अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तृतीयाध्याये प्रथमः पादः (१)

तृतीयाध्याये प्रथमः पादः ।
यं हि वैरा­ग्य­सं­प­न्ना­स्त­त्त्व­म­र्थ­वि­वे­किनः ।
लभन्ते साध­नै­र्दा­न्तास्तं सीतानायकं भजे ॥१॥
तद­न्त­र­प्र­ति­पत्तौ रंहति संपरिष्वक्तः प्रश्न­नि­रू­प­णा­भ्याम् ।

वृत्तमनूद्य तृती­या­ध्या­या­र्थ­माह -
द्वितीय इत्यादिना ।
अविरुद्धे वेदान्तार्थे तज्ज्ञा­न­सा­ध­न­चि­न्ता­व­सर इत्य­न­यो­र्हे­तु­हे­तु­म­द्भावः । लिङ्गो­पा­धि­सिद्धौ तदु­प­हि­त­जी­व­सं­सा­र­चि­न्तेति पादयोरपि तद्भावसङ्गतिः । अत्र प्रथमपादे वैराग्यम् । द्वितीये स्वप्ना­द्य­व­स्थोक्त्या त्वंपदार्थो ब्रह्मतत्त्वं चोच्ये । तृतीये वाक्या­र्थ­स्त­द­र्थ­मु­पा­स­नाश्च विचार्यन्ते ।

चतु­र्थ­पा­दा­र्थ­माह -
सम्य­ग्द­र्श­ना­दिति ।
दर्शनोपायाः संन्यासादयः । मुक्तिरूपफलस्य स्वर्ग­व­त्ता­र­त­म्य­नि­य­मा­भावः एकरूपत्वमिति यावत् । प्रसङ्गागतं देहात्मदूषणम् । पञ्चसु द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षि­त्स्व­ग्नि­त्व­ध्यानं पञ्चाग्निविद्या । यस्मात्कर्मणा गत्या­ग­ति­रू­पोऽ­न­र्थ­स्त­स्मा­त्क­र्म­फले जुगुप्सां घृणां विरक्तिं कुर्वीतेति पञ्चा­ग्नि­वि­द्यो­प­सं­हारे श्रव­णा­द्वै­रा­ग्यार्थं प्रदर्श्यते इत्यन्वयः । शास्त्रा­दि­सूत्रे नित्या­नि­त्य­वि­वे­क­कृतं वैराग्यमुक्तम्, इह तद्दार्ढ्याय गत्या­ग­ति­क्ले­श­भा­व­ना­कृतं तदुच्यत इत्य­पौ­न­रु­क्त्यम् ।

अधिकरणविषयमाह -
जीव इति ।
अविद्या प्रसिद्धा । विद्येति पाठे उपासना ग्राह्या । कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मा­न्त­र­सं­स्कारः । अथ मरणकाले प्राणा हृदये जीवे­नै­की­भ­व­न्ती­त्यर्थः । रूपं शरीरं, पञ्ची­कृ­त­भू­त­भागाः उत्त­र­दे­ह­प­रि­णा­मिनो भूतसूक्ष्माः । वेदा­न्ता­र्थ­ज्ञा­न­सा­ध­न­वि­चा­र­त्वा­त्स­र्वा­धि­क­र­णानां, श्रुति­शा­स्त्रा­ध्या­य­स­ङ्ग­तयः वैरा­ग्य­फ­ल­क­त्वा­दे­त­त्पा­द­स­ङ्गतिः । पूर्वाधिकरणे व्यवहारार्थं पञ्चीकरणमुक्तं स व्यवहारोऽत्र निरूप्यत इति फल­फ­लि­भा­वोऽ­वा­न्त­र­स­ङ्गतिः । अत्र पूर्वपक्षे निरा­श्र­य­प्रा­ण­ग­त्य­भा­वात्, न वैराग्यं, सिद्धान्ते भूता­श्र­य­प्रा­ण­ग­ते­र्वै­रा­ग्य­मिति फलभेदः । तेजो­मा­त्रा­श्च­क्षु­रा­दयः, पश्यति जिघ्रतीति वाक्यशेषात् । आपः पञ्चस्वग्निषु हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरु­ष­श­ब्द­वाच्याः पुरुषात्मना परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति राज्ञः प्रवाहणस्य प्रश्नः, तस्य चोत्तराज्ञाने तत्पितरं प्रति राजोवाच 'असौ वाव लोको गौतमाग्निस्तत्र श्रद्धाख्या आपः आहुतिः पर्जन्याग्नौ सोमरूपा इह खल्वग्निहोत्रे श्रद्धया हुता दध्यादिरूपा आपो यजमानसंलग्नाः स्वर्गं लोकं प्रप्य सोमा­ख्य­दि­व्य­दे­हा­त्मना स्थिताः कर्मान्ते द्रुताः पर्जन्ये हूयन्ते ततो वृष्टिरूपाः पृथिव्या अन्नरूपाः पुरुषे रेतोरूपाः योषिति हुताः आपः पुरु­ष­श­ब्द­वाच्याः पुमात्मका भवन्ति' इति निरूपणं कृतम् ।

नन्वेतद्देहं त्यक्त्वाद्भिः सह गतस्य पश्चा­द्दे­हा­न्त­र­प्रा­प्ति­रि­त्य­यु­क्तम् । यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवो देहान्तरं गृहीत्वा पूर्वदेहं त्यजतीति श्रुति­वि­रो­धा­दिति शङ्कते -
नन्वन्येति ।
इहैव कर्मा­य­त्त­भा­वि­देहं देवोऽ­ह­मि­त्या­दि­भा­व­नया गृहीत्वा पूर्वदेहं त्यजतीति श्रुत्यर्थः,

अतो न विरोध इति समाधत्ते -
तत्रापीति ।
भावनाया दीर्घीभावो भावि­दे­ह­वि­ष­य­त्वम् । घटाकाशवदुपहितो जीवः सूक्ष्मो­पा­धि­गत्या लोकान्तरं गच्छतीति पञ्चा­ग्नि­श्रु­त्युक्तः प्रका­र­स्त­द्वि­रो­धा­दन्याः कल्पनाः सर्वा अनादर्तव्या इत्यन्वयः ।

साङ्ख्य­क­ल्प­ना­माह -
व्यापिनामिति ।

सुगतकल्पनामाह -
केवलस्येति ।
निर्वि­क­ल्प­क­ज्ञा­न­स­न्ता­न­रू­प­स्या­त्मनो देहान्तरे शब्दा­दि­स­वि­क­ल्प­क­ज्ञा­ना­ख्य­वृ­त्ति­लाभो भवतीत्यर्थः ।

काणादकल्पनामाह -
मन इति ।
देहान्तरं प्रति मनोमात्रं गच्छति, इन्द्रियाणि तु नूत­ना­न्ये­वा­र­भ्यन्ते ।

दिग­म्ब­र­क­ल्प­ना­माह -
जीव इति ॥१॥

ननु पाक­स्वे­द­ग­न्ध­रू­प­का­र्य­त्र­यो­प­ल­ब्धे­स्त्र्या­त्मको देह इत्ययुक्तम् । प्राणा­व­का­श­यो­र­प्यु­प­लब्ध्या देहस्य पञ्च­भू­ता­त्म­त्वा­दि­त्य­रुच्या व्याख्यान्तरमाह -
पुनश्चेति ।
देह­धा­र­क­त्वा­द्धा­त­व­स्तै­स्त्रि­धा­तु­त्वा­त्र्या­त्मक इत्यन्वयः । देहस्य केवलाब्जत्वे वातं पित्तं च वायव्यं तैजसं न स्यातामिति भावः । पृथि­वी­त­र­भू­ता­पे­क्ष­यापां बाहुल्यम् ।

किञ्च देहनिमित्तानां कर्म­णा­म­ब्बा­हु­ल्या­त्ता­भि­र्भू­ता­न्त­रा­ण्यु­प­ल­क्ष्यन्त इत्याह -
कर्म चेत्यादिना ॥२॥

उत्क्रान्तौ प्राणा देह­बी­ज­प­ञ्च­भू­ता­श्रयाः प्राण­त्वा­ज्जी­व­द्दे­ह­स्थ­प्रा­ण­व­दि­त्याह -
प्राणगतेश्चेति ॥३॥

प्राणानां गति­र­सि­द्धे­त्या­शङ्क्य निषेधति -
अग्न्यादीति ।
अद­र्श­ना­दो­ष­धि­व­न­स्प­ति­ग­म­न­स्येति शेषः । लोमा­न्य­पि­य­न्ती­त्यर्थः । प्राणा­ना­म­ग्न्या­दिषु लयस्य मुख्यत्वे जीवस्य गति­भो­ग­यो­र­यो­गा­त्सर्वे प्राणा अनू­त्क्रा­म­न्तीति विस्प­ष्ट­श्रु­ते­र्लो­मा­दि­गौ­ण­ल­य­पा­ठाच्च गौणत्वमित्यर्थः ॥४॥

भूता­न्त­र­यु­क्ता­ना­मपां गतिमुक्त्वा पुरुषवचस्त्वं तासामाक्षिप्य समाधत्ते -
प्रथम इति ।

ननु प्रथमपदं व्यर्थ­मु­त्त­रा­ग्नि­ष्व­प्य­पा­म­श्र­व­णा­दि­त्या­शङ्क्य सोम­वृ­ष्ट्य­न्न­रे­त­सा­म­ब्रू­प­त्वा­दु­त्त­रत्र तासां श्रवणमस्ति, न प्रथम इत्याह -
यदि नामेति ।
पञ्चा­ग्नि­ष्व­पा­मा­हु­तित्वे सिद्धे तासां पञ्चम्यामाहुतौ पुरुषवचस्त्वं भवेन्न तत्सिद्धं प्रथमाग्नौ तासा­म­ना­हु­ति­त्वा­दिति शङ्कार्थः । एवं हि श्रद्धा­श­ब्दे­नापां ग्रहे सति प्रश्नो­त्त­रो­प­सं­हा­राणां संगा­ना­दे­का­र्थ­त्वा­दे­क­वा­क्य­तो­प­प­द्यते, अग्रहे तु चतु­र्ष्व­ग्नि­ष्वे­वा­पा­मा­हु­ति­त्वा­च्च­तु­र्थ्या­मा­हु­ता­विति वाच्यं, अतः प्रश्नो­प­सं­हा­रयोः पञ्चम्यामिति श्रवणात्, प्रथ­मा­ग्ना­व­प्याप एव ग्राह्या इति समाधानार्थः । अनपः अद्भ्योऽन्यतः ।

एतदेवेति ।
श्रद्धा­श­ब्द­स्या­ब­र्थ­कत्वं दर्शयतीत्यर्थः ।

उप­प­त्ते­रि­त्य­स्या­र्था­न्त­र­माह -
श्रद्धा­का­र्य­मिति ।
तस्याः श्रद्धाहुतेः सोमः संभवतीत्यादिना श्रद्धा­सो­मा­दीनां पूर्व­पू­र्व­प­रि­णा­मत्वं श्रुतं ततो द्रव­प­रि­णा­म­त्वा­त्श्र­द्धाया अप्त्वं प्रत्य­या­त्म­क­मु­ख्य­श्र­द्धाया आहु­ति­त्वा­यो­गा­च्चे­त्यर्थः ।

श्रद्धा­श­ब्द­स्याप्सु सूक्ष्मत्वगुणेन वृत्तिमुक्त्वा लक्षणां वक्तुं श्रद्धाया अद्भि­रे­क­क­र्म­यो­गित्वं हेतुत्वं वा संबन्धमाह -
श्रद्धा­पू­र्व­केति ।
अस्मै यजमानाय । स्नाना­द्य­र्थ­मापः श्रद्धां संनमन्ते जनयन्तीति श्रुत्यर्थः ॥५॥

अपां गति­मु­पे­त्याद्भिः सह जीवानां गतिमाक्षिप्य समाधत्ते -
अथापीत्यादिना ।
द्युलोकाग्नौ श्रद्धाहुतेः सोमो राजा संभ­व­ती­त्युक्त्वा वाक्यशेषे धूमादिमार्गेण आका­शा­च्च­न्द्र­मसं प्राप्ता इष्ट्यादिकारिण एष सोमो राजेत्युक्ताः, अतः सोम­रा­जा­श­ब्द­सा­मा­न्या­दि­ष्ट्या­दि­का­रिणां जीवानां श्रद्धा­श­ब्दि­ताद्भिः सह गतिरिह श्रद्धा­हु­ति­वाक्ये प्रतीयत इत्यर्थः ।

तेषां सूक्ष्मा­भि­र्द्र­व्या­पू­र्व­रू­पाभिः पञ्ची­कृ­ता­भि­रद्भिः संबन्धं वदन् सहगतिं विवृणोति -
तेषां चाग्निहोत्रेति ।
निधनं मरणं तन्नि­मि­त्त­क­म­न्त्ये­ष्टि­वि­धानं, असौ यजमानः, स्वर्गाय गच्छत्विति मन्त्रार्थः ।

हुत­द्र­व्य­रू­पा­णा­मपां गमने श्रुत्यन्तरमाह -
तथा चेति ।
अग्नि­हो­त्र­प्र­क­रणे जनकेन याज्ञवल्क्यं प्रति 'नत्वे­वै­नयोः सायं­प्रा­त­रा­हु­त्यो­स्त्व­मु­त्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थ' इति षट्प्रश्नाः कृतास्तेषां निर्वचनमपि राज्ञैव 'ते वा एते आहुती हुते उत्क्रामतः तेऽन्त­रि­क्ष­द्वारा दिवं गच्छतस्ते दिवमेवाहवनीयं प्रतिष्ठां कुर्वाते दिवं तर्पयतस्ते ततः पुनरावर्तेते ततः पृथिव्यां पुरुषे योषिति च हुते पुरु­ष­रू­पे­णो­त्ति­ष्ठतः' इति वाक्यशेषेण कृतम् ॥६॥

संप्र­त्यु­त्त­र­सू­त्र­व्या­वर्त्यं शङ्कते -
कथमित्यादिना ।

अत्र सोमा­ख्य­च­न्द्र­स्या­न्न­त्व­मुक्तं नेष्टा­दि­का­रि­णा­मिति भ्रान्ति­नि­रा­सार्थं श्रुत्यन्तरमाह -
ते चन्द्रमिति ।
यथा यज्ञे चमसस्थं सोममृत्विज आप्यायस्वेति क्रियावृत्तौ लोट्पुनः पुनराप्याय्य पुनः पुनरपक्षय्य भक्षयन्ति । एव­मे­ना­नि­ष्टा­दि­का­रि­णोऽ­न्न­रू­पान् भक्षयन्ति देवा इत्यर्थः । अधिक्रियते पुरुषो विधिना संब­ध्य­तेऽ­ने­ने­त्य­धि­कारः फलकामना । शास्त्रा­न­र्थ­क्य­वा­र­णाय अन्नत्वं गोणमिति भावः ।

केन दोषेण तेषां देवभोग्यतेत्यत आह -
अना­त्म­वि­त्त्वा­च्चेति ।
यथा पशुर्भोग्य एवमज्ञः स भेदधीमान् देवानां भोग्य इत्यर्थः ।

आत्मशब्दस्य मुख्यत्वबलेन सूत्रांशं व्याख्याय प्रकृ­त­प­ञ्चा­ग्नयः सूत्र­कृ­ता­त्म­त्वे­नो­प­च­रिता इति व्याख्यान्तरमाह -
अनात्मेत्यादिना ।

विद्या­स्तु­त्य­र्थ­म­न्नत्वं न मुख्यमित्यत्र श्रुत्य­न्त­रार्थं सूत्रशेषं व्याचष्टे -
तथाहीति ।
एवं गतिपर्यालोचनया वैराग्यमिति सिद्धम् ॥७॥

इदानीं गत्य­न्त­र­भा­वि­नी­मा­गतिं निरूपयति -
कृतात्यय इति ।
भोक्त­व्य­क­र्म­स­मा­प्त्या­न­न्त­र्य­म­थ­श­ब्दार्थः । यथेतमित्यारभ्य श्वादि­यो­नि­मि­त्यन्तं वाक्यं याव­त्ता­व­दा­म्ना­यत इति योजना ।

