारणस्यानभ्युपगमे यदृच्छावादप्रसङ्गः, अनादिकारणानभ्युपगमेऽनवस्थाप्रसङ्गः, तदभ्युपगमे ब्रह्मवादप्रसङ्गः, कारणान्तरस्य प्रधानादेर्निरासादिति भावः ॥९॥
तेजोऽतस्तथाह्याह ।
'तत्तेजोऽसृजत' इति 'वायोरग्निः' इति च श्रुत्योर्विरोधोऽस्ति न वेति सन्देहे सामान्यात्सामान्योत्पत्त्यसम्भवेऽपि ब्रह्मवाय्वोः सामान्ययोस्तेजोरूपविशेषोपादानत्वसम्भवात्तुल्यबलतयास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः । सर्वत्राध्यायसमाप्तेरेकवाक्यत्वासम्भवासम्भवौ संशयबीजम् । पूर्वपक्षे श्रुतीनां विरोधादप्रामाण्यं फलम् , सिद्धान्ते प्रामाण्यमित्युक्तं न विस्मर्तव्यम् । एवं पूर्वपक्षे कार्यमात्रस्य विवर्तत्वात्कल्पितस्य वायोस्तेजःकल्पनाधिष्ठानत्वायोगाद्ब्रह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मैवोपादानमित्यर्थे श्रुतीनां भूयस्त्वाच्च तदनुरोधाद्वायोरिति क्रमार्था पञ्चमीत्यविरोध इत्येकदेशिसिद्धान्तं प्रापयति -
प्राप्तं तावद्ब्रह्मयोनिकं तेज इत्यादिना ।
श्रुतीनां विरोधमात्रोपन्यासेन पूर्वपक्षः, अपसिद्धान्तेनाविरोधात्तावदेकदेशिपक्ष इति ज्ञेयम् । तदुभयमपि मुख्यसिद्धान्तापेक्षया पूर्वपक्षत्वेन व्यवह्रियते ।
सिद्धान्तयति -
एवं प्राप्त इति ।
कदर्थिता ।
बाधितार्थेति यावत् । वायोस्तेजःप्रकृतित्वं पञ्चमीश्रुत्या निर्धारितम् , न च कल्पितस्योपादानत्वासम्भवः, अधिष्ठानत्वासम्भवेऽपि मृदादिवत्परिणामित्वसम्भवात् , स्वतस्तु ब्रह्मणश्छान्दोग्ये स्रष्टृत्वमात्रं श्रुतं नोपादानत्वम् । न च 'बहु स्याम्' इति कार्याभेदे क्षणलिङ्गादुपादानत्वसिद्धिः लिङ्गाच्छ्रुतेर्बलीयस्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् । नयनं चेत्थं वायोर्ब्रह्मानन्यत्वाद्वायुजस्यापि तेजसो ब्रह्मप्रकृतिकत्वमविरुद्धमिति सिद्धान्तग्रन्थाशयः ।
इहाधिकारादिति ।
वायोरग्निः सम्भूत इति वाक्ये सम्बन्धादित्यर्थः । तदधिकारे सम्भूत्यधिकारे ।
निरपेक्षकारकविभक्तेरूपपदसापेक्षविभक्त्यपेक्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह -
अपि चेति ।
ऊर्ध्वमनन्तरमिति वोपपदं विना पञ्चमीमात्रात्क्रमो न भातीति कल्प्य उपपदार्थयोगः । प्रकृत्याख्यापादानकारकं तु निरपेक्षपञ्चम्या भाति । विशेषतोऽत्र प्रकरणादपादानार्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः ।
पारम्पर्यजत्वमेवाह -
यदापीति ।
तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यम् , दध्यादिकं तु पारम्पर्यजमित्यर्थः । दधिसंसृष्टं कठिनक्षीरमामिक्षा ।
ब्रह्मणे वायुभावे मानमाह -
दर्शयति चेति ।
पारम्पर्यजस्यापि तज्जत्वव्यपदेशे स्मृतिमाह -
तथा चेति ।
अन्तःकरणादिभ्यो जायमानबुद्ध्यादीनां मत्त एवेत्यवधारणं कथमित्याशङ्क्याह -
यद्यपीत्यादिना ।
प्रनाड्या परम्परयेश्वरवंश्यत्वात्तज्जत्वात्परमकारणान्तरनिरासार्थमवधारणं युक्तमिति शेषः ।
एतत्पदार्थमाह -
तासामिति ।
'तज्जलान्' इत्याद्युक्तश्रुतीनां साक्षात्प्रनाड्या वा ब्रह्मजत्वमात्रेणोपपत्तेरित्यर्थः । अक्रमश्रुतीनां बलवत्क्रमश्रुत्यनुसारेणेकवाक्यत्वाद्वियद्वायुद्वारा तेजःकारणे ब्रह्मणि इति सिद्धम् ॥१०॥
आपः ।
अतिदेशोऽयम् ।
तथा ह्याथर्वणे मुण्डकग्रन्थे 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणिच । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी' इति मन्त्रेऽपां ब्रह्मजत्वं श्रुतम् । 'अग्नेरापः' इति श्रुत्या तस्य विरोधोऽस्ति न वेति सन्देहे तुल्यत्वादस्ति विरोध इति पूर्वपक्षे अपामग्निदाह्यत्वेन विरोधादग्निजत्वासम्भवात्क्रमार्था पञ्चमीत्यविरोध इत्यधिकाशङ्कायामुक्ततेजोन्यायमतिदिश्य व्याचष्टे -
अत इति ।
प्रत्यक्षविरोधे कथमपामग्निजत्वनिर्णयः, तत्राह -
सति वचन इति ।
त्रिवृत्कृतयोरप्तेजसोर्विरोधेऽप्यग्नेराप इति वचनादतीन्द्रिययोस्तयोर्नास्ति विरोध इति निर्णीयत इत्यर्थः ।
न केवलं श्रुत्यविरोधज्ञानायायमतिदेशः किन्तु पञ्चभूतोत्पत्तिक्रमनिर्णयार्थं चेत्याह -
तेजसस्त्विति ।
तस्मात्तेजोभावापन्ने ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ॥११॥
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ।
विषयमुक्त्वान्नशब्दमहाभूतप्रकरणाभ्यां संशयमाह -
ता इति ।
अभ्यवहार्यं भक्ष्यम् । अत्र श्रुतौ यद्यन्नमोदनादिकं तदा 'अद्भ्यः पृथिवी' इति श्रुत्या विरोधः, यदि पृथिवी तदा न विरोध इति फलं बोध्यम् । अप्पृथिव्योः कार्यकारणभावादधिकरणसङ्गतिः । अन्नश्रुतिवृष्टिभवनत्वलिङ्गाभ्यां पूर्वपक्षः । तदेव तत्रैवेति श्रुत्यर्थः ।
तथा च क्वचिदन्नं क्वचिदद्भयः पृथिवी ततोऽन्नमिति विरोधान्नैकवाक्यतेति प्राप्ते सिद्धान्तयति -
एवं प्राप्त इति ।
अधिकारः प्रकरणम् । रूपं लिङ्गम् । पयः क्षीरं तद्वत्पाण्डुरं श्वेतम् , अङ्गारवद्रोहितं रक्तम् ।
शब्दान्तरशब्दितं स्थानं व्याचष्टे -
श्रुत्यन्तरमपीति ।
अबानन्तर्यं पृथिव्याः स्थानं श्रुत्यन्तरसिद्धं तेनाप्यन्नस्य पृथिवीत्वमित्यर्थः । तत्तत्र सृष्टिकाले यदपां शरः यो मण्डवद्घनीभाव आसीत्स एव समहन्यत कठिनः सङ्घातोऽभूत्सापां कठिना परिणतिः पृथिव्यभवदिति श्रुत्यर्थः ।
व्रीह्याद्यन्नसर्गः कस्मिन्स्थान इति विवक्षायामाह -
पृथिव्यास्त्विति ।
पञ्चमीयम् ।
वृष्टिभवत्वलिङ्गसहितान्नश्रुतेः कथं प्रकरणलिङ्गस्थानैर्बाध इत्याशङ्क्याह -
वाक्यशेषोऽपीति ।
प्रबलदुर्बलप्रमाणसन्निपाते बहूनां दुर्बलानामत्यन्तबाधाद्वरं प्रबलप्रमाणस्याल्पबाधेन कथञ्चिन्नयनमिति न्यायेन श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वान्नानन्नात्मकपृथिवीनिष्ठत्वं नीयते । ताभ्यामन्नमात्रग्रहे प्रकरणादीनां पृथिवीमात्रविषयाणामत्यन्तबाधापत्तेरिति भावः । अन्नस्य वृष्टिजत्वोक्तिद्वारा पृथिव्या अब्जन्यत्वं सूच्यते । पृथिव्यब्जा, पृथिवीत्वात् , अन्नवदित्यनुमानादित्यक्षरार्थः । एवं तित्तिरिश्रुत्यनुसारेण छन्दोगश्रुतेर्नयनादविरुद्धो भूतसृष्टिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम् ॥१२॥
सम्प्रति तानि भूतान्याश्रित्याश्रयाश्रयिभावसङ्गत्या तेषां स्वातन्त्र्यमाशङ्क्य निषेधति -
तदभिध्यानादेव तु तल्लिङ्गात्सः ।
उक्तभूतान्याश्रित्य संशयपूर्वपक्षौ दर्शयति -
किमिमानीत्यादिना ।
संशयबीजानुक्तौ पूर्वोत्तरपक्षयुक्तयो बीजमिति ज्ञेयम् ।
नन्वत्र भूतानां किं स्वातन्त्र्येणोपादानत्वमाशङ्क्यते कर्तृत्वं वा । नाद्यः, 'रचनानुपपत्तेः' इत्यादिन्यायविरोधादिति शङ्कते -
नन्विति ।
न द्वितीयः, अचेतनत्वादिति भावः । यथा मनुष्यादिशब्दैस्तत्तद्देहाभिमानिनो जीवा उच्यन्ते तथा 'आकाशाद्वायुः' इत्यादिश्रुतावाकाशादिशब्दैस्तत्तद्भूताभिमानिदेवता उच्यन्ते, तासां स्वकार्ये वाय्वादौ कर्तृत्वसम्भवान्निरपेक्षनिमित्तत्वं पञ्चम्यर्थः । एवं 'तदात्मानं स्वयमकुरुत' इति श्रुतौ स्वयमिति विशेषणाद्ब्रह्मणोऽन्यानपेक्षसर्वकर्तृत्वसम्भवान्निरपेक्षनिमित्तत्वं श्रुतम् ।
तथा च मिथोनिरपेक्षेश्वरभूतकर्तृश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति सफलं पूर्वपक्षमाह -
नैष दोष इति ।
भूतानां तदभिमानिदेवतानामित्यर्थः । यथा आकाशादिभावापन्नब्रह्मणः सर्वोपादानत्वं तथा तदभिमानिदेवताजीवभावमापन्नब्रह्मणः कर्तृत्वमिति परम्परया ईश्वरकर्तृत्वश्रुत्यविरोधः । स्वयमिति विशेषणमीश्वरान्तरनिरासार्थं न जीवभावापेक्षानिरासार्थमित्येकदेशिसिद्धान्त ऊहनीयः ।
मुख्यसिद्धान्तमाह -
एवं प्राप्त इति ।
आकाशादिशब्दैर्न देवतालक्षणा मुख्यार्थे बाधकाभावात्पञ्चम्यश्च प्रकृतित्वार्थास्तत्र रूढतरत्वात् , तथा चाचेतनानां भूतानां कर्तृत्वमेव नास्ति, कुत ईश्वरानपेक्षकर्तृत्वम् ।
यद्यपि देवतानां कर्तृत्वं सम्भवति तथापीश्वरनियम्यत्वश्रवणाच्चेतनानामपि न स्वातन्त्र्यम् , किमु वाच्यमचेतनानां भूतानां न स्वातन्त्र्यमिति मत्वोक्तम् -
तल्लिङ्गादिति ।
तत्तदचेतनात्मनावस्थितस्य ब्रह्मण उपादानत्वेऽपि जीवव्यावृत्तेश्वरत्वाकारेणैव साक्षात्सर्वकर्तृत्वं न जीवत्वद्वारा तस्य सर्वनियन्तृत्वाल्लिङ्गादित्यर्थः ।
प्रकरणाच्च साक्षात्सर्वकर्तृत्वमित्याह -
तथेति ।
पूर्वोक्तमनूद्य निरस्यति -
यत्त्विति ।
परमेश्वरस्यान्तर्यामिभावेनावेशः सम्बन्धस्तद्वशाद्भूतेष्वीक्षणश्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः । अनेन 'तदभिध्यानात्' इति पदं व्याख्यातम् । इत्थं सूत्रयोजना - स ईश्वरस्तत्तदात्मना स्थितोऽपि साक्षादेव सर्वकर्ता तस्यान्तर्यामित्वलिङ्गात् । जीवत्वद्वारा कर्तृत्वं नाम जीवस्यैव कर्तृत्वमित्यन्तर्यामिणः कर्तृत्वासिद्धेरन्तर्यामित्वायोगात्तदभिध्यानादीश्वरेक्षणादेव भूतेषु श्रुतेक्षणोपपत्तेश्चेति ।
तत्तेज ऐक्षतेति श्रुत ईक्षिता परमात्मैवेत्यत्र श्रुत्यन्तरं प्रकरणं चाह -
नान्य इति ।
तस्मादीश्वरपदार्थलोपप्रसङ्गेनेश्वरादन्यस्य स्वातन्त्र्याभावान्नेश्वरकर्तृत्वश्रुतेर्भूतश्रुत्या विरोध इति सिद्धम् ॥१३॥
विपर्ययेण तु ।
यद्यप्यत्र श्रुतिविरोधो न परिह्रियत इत्यसङ्गतिस्तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यावेव पादावान्तरसङ्गती इति मत्वाह -
भूतानामिति ।
अत्रोत्पत्तिक्रमाद्विपरीतक्रमनिर्णयात्सिद्धान्ते भूतानां प्रातिलोम्येन लयध्यानपूर्वकं प्रत्यग्ब्रह्मणि मनःसमाधानं फलम् , पूर्वपक्षे तु कारणनाशे सति कार्यनाश इति सर्वलयाधारब्रह्मासिद्धेरुक्तसमाध्यसिद्धिरिति भेदः ।
सति महाभूतानां लये क्रमचिन्ता स एव नास्तीति केचित्तान्प्रत्याह -
त्रयोऽपीति ।
अनियम इत्यनास्थयोक्तं श्रौतस्य प्रलयस्य क्रमाकाङ्क्षायां श्रौत उत्पत्तिक्रम एव ग्राह्यः, श्रौतत्वेनान्तरङ्गत्वादित्येवं पूर्वपक्षः । सति कारणे कार्यं नश्यतीति लोके दृश्यते । तथा च श्रौतोऽप्युत्पत्तिक्रमो लये न गृह्यते किन्तु लौकिकक्रम एव गृह्यते श्रुतेर्लोकदृष्टपदार्थबोधाधीनत्वेन श्रौतादपि लौकिकस्यान्तरङ्गत्वाद्योग्यत्वाच्च । कारणमेव हि कार्यस्य स्वरूपमिति तदनन्यत्वन्यायेन स्थापितम् ।
न हि स्वरूपनाशे कार्यस्य क्षणमपि स्थितिर्युक्ता तस्मादयोग्य उत्पत्तिक्रमो लयस्य न ग्राह्यः लौकिकक्रमावरोधेन निराकाङ्क्षात्वादिति सिद्धान्तयति -
ततो ब्रूम इत्यादिना ।
क्रमेण परम्परया सर्वकार्यलयाधारत्वं ब्रह्मणः किमित्याश्रीयते, साक्षादेव तत्किं न स्यादित्यत आह -
न हि स्वकारणव्यतिक्रमेणेति ।
घटनाशे मृदनुपलब्धिप्रसङ्गादित्यर्थः । 'वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते' इति स्मृतिशेष आदिपदार्थः । 'योग्यताधीनः सम्बन्धः' इति न्यायादयोग्यक्रमबाध इति सिद्धम् ॥१४॥
अन्तराविशेषात् ।
उक्तभूतोत्पत्तिलयक्रममुपजीव्य स किं करणोत्पत्तिक्रमेण विरुध्यते न वेति करणानामभौतिकत्वभौतिकत्वाभ्यां सन्देहे वृत्तानुवादपूर्वकं पूर्वपक्षमाह -
भूतानामित्यादिना ।
करणान्येव न सन्तीति वदन्तं प्रत्याह -
सेन्द्रियस्येति ।
'मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ', 'श्रोत्रादीनीन्द्रियाण्यन्ये' इति स्मृतिर्द्रष्टव्या । अन्यपराः शब्दाः लिङ्गानीत्युच्यन्ते ।
करणानां क्रमाकाङ्क्षामाह -
तयोरिति ।
आकाङ्क्षायां श्रुतिसिद्धः क्रमो ग्राह्य इत्याह -
अपि चेति ।
