भाष्यरत्नप्रभाव्याख्या
चतुर्थाध्याये प्रथमः पादः
चतुर्थेऽध्याये प्रथमः पादः ।
ओम् । यज्ज्ञानाज्जीवतो मुक्तिरुत्क्रान्तिगतिवर्जिता ।
लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम् ।
आवृत्तिरसकृदुपदेशात् ।
साधनं निरूप्य फलं निरूप्यत इत्यध्याययोर्हेतुफलभावं सङ्गतिमाह -
तृतीय इति ।
फलप्रसङ्गेनोत्क्रान्तिरर्चिरादिमार्गश्च विचार्यत इत्याह -
प्रसङ्गेति ।
पूर्वं साक्षादेव श्रुत्युक्तं संन्यासादि साधनं चिन्तितम् , सम्प्रति फलार्थापत्तिगम्यमावृत्त्यादिकमद्याश्लेषाधिकरणात्प्राक्चिन्त्यते, तदारभ्य जीवन्मुक्तिस्ततो द्वितीयपादे उत्क्रान्तिस्तृतीये अर्चिरादिमार्गस्य गन्तव्यस्य च निर्णयश्चतुर्थे ज्ञानोपासनयोः फलनिर्णय इति पादार्थविवेकः ।
आद्याधिकरणस्य श्रवणादिसाधनं विषयमनूद्य द्वेधानुष्ठानदर्शनात्संशयमाह -
आत्मा वा इति ।
श्रौतात्मधीसाधनफलविचारात्मकत्वात्सर्वाधिकरणानां श्रुतिशास्त्राध्यायसङ्गतय उक्ताः । तत्तत्पदार्थसम्बन्धात्तत्तत्पादसङ्गतिः ।
मोक्षे विशेषाभाववच्छ्रवणादावावृत्तिविशेषो नास्तीति दृष्टान्तलक्षणावान्तरसङ्गत्या पूर्वपक्षमाह -
किं तावदिति ।
अत्र पूर्वपक्षे श्रवणादेः प्रयाजवददृष्टार्थत्वात्सकृदनुष्ठानं फलम् , सिद्धान्ते त्ववघातवद्दृष्टार्थत्वाद्यावत्फलमावृत्तिरिति भेदः ।
असकृदुपदेशान्यथानुपपत्त्या साधनावृत्तौ शास्त्रस्य तात्पर्यमिति शङ्कते -
नन्वसकृदिति ।
श्रवणादीनां समुच्चयसिध्यर्थत्वेनासकृदुक्तेरन्यथोपपत्तेर्नावृत्तौ तात्पर्यमित्याह -
एवमपीति ।
सगुणसाक्षात्कारसाधनेष्वप्यनावृत्तिमाह -
सकृदिति ।
यद्यप्यसकृदुपदेशावृत्तिसमुच्चययोरन्यतरसूचकत्वेनान्यथासिद्धः, तथापि दृष्टे सम्भवत्यदृष्टमात्रकल्पनानुपपत्तेः श्रवणादेरावृत्तिद्वारा साक्षात्कारफलस्य षड्जादौ दृष्टत्वादसकृदुक्तिरावृत्तिं सूचयति दृष्टार्थत्वादिति न्यायानुग्रहादित्याह -
न दर्शनपर्यवसानत्वादिति ।
ध्यानस्य त्वावृत्तेर्वेदोपासीतेति शब्दे श्रुतत्वान्न केवलार्थिकत्वमित्याह -
अपि चेति ।
अस्त्युपास्तिशब्दस्यावृत्तिवाचित्वं तथापि वेदेतिशब्दोक्तवेदनेष्वहङ्ग्रहेषु कथमावृत्तिसिद्धिरित्यत आह -
विद्युपास्त्योश्चेति ।
शब्दयोरेकार्थत्वमुदाहरति -
क्वचिदिति ।
स रैक्वो यद्वेद तत्प्राणतत्त्वं रैक्वादन्योऽपि यः कश्चिद्वेद तत्फले सर्वमन्तर्भवतीत्येतदुक्ते इत्थं मयोत्कृष्टत्वेन स रैक्व उक्त इति हंसं प्रति हंसान्तरवचनम् , तच्छ्रुत्वा रैक्वं गत्वोवाच जानश्रुतिः, हे भगवः, एतां रैक्वविदितां देवतां मेऽनुशाधि मह्यमुपदिशेत्यर्थः । एवं सगुणनिर्गुणसाक्षात्कारसाधनध्यानस्यावृत्तिः श्रौती चार्थसिद्धा च दृष्टार्थत्वात्, श्रवणमननयोस्त्वसकृदुपदेशादर्थसिद्धैवावृत्तिरिति विशेषः ॥१॥
आदित्यस्यैकस्यैवोद्गीथे सम्पाद्योपासनान्मम त्वमेक एव पुत्रोऽसीति कौषीतकिः पुत्रमुवाच, अतस्त्वं तथा माकृथाः किन्तु बहून् रश्मीनादित्यं च पर्यावर्तयतात्पृथगावर्तयस्वेत्यर्थः । तलोपश्छान्दसः । अत्र पर्यावृत्तिशब्दात्सिद्धवदुद्गीथध्यानस्यावृत्तिरुक्ता ततो ध्यानत्वसामान्यात्फलपर्यन्तत्वसामान्याद्वा लिङ्गात्सर्वत्र श्रवणमननध्यानेष्वावृत्तिसिद्धिरित्याह -
लिङ्गाच्चेति ।
एवं तावत्सगुणनिर्गुणसाक्षात्कारसाधनेष्वावृत्तिरुक्ता तत्र सगुणध्यानादेरावृत्तिमङ्गीकृत्य निर्गुणश्रवणादिष्वावृत्तिमाक्षिपति -
अत्राहेत्यादिना ।
वाक्यं निर्गुणसाक्षात्कारजनने शक्तं न वा, आद्ये सकृच्छ्रुतवाक्यात्साक्षात्कारसिद्धेरावृत्तिर्वृथेत्युक्त्वा द्वितीयं शङ्कते -
सकृदिति ।
अशक्तस्यावृत्तावपि फलानुपपत्तिरित्याह -
नेति ।
तथापीति स्वतोऽशक्तस्य युक्तिसाहित्याच्छक्तावपीत्यर्थः ।
वाक्ययुक्तिभ्यां परोक्षज्ञाने जातेऽप्यपरोक्षज्ञानार्थमावृत्तिरिति शङ्कते -
अथापि स्यादिति ।
तयोः परोक्षज्ञानहेतुत्वस्वाभाव्यादावृत्तावपि न साक्षात्कारः स्यादिति परिहरति -
नासकृदपीति ।
यदि तयोः साक्षात्कारसामर्थ्यं यदि वा परोक्षज्ञानसामर्थ्यमुभयथाप्यावृत्त्यनपेक्षेत्याह -
तस्मादिति ।
प्रमातृवैचित्र्यादप्यावृत्त्यनियम इत्याह -
न चेति ।
प्रमेयस्यानंशत्वाच्च तथेत्याह -
अपि चेति ।
द्विविधो ह्यधिकारी स्यात्कश्चिज्जन्मान्तराभ्यासान्निरस्तसमस्तासम्भावनादिप्रतिबन्धः कश्चित्तु प्रतिबन्धवानिति । तत्राद्यं प्रत्यावृत्तेरानर्थक्यमिष्टम् , द्वितीयस्य तु प्रतिबन्धनिरासाय तदपेक्षेति समाधत्ते -
अत्रोच्यत इति ।
आवृत्तेः प्रतिबन्धानिरासार्थत्वे लिङ्गमाह -
तथा हीति ।
यथा षड्जादिस्वरभेदसाक्षात्कारशक्तमपि श्रोत्रमभ्यासमपेक्षते तथा ब्रह्मात्मसाक्षात्कारशक्तं वाक्यं तदपेक्षमित्यनुभवमाश्रित्याह -
न हि दृष्टेऽनुपपन्नं नामेति ।
तत्त्वम्पदलक्ष्यार्थस्य दुर्बोधत्वादज्ञानप्रयुक्तसंशयादिप्रतिबन्धसम्भवात्तद्ध्वंसायावृत्तिरेष्टव्येति वाच्यलक्ष्यविवेकपूर्वकमाह -
अपि चेत्यादिना ।
यदुक्तमनंशत्वात्प्रमेयस्यावृत्त्यानर्थक्यमिति, तत्राह -
यद्यपीति ।
आरोपितांशनिरासाय न मे देहो नेन्द्रियमित्यभ्यासो युक्त इत्यर्थः ।
वाक्यार्थज्ञाने सति कथमभ्यासनियमः, प्रमाणज्ञानस्याभ्यासायोगाज्ज्ञानिनः श्रवणादिनियमायोगाच्चेत्यत आह -
तत्त्विति ।
ज्ञानात्प्रागेव श्रवणादिव्यापारनियमनं क्रियत इत्यर्थः ।
अधिकं शङ्कितुमुक्तमनुवदति -
येषामिति ।
अधिकं शङ्कते -
सत्यमिति ।
दुःखित्वप्रत्यक्षविरोधाद्वाक्यादैक्यधीर्नोदेतीत्यर्थः ।
प्रत्यक्षस्य भ्रान्तित्वादविरोध इत्याह -
नेत्यादिना ।
दुःखादयो नात्मधर्माः दृश्यत्वाद्देहादिवत्, नाप्यात्मस्वरूपाः आत्मनि सत्यप्यननुवृत्तित्वाद्व्यतिरेकेण चैतन्यवदित्यर्थः ।
निर्दुःखे चिदात्मनि दुःखादिधियो भ्रान्तित्वाद्वाक्यार्थानुभवो न विरुध्यत इत्याह -
तस्मादिति ।
अनुभवे जातेऽप्यावृत्त्याद्यनुष्ठानं किं न स्यादित्यत आह -
न चैवमिति ।
रतिः कामः आत्मकामतया तृप्तिर्विषयतृष्णाक्षयः तेन सन्तोषे आत्मानन्दानुभव इति भेदः ।
नन्वावृत्तौ नियोगात्प्रवृत्तिर्वाच्या तथा च नियुक्तत्वबुद्धेरकर्त्रात्मधीर्न स्यादित्यत आह -
तत्रापीति ।
आवृत्त्यभ्युपगमेऽप्यकर्ताहमित्यनुभवात्प्रच्याव्य गुरुरन्यो वा नियोगान्न प्रवर्तयेदुक्तदोषादित्यर्थः ।
कथं तर्हि प्रवृत्तिरित्यत आह -
यस्त्विति ।
अप्रतिभानादसम्भावनादिनेत्यर्थः । शिष्यबुद्ध्यनुसारेण त्रोतव्यादिवचोभिः प्रधानसिद्ध्यर्थमावृत्त्यादौ प्रवर्तयेदित्यर्थः ॥२॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।
पूर्वत्र ध्यानादेरावृत्तिरुक्ता तामुपजीव्य तत्त्वज्ञानार्थं ध्यानावृत्तिकाले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यैक्यभेदमानाभ्यां संशयमाह -
य इति ।
शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मेत्याद्यभेदश्रुतिभिरैक्यनिर्णयात्संशयमाक्षिपति -
कथमिति ।
भेदश्रुत्यनुग्रहाद्भेदप्रत्यक्षादिप्राबल्यमालम्ब्य संशय इत्याह -
उच्यत इति ।
अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलम् , यद्यप्ययं प्रत्यक्षादिविरोधपरिहारो द्वितीयाध्यायसङ्गतस्तथाप्यैक्यश्रुतेरविरुद्धत्वनिश्चयस्य समाधावन्तरङ्गत्वादिह सङ्गतिः ।
विरुद्धयोरैक्यदृष्टिरसिद्धेत्याह -
नाहमिति ।
किञ्च किमीश्वरस्य जीवमात्रत्वमैक्यं जीवस्येश्वरमात्रत्वं वेति विकल्प्य क्रमेण दूषयति -
ईश्वरस्य चेत्यादिना ।
एकत्वश्रुतिप्रामाण्यायैक्यध्यानं कार्यमिति शङ्कते -
अन्यत्वेऽपीति ।
एकत्वध्यानमस्मदिष्टमेव ।
एकत्वं तु नास्तीत्याह -
काममिति ।
अभेदश्रुतीनां फलवदपूर्वार्थतात्पर्येण गौणत्वायोगाद्भेदश्रुतीनां कल्पितभेदानुवादित्वात्प्रत्यक्षादेरपि तद्विषयत्वाद्बिम्बप्रतिबिम्बयोरिव विरुद्धधर्माणां मिथ्यात्वान्मुख्यमैक्यमिति सिद्धान्ययति -
एवमित्यादिना ।
ईश्वरस्य जीवत्वं न प्रतिपाद्यं येनेश्वराभावः स्यात्किन्तु जीवस्येश्वरत्वम् । न चैवमधिकार्यभावः । एकत्वप्रबोधात्प्रागधिकारिभेदाङ्गीकारादित्याह -
यत्पुनरुक्तमित्यादिना ।
वेदसत्यत्वश्रद्धालुः शङ्कते -
प्रत्यक्षाद्यभाव इति ।
वर्णेषु क्रमस्वरयोरभावादुपलब्धध्वनिस्थयोरारोपो वाच्यस्तथा चारोपितक्रमस्वरविशिष्टवर्णात्मकवेदस्य मिथ्यात्वं दुर्वारम् , वादिनां सत्यत्वाग्रहस्त्वविद्याविजृम्भित इति वेदसत्यत्वाभावो न दोष इत्याह -
नेति ।
अविद्यामाक्षिपति -
कस्येति ।
प्रश्नलिङ्गेन त्वय्येव तस्याः सिद्धेस्त्वदाक्षेपानुपपत्तिरित्याह -
यस्त्वमिति ।
अज्ञानमूलत्वात्प्रश्नादेरिति भावः ।
सर्वज्ञाभिन्ने मयि कथमज्ञानमिति शङ्कते -
नन्विति ।
अभेदज्ञानात्प्राक्चिन्मात्रस्य तवैवाज्ञानाश्रयत्वमनुभवसिद्धाज्ञानस्यापलापायोगात् । ज्ञाने त्वनिर्वाच्यस्य तस्य बाधान्नाश्रयापेक्षेत्याह -
यद्येवमिति ।
अनिर्वाच्यत्वेन दोषान्तरमपि निरस्तमित्याह -
योऽपीति ॥३॥
न प्रतीके न हि सः ।
