अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

चतुर्थाध्याये प्रथमः पादः

चतुर्थेऽध्याये प्रथमः पादः ।
ओम् । यज्ज्ञा­ना­ज्जी­वतो मुक्ति­रु­त्क्रा­न्ति­ग­ति­व­र्जिता ।
लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम् ।
आवृ­त्ति­र­स­कृ­दु­प­दे­शात् ।

साधनं निरूप्य फलं निरूप्यत इत्य­ध्या­य­यो­र्हे­तु­फ­ल­भावं सङ्गतिमाह -
तृतीय इति ।

फल­प्र­स­ङ्गे­नो­त्क्रा­न्ति­र­र्चि­रा­दि­मा­र्गश्च विचार्यत इत्याह -
प्रसङ्गेति ।
पूर्वं साक्षादेव श्रुत्युक्तं संन्यासादि साधनं चिन्तितम् , सम्प्रति फला­र्था­प­त्ति­ग­म्य­मा­वृ­त्त्या­दि­क­म­द्या­श्ले­षा­धि­क­र­णा­त्प्रा­क्चि­न्त्यते, तदारभ्य जीव­न्मु­क्ति­स्ततो द्वितीयपादे उत्क्रा­न्ति­स्तृ­तीये अर्चि­रा­दि­मा­र्गस्य गन्तव्यस्य च निर्णयश्चतुर्थे ज्ञानोपासनयोः फलनिर्णय इति पादार्थविवेकः ।

आद्याधिकरणस्य श्रवणादिसाधनं विषयमनूद्य द्वेधा­नु­ष्ठा­न­द­र्श­ना­त्सं­श­य­माह -
आत्मा वा इति ।
श्रौता­त्म­धी­सा­ध­न­फ­ल­वि­चा­रा­त्म­क­त्वा­त्स­र्वा­धि­क­र­णानां श्रुति­शा­स्त्रा­ध्या­य­स­ङ्ग­तय उक्ताः । तत्त­त्प­दा­र्थ­स­म्ब­न्धा­त्त­त्त­त्पा­द­स­ङ्गतिः ।

मोक्षे विशे­षा­भा­व­व­च्छ्र­व­णा­दा­वा­वृ­त्ति­वि­शेषो नास्तीति दृष्टा­न्त­ल­क्ष­णा­वा­न्त­र­स­ङ्गत्या पूर्वपक्षमाह -
किं तावदिति ।
अत्र पूर्वपक्षे श्रवणादेः प्रया­ज­व­द­दृ­ष्टा­र्थ­त्वा­त्स­कृ­द­नु­ष्ठानं फलम् , सिद्धान्ते त्वव­घा­त­व­द्दृ­ष्टा­र्थ­त्वा­द्या­व­त्फ­ल­मा­वृ­त्ति­रिति भेदः ।

अस­कृ­दु­प­दे­शा­न्य­था­नु­प­पत्त्या साधनावृत्तौ शास्त्रस्य तात्पर्यमिति शङ्कते -
नन्वसकृदिति ।

श्रवणादीनां समु­च्च­य­सि­ध्य­र्थ­त्वे­ना­स­कृ­दु­क्ते­र­न्य­थो­प­प­त्ते­र्ना­वृत्तौ तात्पर्यमित्याह -
एवमपीति ।

सगु­ण­सा­क्षा­त्का­र­सा­ध­ने­ष्व­प्य­ना­वृ­त्ति­माह -
सकृदिति ।

यद्य­प्य­स­कृ­दु­प­दे­शा­वृ­त्ति­स­मु­च्च­य­यो­र­न्य­त­र­सू­च­क­त्वे­ना­न्य­था­सिद्धः, तथापि दृष्टे सम्भ­व­त्य­दृ­ष्ट­मा­त्र­क­ल्प­ना­नु­प­पत्तेः श्रव­णा­दे­रा­वृ­त्ति­द्वारा साक्षा­त्का­र­फ­लस्य षड्जादौ दृष्ट­त्वा­द­स­कृ­दु­क्ति­रा­वृत्तिं सूचयति दृष्टा­र्थ­त्वा­दिति न्याया­नु­ग्र­हा­दि­त्याह -
न दर्श­न­प­र्य­व­सा­न­त्वा­दिति ।

ध्यानस्य त्वावृ­त्ते­र्वे­दो­पा­सी­तेति शब्दे श्रुतत्वान्न केव­ला­र्थि­क­त्व­मि­त्याह -
अपि चेति ।

अस्त्यु­पा­स्ति­श­ब्द­स्या­वृ­त्ति­वा­चित्वं तथापि वेदे­ति­श­ब्दो­क्त­वे­द­ने­ष्व­ह­ङ्ग्र­हेषु कथ­मा­वृ­त्ति­सि­द्धि­रि­त्यत आह -
विद्यु­पा­स्त्यो­श्चेति ।

शब्द­यो­रे­का­र्थ­त्व­मु­दा­ह­रति -
क्वचिदिति ।
स रैक्वो यद्वेद तत्प्राणतत्त्वं रैक्वादन्योऽपि यः कश्चिद्वेद तत्फले सर्व­म­न्त­र्भ­व­ती­त्ये­त­दुक्ते इत्थं मयोत्कृष्टत्वेन स रैक्व उक्त इति हंसं प्रति हंसान्तरवचनम् , तच्छ्रुत्वा रैक्वं गत्वोवाच जानश्रुतिः, हे भगवः, एतां रैक्वविदितां देवतां मेऽनुशाधि मह्य­मु­प­दि­शे­त्यर्थः । एवं सगु­ण­नि­र्गु­ण­सा­क्षा­त्का­र­सा­ध­न­ध्या­न­स्या­वृत्तिः श्रौती चार्थसिद्धा च दृष्टा­र्थ­त्वात्, श्रव­ण­म­न­न­यो­स्त्व­स­कृ­दु­प­दे­शा­द­र्थ­सि­द्धै­वा­वृ­त्ति­रिति विशेषः ॥१॥

आदि­त्य­स्यै­क­स्यै­वो­द्गीथे सम्पा­द्यो­पा­स­ना­न्मम त्वमेक एव पुत्रोऽसीति कौषीतकिः पुत्रमुवाच, अतस्त्वं तथा माकृथाः किन्तु बहून् रश्मीनादित्यं च पर्या­व­र्त­य­ता­त्पृ­थ­गा­व­र्त­य­स्वे­त्यर्थः । तलोपश्छान्दसः । अत्र पर्या­वृ­त्ति­श­ब्दा­त्सि­द्ध­व­दु­द्गी­थ­ध्या­न­स्या­वृ­त्ति­रुक्ता ततो ध्यान­त्व­सा­मा­न्या­त्फ­ल­प­र्य­न्त­त्व­सा­मा­न्याद्वा लिङ्गात्सर्वत्र श्रव­ण­म­न­न­ध्या­ने­ष्वा­वृ­त्ति­सि­द्धि­रि­त्याह -
लिङ्गाच्चेति ।

एवं ताव­त्स­गु­ण­नि­र्गु­ण­सा­क्षा­त्का­र­सा­ध­ने­ष्वा­वृ­त्ति­रुक्ता तत्र सगु­ण­ध्या­ना­दे­रा­वृ­त्ति­म­ङ्गी­कृत्य निर्गु­ण­श्र­व­णा­दि­ष्वा­वृ­त्ति­मा­क्षि­पति -
अत्राहेत्यादिना ।

वाक्यं निर्गु­ण­सा­क्षा­त्का­र­ज­नने शक्तं न वा, आद्ये सकृ­च्छ्रु­त­वा­क्या­त्सा­क्षा­त्का­र­सि­द्धे­रा­वृ­त्ति­र्वृ­थे­त्युक्त्वा द्वितीयं शङ्कते -
सकृदिति ।

अश­क्त­स्या­वृ­त्ता­वपि फला­नु­प­प­त्ति­रि­त्याह -
नेति ।
तथापीति स्वतोऽशक्तस्य युक्ति­सा­हि­त्या­च्छ­क्ता­व­पी­त्यर्थः ।

वाक्य­यु­क्तिभ्यां परोक्षज्ञाने जातेऽ­प्य­प­रो­क्ष­ज्ञा­ना­र्थ­मा­वृ­त्ति­रिति शङ्कते -
अथापि स्यादिति ।

तयोः परो­क्ष­ज्ञा­न­हे­तु­त्व­स्वा­भा­व्या­दा­वृ­त्ता­वपि न साक्षात्कारः स्यादिति परिहरति -
नासकृदपीति ।

यदि तयोः साक्षा­त्का­र­सा­मर्थ्यं यदि वा परो­क्ष­ज्ञा­न­सा­म­र्थ्य­मु­भ­य­था­प्या­वृ­त्त्य­न­पे­क्षे­त्याह -
तस्मादिति ।

प्रमा­तृ­वै­चि­त्र्या­द­प्या­वृ­त्त्य­नि­यम इत्याह -
न चेति ।

प्रमे­य­स्या­नं­श­त्वाच्च तथेत्याह -
अपि चेति ।

द्विविधो ह्यधिकारी स्यात्क­श्चि­ज्ज­न्मा­न्त­रा­भ्या­सा­न्नि­र­स्त­स­म­स्ता­स­म्भा­व­ना­दि­प्र­ति­बन्धः कश्चित्तु प्रतिबन्धवानिति । तत्राद्यं प्रत्या­वृ­त्ते­रा­न­र्थ­क्य­मि­ष्टम् , द्वितीयस्य तु प्रति­ब­न्ध­नि­रा­साय तदपेक्षेति समाधत्ते -
अत्रोच्यत इति ।

आवृत्तेः प्रति­ब­न्धा­नि­रा­सा­र्थत्वे लिङ्गमाह -
तथा हीति ।

यथा षड्जा­दि­स्व­र­भे­द­सा­क्षा­त्का­र­श­क्त­मपि श्रोत्र­म­भ्या­स­म­पे­क्षते तथा ब्रह्मा­त्म­सा­क्षा­त्का­र­शक्तं वाक्यं तद­पे­क्ष­मि­त्य­नु­भ­व­मा­श्रि­त्याह -
न हि दृष्टेऽनुपपन्नं नामेति ।

तत्त्व­म्प­द­ल­क्ष्या­र्थस्य दुर्बो­ध­त्वा­द­ज्ञा­न­प्र­यु­क्त­सं­श­या­दि­प्र­ति­ब­न्ध­स­म्भ­वा­त्त­द्ध्वं­सा­या­वृ­त्ति­रे­ष्ट­व्येति वाच्य­ल­क्ष्य­वि­वे­क­पू­र्व­क­माह -
अपि चेत्यादिना ।

यदु­क्त­म­नं­श­त्वा­त्प्र­मे­य­स्या­वृ­त्त्या­न­र्थ­क्य­मिति, तत्राह -
यद्यपीति ।
आरो­पि­तां­श­नि­रा­साय न मे देहो नेन्द्रि­य­मि­त्य­भ्यासो युक्त इत्यर्थः ।

वाक्यार्थज्ञाने सति कथमभ्यासनियमः, प्रमा­ण­ज्ञा­न­स्या­भ्या­सा­यो­गा­ज्ज्ञा­निनः श्रव­णा­दि­नि­य­मा­यो­गा­च्चे­त्यत आह -
तत्त्विति ।
ज्ञानात्प्रागेव श्रव­णा­दि­व्या­पा­र­नि­य­मनं क्रियत इत्यर्थः ।

अधिकं शङ्कि­तु­मु­क्त­म­नु­व­दति -
येषामिति ।

अधिकं शङ्कते -
सत्यमिति ।
दुःखि­त्व­प्र­त्य­क्ष­वि­रो­धा­द्वा­क्या­दै­क्य­धी­र्नो­दे­ती­त्यर्थः ।

प्रत्यक्षस्य भ्रान्ति­त्वा­द­वि­रोध इत्याह -
नेत्यादिना ।
दुःखादयो नात्मधर्माः दृश्य­त्वा­द्दे­हा­दि­वत्, नाप्या­त्म­स्व­रूपाः आत्मनि सत्य­प्य­न­नु­वृ­त्ति­त्वा­द्व्य­ति­रे­केण चैत­न्य­व­दि­त्यर्थः ।

निर्दुःखे चिदात्मनि दुःखादिधियो भ्रान्ति­त्वा­द्वा­क्या­र्था­नु­भवो न विरुध्यत इत्याह -
तस्मादिति ।

अनुभवे जातेऽ­प्या­वृ­त्त्या­द्य­नु­ष्ठानं किं न स्यादित्यत आह -
न चैवमिति ।
रतिः कामः आत्मकामतया तृप्ति­र्वि­ष­य­तृ­ष्णा­क्षयः तेन सन्तोषे आत्मानन्दानुभव इति भेदः ।

नन्वावृत्तौ नियो­गा­त्प्र­वृ­त्ति­र्वाच्या तथा च नियु­क्त­त्व­बु­द्धे­र­क­र्त्रा­त्म­धीर्न स्यादित्यत आह -
तत्रापीति ।
आवृ­त्त्य­भ्यु­प­ग­मेऽ­प्य­क­र्ता­ह­मि­त्य­नु­भ­वा­त्प्र­च्याव्य गुरुरन्यो वा नियोगान्न प्रव­र्त­ये­दु­क्त­दो­षा­दि­त्यर्थः ।

कथं तर्हि प्रवृत्तिरित्यत आह -
यस्त्विति ।
अप्र­ति­भा­ना­द­स­म्भा­व­ना­दि­ने­त्यर्थः । शिष्य­बु­द्ध्य­नु­सा­रेण त्रोत­व्या­दि­व­चोभिः प्रधा­न­सि­द्ध्य­र्थ­मा­वृ­त्त्यादौ प्रव­र्त­ये­दि­त्यर्थः ॥२॥

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।

पूर्वत्र ध्याना­दे­रा­वृ­त्ति­रुक्ता तामुपजीव्य तत्त्व­ज्ञा­नार्थं ध्याना­वृ­त्ति­काले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यै­क्य­भे­द­मा­नाभ्यां संशयमाह -
य इति ।

शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मे­त्या­द्य­भे­द­श्रु­ति­भि­रै­क्य­नि­र्ण­या­त्सं­श­य­मा­क्षि­पति -
कथमिति ।

भेद­श्रु­त्य­नु­ग्र­हा­द्भे­द­प्र­त्य­क्षा­दि­प्रा­ब­ल्य­मा­लम्ब्य संशय इत्याह -
उच्यत इति ।
अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलम् , यद्यप्ययं प्रत्य­क्षा­दि­वि­रो­ध­प­रि­हारो द्विती­या­ध्या­य­स­ङ्ग­त­स्त­था­प्यै­क्य­श्रु­ते­र­वि­रु­द्ध­त्व­नि­श्च­यस्य समा­धा­व­न्त­र­ङ्ग­त्वा­दिह सङ्गतिः ।

विरु­द्ध­यो­रै­क्य­दृ­ष्टि­र­सि­द्धे­त्याह -
नाहमिति ।

किञ्च किमीश्वरस्य जीव­मा­त्र­त्व­मैक्यं जीव­स्ये­श्व­र­मा­त्रत्वं वेति विकल्प्य क्रमेण दूषयति -
ईश्वरस्य चेत्यादिना ।

एक­त्व­श्रु­ति­प्रा­मा­ण्या­यै­क्य­ध्यानं कार्यमिति शङ्कते -
अन्यत्वेऽपीति ।
एक­त्व­ध्या­न­म­स्म­दि­ष्ट­मेव ।

