भाष्यरत्नप्रभाव्याख्या
तृतीयाध्याये प्रथमः पादः (२)
तीर्णत्वहेतुरप्यसिद्ध इत्याह -
सेतुं तीर्त्वेति ॥३२॥
परिमितत्वमप्यसिद्धमित्याह -
बुद्ध्यर्थ इति ।
वाक्प्राणचक्षुःश्रोत्राणि मनसः पादा अग्निवाय्वादित्यदिश आकाशस्य पादा ध्यानार्थं कल्पितास्तद्वद्ब्रह्मण उन्मानमित्यर्थः ।
लौकिकं दृष्टान्तमाह -
अथवेति ।
पादकल्पनां विनापि व्यवहारः किं न स्यादित्यत आह -
न हीति ।
कार्षापणस्य व्यवहाराय पादकल्पनावत्मन्दधियां ध्यानव्यवहाराय ब्रह्मण उन्मानकल्पनेत्यर्थः ॥३३॥
संबन्धभेदौ कल्पितौ न सत्यद्वितीयसाधकावित्याह -
स्थानेति ।
स्थानमुपाधिबुद्ध्यादिः । एकस्यैवोपाधिना भिन्नस्योपाधिशान्तौ सत्यां संबन्ध उपचर्यते । यथा सौरालोकादेरङ्गुल्याद्युपाधिना भिन्नस्योपाधिवियोगे महालोकाद्यात्मना संबन्धोपचारस्तद्वत्तथादित्य चक्षुषोः स्थानयोर्भेदाद्धिरण्मयपुरुषभेदकल्पनेत्यर्थः ॥३४॥
मुख्यावेव संबन्धभेदौ किं न स्यातामित्यत्र सूत्रम् -
उपपत्तेश्चेति ॥३५॥
स्वरूपेण ब्रह्मणा जीवस्य संबन्धो भेदनिवृत्तिरूपो युज्यते न मुख्यः संयोगादिः वस्तुद्वयासत्त्वात्तथा भेदोऽपि न स्वत एकत्वश्रुतेरित्यर्थः ॥३६॥
ननु द्वितीयाभावे सर्वगतत्वश्रुतिविरोध इत्यत आह -
अनेन सर्वगतत्वमिति ।
द्वितीयं सत्यं चेत्सेत्वादिवद्ब्रह्मणोऽल्पतास्यात् 'यत्रान्यत्पश्यति तदल्पम्' इति श्रुतेः किञ्च निरवयवासंगब्रह्मणः सत्यप्रपञ्चसंबन्धायोगात्तवैव सर्वगतत्वश्रुतिविरोध इति भावः अधिष्ठानेनाध्यस्तं जगद्व्याप्तमध्यस्तत्वात् रज्ज्वा व्याप्तसर्पवत्, इति न्यायः ॥३७॥
एवं तत्पदलक्ष्यं संशोध्य वाच्यार्थमाह -
फलमत उपपत्तेः ।
निर्विशेषत्वादन्यः स्वभावः फलहेतुत्वाख्यः इष्टं सुखं देवादीनां, अनिष्टं दुःखं नारकिणां, व्यामिश्रं मनुष्याणां, संसारो जन्ममृतिप्रवाहः गोचरः आश्रयो यस्य तत्संसारगोचरम् ।
अत्र कर्मेश्वरयोः फलहेतुत्वश्रुतेः संशयमाह -
किमिति ।
अत्र पूर्वपक्षे फलदातुरीश्वरस्य तत्पदवाच्यस्यासिद्धेर्लक्ष्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलभेदः । पूर्वोक्तनिर्विशेषत्वमुपजीव्य फलदातृत्वमपीश्वरस्य नास्तीति पूर्वपक्षोत्थानात्संगतिः ।
यद्यपि सर्वगतत्ववत्फलदातृत्वं व्यवहारदशायां सिध्यति यथापि कर्मण एव फलदातृत्वमिति शङ्कानिरासेनोक्तलक्ष्यार्थनिर्वाहकवाच्यार्थनिर्णयार्थमस्याधिकरणस्यारम्भ इति मत्वा सिद्धान्तं तावदाह -
तत्र तावदिति ।
स्वर्गादिकं विशिष्टदेशकालकर्माभिज्ञदातृकं, कर्मफलत्वात्, सेवाफलवदित्युपपत्तिः ।
यागादिक्रियाख्यं कर्म तावत्क्षणिकं तत्किं स्वनाशात्फलं जनयत्युत फलमुत्पाद्य नश्यति, आहोस्विदपूर्वात्फलसिद्धिः, नाद्य इत्याह -
अभावादिति ।
द्वितीयं शङ्कते -
स्यादिति ।
कर्मनाशक्षणमारभ्यामभिव्यक्तस्वर्गसुखादिसत्त्वे मानं नास्तीतिदूषयति -
तदपीत्यादिना ।
तृतीयं शङ्कते -
अथेति ।
अपूर्वं किं स्वतन्त्रमेव फलदानाय प्रवर्तते, चेतनाधिष्ठितं वा, नाद्य इत्याह -
तदपीति ।
द्वितीये त्वदृष्टानभिज्ञजीवस्याधिष्ठातृत्वायोगादीश्वरस्याधिष्ठातृत्वसिद्धिरिति भावः ।
प्रौढवादेनापूर्वं नास्तीत्याह -
तदस्तित्व इति ।
क्षणिकयागादेः श्रुतस्वर्गादिहेतुत्वानुपपत्त्या स्थाय्यपूर्वसिद्धिरिति चेत् । न । कर्मभिराराधितादीश्वरादेव स्थायिनः फलसिद्धेरित्यर्थः । न केवलतर्केणापूर्वं सिध्यतीति भावः ॥३८॥
'कृतात्ययेऽनुशयवान्' इत्यत्रोदाहृताभिः 'य इह रमणीयचरणाः' इत्यादिश्रुतिस्मृतिभिरपूर्वसिद्धिश्चेत्ताभिरीश्वरस्यापि फलदातृत्वं स्वीकार्यमित्याह -
श्रुतत्वाच्चेतिसूत्रकारः ।
अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः, वसुदानो धनदाता, कर्मणोऽपूर्वस्य वा जडत्वेनोपकरणमात्रत्वात्स्वतन्त्र ईश्वर एव फलदातेति सिद्धान्तो दर्शितः ॥३९॥
इदानीं पूर्वपक्षयति -
धर्ममिति ।
विधिश्रुतिर्विध्यर्थः, तस्य लिङर्थस्य प्रेरणात्मनो यागो विषयस्तद्भावावगमाद्यागः स्वर्गसाधनमिति गम्यते । यागस्येष्टसाधनत्वाभावे प्रेरणानुपपत्तेरित्यर्थः ।
अपूर्वद्वारा कर्मणः फलमुपपद्यत इत्युक्त्वा सिद्धान्तं दूषयति -
ईश्वरस्त्विति ।
ईश्वरः किं कर्मानपेक्षः फलं ददाति तत्सापेक्षो वा, आद्य आह -
अविचित्रस्येत्यादिना ।
द्वितीये संवेष्टनसंस्कारमात्रात्कटादौ वेष्टनवत्कर्मापूर्वादेव फलसिद्धेः किमीश्वरेणेति भावः । अत्र वयं वदामः - चन्दनकण्टकादिदृष्टसंपत्त्यैव सुखादिसंभवे कृतं धर्माधर्माभ्यामिति श्रुतिस्मृतिबलात्तदपेक्षायामीश्वरेण किमपराद्धम् । अतः ईश्वरानपेक्षात्केवलात्कर्मणः फलमित्ययुक्तमिति ॥४०॥
सिद्धान्तयति -
पूर्वं त्विति ।
अचेतनस्य कर्मणः स्वतः प्रवृत्त्ययोगात्सेवादिदृष्टान्तानुसारिश्रुतेर्बलीयस्त्वात्सर्ववेदान्तेष्वीरश्वस्य जगद्धेतुत्वश्रुतेश्चेश्वराधिष्ठितात्कर्मणो जगदन्तःपातिफलसिद्धिरिति समुदायार्थः ॥४१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां तृतीयस्याध्यायस्य द्वितीयः पादः ॥
॥ इति तृतीयाध्यायस्य तत्त्वंपदार्थपरिशोधनाख्यो द्वितीयः पादः ॥
तृतीयाऽध्याये तृतीयः पादः ।
मार्तण्डं ध्वान्तनाशाय तिलकस्वामिनं मुदे ।
विघ्नेशं विघ्नविध्वस्त्यै प्रणमामि मुहुर्मुहुः ॥
ब्रह्मस्वरूपं निर्धार्य तज्ज्ञानसाधनोपासनास्वरूपमाह -
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषादिति ।
पादसंगतिमाह -
व्याख्यातमिति ।
पूर्वपादे तत्त्वंपदार्थविवेकः कृतः । इह तत्फलं वाक्यार्थज्ञानमानन्दादयः प्रधानस्येति सूत्रेणापुनरुक्तापेक्षिततत्पदतद्वाच्यार्थोपसंहारेण निर्धार्यत इति फलफलिभावः संगतिः । सगुणवाक्यार्थविद्याचिन्ता तु तद्विद्यानां चित्तैकाग्र्यद्वारा निर्गुणज्ञानसाधनत्वात्क्रियत इति मन्तव्यम् ।
संप्रति निर्गुणज्ञानं भेदाभेदविचारविषयत्वेनोक्तमिति मन्वान आक्षिपति -
नन्विति ।
वेद्यभेदे विद्याभेदचिन्ता स्यात् ब्रह्मणस्तु वेद्यस्यैक्यान्न चिन्तावसर इत्यर्थः ।
ब्रह्मैक्येऽपि धर्मभेदाच्चिन्तेत्यत आह -
एकरूपत्वाच्चेति ।
निर्धर्मत्वादित्यर्थः ।
एकरूपेऽपि ब्रह्मण्यनेकप्रकारसंभवाद्भेदशङ्का इत्यत आह -
न चेत्यादिना ।
पूर्वपक्षे ज्ञानभेदशङ्कानुपपत्तिमुक्त्वा चोदनाद्यभेदाज्ज्ञानाभेद इति सिद्धान्तोऽप्ययुक्त इत्याह -
नाप्यस्येति ।
एवं पादारम्भमाक्षिप्य समाधत्ते -
तदुच्यत इति ।
सगुणविद्यास्वेव भेदाभेदचिन्ता क्रियते निर्गुणविद्यायां त्वैक्यं सिद्धमिति वाच्यार्थरूपगुणोपसंहारमात्रं क्रियते वाक्यार्थनिर्णयायेति भावः । पञ्चाग्निप्राणदहरशाण्डिल्यवैश्वानरादिविद्या मिथोभिन्ना इति 'नानाशब्दादिभेदात्' इत्यत्र वक्ष्यते । अत्र तु मिथोभिन्नास्ताः किं प्रतिशाखं भिद्यान्ते न वेति नामादिभेदाच्चोदनाद्यविशेषाच्च संशयः । पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः सिद्धान्ते त्वभेदादुपसंहार इति फलभेदः । पूर्वतन्त्रे शाखान्तराधिकरणपूर्वपक्षसूत्रं नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यादिति । तत्रोक्ता हेतवो नामादयो विद्याभेदार्थमिहोच्यन्ते 'अथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत' इत्यत्र प्रकृतज्योतिष्टोमानुवादेन सहस्रदक्षिणाख्यगुणविधिमाशङ्क्य ज्योतिरितिपदस्य कर्मान्तरनामत्वसंभवे ज्योतिष्टोमलक्षकत्वायोगादथेति प्रकरणविच्छेदाच्च ज्योतिष्टोमात्कर्मान्तरं विशिष्टदक्षिणाकं विधीयत इति नाम्नः कर्मभेदकत्वमुक्तम् । ज्योतिरादिष्वित्यादिपदेनाध्वर्यवं हौत्रमिति संज्ञाभेदात्कर्मभेदो ग्राह्यः । तप्तं क्षीरं दध्ना कठिनमामिक्षा, तत्र द्रवं जलरूपं वाजिनमिति भेदः,'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इत्यत्र वैश्वदेव्यामिक्षायागे वाजिनाख्यगुणविधिः वाजिभ्य इति विश्वेदेवानुवादादित्याशङ्क्यामिक्षां प्रत्युपसर्जनत्वेनोक्तविश्वेदेवानां वाजिभ्य इत्यनुवादायोगादुत्पत्तिशिष्टामिक्षावरुद्धे कर्मणि वाजिनद्रव्यस्यानाकाङ्क्षितस्य विध्ययोगाद्वाजिदेवताको वाजिनयागः कर्मान्तरमिति द्रव्यदेवताख्यरूपभेदात्कर्मभेदः सिद्धान्तितः । आदिपदात् 'ऐन्द्रं दध्यैन्द्रं पयः' इति द्रव्यभेदाद्यागभेदो ग्राह्यः । एवमिहापि पञ्चाग्निषडग्निरूपभेदाद्विद्याभेदो वाजिच्छन्दोगयोः । तथा रेतोन्यूना वागादयश्छान्दोग्ये तत्सहिता वाजिनामिति प्राणविद्याभेदः, कारीरिवाक्याध्ययने तैत्तिरीयकाणां भूमौ भोजनं धर्मविशेषो नान्येषां, अग्न्यध्ययने केषाञ्चिदुपाध्यायार्थमुदकाहरणं धर्मो नान्येषां, अश्वमेधाध्ययनेऽश्वघासानयनं केषाञ्चिदेव नान्येषां, नच तान्येव कारीर्यादीनि कर्माणि धर्मविशेषमपेक्षन्ते नापेक्षन्ते चेति युक्तं, अतो धर्मविशेषाच्छाखान्तरे कर्मभेदः शङ्कितस्तथात्रापि मुण्डकाध्ययनेन केषाञ्चिदेव शिरस्यङ्गारपात्रधारणरूपं व्रतं नान्येषामिति विद्याभेदः स्यात् पुनरुक्तिरभ्यासः । यथा 'समिधो यजति तनूनपातं यजति' इति यजत्यभ्यासात्प्रयाजानां भेद उक्तस्तथा शाखान्तरेऽभ्यासाद्विद्याभेदः । आदिपदान्निन्दादिग्रहः,'प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्' इत्यनुदितहोमस्य 'यदुदिते सूर्ये प्रातर्जुहुयाद्यथातिथये प्रद्रुताय शून्यायावसाथायाहार्यं हरन्ति तादृगेव तत्' इत्युदितहोमस्य च निन्दाश्रुतेर्भेदः, एकस्यैवोदितेऽनुदिते चानुष्ठानायोगात्, तथोदितानुदितहोमातिक्रमकृतप्रायश्चित्तादप्यग्निहोत्रभेदः शङ्कितः । एते निन्दाप्रयश्चित्ते वेदान्तविद्यासु न विद्येते इति नोदाह्रियेते । यथा सर्वशाखाविहितस्य कर्मणो ज्ञातुं कर्तुं चाऽशक्तेर्भेदस्तथा सर्ववेदान्ताध्ययनज्ञानाद्यशक्तेस्तत्तद्वेदान्तविद्याभेदः स्यात्, तथा शाखानां सर्वासामेकरूपा समाप्तिर्नोच्यते किन्तु कस्याश्चित्क्वचित्कर्मणि समाप्तिरतः समाप्तिवचनभेदात्प्रतिशाखं कर्मभेदः शङ्कितः, तथा कस्यचिद्वेदान्तस्योङ्कारसार्वात्म्ये समाप्तिः कस्यचिदन्यत्रेति विद्याभेदः, अन्यार्थदर्शनमर्थवादस्तद्भेदात्कर्मभेदवद्विद्याभेद इति पूर्वपक्षसूत्रोक्ता हेतवो दर्शितास्ते केचित्सिद्धान्ते पूर्वपक्षे चात्रोपयुञ्जन्त इति । तथा शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानि कर्मभेदकानि, तत्र नामधेयं गुणो रूपमभ्यासश्चेति त्रयं व्याख्यातं, यजेद्दद्याज्जुहुयादिति प्रकृतिशब्दभेदेन धात्वर्थभेदात्तदवच्छिन्नभावनाख्यकर्मभेद उक्तस्तथात्र वेदोपास्त इत्यादिशब्दभेदाद्विद्याभेदः, 'तिस्र आहुतीर्जुहोति' इति संख्यया कर्मभेदवत् 'वायुप्राणौ' इति द्वित्वसंख्यया संवर्गविद्याभेदः स्यात् । नित्याग्निहोत्रप्रकरणात्प्रकरणान्तरे कुण्डपायिनामयने 'मासमग्निहोत्रं जुह्वति' इति श्रुतमग्निहोत्रं प्रकरणान्तरस्थत्वात्कर्मान्तरमिति सिद्धान्तितम् । तथात्र वेदान्तभेदे प्रकरणभेदादुपास्तिभेद इति पूर्वपक्षः ।
सिद्धान्तयति -
एवमिति ।
सर्वैर्वेदान्तैः प्रतीयन्त इति सर्ववेदान्तप्रत्ययानि तैर्विहितानीत्यर्थः ।
उक्तनामादिभिरग्निहोत्रादिकर्मणां प्रतिशाखं भेदे प्राप्ते शाखान्तराधिकरणसिद्धान्तसूत्रं 'एकं वा संयोगरूपचोदनाख्याविशेषात्' इति । तत्र चोदनाविधायकः शब्दश्चोदितः प्रयत्नो वा । तस्या अविशेषमाह -
यथैकस्मिन्निति ।