उभयथा ध्यानसम्भवात्संशयः । यथा ब्रह्मण्यभेदसत्तवादहङ्ग्रह उक्त एवं प्रतीकेष्वपि ब्रह्मविकारतया जीवाभिन्नब्रह्माभिन्नत्वाज्जीवाभेदसत्त्वेनाहङ्ग्रहः कार्य इति दृष्टान्तेन पूर्वपक्षः । अत्र प्रतीकोपास्तीनामहङ्ग्रहोपास्तिभिरविशेषः । सिद्धान्ते तु विशेषसिद्धिरिति फलम् । एतदारभ्याधिकरणत्रयस्य प्रासङ्गिकी पादसङ्गतिः, ब्रह्मैक्यध्यानप्रसङ्गागतत्वादिति विवेकः ।
किं प्रतीकेष्वात्मत्वानुभवबलादहङ्ग्रह उत वस्तुतो जीवाभेदसत्त्वात् । नाद्य इत्याह -
न हि स इति ।
नानुभवतीत्यर्थः ।
द्वितीयमप्यसिद्ध्या दूषयति -
यत्पुनरिति ।
विकारस्य ब्रह्मणा स्वरूपैक्यायोगाद्बाधेनैक्यं वाच्यं प्रतीकबाधे चोपास्तिविधिर्न स्यादित्यर्थः ।
किञ्च कर्तृत्वाद्यबाधेनोपास्तिविधिप्रवृत्तिर्वाच्या बाधे तदयोगात् । तथा च बाधमूलब्रह्मैक्यज्ञानं द्वारीकृत्य प्रतीकेष्वहङ्ग्रहोपास्तिकल्पना न युक्ता, बाधविरोधादित्याह -
न च ब्रह्मण इति ।
अतो जीवप्रतीकयोः स्वरूपभेदादहङ्ग्रहे विध्यश्रवणाच्च नाहङ्ग्रह इति फलितमाह -
अतश्चेति ।
यथा रुचकस्वस्तिकयोः सुवर्णात्मनैक्येऽपि मिथो नैक्यं तथा जीवप्रतीकयोः ब्रह्मात्मनैक्येऽपि भेदः समः । यदि च धर्मिव्यतिरेकेण तयोरभावनिश्चयाद्वस्त्वैक्यं तदोपासनोच्छेद उक्त इत्यर्थः ॥४॥
ब्रह्मदृष्टिरुत्कर्षात् ।
एकविषयत्वं सङ्गतिः ।
प्रश्नपूर्वकं संशयबीजमाह -
कुत इत्यादिना ।
सामानाधिकरण्यं श्रुतं तन्न तावन्मुख्यम् , ब्रह्मविकारयोर्गवाश्वयोरिवाभेदायोगात् । नापि प्रकृतिविकारभावनिबन्धनम् , वाक्यस्य विकारबाधेन ब्रह्मपरत्वापातात् । न चेष्टापत्तिः । नाम ब्रह्मेत्युपासीतेति विधिश्रुतिविरोधात्, परिमितनामग्रहणानर्थक्यापाताच्च । ब्रह्मपरत्वे सर्वं ब्रह्मेति वक्तव्यत्वात् । अतः परिशेषादध्यास एव सामानाधिकरण्यकारणम् , अध्यासे च नियामकाभावात्संशय इत्यर्थः ।
उत्कृष्टनिकृष्टयोर्निकृष्टमप्युपास्यं फलवत्त्वादिति न्यायो नियामक इत्यरुचेराह -
अथवेति ।
अत्र विकारदृष्टिभिर्ब्रह्मोपास्तिसिद्धिः फलम् , सिद्धान्ते तु विकारदृष्ट्या ब्रह्मण उपास्यत्वे निकर्षप्राप्तौ सत्यां फलवत्त्वासिद्धेर्विकारा एवोत्कृष्टब्रह्मदृष्ट्योपास्या इति फलम् ।
किञ्च लौकिकन्यायाविरुद्धार्थसम्भवे विरुद्धार्थो न ग्राह्यः प्रत्यवायप्रसङ्गात् । किञ्च प्रथमश्रुतानामादित्यादिपदानामसञ्जातविरोधितया मुख्यार्थत्वग्रहो न्याय्यः, ब्रह्मशब्दे च दृष्टिलक्षणाग्रहः, तथा चादित्यादयो ब्रह्मदृष्ट्योपास्या इत्येव वाक्यार्थ इत्याह -
प्राथम्याच्चेति ।
ब्रह्मशब्दस्यैव दृष्ट्यर्थत्वे हेत्वन्तरमाह -
इतिपरत्वादिति ।
इतिशब्दशिरस्कः शब्दः समभिव्याहृतक्रियालक्षक इति लोके प्रसिद्धमित्यर्थः ।
द्वितीयाश्रुतेश्चादित्यादीनामेवोपास्तिकर्मत्वमित्याह -
वाक्यशेषोऽपीति ।
उत्कृष्टमेवोपास्यमिति न्यायमुक्तमनुवदति -
यत्तूक्तमिति ।
द्वितीयेतिश्रुतिभ्यां लौकिकन्यायाच्चोक्तन्यायबाध इत्याह -
तदिति ।
ब्रह्मणोऽनुपास्यत्वे कथं फलदातृत्वम् , तत्राह -
फलं त्विति ।
किञ्च यद्दृष्ट्या विकारस्योत्कर्षः तस्य ब्रह्मणो विशेषणत्वेऽप्युपास्यत्वं चास्तीत्याह -
ईदृशं चेति ॥५॥
आदित्यादि ।
पृथिव्यग्न्यन्तरीक्षादित्यद्युसंज्ञेषु लोकेषु हिङ्कारप्रस्तावोद्गीथप्रतीहारनिधनैरंशैः पञ्चांशम् , साम, तैरेवादिरिति उपद्रव इति च भक्तिद्वयाधिकैः सप्तांशं सामेति भेदः । अत विशेषाज्ञानात्संशयः ।
पूर्ववदुत्कर्षानवधारणादनियम इति प्रत्युदाहरणेन पूर्वपक्षमाह -
तत्रेति ।
सिद्धरूपादित्यादिभ्यः कर्मरूपोद्गीथादीनां फलसन्निकर्षेणोत्कर्षाद्ब्रह्मवद्विशेषणत्वे नियम इति दृष्टान्तेन मुख्यं पूर्वपक्षमाह -
अथवेति ।
तत्तत्पक्षसिद्धिरेव पूर्वोत्तरपक्षफलं मन्तव्यम् ।
किञ्चानङ्गेष्वेवाङ्गदृष्टिरित्यत्र तेष्वङ्गवाचिपदप्रयोगं लिङ्गमाह -
तथा चेयमेवेति ।
तदेतदग्न्याख्यं साम एतस्यां पृथिवीरूपायामृच्यध्यूढमुपरिस्थितमित्यर्थः ।
ऋचि सामवत्पृथिव्यामग्निर्दृश्यते, अतः साम्यात्पृथिव्येवर्गग्निः सामेति ध्यानं विहितम् , तत्र यदि ऋक्सामात्मकयोः कर्माङ्गयोः पृथिव्यग्निदृष्ठिः स्यात्, तदा पृथिव्यग्न्योरृक्सामपदप्रयोगो न स्यादित्यत्र दृष्टान्तमाह -
क्षत्तरीति ।
अतः प्रयोगान्यथानुपपत्त्या पृथिव्यग्न्योरृक्सामदृष्टिरित्यर्थः ।
विषयसप्तम्या चैवमेवेत्याह -
अपि चेति ।
गायत्रसंज्ञं साम ।
किञ्च पूर्वाधिकरणसिद्धान्तन्यायेनाप्येवमित्याह -
प्रथमेति ।
अनङ्गबुद्ध्याङ्गान्युपास्यानीति सिद्धान्तयति -
एवमिति ।
उपास्तीनां हि कर्मसमृद्धिः फलं श्रूयते, सा च ताभिरङ्गेषु संस्क्रियमाणेषूपपद्यते, अङ्गानां समृद्ध्यनुकूलप्रकृतकर्मापूर्वजनकत्वादित्यर्थः ।
ननु यत्रोपास्तीनां प्रकृतकर्मापूर्वसन्निकृष्टाङ्गद्वारापेक्षं फलं श्रुतं तत्र फलोपपत्तयेऽङ्गानामुपास्यत्वं भवतु तदनपेक्षलोकादिफलेषु तूपासनेषु कथमुपास्यविवेक इति शङ्कते -
भवत्विति ।
यथा स्वतन्त्रपशुफलस्यापि गोदोहनस्य अङ्गद्वारापेक्षयैव फलमिष्टं तद्वल्लोकादिफलेषूपासनेष्वपि कर्मापूर्वाङ्गद्वारैव फलकल्पना युक्ता, कर्माधिकृतस्यैवाङ्गाश्रितोपासनेष्वधिकारात्, अतोऽङ्गानामेवोपास्यत्वमिति समाधत्ते -
तेष्वपीति ।
उत्कर्षानवधारणादनियम इत्युक्तं निरस्यति -
फलात्मेति ।
उपक्रमबलाच्चाङ्गमुपास्यमित्याह -
अपि चेति ।
रसतमत्वादिगुणाद्युपसङ्ख्यानमित्यर्थः ।
द्वितीयं पूर्वपक्षं दूषयति -
यत्तूक्तमित्यादिना ।
कर्मभूयं कर्मात्मकत्वं प्राप्येत्यर्थः ।
सिद्धादित्याद्यात्मना कर्मणां दृष्टौ कर्मत्वहानिः स्यादित्यत आह -
आदित्यादिभावेनेति ।
माणवकेऽग्निदृष्टिवदुद्गीथादिष्वादित्यादिधियां गौणत्वान्न कर्मत्वाभिभावकत्वमित्यङ्गेष्वनङ्गत्वधीरविरुद्धेत्याशयः ।
प्रयोगानुपपत्तिमुक्तां निरस्यति -
तदेतदिति ।
लक्षणाबीजं सम्बन्धमाह -
लक्षणा चेति ।
गङ्गायां घोष इत्यत्र सन्निकृष्टसंयोगसम्बन्धेन तीरलक्षणा, अग्निर्माणवक इत्यत्राग्निनिष्ठशुचित्वादिगुणवत्त्वरूपपरम्परासम्बन्धेन लक्षणा दृष्टा, तथा चात्र ऋक्सामयोः पृथिव्याग्निदृष्टिपक्षेऽपि ऋक्सामपदाभ्यां स्ववाच्यार्थे द्रष्टव्यताख्यपरम्परासम्बन्धेन पृथिव्यग्निलक्षणा युक्तेत्यर्थः ।
ननु प्रतीकवाचिपदस्य ध्येये अर्थे लक्षणा न युक्ता, क्षतृपदस्य राजन्यप्रयोगादिति शङ्कते -
तत्र यद्यपीति ।
तथापि ऋक्सामसम्बन्धात्पृथिव्यग्न्योरेवैतस्यामृच्यध्यूढं सामेति एष ऋक्सामपदप्रयोगः इत्यन्वयः ।
ननु मुख्यार्थ एव न कुतो गृह्यते, तत्राह -
प्रसिद्धयोरिति ।
तस्मात् ऋच्यध्यूढं सामेति मुख्ययोः पृथगुक्तेस्तदेतस्यामित्यत्रापि तयोर्ग्रहे पुनरुक्तिः स्यात्, अतः प्रतीकाभेददृष्ट्या पृथिव्यग्न्योः प्रतीकसन्निधानात्तयोरेव प्रतीकपदप्रयोगः कृतस्तदभेददार्ढ्यायेत्यर्थः ।
तर्हि क्षत्तृशब्दोऽपि राजनि स्यादित्यत आह -
क्षत्रिति ।
स्थितप्रयोगस्य निमित्तं किमपि वाच्यं न तु निमित्तमस्तीति प्रयोग आपाद्य इति भावः । क्षत्ता सूतः, तस्य कार्यं रथचर्यादि यदा राजेव करोति तदा क्षत्तृशब्दो राजन्यप्यस्तीत्यक्षरार्थः ।
ऋगादावेव पृथिव्यादिदृष्टिरित्यत्र हेत्वन्तरमाह -
इयमिति ।
सप्तम्या लोकानामुपास्यत्वमुक्तं निरस्यति -
तथा लोकेष्विति ।
सामात्मना लोकानुपासीतेति द्वितीयासप्तम्योर्भङ्गस्त्वया कार्यस्ततो वरं लोकात्मना सामोपासीतेति सप्तमीमात्रभङ्ग इत्यर्थः । एतेनेति एकविभक्तिभङ्गलाघवेन प्राणात्मना गायत्रं सामोपास्यमिति व्याख्यातमित्यर्थः ।
ननु विभक्तिसाम्ये कथं निर्णयस्तत्राह -
यत्रापीति ।
'साम्न उपासनं साधु' इत्युपक्रम्य पृथिवी हिङ्गार इत्यादिना हिङ्गारादिपञ्चावयवस्य साम्न उपासनमुक्त्वा 'इति तु पञ्चविधस्योपासनम्' इत्युपसंहृत्य, अथेति सप्तविधस्य साम्न उपासनं प्रक्रम्य प्रपञ्चितमतः साम्न एवोपास्यत्वमित्यर्थः ।
यदुक्तं प्राथम्यात्पृथिव्यादेरूपास्यत्वमिति, तत्राह -
एतस्मादेवेति ।
यद्यपि हिङ्कारोद्देशेन पृथिवीत्वविधेरुद्देश्यस्य प्रथमनिर्देशो वाच्यस्तथाप्युक्तन्यायबलाद्व्यत्ययो ग्राह्य इत्यर्थः ॥६॥
आसीनः सम्भवात् ।
कर्मण उत्थितेनोपविष्टेन वानेकधानुष्ठानदर्शनात्संशयः कर्माङ्गाश्रितोपासनानामासननियमानपेक्षाणामनुष्ठानप्रकार उक्तस्तद्वदङ्गानाश्रितोपासनेष्वप्यनियम इति पूर्वपक्षयति -
तत्रेति ।
अत्रासनाभ्यासासिद्धिः, सिद्धान्ते तु मनोदेहयोर्भिन्नत्वेऽपि देहचाञ्चल्ये मनसोऽनवस्थानस्य अनुभवसिद्धत्वान्मनोव्यापारेषूपासनेषु देहस्थैर्यार्थमासननियमापेक्षेति फलभेदः । तिष्ठत उत्थितस्य ॥७॥
किञ्च ध्यातार आसीन एव स्युः ध्यायतिशब्दार्हत्वाद्बकादिवदित्याह -
ध्यानाच्चेति ॥८॥
अत्रैव श्रौतं दृष्टान्तमाह -
अचलत्वं चेति ॥९॥
बाह्यस्य शारीरस्य चासनस्य स्मरणान्नियम इत्याह -
स्मरन्ति चेति ॥१०॥
यत्रैकाग्रता तत्राविशेषात् ।
तेष्वेवाङ्गानाश्रितोपासनेषु प्राच्यादिदिशि तीर्थादिदेशे प्रदोषादिकाले नियमोऽस्ति न वेत्युभयथासम्भवात्संशयः । एकविषयत्वं सङ्गतिरूपास्तीनां विहितत्वाद्यागादिवदस्ति दिगादिनियम इति पूर्वपक्षः । अत्र दिगादिष्वादरः फलं सिद्धान्ते त्वनादरः । ध्येये चित्तैकाग्र्यस्य प्राधान्यात्प्रधानाक्षिप्तदेशादिग्रहणस्योचितत्वादिविवेकः ।