एकत्वं तु नास्तीत्याह -
काममिति ।

अभेदश्रुतीनां फल­व­द­पू­र्वा­र्थ­ता­त्प­र्येण गौण­त्वा­यो­गा­द्भे­द­श्रु­तीनां कल्पि­त­भे­दा­नु­वा­दि­त्वा­त्प्र­त्य­क्षा­दे­रपि तद्वि­ष­य­त्वा­द्बि­म्ब­प्र­ति­बि­म्ब­यो­रिव विरुद्धधर्माणां मिथ्या­त्वा­न्मु­ख्य­मै­क्य­मिति सिद्धान्ययति -
एवमित्यादिना ।

ईश्वरस्य जीवत्वं न प्रतिपाद्यं येनेश्वराभावः स्यात्किन्तु जीव­स्ये­श्व­र­त्वम् । न चैवमधिकार्यभावः । एक­त्व­प्र­बो­धा­त्प्रा­ग­धि­का­रि­भे­दा­ङ्गी­का­रा­दि­त्याह -
यत्पु­न­रु­क्त­मि­त्या­दिना ।

वेद­स­त्य­त्व­श्र­द्धालुः शङ्कते -
प्रत्य­क्षा­द्य­भाव इति ।

वर्णेषु क्रम­स्व­र­यो­र­भा­वा­दु­प­ल­ब्ध­ध्व­नि­स्थ­यो­रा­रोपो वाच्यस्तथा चारो­पि­त­क्र­म­स्व­र­वि­शि­ष्ट­व­र्णा­त्म­क­वे­दस्य मिथ्यात्वं दुर्वारम् , वादिनां सत्य­त्वा­ग्र­ह­स्त्व­वि­द्या­वि­जृ­म्भित इति वेदसत्यत्वाभावो न दोष इत्याह -
नेति ।

अवि­द्या­मा­क्षि­पति -
कस्येति ।

प्रश्नलिङ्गेन त्वय्येव तस्याः सिद्धे­स्त्व­दा­क्षे­पा­नु­प­प­त्ति­रि­त्याह -
यस्त्वमिति ।
अज्ञा­न­मू­ल­त्वा­त्प्र­श्ना­दे­रिति भावः ।

सर्वज्ञाभिन्ने मयि कथमज्ञानमिति शङ्कते -
नन्विति ।

अभे­द­ज्ञा­ना­त्प्रा­क्चि­न्मा­त्रस्य तवै­वा­ज्ञा­ना­श्र­य­त्व­म­नु­भ­व­सि­द्धा­ज्ञा­न­स्या­प­ला­पा­यो­गात् । ज्ञाने त्वनिर्वाच्यस्य तस्य बाधा­न्ना­श्र­या­पे­क्षे­त्याह -
यद्येवमिति ।

अनिर्वाच्यत्वेन दोषान्तरमपि निरस्तमित्याह -
योऽपीति ॥३॥

न प्रतीके न हि सः ।
उभयथा ध्यान­स­म्भ­वा­त्सं­शयः । यथा ब्रह्म­ण्य­भे­द­स­त्त­वा­द­ह­ङ्ग्रह उक्त एवं प्रतीकेष्वपि ब्रह्मविकारतया जीवा­भि­न्न­ब्र­ह्मा­भि­न्न­त्वा­ज्जी­वा­भे­द­स­त्त्वे­ना­ह­ङ्ग्रहः कार्य इति दृष्टान्तेन पूर्वपक्षः । अत्र प्रती­को­पा­स्ती­ना­म­ह­ङ्ग्र­हो­पा­स्ति­भि­र­वि­शेषः । सिद्धान्ते तु विशेषसिद्धिरिति फलम् । एत­दा­र­भ्या­धि­क­र­ण­त्र­यस्य प्रासङ्गिकी पादसङ्गतिः, ब्रह्मै­क्य­ध्या­न­प्र­स­ङ्गा­ग­त­त्वा­दिति विवेकः ।

किं प्रती­के­ष्वा­त्म­त्वा­नु­भ­व­ब­ला­द­ह­ङ्ग्रह उत वस्तुतो जीवा­भे­द­स­त्त्वात् । नाद्य इत्याह -
न हि स इति ।
नानुभवतीत्यर्थः ।

द्विती­य­म­प्य­सिद्ध्या दूषयति -
यत्पुनरिति ।
विकारस्य ब्रह्मणा स्वरू­पै­क्या­यो­गा­द्बा­धे­नैक्यं वाच्यं प्रतीकबाधे चोपास्तिविधिर्न स्यादित्यर्थः ।

किञ्च कर्तृ­त्वा­द्य­बा­धे­नो­पा­स्ति­वि­धि­प्र­वृ­त्ति­र्वाच्या बाधे तदयोगात् । तथा च बाध­मू­ल­ब्र­ह्मै­क्य­ज्ञानं द्वारीकृत्य प्रती­के­ष्व­ह­ङ्ग्र­हो­पा­स्ति­क­ल्पना न युक्ता, बाध­वि­रो­धा­दि­त्याह -
न च ब्रह्मण इति ।

अतो जीवप्रतीकयोः स्वरू­प­भे­दा­द­ह­ङ्ग्रहे विध्यश्रवणाच्च नाहङ्ग्रह इति फलितमाह -
अतश्चेति ।
यथा रुचकस्वस्तिकयोः सुव­र्णा­त्म­नै­क्येऽपि मिथो नैक्यं तथा जीवप्रतीकयोः ब्रह्मा­त्म­नै­क्येऽपि भेदः समः । यदि च धर्मिव्यतिरेकेण तयो­र­भा­व­नि­श्च­या­द्व­स्त्वैक्यं तदोपासनोच्छेद उक्त इत्यर्थः ॥४॥

ब्रह्म­दृ­ष्टि­रु­त्क­र्षात् ।
एकविषयत्वं सङ्गतिः ।

प्रश्नपूर्वकं संशयबीजमाह -
कुत इत्यादिना ।
सामानाधिकरण्यं श्रुतं तन्न तावन्मुख्यम् , ब्रह्म­वि­का­र­यो­र्ग­वा­श्व­यो­रि­वा­भे­दा­यो­गात् । नापि प्रकृ­ति­वि­का­र­भा­व­नि­ब­न्ध­नम् , वाक्यस्य विकारबाधेन ब्रह्म­प­र­त्वा­पा­तात् । न चेष्टापत्तिः । नाम ब्रह्मे­त्यु­पा­सी­तेति विधि­श्रु­ति­वि­रो­धात्, परि­मि­त­ना­म­ग्र­ह­णा­न­र्थ­क्या­पा­ताच्च । ब्रह्मपरत्वे सर्वं ब्रह्मेति वक्तव्यत्वात् । अतः परिशेषादध्यास एव सामा­ना­धि­क­र­ण्य­का­र­णम् , अध्यासे च निया­म­का­भा­वा­त्सं­शय इत्यर्थः ।

उत्कृ­ष्ट­नि­कृ­ष्ट­यो­र्नि­कृ­ष्ट­म­प्यु­पास्यं फलवत्त्वादिति न्यायो नियामक इत्यरुचेराह -
अथवेति ।
अत्र विका­र­दृ­ष्टि­भि­र्ब्र­ह्मो­पा­स्ति­सिद्धिः फलम् , सिद्धान्ते तु विकारदृष्ट्या ब्रह्मण उपास्यत्वे निकर्षप्राप्तौ सत्यां फल­व­त्त्वा­सि­द्धे­र्वि­कारा एवो­त्कृ­ष्ट­ब्र­ह्म­दृ­ष्ट्यो­पास्या इति फलम् ।

किञ्च लौकि­क­न्या­या­वि­रु­द्धा­र्थ­स­म्भवे विरुद्धार्थो न ग्राह्यः प्रत्य­वा­य­प्र­स­ङ्गात् । किञ्च प्रथ­म­श्रु­ता­ना­मा­दि­त्या­दि­प­दा­ना­म­स­ञ्जा­त­वि­रो­धि­तया मुख्या­र्थ­त्व­ग्रहो न्याय्यः, ब्रह्मशब्दे च दृष्टि­ल­क्ष­णा­ग्रहः, तथा चादित्यादयो ब्रह्म­दृ­ष्ट्यो­पास्या इत्येव वाक्यार्थ इत्याह -
प्राथम्याच्चेति ।

ब्रह्मशब्दस्यैव दृष्ट्यर्थत्वे हेत्वन्तरमाह -
इतिपरत्वादिति ।
इतिशब्दशिरस्कः शब्दः सम­भि­व्या­हृ­त­क्रि­या­ल­क्षक इति लोके प्रसि­द्ध­मि­त्यर्थः ।

द्विती­या­श्रु­ते­श्चा­दि­त्या­दी­ना­मे­वो­पा­स्ति­क­र्म­त्व­मि­त्याह -
वाक्यशेषोऽपीति ।

उत्कृ­ष्ट­मे­वो­पा­स्य­मिति न्याय­मु­क्त­म­नु­व­दति -
यत्तूक्तमिति ।

द्विती­ये­ति­श्रु­तिभ्यां लौकि­क­न्या­या­च्चो­क्त­न्या­य­बाध इत्याह -
तदिति ।

ब्रह्म­णोऽ­नु­पा­स्यत्वे कथं फलदातृत्वम् , तत्राह -
फलं त्विति ।

किञ्च यद्दृष्ट्या विका­र­स्यो­त्कर्षः तस्य ब्रह्मणो विशे­ष­ण­त्वेऽ­प्यु­पा­स्यत्वं चास्तीत्याह -
ईदृशं चेति ॥५॥

आदित्यादि ।
पृथि­व्य­ग्न्य­न्त­री­क्षा­दि­त्य­द्यु­सं­ज्ञेषु लोकेषु हिङ्का­र­प्र­स्ता­वो­द्गी­थ­प्र­ती­हा­र­नि­ध­नै­रंशैः पञ्चांशम् , साम, तैरेवादिरिति उपद्रव इति च भक्तिद्वयाधिकैः सप्तांशं सामेति भेदः । अत विशे­षा­ज्ञा­ना­त्सं­शयः ।

पूर्व­व­दु­त्क­र्षा­न­व­धा­र­णा­द­नि­यम इति प्रत्युदाहरणेन पूर्वपक्षमाह -
तत्रेति ।

सिद्ध­रू­पा­दि­त्या­दिभ्यः कर्म­रू­पो­द्गी­था­दीनां फल­स­न्नि­क­र्षे­णो­त्क­र्षा­द्ब्र­ह्म­व­द्वि­शे­ष­णत्वे नियम इति दृष्टान्तेन मुख्यं पूर्वपक्षमाह -
अथवेति ।
तत्त­त्प­क्ष­सि­द्धि­रेव पूर्वो­त्त­र­प­क्ष­फलं मन्तव्यम् ।

किञ्चा­न­ङ्गे­ष्वे­वा­ङ्ग­दृ­ष्टि­रि­त्यत्र तेष्व­ङ्ग­वा­चि­प­द­प्र­योगं लिङ्गमाह -
तथा चेयमेवेति ।
तदेतदग्न्याख्यं साम एतस्यां पृथि­वी­रू­पा­या­मृ­च्य­ध्यू­ढ­मु­प­रि­स्थि­त­मि­त्यर्थः ।

ऋचि साम­व­त्पृ­थि­व्या­म­ग्नि­र्दृ­श्यते, अतः साम्या­त्पृ­थि­व्ये­व­र्गग्निः सामेति ध्यानं विहितम् , तत्र यदि ऋक्सामात्मकयोः कर्माङ्गयोः पृथि­व्य­ग्नि­दृष्ठिः स्यात्, तदा पृथि­व्य­ग्न्यो­रृ­क्सा­म­प­द­प्र­योगो न स्यादित्यत्र दृष्टान्तमाह -
क्षत्तरीति ।
अतः प्रयो­गा­न्य­था­नु­प­पत्त्या पृथि­व्य­ग्न्यो­रृ­क्सा­म­दृ­ष्टि­रि­त्यर्थः ।

विषयसप्तम्या चैवमेवेत्याह -
अपि चेति ।
गायत्रसंज्ञं साम ।

किञ्च पूर्वा­धि­क­र­ण­सि­द्धा­न्त­न्या­ये­ना­प्ये­व­मि­त्याह -
प्रथमेति ।

अन­ङ्ग­बु­द्ध्या­ङ्गा­न्यु­पा­स्या­नीति सिद्धान्तयति -
एवमिति ।
उपास्तीनां हि कर्मसमृद्धिः फलं श्रूयते, सा च ताभिरङ्गेषु संस्क्रि­य­मा­णे­षू­प­प­द्यते, अङ्गानां समृ­द्ध्य­नु­कू­ल­प्र­कृ­त­क­र्मा­पू­र्व­ज­न­क­त्वा­दि­त्यर्थः ।

ननु यत्रोपास्तीनां प्रकृ­त­क­र्मा­पू­र्व­स­न्नि­कृ­ष्टा­ङ्ग­द्वा­रा­पेक्षं फलं श्रुतं तत्र फलो­प­प­त्त­येऽ­ङ्गा­ना­मु­पा­स्यत्वं भवतु तद­न­पे­क्ष­लो­का­दि­फ­लेषु तूपासनेषु कथमुपास्यविवेक इति शङ्कते -
भवत्विति ।

यथा स्वत­न्त्र­प­शु­फ­ल­स्यापि गोदोहनस्य अङ्ग­द्वा­रा­पे­क्ष­यैव फलमिष्टं तद्व­ल्लो­का­दि­फ­ले­षू­पा­स­ने­ष्वपि कर्मा­पू­र्वा­ङ्ग­द्वा­रैव फलकल्पना युक्ता, कर्मा­धि­कृ­त­स्यै­वा­ङ्गा­श्रि­तो­पा­स­ने­ष्व­धि­का­रात्, अतोऽ­ङ्गा­ना­मे­वो­पा­स्य­त्व­मिति समाधत्ते -
तेष्वपीति ।

उत्क­र्षा­न­व­धा­र­णा­द­नि­यम इत्युक्तं निरस्यति -
फलात्मेति ।

उप­क्र­म­ब­ला­च्चा­ङ्ग­मु­पा­स्य­मि­त्याह -
अपि चेति ।
रस­त­म­त्वा­दि­गु­णा­द्यु­प­स­ङ्ख्या­न­मि­त्यर्थः ।

द्वितीयं पूर्वपक्षं दूषयति -
यत्तू­क्त­मि­त्या­दिना ।
कर्मभूयं कर्मात्मकत्वं प्राप्येत्यर्थः ।

सिद्धा­दि­त्या­द्या­त्मना कर्मणां दृष्टौ कर्मत्वहानिः स्यादित्यत आह -
आदि­त्या­दि­भा­वे­नेति ।
माण­व­केऽ­ग्नि­दृ­ष्टि­व­दु­द्गी­था­दि­ष्वा­दि­त्या­दि­धियां गौणत्वान्न कर्म­त्वा­भि­भा­व­क­त्व­मि­त्य­ङ्गे­ष्व­न­ङ्ग­त्व­धी­र­वि­रु­द्धे­त्या­शयः ।

प्रयो­गा­नु­प­प­त्ति­मुक्तां निरस्यति -
तदेतदिति ।

लक्षणाबीजं सम्बन्धमाह -
लक्षणा चेति ।
गङ्गायां घोष इत्यत्र सन्नि­कृ­ष्ट­सं­यो­ग­स­म्ब­न्धेन तीरलक्षणा, अग्निर्माणवक इत्य­त्रा­ग्नि­नि­ष्ठ­शु­चि­त्वा­दि­गु­ण­व­त्त्व­रू­प­प­र­म्प­रा­स­म्ब­न्धेन लक्षणा दृष्टा, तथा चात्र ऋक्सामयोः पृथि­व्या­ग्नि­दृ­ष्टि­प­क्षेऽपि ऋक्सामपदाभ्यां स्ववाच्यार्थे द्रष्ट­व्य­ता­ख्य­प­र­म्प­रा­स­म्ब­न्धेन पृथि­व्य­ग्नि­ल­क्षणा युक्तेत्यर्थः ।