एकधात्वर्थहोमावच्छिन्नप्रयत्नैक्यादुपास्तियत्नैक्यमित्यर्थः ।
यथा ज्येष्ठत्वादिगुणकप्राणविद्या सर्वशाखास्वेका तथा पञ्चाग्निविद्याप्येका फलसंयोगाद्यविशेषात्, तथान्यापि विद्याऽभिन्नेत्याह -
एवं पञ्चाग्नीति ।
पूर्वपक्षहेतून्निराचष्टे -
ये त्विति ।
काठकमित्यादिनाम्ना कर्मभेदो न युक्तः, कुतः अचोदनाभिधानत्वात्काठकादिशब्दानां ग्रन्थनामतया कर्मवाचित्वाभावादतो भिन्ननामकशाखाग्रन्थभेदेऽपि ताद्विहितं कर्मैकमेव, अल्परूपभेदोऽपि न कर्मैक्यविरोधी, धर्मविशेषस्त्वध्ययनाङ्गं न कर्माङ्गमतो न कर्मभेदकः, शाखाभेदे पुनरुक्तिरसिद्धा, निन्दान्यार्थदर्शनयोरपि न भेदकत्वं तत्तद्विधिस्तुतिमात्रत्वाद्बहुशाखाध्ययनाशक्तावपि स्वशाखानुक्तविशेषस्यापेक्षितस्यान्यतो ग्रहणसंभवादशक्तिरभेदिका, एकस्मिन्नपि कर्मण्यङ्गलोपादिना प्रायश्चित्तं संभवति । एवं समाप्तिवचनभेदोऽप्यप्रयोजक इत्यैवं कर्माभेदप्रमाणप्राबल्ये भेदहेतवः परिहृता इत्यर्थः ॥१॥
तर्हि शाखान्तरन्यायेनैव कर्मैक्यवद्विद्यैक्यसिद्धेः पुनरुक्तिरित्यत आह -
इहापीति ।
रूपस्योत्पत्तिशिष्टत्वं विशेषः ।
पञ्चाग्नीन्वेदेत्याद्युपासनोत्पत्तिविधिस्थपञ्चाग्न्यादिरूपभेदादुपासनाभेदः स्यादामिक्षावाजिनरूपभेदात्कर्मभेदवदित्यधिकाशङ्कानिरासार्थत्वान्न पौनरुक्त्यमस्याधिकरणस्येति मत्वा शङ्कां व्याचष्टे -
स्यादित्यादिना ।
अस्य पृथक्शास्त्रत्वात्कर्मन्यायानां मानसविद्यासु विना सूत्रं दुर्योजत्वाच्च पुनरुक्तिगन्धोऽपि नास्तीति मन्तव्यम् ।
ननु तस्य मृतस्य दाहार्थमग्निरन्त्येष्टिगतः षष्ठो यः प्रसिद्धवद्वाजिभिरुक्तः स छान्दोग्ये उपसंहार्य इति न रूपभेदः, तत्राह -
न चात्रेति ।
अस्तु प्रजननगुणवतो रेतसो वाजिनामावापश्छन्दोगानां च तस्योद्वापस्ततः किमित्यत आह -
आवापेति ।
छान्दोग्ये षष्ठाग्न्यभावमङ्गीकृत्याल्परूपभेदो न विद्यैक्यविरोधीति परिहरति -
नैष इत्यादिना ।
अङ्गीकारं त्यजति -
पठ्यतेऽपीति ।
इतोऽस्माल्लोकादिष्टं लोकान्तरं प्रेतं गतं ज्ञातयोऽग्नये हरन्तीत्यर्थः ।
ननु छान्दोग्येऽग्निमात्रं श्रुतं वाजिभिस्तु समिदादिविशेषः पठ्यते इति रूपभेदस्तदवस्थः, तत्राह -
वाजसनेयिनस्त्विति ।
षष्ठाग्नेस्तद्विशेषस्य चानुवादमात्रत्वेनानुपास्यत्वात्पञ्चाग्नय एवोपास्या उभयत्रेति न रूपभेद इत्यर्थः ।
सविशेषस्य षष्ठाग्नेरूपास्यत्वेऽपि न रूपभेद इत्याह -
अथापीति ।
द्युलोकादीनां पञ्चानामनग्नीनामग्नित्वसंपत्तिविधिनैवार्थात्पञ्चत्वं संपत्तिकल्पिताग्नीनां सिद्धमनूद्यते न ध्येयत्वेन विधीयत इत्यर्थः ।
छन्दोगैर्वाजिशाखास्थं रेत उपसंहर्तव्यमित्युक्त्वाऽनुपसंहारेऽपि न विद्याभेद इत्याह -
न चावापेति ॥२॥
एवं रूपभेदो न विद्याभेदक इत्युक्त्वा धर्मविशेषोऽपि न भेदक इत्याह -
स्वाध्यायस्येति ।
गोदानवदध्ययनाङ्गत्वेन शिरोव्रतमाथर्वणिकानां सूत्रे विहितं न विद्याङ्गमित्यर्थः ।
अधिकाराच्चेति व्याचष्टे -
नैतदिति ।
एतत्प्रकृतं मुण्डकमननुष्ठितशिरोव्रतो नरो नाधीत इति श्रुतेर्मुण्डकाध्ययनाङ्गमेव शिरोव्रतमित्यर्थः ।
ननु विद्याङ्गत्वेनापि इदं व्रतं श्रुतमिति शङ्कते -
नन्विति ।
सर्वशाखासु ब्रह्मविद्यैकैव चेद्विद्यासंयुक्तं व्रतमपि सर्वत्र संबध्येत । नच संबध्यत इति विद्याभेद इत्यर्थः ।
प्रकृतग्रन्थवाच्यैतच्छब्दबलाद्ब्रह्मप्रकाशग्रन्थपरो ब्रह्मविद्याशब्द इति परिहरति -
नेति ।
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शननिर्देशः । सवा होमाः । अथर्वणैः स्वसूत्रे उदित एकोऽग्निरेकर्षिसंज्ञया प्रसिद्धस्तस्मिन्नग्नौ कार्या इति यथा नियम्यन्ते तथेत्यर्थः ॥३॥
किञ्च वेद्यैक्येन निर्गुणब्रह्मविद्यैक्यं तावच्छ्रुतिर्दर्शयति, तत्संनिधिपाठात्सगुणविद्यानामपि सर्वशाखास्वैक्यसिद्धिरित्याह सूत्रकारः -
दर्शयति चेति ।
सगुणमप्येकं वेदत्रये वेद्यं दर्शयतीत्याह -
तथेति ।
किञ्च शाखान्तरोक्तपादार्थस्य शाखान्तरे सिद्धवत्परामर्शो विद्यैक्यं दर्शयतीत्याह -
तथा महद्भयमित्यादिना ।
एष नर एतस्मिन्नद्वयेऽल्पमप्यन्तरं भेदं यदा पश्यत्यथ तदा तस्य संसारभयं भवत्येव, यस्माद्विदुषो नरस्य भेददर्शिनस्तदेव ब्रह्म भयङ्करं भवति, ब्रह्मैवाहमित्यमन्वानस्येत्यर्थः ।
प्रादेशमात्रमुपास्त इति सिद्धवदुपादानं वैश्वानरविद्यैक्यं दर्शयतीत्याह -
तथेति ।
किञ्च सर्वेषु वेदान्तेषूक्थादीनां प्रतीयमानत्वेन हेतुनैतदवगम्यते अन्यत्रोक्तानां तेषामन्यत्रोपास्त्यर्थमुपादानमिति । ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं बाहुल्येन सिध्यतीत्याह -
तथेति ।
ब्रह्मविद्यैक्यवदुक्थादिविद्यैक्यमित्यर्थः ॥४॥
सर्वशाखासु विद्यैक्यचिन्तायाः फलमाह -
उपसंहार इति ।
शाखाभेदे समानविद्यायां श्रुता गुणा यथाश्रुति व्यवस्थिता उत एकत्राश्रुता इतरशाखात उपसंहर्तव्या इति संदेहे विद्यैक्येऽपि तत्र तत्रोक्तैरेव गुणैर्विद्योपकारसिद्धेः शाखाभेदेन गुणा व्यवस्थिता इति पूर्वपक्षः, तत्र प्रकृतविद्यैक्यचिन्तानैष्फल्यमिति फलम् ।
सिद्धान्तत्वेन सूत्रं व्याचष्टे -
स्थिते चेत्यादिना ।
गुणानां गुण्यविनाभावादेतच्छाखास्था विद्या शाखान्तरोक्ततद्विद्यागुणवती, तदभिन्नत्वात्, तद्विद्यावदित्यनुमानद्विद्यैक्ये गुणोपसंहारसिद्धिरित्यर्थः ।
प्रधानैक्ये तत्तदुपकारकाणामङ्गानामुपसंहारे दृष्टान्तमाह -
विधिशेषवदिति ।
उक्तमेव व्यतिरेकमुखेनाह -
यदि हीति ।
नन्वाग्नेययागावरुद्धानां गुणानां ततोऽभिन्ने सौर्ये प्राप्तिवद्विद्यान्तरस्थगुणानां विद्यान्तरे प्राप्तिः किं स्यादित्यत आह -
प्रकृतीति ।
प्रकृतिगुणानां विकारे प्राप्तिर्युक्ता विद्यानां तु प्रकृतिविकृतिभावासिद्धेर्न तत्प्राप्तिरित्यर्थः । नैवमिति गुणानुपसंहारो नेत्यर्थः ।
उत्तरसूत्राणामनेन सूत्रेण पौनरुक्त्यं वारयति -
अस्यैवेति ॥५॥
पूर्वं चोदनाद्यविशेषादुत्सर्गतो विद्यैक्यमुक्तं तस्यापवादं वक्तुमाह -
अन्यथात्वमिति ।
अत्र वाजिनामुद्रीयब्राह्मणं छन्दोगानामुद्गीथाध्यायं च विषयमाह -
वाजेत्यादिना ।
'ते ह देवाः सात्त्विकवृत्तयः प्राणा अन्योन्यमुचूर्हन्तेदानीमस्मिन्यज्ञे उद्गीथेनौद्गात्रेण कर्मणा रजस्तमोवृत्तिरूपानसुरानतीत्य देवत्वं गच्छामः' इति ते चैवं निर्देषमुद्गीथकर्तारमुपास्यं निर्धारयितुं कृतसंवादाः प्रथमं वाच्यं परीक्षितवन्तस्त्वमौद्गात्रं नोऽस्माकं कुर्विति तया त्वनृतं कृतं तथा घ्राणचक्षुःश्रोत्रमनांस्यपि कामेनासुरपाप्मना ग्रस्तानीति निन्दित्वा आसन्यमास्ये भवं मुखमध्यस्थं प्राणमुपास्यं निर्धारितवन्त इत्यर्थः । तत्तत्रान्योन्यभिभवात्मकयुद्धे प्रवृत्ते देवाः पूर्ववदुद्गीथमाहृतवन्तः अनेनोद्गीथेनैनानसुराञ्जयेमेत्यर्थः ।
भेदाभेदमानाभ्यां संशयमाह -
तत्रेति ।
अत्र पूर्वाधिकरणसिद्धान्तन्यायेनोद्गीथविद्येति संज्ञैक्येन विद्यैक्यमिति पूर्वपक्षे मिथो गुणोपसंहारः फलं, सिद्धान्ते संज्ञैक्येऽपि विद्यैक्यापवादादनुपसंहार इति । एवं यत्र पूर्वन्यायेन पूर्वपक्षः तत्रापवादिकी संगतिरिति मन्तव्यम् ।
सूत्रस्थसिद्धान्तिशङ्काभागं व्याचष्टे -
ननु न युक्तमिति ।
संपूर्णोद्गीथकर्मकर्ता प्राणो वाजिनामुपास्यः, उद्गायेति कर्तृशब्दाच्छन्दोगानां तूद्गीथावयव ओङ्कारः प्राणदृष्ट्योपास्यः, ओमित्येतदक्षरमुद्गीथमित्युपक्रम्य प्राणमुद्गीथमिति कर्मरूपत्वशब्दात्, तथाच कर्तृकर्मणोरूपास्ययोर्भेदाद्विद्ययोरन्यथात्वं भेद इति शङ्कार्थः । उद्गीथत्वेनेति ओङ्कारत्वेनेत्यर्थः ।
अल्परूपभेदो न विद्यैक्यविरोधीत्युक्तन्यायेन पूर्वपक्षी परिहरति -
नैष इति ।
असुरात्ययाभिप्रायः असुरजयार्थं संवादः, यथाश्मानं प्राप्य लोष्टो विध्वंसते तथा प्राणं हन्तुमागता असुरास्तस्य वीर्येण स्वयमेव ध्वस्ता इति श्रुतमुभयत्रेत्यर्थः ।
अल्परूपभेदमङ्गीकृत्यापि विद्यैक्यमुक्तं सोऽपि नास्तीत्याह -
वाजेति ।
उद्गीथकर्तृरूपत्वेन प्राणस्योभयत्र श्रुतत्वादेकत्र श्रुतं कर्तृत्वमप्युभयत्र द्रष्टव्यमित्यर्थः ॥६॥
बहुविरुद्धरूपभेदात् न विद्यैक्यमिति सिद्धान्तयति -
न वेति ।
अक्षरं विशिनष्टि -
उद्गीथमिति ।
तदवयवमित्यर्थः ।
पृथिव्यादिरसानां रसतम ओङ्कारः, आप्तिः समृद्धिरिति गुणानुक्त्वा गुणवत्योङ्कारे प्राणदृष्टिविधानायाख्यायिका प्रस्तुतेत्याह -
रसतमेति ।
ननु वाजिवाक्यैकवाक्यत्वार्थं छान्दोग्योपक्रमस्थमुद्गीथपदं संपूर्णसामभक्तिपरमस्तु, प्राणमुद्गीथमित्यत्राप्युद्गीथकर्ता प्राण उपास्य इति व्याख्यायतामित्यत आह -
तत्र यद्युद्गीथेति ।
ओङ्कारोपास्त्युपक्रमभङ्ग उद्गीथपदे कर्तृलक्षणा चेति दोषद्वयं स्यादित्यर्थः ।
ननु सिद्धान्तेऽपि तत्पदेऽवयवलक्षणा स्वीकार्या ततो वरं कर्तृलक्षणा श्रुत्यन्तरानुग्रहात्तथा चोपसंहारे कर्तृप्राणोपास्तिनिश्चयादुपक्रमेऽपि तन्निश्चय इत्यत आह -
उपक्रमेति ।
संदिग्धोपक्रमो हि वाक्यशेषान्निश्चीयते । यथा 'अक्ताः शर्कराः' इत्यत्राञ्जनद्रव्यसंदेहे 'तेजो घृतम्' इति शेषान्निश्चयः । इह तूपक्रमेऽक्षरस्योपास्यत्वं निश्चितं, तत्समानाधिकरणोद्गीथपदस्यावयवलक्षणा च विनिश्चितेति प्राणमुद्गीथमित्युपसंहारस्तदेकार्थतया नेय इत्यर्थः ।
एवं छान्दोग्ये ओङ्कार उपास्य उक्त इतरत्र तु प्राण इत्युपास्यभेदाद्विद्याभेद इत्याह -
वाजेति ।
यदुक्तं वाजिश्रुतावपि प्राणस्योद्गीथरूपत्वश्रुतेरूपास्यैक्यमिति तद्दूषयति -
यदपीत्यादिना ।
तत्रोद्गीथ उपास्यतया नोक्तः किन्तु प्राणस्योपास्यस्य गुणतयेत्यर्थः ।
किञ्चोद्गीथ ओङ्कारश्छान्दोग्येऽत्र तु भक्तिरित्युपास्यभेद इत्याह -
सकलेति ।
प्राणस्य जडत्वान्नोद्गातृत्वं किन्तूद्गीथत्वमेव वाजिभरपि ग्राह्यमित्यैक्यमाशङ्क्याह -
न चेति ।
स उद्गाता वाग्विशिष्टप्राणेनौद्गात्रं कृतवानिति श्रुतेरसंभवोऽपि नेत्यर्थः ।
यदुक्तं बहुतरार्थाविशेषाद्धि विद्यैक्यमिति, तत्राह -
न चेति ।
एकत्रोद्गाता प्राण उपास्योऽन्यत्रोङ्कार इत्यन्तरङ्गोपास्यरूपभेदे स्पष्टे सति बहिरङ्गार्थवादसाम्यमात्रेण नोपासनैक्यं युक्तमित्यर्थः ।
वाक्यसाम्यमात्रेणार्थैक्यं नास्तीत्यत्र दृष्टान्तमाह -
तथा हीति ।
'वि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्' इत्यभ्युदयवाक्यम् । अस्यार्थः - यस्य यजमानस्य चतुर्दश्यामेवामावास्याभ्रान्त्यादर्शकर्मार्थं प्रवृत्तस्य पुरस्तात्पूर्वं हविस्तण्डुलदधिपयोरूपं निरुप्तं दर्शदेवताभ्योऽग्न्यादिभ्यः सङ्कल्पितं चन्द्रमाश्च पश्चादभ्युदेति तमेतं यजमानं कालव्यत्ययापराधात्तदेव निरुप्तं हविः प्रजादिनार्धयति वियोजयति शत्रुं चास्य वर्धयति यस्मात्कालभ्रान्तिमान्यजमानः, ये मध्यमादिभावेन त्रेधा भूतास्तण्डुला दध्यादिसहिता निरुप्तास्तान्विभजेदग्न्यादिभ्यो वियोजयद्वियोज्य च दातृत्वादिगुणकाग्न्यादिभ्यो दर्शदेवभिन्नेभ्यो निर्वपेदिति दधन् दधनि स्थविष्ठतण्डुलचरुं शृते दुग्धेऽणिष्ठचरुमित्यर्थः । अत्र कालापराधे देवान्तरयुक्तं प्रायश्चित्तरूपं दर्शाद्भिन्नं कर्म विधीयत इति प्राप्ते तण्डुलत्रेधात्वाद्यनुवादेन विभजेदिति हविषः प्रकृतदेववियोगेन तस्मिन्नेव दर्शकर्मणि देवतान्तरसंबन्धमात्रविधानं न कर्मान्तरमिति सिद्धान्तितम् । एवमभ्युदयवाक्ये कालापराधेनोपक्रमाद्दर्शकर्मण्येव हविषः पूर्वदेवताभ्योऽपनयो वियोगोऽध्यवसितः, पशुकामवाक्ये तु यद्यपि ये स्थविष्ठास्तानग्नये सनिमतेऽष्टाकपालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुमिति निर्देशोऽभ्युदयवाक्येन समोऽस्ति, तथापि यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यादिति नित्यं दर्शकर्म समाप्य पुनर्दोहार्थं वत्सापाकरणविध्युपक्रमात्पशुकामस्य यागान्तरविधिरेव नाभ्युदयवाक्येनार्थैक्यमिति तथा प्रकृतेऽपि निर्देशसाम्यं न विद्यैक्यप्रयोजकमित्यर्थः । वत्सानपाकुर्यान्मातृदेशाद्देशान्तरं नयेदित्यर्थः ।