अर्थलक्षण एवेति ।
ऐकाग्र्यफललिङ्गक एवेत्यर्थः । प्राचीनप्रवणे प्राग्देशे निम्नस्थाने वैश्वदेवं कुर्यादितिवदत्र दिगादिविशेषो न श्रूयते अतोऽनुमानमप्रयोजकमिति भावः ।
विशेषाश्रवणमसिद्धमिति शङ्कते -
ननु विशेषमपीति ।
शर्कराः सूक्ष्मपाषाणाः । जलाश्रयवर्जनं शीतनिवृत्त्यर्थम् । चक्षुःपीडनो मशकः । वाचनिकं समदेशादिनियममङ्गीकृत्य चित्तैकाग्र्यविरुद्धेषु देशादिगतेषु प्राचीनप्रवणत्वादिष्वनादर इति सुहृद्भावेन सूत्रकृदुपदिशति । देशाद्याग्रहे चित्तविक्षेपात्समाधिभङ्गः स्यात्स माभूदिति ॥११॥
आप्रायणात् ।
व्यवहितेनास्य सम्बन्धमाह -
आवृत्तिरिति ।
अनियोज्ये ब्रह्मण्यात्मत्वप्रतिपत्तिर्यस्य तस्य विदुष इत्यर्थः ।
अहङ्ग्रहोपासनेष्वनुष्ठानस्योभयथादृष्टेः संशयमाह -
यानि पुनरिति ।
यथा दिगादिनियमस्याविधेरनादरस्तद्वदामरणमुपास्यावृत्तेरविधानादिनियम इति पूर्वपक्षः ।
मरणपर्यन्तमावृत्तिरिति सिद्धान्तयति -
एवमिति ।
उपास्तीनां कर्मणां चान्त्यकाले प्राप्तव्यफलस्फूर्तिद्वारा फलहेतुत्वे मानमाह -
सविज्ञान इति ।
भावनामयं विज्ञानं फलस्फुरणं तेन सहितः सविज्ञानो विज्ञानस्फुरितफलं विज्ञानमित्यर्थः । यस्मिंल्लोके चित्तं सङ्कल्पोऽस्येति यच्चित्तस्तेन सङ्कल्पितेन लोकेन सह फलस्फूर्त्यनन्तरं मनः प्राणे लीयते इति यावत् । तेज उदानः । आत्मा जीवः । जलौकादृष्टान्तश्रुतेश्च भाविफलस्फूर्तिरस्तीत्यर्थः ।
अस्त्विदमन्त्यफलं विज्ञानं कर्मणामिवादृष्टद्वारोपास्तीनां ततः कुत आमरणमावृत्तिरित्यत आह -
प्रत्ययास्त्विति ।
उपास्तिप्रत्ययानां धारावाहिकतया स्वरूपानिवृत्तिरेवान्त्यं विज्ञानम् , न त्वदृष्टद्वारकमन्यदपेक्षितं सर्वभावानामेव स्वसामानजातीयद्वारानपेक्षतया प्रत्ययानां प्रत्ययान्तरापेक्षायोगात्, कर्मणां तु दृष्टद्वारान्त्यधीफलत्वानुपपत्तेः अदृष्टद्वारकल्पनेति भावः । क्रतुर्ध्यानम् । उपासक एतत्त्रयम् 'अक्षितमसि', 'अच्युतमसि', 'प्राणसंशितमसि' इति मन्त्रत्रयं मरणकालेऽपि स्मरेदित्यर्थः ॥१२॥
यथोपासकानां यावज्जीवं कर्तव्यमस्ति न तथात्मविदामिति कर्मक्षयलक्षणां जीवन्मुक्तिमाह -
तदधिगम इति ।
ज्ञानसाधनेषु फलाधिक्यार्थं फलाध्यायेऽपि साधनविचारः कृतः, सम्प्रति फलाध्यायस्था फलचिन्ता क्रियत इत्याह -
गत इति ।
कर्मणां फलान्तत्वशास्त्राज्ज्ञाननाश्यत्वशास्त्राच्च संशयः, पूर्वपक्षे ज्ञानिनोऽपि सञ्चितपापभोगानन्तरं मुक्तिः, सिद्धान्ते तु ज्ञानसमकालं पापनाशाज्जीवन्मुक्तिरिति फलम् । न हिंस्यादित्यादिनिषेधश्रुत्या दुरितादृष्टस्य दुःखदायिनी शक्तिरधिगता । 'नाभुक्तं क्षीयते कर्म' इति च स्मरन्ति । अतः फलान्तमेव पापं न मध्ये नश्यतीति पूर्वपक्षः । ननु तर्हि तन्नाशार्थं प्रायश्चित्तविधिर्न स्यादिति चेत् । न । यथा आहिताग्नेर्गृहदाहे निमित्ते सति 'अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्' इति इष्टिविधिस्तद्वद्दोषे निमित्तमात्रे सति प्रायश्चित्तविधेर्दोषनाशार्थत्वासिद्धेः ।
ननु विषम उपन्यासः, युक्तं गृहदाहस्य सिद्धत्वादयोग्यत्वाच्चाफलतया निमित्तमात्रत्वं दोषवान्प्रायश्चित्तं कुर्यादित्यत्र तु मलिनः स्नायादितिवद्दोषपदस्य निवृत्तिद्वारा फलपरत्वसम्भवात् 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इति प्रायश्चित्तात्पापनिवृत्तिश्रुतेश्चायुक्तं प्रायश्चित्तस्य नैमित्तिकत्वमित्यत आह -
अपि चेति ।
ज्ञानस्य दोषनाशार्थतया विधानं नास्ति 'क्षीयन्ते चास्य कर्माणि' इत्यादेर्ज्ञानस्तावकमात्रत्वादित्यर्थः ।
कर्मभोगानन्तरं देशकालान्तरे मोक्षो भविष्यति शास्त्रप्रामाण्यादित्याह -
नेत्युच्यत इति ।
ज्ञानात्कर्मक्षयस्यापूर्वत्वान्मानान्तरविरुद्धत्वाच्च तत्परानेकवाक्यानां स्तावकत्वायोगात्तस्यास्तित्वमिति सिद्धान्तयति -
एवमित्यादिना ।
पापक्रियातोऽपूर्वानुत्पत्तिरश्लेषः ।
सगुणब्रह्मविद्यायां व्यपदेशमुक्त्वा निर्गुणायां तमाह -
अयमपर इति ।
परोक्तं दूषयति -
यदुक्तमित्यादिना ।
विधिनिषेधशास्त्रं 'नाभुक्तं क्षीयते' इत्यादि, स्मृतिश्च कर्मणः फलशक्तौ प्रमाणमतः शक्तस्यापि कुतश्चिन्नाशाङ्गीकारेण शास्त्रविरोध इत्यर्थः ।
तत्त्वज्ञानमात्मन्यशेषदुरितनाशकं तन्मूलाध्यासबाधकत्वात्स्वप्नदुरितमूलकर्तृत्वाध्यासबाधकजाग्रद्बोधवदित्याह -
तथाप्यकर्त्रात्मबोधादिति ।
श्रुतार्थमेव युक्त्या द्रढयति -
अश्लेष इति चेति ।
मूलाध्यासानुत्पत्तेः पापस्याश्लेषः, तन्नाशात्तद्विनाश इत्यर्थः ।
अध्यासाभावे विद्वदनुभवमाह -
पूर्वेति ।
मोक्षशास्त्रबलाच्च ज्ञानात्कर्मक्षयसिद्धिरित्याह -
एवमेवेति ।
ज्ञानात्कर्मक्षये सत्येवेत्यर्थः ।
मोक्षस्य कर्मफलसाम्यमुक्तं निरस्यति -
न चेति ॥१३॥
इतरस्यापि तु ।
अतिदेशत्वान्न सङ्गत्याद्यपेक्षा ।
ज्ञानात्पुण्यं क्षीयते न वेति पूर्ववत्सन्देहे ज्ञानं तु न पुण्यनाशकं शास्त्रीयत्वात्पुण्यवदित्यधिकाशङ्कामुक्त्वातिदेशं व्याचष्टे -
धर्मस्येत्यादिना ।
ज्ञानं पुण्यनाशकं समूलविद्याघातित्वादिति न्यायोपेतागमबाधितमनुमानमिति भावः ।
ननु क्षीयन्ते चेत्यविशेषश्रुतिः पापविषया सर्वं पाप्मानं तरतीति विशेषश्रुतेरित्यत आह -
यत्रापि केवल इति ।
पापपुण्यक्षयपराधिकरणद्वयस्य फलमाह -
पाते त्विति ॥१४॥
अनारब्धकार्ये एव तु ।
उक्तकर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -
पूर्वयोरिति ।
जीवन्मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् ।
पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्राप्तौ उक्तोत्सर्गतः कर्मक्षतिः प्रारब्धान्यकर्मविषयेत्यपवादं सिद्धान्यति -
एवमिति ।
सामिशब्दोऽर्धवाचकः । प्रारब्धाद्यावन्न विमुच्यते तावानेव विलम्बस्तन्मोक्षे ब्रह्म सम्पद्यत इति श्रुत्यर्थः ।
देहपातावधिलिङ्गात्तत्त्वविदां याज्ञवल्क्यादीनां देहधारणश्रुतिस्मृतिलिङ्गाच्च प्रारब्धकर्मणस्तत्त्वज्ञानं प्रति हेतुत्वेनोपजीव्यत्वाच्च प्राबल्यसिद्धेस्तत्प्रतिबद्धं तत्त्वज्ञानं तत्सिद्ध्यर्थमविद्यांशं विक्षेपशक्त्याख्यं विहायावरकाविद्यांशं नाशयतीत्याह -
उच्यते न तावदिति ।
विक्षेपकाविद्यालेश एव तत्संस्कारः ।
शिष्यान्प्रति जीवन्मुक्तौ स्वानुभवमाह -
अपि च नैवेति ॥१५॥
अग्निहोत्रादि तु ।
नित्यं नैमित्तिकं कर्म ज्ञानान्नश्यति न वेति सन्देहे उभे पुण्यपापे तरतीत्यविशेषश्रुतेर्नश्यतीत्याशङ्क्योत्तरस्यापीत्युक्तातिदेशस्य नित्याद्यतिरिक्तकाम्यपुण्यविषयत्वेनात्रापवादं सिद्धान्तयति -
पुण्यस्येत्यादिना ।
अत्र पूर्वपक्षे ज्ञानार्थं नित्याद्यनुष्ठानासिद्धिः पङ्कक्षालनन्यायात्, सिद्धान्ते तु ज्ञानोत्पत्त्यर्थत्वात्तत्सिद्धिरिति विवेकः । अत्र भाष्ये ज्ञानकर्मणोः साक्षादेककार्यत्वं परमतेनोक्त्वा साक्षात्पारम्पर्याभ्यां मोक्षहेतुत्वं स्वमतमुक्तमिति मन्तव्यम् । अत एवेति ज्ञानादूर्ध्वं कर्माभावात्पूर्वकर्मविषयमित्यर्थः ।
निर्गुणविद्यायाः कर्मसाहित्यं तृप्तिं प्रति भोजनस्य लाङ्गलेनेव दर्शितम् , सम्प्रति सगुणविद्यापरत्वेन सूत्रस्याञ्जस्यमाह -
सगुणास्विति ॥१६॥
उत्तरसूत्रार्थं गृह्णाति -
किमित्यादिना ।
यत्प्रारब्धादन्यत्काम्यं पुण्यं पापं च तदेव विद्वत्सुहृद्द्विषतोः स्वसमानजातीयं कर्म जनयति स्वयं च ज्ञानान्नश्यतीति भावः ॥१७॥
यदेव विद्ययेति हि ।
उक्तनित्यादिकं विषयमुपजीव्य सबीजं संशयमुक्त्वा पूर्वपक्षमाह -
विद्यासंयुक्तमेवेति ।
अत्र पूर्वपक्षे कर्माङ्गोपास्तिहीनकर्मणो ज्ञानार्थत्वासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । भवतु विद्याविशिष्टस्य कर्मणो ज्ञानं प्रति शीघ्रकारित्वाख्यः कश्चिदतिशयो विद्यासामर्थ्यात् । नैतावता केवलस्य वैयर्थ्यं विविदिषाश्रुतिविरोधात् । न च तत्र श्रुतौ यज्ञादिशब्दानां विद्योपेतकर्मपरतया सङ्कोचो युक्तः । हि यतः । 'यदेव विद्यया' इति श्रुतिः केवलस्यापि वीर्यवत्त्वं गमयतीति सिद्धान्तग्रन्थार्थः ॥१८॥
भोगेन त्वितरे क्षपयित्वा सम्पद्यते ।
तत्त्वविदत्र विषयः, स किं प्रारब्धक्षयानन्तरं संसरत्युत नेति निमित्तभावाभावाभ्यां संशये सिद्धान्तमुपक्रमते -
अनारब्धेति ।
अनारब्धकर्मणः क्षयोक्तावारब्धस्य कथं क्षय इत्याकाङ्क्षायामस्योत्थानात्सङ्गतिः । पूर्वपक्षे विदेहकैवल्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति भेदः ।
देहपातोत्तरमपि तत्त्ववित्संसरति संसारयोग्यत्वाद्यथा देहपातात्पूर्वमित्यनारब्धाधिकरणदृष्टान्तेन पूर्वपक्षमाह -
नन्विति ।
भोगनिमित्तकर्माभावाद्धेत्वसिद्धिः । यत्तु सञ्चितं कर्मान्तरं तन्न निमित्तं फलस्य, दग्धमूलत्वात् । अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च मूलम् । तदुक्तं योगशास्त्रे 'क्लेशमूलः कर्माशयः सति मूले तद्विपाकः' इति । तच्च मूलं ज्ञानाग्निना दग्धमिति कुतः पुनः संसारस्तस्माद्देहपाते कैवल्यमिति सिद्धम् ॥१९॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ भाष्यरत्नप्रभायां चतुर्थस्याध्यायस्य प्रथमः पादः ॥१॥