ननु प्रतीकवाचिपदस्य ध्येये अर्थे लक्षणा न युक्ता, क्षतृपदस्य राज­न्य­प्र­यो­गा­दिति शङ्कते -
तत्र यद्यपीति ।
तथापि ऋक्सा­म­स­म्ब­न्धा­त्पृ­थि­व्य­ग्न्यो­रे­वै­त­स्या­मृ­च्य­ध्यूढं सामेति एष ऋक्सामपदप्रयोगः इत्यन्वयः ।

ननु मुख्यार्थ एव न कुतो गृह्यते, तत्राह -
प्रसिद्धयोरिति ।
तस्मात् ऋच्यध्यूढं सामेति मुख्ययोः पृथ­गु­क्ते­स्त­दे­त­स्या­मि­त्य­त्रापि तयोर्ग्रहे पुनरुक्तिः स्यात्, अतः प्रती­का­भे­द­दृष्ट्या पृथिव्यग्न्योः प्रती­क­स­न्नि­धा­ना­त्त­यो­रेव प्रतीकपदप्रयोगः कृत­स्त­द­भे­द­दा­र्ढ्या­ये­त्यर्थः ।

तर्हि क्षत्तृशब्दोऽपि राजनि स्यादित्यत आह -
क्षत्रिति ।
स्थितप्रयोगस्य निमित्तं किमपि वाच्यं न तु निमित्तमस्तीति प्रयोग आपाद्य इति भावः । क्षत्ता सूतः, तस्य कार्यं रथचर्यादि यदा राजेव करोति तदा क्षत्तृशब्दो राज­न्य­प्य­स्ती­त्य­क्ष­रार्थः ।

ऋगादावेव पृथि­व्या­दि­दृ­ष्टि­रि­त्यत्र हेत्वन्तरमाह -
इयमिति ।

सप्तम्या लोका­ना­मु­पा­स्य­त्व­मुक्तं निरस्यति -
तथा लोकेष्विति ।
सामात्मना लोकानुपासीतेति द्विती­या­स­प्त­म्यो­र्भ­ङ्ग­स्त्वया कार्यस्ततो वरं लोकात्मना सामोपासीतेति सप्तमीमात्रभङ्ग इत्यर्थः । एतेनेति एक­वि­भ­क्ति­भ­ङ्ग­ला­घ­वेन प्राणात्मना गायत्रं सामोपास्यमिति व्याख्या­त­मि­त्यर्थः ।

ननु विभक्तिसाम्ये कथं निर्णयस्तत्राह -
यत्रापीति ।
'साम्न उपासनं साधु' इत्युपक्रम्य पृथिवी हिङ्गार इत्यादिना हिङ्गा­रा­दि­प­ञ्चा­व­य­वस्य साम्न उपासनमुक्त्वा 'इति तु पञ्च­वि­ध­स्यो­पा­स­नम्' इत्युपसंहृत्य, अथेति सप्तविधस्य साम्न उपासनं प्रक्रम्य प्रपञ्चितमतः साम्न एवो­पा­स्य­त्व­मि­त्यर्थः ।

यदुक्तं प्राथ­म्या­त्पृ­थि­व्या­दे­रू­पा­स्य­त्व­मिति, तत्राह -
एतस्मादेवेति ।
यद्यपि हिङ्कारोद्देशेन पृथि­वी­त्व­वि­धे­रु­द्दे­श्यस्य प्रथमनिर्देशो वाच्य­स्त­था­प्यु­क्त­न्या­य­ब­ला­द्व्य­त्ययो ग्राह्य इत्यर्थः ॥६॥

आसीनः सम्भवात् ।

कर्मण उत्थि­ते­नो­प­वि­ष्टेन वाने­क­धा­नु­ष्ठा­न­द­र्श­ना­त्सं­शयः कर्मा­ङ्गा­श्रि­तो­पा­स­ना­ना­मा­स­न­नि­य­मा­न­पे­क्षा­णा­म­नु­ष्ठा­न­प्र­कार उक्त­स्त­द्व­द­ङ्गा­ना­श्रि­तो­पा­स­ने­ष्व­प्य­नि­यम इति पूर्वपक्षयति -
तत्रेति ।
अत्रा­स­ना­भ्या­सा­सिद्धिः, सिद्धान्ते तु मनो­दे­ह­यो­र्भि­न्न­त्वेऽपि देहचाञ्चल्ये मनसोऽनवस्थानस्य अनु­भ­व­सि­द्ध­त्वा­न्म­नो­व्या­पा­रे­षू­पा­स­नेषु देह­स्थै­र्या­र्थ­मा­स­न­नि­य­मा­पे­क्षेति फलभेदः । तिष्ठत उत्थितस्य ॥७॥

किञ्च ध्यातार आसीन एव स्युः ध्याय­ति­श­ब्दा­र्ह­त्वा­द्ब­का­दि­व­दि­त्याह -
ध्यानाच्चेति ॥८॥

अत्रैव श्रौतं दृष्टान्तमाह -
अचलत्वं चेति ॥९॥

बाह्यस्य शारीरस्य चासनस्य स्मरणान्नियम इत्याह -
स्मरन्ति चेति ॥१०॥

यत्रैकाग्रता तत्राविशेषात् ।
तेष्वे­वा­ङ्गा­ना­श्रि­तो­पा­स­नेषु प्राच्यादिदिशि तीर्थादिदेशे प्रदोषादिकाले नियमोऽस्ति न वेत्यु­भ­य­था­स­म्भ­वा­त्सं­शयः । एकविषयत्वं सङ्ग­ति­रू­पा­स्तीनां विहि­त­त्वा­द्या­गा­दि­व­दस्ति दिगादिनियम इति पूर्वपक्षः । अत्र दिगादिष्वादरः फलं सिद्धान्ते त्वनादरः । ध्येये चित्तै­का­ग्र्यस्य प्राधा­न्या­त्प्र­धा­ना­क्षि­प्त­दे­शा­दि­ग्र­ह­ण­स्यो­चि­त­त्वा­दि­वि­वेकः ।

अर्थलक्षण एवेति ।
ऐका­ग्र्य­फ­ल­लि­ङ्गक एवेत्यर्थः । प्राचीनप्रवणे प्राग्देशे निम्नस्थाने वैश्वदेवं कुर्यादितिवदत्र दिगादिविशेषो न श्रूयते अतोऽ­नु­मा­न­म­प्र­यो­ज­क­मिति भावः ।

विशे­षा­श्र­व­ण­म­सि­द्ध­मिति शङ्कते -
ननु विशेषमपीति ।
शर्कराः सूक्ष्मपाषाणाः । जलाश्रयवर्जनं शीत­नि­वृ­त्त्य­र्थम् । चक्षुःपीडनो मशकः । वाचनिकं सम­दे­शा­दि­नि­य­म­म­ङ्गी­कृत्य चित्तै­का­ग्र्य­वि­रु­द्धेषु देशादिगतेषु प्राची­न­प्र­व­ण­त्वा­दि­ष्व­ना­दर इति सुहृद्भावेन सूत्रकृदुपदिशति । देशाद्याग्रहे चित्त­वि­क्षे­पा­त्स­मा­धि­भङ्गः स्यात्स माभूदिति ॥११॥

आप्रायणात् ।

व्यवहितेनास्य सम्बन्धमाह -
आवृत्तिरिति ।
अनियोज्ये ब्रह्म­ण्या­त्म­त्व­प्र­ति­प­त्ति­र्यस्य तस्य विदुष इत्यर्थः ।

अह­ङ्ग्र­हो­पा­स­ने­ष्व­नु­ष्ठा­न­स्यो­भ­य­था­दृष्टेः संशयमाह -
यानि पुनरिति ।
यथा दिगा­दि­नि­य­म­स्या­वि­धे­र­ना­द­र­स्त­द्व­दा­म­र­ण­मु­पा­स्या­वृ­त्ते­र­वि­धा­ना­दि­नि­यम इति पूर्वपक्षः ।

मर­ण­प­र्य­न्त­मा­वृ­त्ति­रिति सिद्धान्तयति -
एवमिति ।

उपास्तीनां कर्मणां चान्त्यकाले प्राप्त­व्य­फ­ल­स्फू­र्ति­द्वारा फलहेतुत्वे मानमाह -
सविज्ञान इति ।
भावनामयं विज्ञानं फलस्फुरणं तेन सहितः सविज्ञानो विज्ञा­न­स्फु­रि­त­फलं विज्ञा­न­मि­त्यर्थः । यस्मिंल्लोके चित्तं सङ्कल्पोऽस्येति यच्चित्तस्तेन सङ्कल्पितेन लोकेन सह फल­स्फू­र्त्य­न­न्तरं मनः प्राणे लीयते इति यावत् । तेज उदानः । आत्मा जीवः । जलौ­का­दृ­ष्टा­न्त­श्रु­तेश्च भावि­फ­ल­स्फू­र्ति­र­स्ती­त्यर्थः ।

अस्त्वि­द­म­न्त्य­फलं विज्ञानं कर्म­णा­मि­वा­दृ­ष्ट­द्वा­रो­पा­स्तीनां ततः कुत आम­र­ण­मा­वृ­त्ति­रि­त्यत आह -
प्रत्य­या­स्त्विति ।
उपा­स्ति­प्र­त्य­यानां धारावाहिकतया स्वरू­पा­नि­वृ­त्ति­रे­वान्त्यं विज्ञानम् , न त्वदृ­ष्ट­द्वा­र­क­म­न्य­द­पे­क्षितं सर्वभावानामेव स्वसा­मा­न­जा­ती­य­द्वा­रा­न­पे­क्ष­तया प्रत्ययानां प्रत्य­या­न्त­रा­पे­क्षा­यो­गात्, कर्मणां तु दृष्ट­द्वा­रा­न्त्य­धी­फ­ल­त्वा­नु­प­पत्तेः अदृ­ष्ट­द्वा­र­क­ल्प­नेति भावः । क्रतुर्ध्यानम् । उपासक एतत्त्रयम् 'अक्षि­त­मसि', 'अच्यु­त­मसि', 'प्राण­सं­शि­त­मसि' इति मन्त्रत्रयं मरणकालेऽपि स्मरेदित्यर्थः ॥१२॥

यथोपासकानां यावज्जीवं कर्तव्यमस्ति न तथात्मविदामिति कर्मक्षयलक्षणां जीवन्मुक्तिमाह -
तदधिगम इति ।

ज्ञानसाधनेषु फलाधिक्यार्थं फलाध्यायेऽपि साधनविचारः कृतः, सम्प्रति फलाध्यायस्था फलचिन्ता क्रियत इत्याह -
गत इति ।
कर्मणां फला­न्त­त्व­शा­स्त्रा­ज्ज्ञा­न­ना­श्य­त्व­शा­स्त्राच्च संशयः, पूर्वपक्षे ज्ञानिनोऽपि सञ्चि­त­पा­प­भो­गा­न­न्तरं मुक्तिः, सिद्धान्ते तु ज्ञानसमकालं पाप­ना­शा­ज्जी­व­न्मु­क्ति­रिति फलम् । न हिंस्या­दि­त्या­दि­नि­षे­ध­श्रुत्या दुरितादृष्टस्य दुःखदायिनी शक्तिरधिगता । 'नाभुक्तं क्षीयते कर्म' इति च स्मरन्ति । अतः फलान्तमेव पापं न मध्ये नश्यतीति पूर्वपक्षः । ननु तर्हि तन्नाशार्थं प्राय­श्चि­त्त­वि­धिर्न स्यादिति चेत् । न । यथा आहि­ता­ग्ने­र्गृ­ह­दाहे निमित्ते सति 'अग्नये क्षामवते पुरो­डा­श­म­ष्टा­क­पालं निर्वपेत्' इति इष्टि­वि­धि­स्त­द्व­द्दोषे निमित्तमात्रे सति प्राय­श्चि­त्त­वि­धे­र्दो­ष­ना­शा­र्थ­त्वा­सिद्धेः ।

ननु विषम उपन्यासः, युक्तं गृहदाहस्य सिद्ध­त्वा­द­यो­ग्य­त्वा­च्चा­फ­ल­तया निमि­त्त­मा­त्रत्वं दोष­वा­न्प्रा­य­श्चित्तं कुर्यादित्यत्र तु मलिनः स्नाया­दि­ति­व­द्दो­ष­प­दस्य निवृत्तिद्वारा फलपरत्वसम्भवात् 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इति प्राय­श्चि­त्ता­त्पा­प­नि­वृ­त्ति­श्रु­ते­श्चा­युक्तं प्रायश्चित्तस्य नैमि­त्ति­क­त्व­मि­त्यत आह -
अपि चेति ।
ज्ञानस्य दोषनाशार्थतया विधानं नास्ति 'क्षीयन्ते चास्य कर्माणि' इत्या­दे­र्ज्ञा­न­स्ता­व­क­मा­त्र­त्वा­दि­त्यर्थः ।

कर्मभोगानन्तरं देशकालान्तरे मोक्षो भविष्यति शास्त्र­प्रा­मा­ण्या­दि­त्याह -
नेत्युच्यत इति ।

ज्ञाना­त्क­र्म­क्ष­य­स्या­पू­र्व­त्वा­न्मा­ना­न्त­र­वि­रु­द्ध­त्वाच्च तत्प­रा­ने­क­वा­क्यानां स्ताव­क­त्वा­यो­गा­त्त­स्या­स्ति­त्व­मिति सिद्धान्तयति -
एवमित्यादिना ।
पाप­क्रि­या­तोऽ­पू­र्वा­नु­त्प­त्ति­र­श्लेषः ।

सगु­ण­ब्र­ह्म­वि­द्यायां व्यपदेशमुक्त्वा निर्गुणायां तमाह -
अयमपर इति ।

परोक्तं दूषयति -
यदु­क्त­मि­त्या­दिना ।
विधि­नि­षे­ध­शास्त्रं 'नाभुक्तं क्षीयते' इत्यादि, स्मृतिश्च कर्मणः फलशक्तौ प्रमाणमतः शक्तस्यापि कुत­श्चि­न्ना­शा­ङ्गी­का­रेण शास्त्रविरोध इत्यर्थः ।

तत्त्व­ज्ञा­न­मा­त्म­न्य­शे­ष­दु­रि­त­ना­शकं तन्मू­ला­ध्या­स­बा­ध­क­त्वा­त्स्व­प्न­दु­रि­त­मू­ल­क­र्तृ­त्वा­ध्या­स­बा­ध­क­जा­ग्र­द्बो­ध­व­दि­त्याह -
तथा­प्य­क­र्त्रा­त्म­बो­धा­दिति ।

श्रुतार्थमेव युक्त्या द्रढयति -
अश्लेष इति चेति ।
मूला­ध्या­सा­नु­त्पत्तेः पापस्याश्लेषः, तन्ना­शा­त्त­द्वि­नाश इत्यर्थः ।

अध्यासाभावे विद्वदनुभवमाह -
पूर्वेति ।

मोक्ष­शा­स्त्र­ब­लाच्च ज्ञाना­त्क­र्म­क्ष­य­सि­द्धि­रि­त्याह -
एवमेवेति ।
ज्ञाना­त्क­र्म­क्षये सत्येवेत्यर्थः ।

