अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तृतीयाध्याये प्रथमः पादः

तृतीयाध्याये प्रथमः पादः ।
यं हि वैरा­ग्य­सं­प­न्ना­स्त­त्त्व­म­र्थ­वि­वे­किनः ।
लभन्ते साध­नै­र्दा­न्तास्तं सीतानायकं भजे ॥१॥
तद­न्त­र­प्र­ति­पत्तौ रंहति संपरिष्वक्तः प्रश्न­नि­रू­प­णा­भ्याम् ।

वृत्तमनूद्य तृती­या­ध्या­या­र्थ­माह -
द्वितीय इत्यादिना ।
अविरुद्धे वेदान्तार्थे तज्ज्ञा­न­सा­ध­न­चि­न्ता­व­सर इत्य­न­यो­र्हे­तु­हे­तु­म­द्भावः । लिङ्गो­पा­धि­सिद्धौ तदु­प­हि­त­जी­व­सं­सा­र­चि­न्तेति पादयोरपि तद्भावसङ्गतिः । अत्र प्रथमपादे वैराग्यम् । द्वितीये स्वप्ना­द्य­व­स्थोक्त्या त्वंपदार्थो ब्रह्मतत्त्वं चोच्ये । तृतीये वाक्या­र्थ­स्त­द­र्थ­मु­पा­स­नाश्च विचार्यन्ते ।

चतु­र्थ­पा­दा­र्थ­माह -
सम्य­ग्द­र्श­ना­दिति ।
दर्शनोपायाः संन्यासादयः । मुक्तिरूपफलस्य स्वर्ग­व­त्ता­र­त­म्य­नि­य­मा­भावः एकरूपत्वमिति यावत् । प्रसङ्गागतं देहात्मदूषणम् । पञ्चसु द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षि­त्स्व­ग्नि­त्व­ध्यानं पञ्चाग्निविद्या । यस्मात्कर्मणा गत्या­ग­ति­रू­पोऽ­न­र्थ­स्त­स्मा­त्क­र्म­फले जुगुप्सां घृणां विरक्तिं कुर्वीतेति पञ्चा­ग्नि­वि­द्यो­प­सं­हारे श्रव­णा­द्वै­रा­ग्यार्थं प्रदर्श्यते इत्यन्वयः । शास्त्रा­दि­सूत्रे नित्या­नि­त्य­वि­वे­क­कृतं वैराग्यमुक्तम्, इह तद्दार्ढ्याय गत्या­ग­ति­क्ले­श­भा­व­ना­कृतं तदुच्यत इत्य­पौ­न­रु­क्त्यम् ।

अधिकरणविषयमाह -
जीव इति ।
अविद्या प्रसिद्धा । विद्येति पाठे उपासना ग्राह्या । कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मा­न्त­र­सं­स्कारः । अथ मरणकाले प्राणा हृदये जीवे­नै­की­भ­व­न्ती­त्यर्थः । रूपं शरीरं, पञ्ची­कृ­त­भू­त­भागाः उत्त­र­दे­ह­प­रि­णा­मिनो भूतसूक्ष्माः । वेदा­न्ता­र्थ­ज्ञा­न­सा­ध­न­वि­चा­र­त्वा­त्स­र्वा­धि­क­र­णानां, श्रुति­शा­स्त्रा­ध्या­य­स­ङ्ग­तयः वैरा­ग्य­फ­ल­क­त्वा­दे­त­त्पा­द­स­ङ्गतिः । पूर्वाधिकरणे व्यवहारार्थं पञ्चीकरणमुक्तं स व्यवहारोऽत्र निरूप्यत इति फल­फ­लि­भा­वोऽ­वा­न्त­र­स­ङ्गतिः । अत्र पूर्वपक्षे निरा­श्र­य­प्रा­ण­ग­त्य­भा­वात्, न वैराग्यं, सिद्धान्ते भूता­श्र­य­प्रा­ण­ग­ते­र्वै­रा­ग्य­मिति फलभेदः । तेजो­मा­त्रा­श्च­क्षु­रा­दयः, पश्यति जिघ्रतीति वाक्यशेषात् । आपः पञ्चस्वग्निषु हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरु­ष­श­ब्द­वाच्याः पुरुषात्मना परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति राज्ञः प्रवाहणस्य प्रश्नः, तस्य चोत्तराज्ञाने तत्पितरं प्रति राजोवाच 'असौ वाव लोको गौतमाग्निस्तत्र श्रद्धाख्या आपः आहुतिः पर्जन्याग्नौ सोमरूपा इह खल्वग्निहोत्रे श्रद्धया हुता दध्यादिरूपा आपो यजमानसंलग्नाः स्वर्गं लोकं प्रप्य सोमा­ख्य­दि­व्य­दे­हा­त्मना स्थिताः कर्मान्ते द्रुताः पर्जन्ये हूयन्ते ततो वृष्टिरूपाः पृथिव्या अन्नरूपाः पुरुषे रेतोरूपाः योषिति हुताः आपः पुरु­ष­श­ब्द­वाच्याः पुमात्मका भवन्ति' इति निरूपणं कृतम् ।