अत्र यावत्संपातमिति विशे­ष­णा­द्र­म­णी­य­च­रणा इति वाक्याच्च संशयमाह -
तत्रेति ।
अनुशयः कर्म, अत्र पूर्वपक्षे कर्मा­भा­वे­ना­ग­ते­र­नि­य­मा­द्वै­रा­ग्या­दार्ढ्यं, सिद्धान्ते कर्म­स­त्त्वे­ना­ग­ति­नि­य­मा­द्वै­रा­ग्य­दा­र्ढ्य­मिति भेदः । तेषा­मि­ष्टा­दि­का­रिणां यदा तत्कर्म पर्यवैति विपरिक्षीणं भवति तदा पुनरावर्तन्त इति श्रुत्य­न्त­रे­णापि कृत्स्न­क­र्म­ण­श्च­न्द्र­लोके भुक्तत्वमुच्यत इत्यर्थः ।

यावत्पदसङ्कोचो न युक्तः श्रुत्य­न्त­र­वि­रो­धा­दि­त्याह -
नैवमिति ।
अयं नरो यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य कर्मार्थं पुनरायातीति श्रुत्यर्थः ।

कर्माभावे श्रुतिमुक्त्वा युक्तिमाह -
अपिचेति ।
अभिव्यक्तिः फलोन्मुखता, मर­णे­ना­भि­व्य­क्तस्य सर्वस्य कर्मणः पर­लो­क­भो­ग­स्या­व­श्यं­भा­वा­त्क­र्मा­भाव इत्यर्थः ।

चर­णा­ख्य­शी­ल­मा­त्रा­द­व­रोह इति प्राप्ते सिद्धा­न्त­प्र­तिज्ञां व्याचष्टे -
येनेत्यादिना ।
तत्तत्रावरोहतां जीवानां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणाः पुण्यकर्माणः पुण्ययोनिभाज इति यत्ततभ्याशो ह अवश्यं हीत्यर्थः । कपूयं पापम् ।

दृष्टशब्दस्य श्रुत्य­र्थ­मु­क्त्वा­र्था­न्त­र­माह -
दृष्टश्चेति ।
'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इत्या­दि­शा­स्त्रेण सुख­दुः­ख­यो­र्ध­र्मा­र्ध­र्म­हे­तु­क­त्व­म­व­ग­तम् । ततश्च जन्मारब्य दृष्टो भोगः कर्महेतुकः भोगत्वात्, स्वर्ग­भो­ग­व­दि­त्य­नु­श­य­सिद्धिः, विपक्षे च हेत्व­भा­वा­त्भो­ग­स्या­क­स्मि­क­त्व­प्र­सङ्ग इत्यर्थः । स्मृतवाश्रमाः आश्रमिणः प्रेत्य मृत्वा लोकान्तरे कर्मफलं भुक्त्वा ततः शेषेण भुक्तादन्येन कर्मणा अनुशयाख्येन पुनर्जन्म प्रतिपद्यन्ते इति संबन्धः । विशिष्टा देशादयो मेधान्ता दश गुणा येषु ते तथोक्ताः । श्रुतं ज्ञानं, वृत्तमाचारः ।

स्वाभिमतानुशयं वक्तुं पृच्छति -
कः पुनरिति ।

कृतस्य कर्मणः स्वर्गे भोगे सति भुक्तस्य कर्मणो लेशोऽ­नु­श­य­स्त­द्वा­न­व­रो­हति भाण्डे स्नेहलेशस्य दृष्टत्वात्, ततः शेषेणेति स्मृते­श्चे­त्ये­क­दे­शि­व्या­ख्या­माह -
केचिदित्यादिना ।
रिच्यमानं स्नेहेन वियुज्यमानम् ।

ननु भोग­ना­श्य­त्वा­त्क­र्मणो लेशो न युक्तः इति शङ्कते -
नन्विति ।
कृत्स्नकर्मणो भोगे जाते नाशः स्यात्, नतु भोगो जात इति परिहारार्थः ।

भोगो न जायत इत्ययुक्तमिति शङ्कते -
नन्विति ।

भोगः सावशेषो जात इति समाधत्ते -
बाढमित्यादिना ।

इद­मे­क­दे­शि­व्या­ख्यानं दूषयति -
न चेति ।
'स्वर्ग­कामो यजेत' इत्या­दि­शा­स्त्रेण स्वर्गभोगार्थं कर्म चोदितं, तच्छेषस्य मर्त्य­भो­ग­हे­तुत्वे शास्त्रविरोध इत्यर्थः ।

किञ्च स्वर्ग­हे­तु­क­र्म­शे­षा­द­व­रोहे कपू­य­यो­न्या­प­त्ति­श्रु­ति­वि­रोध इत्याह -
अवश्यं चेति ।

स्वाभि­म­त­म­नु­श­य­माह -
तस्मादिति ।

पूर्व­प­क्ष­बी­ज­म­नूद्य दूषयति -
यदित्यादिना ।
क्षपयित्वा पुनरागच्छन्तीति प्राप्यान्तमिति वाक्येन गम्यत इति योजना । जन्मारभ्य दृष्ट­भो­ग­लि­ङ्गा­नु­गृ­ही­तया रम­णी­य­क­पू­य­च­र­ण­श्रु­त्यै­हि­का­नु­श­या­क्य­क­र्म­वि­शे­ष­प­रया विरोधात्, यत्किञ्चेति यावत्संपातमिति च सामा­न्य­श­ब्द­यो­रा­मु­ष्मि­क­वि­ष­य­त्वेन सङ्कोचो न्याय्य इति भावः ।

मरणं कृत्स्न­क­र्मा­भि­व्य­ञ्ज­क­मि­त्य­यु­क्तम्, उक्ता­नु­श­य­श्रु­ति­वि­रो­धा­दि­त्याह -
तदपीति ।

बल­व­द­ना­र­ब्ध­क­र्म­प्र­ति­ब­न्धाच्च न कृत्स्न­क­र्मा­भि­व्य­क्ति­रि­त्याह -
अपिचेत्यादिना ।
तस्य कृत्स्न­क­र्म­व्य­ञ्ज­कत्वे हेतुर्नास्तीति भावः ।

प्रश्नं मत्वोत्तरं शङ्कते -
आरब्धेति ।

आर­ब्ध­व­द­ना­र­ब्ध­स्यापि बलवतः प्रति­ब­न्ध­क­त्वान्न सर्वकर्मणः फल­दा­ना­या­भि­व्य­क्ति­रिति समाधत्ते -
यथेति ।

अना­र­ब्ध­फ­ल­त्वा­वि­शे­षा­त्स­र्व­क­र्म­णा­म­भि­व्य­क्ति­मा­शङ्क्य मिथो­वि­रु­द्ध­स्व­र्ग­न­र­का­दि­दे­ह­फ­ला­ना­मे­क­दे­हा­र­म्भ­क­त्वा­सं­भव उक्तस्तं विवृणोति -
न हीति ।

अस्तु तर्हि दुर्बलस्य कर्मणो नाश इत्यत आह -
नापीति ।
नाभुक्तं क्षीयते कर्मेत्येकान्त उत्सर्गः स च प्राय­श्चि­त्त­ब्र­ह्म­ज्ञा­न­ध्या­नै­र्बा­ध्यते न मर­ण­मा­त्र­णे­त्यर्थः ।

मरणेन दुर्ब­ल­क­र्मा­वि­नाशे मानमाह -
स्मृतिरिति ।

कर्मनाशपक्षं निरस्य प्रकृ­त­कृ­त्स्न­क­र्मा­भि­व्य­क्ति­पक्षे दोषान्तरमाह -
यदि चेति ।
कृत्स्न­क­र्म­णा­मे­क­स्मिन् देवादिजन्मनि भोगेन क्षयान्न जन्मान्तरं स्यात्, ज्ञानाभावान्न मुक्ति­रि­त्य­ज्ञ­दे­वस्य कष्टान्तरालदशा स्यादित्यर्थः ।

'श्वसू­क­र­ख­रो­ष्ट्राणां गोऽजा­वि­मृ­ग­प­क्षि­णाम् । चण्डा­ल­पु­ल्क­सानां च ब्रह्महा योनिमृच्छति ।' इत्या­दि­स्मृ­ति­वि­रो­धाच्च न सर्व­क­र्म­णा­मे­क­ज­न्मा­र­म्भ­क­त्व­मि­त्याह -
ब्रह्मेति ।

नन्वेकस्य कर्मणः कथ­म­ने­क­ज­न्म­फ­ल­क­त्वम्, अदृ­ष्ट­त्वा­दि­त्याह -
न चेति ।

किञ्च व्यञ्जकत्वेऽपि मरणस्य किं सर्व­क­र्म­व्य­ञ्ज­कत्वं कल्प्यते उत यत्कि­ञ्चि­त्क­र्म­व्य­ञ्ज­क­त्वम् । नाद्यः, इह कृत­का­री­र्या­दे­र­त्रैव फल­हे­तो­र्म­र­ण­व्य­ज्य­त्वा­सं­भ­वा­दि­त्याह -
न चेति ।

द्वितीयं निरस्यन् परोक्तं दृष्टान्तं विघटयति -
प्रदीपेति ।
रूपाणां प्रदीपवत्, मरणं न कस्यचिदपि कर्मणो व्यञ्जकं किन्तु प्रब­ल­क­र्म­प्र­ति­ब­न्धा­भावे दुर्बलं व्यज्यत इत्यर्थः ।

एवं मरणस्य व्यञ्ज­क­त्वा­न­ङ्गी­का­रेण प्रदी­प­दृ­ष्टान्तो निरस्तः, अङ्गी­का­रेऽ­प्य­नु­कूलो दृष्टान्त इत्याह -
स्थूलेति ।
सूक्ष्म­म­नु­द्भू­त­रू­प­मिति मरणे सर्व­क­र्मा­भि­व्य­क्त्य­सि­द्धि­रिति शेषः ।

एवं सर्वकर्मसङ्घ एकजन्मारम्भक इत्यैकभविकः कर्माशय इति मत­नि­रा­स­मु­प­सं­ह­रति -
तस्मादिति ।
चरणश्रुत्या 'ततः शेषेण' इत्यादिस्मृत्या 'प्रब­ल­प्र­ति­ब­न्धात्' इतिन्यायेन चान­भि­व्य­क्त­क­र्म­स­द्भा­वा­दि­त्यर्थः ।

ननु मुक्त्य­नु­प­प­त्त्या­ङ्गी­कार्य ऐकभविक इत्यत आह -
शेषेति ।

सूत्रशेषं व्याचष्टे -
ते चेत्यादिना ।
अवरोहमार्ग इत्थं श्रूयते 'तस्मिन् याव­त्सं­पा­त­मु­षित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथे­त­मा­का­श­मा­क­शा­द्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओष­धि­व­न­स्प­त­य­स्ति­ल­माषा इति जायन्ते अतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति तद्य इह रमणीयचरणा रमणीयां योनि­मा­प­द्यन्ते' इति । धूमाद्यध्वना यथेतं यथागतं तथेतमध्वानं पुन­रा­य­न्ती­त्युक्त्वा धूमा­दि­रू­प­पि­तृ­मा­र्ग­स्थ­रा­त्र्या­दिकं नोक्तमधिकं चाभ्रा­दि­क­मु­क्त­मिति मत्वा सूत्रकृतोक्तं यथेतमनेवं चेति । अव­शि­ष्ट­श्रु­त्य­र्थोऽग्रे स्फुटीभविष्यति ॥८॥

संप्रति श्रुति­स्थ­च­र­ण­श­ब्द­मा­क्षे­प­पू­र्वकं सूत्र­कृ­द्व्या­चष्टे -
चरणादिति चेदिति ।
'अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शील­मे­त­द्वि­दु­र्बुधाः' इति स्मृता­वु­क्ता­व­द्रो­हा­दयः शास्त्रा­र्थ­ज्ञा­न­रूपं शीलं सर्व­क­र्मा­ङ्ग­मुक्तं तद्बोधकं चरणपदमङ्गिनः श्रौतादिकर्मणो लक्षकं, कर्मण एवोत्तरावस्था धर्मा­ध­र्मा­ख्या­पू­र्व­मिति कर्मलक्षणयैव तद­भि­न्ना­पू­र्वा­ख्या­नु­श­य­सि­द्धि­रिति कार्ष्णा­जि­नि­म­तम् ॥९॥

तदेव शङ्का­स­मा­धा­ना­भ्या­माह -
आनर्थक्यमिति चेदित्यादिना सूत्रेण ।

चर­ण­श­ब्द­वा­च्य­स्यैव ग्रहणसंभवान्न लक्षणा युक्तेति शङ्कित्वैव ब्रूते -
नन्विति ।
प्रतिषिद्धं शीलं क्रोधा­नृ­ता­दि­रू­पम् ।

किञ्च शीलस्य निष्फ­ल­त्वा­यो­गा­च्छ्रु­त­यो­न्या­प­त्ति­स्त­स्यैव फलं नानुशयस्येत्याह -
अवश्यं चेति ।
वेदा­स्त­द­र्थ­क­र्मा­ण्या­चारं विना न फलन्तीति स्मृत्या शीलस्य कर्माङ्गत्वान्न पृथक्फलापेक्षा, अङ्गि­फ­ले­ना­र्थ­व­त्त्वात् । न चाङ्ग­मा­त्रा­द्यो­न्या­पत्तिः फलमिति वाच्यम् । अङ्गस्य फलासंभवेन मुख्या­र्थ­स्या­चा­रस्य ग्रह­णा­यो­गा­ल्ल­क्षणा युक्तेति समाधानार्थः ।

यद्याचारस्य स्नाना­दि­व­त्पु­रु­ष­सं­स्का­र­तया पुरुषार्थत्वं तदाप्यविरोध इत्याह -
पुरु­षा­र्थ­त्वेऽ­पीति ।
अङ्गा­व­ब­द्धो­पा­स्ति­व­दा­चा­रोऽ­र्थ­वा­नि­त्यर्थः ।

अस्तु तर्हि शीलख्याचारादेव योन्या­प­त्ति­रि­त्या­शङ्क्य 'पुण्यो वै पुण्येन कर्मणा' इत्यादि श्रुत्या विरो­धा­न्नै­व­मि­त्याह -
कर्म चेति ।
पारयमाणः शक्तः ॥१०॥

यद्य­प्य­क्रो­धा­दि­रूपं शीलं साधा­र­ण­ध­र्मा­त्मकं विशे­ष­रू­पा­त्क­र्म­णोऽ­भिन्नं तथापि चरणाचारशब्दौ कर्मवाचिनावेव न शीलवाचकाविति न लक्षणावसर इति बादरिमतं मुख्य­सि­द्धा­न्त­माह -
सुकृतेति ।

चर­ण­श­ब्दा­र्थ­मु­प­सं­ह­रति -
आचारोऽपीति ।

कर्मण एवाचारत्वे यथा­का­री­त्या­दि­भे­दोक्तिः कथमित्यत आह -
भेदव्यपदेश इति ।
निरू­प­प­दा­चा­र­श­ब्दा­त्स­दा­चा­र­रूपो विशेषो भाति । अत­स्त­त्स­म­भि­व्या­हृतः कर्म­सा­मा­न्य­वा­चको यथाकारीति शब्द­स्त­दि­त­र­वि­शे­ष­परः एवमनवद्यानि कर्माणीति सामान्यतः, अस्माकं सुचरितानीति विशेष इति विवेकः । तस्मा­द­नु­श­य­ब­ला­दा­ग­त्य­व­श्यं­भा­वा­नु­स­न्धा­ना­द्वै­रा­ग्य­मिति सिद्धम् ॥११॥

एवं पुण्यात्मनां गत्यागतिचिन्तया वैराग्यं निरूप्य पापिनां तच्चिन्तया तन्निरूपयति -
अनि­ष्टा­दि­का­रि­णा­म­पीति ।

'ये वै के च' इत्य­वि­शे­ष­श्रुतेः, 'वैवस्वतं संगमनं जनानाम्' इति श्रुतेश्च संशये प्रथमाधिकरणेन सिद्ध­नि­य­मा­क्षे­प­सं­गत्या पूर्वपक्षसूत्रं व्याचष्टे -
तत्रेत्यादिना ।
यमराजं पापिजनानां सम्यग्गम्यं, हविषा प्रीणयतेति श्रुत्यर्थः । पूर्वपक्षे पुण्यवतामेव चन्द्रगतिरिति निय­मा­भा­वा­त्पु­ण्य­वै­यर्थ्यं पापा­द्वै­रा­ग्या­दार्ढ्यं चेति फलं, सिद्धान्ते पापिनां चन्द्र­लो­क­द­र्श­न­मपि नास्तीति पुण्या­र्थ­वत्त्वं वैराग्यदार्ढ्यं चेति फलम् ।