मोक्षस्य कर्म­फ­ल­सा­म्य­मुक्तं निरस्यति -
न चेति ॥१३॥

इतरस्यापि तु ।
अतिदेशत्वान्न सङ्ग­त्या­द्य­पेक्षा ।

ज्ञानात्पुण्यं क्षीयते न वेति पूर्ववत्सन्देहे ज्ञानं तु न पुण्यनाशकं शास्त्री­य­त्वा­त्पु­ण्य­व­दि­त्य­धि­का­श­ङ्का­मु­क्त्वा­ति­देशं व्याचष्टे -
धर्म­स्ये­त्या­दिना ।
ज्ञानं पुण्यनाशकं समू­ल­वि­द्या­घा­ति­त्वा­दिति न्यायो­पे­ता­ग­म­बा­धि­त­म­नु­मा­न­मिति भावः ।

ननु क्षीयन्ते चेत्य­वि­शे­ष­श्रुतिः पापविषया सर्वं पाप्मानं तरतीति विशे­ष­श्रु­ते­रि­त्यत आह -
यत्रापि केवल इति ।

पाप­पु­ण्य­क्ष­य­प­रा­धि­क­र­ण­द्व­यस्य फलमाह -
पाते त्विति ॥१४॥

अनारब्धकार्ये एव तु ।

उक्तकर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्य­वि­शे­ष­श्रु­ते­स्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -
पूर्वयोरिति ।
जीव­न्मु­क्त्य­सि­द्धि­स्त­त्सि­द्धि­श्चे­त्यु­भ­यत्र फलम् ।

पूर्व­सि­द्धा­न्त­न्या­येन पूर्व­प­क्ष­प्राप्तौ उक्तोत्सर्गतः कर्मक्षतिः प्रार­ब्धा­न्य­क­र्म­वि­ष­ये­त्य­प­वादं सिद्धान्यति -
एवमिति ।
सामि­श­ब्दोऽ­र्ध­वा­चकः । प्रार­ब्धा­द्या­वन्न विमुच्यते तावानेव विल­म्ब­स्त­न्मोक्षे ब्रह्म सम्पद्यत इति श्रुत्यर्थः ।

देह­पा­ता­व­धि­लि­ङ्गा­त्त­त्त्व­विदां याज्ञ­व­ल्क्या­दीनां देह­धा­र­ण­श्रु­ति­स्मृ­ति­लि­ङ्गाच्च प्रार­ब्ध­क­र्म­ण­स्त­त्त्व­ज्ञानं प्रति हेतु­त्वे­नो­प­जी­व्य­त्वाच्च प्राब­ल्य­सि­द्धे­स्त­त्प्र­ति­बद्धं तत्त्वज्ञानं तत्सि­द्ध्य­र्थ­म­वि­द्यांशं विक्षे­प­श­क्त्याख्यं विहा­या­व­र­का­वि­द्यांशं नाशयतीत्याह -
उच्यते न तावदिति ।
विक्षे­प­का­वि­द्या­लेश एव तत्संस्कारः ।

शिष्यान्प्रति जीवन्मुक्तौ स्वानुभवमाह -
अपि च नैवेति ॥१५॥

अग्निहोत्रादि तु ।

नित्यं नैमित्तिकं कर्म ज्ञानान्नश्यति न वेति सन्देहे उभे पुण्यपापे तर­ती­त्य­वि­शे­ष­श्रु­ते­र्न­श्य­ती­त्या­श­ङ्क्यो­त्त­र­स्या­पी­त्यु­क्ता­ति­दे­शस्य नित्या­द्य­ति­रि­क्त­का­म्य­पु­ण्य­वि­ष­य­त्वे­ना­त्रा­प­वादं सिद्धान्तयति -
पुण्य­स्ये­त्या­दिना ।
अत्र पूर्वपक्षे ज्ञानार्थं नित्या­द्य­नु­ष्ठा­ना­सिद्धिः पङ्क­क्षा­ल­न­न्या­यात्, सिद्धान्ते तु ज्ञानो­त्प­त्त्य­र्थ­त्वा­त्त­त्सि­द्धि­रिति विवेकः । अत्र भाष्ये ज्ञानकर्मणोः साक्षा­दे­क­का­र्यत्वं परमतेनोक्त्वा साक्षा­त्पा­र­म्प­र्याभ्यां मोक्षहेतुत्वं स्वमतमुक्तमिति मन्तव्यम् । अत एवेति ज्ञानादूर्ध्वं कर्मा­भा­वा­त्पू­र्व­क­र्म­वि­ष­य­मि­त्यर्थः ।

निर्गु­ण­वि­द्यायाः कर्मसाहित्यं तृप्तिं प्रति भोजनस्य लाङ्गलेनेव दर्शितम् , सम्प्रति सगु­ण­वि­द्या­प­र­त्वेन सूत्र­स्या­ञ्ज­स्य­माह -
सगुणास्विति ॥१६॥

उत्तरसूत्रार्थं गृह्णाति -
किमित्यादिना ।
यत्प्रा­र­ब्धा­द­न्य­त्काम्यं पुण्यं पापं च तदेव विद्व­त्सु­हृ­द्द्वि­षतोः स्वसमानजातीयं कर्म जनयति स्वयं च ज्ञाना­न्न­श्य­तीति भावः ॥१७॥

यदेव विद्ययेति हि ।

उक्तनित्यादिकं विषयमुपजीव्य सबीजं संशयमुक्त्वा पूर्वपक्षमाह -
विद्या­सं­यु­क्त­मे­वेति ।
अत्र पूर्वपक्षे कर्मा­ङ्गो­पा­स्ति­ही­न­क­र्मणो ज्ञाना­र्थ­त्वा­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । भवतु विद्या­वि­शि­ष्टस्य कर्मणो ज्ञानं प्रति शीघ्र­का­रि­त्वाख्यः कश्चिदतिशयो विद्या­सा­म­र्थ्यात् । नैतावता केवलस्य वैयर्थ्यं विवि­दि­षा­श्रु­ति­वि­रो­धात् । न च तत्र श्रुतौ यज्ञादिशब्दानां विद्यो­पे­त­क­र्म­प­र­तया सङ्कोचो युक्तः । हि यतः । 'यदेव विद्यया' इति श्रुतिः केवलस्यापि वीर्यवत्त्वं गमयतीति सिद्धा­न्त­ग्र­न्थार्थः ॥१८॥

भोगेन त्वितरे क्षपयित्वा सम्पद्यते ।

तत्त्वविदत्र विषयः, स किं प्रार­ब्ध­क्ष­या­न­न्तरं संसरत्युत नेति निमि­त्त­भा­वा­भा­वाभ्यां संशये सिद्धा­न्त­मु­प­क्र­मते -
अनारब्धेति ।
अनारब्धकर्मणः क्षयो­क्ता­वा­र­ब्धस्य कथं क्षय इत्या­का­ङ्क्षा­या­म­स्यो­त्था­ना­त्स­ङ्गतिः । पूर्वपक्षे विदे­ह­कै­व­ल्या­सिद्धिः सिद्धान्ते तत्सिद्धिरिति भेदः ।

देहपातोत्तरमपि तत्त्व­वि­त्सं­स­रति संसा­र­यो­ग्य­त्वा­द्यथा देह­पा­ता­त्पू­र्व­मि­त्य­ना­र­ब्धा­धि­क­र­ण­दृ­ष्टा­न्तेन पूर्वपक्षमाह -
नन्विति ।
भोग­नि­मि­त्त­क­र्मा­भा­वा­द्धे­त्व­सिद्धिः । यत्तु सञ्चितं कर्मान्तरं तन्न निमित्तं फलस्य, दग्धमूलत्वात् । अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च मूलम् । तदुक्तं योगशास्त्रे 'क्लेशमूलः कर्माशयः सति मूले तद्विपाकः' इति । तच्च मूलं ज्ञानाग्निना दग्धमिति कुतः पुनः संसा­र­स्त­स्मा­द्दे­ह­पाते कैवल्यमिति सिद्धम् ॥१९॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ भाष्य­र­त्न­प्र­भायां चतु­र्थ­स्या­ध्या­यस्य प्रथमः पादः ॥१॥
॥ इति चतुर्थस्याध्याय जीव­न्मु­क्ति­नि­रू­प­णाख्यः प्रथमः पादः ॥

चतुर्थेऽध्याये द्वितीयः पादः ।
वाङ्मनसि दर्श­ना­च्छ­ब्धाच्च ।
ज्ञान­फ­लो­क्त्य­न­न्त­र­मु­पा­स­न­फलं ब्रह्मलोकस्थं वक्तव्यं तच्चा­र्चि­रा­दि­मा­र्ग­प्रा­प्यम् , मार्ग­प्रा­प्ति­श्चो­त्क्रा­न्ति­साध्या तस्मा­दु­पा­स्ति­फ­ल­क्षि­प्तो­त्क्रा­न्ति­पा­द­स्या­स्त्या­ध्या­य­स­ङ्गतिः ।

युक्तं चास्य पूर्व­पा­दा­न­न्तर्यं ज्ञान­फ­लो­क्त्य­न­न्तरं वक्त­व्यो­पा­स्ति­फ­ले­ना­क्षि­प्त­त्वा­दि­त्याह -
अथेति ।

ज्ञानिन इवो­पा­स­क­स्या­प्यु­त्क्रा­न्ति­र्ने­त्यत आह -
समानेति ।
विद्वानुपासकः, तस्या­नु­पा­स­क­व­दु­त्क्रा­न्ति­रस्ति, अज्ञत्वादिति वक्ष्यत इत्यर्थः । प्रयतो म्रिय­मा­ण­स्ये­त्यर्थः । वाक्पदस्य कर­ण­भा­व­व्यु­त्प­त्तिभ्यां कर­ण­त­द्वृ­त्त्यो­र्ल­य­भा­ना­त्सं­शयः । पूर्वपक्षे करणानां स्वरू­प­ल­या­न्मृ­त­मा­त्रस्य मुक्तिः, सिद्धान्ते तु संसारसिद्धिः । अनुपादाने मनसि वाच­स्त­त्त्व­ल­या­यो­गेन व्यापा­र­मा­त्रो­प­श­मा­दिति विवेकः ।

सूत्रे वृत्ति­प­दा­ध्या­हारः कथमिति शङ्कते -
कथमिति ।
उत्तरत्र हि सूत्र­कृ­त्त­त्त्व­विद इन्द्रियाणां स्वरूपलयं वक्ष्यति तद्ब­ला­दि­हा­ध्या­हार उचितः । अज्ञस्यापि इन्द्रि­य­ल­य­साम्ये वक्ष्य­मा­ण­वि­शे­षो­क्त्य­यो­गा­दिति समाध्यर्थः ।

प्रकृतावेव विकारलय इति न्याय­वि­रु­द्धार्थं श्रुतिरपि न ब्रूत इति सिद्धान्तयति -
अत­त्प्र­कृ­ति­त्वा­दिति ।
न्यायस्य निर­व­का­श­त्वा­द्ब­ली­यस्त्वं शब्दस्य तूक्तिर्वागिति व्युत्पत्त्या लक्षणया वा सावकाशत्वमिति द्योतयितुं शब्दा­च्चे­त्यु­क्तम् ॥१॥

वाच्युक्तं न्यायं चक्षु­रा­दि­ष्व­ति­दि­शति -
अत एवेति ।
उप­शा­न्त­दे­हौ­ष्ण्य­स्त­स्मा­दु­त्क्र­म­णा­दूर्ध्वं पुनर्भवं प्रतिपद्यत इति श्रुत्यर्थः । इन्द्रियशब्दस्य श्रुतिस्थस्य वृत्ति­प­र­त­यो­प­पत्तेः ।

सर्वे­न्द्रि­य­वृ­त्ति­ल­य­श्चे­दि­ष्ट­स्तर्हि वाङ्मनसीति पृथक्सूत्रं किमर्थमित्यत आह -
सर्वेषां करणानामिति ॥२॥

तन्मनः प्राण उत्तरात् ।
वाक्य­क्र­मा­द­र्थ­क्र­मा­च्चा­धि­क­र­ण­क्रमः । श्रुति­न्या­याभ्यां संशयः पूर्वं प्रब­ल­न्या­य­वि­रो­धा­द्वा­गिति श्रुतेर्बाधः कृतः इह त्वबा­त्म­क­प्रा­णस्य अन्ना­त्म­क­म­नः­प्र­कृ­ति­त्वेन प्रकृतौ विकारलय इति न्याया­नु­ग्र­हान्न मनः­श्रु­ति­र्बा­ध्येति पूर्वपक्षफलं पूर्ववत्, सिद्धा­न्त­स्त्व­ब­न्नयोः प्रकृ­ति­वि­कृ­ति­भा­वेऽपि न तद्विकारयोः प्राण­म­न­सो­स्त­द्भावो हिमघटयोरपि तद्भा­व­प्र­स­ङ्गा­दतो न्याय­वि­रो­धा­त्पू­र्व­व­च्छ्रु­ति­र्बा­ध्येति विवेकः । आगृहीता बाह्ये­न्द्रि­य­वृ­त्तयो येन तत्तथा लीने­न्द्रि­य­वृ­त्तिकं मनोऽपि वृत्तिलयेनैव प्राणे लीयत इत्यर्थः ।

एवमपीति ।
प्राण­स्या­ब्वि­का­र­त्व­प­क्षेऽ­पी­त्यर्थः । तस्मादिति प्राणस्य साक्षा­न्म­नः­प्र­कृ­ति­त्वा­भा­वा­न्म­नः­शब्दो वृत्तिं लक्षयतीत्यर्थः ॥३॥

सोऽध्यक्षे तदुपगमादिभ्यः ।

उक्तन्यायसिद्धं प्राणस्यापि वृत्ति­ल­य­मु­प­जीव्य 'प्राण­स्ते­जसि' इति श्रुते­रू­प­ग­मा­दि­श्रु­तेश्च संशयमुक्त्वा जीवे लयं विनापि उपगमादिसम्भव इति पूर्वपक्षयति -
स्थितमित्यादिना ।

अत्र तेजःशब्दस्य मुख्यत्वम् , सिद्धान्ते तु भूतो­प­हि­त­जी­व­ल­क्ष­क­त्व­मिति मत्वा सूत्रं योजयति -
स प्रकृत इत्यादिना ।
अज्ञा­न­क­र्म­वा­स­नो­पा­धिक इत्यर्थः । तं जीवं प्रति प्राणा­ना­मु­प­ग­मा­नु­ग­म­ना­व­स्था­न­श्रु­तिभ्य इति हेत्वर्थः । यथा यात्रेच्छावन्तं राजानं भृत्या उप­ग­च्छ­न्त्ये­व­मेव परलोकं जिगमिषुं जीवं सर्वे प्राणा आभि­मु­ख्ये­ना­या­न्ती­त्यु­प­गमः श्रुतः । तमु­त्क्रा­म­न्त­मि­त्य­नु­ग­मनं श्रुतम् ।

जीवे प्राणा­व­स्था­न­श्रु­ति­माह -
सविज्ञान इति ।
जीवस्य प्राप्त­व्य­फ­ला­व­ग­माय हि विज्ञा­न­सा­हि­त्य­श्रुत्या मुख्य­प्रा­ण­स­हि­त­क­र­णानां जीवे स्थिति­र्भा­ती­त्यर्थः ॥४॥

यद्यपि प्राणस्य तेजस्यव्यवधानेन लयः श्रुत­स्त­था­प्यु­भ­य­श्रु­त्य­नु­ग्र­हाय प्राणो जीवे लीयते, जीवद्वारा च तदुपाधिषु तेज­आ­दि­भू­ते­ष्विति श्रुत्य­र्थ­स्फु­टी­क­र­णार्थं सूत्रं गृह्णाति -
कथं तर्हीति ।
न च लयं विनापि जीवं प्रत्यु­प­ग­मा­दि­स­म्भ­वा­त्ते­जः­श्रु­ति­र्मु­ख्या­स्त्विति वाच्यम् , जीवं प्रत्यागत्य प्राणस्य निर्व्या­पा­र­त्वेन स्थितेरेवात्र लयत्वादिति भावः ।

