अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तृतीयाध्याये प्रथमः पादः (३)

उपासनानि कर्माङ्गानि, अफलत्वे सति कर्मा­ङ्गा­श्रि­त­त्वा­त्प­र्ण­म­यी­त्वा­दि­वत् । तथा चाङ्गतया प्रयोगविधिना नित्येन प्रयुज्यन्त इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -
यानीत्यादिना ।
उद्गीथादयः कर्मणां गुणाः अङ्गानि तेषां याथात्म्यं रसतमत्वादिकं तन्नि­र्धा­र­णा­न्यु­पा­स­नानि यानि तानि कर्मसु नित्य­प­र्ण­म­यी­त्वा­दि­वन्न निय­म्ये­र­न्नि­त्यर्थः ।

एषां कर्माङ्गत्वे तद्धी­न­स्या­वि­दुषः कर्म न स्यादङ्गलोपात्, तस्मादविदुषोऽपि कर्म­क­र्तृ­त्व­श्रु­ति­लि­ङ्गै­र­ङ्ग­त्वा­नु­मा­न­बाध इत्याह -
तद्दृष्टेरिति ।
तस्यानियमस्य दर्शनादित्यर्थः ।

तां चेद­वि­द्वा­न्प्र­स्तो­ष्यसि मूर्धा ते व्यपतिष्यतीति चाक्रा­य­णे­न­र्त्वि­जा­मा­क्षि­प्त­त्वा­द­नु­पा­स­का­ना­मपि कर्म­प्र­यो­गोऽ­स्ती­त्याह -
प्रस्तावादीति ।

उपास्तीनां कर्म­फ­ला­त्पृ­थ­क्फ­ल­श्रु­तेर्न कर्मा­ङ्ग­त्व­मि­त्याह -
अपि चेति ।
तेनोमित्यक्षरेण यश्चैतदक्षरमेवं रसतमत्वादिरूपेण वेदोपास्ते यश्च न वेद तावुभौ कर्म कुरुत एव यद्यपि तथापि तु विद्या­वि­द्य­यो­र्ना­नात्वं भिन्नफलत्वम् । दृष्टं हि मणिविक्रये ज्ञाना­ज्ञा­नाभ्यां वणिक्शबरयोः फलवैषम्यं, तस्माद्यदेव कर्म विद्य­यो­द्गी­था­द्यु­पास्त्या श्रद्ध­या­स्ति­क्य­बु­द्ध्यो­प­नि­षदा रह­स्य­दे­व­ता­ध्या­नेन करोति तदेव कर्म फला­ति­श­य­व­दि­त्यर्थः । कर्मणो वीर्यवत्त्वं नाम फलवत्त्वं विद्याहीनस्यापि गम्यमानं विद्याया अनङ्गत्वे लिङ्गमिति भावः ।

साम्नि लोका­दि­दृ­ष्ट्यु­पा­स­नेषु कर्म­स­मृ­द्य­ति­रि­क्त­लो­का­दि­फ­ल­श्रु­तेश्च नाङ्गत्वमित्याह -
तथेति ।
अस्मै विदुषे कल्पन्ते भोगाय समर्था भवन्ति भूमेरूर्ध्वा लोका आवृत्ता अध­स्त­ना­श्चे­त्यर्थः ।

तथा हि गुणवाद इति ।
फल­श्रु­ते­र­र्थ­वा­द­मा­त्रत्वे स्तुतिलक्षणा स्यात्, सा न युक्ता, मुख्यवृत्त्या फलपरत्वसंभवात् । प्रया­जा­नु­या­ज­क­र्मणां तु प्रक­र­णा­द्द­र्शा­द्य­ङ्ग­त्व­ला­भा­द्भ्रा­तृ­व्या­भि­भू­ति­फ­ल­श्रु­ते­र­गत्या स्तुति­ल­क्ष­कत्वं, यद्यपि पर्ण­म­यी­त्वा­दी­ना­म­ङ्ग­त्व­बो­धकं प्रकरणं नास्ति तथापि तेषु फलश्रुतेः स्तुतित्वं, तेषा­म­क्रि­या­त्वेन क्रियासंबन्धं विना फल­हे­तु­त्वा­नु­प­प­त्ते­र­त­स्तेषां फलार्थं क्रिया­पे­क्षि­त्वा­त्क्र­तोश्च जुहू­प्र­कृ­ति­द्र­व्या­का­ङ्क्षि­त्वा­त्प­र्ण­मयी जुहू­रि­त्या­दि­वा­क्ये­नैव प्रकृ­ति­द्र­व्या­र्प­केण जुहूद्वारा संनि­हि­त­क्र­त्व­ङ्ग­त्व­सि­द्धे­र्युक्तं फल­श्रु­ते­र­र्थ­वा­द­त्व­मिति भावः ।

अक्रि­या­त्म­क­गो­दो­ह­ना­दे­रपि फल­श्रु­ति­र­र्थ­वादः स्यादत आह -
गोदोहनादीनां हीति ।
यदपः प्रण­ये­त्त­त्प­शु­का­मस्य सतो गोदोहनेन ब्रह्म­व­र्च­स­का­मस्य कांस्येतीति फलार्थविधिरेव नार्थवादः गोदोहनादेः क्रत्व­ना­का­ङ्क्षि­त­त्वे­ना­ङ्ग­त्वा­भा­वात्, चमसेन निरा­का­ङ्क्ष­क्रि­या­सं­ब­न्धि­तया स्वफ­ल­सा­ध­क­त्व­सं­भ­वात् । तथा खादिरत्वेन निरा­का­ङ्क्ष­क्र­त्व­ङ्ग­यू­प­मा­श्रित्य बैल्व­म­न्ना­द्य­का­मस्य खादिरं वीर्यकामस्येति फला­र्थ­वि­धि­रे­वार्थः ।

पर्णमयीत्वादिषु फलविधिः किं न स्यादत आह -
न त्विति ।
एवंविधो यूपा­दि­व­न्नि­रा­काङ्क्ष इत्यर्थः ।

जुहूरेवाश्रय इत्यत आह -
वाक्येनेति ।
जुह्वाः प्रकृ­ति­द्र­व्या­पे­क्षि­त्वा­द­ने­नैव वाक्येन क्रत्वङ्गतया जुहू­प्र­कृ­ति­द्र­व्य­सं­बन्धो विधेयः पश्चा­न्नि­रा­का­ङ्क्ष­जु­हू­मा­श्रित्य तस्यैव प्रकृ­ति­द्र­व्यस्य फलसंयोगो विधेय इति वाक्यभेद इत्यर्थः ।

पर्ण­ता­दि­वै­ल­क्ष­ण्य­मु­पा­स­ना­ना­माह -
उपासनानां त्विति ।
स्वयं क्रिया­त्वा­द्या­गा­दि­व­त्फ­ल­वि­शि­ष्ट­त्वेन विधा­नो­प­प­त्ति­रि­त्यर्थः । तस्मादिति अङ्ग­त्वा­वे­द­क­मा­ना­भा­वा­दि­त्यर्थः । अत एवेति अन­ङ्ग­त्वा­दे­वे­त्यर्थः । तस्मा­द­ङ्गो­पा­स्त्य­भा­वेऽपि कर्माधिकार इति सिद्धम् ॥४२॥

प्रदानवदेव तदुक्तम् ।

वायु­प्रा­ण­यो­र्भे­दा­भे­द­वा­क्याभ्यां संशयमाह -
तत्रेति ।

अस्तु कर्माङ्गानां तत्सं­ब­द्धो­पा­स्तीनां च फल­भे­दा­न्नि­त्य­त्वा­नि­त्य­त्व­रूपः प्रयोगभेदः, इह तु वायुप्राणयोः स्वरू­पा­भे­दा­त्त­त्स्व­रू­प­प्रा­प्ति­ल­क्ष­ण­फ­लै­क्याच्च ध्यान­प्र­यो­गै­क्य­मिति पूर्वपक्षयति -
अपृथगिति ।
'अग्नि­र्वा­ग्भूत्वा' इत्यारभ्य 'वायुः प्राणो भूत्वा नासिके प्राविशत्' इत्यभेदं दर्शयतीत्यर्थः ।

यतश्चोदेति सूर्यस्तं वद' इति प्रश्ने सूत्रा­त्म­क­वा­यु­र्वाच्यो वायुस्थाने प्राणं वदन्नेकत्वं तयो­र्द­र्श­य­ती­त्याह -
तथेति ।

किञ्च यदि वायुप्राणयोः पृथग्ध्यानं स्यात्तर्हि ध्याना­ङ्ग­व्र­त­भे­दोऽपि स्यादिह तु प्राणा­पा­न­नि­रो­धा­त्म­क­व्र­तै­क्य­श्रु­ते­र्ध्या­नै­क्य­मि­त्याह -
तस्मादिति ।
व्रतैक्यस्य प्रश­स्त­त्वा­दि­त्यर्थः ।

किञ्च वायुप्राणो संवर्गौ भेदेनोपक्रम्य पर­स्ता­द्वा­क्य­शेषे संव­र्ग­दे­वै­क्य­श्रुतेः प्रयो­गै­क्य­मि­त्याह -
तथेति ।
महात्मन इति द्विती­या­ब­हु­व­च­नम् । चतु­र­श्च­तुः­सं­ख्या­का­न­ग्नि­सू­र्यो­द­क­च­न्द्रा­न­प­रांश्च वाक्च­क्षुः­श्रो­त्र­म­नो­रू­पा­नेको देवः कः प्रजापतिः जगार गीर्ण­वा­नु­प­सं­हृ­त­वा­नि­त्यर्थः । न ब्रवीति भेदमिति शेषः ।

यथा 'अग्नि­होत्रं जुहोति' इत्यु­त्प­न्ना­ग्नि­हो­त्र­स्यै­क­स्यैव दधि­त­ण्डु­ला­दि­गु­ण­भे­देन सायं­प्रा­तः­का­ल­भे­देन प्रयोगभेदस्तथा 'अन्नादो भवति य एवं वेद' इत्युत्पन्नायाः संवर्गविद्याया एक­त्वेऽ­प्यु­त्प­न्न­शि­ष्ट­वा­यु­प्रा­णा­ख्य­गु­ण­भे­दा­त्प्र­यो­ग­भेद इत्युत्सूत्रं सिद्धान्तयति -
पृथगेवेति ।
'तौ वा एतौ द्वौ संवर्गौ' इत्यु­पा­स्य­भे­द­वा­क्यस्य प्रयो­ग­भे­द­प­र­त्वा­द्वा­क्या­देव भेद­सि­द्धि­रि­त्यर्थः ।

पूर्व­प­क्ष्यु­क्त­म­नूद्य प्रत्याह -
ननू­क्त­मि­त्या­दिना ।
उपास्यतया प्रधा­न­भू­त­सं­व­र्ग­गु­ण­वि­शि­ष्टो­पा­स्य­भे­द­वा­क्य­वि­रो­धा­द­नु­पा­स्य­वा­यु­त­त्त्वै­क्य­व­चनं न प्रयो­गै­क्य­प्रा­प­क­मिति भावः ।

सूर्यो­द­या­स्त­म­य­यो­र्वा­य्व­धी­न­त्वा­त्त­द­भे­दा­भि­प्रा­येण प्राणा­त्ता­वुक्तौ । ततोऽ­ध्या­त्मा­धि­दै­वा­व­स्था­भे­दे­नो­क्तस्य ध्येयभेदस्य निरासे 'यत­श्चो­देति' इति श्लोकस्य न शक्तिरित्याह -
श्लोकेति ।

असामर्थ्ये लिङ्गमाह -
स यथेति ।

श्लोको­प­न्या­स­व­द्व्र­तै­क्यो­प­न्या­सोऽपि तत्त्वा­भे­दा­भि­प्रा­ये­णे­त्याह -
एतेनेति ।

नन्वे­व­का­रा­द्वा­यु­व्र­त­नि­वृत्तेः प्राण एवैको ध्येयो भातीत्यत आह -
एकमेवेति ।
वदनदर्शनादीनि वाक्च­क्षु­रा­दीनां व्रतानि श्रमरूपमृत्युना भग्ना­नी­त्युक्त्वा प्राण­स्या­भ­ग्न­व्र­तत्वं निर्धारितं, तथा ज्वल­न­ता­पा­दी­न्य­ग्न्या­दि­त्या­दीनां व्रतानि भग्ना­नी­त्युक्त्वा वायो­र­भ­ग्न­व्र­तत्वं निर्धारितं, 'स यथैषां प्राणानां मध्यमः प्राणः स्थिरव्रत एवमेतासां देवनां वायुर्म्लोचन्ति ह्यन्या देवता न वायुः­सै­षा­न­स्त­मिता देवता यद्वायुः' इति श्रुतेः । अतो भग्न­व्र­त­नि­रा­सार्थ एवकारो न वायु­व्र­त­नि­वृ­त्त्यर्थ इत्यर्थः ।

अत्रैवार्थे लिङ्गमाह -
एकमिति ।
उकारश्चार्थः । तेन व्रतेन वायोः सायुज्यं समानदेहत्वं सलोकतां च जयतीत्यर्थः ।

नन्वत्र वायुप्राप्तिर्न श्रुतेत्यत्राह -
देवतेति ।

तस्मा­त्त­त्त्वा­भे­द­दृष्ट्या व्रतैक्यमिति स्थितं, संप्रति पूर्वोक्तं पृथगुपदेशं विवृणोति -
तथा तौ वा इति ।

सौत्रं दृष्टान्तं व्याचष्टे -
प्रदानवदिति ।

त्रयः पुरोडाशा अस्यां सन्तीति त्रिपु­रो­डा­शि­नी­ष्टि­स्तस्यां किं सहप्रदानमुत भेदेनेति संदेहे पूर्वपक्षमाह -
सर्वेषामिति ।
सर्वेषां देवा­ना­मा­भि­मु­ख्येन प्राप­य­न्ह­वि­र­व­द्यति गृह्णाति, अच्छंवट्कारं वष­ट्का­रा­ख्य­दे­व­भा­ग­मि­त्यर्थः । यद्वा सर्वदेवार्थं युगपदवदानं कार्यमित्यत्र हेतु­र­च्छं­व­ट्का­र­मिति अव्य­र्थ­त्वा­ये­त्यर्थः । एकार्थमवत्ते हविषि शेषो यागानर्हतया वृथा स्यादिति भावः ।

एवं सहा­व­दा­न­श्रु­ते­र्दे­वै­क्याच्च पुरोडाशानां सहप्रक्षेपे प्राप्ते पृथक्प्रक्षेप इति सिद्धान्तमाह -
राजेति ।
राजा­धि­रा­ज­स्व­रा­ज­गु­ण­भे­देन विशि­ष्ट­दे­व­ता­भे­दा­दि­त्यर्थः ।

किञ्चाध्वर्युणा यजेति प्रैषे कृते होत्रा यो मन्त्रः पठ्यते सा याज्या, अनुब्रूहीति प्रैषा­न­न्त­र­मन्त्रः पुरोनुवाक्येति भेदोऽस्ति, तत्रास्यामिष्टौ प्रथ­म­पु­रो­डा­श­प्र­दाने या कॢप्ता याज्या स द्वितीयप्रदाने पुरोनुवाक्या, या च पूर्वमनुवाक्य, स पश्चाद्याज्येति व्यत्या­स­म­न्वा­हेति श्रुत्या विधानात्, यथाश्रुति प्रक्षे­प­पृ­थ­क्त्व­मि­त्याह -
याज्येति ।
संकर्षो देवताकाण्डम् । वाशब्दोऽवधारणे, नानैव देवता राजादिगुणभेदेन भेदावगमादिति सूत्रार्थः ।

दृष्टान्ते देव­ता­भे­दा­त्क­र्म­भे­द­व­द्वि­द्या­भेदः स्यादित्यत आह -
तत्र त्विति ।
कर्मो­त्प­त्ति­वा­क्य­स्थ­दे­व­ता­भेदः कर्मभेदे हेतुरिह त्वन्नादो भवति य एवं वेदे­त्यु­त्प­त्ता­वे­क­त्वेन ज्ञातविद्यायाः पश्चा­च्छ्रु­त­वा­यु­प्रा­ण­भेदो न भेदकः, अग्निहोत्रस्येव दध्या­दि­द्र­व्य­भेद इत्यर्थः ।

तर्हि केनांशेन प्रदानस्य दृष्टा­न्त­त्व­मि­त्यत आह -
विद्यैक्येऽपीति ।
अव­स्था­भे­दा­द्दे­व­ता­भेदः प्रयो­ग­भे­द­श्चे­त्यं­शे­नायं दृष्टान्त इत्यर्थः ॥४३॥

लिङ्ग­भू­य­स्त्वात् ।
उत्पत्तेः प्रागिदं सर्वं नैव सदा­सी­न्ना­प्य­स­दि­त्यु­प­क्रम्य मनः सृष्टिमुक्त्वा तन्मन आत्मा­न­मै­क्ष­ते­ती­क्ष­ण­पू­र्व­क­म­ग्नी­न­प­श्य­दिति मनोऽधिकृत्य पठन्तीत्यर्थः ।

पुरुषायुष्ट्वेन कॢप्त­श­त­व­र्षा­न्त­र्गतैः षट्र­त्रिं­श­त्स­ह­स्रै­र­हो­रा­त्रै­र­व­च्छि­न्न­तया मनो­वृ­त्ती­ना­म­स­ङ्ख्ये­या­ना­मपि षट्त्रिं­श­त्स­ह­स्र­त्वम् । ताभि­रि­ष्ट­का­त्वेन कल्पि­ता­भि­र्म­न­सैव संपादिता अग्नयो मन­श्चि­त­स्ता­न­र्का­न्पू­ज्या­न्म­नो­म­या­न्म­नो­वृ­त्ति­षु­सं­पा­दि­ता­ना­त्मनः स्वस्य संबन्धित्वेन मनोऽपश्यत्, तथा वाक्प्रा­णा­द­योऽपि स्वस्व­वृ­त्ति­रू­पा­न­ग्नी­न­प­श्य­न्नि­त्याह -
तथेति ।

प्राणो घ्राणं कर्मेन्द्रियेण हस्तादिना चितः कर्मचितः अग्नि­स्त्व­क्पू­र्व­त्रा­ग्नि­च­य­न­प्र­क­र­णा­त्कि­मे­तेऽ­ग्नयः क्रत्वर्था उत प्राधा­न्य­ज्ञा­प­क­लि­ङ्गा­दि­भू­य­स्त्वा­त्पु­रु­षार्था वेति संशयमाह -
तेष्विति ।
केव­ल­वि­द्या­त्मकाः क्रियाङ्गत्वं विना भावनामया इत्यर्थः ।

एक­प्र­यो­गा­सं­भ­वा­द्वा­यु­प्रा­ण­यो­र्ध्या­न­प्र­यो­ग­भे­दोऽस्तु, इह तु मन­श्चि­दा­द्य­ग्नीनां प्रक­र­णा­त्क­र्मा­ङ्ग­त्वे­नै­क­प्र­यो­ग­त्व­मिति प्रापय्य सिद्धा­न्त­मु­प­क्र­मते -
तत्रेत्यादिना ।
पूर्वपक्षे भावनाग्नीनां क्रत्व­ङ्ग­त्व­मिष्टं तेषां क्रियाङ्गत्वं विकल्पः समुच्चयो वास्तु । सिद्धान्ते पुरु­षा­र्थ­त्व­मिति फलम् ।