विज्ञायतेऽनेनेति विज्ञानं सेन्द्रिया बुद्धिः । आत्मनो भूतानां चान्तरा मध्ये तल्लिङ्गात्सृष्टिवाक्यात् 'एतस्माज्जायते प्राणो मनः' इत्यादिरूपाद्विज्ञानमनसी अनुक्रम्येते । तथा च करणक्रमेण पूर्वोक्तक्रमभङ्ग इति शङ्कासूत्रांशार्थः । न च करणानां भौतिकत्वाद्भूतानन्तर्यमिति वाच्यम् , तेषां भौतिकत्वे मानाभावात् । तथा चात्मनः प्रथममाकाशस्य जन्म पश्चाद्वायोरित्युक्तक्रमस्यात्मनः करणानि ततो भूतानीति क्रमेण विरोध इति तित्तिर्यथर्वणश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति पूर्वपक्षफलम् ।
सिद्धान्तयति -
नेति ।
'आत्मन आकाशः' इत्यादि तित्तिरिश्रुतौ पञ्चम्याः कार्यकारणभावेनार्थतः क्रमो भाति । न तस्याथर्वणपाठेन बाधः अर्थक्रमविरोधिक्रमविशेषस्याश्रुतेः पाठक्रमस्यार्थक्रमधीशेषस्य शेषिबाधकत्वायोगादितः श्रुत्यर्थक्रमाविरोधेन पाठस्य नेयत्वाद्भूतानन्तर्यं करणानामित्यर्थः ।
किञ्च भौतिकत्वात्तेषां तदानन्तर्यमित्याह -
यदीति ।
न च प्राणस्याब्विकारत्वायोगादन्नमयमित्यादिमयटो न विकारार्थतेति वाच्यम् , करणानां विभक्तत्वेन कार्यतया कारणाकाङ्क्षायामन्नमयमित्यादिश्रुतेराकाङ्क्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वात् । प्राचुर्यार्थत्वे त्वनाकाङ्क्षितोक्तिप्रसङ्गाच्छ्रुत्यैव तेजोबन्नप्राशने वाक्प्राणमनसां वृद्धिस्तदभावे तन्नाश इति विकारत्वस्य दर्शितत्वान्न विवादावसरः । यद्वा स्थूलभूताधीना तेषां वृद्धिर्विकारो मयडर्थः श्रूयमाणो भौतिकत्वे लिङ्गं प्राणेन्द्रियमनांसि भौतिकानि भूताधीनवृद्धिमत्त्वाद्देहवदिति भावः ।
ननु तेषां भौतिकत्वे कथमाथर्वणे पृथक्तज्जन्मकथनं भूतजन्मोक्त्यैव तज्जन्मसिद्धेरित्यत आह -
व्यपदेशोऽपीति ।
प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि श्रुत्यविरोधमाह -
अथ त्विति ।
करणानां भूतानां च पूर्वापरत्वे मानाभावान्नोक्तभूतक्रमभङ्गः । न चाथर्वणवाक्यं मानं पाठमात्रत्वादित्यर्थः ।
तर्हि कथं क्रमनिर्णयः, तत्राह -
तथेति ।
इदं स्थूलमुत्पत्तेः प्राक्प्रजापतिः सूत्रात्मासीत् । अत्र सूक्ष्मभूतात्मकप्रजापतिसर्गः प्रथमस्ततो मनआदिसर्ग इति क्रमो भातीति भावः ।
एवञ्च भूतकरणोत्पत्तिश्रुत्योरविरोधाद्ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तफलं निगमयति -
तस्मादिति ॥१५॥
चराचरभावित्वात् ।
एवं तावत्तत्पदवाच्यकारणनिर्णयाय भूतश्रुतीनां विरोधो निरस्तः इदानीमा पादमाप्तेस्त्वम्पदार्थशुद्ध्यै जीवश्रुतीनां विरोधो निरस्यते । इह जीवो 'न जायते म्रियते' इत्यादिश्रुतेर्जातेष्टिश्राद्धशास्त्रेण विरोधोऽस्ति न वेति सन्देहे विरोधोऽस्तीति प्राप्ते लौकिकजन्मादिव्यपदेशसहायाज्जातेष्ट्यादिशास्त्रेण जीवाजत्वादिश्रुतिर्बाध्यत इति पूर्वपक्षयति -
स्त इति ।
तथा च करणोत्पत्तिक्रमेण भूतक्रमस्य बाधाभावेऽपि जीवोत्पत्तिक्रमेण बाधः स्यादिति प्रत्युदाहरणसङ्गतिः । पूर्वपक्षे जीवब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । चेतनजन्माद्युद्देशेन चेतनस्य तस्य जन्मान्तरीयफलसाधनं जातकर्मादिसंस्कारो विधीयते ।
तथा चोद्देश्यविधेययोर्मिथोविरोधे सति 'विधेयाविरोधेनोद्देश्यं नेयम्' इति न्यायाज्जन्मादिकं देहोपाधिकं न स्वत इति सिद्धान्तयति -
तामित्यादिना ।
जीवापेतं जीवेन त्यक्तमिदं शरीरम् । जन्मादिव्यपदेशश्चराचरदेहविषयो मुख्यः । जीवे तु भाक्तो गौण औपाधिकजन्मादिविषयः स्यादुपाधिजन्मभावे भावादसत्यभावादिति सूत्रार्थः ।
जीवस्यौपाधिकजन्ममृत्यौ श्रुतिमप्याह -
स वा इति ।
जायमानपदार्थमाह -
शरीरमिति ।
म्रियमाणत्वं व्याचष्टे -
उत्क्रामन्निति ।
ननूत्तरत्र जीवस्य जन्मादि निरस्यते, अत्रापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह -
जीवस्येति ।
तदेवं जातेष्ट्यादिशास्त्रस्यौपाधिकजन्मादिविषयत्वान्न जीवाद्यजन्यत्वश्रुतिविरोध इति सिद्धम् ॥१६॥
नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ।
अग्नेर्विस्फुलिङ्गवदेतस्मात्परमात्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्यादिजीवोत्पत्तिश्रुतीनां 'स एष इह प्रविष्ट आनखाग्रेभ्यः ' 'अज आत्मा' इत्याद्यनुत्पत्तिश्रुतीनां च मिथोविरोधात्संशये मा भूतां देहजन्मनाशयोर्जीवजन्मनाशौ, देहान्तरभोग्यस्वर्गादिहेतुविध्याद्यसम्भवात् , कल्पाद्यन्तयोर्नभस इव जीवस्य तौ किं न स्यातां तत्सम्भवादिति प्रत्युदाहरणेन पूर्वपक्षमाह -
तत्र प्राप्तं तावदिति ।
फलं पूर्ववत् । उपरोधो बाधः ।
नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रतिज्ञासिद्धिः, तत्राह -
न चेति ।
जीवः परस्माद्भिन्नः, विरुद्धधर्मवत्त्वाद्भिन्नस्याविकारत्वे प्रतिज्ञाबाध इति तर्कोपेतविभक्तत्वलिङ्गानुगृहीतोत्पत्तिश्रुतेर्बलीयस्त्वात्प्रवेशश्रुतिर्जीवरूपविकारात्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः ।
सरूपेति ।
दृष्टान्तश्रुतेर्भावा जीवा इति निश्चीयते ।
ननु 'आत्मन आकाशः सम्भूतः' इत्यादौ जीवस्योत्पत्त्यश्रवणादनुपत्तिः, तत्राह -
न चेति ।
एवं विकारत्वे सति विकारप्रपञ्चात्मना स्वात्मानमकुरुतेतिवद्विकारजीवात्मना प्रवेश इत्यर्थः ।
अजत्वादिश्रुतिः कल्पमध्ये जीवस्यानुत्पत्त्यादिविषया, तत्त्वमसीति श्रुतिश्च मृद् , घट इत्यभेदवाक्यवद्व्याख्येयेति प्राप्ते सिद्धान्तयति -
एवमिति ।
धर्मिवत्सत्यो विभागो हेतुरौपाधिको वा । नाद्यः, असिद्धेरित्याह -
अत्रोच्यते नास्येति ।
द्वितीये जीवस्य न स्वतो विकारत्वसिद्धिः, अप्रयोजकत्वादित्याह -
बुद्ध्यादीति ।
औपाधिकभेदे मानमाह -
तथा चेति ।
मयटो विकारार्थत्वमाशङ्क्याह -
तन्मयत्वं चेति ।
जाल्मः कामजडः स्त्रीपरतन्त्रः । स्त्रीमय इतिवज्जीवस्य स्वरूपाज्ञानाद्बुद्ध्यादिपरतन्त्रत्वेन भेदकर्तृत्वादिभाक्त्वात्प्राचुर्यार्थे मयट्प्रयोग इत्यर्थः ।
लिङ्गं निरस्य तदनुग्राह्यश्रुतेर्गतिमाह -
यदपीति ।
जीवस्यौपाधिकजन्मनाशयोः श्रुतिमाह -
तथेति ।
एतेभ्यो देहात्मन परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति । प्रेत्यौपाधिकमरणानन्तरं संज्ञा नास्तीत्यर्थः ।
ननु प्रज्ञानघनः, संज्ञा नास्तीति च विरुद्धमित्यत आह -
तथेति ।
उपाधिलयाद्विशेषज्ञानाभाव एव संज्ञाभावो नात्मस्वरूपविज्ञानाभाव इत्युत्तरं प्रतिपादयति श्रुतिरित्यन्वयः । अत्रैवात्मनि विज्ञानघने प्रेत्यसंज्ञा नास्तीत्युक्त्या मा मोहान्तं मोहमध्यं भ्रान्तिमापीपददापादितवानिममर्थं न जानामि ब्रूहि त्वदुक्तेरर्थमिति मैत्रेयीप्रश्नार्थः ।
मुनिराह -
न वा इति ।
मोहं मोहकरं वाक्यमुच्छित्तिः पूर्वावस्थानाशो धर्मोऽस्येत्युच्छित्तिधर्मा परिणामी स नेत्यनुच्छित्तिधर्मापरिणामी, तस्मादविनाशीत्यर्थः ।
तर्हि न प्रेत्य संज्ञेति कथमुक्तम् , तत्राह -
मात्रेति ।
मात्राभिर्विषयैरसंसर्गात्तथोक्तमित्यर्थः ।
बिम्बप्रतिबिम्बयोरिव विरुद्धधर्मभेदोऽध्यस्त इत्यत्र हेतुमाह -
अत ऊर्ध्वमिति ।
जीवस्य विकारित्वे मुक्त्ययोगात्तत्त्वमसीति वाक्यमखण्डार्थमिति च वक्तव्यम् , तथा च फलवत्प्रधानवाक्यापेक्षितजीवनित्यत्वश्रुतीनां बलवत्त्वादुत्पत्त्याधिकमध्यस्तमनुवदन्त्युत्पत्त्यादिश्रुतय इत्यविरोध इति सिद्धम् ॥१७॥
ज्ञोऽत एव ।
'आत्मैवास्य ज्योतिः' इत्याद्यात्मस्वप्रकाशत्वश्रुतीनां 'पश्यंश्चक्षुः शृण्वञ्च्छ्रोत्रम्' इत्यनित्यज्ञानवत्त्वश्रुतिभिर्विरोधोऽत्र निरस्यते । अस्य लोकस्य चक्षुर्द्रष्टा श्रोत्रं श्रोतेत्यर्थः । प्रागुक्तजीवानुत्पत्तिहेतुमादाय स्वप्रकाशत्वसाधनाद्धेतुसाध्यभावः सङ्गतिः । अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति जीवस्य स्वप्रकाशता सिध्यति । न चैवं गतार्थता, अनुत्पन्नस्यापि जीवस्य स्वप्रकाशत्वे ज्ञानसाधनवैयर्थ्यमिति तर्कसहितानित्यज्ञानश्रुतिबलेन स्वप्रकाशत्वश्रुतेर्बाध्यतया ब्रह्मान्यत्वशङ्कायां तदैक्ययोग्यतायै स्वप्रकाशत्वस्यात्र साधनात् । तथा च पूर्वपक्षे जीवस्य ब्रह्मैक्यायोग्यता सिद्धान्ते तद्योग्यतेत्यापादसमाप्तेः फलमवगन्तव्यम् । इष्टापत्तिं निराचष्टे -
ते पृष्टा इति ।
साधनाधीनज्ञानत्वान्न स्वप्रकाशो जीवो व्यतिरेकेणेश्वरवदित्याह -
अतः कादाचित्केति ।
यथाश्रुते भाष्ये हेतोः साध्याविशेष इति मन्तव्यम् ।
अतो जीवस्य स्वप्रकाशत्वश्रुतिर्बाध्येति प्राप्ते सिद्धान्तयति -
एवमिति ।
चेच्छब्दो निश्चयार्थः ।
न केवलं स्वप्रकाशब्रह्माभेदाज्जीवस्य स्वप्रकाशता किन्तु श्रुतितोऽपीत्याह -
विज्ञानमयेति ।
योऽयं विज्ञानमय इति प्रकरण इत्यर्थः । असुप्तः स्वयं भासमान एवात्मा सप्तांल्लुप्तव्यापारान्वागादीनभिलक्ष्य चाकशीति । सुप्तार्थान्पश्यतीति यावत् । अत्र स्वप्ने विज्ञातुर्बुद्धिसत्त्वस्य साक्षिणो विज्ञातेर्विनाशो नास्तीत्यर्थः ।
घ्राणादिजन्यगन्धादिज्ञानानुसन्धानसिद्धये आत्मनो ज्ञानरूपत्वं वाच्यमिति श्रुत्यन्तरेणाह -
अथेति ।
आत्मनो नित्यचिद्रूपत्वेऽपि स्वतोऽसङ्गतया गन्धाद्यसम्बन्धात्तत्सम्बन्धघटनात्मकवृत्त्यर्थानि ज्ञानसाधनानीति न तेषां वैयर्थ्यमित्याह -
न गन्धेति ।
परिच्छेदो वृत्तिः । गन्धाय तद्गोचरान्तःकरणवृत्तये इत्यर्थः ।
सुप्ताद्यवस्थास्वात्मसत्त्वेऽपि चैतन्याभावान्नात्मा चिद्रूप इत्युक्तं दूषयति -
यत्त्विति ।
तत्तदासुषुप्तौ न पश्यतीति यत्तत्पश्यन्नेवालुप्तज्ञान एव सन्न पश्यतीत्यत्र हेतुः -
न हीति ।
नाशायोग्यत्वादित्यर्थः ।
किमिति न पश्यतीत्यत आह -
न त्विति ।
वृत्तेः साधनाधीनत्वोक्त्या स्वरूपज्ञानस्यासाधनाधीनत्वं हेतुरसिद्ध इत्युक्तम् । साधनवैयर्थ्यतर्कोऽपि निरस्तः । शृण्वन्नित्याद्यनित्यज्ञानश्रुतीनां वृत्तिविषयत्वं व्याख्यातम् । आत्मा न ज्ञानम् , द्रव्यत्वात् , इत्यादितर्काश्चागमबाधिताः । फलवत्प्रधानवाक्यापेक्षितस्वप्रकाशत्वागमस्य बलवत्त्वात् । किञ्च निरवयवात्मनो मनःसंयोगान्नानित्यज्ञानगुणता समवायाभावाच्च न स्वसमवेतज्ञानवेद्यता कर्मकर्तृत्वविरोधाच्च । किञ्च ज्ञानत्वस्यैकवृत्तित्वे लाघवादात्मैव ज्ञानं वृत्तेश्च मनःपरिणामत्वश्रुत्या 'कामः सङ्कल्पः' इत्याद्यया जडत्वान्नास्माकं ज्ञानद्वैविध्यगौरवमित्यनवद्यमात्मनः स्वप्रकाशत्वमिति सिद्धम् ॥१८॥
स्वप्रकाशत्वादात्मस्वरूपादीषद्बहिष्ठं परिमाणमेवाश्रिताश्रयत्वेनान्तर्बहिर्भावेन वा सङ्गत्या विचारयति -
उत्क्रान्तिगत्यागतीनाम् ।
विषयसंशयौ दर्शयति -
इदानीमिति ।
नात्माश्रुतेरित्यादिना गतार्थत्वमस्याशङ्क्यात्माणुत्वश्रुतीनां महत्त्वश्रुतीनां चाविरोधकथनार्थमस्याधिकरणस्यारम्भ इत्याह -
नन्वित्यादिना ।
न केवलं श्रुतोत्क्रान्त्याद्यनुपपत्त्यात्मनोऽणुत्वं किन्त्वेषोऽणुरात्मेति श्रुत्यापीत्याह -
स्वशब्देनेति ।
पूर्वपक्षे जीवस्याणुत्वाद्ब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकुर्वन्पूर्वपक्षमाह -
तत्र प्राप्तमित्यादिना ।
श्रुतेरणुरिति उत्तरसूत्रादाकृष्य सूत्रं पूरितम् । उत्क्रान्तिः श्रूयत इति शेषः । स मुमूर्षुः जीव एतैर्बुद्ध्यादिभिस्तस्माच्चन्द्रलोकादिमं लोकं प्रति कर्म कर्तुमायातीत्यर्थः ॥१९॥
उत्क्रान्तिरात्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात्किन्तु स्वामित्वनिवृत्तिरिति केचित् । तदङ्गीकृत्याप्यणुत्वमावश्यकमित्याह -
स्वात्मनेति ।
उत्क्रान्तेरुत्तरयोर्गत्यागत्योः स्वात्मना कर्त्रा सम्बन्धादणुत्वमिति सूत्रयोजना ।
पाकानाश्रयस्य पक्तृत्ववद्गत्यनाश्रयस्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह -
गमेरिति ।
गमनस्य कर्तरि संयोगविभागरूपातिशयहेतुत्वात्कर्त्राश्रितत्वं लोकसिद्धमित्यर्थः ।
जीवोऽणुरमध्यमपरिमाणत्वे सति गतिमत्त्वात्परमाणुवदित्याह -
अमध्यमेति ।
अङ्गीकारं त्यजति -
सत्योश्चेति ।