॥ इति चतुर्थस्याध्याय जीवन्मुक्तिनिरूपणाख्यः प्रथमः पादः ॥
चतुर्थेऽध्याये द्वितीयः पादः ।
वाङ्मनसि दर्शनाच्छब्धाच्च ।
ज्ञानफलोक्त्यनन्तरमुपासनफलं ब्रह्मलोकस्थं वक्तव्यं तच्चार्चिरादिमार्गप्राप्यम् , मार्गप्राप्तिश्चोत्क्रान्तिसाध्या तस्मादुपास्तिफलक्षिप्तोत्क्रान्तिपादस्यास्त्याध्यायसङ्गतिः ।
युक्तं चास्य पूर्वपादानन्तर्यं ज्ञानफलोक्त्यनन्तरं वक्तव्योपास्तिफलेनाक्षिप्तत्वादित्याह -
अथेति ।
ज्ञानिन इवोपासकस्याप्युत्क्रान्तिर्नेत्यत आह -
समानेति ।
विद्वानुपासकः, तस्यानुपासकवदुत्क्रान्तिरस्ति, अज्ञत्वादिति वक्ष्यत इत्यर्थः । प्रयतो म्रियमाणस्येत्यर्थः । वाक्पदस्य करणभावव्युत्पत्तिभ्यां करणतद्वृत्त्योर्लयभानात्संशयः । पूर्वपक्षे करणानां स्वरूपलयान्मृतमात्रस्य मुक्तिः, सिद्धान्ते तु संसारसिद्धिः । अनुपादाने मनसि वाचस्तत्त्वलयायोगेन व्यापारमात्रोपशमादिति विवेकः ।
सूत्रे वृत्तिपदाध्याहारः कथमिति शङ्कते -
कथमिति ।
उत्तरत्र हि सूत्रकृत्तत्त्वविद इन्द्रियाणां स्वरूपलयं वक्ष्यति तद्बलादिहाध्याहार उचितः । अज्ञस्यापि इन्द्रियलयसाम्ये वक्ष्यमाणविशेषोक्त्ययोगादिति समाध्यर्थः ।
प्रकृतावेव विकारलय इति न्यायविरुद्धार्थं श्रुतिरपि न ब्रूत इति सिद्धान्तयति -
अतत्प्रकृतित्वादिति ।
न्यायस्य निरवकाशत्वाद्बलीयस्त्वं शब्दस्य तूक्तिर्वागिति व्युत्पत्त्या लक्षणया वा सावकाशत्वमिति द्योतयितुं शब्दाच्चेत्युक्तम् ॥१॥
वाच्युक्तं न्यायं चक्षुरादिष्वतिदिशति -
अत एवेति ।
उपशान्तदेहौष्ण्यस्तस्मादुत्क्रमणादूर्ध्वं पुनर्भवं प्रतिपद्यत इति श्रुत्यर्थः । इन्द्रियशब्दस्य श्रुतिस्थस्य वृत्तिपरतयोपपत्तेः ।
सर्वेन्द्रियवृत्तिलयश्चेदिष्टस्तर्हि वाङ्मनसीति पृथक्सूत्रं किमर्थमित्यत आह -
सर्वेषां करणानामिति ॥२॥
तन्मनः प्राण उत्तरात् ।
वाक्यक्रमादर्थक्रमाच्चाधिकरणक्रमः । श्रुतिन्यायाभ्यां संशयः पूर्वं प्रबलन्यायविरोधाद्वागिति श्रुतेर्बाधः कृतः इह त्वबात्मकप्राणस्य अन्नात्मकमनःप्रकृतित्वेन प्रकृतौ विकारलय इति न्यायानुग्रहान्न मनःश्रुतिर्बाध्येति पूर्वपक्षफलं पूर्ववत्, सिद्धान्तस्त्वबन्नयोः प्रकृतिविकृतिभावेऽपि न तद्विकारयोः प्राणमनसोस्तद्भावो हिमघटयोरपि तद्भावप्रसङ्गादतो न्यायविरोधात्पूर्ववच्छ्रुतिर्बाध्येति विवेकः । आगृहीता बाह्येन्द्रियवृत्तयो येन तत्तथा लीनेन्द्रियवृत्तिकं मनोऽपि वृत्तिलयेनैव प्राणे लीयत इत्यर्थः ।
एवमपीति ।
प्राणस्याब्विकारत्वपक्षेऽपीत्यर्थः । तस्मादिति प्राणस्य साक्षान्मनःप्रकृतित्वाभावान्मनःशब्दो वृत्तिं लक्षयतीत्यर्थः ॥३॥
सोऽध्यक्षे तदुपगमादिभ्यः ।
उक्तन्यायसिद्धं प्राणस्यापि वृत्तिलयमुपजीव्य 'प्राणस्तेजसि' इति श्रुतेरूपगमादिश्रुतेश्च संशयमुक्त्वा जीवे लयं विनापि उपगमादिसम्भव इति पूर्वपक्षयति -
स्थितमित्यादिना ।
अत्र तेजःशब्दस्य मुख्यत्वम् , सिद्धान्ते तु भूतोपहितजीवलक्षकत्वमिति मत्वा सूत्रं योजयति -
स प्रकृत इत्यादिना ।
अज्ञानकर्मवासनोपाधिक इत्यर्थः । तं जीवं प्रति प्राणानामुपगमानुगमनावस्थानश्रुतिभ्य इति हेत्वर्थः । यथा यात्रेच्छावन्तं राजानं भृत्या उपगच्छन्त्येवमेव परलोकं जिगमिषुं जीवं सर्वे प्राणा आभिमुख्येनायान्तीत्युपगमः श्रुतः । तमुत्क्रामन्तमित्यनुगमनं श्रुतम् ।
जीवे प्राणावस्थानश्रुतिमाह -
सविज्ञान इति ।
जीवस्य प्राप्तव्यफलावगमाय हि विज्ञानसाहित्यश्रुत्या मुख्यप्राणसहितकरणानां जीवे स्थितिर्भातीत्यर्थः ॥४॥
यद्यपि प्राणस्य तेजस्यव्यवधानेन लयः श्रुतस्तथाप्युभयश्रुत्यनुग्रहाय प्राणो जीवे लीयते, जीवद्वारा च तदुपाधिषु तेजआदिभूतेष्विति श्रुत्यर्थस्फुटीकरणार्थं सूत्रं गृह्णाति -
कथं तर्हीति ।
न च लयं विनापि जीवं प्रत्युपगमादिसम्भवात्तेजःश्रुतिर्मुख्यास्त्विति वाच्यम् , जीवं प्रत्यागत्य प्राणस्य निर्व्यापारत्वेन स्थितेरेवात्र लयत्वादिति भावः ।
भूतेषु जीवस्थितिः किं बलाद्व्याख्यायत इत्याशङ्क्य 'सोऽध्यक्षे' इति सूत्रोदाहृतश्रुतिबलादित्याह -
नन्वित्यादिना ।
प्राणस्य जीवद्वारा भूतप्राप्तौ दृष्टान्तमाह -
योऽपि हीति ॥५॥
स्थूलदेहारम्भाय पञ्चीकृतभूतान्यावश्यकानीति रंहत्यधिकरणे व्याख्यातम् । अण्व्यः सूक्ष्माः, मीयन्त इति मात्राः परिच्छिन्नाः प्राङ्मोक्षादविनाशिन्यः, दशार्धानां पञ्चानां भूतानां सूक्ष्मभागा इति यावत् । जीवस्य भूताश्रयत्वं कर्माश्रयत्वश्रुतिविरुद्धमित्याशङ्क्य कर्म निमित्तत्वेनाश्रयः, भूतानि तु देहोपादानत्वेनेत्युभयमविरुद्धमित्याह -
ननु चेत्यादिना ।
तौ याज्ञवल्क्यार्तभागौ यज्जीवाधारमूचतुस्तत्कर्मेति श्रुतेर्वचनम् ॥६॥
एवं बाह्येन्द्रियाणां मनसि प्रथमं वृत्तिलयलाभात्ततो मनोवृत्तेः प्राणे लयः प्राणवृत्तेर्भूतोपहितजीवे लय इत्युत्क्रान्तिव्यवस्थोक्ता । सा च सर्वप्राणिषु तुल्येत्याह -
समाना चानुपोष्य ।
'पुरुषस्य प्रयतो वाङ्मनसि' इत्यविशेषश्रुतेः 'विद्ययामृतमश्नुते' इति श्रुतेश्च संशयमाह -
सेयमिति ।
विशयानानां सन्दिहानानामित्यर्थः । पूर्वपक्षे सगुणब्रह्मविदसम्बन्धित्वमुत्क्रान्तेर्विशेषः साध्यते । ततोऽनूत्क्रान्त उपासको मुक्तिमश्नुत इति फलम् , सिद्धान्ते तूत्क्रान्तो ब्रह्मलोकभागीति फलभेदः ।
पूर्वपक्षमाक्षिप्य समाधत्ते -
ननु विद्येत्यादिना ।
विद्ययामृतमिति श्रुतिनिर्गुणविद्यावत्परा । न तस्य प्राणा उत्क्रामन्तीति प्रतिषेधोऽपि तद्विषयः । अतः सगुणविदोऽप्यज्ञस्यैवोत्क्रान्तिरिति सिद्धान्तयति -
एवमिति ।
सृतिर्मार्गस्तस्योपक्रमोऽर्चिःप्राप्तिस्ततः प्राक्तना उत्क्रान्तिस्तुल्या, तत उपासको मूर्धन्यनाडीद्वारार्चिरादिमार्गं प्राप्नोति नान्य इति विशेषः ।
यत्तु दहरोपासकस्यामृतत्वं श्रुतं 'तयोर्ध्वमायन्नमृतत्वमेति' इति तदापेक्षिकमेव न मुख्यं 'यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति' इति भोगश्रवणादित्याह -
अनुपोष्य चेदमिति ।
उष दाह इति धातोरिदं रूपम् ॥७॥
तदापीतेः ।
पूर्वोदाहृतोत्क्रान्तिवाक्यशेषं व्याख्याय लिङ्गाश्रयपञ्चभूतानां किमात्यन्तिको ब्रह्मणि लय उतानात्यन्तिक इति लयस्योभयथादर्शनात्संशयमाह -
कीदृशी पुनरियमिति ।
पूर्वत्रापेक्षिकममृतत्वमित्युक्तं तदयुक्तमित्याक्षेपात्सङ्गतिः । पूर्वपक्षे मृतमात्रस्य मुक्तिसिद्धिः, सिद्धान्ते तु कर्मविद्याशास्त्रबलात्सावशेषलयसिद्धिरिति विवेकः ॥८॥
ननु लिङ्गात्मकस्य तेजसः कथं सूक्ष्मतमनाडीद्वारा गतिः कुतो वा केनचिन्मूर्तेन प्रतिघातो नास्ति कुतो वा न दृश्यत इत्यत आह -
सूक्ष्ममिति ॥९॥
प्रमाणसौक्ष्म्याद्गतिरनुद्भूतस्पर्शरूपवत्त्वाख्यस्वच्छत्वादप्रतिघातानुपलब्धी इत्यर्थः ॥१०॥
लिङ्गसद्भावे चौष्ण्यलिङ्गकानुमानमाह -
अस्यैव चेति ॥११॥
प्रतिषेधादिति चेन्न शारीरात् ।
पूर्वमनुपोष्येति पदेन दग्धाशेषक्लेशस्य निर्गुणज्ञानिन उत्क्रान्त्याद्यभावः सूचितस्तस्यात्राक्षिप्य समाधानाद्व्यवहितेनास्य सङ्गतिरित्याह -
अमृतत्वं चेति ।
सकामस्य संसारोक्त्यनन्तरं निष्कामस्य मुक्तिप्रकरणार्थोऽथशब्दः आत्मकामत्वात्पूर्णानन्दात्मवित्त्वादाप्तकामः प्राप्तपरमानन्दः, अतो निष्कामः अनभिव्यक्तान्तरवासनात्मककामशून्यः, तस्मादकामः व्यक्तबहिष्कामरहितः, ईदृशो योऽकामयमानस्तस्येत्यन्वयः ।
ज्ञानिन उत्क्रान्तिरस्ति न वेति पञ्चमीषष्ठीश्रुतिभ्यां सन्देहे सिद्धान्तिशङ्कानिरासपूर्वकं पूर्वपक्षयति -
नेत्यादिना ॥१२॥
काण्वश्रुतौ तावत्तस्येति सर्वनाम्ना प्रकृतं ज्ञानिनं परामृश्य सम्बन्धसामान्यमुक्तं तत्र माध्यन्दिनशाखायां तस्मादित्यपादानत्वरूपविशेष उक्तो ग्राह्यस्तथा च जीवात्प्राणोत्क्रान्तिप्रतिषेधो भाति न देहात्तच्छब्देन देहस्यानुक्तेस्तस्माज्ज्ञानिनोऽप्युत्क्रान्तिरस्तीति ज्ञानवैयर्थ्यमिति पूर्वपक्षफलम् । सिद्धान्ते तत्सार्थक्यमाह -
स्पष्टो हीति ।
अत्र पुरुषशब्दवाच्यो देह एवस्मादित्युत्क्रान्त्यवधिरुच्यते । सशब्दपरामृष्टस्य प्रकृतस्य पुरुषस्योच्छ्वयनादिधर्मकस्य जीवत्वायोगादित्यर्थः । उच्छ्वयति बाह्यवायुपूरणाद्वर्धते, आध्मायति आर्द्रभेरीवच्छब्दं करोतीत्यर्थः । येषां पञ्चमीपाठस्तेषां यद्यपि देहिनः प्राधान्यं तथापि देहदेहिनोरभेदात्तस्मादिति देहं परामृश्य तदापादन एवोत्क्रान्तिप्रतिषेध इति व्याख्येयम् । तत्सामान्यादुक्तश्रुत्यास्य पाठस्यैकार्थत्वादिति योजना ।
इदानीं काण्वपाठस्यानुगुण्यमाह -
येषां तु षष्ठीपाठ इति ।
सम्बन्धविशेषाकाङ्क्षायां भोक्ता प्राणानां भोगोपकरणत्वविशेषोऽत्रैव प्राणमयो मनोमयः इति पूर्वश्रुत्युक्तो ग्राह्यः । न शाखान्तरस्थमपादानत्वं ग्राह्यं जीवादुत्क्रान्तेरप्राप्तायाः प्रतिषेधायोगात् । अतो विद्वत्सम्बन्धिप्राणानामुत्क्रान्त्यपादानापेक्षायां चक्षुष्टो वा मूर्ध्नो वेत्युक्तदेहप्रदेशा एव ग्राह्याः । तथा चायमर्थः - तस्य विदुषो भोगोपकरणात्मकाः प्राणाः देहप्रदेशेभ्यो नोत्क्रामन्तीति । एवं च प्राप्तोत्क्रान्तिनिषेधार्थत्वं वाक्यस्येति सर्वं चतुरस्रम् । अपि चेति स्पष्टार्थम् । सम्यगात्मभावेन भूतानि पश्यतः अपदस्य प्राप्यपदरहितस्य पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति तदभावादिति स्मृतियोजना ।
