अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तृतीयाध्याये प्रथमः पादः (२)

तीर्ण­त्व­हे­तु­र­प्य­सिद्ध इत्याह -
सेतुं तीर्त्वेति ॥३२॥

परि­मि­त­त्व­म­प्य­सि­द्ध­मि­त्याह -
बुद्ध्यर्थ इति ।
वाक्प्रा­ण­च­क्षुः­श्रो­त्राणि मनसः पादा अग्नि­वा­य्वा­दि­त्य­दिश आकाशस्य पादा ध्यानार्थं कल्पि­ता­स्त­द्व­द्ब्र­ह्मण उन्मानमित्यर्थः ।

लौकिकं दृष्टान्तमाह -
अथवेति ।

पादकल्पनां विनापि व्यवहारः किं न स्यादित्यत आह -
न हीति ।
कार्षापणस्य व्यवहाराय पाद­क­ल्प­ना­व­त्म­न्द­धियां ध्यानव्यवहाराय ब्रह्मण उन्मा­न­क­ल्प­ने­त्यर्थः ॥३३॥

संबन्धभेदौ कल्पितौ न सत्य­द्वि­ती­य­सा­ध­का­वि­त्याह -
स्थानेति ।
स्थान­मु­पा­धि­बु­द्ध्यादिः । एकस्यैवोपाधिना भिन्न­स्यो­पा­धि­शान्तौ सत्यां संबन्ध उपचर्यते । यथा सौरा­लो­का­दे­र­ङ्गु­ल्या­द्यु­पा­धिना भिन्न­स्यो­पा­धि­वि­योगे महा­लो­का­द्या­त्मना संब­न्धो­प­चा­र­स्त­द्व­त्त­था­दित्य चक्षुषोः स्थान­यो­र्भे­दा­द्धि­र­ण्म­य­पु­रु­ष­भे­द­क­ल्प­ने­त्यर्थः ॥३४॥

मुख्यावेव संबन्धभेदौ किं न स्यातामित्यत्र सूत्रम् -
उपपत्तेश्चेति ॥३५॥
स्वरूपेण ब्रह्मणा जीवस्य संबन्धो भेदनिवृत्तिरूपो युज्यते न मुख्यः संयोगादिः वस्तु­द्व­या­स­त्त्वा­त्तथा भेदोऽपि न स्वत एक­त्व­श्रु­ते­रि­त्यर्थः ॥३६॥

ननु द्वितीयाभावे सर्व­ग­त­त्व­श्रु­ति­वि­रोध इत्यत आह -
अनेन सर्वगतत्वमिति ।
द्वितीयं सत्यं चेत्से­त्वा­दि­व­द्ब्र­ह्म­णोऽ­ल्प­ता­स्यात् 'यत्रा­न्य­त्प­श्यति तदल्पम्' इति श्रुतेः किञ्च निर­व­य­वा­सं­ग­ब्र­ह्मणः सत्य­प्र­प­ञ्च­सं­ब­न्धा­यो­गा­त्त­वैव सर्व­ग­त­त्व­श्रु­ति­वि­रोध इति भावः अधि­ष्ठा­ने­ना­ध्यस्तं जग­द्व्या­प्त­म­ध्य­स्त­त्वात् रज्ज्वा व्याप्तसर्पवत्, इति न्यायः ॥३७॥

एवं तत्पदलक्ष्यं संशोध्य वाच्यार्थमाह -
फलमत उपपत्तेः ।
निर्वि­शे­ष­त्वा­दन्यः स्वभावः फलहेतुत्वाख्यः इष्टं सुखं देवादीनां, अनिष्टं दुःखं नारकिणां, व्यामिश्रं मनुष्याणां, संसारो जन्ममृतिप्रवाहः गोचरः आश्रयो यस्य तत्संसारगोचरम् ।

अत्र कर्मेश्वरयोः फल­हे­तु­त्व­श्रुतेः संशयमाह -
किमिति ।
अत्र पूर्वपक्षे फलदातुरीश्वरस्य तत्प­द­वा­च्य­स्या­सि­द्धे­र्ल­क्ष्या­सिद्धिः सिद्धान्ते तत्सिद्धिरिति फलभेदः । पूर्वो­क्त­नि­र्वि­शे­ष­त्व­मु­प­जीव्य फल­दा­तृ­त्व­म­पी­श्व­रस्य नास्तीति पूर्व­प­क्षो­त्था­ना­त्सं­गतिः ।

यद्यपि सर्व­ग­त­त्व­व­त्फ­ल­दा­तृत्वं व्यवहारदशायां सिध्यति यथापि कर्मण एव फलदातृत्वमिति शङ्का­नि­रा­से­नो­क्त­ल­क्ष्या­र्थ­नि­र्वा­ह­क­वा­च्या­र्थ­नि­र्ण­या­र्थ­म­स्या­धि­क­र­ण­स्या­रम्भ इति मत्वा सिद्धान्तं तावदाह -
तत्र तावदिति ।
स्वर्गादिकं विशि­ष्ट­दे­श­का­ल­क­र्मा­भि­ज्ञ­दा­तृकं, कर्मफलत्वात्, सेवा­फ­ल­व­दि­त्यु­प­पत्तिः ।

यागा­दि­क्रि­याख्यं कर्म तावत्क्षणिकं तत्किं स्वनाशात्फलं जनयत्युत फलमुत्पाद्य नश्यति, आहो­स्वि­द­पू­र्वा­त्फ­ल­सिद्धिः, नाद्य इत्याह -
अभावादिति ।

द्वितीयं शङ्कते -
स्यादिति ।

कर्म­ना­श­क्ष­ण­मा­र­भ्या­म­भि­व्य­क्त­स्व­र्ग­सु­खा­दि­सत्त्वे मानं नास्तीतिदूषयति -
तदपीत्यादिना ।

तृतीयं शङ्कते -
अथेति ।

अपूर्वं किं स्वतन्त्रमेव फलदानाय प्रवर्तते, चेतनाधिष्ठितं वा, नाद्य इत्याह -
तदपीति ।
द्वितीये त्वदृ­ष्टा­न­भि­ज्ञ­जी­व­स्या­धि­ष्ठा­तृ­त्वा­यो­गा­दी­श्व­र­स्या­धि­ष्ठा­तृ­त्व­सि­द्धि­रिति भावः ।

प्रौढ­वा­दे­ना­पूर्वं नास्तीत्याह -
तदस्तित्व इति ।
क्षणिकयागादेः श्रुत­स्व­र्गा­दि­हे­तु­त्वा­नु­प­पत्त्या स्थाय्य­पू­र्व­सि­द्धि­रिति चेत् । न । कर्म­भि­रा­रा­धि­ता­दी­श्व­रा­देव स्थायिनः फल­सि­द्धे­रि­त्यर्थः । न केव­ल­त­र्के­णा­पूर्वं सिध्यतीति भावः ॥३८॥

'कृता­त्य­येऽ­नु­श­य­वान्' इत्य­त्रो­दा­हृ­ताभिः 'य इह रम­णी­य­च­रणाः' इत्या­दि­श्रु­ति­स्मृ­ति­भि­र­पू­र्व­सि­द्धि­श्चे­त्ता­भि­री­श्व­र­स्यापि फलदातृत्वं स्वीका­र्य­मि­त्याह -
श्रुत­त्वा­च्चे­ति­सू­त्र­कारः ।
अन्न­मा­स­म­न्ता­त्प्रा­णिभ्यो ददातीत्यन्नादः, वसुदानो धनदाता, कर्मणोऽपूर्वस्य वा जड­त्वे­नो­प­क­र­ण­मा­त्र­त्वा­त्स्व­तन्त्र ईश्वर एव फलदातेति सिद्धान्तो दर्शितः ॥३९॥

इदानीं पूर्वपक्षयति -
धर्ममिति ।
विधि­श्रु­ति­र्वि­ध्यर्थः, तस्य लिङर्थस्य प्रेरणात्मनो यागो विष­य­स्त­द्भा­वा­व­ग­मा­द्यागः स्वर्गसाधनमिति गम्यते । याग­स्ये­ष्ट­सा­ध­न­त्वा­भावे प्रेर­णा­नु­प­प­त्ते­रि­त्यर्थः ।

अपूर्वद्वारा कर्मणः फलमुपपद्यत इत्युक्त्वा सिद्धान्तं दूषयति -
ईश्वरस्त्विति ।

ईश्वरः किं कर्मानपेक्षः फलं ददाति तत्सापेक्षो वा, आद्य आह -
अवि­चि­त्र­स्ये­त्या­दिना ।
द्वितीये संवे­ष्ट­न­सं­स्का­र­मा­त्रा­त्क­टादौ वेष्ट­न­व­त्क­र्मा­पू­र्वा­देव फलसिद्धेः किमीश्वरेणेति भावः । अत्र वयं वदामः - चन्द­न­क­ण्ट­का­दि­दृ­ष्ट­सं­प­त्त्यैव सुखादिसंभवे कृतं धर्मा­ध­र्मा­भ्या­मिति श्रुति­स्मृ­ति­ब­ला­त्त­द­पे­क्षा­या­मी­श्व­रेण किमपराद्धम् । अतः ईश्व­रा­न­पे­क्षा­त्के­व­ला­त्क­र्मणः फल­मि­त्य­यु­क्त­मिति ॥४०॥

सिद्धान्तयति -
पूर्वं त्विति ।
अचेतनस्य कर्मणः स्वतः प्रवृ­त्त्य­यो­गा­त्से­वा­दि­दृ­ष्टा­न्ता­नु­सा­रि­श्रु­ते­र्ब­ली­य­स्त्वा­त्स­र्व­वे­दा­न्ते­ष्वी­र­श्वस्य जग­द्धे­तु­त्व­श्रु­ते­श्चे­श्व­रा­धि­ष्ठि­ता­त्क­र्मणो जग­द­न्तः­पा­ति­फ­ल­सि­द्धि­रिति समुदायार्थः ॥४१॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां तृती­य­स्या­ध्या­यस्य द्वितीयः पादः ॥
॥ इति तृतीयाध्यायस्य तत्त्वं­प­दा­र्थ­प­रि­शो­ध­नाख्यो द्वितीयः पादः ॥

तृतीयाऽध्याये तृतीयः पादः ।
मार्तण्डं ध्वान्तनाशाय तिलकस्वामिनं मुदे ।
विघ्नेशं विघ्न­वि­ध्वस्त्यै प्रणमामि मुहुर्मुहुः ॥
ब्रह्मस्वरूपं निर्धार्य तज्ज्ञा­न­सा­ध­नो­पा­स­ना­स्व­रू­प­माह -
सर्व­वे­दा­न्त­प्र­त्ययं चोद­ना­द्य­वि­शे­षा­दिति ।

पादसंगतिमाह -
व्याख्यातमिति ।
पूर्वपादे तत्त्वं­प­दा­र्थ­वि­वेकः कृतः । इह तत्फलं वाक्या­र्थ­ज्ञा­न­मा­न­न्दा­दयः प्रधानस्येति सूत्रे­णा­पु­न­रु­क्ता­पे­क्षि­त­त­त्प­द­त­द्वा­च्या­र्थो­प­सं­हा­रेण निर्धार्यत इति फलफलिभावः संगतिः । सगु­ण­वा­क्या­र्थ­वि­द्या­चिन्ता तु तद्विद्यानां चित्तै­का­ग्र्य­द्वारा निर्गु­ण­ज्ञा­न­सा­ध­न­त्वा­त्क्रि­यत इति मन्तव्यम् ।

संप्रति निर्गुणज्ञानं भेदा­भे­द­वि­चा­र­वि­ष­य­त्वे­नो­क्त­मिति मन्वान आक्षिपति -
नन्विति ।
वेद्यभेदे विद्याभेदचिन्ता स्यात् ब्रह्मणस्तु वेद्य­स्यै­क्यान्न चिन्तावसर इत्यर्थः ।

ब्रह्मैक्येऽपि धर्म­भे­दा­च्चि­न्ते­त्यत आह -
एकरूपत्वाच्चेति ।
निर्ध­र्म­त्वा­दि­त्यर्थः ।

एकरूपेऽपि ब्रह्म­ण्य­ने­क­प्र­का­र­सं­भ­वा­द्भे­द­शङ्का इत्यत आह -
न चेत्यादिना ।

पूर्वपक्षे ज्ञान­भे­द­श­ङ्का­नु­प­प­त्ति­मुक्त्वा चोद­ना­द्य­भे­दा­ज्ज्ञा­ना­भेद इति सिद्धा­न्तोऽ­प्य­युक्त इत्याह -
नाप्यस्येति ।

एवं पादा­र­म्भ­मा­क्षिप्य समाधत्ते -
तदुच्यत इति ।
सगुणविद्यास्वेव भेदाभेदचिन्ता क्रियते निर्गु­ण­वि­द्यायां त्वैक्यं सिद्धमिति वाच्या­र्थ­रू­प­गु­णो­प­सं­हा­र­मात्रं क्रियते वाक्या­र्थ­नि­र्ण­या­येति भावः । पञ्चा­ग्नि­प्रा­ण­द­ह­र­शा­ण्डि­ल्य­वै­श्वा­न­रा­दि­विद्या मिथोभिन्ना इति 'नाना­श­ब्दा­दि­भे­दात्' इत्यत्र वक्ष्यते । अत्र तु मिथोभिन्नास्ताः किं प्रतिशाखं भिद्यान्ते न वेति नामा­दि­भे­दा­च्चो­द­ना­द्य­वि­शे­षाच्च संशयः । पूर्वपक्षे विद्या­भे­दा­द्गु­णा­नु­प­सं­हारः सिद्धान्ते त्वभेदादुपसंहार इति फलभेदः । पूर्वतन्त्रे शाखा­न्त­रा­धि­क­र­ण­पू­र्व­प­क्ष­सूत्रं नाम­रू­प­ध­र्म­वि­शे­ष­पु­न­रु­क्ति­नि­न्दा­श­क्ति­स­मा­प्ति­व­च­न­प्रा­य­श्चि­त्ता­न्या­र्थ­द­र्श­ना­च्छा­खा­न्तरे कर्मभेदः स्यादिति । तत्रोक्ता हेतवो नामादयो विद्या­भे­दा­र्थ­मि­हो­च्यन्ते 'अथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत' इत्यत्र प्रकृ­त­ज्यो­ति­ष्टो­मा­नु­वा­देन सह­स्र­द­क्षि­णा­ख्य­गु­ण­वि­धि­मा­शङ्क्य ज्योतिरितिपदस्य कर्मा­न्त­र­ना­म­त्व­सं­भवे ज्योति­ष्टो­म­ल­क्ष­क­त्वा­यो­गा­द­थेति प्रक­र­ण­वि­च्छे­दाच्च ज्योति­ष्टो­मा­त्क­र्मा­न्तरं विशि­ष्ट­द­क्षि­णाकं विधीयत इति नाम्नः कर्म­भे­द­क­त्व­मु­क्तम् । ज्योति­रा­दि­ष्वि­त्या­दि­प­दे­ना­ध्व­र्यवं हौत्रमिति संज्ञा­भे­दा­त्क­र्म­भेदो ग्राह्यः । तप्तं क्षीरं दध्ना कठिनमामिक्षा, तत्र द्रवं जलरूपं वाजिनमिति भेदः,'तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मिक्षा वाजिभ्यो वाजिनम्' इत्यत्र वैश्व­दे­व्या­मि­क्षा­यागे वाजि­ना­ख्य­गु­ण­विधिः वाजिभ्य इति विश्वे­दे­वा­नु­वा­दा­दि­त्या­श­ङ्क्या­मिक्षां प्रत्यु­प­स­र्ज­न­त्वे­नो­क्त­वि­श्वे­दे­वानां वाजिभ्य इत्य­नु­वा­दा­यो­गा­दु­त्प­त्ति­शि­ष्टा­मि­क्षा­व­रुद्धे कर्मणि वाजि­न­द्र­व्य­स्या­ना­का­ङ्क्षि­तस्य विध्य­यो­गा­द्वा­जि­दे­व­ताको वाजिनयागः कर्मान्तरमिति द्रव्य­दे­व­ता­ख्य­रू­प­भे­दा­त्क­र्म­भेदः सिद्धान्तितः । आदिपदात् 'ऐन्द्रं दध्यैन्द्रं पयः' इति द्रव्य­भे­दा­द्या­ग­भेदो ग्राह्यः । एवमिहापि पञ्चा­ग्नि­ष­ड­ग्नि­रू­प­भे­दा­द्वि­द्या­भेदो वाजिच्छन्दोगयोः । तथा रेतोन्यूना वागा­द­य­श्छा­न्दोग्ये तत्सहिता वाजिनामिति प्राण­वि­द्या­भेदः, कारी­रि­वा­क्या­ध्य­यने तैत्तिरीयकाणां भूमौ भोजनं धर्मविशेषो नान्येषां, अग्न्यध्ययने केषा­ञ्चि­दु­पा­ध्या­या­र्थ­मु­द­का­ह­रणं धर्मो नान्येषां, अश्व­मे­धा­ध्य­य­नेऽ­श्व­घा­सा­न­यनं केषाञ्चिदेव नान्येषां, नच तान्येव कारीर्यादीनि कर्माणि धर्म­वि­शे­ष­म­पे­क्षन्ते नापेक्षन्ते चेति युक्तं, अतो धर्म­वि­शे­षा­च्छा­खा­न्तरे कर्मभेदः शङ्कि­त­स्त­था­त्रापि मुण्डकाध्ययनेन केषाञ्चिदेव शिर­स्य­ङ्गा­र­पा­त्र­धा­र­ण­रूपं व्रतं नान्येषामिति विद्याभेदः स्यात् पुन­रु­क्ति­र­भ्यासः । यथा 'समिधो यजति तनूनपातं यजति' इति यज­त्य­भ्या­सा­त्प्र­या­जानां भेद उक्तस्तथा शाखा­न्त­रेऽ­भ्या­सा­द्वि­द्या­भेदः । आदि­प­दा­न्नि­न्दा­दि­ग्र­हः,'प्रातः प्रातरनृतं ते वदन्ति पुरो­द­या­ज्जु­ह्वति येऽग्नि­हो­त्रम्' इत्यनुदितहोमस्य 'यदुदिते सूर्ये प्रात­र्जु­हु­या­द्य­था­ति­थये प्रद्रुताय शून्या­या­व­सा­था­या­हार्यं हरन्ति तादृगेव तत्' इत्युदितहोमस्य च निन्दा­श्रु­ते­र्भेदः, एक­स्यै­वो­दि­तेऽ­नु­दिते चानु­ष्ठा­ना­यो­गात्, तथो­दि­ता­नु­दि­त­हो­मा­ति­क्र­म­कृ­त­प्रा­य­श्चि­त्ता­द­प्य­ग्नि­हो­त्र­भेदः शङ्कितः । एते निन्दा­प्र­य­श्चित्ते वेदान्तविद्यासु न विद्येते इति नोदाह्रियेते । यथा सर्व­शा­खा­वि­हि­तस्य कर्मणो ज्ञातुं कर्तुं चाऽश­क्ते­र्भे­द­स्तथा सर्व­वे­दा­न्ता­ध्य­य­न­ज्ञा­ना­द्य­श­क्ते­स्त­त्त­द्वे­दा­न्त­वि­द्या­भेदः स्यात्, तथा शाखानां सर्वासामेकरूपा समा­प्ति­र्नो­च्यते किन्तु कस्या­श्चि­त्क्व­चि­त्क­र्मणि समाप्तिरतः समा­प्ति­व­च­न­भे­दा­त्प्र­ति­शाखं कर्मभेदः शङ्कितः, तथा कस्य­चि­द्वे­दा­न्त­स्यो­ङ्का­र­सा­र्वात्म्ये समाप्तिः कस्य­चि­द­न्य­त्रेति विद्याभेदः, अन्या­र्थ­द­र्श­न­म­र्थ­वा­द­स्त­द्भे­दा­त्क­र्म­भे­द­व­द्वि­द्या­भेद इति पूर्व­प­क्ष­सू­त्रोक्ता हेतवो दर्शितास्ते केचि­त्सि­द्धान्ते पूर्वपक्षे चात्रोपयुञ्जन्त इति । तथा शब्दा­न्त­रा­भ्या­स­सं­ख्या­गु­ण­प्र­क्रि­या­ना­म­धे­यानि कर्मभेदकानि, तत्र नामधेयं गुणो रूपमभ्यासश्चेति त्रयं व्याख्यातं, यजे­द्द­द्या­ज्जु­हु­या­दिति प्रकृ­ति­श­ब्द­भे­देन धात्व­र्थ­भे­दा­त्त­द­व­च्छि­न्न­भा­व­ना­ख्य­क­र्म­भेद उक्तस्तथात्र वेदोपास्त इत्या­दि­श­ब्द­भे­दा­द्वि­द्या­भेदः, 'तिस्र आहु­ती­र्जु­होति' इति संख्यया कर्मभेदवत् 'वायु­प्राणौ' इति द्वित्वसंख्यया संव­र्ग­वि­द्या­भेदः स्यात् । नित्या­ग्नि­हो­त्र­प्र­क­र­णा­त्प्र­क­र­णा­न्तरे कुण्डपायिनामयने 'मास­म­ग्नि­होत्रं जुह्वति' इति श्रुत­म­ग्नि­होत्रं प्रक­र­णा­न्त­र­स्थ­त्वा­त्क­र्मा­न्त­र­मिति सिद्धान्तितम् । तथात्र वेदान्तभेदे प्रक­र­ण­भे­दा­दु­पा­स्ति­भेद इति पूर्वपक्षः ।

सिद्धान्तयति -
एवमिति ।
सर्वै­र्वे­दान्तैः प्रतीयन्त इति सर्व­वे­दा­न्त­प्र­त्य­यानि तैर्वि­हि­ता­नी­त्यर्थः ।

उक्त­ना­मा­दि­भि­र­ग्नि­हो­त्रा­दि­क­र्मणां प्रतिशाखं भेदे प्राप्ते शाखा­न्त­रा­धि­क­र­ण­सि­द्धा­न्त­सूत्रं 'एकं वा संयो­ग­रू­प­चो­द­ना­ख्या­वि­शे­षात्' इति । तत्र चोदनाविधायकः शब्दश्चोदितः प्रयत्नो वा । तस्या अविशेषमाह -
यथैकस्मिन्निति ।
एक­धा­त्व­र्थ­हो­मा­व­च्छि­न्न­प्र­य­त्नै­क्या­दु­पा­स्ति­य­त्नै­क्य­मि­त्यर्थः ।