भूतेषु जीवस्थितिः किं बलाद्व्याख्यायत इत्याशङ्क्य 'सोऽध्यक्षे' इति सूत्रो­दा­हृ­त­श्रु­ति­ब­ला­दि­त्याह -
नन्वित्यादिना ।

प्राणस्य जीवद्वारा भूतप्राप्तौ दृष्टान्तमाह -
योऽपि हीति ॥५॥

स्थूलदेहारम्भाय पञ्ची­कृ­त­भू­ता­न्या­व­श्य­का­नीति रंहत्यधिकरणे व्याख्यातम् । अण्व्यः सूक्ष्माः, मीयन्त इति मात्राः परिच्छिन्नाः प्राङ्मो­क्षा­द­वि­ना­शिन्यः, दशार्धानां पञ्चानां भूतानां सूक्ष्मभागा इति यावत् । जीवस्य भूताश्रयत्वं कर्मा­श्र­य­त्व­श्रु­ति­वि­रु­द्ध­मि­त्या­शङ्क्य कर्म निमि­त्त­त्वे­ना­श्रयः, भूतानि तु देहो­पा­दा­न­त्वे­ने­त्यु­भ­य­म­वि­रु­द्ध­मि­त्याह -
ननु चेत्यादिना ।
तौ याज्ञ­व­ल्क्या­र्त­भागौ यज्जी­वा­धा­र­मू­च­तु­स्त­त्क­र्मेति श्रुतेर्वचनम् ॥६॥

एवं बाह्ये­न्द्रि­याणां मनसि प्रथमं वृत्ति­ल­य­ला­भा­त्ततो मनोवृत्तेः प्राणे लयः प्राण­वृ­त्ते­र्भू­तो­प­हि­त­जीवे लय इत्यु­त्क्रा­न्ति­व्य­व­स्थोक्ता । सा च सर्वप्राणिषु तुल्येत्याह -
समाना चानुपोष्य ।

'पुरुषस्य प्रयतो वाङ्मनसि' इत्य­वि­शे­ष­श्रुतेः 'विद्य­या­मृ­त­म­श्नुते' इति श्रुतेश्च संशयमाह -
सेयमिति ।
विशयानानां सन्दि­हा­ना­ना­मि­त्यर्थः । पूर्वपक्षे सगु­ण­ब्र­ह्म­वि­द­स­म्ब­न्धि­त्व­मु­त्क्रा­न्ते­र्वि­शेषः साध्यते । ततोऽनूत्क्रान्त उपासको मुक्तिमश्नुत इति फलम् , सिद्धान्ते तूत्क्रान्तो ब्रह्मलोकभागीति फलभेदः ।

पूर्व­प­क्ष­मा­क्षिप्य समाधत्ते -
ननु विद्येत्यादिना ।

विद्ययामृतमिति श्रुति­नि­र्गु­ण­वि­द्या­व­त्परा । न तस्य प्राणा उत्क्रामन्तीति प्रतिषेधोऽपि तद्विषयः । अतः सगु­ण­वि­दोऽ­प्य­ज्ञ­स्यै­वो­त्क्रा­न्ति­रिति सिद्धान्तयति -
एवमिति ।
सृति­र्मा­र्ग­स्त­स्यो­प­क्र­मोऽ­र्चिः­प्रा­प्ति­स्ततः प्राक्तना उत्क्रा­न्ति­स्तुल्या, तत उपासको मूर्ध­न्य­ना­डी­द्वा­रा­र्चि­रा­दि­मार्गं प्राप्नोति नान्य इति विशेषः ।

यत्तु दह­रो­पा­स­क­स्या­मृ­तत्वं श्रुतं 'तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति' इति तदापेक्षिकमेव न मुख्यं 'यं कामं कामयते सोऽस्य सङ्कल्पादेव समु­त्ति­ष्ठति' इति भोग­श्र­व­णा­दि­त्याह -
अनुपोष्य चेदमिति ।
उष दाह इति धातोरिदं रूपम् ॥७॥

तदापीतेः ।

पूर्वो­दा­हृ­तो­त्क्रा­न्ति­वा­क्य­शेषं व्याख्याय लिङ्गा­श्र­य­प­ञ्च­भू­तानां किमात्यन्तिको ब्रह्मणि लय उतानात्यन्तिक इति लय­स्यो­भ­य­था­द­र्श­ना­त्सं­श­य­माह -
कीदृशी पुनरियमिति ।
पूर्व­त्रा­पे­क्षि­क­म­मृ­त­त्व­मि­त्युक्तं तद­यु­क्त­मि­त्या­क्षे­पा­त्स­ङ्गतिः । पूर्वपक्षे मृतमात्रस्य मुक्तिसिद्धिः, सिद्धान्ते तु कर्म­वि­द्या­शा­स्त्र­ब­ला­त्सा­व­शे­ष­ल­य­सि­द्धि­रिति विवेकः ॥८॥

ननु लिङ्गात्मकस्य तेजसः कथं सूक्ष्म­त­म­ना­डी­द्वारा गतिः कुतो वा केनचिन्मूर्तेन प्रतिघातो नास्ति कुतो वा न दृश्यत इत्यत आह -
सूक्ष्ममिति ॥९॥
प्रमा­ण­सौ­क्ष्म्या­द्ग­ति­र­नु­द्भू­त­स्प­र्श­रू­प­व­त्त्वा­ख्य­स्व­च्छ­त्वा­द­प्र­ति­घा­ता­नु­प­लब्धी इत्यर्थः ॥१०॥

लिङ्गसद्भावे चौष्ण्य­लि­ङ्ग­का­नु­मा­न­माह -
अस्यैव चेति ॥११॥

प्रतिषेधादिति चेन्न शारीरात् ।

पूर्व­म­नु­पो­ष्येति पदेन दग्धा­शे­ष­क्ले­शस्य निर्गुणज्ञानिन उत्क्रा­न्त्या­द्य­भावः सूचि­त­स्त­स्या­त्रा­क्षिप्य समा­धा­ना­द्व्य­व­हि­ते­नास्य सङ्गतिरित्याह -
अमृतत्वं चेति ।
सकामस्य संसा­रो­क्त्य­न­न्तरं निष्कामस्य मुक्ति­प्र­क­र­णा­र्थोऽ­थ­शब्दः आत्म­का­म­त्वा­त्पू­र्णा­न­न्दा­त्म­वि­त्त्वा­दा­प्त­कामः प्राप्त­प­र­मा­नन्दः, अतो निष्कामः अन­भि­व्य­क्ता­न्त­र­वा­स­ना­त्म­क­का­म­शून्यः, तस्मादकामः व्यक्त­ब­हि­ष्का­म­र­हितः, ईदृशो योऽका­म­य­मा­न­स्त­स्ये­त्य­न्वयः ।

ज्ञानिन उत्क्रा­न्ति­रस्ति न वेति पञ्च­मी­ष­ष्ठी­श्रु­तिभ्यां सन्देहे सिद्धा­न्ति­श­ङ्का­नि­रा­स­पू­र्वकं पूर्वपक्षयति -
नेत्यादिना ॥१२॥

काण्वश्रुतौ तावत्तस्येति सर्वनाम्ना प्रकृतं ज्ञानिनं परामृश्य सम्ब­न्ध­सा­मा­न्य­मुक्तं तत्र माध्य­न्दि­न­शा­खायां तस्मा­दि­त्य­पा­दा­न­त्व­रू­प­वि­शेष उक्तो ग्राह्यस्तथा च जीवा­त्प्रा­णो­त्क्रा­न्ति­प्र­ति­षेधो भाति न देहात्तच्छब्देन देह­स्या­नु­क्ते­स्त­स्मा­ज्ज्ञा­नि­नोऽ­प्यु­त्क्रा­न्ति­र­स्तीति ज्ञान­वै­य­र्थ्य­मिति पूर्वपक्षफलम् । सिद्धान्ते तत्सार्थक्यमाह -
स्पष्टो हीति ।
अत्र पुरुषशब्दवाच्यो देह एव­स्मा­दि­त्यु­त्क्रा­न्त्य­व­धि­रु­च्यते । सश­ब्द­प­रा­मृ­ष्टस्य प्रकृतस्य पुरु­ष­स्यो­च्छ्व­य­ना­दि­ध­र्म­कस्य जीव­त्वा­यो­गा­दि­त्यर्थः । उच्छ्वयति बाह्य­वा­यु­पू­र­णा­द्व­र्धते, आध्मायति आर्द्र­भे­री­व­च्छब्दं करोतीत्यर्थः । येषां पञ्च­मी­पा­ठ­स्तेषां यद्यपि देहिनः प्राधान्यं तथापि देह­दे­हि­नो­र­भे­दा­त्त­स्मा­दिति देहं परामृश्य तदापादन एवो­त्क्रा­न्ति­प्र­ति­षेध इति व्याख्येयम् । तत्सा­मा­न्या­दु­क्त­श्रु­त्यास्य पाठ­स्यै­का­र्थ­त्वा­दिति योजना ।

इदानीं काण्व­पा­ठ­स्या­नु­गु­ण्य­माह -
येषां तु षष्ठीपाठ इति ।
सम्ब­न्ध­वि­शे­षा­का­ङ्क्षायां भोक्ता प्राणानां भोगो­प­क­र­ण­त्व­वि­शे­षोऽ­त्रैव प्राणमयो मनोमयः इति पूर्व­श्रु­त्युक्तो ग्राह्यः । न शाखा­न्त­र­स्थ­म­पा­दा­नत्वं ग्राह्यं जीवा­दु­त्क्रा­न्ते­र­प्रा­प्तायाः प्रतिषेधायोगात् । अतो विद्व­त्स­म्ब­न्धि­प्रा­णा­ना­मु­त्क्रा­न्त्य­पा­दा­ना­पे­क्षायां चक्षुष्टो वा मूर्ध्नो वेत्यु­क्त­दे­ह­प्र­देशा एव ग्राह्याः । तथा चायमर्थः - तस्य विदुषो भोगोपकरणात्मकाः प्राणाः देहप्रदेशेभ्यो नोत्क्रामन्तीति । एवं च प्राप्तो­त्क्रा­न्ति­नि­षे­धा­र्थत्वं वाक्यस्येति सर्वं चतुरस्रम् । अपि चेति स्पष्टार्थम् । सम्यगात्मभावेन भूतानि पश्यतः अपदस्य प्राप्य­प­द­र­हि­तस्य पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति तदभावादिति स्मृतियोजना ।

समृ­त्य­न्त­र­वि­रोधं शङ्कते -
ननु गतिरपीति ।

सगु­ण­वि­द्या­ब­ले­नैषा गतिरिति परिहरति -
सशरीरस्येति ।

ननु तर्हि 'तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति', 'स एवैतान्ब्रह्म गमयति' इत्या­दि­श्रु­तीनां का गतिः, तत्राह -
गतीति ॥१३ ॥ ॥१४॥

तानि परे तथाह्याह ।
पूर्वत्र गतिनिषेधेन विद्वत्कलानां घ्राणा­दी­ना­म­त्रैव लय उक्तः । तमुपजीव्य स किं तत्त­त्क­ला­प्र­कृ­तिषु पृथिव्यादिषु स्यादुत परमात्मनीति श्रुति­द्व­य­द­र्श­ना­त्सं­शयः कार्यः ।

तत्र साक्षात्प्रकृतौ विकारलय इति न्यायानुगृहीतया 'गताः कलाः' इति श्रुत्या पूर्वपक्षमग्रे वदन्नादौ सिद्धान्तमाह -
तानीति ।
यथा नद्यः समुद्रं प्राप्य लीयन्ते एवमेवास्य परितः सर्वत्र ब्रह्म­द्र­ष्टु­रिमाः प्राण­श्र­द्धाद्याः पुरुषायणाः पुरुषे कल्पिताः पुरुषमेव ज्ञेयं प्राप्य लयं गच्छन्तीत्यर्थः । मनः­प्रा­ण­यो­रे­की­क­र­णेन कलानां पञ्चदशत्वम् । प्रतिष्ठा इति द्विती­या­ब­हु­व­च­नम् । स्वस्य प्रकृतीः पृथिव्याद्या इत्यर्थः । वस्तुगत्या विद्वद्दृष्ट्या परमात्मनि कलालयेऽपि लोकदृष्ट्या प्रतिष्ठासु लयो­क्ति­र­वि­रुद्धा । तथा च कलाः स्वप्रकृतिषु विलाप्य ताभिः सह पुरुषे लीयन्ते इति श्रुति­द्व­य­ता­त्प­र्यम् ॥१५॥

अविभागो वचनात् ।

उक्तलयमुपजीव्य लयस्य द्वेधा­द­र्श­ना­त्सं­श­य­माह -
स पुनरिति ।
मुक्त्य­सि­द्धि­स्त­त्सि­द्धि­श्चे­त्यु­भ­यत्र फलम् । अवशेषो मूलकारणे शक्त्यात्मना स्थितिः । पुन­र्ज­न्म­यो­ग्य­तेति यावत् । विमतः कलालयः सावशेषः, कला­ल­य­त्वा­त्सु­षु­प्ति­व­दिति पूर्वपक्षः ।

विमतो निरवशेषः, विद्या­कृ­त­त्वा­द्रज्ज्वा विद्यया सर्पलयवदिति युक्त्यु­पे­त­श्रुत्या सिद्धान्तयति -
ब्रवीतीति ।
नामरूपे शक्त्यात्मके अपि भिद्येते इत्यर्थः ॥१६॥

तदोकोग्रज्वलनम् ।

सृते­र्मा­र्ग­स्यो­प­क्रमो नाडी­प्र­वे­श­नि­य­मस्तं वक्तुं सूत्र­भा­ग­व्या­ख्या­द्वा­रा­धि­क­र­ण­वि­ष­य­माह -
तस्येति ।
स मुमू­र्षु­स्ते­जो­मात्रा इन्द्रियाणि । तस्य हृदयस्याग्रं नाडीमुखं तस्य ज्वलनं भाविफलस्फुरणं प्रद्योताख्यम् । चक्षुष्टो वेत्य­नि­य­म­श्रु­ते­स्त­यो­र्ध्व­मा­य­न्निति विशेषश्रुतेश्च संशयः किमु­पा­स­कोऽ­प्य­नु­पा­स­क­व­द्येन केनचिद्द्वारेण निर्गच्छति उत मूर्ध­न्य­ना­ड्यै­वेति । अत्र पूर्वपक्षे विद्या­कृ­ता­ति­श­या­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।

वच­ना­द­वि­भा­ग­व­द­नि­यम इति प्राप्ते सिद्धान्तयति -
आचष्ट इति ।
येन केनचिन्मार्गेण निर्गतस्यापि ब्रह्म­लो­क­प्राप्तौ विद्याशेषत्वेन मार्गा­नु­स्मृ­ति­विधेः केव­ला­दृ­ष्टा­र्थत्वं स्यादतोऽन्वहं स्मृतेनैव मार्गेण गमनं युक्तमिति भावः । हार्दं ब्रह्म । विष्वङ्नानाविधा अन्या नाड्योऽ­न्ये­षा­मि­त्यर्थः । सुषुम्नाख्या नाडी हृदयान्निर्गता दक्षि­णा­क्षि­ता­लु­क­ण्ठा­न्त­स्त­न­ना­सि­का­म­ध्य­भि­त्ति­द्वारा ब्रह्मरन्ध्रं प्राप्ता सूर्य­र­श्मि­भि­रे­की­कृता ब्रह्मलोकमार्ग उपासकस्येति स्थितम् ॥१७॥