तत्तत्र सर्व­प्रा­णि­म­नो­वृ­त्ति­भि­र्मम सदाग्नयः चीयन्त इति ध्यानदार्ढ्ये सति सर्वभूतानि यत्किञ्चित्मनसा संकल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येकं लिङ्गं, क्रियाङ्गस्य यत्कि­ञ्चि­त्क­र­णेन सिद्ध्य­द­र्श­ना­दि­त्याह -
तद्यदिति ।
एवंविदे स्वपते जाग्रतेऽपि तदी­या­ग्नी­न्भू­तानि सर्वदा चिन्वन्तीति लिङ्गान्तरं, क्रियाङ्गस्य चोदि­त­का­ला­नु­ष्ठे­यस्य सदा सर्वै­र­नु­ष्ठी­य­मा­न­त्वा­यो­गा­दि­त्यर्थः । षट्त्रिं­श­त्स­ह­स्र­सं­ख्या­प्य­न­ङ्गत्वे लिङ्ग­मे­व­ञ्जा­ती­य­क­प­दे­नो­क्तम् ॥४४॥

एवं सिद्धा­न्त­मु­प­क्रम्य पूर्वपक्षयति -
पूर्वेति ।
पूर्व­स्ये­ष्ट­का­भि­रग्निं चिनुत इत्युक्तस्य स एष त्विष्ट­का­ग्नि­रिति संनिहितस्यायं विक­ल्प­वि­शे­षो­प­देशः संक­ल्प­म­य­त्वा­ख्य­प्र­का­र­भे­दो­प­देशः क्रिया­ग्नि­व­त्सां­क­ल्पि­का­ग्न­योऽ­प्य­ङ्ग­मिति यावत् ।

किं विधिवाक्यस्थं लिङ्गं प्रकरणाद्बलीयः, अर्थवादस्थं वा । आद्यमङ्गीकरोति -
सत्यमिति ।

न द्वितीय इत्याह -
लिङ्गमिति ।
मान­सा­ग्नि­वि­ध्य­र्थ­वा­द­स्थ­लि­ङ्गानां स्वार्थ­प्रा­प­क­मा­ना­भा­वा­द्दौ­र्ब­ल्य­मि­त्यर्थः ।

सूत्र­स्थ­क्रि­या­पदं व्याचष्टे -
तस्मादिति ।

ननु अक्रि­या­रू­पा­ग्नीनां ध्यानमयानां कथं क्रियाङ्गत्वं तत्राह -
मानसवदिति ।
द्वाद­शा­ह­स्या­द्य­न्ता­ह­र्द्वयं त्यक्त्वा मध्य­स्थ­द­श­रा­त्र­स्यैव द्विरात्रादिषु प्रकृतित्वं, तद्धर्माणामेव तेष्व­ति­दे­शा­त्तस्य मध्यदशरात्रस्य दश­मेऽ­ह­न्य­र्था­दे­का­द­शेऽ­हनि मानसग्रहः श्रूयते 'अनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णाति' इति । अनया रसया पृथिव्या पात्रेण समुद्रं त्वां प्रजापतिदेवताकं मनोग्रहं गृह्यते इति ग्रहः सोमरसः, मनसा रसत्वेन भावि­त­म­ध्व­र्यु­र्गृ­ह्णा­ती­त्यर्थः । अत एवर्त्विजां ध्यायितया विवि­ध­वा­क्यो­च्चा­र­णा­भा­वा­द­वि­वा­क्य­संज्ञा अह्नः प्राप्ता । ग्रहणं नाम सोम­पा­त्र­स्यो­पा­दानं, गृहीतस्य स्वस्थाने स्थापनमासादनं सोमस्य होमो हवनं हुत­शे­षा­दा­न­मा­ह­रणं शेष­भ­क्ष­णा­य­र्त्विजां मिथोऽ­नु­ज्ञा­न­क­र­ण­मु­प­ह्वानं ततो भक्षणमित्येतानि मान­सा­न्ये­वे­त्यर्थः ।

स च मानसो ग्रहो द्वाद­शा­हा­द­ह­र­न्तरं स्वत­न्त्र­मि­त्या­श­ङड्क्य द्वाद­शा­ह­सं­ज्ञा­वि­रो­धा­न्ना­ह­र­न्तरं किन्तु प्रक­र­णा­द­वि­वा­क्य­स्या­ह्नोऽ­ङ्ग­मिति सिद्धान्तमाह -
स चेति ।
कल्पः कल्पनाप्रकारः । केचित्त्वत्र भाष्ये दशरात्रशब्दो विकृतिपरः, तत्रापि दश­मेऽ­ह­न्य­वि­वा­क्य­सं­ज्ञके मान­स­ग्र­ह­स्या­ति­दे­श­प्रा­प्त­त­या­ङ्ग­त्वा­दि­त्याहुः ॥४५॥

मनश्चिदादीनां क्रियाङ्गत्वे प्रकरणमुक्त्वा लिङ्गमाह -
अतिदेशाच्चेति ।
क्रिया­ङ्ग­त्व­सा­दृ­श्या­द­ति­देश इत्यर्थः ॥४६॥

सिद्धान्तमाह -
विद्येति ॥४७॥
न श्रुति­लि­ङ्ग­वाक्यैः प्रकरणं बाध्यमिति सूत्रत्रयार्थः ॥४८॥

तत्रा­व­धा­र­ण­श्रु­ते­र­न्य­था­सिद्धिं शङ्कते -
नन्वबाह्येति ।

विद्याचित इति­प­दे­नै­वा­बा­ह्य­सा­ध­न­त्वस्य लब्धत्वादवधारणं व्यर्थमित्याह -
नेति ।

तर्हि कथ­म­स्या­र्थ­वत्त्वं तत्राह -
अबाह्येति ।

लिङ्गं व्यनक्ति -
तथेति ।

अग्नीनां सर्व­का­ल­व्या­पि­त्वे­ना­न­ङ्गत्वे दृष्टान्तमाह -
यथेति ।
तदा ध्यानकाल इत्यर्थः । होमे यथा सातत्यमुच्यते तद्वदग्नीनां सात­त्य­द­र्श­न­मि­त्य­न्वयः ।

यदु­क्त­म­र्थ­वा­द­स्थ­त्वा­ल्लिङ्गं दुर्बलमिति तन्न । सर्वदा सर्वभूतानि मदर्थमग्नीन् चिन्वन्तीति ध्याये­दि­त्य­पू­र्वा­र्थ­तया विधिकल्पनात् । तथा च विधि­वा­क्य­स्थ­त्वा­ल्लिङ्गं प्रक­र­णा­द्ब­ल­वा­दि­त्याह -
न चेदमित्यादिना ।
एतेनेति विधि­त्वे­ने­त्यर्थः ।

वाक्यं विवृणोति -
तथेति ॥४९॥

संपदुपास्त्यै मनोवृत्तिषु क्रियाङ्गानां योजनमनुबन्धः श्रुत्या क्रियते तद­न्य­था­नु­प­प­त्त्या­प्य­ग्नीनां पुरुषार्थत्वं क्रत्व­र्थ­त्वेऽ­ङ्गानां सिद्धत्वेन संपा­द­ना­नु­प­प­त्ते­रि­त्याह -
इतश्चेत्यादिना ।
ते अग्नयः, अधीयन्त तेषामाधानं मनसैव कुर्यादित्यर्थः । कालस्य छन्दस्यनियमात् । अचीयन्त इष्टकाश्चेतव्या इत्यर्थः । ग्रहाः पात्राणि, अस्तुवन्, उद्गातारः स्तुवन्ति, अशंसन् होतारः शंसन्ति, किं बहूक्त्या यत्कि­ञ्चि­द्यज्ञे कर्मारादुपकारकं यज्ञियं यज्ञ­स्व­रू­पो­त्पा­दकं च तत्सर्वं मनोमयं कुर्यादिति श्रुत्यर्थः ।

वृत्ति­ष्व­ग्नि­ध्या­नस्य क्रिया­न­ङ्ग­त्वेऽ­प्यु­द्गी­थ­ध्या­न­व­त्क्रि­या­ङ्गा­श्रि­तत्वं स्यान्नेत्याह -
न चात्रोद्गीथेति ।

अङ्गा­व­ब­द्ध­श्रु­ति­तोऽस्याः श्रुते­र्वै­रूप्यं स्फुटयति -
न हीति ।
अनङ्गवृत्तिषु साङ्ग­क्र­तु­सं­पा­दनं पुरुषस्य यज्ञ­त्व­ध्या­न­व­त्स्व­त­न्त्र­मि­त्यर्थः ।

अना­द­रा­र्थोऽ­ति­देशो न भवति किन्तु विकल्पार्थ इत्यत आह -
न चेति ।
एकस्मिन्साध्ये निर­पे­क्ष­सा­ध­न­यो­र्वि­कल्पो भवति यथा व्रीहियवयोरत्र तु क्रिया­ग्ने­र्ध्या­ना­ग्नीनां साध्यभेदान्न विकल्प इत्यर्थः । अत एव समुच्चयोऽपि निरस्तः ।

यदुक्तं क्रिया­ङ्ग­त्व­सा­मा­न्ये­ना­ति­देश इति तन्नेत्याह -
यत्त्विति ।

सूत्रे बहुवचनार्थमाह -
श्रुत्यादीनि चेति ।
अनु­ब­न्धा­ति­दे­श­श्रु­ति­लि­ङ्ग­वा­क्येभ्य इत्यर्थः ।

एवमिति ।
अर्थ इति शेषः ।

मनश्चिदादीनां स्वातन्त्र्ये क्रिया­प्र­क­र­णा­दु­त्कर्षः स्यादि­त्या­शङ्क्य स इष्ट इत्याह -
दृष्टश्चेति ।
एकादशे चिन्तितं 'राजा स्वाराज्यकामो राजसूयेन यजेत' इति प्रकृ­त्या­वे­ष्टि­र्नाम काचि­दि­ष्टि­रा­म्नाता 'आग्ने­योऽ­ष्टा­क­पालो हिरण्यं दक्षिणा', 'बार्ह­स्पत्यं चरुं शितिपृष्ठो दक्षिणा', 'ऐन्द्र­मे­का­द­श­क­पा­ल­मृ­षभो दक्षिणा' इति । तस्यां वर्णभेदेन प्रयोगभेदः, श्रूयते 'यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधा­या­हु­ति­मा­हुतिं हुत्वा­भि­घा­र­ये­द्यदि वैश्यो वैश्वदेवं चरुं मध्ये निदध्याद्यदि राज­न्य­स्त­दै­न्द्रम्' इति । आग्ने­यै­न्द्र­पु­रो­डा­श­यो­र्मध्ये बार्हस्पत्यं चरुं निधायेत्यर्थः । तत्रा­ग्ने­या­दि­च­रुषु अङ्गानां तन्त्रेण प्रयोगो भवति मध्ये­नि­धा­न­लि­ङ्गा­त्प्र­यो­ग­भेदे मध्ये निधा­ना­यो­गा­दे­त­या­न्ना­द्य­कामं याज­ये­दि­त्ये­क­व­च­नाच्च । स च तन्त्रप्रयोगो राज­सू­य­क्र­तु­बा­ह्या­या­म­न्ना­द्य­का­म­व­र्ण­त्र­य­क­र्तृ­का­या­मे­वा­वेष्टौ ज्ञेयो न तु क्रत्व­न्त­र्ग­ता­याम् । ननु किमत्र नियामकं क्रत्व­र्था­या­म­प्य­वेष्टौ तन्त्रप्रयोगः किं न स्यादिति चेत् । न । वर्ण­त्र­य­सं­यु­क्तानां काम्या­या­मे­वा­ङ्ग­त­न्त्रै­क्य­सा­ध­कस्य मध्ये निधा­ना­दि­लि­ङ्गस्य सत्त्वादतो लिङ्गै­क­व­च­नाभ्यां तन्त्रैक्ये सति हिरण्यादिका मिलितैकैवा दक्षिणादेया, अन्यथा प्रयो­गै­क्या­यो­गात् । राज­मा­त्र­क­र्तृ­क­क्र­त्व­न्त­र्ग­तेष्टौ तु वर्ण­त्र­य­सं­यो­गा­भा­वा­न्मध्ये निधानादिलिङ्गं नास्ति ततश्च तन्त्रै­क्य­सा­ध­का­भा­वा­द्द­क्षि­णा­भे­देन तन्त्रभेद इत्य­ङ्गा­ना­मा­वृ­त्ति­रेव चरुष्विति सूत्रार्थः । अत्र चैक­प्र­यो­ग­लि­ङ्गस्य क्रत्व­र्थे­ष्टा­व­सं­भवं काम्येष्टौ च संभवं वदताऽनेन सूत्रेण काम्येष्टेः क्रत्व­र्थे­ष्टि­वि­ल­क्ष­ण­त्वा­त्क्र­तु­प्र­क­र­णा­दु­त्कर्ष इति सूचितम् । स चोत्कर्षो युक्त एव, राज­मा­त्र­क­र्तृ­क­रा­ज­सू­य­क्रतौ वर्ण­त्र­य­क­र्तृ­के­ष्टे­र­न्त­र्भा­वा­यो­गा­दिति स्थितं, तथा मन­श्चि­दा­दी­ना­मु­त्कर्ष इति भावः ॥५०॥

एवं दृष्टान्तं विघटयति -
न सामान्यादिति ।
क्रत्व­र्थ­त्व­पु­रु­षा­र्थ­त्व­वै­ष­म्येऽपि मानसत्वसामान्यं न विरुध्यते विषमयोरपि साम्य­द­र्श­ना­दि­त्यर्थः ॥५१॥

किञ्च पूर्वो­त्त­र­ब्रा­ह्म­णयोः स्वत­न्त्र­वि­द्या­वि­धा­ना­त्त­न्म­ध्य­स्थ­स्यापि ब्राह्मणस्य स्वत­न्त्र­वि­द्या­वि­धि­प­र­त्व­मि­त्याह -
परेण चेति ।
चितेऽग्नौ लोकदृष्टिविधानं स्वत­न्त्र­मु­त्त­रत्र गम्यते पूर्वत्र मण्ड­ल­पु­रु­षो­पा­स्ति­स्त­त्सां­नि­ध्या­न्म­ध्येऽपि मानसाग्नयः स्वतन्त्रा इत्यर्थः ।

तर्हि क्रियाग्निना सह पाठः किमर्थमित्यत आह -
भूयांसस्त्विति ॥५२॥

मनश्चिदादीनां पुरु­षा­र्थ­त्व­मुक्तं तदयुक्तं देहा­ति­रि­क्त­पु­रु­षा­भा­वा­दि­त्या­क्षि­पति -
एक आत्मनः शरीरे भावात् ।

सिद्धान्तफलमाह -
बन्धेति ।

पूर्वपक्षे तु परलोकार्थकर्मसु मोक्षा­र्थ­वि­द्यायां चाप्रवृत्तिरिति व्यतिरेकमुखेन फलमाह -
न ह्यसतीति ।

व्यति­रि­क्ता­त्म­वि­चा­रस्य पूर्वतन्त्रे कृत­त्वा­त्पौ­न­रु­क्त्य­मि­त्या­शङ्क्य तत्र­त्य­वि­चा­र­स्या­पी­द­मेव सूत्रं मूलं जैमि­नि­सू­त्रा­भा­वा­दतः क्व पुन­रु­क्ति­रि­त्याह -
ननु शास्त्रे­त्या­दिना ।

'यज्ञायुधी यजमानः स्वर्गं लोकमेति' इत्यादिवाक्यस्य भोक्तु­र­भा­वा­द­प्रा­मा­ण्य­प्रा­प्ता­वित एवाकृष्य भोक्तुर्विचारः कृत इत्यत्र वृत्तिकारवचनं लिङ्गमाह -
अत एवेति ।
तत्र सूत्रा­भा­वा­दे­वे­त्यर्थः । उद्धार उपरमः ।

अस्या­धि­क­र­ण­स्या­स्मि­न्पादे प्रस­ङ्ग­सं­ग­ति­रि­त्याह -
इह चेति ।
आमु­ष्मि­क­फ­लो­पा­स­ना­नि­र्ण­य­प्र­स­ङ्गेन तद­पे­क्षि­ता­त्मा­स्ति­त्व­मु­च्यत इत्यर्थः ।

एत­त्सि­द्ध­व­त्कृत्य प्रथ­म­सू­त्रेऽ­थ­श­ब्दे­ना­धि­कारी चिन्ति­त­स्त­स्मा­दि­द­म­धि­क­रणं सर्व­शा­स्त्रा­ङ्ग­मिति शास्त्रसंगतिमाह -
कृत्स्नेति ।

आक्षे­प­ल­क्ष­णा­म­वा­न्त­र­सं­ग­ति­माह -
अपि चेति ।

देहातिरिक्त आत्मास्ति न वेति वादि­वि­प्र­ति­पत्तेः संशये पूर्वपक्षमाह -
अत्रैक इति ।
यद्यपि समस्तेषु मिलितेषु भूतेषु चैतन्यं न दृष्टं तप्तोदकुम्भस्य ज्ञाना­भा­वा­द्व्य­स्तेषु तु नास्त्येव तथापि देहात्मकभूतेषु स्यादिति तेभ्यो भूते­भ्य­श्चै­तन्यं संभावयन्तो मद­श­क्ति­व­द्वि­ज्ञानं संघातजं तद्विशिष्टसंघात आत्मे­त्या­हु­रि­त्य­न्वयः । यथा मादकद्रव्येषु ताम्बू­ल­प­त्रा­दिषु प्रत्ये­क­म­दृ­ष्टापि मद­श­क्ति­स्त­त्सं­घा­ता­ज्जा­यते तद्वदित्यर्थः ।

ननु देहः स्वयं न चेतनः घट­व­द्भौ­ति­क­त्वा­त्किन्तु चेतनः कश्चि­त्स्व­र्गा­दि­भो­क्तास्ति तत्सां­नि­ध्या­द्दे­हस्य चैतन्यविभ्रम इत्यत आह -
न स्वर्गेति ॥५३॥

मनुष्योऽहं जानामिति देहस्य ज्ञातृतायाः प्रत्य­क्ष­त्वा­दा­त्म­ध­र्म­त्वेन प्रसिद्धानां धर्माणां देहा­न्व­य­व्य­ति­रे­का­नु­भ­वा­त्त­द­न्या­त्मनि प्रत्य­क्षा­भा­वा­द­प्र­त्य­क्ष­स्या­प्रा­मा­णि­क­त्वा­द्देह एवात्मेति प्राप्ते सूत्र­स्थ­न­त्वि­ति­प­देन सिद्धान्तं प्रतिजानीते -
नत्वेतदिति ।
अनुमानस्य ताव­त्प्रा­मा­ण्य­म­नि­च्छ­ता­प्या­स्थे­य­म­न्यथा व्यवहारासिद्धेः ।

न ह्यना­ग­त­पा­का­दा­वि­ष्ट­सा­ध­न­ता­नु­मितिं विना प्रवृत्तिः संभवति । तथा च ज्ञानादयो देह­व्य­ति­रि­क्ता­श्रया देह­स­त्त्वेऽ­प्य­स­त्त्वा­द्व्य­ति­रे­केण देह­रू­पा­दि­व­दि­त्याह -
व्यतिरेक एवास्येति ।
न चादौ श्यामदेहस्य पश्चा­द्रू­पा­न्तरे व्यभिचारः, गुण­त्व­सा­क्षा­द्व्या­प्य­जा­त्य­व­च्छे­देन असत्त्वस्य विवक्षितत्वात् देहेऽवस्थिते सदा रूप­त्वा­व­च्छि­न्न­म­स्त्येव । ज्ञान­त्वा­व­च्छिन्नं तु नास्तीति न ज्ञानं देहधर्मः ।

किञ्च एते न देहगुणाः परै­र­दृ­श्य­त्वा­दि­त्याह -
देहधर्माश्चेति ।

किञ्च देहव्यतिरेके तेषामभावस्य संदिग्धत्वान्न देह­ध­र्म­त्व­नि­श्चय इत्याह -
अपि चेति ।
न चानु­प­ल­म्भा­त्ते­षा­म­भा­व­नि­श्च­य­स्त­वा­नु­प­ल­ब्धे­र­मा­न­त्वात्, तद्धर्म्यात्मनो देहा­न्त­र­प्रा­प्त्या­प्य­नु­प­ल­म्भो­प­प­त्ते­श्चेति भावः ।