पञ्चमाग्नौ देहारम्भ इति निय­मा­त्पा­पि­ना­मपि प्रथ­म­द्यु­लो­का­ग्नि­प्रा­प्ति­र्वा­च्ये­त्याह -
देहारम्भ इति ।
पापिनां स्वर्ग­भो­गा­भा­वेऽपि मार्गान्तराभावा चन्द्रगतिरिति भावः ॥१२॥

सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।
संयमने यमलोके यमकृता यातना अनु­भू­या­व­रो­ह­न्ती­त्ये­व­मा­रो­हा­व­रो­हा­विति योजना सूत्रस्य ज्ञेया । प्रयतां मृत्वा गच्छताम् । सम्य­क्प­र­स्ता­त्प्रा­प्यत इति संपरायः परलोकः तदुपायः सांपरायः, बालमज्ञं, विशेषतो वित्तरागेण मूढं मोहात्प्रमादं कुर्वन्तं प्रति न भाति । स च बालोऽयं स्त्रीवि­त्ता­दि­लो­कोऽस्ति न परलोकोऽस्तीति मानी । स मे मम यमस्य वश­मा­प्नो­ती­त्यर्थः । पापिनां यम­व­श्य­ता­वा­दि­वि­शे­ष­श्रु­ति­स्मृ­ति­ब­लात् 'ये वै के च' इत्य­वि­शे­ष­श्रु­ति­रि­ष्टा­दि­का­रि­वि­ष­य­त्वेन व्याख्येयेति भावः ॥१३॥ सूत्रत्रयस्य भाष्यं सुबोधम् ॥१४ ॥ ॥१५ ॥ ॥१६॥

यदुक्तं मार्गा­न्त­रा­भा­वा­त्पा­पि­ना­मपि चन्द्रगतिरिति । तन्न । तृती­य­मा­र्ग­श्रु­ते­रि­त्याह -
विद्या­क­र्म­णो­रिति ।
मार्ग­द्वि­त­यो­क्त्य­न­न्तरं तृती­य­मा­र्गो­क्ति­प्रा­र­म्भार्थः श्रुतावथशब्दः । एत­यो­र्वि­द्या­क­र्मणोः पथि­द्व­य­सा­ध­न­यो­र­न्य­त­रे­णापि साधनेन ये नरा न युक्तास्ते जन्म­म­र­णा­वृ­त्ति­रू­प­तृ­ती­य­मा­र्ग­स्थानि भूतानि भवन्ति, क्रियावृत्तौ लोट्, तेन पापिनां चन्द्र­ग­त्य­भा­वा­च्च­न्द्र­लोको न संपूर्यत इति श्रुत्यर्थः ।

प्रतिपत्ताविति ।
प्राप्तिसाधने इत्यर्थः । अपिच पापिनां चन्द्रगतौ असौ लोकः संपूर्येत 'अतश्च न संपूर्यते' इत्ये­त­त्प्र­ति­व­चनं विरुद्धं प्रस­ज्ये­ते­त्य­न्वयः ।

अव­रो­हा­द­सं­पू­र­ण­म­श्रुतं न कल्प्यं श्रुत­हा­न्या­प­त्ते­रि­त्याह -
न अश्रुतत्वादिति ।

अवरोह एव तृतीयं स्थानं श्रुत्यु­क्त­मि­त्यत आह -
अवरोहस्येति ।
इममध्वानं पुनर्निवर्तन्त इति इष्टा­दि­का­रि­णा­म­व­रो­हो­क्ते­र­नि­ष्टा­दि­का­रि­णा­मपि अव­रो­ह­स्या­र्थ­सि­द्ध­त्वा­त्पु­न­रु­क्ति­र्व्य­र्थे­त्यर्थः । अथैतयोरिति मार्गा­न्त­रो­प­क्र­म­बा­ध­स्तृ­ती­य­श­ब्द­बा­ध­श्चे­त्यतः स्थानशब्दो मार्गलक्षक इति द्रष्टव्यम् ॥१७॥

एव­म­वि­शे­ष­श्रु­ते­र्मा­र्गा­न्त­रा­भा­वा­च्चेति पूर्व­प­क्ष­बी­ज­द्वयं निरस्य तृती­य­बी­ज­नि­रा­सार्थं सूत्रमादत्ते -
यत्पु­न­रि­त्या­दिना ।
विद्या­क­र्म­शू­न्यानां कृमिकीटादिभावेन जाय­स्वे­त्या­दि­श्रुत्या निर­न्त­र­ज­न्म­म­र­णो­प­ल­ब्धे­र्ना­हु­ति­सं­ख्या­दर इत्यर्थः ।

पुरु­ष­श­ब्दा­च्चै­व­मि­त्याह -
अपिचेति ।

मनुष्यदेहस्यापि नाहु­ति­स­ङ्ख्या­नि­यम इत्याह -
अपिचेत्यादिना ।
विधि­नि­षे­ध­रू­पा­र्थ­द्वये वाक्यभेदः स्यादित्यर्थः ॥१८॥

अनियमे स्मृति­सं­वा­दार्थं सूत्रम् -
स्मर्यतेऽपीति ।

लोक्यतेऽनेनेति लोको भारतादिरुक्तः मुख्यार्थमप्याह -
बलाकेति ॥१९॥

'अण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि च' इति­श्रु­त्य­व­ष्ट­म्भेन सूत्रं व्याचष्टे -
अपिचेति ।
अन्य­त्रा­प्य­नि­ष्टा­दि­का­रि­ष्वि­त्यर्थः ॥२०॥

अनया श्रुत्या चातुर्विध्यं कथमुक्तं श्रुत्यन्तरे त्रीण्ये­वे­त्य­व­धा­र­ण­वि­रो­धा­दिति शङ्कोत्तरत्वेन सूत्रमादत्ते -
नन्वित्यादिना ।
जीवजं जरायुजं मनुष्यादि, भूमिमुद्भिद्य जायते वृक्षादिकं, उदकं भित्त्वा जायते यूकादि जङ्गममिति भेदः । संशोकः स्वेदः ॥२१॥

एवं पापिनां गत्यागती विचार्य संप्र­ती­ष्टा­दि­का­रि­णा­म­व­रोहे विशेषमाह -
साभा­व्या­प­त्ति­रू­प­पत्तेः ।
यथेतमनेवं चेत्युक्तरीत्या यथागतं धूमाद्यध्वानं पुन­र्नि­व­र्तन्ते, निवृ­त्ता­श्चा­नु­श­यिनः कर्मान्ते द्रुतदेहा आकाशं गता आकाशसदृशा भवन्ति । आका­श­सा­दृ­श्या­न­न्तरं पिण्डीकृता अति­सू­क्ष्म­लि­ङ्गो­प­हिताः वायुनेतस्ततश्च नीयमाना वायुसमा भवन्ति । सोऽनुशयी संघो वायुसमो भूत्वा धूमसंगतस्तत्समो भवति, धूमसमो भूत्वाभ्रसमो भवति । अपो बिभर्तीत्यभ्रं, मेहति सिञ्चतीति वृष्टिकर्ता मेघस्तत्समो भूत्वा वर्षधाराद्वारा पृथिवीं प्रविश्य व्रीहियवादिरूपो भवतीति सिद्धान्तगत्या श्रुत्यर्थः । पूर्वो­त्त­र­यु­क्ति­द्वयं संश्यबीजं मन्तव्यं, पूर्वत्र मार्ग­द्व­य­मुक्त्वा तृती­य­त्वो­क्ते­र्युक्तं स्थानशब्दस्य मार्ग­ल­क्ष­क­त्व­मिह तु दुग्धं दधि भव­ती­त्या­दि­प्र­योगे भव­ति­श्रु­ते­र्वि­का­र­स्व­रू­पा­पत्तौ मुख्य­त्वा­त्सा­दृ­श्या­प­त्ति­ल­क्ष­णा­बीजं नास्तीति प्रत्यु­दा­ह­र­ण­स­ङ्गतिः । श्रुतिमुख्यत्वं फलमिति पूर्वपक्षः ।

अनुशयिनां पूर्व­सि­द्धा­का­शा­दि­स्व­रू­पा­प­त्त्य­यो­गा­ल्ल­क्ष­णेति सिद्धान्तयति -
एवमित्यादिना ।
समानो भावो धर्मो यस्य तद्भावः साभाव्यं साम्यमिति सूत्रपदार्थः ।

एवं ह्येतदिति ।
एतद्भवनमेवं सादृ­श्य­रू­प­मे­वो­प­प­द्यत इत्यर्थः ।

अनु­श­यि­ना­मा­का­शा­दिभ्यो निर्ग­म­ना­न्य­था­नु­प­प­त्त्यापि सादृ­श्य­ल­क्ष­णे­त्याह -
आकाशस्वरूपेति ।

संयो­ग­ल­क्ष­णा­मा­श­ङ्क्याह -
विभुत्वादिति ।
भवतिश्रुत्या संयो­ग­ल­क्ष­णा­या­म­नु­वादः स्यादित्यर्थः ।

विवि­ध­भू­त­सा­म्य­म­व­रोहे भव­ती­त्य­नु­सं­धा­ना­द्वै­रा­ग्य­मु­प­सं­ह­रति -
अत इति ॥२२॥

नातिचिरेण ।

उक्तं सादृश्यमुपजीव्य लोके गन्तृणां चिरा­चि­र­ग­ति­द­र्श­ना­त्सं­शयं वदन् पूर्वपक्षयति -
तत्रेत्यादिना ।
अनि­य­मा­त्क­दा­चि­द्वि­ल­म्बेन योन्यापत्तिरिति पूर्वपक्षफलं, सिद्धान्ते तु व्रीहि­य­वा­दि­भा­वा­द­नु­श­यिनां विलम्बेन निर्गमनमिति विशे­षा­दा­का­शा­दि­भा­वा­च्छीघ्रं निर्गम इत्यविलम्बेन योन्या­प­त्ति­रि­त्य­नु­सं­धा­ना­द्वै­रा­ग्य­दा­र्ढ्य­मिति विवेकः ।

नन्वा­का­शा­दि­ष्व­नु­श­यिनां सुखं व्रीहियवादिषु दुःखमिति दुःशब्दाद्भाति न चिरा­चि­र­नि­र्ग­म­न­मि­त्यत आह -
सुख­दुः­ख­ता­वि­शे­ष­श्चा­य­मिति ।
अवधिः कालः ॥२३॥

अन्याभिलापात् ।
श्रुतिक्रमात् अर्थ­क्र­मा­च्चा­धि­क­र­णानां क्रमो बोध्यः । इह भूमौ वर्षधाराद्वारा पति­ता­स्तेऽ­नु­श­यिनो व्रीह्या­दि­सा­म्येन जायन्त इति श्रुत्यर्थः ।

अत्र जायन्त इति श्रुतेः पूर्व­त्रा­का­शा­दि­व­र्षा­न्त­सा­दृ­श्यो­क्तेश्च संशयमाह -
तत्रेति ।
अस्मिन्नवधौ वर्ष­सा­दृ­श्या­न­न्त­र­मि­त्यर्थः ।

दुर्नि­ष्प्र­प­त­र­श­ब्देन चिर­नि­र्ग­ल­न­ल­क्ष­णोक्ता न युक्ता, दुःखेन निर्गमनमिति मुख्य­सं­भ­वा­दि­त्या­क्षे­प­स­ङ्गत्या पूर्वपक्षयति -
किं तावदित्यादिना ।
अत्र पूर्वपक्षे स्थाव­र­त्व­नि­वृ­त्त­येऽ­धि­का­रिणां यत्नगौरवं, सिद्धान्ते व्रीह्या­दि­सं­श्ले­ष­मात्रं परिहर्तुं यत्नलाघवं वैराग्यदार्ढ्यं चेति विवेकः ।

ननु देहोत्पत्त्या जीवानां जन्म स्यान्न स्वतः, व्रीह्यादेस्तु न देहत्वमित्यत आह -
स्थावरभावस्येति ।
'स्थाणु­म­न्येऽ­नु­सं­यन्ति' इत्याद्या श्रुतिः । 'शरीरजैः कर्मदोषैर्याति स्थावरतां नरः' इत्याद्या स्मृतिः ।

ननु स्वर्गिणां पापाभावात्कथं स्थावरत्वं, तत्राह -
पश्विति ।
सोमा­द्यु­च्छि­ष्ट­भ­क्ष­ण­सु­रा­ग्र­हा­वा­दि­श­ब्दार्थः । क्रत्व­र्थ­हिं­सा­दे­रपि हिंसा­त्वा­दि­सा­मा­न्येन प्रवृत्तेर्न हिंस्या­दि­त्या­दि­शा­स्त्र­नि­षि­द्ध­त्वा­का­रेण दुरि­ता­पू­र्व­का­रि­त्व­म­वि­रु­द्ध­मिति साङ्ख्या आहुः ।

श्रुतोऽत्र व्रीह्या­दि­भा­वोऽ­नु­श­यिनां न जन्यरूपः कर्म­वि­शे­ष­प­रा­मर्शं विना­त्रो­क्त­त्वात्, पूर्वो­क्ता­का­शा­दि­भा­व­व­दिति सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।

पूर्ववदिति पदं दृष्टान्तत्वेन हेत्वंशत्वेन च व्याख्यातं यदत्र प्रकरणे कर्म­वि­शे­ष­प­रा­म­र्श­पू­र्व­क­मु­च्यते तज्जन्मेति व्यति­रे­क­दृ­ष्टा­न्त­म­प्याह -
यत्र त्विति ।

अपिच 'यो यो ह्यन्नमत्ति यो रेतः स्त्रियां सिञ्चति तद्भूय एव भवति' इति वाक्यशेषे व्रीह्यादिषु प्रवि­ष्ट­स्या­नु­श­यि­सं­घ­स्या­न्न­द्वारा रेतः­सि­क्पु­रु­ष­योगः श्रुत­स्त­द­न्य­था­नु­प­प­त्त्यापि जन्मश्रुतिर्न मुख्येत्याह -
अपिचेत्यादिना ।
व्रीह्या­दि­रू­प­दे­ह­नाशे देहि­ना­मु­क्ता­न्ते­र­व­श्यं­भा­वा­द्रेतः सिग्योगो न स्यादित्यर्थः ।

एतेनेति ।
उक्ता­नु­मा­ना­र्था­प­त्ति­भ्याम् । जायत इति श्रुते­र्मु­ख्या­र्थ­त्व­म­नु­श­यि­भो­गा­य­त­नत्वं च व्रीह्यादेः प्रति­ब्रू­या­दि­त्यर्थः ।

ननु व्रीह्या­दे­र्भो­गा­य­त­न­त्वा­न­ङ्गी­कारे पूर्वो­क्त­श्रु­ति­स्मृ­ति­प्र­सि­द्धि­बाध इत्यत आह -
न चेति ॥२४॥

वैदिकं कर्माशुद्धं न भवति शास्त्र­वि­हि­त­त्वा­दिति सूत्रार्थं प्रपञ्चयति -
अयं धर्म इत्यादिना ।
शुचौ देशे प्रातः सायङ्काले जीवनादिनिमित्ते कृतमग्निहोत्रं धर्मो भवति स एवाशुचिदेशे मध्यरात्रे मरणादिनिमित्ते कृतः सन्नधर्मो भवतीति निर्णयः शास्त्रैकसाध्य इत्यर्थः ।