रश्म्यनुसारी ।

प्रक­र­ण­शो­ध­न­पू­र्व­क­मु­पा­स­कस्य रश्म्य­नु­सा­रित्वं विषयमाह -
अस्तीत्यादिना ।

अथ प्रारब्धान्ते एतदुत्क्रमणं यदा स्यादथ तदा एतैरेव नाडीसम्बद्धै रश्मि­भि­रु­त्क्रा­म­ती­त्यर्थः । अत्र सम्बन्धस्य काल­वि­शे­षा­श्र­व­णा­द्रात्रौ रश्म्यभावाच्च संशयमाह -
तत्किमिति ।
पूर्वो­क्त­ना­डी­स­म्ब­द्ध­र­श्मी­ना­म­त्रो­प­जी­व्य­त्वा­त्स­ङ्गतिः ।

पूर्वपक्षे रात्रौ मृतस्य रश्मि­प्रा­प्त्यर्थं सूर्यो­द­य­प्र­ती­क्षास्ति, सिद्धान्ते नास्तीति मत्वा सिद्धान्तं प्रतिजानीते -
अविशेषेणेति ॥१८॥

पूर्व­प­क्ष­बी­ज­मु­प­न्यस्य दूषयति -
निशीत्यादिना ।
शिरा नाड्यः प्रतायन्ते विस्तृता भवन्ति, सृप्ताः सम्बद्धाः ।

श्रुतसम्बन्धस्य रात्रौ सत्त्वे युक्तिमाह -
निदाघेति ।

तर्हि हेम­न्ता­दि­रा­त्रि­ष्वौ­ष्ण्यो­प­लब्धिः स्यादित्यत आह -
स्तोकेति ।
सविता रात्रा­व­प्य­ह­र्द­धा­तीति धारणाभिधानं स्तोक­र­श्म्य­नु­वृ­त्त्य­भि­प्रा­य­मे­वे­त्यर्थः । किञ्च यदि रात्रौ मृतस्य रश्मियोगं विनैवोर्ध्वगतिः स्यात्तदा रश्मि­श्रु­ते­र्दि­वा­मृ­त­वि­ष­य­तया सङ्कोचः स्यादू­र्ध्व­ग­त्य­भावे च विद्या­या­म­प्र­वृत्तिः स्यात् । न च प्रती­क्ष­यो­र्ध्व­ग­ति­रिति वाच्यम् , रश्म्यु­द­या­त्प्रा­ग्दे­ह­दाहे आदि­त्य­प्र­ती­क्षा­वै­य­र्थ्या­पा­ता­द­प्र­ती­क्षा­श्रु­ति­वि­रो­धाच्च । तस्माद्यदा कदाचिन्मृतस्य रश्मिप्राप्त्या झटिति ब्रह्म­लो­क­प्रा­प्ति­रिति ॥१९॥

एवं दक्षिणायने मृतो विद्वा­न्वि­द्या­फ­ल­मा­प्नोति न वेति विद्याया नित्य­व­त्फ­ल­श्रु­ते­रु­त्त­रा­य­ण­प्रा­श­स्त्य­शा­स्त्राच्च सन्देहे पूर्वो­क्त­हे­तू­न­ति­दि­शति -
अतश्चायनेऽपि दक्षिणे ।

पूर्व­प­क्ष­मा­श­ङ्क्या­प­नु­दति -
उत्त­रा­य­णे­त्या­दिना ।
अज्ञा­ना­मु­त्त­रा­यणे दैवान्मरणं चेत्प्र­श­स्त­मि­त्य­भि­ज्ञा­भि­व­च­न­रू­पा­चा­र­प­रि­पा­ल­नार्थं भीष्मस्य प्रतीक्षा । षण्मासानिति श्रुति­स्तू­त्त­रा­य­ण­दे­व­ता­प­रेति वक्ष्यते । तथा च देवतायाः सदा सत्त्वा­द्वि­द्यया दक्षि­णा­य­न­का­लेऽपि तत्प्रा­प्ति­र­वि­रु­द्धेति भावः ॥२०॥

स्मृति­ब­ला­त्का­ल­प्रा­धान्यं शङ्कते -
ननु चेति ।

श्रौत­द­ह­रा­द्यु­पा­स­क­स्या­स्माभिः काला­न­पे­क्षोक्ता, स्मार्तयोगिनां तु कालापेक्षा स्मृतावुच्यत इत्यविरोधमाह -
योगिन इति ।

योगी दहराद्युपासक एव स्मृत्युक्तः किं न स्यादित्यत आह -
स्मार्ते चेति ।

भग­व­दा­रा­ध­न­बु­द्ध्या­नु­ष्ठितं कर्म योगः 'अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च' इति स्मृतेः । धार­णा­पू­र्व­कोऽ­क­र्तृ­त्वा­नु­भवः साङ्ख्यम् , 'इन्द्रि­या­णी­न्द्रि­या­र्थेषु वर्तन्त इति धारयन्' इति स्मृतेः । ननु श्रुति­स्मृ­त्यो­र्भि­न्ना­र्थ­त्व­म­युक्तं प्रत्य­भि­ज्ञा­वि­रो­धा­दिति शङ्कते -
नन्वग्निरिति ।
कालाग्रहिणं प्रति भिन्ना­र्थ­त्व­मु­क्तम् । यदि तु श्रौता­र्थ­प्र­त्य­भि­ज्ञया कालशब्दो देव­ता­प­र­स्त­र्ह्यै­का­र्थ्य­मे­वेति समाध्यर्थः । तस्मा­द्वि­द्या­सा­म­र्थ्या­त्स­र्व­दैव दिष्ठङ्गतस्य उपासकस्य फलप्राप्तिरिति सिद्धम् ॥२१॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­कृतौ श्रीम­च्छा­री­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां चतुर्थध्यायस्य द्वितीयः पादः ॥२॥
॥ इति चतु­र्थ­स्या­ध्या­य­स्यो­त्क्रा­न्ति­ग­ति­नि­रू­प­णाख्यो द्वितीयः पादः ॥

चतुर्थेऽध्याये तृतीयः पादः ।
एवमुत्क्रान्तिं निरूप्य तत्साध्यं मार्गं गन्तव्यं च निरूपयितुं पादमारभते -
अर्चिरादिना तत्प्रथितेः ।

वृत्ता­नु­वा­द­पू­र्व­क­मा­द्या­धि­क­र­णस्य विषयं मार्गमाह -
आसृतीति ।
विरजा विरजसः निष्पापा इत्यर्थः । श्रुति­वि­प्र­ति­पत्त्या संशयः । पूर्वं यदा­क­दा­चि­न्मृ­त­स्यापि फल­प्रा­प्ति­रुक्ता तद्वद्येन केनचिन्मार्गेण गतिरिति पूर्वपक्षफलं विकल्पः, सिद्धान्ते मार्गैक्यमिति विवेकः । उपा­स­ना­भे­दा­त्त­च्छे­ष­त्वेन ध्येयानां मार्गाणां भेदः, एवकाराच्च । किञ्च मार्गभेदे सत्यस्मादयं मार्गस्त्वरया प्रापक इति युक्तं न मार्गैक्य इत्यर्थः ।

उपा­स­ना­भे­देऽ­प्यु­पा­स्य­ब्र­ह्मै­क्य­व­न्मा­र्गै­क्य­म­वि­रु­द्ध­मिति सिद्धान्तयति -
एवमिति ।
तस्य मार्गस्य प्रसि­द्ध­त्वा­दिति हेत्वर्थः ।

ये चेत्य­वि­शे­ष­श्रु­ति­र­श्रु­त­ग­ति­वि­द्या­वि­ष­येति मार्गभेदं शङ्कते -
स्यादेतदिति ।
एकस्यैव मार्ग­स्या­ने­का­न्य­ग्न्या­दीनि विशे­ष­णा­नी­त्युक्ते लाघवान्न मार्गभेदः । प्रत्य­भि­ज्ञा­ना­च्चेति समाध्यर्थः ।

गन्तव्यैक्यं विवृणोति -
तथा हीति ।
परावतो दीर्घायुषो हिरण्यगर्भस्य परा दीर्घाः समाः संव­त्स­रा­न्व­सन्ति कार्यब्रह्मणो या जितिः सर्वत्र जयः, व्युष्टि­र्व्या­प्तिस्तां लभत इत्यर्थः ।

एवं गन्त­व्यै­क्य­व­त्प्र­त्य­भि­ज्ञया मार्गै­क्य­नि­श्च­या­त्प्र­क­र­ण­भे­दोऽ­प्र­यो­जक इत्युक्तं सम्प्र­त्ये­व­का­र­त्व­रा­व­च­न­यो­र्ग­ति­माह -
यत्त्वित्यादिना ।
रात्रौ स्पष्ट­र­श्म्य­भा­वा­द्वि­दुषो रश्म्य­यो­ग­प्राप्तौ तन्नि­रा­सा­र्थ­मे­व­कारो नान्य­व्या­वृ­त्त्यर्थः । यथा लौकिकमार्गे विलम्बस्तथा अर्चिरादौ नेति त्वरा­व­च­नो­प­प­त्ति­रि­त्यर्थः ।

मार्गैक्ये लिङ्गमाह -
अपि चेति ।
शुभ­मा­र्ग­बा­हुल्ये तृती­य­स्था­नो­क्तिर्न स्यादिति भावः ।

उत्त­र­मा­र्गै­क्येऽ­प्य­र्चि­रा­दि­नेति विशेषणे को हेतुरित्यत आह -
भूयांसीति ॥१॥

उक्तं मार्ग­स्यै­क्य­मु­प­जीव्य पर्वक्रममाह -
वायुमब्दात् ।

अर्चि­रा­दि­ष्व­स्मा­द­य­म­न­न्तर इति क्रमेण विशे­ष­ण­वि­शे­ष्य­भाव उच्यत इत्यधिकरणस्य तात्प­र्य­मुक्त्वा विषयमाह -
स एतमिति ।

अत्रा­ग्न्य­न­न्तरं पठितो वायुर्विषयः । स किम­र्चि­रा­त्म­का­ग्ने­र­न­न्त­र­मुत संवत्सरात्पर इति पाठा­द्व­क्ष्य­मा­ण­वि­शे­ष­श्रु­तेश्च संशये सिद्धा­न्त­मे­वो­प­क्र­मते -
उच्यत इति ।
पुरुषः उपा­स­कोऽ­स्मा­ल्लो­का­द्दे­हा­त्प्रैति निर्गच्छति तस्मै प्राप्ताय पुरुषाय स वायुस्तत्र स्वात्मनि विजिहीते छिद्रं करोति, तेन वायुदत्तेन रथ­च­क्र­छि­द्र­तु­ल्येन द्वारे­णो­र्ध्व­मा­दित्यं गच्छतीति श्रुत्यर्थः ।

इदानीं पूर्वपक्षमाह -
कस्मात्पुनरिति ।
पाठ­ब­ला­द­र्चि­षोऽ­न­न्तरो वायुरित्यर्थः । कौषीतकिनां पाठमात्रम् , न क्रमविशेषवाची कश्चि­च्छ­ब्दोऽस्ति । काण्वानां तु तेने­त्यू­र्ध्व­मिति च शब्दाभ्यां क्रम­नि­श्च­या­त्पा­ठ­बाध इति सिद्धान्तार्थः ।

अस्त्व­र्चि­रा­दि­मार्गे छान्दोग्यस्थे संव­त्स­र­पा­ठा­द्वा­यो­र­ब्दा­त्प­र­त्वम् , वाजिश्रुतिस्थे तु संव­त्स­र­स्या­श्रुतेः कथमब्दात्परो वायुरित्यत आह -
वाजेति ।

तर्हि देव­लो­का­द्वा­यु­मिति सूत्रं स्यादित्यत आह -
वायुमब्दादिति त्विति ।
संवत्सरस्य मासा­व­य­वि­त्वा­न्मा­सा­न­न्तर्यं संवत्सरात्परो देवलोकस्ततः परो वायुर्वायोः पर आदित्य इति श्रुतिद्वये क्रमो निष्पन्नः । तेनेति तृतीयाश्रुत्या वायो­रा­दि­त्य­पू­र्व­त्वा­व­ग­मा­दिति, सूत्रे तु वायुपदं देव­लो­क­पू­र्व­क­वा­यु­प­र­मिति स्थितम् ॥२॥

एवं कौषी­त­कि­भि­र­ग्न्य­न­न्तरं पठितस्य वायोः स्थानमुक्त्वा वाय्वनन्तरं पठितस्य वरु­ण­स्या­र्चि­रा­दि­मार्गे स्थानमाह -
तडितोऽधि वरुणः सम्बन्धात् ।

पठितो वरु­णा­दि­र्मा­र्ग­प­र्व­त्वेन सम्बध्यते न वेति सन्दे­हेऽ­र्चि­षोऽ­ह­रि­त्यादि पञ्च­म्या­र्चि­रा­दीनां क्रमेण मार्गपर्वतया बद्ध­त्वा­द्वा­यो­रिव स्थान­वि­शे­ष­श्रु­त्य­भा­वा­द­ल­ब्ध­स्थानो वरुणादिर्न सम्बध्यत इति प्राप्ते सिद्धान्तमाह -
आदित्यादिति ।

अपां विद्यु­त्का­र्य­त्वेन सम्बन्धे मानमाह -
विद्योतत इति ।
वरु­ण­स्या­ब्द्वारा विद्यु­त्स­म्ब­न्धात् 'आग­न्तु­का­ना­मन्ते निवेशः' इति न्यायाच्च विद्यु­दा­न­न्तर्ये सति यथा­पा­ठ­मि­न्द्र­प्र­जा­पत्योः क्रम इत्यर्थः ॥३॥

एवमर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति -
आति­वा­हि­का­स्त­ल्लि­ङ्गात् ।
चिह्न­नि­र्दे­श­सा­म्या­ल्लो­क­श­ब्दा­न्ने­तृ­त्व­लि­ङ्गाच्च संशयः । आद्यपक्षद्वयं पूर्वपक्षः ।

अर्चिरादयो विद्यु­द­न्ता­श्चे­तना नेता­र­श्चा­मा­न­व­पु­रू­षेण नेत्रा सह पठितत्वादिति सिद्धान्तयति -
एवमित्यादिना ।

यथा­श्रु­त्य­मा­न­व­स्यास्तु नेतृत्वं नार्चि­रा­दी­ना­मिति शङ्कते -
तद्वचनमिति ।

पुरु­ष­स्या­मा­न­वत्वं नेतृत्वं चेत्युभयपरत्वे वाक्यभेदः स्याद­तोऽ­र्चि­रा­दि­प­दै­र्ने­तार एव मानवाः प्रकृताः प्रक­र­ण­ब­ला­द्वि­द्यु­द­न­न्तरं मानवस्य नेतुः प्राप्तौ प्रक­र­ण­प्रा­प्त­ने­तृ­त्वा­नु­वा­दे­ना­मा­न­व­त्व­मे­क­मेव प्रतिपाद्यत इति वक्तव्यमित्याह -
नेति ।
नेतृ­प्र­क­र­णा­न­ङ्गी­कारे त्वमानवः पुरुषो गमयतीति वाक्यं भिद्येत अमा­न­व­त्व­व­न्ने­तृ­त्व­स्या­प्य­प्रा­प्ते­रिति भावः ।

नेतृ­त्वा­नु­वा­द­लि­ङ्ग­स्या­नु­ग्रा­ह­क­न्या­य­परं सूत्रं गृह्णाति -
नन्विति ॥४॥