उपलब्धिवदिति सूत्रस्थं पदं व्याख्या­तु­मु­प­क्र­मते -
किमात्मकमिति ।

तत्किं भूतातिरिक्तं तत्त्वमुत रूपा­दि­व­द्भू­त­धर्मः । नाद्यः, अप­सि­द्धा­न्ता­दि­त्युक्त्वा द्वितीयमाशङ्क्य निषेधति -
यद­नु­भ­व­न­मि­त्या­दिना ।
देहात्मकभूतानां चैतन्यं प्रति विष­य­त्वा­त्क­र्तृ­क­र्म­वि­रो­धेन विषयस्य कर्तृ­त्वा­यो­गान्न भूतकर्तृकत्वं चैत­न्य­स्ये­त्यर्थः ।

किञ्च ज्ञानस्य भूतधर्मत्वे रूपा­दि­व­ज्जा­ड्या­प­त्तेर्न तद्ध­र्म­त्व­मि­त्याह -
न हीति ।

फलितं सूत्रपदार्थमाह -
अतश्चेति ।

या देहातिरिक्ता सद्रूपोपलब्धिः स एवात्मा चेदनित्यः स्यादु­प­ल­ब्धे­र­नि­त्य­त्वा­दि­त्यत आह -
नित्यत्वं चेति ।
घटः स्फुरति पटः स्फुरतीति सर्वत्र स्फूर्ते­र­भे­दा­न्नि­त्यत्वं विषयोपरागनाशे तु नाशभ्रम इत्यर्थः ।

एवमात्मा देहाद्भिन्न उप­ल­ब्धि­रू­प­त्वा­दु­प­ल­ब्धि­व­दि­त्यु­क्तम् , किञ्च जाग्र­त्स्व­प्न­यो­र्दे­ह­भे­देऽ­प्या­त्मै­क­त्व­प्र­त्य­भि­ज्ञा­ना­दा­त्म­भेदे चान्या­नु­भू­तेऽ­न्यस्य स्मृती­च्छा­नु­प­पत्तेः स्वप्न­स्मृ­त्या­दि­मा­नात्मा देहाद्भिन्न इत्याह -
अहमिति ।

निर­स्त­म­प्य­धि­का­भि­धि­त्स­या­नु­व­दति -
यत्तूक्तमिति ।

उप­ल­ब्धे­र्दे­हा­न्व­य­व्य­ति­रेकौ न देहधर्मत्वसाधकौ तन्नि­मि­त्त­त्वे­ना­न्य­था­सि­द्धे­रि­त्य­धि­क­माह -
अपि चेति ।

उपलब्धिमात्रे देहस्य निमि­त्त­त्व­म­प्य­सि­द्ध­मि­त्याह -
न चात्यन्तमिति ।
स्वप्नो­प­ल­ब्धिर्न देहजन्या, देहव्यापारं विनापि भावाद्वृक्षवत् । अत एव तन्वभावेऽपि स्वप्न­व­द्यो­गिनां भोगं सूत्र­कृ­द्व­क्ष्यति ।

जाग्र­दु­प­ल­ब्धे­र्दे­ह­ज­त्व­म­स्ती­त्य­त्य­न्त­मि­त्यु­क्तम् । तस्मा­दु­क्ता­नु­मा­ना­नु­गृ­ही­ता­न्मम शरीरमिति भेदानुभावादहं मनुष्य इत्यभेदज्ञानं भ्रम इत्युपसंहरति -
तस्मादिति ॥५४॥

अङ्गावबद्धाः ।
उद्गी­था­व­य­वो­ङ्कारे प्राण­दृ­ष्टिः,'पृ­थिवी हिङ्कारेऽग्निः प्रस्ता­वोऽ­न्त­रि­क्ष­मु­द्गीथ आदित्यः प्रतिहारो द्यौर्नि­ध­नम्' , इति हिङ्का­रा­दि­प­ञ्च­विधे साम्नि पृथि­व्या­दि­लो­क­दृष्टिः, उक्थाख्यशस्त्रे पृथिवीदृष्टिः, इष्टकाचिताग्नौ लोक­दृ­ष्टि­रि­त्येवं कर्मा­ङ्गा­श्रि­तो­पा­स्तयः सन्ति, तासू­द्गी­था­दि­सा­धा­र­ण­श्रुत्या विशेषसंनिधिना च संशयः ।

ननूद्गीथादीनां सर्व­शा­खा­स्वे­क­त्वा­दु­पा­स्तयः सर्वत्रेति वेद्यै­क्या­न्नि­श्चये कथं संशय इत्यत आह -
प्रतिशाखं चेति ।

यथा देहा­त्म­नो­र्भे­दा­दा­त्म­धर्मा देहे न संभवन्ति तथा प्रति­वे­द­मु­द्गी­था­दीनां भिन्न­त्वा­दे­क­स्मि­न्वेदे विहि­तो­द्गी­था­द्यु­पा­स्तयो वेदा­न्त­र­स्थो­द्गी­था­दिषु न संभवन्तीति दृष्टान्तेन पूर्वपक्षयति -
स्वशाखेति ।
उद्गी­थ­मु­पा­सी­तेति विधि­वा­क्य­स्थो­द्गी­थ­त्व­सा­मा­न्यस्य व्यक्त्य­पे­क्ष­त्वा­स्त्व­शा­खा­सं­नि­हि­त­व्य­क्ति­ग्रह इत्यर्थः ।

सामान्यश्रुतेः संनि­हि­त­व्य­क्ति­ग्र­हा­ख्य­सं­को­च­स्तत्र कर्तव्यो यत्र व्यक्ति­मा­त्र­ग्रहो नोपपद्यते, यथा शुक्लां गामानयेत्यत्र गोश्रुतेः संनि­हि­त­शु­क्ल­व्य­क्ति­प­र­तया संकोचः, अत्र नानु­प­प­त्त्य­भा­वा­द्व्य­क्ति­मा­त्र­सं­ब­न्ध­सा­मा­न्य­मु­पा­स्य­मिति सिद्धान्तयति -
एवमित्यादिना ॥५५॥

पूर्वं शाखा­न्त­र­वि­हि­तो­पा­स्तीनां शाखा­न्त­र­स्था­ङ्ग­सं­बन्धे यः प्रतीतो विरो­ध­स्त­म­ङ्गी­कृत्य संबन्ध उक्तः, संप्रति विरोध एव नास्ति, शाखा­न्त­र­वि­हि­ता­ङ्गानां शाखा­न्त­र­स्था­ङ्गि­सं­ब­न्ध­व­दु­क्त­सं­ब­न्धो­प­प­त्ते­रि­त्याह -
अथवेत्यादिना ।
यजुर्वेदिनां कुक्कुटोऽसीति मन्त्रोऽस्ति कुटरुरसीति नास्ति तथापि तण्डु­ल­पे­ष­णा­र्था­श्मा­दाने मन्त्रद्वयस्य विकल्पेन विनियोगात्सोऽपि प्राप्नो­ती­त्यर्थः ।

सूत्र­स्था­दि­प­दो­पा­त्त­क­र्म­णा­मु­दा­ह­र­ण­माह -
येषामिति ।
मैत्रा­य­णी­या­ना­मि­त्यर्थः । हेम­न्त­शि­शि­र­यो­रै­क्या­दृ­तवः पञ्च तद्व­त्प­ञ्च­सं­ख्याकाः प्रयाजाः समानत्र तुल्यकर्मस्थले होतव्या इति पञ्च­त्व­गु­ण­वि­धा­ना­द्गु­णिनः शाखान्तरविहिताः सम्बध्यन्त इति भावः ।

गुणमुदाहरति -
तथा येषामिति ।
यजु­र्वे­दि­ना­म­ग्नी­षो­मीयः पशुः श्रुतो नाज इति जाति­वि­शे­ष­स्त­थापि प्रैष­म­न्त्र­लि­ङ्गा­ज्जा­ति­वि­शे­ष­सं­ग्रह इत्यर्थः ।

मन्त्रा­ण­मु­दा­ह­र­णा­न्त­र­माह -
तथेति ।
सामवेदस्थानां यजुर्वेदे परिग्रह इत्यर्थः । तथेति 'स जनास इन्द्र' इत्य­ने­नो­प­ल­क्षितं सूक्तं सजनीयं तस्य याजु­षा­ध्व­र्यु­क­र्तृ­क­प्र­योगे शंसनं दृष्टमित्यर्थः । यो जातो बाल एव प्रथमो गुणैः श्रेष्ठो मन­स्वा­न्वि­वे­क­वान्स इन्द्र एवंविधो हे जानसो जना इति श्रुत्यर्थः ॥५६॥

भूम्नः क्रतुवत् ।
द्युलोकादिषु प्रत्येकं वैश्वा­न­र­त्वो­पा­स्ति­र्व्य­स्तो­पा­स्ति­स्त­द­व­य­व्यु­पास्तिः सम­स्तो­पा­स्ति­रिति भेदः । आख्यायिका पूर्वमेव व्याख्याता ।

अत्रोभयत्र विधिफलयोः श्रव­णा­दे­क­वा­क्य­त्वो­प­प­त्तेश्च संशयमाह -
तत्रेति ।

'सैव हि सत्यादयः' इत्यत्र तद्य­त्त­त्स­त्य­मिति प्रकृ­ता­क­र्षा­द्वि­द्यै­क्य­मुक्तं तद्व­द­त्रै­क्य­हे­त्व­भा­वा­द­ग­ता­र्थत्वं मत्वा पूर्व­त्रो­द्गी­था­दि­श्रुत्या संनि­धि­बा­धे­नो­द्गी­था­द्यु­पा­स्तीनां सर्व­शा­खा­सू­प­सं­हा­र­व­द्व्य­स्तो­पा­स्तीनां विधिश्रुतेः फलश्रवणस्य च सम­स्तो­पा­स्ति­सं­नि­धि­प्राप्तं स्तुत्यर्थत्वं बाधित्वा तद्विधेयत्वमिति पूर्वपक्षमाह -
प्रत्यवयवमिति ।
फलानुक्तौ पूर्वो­त्त­र­प­क्ष­सि­द्धि­रेव फलं मन्तव्यम् । सुतं खण्डितं सोमद्रव्यं तस्यैव प्रसु­त­त्व­मा­स­म­न्तात् सुत­त्व­म­व­स्था­भेदः । सोम­या­ग­सं­प­त्ति­स्तव कुले दृश्यत इति यावत् । आत्मनो वैश्वानरस्य मूर्धेव सुतेजा इति वाक्य­प्र­क­र­णाभ्यां व्यस्तो­पा­स्तीनां सम­स्तो­पा­स्त्य­न्त­र्भा­वेन प्रया­ज­द­र्श­व­दे­क­प्र­यो­गत्वे सिद्धे प्रधा­न­त­द­ङ्ग­फ­ला­ना­म­र्थ­वा­द­ग­ता­ना­मे­क­प्र­धा­न­फ­ल­त­यो­प­सं­हा­रा­द्वा­क्य­भेदो न युक्त इति सिद्धान्त्याशयः ।

एक­दे­शि­व्या­ख्या­म­नूद्य दूषयति -
केचिदिति ।

यद्युभयथोपासनं सिद्धा­न्त­स्तर्हि व्यस्तो­पा­स­न­मे­वेति पूर्वपक्षो वक्तव्यः, स च न संभवतीत्याह -
स्पष्टे चेति ।

कथं तर्हि सूत्रे ज्याय­स्त्वो­क्ति­स्त­त्राह -
सौत्रस्येति ।
व्यस्तो­पा­स्ती­ना­म­प्रा­मा­णि­क­त्व­द्यो­त­नार्थं तदुक्तिरिति भावः ॥५७॥

नाना शब्दादिभेदात् ।

शाण्डि­ल्या­दि­ब्र­ह्म­वि­द्यैका नाना वा तथा संवर्गादि प्राणविद्यैका नाना वेति रूपै­क्य­भा­वा­भा­वाभ्यां संशये दृष्टा­न्त­सं­गत्या पूर्वपक्षमाह -
पूर्वस्मिन्निति ।

रूपैक्याच्च विद्यै­क्य­मि­त्याह -
अपि चेति ।

विद्यैक्यं चेदे­क­श्रु­त्यु­क्त­वि­द्यायाः श्रुत्य­न्त­रेऽ­प्यु­क्ति­र्वृ­थे­त्यत आह -
श्रुति­ना­ना­त्व­म­पीति ।

पूर्वपक्षफलमाह -
तस्मादिति ।

सिद्धान्ते तु गुणानुपसंहार इति मत्वा सूत्रं योजयति -
वेद्याभेदेऽपीति ।

ननु भिन्न­भा­वा­र्थ­वा­च­क­शब्दः शब्दान्तरं यथा 'यजति ददाति जुहोति' इति तस्मिञ्शब्दभेदे कर्म­श­ब्दि­त­वि­ध्य­र्थ­भा­वा­नाया भेदो युक्तस्तस्याः कृता­नु­ब­न्ध­त्वा­द्भे­देन स्वीकृ­त­वि­ष­य­त्वा­द्भा­वा­र्थ­भे­दा­दिति यावत् । प्रकृते तु वेदो­पा­सी­ते­त्या­दि­श­ब्दा­र्थो­पा­स्ते­र्या­ग­दा­न­हो­म­व­त्स्वतो भेदा­भा­वा­त्सि­द्ध­गु­ण­क­ब्र­ह्मण एकत्वेन विषयतोऽपि भेदा­भा­वा­त्क­थ­मु­पा­स्ति­भेद इति शङ्कते -
नन्विति ।
अत्र सूत्रे शब्द­भे­दोऽ­भ्यु­च्च­य­मा­त्र­त­योक्तः, विद्यानानात्वे सम्य­ग्घे­त­व­स्त्वा­दि­प­दो­पात्ता गुणादय एव । तथा हि सिद्धस्यापि गुणस्य कार्यान्वयितया कार्यत्वमस्ति । यथा आरु­ण्या­दि­गु­णानां क्रय­ण­भा­व­ना­न्व­यि­तया कार्यत्वं तथाच तत्त­त्प्र­क­र­णे­षू­त्प­त्ति­शि­ष्टै­रु­पा­स्ति­भा­व­ना­न्व­यि­तया साध्यै­स्त­त्त­द्गु­णै­र्वि­शि­ष्ट­त­यो­पा­स्य­रू­प­भे­दा­दु­पा­स­ना­भेदः ।

यथा छत्र­चा­म­रा­दि­गु­ण­भे­देन राजोपास्तिभेदः, यथा­वा­मि­क्षा­वा­जि­न­गु­ण­भे­देन यागभेदस्तद्वत् । तथा प्रतिविद्यं फल­सं­यो­ग­भे­दा­द्द­ह­र­शा­ण्डि­ल्या­दि­स­मा­ख्या­भे­दा­द्भेद इति समाधत्ते -
नैष दोष इत्यादिना ।

यदुक्तं श्रुतिनानात्वं गुणा­न्त­र­वि­ध्य­र्थ­मिति तन्नेत्याह -
न चात्रैक इति ।

किञ्च प्राप्त­वि­द्या­नु­वा­दे­ना­प्रा­प्ता­ने­क­गु­ण­वि­धाने वाक्यभेदः स्यादित्याह -
अनेकत्वाच्चेति ।

किञ्च विद्यैक्यपक्षे गुणानां पुन­रु­क्ति­र्वृथा, नच प्रत्य­भि­ज्ञा­नार्था ब्रह्मैक्यादेव तत्सिद्धेः, विद्या­ना­ना­त्व­पक्षे तु गुणा­ना­म­प्राप्तेः सा प्राप्त्य­र्थे­त्याह -
न चास्मिन्पक्ष इति ।

फल­भे­दा­च्चो­द­नै­क्या­भा­वा­त्स­र्व­गु­ण­ध्या­न­स्या­श­क्य­त्वाच्च विद्या नानेत्याह -
प्रतिप्रकरणं चेत्यादिना ।
दहरध्यातुः सर्वेषु लोकेषु कामचारो भवति वैश्वानरध्याता सर्व­त्रा­न्न­म­त्ती­त्या­दि­फ­ल­भेद इत्यर्थः ।

ननु विद्यानानात्वे सिद्धे पश्चा­द्द­ह­रा­दि­विद्या प्रति­वे­दा­न्त­मे­काऽ­नेका वेति चिन्तोचिता तत्कथमादौ सा कृतेत्यत आह -
स्थिते चेति ।
विद्या­ना­ना­त्वा­धि­क­रणं पादादावेव संगतमत्र प्रासङ्गिकमिति भावः ॥५८॥

विकल्पः ।

विद्यानां स्वरू­प­मु­क्त्वा­नु­ष्ठा­न­प्र­का­रोऽत्र निरूप्यत इत्यु­प­जी­व्य­त्व­सं­ग­ति­माह -
स्थित इति ।

विद्या­स्त्रि­विधाः अह­ङ्ग्र­हा­स्त­टस्था अङ्गा­श्रि­ता­श्चेति । तत्रा­ह­ङ्ग्र­ह­वि­द्यासु याथा­का­म्य­वि­क­ल्प­यो­र्वि­द्या­ना­ना­त्व­सा­म्या­त्सं­श­य­माह -
किमिति ।
पूर्वपक्षे यथे­च्छ­म­नु­ष्ठा­न­मि­त्य­नि­यमः सिद्धान्ते विक­ल्पे­ना­नु­ष्ठा­न­मिति नियम इति फलभेदः ।

तत्रानियमं साधयति -
तत्र स्थित­त्वा­दि­त्या­दिना ।
एक­पु­रो­डा­श­फ­ल­त्वा­द्यथा व्रीहि­य­व­यो­र्वि­क­ल्प­स्तथा विकल्पनियम एवासां विद्यानां न्याय्यः, तुल्यफलत्वात् । न च फल­भू­य­स्त्वा­र्थिनः काम्य­क­र्म­स­मु­च्च­योऽपि दृष्ट इति वाच्यम्, ईश्व­र­सा­क्षा­त्का­रा­त्परं फल­भे­देऽ­प्या­सा­म­ह­ङ्ग्र­हो­पा­स्तीनां साक्षा­त्का­रा­त्म­क­फ­लस्य तुल्यत्वात्, तस्य चैकयाकृतत्वे अन्यस्याः कृत्या­भा­वा­च्चि­त्त­वि­क्षे­प­क­तया तद्वि­घा­त­क­त्वा­च्चेति सिद्धा­न्त­भा­ष्यार्थः ।

मास्तु साक्षात्कार इत्यत आह -
साक्षा­त्क­र­ण­साध्यं चेति ।
यस्य पुंसः, अद्धा ईश्वरोऽहमिति साक्षात्कारः स्याद्वि­चि­कित्सा च नास्ति अहमीश्वरो न वेति तस्यै­वे­श्व­र­प्रा­प्ति­रि­त्यर्थः । जीवन्नेव भावनया देवत्वं साक्षात्कृत्य देहपातोत्तरकालं देवा­न्प्रा­प्नो­तीति श्रुत्य­न्त­रार्थः ।

अह­ङ्ग्र­हा­णा­म­नु­ष्ठा­न­प्र­का­र­मु­प­सं­ह­रति -
तस्मादिति ॥५९॥

काम्यास्तु ।

तट­स्थो­पा­स्त­योऽत्र विषयस्तासु किं विकल्प उत यथा­का­म­म­नु­ष्ठा­न­मिति पूर्ववत्संशये सत्यु­पा­स्ति­त्वा­वि­शे­षा­द­ह­ङ्ग्र­ह­व­द्वि­कल्प इति प्राप्तावपवादं सिद्धान्तयति -
अविशिष्टेति ।
स यः कश्चिदेतं वायुमेवं गोत्वेन कल्पितानां दिशां वत्सं वेदोपास्ते नासौ पुत्र­म­र­ण­नि­मित्तं रोदनं रोदिति लभते नित्यमेव जीवत्पुत्रो भवतीत्यर्थः । अह­ङ्ग्र­ह­दृ­ष्टान्ते साक्षा­त्का­र­द्वा­र­त्व­मु­पा­धि­रिति भावः ॥६०॥