सूत्रोक्तं दृष्टान्तं व्याचष्टे -
परोवरीयस्त्वादिवदिति ।
पर इति सकारान्तं परस्मात्परश्चासौ वराच्च वरतर इति परोवरीयानित्येकं पदम् । अनन्तश्च आकाशाख्यः परमात्मा तद्दृष्ट्यालम्बनत्वादुद्गीथस्तथोक्त इत्यर्थः । आकाशात्मना हिरण्यश्मश्रुपुरुषात्मना चोद्गीथोपास्तिसाम्येऽपि विद्याभेदवदिहापि भेद इत्यर्थः ॥७॥
संज्ञैक्यं पूर्वपक्षबीजमुद्भाव्य दूषयति -
संज्ञात इति ।
उपास्यरूपभेदाद्विद्यानानात्वं यदुक्तं तच्छ्रुत्यक्षरानुगतं बलवत्, संज्ञा तु पौरुषेयी दुर्बलेत्यर्थः ।
संज्ञैक्यं कर्मैक्यव्यभिचारि चेत्याह -
अस्ति चेति ।
किं संज्ञैक्यं सर्वत्राप्रमाणमेव नेत्याह -
यत्र त्विति ।
असति बाधके संज्ञैक्यमपि मानं यथा संवर्गविद्येति संज्ञैक्यात्सर्वशाखासु तद्विद्यैक्यं, तथा पञ्चाग्न्यादिविद्यैक्यमित्याद्यसूत्रे दर्शितमित्यर्थः ॥८॥
व्याप्तेश्च समञ्जसम् ।
सामानाधिकरण्यं विषयीकृत्य संशयमाह -
ओमित्येतदिति ।
अध्यासादिपदार्थान्व्याचष्टे -
तत्राध्यास इत्यादिना ।
बुद्धिपूर्वकाभेदारोपोऽध्यासः, बाधोऽपवादः, एकत्वं वास्तवाभेदः, विशेषणं व्यावर्तकमिति विवेकः ।
पूर्वमुद्गातृकर्मात्मकोद्गीथावयवत्वमोङ्कारस्य ध्येयस्य विशेषणं सिद्धवत्कृत्य ध्येयभेदाद्विद्याभेदः सिद्धान्तितः स न युक्त इत्याक्षेपसंगत्या पूर्वपक्षयति -
तत्रेति ।
अत्र पूर्वपक्षे पूर्वोक्तसिद्धान्तासिद्धिः फलं सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तसूत्रं व्याचष्टे -
चशब्द इत्यादिना ।
पक्षत्रयस्य दुष्टत्वं प्रतिज्ञायाध्यासपक्षे दोषमाह -
तत्राध्यास इति ।
यस्योद्गीथस्य बुद्धिरोङ्कारेऽध्यस्यते तद्वाचकोद्गीथशब्दस्योङ्कारे लक्षणा स्यात्तद्बुद्धिविषयत्वगुणपरत्वात्तथा संबन्धोऽप्यसिद्धः कल्पनीयः, प्रतीकोपास्तेः फलं च कल्प्यमिति गौरवं स्यादित्यर्थः ।
फलं न कल्प्यमिति शङ्कते -
श्रूयत इति ।
आप्त्यादीति ।
'ओङ्कार आप्तिः समृद्धिरिति' 'य उपास्ते स कामानाप्नोति' इति श्रुतं फलं नाध्यासस्येत्यर्थः ।
उद्गीथोङ्कारयोरन्यतरबुद्यान्यतरबुद्यपवादमङ्गीकृत्यान्यतरमिथ्याबुद्धिनिवृत्तिवैफल्यमुक्तं संप्रत्यन्यतरबुद्धेरभ्रान्तित्वान्नापवाद इत्याह -
न च कदाचिदपीति ।
भ्रान्तिश्चेत्निवर्तेत न तु निवर्तत इत्यभ्रन्तिरित्यर्थः ।
किञ्च तत्त्वबोधकाद्वाक्याद्भ्रान्त्यपवादो भवति नेदं वाक्यं तत्त्वपरमित्याह -
न चेति ।
घटकुम्भशब्दयोरिवोङ्कारोद्गीथशब्दयोः पर्यायत्वपक्षं दूषयति -
नापीति ।
पर्यायत्वमपि नास्तीत्याह -
न चेति ।
परिशिष्टविशेषणपक्षे सूत्रं योजयति -
व्याप्तेरिति ।
'ओमित्यक्षरमुपासीत' इत्युक्ते सर्ववेदव्याप्योङ्कार इहोपास्तौ प्रसज्येत तन्निरासार्थमुद्गीथावयवत्वं विशेषणं समञ्जसमित्यर्थः । अध्यासपक्षे तद्बुद्धिविषयत्वगुणयोगरूपः संबन्धः कल्प्य इति विप्रकृष्टा लक्षणा, अवयवलक्षणा तु संनिकृष्टा अवयवावयविसंबन्धस्य कॢप्तत्वात्, पटावयवे दग्धे पटो दग्ध इति लोके प्रयोगाच्च । नामादौ ब्रह्मशब्दस्य त्वगत्या ब्रह्मबुद्धिग्राह्यत्वगुणलक्षणाश्रिता तत्र प्रतीकोपास्तेर्विवक्षितत्वात् । इह तु प्रतीकोपास्तिविधिकल्पने आप्त्यादिगुणकोङ्कारे प्राणदृष्टिविधाने च वाक्यभेदः स्यादतः सर्ववेदव्याप्योङ्कारनिरासेनोङ्कारे प्राणदृष्टिविधानार्थं विशेषणमेव समञ्जसं कल्पनालाघवादिति सिद्धम् ॥९॥
सर्वाभेदादन्यत्रेमे ।
विषयं वक्तुं संमतमर्थमाह -
वाजिनामिति ।
वाचो वसिष्ठत्वं गुणो वाग्मिनः सुखवासदर्शनात् । चक्षुषः प्रतिष्ठा गुणः चक्षुष्मतः पादप्रतिष्ठादर्शनात् । श्रोत्रं संपद्गुणकं श्रवणात्सर्वार्थसंपत्तेः । मन आयतनत्वगुणं तस्य वृत्तिद्वारा सर्वभोग्याश्रयत्वात् । ते च गुणाः प्राणस्य श्रैष्ठ्यं निश्चित्य वागादिभिस्तस्मिन्नर्पिता इति शाखाद्वयसंमतोऽर्थः ।
विषयमाह -
अन्येषामित्यादिना ।
निश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारणं प्रस्तूयत इत्यर्थः । देवता वागादयोऽहंश्रेयसे स्वश्रैष्ठ्यायेत्यर्थः ।
एवंशब्दाच्छ्रैष्ठ्यगुणकप्राणप्रत्यभिज्ञानाच्च संशयमाह -
तत्रेति ।
गुणानामनुपसंहारोपसंहारावेव पूर्वोत्तरपक्षयोः फलम् ।
उद्गीथत्वविशेषणादोङ्कारस्य सर्ववेदव्याप्तिव्यावृत्तिवत्प्रकृतगुणमात्रग्राहकैवंशब्दाच्छाखान्तरगुणव्यावृत्तरिति दृष्टान्तेन पूर्वपक्षयति -
तत्र प्राप्तमिति ।
यथा वागादिभ्यः प्राणश्रैष्ठ्यं सिद्धमथो तथा य एवं श्रैष्ठ्यगुणं विद्वानुपास्ते स प्राणे श्रैष्ठ्यं विदित्वा श्रेष्ठो भवतीति श्रुत्यर्थः ।
एवं जातीयकविद्यैक्यात्प्राप्तमार्थिकं वसिष्ठत्वादिगुणजातमेवंशब्दो न गृह्णाति श्रुतावलम्बित्वादिति प्राप्ते सिद्धान्तयति -
अस्येरन्निति ।
वाजसनेयिब्राह्मणे तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणविद्यासंबन्धः सिद्धः सैव विद्या कौषीतकिश्रुतौ प्रत्यभिज्ञायते, तथाच गुणानां गुण्यविनाभावेनार्थतः प्राप्तानामपि श्रुतगुणैरविरोधात्सहैव श्रुतमार्थं च गुणजातं श्रुत्यर्थाभ्यां संनिहितत्वाविशेषात्कौषीतकिगतेनैवंशब्देन परामृश्यत इत्याह -
तथापीति ।
कौषीतकिश्रुतिस्थः प्राणो वसिष्ठत्वादिगुणकः, श्रेष्ठप्राणत्वात्, वाजिश्रुतिस्थप्राणवदित्यश्रुतगुणानुमाने सति श्रुतहानिर्नास्ति, अविरोधादित्युक्तं स्पष्टयति -
न चैवं सतीति ।
अपरिगणिता अपि गुणाः श्रुता एवेत्यत्र दृष्टान्तमाह -
न हीति ।
फलितमाह -
तस्मादिति ॥१०॥
आनन्दादयः प्रधानस्य ।
ब्रह्मणो ज्ञेयस्यैक्यान्निर्विशेषत्वाच्च संशयमाह -
तेषु संशय इति ।
पूर्वपक्षे सत्यादिपदानुपसंहाराद्वाक्यार्थानवधारणं, सिद्धान्ते त्ववधारणमिति फलम् । प्राणस्यसविशेषत्वाद्युक्तः शाखान्तरीयवसिष्ठत्वाद्युपसंहारः, ब्रह्मणस्तु निर्विशेषत्वात्स्वशाखागतपदैरेव प्रमितिसिद्धेर्व्यर्थः पदान्तरोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः ।
सिद्धान्तमाह -
इदमिति ।
आनन्दत्वसत्यत्वज्ञानत्वादिसामान्यानि ब्रह्मणि कल्पिता धर्मास्तेषां सर्वशाखासूपसंहारो नाम तद्वाचकानन्दादिपदानामेकवाक्यतयोच्चारणमानन्दः सत्यं ज्ञानमनन्तं ब्रह्म शुद्धमद्वयमात्मेति । तानि च समानाधिकरणानि पदानि विरुद्धधर्मत्यागेन सर्वाधिष्ठानभूतामेकामखण्डव्यक्तिं लक्षयन्ति । न चैकेनैव पदेन लक्ष्यसिद्धेः पदान्तरं व्यर्थमिति वाच्यं, एकस्मिन्पदे विरोधाभावेन लक्षणानवतारात् । यद्यपि पदद्वयेऽपि लक्षणावतरति तथाप्यानन्दो ब्रह्मेत्युक्ते दुःखत्वाल्पत्वभ्रन्तिनिरासेऽप्यसत्त्वजडत्वादिभ्रमो भवेदतस्तन्निरासार्थं सत्यज्ञानादिपदानि प्रयोक्तव्यानि । न च भ्रमस्यानवधित्वाद्वाक्यमपर्यवसितं स्यादिति वाच्यम् । सच्चिदानन्दात्मकं सर्वधर्मशून्यमद्वयमविकल्पं ब्रह्माहमिति विशेषदर्शने सर्वभ्रमनिरासात् । तच्च विशेषदर्शनं यावद्भिः पदैर्भवति तावन्ति पदान्युपसंहर्तव्यानीति भावः ॥११॥
ब्रह्मैक्याच्चेदानन्दत्वादिधर्माणां सर्वत्र प्राप्तिस्तर्हि सगुणब्रह्मविद्यागतधर्मप्राप्तिरपि स्यादिति शङ्कानिरासार्थं सूत्रं व्याचष्टे -
प्रियेति ।
पुत्रदर्शनसुखं प्रियं तद्वार्तादिना मोदस्तस्य विद्याद्यतिशये प्रमोद इत्येवं तारतम्यवन्तो धर्मास्त्वद्वये ज्ञेये न प्राप्नुवन्ति तेषामब्रह्मस्वरूपाणां ब्रह्मज्ञानानुपयोगादिति भावः ।
तेषां ब्रह्म धर्मत्वं चासिद्धमित्याह -
न चैत इति ।
ब्रह्मणि चित्तावतारोपायत्वेऽपि तेषां प्राप्तिः स्यादित्याशङ्क्याह -
एवमपीति ।
अज्ञेयत्वादेषां न ज्ञेये ब्रह्मणि प्राप्तिरित्यर्थः ।
किमर्थं तर्हि सूत्रमित्यत आह -
ब्रह्मधर्मानिति ।
कृत्वाचिन्ताफलमाह -
स चेति ।
ज्ञेये बाह्यधर्माणामनुपयोगादप्राप्तिरिति न्यायात्संयद्वामत्वादीनामप्राप्तिरिति सूत्रं व्याख्येयमित्यर्थः ।
ज्ञानानुपयोगेऽपि ध्याने तेषां धर्माणामुपयोगादुपास्यब्रह्मैक्यात्प्राप्तिरन्योन्यविद्यासु स्यादित्याशङ्क्याह -
तेषु हीति ।
ध्यानविधिपरतन्त्राणां धर्माणां यथाविधि व्यवस्थेत्यर्थः ॥१२॥
संयद्वामत्वादिधर्मेभ्य आनन्दादीनां वैषम्यं ज्ञानोपयोगित्वादित्याह -
इतरे त्विति ।
सत्यज्ञानानन्दात्मब्रह्मशब्दाः पञ्च सर्वत्रोपसंहर्तव्या इति सिद्धम् ॥१३॥
आध्यानाय वाक्यभेदाभेदानवधारणात्संशयमाह -
तत्रेति ।
पूर्वपक्षे वाक्यभेदाद्विद्याभेदः, सिद्धान्ते वाक्यैक्याद्विद्यैक्यमिति फलम् । पूर्वत्र ब्रह्मस्वभावानामानन्दादीनामुपसंहार्याणां ब्रह्मज्ञानफलोपायत्वमुक्तम्, अत्रत्वब्रह्मस्वभावस्यार्थादिपरत्वस्यानुपसंहार्यस्य तदुपायत्वमुच्यत इत्येकफलकत्वं संगतिः, तत्तत्परत्वविशिष्टत्वेनार्थादीनामपूर्वतया प्रतिपाद्यानां भेदाद्वाक्यभेदो न दोष इति पूर्वपक्षः ।
उत्सूत्रसिद्धान्तं प्रतिज्ञाय सौत्रं हेतुं व्याचष्टे -
पुरुष एवेति ।
फलवत्त्वे सत्यपूर्वत्वात्पुरुषस्यैव प्राधान्येन प्रतिपाद्यत्वमफलार्थादीनां परत्वं तु तच्छेषत्वेनोच्यत इत्यर्थः ।
किञ्च 'पुरुषान्न परं किञ्चित्सा काष्ठा' इति वेदः परनिषेधलिङ्गेन सर्वबाधावधित्वलिङ्गेन च पुरुषे तात्पर्यं दर्शयन्पूर्वस्मात्पूर्वस्मादपरस्यापरस्य परत्वोक्तिस्तदर्थेति दर्शयतीत्याह -
अपि चेति ।
अर्थादीनामत्रोक्तिराध्यानाय तत्तत्परत्वाध्यानपूर्वकं पुरुषदर्शनायैव स्वतः प्रयोजनाभावादिति सूत्रं योजयति -
आध्यानायेति ॥१४॥
आत्मत्वादिलिङ्गैश्च पुरुष एव प्रतिपाद्य इत्याह -
आत्मशब्दाच्चेति ।
किञ्च 'तद्विष्णोः परमं पदं, पुरषान्न परं किञ्चित्' इत्युपक्रमोपसंहारयोरैकरूप्यात्कॢप्तफलवदेकपुरुषपरत्वेनैकवाक्यत्वनिश्चये सति वाक्यभेदफलभेदकल्पना न युक्ता गौरवादित्याह -
अपि चेति ॥१५॥
आत्मगृहीतिः ।
मिषत् चलत् ।
लोकानाह -
अम्भ इति ।
अम्भः स्वर्गः, मरीचयोऽन्तरिक्षलोकः, मरो मर्त्यलोकः, आपः पाताललोक इत्यर्थः ।
आत्मशब्दस्य ब्रह्मणि सूत्रात्मनि च प्रयोगात्संशयमाह -
तत्रेति ।
अत्र पूर्वपक्षे वाक्यस्य सूत्रोपास्तिपरत्वात्परब्रह्मधर्माणामानन्दादीनामैतरेयकेऽनुपसंहारः, सिद्धान्ते ब्रह्मपरत्वादुपसंहार इति फलम् ।
पुरुषवाक्याद्भेदप्रसङ्गादर्थादिवाक्यानां नार्थादिप्रतिपादकत्वमित्युक्तं तद्वदिहापि प्रजापते रेतो देवा इति पूर्वस्मात्प्रजापतिवाक्याद्भेदप्रसङ्गादात्मा वा इत्यादिवाक्यस्य न ब्रह्मपरत्वमिति दृष्टान्तेन पूर्वपक्षयति -
न परमात्मेत्यादिना ।
वाक्यस्य प्रजापतौ तात्पर्यदर्शनादित्यर्थः ।
पूर्वपक्षमाक्षिप्य लोकस्रष्टृत्वलिङ्गान्न प्रजापतौ वाक्यान्वय इत्याह -
नन्वित्यादिना ।
लोका एव महाभूतानीत्यत आह -
लोकाश्चेति ।
लोकशब्दस्य महाभूतेष्वरूढत्वाद्भौतिका एव लोकाः ।