यथा ज्येष्ठ­त्वा­दि­गु­ण­क­प्रा­ण­विद्या सर्वशाखास्वेका तथा पञ्चा­ग्नि­वि­द्या­प्येका फल­सं­यो­गा­द्य­वि­शे­षात्, तथान्यापि विद्याऽ­भि­न्ने­त्याह -
एवं पञ्चाग्नीति ।

पूर्व­प­क्ष­हे­तू­न्नि­रा­चष्टे -
ये त्विति ।
काठ­क­मि­त्या­दि­नाम्ना कर्मभेदो न युक्तः, कुतः अचो­द­ना­भि­धा­न­त्वा­त्का­ठ­का­दि­श­ब्दानां ग्रन्थनामतया कर्म­वा­चि­त्वा­भा­वा­दतो भिन्न­ना­म­क­शा­खा­ग्र­न्थ­भे­देऽपि ताद्विहितं कर्मैकमेव, अल्परूपभेदोऽपि न कर्मैक्यविरोधी, धर्म­वि­शे­ष­स्त्व­ध्य­य­नाङ्गं न कर्माङ्गमतो न कर्मभेदकः, शाखाभेदे पुन­रु­क्ति­र­सिद्धा, निन्दा­न्या­र्थ­द­र्श­न­यो­रपि न भेदकत्वं तत्त­द्वि­धि­स्तु­ति­मा­त्र­त्वा­द्ब­हु­शा­खा­ध्य­य­ना­श­क्ता­वपि स्वशा­खा­नु­क्त­वि­शे­ष­स्या­पे­क्षि­त­स्या­न्यतो ग्रह­ण­सं­भ­वा­द­श­क्ति­र­भे­दिका, एकस्मिन्नपि कर्म­ण्य­ङ्ग­लो­पा­दिना प्रायश्चित्तं संभवति । एवं समा­प्ति­व­च­न­भे­दोऽ­प्य­प्र­यो­जक इत्यैवं कर्मा­भे­द­प्र­मा­ण­प्रा­बल्ये भेदहेतवः परिहृता इत्यर्थः ॥१॥

तर्हि शाखा­न्त­र­न्या­ये­नैव कर्मै­क्य­व­द्वि­द्यै­क्य­सिद्धेः पुनरुक्तिरित्यत आह -
इहापीति ।
रूप­स्यो­त्प­त्ति­शि­ष्टत्वं विशेषः ।

पञ्चा­ग्नी­न्वे­दे­त्या­द्यु­पा­स­नो­त्प­त्ति­वि­धि­स्थ­प­ञ्चा­ग्न्या­दि­रू­प­भे­दा­दु­पा­स­ना­भेदः स्यादा­मि­क्षा­वा­जि­न­रू­प­भे­दा­त्क­र्म­भे­द­व­दि­त्य­धि­का­श­ङ्का­नि­रा­सा­र्थ­त्वान्न पौन­रु­क्त्य­म­स्या­धि­क­र­ण­स्येति मत्वा शङ्कां व्याचष्टे -
स्यादित्यादिना ।
अस्य पृथ­क्शा­स्त्र­त्वा­त्क­र्म­न्या­यानां मानसविद्यासु विना सूत्रं दुर्योजत्वाच्च पुन­रु­क्ति­ग­न्धोऽपि नास्तीति मन्तव्यम् ।

ननु तस्य मृतस्य दाहा­र्थ­म­ग्नि­र­न्त्ये­ष्टि­गतः षष्ठो यः प्रसि­द्ध­व­द्वा­जि­भि­रुक्तः स छान्दोग्ये उपसंहार्य इति न रूपभेदः, तत्राह -
न चात्रेति ।

अस्तु प्रजननगुणवतो रेतसो वाजि­ना­मा­वा­प­श्छ­न्दो­गानां च तस्योद्वापस्ततः किमित्यत आह -
आवापेति ।

छान्दोग्ये षष्ठा­ग्न्य­भा­व­म­ङ्गी­कृ­त्या­ल्प­रू­प­भेदो न विद्यै­क्य­वि­रो­धीति परिहरति -
नैष इत्यादिना ।

अङ्गीकारं त्यजति -
पठ्यतेऽपीति ।
इतोऽ­स्मा­ल्लो­का­दिष्टं लोकान्तरं प्रेतं गतं ज्ञातयोऽग्नये हरन्तीत्यर्थः ।

ननु छान्दो­ग्येऽ­ग्नि­मात्रं श्रुतं वाजिभिस्तु समिदादिविशेषः पठ्यते इति रूप­भे­द­स्त­द­वस्थः, तत्राह -
वाज­स­ने­यि­न­स्त्विति ।
षष्ठा­ग्ने­स्त­द्वि­शे­षस्य चानु­वा­द­मा­त्र­त्वे­ना­नु­पा­स्य­त्वा­त्प­ञ्चा­ग्नय एवोपास्या उभयत्रेति न रूपभेद इत्यर्थः ।

सविशेषस्य षष्ठा­ग्ने­रू­पा­स्य­त्वेऽपि न रूपभेद इत्याह -
अथापीति ।
द्युलोकादीनां पञ्चा­ना­म­न­ग्नी­ना­म­ग्नि­त्व­सं­प­त्ति­वि­धि­नै­वा­र्था­त्प­ञ्चत्वं संप­त्ति­क­ल्पि­ता­ग्नीनां सिद्धमनूद्यते न ध्येयत्वेन विधीयत इत्यर्थः ।

छन्दो­गै­र्वा­जि­शा­खास्थं रेत उप­सं­ह­र्त­व्य­मि­त्यु­क्त्वाऽ­नु­प­सं­हा­रेऽपि न विद्याभेद इत्याह -
न चावापेति ॥२॥

एवं रूपभेदो न विद्याभेदक इत्युक्त्वा धर्मविशेषोऽपि न भेदक इत्याह -
स्वाध्यायस्येति ।
गोदा­न­व­द­ध्य­य­ना­ङ्ग­त्वेन शिरो­व्र­त­मा­थ­र्व­णि­कानां सूत्रे विहितं न विद्या­ङ्ग­मि­त्यर्थः ।

अधिकाराच्चेति व्याचष्टे -
नैतदिति ।
एतत्प्रकृतं मुण्ड­क­म­न­नु­ष्ठि­त­शि­रो­व्रतो नरो नाधीत इति श्रुते­र्मु­ण्ड­का­ध्य­य­ना­ङ्ग­मेव शिरो­व्र­त­मि­त्यर्थः ।

ननु विद्या­ङ्ग­त्वे­नापि इदं व्रतं श्रुतमिति शङ्कते -
नन्विति ।
सर्वशाखासु ब्रह्मविद्यैकैव चेद्वि­द्या­सं­युक्तं व्रतमपि सर्वत्र संबध्येत । नच संबध्यत इति विद्याभेद इत्यर्थः ।

प्रकृ­त­ग्र­न्थ­वा­च्यै­त­च्छ­ब्द­ब­ला­द्ब्र­ह्म­प्र­का­श­ग्र­न्थ­परो ब्रह्म­वि­द्या­शब्द इति परिहरति -
नेति ।
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शननिर्देशः । सवा होमाः । अथर्वणैः स्वसूत्रे उदित एकोऽ­ग्नि­रे­क­र्षि­सं­ज्ञया प्रसि­द्ध­स्त­स्मि­न्नग्नौ कार्या इति यथा नियम्यन्ते तथेत्यर्थः ॥३॥

किञ्च वेद्यैक्येन निर्गु­ण­ब्र­ह्म­वि­द्यैक्यं ताव­च्छ्रु­ति­र्द­र्श­यति, तत्सं­नि­धि­पा­ठा­त्स­गु­ण­वि­द्या­ना­मपि सर्व­शा­खा­स्वै­क्य­सि­द्धि­रि­त्याह सूत्रकारः -
दर्शयति चेति ।

सगुणमप्येकं वेदत्रये वेद्यं दर्शयतीत्याह -
तथेति ।

किञ्च शाखा­न्त­रो­क्त­पा­दा­र्थस्य शाखान्तरे सिद्ध­व­त्प­रा­मर्शो विद्यैक्यं दर्शयतीत्याह -
तथा मह­द्भ­य­मि­त्या­दिना ।
एष नर एत­स्मि­न्न­द्व­येऽ­ल्प­म­प्य­न्तरं भेदं यदा पश्यत्यथ तदा तस्य संसारभयं भवत्येव, यस्माद्विदुषो नरस्य भेददर्शिनस्तदेव ब्रह्म भयङ्करं भवति, ब्रह्मै­वा­ह­मि­त्य­म­न्वा­न­स्ये­त्यर्थः ।

प्रादे­श­मा­त्र­मु­पास्त इति सिद्धवदुपादानं वैश्वा­न­र­वि­द्यैक्यं दर्शयतीत्याह -
तथेति ।

किञ्च सर्वेषु वेदा­न्ते­षू­क्था­दीनां प्रतीयमानत्वेन हेतुनैतदवगम्यते अन्यत्रोक्तानां तेषा­म­न्य­त्रो­पा­स्त्य­र्थ­मु­पा­दा­न­मिति । तत­स्त­दु­पा­स्ती­ना­मपि सर्व­वे­दा­न्त­प्र­मा­ण­क­त्वे­नैक्यं बाहुल्येन सिध्यतीत्याह -
तथेति ।
ब्रह्म­वि­द्यै­क्य­व­दु­क्था­दि­वि­द्यै­क्य­मि­त्यर्थः ॥४॥

सर्वशाखासु विद्यै­क्य­चि­न्तायाः फलमाह -
उपसंहार इति ।
शाखाभेदे समानविद्यायां श्रुता गुणा यथाश्रुति व्यवस्थिता उत एकत्राश्रुता इतरशाखात उपसंहर्तव्या इति संदेहे विद्यैक्येऽपि तत्र तत्रोक्तैरेव गुणै­र्वि­द्यो­प­का­र­सिद्धेः शाखाभेदेन गुणा व्यवस्थिता इति पूर्वपक्षः, तत्र प्रकृ­त­वि­द्यै­क्य­चि­न्ता­नै­ष्फ­ल्य­मिति फलम् ।

सिद्धान्तत्वेन सूत्रं व्याचष्टे -
स्थिते चेत्यादिना ।
गुणानां गुण्य­वि­ना­भा­वा­दे­त­च्छा­खास्था विद्या शाखा­न्त­रो­क्त­त­द्वि­द्या­गु­ण­वती, तदभिन्नत्वात्, तद्वि­द्या­व­दि­त्य­नु­मा­न­द्वि­द्यैक्ये गुणो­प­सं­हा­र­सि­द्धि­रि­त्यर्थः ।

प्रधानैक्ये तत्त­दु­प­का­र­का­णा­म­ङ्गा­ना­मु­प­सं­हारे दृष्टान्तमाह -
विधिशेषवदिति ।

उक्तमेव व्यतिरेकमुखेनाह -
यदि हीति ।

नन्वा­ग्ने­य­या­गा­व­रु­द्धानां गुणानां ततोऽभिन्ने सौर्ये प्राप्ति­व­द्वि­द्या­न्त­र­स्थ­गु­णानां विद्यान्तरे प्राप्तिः किं स्यादित्यत आह -
प्रकृतीति ।
प्रकृतिगुणानां विकारे प्राप्ति­र्युक्ता विद्यानां तु प्रकृ­ति­वि­कृ­ति­भा­वा­सि­द्धेर्न तत्प्रा­प्ति­रि­त्यर्थः । नैवमिति गुणानुपसंहारो नेत्यर्थः ।

उत्त­र­सू­त्रा­णा­म­नेन सूत्रेण पौनरुक्त्यं वारयति -
अस्यैवेति ॥५॥

पूर्वं चोद­ना­द्य­वि­शे­षा­दु­त्स­र्गतो विद्यैक्यमुक्तं तस्यापवादं वक्तुमाह -
अन्यथात्वमिति ।

अत्र वाजि­ना­मु­द्री­य­ब्रा­ह्मणं छन्दो­गा­ना­मु­द्गी­था­ध्यायं च विषयमाह -
वाजेत्यादिना ।
'ते ह देवाः सात्त्वि­क­वृ­त्तयः प्राणा अन्यो­न्य­मु­चू­र्ह­न्ते­दा­नी­म­स्मि­न्यज्ञे उद्गी­थे­नौ­द्गा­त्रेण कर्मणा रज­स्त­मो­वृ­त्ति­रू­पा­न­सु­रा­न­तीत्य देवत्वं गच्छामः' इति ते चैवं निर्दे­ष­मु­द्गी­थ­क­र्ता­र­मु­पास्यं निर्धारयितुं कृतसंवादाः प्रथमं वाच्यं परी­क्षि­त­व­न्त­स्त्व­मौ­द्गात्रं नोऽस्माकं कुर्विति तया त्वनृतं कृतं तथा घ्राण­च­क्षुः­श्रो­त्र­म­नां­स्यपि कामे­ना­सु­र­पा­प्मना ग्रस्तानीति निन्दित्वा आसन्यमास्ये भवं मुखमध्यस्थं प्राणमुपास्यं निर्धारितवन्त इत्यर्थः । तत्त­त्रा­न्यो­न्य­भि­भ­वा­त्म­क­युद्धे प्रवृत्ते देवाः पूर्व­व­दु­द्गी­थ­मा­हृ­त­वन्तः अने­नो­द्गी­थे­नै­ना­न­सु­रा­ञ्ज­ये­मे­त्यर्थः ।

भेदा­भे­द­मा­नाभ्यां संशयमाह -
तत्रेति ।
अत्र पूर्वा­धि­क­र­ण­सि­द्धा­न्त­न्या­ये­नो­द्गी­थ­वि­द्येति संज्ञैक्येन विद्यैक्यमिति पूर्वपक्षे मिथो गुणोपसंहारः फलं, सिद्धान्ते संज्ञैक्येऽपि विद्यै­क्या­प­वा­दा­द­नु­प­सं­हार इति । एवं यत्र पूर्वन्यायेन पूर्वपक्षः तत्रापवादिकी संगतिरिति मन्तव्यम् ।

सूत्र­स्थ­सि­द्धा­न्ति­श­ङ्का­भागं व्याचष्टे -
ननु न युक्तमिति ।
संपू­र्णो­द्गी­थ­क­र्म­कर्ता प्राणो वाजिनामुपास्यः, उद्गायेति कर्तृ­श­ब्दा­च्छ­न्दो­गानां तूद्गीथावयव ओङ्कारः प्राण­दृ­ष्ट्यो­पास्यः, ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मि­त्यु­प­क्रम्य प्राण­मु­द्गी­थ­मिति कर्म­रू­प­त्व­श­ब्दात्, तथाच कर्तृ­क­र्म­णो­रू­पा­स्य­यो­र्भे­दा­द्वि­द्य­यो­र­न्य­थात्वं भेद इति शङ्कार्थः । उद्गीथत्वेनेति ओङ्का­र­त्वे­ने­त्यर्थः ।

अल्परूपभेदो न विद्यै­क्य­वि­रो­धी­त्यु­क्त­न्या­येन पूर्वपक्षी परिहरति -
नैष इति ।
असु­रा­त्य­या­भि­प्रायः असुरजयार्थं संवादः, यथाश्मानं प्राप्य लोष्टो विध्वंसते तथा प्राणं हन्तुमागता असुरास्तस्य वीर्येण स्वयमेव ध्वस्ता इति श्रुत­मु­भ­य­त्रे­त्यर्थः ।

अल्प­रू­प­भे­द­म­ङ्गी­कृ­त्यापि विद्यैक्यमुक्तं सोऽपि नास्तीत्याह -
वाजेति ।
उद्गी­थ­क­र्तृ­रू­प­त्वेन प्राणस्योभयत्र श्रुतत्वादेकत्र श्रुतं कर्तृ­त्व­म­प्यु­भ­यत्र द्रष्ट­व्य­मि­त्यर्थः ॥६॥

बहु­वि­रु­द्ध­रू­प­भे­दात् न विद्यैक्यमिति सिद्धान्तयति -
न वेति ।

अक्षरं विशिनष्टि -
उद्गीथमिति ।
तदवयवमित्यर्थः ।

पृथि­व्या­दि­र­सानां रसतम ओङ्कारः, आप्तिः समृद्धिरिति गुणानुक्त्वा गुणवत्योङ्कारे प्राण­दृ­ष्टि­वि­धा­ना­या­ख्या­यिका प्रस्तुतेत्याह -
रसतमेति ।

ननु वाजि­वा­क्यै­क­वा­क्य­त्वार्थं छान्दो­ग्यो­प­क्र­म­स्थ­मु­द्गी­थ­पदं संपू­र्ण­सा­म­भ­क्ति­प­र­मस्तु, प्राण­मु­द्गी­थ­मि­त्य­त्रा­प्यु­द्गी­थ­कर्ता प्राण उपास्य इति व्याख्या­य­ता­मि­त्यत आह -
तत्र यद्युद्गीथेति ।
ओङ्का­रो­पा­स्त्यु­प­क्र­म­भङ्ग उद्गीथपदे कर्तृलक्षणा चेति दोषद्वयं स्यादित्यर्थः ।

ननु सिद्धान्तेऽपि तत्प­देऽ­व­य­व­ल­क्षणा स्वीकार्या ततो वरं कर्तृलक्षणा श्रुत्य­न्त­रा­नु­ग्र­हा­त्तथा चोपसंहारे कर्तृ­प्रा­णो­पा­स्ति­नि­श्च­या­दु­प­क्र­मेऽपि तन्निश्चय इत्यत आह -
उपक्रमेति ।
संदिग्धोपक्रमो हि वाक्य­शे­षा­न्नि­श्ची­यते । यथा 'अक्ताः शर्कराः' इत्य­त्रा­ञ्ज­न­द्र­व्य­सं­देहे 'तेजो घृतम्' इति शेषान्निश्चयः । इह तूप­क्र­मेऽ­क्ष­र­स्यो­पा­स्यत्वं निश्चितं, तत्स­मा­ना­धि­क­र­णो­द्गी­थ­प­द­स्या­व­य­व­ल­क्षणा च विनिश्चितेति प्राण­मु­द्गी­थ­मि­त्यु­प­सं­हा­र­स्त­दे­का­र्थ­तया नेय इत्यर्थः ।

एवं छान्दोग्ये ओङ्कार उपास्य उक्त इतरत्र तु प्राण इत्यु­पा­स्य­भे­दा­द्वि­द्या­भेद इत्याह -
वाजेति ।

यदुक्तं वाजिश्रुतावपि प्राण­स्यो­द्गी­थ­रू­प­त्व­श्रु­ते­रू­पा­स्यै­क्य­मिति तद्दूषयति -
यदपीत्यादिना ।
तत्रोद्गीथ उपास्यतया नोक्तः किन्तु प्राण­स्यो­पा­स्यस्य गुणतयेत्यर्थः ।

किञ्चोद्गीथ ओङ्का­र­श्छा­न्दो­ग्येऽत्र तु भक्ति­रि­त्यु­पा­स्य­भेद इत्याह -
सकलेति ।

प्राणस्य जड­त्वा­न्नो­द्गा­तृत्वं किन्तू­द्गी­थ­त्व­मेव वाजिभरपि ग्राह्य­मि­त्यै­क्य­मा­श­ङ्क्याह -
न चेति ।
स उद्गाता वाग्वि­शि­ष्ट­प्रा­णे­नौ­द्गात्रं कृतवानिति श्रुतेरसंभवोऽपि नेत्यर्थः ।

यदुक्तं बहु­त­रा­र्था­वि­शे­षाद्धि विद्यैक्यमिति, तत्राह -
न चेति ।
एकत्रोद्गाता प्राण उपा­स्योऽ­न्य­त्रो­ङ्कार इत्य­न्त­र­ङ्गो­पा­स्य­रू­प­भेदे स्पष्टे सति बहि­र­ङ्गा­र्थ­वा­द­सा­म्य­मा­त्रेण नोपासनैक्यं युक्तमित्यर्थः ।

वाक्य­सा­म्य­मा­त्रे­णा­र्थैक्यं नास्तीत्यत्र दृष्टान्तमाह -
तथा हीति ।
'वि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुर­स्ता­च्च­न्द्रमा अभ्युदेति त्रेधा तण्डु­ला­न्वि­भ­जेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरो­डा­श­म­ष्टा­क­पालं कुर्याद्ये स्थवि­ष्ठा­स्ता­नि­न्द्राय प्रदात्रे दधंश्चरुं येऽणि­ष्ठा­स्ता­न्वि­ष्णवे शिपिविष्टाय शृते चरुम्' इत्य­भ्यु­द­य­वा­क्यम् । अस्यार्थः - यस्य यजमानस्य चतु­र्द­श्या­मे­वा­मा­वा­स्या­भ्रा­न्त्या­द­र्श­क­र्मार्थं प्रवृत्तस्य पुरस्तात्पूर्वं हवि­स्त­ण्डु­ल­द­धि­प­यो­रूपं निरुप्तं दर्श­दे­व­ता­भ्योऽ­ग्न्या­दिभ्यः सङ्कल्पितं चन्द्रमाश्च पश्चादभ्युदेति तमेतं यजमानं काल­व्य­त्य­या­प­रा­धा­त्त­देव निरुप्तं हविः प्रजादिनार्धयति वियोजयति शत्रुं चास्य वर्धयति यस्मा­त्का­ल­भ्रा­न्ति­मा­न्य­ज­मानः, ये मध्यमादिभावेन त्रेधा भूतास्तण्डुला दध्यादिसहिता निरु­प्ता­स्ता­न्वि­भ­जे­द­ग्न्या­दिभ्यो वियोजयद्वियोज्य च दातृ­त्वा­दि­गु­ण­का­ग्न्या­दिभ्यो दर्श­दे­व­भि­न्नेभ्यो निर्वपेदिति दधन् दधनि स्थवि­ष्ठ­त­ण्डु­ल­चरुं शृते दुग्धेऽ­णि­ष्ठ­च­रु­मि­त्यर्थः । अत्र कालापराधे देवान्तरयुक्तं प्राय­श्चि­त्त­रूपं दर्शाद्भिन्नं कर्म विधीयत इति प्राप्ते तण्डु­ल­त्रे­धा­त्वा­द्य­नु­वा­देन विभजेदिति हविषः प्रकृ­त­दे­व­वि­यो­गेन तस्मिन्नेव दर्शकर्मणि देव­ता­न्त­र­सं­ब­न्ध­मा­त्र­वि­धानं न कर्मान्तरमिति सिद्धान्तितम् । एवमभ्युदयवाक्ये काला­प­रा­धे­नो­प­क्र­मा­द्द­र्श­क­र्म­ण्येव हविषः पूर्व­दे­व­ता­भ्योऽ­प­नयो वियो­गोऽ­ध्य­व­सितः, पशुकामवाक्ये तु यद्यपि ये स्थवि­ष्ठा­स्ता­न­ग्नये सनि­म­तेऽ­ष्टा­क­पालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदि­ष्ठा­स्ता­नि­न्द्राय प्रदात्रे दधंश्चरुमिति निर्दे­शोऽ­भ्यु­द­य­वा­क्येन समोऽस्ति, तथापि यः पशुकामः स्यात्सोऽ­मा­वा­स्या­मिष्ट्वा वत्सा­न­पा­कु­र्या­दिति नित्यं दर्शकर्म समाप्य पुनर्दोहार्थं वत्सा­पा­क­र­ण­वि­ध्यु­प­क्र­मा­त्प­शु­का­मस्य यागान्तरविधिरेव नाभ्यु­द­य­वा­क्ये­ना­र्थै­क्य­मिति तथा प्रकृतेऽपि निर्देशसाम्यं न विद्यै­क्य­प्र­यो­ज­क­मि­त्यर्थः । वत्सा­न­पा­कु­र्या­न्मा­तृ­दे­शा­द्दे­शा­न्तरं नयेदित्यर्थः ।