न स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्यर्थः ।
देहान्निर्गम एवोत्क्रान्तिरित्यत्र लिङ्गान्तरमाह -
देहप्रदेशानामिति ।
अपादानत्वमवधित्वम् । अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः ।
किञ्च देहमध्येऽपि जीवस्य गत्यागतिश्रुतेरणुत्वमित्याह -
स इति ।
इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रकाशकमिन्द्रियग्राममादाय पुनर्जागरितस्थानमागच्छतीत्यर्थः ॥२०॥
इतराधिकारात् ।
ब्रह्मप्रकरणात् ।
ननु महत्त्वश्रुतेः कथं परप्रकरणस्थत्वमित्यत आह -
परस्येति ।
या वेदान्तश्रुतिः सा परप्रकरणस्थेत्युत्सर्गात्तस्यास्तत्स्थत्वं ब्रह्मारभ्याधीतत्वाच्चेत्याह -
विरज इति ।
निर्दोष इत्यर्थः ।
विज्ञानमयश्रुत्या प्रकरणं बाध्यमिति शङ्कते -
नन्विति ।
अणोर्जीवस्य ब्रह्मणा भेदभेदाङ्गीकाराच्छास्त्रीयाभेददृष्ट्या महत्त्वोक्तिः, यथा वामदेवस्याहं मनुरिति सर्वात्मत्वोक्तिरित्यविरोधमाह -
शास्त्रेति ॥२१॥
एवमुत्क्रान्त्यादिश्रुत्याणुत्वमनुमितम् , तत्र श्रुतिमप्याह -
स्वशब्देति ।
बालाग्रादुद्धृतः शततमो भागस्तस्मादप्युद्धृतः शततमो भागो जीव इति, उद्धृत्य मानमुन्मानमत्यन्ताल्पत्वमित्यर्थः । बालः केशः, तोत्रप्रोतायःशलाकाग्रमाराग्रम् । तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा ॥२२॥
आत्मसंयुक्तायास्त्वचो देहव्यापिस्पर्शोपलब्धिकरणस्य महिम्नात्मनोव्यापिकार्यकारित्वमविरुद्धम् । -
त्वगात्मनोरिति ।
सम्बन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वादात्मसंयोगस्य कृत्स्नत्वङ्निष्ठतेत्यर्थः ॥२३॥
सिद्धे हीति ।
न तु सिद्धमित्यतुल्यतेत्यर्थः । विशेष एव वैशेष्यम् । चन्दनबिन्दोरल्पत्वस्य प्रत्यक्षत्वात्त्वग्व्याप्त्या व्यापिकार्यकारित्वकल्पना युक्ता, जीवस्य त्वणुत्वे सन्देहाद्व्यापिकार्यदृष्ट्या व्यापित्वकल्पनमेव युक्तम् । व्यापिकार्याश्रयो व्यापीत्युत्सर्गादिति सूत्रशङ्काभागार्थः ।
आत्माल्पः, व्यापिकार्यकारित्वात् , चन्दनबिन्दुवदित्यनुमानमयुक्तम् , त्वगादौ व्यभिचारादित्याह -
न चात्रानुमानमिति ।
पूर्वोक्तश्रुतिभिर्जीवस्याणुत्वनिश्चयाद्धृदिस्थत्वश्रुतिभिरेकदेशस्थत्वनिश्चयाच्च न दृष्टान्तवैषम्यमिति परिहारभागार्थमाह -
अत्रोच्यत इति ॥२४॥
आत्मवत्तद्धर्मज्ञानस्याप्यणुत्वं स्वतः, कादाचित्कं तु देहपरिमाणत्वमित्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह -
गुणाद्वेति ।
वाशब्देन चन्दनदृष्टान्तापरितोषः सूचितस्तमाह -
स्यादिति ॥२५॥
उत्तरसूत्रव्यावर्त्यं शङ्कते -
कथमिति ।
ज्ञानं न गुणिव्यतिरिक्तदेशव्यापि, गुणत्वात् , रूपवत् , न च प्रभायां व्यभिचारस्तस्या अपि द्रव्यत्वादिति प्राप्ते गन्धे व्यभिचारमाह -
अत उत्तरमिति ।
गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः ।
ननु विश्लिष्टावयवानामल्पत्वाद्रव्यक्षयो न भातीत्यत आह -
अक्षीयमाणमपीति ।
अपिरवधारणे पूर्वावस्थालिङ्गेनाक्षीयमाणमेव तद्द्रव्यमनुमीयत इत्यर्थः । विमतमविश्लिष्टावयवम् , पूर्वावस्थातो गुरुत्वाद्यपचयहीनत्वात् , सम्मतवदिति भावः ।
शङ्कते -
स्यादेतदिति ।
विश्लिष्टानामल्पत्वादित्युपलक्षणम् , अवयवान्तराणां प्रवेशादित्यपि द्रष्टव्यम् । विशेषोऽवयवानां विश्लेषप्रवेशरूपः सन्नपि न ज्ञायते, तथा च गुरुत्वापचयो न भवतीति हेतोरन्यथासिद्धिरिति शङ्कार्थः ।
आगच्छन्तोऽवयवाः परमाणवस्त्रसरेणवो वा, नाद्यः, तद्गतरूपवद्गन्धस्याप्यनुपलब्धिप्रसङ्गादिति परिहरति -
नेति ।
द्वितीयं प्रत्याह -
स्फुटेति ।
त्रसरेणुगन्धश्चेत्स्फुटो न स्यादित्यर्थः । अतो गन्धस्य पुष्पादिस्थस्यैव गुणव्यतिरेको वाच्य इति भावः ।
गन्धो न गुणिविश्लिष्टः गुणत्वात् , रूपवदिति शङ्कते -
रूपेति ।
विश्लेषस्य प्रत्यक्षत्वाद्बाध इत्याह -
नेति ॥२६॥
आत्मनश्चैतन्यगुणेनैव देहव्याप्तिरित्यत्र श्रुतिमाह सूत्रकारः -
तथा च दर्शयतीति ।
तद्व्याचष्टे -
हृदयेति ॥२७॥
तत्रैव श्रुत्यन्तरार्थं सूत्रम् -
पृथगिति ।
विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः । एतं चैतन्यगुणव्याप्तिगोचरमभिप्रायम् ॥२८॥
तत्रात्माणुत्वविभुत्वश्रुतीनां विरोधादप्रामाण्यप्राप्तावणुत्वं जीवस्य विभुत्वमीश्वरस्येत्यविरोध इत्येकदेशिपक्षो दर्शितः । तं दूषयन्सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।
तस्माद्ब्रह्माभिन्नत्वाद्विभुर्जीवः ब्रह्मवदित्यनुमानानुगृहीते श्रुतिस्मृती आह -
तथा च स वा एष इति ।
नित्यः सर्वगतः स्थाणुरित्याद्याः स्मार्तवादाः । एतेन जीवस्य ब्रह्माभेदज्ञानेऽणुत्वाभावधीस्तस्यां तदित्यन्योन्याश्रय इति निरस्तम् । प्रधानमहावाक्यानुगुणश्रुतिस्मृतिभिरणुत्वाभावनिश्चयानन्तरमभेदज्ञानात्प्रधानवाक्यविरोधे गुणभूताणुत्वश्रुतीनामौपाधिकाणुत्वविषयत्वकल्पनात् । 'गुणे त्वन्याय्यकल्पना' इति न्यायादिति भावः । किञ्च सर्वदेहव्यापिशैत्यानुभवान्यथानुपपत्त्याणुत्वश्रुतयोऽध्यस्ताणुत्वविषयत्वेन कथञ्चिदर्थवादा नेयाः ।
लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह -
न चाणोरिति ।
शङ्कते -
त्वगिति ।
यद्यण्वात्मसम्बन्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्तर्ह्यतिप्रसङ्ग इति दूषयति -
नेति ।
प्रसङ्गस्येष्टत्वं निरस्यति -
पादतल एवेति ।
तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देहव्याप्त्यदर्शनात् , तथा चाण्वात्मसंयोगस्त्वगेकदेशस्थ एवेति देहव्यापिवेदनानुपपत्तिः । न च सिद्धान्ते त्वगात्मसम्बन्धस्य व्यापित्वात्कण्टकसम्बन्धे देहव्यापिवेदनाप्रसङ्ग इति वाच्यम् । यावती विषयसम्बद्धा त्वक्तावद्व्याप्यात्मसम्बन्धस्तावद्व्यापिवेदनाहेतुरिति नियमात् । न चैवं विषयत्वक्सम्बन्ध एव तद्धेतुरस्तु किमात्मव्याप्त्येति वाच्यम् । वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्याणामल्पमुपादानं सम्भवति कार्यस्योपादानाद्विश्लेषानुपपत्तेः । न चैषां व्यापकत्वमसिद्धम् , सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वाङ्गव्यापिदुःखसुखानुभवस्य दुरपह्नवत्वात् ।
यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह -
न चाणोरिति ।
गन्धो नाश्रयाद्विश्लिष्टः, गुणत्वात् , रूपवदित्यत्रागममाह -
तथा चोक्तमिति ।
न च प्रत्यक्षबाधः, गन्धस्य प्रत्यक्षत्वेऽपि निराश्रयत्वस्याप्रत्यक्षत्वान्महतां त्रसरेणूनामनुद्भूतस्पर्शानामुद्भूतगन्धानामागमनात्स्फुटगन्धोपलम्भसम्भवः, अवयवान्तरप्रवेशान्न सहसा मूलद्रव्यक्षय इति भावः ।
पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्यात्माणुत्वं निरस्तम् , सम्प्रति तस्य गुणत्वमसिद्धमित्याह -
यदि च चैतन्यमिति ।
उत्सूत्रं विभुत्वं प्रसाध्याणुत्वाद्युक्तेर्गतिप्रदर्शनार्थं सूत्रं व्याचष्टे -
कथमित्यादिना ।
'अन्तरा विज्ञानमनसी हृदि हि' इति च प्रकृता बुद्धिर्योग्यत्वात्तच्छब्देन परामृश्यते ।
बुद्धिगुणानामात्मन्यध्यासादणुत्वाद्युक्तिर्न स्वतः, आनन्त्यश्रुतिविरोधादित्याह -
तथा चेति ।
अकार्यकारणद्रव्यसमानाधिकरणतया तत्त्वमसीति वाक्यस्य सोऽयमिति वाक्यवदखण्डाभेदार्थत्वादानन्त्यं सत्यमणुत्वमध्यस्तमित्यर्थः । उक्तं चैतदङ्गुष्ठाधिकरणे 'प्रतिपाद्यविरुद्धमुद्देश्यगतविशेषणमविवक्षितम्' इति ।
बालाग्रवाक्यमाराग्रवाक्यं चेत्युन्मानद्वयमुक्तम् । तत्राद्यं निरस्य द्वितीयं निरस्यति -
तथेतरस्मिन्नपीति ।
बुद्धेर्गुणेन निमित्तेनात्मन्यध्यस्तो गुणो भवति तेनात्मगुणेनाध्यस्तेनैवाराग्रपरिमाणोऽपकृष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः ।
'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः' इत्युक्त्वा 'एषोऽणुरात्मा' इत्युक्तः पर एव, यदि जीवस्तथाप्यध्यस्ताणुत्वमणुशब्दार्थ इत्याह -
जीवस्यापीति ।
यदुक्तं पृथगुपदेशाच्चैतन्यगुणेनैवात्मनो देहव्याप्तिरिति, तत्राह -
तथा प्रज्ञयेति ।
बुद्धिः प्रज्ञेत्यर्थः ।
यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह -
व्यपदेशमात्रं वेति ।
ननु चैतन्यं गुण इति भेदो मुख्योऽस्तु, नेत्याह -
न ह्यत्रेति ।
निर्गुणत्वश्रुतेरित्यर्थः ।
अन्यदपि पूर्वोक्तं बुद्ध्याद्युपाधिकमित्याह -
हृदयेत्यादिना ।
सौत्रं दृष्टान्तं विवृणोति -
यथेति ।
असत्त्वमित्यापाततः । असंसारित्वमापाद्यम् । शेषं सुबोधम् ॥२९॥
ननु स्वतः संसारित्वमस्तु किं बुद्ध्युपाधिनेत्यत आह -
यावदेव चायमिति ।
समानो बुद्धितादात्म्यापन्नः सन् विज्ञानं ब्रह्म तन्मयो विकारोऽणुरित्यर्थः ।
किं न स्यादित्यत आह -
प्रदेशान्तर इति ।
विज्ञानमयो बुद्धिप्रचुर इत्यर्थः । केन समान इत्याकाङ्क्षायामिति शेषः ।
श्रुतिबलाद्बुद्धेर्यावत्संसार्यात्मभावित्वमुक्तम् , सति मूले कार्यस्य वियोगासम्भवाच्चेति युक्त्याप्याह -
अपि च मिथ्येति ।
सम्यग्ज्ञानादेव बुद्ध्यादिबन्धध्वंस इत्यत्र श्रुतिमाह -
दर्शयतीति ।
मृत्युमत्येतीत्यन्वयः । आदित्यवर्णं स्वप्रकाशम् । तमसः परस्तादज्ञानास्पृष्टमित्यर्थः ॥३०॥
यावदात्मभावित्वस्यासिद्धिं शङ्कते -
नन्विति ।
सुषुप्तौ बुद्धिसत्त्वे ब्रह्मसम्पत्तिर्न स्यात् । प्रलये तत्सत्त्वे प्रलयव्याहतिरित्यर्थः ।
स्थूलसूक्ष्मात्मना बुद्धेर्यावदात्मभावित्वमस्तीत्याह -
पुंस्त्वेति ।
पुंस्त्वं रेतः । आदिपदेन श्मश्वादिग्रहः । अस्य बुद्धिसम्बन्धस्येत्यर्थः ।
स्वापे बीजात्मना सतो बुद्धयादेः प्रबोधेऽभिव्यक्तिरित्यत्र श्रुतिमाह -
दर्शयतीति ।
न विदुरित्यविद्यात्मकबीजसद्भावोक्तिः । ते व्याघ्रादयः पुनराविर्भवन्ति इत्यभिव्यक्तिनिर्देशः ॥३१॥
बुद्धिसद्भावे मानमाह सूत्रकारः -
नित्येति ।
'मनसा ह्येव पश्यति', 'बुद्धिश्च न विचेष्टति', 'विज्ञानं यज्ञं तनुते', 'चेतसा वेदितव्यः', 'चित्तं च चेतयितव्यम्' इति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः ।
कथमेकस्यानेकधोक्तिः, तत्राह -
क्वचिच्चेति ।
गर्ववृत्तिकोऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् ।
यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति -
तच्चेत्यादिना ।
सूत्रं योजयति -
अन्यथेति ।
पञ्चेन्द्रियाणां पञ्चविषयसम्बन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनोऽतिरिक्तसामग्र्याः सत्त्वात् । यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः । अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः ।
ननु सत्यपि कराग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे -
अथवेति ।
सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनचिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः ।
अस्तु प्रतिबन्ध इत्यत आह -
न चेति ।
न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् । प्रतिबन्धकाभावात् । न च दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् । न च व्यासङ्गः, प्रतिबन्धकमनोऽसत्त्वे तस्यासम्भवात् । तथा हि - रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनोऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः ।
एतदभिप्रेत्योपसंहरति -
तस्मादिति ।
अवधानं बुभुत्सा । न चानिच्छतोऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम् , अनेकविषयसन्निधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् । तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् । इच्छादिधर्मिणैवात्मना व्यासङ्गोपपत्तेः ।