संप्र­त्य­ङ्गा­व­ब­द्धो­पा­स्ती­ना­म­नु­ष्ठा­न­क्रमं वक्तुं पूर्वपक्षयति -
अङ्गेष्विति ।

अङ्गा­श्रि­त­त्वा­त्स­फ­ल­त्वाच्च संशयमाह -
किमिति ।
यथा क्रत्वनुष्ठाने तदा­श्रि­ता­ङ्गानां समु­च्चि­त्या­नु­ष्ठा­न­नि­य­म­स्त­था­ङ्गा­नु­ष्ठाने तदा­श्रि­तो­पा­स्तीनां तन्नियम इति सूत्रार्थः । ननु तन्नि­र्धा­र­णा­नि­यम इत्य­त्रा­ङ्गा­श्रि­तानां गोदो­ह­न­व­द­न­ङ्ग­त्व­मुक्तं तत्क­थ­म­न­ङ्गा­ना­म­ङ्ग­व­त्स­मु­च्च­य­श­ङ्के­त्यु­च्यते । अङ्गा­न्य­नु­ष्ठा­प­य­न्प्र­यो­ग­वि­धि­र्य­द्यु­पा­स­नानि नानु­ष्ठा­प­ये­त्तर्हि तेषां तदाश्रितत्वं व्यर्थमिति मन्वानस्य शङ्केति भावः ॥६१॥

तर्हि गोदोहनस्यापि समुच्चयः स्यादित्यत आह -
शिष्टेश्चेति ।
शिष्टिः शासनं विधानमिति यावत् । विहि­त­त्वा­वि­शे­षा­त्स­मु­च्च­योऽ­ङ्ग­त्वा­दि­त्यर्थः । गोदोहनस्य तु नानुष्ठाननियमः, चमसस्थाने विहि­त­त्वा­त्त­न्नि­यमे चम­स­वि­धि­वै­य­र्थ्यात् । उपासनानां तु न कस्यचिदङ्गस्य स्थाने विहितत्वमिति समुच्चयनियमो न विरुध्यत इति भावः ॥६२॥

समुच्चये लिङ्गम् -
समाहारादिति ।
'ऋग्वे­दिनां यः प्रणवः स साम­वे­दि­ना­मु­द्गीथः' इति छान्दोग्ये प्राण­वो­द्गी­थ­यो­रै­क्य­ध्या­न­वि­धि­रस्ति, तस्य फलार्थवादो होतृ­ष­द­ना­दि­त्यादिः । होतुः शंसनस्थलवाचिना होतृषदनशब्देन शंसनं लक्ष्यते । उद्गाता स्वरा­दि­प्र­मा­दा­द्दु­ष्ट­म­प्यु­द्गीथं सम्य­क्कृ­ता­द्धो­तृ­शं­स­ना­द­नु­स­मा­हा­र­त्येव निर्देषं करोत्येव किल, शंस्यमानप्रणवेन स्वीयो­द्गी­थ­स्यै­क्य­ध्या­न­ब­ला­दि­त्यर्थः ।

ततः किं तत्राह -
इति ब्रुवन्निति ।
साम­वे­द­स्थो­द्गी­थ­ध्या­नस्य ऋग्वे­दो­क्त­प्र­ण­व­सं­बन्धो यो दृष्टः स एवाङ्गानां सर्व­वे­दा­न्त­वि­हि­तो­पा­स्ति­स­मु­च्चये लिङ्गं प्रण­व­रू­प­प­दा­र्थ­स्यो­पा­स्तीनां च वेदा­न्त­रो­क्त­त्व­सा­दृ­श्या­द्वे­दा­न्त­रो­क्ता­ङ्ग­सं­ब­न्ध­स्यापि समा­न­त्वा­दि­त्यर्थः ॥६३॥

ओङ्कारस्य ध्येयस्य साधारण्यादपि तदा­श्रि­त­ध्या­नानां समु­च्चि­त्या­नु­ष्ठानं गम्यत इति लिङ्गान्तरमाह -
गुणेति ।
तेनोङ्कारेण, वेदत्रयोक्तं कर्म प्रवर्तत इत्यर्थः ।

अन्व­य­मु­खे­नो­क्त­मे­वार्थं व्यतिरेकतोऽपि व्याचष्टे -
अथवेति ॥६४॥

फलेच्छाया अनि­य­मा­दु­पा­स्त्य­नि­यम एव युक्तः, अङ्ग­व­त्स­मु­च्च­य­नि­यमे मानाभावादिति सिद्धान्तयति -
न वेति ।

प्रयोगविधिः खलु साङ्ग­प्र­धा­ना­नु­ष्ठा­न­नि­या­मको न त्वनङ्गानां सङ्ग्राहक इत्याह -
नेति ब्रूम इति ।
विमतोपास्तयः क्रतौ न समु­च्चि­त्या­नु­ष्ठोयाः, भिन्न­फ­ल­त्वा­द्गो­दो­ह­न­व­दिति भावः ।

शिष्टे­श्चे­त्युक्तं निरस्यति -
अयमेवेति ।

समा­हा­रा­द्गु­ण­सा­धा­र­ण्य­श्रु­ते­श्चे­त्युक्तं लिङ्गद्वयमपि माना­न्त­र­प्रा­प्तस्य द्योतकं न स्वयं साध­क­म­र्थ­वा­द­स्थ­त्वा­दि­त्याह -
परं चेति ।

गुण­सा­धा­र­ण्य­सू­त्रस्य द्वितीयां व्याख्यां दूषयति -
न चेति ।

तत्प्र­यु­क्त­त्वा­भावे तदाश्रितत्वं कथमित्यत आह -
आश्रयेति ।
इदमेव तेषा­म­ङ्गा­श्रि­तत्वं यदङ्गाभावे सत्यसत्त्वं न त्वङ्ग­व्या­प­क­त्व­मि­त्यर्थः ॥६५॥

किञ्च विदुषा ब्रह्म­णा­न्ये­षा­मृ­त्विजां पाल्यत्ववचनान्न सर्वोपास्तीनां सहप्रयोग इत्याह -
दर्शनाच्चेति ।
ऋग्वे­दा­दि­वि­हि­ता­ङ्ग­लोपे व्याहृ­ति­हो­म­प्रा­य­श्चि­त्ता­दि­वि­ज्ञा­न­व­त्त्व­मे­वं­वित्त्वं ब्रह्मण इत्यर्थः ॥६६॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां तृतीयाध्यायस्य तृतीयः पादः ॥३॥
॥ इति तृतीयाध्यायस्य परा­प­र­ब्र­ह्म­वि­द्या­गु­णो­प­सं­हा­रा­ख्य­स्तृ­तीयः पादः ॥

तृतीयाऽध्याये चतुर्थः पादः ।
कर्मा­ङ्ग­वि­द्या­प्र­स­ङ्गा­द्ब्र­ह्म­ज्ञा­नस्य कर्मा­ङ्ग­त्व­मा­श­ङ्क्याह -
पुरुषार्थोऽतः शब्दादिति बादरायणः ।
पूर्वपादे परापरविद्यानां गुणो­प­सं­हा­रोक्त्या स्वरूपं निश्चि­त­म­स्मि­न्पादे तासां कर्मानङ्गतया पुरु­षा­र्थ­हे­तुत्वं निरूप्यते । ततोऽ­ङ्गा­का­ङ्क्षायां यज्ञादीनि बहिरङ्गानि शमा­द्दी­न्य­न्त­र­ङ्गानि च निरूप्यन्त इत्ये­क­वि­द्या­वि­ष­यत्वं पादयोः संगतिः ।

तत्रादौ तत्त्वज्ञानं विषयीकृत्य वादि­वि­प्र­ति­पत्त्या संशयमाह -
अथेति ।
पूर्वपक्षे ज्ञान­क­र्म­णो­र­ङ्गा­ङ्गि­त्वेन समुच्चयः । सिद्धान्ते केव­ल­ज्ञा­ना­न्मु­क्ति­रिति फलभेदः । 'य आत्मेति' प्रजा­प­त्यु­क्त­ब्र­ह्म­वि­द्यायां लोकादिकं सगुणविद्याफलं मोक्षा­न­न्देऽ­न्त­र्भा­वा­भि­प्रा­ये­णो­क्त­मिति मन्तव्यम् ॥१॥

एवं सिद्धा­न्त­मु­प­क्रम्य पूर्वपक्षयति -
शेषत्वादिति ।
सूत्रेऽ­र्थ­वा­द­प­द­मा­व­र्त­नी­यम् । ज्ञाना­त्पु­रु­षा­र्थ­वा­दो­र्ऽ­थ­वाद इत्यर्थः । ज्ञानं कर्माङ्गम्, अफलत्वे सति कर्मे­शे­षा­श्र­य­त्वा­त्प्रो­क्ष­ण­प­र्ण­म­यी­त्वा­दि­व­दिति भावः । तत्त्व­नि­र्ण­यार्थं गुरुशिष्ययोः कथावादोऽयमिति ज्ञापनार्थं जैमिनिग्रहणम् ।

अङ्गि­फ­ले­ना­ङ्ग­भूत आत्मा­व­ग­त­प्र­यो­ज­न­स्त­दा­श्रये तत्संस्कारे ज्ञाने फलश्रुतिरर्थवाद इत्यत्र दृष्टान्तः -
यथेति ।
पर्णमयी द्रव्यं, यजमानस्याञ्जनं संस्कारः, प्रयाजादीनि कर्माणि तेष्वित्यर्थः । वर्म कवचम् ।

आत्मज्ञानं न कर्माङ्गं मानाभावादिति सिद्धान्ती शङ्कते -
कथमिति ।

पूर्वपक्ष्याह -
कर्त्रिति ।

युक्तो ह्यना­र­भ्या­धी­तायाः पर्णताया जुहूद्वारेण वाक्या­त्क्र­त्व­ङ्ग­भावो जुह्वाः क्रतुव्याप्यतया क्रतू­प­स्था­प­क­त्वात्, न तथा­त्म­वि­ज्ञा­न­स्यऽ­आत्मा द्रष्टव्यःऽइति वाक्या­त्क्र­तु­सं­बन्ध उपपद्यते, आत्मनः क्रतु­व्या­प्त्य­भा­वा­दिति सिद्धान्ती दूषयति -
नेति ।

देहभिन्नत्वेन ज्ञातात्मनः क्रतु­व्या­प्य­त्व­म­स्तीति पूर्वपक्षी समाधत्ते -
न व्यतिरेकेति ।

सर्वथेति ।
देहा­त्म­त्वे­ना­पी­त्यर्थः ।

देह­भि­न्न­क­र्तृ­ज्ञा­न­स्या­ङ्ग­त्वेऽ­प्य­क­र्तृ­ब्र­ह्मा­त्म­ज्ञा­नस्य नाङ्गत्वमिति शङ्कते -
नन्वपहतेति ।
यस्यार्थे जायादिकं प्रियं भोग्यं स आत्मा द्रष्टव्य इति भोग्यलिङ्गेन सूचि­त­भो­क्तृ­भि­न्न­म­क­र्तृ­स्व­रूपं नास्तीति समाध्यर्थः ।

जन्मा­दि­सू­त्र­मा­रभ्य साधितं स्वरूपं कथं नास्तीति शङ्कते -
नन्विति ।

स्वरूपज्ञानं वेदान्तानां फलं, तस्य क्रत्व­र्थ­त्व­पु­रु­षा­र्थ­त्व­वि­चा­रेण दार्ढ्यं क्रियत इत्याह -
सत्यमिति ॥२॥

ब्रह्मविदां कर्माचारदर्शनं ब्रह्मविद्यायाः कर्माङ्गत्वे लिङ्गमित्याह -
आचारेति ।
ईजे यागं कृतवानित्यर्थः । हे भगवन्त इति ब्राह्म­णा­न्सं­बोध्य ब्रह्म­वि­त्कै­के­य­राजो ब्रूते अहं यक्ष्यमाणो यागं करिष्यमाणोऽस्मि वसन्त्वत्र भगवन्त इत्यर्थः । अन्यपरेष्विति विद्या­वि­धि­प­रे­ष्वि­त्यर्थः ।

अल्पायासं मुक्तेरूपायं ज्ञानं लब्ध्वा बह्वायासं कर्म न कुर्युरित्यत्र दृष्टान्तमाह -
अक्व इति ।
समीप इत्यर्थः ॥ अर्क इति पाठेऽ­प्य­य­मे­वार्थः ॥३॥

ब्रह्मविद्यायाः कर्माङ्गत्वे तृतीया श्रुति­र­प्य­स्ती­त्याह -
तच्छ्रुतेरिति ॥४॥

लिङ्गान्तरमाह -
समिति ।
तं परलोकं गच्छन्तं विद्याकर्मणी अनुगच्छत इत्यर्थः ॥५॥ गुरोः शुश्रूषारूपं कर्म कुर्व­न्न­ति­शे­षे­णा­व­शि­ष्टेन कालेन यथाविधानं वेद­म­धी­त्या­न­न्त­र­मा­चा­र्यस्य कुलाद्गृहात् । ब्रह्मचर्यादिति यावत् । अभिसमावर्तनं कृत्वा कुटुम्बे गार्हस्थ्ये स्थितः प्रत्यहं शुचौ देशे स्वाध्या­या­ध्य­यनं कुर्व­न्न­न्यांश्च नित्या­दि­ध­र्मा­न­नु­ति­ष्ठ­न्ब्र­ह्म­लोकं प्राप्नोतीति श्रुत्यर्थः । यथा­व­घा­त­स्तु­ष­वि­मो­क­प­र्यन्त एव­म­ध्य­य­न­म­र्था­व­बो­धा­न्तम् । दृष्टे­र्ऽ­था­व­बो­धाख्ये फले संभवति अध्य­य­न­स्या­दृ­ष्टा­र्थ­त्वा­यो­गा­दिति पूर्वतन्त्रे स्थितम् । ततश्च ब्रह्मापि वेदार्थ इति तदवबेधवतः कर्म­वि­धा­न­मि­त्यर्थः ॥६॥

यावज्जीवं कर्म­नि­य­मोऽ­प्यत्र लिङ्गमित्याह -
नियमाच्चेति ।
इह देहे कर्माणि कुर्वन्नेव शतं संव­त्स­रा­ञ्जी­वि­तु­मि­च्छे­देवं कर्मित्वेन जीवति त्वयि नरे कर्म पापं न लिप्यते । इतः कर्मणोऽन्यथा नास्ति । कर्म विना श्रेयो नास्तीत्यर्थः । जरामर्यं जरा­म­र­णा­व­धि­क­मि­त्यर्थः ॥७॥

कर्तु­र­धि­क­स्या­सं­सा­र्या­त्मनः कर्म­शे­ष­त्वा­भा­वा­त्त­त्त्व­ज्ञानं कर्माङ्गं नेति सिद्धान्तयति -
अधिकेति ।
अस्य महत इति वाक्य­शे­षा­त्प्रि­य­सं­सू­चित आत्मा पर एव द्रष्टव्यः । यः प्राणादि प्रेरयति सोऽप्य­श­ना­या­द्य­त्य­य­वा­क्य­शे­षा­त्पर एव । तथा­क्षि­पु­रु­षोऽ­प्य­व­स्था­साक्षि परञ्ज्योतिरिति वाक्यशेषात्पर इति विभागः ।

जीवा­नु­क­र्ष­ण­म­भे­दा­भि­प्रा­य­मि­त्य­ङ्गी­कारे न विरोध इति कथम्, अभेदे जीव­त्व­वि­रो­धा­दि­त्यत आह -
पारमेश्वरमिति ।
ज्ञानं कर्माङ्गमफलत्वे सति कर्म­शे­षा­श्र­य­त्वा­दि­त्युक्तो हेतुरसिद्ध इति भावः ॥८॥

ब्रह्मविदां कर्म­व­त्सं­न्या­स­स्यापि दर्शनात्तेषां कर्मदर्शनात्मकं लिङ्गं लोक­सं­ग्र­हा­र्थ­त्वे­ना­न्य­था­सि­द्ध­मि­त्याह -
तुल्यं त्विति ।

किञ्च यस्य कर्म स न ब्रह्मविदित्याह -
अपि चेति ।

तर्हि वैश्वा­न­र­वि­द्यायाः कर्माङ्गत्वं स्यादित्यत आह -
नत्विति ।
ब्रह्मविदां लोकसंग्रहार्थं क्रियमाणमपि कर्म न भवति अभि­मा­ना­भा­वे­ना­न­धि­का­रि­त्वा­दिति भावः ॥९ ॥ ॥१०॥

सम­न्वा­र­म्भ­व­च­नस्य मुमु­क्षु­वि­ष­य­त्व­म­ङ्गी­कृत्य विद्या अन्यं मुमुक्षुं मुक्त­त्वे­ना­न्वा­र­भत इति विभाग उक्तः सूत्रकृताः । वस्तुतस्तु तन्नास्तीत्याह -
न चेदं सम­न्वा­र­म्भ­व­च­न­मिति ।

तत्र संसारिविषये तं विद्ये­त्या­दि­वाक्ये यथा­प्रा­प्ता­नु­वा­दिनि विद्या­दि­प­दा­र्थ­माह -
तत्रेति ।
विहि­तो­द्गी­था­दि­विद्या प्रतिषिद्धा नग्नि­स्त्री­ध्या­ना­दि­रूपा ॥११॥

यच्चैतदिति ।
उक्तमिति शेषः । अवि­द्य­त्वा­द्वे­दा­र्थ­ज्ञा­न­शू­न्य­त्वा­दि­त्यर्थः ।

मात्र­प­द­मा­त्म­ज्ञा­नस्य व्यावर्तकं न कर्म­ज्ञा­न­स्ये­त्याह -
नैष दोष इति ॥१२ ॥ ॥१३॥

निय­म­वा­क्य­म­ज्ञ­वि­ष­य­मि­त्युक्तं विदुषो ज्ञान­स्तु­त्यर्थं वेत्याह -
स्तुतय इति ।
एवं कर्म कुर्वित्यपि त्वयि नरे नेतो विद्या­ल­ब्धा­द्ब्र­ह्म­भा­वा­द­न्य­थास्ति कर्मणा संसारो नास्तीति यावत् । यतः कर्म न लिप्यते । अपूर्वरूपलेपाय न भवतीत्यर्थः श्रुतेरिति भावः ॥१४॥

स्वेच्छातः कर्म­सा­ध­न­प्र­जा­दि­त्या­लि­ङ्गाच्च विद्या स्वत­न्त्र­फ­ले­त्याह -
कामेति ।
तदेतद्ब्रह्म येषां नोऽस्मा­क­म­य­म­प­रोक्ष आत्मा अयमेव लोकः पुरुषार्थस्ते वयं किं प्रजादिना करिष्याम इत्यालोच्य कर्म त्यक्तवन्त इत्यर्थः ।

नन्वयं लोक इति ज्ञानफलस्य प्रत्य­क्ष­त्वो­क्ति­र­युक्ता कर्म­फ­ल­व­द­दृ­ष्ट­त्वा­दि­त्यत आह -
अनुभवेति ॥१५॥

न केव­ल­म­नु­प­यो­गा­ज्ज्ञा­नस्य कर्मानङ्गत्वं किन्तु कर्म­ना­श­क­त्वा­च्चे­त्याह -
उपमर्दं चेति ॥१६॥