सूत्रोक्तं दृष्टान्तं व्याचष्टे -
परो­व­री­य­स्त्वा­दि­व­दिति ।
पर इति सकारान्तं पर­स्मा­त्प­र­श्चासौ वराच्च वरतर इति परो­व­री­या­नि­त्येकं पदम् । अनन्तश्च आकाशाख्यः परमात्मा तद्दृ­ष्ट्या­ल­म्ब­न­त्वा­दु­द्गी­थ­स्त­थोक्त इत्यर्थः । आकाशात्मना हिर­ण्य­श्म­श्रु­पु­रु­षा­त्मना चोद्गी­थो­पा­स्ति­सा­म्येऽपि विद्या­भे­द­व­दि­हापि भेद इत्यर्थः ॥७॥

संज्ञैक्यं पूर्व­प­क्ष­बी­ज­मु­द्भाव्य दूषयति -
संज्ञात इति ।
उपा­स्य­रू­प­भे­दा­द्वि­द्या­ना­नात्वं यदुक्तं तच्छ्रु­त्य­क्ष­रा­नु­गतं बलवत्, संज्ञा तु पौरुषेयी दुर्बलेत्यर्थः ।

संज्ञैक्यं कर्मै­क्य­व्य­भि­चारि चेत्याह -
अस्ति चेति ।

किं संज्ञैक्यं सर्व­त्रा­प्र­मा­ण­मेव नेत्याह -
यत्र त्विति ।
असति बाधके संज्ञैक्यमपि मानं यथा संवर्गविद्येति संज्ञै­क्या­त्स­र्व­शा­खासु तद्विद्यैक्यं, तथा पञ्चा­ग्न्या­दि­वि­द्यै­क्य­मि­त्या­द्य­सूत्रे दर्शितमित्यर्थः ॥८॥

व्याप्तेश्च समञ्जसम् ।

सामानाधिकरण्यं विषयीकृत्य संशयमाह -
ओमित्येतदिति ।

अध्या­सा­दि­प­दा­र्था­न्व्या­चष्टे -
तत्राध्यास इत्यादिना ।
बुद्धि­पू­र्व­का­भे­दा­रो­पोऽ­ध्यासः, बाधोऽपवादः, एकत्वं वास्तवाभेदः, विशेषणं व्यावर्तकमिति विवेकः ।

पूर्व­मु­द्गा­तृ­क­र्मा­त्म­को­द्गी­था­व­य­व­त्व­मो­ङ्का­रस्य ध्येयस्य विशेषणं सिद्धवत्कृत्य ध्येय­भे­दा­द्वि­द्या­भेदः सिद्धान्तितः स न युक्त इत्या­क्षे­प­सं­गत्या पूर्वपक्षयति -
तत्रेति ।

अत्र पूर्वपक्षे पूर्वो­क्त­सि­द्धा­न्ता­सिद्धिः फलं सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तसूत्रं व्याचष्टे -
चशब्द इत्यादिना ।

पक्षत्रयस्य दुष्टत्वं प्रति­ज्ञा­या­ध्या­स­पक्षे दोषमाह -
तत्राध्यास इति ।
यस्योद्गीथस्य बुद्धि­रो­ङ्का­रेऽ­ध्य­स्यते तद्वा­च­को­द्गी­थ­श­ब्द­स्यो­ङ्कारे लक्षणा स्यात्त­द्बु­द्धि­वि­ष­य­त्व­गु­ण­प­र­त्वा­त्तथा संब­न्धोऽ­प्य­सिद्धः कल्पनीयः, प्रतीकोपास्तेः फलं च कल्प्यमिति गौरवं स्यादित्यर्थः ।

फलं न कल्प्यमिति शङ्कते -
श्रूयत इति ।

आप्त्यादीति ।
'ओङ्कार आप्तिः समृ­द्धि­रिति' 'य उपास्ते स कामा­ना­प्नोति' इति श्रुतं फलं नाध्या­स­स्ये­त्यर्थः ।

उद्गी­थो­ङ्का­र­यो­र­न्य­त­र­बु­द्या­न्य­त­र­बु­द्य­प­वा­द­म­ङ्गी­कृ­त्या­न्य­त­र­मि­थ्या­बु­द्धि­नि­वृ­त्ति­वै­फ­ल्य­मुक्तं संप्र­त्य­न्य­त­र­बु­द्धे­र­भ्रा­न्ति­त्वा­न्ना­प­वाद इत्याह -
न च कदाचिदपीति ।
भ्रान्ति­श्चे­त्नि­व­र्तेत न तु निवर्तत इत्य­भ्र­न्ति­रि­त्यर्थः ।

किञ्च तत्त्व­बो­ध­का­द्वा­क्या­द्भ्रा­न्त्य­प­वादो भवति नेदं वाक्यं तत्त्वपरमित्याह -
न चेति ।

घट­कु­म्भ­श­ब्द­यो­रि­वो­ङ्का­रो­द्गी­थ­श­ब्दयोः पर्यायत्वपक्षं दूषयति -
नापीति ।

पर्यायत्वमपि नास्तीत्याह -
न चेति ।

परि­शि­ष्ट­वि­शे­ष­ण­पक्षे सूत्रं योजयति -
व्याप्तेरिति ।
'ओमि­त्य­क्ष­र­मु­पा­सीत' इत्युक्ते सर्व­वे­द­व्या­प्यो­ङ्कार इहोपास्तौ प्रसज्येत तन्नि­रा­सा­र्थ­मु­द्गी­था­व­य­वत्वं विशेषणं समञ्जसमित्यर्थः । अध्यासपक्षे तद्बु­द्धि­वि­ष­य­त्व­गु­ण­यो­ग­रूपः संबन्धः कल्प्य इति विप्रकृष्टा लक्षणा, अवयवलक्षणा तु संनिकृष्टा अव­य­वा­व­य­वि­सं­ब­न्धस्य कॢप्तत्वात्, पटावयवे दग्धे पटो दग्ध इति लोके प्रयोगाच्च । नामादौ ब्रह्मशब्दस्य त्वगत्या ब्रह्म­बु­द्धि­ग्रा­ह्य­त्व­गु­ण­ल­क्ष­णा­श्रिता तत्र प्रती­को­पा­स्ते­र्वि­व­क्षि­त­त्वात् । इह तु प्रती­को­पा­स्ति­वि­धि­क­ल्पने आप्त्या­दि­गु­ण­को­ङ्कारे प्राण­दृ­ष्टि­वि­धाने च वाक्यभेदः स्यादतः सर्व­वे­द­व्या­प्यो­ङ्का­र­नि­रा­से­नो­ङ्कारे प्राण­दृ­ष्टि­वि­धा­नार्थं विशेषणमेव समञ्जसं कल्पनालाघवादिति सिद्धम् ॥९॥

सर्वा­भे­दा­द­न्य­त्रेमे ।

विषयं वक्तुं संमतमर्थमाह -
वाजिनामिति ।
वाचो वसिष्ठत्वं गुणो वाग्मिनः सुखवासदर्शनात् । चक्षुषः प्रतिष्ठा गुणः चक्षुष्मतः पाद­प्र­ति­ष्ठा­द­र्श­नात् । श्रोत्रं संपद्गुणकं श्रव­णा­त्स­र्वा­र्थ­सं­पत्तेः । मन आयतनत्वगुणं तस्य वृत्तिद्वारा सर्व­भो­ग्या­श्र­य­त्वात् । ते च गुणाः प्राणस्य श्रैष्ठ्यं निश्चित्य वागा­दि­भि­स्त­स्मि­न्न­र्पिता इति शाखा­द्व­य­सं­म­तोऽर्थः ।

विषयमाह -
अन्ये­षा­मि­त्या­दिना ।
निश्रेयसस्य श्रैष्ठ्य­स्या­दानं निर्धारणं प्रस्तूयत इत्यर्थः । देवता वागा­द­योऽ­हं­श्रे­यसे स्वश्रै­ष्ठ्या­ये­त्यर्थः ।

एवं­श­ब्दा­च्छ्रै­ष्ठ्य­गु­ण­क­प्रा­ण­प्र­त्य­भि­ज्ञा­नाच्च संशयमाह -
तत्रेति ।
गुणा­ना­म­नु­प­सं­हा­रो­प­सं­हा­रा­वेव पूर्वो­त्त­र­प­क्षयोः फलम् ।

उद्गी­थ­त्व­वि­शे­ष­णा­दो­ङ्का­रस्य सर्व­वे­द­व्या­प्ति­व्या­वृ­त्ति­व­त्प्र­कृ­त­गु­ण­मा­त्र­ग्रा­ह­कै­वं­श­ब्दा­च्छा­खा­न्त­र­गु­ण­व्या­वृ­त्त­रिति दृष्टान्तेन पूर्वपक्षयति -
तत्र प्राप्तमिति ।
यथा वागादिभ्यः प्राणश्रैष्ठ्यं सिद्धमथो तथा य एवं श्रैष्ठ्यगुणं विद्वानुपास्ते स प्राणे श्रैष्ठ्यं विदित्वा श्रेष्ठो भवतीति श्रुत्यर्थः ।

एवं जाती­य­क­वि­द्यै­क्या­त्प्रा­प्त­मा­र्थिकं वसि­ष्ठ­त्वा­दि­गु­ण­जा­त­मे­वं­शब्दो न गृह्णाति श्रुता­व­ल­म्बि­त्वा­दिति प्राप्ते सिद्धान्तयति -
अस्येरन्निति ।

वाज­स­ने­यि­ब्रा­ह्मणे तावदेवंशब्देन वसि­ष्ठ­त्वा­दि­गु­ण­जा­तस्य प्राण­वि­द्या­सं­बन्धः सिद्धः सैव विद्या कौषीतकिश्रुतौ प्रत्य­भि­ज्ञा­यते, तथाच गुणानां गुण्य­वि­ना­भा­वे­ना­र्थतः प्राप्तानामपि श्रुत­गु­णै­र­वि­रो­धा­त्स­हैव श्रुतमार्थं च गुणजातं श्रुत्य­र्थाभ्यां संनि­हि­त­त्वा­वि­शे­षा­त्कौ­षी­त­कि­ग­ते­नै­वं­श­ब्देन परामृश्यत इत्याह -
तथापीति ।

कौषी­त­कि­श्रु­तिस्थः प्राणो वसि­ष्ठ­त्वा­दि­गु­णकः, श्रेष्ठ­प्रा­ण­त्वात्, वाजि­श्रु­ति­स्थ­प्रा­ण­व­दि­त्य­श्रु­त­गु­णा­नु­माने सति श्रुत­हा­नि­र्नास्ति, अवि­रो­धा­दि­त्युक्तं स्पष्टयति -
न चैवं सतीति ।

अपरिगणिता अपि गुणाः श्रुता एवेत्यत्र दृष्टान्तमाह -
न हीति ।

फलितमाह -
तस्मादिति ॥१०॥

आनन्दादयः प्रधानस्य ।

ब्रह्मणो ज्ञेय­स्यै­क्या­न्नि­र्वि­शे­ष­त्वाच्च संशयमाह -
तेषु संशय इति ।
पूर्वपक्षे सत्या­दि­प­दा­नु­प­सं­हा­रा­द्वा­क्या­र्था­न­व­धा­रणं, सिद्धान्ते त्ववधारणमिति फलम् । प्राण­स्य­स­वि­शे­ष­त्वा­द्युक्तः शाखा­न्त­री­य­व­सि­ष्ठ­त्वा­द्यु­प­सं­हारः, ब्रह्मणस्तु निर्वि­शे­ष­त्वा­त्स्व­शा­खा­ग­त­प­दै­रेव प्रमि­ति­सि­द्धे­र्व्यर्थः पदान्तरोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः ।

सिद्धान्तमाह -
इदमिति ।
आन­न्द­त्व­स­त्य­त्व­ज्ञा­न­त्वा­दि­सा­मा­न्यानि ब्रह्मणि कल्पिता धर्मास्तेषां सर्व­शा­खा­सू­प­सं­हारो नाम तद्वा­च­का­न­न्दा­दि­प­दा­ना­मे­क­वा­क्य­त­यो­च्चा­र­ण­मा­नन्दः सत्यं ज्ञानमनन्तं ब्रह्म शुद्ध­म­द्व­य­मा­त्मेति । तानि च समानाधिकरणानि पदानि विरु­द्ध­ध­र्म­त्या­गेन सर्वा­धि­ष्ठा­न­भू­ता­मे­का­म­ख­ण्ड­व्यक्तिं लक्षयन्ति । न चैकेनैव पदेन लक्ष्यसिद्धेः पदान्तरं व्यर्थमिति वाच्यं, एकस्मिन्पदे विरोधाभावेन लक्षणानवतारात् । यद्यपि पदद्वयेऽपि लक्षणावतरति तथाप्यानन्दो ब्रह्मेत्युक्ते दुःख­त्वा­ल्प­त्व­भ्र­न्ति­नि­रा­सेऽ­प्य­स­त्त्व­ज­ड­त्वा­दि­भ्रमो भवे­द­त­स्त­न्नि­रा­सार्थं सत्य­ज्ञा­ना­दि­प­दानि प्रयोक्तव्यानि । न च भ्रम­स्या­न­व­धि­त्वा­द्वा­क्य­म­प­र्य­व­सितं स्यादिति वाच्यम् । सच्चि­दा­न­न्दा­त्मकं सर्व­ध­र्म­शू­न्य­म­द्व­य­म­वि­कल्पं ब्रह्माहमिति विशेषदर्शने सर्व­भ्र­म­नि­रा­सात् । तच्च विशेषदर्शनं यावद्भिः पदैर्भवति तावन्ति पदा­न्यु­प­सं­ह­र्त­व्या­नीति भावः ॥११॥

ब्रह्मै­क्या­च्चे­दा­न­न्द­त्वा­दि­ध­र्माणां सर्वत्र प्राप्तिस्तर्हि सगु­ण­ब्र­ह्म­वि­द्या­ग­त­ध­र्म­प्रा­प्ति­रपि स्यादिति शङ्कानिरासार्थं सूत्रं व्याचष्टे -
प्रियेति ।
पुत्रदर्शनसुखं प्रियं तद्वार्तादिना मोदस्तस्य विद्याद्यतिशये प्रमोद इत्येवं तारतम्यवन्तो धर्मास्त्वद्वये ज्ञेये न प्राप्नुवन्ति तेषा­म­ब्र­ह्म­स्व­रू­पाणां ब्रह्म­ज्ञा­ना­नु­प­यो­गा­दिति भावः ।

तेषां ब्रह्म धर्मत्वं चासिद्धमित्याह -
न चैत इति ।

ब्रह्मणि चित्ता­व­ता­रो­पा­य­त्वेऽपि तेषां प्राप्तिः स्यादि­त्या­श­ङ्क्याह -
एवमपीति ।
अज्ञेयत्वादेषां न ज्ञेये ब्रह्मणि प्राप्ति­रि­त्यर्थः ।

किमर्थं तर्हि सूत्रमित्यत आह -
ब्रह्मधर्मानिति ।

कृत्वा­चि­न्ता­फ­ल­माह -
स चेति ।
ज्ञेये बाह्य­ध­र्मा­णा­म­नु­प­यो­गा­द­प्रा­प्ति­रिति न्याया­त्सं­य­द्वा­म­त्वा­दी­ना­म­प्रा­प्ति­रिति सूत्रं व्याख्ये­य­मि­त्यर्थः ।

ज्ञाना­नु­प­यो­गेऽपि ध्याने तेषां धर्मा­णा­मु­प­यो­गा­दु­पा­स्य­ब्र­ह्मै­क्या­त्प्रा­प्ति­र­न्यो­न्य­वि­द्यासु स्यादि­त्या­श­ङ्क्याह -
तेषु हीति ।
ध्यान­वि­धि­प­र­त­न्त्राणां धर्माणां यथाविधि व्यवस्थेत्यर्थः ॥१२॥

संय­द्वा­म­त्वा­दि­ध­र्मेभ्य आनन्दादीनां वैषम्यं ज्ञानो­प­यो­गि­त्वा­दि­त्याह -
इतरे त्विति ।
सत्य­ज्ञा­ना­न­न्दा­त्म­ब्र­ह्म­शब्दाः पञ्च सर्व­त्रो­प­सं­ह­र्तव्या इति सिद्धम् ॥१३॥

आध्यानाय वाक्य­भे­दा­भे­दा­न­व­धा­र­णा­त्सं­श­य­माह -
तत्रेति ।
पूर्वपक्षे वाक्य­भे­दा­द्वि­द्या­भेदः, सिद्धान्ते वाक्यै­क्या­द्वि­द्यै­क्य­मिति फलम् । पूर्वत्र ब्रह्म­स्व­भा­वा­ना­मा­न­न्दा­दी­ना­मु­प­सं­हा­र्याणां ब्रह्म­ज्ञा­न­फ­लो­पा­य­त्व­मु­क्तम्, अत्र­त्व­ब्र­ह्म­स्व­भा­व­स्या­र्था­दि­प­र­त्व­स्या­नु­प­सं­हा­र्यस्य तदुपायत्वमुच्यत इत्येकफलकत्वं संगतिः, तत्त­त्प­र­त्व­वि­शि­ष्ट­त्वे­ना­र्था­दी­ना­म­पू­र्व­तया प्रतिपाद्यानां भेदाद्वाक्यभेदो न दोष इति पूर्वपक्षः ।

उत्सू­त्र­सि­द्धान्तं प्रतिज्ञाय सौत्रं हेतुं व्याचष्टे -
पुरुष एवेति ।
फलवत्त्वे सत्य­पू­र्व­त्वा­त्पु­रु­ष­स्यैव प्राधान्येन प्रति­पा­द्य­त्व­म­फ­ला­र्था­दीनां परत्वं तु तच्छे­ष­त्वे­नो­च्यत इत्यर्थः ।

किञ्च 'पुरुषान्न परं किञ्चित्सा काष्ठा' इति वेदः परनिषेधलिङ्गेन सर्व­बा­धा­व­धि­त्व­लि­ङ्गेन च पुरुषे तात्पर्यं दर्श­य­न्पू­र्व­स्मा­त्पू­र्व­स्मा­द­प­र­स्या­प­रस्य पर­त्वो­क्ति­स्त­द­र्थेति दर्शयतीत्याह -
अपि चेति ।

अर्था­दी­ना­म­त्रो­क्ति­रा­ध्या­नाय तत्त­त्प­र­त्वा­ध्या­न­पू­र्वकं पुरुषदर्शनायैव स्वतः प्रयो­ज­ना­भा­वा­दिति सूत्रं योजयति -
आध्यानायेति ॥१४॥

आत्म­त्वा­दि­लि­ङ्गैश्च पुरुष एव प्रतिपाद्य इत्याह -
आत्मशब्दाच्चेति ।

किञ्च 'तद्विष्णोः परमं पदं, पुरषान्न परं किञ्चित्' इत्यु­प­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्या­त्कॢ­प्त­फ­ल­व­दे­क­पु­रु­ष­प­र­त्वे­नै­क­वा­क्य­त्व­नि­श्चये सति वाक्य­भे­द­फ­ल­भे­द­क­ल्पना न युक्ता गौरवादित्याह -
अपि चेति ॥१५॥

आत्मगृहीतिः ।
मिषत् चलत् ।

लोकानाह -
अम्भ इति ।
अम्भः स्वर्गः, मरी­च­योऽ­न्त­रि­क्ष­लोकः, मरो मर्त्यलोकः, आपः पाताललोक इत्यर्थः ।

आत्मशब्दस्य ब्रह्मणि सूत्रात्मनि च प्रयो­गा­त्सं­श­य­माह -
तत्रेति ।
अत्र पूर्वपक्षे वाक्यस्य सूत्रो­पा­स्ति­प­र­त्वा­त्प­र­ब्र­ह्म­ध­र्मा­णा­मा­न­न्दा­दी­ना­मै­त­रे­य­केऽ­नु­प­सं­हारः, सिद्धान्ते ब्रह्म­प­र­त्वा­दु­प­सं­हार इति फलम् ।

पुरु­ष­वा­क्या­द्भे­द­प्र­स­ङ्गा­द­र्था­दि­वा­क्यानां नार्था­दि­प्र­ति­पा­द­क­त्व­मि­त्युक्तं तद्वदिहापि प्रजापते रेतो देवा इति पूर्व­स्मा­त्प्र­जा­प­ति­वा­क्या­द्भे­द­प्र­स­ङ्गा­दात्मा वा इत्यादिवाक्यस्य न ब्रह्मपरत्वमिति दृष्टान्तेन पूर्वपक्षयति -
न पर­मा­त्मे­त्या­दिना ।
वाक्यस्य प्रजापतौ तात्प­र्य­द­र्श­ना­दि­त्यर्थः ।