ततः किं तत्राह -
शास्त्राच्चेति ।

ननु या हिंसा सोऽधर्म इत्युत्सर्गस्य विशेषविधिना बाधोऽत्र न युक्तः । नाभिचरेदिति निषिद्धश्येनस्य पुरुषार्थत्ववत् निषि­द्ध­हिं­सा­दे­रपि क्रतू­प­का­र­क­त्वा­वि­रो­धा­दिति, तत्राह -
उत्स­र्गा­प­वा­द­यो­रिति ।
अयमर्थः काम्ये कर्मणि सर्वत्र करणांशे रागतः प्रवृत्तिः, अङ्गेषु विधित इति स्थितिः । तथाच श्येनाख्ये कर्मणि निषेधेऽपि राग­प्रा­ब­ल्या­त्प्र­वृत्तिः स्यात्क्र­त्व­ङ्ग­हिं­सादौ तु विधित एव प्रवृ­त्ति­र्वाच्या । स च विधि­र्य­द्यु­त्स­र्ग­प्रा­प्त­म­न­र्थ­हे­तुत्वं न बाधेत तर्हि प्रवर्तको न स्यात्, प्रवर्तकत्वे वा विधिरनर्थाय स्यात्, अतो निरवकाशो विधिः साव­का­श­मु­त्स­र्ग­म­वि­हि­त­हिं­सा­दिषु स्थापयतीति । इदं च निषेधशास्त्रस्य हिंसा­त्वा­दि­सा­मा­न्येन प्रवृ­त्ति­म­ङ्गी­कृ­त्यो­क्तम् । वस्तुतस्तस्य राग­प्रा­प्त­हिं­सा­वि­ष­य­त्वा­द्वै­ध­हिं­सा­या­म­प्र­वृ­त्ते­र्ना­शु­द्ध­त्व­श­ङ्का­व­सर इति द्रष्टव्यम् । प्रतिरूपं दुःखरूपं तस्य फलं नेति योजना । इह व्रीह्यादिभावे कश्चिदधिकारः कर्मपरामर्शो नास्तीत्युक्तम् ॥२५॥

अथ व्रीह्या­दि­भा­वा­न­न्तरं रेतः सिग्भावः श्रुतः । तत्रा­न्न­स्था­नु­श­यिनो रेतः सेक­क­र्तृ­त्वा­यो­गा­द्यो­ग­मात्रं वाच्यं तद्वदुपक्रमेऽपि योग एवास्थेयः, अन्य­थो­प­क्र­मो­प­सं­हा­र­यो­र्वि­रोधः स्यादिति मत्वोक्तम् -
इत्यविरोध इति ॥२६॥

योनेः शरीरश्रुतेर्न व्रीह्या­दि­श­री­र­त्व­म­नु­श­यि­ना­मिति सूत्रार्थः । एवं कर्मिणां गत्यागतिसंसारो दुर्वार इत्य­नु­स­न्धा­ना­त्क­र्म­फ­ला­द्वै­राग्यं तत्त्व­ज्ञा­न­सा­धनं सिद्धमिति पादा­र्थ­मु­प­सं­ह­रति -
इति सिद्धमिति ॥२७॥
इति श्रीम­द्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीम­द्गो­वि­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­ख्यायां भाष्य­र­त्न­प्र­भायां तृतीयाध्यायस्य प्रथमः पादः ॥

तृतीयाऽध्याये द्वितीयः पादः ।
संध्ये सृष्टिराह हि ।

उक्त­वै­रा­ग्य­सा­ध्य­स्त­त्त्वं­प­दा­र्थ­वि­वेको वाक्या­र्थ­ज्ञा­न­सा­ध­न­म­स्मिन् पादे निरूप्यत इति पाद­यो­र्हे­तु­सा­ध्य­भा­व­सं­ग­ति­माह -
अतिक्रान्त इति ।

साध­न­वि­चा­र­त्वा­दे­वास्य पाद­स्या­स्मि­न्न­ध्याये संगतिः । अस्मिन् पादे 'न स्थान­तोऽपि' इत्यतः प्रागु­द्दे­श्य­त्वेन प्रथमं जिज्ञा­सि­त­त्वं­प­दा­र्थोऽ­व­स्था­द्वारा विविच्यते, तदा­र­भ्या­पा­द­स­मा­प्ते­र्वि­धे­य­त­त्प­दा­र्थ­वि­वेकः, तत्र पूर्वं गत्यागतिचिन्तया जाग्रदवस्था निरूपिता तदनन्तरभाविनीं स्वप्नावस्थां श्रुत्युक्तां विषयीकृत्य तत्र स्वप्ने रथा­दि­सृ­ष्ट्यु­क्ते­स्त­द­भा­वो­क्तेश्च संशयं वदन् पूर्वपक्षसूत्रं योजयति -
तत्र संशय इत्यादिना ।
स्वप्नरथादयो जाग्रद्रथादिवत् व्याव­हा­रि­क­स­त्ताका उत शुक्ति­र­ज­त­व­त्प्रा­ती­तिका इति संशयार्थः । आरम्भणाधिकरणे प्रपञ्चस्य पार­मा­र्थि­क­त्व­नि­षे­धा­दिति मन्तव्यम् । अत्र पूर्वपक्षे जाग्रद्वत् स्वप्नाज्जीवस्य विवेकासिद्धिः । सिद्धान्ते प्राती­ति­क­दृ­श्य­सा­क्षि­तया विवे­का­त्स्व­य­ञ्ज्यो­ति­ष्ट्व­सि­द्धि­रिति फलम् । मुमूर्षोः सर्वे­न्द्रि­यो­प­सं­हा­रा­दे­त­ल्लो­का­न­नु­भवे सति वासनामात्रेण इमं लोकं स्मरतः कर्मबलाद्धृदये मनसा पर­लो­क­स्फू­र्ति­रूपः स्वप्नो भवति, सोऽयं लोकद्वयसन्धौ भवतीति संध्यः स्वप्नः । तथा च श्रुतिः - 'तस्मिन् संध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यति इदं च परलोकस्थानं च' इति । अयं स्वप्नः कादाचित्क इत्यरुच्या नित्यस्वप्नस्य प्रबो­ध­सं­प्र­सा­द­सं­धि­भ­व­त्व­मु­क्तम् । अन्येतु मर्त्य­च­क्षु­रा­द्य­ज­न्य­रू­पा­दि­सा­क्षा­त्का­र­वत्त्वं परलोकलक्षणं, दैव­च­क्षु­रा­द्य­ज­न्य­त­द्वत्त्वं मर्त्यलोकलक्षणं च स्वप्नेऽस्तीति लक्षणतो लोक­द्व­य­स्प­र्शि­त्वात् नित्य­स्व­प्न­स्यैव लोक­द्व­य­सं­ध्यत्वं ग्राम­द्व­य­स्प­र्शि­मा­र्गस्य तत्सं­ध्य­त्व­व­दिति व्याचक्षते ।

न केवलं श्रुत्या स्वप्नार्थानां व्याव­हा­रि­क­स­त्यत्वं किन्तु सक­र्तृ­क­त्वा­द­पी­त्याह -
स हि कर्तेति ॥१॥

किञ्च स्वप्नार्थाः सत्याः, प्राज्ञ­नि­र्मि­त­त्वात्, आकाशादिवदिति सूत्रार्थमाह -
अपिचेत्यादिना ।

रूढिमाशङ्क्य प्रक­र­णा­न्नि­र­स्यति -
नन्वित्यादिना ।
यः सुप्तेषु निर्व्यापारेषु करणेषु जागर्ति तदेव शुक्रं स्वप्रकाशं ब्रह्मेत्यर्थः ।

स्वप्नस्य जाग्रदर्थैः समा­न­दे­श­त्व­श्रु­ते­र­भे­द­श्रु­तेश्च सत्यत्वे तात्पर्यमित्याह -
अथो खल्वाहुरिति ॥२॥

स्वप्नरथादयः प्रातीतिका जाग्रद्रथादौ कॢप्तसामग्रीं विना दृष्ट­त्वा­च्छु­क्ति­रू­प्या­दि­व­दिति सिद्धान्तयति -
तुशब्द इत्यादिना ।
चिन्मा­त्र­नि­ष्ठा­विद्या चित्त्वा­व­च्छे­देन जीवेऽपि स्थिता रथाद्याकारा मायेति सूत्र­भा­ष्य­यो­रुक्ता माया­वि­द्य­यो­र­भे­द­ज्ञा­प­नाय मात्रपदेन तु सति प्रमा­त­र्य­बा­ध्य­त्व­रू­पस्य व्याव­हा­रि­क­स­त्य­त्वस्य निरास उक्तः । कार्त्स्न्यमत्र जाग्रति या कॢप्तसामग्री, तज्जन्यत्वं परमार्थवस्तुनो जाग्रदर्थस्य कार्यस्य धर्मः ।

सत्यत्वव्यापकः तदभावं स्वप्ने विवृणोति -
न तावादित्यादिना ।
संवृते सङ्कीर्णे, पर्येतुं गन्तुं, विप­र्ये­तु­मा­गन्तुं, श्रावयति प्रबुद्धो जनः, पार्श्व­स्था­न्प्र­तीति शेषः । एतत्स्वप्नं यथा स्यात्तथा यत्र काले स्वप्न्यया वृत्त्या चरति तदा स्वशरीरे यथेष्टं चरतीत्यर्थः ।

बहिरिवेति ।
कुलायाद्देहात् बहिरिवामृत आत्मा चरित्वा यत्र कामं यथेष्टमीयते विहरतीत्यर्थः ।

गुणमाह -
यो हीति ।
देहा­भि­मा­न­ही­न­त्व­गु­णेन बहि­ष्ठ­व­द्दे­ह­स्थोऽपि बहिरित्युक्त इत्यर्थः । एवं सति श्रुति­यु­क्ति­भ्या­म­न्त­रेव स्वप्ने सतीत्यर्थः ।

विप्रलम्भो विभ्रमः योग्य­दे­शा­भा­व­मुक्त्वा कालाभावमाह -
कालेति ।
अत्र रात्रिसमयेऽपि केतु­मा­ला­दि­व­र्षा­न्तरे वासरो भवति इति भारत इत्युक्तम् । पूर्व­प­क्षा­नु­मा­नानां जाग्र­द­र्थ­दृ­ष्टान्ते कॢप्त­सा­म­ग्री­ज­न्य­त्व­म­बा­ध­यो­ग्यत्वं चोपाधिरिति सूत्रतात्पर्यम् ॥३॥

स्वप्नस्य भ्रान्ति­मा­त्रत्वे तत्सू­चि­तोऽ­प्यर्थः सत्यो न स्यादिति शङ्कोत्तरत्वेन सूत्रान्तरं व्याचष्टे -
मायेत्यादिना ।

मन्त्रेण देव­ता­नु­ग्र­हे­णौ­ष­धि­से­वया वा स्वप्नाः सत्य­सू­च­का­श्चे­त्सत्याः स्युरित्यत आह -
तत्रापि भवतु नामेति ।
सत्यहर्षहेतोरपि शुक्तिरूप्यस्य सत्य­त्वा­द­र्श­ना­दिति भावः ।

यथा कृषिद्वारा लाङ्गलस्य गवा­दि­जी­व­न­नि­मि­त्तत्वं तथा स्वप्न­भो­क्तु­र­दृ­ष्ट­द्वारा स्वप्न­सृ­ष्टि­नि­मि­त्तत्वं न तु कुम्भं प्रति कुम्भकारस्येव साक्षा­द्स्व­प्न­क­र्तृत्वं साम­ग्र्य­भा­व­बा­ध­यो­रु­क्त­त्वा­दि­त्याह -
यदु­क्त­मि­त्या­दिना ।
तथा च स्वप्नस्य सकर्तृकत्वं मुख्यं नास्तीति हेत्वसिद्धिरिति भावः ।

श्रुति­ता­त्प­र्य­वि­रो­धाच्च न स्वप्न­स­त्य­ते­त्याह -
अपिचेति ।
व्यतिकरः संकरः, श्रुत्या तत्परतयेत्यर्थः । जाग­रि­ता­द­वि­शे­षा­दिति भावः ।

फलितमाह -
तस्मादिति ।

एतेनेति ।
भाक्त­त्वे­ने­त्यर्थः ।

द्विती­य­सू­त्रो­क्त­प्रा­ज्ञ­क­र्तृ­क­त्व­हे­तु­रपि स्वप्नस्य किं श्रुतिसिद्ध उत प्राज्ञस्य सर्वे­श्व­र­त्वा­त्सिद्धः, नाद्य इत्याह -
यद­प्यु­क्त­मि­त्या­दिना ।
स्वयं विहत्य जाग्रद्देहं निश्चेष्टं कृत्वा, स्वयं वासनया निर्माय, स्वेन भासा स्वीय­बु­द्धि­वृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन च स्वप्न­म­नु­भ­व­ती­त्यर्थः ।

न केवलं बृहदारण्यके जीवस्य स्वप्नकर्तृत्वं श्रुतं किन्तु काठकेऽपीत्याह -
इहापीति ।

जीवोक्तौ ब्रह्म­प्र­क­र­ण­वि­रोध इत्यत आह -
तस्य त्विति ।

एवं हेतोः श्रुतिसिद्धत्वं निरस्य द्विती­य­म­ङ्गी­क­रोति -
न चास्माभिरिति ।

तर्हि हेतुसिद्धेः स्वप्नस्य सत्य­त्व­मि­त्या­शङ्क्य सत्यत्वं व्यावहारिकं पारमार्थिकं वेति विकल्प्य व्यवहारकाले बाधदर्शनात्, नाद्य इत्याह -
पार­मा­र्थि­क­स्त्विति ।

द्वितीये दृष्टान्तस्य साध्य­वै­क­ल्य­मि­त्याह -
न चेति ।

कस्तर्हि स्वप्नस्य जाग्रतो विशेषोऽत्र कथ्यत इत्याशङ्क्य प्राति­भा­सि­क­त्व­मि­त्याह -
प्रागिति ॥४॥

पूर्वं कॢप्त­सा­म­ग्र्य­भा­वा­त्स्वप्नो माये­त्यु­क्त­म­युक्तं सत्य­स­ङ्क­ल्प­मा­त्रे­णापि सत्य­सृ­ष्टि­सं­भ­वा­दिति शङ्कां कृत्वा परिहरन् सूत्रं व्याचष्टे -
अथपि स्यादित्यादिना ।
सत्यसंकल्पस्य हि संक­ल्पा­त्सृष्टिः सत्या भवति जीवस्य त्वस­त्य­सं­क­ल्पत्वं प्रत्यक्षमिति परिहारार्थः ।

तर्हि विरु­द्ध­ध­र्म­व­त्त्वा­ज्जी­व­स्ये­श्व­रत्वं नास्त्येवेति शङ्कते -
किमिति ।

नास्तीति न किन्त्वा­वृ­त­मस्ति तत्पु­न­री­श्व­र­प्र­सा­दा­त्क­स्य­चि­द्व्य­ज्यत इत्याह -
न नास्तीति ।
विधूतध्वान्तस्य निष्पापस्य संसि­द्ध­स्या­णि­मा­दि­वि­शि­ष्ट­स्ये­त्यर्थः । ब्रह्मैवाहमिति देवं ज्ञात्वा साक्षात्कृत्य सर्व­पा­शा­ना­म­वि­द्या­दि­क्ले­शा­ना­म­प­हा­नि­र­प­क्ष­य­स्त­द्रूपो भवति । क्षीणैश्च क्लेशै­स्त­त्का­र्य­ज­न्म­म­र­णा­त्म­क­ब­न्ध­ध्वंस इति निर्गु­ण­वि­द्या­फ­ल­मु­क्तम् ।

सगुणविद्याफलमाह -
तस्येति ।
पर­स्या­भि­मु­ख्ये­ना­ह­ङ्ग्र­हेण ध्याना­द्ब­न्ध­मो­क्षा­पे­क्षया मन्त्रो­क्त­हा­नि­द्व­या­पे­क्षया वा तृतीयं विश्वै­श्व­र्य­म­णि­मा­दि­रूपं मर्त्यदेहपाते सति सिद्धे देहे भवति तद्भो­गा­न­न्त­र­मा­त्म­ज्ञा­ना­त्के­वलो द्वैतशून्य आप्तकामः प्राप्त­स्व­य­ञ्ज्यो­ति­रा­नन्दो भवतीति क्रम­मु­क्ति­रि­त्यर्थः ॥५॥

उक्तै­श्व­र्य­ति­रो­भावे देहाभिमानो हेतुरिति कथनार्थं सूत्रं, तन्निरस्यां शङ्कामाह -
कस्मादिति ।