निर्वचनाच्चेत्याह -
तथा चेति ।
अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुतिर्व्याचष्टे - परेण दिवं दिवः परस्ताद्दिवि प्रतिष्ठितश्चन्द्राऽम्भसा व्याप्तो यो लोकः तदम्भः, अन्तरिक्षं मरीचयः, पृथिवी मरः, या अधस्तात्ता आप इति ।
ननु लोकसृष्टिरपीश्वरादेवास्तु नेत्याह -
लोकेति ।
पुरुषविधो नराकारः । आत्मा हिरण्यगर्भः, आपिपीलिकाभ्यः सर्वमसृजतेत्यर्थः । भूतानां लोकानामित्यर्थः ।
प्रकरणादपि लोकस्रष्टा प्रजापतिरित्याह -
ऐतरेयिणोऽपीति ।
रेतः कार्यमिति यावत् ।
ब्रह्मलिङ्गानि प्रजापतौ योजयति -
आत्मशब्दोऽपीत्यादिना ।
किञ्च प्रजाः सृष्ट्वा ताः प्रति भोगार्थं गामानयल्लोकस्रष्टा तथाऽश्वमानयत् । तास्तु गवाश्वप्राप्त्या न तृप्तास्ततः पुरुषशरीरे आनीते ता अब्रुवंस्तृप्ताः स्म इति । अयं च व्यवहारो लोकस्रष्टुः प्रजापतित्वे लिङ्गमित्याह -
अपि चेति ।
आत्मशब्दस्य चिदात्मनि मुख्यत्वान्मुख्यग्रहे बाधकाभावादुत्तरस्येक्षणादेरनुकूलत्वात्परमात्मग्रहणमिति सिद्धान्तयति -
एवं प्राप्त इति ।
महाभूतसृष्टिपूर्वकं लोकानासृजतेति श्रुतिर्व्याख्येयेति भावः ॥१६॥
पूर्वपक्षबीजमनूद्य दूषयति -
अन्वयादिति ।
'आत्मा वा इदमेक एवाग्र आसीत्' इति 'प्रज्ञानं ब्रह्म' इति चोपक्रमोपसंहारस्थात्मब्रह्मश्रुतिभ्यामेकत्वावधाराणात्प्रवेशादिलिङ्गैश्च लोकस्रष्टृत्वादिलिङ्गबाधेन प्रत्यग्ब्रह्म ग्राह्यमिति भावः । स परमेश्वरः । एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया ब्रह्मरन्ध्राख्यया द्वारा लिङ्गविशिष्टः प्रविष्टवानित्यर्थः । मां विना यदि वागादिभिः स्वस्वव्यापारः कृतः, अथ तदाहं क इति त्वंपदार्थं विचार्य स्वयमेतमेव शोधितमात्मानं ब्रह्म ततमं व्याप्ततममपश्यत् । तकारलोपश्छान्दसः । प्रज्ञा चिदात्मा नेत्रं नीयतेऽनेनेति नियामकं यस्य तत्प्रज्ञानेत्रं चिदात्मनियम्यमित्यर्थः ।
उक्तव्याख्याने गुणोपसंहारस्यास्फुटत्वान्न पादसंगतिरिति मत्वैव व्याख्यान्तरमाह -
अपरेति ।
उदर्क उपसंहारः ।
सच्छब्दस्यात्मानात्मसाधारण्यात्संशयमाह -
तत्रेति ।
पूर्वपक्षे सत्तासामान्ये ब्रह्मात्मत्वसंपदुपास्तिश्छान्दोग्ये, वाजश्रुतौ निर्गुणविद्येति भेदान्मिथोगुणानुपसंहारः । सिद्धान्ते तूभयत्र निर्गुणविद्यैक्यादुपसंहार इति फलभेदः । पदानां जातौ शक्तिग्रहात्सच्छब्दोऽपि सत्ताजातिवाचीत्युपक्रमस्य निश्चितार्थत्वादसंजातविरोध्युपक्रमबलेन तादात्म्योपदेशः संपत्तिपरतया नेय इति पूर्वपक्षनिष्कर्षः । पूर्वत्र वाक्यैक्यादर्थादिपरत्वं त्यक्त्वा विद्यैक्यमुक्तमिह तु सदात्मशब्दाभ्यां जात्यात्मवाचिभ्यामुपक्रमभेदाद्वाक्यभेदे सति विद्याभेद इति प्रत्युदाहरणसंगतिः । न चात्मशब्दो जातिवाचकः, आत्मव्यक्त्यैक्याज्जात्यभावात्किन्तु सर्वान्तरवस्तुवाचकः । कल्पितजातिवाचित्वेऽप्युपक्रमभेदः स्फुट एव सत्तात्मत्वयोर्भेदादिति मन्तव्यम् ।
सिद्धान्तयति -
तथेत्यादिना ।
उपक्रमान्वयादिति ।
उपक्रमाधीनत्वादुपसंहारस्येत्यर्थः ।
तच्चावधारणं सत्पदेनात्मगृहीतौ सत्यां युज्यत इत्याह -
तच्चेति ।
सदेकमेवेत्यवधारणं, अनेन जीवेनात्मनेति सद्देवताकर्तृको जीवस्यात्मशब्देन परामर्शः, सुप्तौ जीवः सता संपन्नौ भवतीति कथनम् । भूय एव मा भगवान् विज्ञापयत्विति परिचोदना ।
सदितिपदेन सत्ताश्रया उच्यते न जातिमात्रं, कर्तृवाचिशतृप्रत्ययान्तत्वात् । तथा चोपक्रमे सत्ताश्रयसामान्योक्तौ क आश्रय इत्याकाङ्क्षायां वाक्यशेषादात्मेति निश्चीयत इत्याह -
न चेति ।
सच्छब्दस्यात्मानात्मसाधारण्यमुपेत्योक्तं तदपि नास्ति आत्मपदवत्सत्पदस्य व्यक्तिवाचित्वाद्व्यक्तिश्च बाधायोग्या चिदात्मैवेति न वाचिछन्दोगयोरूपक्रमवैषम्यमित्याह -
सच्छब्देति ।
वैषम्यमुपेत्याप्याह -
आम्नानेति ।
वाजिवाक्ये त्वमर्थस्य तदर्थपर्यन्तस्य लक्ष्यस्य प्रतिपादनं छान्दोग्यवाक्ये तु तदर्थस्य त्वमर्थपर्यन्तस्य प्रतिपादनमिति प्रकारभेदेऽपि वाक्यार्थैक्याद्विद्यैक्यमिति फलितमाह -
तस्मादिति ॥१७॥
कार्याख्यानादपूर्वम् ।
'मे किमन्नं किं वासः' इति प्राणेन पृष्टा वागादयः ऊचुः, 'यदिदं किं चाश्वभ्य आ कृमिभ्यस्तत्तेऽन्नमापो वासः' इति सर्वप्राणिभिर्भुज्यमानं यदिदं प्रसिद्धं श्वादिपर्यन्तमन्नं तत्प्राणस्य तवान्नमाप आच्छादनमित्युपासकेन चिन्तनीयमित्यर्थः ।
शाखाद्वयेऽप्यविशेषश्रुतिमुक्त्वा विशेशषश्रुतिभेदमाह -
अनन्तरं चेति ।
तस्मादपां प्राणवस्त्रत्वादशिशष्यन्तोऽशनं कुर्वन्तः श्रोत्रिया एतत्कुर्वन्ति । किं तत्, भोजनात्पूर्वमूर्ध्वं चाचामन्तीति यत्तदद्भिः प्राणं परिदधत्याच्छादयन्तीत्यर्थः । पूर्वोत्तराचमनसंबन्धिनीष्वप्सु प्राणवासस्त्वचिन्तनरूपमनग्नताध्यानं कार्यमिति भावः । तत्तस्मादित्युक्तार्थं यतः पूर्वे विद्वांसोऽशनात्प्रागूर्ध्वं चाचामन्त एतमेवान्नं प्राणं तत्तेनाचमनेनानग्नमाच्छादितं कुर्वन्तो मन्यन्ते चिन्तयन्ति, तस्मादेवंविदिदानीन्तनोऽप्युपासक एवं कुर्यादिति वाजिश्रुत्यर्थः ।
अत्रोभयोरप्यपूर्वत्वात्संशयमाह -
तत्किमिति ।
संदिग्धसदुपक्रमस्य वाक्यशेषान्निर्णयवदाचामन्तीति पदस्य विधित्वसंदेहे आचामेदिति वाक्यशेषाद्विधित्वनिर्णय इति दृष्टान्तसंगत्या पूर्वपक्षमाह -
किं तावदिति ।
ज्ञानसाधनोपासनाङ्गविधिविचारात्पादसङ्गतिर्बोध्या । पूर्वपक्षे प्राणविद्याङ्गत्वेनापूर्वाचमनं विहितमन्यत्रोपसंहर्तव्यमिति फलं सिद्धान्ते तस्याविधेयत्वान्नाङ्गत्वेनोपसंहार इति विवेकः ।
उभयविधाने वाक्यभेदः स्यादित्यरुच्यापक्षान्तरमाह -
अथवेति ।
प्रशस्तं हीदमाचमनं यस्मादनेन प्राणमनग्नं मन्यन्त इति स्तुतिः ।
प्रसिद्धानुवादेनाप्रसिद्धं विधेयमिति न्यायेन सिद्धान्तयति -
एवमिति ।
प्रयतस्य प्रयत्नवतो भावः प्रायत्यंशुद्धिस्तदर्थमित्यर्थः । स्मृत्या शुद्यर्थं कार्यत्वेन विहितसकलकर्माङ्गतया प्राप्ताचमनानुवादेनापूर्वमनग्नताध्यानमेव विधीयत इति सूत्रार्थः ।
स्मार्तमाचमनं श्रुत्या नानूद्यते किं त्वनया श्रुत्या विहितं स्मृत्यानूद्यत इति शङ्कते -
नन्विति ।
श्रुतिस्मृत्योरनयोर्न मूलमूलिभावो भिन्नविषयत्वादिति परिहरति -
नेति ।
'द्विजो नित्यमुपस्पृशेत्' इत्याद्या स्मृतिः ।
आचमनान्तरविधिमुपेत्य मूलमूलित्वं निरस्तं, संप्रति विधिरसिद्ध इत्याह -
न चेयं श्रुतिरिति ।
अत एवेति आचमनविध्यभावादेवेत्यर्थः ।
अप्सु प्राणवासस्त्वध्यानाख्यः संकल्पः प्राणविद्याङ्गत्वेन विधीयत इत्याह -
तस्मादिति ।
स्वयं चेति अपूर्वत्वादित्यर्थः ।
शुद्यर्थं विनियुक्तस्याचमनस्य प्राणाच्छादनार्थत्वं विरुद्धमित्याशङ्क्याह -
न चैवं सतीति ।
आचमनस्याच्छादनार्थत्वमसिद्धमित्यर्थः ।
किञ्च यथा पूर्ववाक्ये प्राणस्यान्नध्यानमङ्गं विहितं तथात्राप्सु वासोध्यानं विधीयते अन्यथाचमनविधौ पूर्वत्र ध्यानविधिरुत्तरत्र क्रियाविधिरित्यर्धवैशसं स्यादित्याह -
अपि चेति ।
भक्षयेदिति शब्दाभावाच्छ्वाद्यन्नस्य सर्वस्य मनुष्वेणोपासकेन भोक्तुमशक्यत्वाच्च न पूर्ववाक्ये क्रियाविधिरित्यर्थः ।
इतश्चाचमनमत्र न विधेयमित्याह -
अपि चेति ।
अनग्नं मन्यन्त इत्यत्र वासस्त्वध्यानमपि न विधेयं दोषसाम्यदिति शङ्कते -
नन्विति ।
उभयोरप्यनुवादत्वे वैफल्यादवश्यमेकानुवादेनैकं विधेयं तच्च विधेयं वासोध्यानमेव वासः कार्यस्यानग्नत्वस्याख्यानादपूर्वत्वाच्चेति समाधानार्थः । पूर्ववदिति स्मृत्या प्राप्तमित्यर्थः ।
आचामेदिति न विधिः किन्तु विष्णुरूपांशु यष्टव्य इतिवदनुवाद इत्यत्र लिङ्गमाह -
अत एवेति ।
तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदिति वाक्यस्याविधित्वे काण्वैरपठनं लिङ्गमित्यर्थः ।
तर्हि पाठबलान्माध्यन्दिने आचमनविधिः काण्वे ध्यानविधिरिति कस्यचिन्मतं निराकरोति -
योऽपीति ॥१८॥
समान एवञ्चाभेदात् ।
शाण्डिल्येन दृष्टा तन्नाऽम्नाङ्किता, अन्तर्हृदये व्रीह्यादिवत्सूक्ष्मस्तिष्ठतीत्यर्थः ।
अभ्यासप्रत्यभिज्ञाभ्यां संशयमाह -
तत्रेति ।
गुणानुपसंहारोपसंहारौ पूर्वोत्तरपक्षयोः फलम् ।
पूर्वत्र प्राप्ताचमनानुवादेनानग्नताध्यानविधिरुक्तः । इह त्वेकशाखायां विप्रकृष्टदेशस्थवाक्ययोरेकस्य विधित्वमन्यस्यानुवादत्वमित्यनिश्चयाद्द्वयोरपि विद्याविधित्वमिति प्रत्युदाहरणेन पूर्वपक्षयति -
किं तावदिति ।
यत्पुनरुक्तं, तद्विद्यान्तरमिति न व्याप्तिः प्राणपञ्चाग्न्यादिविद्यासु व्यभिचारादित्याशङ्क्य शाखाभेदे पुनरुक्तिरसिद्धेत्युक्तमित्याह -
भिन्नास्विति ।
यथाऽग्निहोत्रवाक्ये कर्मविधिः, 'दध्ना जुहोति' इति वाक्ये गुणविधिस्तथात्राप्यस्तु न विद्याभेद इत्याशङ्क्याह -
न चात्रैकमिति ।
उक्तगुणानां पुनरुक्तिर्वृथास्यादतोऽभ्यासाद्विद्याभेदः प्रयाजभेदवदिति भावः ।
उक्तगुणोक्तिर्न वृथा कतिपयगुणविशिष्टोपास्याभेदप्रत्यभिज्ञानार्थत्वादत उपास्यरूपाभेदाद्भिन्नशाखास्विव समानशाखायामपि विद्यैक्यमिति सिद्धान्तसूत्रं योजयति -
यथेति ।
सौत्रश्चकारोऽप्यर्थो व्याख्यातः । यत्र बहवो गुणाः श्रुतास्तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति निश्चयादग्निरहस्ये प्रधानविधिवदुत्तरत्र गुणविधिरिति भावः ॥१९॥
संबन्धादेवमन्यत्रापि ।
सद्भूतत्रयं त्यद्वाय्वाकाशात्मकं, सत्यं परोक्षभूतात्मकं हिरण्यगर्भाख्यं ब्रह्मोपक्रम्य, तदुक्तं यत्सत्यं तत्स योऽसावादित्यः किं मण्डलं न तत्र स्थाने पुरुषः करणात्मकः स एवाध्यात्ममक्षिस्थानस्थ इत्युपदिश्य 'तस्य भूरिति शिरो भुव इति बाहुः स्वरिति पादौ' इति व्याहृतिरूपं शरीरमुक्त्वा द्वे उपनिषदौ रहस्यदेवतानामनी उपदिश्येते तस्यादित्यमण्डलस्थस्याहरिति नाम प्रकाशकत्वात्तस्याक्षिस्थस्याहमिति नाम प्रत्यक्त्वादिति ।
इदं नामद्वयं विषयस्तत्र नामिनः सत्याख्यस्य ब्रह्मण एकत्वात्स्थानभेदोक्तेश्च संशयमाह -
तत्रेति ।
पूर्वपक्षे प्रतिस्थानं नामद्वयानुष्ठानं सिद्धान्ते यथाश्रुत्यैकैकनामानुष्ठानमिति फलम् ।
दृष्टान्तसंगत्या पूर्वपक्षसूत्रं व्याचष्टे -
यथेति ।
यथा विद्यैक्यादुपसंहार उक्त एवमन्यत्राप्येकाविद्यायामुपसंहारो भवितुमर्हतीत्यर्थः । सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावक्ष्यादित्यपुरुषावन्योन्यस्मिन्प्रतिष्ठितौ, आदित्यरश्मीनां चक्षुषि चक्षुषश्चादित्ये प्रतिष्ठानादिति व्यतिषक्तपाठो मिथः संश्लेषपाठस्ताभ्यां विद्यैक्यसिद्धिः ।
विद्यैक्येऽपि किं स्यात्तत्राह -
कथमिति ।
विद्यैक्येऽपि स्थानभेदादुपनिषदोरसंकरः स्यादित्याशङ्कां दृष्टान्तेन परिहरति -
यो हीति ॥२०॥
नाम्यैक्यात् नामसंकरो युक्तः, तथा चाक्षिस्थोऽहरिति नामवान् सत्यब्रह्मत्वादादित्यस्थवदिति प्राप्ते सिद्धान्तसूत्रं योजयति -
न वेति ।
नाम्नोरूपासनस्थानविशिष्टसंबन्धित्वादित्यर्थः । तस्योपनिषदहरहमिति च वाक्यद्वयेन तच्छब्दपरामृष्टयोः संनिहितस्थानविशिष्टयोः पुरुषयोर्नामसंबन्धपरेणोपसंहारानुमानं बाध्यमिति भावः ।
विशेष्यैक्यान्नामसंकर इत्याशङ्क्य स्थानभेदेन विशिष्टपुरुषभेदान्नामव्यवस्थामाह -
नन्वित्यादिना ।
विशिष्टसंबन्धे दृष्टान्तमाह -
अस्तीति ।
प्रतिदृष्टान्तस्य स्वरूपसंबन्धित्वाद्विशिष्टे ध्येये प्रकृते दृष्टान्तत्वे नास्तीत्याह -