पूर्व­प­क्ष­मा­क्षिप्य लोक­स्र­ष्टृ­त्व­लि­ङ्गान्न प्रजापतौ वाक्यान्वय इत्याह -
नन्वित्यादिना ।

लोका एव महाभूतानीत्यत आह -
लोकाश्चेति ।
लोकशब्दस्य महा­भू­ते­ष्व­रू­ढ­त्वा­द्भौ­तिका एव लोकाः ।

निर्व­च­ना­च्चे­त्याह -
तथा चेति ।
अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुति­र्व्या­चष्टे - परेण दिवं दिवः परस्ताद्दिवि प्रति­ष्ठि­त­श्च­न्द्राऽ­म्भसा व्याप्तो यो लोकः तदम्भः, अन्तरिक्षं मरीचयः, पृथिवी मरः, या अधस्तात्ता आप इति ।

ननु लोक­सृ­ष्टि­र­पी­श्व­रा­दे­वास्तु नेत्याह -
लोकेति ।
पुरुषविधो नराकारः । आत्मा हिरण्यगर्भः, आपिपीलिकाभ्यः सर्व­म­सृ­ज­ते­त्यर्थः । भूतानां लोकानामित्यर्थः ।

प्रकरणादपि लोकस्रष्टा प्रजापतिरित्याह -
ऐतरेयिणोऽपीति ।
रेतः कार्यमिति यावत् ।

ब्रह्मलिङ्गानि प्रजापतौ योजयति -
आत्म­श­ब्दोऽ­पी­त्या­दिना ।

किञ्च प्रजाः सृष्ट्वा ताः प्रति भोगार्थं गामा­न­य­ल्लो­क­स्रष्टा तथाऽश्वमानयत् । तास्तु गवा­श्व­प्राप्त्या न तृप्तास्ततः पुरुषशरीरे आनीते ता अब्रु­वं­स्तृप्ताः स्म इति । अयं च व्यवहारो लोकस्रष्टुः प्रजापतित्वे लिङ्गमित्याह -
अपि चेति ।

आत्मशब्दस्य चिदात्मनि मुख्य­त्वा­न्मु­ख्य­ग्रहे बाध­का­भा­वा­दु­त्त­र­स्ये­क्ष­णा­दे­र­नु­कू­ल­त्वा­त्प­र­मा­त्म­ग्र­ह­ण­मिति सिद्धान्तयति -
एवं प्राप्त इति ।
महा­भू­त­सृ­ष्टि­पू­र्वकं लोकानासृजतेति श्रुति­र्व्या­ख्ये­येति भावः ॥१६॥

पूर्व­प­क्ष­बी­ज­म­नूद्य दूषयति -
अन्वयादिति ।
'आत्मा वा इदमेक एवाग्र आसीत्' इति 'प्रज्ञानं ब्रह्म' इति चोप­क्र­मो­प­सं­हा­र­स्था­त्म­ब्र­ह्म­श्रु­ति­भ्या­मे­क­त्वा­व­धा­रा­णा­त्प्र­वे­शा­दि­लि­ङ्गैश्च लोक­स्र­ष्टृ­त्वा­दि­लि­ङ्ग­बा­धेन प्रत्यग्ब्रह्म ग्राह्यमिति भावः । स परमेश्वरः । एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया ब्रह्म­र­न्ध्रा­ख्यया द्वारा लिङ्गविशिष्टः प्रवि­ष्ट­वा­नि­त्यर्थः । मां विना यदि वागादिभिः स्वस्वव्यापारः कृतः, अथ तदाहं क इति त्वंपदार्थं विचार्य स्वयमेतमेव शोधितमात्मानं ब्रह्म ततमं व्याप्त­त­म­म­प­श्यत् । तका­र­लो­प­श्छा­न्दसः । प्रज्ञा चिदात्मा नेत्रं नीयतेऽनेनेति नियामकं यस्य तत्प्र­ज्ञा­नेत्रं चिदा­त्म­नि­य­म्य­मि­त्यर्थः ।

उक्तव्याख्याने गुणो­प­सं­हा­र­स्या­स्फु­ट­त्वान्न पादसंगतिरिति मत्वैव व्याख्यान्तरमाह -
अपरेति ।
उदर्क उपसंहारः ।

सच्छ­ब्द­स्या­त्मा­ना­त्म­सा­धा­र­ण्या­त्सं­श­य­माह -
तत्रेति ।
पूर्वपक्षे सत्तासामान्ये ब्रह्मा­त्म­त्व­सं­प­दु­पा­स्ति­श्छा­न्दोग्ये, वाजश्रुतौ निर्गुणविद्येति भेदा­न्मि­थो­गु­णा­नु­प­सं­हारः । सिद्धान्ते तूभयत्र निर्गु­ण­वि­द्यै­क्या­दु­प­सं­हार इति फलभेदः । पदानां जातौ शक्ति­ग्र­हा­त्स­च्छ­ब्दोऽपि सत्ता­जा­ति­वा­ची­त्यु­प­क्र­मस्य निश्चि­ता­र्थ­त्वा­द­सं­जा­त­वि­रो­ध्यु­प­क्र­म­ब­लेन तादात्म्योपदेशः संपत्तिपरतया नेय इति पूर्व­प­क्ष­नि­ष्कर्षः । पूर्वत्र वाक्यै­क्या­द­र्था­दि­प­रत्वं त्यक्त्वा विद्यै­क्य­मु­क्त­मिह तु सदा­त्म­श­ब्दाभ्यां जात्या­त्म­वा­चि­भ्या­मु­प­क्र­म­भे­दा­द्वा­क्य­भेदे सति विद्याभेद इति प्रत्यु­दा­ह­र­ण­सं­गतिः । न चात्मशब्दो जातिवाचकः, आत्म­व्य­क्त्यै­क्या­ज्जा­त्य­भा­वा­त्किन्तु सर्वा­न्त­र­व­स्तु­वा­चकः । कल्पि­त­जा­ति­वा­चि­त्वेऽ­प्यु­प­क्र­म­भेदः स्फुट एव सत्ता­त्म­त्व­यो­र्भे­दा­दिति मन्तव्यम् ।

सिद्धान्तयति -
तथेत्यादिना ।

उप­क्र­मा­न्व­या­दिति ।
उप­क्र­मा­धी­न­त्वा­दु­प­सं­हा­र­स्ये­त्यर्थः ।

तच्चावधारणं सत्प­दे­ना­त्म­गृ­हीतौ सत्यां युज्यत इत्याह -
तच्चेति ।
सदे­क­मे­वे­त्य­व­धा­रणं, अनेन जीवेनात्मनेति सद्देवताकर्तृको जीव­स्या­त्म­श­ब्देन परामर्शः, सुप्तौ जीवः सता संपन्नौ भवतीति कथनम् । भूय एव मा भगवान् विज्ञापयत्विति परिचोदना ।

सदितिपदेन सत्ताश्रया उच्यते न जातिमात्रं, कर्तृ­वा­चि­श­तृ­प्र­त्य­या­न्त­त्वात् । तथा चोपक्रमे सत्ता­श्र­य­सा­मा­न्योक्तौ क आश्रय इत्या­का­ङ्क्षायां वाक्य­शे­षा­दा­त्मेति निश्चीयत इत्याह -
न चेति ।

सच्छ­ब्द­स्या­त्मा­ना­त्म­सा­धा­र­ण्य­मु­पे­त्योक्तं तदपि नास्ति आत्म­प­द­व­त्स­त्प­दस्य व्यक्ति­वा­चि­त्वा­द्व्य­क्तिश्च बाधायोग्या चिदात्मैवेति न वाचि­छ­न्दो­ग­यो­रू­प­क्र­म­वै­ष­म्य­मि­त्याह -
सच्छब्देति ।

वैष­म्य­मु­पे­त्या­प्याह -
आम्नानेति ।

वाजिवाक्ये त्वमर्थस्य तदर्थपर्यन्तस्य लक्ष्यस्य प्रतिपादनं छान्दोग्यवाक्ये तु तदर्थस्य त्वम­र्थ­प­र्य­न्तस्य प्रतिपादनमिति प्रकारभेदेऽपि वाक्या­र्थै­क्या­द्वि­द्यै­क्य­मिति फलितमाह -
तस्मादिति ॥१७॥

कार्या­ख्या­ना­द­पू­र्वम् ।
'मे किमन्नं किं वासः' इति प्राणेन पृष्टा वागादयः ऊचुः, 'यदिदं किं चाश्वभ्य आ कृमि­भ्य­स्त­त्तेऽ­न्न­मापो वासः' इति सर्व­प्रा­णि­भि­र्भु­ज्य­मानं यदिदं प्रसिद्धं श्वादि­प­र्य­न्त­मन्नं तत्प्राणस्य तवान्नमाप आच्छा­द­न­मि­त्यु­पा­स­केन चिन्त­नी­य­मि­त्यर्थः ।

शाखा­द्व­येऽ­प्य­वि­शे­ष­श्रु­ति­मुक्त्वा विशे­श­ष­श्रु­ति­भे­द­माह -
अनन्तरं चेति ।
तस्मादपां प्राण­व­स्त्र­त्वा­द­शि­श­ष्य­न्तोऽ­शनं कुर्वन्तः श्रोत्रिया एतत्कुर्वन्ति । किं तत्, भोज­ना­त्पू­र्व­मूर्ध्वं चाचामन्तीति यत्तदद्भिः प्राणं परि­द­ध­त्या­च्छा­द­य­न्ती­त्यर्थः । पूर्वो­त्त­रा­च­म­न­सं­ब­न्धि­नी­ष्वप्सु प्राण­वा­स­स्त्व­चि­न्त­न­रू­प­म­न­ग्न­ता­ध्यानं कार्यमिति भावः । तत्त­स्मा­दि­त्यु­क्तार्थं यतः पूर्वे विद्वां­सोऽ­श­ना­त्प्रा­गूर्ध्वं चाचामन्त एतमेवान्नं प्राणं तत्ते­ना­च­म­ने­ना­न­ग्न­मा­च्छा­दितं कुर्वन्तो मन्यन्ते चिन्तयन्ति, तस्मा­दे­वं­वि­दि­दा­नी­न्त­नोऽ­प्यु­पा­सक एवं कुर्यादिति वाजिश्रुत्यर्थः ।

अत्रो­भ­यो­र­प्य­पू­र्व­त्वा­त्सं­श­य­माह -
तत्किमिति ।

संदि­ग्ध­स­दु­प­क्र­मस्य वाक्य­शे­षा­न्नि­र्ण­य­व­दा­चा­म­न्तीति पदस्य विधित्वसंदेहे आचामेदिति वाक्य­शे­षा­द्वि­धि­त्व­नि­र्णय इति दृष्टा­न्त­सं­गत्या पूर्वपक्षमाह -
किं तावदिति ।
ज्ञान­सा­ध­नो­पा­स­ना­ङ्ग­वि­धि­वि­चा­रा­त्पा­द­स­ङ्ग­ति­र्बोध्या । पूर्वपक्षे प्राण­वि­द्या­ङ्ग­त्वे­ना­पू­र्वा­च­मनं विहि­त­म­न्य­त्रो­प­सं­ह­र्त­व्य­मिति फलं सिद्धान्ते तस्या­वि­धे­य­त्वा­न्ना­ङ्ग­त्वे­नो­प­सं­हार इति विवेकः ।

उभयविधाने वाक्यभेदः स्यादि­त्य­रु­च्या­प­क्षा­न्त­र­माह -
अथवेति ।
प्रशस्तं हीदमाचमनं यस्मादनेन प्राणमनग्नं मन्यन्त इति स्तुतिः ।

प्रसि­द्धा­नु­वा­दे­ना­प्र­सिद्धं विधेयमिति न्यायेन सिद्धान्तयति -
एवमिति ।
प्रयतस्य प्रयत्नवतो भावः प्राय­त्यं­शु­द्धि­स्त­द­र्थ­मि­त्यर्थः । स्मृत्या शुद्यर्थं कार्यत्वेन विहि­त­स­क­ल­क­र्मा­ङ्ग­तया प्राप्ता­च­म­ना­नु­वा­दे­ना­पू­र्व­म­न­ग्न­ता­ध्या­न­मेव विधीयत इति सूत्रार्थः ।

स्मार्तमाचमनं श्रुत्या नानूद्यते किं त्वनया श्रुत्या विहितं स्मृत्यानूद्यत इति शङ्कते -
नन्विति ।

श्रुति­स्मृ­त्यो­र­न­योर्न मूलमूलिभावो भिन्न­वि­ष­य­त्वा­दिति परिहरति -
नेति ।
'द्विजो नित्य­मु­प­स्पृ­शेत्' इत्याद्या स्मृतिः ।

आच­म­ना­न्त­र­वि­धि­मु­पेत्य मूलमूलित्वं निरस्तं, संप्रति विधिरसिद्ध इत्याह -
न चेयं श्रुतिरिति ।
अत एवेति आच­म­न­वि­ध्य­भा­वा­दे­वे­त्यर्थः ।

अप्सु प्राण­वा­स­स्त्व­ध्या­नाख्यः संकल्पः प्राण­वि­द्या­ङ्ग­त्वेन विधीयत इत्याह -
तस्मादिति ।
स्वयं चेति अपू­र्व­त्वा­दि­त्यर्थः ।

शुद्यर्थं विनि­यु­क्त­स्या­च­म­नस्य प्राणा­च्छा­द­ना­र्थत्वं विरु­द्ध­मि­त्या­श­ङ्क्याह -
न चैवं सतीति ।
आच­म­न­स्या­च्छा­द­ना­र्थ­त्व­म­सि­द्ध­मि­त्यर्थः ।

किञ्च यथा पूर्ववाक्ये प्राण­स्या­न्न­ध्या­न­मङ्गं विहितं तथात्राप्सु वासोध्यानं विधीयते अन्यथाचमनविधौ पूर्वत्र ध्यान­वि­धि­रु­त्त­रत्र क्रिया­वि­धि­रि­त्य­र्ध­वै­शसं स्यादित्याह -
अपि चेति ।
भक्षयेदिति शब्दा­भा­वा­च्छ्वा­द्य­न्नस्य सर्वस्य मनुष्वेणोपासकेन भोक्तु­म­श­क्य­त्वाच्च न पूर्ववाक्ये क्रिया­वि­धि­रि­त्यर्थः ।

इतश्चाचमनमत्र न विधेयमित्याह -
अपि चेति ।

अनग्नं मन्यन्त इत्यत्र वास­स्त्व­ध्या­न­मपि न विधेयं दोषसाम्यदिति शङ्कते -
नन्विति ।
उभ­यो­र­प्य­नु­वा­दत्वे वैफ­ल्या­द­व­श्य­मे­का­नु­वा­दे­नैकं विधेयं तच्च विधेयं वासोध्यानमेव वासः कार्य­स्या­न­ग्न­त्व­स्या­ख्या­ना­द­पू­र्व­त्वा­च्चेति समाधानार्थः । पूर्ववदिति स्मृत्या प्राप्त­मि­त्यर्थः ।

आचामेदिति न विधिः किन्तु विष्णुरूपांशु यष्टव्य इतिवदनुवाद इत्यत्र लिङ्गमाह -
अत एवेति ।
तस्मा­दे­वं­वि­द­शि­ष्य­न्ना­चा­मे­द­शित्वा चाचामेदिति वाक्य­स्या­वि­धित्वे काण्वैरपठनं लिङ्गमित्यर्थः ।

तर्हि पाठ­ब­ला­न्मा­ध्य­न्दिने आचमनविधिः काण्वे ध्यानविधिरिति कस्यचिन्मतं निराकरोति -
योऽपीति ॥१८॥

समान एवञ्चाभेदात् ।
शाण्डिल्येन दृष्टा तन्नाऽ­म्ना­ङ्किता, अन्तर्हृदये व्रीह्या­दि­व­त्सू­क्ष्म­स्ति­ष्ठ­ती­त्यर्थः ।

अभ्या­स­प्र­त्य­भि­ज्ञाभ्यां संशयमाह -
तत्रेति ।
गुणा­नु­प­सं­हा­रो­प­सं­हारौ पूर्वो­त्त­र­प­क्षयोः फलम् ।

पूर्वत्र प्राप्ता­च­म­ना­नु­वा­दे­ना­न­ग्न­ता­ध्या­न­वि­धि­रुक्तः । इह त्वेकशाखायां विप्र­कृ­ष्ट­दे­श­स्थ­वा­क्य­यो­रे­कस्य विधि­त्व­म­न्य­स्या­नु­वा­द­त्व­मि­त्य­नि­श्च­या­द्द्व­यो­रपि विद्या­वि­धि­त्व­मिति प्रत्युदाहरणेन पूर्वपक्षयति -
किं तावदिति ।

यत्पुनरुक्तं, तद्वि­द्या­न्त­र­मिति न व्याप्तिः प्राण­प­ञ्चा­ग्न्या­दि­वि­द्यासु व्यभि­चा­रा­दि­त्या­शङ्क्य शाखाभेदे पुन­रु­क्ति­र­सि­द्धे­त्यु­क्त­मि­त्याह -
भिन्नास्विति ।

यथाऽ­ग्नि­हो­त्र­वाक्ये कर्मविधिः, 'दध्ना जुहोति' इति वाक्ये गुण­वि­धि­स्त­था­त्रा­प्यस्तु न विद्याभेद इत्याशङ्क्याह -
न चात्रैकमिति ।
उक्तगुणानां पुन­रु­क्ति­र्वृ­था­स्या­द­तोऽ­भ्या­सा­द्वि­द्या­भेदः प्रयाजभेदवदिति भावः ।

उक्तगुणोक्तिर्न वृथा कति­प­य­गु­ण­वि­शि­ष्टो­पा­स्या­भे­द­प्र­त्य­भि­ज्ञा­ना­र्थ­त्वा­दत उपा­स्य­रू­पा­भे­दा­द्भि­न्न­शा­खा­स्विव समानशाखायामपि विद्यैक्यमिति सिद्धान्तसूत्रं योजयति -
यथेति ।
सौत्र­श्च­का­रोऽ­प्यर्थो व्याख्यातः । यत्र बहवो गुणाः श्रुतास्तत्र प्रधा­न­वि­धि­र­न्यत्र तदनुवादेन गुणविधिरिति निश्च­या­द­ग्नि­र­हस्ये प्रधा­न­वि­धि­व­दु­त्त­रत्र गुणविधिरिति भावः ॥१९॥

संब­न्धा­दे­व­म­न्य­त्रापि ।
सद्भूतत्रयं त्यद्वा­य्वा­का­शा­त्मकं, सत्यं परोक्षभूतात्मकं हिरण्यगर्भाख्यं ब्रह्मोपक्रम्य, तदुक्तं यत्सत्यं तत्स योऽसावादित्यः किं मण्डलं न तत्र स्थाने पुरुषः करणात्मकः स एवा­ध्या­त्म­म­क्षि­स्था­नस्थ इत्युपदिश्य 'तस्य भूरिति शिरो भुव इति बाहुः स्वरिति पादौ' इति व्याहृतिरूपं शरीरमुक्त्वा द्वे उपनिषदौ रहस्यदेवतानामनी उपदिश्येते तस्या­दि­त्य­म­ण्ड­ल­स्थ­स्या­ह­रिति नाम प्रका­श­क­त्वा­त्त­स्या­क्षि­स्थ­स्या­ह­मिति नाम प्रत्य­क्त्वा­दिति ।

इदं नामद्वयं विषयस्तत्र नामिनः सत्याख्यस्य ब्रह्मण एक­त्वा­त्स्था­न­भे­दो­क्तेश्च संशयमाह -
तत्रेति ।
पूर्वपक्षे प्रतिस्थानं नाम­द्व­या­नु­ष्ठानं सिद्धान्ते यथा­श्रु­त्यै­कै­क­ना­मा­नु­ष्ठा­न­मिति फलम् ।

दृष्टा­न्त­सं­गत्या पूर्वपक्षसूत्रं व्याचष्टे -
यथेति ।
यथा विद्यै­क्या­दु­प­सं­हार उक्त एव­म­न्य­त्रा­प्ये­का­वि­द्या­या­मु­प­सं­हारो भवि­तु­म­र्ह­ती­त्यर्थः । सत्यं ब्रह्मे­त्यु­प­क्र­मा­भे­द­स्ता­वे­ता­व­क्ष्या­दि­त्य­पु­रु­षा­व­न्यो­न्य­स्मि­न्प्र­ति­ष्ठितौ, आदित्यरश्मीनां चक्षुषि चक्षु­ष­श्चा­दित्ये प्रतिष्ठानादिति व्यतिषक्तपाठो मिथः संश्ले­ष­पा­ठ­स्ताभ्यां विद्यै­क्य­सिद्धिः ।

विद्यैक्येऽपि किं स्यात्तत्राह -
कथमिति ।

विद्यैक्येऽपि स्थान­भे­दा­दु­प­नि­ष­दो­र­सं­करः स्यादि­त्या­शङ्कां दृष्टान्तेन परिहरति -
यो हीति ॥२०॥

नाम्यैक्यात् नामसंकरो युक्तः, तथा चाक्षि­स्थोऽ­ह­रिति नामवान् सत्य­ब्र­ह्म­त्वा­दा­दि­त्य­स्थ­व­दिति प्राप्ते सिद्धान्तसूत्रं योजयति -
न वेति ।
नाम्नो­रू­पा­स­न­स्था­न­वि­शि­ष्ट­सं­ब­न्धि­त्वा­दि­त्यर्थः । तस्यो­प­नि­ष­द­ह­र­ह­मिति च वाक्यद्वयेन तच्छ­ब्द­प­रा­मृ­ष्टयोः संनि­हि­त­स्था­न­वि­शि­ष्टयोः पुरु­ष­यो­र्ना­म­सं­ब­न्ध­प­रे­णो­प­सं­हा­रा­नु­मानं बाध्यमिति भावः ।

विशे­ष्यै­क्या­न्ना­म­सं­कर इत्याशङ्क्य स्थानभेदेन विशि­ष्ट­पु­रु­ष­भे­दा­न्ना­म­व्य­व­स्था­माह -
नन्वित्यादिना ।