किञ्च कर्म­त­त्त्व­ज्ञाने नाङ्गाङ्गिभूते भिन्ना­धि­का­रि­स्थ­त्वा­द्रा­ज­सू­य­बृ­ह­स्प­ति­स­व­व­दि­त्याह -
ऊर्ध्वेति ।
त्रयो धर्मस्कन्धाः कर्मप्रधाना आश्रमाश्चतुर्थो ब्रह्मसंस्थ इत्यर्थः ।

'ब्रह्म­च­र्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एव वा अनृणः' इति श्रुतेः । 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः' इति स्मृतेश्च प्राप्त­गा­र्ह­स्थ्य­स्यैव निर­स्त­र्ण­त्र­यस्य पारि­व्रा­ज्य­मि­त्यपि शङ्का न कार्या । ब्रह्मचर्यादेव प्रव्रजेदिति द्विती­य­मा­श्र­म­मि­च्छे­त्त­मा­व­से­दिति च विधि­श्रु­ति­स्मृ­ति­वि­रो­धेन अर्थ­वा­द­श्रु­ति­स्मृ­त्यो­र­वि­र­क्त­वि­ष­य­त्वा­ग­मा­दि­त्याह -
प्रतिपन्नेति ।
तस्मादि ति संन्या­स­नि­ष्ठ­त्वा­दि­त्यर्थः ॥१७॥

संन्यासो नास्ती­त्या­क्षि­पति -
परामर्शं जैमिनिरिति ।

ऊर्ध्वरेतः शब्दितं पारि­व्रा­ज्य­म­नु­ष्ठेयं न वेति मान­भ्रा­न्ति­मू­ल­त्वाभ्यां संदेहे भ्रान्ति­मू­ल­त्वा­न्ना­नु­ष्ठे­य­मि­त्याह -
त्रय इति ।
आश्र­मा­णा­म­वा­न्त­र­भे­दा­पे­क्षया बहुवचनम् । तथाच काण्वा­य­न­स्मृ­ति­र­र्थ­तोऽ­नु­क्र­म्यते । गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्म­चा­री­च­तु­र्विधः । तत्रो­प­न­य­ना­दूर्ध्वं यस्त्रि­रा­त्र­म­क्षा­रा­ल­व­णाशी गायत्रीमधीते स गायत्रः । यस्तु वेदस्य ग्रहणान्तं ब्रह्मचर्यं चरति स ब्राह्मः । ऋतुकाले स्वदारगामी नित्यं परस्त्रीविमुखः प्राजापत्यः, संवत्सरं वेद­व्र­त­कृ­द्व­टुर्वा प्राजापत्यः । आमरणं गुरुकुलवासी नैष्ठिको बृह­न्नि­त्यु­च्यते । गृहस्थोऽपि चतुर्विधः वार्ताको यायावरः शालीनो घोर­सं­न्य­सि­क­श्चेति । तत्र कृषि­गो­र­क्षा­दि­कया वैश्या­दि­वृत्त्या जीव­न्नि­त्या­दि­क्रि­या­परो वार्ताकवृत्तिः । याया­व­र­स्त्व­या­चि­त­वृ­त्ति­र्या­ज­ना­ध्या­प­न­प्र­ति­ग्र­ह­वि­मुखः । शालीनस्तु षट्कर्मनिरतो याजनादिवृत्तिः संचयी । उद्धृ­त­प­रि­पू­ता­भि­रद्भिः कार्यं कुर्वन्प्रत्यहं कृतो­ञ्छ­वृ­त्ति­र्ग्रा­म­वासी घोरसंन्यसिक इत्युच्यते, हिंसा­वि­मु­ख­त्वात् । वानप्रस्थोऽपि चतुर्विधः वैखानस औदुम्बरो वालखिल्यः फेनपश्चेति । तत्रा­कृ­ष्ट­प­च्यौ­ष­धी­भि­र्ग्रा­म­ब­हि­ष्कृ­ता­भि­र­ग्नि­हो­त्रा­दि­कु­र्व­न्वै­खा­नस उच्यते । यस्तु प्रातरुथाय यां दिशं पश्यति तत्र­त्यौ­दु­म्ब­र­ब­द­री­नी­वा­र­श्या­माकैः कर्मपरः स औदुम्बरः । यस्तु जटावल्कलधारी अष्टौ प्रात­सा­न्वृ­त्त्यु­पा­र्जनं कृत्वा चातुर्मास्ये संगृहीताशी कार्तिक्यां संगृ­ही­त­पु­ष्प­फ­ल­त्यागी स वालखिल्यः । फेनपास्तु शीर्ण­प­र्ण­फ­ल­वृ­त्तयो यत्र क्वचिद्वसन्तः कर्मपरा इति । तथा परि­व्रा­जा­का­श्च­तु­र्विधाः कुटीचका बहूदका हंसाः परमहंसाश्चेति । तत्र स्वपुत्रगृहे भिक्षां चर­न्त­स्त्रि­द­ण्डिनः कुटीचकाः । बहूदकास्तु त्रिदण्डिनः शिक्य­ज­ल­प­वि­त्र­पा­दु­का­स­न­शि­खा­य­ज्ञो­प­वी­त­कौ­पी­न­का­षा­य­वे­ष­धा­रा­स्ती­र्था­न्य­टन्तो भैक्षं चरन्त आत्मानं प्रार्थयन्ते । हंसास्तु एकदण्डिनः शिखावर्जं यज्ञोपवीतधराः शिक्य­क­म­ण्ड­लु­पा­णयः ग्रामै­क­रा­त्र­वा­सिनः कृच्छ्र­चा­न्द्रा­य­ण­पराः । पर­म­हं­सा­स्त्वे­क­द­ण्ड­धरा मुण्डा अयज्ञोपवीतिनः त्यक्त­स­र्व­क­र्माण आत्मनिष्ठा इति । अत्र पूर्वपक्षे संन्या­सा­भा­वा­ञ्ज्ञा­नस्य स्वत­न्त्र­फ­ल­त्वा­सिद्धिः सिद्धान्ते तद्भा­वा­त्त­त्सि­द्धि­रिति फलभेदः । स्कन्धा आश्रमाः आत्मानं शरीरमाचार्यस्य कुले गृहे कर्शयन्नैष्ठिक इत्यर्थः ।

स्कन्ध­श्रु­ता­वा­श्रमा न विधीयन्ते किन्तु ब्रह्म­सं­स्थ­ता­स्तु­र्थ­म­नू­द्यन्त इत्युक्ते शङ्कते -
ननु परामर्शेऽपीति ।

अनु­वा­दा­पे­क्षि­त­पु­रो­वा­दा­त्प्र­ती­ति­म­ङ्गी­क­रोति -
सत्यमिति ।

प्रत्यक्षा स्कन्धश्रुतिरेव पुरोवादोऽस्तु नानुवाद इत्यत आह -
स्मृतीति ।

तयोरपि इयमेव श्रुति­र्मू­ल­मस्तु । कॢप्तश्रुतौ विधि­मा­त्र­क­ल्प­ना­ला­घ­वात् । अस्या अनुवादत्वे तु मूलत्वेन साग्नि­का­न­ग्नि­का­श्र­म­श्रु­ति­स्तत्र विधिश्चेति द्वय­क­ल्प­ना­गौ­र­वा­दि­त्यत आह -
अतश्चेति ।
स्मार्त­त्वा­दा­श्रमाः प्रत्य­क्ष­या­व­ज्जी­व­क­र्म­वि­धि­श्रु­त्य­वि­रुद्धा ग्राह्याः । विरु­द्धा­स्त्व­न­ग्नि­का­श्रमा उपेक्ष्याः कर्मा­न­धि­कृ­तै­र­न्धा­दि­भिर्वा अनुष्ठेया इत्यर्थः । याव­ज्जी­व­श्रु­ति­वि­रो­धा­ल्ला­घवं त्याज्यमिति भावः ।

स्कन्ध­श्रु­ता­व­नु­वा­द्य­त्वा­वि­शे­षा­द्गा­र्ह­स्थ्य­व­दि­त­रे­षा­म­नु­ष्ठे­य­त्व­मा­शङ्क्य तस्य श्रौत­त्वा­द­नु­ष्ठानं नेत­रे­षा­म­श्रौ­त­त्वा­दतो ब्रह्म­सं­स्थ­ता­स्तु­ति­प­र­मिदं स्कन्ध­वा­क्य­मि­त्याह -
नन्वित्यादिना ।
तन्तुं संततिम् ।

तथा ये चेति ।
तेऽर्चि­ष­म­भि­सं­भ­व­न्तीति वाक्य­शे­षा­दि­त्यर्थः ।

स्कन्धशब्दस्य आश्र­मे­ष्व­रू­ढ­त्वा­च्चात्र नाश्र­मि­वि­धि­रि­त्याह -
संदिग्धं चेति ।

तर्हि प्रव्र­ज­न्ती­त्या­श्र­म­वि­धि­री­त्यत आह -
तथैतमिति ।
आत्मलोको महीयान् यदर्थमशक्यां प्रव्रज्यामपि कुर्वन्तीति स्तुति­र्व­र्त­मा­ना­प­दे­शा­दि­त्यर्थः ।

संप्रति पूर्व­प­क्ष­मा­क्षि­प्येयं श्रुति­र्ना­स्ती­ति­कृत्वा चिन्त्यत इत्याह -
नन्वित्यादिना ॥१८॥

स्कन्ध­श्रु­ता­वि­त­रा­श्रमाः श्रुत्य­न्त­र­वि­हिता अनूद्यन्ते एत­द्वा­क्या­नु­वा­द्य­त्वा­द्गा­र्ह­स्थ्य­व­दिति सिद्धान्तयति -
अनुष्ठेयमिति ।

अनुवादस्य क्वचि­द्वि­धि­पू­र्व­कत्वे दृष्टान्तमाह -
यथा चेति ।
निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामिति वाक्ये दैवे कर्मण्युपवीतं विधीयते । तत्स्तुतये द्वयमनूद्यते । मानुषक्रियासु देहा­र्ध­व­स्त्र­ब­न्ध­ना­ख्य­नि­वी­तस्य सौकर्यार्ततया प्राप्त­त्वा­त्पित्र्ये कर्मणि प्राची­ना­वी­त­स्यापि विध्य­न्त­र­प्रा­प्त­त्वा­दि­त्यर्थः ।

वाक्यान्तरे च साक्षादेव पारि­व्रा­ज्य­वि­धि­र्वि­धेयैः साहित्यादित्याह -
तथैतमेवेति ।
अस्येति पारि­व्रा­ज्योक्तिः । विधे­य­वे­दा­नु­व­च­ना­दि­सा­हि­त्या­त्पा­रि­व्रा­ज्यस्य विधेयतेत्यर्थः ।

वाक्यान्तरेऽपि साम्यश्रुतिमाह -
ये चेति ।
अस्येति वानप्रस्थोक्तिः । विधे­य­प­ञ्चा­ग्नि­वि­द्यया तानप्रस्थस्य सहोक्त्या तदपि विधेयमित्यर्थः ।

श्रुत­त्रि­त्वा­न्य­था­नु­प­पत्त्या स्कन्धशब्दस्य आश्र­म­प­र­त्व­नि­श्चय इत्याह -
यत्तू­क्त­मि­त्या­दिना ।

उत्पत्तिभिन्ना इति ।
यजेताध्येतव्यं दद्यादीति पृथगुत्पन्ना इत्यर्थः ॥१९॥

स्कन्ध­श्रु­ते­र­नु­वा­द­क­त्व­म­ङ्गी­कृत्य विध्य­न्त­र­क­ल्प­ने­ना­श्रमा अनुष्ठेया इत्युक्तम् । इदानीं विधित्वं तस्या एव कल्प्यं लाघवादित्याह -
विधिर्वेति ।
याव­ज्जी­वा­दि­श्रु­ते­र­वि­र­क्त­वि­ष­य­त्वान्न लाघवबाधकत्वमिति भावः ।

अल्प­फ­ल­त्वे­ना­श्र­म­त्र­य­नि­न्दया ब्रह्म­सं­स्थ­ता­स्तु­ति­प­र­मे­क­मिदं वाक्यं भाति । तत्रा­श्र­म­वि­धि­च­तु­ष्ट­य­म­यु­क्त­मिति शङ्कते -
नन्विति ।

आश्रमाणां विध्य­न्त­र­प्रा­प्त्य­भा­वा­द­नु­वा­दा­यो­गात् । स्तुति­ल­क्ष­णा­दो­षाच्च वरं विस्प­ष्टा­श्र­म­वि­धि­भे­द­क­ल्प­न­म­पू­र्व­त्वा­दि­त्याह -
सत्यमित्यादिना ।

प्रती­तै­क­वा­क्य­त्व­भ­ङ्गेन भेदकल्पने दृष्टान्तमाह -
धारणवदिति ।
महापितृयज्ञे प्रेता­ग्नि­होत्रे च स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तस्य हवि­षःऽ­अ­ध­स्ता­त्स­मिधं धार­य­न्न­नु­द्र­वे­त्ऽ­इति विहि­ता­धो­धा­र­ण­स्ता­व­क­त­यो­परि हीत्य­स्यै­क­वा­क्य­त्व­भा­नेऽपि दैवे होमे स्रुग्दण्डोपरि समिद्धारणे विधि­रे­वा­पू­र्व­त्वा­दिति वाक्य­भे­द­स्तृ­ती­या­ध्याये जैमि­न्या­चा­र्ये­णोक्त इत्यर्थः ।

एवं चत्वार आश्रमा विधीयन्त इति पक्ष उक्तः । संप्र­त्या­श्र­म­त्र­या­नु­वा­देन पारि­व्रा­ज्य­मे­क­मेव विधीयत इति पक्षान्तरमाह -
यदापीत्यादिना ।

ब्रह्म­सं­स्थ­ता­विधौ कथं पारि­व्रा­ज्य­वि­धि­रि­त्या­शङ्क्य विचारयति -
सा चेति ।

ननु त्रय इति वाक्य आश्र­म­च­तु­ष्ट­य­स्या­प्रा­प्ते­र्नि­र्बी­जोऽयं विचार इत्याशङ्क्य तद्वाक्ये परिव्राजकः परामृष्टो न वेति संदिह्याद्ये पूर्व­प­क्ष­प्रा­प्ति­माह -
यदि चेति ।

नन्वनाश्रम्येव ब्रह्मसंस्थः किं न स्यादत आह -
अनाश्रमित्वेति ।
अनाश्रमी न तिष्ठेतेति निषेधादिति भावः ।

द्वितीये सिद्धा­न्प्रा­प्ति­माह -
अथेति ।

एवं परा­म­र्श­त­द­भा­वाभ्यां संशयमुक्त्वा पूर्वपक्षयति -
तत्रेति ।

वनस्थस्य ह्यसाधारणं कृच्छ्रादिकं तप इति प्रसिद्धम् । तेनैकेन तपः शब्दे­नो­भ­य­ग्र­ह­ण­म­न्याय्यं भिक्षो­स्त­प­स्वि­त्व­प्र­सि­द्ध्या­भा­वाच्च ॥ तथा च यज्ञा­द्य­सा­धा­र­ण­ध­र्म­द्वारा गृह­स्था­द्या­श्र­म­त्र­य­व­द्ब्र­ह्म­सं­स्थ­श­ब्दे­नैव ब्रह्म­नि­ष्ठा­प्र­धा­न­श्च­तु­र्था­श्रमो गृह्यते । स च स्तुति­सा­म­र्थ्या­त्सह ब्रह्मसंस्थया विधीयत इति सिद्धान्तयति -
तद­यु­क्त­मि­त्या­दिना ।

पृथ­ग्व्य­प­दे­शाच्च ब्रह्मसंस्थः पूर्वोक्तेभ्य आश्रमिभ्यः पृथग्भूत इत्याह -
अपि चेति ।
न चावस्थाभेदेन तेषामेव ब्रह्मसंस्था स्यादिति वाच्यम् । कालभेदेनापि सति मन्दप्रज्ञत्वे प्रज्ञा­धि­क्य­व­त्सति कर्मित्वे तेषां विक्षिप्तचेतसां ब्रह्म­सं­स्था­नु­प­पत्तेः । कर्मत्यागे च परिव्राडेव ब्रह्मसंस्थ इत्य­स्म­दि­ष्ट­सि­द्धि­रिति भावः ।

इममेवार्थं स्पष्टयितुं शङ्कते -
कथं पुनरिति ।

यद्यपि ब्रह्म­सं­स्थ­शब्दः संन्यासाश्रमे न रूढस्तथापि योगा­त्त­मे­वो­प­स्था­प­यति । अन्याश्रमेषु यौगि­का­र्था­स­म­वा­या­दि­त्याह -
अत्रोच्यत इति ।

सर्व­क­र्म­त्या­गिनः प्रण­वा­र्थ­ब्र­ह्म­नि­ष्ठा­ति­रे­के­णा­नु­ष्ठेयं नास्तीत्यत्र मानमाह -
तथा चेति ।

न्यासः संन्यासो ब्रह्मेति स्तुतौ हेतुमाह -
ब्रह्मा हीति ।
हिरण्यगर्भो हि पर इति प्रसिद्धः अतो ब्रह्मत्वेन स्तुतः संन्यासः पर एवेति स्तुत्वा कर्माणि निन्दति तानीति । ततो न्यास एव ज्ञानद्वारा मोचकत्वादधिक इत्यर्थः । तद्बुद्धये ब्रह्म­चि­त्ता­स्त­दा­त्मानो ब्रह्म­स्व­रू­पा­स्त­न्निष्ठाः श्रव­णा­दि­प­रा­स्त­त्प­रा­यणाः ब्रह्मप्रेप्सवः निष्कामा इति यावत् ।

एवं ब्रह्म­सं­स्थ­श­ब्दस्य ज्ञान­प्र­धा­ना­श्र­म­वा­चि­त्वा­द­मृ­त­त्व­का­म­स्त्व­मु­मा­श्र­म­म­नु­ति­ष्ठे­दिति विधिः परिणम्यते । अतो न ज्ञाना­न­र्थ­क्य­दोष इत्युपसंहरति -
तस्मादिति ।

संप्रति कृत्वा­चि­न्ता­मु­द्धा­ट­यति -
अनपेक्ष्येति ।
शिष्य­बु­द्धि­वै­श­द्यार्थं स्कन्ध­श्रु­ति­मा­दाय चिन्ता कृतेति भावः ।

यदिवेतरथेति ।
ब्रह्मचर्ये स्थितस्यैव पूर्व­सु­कृ­त­प­रि­पा­का­द्वै­राग्यं यदि स्यादित्यर्थः ।

यदुक्तं कर्मा­न­धि­कृ­ता­न्धा­दि­वि­षयः संन्यास इति तन्नेत्याह -
न चेति ।
सामान्यश्रुतेः संको­च­हे­त्व­भा­वा­दिति भावः ।

पृथगिति ।
संन्यासस्येति शेषः । व्रती गोदा­ना­दि­वे­द­व्र­त­वान् । गुरु­कु­ला­न्नि­वृ­त्ति­रू­प­स्ना­ना­न­न्त­र­म­कृ­त­गा­र्हस्थ्यो गुरुसेवी स्नातकः उत्स­न्ना­ग्नि­र्वि­धुरः अगृ­ही­ता­ग्नि­र­न­ग्निकः प्रव्र­जे­दि­त्य­न्वयः ।

सकलाङ्गानमेव कथ­ञ्चि­त्क­र्मा­न­धि­कृ­तानां संन्यासो युक्तः विकलाङ्गानां त्वन्धादीनां न ज्ञान­प्र­धा­न­सं­न्या­सा­धि­कार इत्याह -
ब्रह्मेति ।
दृष्टि­पू­त­सं­चा­र­श्र­व­णा­दिकं विना ज्ञाना­नु­त्पत्तेः । 'शरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि­वि­श्रु­वम्' इत्य­ङ्ग­सा­क­ल्य­प्रा­र्थ­ना­लि­ङ्गाच्च नान्ध­प­ङ्गु­मू­क­ब­धि­र­दी­ना­म­धि­कार इत्यर्थः ।