समृत्यन्तरविरोधं शङ्कते -
ननु गतिरपीति ।
सगुणविद्याबलेनैषा गतिरिति परिहरति -
सशरीरस्येति ।
ननु तर्हि 'तयोर्ध्वमायन्नमृतत्वमेति', 'स एवैतान्ब्रह्म गमयति' इत्यादिश्रुतीनां का गतिः, तत्राह -
गतीति ॥१३ ॥ ॥१४॥
तानि परे तथाह्याह ।
पूर्वत्र गतिनिषेधेन विद्वत्कलानां घ्राणादीनामत्रैव लय उक्तः । तमुपजीव्य स किं तत्तत्कलाप्रकृतिषु पृथिव्यादिषु स्यादुत परमात्मनीति श्रुतिद्वयदर्शनात्संशयः कार्यः ।
तत्र साक्षात्प्रकृतौ विकारलय इति न्यायानुगृहीतया 'गताः कलाः' इति श्रुत्या पूर्वपक्षमग्रे वदन्नादौ सिद्धान्तमाह -
तानीति ।
यथा नद्यः समुद्रं प्राप्य लीयन्ते एवमेवास्य परितः सर्वत्र ब्रह्मद्रष्टुरिमाः प्राणश्रद्धाद्याः पुरुषायणाः पुरुषे कल्पिताः पुरुषमेव ज्ञेयं प्राप्य लयं गच्छन्तीत्यर्थः । मनःप्राणयोरेकीकरणेन कलानां पञ्चदशत्वम् । प्रतिष्ठा इति द्वितीयाबहुवचनम् । स्वस्य प्रकृतीः पृथिव्याद्या इत्यर्थः । वस्तुगत्या विद्वद्दृष्ट्या परमात्मनि कलालयेऽपि लोकदृष्ट्या प्रतिष्ठासु लयोक्तिरविरुद्धा । तथा च कलाः स्वप्रकृतिषु विलाप्य ताभिः सह पुरुषे लीयन्ते इति श्रुतिद्वयतात्पर्यम् ॥१५॥
अविभागो वचनात् ।
उक्तलयमुपजीव्य लयस्य द्वेधादर्शनात्संशयमाह -
स पुनरिति ।
मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् । अवशेषो मूलकारणे शक्त्यात्मना स्थितिः । पुनर्जन्मयोग्यतेति यावत् । विमतः कलालयः सावशेषः, कलालयत्वात्सुषुप्तिवदिति पूर्वपक्षः ।
विमतो निरवशेषः, विद्याकृतत्वाद्रज्ज्वा विद्यया सर्पलयवदिति युक्त्युपेतश्रुत्या सिद्धान्तयति -
ब्रवीतीति ।
नामरूपे शक्त्यात्मके अपि भिद्येते इत्यर्थः ॥१६॥
तदोकोग्रज्वलनम् ।
सृतेर्मार्गस्योपक्रमो नाडीप्रवेशनियमस्तं वक्तुं सूत्रभागव्याख्याद्वाराधिकरणविषयमाह -
तस्येति ।
स मुमूर्षुस्तेजोमात्रा इन्द्रियाणि । तस्य हृदयस्याग्रं नाडीमुखं तस्य ज्वलनं भाविफलस्फुरणं प्रद्योताख्यम् । चक्षुष्टो वेत्यनियमश्रुतेस्तयोर्ध्वमायन्निति विशेषश्रुतेश्च संशयः किमुपासकोऽप्यनुपासकवद्येन केनचिद्द्वारेण निर्गच्छति उत मूर्धन्यनाड्यैवेति । अत्र पूर्वपक्षे विद्याकृतातिशयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।
वचनादविभागवदनियम इति प्राप्ते सिद्धान्तयति -
आचष्ट इति ।
येन केनचिन्मार्गेण निर्गतस्यापि ब्रह्मलोकप्राप्तौ विद्याशेषत्वेन मार्गानुस्मृतिविधेः केवलादृष्टार्थत्वं स्यादतोऽन्वहं स्मृतेनैव मार्गेण गमनं युक्तमिति भावः । हार्दं ब्रह्म । विष्वङ्नानाविधा अन्या नाड्योऽन्येषामित्यर्थः । सुषुम्नाख्या नाडी हृदयान्निर्गता दक्षिणाक्षितालुकण्ठान्तस्तननासिकामध्यभित्तिद्वारा ब्रह्मरन्ध्रं प्राप्ता सूर्यरश्मिभिरेकीकृता ब्रह्मलोकमार्ग उपासकस्येति स्थितम् ॥१७॥
रश्म्यनुसारी ।
प्रकरणशोधनपूर्वकमुपासकस्य रश्म्यनुसारित्वं विषयमाह -
अस्तीत्यादिना ।
अथ प्रारब्धान्ते एतदुत्क्रमणं यदा स्यादथ तदा एतैरेव नाडीसम्बद्धै रश्मिभिरुत्क्रामतीत्यर्थः । अत्र सम्बन्धस्य कालविशेषाश्रवणाद्रात्रौ रश्म्यभावाच्च संशयमाह -
तत्किमिति ।
पूर्वोक्तनाडीसम्बद्धरश्मीनामत्रोपजीव्यत्वात्सङ्गतिः ।
पूर्वपक्षे रात्रौ मृतस्य रश्मिप्राप्त्यर्थं सूर्योदयप्रतीक्षास्ति, सिद्धान्ते नास्तीति मत्वा सिद्धान्तं प्रतिजानीते -
अविशेषेणेति ॥१८॥
पूर्वपक्षबीजमुपन्यस्य दूषयति -
निशीत्यादिना ।
शिरा नाड्यः प्रतायन्ते विस्तृता भवन्ति, सृप्ताः सम्बद्धाः ।
श्रुतसम्बन्धस्य रात्रौ सत्त्वे युक्तिमाह -
निदाघेति ।
तर्हि हेमन्तादिरात्रिष्वौष्ण्योपलब्धिः स्यादित्यत आह -
स्तोकेति ।
सविता रात्रावप्यहर्दधातीति धारणाभिधानं स्तोकरश्म्यनुवृत्त्यभिप्रायमेवेत्यर्थः । किञ्च यदि रात्रौ मृतस्य रश्मियोगं विनैवोर्ध्वगतिः स्यात्तदा रश्मिश्रुतेर्दिवामृतविषयतया सङ्कोचः स्यादूर्ध्वगत्यभावे च विद्यायामप्रवृत्तिः स्यात् । न च प्रतीक्षयोर्ध्वगतिरिति वाच्यम् , रश्म्युदयात्प्राग्देहदाहे आदित्यप्रतीक्षावैयर्थ्यापातादप्रतीक्षाश्रुतिविरोधाच्च । तस्माद्यदा कदाचिन्मृतस्य रश्मिप्राप्त्या झटिति ब्रह्मलोकप्राप्तिरिति ॥१९॥
एवं दक्षिणायने मृतो विद्वान्विद्याफलमाप्नोति न वेति विद्याया नित्यवत्फलश्रुतेरुत्तरायणप्राशस्त्यशास्त्राच्च सन्देहे पूर्वोक्तहेतूनतिदिशति -
अतश्चायनेऽपि दक्षिणे ।
पूर्वपक्षमाशङ्क्यापनुदति -
उत्तरायणेत्यादिना ।
अज्ञानामुत्तरायणे दैवान्मरणं चेत्प्रशस्तमित्यभिज्ञाभिवचनरूपाचारपरिपालनार्थं भीष्मस्य प्रतीक्षा । षण्मासानिति श्रुतिस्तूत्तरायणदेवतापरेति वक्ष्यते । तथा च देवतायाः सदा सत्त्वाद्विद्यया दक्षिणायनकालेऽपि तत्प्राप्तिरविरुद्धेति भावः ॥२०॥
स्मृतिबलात्कालप्राधान्यं शङ्कते -
ननु चेति ।
श्रौतदहराद्युपासकस्यास्माभिः कालानपेक्षोक्ता, स्मार्तयोगिनां तु कालापेक्षा स्मृतावुच्यत इत्यविरोधमाह -
योगिन इति ।
योगी दहराद्युपासक एव स्मृत्युक्तः किं न स्यादित्यत आह -
स्मार्ते चेति ।
भगवदाराधनबुद्ध्यानुष्ठितं कर्म योगः 'अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च' इति स्मृतेः । धारणापूर्वकोऽकर्तृत्वानुभवः साङ्ख्यम् , 'इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्' इति स्मृतेः । ननु श्रुतिस्मृत्योर्भिन्नार्थत्वमयुक्तं प्रत्यभिज्ञाविरोधादिति शङ्कते -
नन्वग्निरिति ।
कालाग्रहिणं प्रति भिन्नार्थत्वमुक्तम् । यदि तु श्रौतार्थप्रत्यभिज्ञया कालशब्दो देवतापरस्तर्ह्यैकार्थ्यमेवेति समाध्यर्थः । तस्माद्विद्यासामर्थ्यात्सर्वदैव दिष्ठङ्गतस्य उपासकस्य फलप्राप्तिरिति सिद्धम् ॥२१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां चतुर्थध्यायस्य द्वितीयः पादः ॥२॥
॥ इति चतुर्थस्याध्यायस्योत्क्रान्तिगतिनिरूपणाख्यो द्वितीयः पादः ॥
चतुर्थेऽध्याये तृतीयः पादः ।
एवमुत्क्रान्तिं निरूप्य तत्साध्यं मार्गं गन्तव्यं च निरूपयितुं पादमारभते -
अर्चिरादिना तत्प्रथितेः ।
वृत्तानुवादपूर्वकमाद्याधिकरणस्य विषयं मार्गमाह -
आसृतीति ।
विरजा विरजसः निष्पापा इत्यर्थः । श्रुतिविप्रतिपत्त्या संशयः । पूर्वं यदाकदाचिन्मृतस्यापि फलप्राप्तिरुक्ता तद्वद्येन केनचिन्मार्गेण गतिरिति पूर्वपक्षफलं विकल्पः, सिद्धान्ते मार्गैक्यमिति विवेकः । उपासनाभेदात्तच्छेषत्वेन ध्येयानां मार्गाणां भेदः, एवकाराच्च । किञ्च मार्गभेदे सत्यस्मादयं मार्गस्त्वरया प्रापक इति युक्तं न मार्गैक्य इत्यर्थः ।
उपासनाभेदेऽप्युपास्यब्रह्मैक्यवन्मार्गैक्यमविरुद्धमिति सिद्धान्तयति -
एवमिति ।
तस्य मार्गस्य प्रसिद्धत्वादिति हेत्वर्थः ।
ये चेत्यविशेषश्रुतिरश्रुतगतिविद्याविषयेति मार्गभेदं शङ्कते -
स्यादेतदिति ।
एकस्यैव मार्गस्यानेकान्यग्न्यादीनि विशेषणानीत्युक्ते लाघवान्न मार्गभेदः । प्रत्यभिज्ञानाच्चेति समाध्यर्थः ।
गन्तव्यैक्यं विवृणोति -
तथा हीति ।
परावतो दीर्घायुषो हिरण्यगर्भस्य परा दीर्घाः समाः संवत्सरान्वसन्ति कार्यब्रह्मणो या जितिः सर्वत्र जयः, व्युष्टिर्व्याप्तिस्तां लभत इत्यर्थः ।
एवं गन्तव्यैक्यवत्प्रत्यभिज्ञया मार्गैक्यनिश्चयात्प्रकरणभेदोऽप्रयोजक इत्युक्तं सम्प्रत्येवकारत्वरावचनयोर्गतिमाह -
यत्त्वित्यादिना ।
रात्रौ स्पष्टरश्म्यभावाद्विदुषो रश्म्ययोगप्राप्तौ तन्निरासार्थमेवकारो नान्यव्यावृत्त्यर्थः । यथा लौकिकमार्गे विलम्बस्तथा अर्चिरादौ नेति त्वरावचनोपपत्तिरित्यर्थः ।
मार्गैक्ये लिङ्गमाह -
अपि चेति ।
शुभमार्गबाहुल्ये तृतीयस्थानोक्तिर्न स्यादिति भावः ।
उत्तरमार्गैक्येऽप्यर्चिरादिनेति विशेषणे को हेतुरित्यत आह -
भूयांसीति ॥१॥
उक्तं मार्गस्यैक्यमुपजीव्य पर्वक्रममाह -
वायुमब्दात् ।
अर्चिरादिष्वस्मादयमनन्तर इति क्रमेण विशेषणविशेष्यभाव उच्यत इत्यधिकरणस्य तात्पर्यमुक्त्वा विषयमाह -
स एतमिति ।
अत्राग्न्यनन्तरं पठितो वायुर्विषयः । स किमर्चिरात्मकाग्नेरनन्तरमुत संवत्सरात्पर इति पाठाद्वक्ष्यमाणविशेषश्रुतेश्च संशये सिद्धान्तमेवोपक्रमते -
उच्यत इति ।
पुरुषः उपासकोऽस्माल्लोकाद्देहात्प्रैति निर्गच्छति तस्मै प्राप्ताय पुरुषाय स वायुस्तत्र स्वात्मनि विजिहीते छिद्रं करोति, तेन वायुदत्तेन रथचक्रछिद्रतुल्येन द्वारेणोर्ध्वमादित्यं गच्छतीति श्रुत्यर्थः ।
इदानीं पूर्वपक्षमाह -
कस्मात्पुनरिति ।
पाठबलादर्चिषोऽनन्तरो वायुरित्यर्थः । कौषीतकिनां पाठमात्रम् , न क्रमविशेषवाची कश्चिच्छब्दोऽस्ति । काण्वानां तु तेनेत्यूर्ध्वमिति च शब्दाभ्यां क्रमनिश्चयात्पाठबाध इति सिद्धान्तार्थः ।