यद्य­ने­ता­रोऽ­चे­तना एवा­र्चि­रा­द­य­स्तर्हि मार्ग­त­द्ग­न्त्रो­रु­भ­यो­रपि व्यामो­हा­द­ज्ञ­त्वा­दू­र्ध्व­ग­तिर्न स्यादतः स्वयं प्रय­त्न­शू­न्य­श्चे­त­ना­न्त­रेण नेय इति लौकि­क­न्या­या­नु­ग्र­हा­त्त­त्सि­द्धे­र्ने­तृ­त्व­सि­द्धे­रु­क्त­लिङ्गं न्यायोपेतमिति सूत्रार्थः । पूर्वपक्षद्वयं दूषयति -
अन­व­स्थि­त­त्वा­दि­त्या­दिना ।
अर्चि­र­ह­रा­दी­ना­म­स्थि­र­त्वा­द्रा­त्र्यादौ मृतस्य प्रतीक्षा नास्ती­त्यु­क्त­त्वाच्च न मार्गचिह्नत्वं भोग्यत्वं वा, देवतात्वे त्वस्थिरत्वदोषो नास्तीत्यर्थः ।

यत्तू­प­दे­श­स्वा­र­स्या­च्चि­ह्नत्वं भातीति, तत्राह -
अर्चिषोऽहरिति ।

चिह्न­त्व­ने­तृ­त्व­सं­श­याच्च वाक्य­शे­षा­न्नि­र्णय इत्याह -
अपि चेति ।

यदुक्तं लोक­श­ब्दा­द्भो­ग्य­त्व­मिति तन्नेत्याह -
सम्पिण्डितेति । ॥५॥

सूत्रान्तरं गृह्णाति -
कथं पुनरिति
अमानवो विद्यु­ल्लो­क­मा­गतो वैद्यु­त­स्ते­ने­त्यर्थः । श्रुतौ वैद्यु­ता­ल्लो­का­दि­त्यर्थः । श्रुत्या वरुणादीनां नेतृ­त्वा­भा­वेऽ­प्य­नु­ग्रा­ह­क­त्वेन मार्गान्तर्भाव इति भावः ॥६॥

एवं मार्गं निरूप्य गन्तव्यं चिन्तयति -
कार्यं बादरिरस्य गत्युपपत्तेः ।

परं ब्रह्म गन्तव्यमिति पूर्वपक्षे मार्गस्य मुक्त्यर्थता कार्यं ब्रह्मेति सिद्धान्ते भोगार्थतेति मत्वा प्रथमं सिद्धान्तमाह -
तत्र कार्यमेवेति ।
सर्वगतस्यापि प्रदे­शा­न्त­र­वि­शि­ष्ट­त्वे­ना­का­शस्य गन्तव्यत्वं दृष्टम् , ब्रह्मणस्तु प्रत्यक्त्वान्न कथमपि गन्त­व्य­ते­त्यर्थः ॥७॥

ब्रह्म­लो­के­ष्विति बहु­व­च­न­लो­क­श­ब्दा­धा­र­स­प्त­मी­श्रु­ति­भि­र्ग­न्त­व्यस्य पर­स्मा­द्व्या­वृ­त्त­त्वाच्च न परं गन्तव्यमित्याह -
विशे­षि­त­त्वा­च्चेति ।
परब्रह्मणि भोग्य­त्वो­प­चा­रा­द्गौणी लोक­श्रु­ति­रि­त्यर्थः । नपुं­स­क­ब्र­ह्म­श­ब्देन कारणवाचिना कार्यं लक्ष्यते गन्त­व्य­त्व­न्या­यो­पे­त­ब­हु­व­च­ना­द्य­ने­क­श्रु­त्य­नु­ग्र­हाय । न चाना­वृ­त्ति­लि­ङ्गा­त्प­रस्य गन्तव्यता, क्रममुक्त्या लिङ्ग­स्या­न्य­था­सि­द्धे­रिति भावः ॥८॥

प्रतिसञ्चरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिर­ण्य­ग­र्भ­स्यान्ते सम­ष्टि­लि­ङ्ग­श­री­र­रू­प­वि­का­रा­व­साने ब्रह्म­लो­क­नि­वा­सिनः कृतात्मानः शुद्ध­धि­य­स्त­त्रो­त्प­न्न­स­म्य­ग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना । एवं सिद्धा­न्त­मुक्त्वा तेन निरस्तं पूर्वपक्षमाह -
कं पुनरित्यादिना ॥९ ॥ ॥१० ॥ ॥११ ॥ ॥१२॥
दहरविद्यायां कठवल्लीषु परब्रह्मप्रकरणे च तयो­र्ध्व­मा­य­न्निति गतिर्दर्शिता ॥१३॥

एवं ब्रह्म­श्रु­त्य­मृ­त­त्व­लि­ङ्गाभ्यां प्रकरणाच्च परविषया गतिरित्युक्तम् , सम्प्रति प्रजापतेः सभां वेश्म प्राप्नुयामिति उपासकस्य मरणकाले कार्य­प्रा­प्ति­स­ङ्क­ल्प­श्रु­तेर्न परं गन्तव्यमिति शङ्कां निरस्यति -
न च कार्य इति ।
परस्य प्रकृतत्वात्, यशःपदस्य पर­मा­त्म­ना­म­त्व­प्र­सिद्ध्या यशः­प­दे­ना­त्मोक्तिः । यश आत्मा ब्राह्मणानामहं भवामि, तथा राज्ञां यशो विशां यश इति सार्वा­त्म्य­लि­ङ्गाच्च पर­प्रा­प्ति­स­ङ्कल्प एवायमित्यर्थः ।

अस्तु वेश्म­प्र­ति­प­त्तीच्छा परब्रह्मविषया तथापि सा कथं गतिपूर्विका स्यादित्यत आह -
सा चेति ।
तत्तत्र ब्रह्मलोके विद्या­वि­ही­ने­ना­प­रा­जिता पूरस्ति ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणां विमितं निर्मितं हिरण्मयं वेश्मास्ति तत्प्रतिपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्म­प्रा­प्ति­रुक्ता । तेन परब्रह्मण्यपि वेश्म­प्र­ति­प­त्ति­श­ब्द­सा­मा­न्या­द्ग­ति­पू­र्व­कत्वं तस्याः सिध्यतीत्यर्थः ।

किञ्च पद गताविति धातुपाठाद्वेश्म प्रपद्ये इत्यत्र मार्गापेक्षा भातीत्याह -
पदेरपीति ।

पूर्व­प­क्ष­मु­प­सं­ह­रति -
तस्मादिति ।

आद्य एव सिद्धान्तपक्ष इति दृढी­क­र्तु­मु­प­स­ङ्क्र­मते -
ताविति ।

ब्रह्म­श­ब्द­मु­ख्य­त्वा­दि­हे­तू­ना­मा­भा­सत्वं स्फुटयति -
न हीति ।
गन्तव्यत्वस्य ब्रह्म­लो­के­ष्विति बहुवचनादेः सङ्कल्पादेव गन्धा­दि­दि­व्य­भो­ग­श्रु­तेश्च पर­ब्र­ह्म­ण्य­स­म्भ­वा­न्मु­ख्या­र्थ­त्याग इत्यर्थः । यद्यप्येतद्वै सत्यकाम परं चापरं च ब्रह्मे­त्या­दि­श्रु­तिषु प्रयो­ग­सा­म्या­द्ब्र­ह्म­शब्द उभयत्र रूढतया मुख्य एव तथापि पूर्णे पर­स्मि­न्न­व­य­वा­र्थस्य निर­ति­श­य­म­ह­त्त्वस्य लाभा­द­प­र­ब्र­ह्म­ण्य­मुख्य इत्यङ्गीकृतमिति मन्तव्यम् ।

यदुक्तं कठवल्लीषु प्रकरणबलाद्गतिः परविषयेति, तत्राह -
परेति ।
यथा विद्या­स­म्ब­द्ध­सु­षु­म्ना­स्तु­त्यर्थं तद­स­म्ब­द्ध­ना­ड्य­न्त­र­की­र्तनं तथा पर­वि­द्या­स्तु­त्यर्थं तत्प्र­क­र­णेऽ­प्य­प­र­वि­द्या­श्र­य­ग­ति­की­र्तनं युज्यते, गतिं विनापि हि परविद्या निरतिशयफला तस्यां त्वपरविद्याफलं गति­सा­ध्य­म­न्त­र्भ­व­तीति स्तुति­ला­भा­दि­त्यर्थः ।

यदप्युक्तं प्राप्ति­स­ङ्क­ल्पोऽपि प्रकृतपरविषय इति तन्नेत्याह -
प्रजापतेरिति ।
प्रजा­प­ति­स­भा­वे­श्म­श्रु­ति­भि­स्त­त्स­ङ्घा­ता­त्म­क­वा­क्येन च प्रकरणं बाध्यम् , यशोऽहमिति सार्वात्म्यं तूपा­स­ना­र्थ­म­प­र­ब्र­ह्म­ण्यु­प­यु­ज्यत इत्यर्थः ।

स्वपक्षमुक्त्वा परमतं दूषयति -
केचिदित्यादिना ।

सर्वगतस्य स्वात्म­भू­त­स्यापि ब्रह्मणः संसा­र­दे­शा­द्दे­शा­न्त­रेण तत्का­ला­त्का­ला­न्त­रेण विशिष्टतया गन्तव्यत्वं स्यादिति पृथि­वी­व­यो­दृ­ष्टा­न्ताभ्यां शङ्कते -
नन्विति ।
यत्नं विनैव प्राप्त­म­न­न्य­त्वम्, अव­स्था­त­द्व­तो­र­भे­दा­त्स्वा­त्म­भू­त­त्वम् ।

ननु युक्तं भूवयसोः प्राप्तयोरपि देशा­न्त­र­का­ला­न्त­र­वि­शि­ष्ट­त्वेन गन्तव्यत्वं तयो­र्ग­न्तृ­भि­न्न­त्वात्, ब्रह्मणस्तु गन्त्रभिन्नस्य कथं गन्तव्यत्वं तत्राह -
सर्वशक्तीति ।
या प्राप्ता भूः सा न गन्तव्या यच्च गन्तव्यं देशान्तरं तत्त्व­प्रा­प्त­मिति कुतः प्राप्तस्य गन्तव्यता वयसोऽपि काला­न्त­रेऽ­भि­व्य­क्ति­मात्रं न गन्तव्यत्वमिति वस्तुगतिः ।

अङ्गीकृत्य विशि­ष्ट­भू­व­य­सो­र्ग­न्त­व्यतां परब्रह्मणो देश­का­ल­वै­शि­ष्ट्या­भा­वान्न कथञ्चिदपि गन्तव्यतेत्याह -
नेत्यादिना ।
'अना­दि­म­त्परं ब्रह्म' इत्याद्या स्मृति­र्दृ­श्य­वि­शे­षस्य दृशि कल्पि­त­त्वा­द्दृ­गा­त्मनो निर्विशेषतेति न्यायः ।

सगुणमेव ब्रह्म सूत्रा­त्मा­पे­क्षया परं गन्तव्यम् , निर्विशेषं तु नास्त्येवेति शङ्कते -
जगदुत्पत्तीति ।

किं निर्वि­शे­ष­स्या­सत्त्वं माना­भा­वा­त्स­वि­शे­ष­श्रु­ति­वि­रो­धाद्वा । नाद्य इत्याह -
नेति ।

द्वितीयं शङ्कते -
उत्पत्त्यादीति ।

सविशेषश्रुतीनां निर्वि­शे­ष­श्रु­ति­शे­ष­त्वान्न विरोध इत्याह -
नेति ।

निर्वि­शे­ष­श्रु­ती­ना­मेव सवि­शे­ष­श्रु­ति­शे­षत्वं किं न स्यादित्याह -
कस्मादिति ।

तासां स्वार्थे फलवत्त्वेन निरा­का­ङ्क्ष­त्वा­च्छे­षिता विशेषश्रुतीनां त्वफ­ल­त्वा­न्नि­षे­ध्य­वि­शे­ष­स­म­र्प­णा­दि­द्वा­रेण शेषत्वं फल­व­त्स­न्नि­धा­व­फलं तदङ्गमिति न्यायादित्याह -
उच्यत इत्यादिना ।

न केवलं न्यायाच्छेषता किन्तु श्रुत्यापीत्याह -
प्रत्यक्षं त्विति ।
तत्र मूलकारणे ब्रह्म­ण्ये­त­च्छुङ्गं जगदात्मकं कार्य­मु­त्प­न्न­मि­त्यु­प­क्रम्य तेन शुङ्गेन तन्मू­ल­म­न्वि­च्छे­त्यु­प­सं­हारे सत एव ज्ञेयत्वमुक्तं छान्दोग्ये । तथा तैत्तिरीयकेऽपि जग­ज्ज­न्मा­द्य­नु­वा­देन ब्रह्मण एव ज्ञेयत्वं दर्शितमतः सृष्टिश्रुतीनां श्रुत्यैव निर्वि­शे­ष­धी­शे­षता भातीत्यर्थः ।

एवं ब्रह्मणो निर्वि­शे­ष­त्वान्न गन्तव्यतेति फलितमाह -
एवमिति ।

स्पष्टनिषेधाच्च परस्य न गन्तव्यतेत्याह -
न तस्येति ।

एवं गन्तव्यालोचनया गतिं निरस्य गन्त्रालोचनयापि निरस्यति -
गतिकल्पनायां चेत्यादिना ।
भेदाभेदेन द्वौ कल्पा­व­त्य­न्त­भे­द­स्तृ­तीयः कल्पः ।

नन्व­त्य­न्ता­भे­द­कल्पः किमिति नोक्तः, तत्राह -
अत्यन्तेति ।

कल्पत्रये किं दूषणमिति पृच्छति -
यद्येवमिति ।

कल्पद्वयेऽपि दोषान्तरमाह -
विका­रा­व­य­व­प­क्ष­यो­श्चेति ।
विका­रा­व­य­व­रू­प­जी­व­वि­शि­ष्टस्य ब्रह्मणः स्थिर­त्वा­ज्जी­वानां गत्यागती न स्याताम् । न ह्यच­ला­ति­स्थू­ल­पा­षा­ण­स्थ­यो­र्म­ण्डू­क­पा­षा­णा­व­य­व­यो­श्च­ल­न­म­स्ती­त्यर्थः । अस्माकं त्वज्ञा­ना­त्क­ल्पि­तो­पा­धि­भि­र्ग­त्या­ग­ति­वि­भ्रम इति भावः ।

तृतीयकल्पमनूद्य विकल्प्य दूषयति -
अथेत्यादिना ।

अभे­द­श्रु­ति­वि­रो­ध­रूपो दोषो मम नास्तीति भेदाभेदवाद्याह -
विकारावयवयोरिति ।

भिन्नयोरभेदो मुख्यो न युक्तो विरोधादिति परिहरति -
नेति ।

किञ्च पक्ष­त्र­य­म­प्य­युक्तं संसारित्वस्य तात्त्वि­क­जी­व­भा­वस्य नाशे तात्त्वि­व­जी­व­स्व­रू­प­ना­श­प्र­स­ङ्गात् । न चास्माभिरिव त्वया ब्रह्मात्मत्वं जीवस्य तात्त्वि­क­रू­प­म­ङ्गी­कृतं यदस्य संसारनाशेऽपि न नश्येदित्याह -
सर्वेष्विति ।

ननु किं ब्रह्मत्वेन, संसाराभावः किल मोक्षः स च कर्माभावमात्रेण सेत्स्यतीति क्रमजडानां मतमुद्भाव्य निरस्यति -
यत्त्वित्यादिना ।