तच्चेति ।
पारिव्राज्यस्य ब्रह्म­ज्ञा­ना­ङ्गत्वं चेत्यर्थः । ब्रह्मभूयाय ब्रह्म­सा­क्षा­त्का­रा­येति यावत् ॥२०॥

स्तुतिमात्रम् ।
पृथि­व्य­बो­ष­धि­पु­रु­ष­वा­गृ­क्साम्नां सप्तानां रसानां रसतमोऽष्टम उद्गीथावयव ओङ्कारः परमः पर­मा­त्म­प्र­ती­क­त्वा­त्प­रस्य ब्रह्मणोर्ऽधं स्थानं तदर्हतीति परा­र्ध्य­मि­त्यर्थः ।

आसु श्रुती­ष्व­ङ्गो­पा­दा­ना­द­पू­र्वा­र्थ­त्वाच्च संशयमाह -
किमिति ।

यथा­नु­ष्ठे­य­गा­र्ह­स्थ्य­सा­म्य­श्रुतेः पारि­व्रा­ज्य­स्या­नु­ष्ठे­यत्वं तद्वदासां श्रुतीनां जुह्वा­दि­स्तु­ति­श्रु­ति­सा­म्या­त्स्तु­ति­त्व­मिति पूर्वपक्षयति -
स्तुत्यर्था इति ।
जुहूरियमेव पृथिवीति स्तूयते । चयनस्थः कूर्म आदित्य इति । आहवनीयः स्वर्गलोक इति स्तुतिः । तथोद्गीथादीनां रसतमत्वादिगुणैः स्तुतिरित्यर्थः ।

स्तुतिलक्षणातो वरं विधि­क­ल्प­न­म­नु­ष्ठा­न­फ­ल­ला­भा­दिति सिद्धान्तयति -
न हि स्तुतीति ।
पूर्वपक्षे स्वननुष्ठानं फलं सिद्धान्ते त्वनुष्ठानं फलमिति मन्तव्यम् ।

स्ताव­क­त्वे­ना­र्थ­वत्त्वं किं न स्यादित्यत आह -
विधायकस्येति ।
युक्तमियमेव जुहू­रि­त्या­दि­श्रु­तीनां फल­व­ज्जु­ह्वा­दि­वि­धि­प्र­क­र­ण­स्थ­तया स्ताव­क­त्वे­ना­र्थ­व­त्त्वं॑­र­स­त­मा­दि­श्रु­तीनां तु क्रत्व­ङ्ग­वि­धि­प्र­क­र­ण­स्थ­त्वा­भा­वा­त्फ­ल­व­द­पू­र्वो­पा­स्ति­वि­धा­य­क­त्व­मेव युक्तं क्रत्व­न्त­र­श्रु­ति­व­दिति भावः ॥२१॥

किञ्चात्र विधिकल्प्य इति कृत्वा­चि­न्त­योक्तं वस्तुतस्तु न कल्प्यः कॢप्त­त्वा­दि­त्याह -
भावेति ।
न चैव­मु­पा­सा­ना­वि­धि­स्ता­व­कत्वं रस­त­मा­दि­श्रु­ती­ना­मिति सांप्रतम् । विध्य­पे­क्षि­त­वि­ष­या­र्प­क­त्व­सं­भवे स्तुति­ल­क्ष­ण­यो­गा­दिति भावः ।

देवो मदिष्टं कुर्यादिति प्रार्थनादावपि लिङ्गा­दि­प्र­यो­गा­दु­पा­सी­ते­त्या­दि­श­ब्दानां कथं विधिपरत्वनिश्चय इत्यत आह -
तथा चेति ।
एतल्लिङ्गादिकं वेदेषूत्सर्गतो निय­मे­ने­ष्ट­सा­ध­न­त्वा­ख्य­वि­धे­र्ल­क्षणं ज्ञापकं स्यात् । उपपदादिबाधके त्वन्या­र्थ­प­र­मि­त्यर्थः ।

तदिदमाह -
लिङादीति ।
न च श्लोके पञ्च­म­मि­त्युक्तेः पञ्चपदानामेव विधिलक्षणत्वं नोपा­सी­ते­त्या­दी­ना­मिति भ्रमितव्यम् । क्रिया­सा­मा­न्य­वा­चिनां कृभ्व­स्ती­ना­मु­दा­ह­र­णेन सर्व­धा­तू­प­र­क्त­लि­ङा­दीनां विधिलक्षणत्वस्य विव­क्षि­त­त्वा­त्प­ञ्च­म­पदं तूक्तापेक्षया श्लोकपूरणार्थं मृत्युर्धावति पञ्चम इतिवत् । यद्यपि डुकृञ्करण इति धातेरेव कर­ण­श­ब्दि­त­भा­व­ना­ख्य­क्रि­या­सा­मा­न्य­वा­चित्वं नेत­र­यो­र्धा­त्वोर्भू सत्ता­या­म­स्भु­वी­त्य­र्था­न्त­रोक्तेः तथापि जन्माख्यभवनस्य तत्फ­ल­स्या­स्ति­त्वस्य च प्रयो­ज्य­नि­ष्ठस्य प्रयो­ज­क­व्या­पा­रा­त्म­क­भा­व­ना­व्या­प्त­त्वा­त्तयोः क्रिया­सा­मा­न्य­वा­चि­त्व­व्य­व­हारः । तत्र कुर्यादिति प्रकृ­त्य­र्थ­भा­व­ना­ख्या­ते­ना­नू­द्यते यथा द्वाविति प्रयोगे प्रकृत्यर्थो द्वित्वं प्रत्य­ये­ना­नू­द्यते । तद्वल्लिङा च तस्या इष्ट­सा­ध­न­त्वा­ख्य­वि­धि­र्बो­ध्यते । कर्ता तु तयाक्षिप्यत इत्या­क्षि­प्त­क­र्तृका भावनोदाहृता । तथा क्रिये­ते­त्य­त्रापि प्रकृ­ति­प्र­त्य­यार्थौ व्याख्यातौ । कर्मात्र प्राधा­न्ये­ना­क्षि­प्यत इत्या­क्षि­प्त­क­र्मि­का­भा­व­नो­दा­हृता । आख्यातानां कर्त्रादिकारके शक्त्य भावा­त्क­र्तृ­क­र्म­णो­रा­क्षेप एवेति मीमांसकमतम् । कर्तव्यमिति कृत्यप्रत्ययेन कर्मकारकमुच्यते । तस्यो­प­स­र्ज­न­त्वेन प्रकृत्या भावनोक्तेति भेदः । तथा दण्डी भवेत्भूयते दण्डिना भवि­त­व्य­मि­त्यु­दा­ह­र्त­व्यम् । तथा स्याद्भूयेत भवि­त­व्य­मि­त्य­स्ति­धा­तो­र­प्यु­दा­ह­रणं द्रष्टव्यम् । अस्ते­र्भू­रा­दे­शात् । एत­द्धा­तु­त्र­यो­प­र­क्त­लि­ङा­दिभिः सर्व­धा­त्व­र्थो­प­र­क्त­भा­व­ना­ग­ते­ष्ट­सा­धा­न­त्व­रूपो विधिरेक एवोच्यते । धातूनां प्रत्ययानां कर्त्रा­दि­का­र­काणां च भेदेऽपि विधिभेदो नास्तीति ज्ञापनार्थं प्रति­धा­तू­दा­ह­र­ण­त्रयं दर्शितमिति सर्वमवदातम् ।

एवं सूत्रे भावो विधिरिति व्याख्याय चशब्दात्फलमिति व्याचष्टे -
प्रतिप्रकरणमिति ।
एष ऋत्विगुपासकः कामागानस्य गानेन फल­सं­पा­द­न­स्येष्टे समर्थ इत्यर्थः । एव­म­ङ्गा­श्रि­त­विद्या अपि स्वतन्त्रफलाः किमु वक्त­व्य­म­न­ङ्गा­त्म­वि­द्यायाः स्वात­न्त्र्य­मिति । आत्म­वि­द्या­स्वा­तन्त्र्यो चिन्ताया अस्याः पर्य­व­सा­ना­त्पा­द­सं­ग­ति­र्बोध्याः ॥२२॥

पारिप्लवार्थाः ।

अश्वमेधे पुत्रा­दि­प­रि­वृ­ताय राज्ञे पारि­प्ल­व­मा­च­क्षी­तेति नाना­वि­धा­ख्या­न­क­थ­ना­त्मकः पारिप्लवप्रयोगो विहितः । तथा च वेदा­न्त­स्थ­क­था­ना­मा­ख्या­न­त्व­सा­मा­न्या­द्वि­द्या­सं­नि­धा­नाच्च संशयमाह -
किमिति ।
पूर्वं स्तुत्यपेक्षया विझि­र्ज्या­या­न­नु­ष्ठा­न­ला­भा­दि­त्यु­क्तम् । तथैव कथानां न विद्या­स्ता­व­कत्वं पारि­प्ल­वा­नु­ष्ठा­न­ला­भा­दिति पूर्वपक्षः ।

तत्र फलमाह -
ततश्चेति ।
यथा देवस्य त्वा सवि­तु­रि­त्या­दि­मन्त्रे कस्यचित्पदस्य प्रयो­ग­स­म­वे­ता­र्थ­तया शेषस्य प्रयोगाङ्गत्वं तथा वेदा­न्त­स्थ­क­थानां प्रयोगशेषत्वम् । तदेकवाक्यतया सर्ववेदान्तानां कर्मशेषत्वान्न विद्या­प्रा­धा­न्य­मि­त्यर्थः ।

कथानां गुरु­शि­ष्य­स­मा­चा­र­प्र­द­र्श­नेन बुद्धि­सौ­क­र्य­द्वारा संनि­हि­त­वि­द्या­शे­षत्वं साम­र्ध्य­लि­ङ्गा­दतो विद्या­प्रा­धा­न्य­मिति फलं मत्वा सिद्धान्तयति -
तन्नेत्यादिना ।
अश्वमेधे प्रथमऽहनि मनुर्वैवस्वत इति कथां ब्रूया­द्द्वि­ती­येऽ­हनि यमो वैवस्वत इति तृतीयेऽहनि वरुण आदित्य इति वाक्यशेषे कथानां विशि­ष्यो­क्त­त्वा­दु­प­क्र­मस्य संकोचो युक्त इति भावः ॥२३॥

क्व तर्हि कथानांविनियोग इत्याशङ्क्य संनि­धा­ना­द्वि­द्या­स्वि­त्याह -
तथा चेति ।
प्ररोचनं प्रीतिजननं स प्रजा­प­ति­र्व­पा­मु­द­खि­द­थो­मा­यो­द्धृ­त­वा­नि­त्यस्य प्राजापत्यमजं तूपरमालभेतेति विधिशेषत्वे एवमन्येषां तत्त­द्वि­धि­शे­षत्वं द्रष्टव्यम् ॥२४॥

एव­मा­द्या­धि­क­र­ण­प्र­मेयं विद्या­स्वा­त­न्त्र्य­म­धि­क­र­ण­त्र­येण दृढी­कृ­त्या­द्या­धि­क­र­णस्य फलमाह -
अत एव चेति ।

ब्रह्मविद्या स्वफले मोक्षे जनयितव्ये सहकारित्वेन कर्माण्यपेक्षते न वेति वादि­वि­वा­दा­त्सं­शये तेनैति ब्रह्म­वि­त्पु­ण्य­कृ­त्तै­जस इत्यादिश्रुत्या ज्ञान­क­र्म­स­मु­च्च­येन मोक्ष­प्रा­प्ति­क­थ­ना­द­पे­क्षत इति प्राप्ते विद्याया मुक्ति­हे­तु­त्वा­द­वि­द्या­नि­वृ­त्त्या­ख्य­मुक्तौ न कर्मापेक्षेति सिद्धान्तयति -
पुरुषार्थ इति ।
अग्नीन्धनपदेन तत्साध्यकर्माणि लक्ष्यन्ते । पुण्यकृत्तैजसः शुद्धसत्वे ब्रह्म­वि­द्भूत्वा तेन वेदनेनैति ब्रह्म प्राप्नोतीति श्रुति­र्व्या­ख्ये­येति भावः ।

मुक्तावेव कर्म­णा­म­सा­म­र्थ्या­द­न­पेक्षा विद्यायां त्वस्ति चित्त­शु­द्धि­द्वारा तेषा­म­पे­क्षे­त्य­धिकं वक्तुमयमुपसंहार इत्यु­प­सं­हा­र­सू­त्रस्य फलमाह -
अधिकेति ॥२५॥

अधिकमाह -
सर्वापेक्षा ।
यथा प्रमा­फ­ल­त्वा­द­वि­द्या­नि­वृत्तौ कर्मानपेक्षा तथा प्रमा­त्वा­द्वि­द्या­या­मपि प्रमा­क­र­ण­मा­त्र­सा­ध्यायां नास्ति कर्मापेक्षेति पूर्वपक्षः । तत्र विद्यार्थं कर्मा­नु­ष्ठा­ना­सिद्धिः । फलं सिद्धान्ते तत्सिद्धिरिति भेदः । अत्र विवि­दि­षा­या­मि­ष्य­मा­ण­ज्ञाने वा यज्ञादीनां कर्मणां हेतु­त्व­म­पू­र्व­त्वा­द्वि­धी­यते । प्रमाया अप्यु­त्प­त्ति­प्र­ति­ब­न्ध­क­दु­रि­त­क्ष­या­ख्य­शु­द्धि­द्वारा कर्म­सा­ध्य­त्व­सं­भ­वात् । नच पारंपर्ये तृती­या­श्रु­ति­वि­रोधः । ज्वालाद्वारा पारंपर्येऽपि काष्ठैः पचतीति प्रयोगात्, द्वार­स्या­व्य­व­धा­य­क­त्वात् । न च शुद्धे­र्द्वा­रत्वे मानाभावः । 'ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मणः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते' इति स्मृतेः ।

'अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते' इत्यादिश्रुत्या कर्मणा पापनिवृत्तौ ज्ञानेन मुक्त्य­भि­धा­ना­च्चेति सिद्धान्तयति -
इदमिति ।

नन्वत्र विविदिषन्तीति पञ्चमलकारेण विविदिषां भावयेयुरिति सनर्थेच्छैव भाव्यतया भाति । तां विष­य­सौ­न्द­र्य­ल­भ्य­त­यो­ल्लङ्घ्य वेदनं चेद्भा­व्य­मु­च्यते तर्हि वेद­न­म­प्यु­ल्लङ्घ्य तत्फलं मोक्ष एव कर्मभिर्भाव्यः किं न स्यादित्यत आह -
विवि­दि­षा­सं­यो­गा­च्चेति ।
इष्यमाणतया विद्यायाः शब्दतः फल­त्व­भा­ना­द­श्रु­त­मोक्षो न फलमन्यथा काष्ठैः पचतीत्यत्रापि काष्ठानां पाक­फ­ल­तृ­प्ति­हे­तु­त्व­प्र­स­ङ्गा­दिति भावः ।

कर्मणां ज्ञानार्थत्वे लिङ्ग­वा­क्या­न्याह -
अथेत्यादिना ।
कश्चिद्वेदभागः साक्षा­द्ब्र­ह्माख्यं पदं ब्रूते । कश्चित्तु ज्ञाना­र्थ­क­र्म­द्वा­रेति मत्वा सर्वे वेदान्ता इत्युक्तम् । स्पष्टमन्यत् ॥२६॥

एवं विद्योत्पत्तौ बहिरङ्गानि कर्मा­ण्यु­क्त्वा­न्त­र­ङ्गा­ण्याह -
शमेति ।

विद्या­स्तु­त्य­र्थ­त्वे­नै­क­वा­क्य­त्व­सं­भवे वर्त­मा­नो­क्ति­भ­ङ्गेन विधि­क­ल्प­न­म­युक्तं विद्या­वा­क्या­द्भे­द­प्र­स­ङ्गात् । अतस्तत्त्वमसीति शब्दमात्रलभ्या विद्येति परा­भि­प्रा­य­म­नू­द्या­ङ्गी­क­रोति -
तथापि त्विति ।
शमा­दे­रा­व­श्य­क­त्वान्न शब्दमात्रलभ्या विद्येत्यर्थः ।

यस्मादेवंविन्न लिप्यते कर्मणा पापकेन तस्मादेव विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति विधिर्गम्यत इत्याह -
नेति ब्रूम इति ।
अत्रोपरतपदेन संन्यास उक्तस्तस्य श्रवणाङ्गत्वमते शमा­दि­वि­शि­ष्ट­श्र­व­ण­मत्र विधीयते । यदि तुऽलोकमिच्छन्तः प्रव्र­ज­न्तिऽ,ऽ­ज्ञानं पुरस्कृत्य संन्य­से­त्ऽ­इ­त्यादि श्रुतिस्मृतिषु फल­व­त्त्वे­नो­त्प­न्न­सं­न्या­स­स्या­ङ्ग­त्वा­यो­गात्, श्रोतव्य इति विहि­त­श्र­व­णा­नु­वा­दे­ना­ने­क­श­मा­दि­वि­धाने वाक्य­भे­दा­पा­तात्, पश्येदिति च प्रकृत्या श्रव­ण­ल­क्ष­णा­दो­षाच्च संन्यासो न श्रवणस्याङ्गं किन्तु ततः प्राग­नु­ष्ठो­य­त्वेऽपि श्रव­ण­व­ज्ज्ञा­नार्थ इति मतं तदा शमादिसमुच्चयेन ज्ञानं भावयेदिति ज्ञानार्थं शमा­दि­स­मु­च्च­य­वि­धि­रि­त्य­न­व­द्यम् ।

यः पूर्वं यज्ञादिश्रुतेः स्तुत्य­र्थ­त्वा­ङ्गी­कारः आपाततो गुड­जि­ह्वि­का­न्या­येन शमा­दि­स्वी­का­रार्थं कृतस्तमिदानीं त्यजति -
यज्ञादीन्यपीति ।
यज्ञादीनां विद्या­सा­ध­न­त्व­रू­प­सं­यो­ग­स्या­पू­र्व­त्वा­द­वा­न्त­र­वा­क्य­भे­देन विधिः स्वीक्रियत । ब्रह्म­वि­द्या­वा­क्येन महा­वा­क्यै­क­वा­क्यता चेत्यर्थः ।

पर­म­प्र­क­र­णेऽ­प्य­वा­न्त­र­वि­धि­रि­त्यत्र पूर्व­त­न्त्र­सं­म­ति­माह -
तस्मात्पूषेति ।
दर्श­पू­र्ण­मा­स­प्र­क­रणे श्रुतं पूषा प्रपिष्टभाग इति । तत्र पूषा देवता पिष्टभागो वा दर्श­पू­र्म­मा­स­यो­र्नास्ति । अतः समा­सा­त्प्र­ती­तस्य काल­त्र­या­न­व­मृ­ष्टस्य द्रव्य­दे­व­ता­सं­ब­न्ध­स्या­वि­ना­भा­वेन याग­वि­ध्यु­प­स्था­प­क­त्वा­त्प्र­यो­ग­ज्ञा­नाय विधि­प­द­म­ध्या­हृत्य प्रक­र­णा­दु­त्क­र्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ संबन्धः । पौष्णं पेषणमिति सूत्रे विचा­रि­त­मि­त्यर्थः ।

'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' इत्याद्याः स्मृत्यः । कर्मणां ज्ञानहेतुत्वे शमा­दि­व­द्या­व­ज्ज्ञा­नो­द­य­म­नु­वृत्तिः स्यात्तथाच संन्यासाभाव इत्यत आह -
तत्रापीति ।
दृष्ट­वि­क्षे­प­नि­वृ­त्ति­द्वारा शमादीनां शाना­र्थ­त्वा­द­नु­वृ­त्तिर्न कर्म­णा­म­दृ­ष्ट­द्वारा ज्ञाना­र्थ­त्वा­दिति भावः ॥२७॥