ग्रामेति ॥२१॥
उक्तनामव्यवस्थायामतिदेशो लिङ्गमित्याह -
दर्शयति चेति ।
विद्यैक्यादेवोपसंहारसिद्धावतिदेशो वृथा स्यात्तस्मादेकविद्यायामपि स्थानभेदेनोक्तगुणानां विनातिदेशमनुपसंहार इति सिद्धम् ॥२२॥
संभृतिद्युव्याप्त्यपि चातः ।
ब्रह्मैव ज्येष्ठं कारणं येषां तानि ब्रह्मज्येष्ठानि, निलोपश्छान्दसः, वीर्याणि पराक्रमविशेषा आकाशोत्पादनादयः, तानि च वीर्याणि संभृतानि निर्विघ्नं समृद्धानि, सर्वनियन्तुः कार्ये विघ्नकर्तुरसत्त्वात् । तच्च ज्येष्ठं ब्रह्माग्ने देवाद्युत्पत्तेः प्रागेव दिवं स्वर्गमाततान व्याप्तवत्सदा सर्वव्यापकमित्यर्थः । सर्वप्राथम्यं स्पर्धानर्हत्वमिति वाक्यशेषस्था गुणाः प्रभृतिपदग्राह्याः । खिलेष्विति विधिनिषेधशून्यवाक्येष्वित्यर्थः ।
ब्रह्मसंबन्धाद्विद्याभेदभानाच्च संशयमाह -
तास्विति ।
अनारभ्याधीतब्रह्मविभूतीनां ब्रह्मसंबन्धेन सर्वब्रह्मविद्यासु प्रत्यभिज्ञानादुपसंहार इति पूर्वपक्षः ।
सिद्धान्तमाह -
संभृतीति ।
संभृतिश्च द्युव्याप्तिश्च संभृतिद्युव्याप्ति तदपि सर्वत्र नोपसंहर्तव्यमुपनिषदोरिव व्यवस्थापकविशेषयोगादिति सूत्रयोजना ।
आध्यात्मिकायतनविशेषयुक्तासु विद्यास्वाधिदैविकविभूतीनां प्रत्यभिज्ञाने हेत्वभावान्न प्राप्तिरित्युक्ते हेतुं शङ्कते -
नन्वेतास्विति ।
आधिदैविकत्वसाम्यादाध्यात्मिकायतनहीनत्वसाम्याद्वा तत्तद्विद्यासु संभृत्यादीनां प्राप्तिरिति शङ्कार्थः ।
उक्तहेतुद्वयं न गुणप्रापकमाधिदैविकविद्यानां शाण्डिल्यदहरादीनामायतनहीनविद्यायां च मिथोगुणसांकर्यप्रसङ्गात्, तस्मात्कतिपयसमानगुणविशिष्टोपास्यरूपैक्यं विद्यैक्यमावहद्गुणप्राप्तिहेतुस्तदभावान्न प्राप्तिरिति परिहरति -
सत्यमित्यादिना ।
स्थानविशिष्टभेदान्नाम्नोर्व्यवस्थावत्संभृत्यादिगुणविशिष्टस्य ब्रह्मणः शाण्डिल्यादिविद्योक्तगुणविशिष्टब्रह्मणश्च मिथो भेदेन रूपभेदात्संभृत्यादीनां नोपसंहार इत्युक्तन्यायातिदेशत्वादस्य न संगत्याद्यपेक्षा यथैकस्मिन्नुद्गीथे परोवरीयस्त्वादिगुणोपास्तेर्हिरण्यश्मश्रुत्वाद्युपास्तिर्भिद्यते तथैकस्मिन्नपि ब्रह्मणि विद्याभेदोपपत्तेः ब्रह्मप्रत्यभिज्ञा न गुणप्रापिकेत्याह -
परोवरीयस्त्वादिवदिति ।
तस्मात्संभृत्यादिगुणविशिष्टविद्यान्तरविधिरिति सिद्धम् ॥२३॥
पुरुषविद्यायां छान्दोग्यस्थां विद्यामाह -
अस्तीति ।
'पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशति वर्षाणि तत्प्रातः सवनमथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनमथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनम्' इति प्रसिद्धयज्ञसाम्यार्थं सवनत्रयं कल्पितं, 'स यदशिशिषति यत्पिपासति यन्न रमते ता दीक्षा अथ यदश्नाति यत्पिबति यद्रमते ता उपसदः अथ यद्धसति यज्जक्षति यन्मैथुनं चरति तानि स्तुतशस्त्राणि अथ यत्तपोदानादि सा दक्षिणा मरणमेवावभृथः वस्वादिरूपा मे प्राणा इदं सवनत्रयं यावदायुरनुसंतनुते' इत्याशीः 'अक्षितमस्यच्युतमसि प्राणं संशितमसि' इति मन्त्रत्रयप्रयोगः । षोडशाधिकशतवर्षजीवित्वं फलमिति दर्शितम् ।
संशयार्थं शाखान्तरीयपुरुषविद्यामाह -
तैत्तिरीयका इति ।
अत्र विदुषो यज्ञस्येति षष्ठ्योःसामानाधिकरण्यवैयधिकरण्यानिश्चयात्संशयमाह -
तत्रेति ।
उपसंहारानुपसंहारावेव फलम् ।
पूर्वत्रासाधारणगुणप्रत्यभिज्ञानाभावात्संभृत्यादौ विद्याभेद उक्तः । इह त्वसाधारणमरणावभृथगुणविशिष्टपुरुषयज्ञरूपैक्यप्रत्यभिधानाद्विद्यैक्यमिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तयति -
नोपसंहर्तव्या इति ।
'तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा' इति बहुतरधर्मवैलक्षण्यान्न रूपैक्यप्रत्यभिज्ञेत्यर्थः । वेदः कुशमुष्टिः शमयिता दमो दक्षिणेत्यन्वयः ।
किञ्च छान्दोग्ये त्रिधाविभक्तायुषि सवनत्वकल्पना, अत्र तु सायङ्कालादाविति वैरूप्यमाह -
यदपीति ।
यन्मरणं तदवभृथो यद्रमते तदुपसद इति तित्तिरिश्रुतौ सारूप्यमपि भातीत्यत आह -
यदपि किञ्चिदिति ।
गजोष्ट्रयोश्चतुष्पात्त्वसारूप्यवदिदं सारूप्यं नैक्यप्रयोजकमित्यर्थः ।
किञ्च छान्दोग्ये पुरुषयज्ञयोरैक्यं श्रुतमत्र तु भेद इति वैरूप्यान्तरमाह -
न चेति ।
यद्यपि निषादस्थपतिन्यायेन सामानाधिकरण्यं षष्ठ्योर्युक्तं तथाप्यप्रसिद्धैक्यकल्पनागौरवाद्यज्ञस्यात्मेति भेदोक्तेरेकस्यैव यज्ञत्वयजमानत्वविरोधादात्मविदो यो यज्ञः प्रसिद्धस्तस्येति वैयधिकरण्यमेव युक्तम् । किञ्च विद्वत्संबन्धियज्ञरूपविशेष्यानुवादेन विद्वदङ्गैरङ्गसंपद्विधावेकवाक्यता प्रतीयते तस्यां सत्यां विशेष्यस्याङ्गानां च पृथग्विधिवादिनस्तव वाक्यभेददोषः स्यादित्यर्थः ।
किञ्च सत्यादिभ्यो न्यास एवापरे च यदिति संन्यासमुक्त्वा सर्वैः सर्वमिदं जगदित्येवं तमात्मानं ज्ञात्वा भूयो न मृत्युमुपयाति विद्वानिति संन्याससाध्यात्मविद्यां पुरस्तात्प्राजापत्यानुवाके उपदिश्यानन्तरानुवाके तस्यैवं विदुष इत्युक्तात्मविद्यानुवादेन प्रशंसार्थत्वेन, तच्छेषतयायज्ञसंपत्तिः क्रियते फलैक्यश्रुतेः, छन्दोगानां तु स्वतन्त्रविद्याविधिरित्याह -
अपि च ससंन्यासामिति ।
चिन्ताफलमाह -
तस्मादिति ॥२४॥
वेधाद्यर्थभेदात् ।
देवतामभिचारकर्ता प्रार्थयते -
सर्वमिति ।
हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय विशेषतश्च हृदयं भिन्धि धमनीः शिराः प्रवृञ्जय त्रोटय शिरश्चाभितो नाशय, एवं त्रिधा विपृक्तो विश्लिष्टो भवतु मे शत्रुरित्यर्थः । हे देव सवितः, यज्ञं तत्पतिं च प्रसुव निर्वर्तयेत्यर्थः । उच्चैः श्रवाः श्वेतोऽश्वो यस्येन्द्रस्य स त्वं हरितमणिवन्नीलोऽसीत्यर्थः । नोऽस्माकं शं सुखकरो भवत्वित्यर्थः । अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म तस्माद्य एतदहः साध्यं कर्मोपयन्त्यनुतिष्ठिन्ति ते ब्रह्मणैव साधनेन ब्रह्मोपयन्ति ते च क्रमेणामृतत्वमाप्नुवन्तीति योजना ।
मन्त्रादिषु तत्तदुपनिषद्विद्याशेषत्वे प्रमाणभावाभ्यां संशयमाह -
किमिति ।
फलं पूर्ववत् ।
ननु तेषां शेषत्वे मानाभावान्नोपसंहार इति शङ्कते -
नन्वेषामिति ।
मन्त्रादयस्तत्तद्विद्याशेषाः फलवद्विद्यासंनिहितत्वात्तैत्तिरीयकगतपुरुषयज्ञवदिति समाधत्ते -
बाढमिति ।
तथा च दृष्टान्तसंगतिः ।
सिद्धान्तिपक्षे संनिधिवैयर्थ्यं बाधकमाह -
न हीति ।
अफलमन्त्रादीनां फलवच्छेषत्वबोधनं संनिधेरर्थवत्त्वं तत्संभवे सत्यकस्मादर्थशून्यत्वेनासौ संनिधिराश्रयितुं नहि युक्त इत्यर्थः । नञ्पाठेत्वकस्माद्धेतुं विनाऽसावर्थो नाश्रयितुं नहि युक्त इत्यर्थः ।
ननु मन्त्राणां विद्यासमवेतार्थप्रकाशनसामर्थ्याभावान्न विद्याशेषत्वमिति शङ्कते -
नन्विति ।
पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तीति वाक्येन प्रवर्ग्यस्य क्रतुशेषत्वं श्रुतं, अग्निष्टोमादेश्च तत्तद्वाक्येन स्वर्गाद्यर्थत्वमतो न विद्यार्थत्वमित्याह -
कथं चेति ।
मन्त्राणां विद्यासमवेतहृदयनाड्यादिप्रकाशकत्वमस्तीत्याह -
नैष इति ।
उपास्तिषु मन्त्रप्रयोगः क्वापि न दृष्ट इत्यत आह -
दृष्टश्चेति ।
पुत्रस्य दीर्घायुष्यार्थं छान्दोग्ये त्रैलोक्यस्य कोशत्वेनोपास्तिरुक्ता तत्र पितुरयं प्रार्थनामन्त्रः । तत्रामुनेति पुत्रस्य त्रिर्णाम गृह्णाति अमुना पुत्रेण सह भूरितीमं लोकममुं च प्रपद्ये न मे पुत्रवियोगः स्यादित्यर्थः ।
तत्तद्वाक्येनान्यत्र विनियुक्तानामपि कर्मणां संनिधिना विद्यासु विनियोगो न विरुध्यत इत्यत्र दृष्टान्तमाह -
वाजपेय इति ।
'ब्रह्मवर्चसकामो बृहस्पतिसवेन यजेत' इति वाक्येन ब्रह्मवर्चसफले विनियुक्तस्यापि बृहस्पतिसवस्य 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत' इति वाजपेयप्रकरणप्रकरणस्थ वाक्येन वाजपेयोत्तराङ्गतया विनियोगवदविरोध इत्यर्थः । यद्यप्येकेन वाक्येन प्रकरणान्तरस्थबृहस्पतिसवस्य प्रत्यभिज्ञानमङ्गत्वविधानं च कर्तुमयुक्तं वाक्यभेदप्रसङ्गादतो मासाग्निहोत्रवत्कर्मान्तरमेव बृहस्पतिसवाख्यमङ्गतया विधीयत इति न विनियुक्तस्य विनियोग इति भट्टगुरुतन्त्रद्वयसिद्धं, तथापि यथा नित्याग्निहोत्रस्याश्वमेधप्रकरणे वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोतीति नाम्ना प्रत्यभिज्ञा, यथावा दर्शपूर्णमासविकृतीष्टावाज्यभागौ यजतीत्येकस्मिन्वाक्ये प्रकृतिस्थाज्यभागयोः पदेन प्रत्यभिज्ञानं वाक्येन विधानं तथात्रापि बृहस्पतिसवपदेन प्रत्यभिज्ञानं वाक्येनाङ्गताविधानं किं न स्यात् । न च साध्यभावार्थविधायकाख्यातपरतन्त्रं नामपदं न सिद्धकर्मप्रत्यभिज्ञाक्षममिति वाच्यं, सिद्धस्याप्यङ्गतया पुनः साध्यत्वसंभवेऽन्यथासिद्धाख्यातस्यैव प्रसिद्धार्थकनामपारतन्त्र्योपपत्तेः । न चैवं सति कुण्डपायिसत्रेऽप्यङ्गत्वेन नित्याग्निहोत्रस्यैव विधिः स्यादिति वाच्यं, इष्टत्वात् । न च पूर्वतन्त्रविरोधः उत्तरतन्त्रस्य बलीयस्त्वात् । पूर्वतन्त्रस्य स्वतन्त्रपरतन्त्रभावनाभेदे तात्पर्याच्च । तस्मादेकस्यैव बृहस्पतिनामकस्य धात्वर्थस्य ब्रह्मवर्चसे विनियुक्तस्यापि वाजपेयाङ्गतया विनियोग इति भगवत्पादतात्पर्यम् ।
अस्ति च विनियुक्तस्य विनियोगे सर्वसंमतमुदाहरणं खादिरत्वादिकं तस्य क्रतौ विनियुक्तस्य वीर्यादिफलेऽपि विनियोगात् । तथा मन्त्रकर्मणामन्यत्र विनियुक्तानां विद्याशेषत्वमिति प्राप्ते सिद्धान्तयति -
नैषामित्यादिना ।
विद्यासु हृदयादिसंबन्धेऽपि वेधाद्यर्थानामसंबन्धात्कृत्स्नमन्त्रार्थानामभिचारादिसंबन्धलिङ्गेन संनिधेर्बलीयसाभिचारादावेव मन्त्राणां विनियोग इत्यर्थः ।
'देव सवितः प्रसुव' इति प्रदक्षिणतोऽग्निं पर्युक्षेदिति वाक्यादग्निपर्युक्षणे 'सावित्रं जुहोति कर्मणः पुरस्तात्सवने सवने जुहोति' इति वाक्याद्वाजपेये कर्मविशेषे संबन्धोऽस्य मन्त्रस्येत्याह -
तद्विशेषेति ।
उक्तन्यायं श्वेताश्व इत्यादिष्वतिदिशति -
एवमन्येषामिति ।
प्रमाणान्तरं प्रकरणादिकम् ।
ननु लिङ्गादिभिरन्यत्र विनियुक्तानामपि संनिधिना विद्यास्वपि विनियोगोऽस्त्वविरोधादित्युक्तं, तत्राह -
दुर्बलो हीति ।