विशिष्टसंबन्धे दृष्टान्तमाह -
अस्तीति ।

प्रति­दृ­ष्टा­न्तस्य स्वरू­प­सं­ब­न्धि­त्वा­द्वि­शिष्टे ध्येये प्रकृते दृष्टान्तत्वे नास्तीत्याह -
ग्रामेति ॥२१॥

उक्त­ना­म­व्य­व­स्था­या­म­ति­देशो लिङ्गमित्याह -
दर्शयति चेति ।
विद्यै­क्या­दे­वो­प­सं­हा­र­सि­द्धा­व­ति­देशो वृथा स्यात्त­स्मा­दे­क­वि­द्या­या­मपि स्थान­भे­दे­नो­क्त­गु­णानां विना­ति­दे­श­म­नु­प­सं­हार इति सिद्धम् ॥२२॥

संभृ­ति­द्यु­व्या­प्त्यपि चातः ।
ब्रह्मैव ज्येष्ठं कारणं येषां तानि ब्रह्म­ज्ये­ष्ठानि, निलोपश्छान्दसः, वीर्याणि पराक्रमविशेषा आका­शो­त्पा­द­ना­दयः, तानि च वीर्याणि संभृतानि निर्विघ्नं समृद्धानि, सर्वनियन्तुः कार्ये विघ्न­क­र्तु­र­स­त्त्वात् । तच्च ज्येष्ठं ब्रह्माग्ने देवा­द्यु­त्पत्तेः प्रागेव दिवं स्वर्गमाततान व्याप्तवत्सदा सर्व­व्या­प­क­मि­त्यर्थः । सर्वप्राथम्यं स्पर्धा­न­र्ह­त्व­मिति वाक्यशेषस्था गुणाः प्रभृ­ति­प­द­ग्राह्याः । खिलेष्विति विधि­नि­षे­ध­शू­न्य­वा­क्ये­ष्वि­त्यर्थः ।

ब्रह्म­सं­ब­न्धा­द्वि­द्या­भे­द­भा­नाच्च संशयमाह -
तास्विति ।
अना­र­भ्या­धी­त­ब्र­ह्म­वि­भू­तीनां ब्रह्मसंबन्धेन सर्व­ब्र­ह्म­वि­द्यासु प्रत्य­भि­ज्ञा­ना­दु­प­सं­हार इति पूर्वपक्षः ।

सिद्धान्तमाह -
संभृतीति ।
संभृतिश्च द्युव्याप्तिश्च संभृ­ति­द्यु­व्याप्ति तदपि सर्वत्र नोप­सं­ह­र्त­व्य­मु­प­नि­ष­दो­रिव व्यव­स्था­प­क­वि­शे­ष­यो­गा­दिति सूत्रयोजना ।

आध्या­त्मि­का­य­त­न­वि­शे­ष­यु­क्तासु विद्या­स्वा­धि­दै­वि­क­वि­भू­तीनां प्रत्यभिज्ञाने हेत्वभावान्न प्राप्ति­रि­त्युक्ते हेतुं शङ्कते -
नन्वेतास्विति ।
आधि­दै­वि­क­त्व­सा­म्या­दा­ध्या­त्मि­का­य­त­न­ही­न­त्व­सा­म्याद्वा तत्तद्विद्यासु संभृत्यादीनां प्राप्तिरिति शङ्कार्थः ।

उक्तहेतुद्वयं न गुण­प्रा­प­क­मा­धि­दै­वि­क­वि­द्यानां शाण्डि­ल्य­द­ह­रा­दी­ना­मा­य­त­न­ही­न­वि­द्यायां च मिथो­गु­ण­सां­क­र्य­प्र­स­ङ्गात्, तस्मा­त्क­ति­प­य­स­मा­न­गु­ण­वि­शि­ष्टो­पा­स्य­रू­पैक्यं विद्यै­क्य­मा­व­ह­द्गु­ण­प्रा­प्ति­हे­तु­स्त­द­भा­वान्न प्राप्तिरिति परिहरति -
सत्यमित्यादिना ।

स्थान­वि­शि­ष्ट­भे­दा­न्ना­म्नो­र्व्य­व­स्था­व­त्सं­भृ­त्या­दि­गु­ण­वि­शि­ष्टस्य ब्रह्मणः शाण्डि­ल्या­दि­वि­द्यो­क्त­गु­ण­वि­शि­ष्ट­ब्र­ह्म­णश्च मिथो भेदेन रूप­भे­दा­त्सं­भृ­त्या­दीनां नोपसंहार इत्यु­क्त­न्या­या­ति­दे­श­त्वा­दस्य न संग­त्या­द्य­पेक्षा यथै­क­स्मि­न्नु­द्गीथे परो­व­री­य­स्त्वा­दि­गु­णो­पा­स्ते­र्हि­र­ण्य­श्म­श्रु­त्वा­द्यु­पा­स्ति­र्भि­द्यते तथैकस्मिन्नपि ब्रह्मणि विद्या­भे­दो­प­पत्तेः ब्रह्म­प्र­त्य­भिज्ञा न गुण­प्रा­पि­के­त्याह -
परो­व­री­य­स्त्वा­दि­व­दिति ।
तस्मा­त्सं­भृ­त्या­दि­गु­ण­वि­शि­ष्ट­वि­द्या­न्त­र­वि­धि­रिति सिद्धम् ॥२३॥

पुरुषविद्यायां छान्दोग्यस्थां विद्यामाह -
अस्तीति ।
'पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशति वर्षाणि तत्प्रातः सवनमथ यानि चतु­श्च­त्वा­रिं­श­द्व­र्षाणि तन्माध्यन्दिनं सवनमथ यान्य­ष्टा­च­त्वा­रिं­श­द्व­र्षाणि तत्तृतीयं सवनम्' इति प्रसि­द्ध­य­ज्ञ­सा­म्यार्थं सवनत्रयं कल्पितं, 'स यदशिशिषति यत्पिपासति यन्न रमते ता दीक्षा अथ यदश्नाति यत्पिबति यद्रमते ता उपसदः अथ यद्धसति यज्जक्षति यन्मैथुनं चरति तानि स्तुतशस्त्राणि अथ यत्तपोदानादि सा दक्षिणा मरणमेवावभृथः वस्वादिरूपा मे प्राणा इदं सवनत्रयं याव­दा­यु­र­नु­सं­त­नुते' इत्याशीः 'अक्षि­त­म­स्य­च्यु­त­मसि प्राणं संशितमसि' इति मन्त्र­त्र­य­प्र­योगः । षोड­शा­धि­क­श­त­व­र्ष­जी­वित्वं फलमिति दर्शितम् ।

संशयार्थं शाखा­न्त­री­य­पु­रु­ष­वि­द्या­माह -
तैत्तिरीयका इति ।

अत्र विदुषो यज्ञस्येति षष्ठ्योः­सा­मा­ना­धि­क­र­ण्य­वै­य­धि­क­र­ण्या­नि­श्च­या­त्सं­श­य­माह -
तत्रेति ।
उप­सं­हा­रा­नु­प­सं­हा­रा­वेव फलम् ।

पूर्व­त्रा­सा­धा­र­ण­गु­ण­प्र­त्य­भि­ज्ञा­ना­भा­वा­त्सं­भृ­त्यादौ विद्याभेद उक्तः । इह त्वसा­धा­र­ण­म­र­णा­व­भृ­थ­गु­ण­वि­शि­ष्ट­पु­रु­ष­य­ज्ञ­रू­पै­क्य­प्र­त्य­भि­धा­ना­द्वि­द्यै­क्य­मिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तयति -
नोपसंहर्तव्या इति ।
'तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशु­स्त­पोऽ­ग्नि­र्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षु­र­ध्व­र्यु­र्मनो ब्रह्मा' इति बहु­त­र­ध­र्म­वै­ल­क्ष­ण्यान्न रूपै­क्य­प्र­त्य­भि­ज्ञे­त्यर्थः । वेदः कुशमुष्टिः शमयिता दमो दक्षिणेत्यन्वयः ।

किञ्च छान्दोग्ये त्रिधा­वि­भ­क्ता­युषि सवनत्वकल्पना, अत्र तु सायङ्कालादाविति वैरूप्यमाह -
यदपीति ।

यन्मरणं तदवभृथो यद्रमते तदुपसद इति तित्तिरिश्रुतौ सारूप्यमपि भातीत्यत आह -
यदपि किञ्चिदिति ।
गजो­ष्ट्र­यो­श्च­तु­ष्पा­त्त्व­सा­रू­प्य­व­दिदं सारूप्यं नैक्य­प्र­यो­ज­क­मि­त्यर्थः ।

किञ्च छान्दोग्ये पुरु­ष­य­ज्ञ­यो­रैक्यं श्रुतमत्र तु भेद इति वैरूप्यान्तरमाह -
न चेति ।
यद्यपि निषा­द­स्थ­प­ति­न्या­येन सामानाधिकरण्यं षष्ठ्योर्युक्तं तथा­प्य­प्र­सि­द्धै­क्य­क­ल्प­ना­गौ­र­वा­द्य­ज्ञ­स्या­त्मेति भेदो­क्ते­रे­क­स्यैव यज्ञ­त्व­य­ज­मा­न­त्व­वि­रो­धा­दा­त्म­विदो यो यज्ञः प्रसि­द्ध­स्त­स्येति वैयधिकरण्यमेव युक्तम् । किञ्च विद्व­त्सं­ब­न्धि­य­ज्ञ­रू­प­वि­शे­ष्या­नु­वा­देन विद्व­द­ङ्गै­र­ङ्ग­सं­प­द्वि­धा­वे­क­वा­क्यता प्रतीयते तस्यां सत्यां विशे­ष्य­स्या­ङ्गानां च पृथ­ग्वि­धि­वा­दि­न­स्तव वाक्यभेददोषः स्यादित्यर्थः ।

किञ्च सत्यादिभ्यो न्यास एवापरे च यदिति संन्यासमुक्त्वा सर्वैः सर्वमिदं जगदित्येवं तमात्मानं ज्ञात्वा भूयो न मृत्युमुपयाति विद्वानिति संन्या­स­सा­ध्या­त्म­विद्यां पुर­स्ता­त्प्रा­जा­प­त्या­नु­वाके उप­दि­श्या­न­न्त­रा­नु­वाके तस्यैवं विदुष इत्यु­क्ता­त्म­वि­द्या­नु­वा­देन प्रशं­सा­र्थ­त्वेन, तच्छे­ष­त­या­य­ज्ञ­सं­पत्तिः क्रियते फलैक्यश्रुतेः, छन्दोगानां तु स्वत­न्त्र­वि­द्या­वि­धि­रि­त्याह -
अपि च ससंन्यासामिति ।

चिन्ताफलमाह -
तस्मादिति ॥२४॥

वेधा­द्य­र्थ­भे­दात् ।

देव­ता­म­भि­चा­र­कर्ता प्रार्थयते -
सर्वमिति ।
हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय विशेषतश्च हृदयं भिन्धि धमनीः शिराः प्रवृञ्जय त्रोटय शिरश्चाभितो नाशय, एवं त्रिधा विपृक्तो विश्लिष्टो भवतु मे शत्रुरित्यर्थः । हे देव सवितः, यज्ञं तत्पतिं च प्रसुव निर्व­र्त­ये­त्यर्थः । उच्चैः श्रवाः श्वेतोऽश्वो यस्येन्द्रस्य स त्वं हरि­त­म­णि­व­न्नी­लोऽ­सी­त्यर्थः । नोऽस्माकं शं सुखकरो भवत्वित्यर्थः । अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म तस्माद्य एतदहः साध्यं कर्मो­प­य­न्त्य­नु­ति­ष्ठिन्ति ते ब्रह्मणैव साधनेन ब्रह्मोपयन्ति ते च क्रमे­णा­मृ­त­त्व­मा­प्नु­व­न्तीति योजना ।

मन्त्रादिषु तत्त­दु­प­नि­ष­द्वि­द्या­शे­षत्वे प्रमाणभावाभ्यां संशयमाह -
किमिति ।
फलं पूर्ववत् ।

ननु तेषां शेषत्वे माना­भा­वा­न्नो­प­सं­हार इति शङ्कते -
नन्वेषामिति ।

मन्त्रा­द­य­स्त­त्त­द्वि­द्या­शेषाः फल­व­द्वि­द्या­सं­नि­हि­त­त्वा­त्तै­त्ति­री­य­क­ग­त­पु­रु­ष­य­ज्ञ­व­दिति समाधत्ते -
बाढमिति ।
तथा च दृष्टान्तसंगतिः ।

सिद्धान्तिपक्षे संनिधिवैयर्थ्यं बाधकमाह -
न हीति ।
अफलमन्त्रादीनां फल­व­च्छे­ष­त्व­बो­धनं संनि­धे­र­र्थ­वत्त्वं तत्संभवे सत्य­क­स्मा­द­र्थ­शू­न्य­त्वे­नासौ संनि­धि­रा­श्र­यितुं नहि युक्त इत्यर्थः । नञ्पा­ठे­त्व­क­स्मा­द्धेतुं विनाऽसावर्थो नाश्रयितुं नहि युक्त इत्यर्थः ।

ननु मन्त्राणां विद्या­स­म­वे­ता­र्थ­प्र­का­श­न­सा­म­र्थ्या­भा­वान्न विद्या­शे­ष­त्व­मिति शङ्कते -
नन्विति ।

पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तीति वाक्येन प्रवर्ग्यस्य क्रतुशेषत्वं श्रुतं, अग्नि­ष्टो­मा­देश्च तत्तद्वाक्येन स्वर्गा­द्य­र्थ­त्व­मतो न विद्या­र्थ­त्व­मि­त्याह -
कथं चेति ।

मन्त्राणां विद्या­स­म­वे­त­हृ­द­य­ना­ड्या­दि­प्र­का­श­क­त्व­म­स्ती­त्याह -
नैष इति ।

उपास्तिषु मन्त्रप्रयोगः क्वापि न दृष्ट इत्यत आह -
दृष्टश्चेति ।
पुत्रस्य दीर्घा­यु­ष्यार्थं छान्दोग्ये त्रैलोक्यस्य कोश­त्वे­नो­पा­स्ति­रुक्ता तत्र पितुरयं प्रार्थ­ना­मन्त्रः । तत्रामुनेति पुत्रस्य त्रिर्णाम गृह्णाति अमुना पुत्रेण सह भूरितीमं लोकममुं च प्रपद्ये न मे पुत्रवियोगः स्यादित्यर्थः ।

तत्त­द्वा­क्ये­ना­न्यत्र विनियुक्तानामपि कर्मणां संनिधिना विद्यासु विनियोगो न विरुध्यत इत्यत्र दृष्टान्तमाह -
वाजपेय इति ।
'ब्रह्म­व­र्च­स­कामो बृहस्पतिसवेन यजेत' इति वाक्येन ब्रह्मवर्चसफले विनियुक्तस्यापि बृहस्पतिसवस्य 'वाज­पे­ये­नेष्ट्वा बृहस्पतिसवेन यजेत' इति वाज­पे­य­प्र­क­र­ण­प्र­क­र­णस्थ वाक्येन वाज­पे­यो­त्त­रा­ङ्ग­तया विनियोगवदविरोध इत्यर्थः । यद्यप्येकेन वाक्येन प्रक­र­णा­न्त­र­स्थ­बृ­ह­स्प­ति­स­वस्य प्रत्य­भि­ज्ञा­न­म­ङ्ग­त्व­वि­धानं च कर्तुमयुक्तं वाक्य­भे­द­प्र­स­ङ्गा­दतो मासा­ग्नि­हो­त्र­व­त्क­र्मा­न्त­र­मेव बृह­स्प­ति­स­वा­ख्य­म­ङ्ग­तया विधीयत इति न विनियुक्तस्य विनियोग इति भट्ट­गु­रु­त­न्त्र­द्व­य­सिद्धं, तथापि यथा नित्या­ग्नि­हो­त्र­स्या­श्व­मे­ध­प्र­क­रणे वाग्यतस्यैतां रात्रि­म­ग्नि­होत्रं जुहोतीति नाम्ना प्रत्यभिज्ञा, यथावा दर्श­पू­र्ण­मा­स­वि­कृ­ती­ष्टा­वा­ज्य­भागौ यज­ती­त्ये­क­स्मि­न्वाक्ये प्रकृ­ति­स्था­ज्य­भा­गयोः पदेन प्रत्यभिज्ञानं वाक्येन विधानं तथात्रापि बृहस्पतिसवपदेन प्रत्यभिज्ञानं वाक्ये­ना­ङ्ग­ता­वि­धानं किं न स्यात् । न च साध्य­भा­वा­र्थ­वि­धा­य­का­ख्या­त­प­र­तन्त्रं नामपदं न सिद्ध­क­र्म­प्र­त्य­भि­ज्ञा­क्ष­म­मिति वाच्यं, सिद्ध­स्या­प्य­ङ्ग­तया पुनः साध्य­त्व­सं­भ­वेऽ­न्य­था­सि­द्धा­ख्या­त­स्यैव प्रसि­द्धा­र्थ­क­ना­म­पा­र­त­न्त्र्यो­प­पत्तेः । न चैवं सति कुण्ड­पा­यि­स­त्रेऽ­प्य­ङ्ग­त्वेन नित्या­ग्नि­हो­त्र­स्यैव विधिः स्यादिति वाच्यं, इष्टत्वात् । न च पूर्व­त­न्त्र­वि­रोधः उत्तरतन्त्रस्य बलीयस्त्वात् । पूर्वतन्त्रस्य स्वत­न्त्र­प­र­त­न्त्र­भा­व­ना­भेदे तात्पर्याच्च । तस्मादेकस्यैव बृहस्पतिनामकस्य धात्वर्थस्य ब्रह्मवर्चसे विनियुक्तस्यापि वाजपेयाङ्गतया विनियोग इति भग­व­त्पा­द­ता­त्प­र्यम् ।

अस्ति च विनियुक्तस्य विनियोगे सर्व­सं­म­त­मु­दा­ह­रणं खादिरत्वादिकं तस्य क्रतौ विनियुक्तस्य वीर्यादिफलेऽपि विनियोगात् । तथा मन्त्र­क­र्म­णा­म­न्यत्र विनियुक्तानां विद्या­शे­ष­त्व­मिति प्राप्ते सिद्धान्तयति -
नैषामित्यादिना ।
विद्यासु हृद­या­दि­सं­ब­न्धेऽपि वेधा­द्य­र्था­ना­म­सं­ब­न्धा­त्कृ­त्स्न­म­न्त्रा­र्था­ना­म­भि­चा­रा­दि­सं­ब­न्ध­लि­ङ्गेन संनि­धे­र्ब­ली­य­सा­भि­चा­रा­दा­वेव मन्त्राणां विनियोग इत्यर्थः ।

'देव सवितः प्रसुव' इति प्रद­क्षि­ण­तोऽग्निं पर्युक्षेदिति वाक्या­द­ग्नि­प­र्यु­क्षणे 'सावित्रं जुहोति कर्मणः पुरस्तात्सवने सवने जुहोति' इति वाक्याद्वाजपेये कर्मविशेषे संबन्धोऽस्य मन्त्रस्येत्याह -
तद्विशेषेति ।

उक्तन्यायं श्वेताश्व इत्या­दि­ष्व­ति­दि­शति -
एवमन्येषामिति ।
प्रमाणान्तरं प्रकरणादिकम् ।