सम्प्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह -
तथा चेति ।
न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह -
कामादयश्चेति ।
बुद्धेः प्रामाणिकत्वोक्तिफलमाह -
तस्मादिति ॥३२॥
एवमात्मन्यणुत्वाध्यासोक्त्या स्वाभाविकं महत्त्वं स्थापितम् । सम्प्रति ततो बहिष्ठं कर्तृत्वं साधयति -
कर्ता शास्त्रार्थवत्त्वात् ।
स नित्यश्चिद्रूपो महानात्मा कर्ता न वेत्यसङ्गत्वश्रुतीनां विध्यादिश्रुतीनां च विप्रतिपत्त्या संशये बुद्धिकर्तृत्वेनैव विध्यादिशास्त्रोपपत्तेरकर्तात्मेति साङ्ख्यपक्षप्राप्तौ सिद्धान्तयन्नैव तद्गुणसारत्वोक्त्यात्मनि कर्तृत्वाध्यासस्यापि सिद्धत्वात्पुनरुक्तिमाशङ्क्य साङ्ख्यपक्षनिरासार्थमात्मनि कर्तृत्वाध्यासप्रपञ्चनान्न पुनरुक्तिरित्याह -
तद्गुणेति ।
अधिकारः प्रसङ्गः । वस्तुतोऽसङ्गत्वम् । अविद्यातः कर्तृत्वमित्यसङ्गत्वकर्तृत्वश्रुतीनामविरोधोक्तेः कर्तृत्वविचारात्मकाधिकरणत्रयस्य पादसङ्गतिः । श्रुतीनां मिथो विरोधाविरोधौ पूर्वोत्तरपक्षयोः फलम् । यद्वात्र पूर्वपक्षे बन्धाभावाच्छास्त्रवैयर्थ्यं फलम् , सिद्धान्ते कर्तृत्वादिसम्बन्धसत्त्वाच्छास्त्रार्थवत्तेति भेदः ।
ननु बुद्धिकर्तृत्वेन शास्त्रार्थवत्तास्तु किं जीवकर्तृत्वेन तत्राह -
तद्धि कर्तुः सत इति ।
मयेदं कर्तव्यमिति बोधसमर्थस्य चेतनस्यैव कर्तृत्वं वाच्यं न त्वचेतनाया बुद्धेः । किं च भोक्तुरात्मन एव कर्तृता वाच्या 'शास्त्रफलं प्रयोक्तरि' इति न्यायादिति भावः ॥३३॥
सन्ध्यं स्थानं स्वप्नः । अमृतः स आत्मा यथेष्टमीयते गच्छतीति विहारोपदेशात् , आत्मा कर्ता ॥३४॥
प्राणानां मध्ये विज्ञानेन बुद्ध्या विज्ञानसमर्थमिन्द्रियजातमादाय शेते इति प्राणान् गृहीत्वा परिवर्तत इति उपादानकर्तृत्वमात्मनः अकर्तृत्वे उपादानानुपपत्तेरिति भावः ॥३५॥
विज्ञानशब्दो जीवस्य निर्देशो न चेत्तदा प्रथमानिर्देशाद्विपर्ययः । करणद्योतितृतीयया निर्देशः स्यात् । तस्मादिह श्रुतौ तनुत इत्याख्यातेन कर्तृवाचिना विज्ञानपदस्य सामानाधिकरण्यनिर्देशात्क्रियायामात्मनः कर्तृत्वं सूच्यत इति सूत्रभाष्ययोरर्थः ॥३६॥
सूत्रान्तरमवतारयति -
अत्राहेति ।
जीवः स्वतन्त्रश्चेदिष्टमेव कुर्यादस्वतन्त्रश्चेन्न कर्ता, 'स्वतन्त्रः कर्ता' इति न्यायादित्यर्थः ।
सत्यपि स्वातन्त्र्ये कारकवैचित्र्यादनियता प्रवृत्तिरिति सूत्रेण परिहरति -
यथेति ।
दृष्टान्तासम्प्रतिपत्त्या शङ्कते -
उपलब्धावपीति ।
चक्षुरादीनां चैतन्येन विषयसम्बन्धार्थत्वात्स्वसम्बन्धोपलब्धौ चात्मनश्चैतन्यस्वभावत्वेन स्वातन्त्र्याद्दृष्टान्तसिद्धिरित्याह -
नेति ।
नन्वात्मा विषयसम्बन्धाय करणान्यपेक्षते चेत्कथं स्वतन्त्र इत्याशङ्क्यमाह -
अपि चेति ।
स्वातन्त्र्यं नाम न स्वान्यानपेक्षत्वम् , ईश्वरस्यापि प्राणिकर्मापेक्षत्वेनास्वातन्त्र्यप्रसङ्गात् । किं तु स्वेतरकारकप्रयोक्तृत्वे सति कारकाप्रेर्यत्वं स्वातन्त्र्यं तेन स्वतन्त्रोऽपि जीव इष्टसाधनत्वभ्रान्त्यनिष्टसाधनमप्यनुतिष्ठतीत्यनियता प्रवृत्तिः स्वातन्त्र्यं चेत्यविरुद्धमित्यर्थः ॥३७॥
जीवस्य कर्तृत्वे हेत्वन्तरार्थं सूत्रम् -
शक्तीति ।
बुद्धेः करणशक्तिविपरीता कर्तृशक्तिः स्यादित्यर्थः ।
ततः किम् , तत्राह -
सत्यां च बुद्धेरिति ।
योऽहन्धीगम्यः । स कर्ता स एव जीवो यत्तदपेक्षितं करणं तन्मन इति जीवकर्तृत्वसिद्धिरिति भावः ॥३८॥
ज्ञानसाधनविध्यन्यथानुपपत्त्याप्यात्मनः कर्तृत्वं वाच्यमित्याह -
समाधीति ।
मुक्तिफलभोक्तुरेव तदुपायसमाधिकर्तृत्वं युक्तम् , अन्यथात्मनोऽकर्तृत्वे बुद्धेरपि अभोक्त्र्याः कर्तृत्वायोगात्समाध्यभावप्रसङ्ग इत्यर्थः ॥३९॥
यथा च तक्षोभयथा ।
उक्तमात्मनः कर्तृत्वमुपजीव्य संशयपूर्वपक्षावाह -
एवं तावदित्यादिना ।
साङ्ख्यनिरासेनात्मनः कर्तृत्वे साधिते बाधकाभावात्तत्सत्यमिति मीमांसकादिपक्षः प्राप्तः । न चासङ्गत्वागमेन बाधः, अहं कर्तेत्यनुभवसहितकर्तृत्वश्रुतिबलेन तस्यागमस्य स्तावकत्वादिति प्राप्त उत्सूत्रमेव सिद्धान्तयति -
न स्वाभाविकमिति ।
यदुक्तं बाधकाभावादिति तदसिद्धमित्याह -
अनिर्मोक्षेति ।
ननु कर्तृत्वं नाम क्रियाशक्तिर्मुक्तावप्यस्ति तथापि शक्तिकार्यस्य क्रियारूपशक्यस्याभावान्मुक्तेः पुरुषार्थत्वसिद्धिरिति शङ्कते -
ननु स्थितायामिति ।
सत्यां शक्तौ कथं कार्यपरिहारः, तत्राह -
तत्परिहारश्चेति ।
मुक्तौ शक्तिसत्त्वे कार्यमपि स्यात् , शक्याभावे शक्त्ययोगात् ।
अस्ति हि प्रलयेऽपि कार्यं पुनरुद्भवयोग्यं सूक्ष्मं शक्यम् , तथा च शक्त्या धर्मादिनिमित्तैः सहितकार्याक्षेपान्मुक्तिलोप इति परिहरति -
न निमित्तानामपीति ।
सनिमित्तस्य कार्यस्य शक्यत्वेन शक्त्या सम्बन्धान्नमित्तानामपि परम्परया शक्तिसम्बन्धित्वमुक्तं मन्तव्यम् । सम्बन्धेन सम्बन्धिनेत्यर्थः । यद्वा शक्तिर्लक्षणमाक्षेपकं यस्य कार्यस्य तेन कार्येण यः सम्बन्धस्तेनेति व्यधिकरणे तृतीये ।
ननु नरस्य कर्मणा देवत्ववच्छास्त्रबलात्कर्तुरेवाकर्तृतासिद्धिरिति शङ्कते -
नन्विति ।
ज्ञानादकर्तृत्वाख्यमोक्षश्चेत्कर्तृत्वमाविद्यकं स्याद्यतो ज्ञानमज्ञानस्यैव निवर्तकम् ।
यदि कर्मणा मोक्षः तत्राह -
नेति ।
आत्मनः स्वाभाविकं कर्तृत्वमभ्युपगम्यानिर्मोक्ष उक्तः । सम्प्रत्यसङ्गनिर्विकारत्वानेकश्रुतिव्याकोपात्तन्न स्वाभाविकमित्याह -
अपि चेति ।
न चाभ्यस्तानेकश्रुतीनां स्तावकत्वकल्पनं युक्तम् , न चाहं कर्तेत्यनुभवो विरुध्यते, तस्य सत्यमिथ्योदासीनकर्तृत्वावगाहिनोऽध्यासत्वेनाप्युपपत्तेरित्यर्थः ।
कर्तृत्वस्याध्यस्तत्वे श्रुतिमाह -
तथा चेति ।
विद्वदनुभवबाधितं च कर्तृत्वमित्याह -
न हीति ।
बुद्ध्यादिसङ्घाताद्व्यतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी प्रसज्येत, तच्चानिष्टम् , परस्य नित्यमुक्तत्वव्याघातादिति शङ्कते -
पर एवेति ।
न वयं शुद्धस्य चिद्धातोः परस्य बन्धं वदामः, किन्तु तस्यैवाविद्याबुद्ध्यादिप्रतिबिम्बितस्याविद्यया भिन्नस्य जीवत्वं प्राप्तस्य बन्धमोक्षाविति ब्रूमः ।
कल्पितभेदोऽपि लोके बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थापको दृष्ट इति परिहरति -
नाविद्येति ।
अविद्योपहिते बन्धो न शूद्धात्मनीत्यत्र श्रुतिमाह -
तथा चेति ।
कर्तृत्वस्य बुद्ध्युपाध्यन्वयव्यतिरेकानुविधायित्वाच्छ्रुतेश्च न स्वाभाविकत्वमित्याह -
तथा स्वप्नेति ।
आत्मैव काम्यते आनन्दत्वादित्यात्मकामं स्वरूपं स्वातिरिक्तकाम्यासत्त्वादकामम् , आत्मकामत्वादकामत्वाच्चाप्तकामं विशोकत्वाच्चेत्याह -
शोकेति ।
शोकान्तरं दुःखास्पृष्टमित्यर्थः ।
तस्यैव सुषुप्तात्मरूपस्य परमपुरुषार्थतामाह -
एष इति ।
गतिः प्राप्यम् , सम्पदैश्वर्यं लोको बोग्यं सुखम् , चैतस्मादन्यत्रास्तीत्यर्थः ।
आत्मा स्वतोऽकर्ता बुद्ध्याद्युपाधिना तु कर्तेत्युभयथाभाव उक्तः । तत्रार्थे सूत्रं योजयति -
तदेतदाहेत्यादिना ।
सम्प्रसादः सुषुप्तिः । यथा स्फटिकस्य लौहित्यं कुसुमाद्युपाधिकं तथात्मनः कर्तृत्वं बुद्ध्याद्युपाधिकमन्वयव्यतिरेकाभ्यां सिद्धम् । न च तौ बुद्धेरात्मकर्तृत्वे करणत्वविषयौ नोपादानत्वविषयाविति युक्तम् , करणत्वात्कार्यान्वय्युपादानत्वस्यान्तरङ्गतया चित्संवलितबुद्धेस्ताभ्यामुपादानत्वस्यैव सिद्धेः, एवं चिदभेदेनाध्यस्तबुद्ध्याख्याहङ्कारस्य कर्तृत्वोपादानत्वेन महावाक्यसम्मतिश्चेति भावः ।
ननु तक्षा स्वहस्तादिना वास्यादिप्रेरणशक्तत्वात्स्वतः कर्ता आत्मा तु निरवयवत्वादशक्त इति दृष्टान्तवैषम्यमाशङ्क्यौपाधिककर्तृत्वांशेन विवक्षितेन साम्यमाह -
तक्षदृष्टान्तश्चेति ।
शास्त्रेणानूद्यमानं कर्तृत्वं स्वाभाविकमेव किं न स्यादित्यत आह -
न च स्वाभाविकमिति ।
उपाध्यभावकाले श्रुतं कर्तृत्वं स्वाभाविकमेवेति शङ्कते -
ननु सन्ध्य इति ।
किञ्च करणैर्विशिष्टस्य कर्तृत्वे तेषां कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् । न चैवमस्ति ततः केवलात्मनः कर्तृत्वमित्याह -
तथेति ।
स्वप्नविहारे तावदुपाध्यभावोऽसिद्ध इत्याह -
न तावत्सन्ध्य इति ।
विहारस्य मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याह -
विहारोऽपीति ।
जक्षत्भुञ्जान इव ।
करणत्वविशिष्टस्य कर्तृत्वे करणेषु कर्तृविभक्तिः स्यात् , न करणविभक्तिरित्युक्तं प्रत्याह -
भवति च लोक इति ।
कर्तृष्वपि करणविभक्तिर्न विरुध्यते दृष्टत्वात् । अस्ति च कर्तृत्वप्रयोगः, 'विज्ञानं यज्ञं तनुते' इत्यादाविति भावः ।
उपादानस्य सकर्तृकत्वमङ्गीकृत्य केवलात्मनः कर्तृत्वं निरस्तम् । इदानीं तस्याक्रियत्वान्न कर्त्रपेक्षेत्याह -
अपि चेति ।
पूर्वं विज्ञानं जीव इत्यङ्गीकृत्य जीवस्य कर्तृत्वे तनुत इति श्रुतिरुक्ता, सम्प्रति तया श्रुत्यानुपहितात्मनः कर्तृत्वमिति प्राप्तौ विज्ञानं बुद्धिरेव तस्या एवात्र कर्तृत्वमुच्यते । तदुपहितात्मनः कर्तृत्वसिद्धय इत्यभिप्रेत्याह -
यस्त्विति ।
'योऽयं विज्ञानमयः' इत्यादिश्रुतिषु विज्ञानब्दस्य बुद्धौ प्रसिद्धत्वादत्र च मनोमयकोशानन्तरं पठितत्वाच्छ्रद्धादिलिङ्गाच्च बुद्धिरेव विज्ञानमित्यर्थः ।
तत्रैव लिङ्गान्तरमाह -
विज्ञानं देवा इति ।
'महद्यक्षं प्रथमजम्' इत्यादिश्रुतौ हिरण्यगर्भब्रह्मात्मकबुद्धेर्ज्येष्ठत्वोक्तेरत्र देवैरिन्द्रियैरूपास्यमानं ज्येष्ठं ब्रह्म विज्ञानं बुद्धिरेवेत्यर्थः । यक्षं पूज्यम् ।
किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिकार्यत्वोक्तेरत्रापि यज्ञकर्तृविज्ञानं बुद्धिरित्याह -
स एष इति ।
चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते ततश्चित्तस्य वाचः पूर्वोत्तरभावो यज्ञ इत्यर्थः ।
यच्चोक्तं बुद्धेः कर्तृत्वे शक्तिवैपरीत्यप्रसङ्ग इति । तन्न विक्लिद्यन्ते तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति स्वस्वव्यापारेषु सर्वकारकाणां कर्तृत्वस्वीकारादित्याह -
न चेति ।
तर्हि बुद्ध्यादीनां कर्तृत्वे करणत्ववार्ता तेषु न स्यादित्यत आह -
उपलब्धीति ।
यथा काष्ठानां स्वव्यापारे कर्तृत्वेऽपि पाकापेक्षया करणत्वं तथा बुद्ध्यादीनामध्यवसायसङ्कल्पादिक्रियाकर्तृत्वेऽप्युपलब्ध्यपेक्षया करणत्वमित्यर्थः ।
ननु तर्ह्युपलब्धिः कस्य व्यापार इत्याह -
सा चेति ।
तर्हि तस्यामात्मा केवलः कर्ता स्यात् , यस्य यो व्यापारः स तस्य कर्तेति स्थितेरित्यत आह -
न चेति ।
उपलब्धेर्नित्यत्वे बुद्ध्यादीनां कथं करणत्वमुक्तमिति चेदुच्यते - अखण्डसाक्षिचैतन्यं बुद्धिवृत्तिभिर्भिन्नं सद्विषयावाच्छिन्नत्वेन जायते, तथा च विषयावच्छिन्न चैतन्याख्योपलब्धौ बुद्ध्यादीनां करणत्वं बुद्ध्याद्युपहितात्मनः कर्तृत्वं न केवलस्य, न च बुद्धेरेव तत्कर्तृत्वं चैतन्यस्य जडव्यापारत्वायोगादिति भावः ।
यच्चोक्तं बुद्धेः कर्तृत्वे स एवाहन्धीगम्यो जीव इति तस्य करणान्तरं कल्पनीयम् , तथा च नाममात्रे विवाद इति तत्र केवलात्मनः कर्तृत्वमुक्तमिति भ्रान्तिं निरस्यति -
अहङ्कारेति ।
साङ्ख्यनिरासार्थं बुद्ध्यभेदेनाध्यस्तचिदात्मकाहङ्कारगतं कर्तृत्वं यदुक्तं तदहन्धीगम्यस्य बुद्धिविशिष्टात्मन एव न केवलस्य साक्षिणो भवितुमर्हति, दृश्यधर्मस्य साक्षिस्वभावत्वायोगात् । एवं विशिष्टात्मनः कर्तृत्वे विशेषणीभूताया जडबुद्धेरेव करणत्वोपपत्तेर्न करणान्तरकल्पनाप्रसङ्गः । अध्यासं विना केवलबुद्धिकर्तृत्ववादिनस्तु करणान्तरप्रसङ्गो दुर्वार इत्यर्थः । एवं शास्त्रार्थवत्त्वादिहेतूनामात्मनः कर्तृत्वमात्रसाधकत्वेऽपि स्वाभाविककर्तृत्वसाधनसामर्थ्याभावादध्यस्तमेव कर्तृत्वं विध्यादिकर्तृत्वश्रुतीनामुपजीव्यम् । तस्मादसङ्गत्वविध्यादिकर्तृत्वश्रुतीनामविरोध इति सिद्धम् ॥४०॥