अस्त्वर्चिरादिमार्गे छान्दोग्यस्थे संवत्सरपाठाद्वायोरब्दात्परत्वम् , वाजिश्रुतिस्थे तु संवत्सरस्याश्रुतेः कथमब्दात्परो वायुरित्यत आह -
वाजेति ।
तर्हि देवलोकाद्वायुमिति सूत्रं स्यादित्यत आह -
वायुमब्दादिति त्विति ।
संवत्सरस्य मासावयवित्वान्मासानन्तर्यं संवत्सरात्परो देवलोकस्ततः परो वायुर्वायोः पर आदित्य इति श्रुतिद्वये क्रमो निष्पन्नः । तेनेति तृतीयाश्रुत्या वायोरादित्यपूर्वत्वावगमादिति, सूत्रे तु वायुपदं देवलोकपूर्वकवायुपरमिति स्थितम् ॥२॥
एवं कौषीतकिभिरग्न्यनन्तरं पठितस्य वायोः स्थानमुक्त्वा वाय्वनन्तरं पठितस्य वरुणस्यार्चिरादिमार्गे स्थानमाह -
तडितोऽधि वरुणः सम्बन्धात् ।
पठितो वरुणादिर्मार्गपर्वत्वेन सम्बध्यते न वेति सन्देहेऽर्चिषोऽहरित्यादि पञ्चम्यार्चिरादीनां क्रमेण मार्गपर्वतया बद्धत्वाद्वायोरिव स्थानविशेषश्रुत्यभावादलब्धस्थानो वरुणादिर्न सम्बध्यत इति प्राप्ते सिद्धान्तमाह -
आदित्यादिति ।
अपां विद्युत्कार्यत्वेन सम्बन्धे मानमाह -
विद्योतत इति ।
वरुणस्याब्द्वारा विद्युत्सम्बन्धात् 'आगन्तुकानामन्ते निवेशः' इति न्यायाच्च विद्युदानन्तर्ये सति यथापाठमिन्द्रप्रजापत्योः क्रम इत्यर्थः ॥३॥
एवमर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति -
आतिवाहिकास्तल्लिङ्गात् ।
चिह्ननिर्देशसाम्याल्लोकशब्दान्नेतृत्वलिङ्गाच्च संशयः । आद्यपक्षद्वयं पूर्वपक्षः ।
अर्चिरादयो विद्युदन्ताश्चेतना नेतारश्चामानवपुरूषेण नेत्रा सह पठितत्वादिति सिद्धान्तयति -
एवमित्यादिना ।
यथाश्रुत्यमानवस्यास्तु नेतृत्वं नार्चिरादीनामिति शङ्कते -
तद्वचनमिति ।
पुरुषस्यामानवत्वं नेतृत्वं चेत्युभयपरत्वे वाक्यभेदः स्यादतोऽर्चिरादिपदैर्नेतार एव मानवाः प्रकृताः प्रकरणबलाद्विद्युदनन्तरं मानवस्य नेतुः प्राप्तौ प्रकरणप्राप्तनेतृत्वानुवादेनामानवत्वमेकमेव प्रतिपाद्यत इति वक्तव्यमित्याह -
नेति ।
नेतृप्रकरणानङ्गीकारे त्वमानवः पुरुषो गमयतीति वाक्यं भिद्येत अमानवत्ववन्नेतृत्वस्याप्यप्राप्तेरिति भावः ।
नेतृत्वानुवादलिङ्गस्यानुग्राहकन्यायपरं सूत्रं गृह्णाति -
नन्विति ॥४॥
यद्यनेतारोऽचेतना एवार्चिरादयस्तर्हि मार्गतद्गन्त्रोरुभयोरपि व्यामोहादज्ञत्वादूर्ध्वगतिर्न स्यादतः स्वयं प्रयत्नशून्यश्चेतनान्तरेण नेय इति लौकिकन्यायानुग्रहात्तत्सिद्धेर्नेतृत्वसिद्धेरुक्तलिङ्गं न्यायोपेतमिति सूत्रार्थः । पूर्वपक्षद्वयं दूषयति -
अनवस्थितत्वादित्यादिना ।
अर्चिरहरादीनामस्थिरत्वाद्रात्र्यादौ मृतस्य प्रतीक्षा नास्तीत्युक्तत्वाच्च न मार्गचिह्नत्वं भोग्यत्वं वा, देवतात्वे त्वस्थिरत्वदोषो नास्तीत्यर्थः ।
यत्तूपदेशस्वारस्याच्चिह्नत्वं भातीति, तत्राह -
अर्चिषोऽहरिति ।
चिह्नत्वनेतृत्वसंशयाच्च वाक्यशेषान्निर्णय इत्याह -
अपि चेति ।
यदुक्तं लोकशब्दाद्भोग्यत्वमिति तन्नेत्याह -
सम्पिण्डितेति । ॥५॥
सूत्रान्तरं गृह्णाति -
कथं पुनरिति
अमानवो विद्युल्लोकमागतो वैद्युतस्तेनेत्यर्थः । श्रुतौ वैद्युताल्लोकादित्यर्थः । श्रुत्या वरुणादीनां नेतृत्वाभावेऽप्यनुग्राहकत्वेन मार्गान्तर्भाव इति भावः ॥६॥
एवं मार्गं निरूप्य गन्तव्यं चिन्तयति -
कार्यं बादरिरस्य गत्युपपत्तेः ।
परं ब्रह्म गन्तव्यमिति पूर्वपक्षे मार्गस्य मुक्त्यर्थता कार्यं ब्रह्मेति सिद्धान्ते भोगार्थतेति मत्वा प्रथमं सिद्धान्तमाह -
तत्र कार्यमेवेति ।
सर्वगतस्यापि प्रदेशान्तरविशिष्टत्वेनाकाशस्य गन्तव्यत्वं दृष्टम् , ब्रह्मणस्तु प्रत्यक्त्वान्न कथमपि गन्तव्यतेत्यर्थः ॥७॥
ब्रह्मलोकेष्विति बहुवचनलोकशब्दाधारसप्तमीश्रुतिभिर्गन्तव्यस्य परस्माद्व्यावृत्तत्वाच्च न परं गन्तव्यमित्याह -
विशेषितत्वाच्चेति ।
परब्रह्मणि भोग्यत्वोपचाराद्गौणी लोकश्रुतिरित्यर्थः । नपुंसकब्रह्मशब्देन कारणवाचिना कार्यं लक्ष्यते गन्तव्यत्वन्यायोपेतबहुवचनाद्यनेकश्रुत्यनुग्रहाय । न चानावृत्तिलिङ्गात्परस्य गन्तव्यता, क्रममुक्त्या लिङ्गस्यान्यथासिद्धेरिति भावः ॥८॥
प्रतिसञ्चरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्ते समष्टिलिङ्गशरीररूपविकारावसाने ब्रह्मलोकनिवासिनः कृतात्मानः शुद्धधियस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना । एवं सिद्धान्तमुक्त्वा तेन निरस्तं पूर्वपक्षमाह -
कं पुनरित्यादिना ॥९ ॥ ॥१० ॥ ॥११ ॥ ॥१२॥
दहरविद्यायां कठवल्लीषु परब्रह्मप्रकरणे च तयोर्ध्वमायन्निति गतिर्दर्शिता ॥१३॥
एवं ब्रह्मश्रुत्यमृतत्वलिङ्गाभ्यां प्रकरणाच्च परविषया गतिरित्युक्तम् , सम्प्रति प्रजापतेः सभां वेश्म प्राप्नुयामिति उपासकस्य मरणकाले कार्यप्राप्तिसङ्कल्पश्रुतेर्न परं गन्तव्यमिति शङ्कां निरस्यति -
न च कार्य इति ।
परस्य प्रकृतत्वात्, यशःपदस्य परमात्मनामत्वप्रसिद्ध्या यशःपदेनात्मोक्तिः । यश आत्मा ब्राह्मणानामहं भवामि, तथा राज्ञां यशो विशां यश इति सार्वात्म्यलिङ्गाच्च परप्राप्तिसङ्कल्प एवायमित्यर्थः ।
अस्तु वेश्मप्रतिपत्तीच्छा परब्रह्मविषया तथापि सा कथं गतिपूर्विका स्यादित्यत आह -
सा चेति ।
तत्तत्र ब्रह्मलोके विद्याविहीनेनापराजिता पूरस्ति ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणां विमितं निर्मितं हिरण्मयं वेश्मास्ति तत्प्रतिपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्राप्तिरुक्ता । तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिशब्दसामान्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः ।
किञ्च पद गताविति धातुपाठाद्वेश्म प्रपद्ये इत्यत्र मार्गापेक्षा भातीत्याह -
पदेरपीति ।
पूर्वपक्षमुपसंहरति -
तस्मादिति ।
आद्य एव सिद्धान्तपक्ष इति दृढीकर्तुमुपसङ्क्रमते -
ताविति ।
ब्रह्मशब्दमुख्यत्वादिहेतूनामाभासत्वं स्फुटयति -
न हीति ।
गन्तव्यत्वस्य ब्रह्मलोकेष्विति बहुवचनादेः सङ्कल्पादेव गन्धादिदिव्यभोगश्रुतेश्च परब्रह्मण्यसम्भवान्मुख्यार्थत्याग इत्यर्थः । यद्यप्येतद्वै सत्यकाम परं चापरं च ब्रह्मेत्यादिश्रुतिषु प्रयोगसाम्याद्ब्रह्मशब्द उभयत्र रूढतया मुख्य एव तथापि पूर्णे परस्मिन्नवयवार्थस्य निरतिशयमहत्त्वस्य लाभादपरब्रह्मण्यमुख्य इत्यङ्गीकृतमिति मन्तव्यम् ।
यदुक्तं कठवल्लीषु प्रकरणबलाद्गतिः परविषयेति, तत्राह -
परेति ।
यथा विद्यासम्बद्धसुषुम्नास्तुत्यर्थं तदसम्बद्धनाड्यन्तरकीर्तनं तथा परविद्यास्तुत्यर्थं तत्प्रकरणेऽप्यपरविद्याश्रयगतिकीर्तनं युज्यते, गतिं विनापि हि परविद्या निरतिशयफला तस्यां त्वपरविद्याफलं गतिसाध्यमन्तर्भवतीति स्तुतिलाभादित्यर्थः ।
यदप्युक्तं प्राप्तिसङ्कल्पोऽपि प्रकृतपरविषय इति तन्नेत्याह -
प्रजापतेरिति ।
प्रजापतिसभावेश्मश्रुतिभिस्तत्सङ्घातात्मकवाक्येन च प्रकरणं बाध्यम् , यशोऽहमिति सार्वात्म्यं तूपासनार्थमपरब्रह्मण्युपयुज्यत इत्यर्थः ।
स्वपक्षमुक्त्वा परमतं दूषयति -
केचिदित्यादिना ।
सर्वगतस्य स्वात्मभूतस्यापि ब्रह्मणः संसारदेशाद्देशान्तरेण तत्कालात्कालान्तरेण विशिष्टतया गन्तव्यत्वं स्यादिति पृथिवीवयोदृष्टान्ताभ्यां शङ्कते -
नन्विति ।
यत्नं विनैव प्राप्तमनन्यत्वम्, अवस्थातद्वतोरभेदात्स्वात्मभूतत्वम् ।
ननु युक्तं भूवयसोः प्राप्तयोरपि देशान्तरकालान्तरविशिष्टत्वेन गन्तव्यत्वं तयोर्गन्तृभिन्नत्वात्, ब्रह्मणस्तु गन्त्रभिन्नस्य कथं गन्तव्यत्वं तत्राह -
सर्वशक्तीति ।
या प्राप्ता भूः सा न गन्तव्या यच्च गन्तव्यं देशान्तरं तत्त्वप्राप्तमिति कुतः प्राप्तस्य गन्तव्यता वयसोऽपि कालान्तरेऽभिव्यक्तिमात्रं न गन्तव्यत्वमिति वस्तुगतिः ।
अङ्गीकृत्य विशिष्टभूवयसोर्गन्तव्यतां परब्रह्मणो देशकालवैशिष्ट्याभावान्न कथञ्चिदपि गन्तव्यतेत्याह -
नेत्यादिना ।
'अनादिमत्परं ब्रह्म' इत्याद्या स्मृतिर्दृश्यविशेषस्य दृशि कल्पितत्वाद्दृगात्मनो निर्विशेषतेति न्यायः ।
सगुणमेव ब्रह्म सूत्रात्मापेक्षया परं गन्तव्यम् , निर्विशेषं तु नास्त्येवेति शङ्कते -
जगदुत्पत्तीति ।
किं निर्विशेषस्यासत्त्वं मानाभावात्सविशेषश्रुतिविरोधाद्वा । नाद्य इत्याह -
नेति ।
द्वितीयं शङ्कते -
उत्पत्त्यादीति ।
सविशेषश्रुतीनां निर्विशेषश्रुतिशेषत्वान्न विरोध इत्याह -
नेति ।
निर्विशेषश्रुतीनामेव सविशेषश्रुतिशेषत्वं किं न स्यादित्याह -
कस्मादिति ।
तासां स्वार्थे फलवत्त्वेन निराकाङ्क्षत्वाच्छेषिता विशेषश्रुतीनां त्वफलत्वान्निषेध्यविशेषसमर्पणादिद्वारेण शेषत्वं फलवत्सन्निधावफलं तदङ्गमिति न्यायादित्याह -
उच्यत इत्यादिना ।
न केवलं न्यायाच्छेषता किन्तु श्रुत्यापीत्याह -
प्रत्यक्षं त्विति ।
तत्र मूलकारणे ब्रह्मण्येतच्छुङ्गं जगदात्मकं कार्यमुत्पन्नमित्युपक्रम्य तेन शुङ्गेन तन्मूलमन्विच्छेत्युपसंहारे सत एव ज्ञेयत्वमुक्तं छान्दोग्ये । तथा तैत्तिरीयकेऽपि जगज्जन्माद्यनुवादेन ब्रह्मण एव ज्ञेयत्वं दर्शितमतः सृष्टिश्रुतीनां श्रुत्यैव निर्विशेषधीशेषता भातीत्यर्थः ।
एवं ब्रह्मणो निर्विशेषत्वान्न गन्तव्यतेति फलितमाह -
एवमिति ।
स्पष्टनिषेधाच्च परस्य न गन्तव्यतेत्याह -