ननु लिङ्गा­दि­भि­र­न्यत्र विनियुक्तानामपि संनिधिना विद्यास्वपि विनि­यो­गोऽ­स्त्व­वि­रो­धा­दि­त्युक्तं, तत्राह -
दुर्बलो हीति ।
समवाये समानविषयत्वेन द्वयोर्विरोधे, परस्य दौर्बल्यं, कुतः अर्थ­वि­प्र­क­र्षात्, स्वार्थबोधने परस्य पूर्वव्यवधानेन प्रवृ­त्ते­रि­त्यर्थः । अयमाशयः- एकत्र विनियुक्तस्य निरा­का­ङ्क्ष­त्वा­द­न्यत्र विनियोगो विरुद्ध एव परन्तु विनि­यो­ज­क­प्र­मा­णयोः सम­ब­ल­त्वेऽ­न्य­त­र­वि­नि­यो­ग­त्या­गा­यो­गा­द­ग­त्या­का­ङ्क्षो­त्पा­द­नेन विनि­यु­क्त­वि­नि­योगः स्वीक्रियते 'यथा खादिरो यूपो भवति' 'खादिरं वीर्यकामस्य यूपं कुर्यात्' इति वाक्याभ्यां क्रतौ विनियुक्तस्य खादिरत्वस्य वीर्यफले विनियोगः । यत्र तु प्रमा­ण­यो­र­तु­ल्यत्वं तत्र न स्वीक्रियते प्रबलप्रमाणेन दुर्ब­ल­वि­नि­यो­ग­बा­धात् । यथा 'कदाचन स्तरीरसि' इत्यस्या ऋच ऐन्द्र्या गार्ह­प­त्य­मु­प­ति­ष्ठत इति तृती­या­वि­भ­क्ति­श्रु­त्या­न्य­नि­र­पे­क्ष­तया गार्ह­प­त्यो­प­स्था­न­शे­ष­त्व­बो­धि­क­ये­न्द्र­प्र­का­श­न­सा­मा­र्थ्य­रू­प­लि­ङ्ग­प्रा­प्त­मि­न्द्र­शे­षत्वं बाध्यते । लिङ्गं हि न साक्षाच्छेषत्वं बोधयति किन्त्वि­न्द्र­प्र­का­श­न­मात्रं करोति, तेन च लिङ्गेनानेन मन्त्रेण इन्द्र उपस्थापयितव्य इति श्रुतिः कल्पनीया, तया शेषत्वबोध इति श्रुतिव्यवधानेन शेषत्वबोधकं लिङ्गं झटिति स्वार्थ­बो­ध­क­श्रुत्या बाध्यम् । तथा लिङ्गेन वाक्यं बाध्यं यथा 'स्योऽनं ते सदनं करोमि घृतस्य धारया सुवेशं कल्पयामि', 'तस्मि­न्सी­दा­मृते प्रतितिष्ठ व्रीहीणां मेध सुम­न­स्य­मानः' इति मन्त्राभागयोः प्रत्येकं सदनकरणे पुरोडाशासादने च तत्प्र­का­श­न­सा­म­र्थ्य­लि­ङ्गेन श्रुतिद्वारा विनियोगे सति प्रती­त­मे­क­वा­क्यत्वं बाध्यते, तस्य कृत्स्नेऽपि मन्त्रे सद­न­क­र­ण­प्र­का­श­न­सा­मर्थ्यं पुरो­डा­शा­सा­द­न­प्र­का­श­न­सा­मर्थ्यं च लिङ्गं कल्पयित्वा श्रुति­क­ल्प­न­यो­भ­यत्र कृत्स्न­म­न्त्र­वि­नि­यो­ग­बो­धने द्वाभ्यां लिङ्ग­श्रु­तिभ्यां व्यवधानेन श्रुत्ये­क­व्य­व­हि­त­कॢ­प्त­लि­ङ्गा­द्दु­र्ब­ल­त्वात् । न च सामर्थ्यं न कल्प्यमिति वाच्यं, असमर्थस्य विनियोगायोगात् अत एव गङ्गापदस्य तीरबोधविनियोगे लक्षणारूपं सामर्थ्यं कल्प्यते । तथा वाक्येन प्रकरणं बाध्यं यथा साह्न­प्र­क­र­णा­म्ना­त­द्वा­द­शो­प­सदां द्वाद­शा­ही­न­स्येति वाक्ये­ना­ही­ना­ङ्गत्व बोधकेन प्रक­र­ण­प्रा­प्त­सा­ह्ना­ङ्ग­त्व­बा­धा­दु­त्कर्षः । प्रधा­न­स्या­ङ्गा­का­ङ्क्षा­रूपं प्रकरणं तस्या­ङ्ग­प्र­धा­न­वा­क्यै­क­वा­क्य­ता­सा­म­र्थ्य­श्रु­तिभिः कल्प्यमानाभिः स्वार्थ­वि­नि­यो­ग­प्र­मितौ व्यव­धा­ने­ना­ङ्ग­सा­म­र्थ्य­श्रु­त्यो­र्द्वयोः कल्प­क­वा­क्या­द्दु­र्ब­ल­त्वात् । तथा प्रकरणेन संनिधिर्बाध्यः । यथा राजसूयप्रकरणेन तद­न्त­र्ग­ता­भि­षे­च­नी­या­ख्य­सो­म­या­ग­वि­शे­ष­सं­नि­धि­पा­ठ­प्राप्तं शुनः­शे­पो­पा­ख्या­ना­दे­र­भि­षे­च­नी­य­शे­षत्वं बाधित्वा कृत्स्न­रा­ज­सू­य­शे­ष­त्व­मा­पा­दितं संनिधेः प्रक­र­णा­दि­क­ल्प­क­त्वेन कॢप्त­प्र­क­र­णा­द्दु­र्ब­ल­त्वा­त्तथा संनिधिना समाख्या बाध्यते । तथा हि पौरो­डा­शि­क­स­मा­ख्याके काण्डे आग्ने­य­पु­रो­डा­शा­दि­क­र्मणां क्रमेण मन्त्रा आम्नातास्तत्र दधि­प­यो­रू­प­सा­न्ना­य्य­स­न्निधौ 'शुन्धध्वं दैव्याय कर्मणे' इति मन्त्र आम्नातस्तत्र समाख्याबलेनास्य मन्त्रस्य पुरो­डा­श­पा­त्र­शु­न्ध­न­शे­षत्वं प्राप्तं संनिधिना बाधित्वा सान्ना­य्य­पा­त्र­शु­न्ध­न­शे­ष­त्व­मा­पा­द्यते । पुरो­डा­श­सं­ब­न्धि­काण्डं पौरोडाशिकमिति पौरुषसमाख्यायाः काण्डा­न्त­र्ग­त­म­न्त्रस्य पुरो­डा­श­सं­ब­न्ध­सा­मा­न्य­बो­ध­क­त्वेऽपि शेष­शे­षि­भा­व­रू­प­वि­नि­यो­ग­बो­ध­कत्वे संनि­ध्या­द्य­पे­क्ष­त्वेन दुर्बलत्वादिति । एवं विरोधे सति श्रुतिर्बाधिकैव समाख्या बाध्यैव, मध्यस्थानां तु चतुर्णां पूर्वबाध्यत्वं परबाधकत्वं चेति श्रुति­लि­ङ्ग­सू­त्रार्थः । तस्मा­ल्लि­ङ्गा­दि­ना­न्यत्र विनियुक्तानां मन्त्राणां दुर्बलसंनिधिना न विद्यासु विनियोग इति सिद्धम् ।

तथा कर्मणामिति ।
कर्मणां विद्योपकारत्वे ताभिः सहैकफलत्वे च मानं किञ्चि­न्ना­स्ती­त्यर्थः । अपि चेत्युक्तार्थम् ।

ननु तर्हि वेधा­दि­वा­क्या­ना­मु­प­नि­षद्भिः सह पाठस्य का गतिस्तामाह -
अरण्येति ।
तस्मा­द्वे­धा­दि­म­न्त्र­क­र्मणां विद्या­स्व­नु­प­सं­हार इति सिद्धम् ॥२५॥

हानौ तूक्तम् ।
यथाऽश्वो रजोयुक्तानि जीर्णरोमाणि त्यक्त्वा निर्मलो भवति तथाहमपि पापं विधूय कृतात्मा निर्म­ली­कृ­त­चित्तः सन् यथा वा राहु­ग्र­स्त­श्चन्द्रो राहु­मु­खा­त्प्र­मुच्य स्पष्टो भवति तथा शरीरं धूत्वा त्यक्त्वा देहा­भि­मा­ना­न्मुक्तः सन्नकृतं कूटस्थं ब्रह्मात्मकं लोकम् अभि­प्र­त्य­क्त्वेन संभवामीत्यर्थः । यथा नद्यः समुद्रं प्राप्य नामरूपे त्यजन्ति तथा विद्वानित्यर्थः । तस्य मृतस्य विदुषः, दायं धनं, तत्तेन विद्याबलेन सुकृतदुष्कृते त्यजतीत्यर्थः ।

उपायनं ग्रहणं तस्य त्याग­पू­र्व­क­त्वात्, अत्य­क्त­यो­र्ग्र­ह­णा­यो­गा­त्त्या­गोऽ­र्था­दा­यति । यत्र तु त्याग एव श्रुतः तत्र हानोपायनयोः सह­भा­व­स्या­व­श्य­क­त्वा­ना­व­श्य­क­त्वाभ्यां संशयमाह -
यत्र त्विति ।
अत्र पूर्वपक्षे स्तुति­प्र­क­र्षा­सिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।

यद्यपि ताण्ड्या­थ­र्व­ण­श्रु­त्यो­र्नि­र्गु­ण­वि­द्या­र्थयोः कर्महानमेव श्रुतं नोपायनं तथापि कौषीतकिश्रुतौ पर्य­ङ्क­स्थ­स­गु­ण­ब्र­ह्म­वि­द्या­या­मु­पा­यनं श्रुत­म­त्रो­प­सं­ह­र्त­व्य­मि­त्या­शङ्क्य विद्या­भे­दा­न्नो­प­सं­हार इत्याह -
विद्यान्तरेति ।

किञ्च यथा मन्त्र­क­र्म­णा­म­ना­व­श्य­क­त्वा­द्वि­द्या­स्व­नु­प­सं­हार उक्तः तथा परैरुपादानं विनापि हान­सं­भ­वे­नो­पा­द­न­स्या­ना­व­श्य­क­त्वान्न प्राप्तिरिति दृष्टा­न्त­सं­गत्या प्राप्ते सिद्धान्तयति -
हानौ त्वित्यादिना ।
उपायनशब्दस्य शेष­त्वा­द्धा­न­श­ब्दे­ना­पे­क्षि­त­त्वा­दिति सूत्रार्थः । अश्व­रो­म­दृ­ष्टा­न्तेन विधूतयोः पुण्यपापयोः पर­त्रा­व­स्था­न­सा­पे­क्ष­त्वा­त्प­रै­रु­पा­दानं वाच्यमिति भावः ।

विद्याभेदे गुणानुपसंहार इति व्यव­स्थाऽ­नु­ष्ठा­न­वि­षया न स्तुति­वि­ष­ये­त्याह -
तदुच्यत इति ।
मन्यते सूत्रकार इत्यर्थः ।

ननु श्रुत­हा­ना­र्थ­वा­दे­नापि स्तुतिसिद्धौ किम­र्थ­मु­पा­य­ना­र्थ­वाद आनीयते, तत्राह -
स्तुति­प्र­क­र्ष­ला­भा­येति ।

नन्वर्थवादस्य विधिना संबन्धः प्रसिद्धो नार्थ­वा­दा­न्त­रे­णे­त्यत आह -
प्रसिद्धा चेति ।
इतो भूलोकादित्यर्थः । हेम­न्त­शि­शि­र­यो­रै­क्या­त्प­ञ्च­र्तवः । यज्ञस्य पुरु­ष­रू­प­क­ल्प­नायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृ­च­ब्रा­ह्मणे, तत्र त्रिष्टु­भ­श्छ­न्दो­मा­त्र­त्वा­त्क­थ­मि­न्द्रि­य­त्व­क­ल्प­ने­त्या­का­ङ्क्षायां यजुर्वाक्यं संवाद्यत इत्यर्थः ।

नन्वमूर्तयोः पुण्यपापयोः उपा­दा­न­स्या­सं­भ­वा­द­नु­प­सं­हार इत्यत आह -
विद्या­स्तु­त्य­र्थ­त्वा­च्चेति ।
विद्व­न्नि­ष्ठ­यो­रेव तयोः फलं परे प्राप्नुवन्ति विद्या­सा­म­र्थ्या­दि­त्यु­प­य­न्ति­प­दे­नो­च्यत इत्यर्थः । नन्व­न्य­नि­ष्ट­क­र्म­णो­र­न्यत्र फलसंचारः कथम् । ननु वचनबलादिति चेत् । न । फल­मु­प­य­न्ती­त्य­श्रुतेः । न च यथा पुत्र­कृ­त­श्रा­द्धस्य पितृषु फलं तथात्रेति वाच्यं, यस्य फलमुद्दिश्य यत्कर्म विहितं तस्य तत्फलमिति न्यायेन पितृणां तृप्त्युद्देशेन कृतकर्मणो व्यधि­क­र­ण­फ­ल­त्वेऽपि विदुषः कर्म­का­लेऽ­नु­द्दि­ष्ट­व्य­धि­क­र­ण­फ­ला­यो­गात् ।

किञ्च विदुषो देहपाते कर्म­णोऽ­स­त्त्वा­द्या­व­ज्जीवं विद्वत्सेवकस्य तद्द्वेषिणो वा फलं स्यादित्यत आह -
नाती­वा­भि­नि­वे­ष्ट­व्य­मिति ।
विद्व­त्से­वा­द्वे­षाभ्यां विद्व­न्नि­ष्ठ­पु­ण्य­पा­प­तुल्ये पुण्यपापे सेव­क­द्वे­षि­णो­र्जा­येते जातयोः फलतः स्वीकार उपायनमिति परिहारस्य सुलभत्वादनाग्रह इत्यर्थः ।

उपायनादेः स्तुतित्वे लिङ्गमाह -
उपायनेति ।
उपा­य­न­वि­व­क्षा­या­मु­पा­य­न­स्यै­वो­प­सं­हारं सूत्रकारो ब्रूयादतः शब्दस्य तं ब्रुवन्स्तुतिं सूचयतीत्यर्थः ।

विद्या­वि­चा­रा­त्मके पादे स्तुतिविचारस्य का संगतिरित्यत आह -
तस्मादिति ।

शाखान्तरस्थो विशेषः शाखान्तरेऽपि ग्राह्य इत्यत्र दृष्टान्तमाह -
कुशेति ।
कुशा उद्गातृणां स्तोत्र­ग­ण­नार्थाः शलाका दारुमय्यः, भो कुशाः, यूयं वानस्पत्याः वनस्थमहावृक्षो वनस्पतिः तत्प्रभवाः स्थ ता इत्थंभूता यूयं मा पात मां रक्षतेति यजमानप्रार्थना । अत्र ता इति स्त्रीलि­ङ्ग­नि­र्दे­शा­दौ­दु­म्बर्य इति भाष्याच्च शलाकासु कुशशब्दस्य स्त्रीत्वं मन्तव्यं दर्भविषयस्य न स्त्रीत्वं, अस्त्री कुश­मि­त्य­नु­शा­स­नात् ।

छन्दोदृष्टान्तं व्याचष्टे -
यथा चेति ।
नवाक्षराणि छन्दांसि आसुराण्यन्यानि दैवानि तेषां क्वच्छिन्दोभिः स्तुवत इत्य­त्रा­वि­शे­ष­प्राप्तौ पैङ्गि­वा­क्या­द्वि­शे­ष­ग्रह इत्यर्थः ।

स्तुतिं विवृणोति -
यथेति ।
आतिरात्रे षोडशिनो ग्रहस्याङ्गभूतं स्तोत्रं कदेति छन्दो­गा­दी­ना­मा­का­ङ्क्षा­या­मु­द­य­स­म­या­विष्टे सूर्ये षोडशिनः स्तोत्र­मि­त्या­र्च­श्रुतेः कालविशेषग्रह इत्यर्थः । ऋचोऽधीयत इत्यार्चाः ।

उपगानं विभजते -
यथेति ।
'ऋत्विज उपगायन्ति' इत्य­वि­शे­ष­श्रुतेः 'नाध्व­र्यु­रू­प­गा­यति' इति श्रुत्य­न्त­रा­द­ध्व­र्यु­भिन्ना ऋत्विज उपगायन्तीति विशेषग्रह इत्यर्थः ।

ननु कुशा­दि­वा­क्या­ना­मपि किमिति विशे­ष­श्रु­त्य­न्त­रै­क­वा­क्य­ताऽ­भ्यु­प­ग­म्यते, तत्राह -
श्रुत्यन्तरकृतं हीति ।
सामा­न्य­वि­शे­ष­यो­रे­क­वा­क्य­ता­रू­पायां गतौ सत्यां वाक्यभेदं कृत्वा नाध्वर्युरिति निषे­धा­द­वि­शे­ष­श्रु­ते­श्चा­ध्व­र्यु­रु­प­गा­यति नोपगायति चेत्येवं सर्वत्र विकल्पो न युक्तः, व्रीहि­य­व­यो­स्त्व­गत्या विकल्प आश्रित इत्यर्थः । विक­ल्प­स्या­न्या­य्य­त्व­म­ष्ट­दो­ष­दु­ष्ट­त्वात् । तथा हि यदि व्रीहि­वा­क्य­मा­श्री­यते तदा यव­वा­क्य­स्ये­ष्ट­प्रा­मा­ण्य­त्यागः, अनि­ष्टा­प्रा­मा­ण्य­स्वी­कारः, कदा­चि­द्य­व­वा­क्या­श्र­यणे त्यक्त­प्रा­मा­ण्य­स्वी­कारः, स्वीकृ­ता­प्रा­मा­ण्य­त्या­ग­श्चे­त्ये­क­स्मि­न्य­व­वाक्ये चत्वारो दोषा भवन्ति ।

एवं व्रीहिवाक्येऽपि चत्वारो दोषा इत्येवं दुष्ट­वि­क­ल्प­प­रि­हा­राय भिन्न­शा­ख­श्रु­त्यो­र­प्ये­क­वा­क्यता जैमि­नि­सं­म­ते­त्याह -
तदुक्तमिति ।
ज्योति­ष्टो­म­प्र­क­रणे 'दीक्षितो न जुहोति', इति श्रुतं 'याव­ज्जी­व­म­ग्नि­होत्रं जुहुयात्' इति चान्यत्र श्रुतं तत्र यदि नदीक्षितवाक्यं होमप्रतिषेधकं स्यात्तदा क्रत्व­र्थ­त्वा­न्नि­षे­धोऽ­नु­ष्ठेयः, यावज्जीवविधिना होमो वानुष्ठेय इति विकल्पः स्यात्, स चान्याय्यः । अपि तु यावज्जीववाक्यं प्रति नदी­क्षि­त­वा­क्यस्य शेषत्वान्नकार इत­र­प­र्यु­दा­सा­र्थकः स्याद्दी­क्षि­ता­न्य­ल­क्षकः स्यात्, न होमप्रतिषेधकः, तस्माददीक्षितो यावज्जीवं जुहु­या­दि­त्ये­क­वा­क्य­तेति नदी­क्षि­ता­धि­क­र­ण­सि­द्धा­न्त­सू­त्रार्थः । अत्र भगवत्पादैः सूत्रमेव पठितं, मिश्रैस्तु पर्यु­दा­सा­धि­क­र­ण­सि­द्धा­न्त­सूत्रं 'अपि तु वाक्यशेषः स्याद­न्या­य्य­त्वा­द्वि­क­ल्पस्य विधीनामेकदेशः स्यात्' इति स्थितमत्रार्थतः पठितमित्युक्तं तच्चिन्त्यम् । सूत्रार्थस्तु यज्ञमात्रे येयजामहे इति प्रयोक्तव्यमिति श्रुतं, नानुयाजेषु येयजामहं करोतीत्यपि श्रुतं, तत्र नकारस्य निषे­ध­क­त्वेऽ­प्य­ति­रात्रे षोड­शि­ग्र­ह­णा­ग्र­ह­ण­यो­रि­वा­नु­या­जेषु यज्ञ­त्वा­वि­शे­षा­त्प्र­यो­क्तव्यं निषेधान्न प्रयोक्तव्यमिति विकल्पः स्यात्, तस्या­न्या­य्य­त्वा­त्ये­य­जा­म­ह­वि­धे­रेव नानु­या­ज­वा­क्य­मे­क­देशः स्यात्, पर्यु­दा­स­वृत्त्या विधिवाक्यशेषः स्यादिति यावत् । तथा चानुयाजभिन्नेषु यागेषु येयजामह इति प्रयो­क्त­व्य­मि­त्ये­क­वा­क्य­तेति ।

वर्णकान्तरमाह -
अथवेति ।
पूर्वत्रविधूननं कर्महानिरिति सिद्धवत्कृत्य उपायनोपसंहार उक्तः, अत्र सैव साध्यत इति भेदः ।

उभयत्र लक्ष­णा­सा­म्या­त्सं­श­य­माह -
किमिति ।
विधूननस्य हि फल­द्व­य­म­श्व­रो­मा­दिषु दृष्टं पूर्व­स्व­भा­वा­त्च्यु­ति­र­न्यत्र संक्रा­न्ति­श्चेति । तत्र संक्रा­न्ति­रू­प­हा­नि­र्ल­क्ष­णीया किंवा च्युतिरिति संशयार्थः । तत्र विधूननशब्दस्य कम्पनं मुख्यार्थ इति तावत्सर्वसंमतम् । तच्चामूर्तयोः पुण्यपापयोर्न संभवति । अतस्तयोर्यः स्वभावः फल­दा­तृ­त्व­श­क्ति­स्त­त­श्चा­लनं विद्यया प्रति­ब­न्धा­च्च्युतिः सा लक्षणीया न हानि­र­मू­र्त­यो­र­न्यत्र संक्रा­न्त्य­यो­गा­द­न्य­सा­पे­क्ष­त्वा­च्चेति पूर्वपक्षार्थः ।

सिद्धान्तयति -
हानावेवेति ।
यदि च्युतिमात्रं लक्ष्यं तदो­प­य­न्ती­त्य­न­न्वितं स्यात् । न च यत्र धुनो­ते­रू­पा­य­न­श­ब्द­सां­निध्यं तत्र हानिर्लक्ष्यते न केव­ल­धु­नो­ते­र्हा­नि­श्चा­न्यत्र विदुषः सेवकादौ तुल्य­क­र्म­सं­क्रा­न्ति­रिति नासंभव इति वाच्यं, केवलधुनोतेरपि मुख्या­र्था­सं­भ­वे­ना­न्यत्र लक्ष्यतया बुद्धि­स्थ­हा­नि­ल­क्ष­णाया एव युक्तत्वादिति भावः ।

उपा­य­न­स्या­मु­ख्य­त्वान्न क्वापि हानि­ल­क्ष­णा­बी­ज­त्व­मिति शङ्कित्वा पुण्यपापयोः फलतः स्वीका­रा­त्म­क­मु­पा­यनं हानिं विनानुपपन्नं सल्ल­क्ष­णा­नि­र्णा­य­क­मिति परिहरति -
यद्यपीत्यादिना ।

यथा­न्य­त्र­श्रु­त­मौ­दु­म्ब­र­त्वा­दिकं कुशादिनिर्णायकं तथेदमुपायनं विधूननस्य हानत्वे निश्चायकमित्याह -
क्वचिदपीति ।

विधूननं मुख्यं किमिति नोच्यते, तत्राह -
न चेति ।

तथापि हानं कथं लक्ष्यत इत्याशङ्क्य मुख्य­सं­ब­न्धा­दि­त्याह -
अश्वश्चेति ।

अनु­प­प­त्ति­सं­बन्धौ लक्ष­णा­बी­ज­रू­पा­मुक्त्वा लक्षकं पदं निर्दिशति -
अश्व इवेति ।
विधूयेति पदं दृष्टान्ते हानपर्यन्तं सद्दा­र्ष्टा­न्ति­केऽपि हान­ल­क्ष­क­मि­त्यर्थः ।

यद्वा हानवाचकमेवास्तु नच धूञ्कम्पन इति धातु­पा­ठ­वि­रो­ध­स्त­स्यो­प­ल­क्ष­णा­र्थ­त्वा­दि­त्याह -
अनेकेति ।
शाखा­न्त­र­स्थ­मु­पा­यनं विधूननस्य हान­त्व­नि­श्चा­य­क­मि­त्यत्र जैमिनिसूत्रं तदुक्तमिति गृहीतपूर्वं व्याख्या­त­मि­त्यर्थः । एवं विधूननस्य हानित्वसिद्धेः केव­ल­हा­ना­वु­पा­य­नो­प­सं­हार इति सिद्धम् ॥२६॥