परात्तु तच्छ्रुतेः ।
यथा स्फटिके लौहित्याध्यासे लोहितद्रव्यं करणं तेनायं स्फटिको लोहित इत्यनुभवात् , तथा कामादिपरिणामिबुद्धिरात्मनि कर्तृत्वाद्यध्यासे करणमित्युक्तम् । तदध्यस्तं कर्तृत्वमुपजीव्य जीवस्य कारकसम्पन्नत्वादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह -
यदिदमिति ।
अत्र 'एष ह्येव' इत्यादिश्रुतीनां कर्तृस्वातन्त्र्यद्योतकविध्यादिश्रुतिभिर्विरोधसमाधानात्पादसङ्गतिः ।
कर्ममीमांसकमतेन पूर्वपक्षयति -
तत्रेत्यादिना ।
बुद्ध्यादिकारकसम्पत्तावीश्वरव्यतिरेके कर्तृत्वव्यतिरेकानुपलब्धेर्नेश्वरः प्रयोजकः ।
किञ्च प्रयोजकत्वे नैर्घृण्यादिप्रसङ्ग इत्याह -
क्लेशात्मकेन चेति ।
दत्तोत्तरमिदं चोद्यमिति शङ्कते -
नन्विति ।
पूर्वं जीवस्य धर्माधर्मवत्त्वं सिद्धवत्कृत्य तत्सापेक्षत्वाद्विषमजगत्कर्तृत्वमविरुद्धमित्युक्तं सम्प्रति ईश्वराधीनत्वे जीवस्य कर्तृत्वे सिद्धे धर्माधर्मवत्त्वसिद्धिः, तद्वत्त्वसिद्धौ तत्सापेक्षकारयितृत्वसिद्धिः, ईश्वरस्य कारयितृत्वे सिद्धे जीवस्य कर्तृत्वसिद्धिरिति चक्रकापत्तेः कर्मसापेक्षत्वं न सम्भवतीत्युच्यत इत्याह -
सत्यमिति ।
अस्तु कर्मानपेक्षस्य प्रवर्तकत्वम् , तत्राह -
अकृतेति ।
अनपेक्षस्य प्रवर्तकत्वे धर्मवतो नरान् दुःखेनाधर्मवतः सुखेन योजयेत् , कारुणिकत्वे वा सर्वे सुखेन एकरूपाः स्युरिति जगद्वैचित्र्यं विध्यादिशास्त्रं च न स्यात् । तस्माद्विध्यादिशास्त्रार्थवत्त्वाय रागद्वेषायत्तं स्वत एव जीवस्य कर्तृत्वं वाच्यम् , तथा च कारयितृत्वश्रुतिविरोधः ।
ईश्वरस्ताविका वा सा श्रुतिरिति प्राप्ते सिद्धान्तयति -
एतामिति ।
यथा चन्दनादिसामग्र्यां सत्यां धर्मव्यतिरेके सुखव्यतिरेकग्रहाभावेऽपि 'पुण्यो वै पुण्येन कर्मणा भवति' इत्यादिशास्त्रप्रामाण्यादेव धर्मस्य हेतुत्वसिद्धिः, एवमीश्वरस्यापि शास्त्रबलात्कारयितृत्वसिद्धिरिति भावः ॥४१॥
धर्माधर्माभ्यामेव फलवैषम्यसिद्धेरलमीश्वरेणेत्याशङ्क्य बीजैरेवाङ्कुरवैषम्यसिद्धेः पर्जन्यवैयर्थ्यं स्यात् । यदि विशेषहेतूनां साधारणहेत्वपेक्षत्वान्न वैयर्थ्यं तर्हि ईश्वरस्यापि साधारणहेतुत्वान्न वैयर्थ्यमित्याह -
पर्जन्यवदिति ।
दृष्टान्तं विवृणोति -
यथेति ।
अतिदीर्घवल्लीग्रन्थयो गुच्छाः पुष्पस्तबका वा, गुल्मास्तु ह्रस्ववल्ल्य इति भेदः ।
किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं न स्यादित्यापाद्यते उत चक्रकापत्तिर्वा । नाद्य इत्याह -
नैष दोष इति ।
अध्यापकाधीनस्य बटोर्मुख्याध्ययनकर्तृत्वदर्शनादिति भावः ।
चक्रकं निरस्यति -
अपि चेति ।
अनवद्यं जीवस्य कर्तृत्वमीश्वरस्य कारयितृत्वं चेति शेषः ।
ईश्वरस्य सापेक्षत्वे विध्यादिशास्त्रप्रामाण्यान्यथानुपपत्तिं प्रमाणयति -
कथमित्यादिना ।
एवं सापेक्षत्वे सत्यवैयर्थ्यं भवति, अन्यथानपेक्षत्वे वैयर्थ्यं प्रपञ्चयति -
ईश्वर इति ।
तयोः स्थाने स एव नियुज्येत अभिषिच्येत । तयोः कार्यं स एव कुर्यादिति यावत् । तथा च जीवस्य निरपेक्षेश्वरपरतन्त्रत्वाद्विध्यादिशास्त्रमकिञ्चित्करमनर्थकं स्यादिति सम्बन्धः । पुरुषकारः प्रयत्नः ।
आदिशब्दार्थमाह -
तथेति ।
पूर्वोक्तदेषोऽकृताभ्यागमादिः । तस्मात्कर्मसापेक्षेश्वरस्य कारयितृत्वात् 'एष ह्येव' इत्यादिश्रुतेर्विध्यादिश्रुत्यविरोध इति सिद्धम् ॥४२॥
अंश एके ।
'नित्यः स्वप्रकाशोऽनणुरकर्ता जीव' इति शोधितत्वम्पदार्थस्यात्र ब्रह्मैक्यसाधनेन भेदाभेदश्रुतीनां विरोधसमाधानात्पादसङ्गतिः । पूर्वपक्षे प्रत्यगभिन्नब्रह्मसिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । पूर्वोक्तोपकार्योपकारकभावाक्षिप्तं जीवेशयोः सम्बन्धं विषयीकृत्य द्विविधदृष्टान्तदर्शनात्संशयमाह -
ततश्चेति ।
प्रसिद्धस्वस्वामित्वसम्बन्धसम्भवाद्यः कश्चित्सम्बन्ध इत्यनियमो न युक्त इत्यरुचेराह -
अथवेति ।
अनेन 'य आत्मनि तिष्ठन्' इत्यादिश्रुतिप्रसिद्धभेदकोटिर्दर्शिता । एवं तत्त्वमसीत्यादिश्रुतिसिद्धा भेदकोटिर्द्रष्टव्या, तथा च भेदाभेदश्रुतीनां समबलत्वाद्विरोधे सति सम्बन्धानिश्चयात्सम्बन्धापेक्षस्य पूर्वोक्तोपकार्योपकारकभावस्यासिद्धिरित्याक्षेपात्सङ्गतिः ।
लोकसिद्धानर्थात्मकभेदानुवादित्वेन भेदश्रुतीनां दुर्बलत्वादज्ञातफलवदभेदश्रुत्यनुसारेण प्रकल्पितभेदनिबन्धनों 'शांशिभावः सम्बन्ध इति सिद्धान्तयति -
अत इत्यादिना ।
अग्नेः सांशत्वेऽपि निष्कलेश्वरस्य कथं सांशत्वमत आह -
अंश इवेति ।
जीव इत्यनुषङ्गः ।
भेद एव चेत्स्वस्वामिभावो युक्तो नांशांशिभाव इति शङ्कते -
ननु चेति ।
अभेदस्यापि सत्त्वादंशांशिभाव इत्याह -
अत इति ।
वञ्चसि गच्छसि यदास्ते यो नामरूपे निर्माय प्रविश्य व्यवहरन्वर्तते तं विद्वानमृतो भवतीति श्रुत्यर्थः ।
श्रुतिसिद्धाभेदे युक्तिमाह -
चैतन्यं चेति ।
जीवो ब्रह्मैव चेतनत्वात् ब्रह्मवदित्यर्थः ॥४३॥
अस्य सहस्रशीर्षपुरुषस्य तावान्प्रपञ्चो महिमा विभूतिः पुरुषस्तस्मात् प्रपञ्चात् ज्यायान्महत्तरः । भूतानि देहिनो जीवा इत्यत्र नियामकमाह -
अहिंसन्निति ।
तीर्थानि शास्त्रोक्तकर्माणि, तेभ्योऽन्यत्र सर्वप्राणिहिंसामकुर्वन्ब्रह्मलोकमाप्नोतीत्यर्थः । अत्र भूतशब्दस्य प्राणिषु प्रयोगात्सूत्रोक्तमन्त्रेऽपि तथेति भावः ।
भूतानां पादत्वेऽप्यंशत्वं कुतः, तत्राह -
अंशः पाद इति ॥४४॥
जीवस्य पुरुषसूक्तमन्त्रोक्तभगवदंशत्वे भगवद्गीतामुदाहरति सूत्रकारः -
अपि चेति ।
अत्यन्तभिन्नेशित्रीशितव्यभावप्रसिद्धेः ईशितव्यजीवस्य कथमीश्वरांशत्वमित्याशङ्क्य कल्पितभेदेनापीशितव्यत्वोपपत्तेः, अनन्यथासिद्धाभेदशास्त्रबलादंशत्वमित्याह -
यत्त्वित्यादिना ।
औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह -
निरतिशयेति ।
नितरां हीनः शरीराद्युपाधिः, आज्ञानिकोपाधितारतम्यादीशेशितव्यव्यवस्था, न वस्तुतः । तदुक्तं सुरेश्वराचार्यैः 'ईशेशितव्यसम्बन्धः प्रत्यगज्ञानहेतुजः । सम्यग्ज्ञाने तमोध्वस्तावीश्वराणामपीश्वरः ॥' इति ॥४५॥
उत्तरसूत्रमवतारयति -
अत्राहेति ।
ईश्वरः स्वांशदुःखैर्दुःखी, अंशित्वात् , देवदत्तवदित्यर्थः ।
ततः किम् , तत्राह -
ततश्चेति ।
ज्ञानात्सर्वांशदुःखसमष्टिप्राप्त्यपेक्षया संसारो वरं तत्र स्वदुःखमात्रानुभवादित्यर्थः ।
नैवम्पर इति प्रतिज्ञानं विभजते -
यथा जीव इति ।
देवदत्तदृष्टान्ते भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्त्वमुपाधिः, तदभावान्नेश्वरस्य दुःखित्वप्राप्तिः । उक्तं चैतदभेदेऽपि बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थेति भावः ।
दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति -
जीवस्यापीत्यादिना ।
भ्रान्तौ सत्यां दुःखमित्यन्वयमुक्त्वा भ्रान्त्यभावे दुःखाभावदर्शनाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह -
व्यतिरेकेति ।
इतरेष्वभिमानशून्येष्वित्यर्थः ।
जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्यसर्वज्ञेश्वरस्येत्याह -
अतश्चेति ।
एवमंशित्वे हेतोः सोपाधिकत्वमुक्त्वा यों 'शी स वस्तुतः स्वांशधर्मवानिती व्याप्तिं स्थलत्रये व्यभिचारयति -
प्रकाशादिवदिति ।
वस्तुतः स्वांशदुःखित्वसाध्यस्य देवदत्तदृष्टान्ते वैकल्यमप्याह -
जीवस्येति ।
कल्पितदुःखित्वसाध्यं तु भ्रान्त्याद्यभावादीश्वरे नास्तीत्युक्तम् ।
किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्तमागमबाधादित्याह -
तथा चेति ।
दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः ॥४६॥
स्मृत्याप्यनुमानं बाध्यमित्याह -
स्मरन्ति चेति ।
सूत्रं व्याचष्टे -
स्मरन्तीति ।
तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः । दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसङ्ख्याको राशिर्लिङ्गम् ।
सूत्रे चशब्दः श्रुतिसमुच्चयार्थ इत्याह -
चशब्दादिति ।
यथादित्यः प्राकाश्यदोषैर्न लिप्यते तथेत्यर्थः ।
यतो बाह्योऽसङ्गस्तस्मान्न लिप्यते एवमंशित्वकृतमीश्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहाद्युपाधिकमिति स्फुटयितुमत्यन्तस्वरूपैक्यमादायाक्षिपति -
अत्राहेत्यादिना ।
कथं तर्हि इत्यन्वयः । तद्भेदादंशभेदात् । निरवयवब्रह्मणो मुख्यांशो न सम्भवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशांशित्वाभावादनुज्ञादिभेदव्यवहारानुपपत्तिरित्याक्षेपाभिप्रायः ।
न वयं भेदस्यासत्त्वं नरशृङ्गवद्ब्रूमः, किन्तु मिथ्यात्वं वदामः । तथा च देहाद्युपाधिभेदेनांशजीवानामाब्रह्मबोधात्कल्पितभेदाद्भेदव्यवहारोपपत्तिरिति सूत्रेण समाधत्ते -
तामित्यादिना ॥४७॥
ननु भ्रान्तेः कुतश्चिन्निवृत्तौ व्यवहारविच्छेदः स्यादित्यत आह -
न ह्यस्या इत्यादिना ।
प्रतता सन्तता, विशेषो भेदः ।
अनियोज्यत्वाद्ब्रह्मविदः शास्त्रानर्थक्यमिष्टमित्याह -
न तस्येति ।
नियोगविषयद्वैताभावादात्मन्यसाध्ये नियोगानुपपत्तेर्न ब्रह्मविन्नियोज्य इत्यर्थः ।
नन्वामुष्मिकफलहेतुके कर्मणि देहभिन्नात्मविवेकिन एवाधिकारो वाच्यः । तथा च ब्रह्मविन्नियोज्यः, विवेकित्वात् , कर्माधिकारिवदिति शङ्कते -
शरीरव्यतिरेकेति ।
परोक्षविवेकस्यापरोक्षभ्रमाविरोधित्वात्कर्मिणो देहाभेदभ्रमोऽस्ति, तथा च भ्रम उपाधिरिति परिहरति -
नेत्यादिना ।
यथा व्योम देहाद्भिन्नं तद्वदहमित्यपश्यतः भ्रान्तस्येत्यर्थः ।
ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात् , सुषुप्तवदित्याह -
न हीति ।
देहादिष्वसंहतत्वदर्शिनः संहतत्वदर्शनशून्यस्य भेदभ्रान्तिरहितस्य सुषुप्तस्येति यावत् । अज्ञस्यापि भ्रान्त्यभावकाले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः ।
अनियोज्यत्वे बाधकमाशङ्क्य परिहरति -
न चेति ।
विषयवैराग्यस्य ज्ञानार्थमभ्यस्तस्य ज्ञानानन्तरमनुवृत्त्या विषयेषु प्रवर्तकरागनिवृत्तेर्नातिप्रसङ्ग इत्यर्थः । तदुक्तं भगवता 'रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति ।
एवमनुज्ञादिप्रसङ्गेनानियोज्यम् , विदुष उक्त्वा प्रकृतिमुपसंहरति -
तस्मादिति ।
एकस्याप्युपाधिभेदादनुज्ञापरिहारयोर्दृष्टान्तमाह -
ज्योतिरिति ।
क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशानाग्निरित्यर्थः ॥४८॥
शङ्कोत्तरत्वेन सूत्रं व्याचष्टे -
स्यातामित्यादिना ।
यद्यपि स्थूलदेहसम्बन्धादुपादानपरित्यागौ स्यातां तथाप्यन्यकृतकर्मफलमितरेणापि भुज्येतेति कर्मफलव्यतिकरः साङ्कर्यं स्याद्देहविशिष्टस्य स्वर्गादिभोगायोगेनाविशिष्टात्मन एकस्यैव भोक्तृत्वात् । तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः । भवेत्तदा साङ्कर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् । न त्वेतदस्ति । 'तद्गुणसारत्वात्' इत्यत्र मोक्षस्यापि, बुद्ध्युपहितस्यैव कर्तृत्वादिस्थापनात् , तथा च बुद्धेः परदेहासम्बन्धात्तदुपहितजीवस्य नास्ति परदेहसम्बन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मादिसाङ्कर्यमिति समाधानार्थः ॥४९॥
अंशेत्याद्यसूत्रे जीवस्यांशत्वं घटाकाशस्येवोपाध्यवच्छेदबुद्ध्योक्तम् , सम्प्रति एवकारेणावच्छेदपक्षारुचिं सूचयन् 'रूपं रूपं प्रतिरूपो बभूव' इत्यादिश्रुतिसिद्धम्प्रतिबिम्बपक्षमुपन्यस्यति भगवान् सूत्रकारः -
आभास एव चेति ।
परमात्मैवानुपहितो जीवो न भवति, उपाध्यनुभवात् । नापि ततो भिन्नः, 'स एष इह प्रविष्टः' इत्याद्यभेदश्रुतिस्मृतिविरोधात् । तस्मादविद्यातत्कार्यबुद्ध्यादिप्रतिबिम्ब एव जीव इत्यर्थः ।