सर्वान्नानुमतिः ।
एवंविदि प्राणस्यान्नं सर्वमिति ध्यानवतीत्यर्थः । जग्धं भक्षितम् । अपू­र्व­त्वा­द्वि­ध्य­श्रु­तेश्च संशयः ।

अपू­र्व­त्वा­द्य­ज्ञा­दि­व­द्विधिः कल्प्य इति इति पूर्वपक्षयति -
विधिरिति ।
अत्र भक्ष्या­भ­क्ष्य­नि­य­म­त्या­गस्य विद्या­ङ्ग­त्व­सिद्धिः फलं सिद्धान्ते तु विद्या­स्तु­ति­रिति विवेकः ।

न कलञ्जं भक्ष्येदिति शास्त्रं प्राण­वि­द्व्य­ति­रि­क्त­वि­ष­यम् । यथा ग्राम्यकर्मणि वाम­दे­व्य­सा­मो­पा­स­क­व्य­ति­रि­क्त­वि­षयं पर­स्त्री­नि­षे­ध­शास्त्रं तद्वदिति प्राप्ते सिद्धान्तं सूत्राद्बहिरेव दर्शयति -
नेदमिति ।
प्राण­वि­द्या­वि­धि­सं­नि­धे­र­श­क्य­त्वाच्च स्तुतिरेव न विधिः कल्प्यः निषे­ध­शा­स्त्र­वि­रो­धा­त्कॢप्तो हि विधिः सामा­न्य­शा­स्त्र­बा­धको नतु कल्प्य इति भावः ।

स्वस्थस्य प्राणविदो न सर्वा­न्ना­नु­म­ति­रि­त्यत्र लिङ्गं वदन् सूत्रं योजयति -
तद्दर्शयतीति ।
मटच्यो रक्त­क्षु­द्र­प­क्षि­ण­स्तै­र्ह­तेषु कुरु­दे­श­स्थ­स­स्येषु दुर्भिक्षे जाते बालया सह जायया मुनिर्देशान्तरं गच्छ­न्नि­भ्या­ग्रामे स्थितवानिभ्यो हस्तिपालकस्तेन सामि­खा­दि­ता­न­र्ध­भ­क्षि­तान् कुत्सितमाषान् याचयित्वा भक्षितवान् । इभ्वेन जलं गृहाणेत्युक्ते सत्युच्छिष्टं वै मे पीतं स्यादिति प्रतिषिध्य माषाः किं नोच्छिष्टा इतीभ्येनोक्ते सति माषभक्षणे जलत्यागे च कारणमुवाच । अन्नांशे मम आपदस्ति । जलपानं तु स्वेच्छा­त­स्त­डा­गादौ लभ्यत इति माषान् खादि­त्वा­व­शि­ष्टा­ञ्जा­यायै दत्तवान् । सा चानापद्गता पत्युरापदं ज्ञात्वा माषान्संरक्ष्य प्रातस्तस्मै ददौ । स च तान् खादित्वा राज्ञो यज्ञं गत्वा प्रस्तो­त्रा­दी­ना­क्षिप्य प्राणादिकां प्रास्ता­वा­दि­दे­व­ता­मु­प­दीश्य धनं प्राप्य स्थित इति भावः । अत्रो­च्छि­ष्ट­भ­क्ष­ण­ज­ल­त्या­गा­त्म­क­शि­ष्टा­चा­र­लि­ङ्गा­च्छ्रौ­ता­द­ना­पदि विदु­षा­प्य­भक्ष्यं न भक्षणीयमिति सूच्यत इति भावः ॥२८ ॥ ॥२९॥

सुरापानेनापि जीवनमाशङ्क्य कदापि तन्न कार्यमित्याह -
तथा मद्यं नित्यं ब्रह्मण इति ।
वर्जयोदिति शेषः ।

कुत इत्याशङ्क्य मर­णा­न्त­प्रा­य­श्चि­त्त­वि­धा­ना­दि­त्याह -
सुरापस्येति ।
उष्णामतितप्तां सुरामिति शेषः ।

इतश्च सा न पेयेत्याह -
सुरापा इति ॥३०॥

उदाहृतस्मृतीनां मूलश्रुतिमाह -
शब्दश्चेति ।
कामकारो यथे­ष्ट­प्र­वृत्तिः सोऽपि निषेधोऽपि उपपन्नतरो भवति । न ह वा एवं­वि­दी­त्य­स्या­र्थ­वा­द­त्वात् । यद्ययमपि विधिः स्यात्तर्हि विहि­त­प्र­ति­षि­द्ध­त्वा­त्षो­ड­शि­ग्र­ह­णा­ग्र­ह­ण­व­त्सु­रा­पाने विकल्पः स्यात्स च सर्वस्मृतिभिः शिष्टाचारेण च विरुद्ध इति तात्पर्यार्थः ॥३१॥

विहि­त­त्वा­च्चा­श्र­म­क­र्मापि ।

नित्या­ग्नि­हो­त्रा­दि­क­र्मसु विहि­त­त्वा­द्वि­नि­यु­क्त­वि­नि­यो­ग­वि­रो­धाच्च संशये शास्त्रा­न्त­र­वि­रो­धा­त्स­र्वा­न्न­त्वोक्तेः स्तुति­त्व­व­न्नि­त्य­वि­नि­यु­क्त­त्व­श्रु­ति­वि­रो­धा­द्वि­वि­दि­षायां विनियोगश्रुतेः स्तुतित्वमिति पूर्वपक्षमाह -
तत्रेति ।
ज्ञान­का­म­न­या­नु­ष्ठाने कर्म­णा­म­नि­त्य­त्व­म­ना­व­श्य­क­त्वम् । तस्या अनि­त्य­त्वा­द्या­व­ज्जी­वा­दि­वि­धिना तु नित्यत्वं चेति विरु­द्ध­ध­र्म­द्व­या­पा­ता­द्वि­वि­दि­षा­श्रुतेः स्तुतित्वमिति फलं पूर्वपक्षे । सिद्धान्ते तूभयथानुष्ठानं फलम् ॥३२॥

सह मिलित्वा शुद्धिद्वारा विद्यां कुर्वन्तीति सहकारीणि कर्माणि । तेषां भावस्तत्वं तेनेत्यर्थः । विद्यया सह फलकारित्वं सह­का­रि­प­दा­त्प्राप्तं निरस्यति -
न चेदमिति ।
विद्याया अवि­हि­त­त्वा­न्ना­ङ्ग­पे­क्षास्ति । अतो विहितानि कर्माणि अविहिताया न सहकार्यङ्गानि मोक्ष­स्या­सा­ध्य­त्वाच्च न कर्माणां सहकारित्वसंभव इत्यर्थः । तुल्य­ब­ल­श्रु­ति­द्व­येन विनि­यो­ग­पृ­थक्त्वं संयोगभेदस्ततो न विरोधः । कामनाया अनित्यत्वेऽपि कर्मणां नानित्यत्वं नित्यविधिना प्रयोगस्य नित्यत्वात् । सत्यां कामनायां काम्यप्रयोगेनैव नित्य­त्व­सि­द्धेर्न कश्चिद्विरोधः । इदञ्चऽएकस्य तूभयत्वे संयो­ग­पृ­थ­क्त्व­म्ऽ­इति सूत्रे चिन्तितम् । यथाऽखादिरो यूपो भवतिऽइति श्रुत्या खादिरत्वस्य क्रत्वर्थता खादिरं वीर्यकामस्येति श्रुत्या पुरुषार्थता चेति । अतः सति वाक्यद्वये विनि­यु­क्त­वि­नि­योगो न विरुध्यत इत्यर्थः ॥३३॥

ननु नित्या­ग्नि­हो­त्रा­दिभ्यो भिन्ना एवा­पू­य­र्व­ज्ञा­दयो विविदिषायां विनियुज्यन्तां तत्र कुतो विनि­यु­क्त­वि­नि­यो­ग­स्त­त्राह -
सर्वथापीति ।
नित्यत्वे काम्यत्वे चेत्यर्थः । कुण्डपायिनामयने मासमग्निहोत्रं जुह्व­ती­त्या­ख्या­तस्य साध्य­हो­म­वा­चि­त्वा­त्त­दे­का­र्थ­का­ग्नि­हो­त्र­प­दस्य व्यव­हि­त­सि­द्धा­ग्नि­हो­त्र­प­रा­म­र्श­क­त्वा­यो­गा­न्मा­स­गु­ण­वि­शिष्टं कर्मान्तरं विधीयत इति युक्तमिह तु यज्ञेनेत्यादि सुब­न्ता­ना­मा­ख्या­ते­नै­का­र्थ­त्वा­भा­वा­त्सि­द्ध­व्य­व­हि­त­क­र्मा­नु­वा­द­क­त्वा­त्ते­षा­मेव कर्मणां ज्ञाना­र्थ­त्व­वि­धि­रिति भावः ।

सिद्धकर्मसु संस्का­र­त्व­प्र­सि­द्धि­रपि शुद्धा­ख्य­सं­स्का­र­द्वारा ज्ञाना­र्थ­क­क­र्मा­भेदे लिङ्गमित्याह -
यस्यैत इति ॥३४॥

ब्रह्म­च­र्या­दि­क­र्मणां प्रति­ब­न्ध­ध्वं­स­द्वारा विद्यार्थत्वे लिङ्गमाह -
अनभिभवं चेति ॥३५॥

अन्तरा चापि तु तद्दृष्टेः ।
अनाश्रमिणां जपा­दि­क­र्म­स­त्त्वा­न्नि­न्दि­त­त्वाच्च संशये सति आश्रमकर्मणामेव विद्या­हे­तु­त्व­श्रु­ते­र­ना­श्र­मस्य निन्दि­त­त्वा­च्चा­न­धि­कार इति पूर्वपक्षः । तत्रा­ना­श्र­म­क­र्मणां विद्या­हे­तु­त्वा­सिद्धिः । सिद्धान्ते तत्सिद्धिरिति फलम् ॥३६ ॥ ॥३७॥

रैक्वादीनां विद्या­व­त्त्व­लि­ङ्गस्य जन्मा­न्त­रा­श्र­म­क­र्म­णा­न्य­था­सि­द्धे­र­ना­श्र­म­क­र्मणो विद्या­र्थ­त्व­प्रा­पकं मानान्तरं वाच्यमिति शङ्कते -
ननु लिङ्गमिति ।

अना­श्र­मि­त्वा­वि­रु­द्धानां वर्ण­मा­त्र­प्रा­प्त­ध­र्माणां विद्यार्थत्वे मानमाह -
तथा चेति ।
मैत्रो दयावानित्यर्थः ।

नन्वनाश्रमिणां कर्म भवतु विद्या­हे­तु­स्त­थापि तेषां न श्रवणादावधिकारः संन्या­सा­भा­वा­दि­त्यत आह -
दृष्टार्था चेति ।
बन्ध­का­ज्ञा­न­ध्व­स्ति­फ­ल­क­वि­द्या­का­मस्य श्रवणेऽधिकारः । संन्यासोऽपि कदाचित्कृतो ज्ञान उपकरोति श्रवणं प्रत्य­न­ङ्ग­त्वा­दिति भावः ॥३८॥

तर्ह्या­श्र­मित्वं वृथेत्यत आह -
अतस्त्विति ।
पुण्यकृत्तैजसः शुद्धसत्वस्तेन ज्ञानमार्गेणैति ब्रह्म प्राप्नो­ती­त्यर्थः ॥ अत्र पुण्य­कृ­त्त्व­लि­ङ्गा­दा­श्र­मित्वं ज्यायः पुण्योपचये शीघ्रं विद्या­ला­भा­द­ना­श्र­मस्य निन्दि­त­त्वा­च्चेति भावः ॥३९॥

तद्भूतस्य तु ।
उत्त­मा­श्र­मा­त्पू­र्वा­श्रमं प्राप्तस्य प्रच्युतस्य कर्मापि विद्या­हे­तु­र­ना­श्र­मि­क­र्म­व­दिति संगतिः, पूर्वपक्षफलं चैतत् । सिद्धान्ते तु भ्रष्टस्य कर्म न हेतुरिति फलम् । रागा­दि­प्रा­ब­ल्या­त्प्र­च्यु­ति­नि­षे­धाच्च प्रच्युतिः प्रामाणिकी न वेति संशयः ।

सिद्धान्तसूत्रे नियमं व्याचष्टे -
तथा हीति ।
अत्यन्तमिति नैष्ठिकत्वनियमः । अर­ण्य­मि­त्ये­का­न्तो­प­ल­क्षितं पारिव्राज्यं गृह्यते । तदि­या­द्ग­च्छे­दिति पदं शास्त्र­मा­र्ग­स्त­त­स्त­स्मा­त्पा­रि­व्रा­ज्यान्न पुनरेयान्न प्रच्यवेदिति उनि­ष­द्र­ह­स्य­मि­त्यर्थः ।

अतद्रूपं प्रच्युतौ प्रमाणाभावं व्याचष्टे -
यथा चेति ।

शिष्टा­चा­रा­भा­व­माह -
न चैवमिति ।
'चण्डालाः प्रत्य­व­सिताः' इति स्मृतेश्च पतितानां कर्म निष्फलमिति भावः ॥४०॥

न चाधिकारिकम् ।
अवकीर्येत व्यभि­च­रे­दि­त्यर्थः । अवकीर्णं योनौ निषिक्तं रेतोऽ­स्या­स्ती­त्य­व­कीर्णी । अत्र प्रच्युतस्य प्रायश्चित्तं स्यान्नवेति उप­पा­त­क­त्वा­त्प­त­न­स्मृ­तेश्च संशयः ।

प्रच्युतस्य यज्ञादिकं निष्फ­ल­मि­त्युक्तं तद्व­त्प्रा­य­श्चि­त्त­मापि निष्फलमिति पूर्वपक्षयति -
नेत्युच्यत इति ।
अत्र कृत­प्रा­य­श्चि­त्तस्य कर्म ज्ञानहेतुर्न भवतीति फलं सिद्धान्ते तु भवतीतिदः । यथोपनयनकाले होमो लौकिकाग्नावेव कार्यः । दार­सं­ब­न्धो­त्त­र­का­ल­वि­हि­ता­धा­नस्य संप्र­त्य­प्रा­प्त­का­ल­त्वे­ना­ह­व­नी­या­भा­वा­त्त­द्व­द­व­की­र्णिनो ब्रह्मचारिणः प्राय­श्चि­त्त­प­शु­र्ग­र्दभो लौकिकाग्नौ होतव्य इत्यधिकारलक्षणे षष्ठाध्याये निर्णीतं प्राय­श्चि­त्त­मा­धि­का­रिकं तदु­प­कु­र्वा­ण­स्यैव न नैष्ठिकस्येति प्राप्ते सिद्धान्तयति ॥४१॥

उपपूर्वमिति ।
उपपदं पूर्वं यस्य पातकस्य तदु­प­पा­त­क­मि­त्यर्थः । ऽप्रायश्चित्तं न पश्यामिऽइति दर्श­ना­भा­व­स्मृतेः प्राय­श्चि­त्ता­भा­वा­प­रत्वं कल्पयित्वा तन्मू­ल­श्रु­ति­क­ल्प­ना­त्प्रा­गेव कॢप्त­सा­धा­र­ण­श्रुत्या प्राय­श्चि­त्त­स­द्भा­व­सिद्धेः । कल्पनं नोदेति कॢप्त­श्रु­ति­वि­रो­धा­दिति भावः ।

प्रायश्चित्तस्य भावा­भा­व­सिद्ध्योः समत्वेऽपि भावप्रसिद्धिः श्रुति­मू­ल­त्वा­दा­द­र्त­व्ये­त्यत्र संमतिमाह -
तदुक्तमिति ।
यव­म­य­श्च­रू­रि­त्यत्र यव­श­ब्द­ङ्के­चि­द्दी­र्घ­शूके प्रयुञ्जते केचिद्देशविशेषे प्रियङ्गुषु । अतः कस्य चरुः कार्य इति संदेहे वृद्ध­प्र­यो­ग­सा­म्या­त्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादिति प्राप्ते सिद्धा­न्तः­शा­स्त्र­मूला प्रति­प­त्ति­र्ग्राह्या शास्त्र­नि­मि­त्त­त्वा­द्ध­र्मा­दि­ज्ञा­नस्य । तथाचऽयदान्या ओषधयो म्लायन्त्यथैते यवा मोद­मा­ना­स्ति­ष्ठन्ति, इति शास्त्र­मू­ल­त्वा­द्दी­र्घ­शू­क­प्र­यो­ग­स्यै­वा­दर इत्यर्थः ।

स्मृतेर्गतिमाह -
प्रायश्चित्तेति ।
ब्रह्म­च­र्य­र­क्षार्थं यत्नाधिक्यं कार्यमिति ज्ञापनार्थं प्रायश्चित्तं स्पष्टमपि न पश्यामीत्युक्तं भग­व­द­त्रि­णे­त्यर्थः ।

नैष्ठि­क­व­द्य­ति­व­न­स्थ­यो­रपि प्रमा­दा­द्ब्र­ह्म­च­र्य­भङ्गे प्राय­श्चि­त्त­म­स्ती­त्याह -
एवमिति ।
कृच्छ्रं प्राजापत्यं महाकक्षं बहुतृणकाष्ठदेशं जलदानादिना वर्धयेत । यतिस्तु सोमलतावर्जं वर्धयेत् । ऽस­र्व­पा­प­प्र­स­क्तोऽपि ध्याय­न्नि­मि­ष­म­च्यु­तम् । भूयस्तपस्वी भवति पङ्क्तिपावन एव च । उपापातकसङ्घेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥ ऽइ­त्या­दि­स्व­शा­स्त्र­वि­हि­त­ध्या­न­प्रा­णा­या­मा­दि­सं­स्का­रोऽपि भिक्षुणा कार्य इत्यर्थः । आदि­प­दा­त्ऽ­म­नो­वा­क्का­य­जा­न्दो­षा­न­ज्ञा­नो­त्था­न्प्र­मा­द­जान् । सर्वान्दहति योगा­ग्नि­स्तू­ल­रा­शि­मि­वा­नलः । नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासा­त्पु­न­न्त्य­ह­रहः कृताः । ऽइत्यादिवाक्यं ग्राह्यम् ॥४२॥

बहिस्तूभयथापि ।

कृत­प्रा­य­श्चि­त्तैस्तैः सह कृतश्रवणादिकं ज्ञानसाधनं न वेति संदेहे तेषां शुद्ध­त्वा­त्सा­ध­न­मिति प्राप्ते प्राय­श्चि­त्ता­त्प­र­लोके तेषां शुद्ध­त्वेऽ­प्यत्र शुद्धभावान्न साधनमिति सिद्धान्तयति -
यद्यूर्ध्वेति ।
सुगमं भाष्यम् ॥४३॥

स्वामिनः फलश्रुतेः ।
अङ्गा­श्रि­तो­पा­स्ति­षू­भ­य­क­र्तृ­क­त्व­सं­भ­वा­त्सं­शयः ।

यः कृत­प्रा­य­श्चित्तः स संव्यवहार्य इत्युत्सर्गस्य निन्दा­ति­श­य­स्मृत्या नैष्ठिकादिषु बाधवद्यो यदङ्गकर्ता स तदाश्रितस्य कर्ते­त्यु­त्स­र्गस्य कर्तुः फलश्रुत्या बाध इति पूर्वपक्षमाह -
किमिति ।
अत्र कर्तृ­त्व­भो­क्तृ­त्व­यो­रै­का­धि­क­रण्यं फलं सिद्धान्ते त्वङ्गाश्रिता ऋत्विक्कर्तृका अप्युपास्तयो यज­मा­न­गा­मि­स्व­त­न्त्र­फलाः किमु वाच्यं स्वनि­ष्ठ­ब्र­ह्म­वि­द्यायाः स्वात­न्त्र्य­मिति फलं विवेक्तव्यम् । अतः पादसंगतिः हिङ्का­र­प्र­स्ता­वो­द्गी­थ­प्र­ति­हा­र­नि­ध­ना­ख्य­प­ञ्च­प्र­कारे साम्नि वृष्टि­ध्या­तु­र्व­र्ष­स­मृद्धिः फलमिति श्रुत्यर्थः ।