समवाये समानविषयत्वेन द्वयोर्विरोधे, परस्य दौर्बल्यं, कुतः अर्थविप्रकर्षात्, स्वार्थबोधने परस्य पूर्वव्यवधानेन प्रवृत्तेरित्यर्थः । अयमाशयः- एकत्र विनियुक्तस्य निराकाङ्क्षत्वादन्यत्र विनियोगो विरुद्ध एव परन्तु विनियोजकप्रमाणयोः समबलत्वेऽन्यतरविनियोगत्यागायोगादगत्याकाङ्क्षोत्पादनेन विनियुक्तविनियोगः स्वीक्रियते 'यथा खादिरो यूपो भवति' 'खादिरं वीर्यकामस्य यूपं कुर्यात्' इति वाक्याभ्यां क्रतौ विनियुक्तस्य खादिरत्वस्य वीर्यफले विनियोगः । यत्र तु प्रमाणयोरतुल्यत्वं तत्र न स्वीक्रियते प्रबलप्रमाणेन दुर्बलविनियोगबाधात् । यथा 'कदाचन स्तरीरसि' इत्यस्या ऋच ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति तृतीयाविभक्तिश्रुत्यान्यनिरपेक्षतया गार्हपत्योपस्थानशेषत्वबोधिकयेन्द्रप्रकाशनसामार्थ्यरूपलिङ्गप्राप्तमिन्द्रशेषत्वं बाध्यते । लिङ्गं हि न साक्षाच्छेषत्वं बोधयति किन्त्विन्द्रप्रकाशनमात्रं करोति, तेन च लिङ्गेनानेन मन्त्रेण इन्द्र उपस्थापयितव्य इति श्रुतिः कल्पनीया, तया शेषत्वबोध इति श्रुतिव्यवधानेन शेषत्वबोधकं लिङ्गं झटिति स्वार्थबोधकश्रुत्या बाध्यम् । तथा लिङ्गेन वाक्यं बाध्यं यथा 'स्योऽनं ते सदनं करोमि घृतस्य धारया सुवेशं कल्पयामि', 'तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः' इति मन्त्राभागयोः प्रत्येकं सदनकरणे पुरोडाशासादने च तत्प्रकाशनसामर्थ्यलिङ्गेन श्रुतिद्वारा विनियोगे सति प्रतीतमेकवाक्यत्वं बाध्यते, तस्य कृत्स्नेऽपि मन्त्रे सदनकरणप्रकाशनसामर्थ्यं पुरोडाशासादनप्रकाशनसामर्थ्यं च लिङ्गं कल्पयित्वा श्रुतिकल्पनयोभयत्र कृत्स्नमन्त्रविनियोगबोधने द्वाभ्यां लिङ्गश्रुतिभ्यां व्यवधानेन श्रुत्येकव्यवहितकॢप्तलिङ्गाद्दुर्बलत्वात् । न च सामर्थ्यं न कल्प्यमिति वाच्यं, असमर्थस्य विनियोगायोगात् अत एव गङ्गापदस्य तीरबोधविनियोगे लक्षणारूपं सामर्थ्यं कल्प्यते । तथा वाक्येन प्रकरणं बाध्यं यथा साह्नप्रकरणाम्नातद्वादशोपसदां द्वादशाहीनस्येति वाक्येनाहीनाङ्गत्व बोधकेन प्रकरणप्राप्तसाह्नाङ्गत्वबाधादुत्कर्षः । प्रधानस्याङ्गाकाङ्क्षारूपं प्रकरणं तस्याङ्गप्रधानवाक्यैकवाक्यतासामर्थ्यश्रुतिभिः कल्प्यमानाभिः स्वार्थविनियोगप्रमितौ व्यवधानेनाङ्गसामर्थ्यश्रुत्योर्द्वयोः कल्पकवाक्याद्दुर्बलत्वात् । तथा प्रकरणेन संनिधिर्बाध्यः । यथा राजसूयप्रकरणेन तदन्तर्गताभिषेचनीयाख्यसोमयागविशेषसंनिधिपाठप्राप्तं शुनःशेपोपाख्यानादेरभिषेचनीयशेषत्वं बाधित्वा कृत्स्नराजसूयशेषत्वमापादितं संनिधेः प्रकरणादिकल्पकत्वेन कॢप्तप्रकरणाद्दुर्बलत्वात्तथा संनिधिना समाख्या बाध्यते । तथा हि पौरोडाशिकसमाख्याके काण्डे आग्नेयपुरोडाशादिकर्मणां क्रमेण मन्त्रा आम्नातास्तत्र दधिपयोरूपसान्नाय्यसन्निधौ 'शुन्धध्वं दैव्याय कर्मणे' इति मन्त्र आम्नातस्तत्र समाख्याबलेनास्य मन्त्रस्य पुरोडाशपात्रशुन्धनशेषत्वं प्राप्तं संनिधिना बाधित्वा सान्नाय्यपात्रशुन्धनशेषत्वमापाद्यते । पुरोडाशसंबन्धिकाण्डं पौरोडाशिकमिति पौरुषसमाख्यायाः काण्डान्तर्गतमन्त्रस्य पुरोडाशसंबन्धसामान्यबोधकत्वेऽपि शेषशेषिभावरूपविनियोगबोधकत्वे संनिध्याद्यपेक्षत्वेन दुर्बलत्वादिति । एवं विरोधे सति श्रुतिर्बाधिकैव समाख्या बाध्यैव, मध्यस्थानां तु चतुर्णां पूर्वबाध्यत्वं परबाधकत्वं चेति श्रुतिलिङ्गसूत्रार्थः । तस्माल्लिङ्गादिनान्यत्र विनियुक्तानां मन्त्राणां दुर्बलसंनिधिना न विद्यासु विनियोग इति सिद्धम् ।
तथा कर्मणामिति ।
कर्मणां विद्योपकारत्वे ताभिः सहैकफलत्वे च मानं किञ्चिन्नास्तीत्यर्थः । अपि चेत्युक्तार्थम् ।
ननु तर्हि वेधादिवाक्यानामुपनिषद्भिः सह पाठस्य का गतिस्तामाह -
अरण्येति ।
तस्माद्वेधादिमन्त्रकर्मणां विद्यास्वनुपसंहार इति सिद्धम् ॥२५॥
हानौ तूक्तम् ।
यथाऽश्वो रजोयुक्तानि जीर्णरोमाणि त्यक्त्वा निर्मलो भवति तथाहमपि पापं विधूय कृतात्मा निर्मलीकृतचित्तः सन् यथा वा राहुग्रस्तश्चन्द्रो राहुमुखात्प्रमुच्य स्पष्टो भवति तथा शरीरं धूत्वा त्यक्त्वा देहाभिमानान्मुक्तः सन्नकृतं कूटस्थं ब्रह्मात्मकं लोकम् अभिप्रत्यक्त्वेन संभवामीत्यर्थः । यथा नद्यः समुद्रं प्राप्य नामरूपे त्यजन्ति तथा विद्वानित्यर्थः । तस्य मृतस्य विदुषः, दायं धनं, तत्तेन विद्याबलेन सुकृतदुष्कृते त्यजतीत्यर्थः ।
उपायनं ग्रहणं तस्य त्यागपूर्वकत्वात्, अत्यक्तयोर्ग्रहणायोगात्त्यागोऽर्थादायति । यत्र तु त्याग एव श्रुतः तत्र हानोपायनयोः सहभावस्यावश्यकत्वानावश्यकत्वाभ्यां संशयमाह -
यत्र त्विति ।
अत्र पूर्वपक्षे स्तुतिप्रकर्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।
यद्यपि ताण्ड्याथर्वणश्रुत्योर्निर्गुणविद्यार्थयोः कर्महानमेव श्रुतं नोपायनं तथापि कौषीतकिश्रुतौ पर्यङ्कस्थसगुणब्रह्मविद्यायामुपायनं श्रुतमत्रोपसंहर्तव्यमित्याशङ्क्य विद्याभेदान्नोपसंहार इत्याह -
विद्यान्तरेति ।
किञ्च यथा मन्त्रकर्मणामनावश्यकत्वाद्विद्यास्वनुपसंहार उक्तः तथा परैरुपादानं विनापि हानसंभवेनोपादनस्यानावश्यकत्वान्न प्राप्तिरिति दृष्टान्तसंगत्या प्राप्ते सिद्धान्तयति -
हानौ त्वित्यादिना ।
उपायनशब्दस्य शेषत्वाद्धानशब्देनापेक्षितत्वादिति सूत्रार्थः । अश्वरोमदृष्टान्तेन विधूतयोः पुण्यपापयोः परत्रावस्थानसापेक्षत्वात्परैरुपादानं वाच्यमिति भावः ।
विद्याभेदे गुणानुपसंहार इति व्यवस्थाऽनुष्ठानविषया न स्तुतिविषयेत्याह -
तदुच्यत इति ।
मन्यते सूत्रकार इत्यर्थः ।
ननु श्रुतहानार्थवादेनापि स्तुतिसिद्धौ किमर्थमुपायनार्थवाद आनीयते, तत्राह -
स्तुतिप्रकर्षलाभायेति ।
नन्वर्थवादस्य विधिना संबन्धः प्रसिद्धो नार्थवादान्तरेणेत्यत आह -
प्रसिद्धा चेति ।
इतो भूलोकादित्यर्थः । हेमन्तशिशिरयोरैक्यात्पञ्चर्तवः । यज्ञस्य पुरुषरूपकल्पनायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृचब्राह्मणे, तत्र त्रिष्टुभश्छन्दोमात्रत्वात्कथमिन्द्रियत्वकल्पनेत्याकाङ्क्षायां यजुर्वाक्यं संवाद्यत इत्यर्थः ।
नन्वमूर्तयोः पुण्यपापयोः उपादानस्यासंभवादनुपसंहार इत्यत आह -
विद्यास्तुत्यर्थत्वाच्चेति ।
विद्वन्निष्ठयोरेव तयोः फलं परे प्राप्नुवन्ति विद्यासामर्थ्यादित्युपयन्तिपदेनोच्यत इत्यर्थः । नन्वन्यनिष्टकर्मणोरन्यत्र फलसंचारः कथम् । ननु वचनबलादिति चेत् । न । फलमुपयन्तीत्यश्रुतेः । न च यथा पुत्रकृतश्राद्धस्य पितृषु फलं तथात्रेति वाच्यं, यस्य फलमुद्दिश्य यत्कर्म विहितं तस्य तत्फलमिति न्यायेन पितृणां तृप्त्युद्देशेन कृतकर्मणो व्यधिकरणफलत्वेऽपि विदुषः कर्मकालेऽनुद्दिष्टव्यधिकरणफलायोगात् ।
किञ्च विदुषो देहपाते कर्मणोऽसत्त्वाद्यावज्जीवं विद्वत्सेवकस्य तद्द्वेषिणो वा फलं स्यादित्यत आह -
नातीवाभिनिवेष्टव्यमिति ।
विद्वत्सेवाद्वेषाभ्यां विद्वन्निष्ठपुण्यपापतुल्ये पुण्यपापे सेवकद्वेषिणोर्जायेते जातयोः फलतः स्वीकार उपायनमिति परिहारस्य सुलभत्वादनाग्रह इत्यर्थः ।
उपायनादेः स्तुतित्वे लिङ्गमाह -
उपायनेति ।
उपायनविवक्षायामुपायनस्यैवोपसंहारं सूत्रकारो ब्रूयादतः शब्दस्य तं ब्रुवन्स्तुतिं सूचयतीत्यर्थः ।
विद्याविचारात्मके पादे स्तुतिविचारस्य का संगतिरित्यत आह -
तस्मादिति ।
शाखान्तरस्थो विशेषः शाखान्तरेऽपि ग्राह्य इत्यत्र दृष्टान्तमाह -
कुशेति ।
कुशा उद्गातृणां स्तोत्रगणनार्थाः शलाका दारुमय्यः, भो कुशाः, यूयं वानस्पत्याः वनस्थमहावृक्षो वनस्पतिः तत्प्रभवाः स्थ ता इत्थंभूता यूयं मा पात मां रक्षतेति यजमानप्रार्थना । अत्र ता इति स्त्रीलिङ्गनिर्देशादौदुम्बर्य इति भाष्याच्च शलाकासु कुशशब्दस्य स्त्रीत्वं मन्तव्यं दर्भविषयस्य न स्त्रीत्वं, अस्त्री कुशमित्यनुशासनात् ।
छन्दोदृष्टान्तं व्याचष्टे -
यथा चेति ।
नवाक्षराणि छन्दांसि आसुराण्यन्यानि दैवानि तेषां क्वच्छिन्दोभिः स्तुवत इत्यत्राविशेषप्राप्तौ पैङ्गिवाक्याद्विशेषग्रह इत्यर्थः ।
स्तुतिं विवृणोति -
यथेति ।
आतिरात्रे षोडशिनो ग्रहस्याङ्गभूतं स्तोत्रं कदेति छन्दोगादीनामाकाङ्क्षायामुदयसमयाविष्टे सूर्ये षोडशिनः स्तोत्रमित्यार्चश्रुतेः कालविशेषग्रह इत्यर्थः । ऋचोऽधीयत इत्यार्चाः ।
उपगानं विभजते -
यथेति ।
'ऋत्विज उपगायन्ति' इत्यविशेषश्रुतेः 'नाध्वर्युरूपगायति' इति श्रुत्यन्तरादध्वर्युभिन्ना ऋत्विज उपगायन्तीति विशेषग्रह इत्यर्थः ।
ननु कुशादिवाक्यानामपि किमिति विशेषश्रुत्यन्तरैकवाक्यताऽभ्युपगम्यते, तत्राह -
श्रुत्यन्तरकृतं हीति ।
सामान्यविशेषयोरेकवाक्यतारूपायां गतौ सत्यां वाक्यभेदं कृत्वा नाध्वर्युरिति निषेधादविशेषश्रुतेश्चाध्वर्युरुपगायति नोपगायति चेत्येवं सर्वत्र विकल्पो न युक्तः, व्रीहियवयोस्त्वगत्या विकल्प आश्रित इत्यर्थः । विकल्पस्यान्याय्यत्वमष्टदोषदुष्टत्वात् । तथा हि यदि व्रीहिवाक्यमाश्रीयते तदा यववाक्यस्येष्टप्रामाण्यत्यागः, अनिष्टाप्रामाण्यस्वीकारः, कदाचिद्यववाक्याश्रयणे त्यक्तप्रामाण्यस्वीकारः, स्वीकृताप्रामाण्यत्यागश्चेत्येकस्मिन्यववाक्ये चत्वारो दोषा भवन्ति ।
एवं व्रीहिवाक्येऽपि चत्वारो दोषा इत्येवं दुष्टविकल्पपरिहाराय भिन्नशाखश्रुत्योरप्येकवाक्यता जैमिनिसंमतेत्याह -
तदुक्तमिति ।
ज्योतिष्टोमप्रकरणे 'दीक्षितो न जुहोति', इति श्रुतं 'यावज्जीवमग्निहोत्रं जुहुयात्' इति चान्यत्र श्रुतं तत्र यदि नदीक्षितवाक्यं होमप्रतिषेधकं स्यात्तदा क्रत्वर्थत्वान्निषेधोऽनुष्ठेयः, यावज्जीवविधिना होमो वानुष्ठेय इति विकल्पः स्यात्, स चान्याय्यः । अपि तु यावज्जीववाक्यं प्रति नदीक्षितवाक्यस्य शेषत्वान्नकार इतरपर्युदासार्थकः स्याद्दीक्षितान्यलक्षकः स्यात्, न होमप्रतिषेधकः, तस्माददीक्षितो यावज्जीवं जुहुयादित्येकवाक्यतेति नदीक्षिताधिकरणसिद्धान्तसूत्रार्थः । अत्र भगवत्पादैः सूत्रमेव पठितं, मिश्रैस्तु पर्युदासाधिकरणसिद्धान्तसूत्रं 'अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्' इति स्थितमत्रार्थतः पठितमित्युक्तं तच्चिन्त्यम् । सूत्रार्थस्तु यज्ञमात्रे येयजामहे इति प्रयोक्तव्यमिति श्रुतं, नानुयाजेषु येयजामहं करोतीत्यपि श्रुतं, तत्र नकारस्य निषेधकत्वेऽप्यतिरात्रे षोडशिग्रहणाग्रहणयोरिवानुयाजेषु यज्ञत्वाविशेषात्प्रयोक्तव्यं निषेधान्न प्रयोक्तव्यमिति विकल्पः स्यात्, तस्यान्याय्यत्वात्येयजामहविधेरेव नानुयाजवाक्यमेकदेशः स्यात्, पर्युदासवृत्त्या विधिवाक्यशेषः स्यादिति यावत् । तथा चानुयाजभिन्नेषु यागेषु येयजामह इति प्रयोक्तव्यमित्येकवाक्यतेति ।
वर्णकान्तरमाह -
अथवेति ।
पूर्वत्रविधूननं कर्महानिरिति सिद्धवत्कृत्य उपायनोपसंहार उक्तः, अत्र सैव साध्यत इति भेदः ।
उभयत्र लक्षणासाम्यात्संशयमाह -
किमिति ।
विधूननस्य हि फलद्वयमश्वरोमादिषु दृष्टं पूर्वस्वभावात्च्युतिरन्यत्र संक्रान्तिश्चेति । तत्र संक्रान्तिरूपहानिर्लक्षणीया किंवा च्युतिरिति संशयार्थः । तत्र विधूननशब्दस्य कम्पनं मुख्यार्थ इति तावत्सर्वसंमतम् । तच्चामूर्तयोः पुण्यपापयोर्न संभवति । अतस्तयोर्यः स्वभावः फलदातृत्वशक्तिस्ततश्चालनं विद्यया प्रतिबन्धाच्च्युतिः सा लक्षणीया न हानिरमूर्तयोरन्यत्र संक्रान्त्ययोगादन्यसापेक्षत्वाच्चेति पूर्वपक्षार्थः ।
सिद्धान्तयति -
हानावेवेति ।
यदि च्युतिमात्रं लक्ष्यं तदोपयन्तीत्यनन्वितं स्यात् । न च यत्र धुनोतेरूपायनशब्दसांनिध्यं तत्र हानिर्लक्ष्यते न केवलधुनोतेर्हानिश्चान्यत्र विदुषः सेवकादौ तुल्यकर्मसंक्रान्तिरिति नासंभव इति वाच्यं, केवलधुनोतेरपि मुख्यार्थासंभवेनान्यत्र लक्ष्यतया बुद्धिस्थहानिलक्षणाया एव युक्तत्वादिति भावः ।
उपायनस्यामुख्यत्वान्न क्वापि हानिलक्षणाबीजत्वमिति शङ्कित्वा पुण्यपापयोः फलतः स्वीकारात्मकमुपायनं हानिं विनानुपपन्नं सल्लक्षणानिर्णायकमिति परिहरति -
यद्यपीत्यादिना ।
यथान्यत्रश्रुतमौदुम्बरत्वादिकं कुशादिनिर्णायकं तथेदमुपायनं विधूननस्य हानत्वे निश्चायकमित्याह -
क्वचिदपीति ।
विधूननं मुख्यं किमिति नोच्यते, तत्राह -
न चेति ।
तथापि हानं कथं लक्ष्यत इत्याशङ्क्य मुख्यसंबन्धादित्याह -
अश्वश्चेति ।
अनुपपत्तिसंबन्धौ लक्षणाबीजरूपामुक्त्वा लक्षकं पदं निर्दिशति -
अश्व इवेति ।
विधूयेति पदं दृष्टान्ते हानपर्यन्तं सद्दार्ष्टान्तिकेऽपि हानलक्षकमित्यर्थः ।