अस्मिन् पक्षे बुद्धिप्रतिबिम्बभेदात्स्वर्गी नारकीत्यादिव्यवस्था जीवत्वस्याविद्यकत्वाद्विद्यया मोक्षश्चेत्युपपद्यत इत्याह -
अतश्चेत्यादिना ।
यस्त्वयं भास्करस्य प्रलापः प्रतिबिम्बस्य नोपाधिसंसृष्टतया कल्पितत्वं किन्तु स्वरूपेणैव, अतः कल्पितप्रतिबिम्बस्य मुक्तौ स्थित्ययोगान्न जीवत्वमिति स सिद्धान्तरहस्याज्ञानकृत इत्युपेक्षणीयः । यदि दर्पणे मुखं शुक्तौ रजतवत्कल्पितं स्यात्तदा नेदं रजतमिति स्वरूपबाधवन्नेदं मुखमिति बाधः स्यात् । अतो नास्ति दर्पणे मुखमिति संसर्गमात्रबाधान्मदीयं मुखमेवेदमित्यबाधितमुखाभेदानुभवात्संसृष्टत्वेनैव कल्पितत्वं प्रवेशवाक्यैश्चाविकृतब्रह्मण एव प्रतिबिम्बभावाख्यप्रवेशोक्तेर्न स्वरूपकल्पना, पराक्रान्तं चात्र दर्पणटीकायामाचार्यैरित्युपरम्यते ।
एवं स्वमते स्वरूपैक्येऽप्युपहितजीवभेदादसाङ्कर्यमुक्तम् , सम्प्रति सूत्रे चकारसूचितं परेषां साङ्कर्यं वक्तुमुपक्रमते -
येषमित्यादिना ।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना नवात्मविशेषगुणाः, सन्निधानादीत्यादिपदादौदासीन्यमुक्तम् ।
साङ्ख्यः स्वाभिप्रायं शङ्कते -
स्यादेतदिति ।
सर्वेषां पुंसां प्रकृतिसान्निध्याद्यविशेषेऽपि प्रकृतिरेव प्रतिपुरुषं नियमेन भोगापवर्गार्थं प्रवर्तते, तथा चोद्देश्यपुरुषार्थनियता प्रधानप्रवृत्तिरिति भोगादिव्यवस्था, अन्यथा नियतप्रवृत्त्यनङ्गीकारे स्वमाहात्म्यख्यापनार्था प्रधानस्य प्रवृत्तिरित्युद्देश्यविघातः स्यादित्यर्थः ।
जडप्रधानस्योद्देश्यविवेकाभावात्पुरुषार्थस्याप्यनागतस्याचेतनस्यानियामकत्वान्न व्यवस्था, मानयुक्तिशून्यत्वादित्याह -
नैतदिति ।
यो हि नियामकभावेनोद्देश्यविघातमापादयति तं प्रति तस्यैवापादनमिष्टमिति भावः ।
तार्किकमतेऽपि भोगादिसाङ्कर्यमित्याह -
काणादानामिति ।
हेतुर्मनःसंयोगः, फलं सुखादि, यदात्मादृष्टकृतो यो मनःसंयोगः स तदात्मन एव सुखादिहेतुरिति व्यवस्थां शङ्कते -
स्यादेतदिति ।
सूत्रेण परिहरति -
नेत्याहेति ॥५०॥
पूर्ववन्मनःसंयोगवददृष्टस्यापि सर्वात्मसाधरणत्वान्न व्यवस्थेत्यर्थः । रागादिनियमात्तज्जादृष्टनियम इत्याशङ्क्योत्तरत्वेन सूत्रं गृह्णाति -
स्यादेतदित्यादिना ॥५१॥
अनियम उक्तदोषः । आत्मान्तरप्रदेशस्य परदेहे अन्तर्भावाद्व्यवस्थेति शङ्कार्थः ॥५२॥
किं मनसा संयुक्तात्मैवात्मनः प्रदेशः । उत कल्पितः । आद्ये सर्वात्मनां सर्वदेहेषु अन्तर्भावादव्यवस्था । द्वितीयं दूषयति -
तत्र न वैशेषिकैरिति ।
सर्वात्मसान्निध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः । नियामकभावादित्यर्थः ।
प्रदेशकल्पनामङ्गीकृत्याप्याह -
कल्प्येति ।
कार्यमभिसन्ध्यादिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यवस्थामाशङ्क्याह -
शरीरमपीति ।
प्रदेशपक्षे दोषान्तरमाह -
प्रदेशेति ।
यस्मिन्नात्मप्रदेशेऽदृष्टोत्पत्तिः स किं चलः स्थितो वा । नाद्यः, अचलें 'शिन्यंशस्य चलनविभागयोरसम्भवादण्वात्मवादापाताच्च । द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोगदर्शनाददृष्टमस्तीत्येकेनापि शरीरेण द्वयोरात्मनोर्भोगप्रसङ्गः । यद्यात्मभेदात्प्रदेशयोर्भेदस्तदापि तयोरेकदेहान्तर्भावाद्भोगसाङ्कर्यं तदवस्थं सावयवात्मवादप्रपङ्गश्च । किञ्च यत्तु यत्रात्मनः प्रदेशे शरीरादिसंयोगाददृष्टमुत्पन्नं तत्तत्रैवाचलप्रदेशे स्थितमिति स्वर्गादिशरीरावच्छिन्नात्मन्यदृष्टाभावाद्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः । यत्त्वत्रोत्पन्नमदृष्टं स्वाश्रये यत्र क्वचिद्भोगहेतुरिति स्वर्गादिभोगसिद्धिरिति । तन्न । भोगशरीराद्दूरस्थादृष्टे मानाभावादिति भावः । यदपि केचिदाहुः - मनस एकत्वेऽप्यात्मनां भेदेन संयोगव्यक्तीनां भेदात्कयाचित्संयोगव्यक्त्या कस्मिंश्चेदेवात्मन्यदृष्टादिकमित्यसाङ्कर्यमिति । तन्न । संयोगव्यक्तीनां वैजात्याभावेन सर्वासामेवैकदेहान्तःस्थसर्वात्मस्वदृष्टहेतुत्वापत्तेः । तथा च सर्वात्मनामेकस्मिन् देहे भोक्तृत्वं दुर्वारम् । किञ्च बहूनां विभुत्वमङ्गीकृत्य साङ्कर्यमुक्तम् , सम्प्रति कर्तृणां विभुत्वमसिद्धमहमिहैवास्मि इत्यल्पत्वानुभवान्मानाभावाच्चेत्याह -
सर्वगतत्वानुपपत्तिश्चेति ।
किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यम् , तच्चायुक्तमदृष्टत्वादित्याह -
वदेति ।
ननु रूपरसादीनामेकघटस्थत्वं दृष्टमिति चेत् , नायमस्मत्सम्मतो दृष्टान्तः । रूपस्य तेजोमात्रत्वाद्रसस्य जलमात्रत्वाद्गन्धस्य पृथिवीमात्रत्वादित्येवं तत्तद्गुणस्य स्वस्वधर्म्यंशेनाभेदात्तेजआदिधर्म्यतिरिक्तघटाभावात् । किञ्चात्मनां बहुत्वमप्यसिद्धम् , आत्मत्वरूपलक्षणस्याभेदात् , तथा च देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात् , यज्ञदत्तात्मवत् ।
अत्र वैशेषिकः शङ्कते -
अन्त्यविशेषेति ।
नित्यद्रव्यमात्रवृत्तयो विशेषास्ते च स्वयं स्वाश्रयव्यावर्तका एव न स्वेषां व्यावर्तकमपेक्षन्त इत्यन्त्या उच्यन्ते । तथा च विशेषरूपलक्षणभेदाद्भवत्यात्मभेद इत्यर्थः । न तावदात्मन्यनात्मनः सकाशाद्भेदज्ञानार्था विशेषकल्पना, आत्मत्वादेवानात्मभेदसिद्धेः । नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्मभेदस्याद्याप्यसिद्धेः । न च विशेषभेदकल्पनादेवात्मभेदकल्पना युक्ता, आत्मभेदज्ञप्तावात्मसु विशेषभेदसिद्धिस्तत्सिद्धौ तज्ज्ञप्तिरित्यन्योन्याश्रयादिति परिहारार्थः ।
यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सोऽप्यसम्मत इत्याह -
आकाशादीनामिति ।
विभुत्वस्यैकवृत्तित्वे लाघवान्न विभुभेदः ।
यथैकस्मिन्नाकाशे भेरीवीणादिभेदेन तारमन्द्रादिशब्दव्यवस्था एवमेकस्मिन्नप्यात्मनि बुद्ध्युपाधिभेदेन सुखादिव्यवस्थोपपत्तेरात्मभेदेऽपि व्यवस्थानुपपत्तेरुक्तत्वान्मुधा भेदकल्पनेत्युपसंहरति -
तस्मादिति ।
एवं भूतभोक्तृश्रुतीनां विरोधाभावाद्ब्रह्मण्यद्वये समन्वय इति सिद्धम् ॥५३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य तृतीयः पादः ॥३॥
पूर्वाधिकरणे कर्तुः स्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्तिं साधयति -
तथा प्राणाः ।
भूतभोक्तृविचारानन्तरं भौतिकप्राणविचार इति हेतुहेतुमद्भावं पादयोः सङ्गतिमाह -
वियदादीति ।
तमेव विप्रतिषेधमाह -
तत्रेत्यादिना ।
यद्यपि प्राणानामनुत्पत्तौ एकविज्ञानप्रतिज्ञानुपपत्तेर्वियदधिकरणन्यायात्तेषामुत्पत्तिः सिध्यति तथापि प्रलये प्राणसद्भावश्रुतेर्गतिकथनार्थमेतदधिकरणमित्यपौनरुक्त्यम् । अत्र प्राणा विषयाः । ते किमुत्पद्यन्ते न वेति श्रुतीनां विप्रतिपत्त्या संशये तासां समबलत्वादनिर्णय इत्यप्रामाण्यमिति पूर्वपक्षफलम् , तत्र गौणवादी समाधानमाह -
अथवेति ।
प्राणानां प्रलये सद्भावश्रुतेर्निरवकाशत्वेन बलीयस्त्वादुत्पत्तिश्रुतिर्जीवोत्पत्तिश्रुतिवद्गौणीत्यविरोध इत्यर्थः । अप्रमाणपक्षवद्गौणपक्षोऽपि मुख्यसिद्धान्तिनः पूर्वपक्ष एवेति ज्ञापनार्थमथवेत्युक्तम् ।
मुख्यसिद्धान्त्याह -
अत इति ।
तथाशब्दमाक्षिपति -
कथमिति ।
आनुलोम्यमाञ्जस्यमित्यर्थः ।
साम्यं स्फुटयति -
यथादृष्टस्येति ।
दूषणवत्प्राणा इत्यनन्वितम् । यद्यप्यदृष्टवत्प्राणा अप्यनियता इति सूत्रमन्वेति तथापि पुनरुक्तम् । जीववत्प्राणा नोत्पद्यन्त इति सूत्रार्थश्चेदपसिद्धान्त इत्याक्षेपार्थः ।
समाधत्ते -
न । उदाहरणेति ।
दृष्टान्तो दार्ष्टान्तिकसन्निहितो वाच्य इत्यङ्गीकृत्यैकवाक्यस्थत्वेन सान्निध्यमुक्तम् । सम्प्रति नायं नियमः ।
जैमिनिना भगवता व्यवहितदृष्टान्तस्याश्रितत्वादित्याह -
अथवेति ।
अस्ति तृतीयाध्यायेऽश्वप्रतिग्रहेष्ट्यधिकरणम् , तस्येदं विषयवाक्यम् , 'यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्' इत्येतदुत्तराधिकरणे किमियं वारुणीष्टिर्दातुरुत प्रतिग्रहीतुरिति विशये 'प्रतिगृह्णीयात्' इति श्रुतेः प्रतिग्रहीतुरित्याशङ्क्य 'प्रजापतिर्वरुणायाश्वमनयत्' इत्युपक्रमे दातृकीर्तनाल्लिङ्गादश्वदातुरेवेति स्थास्यति, अतः प्रतिगृह्णीयादित्यस्य पदस्याश्वान् यः प्रतिग्राहयेदित्यर्थः दद्यादिति यावत् । 'योऽश्वदाता स वारुणीमिष्टिं कुर्यात्' इति वाक्यार्थे स्थिते चिन्ता - अश्वदाननिमित्तेयमिष्टिः किं लौकिकेऽश्वदाने वैदिके वेति । तत्र 'न केसरिणो ददाति ' इति निषिद्धलौकिकाश्वदाने दोषसम्भवात्तन्निरासार्थेयमिष्टिरिति दोषात्त्विष्टिर्लौकिके स्यादिति सूत्रेण प्राप्ते सिद्धान्तः 'अत्र हि वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति' इति दातुर्दोषं सङ्कीर्त्येष्टिर्विहिता । वरुणशब्दो जलोदराख्यरोगे रूढः । न च लौकिकेऽश्वदानेऽयं रोगो भवति इति प्रसिद्धम् । न चानेनैव वाक्येन प्रसिद्धिः । दाने दोषस्तन्निरासार्था चेष्टिरितिवदतोऽर्थभेदे वाक्यभेदात् । न च वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषानुवादक इति युक्तम् , रूढित्यागापातात् ।
तत्त्यागे च वैदिकेऽपि दानेऽश्वत्यागजन्यदुःखं प्राप्तमुक्तव्युत्पत्त्या शक्नोत्यनुवदितुम् , तस्मात्प्राप्तानुवाद्यर्थवादोऽयमिति यज्ञसम्बन्धिन्यश्वदाने इयमिष्टिरित्येवं विचार्योक्तम् -
पानव्यापच्च तद्वदिति ।
सोमपाने क्रियमाणे व्यापद्वमनं यदि स्यात्तदा 'एतं सौमेन्द्रं श्यामाकं चरुं निर्वपेत्' इति श्रूयते । तत्राश्वप्रतिग्रहेष्ट्यधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितस्तद्वदिति परामृश्यते, तद्वल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमनेऽयं चरुः स्याद्वमननिमित्तेन्द्रियशोषाख्यदोषस्य दृष्टस्य' इन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमति' इत्यनुवादादिति पूर्वपक्षसूत्रार्थः । वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमनेऽपि न दोष इति सिद्धान्तः । लोके वमनकृतेन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वान्न दोषता । वेदे तु 'मा मे वाङ्नाभिमतिगाः' इति सम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्यात्तस्य दोषता । तस्माद्वैदिकसोमवमने सौमेन्द्रश्चरुरिति स्थितमित्येवमादिषु सूत्रेष्वित्यर्थः ॥१॥
ननु प्रतिज्ञापि गौणी कं न स्यादित्यत आह -
तथा च प्रतिज्ञातार्थमिति ।
उपक्रमोपसंहाराभ्यां प्रतिपिपादयिषिताद्वितीयत्वप्रतिज्ञानुरोधेन प्राणोत्पत्तिर्मुख्यैवेति भावः ।
मुण्डकवच्छ्रुत्यन्तरेऽपि प्रतिज्ञादर्शनात्सा मुख्येत्याह -
तथेति ।
एषा प्रतिज्ञा प्राणोत्पत्तिमुख्यत्वे हेतुत्वेन द्रष्टव्येत्यर्थः ।
इदानीं प्रलये प्राणसत्वश्रुतेर्गतिं प्रश्नपूर्वकमाह -
कथमित्यादिना ।
नेदं वाक्यं महाप्रलये परमकारणस्य ब्रह्मणः प्राणवत्त्वपरं किन्त्ववान्तरप्रलये हिरण्यगर्भाख्यावान्तरप्रकृतिरूपप्राणसद्भावपरमित्यर्थः ।
ननु हिरण्यगर्भरूपविकारस्य सत्त्वे कथं तदा विकारासत्त्वकथनम् , तत्राह -
स्वविकारेति ।
स्वस्य कार्यब्रह्मणो यत्कार्यं स्थूलं तस्योत्पत्तिरित्यर्थः । ननु यथाश्रुति महाप्रलये प्राणसद्भावरूपं लिङ्गं प्राणानुत्पत्तिसाधकं किमित्यवान्तरप्रलयपरतया नीयत इति चेत् 'एतस्माज्जायते प्राणः' इत्यादि प्रबलजन्मश्रुतिबलादिति वदामः ।
ननु विकारस्य ब्रह्मणः कथं प्रकृतित्वमित्यत आह -
व्याकृतेति ।
'हिरण्यगर्भः समवर्तताग्रे' इत्यादिश्रुतौ 'आदिकर्ता स भूतानां' इत्यादि स्मृतौ च विकारात्मनामपि मूलकारणावस्थारूपाणां ब्रह्मविराडादीनां प्रकृतिविकारभावेन प्रसिद्धिरस्ति । पूर्वापेक्षया विकारस्याप्युत्तरापेक्षया प्रकृतित्वमित्यर्थः ।