श्रुतं फलमृत्विग्गतं किं न स्यादित्यत आह -
तच्चेति ।
यथा­सा­ङ्ग­क्र­त्व­धि­कृ­ता­धि­का­र­त्वा­द्गो­दो­ह­नस्य फलं क्रत्वधिकारिगतं तद्व­द­ङ्गो­पा­स­न­स्यापि फलं तद्ग­त­मे­वे­त्यर्थः ।

अस्तु तस्य फलं तद्गतं कर्तात्वन्यः किं न स्यादित्यत आह -
फलं चेति ।

यदुक्तं यजमानागामि फलमिति तस्यापवादं शङ्कते -
नन्विति ।
उद्गानेन साधयतीत्यर्थः । याजमानं फल­मि­त्यु­त्स­र्ग­स्या­सति बाधकवचने सिद्धिरिति समाध्यर्थः । तस्मा­त्फ­ल­भो­क्तृ­त्वा­दि­त्यर्थः ॥४४॥

उपा­स­न­मा­र्त्वि­ज्य­मृ­त्वि­क्क­र्तृ­क­मि­त्यत श्रौतं लिङ्गमाह -
तथा चेति ।
तमुद्गीथाख्यं प्रणवं प्राणदृष्ट्या ध्यात­वा­न्ध्यात्वा च नैमिशीयानां सत्रि­णा­मु­द्गा­ता­सी­दि­त्यर्थः । यजमानेन स्वगा­मि­फ­ल­क­सा­ङ्ग­प्र­यो­ग­क­र­णा­य­र्त्विजां क्रीत­त्वा­त्क­र्तृ­त्वेऽपि न तत्फ­ल­भा­क्त्व­मु­त्स­र्गस्य बाध­का­भा­वा­दि­त्यु­क्त­त्वात् । क्रयणद्वारा कर्तृ­त्व­भो­क्तृ­त्व­सा­मा­ना­धि­क­रण्यं चोपपद्यते भृत्यकर्तृके युद्धे राजा युध्यते जयति चेतिवदिति भावः ॥४५ ॥ ॥४६॥

सह­का­र्य­न्त­र­विधिः ।
यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वा संन्यस्य भिक्षाचर्यं चरन्ति तस्मादद्यतनोऽपि ब्राह्मण आपा­त­ज्ञा­न­रू­प­प­ण्डा­वा­न्प­ण्डि­त­स्तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन श्रवणजज्ञानस्य बलभावेन मन­ने­ना­सं­भा­व­ना­नि­रा­सेन बालस्य भावेन वा शुद्धचित्तत्वेन स्थातु­मि­च्छे­देवं मननश्रवणे कृत्वादानन्तरं मुनि­र्नि­दि­ध्या­स­न­कृ­त्स्या­दे­व­म­मौनं च मौना­द­न्य­द्बा­ल्य­पा­ण्डि­त्य­द्वयं मौनं च निदिध्यासनं लब्ध्वा अथ ज्ञान­सा­म­ग्री­पौ­ष्क­ल्या­न­न्तरं ब्रह्माहमिति साक्षात्कारवान् ब्राह्मणो भवतीत्यर्थः । मौनशब्दस्य सिद्धरूपे पारिव्राज्ये अनुष्ठेये च ध्याने प्रयोगात्संशयः ।

यथा तं ह बक इत्या­दि­वा­क्य­शे­षा­दु­द्गी­था­द्यु­पा­स­न­स्या­र्त्वि­ज्य­त्व­नि­र्ण­य­स्त­द्व­दथ ब्राह्मण इति विधि­ही­न­वा­क्य­शे­षा­न्मौ­न­स्या­प्य­वि­धे­य­त्व­नि­श्चय इति पूर्वपक्षमाह -
न विधीयत इति ।
अत्र ध्यान­स्या­न­नु­ष्ठानं सिद्धान्ते त्वनुष्ठानमिति फलम् । यदि मौनं पारिव्राज्यं तदा वाक्या­न्त­र­प्रा­प्त­म­नू­द्यते बाल्य­वि­धि­प्र­शं­सा­र्थम् । यदि ज्ञानं तदा पाण्डि­त्य­श­ब्दा­त्प्रा­प्त­मिति पूर्व­प­क्ष­ग्र­न्थार्थः ।

मुनि­श­ब्दा­द्वि­ज्ञा­ना­ति­शयः प्रतीयते तस्य ज्ञान­मा­त्र­वा­चि­पा­ण्डि­त्य­श­ब्दान्न प्राप्तिः । नापि मुनिशब्दः परिव्राड्वाचकः वाल्मीक्यादिषु प्रयु­ज्य­मा­न­त्वात् । तस्मादप्राप्तं मौन­म­पू­र्व­त्वा­द्विधिं कल्प्यतीति सिद्धान्तयति -
एवमित्यादिना ।

आप­स्त­म्ब­प्र­यो­गस्य गतिमाह -
इतराश्रमेति ।

किञ्चामौनं च मौनं च निर्विद्येति श्रव­ण­म­न­न­व­द­नु­ष्ठे­य­त्वो­क्ते­र्मौ­नस्य विधेयतेत्याह -
निर्वे­द­नी­य­त्वेति ।
न च त्रयाणां विधाने वाक्यभेदो दोषः । उप­रि­धा­र­ण­व­दि­ष्ट­त्वा­त्त­द्वा­क्य­भे­द­स्येति भावः ।

कस्येदं ध्यानं विधीयत इत्याह -
तद्वत इति ।
आत्मानं विदित्वेति परोक्षज्ञानवतः संन्यासिनः प्रकृ­त­त्वा­दि­त्यर्थः ।

सूक्ष्मा­र्थ­सा­क्षा­त्का­र­सा­ध­न­त्वेन ध्यानादेः षड्जादौ लोकतः प्राप्तिं शङ्कित्वा नियमविधिमाह -
नन्वित्यादिना ।

ननु ब्रह्मविद्यापरे वाक्ये कथं ज्ञानाङ्गमिति चेत्स­फ­ल­क्र­तु­प­र­वा­क्येऽ­ङ्ग­वि­धि­व­दि­त्याह -
विध्यादिवदिति ।
प्रधा­न­मा­र­भ्या­ङ्ग­प­र्यन्तो विधिः । तत्र प्रधानः क्रतु­र्वि­ध्या­दि­रत एवाङ्गं विध्यन्त इत्युच्यत इत्यर्थः । एत­त्सू­त्र­भा­ष्य­भा­वा­न­भिज्ञाः संन्या­सा­श्र­म­ध­र्म­श्र­व­णादौ विधिर्नास्तीति वदन्ति । विधौ ह्यप्रा­प्ति­मा­त्र­म­पे­क्षितं तच्च भेद­द­र्श­न­प्रा­ब­ल्या­द्द­र्शि­त­मिति संप्रदायविदः ॥४७॥ समावर्तनानन्तरं कुटुम्बे स्थितो ब्रह्मलोकं प्राप्नोति नच पुनरावर्तत इत्यु­प­सं­हा­रा­त्सं­न्यासो नास्तीति शङ्कार्थः । आया­स­वि­शि­ष्ट­क­र्म­बा­हु­ल्या­द्गृ­हि­णो­प­सं­हारः कृतो न संन्यासाभवादिति समाध्यर्थः ॥४८॥

संन्या­स­गा­र्ह­स्थ्य­द्व­य­मत्र सूत्रकृतोक्तम् । ततोऽ­न्य­दा­श्र­म­द्वयं नास्तीति कस्यचिद्भ्रमः स्यात्तं निरस्यति -
मौनवदिति ।
आश्र­म­द्व­य­व­दि­त्यर्थः । इतरयोरपीति वाच्ये बहू­क्ति­र­वा­न्त­र­भे­द­म­पेक्ष्य । स चास्माभिः प्राग्दर्शितः ॥४९॥

अना­वि­ष्कु­र्व­न्न­न्व­यात् ।

तत्र बाल्ये विषये तद्धितस्य भावा­र्थ­त्वा­सं­भ­वा­त्क­र्मा­र्थत्वं गृहीत्वा तिष्ठ­न्मू­त्र­त्वा­दि­क­र्म­णोऽ­प्र­रू­ढे­न्द्रि­य­त्वा­दि­रू­प­भा­व­शु­द्धेश्च बाल­क­र्म­त्वा­वि­शे­षा­त्सं­श­य­माह -
तत्रेति ।
पूर्वपक्षे विद्याङ्गत्वेन तिष्ठ­न्मू­त्र­त्वा­दे­र­प्य­नु­ष्ठानं सिद्धान्ते भावशुद्धेरेवेति फलम् ।

पूर्वत्र मौनशब्दस्य ज्ञानातिशये ध्याने प्रसि­द्ध­त्वा­त्ध्यानं विधे­य­मि­त्यु­क्तम्, तद्व­द्बा­ल्य­श­ब्दस्य कामचारादौ प्रसि­द्धे­स्त­द्वि­धि­ग्र­ह­ण­मि­त्याह -
किं ताविदिति ।
काम­त­श्च­र­ण­व­द­न­भ­क्ष­णानि यस्य स काम­चा­र­वा­द­भ­क्ष­ण­स्तस्य भाव­स्त­त्ते­त्यर्थः । यथोपपादं यथासंभवं मूत्रादि यस्य तद्भावस्तत्त्वं बाल्य­वि­धि­ब­ला­त्पा­ति­त्य­शा­स्त्र­म­न्य­वि­ष­य­मिति भावः ।

'यस्त्व­वि­ज्ञा­न­वा­न्भ­व­त्य­म­नस्कः सदाशुचिः । न स तत्पदमाप्नोति संसारं चाधि­ग­च्छति' इत्यादि शौच­भि­क्षा­दि­नि­य­म­वि­धि­शा­स्त्रा­वि­रु­द्धस्य भाव­शु­द्धा­ख्य­बा­ल्यस्य विधिसंभवान्न यथे­ष्ट­चे­ष्टा­वि­धि­रिति सिद्धान्तयति -
एवमिति ।

प्रधा­न­वि­रो­धि­त्वाच्च न तद्विधिरित्याह -
प्रधानेति ।
भाव­शु­द्धे­र्वि­द्यो­प­का­र­क­त्वे­ना­न्व­या­द­ना­वि­ष्कु­र्व­न्भ­वे­दिति बाल्यविध्यर्थ इति सूत्रयोजना ॥५०॥

ऐहिकमपि संन्या­सा­दि­बा­ल्यान्तं साधनजातमुक्त्वा तत्सा­ध्य­वि­द्या­जन्म विचार्यत इति संगतिं वदन् साधनस्य द्विधा फल­सं­भ­वा­त्सं­श­य­माह -
सर्वेत्यादिना ।

कारी­री­ष्टि­व­दै­हि­क­फ­ल­त्व­नि­यमः श्रवणादीनामिति पूर्वपक्षमाह -
किन्तावदिति ।

नन्वा­मु­ष्मि­क­फ­ल­क­य­ज्ञा­दि­सा­ध्य­वि­द्यायाः कथमैहिकत्वनियम इत्यत आह -
यज्ञादीन्यपीति ।
शुद्धिद्वारा यज्ञादिभिः श्रवणादिषु साक्षा­द्वि­द्या­हे­तुषु घटितेषु विद्याविलम्बो न युक्तः । दृश्यते च विलम्बः अतः श्रव­णा­दे­र्वि­द्या­हे­तु­त्व­म­सि­द्ध­मिति पूर्वपक्षे फलम् ।

प्रति­ब­न्ध­क­व­शा­द्वि­ल­म्बेऽपि हेतु­त्व­सि­द्धि­रिति सिद्धान्ते फलं मत्वा चित्रा­दि­व­द­नि­य­त­फलं श्रवणादिकमिति सिद्धान्तयति -
एवमिति ।

ननु प्रार­ब्ध­क­र्म­वि­शे­षेण श्रव­णा­दि­फ­ल­प्र­ति­बन्धः किमिति क्रियते श्रवणादिनैव कर्म­वि­पा­क­प्र­ति­बन्धः किं न स्यादित्यत आह -
उप­स्थि­त­वि­पा­कत्वं चेति ।
देशादिमहिम्ना कर्माणि विपच्यन्त इत्यर्थः ।

तेन श्रवणादिकमेव किमिति न विपच्यन्ते, तत्राह -
यानि चेति ।
विपाचकत्वं पलौ­न्मु­ख्य­हे­तु­त्वम् ।

ननु तर्हि श्रव­णा­दि­वि­पा­च­क­दे­शा­दिकं कीदृशमित्यत आह -
शास्त्रमपीति ।
फल­ब­ला­द्दे­शा­दि­ज्ञा­न­मिति भावः ।

तथापि कर्मणैव श्रव­णा­दि­प्र­ति­बन्धो न वैप­री­त्य­मि­त्यत्र को हेतुस्तमाह -
साधनेति ।
प्रति­ब­न्ध­क­त्व­श­क्ति­रपि फल­ब­ला­ज्ज्ञा­त­व्येति भावः ।

प्रति­ब­न्ध­क­स­द्भावे श्रौतं स्मार्तं च लिङ्गमाह -
तथा चेत्यादिना ।
शृण्वन्तोऽपि न विद्यु­रि­त्युक्तेः प्रति­ब­न्ध­सिद्धिः । आत्मनो यथा­व­द्व­क्ता­प्या­श्चर्यः अद्भु­त­व­त्क­श्चि­देव भवति । तिष्ठतु लब्धा साक्षा­त्का­र­वान्, परोक्षतो ज्ञाता­प्या­श्चर्यः । कुश­ले­ना­चा­र्ये­णा­नु­शि­ष्टोऽ­पी­त्यर्थः ॥५१॥

असति प्रार­ब्ध­क­र्म­प्र­ति­बन्धे श्रवणादिनेहैव विद्योदयः यज्ञादिभिः संचि­त­पा­प­प्र­ति­ब­न्धस्य निरस्तत्वात् । सति तु भोगेन तन्नि­रा­सा­द­मु­त्रेति विद्याया ऐहि­का­मु­ष्मि­क­त्व­वि­शे­ष­नि­यम उक्त­स्त­द्व­त्फ­लेऽपि मोक्षे कश्चि­दु­त्क­र्षा­दि­वि­शेषः स्यादित्यत आह -
एवं मुक्ति­फ­ला­नि­य­म­स्त­द­व­स्था­व­धृ­ते­स्त­द­व­स्था­व­धृतेः ।

मुक्तिरत्र विषयः । तस्यां विद्या­व­द्वि­शे­ष­नि­य­मोऽस्ति न वेति फल­स्यो­भ­य­था­सं­भ­वा­त्सं­शये पूर्वपक्षमाह -
यथेति ।
मुक्तिः सविशेषा, फल­त्वा­द्वि­द्या­व­दतः कर्मसाध्या मुक्तिरिति फलम् । सिद्धान्ते तु निर्वि­शे­ष­त्वा­व­धा­र­ण­श्रु­ति­बा­धि­त­म­नु­मा­न­मतो ज्ञानै­क­व्यङ्ग्या मुक्तिरिति फलम् ।

किञ्च श्रव­णा­दि­ता­र­त­म्या­द्वि­द्यायां कञ्चि­द­ति­श­य­म­ङ्गी­कृत्य विद्या­ल­भ्य­मुक्तौ नातिशय इत्याह -
अपि च विद्यासाधनमिति ।

ननु ब्रह्मणो नित्य­सि­द्ध­त्वा­द­वि­द्या­नि­वृ­त्ते­श्चा­न्यत्वे द्वैतापत्तेः, अनन्यत्वे चासाध्यत्वादिकं विद्याफलमित्यत आह -
तद्धीति ।
विद्य­या­भि­व्य­क्त­त्वेन ब्रह्मानन्द एव मुख्य­फ­ल­म­भि­व्य­क्ति­र­वि­द्या­नि­वृ­त्ति­रा­न­न्द­स्व­रू­प­स्फू­र्ति­प्र­ति­ब­न्ध­का­भा­व­तया विद्यया साध्यते सा चानिर्वाच्येति न द्वैतापत्तिः । अन्ये तु सा ब्रह्मा­न­न्ये­त्याहुः । न च साध्य­त्वा­नु­प­प­त्ते­स्तत्र विद्या­वै­य­र्थ्य­मिति वाच्यम् । यदभावे यद­भा­व­स्त­त्त­त्सा­ध्य­मिति ज्ञानात्सर्वो लोकः प्रवर्तते । यथा च विद्याया अभावे ब्रह्म­स्व­रू­प­मु­क्ते­र­भा­वोऽ­न­र्थ­रूपा अविद्यैवास्ति । अस्या अविद्याया एव मुक्ति­र्ना­स्ती­ति­व्य­व­हा­र­वि­ष­य­त्वेन मुक्त्य­भा­व­त्वात् । तथा च विद्यां विना मुक्ति­र्ना­स्तीति निश्च­या­द्वि­द्या­मु­पा­दत्ते । विद्योदये च स्वतः­सि­द्ध­नि­त्य­नि­वृ­त्ता­न­र्थ­स्व­प्र­का­श­ब्र­ह्मा­न­न्दा­त्म­न­व­ति­ष्ठत इत्यनवद्यम् ।

संप्रति विद्या­या­म­ति­श­या­ङ्गी­कार त्यजति -
न चेति ।
एकरूपे विषये प्रमायां तार­त­म्या­नु­प­प­त्ते­रि­त्यर्थः ।

कथं तर्हि पूर्वाधिकरणे विद्याया विशेष उक्तः, तत्राह -
तस्मादिति ।
सत्यामपि सामग्र्यां ज्ञाने विलम्ब उक्तो न तार­त­म्य­मि­त्यर्थः ।

तर्हि सत्यपि ज्ञाने मुक्तौ विलम्बः किं न स्यादित्यत आह -
नत्विति ।
वाय्वा­दि­प्र­ति­ब­न्धा­द्दि­पो­त्प­त्ति­वि­ल­म्बेऽ­प्यु­त्पन्ने तमो­नि­वृ­त्ति­वि­ल­म्बा­द­र्श­ना­त्सति ज्ञाने नाज्ञाननिवृत्तौ विलम्ब इति भावः ।

किञ्च कर्म­णा­मु­पा­स­नानां च गुणभेदेन तार­त­म्या­त्फ­ल­ता­र­तम्यं युक्तम् । निर्गु­ण­वि­द्या­या­स्त्वे­क­रू­प­त्वा­त्त­त्फ­लै­क­रू­प्य­मि­त्याह -
विद्या­भे­दे­त्या­दिना ।
स्मृतौ कस्य­चि­न्नि­र्गु­ण­विद इत्यर्थः । तस्मा­द्वि­द्या­स­म­का­लैव मुक्तिरिति सिद्धम् ॥५२॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्कृतौ शारी­र­क­व्या­ख्याया भाष्य­र­त्न­प्र­भा­टी­कायां तृती­य­स्या­ध्या­यस्य चतुर्थः पादः ॥४॥
॥ इति तृतीयाध्यायस्य निर्गुणविद्याया अन्त­र­ङ्ग­ब­हि­र­ङ्ग­सा­ध­न­वि­चा­रा­ख्य­श्च­तुर्थः पादः ॥
॥ इति श्रीम­द्ब्र­ह्म­सू­त्र­शा­ङ्क­र­भाष्ये साध­ना­ख्य­स्तृ­ती­यो­ध्यायः ॥