यद्वा हानवाचकमेवास्तु नच धूञ्कम्पन इति धातुपाठविरोधस्तस्योपलक्षणार्थत्वादित्याह -
अनेकेति ।
शाखान्तरस्थमुपायनं विधूननस्य हानत्वनिश्चायकमित्यत्र जैमिनिसूत्रं तदुक्तमिति गृहीतपूर्वं व्याख्यातमित्यर्थः । एवं विधूननस्य हानित्वसिद्धेः केवलहानावुपायनोपसंहार इति सिद्धम् ॥२६॥
संपराये अन्ये ।
व्यध्वनि अर्धमार्गे ।
पूर्वोक्तं विधूननस्य हानत्वमुपजीव्य हानस्य नदीतरणानन्तर्यश्रुतेरश्वैव रोमाणि इत्यादौ देहत्यागात्प्राक्कालत्वश्रुतेश्च संशयमाह -
तत्किमिति ।
ब्रह्मलोकमार्गमध्ये विरजाख्यां नदीमत्येति तत्सुकृतदुष्कृते विधूनुते, इत्यत्र तदितिसर्वनामश्रुत्यास्तेनेत्यर्थतया संनिहितनदीतरणस्य कर्महानिहेतुत्वोक्तेरर्धपथे कर्मक्षय इति पूर्वपक्षः ।
तत्र विद्यायाः कर्मक्षयहेतुत्वासिद्धेः पूर्वपक्षे, सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तयति -
सांपराय इति ।
मरणात्प्रागित्यर्थः । संपरेतस्य मृतस्य कञ्चित्कालं कर्मसत्त्वे फलाभावाद्देवयानमार्गप्रवेशायोगाच्चादावेव क्षय इत्यर्थः ।
क्षयहेतोर्विद्याया मध्येमार्गमसत्त्वाच्चेत्याह -
विद्याविरुद्धेति ।
नदीतरणानन्तरपाठस्तु बाध्यः, अर्थविरोधादित्याह -
तस्मादिति ।
तदिति सर्वनाम्नापि प्रकृतविद्यैवोच्यत इति भावः ॥२७॥
किञ्च मृतस्य छन्दतो यथाकामं विद्यानुष्ठानानुपपत्तेरुभ्योर्विद्याकर्मक्षययोः श्रुतो हेतुफलभावो विरुध्यते । किञ्च सति पुष्कलहेतौ न कार्यविलम्ब इति न्यायोपेतताण्ड्यादिश्रुतिविरोधस्तव स्यादस्मत्पक्षे त्वविरोध इत्याह -
छन्दत इति ।
तस्मात्कर्महानस्य विद्याफलत्वात्केवलहानावुपायनोपसंहारो विद्यास्तुतय इति सिद्धम् ॥२८॥
गतेरर्थवत्त्वं
क्वचित्सगुणविद्यायां मार्गः श्रूयते निर्गुणविद्यायां न श्रूयते । तत्र हानसंनिधौ मार्गस्य श्रुतत्वादनपेक्षितत्वाच्च संशये दृष्टान्तसंगत्या पूर्वपक्षमाह -
यथा तावदिति ।
उपायनवन्मार्गस्यापि क्वचिच्छ्रुतत्वात्सर्वत्रोपसंहार इत्यर्थः । अत्र निर्गुणविदोऽपि मुक्त्यर्थं मार्गापेक्षा पूर्वपक्षे, सिद्धान्ते त्वनपेक्षेति फलम् । देशादिव्यवहितवस्तुप्राप्तौ मार्गस्यापेक्षेतिन्यायानुगृहीतश्रुतिविरोधान्नोपसंहार इति सिद्धान्तः । निरञ्जनोऽसङ्गः, साम्यं ब्रह्म ॥२९॥
ननु तर्हि सगुणविद्यायामपि मार्गो व्यर्थ इत्यत आह -
उपपन्न इति ।
सा गतिर्लक्षणं कारणं यस्यार्थस्य स तल्लक्षणार्थः ॥३०॥
अनियमः सर्वासाम् ।
अत्राप्यर्चिरादिमार्ग एव विषयस्तत्र विद्याविशेषप्रकरणादविशेषश्रुतेश्च संशये पूर्वपक्षमाह -
किं तावदिति ।
सगुणनिर्गुणविद्यासु मार्गस्य भावाभावव्यवस्थावत्सगुणास्वपि व्यवस्थेति दृष्टान्तेन प्राप्तौ सिद्धान्ते व्यवस्थापवादाद्गतिनियमोऽनियम उभयत्र फलम् ।
नियमे प्रकरणमुक्त्वा पुनरुक्तिं लिङ्गमाह -
अपि चेति ।
एकत्रोक्तगतेरन्यत्र प्राप्तौ पुनरुक्तिर्वृथा स्यादित्यर्थः ।
सिद्धान्तयति -
सर्वासामिति ।
अभ्युदयो ब्रह्मलोकः ।
अविशेषश्रुत्यादिना प्रकरणबाधो न दोष इत्याह -
नैष इति ।
तत्तत्र अधिकृतानां मध्ये य इत्थं पञ्चाग्नीन्विदुर्ये चामी अरण्ये श्रद्धातप इत्युपासते श्रद्धातपौपलक्षितं ब्रह्म ध्यायन्ति तेऽर्चिषमभिसंभवन्तीत्यन्वयः ।
ननु श्रद्धातपोमात्रश्रुतेस्ताभ्यामेवार्चिरादिगमनं स्यान्न वैश्वानरादिविद्याशीलानामिति शङ्कते -
कथं पुनरिति ।
अविदुषां गतिनिषेधाच्छ्रद्धातपःशब्दाभ्यां तत्साध्यब्रह्मविद्यालक्षणेति परिहरति -
नैष दोष इति ।
तत् ब्रह्मलोकस्थानं, परागताः परावृत्ताः, कामक्रोधदोषा न सन्तीति यावत् । दक्षिणाः केवलकर्मिणस्तपस्विनोऽप्यविद्वांसो न गच्छन्तीत्यर्थः ।
लक्षणादोषहीनं वाक्यमाह -
वाजसनेयिनस्त्विति ।
किञ्च विद्याकर्मलक्षणमार्गद्वयभ्रष्टानामधोगतिश्रुतेः वैश्वानराद्युपासकानामर्चिरादिमार्गप्राप्तिरित्याह -
अथ य एताविति ।
दन्दशूकः सर्पः ।
किञ्च 'अग्निर्ज्योतिरहःशुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' इत्यविशेषेणोपासकानामर्चिरादिगतिमुक्त्वोपसंहारस्मृतेश्च तेषां तत्प्राप्तिरित्याह -
स्मृतिरिति ।
शुक्लागतिरर्चिरादिका, कृष्णा धूमादिका, जगतो विद्याकर्माधिकृतस्य, शाश्वते ध्रुवे संमते । तत्रैकया शुक्लया पुनरावृत्तिवर्जं कार्यं ब्रह्म गच्छति; अन्यया स्वर्गे गत्वा पुनरायातीत्यर्थः ।
पुनरुक्तिदोषं दूषयति -
यत्पुनरिति ।
तत्र तत्र मार्गश्रुतिरन्वहं मार्गचिन्तनार्थं, प्रकरणेन मार्गध्यानस्य विद्याङ्गत्वावगमात् । तथा च वक्ष्यति सूत्रकारः - 'तच्छेषगत्यनुस्मृतियोगाच्च' इति । येषां न श्रुतो मार्गस्ते मार्गध्यानं विनापि विद्यासामर्थ्यान्मार्गं लभन्त इति ज्ञापनार्था पुनरुक्तिरित्यर्थः । तस्मात्सर्वोपासनासु प्रतीकभिन्नास्वर्चिरादिप्राप्तिरिति सिद्धम् ॥३१॥
यावदधिकारम् ।
निर्गुणविद्यायां गतिर्व्यर्था मुक्तिफलत्वात्, सगुणविद्यासु सर्वत्रार्थवती ब्रह्मलोकफलत्वादिति व्यवस्था कृता, सा न युक्ता, तत्त्वज्ञानिनामपीतिहासादौ पुनर्जन्मदर्शनेन ज्ञानस्य मुक्तिफलत्वाभावादित्याक्षेपात्संगतिः । ज्ञानिनां पुनर्जन्मदर्शनं संशयबीजं भाष्ये दर्शितम् । पूर्वपक्षे ज्ञानान्मुक्तिश्रुतीनां ज्ञानस्तुतिमात्रत्वेन ज्ञानस्य मुक्तिफलत्वाभावे सति ब्रह्मलोकफलत्वाविशेषादर्चिरादिमार्गोपसंहारः फलं, सिद्धान्ते तूक्तव्यवस्थासिद्धिरिति विवेकः ।
श्रुतावपीति ।
मेधातिथेर्मेषेतिमन्त्रे इन्द्रस्य मेषजन्मोपलभ्यते । वसिष्ठ उर्वशीपुत्रो जात इत्येवमर्थो बह्वृचार्थवाद इत्यर्थः । पाक्षिकमित्यापाततः । अहेतुत्वमेवेति पूर्वपक्षः ।
ज्ञानस्य मुक्त्यहेतुत्वं नेति सिद्धान्तयति -
ते चेति ।
लोकव्यवस्थासु स्वामित्वमधिकारः, तत्प्रापकं प्रारब्धं यावदस्ति तावत्कालं जीवन्मुक्तत्वेनाधिकारिकाणामवस्थितिः, प्रारब्धक्षये प्रतिबन्धकाभावाद्विदेहकैवल्यमित्यत्र मानमाह -
अथेति ।
अथ प्रारब्धक्षयानन्तरम् । ततः पश्चादूर्ध्वो विलक्षणः केवलः ब्रह्मस्वरूपः सन् उदेत्योद्गम्य देहं त्यक्त्वेति यावत् । एकल एव अद्वितीयः, मध्ये उदासीनात्मकस्वरूपे तिष्ठतीत्यर्थः ।
ननु ज्ञानिनामपि जन्मान्तरं चेत्कथं मुक्तिरित्यत आह -
सकृत्प्रवृत्तमिति ।
यदि ज्ञानिनां प्रारब्धातिरिक्तकर्माधीनं जन्मान्तरं स्यात्तदा ज्ञानान्मुक्त्यभावः स्यात् । नैतदस्ति । किन्तु बहुजन्मफलाय सकृदुद्भूतं प्रारब्धं ते क्षपयन्ति, जन्मग्रहणेऽपि ज्ञानयोगबलान्न शोचन्ति प्रारब्धसमाप्तौ मुच्यन्त इत्यर्थः । ज्ञानिनां जन्मान्तरस्य पूर्वजन्महेतुप्रारब्धाधीनतायामलुप्तस्मृतित्वं हेतुः । यो ह्यजातिस्मरत्वे सति कर्मान्तराधीनजन्मान्तरवान्, स लुप्तस्मृतिरिति व्याप्तेः । ज्ञानिषुव्यापकाभावाद्विशिष्टव्याप्याभावसिद्धिः ।
ननु तेषां जातिस्मरत्वादलुप्तस्मृतित्वमन्यथासिद्धिमित्यत आह -
न चैत इति ।
तथा च तेषामजातिस्मरत्वरूपविशेषणे सति विशेष्याभावादेव विशिष्टाभावसिद्धिरित्यर्थः । पूर्वदेहनामप्रत्यभिज्ञानहीनाः परतन्त्राः साभिमाना जातिस्मराः, आधिकारिकास्तु पूर्वनामानः स्वतन्त्रा निरभिमाना इति वैषम्यम् । तेन जनकेन सह व्युद्य विवादं कृत्वेत्यर्थः । विदुषः प्रारब्धातिरिक्तकर्माभावान्न बन्धः ।
निमित्ताभावे नैमित्तिकाभाव इति न्यायानुगृहीतानां ज्ञानान्मुक्तिश्रुतीनां न स्तुतिमात्रत्वमितीममर्थमुपपादयति -
यदि ह्युपयुक्त इत्यादिना ।
श्रुतिस्मृत्युक्तार्थे युक्तिमप्याह -
न चाविद्येति ।
विद्यया क्लेशदाहात्तत्कार्यकर्मक्षयश्चेत्तर्हि प्रारब्धस्य कथं स्थितिः, तत्राह -
प्रवृत्तफलस्येति ।
विदुषो देहपातावधिश्रुतेरनुभवाच्च ज्ञानस्यावरकाज्ञानांशनिवर्तकस्य प्रारब्धविक्षेपस्थित्यनुकूलाज्ञानांशनिवर्तनसामर्थ्याभावसिद्धेर्भोगेनैव प्रारब्धक्षय इति भावः ।
ज्ञानिनामधिकारिकत्वं कथमित्याशङ्क्य ज्ञानात्प्राक्कृतोपासनादिवशादित्याह -
ज्ञानान्तरेषु चेति ।
प्रतिसंचरो महाप्रलयः, परस्य हिरण्यगर्भस्य, अधिकारान्ते साक्षात्कृतात्मानो मुच्यन्ते इत्यर्थः ।
ब्रह्मभावफलस्याऽपि भावित्वमाशङ्क्य तत्त्वमसीति श्रुतिबाधमाह -
न हीति ।
तस्मान्निर्गुणविद्यायां मार्गानुपसंहार इति सिद्धम् ॥३२॥
अक्षरधियाम् ।
अत्राक्षरब्रह्मप्रमापका निषेधशब्दा विषयाः, तेषु यत्र यावन्तः श्रुतास्तत्र तावतामशेषद्वैतनिषेधकत्वसंभवासंभवाभ्यां संशयमाह -
तासामिति ।
यथा निर्गुणविद्यायां मार्गस्यानपेक्षितत्वादनुपसंहारस्तथा श्रुतनिषेधानामुपलक्षणतया सर्वद्वैतनिषेधसंभवाच्छाखान्तरीयनिषेधशब्दानामनपेक्षितत्वादनुपसंहार इति दृष्टान्तेन पूर्वपक्षस्तत्र लाघवं फलम् । सिद्धान्ते तु दोषद्वयाभावः फलम् । तथा हि यदि श्रुतशब्दैरश्रुतनिषेधा लक्ष्यन्ते तदा लक्षणादोषः, यदि न लक्ष्यन्ते तदा सर्वद्वैतनिषेधासिद्धेर्निर्विशेषप्रमित्यभावदोष इति विवेकः । अक्षरे धर्मिणि द्वैतनिषेधधियोऽक्षरधियस्तद्धेतवः शब्दा इति यावत्, तासामवरोध उपसंहार इति सूत्रयोजना ।
शेषिब्रह्मणः सर्वशाखासु भावात्तत्प्रमितेः समानत्वाच्छेषाणामुसंहारः इति चेत्तर्हि न्यायसाम्यात्पुनरुक्तितादवस्थ्यमित्यत आह -
प्रपञ्चार्थ इति ।
आनन्दादीनां स्वरूपत्वादस्तूपसंहारः निषेधानामनात्मत्वादानन्त्याच्चानुपसंहार इत्यधिकारशङ्कायां तेषामनात्मवेऽपि निर्विशेषब्रह्मप्रमित्यर्थत्वादविद्यातज्जनिषेधत्वेन संग्रहसिद्धेश्च निरपेक्षास्थूलानणुवाक्यस्थतया कॢप्तनिषेधशब्दानामन्यत्रश्रुतिनिषेधवाक्यैकवाक्यतयोपसंहार इति चिन्ता युक्तेत्यर्थः ।
अन्यत्रश्रुतशेषाणामन्यत्रस्थशेषिसंबन्धे दृष्टान्तं व्याचष्टे -
यथेति ।
'जमदग्निः पुष्टिकामश्चतूरात्रेणायजत' इत्युपक्रम्य विहितो जमदग्निना कृतो जामदग्न्यः, अहीनश्चतूरात्रः क्रतुस्तस्मिन्पुरोडाशिन्य उपसदो भवन्तीति पुरोडाशसाध्या इष्टयस्तैत्तिरीयके विहिताः, तासामध्वर्युकर्तृकत्वात्सामवेदोत्पन्नमन्त्राणां तात्सु विनियोगादध्वर्युणैव प्रयोगो नोद्गात्रेत्यर्थः । वेर्देवगणस्य होत्रमध्वरं च कर्माग्नेस्त्वत्त एवेत्यग्न्यामन्त्रणमन्त्रार्थः । उत्पत्तिविधिर्गुणः फलापेक्षत्वादुत्पन्नस्य फले विनियोगविधिर्मुख्यः सफलत्वात् । तथाच मन्त्रणामुद्गातृवेदोत्पन्नत्वादुद्गात्रा प्रयोगः, विनियोगविधिनाध्वर्युणा प्रयोग इति गुणमुख्ययोर्व्यतिक्रमे विरोधे सति मुख्येन बलीयसा मन्त्रात्मकवेदस्याध्वर्युणा संप्रयोग उत्पत्तेर्विनियोगार्थत्वादिति जैमिनिसूत्रार्थः । यद्यपि शाबरभाष्ये वारवन्तीयादिसाम्नामुच्चैः स्वरकसामवेदोत्पन्नत्वादाधानाङ्गत्वेनोच्चैः स्वरप्रयोगः 'य एवं विद्वान्वारवन्तीयं गायति यज्ञायज्ञीयं गायति वामदेव्यं गायति' इत्याधाने तेषां विनियोगविधिना याजुषेण याजुषस्योपांशुस्वरस्य प्रयोग इति गुणमुख्ययोर्विरोधे सत्त्युत्पत्तेर्विनियोगार्थत्वान्मुख्यविनियोगबलेन साम्नां यजुर्वेदस्वरसंयोग इति सूत्रं व्याख्यातं, तथापि न्यायसाम्यादौपसदमन्त्राः सूत्रविषयत्वेनोदाहृता इत्यविरोधः ॥३३॥
इयदामननात् ।
मन्त्रद्वयेऽपि प्रतिपादनप्रकारभेदात् ज्ञेयैक्यभानाच्च संशयमाह -
किमत्रेति ।