न तस्येति ।
एवं गन्तव्यालोचनया गतिं निरस्य गन्त्रालोचनयापि निरस्यति -
गतिकल्पनायां चेत्यादिना ।
भेदाभेदेन द्वौ कल्पावत्यन्तभेदस्तृतीयः कल्पः ।
नन्वत्यन्ताभेदकल्पः किमिति नोक्तः, तत्राह -
अत्यन्तेति ।
कल्पत्रये किं दूषणमिति पृच्छति -
यद्येवमिति ।
कल्पद्वयेऽपि दोषान्तरमाह -
विकारावयवपक्षयोश्चेति ।
विकारावयवरूपजीवविशिष्टस्य ब्रह्मणः स्थिरत्वाज्जीवानां गत्यागती न स्याताम् । न ह्यचलातिस्थूलपाषाणस्थयोर्मण्डूकपाषाणावयवयोश्चलनमस्तीत्यर्थः । अस्माकं त्वज्ञानात्कल्पितोपाधिभिर्गत्यागतिविभ्रम इति भावः ।
तृतीयकल्पमनूद्य विकल्प्य दूषयति -
अथेत्यादिना ।
अभेदश्रुतिविरोधरूपो दोषो मम नास्तीति भेदाभेदवाद्याह -
विकारावयवयोरिति ।
भिन्नयोरभेदो मुख्यो न युक्तो विरोधादिति परिहरति -
नेति ।
किञ्च पक्षत्रयमप्ययुक्तं संसारित्वस्य तात्त्विकजीवभावस्य नाशे तात्त्विवजीवस्वरूपनाशप्रसङ्गात् । न चास्माभिरिव त्वया ब्रह्मात्मत्वं जीवस्य तात्त्विकरूपमङ्गीकृतं यदस्य संसारनाशेऽपि न नश्येदित्याह -
सर्वेष्विति ।
ननु किं ब्रह्मत्वेन, संसाराभावः किल मोक्षः स च कर्माभावमात्रेण सेत्स्यतीति क्रमजडानां मतमुद्भाव्य निरस्यति -
यत्त्वित्यादिना ।
तदिति ।
एवंवृत्तं मोक्षहेतुरित्यस्मिन्नर्थे मानाभावादित्यर्थः ।
तर्क एव मानमित्यत आह -
न चैतत्तर्कयितुमिति ।
ननु तवाप्येतत्तर्कमात्रमेकस्मिञ्जन्मन्यनेकविरुद्धफलानां कर्मणां भोगायोगादस्त्यवशिष्टं कर्म जन्मान्तरस्य निमित्तमित्याशङ्क्य तत्र मानमाह -
कर्मशेषसद्भावसिद्धिश्चेति ।
सन्त्वनारब्धफलानि पुण्यपापानि तेषां नित्याद्यनुष्ठानेन क्षयान्न जन्मान्तरमिति शङ्कते -
स्यादेतदिति ।
पुण्येन पुण्यस्य न नाशः अविरोधादन्यथातिप्रसङ्गात् ।
पापस्यापि सर्वात्मना पुण्यनाश्यत्वे मानं नास्तीति सञ्चितपुण्यपापाभ्यां जन्मान्तरं दुर्वारमित्याह -
तन्नेत्यादिना ।
क्रियमाणनित्यादिनापि जन्म स्यात्, कर्मणा पितृलोक इत्यविशेषश्रुतेः, स्मृतेश्चेत्याह -
न च नित्येति ।
प्रत्यवायनिरासार्थे नित्याद्याचारे सत्यनु पश्चात्फलान्तरं निष्पद्यत इत्यत्र दृष्टान्तः ।
तद्यथेति ।
निर्मिते आरोपिते सतीत्यर्थः ।
तथापि काम्यादिकर्मसत्तानिश्चयो नास्त्यत आह -
संशयितव्यं त्विति ।
ज्ञानं विना देहपाते मोक्ष एवेति निश्चयालाभात्त्वत्पक्षे क्षतिरिति भावः ।
ब्रह्मभिन्नस्य जीवस्य कर्तृत्वादिस्वभावस्य मोक्षाशापि न युक्तेत्याह -
न चेति ।
कर्तृत्वादिरूपं कार्यं न स्वभावः किन्तु तच्छक्तिरिति शङ्कते -
स्यादेतदिति ।
कार्यगम्यायाः शक्तेः कार्यस्यात्यन्तानुत्पादे सत्त्वमयुक्तमतः शक्तिसत्त्वे तद्विषयस्य कार्यस्यादृष्टदेशकालादिनिमित्तानां चात्मना शक्तिद्वारा नित्यसम्बद्धत्वान्मोक्षो न स्यादिति परिहरति -
तच्चेत्यादिना ।
मोक्षसिद्ध्यर्थं जीवस्य ब्रह्मत्वाङ्गीकारे संसारानुपपत्तिमाशङ्क्याज्ञानादुपपत्तिमसकृदुक्तां स्मारयति -
परस्मादित्यादिना ।
प्रासङ्गिकं परिहृत्य परमं प्रकृतमुपसंहरति -
तदेवमिति ।
ननु परविद्यायामप्याप्नोतिपदेन गतिः श्रुतेत्यत आह -
ब्रह्मविदाप्नोतीति ।
वैफल्याच्च गतेर्न परविषयत्वमित्याह -
अपि चेति ।
अनुचिन्तनपक्षं प्रत्याह -
न च नित्यसिद्धेति ।
कथं तर्हि कैश्चित्परविषयत्वं गतेरुक्तमित्याशङ्क्य भ्रान्त्येत्याह -
तत्र परापरेति ।
प्रश्नपूर्वकं परापरब्रह्मविभागं वदन्नपरब्रह्मणि गतेरर्थवत्त्वमाह -
किं द्वे इत्यादिना ।
व्यापिनो जीवस्य कथं गतिस्तत्राह -
सर्वगतत्वेऽपीति ॥१४॥
एवं गन्तव्यं निरूप्य गन्तॄन्निर्धारयति -
अप्रतीकेति ।
'स एवैनान् ब्रह्म गमयति' इत्यविशेषश्रुतेः तत्क्रतुन्यायाच्च । संशयमाह -
इदमिति ।
अनियमाधिकरणे तत्त्वविदोऽन्यत्र सर्वोपासकानां मार्गोपसंहार उक्तः, इदानीमप्रतीकोपासकानामेव मार्गो न सर्वेषां विकारोपासकानामित्युभयथाभावोक्तौ पूर्वोक्तविरोधः स्यात्, तस्मादुपासकमात्रस्योत्तरमार्गसिद्धिरिति पूर्वपक्षफलम् , सिद्धान्ते तूभयथाभावसिद्धिः । अदोषादिति सूत्रे पदच्छेदः, अविरोधादित्यर्थः । अनियमः सर्वासामिति सूत्रे सर्वशब्दस्य प्रतीकोपासकान्यपरत्वादिति भावः । यद्यपि प्रतीकध्यायिनां पितृयाणतृतीयस्थानयोरप्रवेशादर्चिरादिमार्गो वाच्यस्तथापि तेषां विद्युत्पर्यन्तमेव गमनमस्तु न ब्रह्मप्राप्तिर्ब्रह्मक्रतुत्वाभावात् । यो यत् ध्यायति स तत्प्राप्नोति हि तत्क्रतुन्यायः श्रुतिमूलः । प्रतीकेषु च नामादिषु ध्येयेषु ब्रह्मणो गुणत्वात्, न ब्रह्मध्यायित्वमस्ति । अस्य च न्यायस्य पञ्चाग्निविद्यायामाहत्यवादात्प्रत्यक्षवचनाद्बाध इष्ट इति सूत्रभाष्यार्थः ॥१५॥
किञ्च प्रतीकतारतम्येन फलतारतम्यश्रुतेर्न प्रतीकध्यायिनां ब्रह्मप्राप्तिरित्याह -
विशेषं चेति ।
तस्मादसति वचने ब्रह्मध्यायिन एव ब्रह्मगन्तार इति सिद्धम् ॥१६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ भाष्यरत्नप्रभायां चतुर्थाध्यायस्य तृतीयः पादः ॥३॥
॥ इति चतुर्थस्याध्यायस्य सगुणविद्यावतो मृतस्योत्तरमार्गामिधानाख्यस्तृतीयः पादः ॥
चतुर्थेऽध्याये चतुर्थः पादः ।
पूर्वपादे ब्रह्मोपासकानां कार्यब्रह्मप्राप्तिरुक्ता, सम्प्रति तेषामैश्वर्यविशेषं ब्राह्मलौकिकं पादस्योत्तरार्धेन प्रपञ्चयिष्यन्नादावभ्यर्हितपरविद्याप्राप्यं निर्विशेषब्रह्मभावमाह -
सम्पद्याविर्भावः स्वेनशब्दात् ।
निर्गुणविद्याफलवाक्यमुदाहृत्य स्वशब्दस्य स्वीयागन्तुकरूपस्वात्मरूपवाचित्वाभ्यां संशयमाह -
एवमिति ।
पूर्वपक्षे मोक्षस्य स्वर्गादविशेषः, सिद्धान्ते विशेष इति फलम् , तत्र मोक्ष आगन्तुकः, फलत्वात्स्वर्गवदिति न्यायोपेतयाभिनिष्पत्तिश्रुत्या पूर्वपक्षमाह -
किमित्यादिना ।
स्वशब्दश्रुतिबाधितो न्यायः अभिनिष्पत्तिश्च साक्षात्कारवृत्त्यभिप्राया बन्धध्वंसजन्मन्यौपचारिक्येवेति मत्वा सिद्धान्तयति -
एवमिति ।
मोक्षस्य फलत्वेन प्राप्तागन्तुकत्वनिरासार्थः स्वशब्द इति युक्तं स्वीयवाचित्वेऽत्वनर्थकानुवादः स्यादित्यर्थः ॥१॥
सूत्रान्तरं गृह्णाति -
कः पुनरिति ।
जागरिते ह्यान्ध्यादिदेहधर्मवान्भवति स्वप्ने तु हत एव केनचित् । अपि च पुत्रादिनाशाद्रोदितीव भवति, सुषुप्तौ तु विशेषाज्ञानाद्विनष्ट इवेति, बन्धदशायां कलुषितात्मना तिष्ठति मोक्षे तु विगलिताखिलदुःखः परितः प्रद्योतमानपूर्णानन्दात्मनावतिष्ठत इति महान् विशेष इत्यर्थः ॥२॥
कार्यगोचरमिति ।
कार्यं ज्योतिःप्राप्तमित्यर्थः ।
कार्यं प्राप्तोऽपि मुक्तः किं न स्यादित्यत आह -
न चानतिवृत्त इति ॥३॥
अविभागेन दृष्टत्वात् । स्वरूपस्थितमुक्तमुपजीव्य वादिविवादात् ब्रह्मभेदाभेदसंशये सत्यत्यन्तभेदं पूर्वपक्षमुक्त्वा सिद्धान्तमाह -
यस्येति ॥४॥
ब्राह्मेण जैमिनिः ।
उक्तं ब्रह्म स्वरूपमुपजीव्य स किं सत्येन सर्वज्ञत्वादिधर्मेण युक्तस्तिष्ठति उत धर्मस्य शशशृङ्गवदत्यन्तासत्त्वाच्चिन्मात्रात्मना तिष्ठति किं वा वस्तुतश्चिन्मात्रोऽपि जीवान्तरव्यवहारदृष्ट्या कल्पितसर्वज्ञत्वादिमानिति मुनिविप्रतिपत्तेः संशये सत्याद्यं पूर्वपक्षमाह -
अधुनेत्यादिना ।
तत्तत्पक्षसिद्धिरेव फलं द्रष्टव्यम् । सोऽन्वेष्टव्य इति विध्यर्थ उद्देशो य आत्मेत्यादिरुपन्यासशब्दार्थः । आदिपदाद्विधिव्यपदेशग्रहः ।
तत्राज्ञातज्ञापको विधिस्तमाह -
तथा स तत्रेति ।
सर्वज्ञ इत्यादिस्तु व्यपदेशोऽयं हि नोद्देशः विध्यभावान्नापि विधिः सिद्धवन्निर्देशादित्यर्थः ॥५॥
सत्यत्वादिधर्माणां सत्यत्वं दूषयन्नत्यन्तासत्त्वपक्षमाह -
चितितन्मात्रेणेति ।
चितिश्चैतन्यम् , शब्दज्ञानाद्यो विकल्पोऽसन्प्रत्ययस्तज्जाः अत्यन्तासन्त इति यावत् ।
अस्त्वभावधर्माणामसत्त्वं भावधर्माणां तु सत्त्वमित्याशङ्क्य तेषामप्यौपाधिकत्वादसत्त्वमित्याह -
सत्यकामेति ।
चिन्मात्रे मुक्ते जक्षणादिश्रुतिः कथं तत्राह -
अत एव चेति ।
सर्वधर्मनिषेधादेवेत्यर्थः ॥६॥
धर्माणां सत्यत्वमत्यन्तासत्त्वं चेति पक्षद्वयमयुक्तम् । अद्वैतश्रुतीनां सर्वज्ञत्वादिश्रुतिव्यवहारयोश्च बाधापातादतस्तृतीयपक्षः श्रेयानिति सिद्धान्तयति -
एवमपीति ।
अत्र केचिन्मुह्यन्ति - अखण्डचिन्मात्रज्ञानान्मुक्तस्याज्ञानाभावात्कुत आज्ञानिकधर्मयोग इति, ते इत्थं बोधनीयाः । ये ईश्वरधर्मास्त एव चिदात्मनि मुक्ते जीवान्तरैर्व्यवह्रियन्ते इति । न च मूलाविद्यैक्यात्तन्नाशे कुतो जीवान्तरमिति वाच्यम् , न वयं तन्नाशे जीवान्तरव्यवहारं ब्रूमः, किन्तु तदंशनाशेनांशारब्धाध्यात्मिकशरीरद्वयाभिमानिनो मुक्तावंशान्तरोपाधिका जीवा व्यवहर्तार इति वदामः । तर्हि नानविद्यापक्ष एव कुतो नाद्रियते जीवभेदस्यावश्यकत्वादिति चेत् । न । प्रकृतिनानात्वं प्रतिजीवं प्रपञ्चभेद इत्याद्यप्रामाणिकानेकार्थगौरवादिति सर्ववृद्धसम्मत एकाविद्यापक्ष एव श्रेयान्, अंशभेदेन च बन्धमुक्तिव्यवस्थेति सङ्क्षेपः ॥७॥
एवं परविद्याफलमुक्तमिदानीमपरविद्याफलं प्रपञ्चयति -
सङ्कल्पादेव तु तच्छ्रुतेः ।