सत्यावरणं नास्ती­त्य­ङ्गी­कृत्य कल्पितावरणं साधयति -
उच्यत इत्यादिना ।

जीव­स्ये­श्व­र­त्व­म­ङ्गी­कृ­त्या­व­र­ण­क­ल्प­नातो वर­म­न्य­त्व­क­ल्प­ने­त्या­श­ङ्का­मु­द्भाव्य श्रुत्या निरस्यति -
नन्वित्यादिना ।
स्वप्नेऽ­प्या­लो­कादेः सत्यत्वे जाग्रतीवात्मनः स्वप्र­का­श­त्व­म­स्फुटं स्यात्, प्रातिभासिकत्वे त्वालो­के­न्द्रि­या­द्य­स­त्त्वेऽ­प्य­र्था­प­रो­क्ष्य­मा­त्म­ज्यो­तिष एवेति स्फुटं सिध्यति । तस्मा­द्दे­शा­दि­सा­म्य­व­चनं स्वप्नस्य जाग्र­त्तु­ल्य­भा­ना­भि­प्रा­य­मि­त्यर्थः ॥६॥

एवं बाह्यकरणोपरमे सति मनो­वा­स­नो­द्दी­पि­ता­वि­द्या­वि­ला­सा­त्मकं स्वप्न­मा­त्म­नः­सा­क्षिणः स्वय­ञ्ज्यो­ति­ष्ट्वार्थं विचार्य प्रति­यो­ग्य­नु­यो­गि­भा­व­स­ङ्गत्या स्वप्ना­व­स्थ­म­नो­ल­या­त्मिकां सुषुप्तिं विचारयति -
तदभावो नाडीषु तच्छ्रु­ते­रा­त्मनि च ।
तदेतत्स्वपनं यथा स्यात्तथा । यत्र काले सुप्तः सुषुप्तः समस्तो निरस्तबाह्यकरणो मनो­ल­या­त्स­म्य­क्प्र­सङ्ग इत्यर्थः ।

स्वापे नाडी­स्था­न­मुक्त्वा नाडी­पु­री­त­तो­र्ना­डी­प­र­मा­त्म­नोश्च समुच्चयश्रुती आह -
अन्यत्रेति ।

पर­मा­त्म­मा­त्र­श्रु­ती­राह -
तथा­न्य­त्रे­त्या­दिना ।

नाडी­पु­री­त­ब्र­ह्मसु सप्तमीश्रुतेः समु­च्च­य­श्रु­तेश्च संशयमाह -
तत्रेति ।
पूर्वपक्षे स्थान­वि­क­ल्पा­ज्जी­वस्य ब्रह्मै­क्या­नि­र्णयः, सिद्धान्ते नाडीभिः पुरीततं गत्वान्तर्हृदि ब्रह्मण्येव शेत इति समु­च्च्या­त्त­न्नि­र्णय इति विवेकः ।

एक­पु­रो­डा­शा­र्थत्वं व्रीहि­य­व­यो­र्दृष्टं नाड्या­दी­ना­मे­क­स्मिन् स्वापरूपार्थे निर­पे­क्ष­स्था­नत्वं तु कुत इत्यत आह -
नाड्यादीनां चेति ।
सति ब्रह्मणि तृतीयाश्रुतेर्न सप्तमीति शङ्कार्थः ।

आय­त­न­श­ब्दा­त्स­प्त­म्यर्थ आधारत्वं गम्यत इत्याह -
नैष दोष इति ।
अन्य­त्रा­व­स्था­द्वये श्रान्तो जीवो विश्रा­न्ति­स्थानं प्राणाख्यं सद्ब्र­ह्मो­प­स­र्पति सुषु­प्ता­वि­त्यर्थः । सप्तमीश्रुत्या निर­पे­क्षा­धा­र­त्व­भा­ना­द्वि­कल्प आस्थेयः कदा­चि­त्स­मु­च्चि­त्यापि नाड्यादीनां स्थानत्वमिति न समु­च्च­य­श्रु­ति­वि­रोध इति पूर्वपक्षार्थः ।

सिद्धान्तयति -
एवं प्राप्त इति ।
सूत्रे चकारः पुरी­त­त्स­मु­च्च­यार्थः ।

यदा नाड्यः सुषुप्तिस्थानं तदा पुरीतत्स्थानं न भवतीति श्रुत­स्था­न­त्वस्य पक्षे बाधः स्यात्, स न युक्त इत्याह -
विकल्पे ह्येषामिति ।
व्रीहि­य­व­यो­स्त्व­गत्या विकल्प इति भावः ।

यत्तु सप्तमीश्रुत्या नाड्या­दी­ना­मे­क­फ­ल­क­त्व­मिति, तन्नेत्याह -
न ह्येकेति ।
प्रासादस्य पर्य­ङ्क­धा­र­ण­मर्थः । पर्यङ्कस्य तु शयनमिति फल­भे­देऽ­प्ये­क­वि­भ­क्ति­र्दृ­श्यते, व्यव­धा­ना­व्य­व­धा­नाभ्यां शय­न­सा­ध­न­त्वा­त्स­मु­च्च­यश्च, तथेहापि नाडी­पु­री­त­तो­र्जी­वस्य संचारद्वारा ब्रह्मण्येव सुप्तिरिति समुच्चय इत्यर्थः ।

नाडीनां प्राणस्य च एकेन वाक्ये­नो­पा­दा­ना­न्मिथः समुच्चय इत्याह -
एकवाक्येति ।

आधारत्वमात्रं सप्तम्यर्थो न निरपेक्षत्वमतो न समुच्चयस्य सप्तम्या बाध इत्याह -
न चैवमपीति ।
समु­च्च­येऽ­पी­त्यर्थः ।

अत्र नाडीश्रुतौ नाडीषु भोक्तुः सुप्तिर्न विवक्षिता रश्मि­सं­ब­न्ध­ना­डी­रू­प­मा­र्ग­स्तु­त्य­र्थ­त्वा­दि­त्याह -
अपि चेति ।
पित्तेन विषयेक्षणाभावे सुख­दुः­ख­यो­र­भा­वा­त्त­द्धे­तु­ध­र्मा­ध­र्मा­त्म­क­पा­प्मा­स्पर्श इत्यर्थः ।

अप­ह­त­पा­प्म­ब्र­ह्म­सं­पत्त्या वा पाप्मास्पर्श इत्याह -
अथवेति ।

अस्मिन् व्याख्याने लाभमाह -
एवं च सतीति ।
'तासु तदा भवत्यथास्मिन् प्राण एवैकधा भवति' इति श्रुतेः समुच्चय आश्रितो भवतीत्यर्थः ।

नाडी­ब्र­ह्म­णो­र्गु­ण­प्र­धा­न­भा­वेन सुप्तौ समु­च्च­य­व­त्पु­री­त­द्ब्र­ह्म­णो­र­पी­त्याह -
तथेत्यादिना ।

आकाशे ब्रह्मणि शेत इत्युपक्रम्य ताभिः प्रत्यवसृप्य पुरीतति शेत इत्युक्तं, तथाच नाडीद्वारा पुरीततं गत्वा ब्रह्मणि शेत इति समुच्चयः सिद्ध इत्याह -
तथा नाडीति ।

सता संपन्नो भवति प्राज्ञेन संपरिष्वक्त इति सत्प्राज्ञयोः श्रुतेः पञ्च सुप्ति­स्था­ना­नी­त्यत आह -
सत्प्रा­ज्ञ­यो­रिति ।

किञ्च प्रकृ­त­द­र्शा­दि­सा­ध­नै­क­पु­रो­डा­श­नि­ष्पत्तौ मिथोऽनपेक्षतया सम­र्थ­त्वा­द्युक्तो व्रीहि­य­व­यो­र्वि­कल्पः, नाड्यादीनां तु ब्रह्म­नि­र­पे­क्ष­तया सुषु­प्त­जी­वा­धा­र­त्वा­सा­म­र्थ्यान्न विकल्प इत्याह -
अपि च नाड्य इति ।
उपा­धि­लि­ङ्गा­श्र­य­ना­डी­पु­री­त­तो­रु­प­हि­त­जी­वा­श्र­यत्वं परम्परया वाच्यं, तदपि सुषुप्तौ न संभवति, उपा­धि­ल­या­दि­त्यर्थः ।

ननु ब्रह्मापि जीवस्य न मुख्यं स्थान­म­भे­दा­दि­त्यत आह -
ब्रह्मा­धा­र­त्व­मिति ।
जीवस्य ब्रह्म­ण्य­भे­दे­ना­व­स्थानं नाडीपुरीततोस्तु लीनो­पा­धे­र्जी­वस्य स्थितिरेव न संभ­व­ती­त्ये­का­र्थ­सा­म­र्थ्या­भा­वान्न विकल्प इत्यर्थः ।

सुषुप्तौ जीवस्य भेद­को­पा­धि­ल­या­च्चौ­त्स­र्गि­क­ब्र­ह्मा­भे­दस्य विकल्पो न युक्त इत्याह -
अपिचेति ।

किञ्च नाड्या­दी­ना­म­न्य­त­म­स्थाने क्वचि­त्सु­प्ति­वा­दि­नापि सुषुप्तं न विशिष्यत इति वक्तव्यं, तच्च वक्तुं न शक्यत इत्याह -
अपिच स्थानेति ।
भेदाभावो हि भेदज्ञानाभावे हेतुः, नाडी­पू­रि­त­द्र­तस्य तु जीवस्य भेदा­व­स्थ­त्वा­द्भे­दा­वि­ज्ञाने करणं नास्तीत्यर्थः ।

द्वैता­व­स्थ­स्यापि द्वैताज्ञाने हेतुं शङ्कते -
ननु भेदेति ।

द्रष्टु­र्दृ­श्या­द्दू­र­स्थत्वं स्वाभा­वि­क­मौ­पा­धिकं वा । तत्राद्यं सदृ­ष्टा­न्त­म­नूद्य प्रत्याह -
बाढमित्यादिना ।

द्वितीयमनूद्य दूषयति -
उपाधिगतमेवेति ।
उपा­धि­सं­भि­न्न­स्यैव नाड्यादौ स्वापे कति­प­य­सं­नि­कृ­ष्टा­र्थ­ज्ञा­न­प्र­स­ङ्गा­त्सु­षु­प्ति­व्या­घातः स्यात् । उपाधिलये त्वन्यत्र जीवस्य स्थित्य­यो­गा­द्ब्र­ह्म­ण्येव स्वाप आस्थेय इत्यर्थः ।

एवं विकल्पं निरस्य नाडी­पु­री­त­तो­र्ब्र­ह्मणा सह तुल्य­व­त्स­मु­च्च­य­म­फ­ल­त्वेन दूषयन् गुणप्रधानत्वेन समु­च्च­य­मु­प­सं­ह­रति -
न च वयमित्यादिना ॥७॥

किञ्च ब्रह्मणः सका­शा­ज्जी­व­स्यो­त्था­न­श्रु­ते­र्ब्र­ह्मैव सुषु­प्ति­स्था­न­मि­त्याह सूत्रकारः -
अतः प्रबोध इति ।
नाडीपुरीततोः क्वाप्यु­त्था­ना­पा­दा­न­त्वा­श्र­व­णान्न सुषु­प्ति­स्था­न­त्व­मि­त्यर्थः, तस्मादुपाधिलये जीवस्य ब्रह्मा­भे­दा­दौ­पा­धिक एव भेद इति विवे­का­द्वा­क्या­र्था­भे­द­सि­द्धि­रिति स्थितम् ॥८॥

स एव तु कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्यः ।

सुषुप्तौ उपा­धि­ना­शा­त्क­र्मा­नु­स्मृ­त्या­दे­र्द­र्श­नाच्च संशये सत्य­स्मा­द्ब्र­ह्मणो जीव­स्यो­त्था­न­श्रु­ते­र्ब्र­ह्मैव सुषु­प्ति­स्था­न­मि­त्यु­क्त­म­यु­क्तम् । सुप्ता­द­न्य­स्या­प्यु­त्था­न­सं­भ­वेन सुषुप्तस्य नाड्या­दि­स्था­न­त्व­सं­भ­वा­दि­त्या­क्षे­प­सं­गत्या निया­म­का­भा­वा­द­नि­यम इति पूर्वपक्षमाह -
तस्याः पुनरित्यादिना ।
पूर्वपक्षे ज्ञानवैयर्थ्यं सुषु­प्त्यै­वा­पु­न­रा­वृ­त्ति­रू­प­मु­क्ति­सिद्धेः, सिद्धान्ते तु अज्ञा­त­ब्र­ह्मा­त्मना स्थित­स्या­ज्ञा­न­ब­लेन पुन­स्त­स्यै­वो­त्था­ना­व­श्यं­भा­वा­द­ज्ञा­न­ना­शाय ज्ञानापेक्षेति फलम् । ईश्वरो वेत्य­नि­य­म­दा­र्ढ्या­यो­क्तम् । स वान्यो वेत्येव पूर्वपक्षः ।

ज्ञानं विना बुद्ध्या­द्यु­पा­धे­र­त्य­न्त­ना­शा­भा­वा­द्यया बुद्ध्योपहितो जीवः सुषुप्तौ कारणात्मना स्थितस्तस्यैव नाना­क­र्मा­नु­भ­व­सं­स्का­र­व­त्यो­प­हित उत्तिष्ठतीति सिद्धान्तयति -
स एव त्वित्यादिना ।
सामि­कृ­त­स्या­र्ध­कृ­तस्य एकस्यैव ज्योति­ष्टो­मा­दे­र­ने­क­य­ज­मा­न­क­त्वा­पा­तोऽ­ति­प्र­सङ्गः ।

स्मृति­मु­क्त्वा­नु­श­ब्द­सू­चितां प्रत्यभिज्ञामाह -
सोऽहमिति ।
अयनं गमनम् आयः । योनिः तत्त­दि­न्द्रि­य­स्था­नम् । प्रतिनियतं गमनं यथा भवति तथा प्रति­यो­न्या­ग­च्छति जागरणायेति श्रुत्यर्थः । न विन्द­ती­त्य­ज्ञा­न­स­त्त्वा­त्सु­प्त­स्यो­त्था­न­नि­यम उक्तः । इह पूर्वप्रबोधे ये भवन्ति त एव तदोत्तरप्रबोधे भवन्तीत्यर्थः ।

विधिं व्याचष्टे -
कर्मेति ।
स एवोत्तिष्ठतीति निश्चीयते इत्यर्थः ।

अत्रैवोत्सूत्रं युक्त्यन्तरमाह -
अपि चेत्यादिना ।
अन्योत्थाने सुखादेर्न पूर्व­क­र्म­का­र्य­ते­त्य­कृ­त­सु­खा­द्या­गमः पूर्व­सु­प्त­जी­व­कृ­त­क­र्म­ना­श­श्चे­त्यर्थः ।

पूर्व­प­क्ष्युक्तं दृष्टान्तं वैषम्येण दूषयति -
यत्पु­न­रि­त्या­दिना ।

अस्म­दा­द्य­श­क्य­मपि विवेचनं प्राण्य­दृ­ष्टा­पेक्ष ईश्वरः करोतीति मत्वा दृष्टान्तमाह -
दृश्यते चेति ।

ब्रह्माभेदाच्च जीवस्य जल­बि­न्दु­वै­ष­म्य­मि­त्याह -
अपि चेति ।

अभेदे स वान्यो वोत्तिष्ठति इति चिन्तानवकाश इत्याशङ्क्य बुद्धिभेदेन जीव­भे­दा­च्चि­न्ते­त्याह -
एवं सतीति ।

सुषुप्तौ बुद्धिनाशेन प्रत्यहं बुद्ध्यु­पा­धि­भे­दा­दे­क­जी­वस्य व्यवहारो न स्यादित्यत आह -
स एवायमिति ।
स्थूल­सू­क्ष्मा­त्मना तिष्ठ­त्ये­को­पा­धि­रि­त्यर्थः ॥९॥

अव­स्था­त्र­या­दा­त्मानं विविच्य मूर्च्छातो विवेचयति -
मुग्धेऽ­र्ध­सं­पत्तिः परिशेषात् ।

मूर्च्छा प्रसि­द्धा­व­स्था­न्त­र्गता वा पञ्चमावस्था वेति । अव­स्था­च­तु­ष्ट­य­सि­द्धे­र्मु­ग्धस्य तद्वै­ल­क्ष­ण्याच्च संशये सोऽहमिति प्रत्य­भि­ज्ञ­यो­त्थि­तस्य सुप्ता­भे­द­व­द्वि­शे­ष­ज्ञा­ना­भा­वा­वि­शे­षेण लिङ्गेन सुषुप्तिरेव मूर्च्छेति प्रत्य­भि­ज्ञा­ना­त्सु­षु­प्त्य­न्त­र्गता मूर्च्छेति दृष्टा­न्त­सं­गत्या पूर्वपक्षमाह -
तिस्रस्तावदिति ।
पूर्वपक्षे प्रसि­द्धा­व­स्थातः पृथगात्मनो मूर्च्छातो विवेकार्थं यत्नासिद्धिः फलं, सिद्धान्ते पृथ­ग्य­त्न­ध्रौ­व्य­मिति भेदः ।