संपराये अन्ये ।
व्यध्वनि अर्धमार्गे ।

पूर्वोक्तं विधूननस्य हानत्वमुपजीव्य हानस्य नदी­त­र­णा­न­न्त­र्य­श्रु­ते­र­श्वैव रोमाणि इत्यादौ देह­त्या­गा­त्प्रा­क्का­ल­त्व­श्रु­तेश्च संशयमाह -
तत्किमिति ।
ब्रह्म­लो­क­मा­र्ग­मध्ये विरजाख्यां नदीमत्येति तत्सु­कृ­त­दु­ष्कृते विधूनुते, इत्यत्र तदि­ति­स­र्व­ना­म­श्रु­त्या­स्ते­ने­त्य­र्थ­तया संनि­हि­त­न­दी­त­र­णस्य कर्म­हा­नि­हे­तु­त्वो­क्ते­र­र्ध­पथे कर्मक्षय इति पूर्वपक्षः ।

तत्र विद्यायाः कर्म­क्ष­य­हे­तु­त्वा­सिद्धेः पूर्वपक्षे, सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तयति -
सांपराय इति ।
मर­णा­त्प्रा­गि­त्यर्थः । संपरेतस्य मृतस्य कञ्चित्कालं कर्मसत्त्वे फला­भा­वा­द्दे­व­या­न­मा­र्ग­प्र­वे­शा­यो­गा­च्चा­दा­वेव क्षय इत्यर्थः ।

क्षय­हे­तो­र्वि­द्याया मध्ये­मा­र्ग­म­स­त्त्वा­च्चे­त्याह -
विद्या­वि­रु­द्धेति ।

नदी­त­र­णा­न­न्त­र­पा­ठस्तु बाध्यः, अर्थ­वि­रो­धा­दि­त्याह -
तस्मादिति ।
तदिति सर्वनाम्नापि प्रकृ­त­वि­द्यै­वो­च्यत इति भावः ॥२७॥

किञ्च मृतस्य छन्दतो यथाकामं विद्या­नु­ष्ठा­ना­नु­प­प­त्ते­रु­भ्यो­र्वि­द्या­क­र्म­क्ष­ययोः श्रुतो हेतुफलभावो विरुध्यते । किञ्च सति पुष्कलहेतौ न कार्यविलम्ब इति न्यायो­पे­त­ता­ण्ड्या­दि­श्रु­ति­वि­रो­ध­स्तव स्यादस्मत्पक्षे त्वविरोध इत्याह -
छन्दत इति ।
तस्मा­त्क­र्म­हा­नस्य विद्या­फ­ल­त्वा­त्के­व­ल­हा­ना­वु­पा­य­नो­प­सं­हारो विद्यास्तुतय इति सिद्धम् ॥२८॥

गतेरर्थवत्त्वं

क्वचि­त्स­गु­ण­वि­द्यायां मार्गः श्रूयते निर्गु­ण­वि­द्यायां न श्रूयते । तत्र हानसंनिधौ मार्गस्य श्रुत­त्वा­द­न­पे­क्षि­त­त्वाच्च संशये दृष्टा­न्त­सं­गत्या पूर्वपक्षमाह -
यथा तावदिति ।
उपा­य­न­व­न्मा­र्ग­स्यापि क्वचि­च्छ्रु­त­त्वा­त्स­र्व­त्रो­प­सं­हार इत्यर्थः । अत्र निर्गुणविदोऽपि मुक्त्यर्थं मार्गापेक्षा पूर्वपक्षे, सिद्धान्ते त्वनपेक्षेति फलम् । देशा­दि­व्य­व­हि­त­व­स्तु­प्राप्तौ मार्ग­स्या­पे­क्षे­ति­न्या­या­नु­गृ­ही­त­श्रु­ति­वि­रो­धा­न्नो­प­सं­हार इति सिद्धान्तः । निरञ्जनोऽसङ्गः, साम्यं ब्रह्म ॥२९॥

ननु तर्हि सगुणविद्यायामपि मार्गो व्यर्थ इत्यत आह -
उपपन्न इति ।
सा गतिर्लक्षणं कारणं यस्यार्थस्य स तल्लक्षणार्थः ॥३०॥

अनियमः सर्वासाम् ।

अत्रा­प्य­र्चि­रा­दि­मार्ग एव विषयस्तत्र विद्या­वि­शे­ष­प्र­क­र­णा­द­वि­शे­ष­श्रु­तेश्च संशये पूर्वपक्षमाह -
किं तावदिति ।
सगु­ण­नि­र्गु­ण­वि­द्यासु मार्गस्य भावा­भा­व­व्य­व­स्था­व­त्स­गु­णा­स्वपि व्यवस्थेति दृष्टान्तेन प्राप्तौ सिद्धान्ते व्यव­स्था­प­वा­दा­द्ग­ति­नि­य­मोऽ­नि­यम उभयत्र फलम् ।

नियमे प्रकरणमुक्त्वा पुनरुक्तिं लिङ्गमाह -
अपि चेति ।
एक­त्रो­क्त­ग­ते­र­न्यत्र प्राप्तौ पुनरुक्तिर्वृथा स्यादित्यर्थः ।

सिद्धान्तयति -
सर्वासामिति ।
अभ्युदयो ब्रह्मलोकः ।

अवि­शे­ष­श्रु­त्या­दिना प्रकरणबाधो न दोष इत्याह -
नैष इति ।
तत्तत्र अधिकृतानां मध्ये य इत्थं पञ्चा­ग्नी­न्वि­दुर्ये चामी अरण्ये श्रद्धातप इत्युपासते श्रद्धा­त­पौ­प­ल­क्षितं ब्रह्म ध्यायन्ति तेऽर्चि­ष­म­भि­सं­भ­व­न्ती­त्य­न्वयः ।

ननु श्रद्धा­त­पो­मा­त्र­श्रु­ते­स्ता­भ्या­मे­वा­र्चि­रा­दि­ग­मनं स्यान्न वैश्वा­न­रा­दि­वि­द्या­शी­ला­ना­मिति शङ्कते -
कथं पुनरिति ।

अविदुषां गति­नि­षे­धा­च्छ्र­द्धा­त­पः­श­ब्दाभ्यां तत्सा­ध्य­ब्र­ह्म­वि­द्या­ल­क्ष­णेति परिहरति -
नैष दोष इति ।
तत् ब्रह्म­लो­क­स्थानं, परागताः परावृत्ताः, कामक्रोधदोषा न सन्तीति यावत् । दक्षिणाः केव­ल­क­र्मि­ण­स्त­प­स्वि­नोऽ­प्य­वि­द्वांसो न गच्छन्तीत्यर्थः ।

लक्षणादोषहीनं वाक्यमाह -
वाज­स­ने­यि­न­स्त्विति ।

किञ्च विद्या­क­र्म­ल­क्ष­ण­मा­र्ग­द्व­य­भ्र­ष्टा­ना­म­धो­ग­ति­श्रुतेः वैश्वा­न­रा­द्यु­पा­स­का­ना­म­र्चि­रा­दि­मा­र्ग­प्रा­प्ति­रि­त्याह -
अथ य एताविति ।
दन्दशूकः सर्पः ।

किञ्च 'अग्नि­र्ज्यो­ति­र­हः­शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' इत्य­वि­शे­षे­णो­पा­स­का­ना­म­र्चि­रा­दि­ग­ति­मु­क्त्वो­प­सं­हा­र­स्मृ­तेश्च तेषां तत्प्रा­प्ति­रि­त्याह -
स्मृतिरिति ।
शुक्ला­ग­ति­र­र्चि­रा­दिका, कृष्णा धूमादिका, जगतो विद्या­क­र्मा­धि­कृ­तस्य, शाश्वते ध्रुवे संमते । तत्रैकया शुक्लया पुन­रा­वृ­त्ति­वर्जं कार्यं ब्रह्म गच्छति; अन्यया स्वर्गे गत्वा पुन­रा­या­ती­त्यर्थः ।

पुनरुक्तिदोषं दूषयति -
यत्पुनरिति ।
तत्र तत्र मार्ग­श्रु­ति­र­न्वहं मार्ग­चि­न्त­नार्थं, प्रकरणेन मार्गध्यानस्य विद्या­ङ्ग­त्वा­व­ग­मात् । तथा च वक्ष्यति सूत्रकारः - 'तच्छे­ष­ग­त्य­नु­स्मृ­ति­यो­गाच्च' इति । येषां न श्रुतो मार्गस्ते मार्गध्यानं विनापि विद्या­सा­म­र्थ्या­न्मार्गं लभन्त इति ज्ञापनार्था पुन­रु­क्ति­रि­त्यर्थः । तस्मा­त्स­र्वो­पा­स­नासु प्रती­क­भि­न्ना­स्व­र्चि­रा­दि­प्रा­प्ति­रिति सिद्धम् ॥३१॥

यावदधिकारम् ।
निर्गु­ण­वि­द्यायां गतिर्व्यर्था मुक्तिफलत्वात्, सगुणविद्यासु सर्वत्रार्थवती ब्रह्म­लो­क­फ­ल­त्वा­दिति व्यवस्था कृता, सा न युक्ता, तत्त्व­ज्ञा­नि­ना­म­पी­ति­हा­सादौ पुन­र्ज­न्म­द­र्श­नेन ज्ञानस्य मुक्ति­फ­ल­त्वा­भा­वा­दि­त्या­क्षे­पा­त्सं­गतिः । ज्ञानिनां पुनर्जन्मदर्शनं संशयबीजं भाष्ये दर्शितम् । पूर्वपक्षे ज्ञाना­न्मु­क्ति­श्रु­तीनां ज्ञान­स्तु­ति­मा­त्र­त्वेन ज्ञानस्य मुक्ति­फ­ल­त्वा­भावे सति ब्रह्म­लो­क­फ­ल­त्वा­वि­शे­षा­द­र्चि­रा­दि­मा­र्गो­प­सं­हारः फलं, सिद्धान्ते तूक्त­व्य­व­स्था­सि­द्धि­रिति विवेकः ।

श्रुतावपीति ।
मेधा­ति­थे­र्मे­षे­ति­मन्त्रे इन्द्रस्य मेषजन्मोपलभ्यते । वसिष्ठ उर्वशीपुत्रो जात इत्येवमर्थो बह्वृचार्थवाद इत्यर्थः । पाक्षि­क­मि­त्या­पा­ततः । अहेतुत्वमेवेति पूर्वपक्षः ।

ज्ञानस्य मुक्त्यहेतुत्वं नेति सिद्धान्तयति -
ते चेति ।

लोकव्यवस्थासु स्वामि­त्व­म­धि­कारः, तत्प्रापकं प्रारब्धं यावदस्ति तावत्कालं जीव­न्मु­क्त­त्वे­ना­धि­का­रि­का­णा­म­व­स्थितिः, प्रारब्धक्षये प्रति­ब­न्ध­का­भा­वा­द्वि­दे­ह­कै­व­ल्य­मि­त्यत्र मानमाह -
अथेति ।
अथ प्रार­ब्ध­क्ष­या­न­न्त­रम् । ततः पश्चादूर्ध्वो विलक्षणः केवलः ब्रह्मस्वरूपः सन् उदेत्योद्गम्य देहं त्यक्त्वेति यावत् । एकल एव अद्वितीयः, मध्ये उदा­सी­ना­त्म­क­स्व­रूपे तिष्ठतीत्यर्थः ।

ननु ज्ञानिनामपि जन्मान्तरं चेत्कथं मुक्तिरित्यत आह -
सकृ­त्प्र­वृ­त्त­मिति ।
यदि ज्ञानिनां प्रार­ब्धा­ति­रि­क्त­क­र्मा­धीनं जन्मान्तरं स्यात्तदा ज्ञाना­न्मु­क्त्य­भावः स्यात् । नैतदस्ति । किन्तु बहुजन्मफलाय सकृदुद्भूतं प्रारब्धं ते क्षपयन्ति, जन्मग्रहणेऽपि ज्ञानयोगबलान्न शोचन्ति प्रारब्धसमाप्तौ मुच्यन्त इत्यर्थः । ज्ञानिनां जन्मान्तरस्य पूर्व­ज­न्म­हे­तु­प्रा­र­ब्धा­धी­न­ता­या­म­लु­प्त­स्मृ­तित्वं हेतुः । यो ह्यजातिस्मरत्वे सति कर्मा­न्त­रा­धी­न­ज­न्मा­न्त­र­वान्, स लुप्तस्मृतिरिति व्याप्तेः । ज्ञानि­षु­व्या­प­का­भा­वा­द्वि­शि­ष्ट­व्या­प्या­भा­व­सिद्धिः ।

ननु तेषां जाति­स्म­र­त्वा­द­लु­प्त­स्मृ­ति­त्व­म­न्य­था­सि­द्धि­मि­त्यत आह -
न चैत इति ।
तथा च तेषा­म­जा­ति­स्म­र­त्व­रू­प­वि­शे­षणे सति विशेष्याभावादेव विशि­ष्टा­भा­व­सि­द्धि­रि­त्यर्थः । पूर्व­दे­ह­ना­म­प्र­त्य­भि­ज्ञा­न­हीनाः परतन्त्राः साभिमाना जातिस्मराः, आधिकारिकास्तु पूर्वनामानः स्वतन्त्रा निरभिमाना इति वैषम्यम् । तेन जनकेन सह व्युद्य विवादं कृत्वेत्यर्थः । विदुषः प्रार­ब्धा­ति­रि­क्त­क­र्मा­भा­वान्न बन्धः ।

निमित्ताभावे नैमित्तिकाभाव इति न्याया­नु­गृ­ही­तानां ज्ञाना­न्मु­क्ति­श्रु­तीनां न स्तुति­मा­त्र­त्व­मि­ती­म­म­र्थ­मु­प­पा­द­यति -
यदि ह्युपयुक्त इत्यादिना ।

श्रुति­स्मृ­त्यु­क्तार्थे युक्तिमप्याह -
न चाविद्येति ।

विद्यया क्लेश­दा­हा­त्त­त्का­र्य­क­र्म­क्ष­य­श्चे­त्तर्हि प्रारब्धस्य कथं स्थितिः, तत्राह -
प्रवृ­त्त­फ­ल­स्येति ।
विदुषो देह­पा­ता­व­धि­श्रु­ते­र­नु­भ­वाच्च ज्ञान­स्या­व­र­का­ज्ञा­नां­श­नि­व­र्त­कस्य प्रार­ब्ध­वि­क्षे­प­स्थि­त्य­नु­कू­ला­ज्ञा­नां­श­नि­व­र्त­न­सा­म­र्थ्या­भा­व­सि­द्धे­र्भो­गे­नैव प्रारब्धक्षय इति भावः ।

ज्ञानि­ना­म­धि­का­रि­कत्वं कथमित्याशङ्क्य ज्ञाना­त्प्रा­क्कृ­तो­पा­स­ना­दि­व­शा­दि­त्याह -
ज्ञानान्तरेषु चेति ।
प्रतिसंचरो महाप्रलयः, परस्य हिरण्यगर्भस्य, अधिकारान्ते साक्षा­त्कृ­ता­त्मानो मुच्यन्ते इत्यर्थः ।

ब्रह्म­भा­व­फ­ल­स्याऽपि भावित्वमाशङ्क्य तत्त्वमसीति श्रुतिबाधमाह -
न हीति ।
तस्मा­न्नि­र्गु­ण­वि­द्यायां मार्गानुपसंहार इति सिद्धम् ॥३२॥

अक्षरधियाम् ।

अत्रा­क्ष­र­ब्र­ह्म­प्र­मा­पका निषेधशब्दा विषयाः, तेषु यत्र यावन्तः श्रुतास्तत्र ताव­ता­म­शे­ष­द्वै­त­नि­षे­ध­क­त्व­सं­भ­वा­सं­भ­वाभ्यां संशयमाह -
तासामिति ।
यथा निर्गु­ण­वि­द्यायां मार्ग­स्या­न­पे­क्षि­त­त्वा­द­नु­प­सं­हा­र­स्तथा श्रुत­नि­षे­धा­ना­मु­प­ल­क्ष­ण­तया सर्व­द्वै­त­नि­षे­ध­सं­भ­वा­च्छा­खा­न्त­री­य­नि­षे­ध­श­ब्दा­ना­म­न­पे­क्षि­त­त्वा­द­नु­प­सं­हार इति दृष्टान्तेन पूर्वपक्षस्तत्र लाघवं फलम् । सिद्धान्ते तु दोषद्वयाभावः फलम् । तथा हि यदि श्रुत­श­ब्दै­र­श्रु­त­नि­षेधा लक्ष्यन्ते तदा लक्षणादोषः, यदि न लक्ष्यन्ते तदा सर्व­द्वै­त­नि­षे­धा­सि­द्धे­र्नि­र्वि­शे­ष­प्र­मि­त्य­भा­व­दोष इति विवेकः । अक्षरे धर्मिणि द्वैत­नि­षे­ध­धि­योऽ­क्ष­र­धि­य­स्त­द्धे­तवः शब्दा इति यावत्, तासामवरोध उपसंहार इति सूत्रयोजना ।

शेषिब्रह्मणः सर्वशाखासु भावा­त्त­त्प्र­मितेः समा­न­त्वा­च्छे­षा­णा­मु­सं­हारः इति चेत्तर्हि न्याय­सा­म्या­त्पु­न­रु­क्ति­ता­द­व­स्थ्य­मि­त्यत आह -
प्रपञ्चार्थ इति ।
आनन्दादीनां स्वरू­प­त्वा­द­स्तू­प­सं­हारः निषे­धा­ना­म­ना­त्म­त्वा­दा­न­न्त्या­च्चा­नु­प­सं­हार इत्य­धि­का­र­श­ङ्कायां तेषामनात्मवेऽपि निर्वि­शे­ष­ब्र­ह्म­प्र­मि­त्य­र्थ­त्वा­द­वि­द्या­त­ज्ज­नि­षे­ध­त्वेन संग्रहसिद्धेश्च निर­पे­क्षा­स्थू­ला­न­णु­वा­क्य­स्थ­तया कॢप्त­नि­षे­ध­श­ब्दा­ना­म­न्य­त्र­श्रु­ति­नि­षे­ध­वा­क्यै­क­वा­क्य­त­यो­प­सं­हार इति चिन्ता युक्तेत्यर्थः ।

अन्य­त्र­श्रु­त­शे­षा­णा­म­न्य­त्र­स्थ­शे­षि­सं­बन्धे दृष्टान्तं व्याचष्टे -
यथेति ।
'जमदग्निः पुष्टि­का­म­श्च­तू­रा­त्रे­णा­य­जत' इत्युपक्रम्य विहितो जमदग्निना कृतो जामदग्न्यः, अहीनश्चतूरात्रः क्रतु­स्त­स्मि­न्पु­रो­डा­शिन्य उपसदो भवन्तीति पुरोडाशसाध्या इष्ट­य­स्तै­त्ति­री­यके विहिताः, तासा­म­ध्व­र्यु­क­र्तृ­क­त्वा­त्सा­म­वे­दो­त्प­न्न­म­न्त्राणां तात्सु विनि­यो­गा­द­ध्व­र्यु­णैव प्रयोगो नोद्गा­त्रे­त्यर्थः । वेर्देवगणस्य होत्रमध्वरं च कर्मा­ग्ने­स्त्वत्त एवे­त्य­ग्न्या­म­न्त्र­ण­म­न्त्रार्थः । उत्प­त्ति­वि­धि­र्गुणः फला­पे­क्ष­त्वा­दु­त्प­न्नस्य फले विनि­यो­ग­वि­धि­र्मुख्यः सफलत्वात् । तथाच मन्त्र­णा­मु­द्गा­तृ­वे­दो­त्प­न्न­त्वा­दु­द्गात्रा प्रयोगः, विनि­यो­ग­वि­धि­ना­ध्व­र्युणा प्रयोग इति गुण­मु­ख्य­यो­र्व्य­ति­क्रमे विरोधे सति मुख्येन बलीयसा मन्त्रा­त्म­क­वे­द­स्या­ध्व­र्युणा संप्रयोग उत्प­त्ते­र्वि­नि­यो­गा­र्थ­त्वा­दिति जैमि­नि­सू­त्रार्थः । यद्यपि शाबरभाष्ये वार­व­न्ती­या­दि­सा­म्ना­मुच्चैः स्वर­क­सा­म­वे­दो­त्प­न्न­त्वा­दा­धा­ना­ङ्ग­त्वे­नोच्चैः स्वरप्रयोगः 'य एवं विद्वा­न्वा­र­व­न्तीयं गायति यज्ञायज्ञीयं गायति वामदेव्यं गायति' इत्याधाने तेषां विनियोगविधिना याजुषेण याजु­ष­स्यो­पां­शु­स्व­रस्य प्रयोग इति गुण­मु­ख्य­यो­र्वि­रोधे सत्त्यु­त्प­त्ते­र्वि­नि­यो­गा­र्थ­त्वा­न्मु­ख्य­वि­नि­यो­ग­ब­लेन साम्नां यजु­र्वे­द­स्व­र­सं­योग इति सूत्रं व्याख्यातं, तथापि न्याय­सा­म्या­दौ­प­स­द­मन्त्राः सूत्र­वि­ष­य­त्वे­नो­दा­हृता इत्यविरोधः ॥३३॥

इयदामननात् ।

मन्त्रद्वयेऽपि प्रति­पा­द­न­प्र­का­र­भे­दात् ज्ञेयै­क्य­भा­नाच्च संशयमाह -
किमत्रेति ।
ऋतपानवाक्ये 'अक्षरं ब्रह्म यत्परम्' इति गुणाः श्रुताः, सुप­र्ण­वा­क्येऽ­न­श्न­त्वा­द­य­स्तेषां मिथोऽनुपसंहार इति पूर्वपक्षफलं, सिद्धान्ते तूपसंहारे ब्रह्म­स्व­रू­प­वा­क्या­र्थै­क्या­दु­प­सं­हार इति विवेकः । अस्तु वेद्यै­क्या­द­क्ष­र­धि­या­मु­प­सं­हारः । इह तु वेद्य­भे­दा­न्नो­प­सं­हार इति प्रत्युदाहरणेन पूर्वपक्षः । नन्वयं गुणाधिकरणे निरस्त इति चेत्, सत्यं, किन्तु पिबत्पदस्य मुख्यार्थत्वाय स्वतः कल्पनया च पानकृत्याश्रयौ बुद्धिजीवौ पिबन्तौ ग्राह्यौ, सुपर्णौ तु जीवे­श्व­रा­वि­त्य­धि­का­श­ङ्कायां मन्त्रद्वयेऽपि द्विव­च­न­श­ब्द­सा­मा­न्या­दौ­त्प­त्ति­क­द्वि­त्व­वि­शि­ष्ट­तया तुल्य­व­स्तु­द्व­य­प्र­त्य­भि­ज्ञा­नस्य बाध­का­भा­वा­त्प्र­क­र­णा­द्य­नु­ग्र­हाच्च जीवा­नु­वा­दे­ना­सं­सा­रि­ब्र­ह्मणि मन्त्र­द्व­य­ता­त्प­र्य­मिति प्रपञ्चार्थमिदं सूत्रमिति भावः ॥३४॥