एवकारस्यायोगान्ययोगव्यवच्छेदसाधारण्यात्संशयः, ब्रह्मलोकं गतस्योपासकस्य सङ्कल्पो यत्नान्तरसापेक्षः, भोगसामग्रीसङ्कल्पत्वादस्मदादिसङ्कल्पवत् । न चैवकारविरोधः सङ्कल्पेन सामग्र्या अयोगव्यवच्छेदेन सौलभ्यार्थत्वात्, यत्नानङ्गीकारे भोगपुष्ट्यसिद्धेश्चेति पूर्वपक्षार्थः । अत्र लोकवृत्तानुसरणं फलम् , सिद्धान्ते तु विद्याबलेन सङ्कल्पस्यैव भोगपुष्टिकरत्वसिद्धिरिति भेदः ।
किञ्च यदि भोगसङ्कल्पानन्तरमपि यत्नान्तरसाध्यनिमित्तापेक्षा स्यात्तर्हि निमित्तप्राप्तेः प्राग्जातसङ्कल्पस्य वन्ध्यत्वं स्याद्भोगे विलम्बात्ततः सत्यसङ्कल्पश्रुतेर्न यत्नान्तरापेक्षेत्याह -
निमित्तान्तरमपि त्विति ॥८॥
नन्वीश्वराधीनस्य विदुषः कथं सङ्कल्पमात्राद्भोगसिद्धिस्तत्राह -
अत एवेति ।
ईश्वरधर्म एव विदुष्याविर्भूत इति न सङ्कल्पभङ्ग इति भावः ॥९॥
एवकारवन्मनसेति विशेषणेनान्ययोगव्यवच्छेदाद्देहाद्यभाव इति पूर्वपक्षयति -
अभावं बादरिराह ह्येवम् ।
अत्रापि वादिविवादात्संशयः, तत्र देहादयो न सन्त्येव सदा सन्त्येवेति च पक्षद्वयं पूर्वपक्षः । कालभेदेनेच्छया सन्ति न सन्ति चेति सिद्धान्तपक्षो द्रष्टव्यः । फलं तु तत्तच्छ्रुतेर्मुख्यत्वमिति विवेकः ॥१० ॥ ॥११॥
द्वादशाहवदिति ।
य एवंविद्वांसः सत्रमुपयन्ति इत्युपायिचोदनागम्यत्वश्रुतेर्द्वादशाहस्य सत्रत्वम् , आसतेति चोपयन्तीति वा चोदितत्वं सत्रलक्षणमिति स्थितिः । तथा द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमेन द्विरात्रादिवदहीनत्वं चेत्यर्थः ॥१२ ॥ ॥१३ ॥ ॥१४॥
प्रदीपवदावेशः ।
सङ्कल्पमात्रान्निर्मितदेहानुपजीव्य तेषूभयथादर्शनात्संशयमाह -
भावमिति ।
अनादिलिङ्गशरीरस्यैकस्मिन्नेव शरीरे भावान्निर्मितानेकदेहेषु भोगासिद्धिः पूर्वपक्षफलम् , सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याचष्टे -
यथेत्यादिना ।
स एकधा त्रिधा पञ्चधेत्यादिश्रुत्या विदुष एवानेकधाभाव उक्तः । विद्वांस्तु न देहो नापि चिन्मात्रः । किन्तु लिङ्गोपहितात्मा । न च तस्य लिङ्गभेदं विनानेकत्वं सम्भवति । अतः श्रुतिबलादेकस्यैवानादिलिङ्गस्यानेकदेहेषु प्रवेशेन भेद एष्टव्यः । यद्यपि मूलप्रदीपस्य वर्त्यन्तरेषूत्पन्नदीपानां चात्यन्तभेदोऽस्ति लिङ्गस्य तु देहभेदकृतो भेदो न स्वतः, स्वतो लिङ्गभेदे तदुपहितजीवभेदादनुसन्धानानुपपत्तेः । आगन्तुकानेकलिङ्गसृष्टावसत्कार्यवादापाताच्च । तथापि प्रदीपत्वजात्यैक्येन व्यक्तिष्वैक्यारोपात्दृष्टान्तदार्ष्टान्तिकयोः साम्यं दृष्टव्यम् । तथा च यथा प्रदीपोऽनैकवर्तिषु प्रविशति एवं विद्यायोगबलाद्विद्वल्लिङ्गस्य व्यापित्वादनेकदेहेषु युगपदावेश इति सूत्रार्थः ।
विदुषोऽनेकधात्वं श्रुतमन्यथा न घटत इत्याह -
नैतदिति ।
इतश्च सात्मकत्वमित्याह -
न च निरात्मकानामिति ।
यदनादि मन एकदेहस्थं तदनुसारीणि देहान्तरस्थानि मनांसि भवन्ति तदवस्थानां तन्नियम्यत्वसम्भवादिति ।
अत्र योगशास्त्रसम्मतिमाह -
एषैवेति ।
निर्माणचित्तान्यस्मितामात्रात्प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति हि भगवत्पतञ्जलिना सूत्रितम् । योगिनोऽभिमानमात्रान्निर्माणचित्तानि निर्माणदेहेषु भवन्ति, तेषां नियामकमनादिचित्तमित्यर्थः ॥१५॥
उत्तरसूत्रव्यावर्त्यशङ्कामाह -
कथं पुनरिति ।
सलिलवत्सलिलः, स्वच्छ इत्यर्थः ।
न तु तद्द्वितीयमस्तीति क्वचित्सुषुप्तिमधिकृत्योक्तं 'तत्केन कम्' इत्यादि क्वचिन्मुक्तिं प्रकृत्योक्तम् । एवं विशेषज्ञानाभाववचनं सुषुप्तिमुक्त्यन्यतरापेक्षं सगुणोपासकस्य भोगोक्तौ न विरुध्यते भिन्नविषयत्वादित्याह -
स्वाप्ययेति ।
तत्रैव श्रुतौ तदधिकारवशात्सुषुप्त्यादिप्रकरणबलात्, उक्तवचनानामन्यतरापेक्षत्वमाविष्कृतं हि यतस्ततोऽवगम्यत इत्यर्थः । अत्र समुत्थानादिवाक्यं मुक्तिविषयं यत्र सुप्त इति सुप्तिविषयमिति विभागः ॥१६॥
जगद्व्यापारवर्जम् । सङ्कल्पादेवेत्यादिनोक्तैश्वर्यस्य जगत्सृष्ट्यादिव्यतिरिक्तविषयत्वेनात्रापवादात्सङ्गतिः । उभयथा दर्शनात्संशयः । ईश्वरनानात्वं पूर्वपक्षफलम् , सिद्धान्ते तु विद्यायोगिनामीश्वरनियम्यत्वादेकस्य नित्यसिद्धस्येश्वरस्यैव जगत्कर्तृत्वसिद्धिरिति विवेकः । प्रलयात्सर्गसमये यस्येक्षणपूर्वं कर्तृत्वं श्रुतौ प्रकृतं तस्यैव नियन्तृत्वादिर्जगद्व्यापारः । न ह्युपासकानां देहं विनेक्षणं सम्भवति । किञ्चेश्वरस्य नित्यसिद्धत्वाच्छब्दैकसमधिगम्यत्वाच्च जगत्स्रष्टृत्वं युक्तम् , न तु तत्प्रसादलब्धसिद्धीनां जीवानामित्याह -
नित्यशब्दनिबन्धनत्वाच्चेति ।
किञ्च विदुषां समप्राधान्ये मिथो विरोधः । एकं प्रत्यन्येषां गुणत्वे त्वेक एवेश्वर इत्याह -
समनस्कत्वादिति ॥१७॥
अधिकारे नियोजयत्यादित्यादीनित्याधिकारिकः, स चासौ मण्डलस्थश्च तस्य प्राप्यत्वोक्तेरित्यर्थः । मनसस्पतिः सूर्यमण्डलान्तःस्थः परमात्मा 'तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्' इति श्रुतेः । तथा च यदि पूर्वं निरङ्कुशं स्वाराज्यमुक्तं स्यात्तर्हि ईश्वरस्याग्रे प्राप्यतां न ब्रूयात् । अतो भोगे स्वाराज्यं न जगज्जन्मादिष्विति भावः । वाक्पतित्वादिकमपीश्वराधीश्वराधीनमित्याह -
तदनुसारेणेति ।
उक्तन्यायं कामचारादिवाक्येष्वतिदिशति -
एवमिति ॥१८॥
जगद्व्यापार उपासकप्राप्यः तदुपास्यनिष्ठत्वात्सङ्कल्पसिद्ध्यादिवदित्याशङ्क्योपास्यस्थनिर्गुणस्वरूपे व्यभिचारमाह -
विकारावर्ति चेति ॥१९॥
निर्गुणस्वरूपे प्रमाणमाह -
दर्शयतश्चेति ।
यथा ज्ञानाभावान्निर्गुणं न प्राप्तं तथा ध्यानाभावाज्जगत्स्रष्टृत्वादि न प्राप्यते । ध्यानाभावश्च विध्यभावादिति भावः ॥२०॥
तमुपासकं ब्रह्मलोकगतमाह हिरण्यगर्भः मया खल्विमा आपो अमृतरूपा मीयन्ते भुज्यन्ते तवाप्यसौ लोकोऽमृतोदकलक्षण इत्यर्थः । श्रुत्यन्तरमाह -
स यथेति ।
भोगसाम्ये स दृष्टान्तो यथेत्यर्थः । तेनो इत्युशब्दोऽप्यर्थः । सलोकतामपीत्यन्वयः । सायुज्यं समानदेहत्वं क्रमेण मुक्तिर्वा ॥२१॥
शास्त्रसमाप्तिं सूचयन्त्सूत्रकारं पूजयति -
भगवानिति ।
भगवत्त्वं सर्वज्ञत्वम् । सूत्रद्वारा शिष्याणामाचारे स्थापनादाचार्यत्वम् । बादरायणपदेन बदरिकाश्रमवासोक्त्या नित्यसर्वज्ञस्य परमगुरोर्नारायणस्य प्रसादद्योतनात्तत्प्रणीतशास्त्रे निरवद्यतां द्योतयति ।
सगुणविद्यायाः सातिशयफलत्वेऽपि ततो निर्गुणविद्ययानावृत्तिरित्याह -
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।
ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य नावर्तन्ते इति सम्बन्धः ।
लोकं विशिनष्टि -
यस्मिन्निति ।
इतोऽस्मात्पृथिवीलोकात्तृतीयस्यां दिवि यो ब्रह्मलोकस्तस्मिन्नर इति ण्य इति चार्णकतुल्यौ सुधाहृदावित्यर्थः । ऐरमन्नमयम् , मदीयं मदकरं सरः, सोमसवनः अमृतवर्षी ।
यद्यपि तेषामिह न पुनरावृत्तिरिमं मानवमिति च श्रुतिष्विहेममिति विशेषणादस्मिन्कल्पे ब्रह्मलोकं गतानां कल्पान्तरे आवृत्तिर्भाति, तथापीश्वरोपास्तिं विना पञ्चाग्निविद्याश्वमेधदृढब्रह्मचर्यादिसाधनैर्ये गतास्तेषां तत्त्वज्ञाननियमाभावादावृत्तिः स्यात्, ये तु दहरादीश्वरोपास्त्या गतास्तेषां सगुणविद्याफलक्षयेऽपि निरवग्रहेश्वरानुग्रहलब्धात्मज्ञानान्मुक्तिरिति नियम इत्यभिप्रेत्याह -
अन्तवत्त्वेऽपि त्विति ।
नन्वत्र सूत्रकृता सगुणविदामेवानावृत्तिक्रम उक्तो न निर्गुणविदां तत्र को हेतुरित्याशङ्क्य तेषामावृत्तिशङ्काभावादित्याह -
सम्यगिति ।
तदाश्रयणेनेति ।
सगुणविदामावृत्तिप्राप्तौ सम्यग्दर्शनाश्रयणेनैवानावृत्तिः साधिता, अतः स्वत एव सम्यग्दर्शिनामावृत्तिशङ्का नेति किमु वाच्यमित्यर्थः ।
यत्राध्यायसमाप्तिस्तत्र पदमात्रस्याभ्यासो दर्शितः, इह सूत्रस्यैवाभ्यासाच्छास्त्रसमाप्तिर्द्येत्यत इत्याह -
अनावृत्तिः शब्दादिति ।
एवं समन्वयोक्त्या ब्रह्मात्मैक्यस्य वेदान्तप्रमाणकत्वमवधारयितुं वाक्यार्थज्ञाने स्मृतितर्कादिसर्वप्रकारविरोधः परिहृतः, साधनसम्पत्तिश्च दर्शिता, तस्माद्विवेकादिसाधनसम्पन्नस्य श्रवणाद्यावृत्तिनिरस्तसमस्तप्रतिबन्धस्याखण्डात्मसम्बोधात्समूलबन्धध्वंसे सत्याविर्भूतनिष्कलङ्कानन्तस्वप्रकाशचिदानन्दात्मनावस्थानमिति सिद्धम् ॥२२॥
नानाविधग्रन्थजातं वीक्ष्य सम्यग्यथामति ।
शारीकस्य भाष्यस्य कृता व्याख्या सतां मुदे ॥१॥
अन्तर्यामी जगत्साक्षी सर्वकर्ता रघूद्वहः ।
अतोऽत्र दोषोऽशङ्क्यः स्यादेष ह्येवेति शासनात् ॥२॥
वक्षस्यक्ष्णोश्च पार्श्वे करतलयुगले कौस्तुभाभां दयां च सीतां कोदण्डदीक्षामभयवरयुतां वीक्ष्य रामाङ्गसङ्गः ।
स्वस्याः क्व स्यादितीयं हृदि कृतमनना भाष्यरत्नप्रभाख्या, स्वात्मानन्दैकलुब्धा रघुवरचरणाम्भोजयुग्मं प्रपन्ना ॥३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोपालसरस्वतीपूज्यपादशिष्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥
॥ इति चतुर्थस्याध्यायस्य ब्रह्मप्राप्तिब्रह्मलोकस्थितिनिरूपणाख्यश्चतुर्थः पादः ॥
॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये फलाख्यश्चतुर्थोऽध्यायः ॥
॥ ओं तत्सत् ॥