परिशेषं दर्शयन् सिद्धान्तयति -
न तावदित्यादिना ।
जाग्रदपि जाग­रा­व­स्थोऽ­पी­त्यर्थः ।

ऐन्द्रि­य­क­म­र्थ­ज्ञानं देहधारणं च तस्यास्ति न मुग्धस्येति वैषम्योक्त्या दूषयति -
नेत्यादिना ।

मूर्च्छाया जाग­रा­द्भे­द­मुक्त्वा स्वप्नमृतिभ्यां भेदमाह -
नापीत्यादिना ।
आलभन्ते स्पृशन्ति । दिष्टं मरणम् ।

सुषु­प्ति­मू­र्च्छयोः किञ्चि­त्सा­रू­प्येऽपि बहु­वै­ल­क्ष­ण्या­द्भेद इत्याह -
नेति ।

लक्ष­ण­भे­द­मुक्त्वा निमित्तभेदमाह -
निमित्तेति ।

प्रत्य­भि­ज्ञा­प्य­सि­द्धे­त्याह -
न चेति ।
उक्त­सा­रू­प्य­वै­रू­प्या­भ्या­म­र्ध­सं­पत्तिः सर्वैः सुषु­प्ति­ध­र्मै­र­सं­पन्नो मुग्धः सुषुप्तो न भवति, सर्वै­र्म­र­णा­व­स्था­ध­र्मै­र­सं­प­त्ते­र्मृ­तोऽपि न किन्तु अवस्थान्तरं गत इति सूत्रार्थः ।

अत्र सूत्रे जीवस्य ब्रह्म­णा­र्ध­सं­प­त्ति­रु­क्तेति भ्रान्तः शङ्कते -
कथमिति ।
यत्सुप्तं प्रति सत्संपन्नत्वं श्रुतं तदु­पा­ध्य­भा­वा­भि­प्रा­यम् । उपाध्यभावश्च मुग्धस्यापि मम इति यत­स्त­स्मा­त्कृ­त्स्न­सं­प­त्ति­रे­वे­त्यर्थः ।

सुषुप्तिकाले कर्मासंबन्धे पुनरुत्थानं कथमित्याशङ्क्य तत्का­र्या­भा­वा­त्त­द­सं­ब­न्धो­क्ति­रि­त्याह -
जीवे हीति ।

ब्रह्मणा कृत्स्न­सं­प­त्ति­म­ङ्गी­कृत्य परिहरति -
न ब्रूम इति ।
मुग्धत्वं हि सुषु­प्त­स्या­र्धेन निःसं­ज्ञ­त्वा­दि­ध­र्मेण साम्येन संपन्नं भवति, मरणास्यार्धेन कम्पादिना संप­न्न­मि­त्य­र्ध­सं­प­त्ति­रि­त्यर्थः ।

इतोऽपि सुषु­प्ति­वै­ष­म्य­मि­त्याह -
द्वारं चेति ।

अप्र­सि­द्धि­म­ङ्गी­कृ­त्योक्तं प्रसि­द्धि­र­प्य­स्ती­त्याह -
प्रसिद्धा चेति ।
नायुर्वेदो वैद्यशास्त्रम् ।

प्रसिद्धौ कथं विवाद इत्याशङ्क्य पञ्च­म­त्वे­ना­प्र­सि­द्धे­रि­त्याह -
अर्धेति ।
सुषु­प्ति­मृ­ति­ध­र्मा­र्ध­सं­पत्त्या तद­न्त­र्भा­व­बु­द्धि­र्लो­का­ना­मि­त्यर्थः ॥१०॥

सर्वा­भि­र­व­स्था­भि­र­लि­प्त­स्त्व­मर्थ इति विचा­र्या­पा­द­स­मा­प्ते­स्त­त्प­दार्थ निरूपयितुकामः प्रथमं तस्य निर्विशेषत्वमाह -
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ।

उद्दे­श्य­त्व­म्प­दा­र्थ­जि­ज्ञा­सो­प­र­मा­न­न्तरं तत्स्व­रू­प­ब्र­ह्म­वि­चा­र­स्या­व­स­र­सं­ग­ति­माह -
येनेति ।
निर्वि­शे­ष­त्वं­स­वि­शे­षत्वं चेत्युभयं लिङ्ग्यते ज्ञाप्यते याभिस्ता उभयलिङ्गाः श्रुतयः संशयबीजत्वेन सन्तीत्यर्थः । यथा विरु­द्ध­सु­षु­प्ति­म­र­णो­भ­य­रूपं मुग्धत्वं तथा श्रुति­प्रा­मा­ण्या­दु­भ­य­रूपं ब्रह्म ध्येयमिति दृष्टान्तेन पूर्वपक्षः ।

निर्वि­शे­ष­मे­क­रू­प­मेव ज्ञेयमिति सिद्धान्तयति -
एवमिति ।

किमुभयरूपत्वं स्वतः, उत स्वतो निर्गुणस्य सर्व­ग­न्ध­त्वा­दि­वि­शेष उपाधितः सत्यः, आहोस्वित्स्वतः सविशेषमेव ब्रह्मेति । तत्राद्य निरस्य द्वितीयमनूद्य दूषयति -
अस्तु तर्हीति ।
स्थानमुपाधिः । ब्रह्मणि विशेषः कल्पितः, औपा­धि­क­त्वा­त्स्फ­टि­क­लौ­हि­त्य­व­दि­त्यर्थः ।

उपाधेः सत्यत्वेऽपि तत्कृतं मिथ्येति दृष्टं ब्रह्मणि तूपाधीनां मिथ्या­त्वा­त्त­त्कृतो विशेषो मिथ्येति किमु वाच्यमित्याह -
उपाधीनामिति ।

तृतीयं निरस्यति -
अतश्चेति ।
सर्वस्य विशेषस्य कल्पि­त­त्वा­दे­वे­त्यर्थः ।

निषे­ध­श्रु­ते­श्चै­व­मि­त्याह -
सर्वत्र हीति ॥११॥

भिद्यत इति भेदो विशेषः, निर्वि­शे­ष­त्व­श्रु­ता­वपि विशेषस्यापि श्रुते­रु­भ­य­रू­पत्वं स्यादिति शङ्कां व्याचष्टे -
अथापि स्यादिति ।

पूर्वोक्तं विरोधं स्मारयति -
ननूक्तमिति ।
भेद­श्रु­ति­प्रा­मा­ण्या­र्थ­मौ­पा­धि­क­रू­प­भे­द­स्वी­का­रा­द­वि­रोध इति समाध्यर्थः ।

किमुपाधिगत एव रूपभेदो ब्रह्म­ण्यु­प­च­र्यते ध्याना­र्थ­मु­तो­पा­धि­यो­गा­त्स­त्य­वि­रु­द्ध­रू­प­व­त्तया ब्रह्मणो भेदो भवतीति । आद्येऽ­स्मा­दि­ष्ट­सिद्धिः, द्विती­य­म­भे­द­श्रुत्या दूषयति -
नेति ब्रूम इति ॥१२॥

द्वैत­नि­न्दा­पू­र्व­क­म­द्वै­तो­क्तेश्च निर्विशेषं तत्त्वमिति सूत्रार्थमाह -
अपि चेति ।
भोक्ता जीवो भोग्यं शब्दादि तयोः प्रेरि­ता­र­मी­श्वरं च मत्वा विचार्य मे मम प्रोक्तं तत्सर्वं त्रिविधं ब्रह्मैवेति जानीयादित्यर्थः ॥१३॥

द्विविधश्रुतिषु सतीषु निर्विशेषत्वे किं नियामकमिति शङ्कते -
कथं पुनरिति ।

तत्प­रा­त­त्प­र­वि­रोधे तत्परं बलवदिति न्यायो नियामक इत्याह -
अरूपवदेवेति ।

उपा­स­ना­प­र­वा­क्येषु आकारे तात्प­र्या­भा­वेऽपि देव­ता­वि­ग्र­हा­दि­व­दा­का­र­सि­द्धि­मा­शङ्क्य निष्प्र­प­ञ्च­प­र­श्रु­ति­वि­रो­धा­न्मै­व­मि­त्याह -
तेष्वसतीति ॥१४॥

कल्पितद्वैते सावकाशत्वाच्च सप्र­प­ञ्च­त्व­श्रु­तयो दुर्बला इत्याह -
प्रकाशवच्चेति ।

नन्वा­का­र­वा­क्या­ना­मु­पा­धि­क­ल्पि­त­स­र्व­ग­न्ध­त्वा­दि­ना­र्थ­वत्त्वं किमिति वर्ण्यते वैय­र्थ्य­मे­वो­च्य­ताम्, तत्राह -
न हि वेदवाक्यानामिति ।

नन्वेवमपीति ।
उक्त­री­त्यो­भ­य­रू­प­त्वा­ङ्गी­का­रेण श्रुतीनां व्यव­स्थि­त­त्वेऽ­पी­त्यर्थः ।

उपाधीनां कल्पि­त­त्वा­दौ­पा­धि­कस्य सत्य­त्वा­दु­प­प­त्तेर्न सत्य­मु­भ­य­रू­प­त्व­मिति पूर्वमुक्तं, संप्रति सत्यं निर्विशेषत्वं मिथ्या सवि­शे­ष­त्व­मि­त्यु­च्यत इत्यु­भ­य­रू­प­त्वा­ङ्गी­का­रेऽपि न पूर्वापरविरोध इत्याह -
नेति ब्रूम इति ।

द्वैतस्य मिथ्यात्वे ज्ञानेन बाधा­दु­पा­स­ना­दि­व्य­व­हारो न स्यादि­त्या­शङ्क्य बाधात्प्रागेव स इत्याह -
सत्यमिति ॥१५॥

यतः श्रुति­श्चि­न्मा­त्र­मा­हा­तश्च विशेषो मिथ्येति सूत्रार्थमाह -
आह चेति ।
सैन्धवघनो लवणपिण्डः ॥१६॥

किञ्च श्रुतिस्मृत्योः परनिषेधेन ब्रह्मो­प­दे­शा­न्नि­ष्प्र­पञ्चं ब्रह्मेत्याह -
दर्शयति चेति ।
अथ द्वैतो­क्त्य­न­न्तरं ज्ञान­हे­तु­त्वा­न्नेति नेति उपदेशः क्रियत इत्यर्थः । अधि अन्यत्पुनः पुनरधीहि भो इति निर्बन्धकारिणं तं द्वितीये तृतीये च प्रश्ने तूष्णीं भावं त्यक्त्वोवाच । उपशान्तो निरस्तद्वैतः । अतस्तस्य तूष्णींभाव एवोत्तरमिति सौत्रश्च अतो­श­ब्द­स्त­था­र्थकः आदिमत्कार्यं तन्न भवतीत्यनादिमत् । सत् इन्द्रियवेद्यम् । असत् परोक्षं च न स्वप्र­का­श­त्वा­दि­त्यर्थः । सर्व­भू­त­गु­णै­र्दि­व्य­ग­न्धा­दि­भि­र्युक्तं मां मूर्तिमन्तं पश्यसीति यत्सा माया, अत एव सद्वैतो भगवानिति मां द्रष्टुं नार्हसि वस्तुतो द्वैता­ती­त­त्वा­दि­त्यर्थः ॥१७॥

किञ्च यथा जला­द्यु­पा­धि­क­ल्पितः सूर्य­च­न्द्रा­दे­र्भे­द­च­ल­ना­दि­र्धर्म एवमात्मन इति दृष्टा­न्त­श्रु­तेश्च निर्विशेषं तत्त्वमित्याह -
अत एव चोपमेति ।
जल­स्थ­प्र­ति­बि­म्ब­त्वा­का­रेण सूर्य­स्या­भा­स­त्व­द्यो­त­नाय सूर्यकेति कप्रत्ययः । यथायं ज्योतिर्मयो विवस्वान्स्वत एकोऽपि घटभेदेन भिन्नाः अपोऽनुगच्छन् बहुधा क्रियते एवमजोऽयमात्मा देवः स्वप्रकाश एकोऽप्युपाधिना मायया क्षेत्रे­ष्व­नु­ग­च्छन् भेदरूपः क्रियत इति योजना ॥१८॥

इहा­त्म­न्यु­क्त­दृ­ष्टा­न्त­वै­ष­म्य­श­ङ्का­सू­त्रम् -
अम्बुवदिति ।
आत्मनो नीरू­प­त्वा­द्दू­र­स्थो­पा­ध्य­भा­वाच्च मायया बुद्ध्यादिषु प्रतिबिम्बभेदो न युक्त इत्यर्थः ॥१९॥

उपा­ध्य­न्त­र्भा­वेन तत्क­ल्पि­त­ध­र्म­व­त्त्व­मत्र विव­क्षि­तां­श­स्तेन साम्येन समाधानसूत्रम् -
वृद्धिहासेति ।

दृष्टा­न्त­सा­म्येऽपि नीरूपात्मनः प्रतिबिम्बं स्वबुद्ध्या कथं कल्प्यत इत्यत आह -
न चेदमिति ।
श्रूयते न कल्प्यत इत्यर्थः ।

श्रुत­दृ­ष्टा­न्तस्य 'सूर्य­का­दि­वत्' इत्युपन्यासेन किं फलमित्यत आह -
शास्त्रेति ।
आत्मनो निर्विशेषत्वं फलमित्यर्थः । अविरोध इति न वैषम्यमित्यर्थः । आत्मा प्रति­बि­म्ब­शून्यः, नीरू­प­द्र­व्य­त्वात्, वायु­व­दि­त्य­नु­माने आकाशे व्यभिचारः । अल्प­ज­लेऽ­वि­दू­रा­का­श­प्र­ति­बि­म्ब­द­र्श­ना­दु­पा­धि­दू­र­स्थ­त्व­मपि क्वचि­द­न­पे­क्षि­त­मिति भावः ॥२०॥

प्रवे­श­श्रु­ते­श्चो­क्ता­नु­मा­न­बाध इत्याह सूत्रकारः -
दर्शनाच्चेति ।
द्विपदः पुरो मनु­ष्या­दि­दे­हां­श्चक्रे चतुष्पदः पुरः पशून्कृत्वा पुर­श्च­क्षु­रा­द्य­भि­व्यक्तेः पुरस्तात्स ईश्वरः पक्षी लिङ्गशरीरी भूत्वा पुर उक्तानि शरीराण्याविशत्, स च प्रविष्टोऽपि पुरुषः पूर्ण एवेत्यर्थः । तैत्तिरीयके लिङ्गस्य पक्षाद्युक्तेः पक्षित्वं मन्तव्यम् ।

एवं प्रतिबिम्बभावेन भेदादेः कल्पि­त­त्वा­त्नि­र्वि­शेषं ब्रह्मेति स्वमतमुपसंहरति -
तस्मादिति ।

एक­दे­शि­व्या­ख्या­मु­त्था­प­यति -
अत्रेति ।
न स्थान­तोऽ­पी­त्या­द्ये­क­म­धि­क­रणं, तत्र ब्रह्मणो निष्प्रपञ्चत्वे स्थिते किंलक्षणं ब्रह्मेति संदेहे प्रका­श­व­च्चे­त्या­दि­द्वि­ती­य­म­धि­क­रणं प्रवृत्तं, न सद्रूपमेव ब्रह्म किन्तु प्रकाशवच्च चिद्रूपं च । कुतःवैयर्थ्यात् । सत्यं ज्ञानं सदेव सोम्ये­त्यु­भ­य­श्रु­ते­र्द्वि­रूपे ब्रह्म­ण्य­र्थ­व­त्त्वा­दिति पूर्वपक्षे सिद्धान्तः आह च तन्मात्रम् । सन्मात्रं ब्रह्म श्रुतिराह, 'ज्ञानस्य सत्ता­न­ति­रे­कात्' इति ।