केचिद्वियदधिकरणानुरोधेनेदं सूत्रं व्याचक्षते तान्दूषयति -
वियदिति ॥२॥
तस्य जायत इति पदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतेर्मुख्यं जन्मेति सूत्रयोजना -
तत्सामान्यादिति ।
तेनाकाशादिजन्मना सामान्यमेकशब्दोक्तत्वं तस्मादित्यर्थः ।
एकस्मिन्वाक्ये एकस्य शब्दस्य क्वचिन्मुख्यत्वं क्वचिद्गौणत्वमिति वैरूप्यं न युक्तमिति न्यायमन्यत्राप्यतिदिशति -
यत्रापि पश्चाच्छ्रुत इति ॥३॥
यच्चोक्तं छान्दोग्येऽपि प्राणानामुत्पत्तिर्न श्रूयत इति, तत्राह -
तत्पूर्वकत्वाद्वाच इति ।
अत्र सूत्रे वाक्पदं प्राणमनसोरुपलक्षणम् । वाक्प्राणमनसां तेजोबन्नपूर्वकत्वोक्तेरश्रवणमसिद्धमिति योजना । तैर्वागादिभिश्चक्षुरादीनां सामान्यं करणत्वं तत्सामान्यादित्यर्थः । अत्र मयड्विकारे मुख्य इति पक्षे वर्तत एव प्राणानां ब्रह्मकार्यत्वं तेजोबन्नानां ब्रह्मविकारत्वात् । यदि प्राणस्य वायोर्जलविकारत्वायोगात्तदधीनस्थितिकत्वमात्रेण भाक्तस्तथापि प्राणानां विकारत्वे भूताधीनस्थितिकत्वं लिङ्गं मयटोक्तमिति सिद्धं ब्रह्मकार्यत्वं 'स प्राणमसृजत' इत्यादिश्रुत्यन्तरे स्पष्टं ब्रह्मकार्यत्वोक्तेश्च । तस्मात्प्राणानामुत्पत्तिश्रुतीनां सद्भावश्रुत्यविरोधात्कारणे ब्रह्मणि समन्वय इति सिद्धम् । लिङ्गशरीरविचारात्मकाधिकरणानां लिङ्गात्त्वम्पदार्थभेदधीः फलमिति द्रष्टव्यम् ॥४॥
एवं जन्मलब्धसत्ताकानां प्राणानामुपजीव्योपजीवकत्वसङ्गत्या सङ्ख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति -
सप्तगतेर्विशेषितत्वाच्च ।
विशयः संशयः । इन्द्रियाण्यत्र विषयः । पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ । ग्रहत्वं बन्धकत्वम् । गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विषयाधीनमित्यतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः । द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञानकर्मेन्द्रियाणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धान्तकोटिरुक्ता । एत एव हृदयाख्यया बुद्ध्या सहद्वादश । अहङ्कारेण सह त्रयोदश । श्रुतितः सप्तत्वावगतेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्षण्योद्देशेन प्राणत्वविशेषणाद्वा शीर्षण्यानां प्राणत्वशब्दिता, इन्द्रियत्वपरिसङ्ख्यया सप्तैव प्राणा इति सूत्रयोजना ।
सप्तत्वं वीप्साविरुद्धमिति शङ्कते -
नन्विति ।
गुहायां हृदये शेरत इति गुहाशयाः । स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः । चित्तेन चतुर्दशत्वं मन्तव्यम् ।
पूर्वपक्षी परिहरति -
नैष दोष इति ॥५॥
सिद्धान्तिनाप्येकादशसु मनोवृत्तिभेदान्निश्चयात्मिका बुद्धिः, गर्वात्मकोऽहङ्कारः, स्मरणात्मकं चित्तमिति द्वादशादिसङ्ख्यान्तर्भावनीया । ततो वरं प्राथमिकसप्तत्वेऽन्तर्भावः लाघवादिति प्राप्ते सिद्धान्तयति -
अत्रेति ।
आदानेन कर्मणा गृहीतः सम्बद्धः ।
सम्बन्धमेवाह -
हस्ताभ्यामिति ।
अतोऽधिकसङ्ख्याया न्यूनायामन्तर्भावायोगात्सप्तैव प्राणाः स्युर्लाघवानुरोधादित्येवं न मन्तव्यमित्यन्वयः ।
तर्हि कतीन्द्रियाणीत्याकाङ्क्षयामाह -
उत्तरेति ।
'श्रुतीनां मिथो विरोधे सति मानान्तरानुगृहीता श्रुतिर्बलीयसी' इति न्यायेन कार्यलिङ्गानुमानानुगृहीतैकादशप्राणश्रुत्यनुसारेणान्याः श्रुतयो नेया इत्यभिसन्धायाह -
सत्यमिति ।
एकादशकार्यलिङ्गान्याह -
शब्देति ।
त्रयः कालास्त्रैकाल्यं तद्विषया वृत्तिर्यस्य तत्रैकाल्यवृत्ति । इन्द्रियान्तराणां वर्तमानमात्राग्राहित्वादतीतादिज्ञानाय मनोऽङ्गीकार्यमित्यर्थः ।
विशेषितत्वादित्युक्तं निरस्यति -
अपि च सप्तेति ।
न च तावतामिति ।
आदानादीनां श्रोत्रादिभ्योऽत्यन्तवैजात्यादित्यर्थः । तेषां तद्वृत्तित्वे बधिरादीनामादानादि न स्यादिति भावः ।
कथं तर्हि छिद्रे प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह -
मुख्यस्य त्विति ।
'सप्त प्राणाः प्रभवन्ति' इत्युपासनार्थम् । 'अष्टौ ग्रहा' इति श्रुतिस्तूपलक्षणार्था । पायूपस्थपादानामपि बन्धकत्वाविशेषादिति विवेक्तव्यम् ।
नन्विदं सूत्रव्याख्यानमसङ्गतं पञ्चधीन्द्रियवाङ्मनसां सप्तत्वावगतिः शीर्षण्यानां चतुर्णां विशेषितत्वमिति हेतोर्वैयधिकरण्यादुक्तपरिसङ्ख्यादोषाच्चेत्यरुचेराह -
इयमपरेति ।
इन्द्रियाणि कतीति सन्देहे पूर्वपक्षसूत्रं योजयति -
सप्तेति ।
तं जीवात्मानं ये प्राणाः सह गच्छन्ति तेषामेव भोगहेतुत्वादिन्द्रियत्वमित्यर्थः । विपन्नावस्थायामेष चाक्षुषश्चक्षुषि स्थितोऽनुग्राहकसूर्यांशरूपः पुरुषः पराङ्पर्यावर्तते बहिर्देशात्स्वांशिनं सुर्यं प्रतिगच्छति । अथ तदानीमयं मुमूर्षुररूपज्ञो भवति । देवांशे देवं प्रविष्टे लिङ्गांशश्चक्षुर्हृदये मनसैकीभवति तदायं न पश्यतीति पार्श्वस्था आहुरित्यर्थः । आदिपदात् 'न जिघ्रति न वदति न रमयते न शृणोति न मनुते न स्पृशति न विजानाति' इति गृह्यते ।
सप्तानामेव जीवेन सह गतिरित्यसिद्धम् , ग्रहत्वश्रुत्या हस्तादीनामपि गतिप्रतीतेरिति सिद्धान्तयति -
एवमित्यादिना ।
हस्तादिबन्धस्य प्राङ्मोक्षात्सहगतौ स्मृतिमाह -
पुर्यष्टकेनेति ।
प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकमन्तःकरणचतुष्टयमविद्या कामः कर्म चेति पुर्यष्टकमात्मनो ज्ञापकत्वाल्लिङ्गं सति सम्भवे सर्वश्रुतिसङ्कोचो न युक्त इत्याह -
सर्वशब्दोऽपीति ।
तस्मात्सङ्ख्याश्रुतीनामविरोधादेकादशेन्द्रियकारणे ब्रह्मणि समन्वय इति सिद्धम् ॥६॥
अणवश्च ।
'प्राणाः सर्वेऽनन्ताः' इति श्रुतेरिन्द्रियाणां विभुत्वात्तेषामुत्क्रान्तिरसिद्धा किन्तु तत्तद्देहे तेषामभिव्यक्तिरूपाः प्रादेशिक्यो वृत्तयः सन्ति न तासामुत्क्रान्त्यादिरिति साङ्ख्यानामाक्षेपः, तत्सङ्गत्या प्राणाः किम्परिमाणा इति सन्देहे सिद्धान्तयति -
अधुनेत्यादिना ।
उत्पत्तिसङ्ख्यानिर्णयानन्तरं परिमाणं निरूप्यत इत्यर्थः । अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् । परिच्छेदोऽल्पत्वम् ।
बुद्ध्यादीनां विभुत्वे तदुपाधिकमात्मनोऽणुत्वादिकं न सिद्ध्येदित्युक्तन्यायविरोधमाह -
तद्गुणसारत्वमिति ।
उक्ताक्षेपमनूद्य निरस्यति -
सर्वगतानामिति ।
आनन्त्यश्रुतेरुपासनार्थत्वान्नोत्क्रान्त्यादिश्रुतीनां तया विरोध इति सिद्धम् ॥७॥
श्रेष्ठश्च ।
अतिदेशत्वान्न सङ्गत्याद्यपेक्षा । 'तथा प्राणाः' इत्युक्तन्यायोऽत्रातिदिश्यते । ननु प्राणो जायते न वेति संशयाभावादतिदेशो न युक्त इत्याक्षिपति -
किमर्थ इति ।
निश्चितमहाप्रलये प्राणसद्भावश्रुत्याधिकां शङ्कामाह -
नासदासीये हीति ।
'नासदासीत्' इत्यारभ्याधीत इत्यर्थः । तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत् , अमृतं च देवभोग्यं नासीत् , रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अह्नः प्रकेतः सूर्यश्च नास्ताम् , स्वधया सहेत्यन्वयः । पितृभ्यो देयमन्नं स्वधा । यद्वा स्वेन धृता माया स्वधा तया सह तदेकं ब्रह्मानीदासीदिति परमार्थः । अत्रानीदिति तच्चेष्टां कृतवदिति पूर्वपक्षार्थः । तस्माद्ब्रह्मणः परः परमुत्कृष्टमन्यच्च किमपि न बभूवेत्यर्थः । परिहारः सुबोधः ।
ननु श्रेष्ठशब्दस्य प्राणे प्रसिद्ध्यभावात्कथं सूत्रमिति, तत्राह -
श्रेष्ठ इति चेति ।
श्रुतिं व्याचष्टे -
ज्येष्ठश्च प्राण इत्यादिना ।
पूयेत पूयं भवेत् । न सम्भवेत्तद्गर्भो न भवेदित्यर्थः । वागादिजीवनहेतुत्वं प्राणस्य गुणः । एवमानीच्छ्रुत्यविरोधात्प्राणोत्पत्तिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम् ॥८॥
इन्द्रियाणि विचार्य तद्व्यापारात्प्राणं पृथक्कर्तुमुत्पत्तिरतिदिष्टा । सम्प्रत्युत्पन्नप्राणस्वरूपं पृथक्करोति -
न वायुक्रिये पृथगुपदेशात् ।
मुख्यः प्राणः किं वायुमात्रमुत करणानां साधारणव्यापार आहोस्वित्तत्त्वान्तरमिति वायुप्राणयोर्भेदाभेदश्रुतीनां मिथोविरोधात्संशये पूर्वपक्षमाह -
तत्रेति ।
द्वितीयं साङ्ख्यपूर्वपक्षमाह -
अथवेति ।
सिद्धान्तत्वेन सूत्रमादत्ते -
अत्रोच्यत इति ।
मनोरूपब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैश्चतुष्पात्त्वं श्रुतावुक्तम् , तत्र प्राणो वायुनाधिदैविकेन भात्यभिव्यञ्ज्यते अभिव्यक्तः संस्तपति । कार्यक्षमो भवतीत्यर्थः ।
श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथगुत्पत्तिलिङ्गेन चेन्द्रियतदभिन्नव्यापारेभ्योऽपि भिन्नत्वमित्याह -
तथेति ।
प्राणस्येन्द्रियवृत्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति -
न च समस्तानामिति ।
या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रादिसाध्या, करणानां प्रत्येकमेकैकरूपग्रहादिवृत्तावैव हेतुत्वात् । न च समुदायस्य वृत्तिः सम्भवति तस्यासत्त्वादित्यर्थः ।
प्राणाभावादिति ।
श्रोत्रादीनामेकप्राणनाख्यवृत्त्यनुकूलपरिस्पन्देषु मानाभावात् , श्रवणादीनामपरिस्पन्दत्वेन विजातीयानाम् , परिस्पन्दरूपप्राणनाननुकूलत्वादवान्तरव्यापाराभावान्न समस्तकरणवृत्तिः प्राण इत्यर्थः ।
किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यम् , नैतदस्तीत्याह -
तथा प्राणस्येति ।
यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात् , तथा वायोर्विकारः प्राण इत्यभेदश्रुतेर्गतिमाह -
उच्यत इति ।
देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः ॥९॥
प्राणस्य करणवृत्तित्वाभावे जीववद्भोक्तृत्वं स्यादिति शङ्कते -
स्यादेतदिति ।
प्राणो न भोक्ता, भोगोपकरणत्वात् , चक्षुरादिवदिति सूत्रार्थमाह -
तुशब्द इत्यादिना ।
यथा बृहद्रथन्तरयोः सर्वत्र सहप्रयुज्यमानत्वेन सामत्वेन वा साम्यात्सहपाठस्तथा करणैः सहोपकरणत्वेन साम्यात्प्राणस्य पाठ इति न हेत्वसिद्धिरित्यर्थः । किञ्च प्राणो न भोक्ता, सावयवत्वात् , जडत्वाद्भौतिकत्वाच्च, देहवत् ॥१०॥
ननु यद्भोगोपकरणं तत्सविषयं दृष्टं यथा चक्षुरादिकम् , प्राणस्य तु निर्विषयत्वादसाधारणकार्याभावाच्च नोपकरणत्वमिति शङ्कते -
स्यादेतदिति ।
उक्तव्याप्तेः शरीरे व्यभिचाराद्देहेन्द्रियधारणोत्क्रान्त्याद्यसाधारणकार्यसत्वाच्च निर्विषयस्यापि प्राणस्य शरीरवद्भोगोपकरणत्वमक्षतं न तु चक्षुरादिवज्ज्ञानकर्मकरणत्वमस्ति येन सविषयत्वं स्यादिति परिहरति -
न तावदित्यादिना ।
अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तम् । व्यूदिरे विवादं चक्रिरे ।
तद्वृत्तिमात्रहीनमिति ।
मूकादिभावेन स्थितमित्यर्थः । अवरं नीचम् , कुलायं देहाख्यं गृहम् , प्राणेन रक्षञ्जीवः स्वपितीत्यर्थः । तदैव तदानीमेव । तेन प्राणेन यदश्नाति जीवस्तेन प्राणकृताशनेनेति यावत् । एवं श्रुतेः प्राणस्यासाधारणं कार्यमस्तीत्युक्तम् ॥११॥
तत्रैव हेत्वन्तरार्थं सूत्रं व्याचष्टे -
इतश्चेत्यादिना ।
वृत्तिरवस्था । अग्निमन्थनादिकं वीर्यवत्कर्म ।
कामादिवृत्तिवज्ज्ञानेऽपि पञ्चत्वनियमो नास्तीत्यरुचिं स्वयमेवोद्भाव्य पक्षान्तरं गृह्णाति -
नन्वत्रापीत्यादिना ।
प्रमाणं प्रमितिः विपर्ययो भ्रमः । शशविषाणादिज्ञानं विकल्पः । तामसी वृत्तिर्निद्रा । स्मृतिः प्रसिद्धा ।
भ्रमनिद्रयोरविद्यावृत्तित्वान्न मनोवृत्तित्वमित्यरुच्या स्वमतमाह -
बह्विति ।
सूत्रस्यार्थान्तरमाह -
जीवेति ।
तदेवं प्राणवायोर्भेदाभेदश्रुत्योरविरोध इति सिद्धम् ॥१२॥
एवं मुख्यप्राणस्योत्पत्तिं स्वरूपं चोक्त्वा परिमाणसन्देहेऽणुत्वमुपदिशति -
अणुश्चेति ।
अधिकाशङ्कामाह -
ननु विभुत्वमपीति ।