अन्तरा भूत­ग्रा­म­व­त्स्वा­त्मनः ।
घटादिकं चिद्वि­ष­य­त्वे­ना­प­रोक्षं, ब्रह्म तु साक्षा­द­वि­ष­य­त्वे­ना­प­रो­क्ष­मिति । प्रथमार्थे पञ्चमि । अत्र श्रुता­वा­त्म­ध­र्मोऽ­प­रो­क्षत्वं ब्रह्मण्युक्तं, ब्रह्मधर्मः सर्वा­न्त­र­त्व­मा­त्म­न्युक्तं, तेन तयोरैक्यं दृढीकृतं मन्तव्यं, तन्मे व्याच­क्ष्वे­त्यु­ष­स्त­प्रश्ने याज्ञवल्क्येन प्राणादिप्रेरको दृष्ट्या­दि­साक्षी प्रतिपादितः । तथैव 'यदेव साक्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वा­न्त­र­स्तन्मे व्याचक्ष्व' इति कहो­ल­प्र­श्नेऽ­श­ना­या­द्य­तीतः प्रतिपादितः । तत्र ब्राह्म­ण­द्व­येऽपि प्रश्ना­द­भ्या­सा­त्स­र्वा­न्त­र­त्व­प्र­त्य­भि­ज्ञा­नाच्च संशये मन्त्र­यो­र्वे­द्यै­क्या­दस्तु विद्यैक्यं, इह तु ब्राह्म­ण्यो­र्वे­द्यै­क्येऽपि अभ्या­सा­द्वि­द्या­भेदः, यज­त्य­भ्या­सा­त्प्र­या­ज­भे­द­व­दिति प्रत्युदाहरणेन पूर्वपक्षः, तत्र मिथो धर्मानुपसंहारः फलं, सिद्धान्ते तूपसंहार इति विवेकः । द्वयोः सर्वा­न्त­र­त्वा­नु­प­पत्त्या ताव­द्ब्रा­ह्मा­ण­यो­रे­क­व­स्तु­प­रत्वं सिद्धम् । तथाच वेद्यै­क्या­न्नि­र्गु­ण­वि­द्यैक्ये न विवादः ॥३५॥

ननु
अन्यथा
विद्यै­क्या­ङ्गी­कारे अभ्या­सा­नु­प­प­त्ति­रिति चेदुच्यते स एवाभ्यासः कर्मभेदको यो निरर्थकः, इह तूष­स्त­ब्रा­ह्म­णो­क्ता­त्मन एवा­श­ना­या­द्य­त्य­य­रू­प­वि­शे­ष­क­थ­ना­र्थ­त्वा­द­भ्या­सोऽ­न्य­था­सिद्धो न विद्याभेदक इति समुदायार्थः ॥३६॥

व्यतिहारः ।
जीवेशयोर्मिथो विशे­ष­ण­वि­शे­ष्य­भावो व्यतिहारः, तस्य श्रुतत्वात्, उत्कृ­ष्ट­दृ­ष्टि­र्नि­कृष्टे कृता फलवतीति न्यायाच्च संशये जीवे ईश्वरत्वमतिरेव कार्या उक्तन्यायात्, व्यति­हा­र­श्रु­तिस्तु तस्या एव दृढी­क­र­णा­र्थ­त्वे­ना­भ्या­स­व­द­न्य­था­सि­द्धेति दृष्टान्तेन पूर्वपक्षः । तत्र लाघवं फलं लिद्धान्ते तु श्रुत्य­र्थ­व­त्त्व­मिति विवेकः । एकेनैव त्वम­ह­म­स्मी­त्यु­च्चा­र­णे­नै­क­त्व­मतेः कृतत्वादहं त्वमसि इति वृथा स्यादित्यर्थः ।

उक्तदोषं स्मारयति -
नन्विति ।

संदिग्धेऽर्थे न्यायः सावकाशः, इह तु श्रुत­त्वा­द­न्यो­न्या­त्मत्वं ध्येयं, ब्रह्मणि मनो­म­य­त्वा­दि­व­ज्जी­वा­त्म­त्वस्य ध्याना­र्थ­मा­रो­पेऽपि निक­र्ष­प्र­स­क्त्य­भा­वा­दिति परिहरति -
नैष दोष इति ।

ब्रह्मणि निकर्षं हित्वा जीव­ता­दा­त्म्य­ध्याने मदु­क्त­मे­वा­ग­त­मिति शङ्कते -
नन्वेवमिति ।

मते­र्द्वि­रू­पत्वं त्वद­नु­क्त­म­स्मा­भि­रु­च्यते ध्यानपरं वाक्यमिदमेकत्वं तु माना­न्त­रा­वि­रो­धा­त्सि­ध्य­तीति समाधत्ते -
न वयमिति ।

अह­ङ्ग्र­हो­पा­स्ति­ष्वयं व्यतिहार उपसंहर्तव्य इत्याह -
तस्मादिति ॥३७॥

सैव हि सत्यादयः ।
स यः कश्चिदधिकारी महद्व्यापकं यक्षं पूज्यं भौतिकेषु प्रथमजमेतत्सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः । सत्यमिति नाम त्र्यक्षरं सतियमिति, तत्र प्रथमोत्तमे अक्षरे सत्यं, मध्य­स्थ­म­क्ष­र­म­नृ­त­मु­भ­यतः सत्येन संपु­टि­त­त्वा­त्स­त्त्य­प्रा­य­मेव भवतीति नामाक्षरोपासना सत्य­वि­द्या­ङ्ग­त्वे­नोक्ता । यत्त­त्पू­र्व­प्र­कृतं हृदयाख्यं तत्सं­प्र­त्यु­क्त­य­क्ष­त्वा­दि­गु­णकं, सोऽसा­वा­दि­त्य­म­ण्ड­लेऽ­क्षिणि च पुरु­ष­स्त­स्या­ह­रि­त्य­ह­मिति च नाम­द्व­य­ज्ञा­ना­त्पा­प­क्षयः फलमित्यर्थः ।

अत्र पूर्वो­त्त­र­वा­क्ययोः फलभेदश्रुतेः प्रकृ­ता­क­र्ष­णाच्च संशयमाह -
तत्रेति ।
पूर्वपक्षे गुणानां व्यव­स्थ­या­नु­ष्ठानं, सिद्धान्ते त्वनु­ष्ठा­नै­क्य­मिति फलम् ।

यथा जीवे­श­यो­र­न्यो­न्या­त्म­त्व­श्रु­ति­भे­दा­न्म­ति­द्वै­रू­प्य­मुक्तं, तथात्र फल­श्रु­ति­भे­दा­द्वि­द्या­भेद इति दृष्टान्तेन पूर्वपक्षयति -
द्वे इति ।

विशे­ष्य­ब्र­ह्म­मा­त्रा­क­र्ष­ण­म­युक्तं, तद्यत्तदिति सर्वनामभिः पूर्वो­क्त­गु­ण­वि­शिष्टं ब्रह्म आकृ­ष्या­दि­त्या­क्षि­स्था­ना­दि­गु­ण­वि­धा­नात्, तथाच वाक्यादेव विद्यै­क्य­सि­द्धि­रिति सिद्धान्तयति -
एकैवेति ।

यथा दह­र­शा­ण्डि­ल्य­वि­द्य­यो­र्ब्र­ह्मै­क्य­प्र­त्य­भि­ज्ञा­न­मात्रं तथात्र नेत्याह -
नैतदिति ।
कारणान्तरं प्रकरणभेदादिकम् । एवं विद्या­भे­देऽ­प्ये­त­दु­पा­स्यै­क्य­ज्ञानं स्यादत्र तूभयथासंभवे विद्यै­क्य­ना­ना­त्व­सं­शये सत्य­मि­त्यु­पा­स्य­रू­पै­क्य­ज्ञा­ना­द्वि­द्यै­क्य­नि­श्चय इत्यक्षरार्थः ।

असत्यपवादकारणे रूपै­क्या­द्वि­द्यै­क्यो­त्स­र्ग­सि­द्धिर्न च फलभेदादपवादः । अङ्गे फलश्रुतेः श्रुतिमात्रतया फल­भे­दा­सि­द्धि­रि­त्याह -
यत्पु­न­रि­त्या­दिना ।

किञ्च यत्र प्रधा­न­वि­धा­वे­व­ङ्काम इति फलं श्रुतं, तत्र प्रधा­न­फ­ले­नै­वा­ङ्गानां फला­का­ङ्क्षा­नि­वृ­त्ते­रङ्गे फलश्रुतेः स्तुति­मा­त्रत्वं, इह तु प्रथमज सत्यं ब्रह्मेति वेदेति प्रधा­न­वि­द्या­वि­धि­स्थत्वं लोक­ज­य­फ­ल­स्या­भ्यु­पे­त्या­स्मा­भि­र्ना­म­रू­पा­ङ्गस्य फलश्रुतेः स्तुति­त्व­मु­क्तम् । वस्तुतस्तु प्रधा­न­वि­धा­व­प्ये­व­ङ्का­म­प­दा­भा­वा­द्रा­त्रि­स­त्र­न्या­येन फले कल्पनीये सति प्रधाने तदङ्गे वा यत्किञ्चित्फलं श्रुतं तस्य सर्वस्यापि श्रुत­त्वा­वि­शे­षा­ज्जा­ते­ष्टि­फ­ल­न्या­येन समु­च्चि­त्यै­क­प्र­धा­न­फ­ल­त्व­क­ल्प­नात् फलभेदोऽसिद्ध इत्याह -
अपि चेति ।

सूत्रं योजयति -
तस्मादिति ।

एक­दे­शि­व्या­ख्या­मु­द्भाव्य दूषयति -
केचिदित्यादिना ।

छान्दोग्ये कर्माङ्गोद्गीथे हिर­ण्म­य­पु­रु­ष­दृ­ष्टि­रि­त्यत्र लिङ्गमाह -
तत्रेति ।
पृथि­व्य­ग्न्या­त्मना दृष्टे ऋक्सामे गेष्णौ, तस्मा­दृ­क्सा­म­गे­ष्ण­त्वात्, पुरुष उद्गीथ इत्येवं विद्वानुद्गाता कर्म­फ­ल­स­मृ­द्धि­स­मर्थ इति श्रुत्यर्थः ।

सत्यविद्या तु न कर्मा­ङ्गा­श्रि­ते­त्याह -
नैवमिति ।
अङ्गविद्यातः स्वत­न्त्र­हि­र­ण्य­ग­र्भ­वि­द्याया भेदान्न गुणोपसंहार इत्यर्थः ॥३८॥

कामादीतरत्र ।

सगु­ण­नि­र्गु­ण­वि­द्ययोः श्रुताः सत्यकामादयो वशित्वादयश्च गुणा मिथ उपसंहर्तव्या न वेत्युपसंहारस्य फलभावाभावाभ्यां संदेहे सत्यविद्याया एक­त्वा­द्गु­ण­सां­क­र्येऽ­प्यत्र विद्ययोः सगु­ण­नि­र्गु­ण­रू­प­भे­देन भेदा­न्नि­र्गु­ण­वि­द्यायां गुणोपसंहारस्य फला­भा­वा­च्चा­नु­प­सं­हार इति बहिरेव प्राप्ते सिद्धान्तयति -
तत्रे­द­मि­त्या­दिना ।

एवं विद्याभेदे स्फुटे कथं गुणोपसंहारः, तत्राह -
गुणवतस्त्विति ।
भिन्न­वि­द्या­स्था­ना­मपि गुणा­ना­मा­य­त­ना­दि­सा­म्येन निर्गुणस्थले बुद्धिस्थानां स्तुत्य­र्थ­मु­प­सं­हारो युक्तः, ज्ञान­स्तु­ति­प्र­क­र्ष­स्या­का­ङ्क्षि­त­त्वात्, यत्र क्वचि­द्दृ­ष्ट­गुणैः स्तुतेः कर्तुं योग्यत्वात् । यद्यपि सगु­ण­स्थ­स­त्य­का­मा­दिषु निर्गुणस्थगुणा अन्तर्भूता एव तथापि नोप­सं­हा­रो­क्ते­र्वै­यर्थ्यं निर्गु­ण­स्ता­व­क­त्वेन श्रुत­गु­णा­ना­म­न्य­त्रा­प्य­ध्ये­य­त्व­मिति शङ्का­नि­रा­से­ना­न्त­र्भा­व­दा­र्ढ्या­र्थ­त्वा­दि­त्य­न­व­द्यम् ॥३९॥

आदरादलोपः ।

अत्र यच्छ­ब्दा­ग्नि­हो­त्र­श­ब्दाभ्यां संशयमाह -
तत्रेदं विचार्यत इति ।
वैश्वा­न­रो­पा­स­के­ना­ति­थि­भो­ज­ना­त्प्रा­क्का­र्य­त्वेन विद्या­ङ्ग­प्रा­णा­ग्नि­हो­त्र­वि­चा­रा­त्पा­द­सं­गतिः । पूर्वपक्षे भोजनलोपेऽपि द्रव्यान्तरेण प्राणा­ग्नि­हो­त्रा­नु­ष्ठानं, सिद्धान्ते तल्लेप इति भेदः ।

ननु यद्भक्तमिति यच्छब्देन भोजनाक्षिप्तं भक्तमनूद्य यद्धोमीयमिति होम­सं­यो­ग­वि­धि­ना­दा­क्षे­प­क­भो­ज­न­लोपे तदा­क्षि­प्त­भ­क्ता­श्रि­त­हो­म­लोप इति सिद्धान्ती शङ्कते -
तद्यदिति ।

निर्गु­ण­स्यो­पा­स्ति­लो­पेऽपि स्तुत्य­र्थ­गु­ण­स्थै­र्य­व­द्भो­ज­न­लो­पेऽपि प्राणा­ग्नि­हो­त्र­स्या­द­रेण स्तुति­नि­र्वा­हा­र्थ­म­लोप इति दृष्टान्तेन पूर्व­प­क्ष­सू­त्रेण परिहरति -
एवं प्राप्त इति ।
एवं तदिति स्वयं प्राणा­ग्नि­हो­त्र­म­कृ­त्वा­ति­थीनां तत्करणमित्यर्थः ।

उक्तं स्मारयित्वा परिहरति -
नन्वित्यादिना ।
यथा कुण्ड­पा­यि­स­त्र­गते मासा­ग्नि­हो­त्रेऽ­ग्नि­हो­त्र­श­ब्दा­द्गौ­णा­न्नि­त्या­ग्नि­हो­त्र­वा­च­का­न्नि­त्या­ग्नि­हो­त्र­ध­र्माणां पयोद्रव्यादीनां प्राप्ति­स्त­थे­हापि प्राणा­हु­ति­ष्व­ग्नि­हो­त्र­श­ब्द­व­शा­त्प­यो­द्र­व्या­दी­ना­मु­त्स­र्गतः प्राप्तौ सत्यां भोज­ना­र्थ­भ­क्त­द्र­व्य­वि­धि­ना­प­वादः कृतः, अतो भक्त­वि­धे­र­प­वा­दा­र्थ­त्वा­द्भो­ज­न­लोपे भक्ता­ख्य­गु­ण­स्या­ङ्गस्य लोपेऽपि न मुख्य­स्या­ग्नि­हो­त्रस्य लोपः, अपवादाभावे उत्स­र्ग­प्रा­प्त­प­या­दिना तस्य निष्प­त्ति­सं­भ­वा­दिति प्राप्त­मि­त्यर्थः । 'गुणलोपे न मुख्यस्य' इति जैमिनिसूत्रम् । आधाने सन्ति पव­मा­ने­ष्ट­य­स्त­त्रा­ग्नये पवमानाय पुरो­डा­श­म­ष्टा­क­पालं निर्वपेदिति निर्वापः श्रुत­स्त­द­ङ्ग­त्वे­ना­ग्नि­हो­त्र­ह­वण्यां हवींषि निर्वपेदिति दर्श­पू­र्णा­मा­सा­ख्य­प्र­कृतौ विहिताग्निहोत्र हवण्यतिदेशेन प्राप्त आधानकाले चाग्नि­हो­त्रा­भा­वा­त्तस्या गुणभूताया लोपेऽपि मुख्यस्य निर्वापस्य न लोप इत्यर्थः । आर­ब्ध­नि­त्या­दि­क­र्म­णोऽ­व­श्या­नु­ष्ठे­य­त्वा­च्छ्रु­त­द्र­व्या­लाभे प्रति­नि­हि­त­द्र­व्ये­णापि कर्म कर्तव्यमिति प्रतिनिधिन्यायः ॥४०॥

सिद्धान्तयति -
उप­स्थि­तेऽ­त­स्त­द्व­च­ना­दिति ।
तद्धोमीयमिति तच्छब्देन भोज­ना­र्थ­सि­द्ध­भ­क्त­मा­श्रित्य होम­वि­धा­ना­दि­त्यर्थः । सिद्ध­व­द्भ­क्तो­प­नि­पातः प्रकृ­त­भ­क्ता­ग­मनं, तस्य तच्छब्देन परा­म­र्शे­ने­त्यर्थः ।

आश्रित्य विहि­ता­हु­ती­ना­मा­श्र­य­लोपे लोपो एव न द्रव्या­न्त­रा­क्षे­प­कत्वं, यथा क्रतु­प्र­यु­क्ता­त्प्र­ण­य­ना­श्रि­तस्य गोदोहनस्य क्रतुलोपे लोपे न त्वाश्र­या­न्त­र­प्र­यो­ज­कत्वं तथेति फलितमाहता इति­य­दु­क्त­म­ग्नि­हो­त्र­श­ब्दा­द्द्र­व्या­न्त­र­प्रा­प्ति­रिति, तत्राह -
न चात्रेति ।
तद्वद्भावो नित्या­ग्नि­हो­त्र­सा­दृ­श्य­म­र्थ­वा­द­स्थ­श­ब्दस्य स्तुति­त्वे­नो­प­प­त्ते­रि­त्यर्थः ।

धर्मप्रापकत्वे दोषमाह -
तद्धर्मप्राप्तौ चेति ।
अव एवेति तद्ध­र्म­प्रा­प्त्य­भा­वा­दे­वे­त्यर्थः । प्राप्तौ संपादनं वृथा स्यादिति भावः ।

मुख्या­ग्नि­हो­त्रा­ङ्गानि संपाद्यन्ते चेत्कथं तदनङ्गं वेदिरत्र संपाद्यते तत्राह -
वेदि­श्रु­ति­श्चेति ।

मुख्या­ग्नि­हो­त्र­स्या­ग्न्यु­द्ध­र­ण­व­त्सा­यं­प्रा­तः­का­ल­द्व­य­स्यापि न प्राप्तिरिति -
भोजनेनेति ।

उप­स्था­न­प­रि­स्त­र­णा­द­योऽ­प्य­ग्न्य­भा­वान्न प्राप्नु­व­न्ती­त्याह -
एवमिति ।
यस्मा­त्त­द्ध­र्म­प्रा­प्त्य­भा­व­स्त­स्मा­द्भो­ज­न­द्र­व्ये­णैव होम इत्युपसंहारः । प्राणाय स्वाहा इत्यादयो मन्त्राः ।

ननु स्वामि­भो­ज­न­स्यो­त्त­र­का­लत्वं श्रुत्या­दि­वि­हितं कथं पूर्वोऽ­ति­थि­भ्योऽ­श्नी­या­दि­ति­व­चने बाध्यते तत्राह -
न ह्यस्तीति ।
उपा­स­का­न्य­स्वा­मि­वि­ष­य­मु­त्त­र­का­ल­त्व­वि­धा­न­मि­त्यर्थः । न त्विति प्राथ­म्य­मा­त्रे­णे­त्यर्थः ।

प्राणोपासकस्य प्राप्ते भोजने प्राथ­म्या­र्थ­त­या­द­र­स्या­न्य­था­सिद्धौ फलितमाह -
तस्मादिति ॥४१॥

तन्निर्धारणा ।

उभयथा दृष्टा­न्त­द­र्श­ना­त्सं­श­य­माह -
किं तानीति ।
यथा­ना­रा­भ्या­धी­त­प­र्ण­म­यीत्वं जुहूद्वारा क्रत्वङ्गतया कर्मसु नित्यं प्रयुज्यते, तथा­ङ्गा­श्रि­तो­पा­स­ना­न्यु­द्गी­था­दि­द्वा­राऽ­ङ्ग­तया नित्यानि, उत क्रत्व­ङ्गा­प्प्र­ण­य­न­श्रयो गोदोहनसंयोगः पशु­फ­ला­र्थ­त्वा­द­नि­त्य­त्वेन यथा प्रयुज्यते यथा वा पश्व­ङ्ग­यू­पा­श्रयं बैल्व­त्व­म­न्ना­द्य­फ­ल­त्वा­द­नित्यं तथा कर्म­स­मृ­द्या­दि­फ­ल­क­त्वा­दु­पा­स­ना­न्य­न­ङ्ग­त्वे­ना­नि­त्या­नीति संशयार्थः । पूर्वपक्षे उपासनानां प्रयो­ग­नि­त्यत्वं, सिद्धान्ते त्वनित्यत्वमिति फलभेदः ।

अनि­त्य­भो­ज­ना­श्र­य­प्रा­णा­ग्नि­हो­त्र­स्या­नि­त्य­त्व­व­न्नि­त्य­क­र्मा­ङ्गो­पा­स्तीनां नित्यत्वमिति प्रत्यु­दा­ह­र­ण­दृ­ष्टा­न्तेन पूर्वपक्षमाह -
किं तावदिति ।