इदं द्वितीयाधिकरणं दूषयति -
अत्र वयमिति ।

द्विती­या­धि­क­र­णस्य किं ब्रह्म­णोऽ­ने­क­रू­प­त्व­नि­रासः फलम्, उत बोधरूपत्वनिरास आहो­स्वि­त्स­त्ता­नि­रास इति विकल्प्य सर्व­था­प्या­न­र्थक्यं प्रप­ञ्च­य­न्नाद्ये गतार्थतामाह -
यदि तावदिति ।

न हि द्वितीय इत्याह -
न चेति ।

ब्रह्मणो बोधरूपत्वनिरासे जड­त्वा­ज्जी­वा­भे­द­श्रु­ति­बा­धश्च स्यादित्याह -
कथं वेति ।

न तृतीय इत्याह -
नापीति ।

सत्तानिरासे बोधस्य तुच्छत्वं च स्यादित्याह -
कथमिति ।
न च बोधस्य सत्तानतिरेकान्न तुच्छतेति वाच्यम् । सद्बो­ध­प­द­यो­र्वा­च्या­न­ति­रेके पर्या­य­त्व­प्र­स­ङ्गात् ।

एवं सिद्धान्तं फलाभावेन दूषयित्वा पूर्वपक्षं दूषयति -
नापीति ।

प्रसङ्गमेवाह -
सत्तेति ।
व्यावृत्तत्वं भिन्नत्वम् । निष्प्र­प­ञ्चै­क­रू­प­त्व­सि­द्धा­न्त­वि­रो­धा­त्भि­न्नो­भ­य­रू­प­त्व­पू­र्व­प­क्षा­नु­त्था­न­मि­त्यर्थः ।

उभ­य­श्रु­ति­ब­ला­दु­त्था­न­मिति शङ्कते -
श्रुतत्वादिति ।

मेरु­वि­न्ध्य­व­त्प­र­स्परं भिन्न­स­त्ता­बो­ध­यो­रे­क­ब्र­ह्मा­भे­द­शङ्का श्रुतिशतेनापि न युक्तेत्याह -
नेति ।

सद्बो­ध­यो­र्भे­दोऽस्ति न वा । आद्ये श्रुतेरपि विरु­द्धा­र्थ­त्वा­नु­प­प­त्तेर्न पूर्व­प­क्षो­त्था­न­मि­त्यु­क्तम् । संप्रति द्वितीयं शङ्कते -
अथ सत्तैवेति ।
सद्बो­ध­प­द­यो­र्वा­च्य­भे­देऽपि लक्ष्यै­क्यो­प­प­त्ति­र­ख­ण्डा­र्थ­स्वी­का­रा­दि­त्यर्थः । अखण्डार्थस्य पूर्वपक्षत्वं न स्यात्सि­द्धा­न्त­त्वात् ।

किञ्चात्र संशयोऽप्ययुक्त इत्याह -
तथापीति ।

एकाधिकरणपक्षे सूत्राणि कथं नेयानीत्यत आह -
सूत्राणीति ।

स्वपक्षे सूत्रसामञ्चस्यं चेत्याह -
अपि चेति ।
अव­श्या­पे­क्षि­त­ग­त्य­र्थ­त्वे­नो­त्त­र­सू­त्राणां पूर्वै­क­वा­क्य­त्वा­न्ना­धि­क­र­ण­भेद इति भावः । आकारश्रुतीनां कल्पिताकारो गतिरिति स्वमतमुक्तं, प्रप­ञ्च­वि­ल­य­वा­दि­नस्तु 'मनोमयः प्राणशरीरः सत्यकामः' इत्या­द्या­का­र­श्रु­तीनां तदि­त­रा­का­र­प्र­वि­लयो गतिरित्याहुः । मनोमय इति कोऽर्थः, मनोऽ­ति­रि­क्तो­पा­धि­शून्य इत्यर्थः ।

एवं प्राणशरीरपदेन प्राणा­ति­रि­क्तो­पा­धि­नि­षे­धा­न्म­न­सोऽ­प्य­भा­व­सिद्धिः, एवं सर्वे शब्दा अनाकारब्रह्मपरा एवेति तन्मतमनूद्य दूषयति -
यदपीत्यादिना ।

किं ज्ञेय­ब्र­ह्म­प्र­क­र­ण­स्था­ना­मा­का­र­श­ब्दानां निषे­ध­प­र­त्व­मु­तो­पा­स­ना­प्र­क­र­ण­स्था­ना­मपि । तत्रा­द्य­म­ङ्गी­क­रोति -
ये हीति ।

अस्य जीवभावं प्राप्त­स्ये­श्व­रस्य दश हरयो विषया हर­णा­द्द­शे­न्द्रि­याणि प्राणि­भे­दा­पे­क्षया शतानि सहस्राणि च तेषा­मी­श्व­रा­द्भे­द­मा­श­ङ्क्याह -
अयमिति ।
ईश्वर एव हरय इत्यर्थः ।

द्वितीयं दूषयति -
ये पुनरिति ।

मनो­म­या­दि­श­ब्दानां मुख्यवृत्त्या गुणपरत्वसंभवे निषेधलक्षणापि न युक्तेत्याह -
श्रुत्या चेति ।

किं चाका­रा­ना­का­र­श्रु­ति­द्वै­विध्ये सति ब्रह्मा­ना­का­र­मे­वे­त्यत्र किं विनिगमकमिति शङ्को­त्था­ना­द­स्थू­ला­दि­श्रु­तीनां निरा­का­र­ता­त्पर्यं नियामकमिति कथनार्थमिदं सूत्र­म­र्थ­व­द्भ­वति । सर्वश्रुतीनां निषेधार्थत्वे तु शङ्का­नु­त्था­ना­न्नि­या­म­क­सूत्रं व्यर्थं स्यादित्याह -
सर्वेषां चेति ।

ननू­पा­स­नाऽ­र्थ­क­वा­क्यानां स्वार्थे फला­भा­वा­त्स­फ­ल­नि­षे­ध­वा­क्य­शे­ष­त्व­मि­त्या­शङ्क्य फलस्य श्रुत­त्वा­न्ना­न्य­शे­ष­ते­त्याह -
फलमपीति ।

अर्थै­क्या­भा­वाच्च नैकवाक्यतेत्याह -
कथं चेति ।

अर्थैक्यं शङ्कते -
एकेति ।
यथा फल­व­त्प­र­मा­पू­र्वा­ख्य­नि­यो­गै­क्या­द­ङ्ग­प्र­धा­न­वा­क्या­ना­मे­क­वा­क्यता तथा तत्त्वा­व­बो­ध­का­मस्य प्रप­ञ्च­प्र­वि­ल­य­वि­ष­यक एको नियो­ग­रू­पोऽ­र्थोऽ­स्ती­त्या­का­रा­ना­का­र­वा­क्यानां सर्वे­षा­मे­क­वा­क्य­ते­त्यर्थः ।

नियोगासिद्ध्या दूषयति -
नेति ।

विषयं शङ्कते -
ननु द्वैतेति ।
प्रत्यनीकं प्रतिबन्धकम् ।

ननु प्रपञ्चविलये ब्रह्मलयः स्यादभेदादित्यत आह -
ब्रह्मस्वभावो हि प्रपञ्च इति ।
कारणं हि कार्यस्य स्वरूपमतः कार्यनाशेऽपि कारणस्य न लयः, घटनाशेऽपि मृद्द­र्श­ना­दि­त्यर्थः ।

प्रपञ्चस्य सत्यस्य कल्पितस्य वा लये विधिरिति विकल्प्याद्यं दूषयति -
तत्र यदि तावदिति ।
सत्यस्य ज्ञानादध्वस्तेः मुसलादिना च कृत्स्न­द्वै­त­ध्वं­सा­यो­गात् नभो­ग्र­स­न­वि­धि­व­द­श­क्य­वि­ष­योऽयं विधिः, किञ्च शुकादिमुक्त्या सर्वमुक्तिः स्यादित्यर्थः ।

द्वितीयमनूद्य दूषयति -
अथेत्यादिना ।
उप­दे­श­ज­न्य­ज्ञा­ना­दे­वा­वि­द्या­त­ज्ज­प्र­प­ञ्च­ल­य­सि­द्धे­र्नि­योगो वृथैवेत्यर्थः ।

किञ्च ब्रह्मज्ञानादौ विधिः किं ब्रह्मण्यज्ञाते ज्ञाते वा । नाद्यः, अश­क्य­त्वा­दि­त्याह -
अनावेदिते त्विति ।

द्वितीयं शङ्कते -
नन्विति ।

उपदेशादेव ज्ञाते ब्रह्मणि साक्षा­त्का­र­द्वै­त­बा­धयोः सिद्धे­र्वि­धि­वै­यर्थ्यं सिद्धस्य विधिना कर्तु­म­यो­गा­दि­त्याह -
नेति ।

एवं­वि­ष­या­भा­वा­न्नि­यो­गा­भा­व­मुक्त्वा नियो­ज्या­भा­वा­त्त­द­भा­व­माह -
नियोज्योऽपि चेति ।
प्रप­ञ्चा­न्त­र्भूतो ब्रह्म वेत्यर्थः ।

आद्ये जीव­ना­शा­द्वि­ध्य­योगः, द्वितीये नियो­ज्या­सि­द्धिः,तर्हि ज्ञाने विधिप्रत्ययानां का गतिरित्यत आह -
द्रष्ट­व्या­दि­शब्दा इति ।

ननु श्रुतं ज्ञानं त्यक्त्वा तत्सा­ध­न­व्या­पा­र­विधिः किमिति कल्प्यत इत्याशङ्क्य ज्ञानस्य पुरु­ष­कृ­त्य­सा­ध्य­त्वा­दि­त्याह -
ज्ञेया­भि­मु­ख­स्या­पीति ।

किञ्च ज्ञानविधिवादिना ज्ञेयं ब्रह्मावश्यं वेदा­न्तै­र्ज्ञा­प­नीयं विषयानवबोधे विधिबोधायोगात् । तथाच वेदान्तैरेव ज्ञाने­त्प­त्ते­र्वि­ध्या­न­र्थ­क्य­मि­त्याह -
तस्मादिति ।
तं ज्ञानार्थिनं प्रतीत्यर्थः ।

ननूत्पन्नं ज्ञान­म­न्य­था­कर्तुं विधिरर्थवानिति, नेत्याह -
न चेति ।

नन्व­न­ग्नि­र्यो­षि­दिति प्रत्य­क्ष­प्र­मा­णा­दु­त्प­न्न­मपि ज्ञानं तामग्निं ध्यायेदिति । विधिनान्यथाकृतं दृश्यत इत्यत आह -
यदीति ।
अन्यथाधीः कृतिसाध्या चेत्क्रियैव, कृतिं विनैव चेद्भ्रा­न्ति­रे­वातो मानं विना विधितो ज्ञाना­सि­द्धे­र्मा­न­व­स्तु­तन्त्रे ज्ञाने विधि­र्मृ­षे­त्यर्थः ।

वेदान्तेषु विधि­वा­दि­नोऽ­न्यच्च दूषणमस्तीत्याह -
किञ्चान्यदिति ।

ब्रह्मा­त्मै­क्ये­नि­योगे च वेदान्तवाक्यस्य प्रामा­ण्य­मा­श­ङ्क्या­र्थ­भे­दा­द्वा­क्य­भेदो विरु­द्धा­र्थ­त्वा­द­प्रा­माण्यं चेति दूषयति -
अथेत्यादिना ।

किञ्च श्रुतं ब्रह्म न श्रुतो विधि­र्वे­दा­न्तेषु तत्कल्पने च कर्म­ज­न्य­त्वा­न्मो­क्ष­स्या­नि­त्य­त्व­सा­ति­श­य­त्वा­दि­प्र­सङ्ग इत्याह -
नियोगपरतायां चेति ।

फलितमाह -
अतश्चेति ।

इदानीं प्रौढवादेन नियोगमङ्गीकृत्य तदेकत्वं खण्डयति -
अभ्यु­प­ग­म्य­मा­नेऽ­पीति ।
भिन्न­क्रि­या­वा­चि­शब्दः शब्दान्तरं यथा यजति ददातीति तथेहापि वेदोपासीतेति शब्दभेदः । निर्गु­ण­स­गु­ण­रू­प­भे­दः­प्र­क­र­ण­भेदः मुक्त्य­भ्यु­द­य­फ­ल­भेद इत्येतैः प्रमा­णै­र्नि­र्गु­ण­ज्ञा­न­स­गु­णो­पा­स­ना­वि­ष­य­क­नि­यो­ग­भेद इत्यर्थः ।

कथं तर्ह्य­ङ्गा­ङ्गि­वा­क्येषु नियोगैक्यं, तत्राह -
प्रयाजेति ।
एकस्यैव स्वर्गकामस्य साङ्ग­प्र­धा­ना­धि­का­रा­त्त­त्सा­ध्य­फ­ला­पू­र्वै­क्या­दे­क­वा­क्य­ते­त्यर्थः ।

इहापि निर्गु­ण­स­गु­ण­वि­द्य­यो­रे­का­धि­का­रा­त्नि­यो­गै­क्य­मस्तु, नेत्याह -
न त्विहेति ।
मुक्त्य­भ्यु­द­या­र्थि­भे­दा­न्मिथो विरु­द्धा­र्थ­वि­द्य­यो­र­ङ्गा­ङ्गि­त्वा­यो­गाच्च न वियोगैक्यम् ।

न च निर्गु­ण­वि­द्या­नि­योग एक एव सगु­ण­वि­द्या­न­ङ्गी­का­रा­दिति वाच्यम् । अहो विपरीतं पाण्डि­त्य­मा­यु­ष्मतः, विघ्न्य­यो­ग्य­वि­द्यायां विधि­र्वि­धि­यो­ग्या­या­म­वि­धि­रिति, तस्मा­त्सा­का­र­वा­क्या­ना­मा­का­र­ल­य­द्वारा निर्गु­ण­वा­क्यै­क­वा­क्य­ता­ग­ति­र­स­द्ग­ति­रेव, किन्तु तेषां कल्पिताकारो गति­स्त­दु­पा­स­न­या­भ्यु­द­य­सिद्धेः, निर्गु­ण­वा­क्यानां तु पर­मा­र्था­ल­म्ब­न­त्व­मि­त्य­स्म­दुक्त एव विभागः साधी­या­नि­त्यु­प­सं­ह­रति -
तस्मादिति ॥२१॥

ब्रह्मणो निर्वि­शे­ष­चि­न्मा­त्र­त्व­मुक्त्वा सर्व­नि­षे­धा­व­धि­त्वेन सद्रूपत्वमाह -
प्रकृ­तै­ता­वत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति ।
पृथि­व्य­प्ते­जो­भू­त­त्रयं मूर्तं वाय्वा­का­श­द्व­य­म­मू­र्त­मिति राशि­द्व­य­मुक्त्वा भूत­द्व­य­स्या­मू­र्तस्य सारः 'करणात्मा हिरण्यगर्भो य एष एतस्मिन् सूर्यमण्डले पुरुषो यश्चायं दक्षिणेऽक्षिणि पुरुषः' इत्युक्तः, तस्य वासनामयानि स्वप्नरूपाणि 'तद्यथा माहारजनं, वासो यथा पाण्ड्वाविकं यथे­न्द्र­गोपः' इत्यु­प­मा­भि­रु­क्तानि विचित्राणि, तत्र महारजनं हरिद्रा तया लिप्तं वस्त्रं माहारजनं, पाण्ड्वादिकमिति धवलं कम्बलादि । केचित्तु श्रुतिमुपलक्षणं कृत्वा सूक्ष्म­प­ञ्च­भू­ता­न्य­मू­र्तानि पञ्चीकृतानि मूर्तानि तत­श्चा­मू­र्त­र­स­त्वोक्त्या करणानां पाञ्च­भौ­ति­क­त्व­सि­द्धि­रिति व्याचक्षते । अथ सत्प­दा­त्म­क­प्र­प­ञ्चो­क्त्य­न­न्तरं, अत उक्तारोपस्य निषे­धा­र्थ­त्वा­न्नेति नेतीति निषेधेनोपदेशः क्रियत इत्यर्थः ।

नेतिशब्दार्थमाह -
न हीति ।
एत­स्मा­दा­त्म­नोऽ­न्य­न्ना­स्तीति नेतीत्युच्यत इत्यर्थः । शून्य­ता­नि­रा­सार्थं परं ब्रह्मा­स्ती­त्यु­क्त­मिति सिद्धान्तरीत्या श्रुत्यर्थः ।