ऋतपानवाक्ये 'अक्षरं ब्रह्म यत्परम्' इति गुणाः श्रुताः, सुपर्णवाक्येऽनश्नत्वादयस्तेषां मिथोऽनुपसंहार इति पूर्वपक्षफलं, सिद्धान्ते तूपसंहारे ब्रह्मस्वरूपवाक्यार्थैक्यादुपसंहार इति विवेकः । अस्तु वेद्यैक्यादक्षरधियामुपसंहारः । इह तु वेद्यभेदान्नोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः । नन्वयं गुणाधिकरणे निरस्त इति चेत्, सत्यं, किन्तु पिबत्पदस्य मुख्यार्थत्वाय स्वतः कल्पनया च पानकृत्याश्रयौ बुद्धिजीवौ पिबन्तौ ग्राह्यौ, सुपर्णौ तु जीवेश्वरावित्यधिकाशङ्कायां मन्त्रद्वयेऽपि द्विवचनशब्दसामान्यादौत्पत्तिकद्वित्वविशिष्टतया तुल्यवस्तुद्वयप्रत्यभिज्ञानस्य बाधकाभावात्प्रकरणाद्यनुग्रहाच्च जीवानुवादेनासंसारिब्रह्मणि मन्त्रद्वयतात्पर्यमिति प्रपञ्चार्थमिदं सूत्रमिति भावः ॥३४॥
अन्तरा भूतग्रामवत्स्वात्मनः ।
घटादिकं चिद्विषयत्वेनापरोक्षं, ब्रह्म तु साक्षादविषयत्वेनापरोक्षमिति । प्रथमार्थे पञ्चमि । अत्र श्रुतावात्मधर्मोऽपरोक्षत्वं ब्रह्मण्युक्तं, ब्रह्मधर्मः सर्वान्तरत्वमात्मन्युक्तं, तेन तयोरैक्यं दृढीकृतं मन्तव्यं, तन्मे व्याचक्ष्वेत्युषस्तप्रश्ने याज्ञवल्क्येन प्राणादिप्रेरको दृष्ट्यादिसाक्षी प्रतिपादितः । तथैव 'यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तन्मे व्याचक्ष्व' इति कहोलप्रश्नेऽशनायाद्यतीतः प्रतिपादितः । तत्र ब्राह्मणद्वयेऽपि प्रश्नादभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशये मन्त्रयोर्वेद्यैक्यादस्तु विद्यैक्यं, इह तु ब्राह्मण्योर्वेद्यैक्येऽपि अभ्यासाद्विद्याभेदः, यजत्यभ्यासात्प्रयाजभेदवदिति प्रत्युदाहरणेन पूर्वपक्षः, तत्र मिथो धर्मानुपसंहारः फलं, सिद्धान्ते तूपसंहार इति विवेकः । द्वयोः सर्वान्तरत्वानुपपत्त्या तावद्ब्राह्माणयोरेकवस्तुपरत्वं सिद्धम् । तथाच वेद्यैक्यान्निर्गुणविद्यैक्ये न विवादः ॥३५॥
ननु
अन्यथा
विद्यैक्याङ्गीकारे अभ्यासानुपपत्तिरिति चेदुच्यते स एवाभ्यासः कर्मभेदको यो निरर्थकः, इह तूषस्तब्राह्मणोक्तात्मन एवाशनायाद्यत्ययरूपविशेषकथनार्थत्वादभ्यासोऽन्यथासिद्धो न विद्याभेदक इति समुदायार्थः ॥३६॥
व्यतिहारः ।
जीवेशयोर्मिथो विशेषणविशेष्यभावो व्यतिहारः, तस्य श्रुतत्वात्, उत्कृष्टदृष्टिर्निकृष्टे कृता फलवतीति न्यायाच्च संशये जीवे ईश्वरत्वमतिरेव कार्या उक्तन्यायात्, व्यतिहारश्रुतिस्तु तस्या एव दृढीकरणार्थत्वेनाभ्यासवदन्यथासिद्धेति दृष्टान्तेन पूर्वपक्षः । तत्र लाघवं फलं लिद्धान्ते तु श्रुत्यर्थवत्त्वमिति विवेकः । एकेनैव त्वमहमस्मीत्युच्चारणेनैकत्वमतेः कृतत्वादहं त्वमसि इति वृथा स्यादित्यर्थः ।
उक्तदोषं स्मारयति -
नन्विति ।
संदिग्धेऽर्थे न्यायः सावकाशः, इह तु श्रुतत्वादन्योन्यात्मत्वं ध्येयं, ब्रह्मणि मनोमयत्वादिवज्जीवात्मत्वस्य ध्यानार्थमारोपेऽपि निकर्षप्रसक्त्यभावादिति परिहरति -
नैष दोष इति ।
ब्रह्मणि निकर्षं हित्वा जीवतादात्म्यध्याने मदुक्तमेवागतमिति शङ्कते -
नन्वेवमिति ।
मतेर्द्विरूपत्वं त्वदनुक्तमस्माभिरुच्यते ध्यानपरं वाक्यमिदमेकत्वं तु मानान्तराविरोधात्सिध्यतीति समाधत्ते -
न वयमिति ।
अहङ्ग्रहोपास्तिष्वयं व्यतिहार उपसंहर्तव्य इत्याह -
तस्मादिति ॥३७॥
सैव हि सत्यादयः ।
स यः कश्चिदधिकारी महद्व्यापकं यक्षं पूज्यं भौतिकेषु प्रथमजमेतत्सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः । सत्यमिति नाम त्र्यक्षरं सतियमिति, तत्र प्रथमोत्तमे अक्षरे सत्यं, मध्यस्थमक्षरमनृतमुभयतः सत्येन संपुटितत्वात्सत्त्यप्रायमेव भवतीति नामाक्षरोपासना सत्यविद्याङ्गत्वेनोक्ता । यत्तत्पूर्वप्रकृतं हृदयाख्यं तत्संप्रत्युक्तयक्षत्वादिगुणकं, सोऽसावादित्यमण्डलेऽक्षिणि च पुरुषस्तस्याहरित्यहमिति च नामद्वयज्ञानात्पापक्षयः फलमित्यर्थः ।
अत्र पूर्वोत्तरवाक्ययोः फलभेदश्रुतेः प्रकृताकर्षणाच्च संशयमाह -
तत्रेति ।
पूर्वपक्षे गुणानां व्यवस्थयानुष्ठानं, सिद्धान्ते त्वनुष्ठानैक्यमिति फलम् ।
यथा जीवेशयोरन्योन्यात्मत्वश्रुतिभेदान्मतिद्वैरूप्यमुक्तं, तथात्र फलश्रुतिभेदाद्विद्याभेद इति दृष्टान्तेन पूर्वपक्षयति -
द्वे इति ।
विशेष्यब्रह्ममात्राकर्षणमयुक्तं, तद्यत्तदिति सर्वनामभिः पूर्वोक्तगुणविशिष्टं ब्रह्म आकृष्यादित्याक्षिस्थानादिगुणविधानात्, तथाच वाक्यादेव विद्यैक्यसिद्धिरिति सिद्धान्तयति -
एकैवेति ।
यथा दहरशाण्डिल्यविद्ययोर्ब्रह्मैक्यप्रत्यभिज्ञानमात्रं तथात्र नेत्याह -
नैतदिति ।
कारणान्तरं प्रकरणभेदादिकम् । एवं विद्याभेदेऽप्येतदुपास्यैक्यज्ञानं स्यादत्र तूभयथासंभवे विद्यैक्यनानात्वसंशये सत्यमित्युपास्यरूपैक्यज्ञानाद्विद्यैक्यनिश्चय इत्यक्षरार्थः ।
असत्यपवादकारणे रूपैक्याद्विद्यैक्योत्सर्गसिद्धिर्न च फलभेदादपवादः । अङ्गे फलश्रुतेः श्रुतिमात्रतया फलभेदासिद्धिरित्याह -
यत्पुनरित्यादिना ।
किञ्च यत्र प्रधानविधावेवङ्काम इति फलं श्रुतं, तत्र प्रधानफलेनैवाङ्गानां फलाकाङ्क्षानिवृत्तेरङ्गे फलश्रुतेः स्तुतिमात्रत्वं, इह तु प्रथमज सत्यं ब्रह्मेति वेदेति प्रधानविद्याविधिस्थत्वं लोकजयफलस्याभ्युपेत्यास्माभिर्नामरूपाङ्गस्य फलश्रुतेः स्तुतित्वमुक्तम् । वस्तुतस्तु प्रधानविधावप्येवङ्कामपदाभावाद्रात्रिसत्रन्यायेन फले कल्पनीये सति प्रधाने तदङ्गे वा यत्किञ्चित्फलं श्रुतं तस्य सर्वस्यापि श्रुतत्वाविशेषाज्जातेष्टिफलन्यायेन समुच्चित्यैकप्रधानफलत्वकल्पनात् फलभेदोऽसिद्ध इत्याह -
अपि चेति ।
सूत्रं योजयति -
तस्मादिति ।
एकदेशिव्याख्यामुद्भाव्य दूषयति -
केचिदित्यादिना ।
छान्दोग्ये कर्माङ्गोद्गीथे हिरण्मयपुरुषदृष्टिरित्यत्र लिङ्गमाह -
तत्रेति ।
पृथिव्यग्न्यात्मना दृष्टे ऋक्सामे गेष्णौ, तस्मादृक्सामगेष्णत्वात्, पुरुष उद्गीथ इत्येवं विद्वानुद्गाता कर्मफलसमृद्धिसमर्थ इति श्रुत्यर्थः ।
सत्यविद्या तु न कर्माङ्गाश्रितेत्याह -
नैवमिति ।
अङ्गविद्यातः स्वतन्त्रहिरण्यगर्भविद्याया भेदान्न गुणोपसंहार इत्यर्थः ॥३८॥
कामादीतरत्र ।
सगुणनिर्गुणविद्ययोः श्रुताः सत्यकामादयो वशित्वादयश्च गुणा मिथ उपसंहर्तव्या न वेत्युपसंहारस्य फलभावाभावाभ्यां संदेहे सत्यविद्याया एकत्वाद्गुणसांकर्येऽप्यत्र विद्ययोः सगुणनिर्गुणरूपभेदेन भेदान्निर्गुणविद्यायां गुणोपसंहारस्य फलाभावाच्चानुपसंहार इति बहिरेव प्राप्ते सिद्धान्तयति -
तत्रेदमित्यादिना ।
एवं विद्याभेदे स्फुटे कथं गुणोपसंहारः, तत्राह -
गुणवतस्त्विति ।
भिन्नविद्यास्थानामपि गुणानामायतनादिसाम्येन निर्गुणस्थले बुद्धिस्थानां स्तुत्यर्थमुपसंहारो युक्तः, ज्ञानस्तुतिप्रकर्षस्याकाङ्क्षितत्वात्, यत्र क्वचिद्दृष्टगुणैः स्तुतेः कर्तुं योग्यत्वात् । यद्यपि सगुणस्थसत्यकामादिषु निर्गुणस्थगुणा अन्तर्भूता एव तथापि नोपसंहारोक्तेर्वैयर्थ्यं निर्गुणस्तावकत्वेन श्रुतगुणानामन्यत्राप्यध्येयत्वमिति शङ्कानिरासेनान्तर्भावदार्ढ्यार्थत्वादित्यनवद्यम् ॥३९॥
आदरादलोपः ।
अत्र यच्छब्दाग्निहोत्रशब्दाभ्यां संशयमाह -
तत्रेदं विचार्यत इति ।
वैश्वानरोपासकेनातिथिभोजनात्प्राक्कार्यत्वेन विद्याङ्गप्राणाग्निहोत्रविचारात्पादसंगतिः । पूर्वपक्षे भोजनलोपेऽपि द्रव्यान्तरेण प्राणाग्निहोत्रानुष्ठानं, सिद्धान्ते तल्लेप इति भेदः ।
ननु यद्भक्तमिति यच्छब्देन भोजनाक्षिप्तं भक्तमनूद्य यद्धोमीयमिति होमसंयोगविधिनादाक्षेपकभोजनलोपे तदाक्षिप्तभक्ताश्रितहोमलोप इति सिद्धान्ती शङ्कते -
तद्यदिति ।
निर्गुणस्योपास्तिलोपेऽपि स्तुत्यर्थगुणस्थैर्यवद्भोजनलोपेऽपि प्राणाग्निहोत्रस्यादरेण स्तुतिनिर्वाहार्थमलोप इति दृष्टान्तेन पूर्वपक्षसूत्रेण परिहरति -
एवं प्राप्त इति ।
एवं तदिति स्वयं प्राणाग्निहोत्रमकृत्वातिथीनां तत्करणमित्यर्थः ।
उक्तं स्मारयित्वा परिहरति -
नन्वित्यादिना ।
यथा कुण्डपायिसत्रगते मासाग्निहोत्रेऽग्निहोत्रशब्दाद्गौणान्नित्याग्निहोत्रवाचकान्नित्याग्निहोत्रधर्माणां पयोद्रव्यादीनां प्राप्तिस्तथेहापि प्राणाहुतिष्वग्निहोत्रशब्दवशात्पयोद्रव्यादीनामुत्सर्गतः प्राप्तौ सत्यां भोजनार्थभक्तद्रव्यविधिनापवादः कृतः, अतो भक्तविधेरपवादार्थत्वाद्भोजनलोपे भक्ताख्यगुणस्याङ्गस्य लोपेऽपि न मुख्यस्याग्निहोत्रस्य लोपः, अपवादाभावे उत्सर्गप्राप्तपयादिना तस्य निष्पत्तिसंभवादिति प्राप्तमित्यर्थः । 'गुणलोपे न मुख्यस्य' इति जैमिनिसूत्रम् । आधाने सन्ति पवमानेष्टयस्तत्राग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदिति निर्वापः श्रुतस्तदङ्गत्वेनाग्निहोत्रहवण्यां हवींषि निर्वपेदिति दर्शपूर्णामासाख्यप्रकृतौ विहिताग्निहोत्र हवण्यतिदेशेन प्राप्त आधानकाले चाग्निहोत्राभावात्तस्या गुणभूताया लोपेऽपि मुख्यस्य निर्वापस्य न लोप इत्यर्थः । आरब्धनित्यादिकर्मणोऽवश्यानुष्ठेयत्वाच्छ्रुतद्रव्यालाभे प्रतिनिहितद्रव्येणापि कर्म कर्तव्यमिति प्रतिनिधिन्यायः ॥४०॥
सिद्धान्तयति -
उपस्थितेऽतस्तद्वचनादिति ।
तद्धोमीयमिति तच्छब्देन भोजनार्थसिद्धभक्तमाश्रित्य होमविधानादित्यर्थः । सिद्धवद्भक्तोपनिपातः प्रकृतभक्तागमनं, तस्य तच्छब्देन परामर्शेनेत्यर्थः ।
आश्रित्य विहिताहुतीनामाश्रयलोपे लोपो एव न द्रव्यान्तराक्षेपकत्वं, यथा क्रतुप्रयुक्तात्प्रणयनाश्रितस्य गोदोहनस्य क्रतुलोपे लोपे न त्वाश्रयान्तरप्रयोजकत्वं तथेति फलितमाहता इतियदुक्तमग्निहोत्रशब्दाद्द्रव्यान्तरप्राप्तिरिति, तत्राह -
न चात्रेति ।
तद्वद्भावो नित्याग्निहोत्रसादृश्यमर्थवादस्थशब्दस्य स्तुतित्वेनोपपत्तेरित्यर्थः ।
धर्मप्रापकत्वे दोषमाह -
तद्धर्मप्राप्तौ चेति ।
अव एवेति तद्धर्मप्राप्त्यभावादेवेत्यर्थः । प्राप्तौ संपादनं वृथा स्यादिति भावः ।
मुख्याग्निहोत्राङ्गानि संपाद्यन्ते चेत्कथं तदनङ्गं वेदिरत्र संपाद्यते तत्राह -
वेदिश्रुतिश्चेति ।
मुख्याग्निहोत्रस्याग्न्युद्धरणवत्सायंप्रातःकालद्वयस्यापि न प्राप्तिरिति -
भोजनेनेति ।
उपस्थानपरिस्तरणादयोऽप्यग्न्यभावान्न प्राप्नुवन्तीत्याह -
एवमिति ।
यस्मात्तद्धर्मप्राप्त्यभावस्तस्माद्भोजनद्रव्येणैव होम इत्युपसंहारः । प्राणाय स्वाहा इत्यादयो मन्त्राः ।
ननु स्वामिभोजनस्योत्तरकालत्वं श्रुत्यादिविहितं कथं पूर्वोऽतिथिभ्योऽश्नीयादितिवचने बाध्यते तत्राह -
न ह्यस्तीति ।
उपासकान्यस्वामिविषयमुत्तरकालत्वविधानमित्यर्थः । न त्विति प्राथम्यमात्रेणेत्यर्थः ।
प्राणोपासकस्य प्राप्ते भोजने प्राथम्यार्थतयादरस्यान्यथासिद्धौ फलितमाह -
तस्मादिति ॥४१॥
तन्निर्धारणा ।
उभयथा दृष्टान्तदर्शनात्संशयमाह -
किं तानीति ।
यथानाराभ्याधीतपर्णमयीत्वं जुहूद्वारा क्रत्वङ्गतया कर्मसु नित्यं प्रयुज्यते, तथाङ्गाश्रितोपासनान्युद्गीथादिद्वाराऽङ्गतया नित्यानि, उत क्रत्वङ्गाप्प्रणयनश्रयो गोदोहनसंयोगः पशुफलार्थत्वादनित्यत्वेन यथा प्रयुज्यते यथा वा पश्वङ्गयूपाश्रयं बैल्वत्वमन्नाद्यफलत्वादनित्यं तथा कर्मसमृद्यादिफलकत्वादुपासनान्यनङ्गत्वेनानित्यानीति संशयार्थः । पूर्वपक्षे उपासनानां प्रयोगनित्यत्वं, सिद्धान्ते त्वनित्यत्वमिति फलभेदः ।
अनित्यभोजनाश्रयप्राणाग्निहोत्रस्यानित्यत्ववन्नित्यकर्माङ्गोपास्तीनां नित्यत्वमिति प्रत्युदाहरणदृष्टान्तेन पूर्वपक्षमाह -
किं तावदिति ।