प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते । नागो हस्ती ।
प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाति, समोऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्यात्मिकप्राणस्याल्पत्वमाधिदैविकस्य विभुत्वमिति विषयभेदाच्छ्रुत्योरविरोध इति समाधत्ते -
तदुच्यत इति ।
किञ्चोपक्रमे प्राणस्य प्लुष्यादिसमत्वेनाल्पत्वोक्तेः सम एभिस्त्रिभिर्लोकैरिति विराड्देहसाम्यम् ।
समोऽनेनेति सूत्रात्मत्वमिति विषयव्यवस्था सुस्थेत्याह -
अपि चेति ।
अणवश्चेत्यत्र सर्वेऽनन्ता इति इन्द्रियानन्त्यमुपासनार्थमिति समाहितम् , अत्र तु प्राणविभुत्वमाधिदैविकमिति समाधानान्तरोक्तेरपौनरुक्त्यम् । अन्ये तु प्रसङ्गात्तत्र साङ्ख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्यपौनरुक्त्यमाहुः ॥१३॥
पूर्वं प्राणस्याध्यात्मिकाधिदैविकविभागेनाप्यणुत्वविभुत्वव्यवस्थोक्ता तत्प्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकाधीनत्वमाह -
ज्योतिराद्यधिष्ठानं तु तदामननात् ।
'वाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यति' इति तृतीयाश्रुत्यान्वयव्यतिरेकवत्या वागादीनां निरपेक्षसाधनत्वोक्तिविरोधात् 'अग्निर्वाग्भूत्वा' इत्यादिश्रुतिस्तेषामचेतनाग्न्याद्युपादानकत्वपरा न तु तेषामधिष्ठातृदेवतापरा । न च स्वकार्ये शक्तानामपि वागादीनामचेतनत्वादधिष्ठात्रपेक्षा न विरुध्यत इति वाच्यम् , जीवस्याधिष्ठातृत्वात् । किञ्च देवतानामधिष्ठातृत्वे जीववद्भोक्तृत्वमस्मिन् देहे स्यात् , तथा चैकत्रानेकभोक्तृणां विरोधाद्दुर्बलस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः ।
सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।
अग्निर्वाग्भूत्वादित्यश्चक्षुर्भूत्वेति च तद्भावोऽत्राग्न्यादिदेवताधिष्ठेयत्वरूप एव सम्बन्धो न तदुपादानकत्वरूपो दूरस्थादित्यमण्डलादेर्मुखस्थचक्षुराद्युपादानत्वासम्भवादित्याह -
अग्नेश्चायमिति ।
वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्येयमित्याह -
तथेति ।
भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः ।
एतस्मिन्नधिष्ठात्रधिष्ठेयत्वरूपार्थे लिङ्गान्तरमाह -
स वै वाचमिति ।
स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानामनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवानित्यर्थः ।
किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरादित्यमित्यादिश्रुतिरप्यधिष्ठात्रधिष्ठेयत्वसम्बन्धं द्योतयतीत्याह -
सर्वत्रेति ।
ननु शकटादीनां बलीवर्दादिप्रेरितानां प्रवृत्तिर्दृष्टा, क्षीरादीनां त्वनधिष्ठितानामपि दध्यादिप्रवृत्तिर्दृश्यते, तथा चोभयथासम्भवे कथं निश्चयः, तत्राह -
उभयथोपपत्तौ चेति ।
उक्तदोषान्तरनिरासाय सूत्रमवतारयति -
यदपीति ॥१४॥
शारीरेणैवेति ।
भोक्त्रेति शेषः । सम्बन्धो भोक्तृभोग्यभावः । अथ देहे प्राणप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः । यद्यप्यात्मा करणान्यपेक्षते तथापि ज्ञेयज्ञानतदाश्रयाहङ्कारान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धादिप्रवृत्तयेऽपेक्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः ।
किञ्च योऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रतिसन्धानादेकः शारीर एव भोक्ता न बहवो देवा इत्याह -
अपि चेति ॥१५॥
कदाचिद्देवानामत्र भोक्तृत्वं कदाचिज्जीवस्येत्यनियमोऽस्त्वित्याशङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृत्वनियमान्मैवमित्याह - सूत्रकारः -
तस्य चेति ।
उत्क्रमाणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वम् , देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमिति व्याख्यान्तरमाह -
शारीरेणैव च नित्य इति ।
यथा प्रदीपादिः करणोपकारकतया करणपक्षस्यान्तर्गतस्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः । जीवस्यादृष्टद्वारा करणाधिष्ठातृत्वाद्रथस्वामिवद्भोक्तृत्वम् , देवानां तु करणोपकाराभिज्ञतया सारथिवदधिष्ठातृत्वमिति न जीवेनान्यथासिद्धिः । देवानामधिष्ठातृत्वेनास्मिन्देहे भोक्तृत्वानुमानं तु 'न ह वै देवान् पापं गच्छति' इत्युक्तश्रुतिबाधितम् । तस्मात् 'चक्षुषा हि रूपाणि पश्यति' इति श्रुतेः साधनत्वमात्रबोधित्वादग्निर्वाग्भूत्वेत्याद्यधिष्ठातृदेवतापेक्षाबोधकश्रुतिभिरविरोध इति सिद्धम् ॥१६॥
सत्स्विन्द्रियेषु तदधिष्ठातृदेवताचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण न सन्तीत्याक्षेपं प्रत्याह -
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।
प्राणादिन्द्रियाणां भेदाभेदश्रुतिभ्यां संशयं वदन् पूर्वपक्षयति -
मुख्यश्चेत्यादिना ।
हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति सङ्कल्प्य ते वागादयस्तथाभवन्नित्यभेदश्रुत्यर्थः ।
ते प्राणादभिन्नाः, प्राणपदवाच्यत्वात् , प्राणवदित्याह -
प्राणेति ।
ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रतिज्ञार्थत्वेन पदत्रयं व्याचष्टे -
तत्त्वान्तराण्येवेति ।
तद्व्यपदेशादित्यत्र तच्चब्दः प्रतिज्ञातान्यत्वं परामृशति ।
प्राणा इन्द्रियाणीत्यपर्यायशब्दाभ्यामन्यत्वोक्तेरिति हेतूपपादनार्थत्वेन पुनस्तानि सूत्रपदानि योजयति -
क इत्यादिना ।
सूत्रस्य विश्वतोमुखत्वादुभयार्थत्वमलङ्कार एव न दूषणम् । एतेन प्रतिज्ञाध्याहारः तच्छब्दस्याप्रकृतभेदपरामर्शित्वं चेति दोषद्वयमपास्तम् ।
शब्दभेदाद्वस्तुभेदसाधनेऽतिप्रसङ्गं शङ्कते -
नन्विति ।
प्राणवन्मनसोऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः ।
अपर्यायसंज्ञाभेदात्स्वतन्त्रसंज्ञिवस्तुभेद इत्युत्सर्गः । स च 'मनः षष्ठानीन्द्रियाणि' इत्यादिस्मृतिबाधान्मनस्यपोद्यते, प्राणे तु बाधकाभावादुत्सर्गसिद्धिरिति समाधत्ते -
सत्यमित्यादिना ।
मन इन्द्रियाणि चेति भेदोक्तिर्गोबलीवर्दन्यायेन नेया । सिद्धान्ते मनसः प्रमोपादानत्वादात्मवदनिन्द्रियत्वमिष्टं ततो नोत्सर्गबाध इति केचित् ।
किञ्च 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति पृथग्जन्मव्यपदेशात्स्वतन्त्रवस्तुभेद इत्याह -
व्यपदेशभेदश्चायमिति ।
एकस्मिन् वाक्ये प्राण इन्द्रियशब्दमैक्याल्लभते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः ॥१७॥
एवं भेदेनापर्यायसंज्ञाभ्यामुक्तेः पृथग्जनोक्तेश्चेति तद्व्यपदेशादिति हेतुर्व्याख्यातः । भेदश्रुतेरिति सूत्रेण प्रकरणभेदो हेतुरुक्त इति न पौनरुक्त्यम् । ते ह देवाः शास्त्रीयेन्द्रियमनोवृत्तिरूपा असुराणां पापवृत्तिरूपाणां जयार्थमुद्गीथकर्मणि प्रथमं व्यापृतां वाचमूचुस्तन्न उद्गायासुरनाशार्थमिति तथास्त्वित्यङ्गीकृत्योद्गायन्तीं वाचमनृतादिदोषेण विध्वंसितवन्तोऽसुरा इत्येवं क्रमेण सर्वेष्विन्द्रियेषु पापग्रस्तेषु पश्चादथेति प्रकरणं विच्छिद्य प्रसिद्धमास्ये भवमासन्यं मुख्यं प्राणमूचुस्तन्न तद्गायेति तेन प्राणेनोद्गात्रा निर्विषयतया सङ्गदोषशून्येनासुरा नष्टा इत्यसुराणां विध्वंसिनो मुख्यप्राणस्योक्तेर्भेदसिद्धिरित्याह -
ते हेति ।
तानि त्रीण्यन्यान्यात्मने स्वार्थं प्रजापतिः कृतवानित्यर्थः ॥१८॥
विरुद्धधर्मवत्त्वाच्च भेद इत्याह -
वैलक्षण्याच्चेति ।
मृत्युरासङ्गदोषः । वाग्दध्रे व्रतं धृतवतीत्यर्थः । बहुभिर्भेदलिङ्गैर्विरोधाद्वागादीनां प्राणरूपभवनं प्राणाधीनस्थितिकत्वरूपं व्याख्येयम् । एतदेव प्राणशब्दस्येन्द्रियेषु लक्षणाबीजं श्रुतौ 'तस्मादेत एतेनाख्यायन्त' इति परामृष्टम् , इति न भेदाभेदश्रुत्योर्विरोध इति सिद्धम् ॥१९॥
उत्पत्तिरुत्पादनेति च कार्यकर्त्रोर्व्यापारौ प्रसिद्धौ तत्र जगदुत्पत्तिश्रुतिविरोधः अतीतेन पादद्वयेन निरस्तः, सम्प्रत्युत्पादनश्रुतिविरोधो निरस्यते । तत्रापि सूक्ष्मभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नम् , स्थूलभूतोत्पादने त्वस्ति श्रुतिविप्रतिपत्तिरिति तन्निरासार्थमाह -
संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।
नामरूपभेदात्करणभिन्नः प्राण इत्युक्तम् , तत्प्रसङ्गेन स्थूलनामरूपकॢप्तिः किङ्कर्तृकेति चिन्त्यत इत्यवान्तरसङ्गतिः । प्रक्रिया प्रकरणम् ।
ईक्षणमेवाह -
हन्तेत्यादिना ।
हन्त इदानीं देवताः सूक्ष्मा अनुप्रविश्येति सम्बन्धः । तासां तिसृणां देवतानामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था । छान्दोग्येऽप्याकाशवाय्वोरुपसंहारस्योक्तत्वात् । एवं स्थूलीकृतेषु भूतेषु प्राणिनां व्यवहारः सेत्स्यतीति परदेवतायास्तात्पर्यम् ।
जीवेनेतिपदस्य व्याकरवाणीत्यनेन सम्बन्धसम्भवासम्भवाभ्यां संशयमाह -
तत्रेति ।
पूर्वपक्षे जीवस्यैव भौतिकस्रष्टृत्वाद्ब्रह्मणः सर्वस्रष्टृत्वासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।
जीवेनेत्यस्य व्याकरवाणीतिप्रधानक्रियापदेन सम्बन्ध इति पूर्वपक्षमाह -
तत्र प्राप्तमिति ।
परदेवताया अकर्तृत्वे कथमुत्तमपुरुषप्रयोग इत्याशङ्क्य प्रयोजकत्वात्कर्तृत्वोपचार इत्याह -
यथा लोक इति ।
सिद्धान्तयति -
तुशब्देनेत्यादिना ।
प्रत्याकृति ।
प्रतिजातीत्यर्थः । अनेन स्थूलसर्वसर्गे जीवस्यासामर्थ्यं द्योतितम् । तथा च पदान्वयस्य पदार्थयोग्यताधीनत्वाज्जीवरूपेण प्रविश्याहमेव व्याकरवाणीत्यन्वयः । न तु जीवेन व्याकरवाणीति ।
ननु तर्हि प्रवेशक्रिया जीवकर्तृका व्याकरणमीश्वरकर्तृकमिति कर्तृभेदात्क्त्वाप्रत्ययो न स्यादित्यत आह -
न च जीवो नामेति ।
वस्तुतस्तु सूर्यो जले प्रविष्ट इति प्रतिबिम्बभावाख्यप्रवेशे सूर्यस्यैव कर्तृत्वप्रयोगाज्जीवात्मना प्रवेशेऽपीश्वर एव कर्तेति क्त्वाश्रुतिर्युक्तेति बोध्यम् ।
नन्वभेदश्चेज्जीव एव व्याकर्ता किं न स्यादित्याशङ्क्य कल्पनया भिन्नस्य तस्याशक्तत्वाच्छ्रुतिविरोधाच्च मैवमित्याह -
परमेश्वर इति ।
प्रत्येकं महाभूतसर्गस्य प्रागुक्तत्वादिह व्याकरणवाक्ये यत्नपूर्वकं स्थूलभौतिकसर्ग उच्यत इति पाठव्यत्ययेन सूत्रसूचितं श्रुत्यर्थमाह -
त्रिवृत्करणपूर्वकमिति ।
ईश्वरकृतं त्र्यात्मत्वमिति क्व दृष्टमित्यत आह -
तच्चेति ।
इदानीं नामरूपव्याकरणे क्रममाह -
तत्राग्निरिति ।
यद्यपि 'अतः प्रभवात्' इत्यत्र वेदशब्दपूर्विकार्थसृष्टिरुक्ता तथाप्यव्यक्तात्स्मृताच्छब्दादर्थसृष्टौ सत्यां स्फुटनामसम्बन्धाभिव्यक्तिरत्रोक्तेत्यविरोधः ।
नन्वग्न्यादीनां तैजसानामेव श्रुतावुदाहरणाद्भूजलयोस्त्र्यात्मकत्वं न विवक्षितमित्यत आह -
अनेन चेति ।
उपक्रमे तासां मध्य इति शेषः । यत्कपोतरूपादिकं कृष्णत्वादिविशेषाकारेण विज्ञातमिव भवति तद्देवतानां समुदायरूपमित्यर्थः ॥२०॥
बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकमपरं पूर्वोक्तविलक्षणं वदन्नुत्तरसूत्रमवतारयति -
तासामित्यादिना ।
पुरुषशरीरं प्राप्यैकैका त्रिवृद्भवति कार्यत्रयात्मना भवतीत्यर्थः । उत्तरसूत्रेणाशङ्कितं दोषं निरसितुमादौ शङ्काविषयमाध्यात्मिकत्रिवृत्करणं दर्शयतीति भाष्यार्थः ।
नन्वन्नमयं मांसादि कथं भौममित्यत आह -
त्रिवृत्कृता भूमिरेवेति ।
प्राणस्य वायोरप्कार्यत्वमौपचारिकं द्रष्टव्यम् ॥२१॥
एवं विषयमुक्त्वा दोषं शङ्कते -
अत्राहेति ।
तदुत्तरत्वेन सूत्रं व्याचष्टे -
तुशब्देनेति ।
स्वभावाधिक्यं वैशेष्यं किमर्थं कृतमित्यत आह -
व्यवहारप्रसिद्ध्यर्थमिति ।
एवं स्मृतिन्यायमतान्तरश्रुतिभिरविरोधो ब्रह्मणि वेदान्ततात्पर्यस्येति सिद्धम् ॥२२॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य चतुर्थः पादः ॥४॥