अत्र निषे­ध्य­वि­शे­षा­नु­प­ल­म्भा­त्सं­श­य­माह -
तत्र कोऽस्येत्यादिना ।
नञ्प्रयोगस्य नका­रा­स्ये­ति­श­ब्दो­प­स्था­पि­त­व­स्तु­नि­षे­ध­क­त्वा­दि­त्यर्थः ।

इति­श­ब्दा­न्नि­षे­ध्य­सा­मा­न्य­स­म­र्पणे विशे­षा­का­ङ्क्षायां प्रक­र­णा­द्रू­प­द्व­यस्य रूपिब्रह्मणश्च निषै­ध्य­त्व­भा­ना­त्सं­श­य­मुक्त्वा पूर्वोक्तं निर्विशेषं ब्रह्म नास्ती­त्या­क्षे­प­स­ङ्गत्या पूर्वपक्षयति -
तत्र प्रकृतत्वेति ।
पूर्वपक्षे तत्प­दा­र्था­भा­वा­द्वा­क्या­र्था­भे­दा­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् ।

निर­धि­ष्ठा­न­नि­षे­धा­द­र्श­ना­त्स­र्व­नि­षेधो न युक्त इत्यरुच्या प्रपञ्चे ब्रह्मनिषेध इत्याह -
अथवेति ।

एकब्रह्मण एव निषेधे नकारद्वयस्य पौन­रु­क्त्या­मि­त्यत आह -
अभ्यासस्त्विति ।

उत्सूत्रमेव ताव­त्सि­द्धा­न्त­मु­प­क्र­मते -
एवमिति ।

शून्यप्रसङ्ग इष्ट इति वदन्तं प्रत्याह -
किञ्चिद्धीति ।
तच्चेति प्रति­षे­ध­न­मि­त्यर्थः । अधिष्ठानानवशेषे तत्प्र­मा­रू­प­हे­त्व­भा­वात् निषेधवाक्यार्थः प्रमा न स्यात् 'इदमत्र नास्ति' इति लोके निषेधस्य साधिष्ठानस्यैव प्रमि­ति­द­र्श­ना­दि­त्यर्थः ।

किञ्च यद्भाति तत्स­दि­त्यु­त्स­र्गस्य भाना­र्था­भा­वा­धि­ष्ठा­न­प्र­मि­ति­र­प­वा­द­स्तया पूर्वभानस्य भ्रम­त्व­नि­श्च­ये­ना­र्थ­स­त्त्वा­प­ला­पात् । अपवादानङ्गीकारे तूत्सर्गतः प्रपञ्चस्य सत्य­त्वा­प­त्ते­र्नि­षे­धा­नु­प­प­त्ति­रि­त्याह -
अपरिशिष्यमाणे चेति ।

अधिष्ठानसत्त्वं विना भ्रान्ति­नि­षे­ध­यो­र­यो­गा­च्छू­न्य­वादो न युक्त इत्युक्त्वा पूर्ववादिनः पक्षान्तरं दूषयति -
नापीति ।
देहा­त्मा­भि­मा­न­व­ल्लौ­कि­क­मा­न­प्रा­प्त­द्वै­तस्य निषेधो युक्तो न वेदा­न्त­प्र­मि­त­ब्र­ह्मण इति भावः ।

यदुक्तं वाङ्म­न­सा­ती­त­त्वात् निषेधार्हं ब्रह्म इति तत्राह -
वाङ्मनसेति ।

ब्रह्मणो वागाद्यतीतत्वं निषेधार्थं न चेत्किमर्थं तदुक्तिरित्यत आह -
प्रतिपादनेति ।

उक्तार्थे सूत्रं योजयति -
तदेतदित्यादिना ।
'द्वे वाव ब्रह्मणो रूपे' इति रूपद्वयस्यैव प्राधान्येन प्रकृ­त­त्वा­न्ने­तीति निषेध इत्यर्थः ।

ननु 'आदि­त्य­म­ण्डले पुरुष' इति ब्रह्माप्यत्र प्राधा­न्ये­नो­क्त­मि­त्या­शङ्क्य पुरुषो लिङ्गात्मा अमू­र्त­र­स­त्व­श्रुत्या भूत­ज­नि­त­त्व­भा­ना­त्स्व­प्न­रू­प­त्व­श्रु­ते­श्चे­त्याह -
तज्जनितमेवेति ।
रूपरूपिणोरभेद उक्तः ।

ननु वासनामयं रूपमेव किमित्युपमीयते प्रसिद्धरूपमेव किं न स्यादित्यत आह -
अमूर्तरसस्येति ।

रूपद्वयस्यैव प्राधान्येन प्रकृतत्वे फलितमाह -
तदिति ।
प्रतियोगित्वेन समर्प्यत इत्यर्थः । न चार्थतः प्राधा­न्य­द्ब्र­ह्मणो निषेधः राज्ञो भृत्यो नास्तीत्यत्र राज­नि­षे­ध­प्र­स­ङ्गा­दिति भावः ।

किञ्चात्र ब्रह्मणः प्रति­पा­द्य­त्वात्न निषेध इत्याह -
प्रपञ्चिते चेति ।

ननु ब्रह्मणि निषि­द्ध­स्या­प्य­न्यत्र स्थिति­सं­भ­वा­त्कथं कल्पितत्वमित्यत आह -
तदास्पदमिति ।
उपादाने निषि­द्ध­स्या­न्यत्र न स्थितिरित्यर्थः ।

यत्तु द्वैतनिषेधे प्रत्य­क्षा­दि­वि­रोध इति, तत्राह -
युक्तं चेति ।
स्थापितं हि आरम्भणाधिकरणे प्रत्य­क्षा­दे­र्व्या­व­हा­रिकं प्रामाण्यं न तत्वावेदकमिति, अतस्तत्त्वतो निषेधान्न विरोध इति भावः ।

ननु वस्तु­त्वा­द्वै­त­व­द्ब्र­ह्म­णोऽपि निषेधोऽस्तु, नेत्याह -
नत्विति ।
द्वैत­भा­वा­भा­व­सा­क्षि­त्वा­द­शक्यो निषेध इत्यर्थः । न चेत्यादि स्पष्टार्थम् ।

यच्चोक्तं निषेधाभ्यां रूपं रूपि ब्रह्म च निषिध्यत इति, तत्राह -
द्वौ चैताविति ।
उद्दे­श्य­वि­धे­या­र्थानां संख्यासाम्ये यथाक्रमं संबन्ध इति न्यायः 'यथा­स­ङ्ख्य­म­नु­देशः समानाम्' इति पाणि­नि­सू­त्र­सि­द्ध­स्ते­नात्र रूपद्वयोद्देशेन निषे­ध­द्व­य­वि­धि­रि­त्यर्थः ।

वीप्सापक्षे सर्व­दृ­श्य­नि­षे­धा­ज्जि­ज्ञा­सा­शा­न्ति­रिति विशेषमाह -
परिगणितेति ।
मूर्तं नामूर्तं नेत्येवं विशिष्यनिषेधे जिज्ञासा न शाम्यतीत्यर्थः ।

सूत्रशेषं व्याचष्टे -
इतश्चेति ।
प्रति­षे­धा­नु­प­पत्त्या ब्रह्मा­स्ती­त्य­व­गतं भूयः पुनः परमस्तीति श्रुतिः साक्षादपि ब्रवीतीत्यर्थः ।

तच्चेति ।
अवशिष्टं ब्रह्मेत्यर्थः । स्पष्टमन्यत् ॥२२॥

नन्व­ग्रा­ह्य­त्वा­द्ब्रह्म नास्तीति शङ्कानिरासार्थं सूत्रं व्याचष्टे -
यत्प्र­ति­षि­द्धा­दिति ।
रूपा­द्य­भा­वा­द­व्य­क्त­मि­न्द्रि­या­ग्राह्यं न त्वस­त्त्वा­दि­त्यर्थः । अन्यै­र्दे­वै­रि­न्द्रि­या­न्त­रैर्न गृह्यत इत्यन्वयः ॥२३॥

तर्हि कदा ग्राह्यमिति शङ्कोत्तरं सूत्रं व्याख्याति -
अपि चैनमिति ।
चस्त्वर्थः । इन्द्रियैर्न गृह्यते अपि तु संराधनेन शास्त्र­सं­स्कृ­त­म­न­से­त्यर्थः । भक्ति­ध्या­नाभ्यां प्रत्य­गा­त्म­न­श्चित्ते प्रकर्षेण निधानं स्थापनं प्रणिधानम् । जप­न­म­स्का­रा­दि­रा­दि­श­ब्दार्थः । स्वयंभूरीश्वरः । स्वानी­न्द्रि­याणि । परा­ञ्च्य­ना­त्म­ग्रा­ह­काणि कृत्वा व्यतृणत् नाशितवान् । स हि तेषां नाशो यद­स­द­र्थ­ग्रा­हि­तया सर्जनं तस्मात्तेषां तथा सृष्टत्वात्, सर्वो लोकः परागर्थमेव पश्यति नान्तरात्मानम् । कश्चित्तु धीरो धीमा­ना­वृ­त्त­च­क्षु­र्नि­रु­द्धे­न्द्रियः शुद्धे चेतसि प्रत्यगात्मनं शास्त्रेण पश्यति मोक्षा­र्थी­त्यर्थः । ततः कर्मणा विशुद्धचित्तो ज्ञाना­ख्य­स­त्त्वो­त्क­र्षेण संध्यायंस्तं निष्कलं पश्यतीत्यर्थः । विनिद्राः वितमस्काः, तत्र हेतु­र्जि­त­श्वा­सत्वं प्राणा­या­म­नि­ष्ठत्वं, युञ्चाना ध्यायिनः योगलभ्यः आत्मा योगात्मा ॥२४॥ यथा प्रकाशादय उपाधिषु भिद्यन्ते न स्वतः, एवं प्रका­श­श्चि­दा­त्मापि ध्याना­दि­क­र्म­ण्यु­पाधौ भिद्यते स्वत­स्त­स्या­वै­शे­ष्य­मे­क­र­स­त्व­मेव तत्त्व­म­सी­त्य­भ्या­सा­दिति सूत्रयोजना ॥२५॥

जीवस्य ब्रह्मा­त्म­त्व­फ­ल­श्रु­ति­रू­प­लि­ङ्गा­दपि भेद औपाधिक एवेत्याह सूत्रकारः-
अतोऽनन्तेनेति ॥२६॥

भेदा­भे­द­पू­र्व­प­क्ष­सू­त्र­द्व­यस्य संगतिमाह -
तस्मिन्नेवेति ।
यथाहित्वेनाभेदः । कुण्डलाख्यस्य सर्पा­व­स्था­वि­शे­षस्य कुण्डलत्वेन भेदः । तथा जीवस्य ब्रह्म­त्वे­ना­भेदो जीवत्वेन भेदः । यद्वा सूर्य­प्र­का­श­यो­रे­क­ते­ज­स्त्व­ध­र्मा­व­च्छे­देन भेदा­भे­द­व­ज्जी­व­प­र­यो­रपि एके­नै­वा­त्म­त्व­ध­र्मेण भेदाभेदौ श्रुति­ब­ला­त्स्वी­का­र्या­विति सूत्रद्वयार्थः । कुण्डलत्वं वलयाकारत्वं, आभोगत्वं वक्राकारत्वं, प्रांशुत्वं दीर्घ­द­ण्डा­का­र­त्व­मु­द्ग­त­मु­ख­त्व­मा­दि­श­ब्दार्थः ॥२७ ॥ ॥२८॥

सिद्धा­न्त­सू­त्रम् -
पूर्ववद्वेति ।
धर्म­भे­दे­नै­क­ध­र्मेण वा भेदाभेदस्वीकारे भेदस्य सत्य­त्वा­द­भे­द­व­द­नि­वृत्तिः स्यात् । एकत्रैव भेदाभेदस्वीकारे लोके विरोधकथोच्छेद इत्यपि द्रष्टव्यं, तस्मात् निष्प्रपञ्चं चिदेकरसं ब्रह्म तत्प­द­ल­क्ष्य­म­स्तीति सिद्धम् ॥२९ ॥ ॥३०॥

यदुक्तं नेति नेती­त्या­दि­श्रु­तिभिः ब्रह्मातिरिक्तं वस्तु निषिध्यत इति, तदयुक्तम् । सेत्वा­दि­श्रु­ति­भि­र्व­स्त्व­न्त­रा­स्ति­त्व­भा­ना­दि­त्या­क्षि­पति -
परमत इति ।
यद्यपि द्युभ्वा­द्य­धि­क­रणे सेतुशब्दो विधारकत्वेन गौणो व्याख्या­त­स्त­था­प्यु­न्मा­ना­दि­श्रु­तीनां गतिमजानतोऽयं पूर्वपक्षः, तत्रो­न्मा­ना­दि­श्रु­तीनां मुख्यत्वात्, सद्वयं ब्रह्मेति फलं सिद्धान्ते तूक्ता­द्वि­ती­य­त­त्प­द­ल­क्ष्य­सि­द्धि­रिति विवेकः ।

ब्रह्म सद्वयं, सेतुत्वात्, लौकिकसेतुवत् । तीर्ण­त्व­श्रु­ते­श्चे­त्याह -
सेतुं तीर्त्वेति ।
जाङ्गलं वातभूयिष्ठमिति वैद्योक्तेः वातप्रचुरो देशो जाङ्गलं, इह तु देशमात्रं ग्राह्यम् । दिशश्चतस्रः कलाः प्रकाशवान्नाम पादः, पृथि­व्य­न्त­रिक्षं द्यौः समुद्र इत्यनन्तवान्नाम पादः, अग्निः सूर्यश्चन्द्रो विद्युदिति ज्योतिष्मान्नाम पादः, चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्नाम पाद इति चतु­ष्पा­द्ब्र­ह्मेति पादानामर्धानि अष्टौ शफा अस्ये­त्य­ष्टा­शफं, पादेषु चतुर्षु प्रत्येकं चतस्रः कला इति षोडशकलमित्यर्थः । षोडशपणपरिमितं ताम्रं कार्षापणसंज्ञं भवति तद्वत्सद्वयं ब्रह्म, परि­मि­त­त्वा­दि­त्यर्थः ।

संबन्धित्वाच्च नगरवदित्याह -
तथा संबन्धेति ।
अन्यदमितमिति अस­ङ्ख्या­त­मि­त्यर्थः । अन्यस्पर्शे अल्पत्वेन मितत्वनियमादिति मन्तव्यम् ।

भेदे­नो­क्त­त्वाच्च घटवदित्याह -
भेद­व्य­प­दे­श­श्चेति ।
अस्या­क्षि­स्थ­स्या­मु­ना­दि­त्य­स्थेन सहेति यावत् ।

आधा­र­तोऽ­ति­दे­श­तश्च भेद­मु­क्त्वा­व­धि­तोऽपि तमाह -
सावधिकं चेति ॥३१॥

सिद्धान्तसूत्रं व्याचष्टे -
तुश­ब्दे­ने­त्या­दिना ।

यदन्यत्तत्किं साद्यनादि वा, नाद्यः माना­भा­वा­त्का­र्यस्य ब्रह्मा­न­न्य­त्व­नि­र्गु­ण­या­च्चे­त्युक्त्वा न द्वितीयः प्रागु­त्प­त्ते­र­द्व­य­त्वा­व­धा­र­णा­दि­त्याह -
न च ब्रह्म­व्य­ति­रि­क्त­मिति ।
उक्ता­नु­मा­ना­ना­मा­ग­म­बाध इति भावः ।

उक्तं स्मारयित्वा हेतु­ना­म­सि­द्धि­माह -
ननु सेत्वित्यादिना ।

किं सेतुश्रुत्या पर­सि­द्धि­र­र्थाद्वा, नाद्य इत्युक्त्वा द्वितीयं शङ्कते -
तत्र परस्मिन्निति ।

सेतु­त्व­लि­ङ्गे­ना­द्वि­ती­य­त्व­श्रु­ति­बा­ध­न­म­न्या­य्य­मि­त्याह -
न चेति ।

लिङ्गं चासिद्धमित्याह -
अपि चेति ।
विधारकत्वं तु कल्पि­त­द्वि­ती­या­पे­क्ष­यापि युज्यत इति भावः ।