तदिति ।
एवंवृत्तं मोक्ष­हे­तु­रि­त्य­स्मि­न्नर्थे माना­भा­वा­दि­त्यर्थः ।

तर्क एव मानमित्यत आह -
न चैत­त्त­र्क­यि­तु­मिति ।

ननु तवा­प्ये­त­त्त­र्क­मा­त्र­मे­क­स्मि­ञ्ज­न्म­न्य­ने­क­वि­रु­द्ध­फ­लानां कर्मणां भोगा­यो­गा­द­स्त्य­व­शिष्टं कर्म जन्मान्तरस्य निमि­त्त­मि­त्या­शङ्क्य तत्र मानमाह -
कर्म­शे­ष­स­द्भा­व­सि­द्धि­श्चेति ।

सन्त्व­ना­र­ब्ध­फ­लानि पुण्यपापानि तेषां नित्या­द्य­नु­ष्ठा­नेन क्षयान्न जन्मान्तरमिति शङ्कते -
स्यादेतदिति ।
पुण्येन पुण्यस्य न नाशः अवि­रो­धा­द­न्य­था­ति­प्र­स­ङ्गात् ।

पापस्यापि सर्वात्मना पुण्यनाश्यत्वे मानं नास्तीति सञ्चि­त­पु­ण्य­पा­पाभ्यां जन्मान्तरं दुर्वारमित्याह -
तन्नेत्यादिना ।

क्रिय­मा­ण­नि­त्या­दि­नापि जन्म स्यात्, कर्मणा पितृलोक इत्य­वि­शे­ष­श्रुतेः, स्मृतेश्चेत्याह -
न च नित्येति ।
प्रत्य­वा­य­नि­रा­सार्थे नित्याद्याचारे सत्यनु पश्चात्फलान्तरं निष्पद्यत इत्यत्र दृष्टान्तः ।

तद्यथेति ।
निर्मिते आरोपिते सतीत्यर्थः ।

तथापि काम्या­दि­क­र्म­स­त्ता­नि­श्चयो नास्त्यत आह -
संशयितव्यं त्विति ।
ज्ञानं विना देहपाते मोक्ष एवेति निश्च­या­ला­भा­त्त्व­त्पक्षे क्षतिरिति भावः ।

ब्रह्मभिन्नस्य जीवस्य कर्तृ­त्वा­दि­स्व­भा­वस्य मोक्षाशापि न युक्तेत्याह -
न चेति ।

कर्तृत्वादिरूपं कार्यं न स्वभावः किन्तु तच्छक्तिरिति शङ्कते -
स्यादेतदिति ।

कार्यगम्यायाः शक्तेः कार्य­स्या­त्य­न्ता­नु­त्पादे सत्त्वमयुक्तमतः शक्तिसत्त्वे तद्विषयस्य कार्य­स्या­दृ­ष्ट­दे­श­का­ला­दि­नि­मि­त्तानां चात्मना शक्तिद्वारा नित्य­स­म्ब­द्ध­त्वा­न्मोक्षो न स्यादिति परिहरति -
तच्चेत्यादिना ।

मोक्ष­सि­द्ध्यर्थं जीवस्य ब्रह्म­त्वा­ङ्गी­कारे संसा­रा­नु­प­प­त्ति­मा­श­ङ्क्या­ज्ञा­ना­दु­प­प­त्ति­म­स­कृ­दुक्तां स्मारयति -
पर­स्मा­दि­त्या­दिना ।

प्रासङ्गिकं परिहृत्य परमं प्रकृतमुपसंहरति -
तदेवमिति ।

ननु पर­वि­द्या­या­म­प्या­प्नो­ति­प­देन गतिः श्रुतेत्यत आह -
ब्रह्म­वि­दा­प्नो­तीति ।

वैफल्याच्च गतेर्न पर­वि­ष­य­त्व­मि­त्याह -
अपि चेति ।

अनुचिन्तनपक्षं प्रत्याह -
न च नित्यसिद्धेति ।

कथं तर्हि कैश्चि­त्प­र­वि­ष­यत्वं गते­रु­क्त­मि­त्या­शङ्क्य भ्रान्त्येत्याह -
तत्र परापरेति ।

प्रश्नपूर्वकं परा­प­र­ब्र­ह्म­वि­भागं वदन्नपरब्रह्मणि गते­र­र्थ­व­त्त्व­माह -
किं द्वे इत्यादिना ।

व्यापिनो जीवस्य कथं गतिस्तत्राह -
सर्वगतत्वेऽपीति ॥१४॥

एवं गन्तव्यं निरूप्य गन्तॄ­न्नि­र्धा­र­यति -
अप्रतीकेति ।

'स एवैनान् ब्रह्म गमयति' इत्य­वि­शे­ष­श्रुतेः तत्क्र­तु­न्या­याच्च । संशयमाह -
इदमिति ।
अनियमाधिकरणे तत्त्व­वि­दोऽ­न्यत्र सर्वोपासकानां मार्गोपसंहार उक्तः, इदा­नी­म­प्र­ती­को­पा­स­का­ना­मेव मार्गो न सर्वेषां विका­रो­पा­स­का­ना­मि­त्यु­भ­य­था­भा­वोक्तौ पूर्वोक्तविरोधः स्यात्, तस्मा­दु­पा­स­क­मा­त्र­स्यो­त्त­र­मा­र्ग­सि­द्धि­रिति पूर्वपक्षफलम् , सिद्धान्ते तूभ­य­था­भा­व­सिद्धिः । अदोषादिति सूत्रे पदच्छेदः, अवि­रो­धा­दि­त्यर्थः । अनियमः सर्वासामिति सूत्रे सर्वशब्दस्य प्रती­को­पा­स­का­न्य­प­र­त्वा­दिति भावः । यद्यपि प्रतीकध्यायिनां पितृ­या­ण­तृ­ती­य­स्था­न­यो­र­प्र­वे­शा­द­र्चि­रा­दि­मार्गो वाच्यस्तथापि तेषां विद्यु­त्प­र्य­न्त­मेव गमनमस्तु न ब्रह्म­प्रा­प्ति­र्ब्र­ह्म­क्र­तु­त्वा­भा­वात् । यो यत् ध्यायति स तत्प्राप्नोति हि तत्क्रतुन्यायः श्रुतिमूलः । प्रतीकेषु च नामादिषु ध्येयेषु ब्रह्मणो गुणत्वात्, न ब्रह्म­ध्या­यि­त्व­मस्ति । अस्य च न्यायस्य पञ्चा­ग्नि­वि­द्या­या­मा­ह­त्य­वा­दा­त्प्र­त्य­क्ष­व­च­ना­द्बाध इष्ट इति सूत्रभाष्यार्थः ॥१५॥

किञ्च प्रतीकतारतम्येन फल­ता­र­त­म्य­श्रु­तेर्न प्रतीकध्यायिनां ब्रह्म­प्रा­प्ति­रि­त्याह -
विशेषं चेति ।
तस्मादसति वचने ब्रह्मध्यायिन एव ब्रह्मगन्तार इति सिद्धम् ॥१६॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्कृतौ भाष्य­र­त्न­प्र­भायां चतुर्थाध्यायस्य तृतीयः पादः ॥३॥
॥ इति चतु­र्थ­स्या­ध्या­यस्य सगुणविद्यावतो मृत­स्यो­त्त­र­मा­र्गा­मि­धा­ना­ख्य­स्तृ­तीयः पादः ॥

चतुर्थेऽध्याये चतुर्थः पादः ।
पूर्वपादे ब्रह्मोपासकानां कार्य­ब्र­ह्म­प्रा­प्ति­रुक्ता, सम्प्रति तेषा­मै­श्व­र्य­वि­शेषं ब्राह्मलौकिकं पाद­स्यो­त्त­रा­र्धेन प्रप­ञ्च­यि­ष्य­न्ना­दा­व­भ्य­र्हि­त­प­र­वि­द्या­प्राप्यं निर्वि­शे­ष­ब्र­ह्म­भा­व­माह -
सम्प­द्या­वि­र्भावः स्वेनशब्दात् ।

निर्गु­ण­वि­द्या­फ­ल­वा­क्य­मु­दा­हृत्य स्वशब्दस्य स्वीया­ग­न्तु­क­रू­प­स्वा­त्म­रू­प­वा­चि­त्वाभ्यां संशयमाह -
एवमिति ।

पूर्वपक्षे मोक्षस्य स्वर्गादविशेषः, सिद्धान्ते विशेष इति फलम् , तत्र मोक्ष आगन्तुकः, फल­त्वा­त्स्व­र्ग­व­दिति न्यायो­पे­त­या­भि­नि­ष्प­त्ति­श्रुत्या पूर्वपक्षमाह -
किमित्यादिना ।

स्वश­ब्द­श्रु­ति­बा­धितो न्यायः अभिनिष्पत्तिश्च साक्षा­त्का­र­वृ­त्त्य­भि­प्राया बन्ध­ध्वं­स­ज­न्म­न्यौ­प­चा­रि­क्ये­वेति मत्वा सिद्धान्तयति -
एवमिति ।
मोक्षस्य फलत्वेन प्राप्ता­ग­न्तु­क­त्व­नि­रा­सार्थः स्वशब्द इति युक्तं स्वीय­वा­चि­त्वेऽ­त्व­न­र्थ­का­नु­वादः स्यादित्यर्थः ॥१॥

सूत्रान्तरं गृह्णाति -
कः पुनरिति ।
जागरिते ह्यान्ध्या­दि­दे­ह­ध­र्म­वा­न्भ­वति स्वप्ने तु हत एव केनचित् । अपि च पुत्रा­दि­ना­शा­द्रो­दि­तीव भवति, सुषुप्तौ तु विशे­षा­ज्ञा­ना­द्वि­नष्ट इवेति, बन्धदशायां कलुषितात्मना तिष्ठति मोक्षे तु विगलिताखिलदुःखः परितः प्रद्यो­त­मा­न­पू­र्णा­न­न्दा­त्म­ना­व­ति­ष्ठत इति महान् विशेष इत्यर्थः ॥२॥

कार्यगोचरमिति ।
कार्यं ज्योतिः­प्रा­प्त­मि­त्यर्थः ।

कार्यं प्राप्तोऽपि मुक्तः किं न स्यादित्यत आह -
न चानतिवृत्त इति ॥३॥

अविभागेन दृष्टत्वात् । स्वरू­प­स्थि­त­मु­क्त­मु­प­जीव्य वादिविवादात् ब्रह्म­भे­दा­भे­द­सं­शये सत्यत्यन्तभेदं पूर्व­प­क्ष­मुक्त्वा सिद्धान्तमाह -
यस्येति ॥४॥

ब्राह्मेण जैमिनिः ।

उक्तं ब्रह्म स्वरूपमुपजीव्य स किं सत्येन सर्व­ज्ञ­त्वा­दि­ध­र्मेण युक्तस्तिष्ठति उत धर्मस्य शश­शृ­ङ्ग­व­द­त्य­न्ता­स­त्त्वा­च्चि­न्मा­त्रा­त्मना तिष्ठति किं वा वस्तु­त­श्चि­न्मा­त्रोऽपि जीवा­न्त­र­व्य­व­हा­र­दृष्ट्या कल्पि­त­स­र्व­ज्ञ­त्वा­दि­मा­निति मुनि­वि­प्र­ति­पत्तेः संशये सत्याद्यं पूर्वपक्षमाह -
अधुनेत्यादिना ।
तत्त­त्प­क्ष­सि­द्धि­रेव फलं द्रष्टव्यम् । सोऽन्वेष्टव्य इति विध्यर्थ उद्देशो य आत्मे­त्या­दि­रु­प­न्या­स­श­ब्दार्थः । आदि­प­दा­द्वि­धि­व्य­प­दे­श­ग्रहः ।

तत्रा­ज्ञा­त­ज्ञा­पको विधिस्तमाह -
तथा स तत्रेति ।
सर्वज्ञ इत्यादिस्तु व्यपदेशोऽयं हि नोद्देशः विध्यभावान्नापि विधिः सिद्ध­व­न्नि­र्दे­शा­दि­त्यर्थः ॥५॥

सत्य­त्वा­दि­ध­र्माणां सत्यत्वं दूष­य­न्न­त्य­न्ता­स­त्त्व­प­क्ष­माह -
चिति­त­न्मा­त्रे­णेति ।
चितिश्चैतन्यम् , शब्दज्ञानाद्यो विक­ल्पोऽ­स­न्प्र­त्य­य­स्तज्जाः अत्यन्तासन्त इति यावत् ।

अस्त्व­भा­व­ध­र्मा­णा­म­सत्त्वं भावधर्माणां तु सत्त्व­मि­त्या­शङ्क्य तेषा­म­प्यौ­पा­धि­क­त्वा­द­स­त्त्व­मि­त्याह -
सत्यकामेति ।

चिन्मात्रे मुक्ते जक्षणादिश्रुतिः कथं तत्राह -
अत एव चेति ।
सर्व­ध­र्म­नि­षे­धा­दे­वे­त्यर्थः ॥६॥

धर्माणां सत्य­त्व­म­त्य­न्ता­सत्त्वं चेति पक्ष­द्व­य­म­यु­क्तम् । अद्वैतश्रुतीनां सर्व­ज्ञ­त्वा­दि­श्रु­ति­व्य­व­हा­र­योश्च बाधा­पा­ता­द­त­स्तृ­ती­य­पक्षः श्रेयानिति सिद्धान्तयति -
एवमपीति ।
अत्र केचिन्मुह्यन्ति - अख­ण्ड­चि­न्मा­त्र­ज्ञा­ना­न्मु­क्त­स्या­ज्ञा­ना­भा­वा­त्कुत आज्ञानिकधर्मयोग इति, ते इत्थं बोधनीयाः । ये ईश्वरधर्मास्त एव चिदात्मनि मुक्ते जीवा­न्त­रै­र्व्य­व­ह्रि­यन्ते इति । न च मूला­वि­द्यै­क्या­त्त­न्नाशे कुतो जीवान्तरमिति वाच्यम् , न वयं तन्नाशे जीवा­न्त­र­व्य­व­हारं ब्रूमः, किन्तु तदं­श­ना­शे­नां­शा­र­ब्धा­ध्या­त्मि­क­श­री­र­द्व­या­भि­मा­निनो मुक्ता­वं­शा­न्त­रो­पा­धिका जीवा व्यवहर्तार इति वदामः । तर्हि नानविद्यापक्ष एव कुतो नाद्रियते जीव­भे­द­स्या­व­श्य­क­त्वा­दिति चेत् । न । प्रकृतिनानात्वं प्रतिजीवं प्रपञ्चभेद इत्या­द्य­प्रा­मा­णि­का­ने­का­र्थ­गौ­र­वा­दिति सर्ववृद्धसम्मत एकाविद्यापक्ष एव श्रेयान्, अंशभेदेन च बन्ध­मु­क्ति­व्य­व­स्थेति सङ्क्षेपः ॥७॥

एवं पर­वि­द्या­फ­ल­मु­क्त­मि­दा­नी­म­प­र­वि­द्या­फलं प्रपञ्चयति -
सङ्कल्पादेव तु तच्छ्रुतेः ।
एव­का­र­स्या­यो­गा­न्य­यो­ग­व्य­व­च्छे­द­सा­धा­र­ण्या­त्सं­शयः, ब्रह्मलोकं गतस्योपासकस्य सङ्कल्पो यत्ना­न्त­र­सा­पेक्षः, भोग­सा­म­ग्री­स­ङ्क­ल्प­त्वा­द­स्म­दा­दि­स­ङ्क­ल्प­वत् । न चैवकारविरोधः सङ्कल्पेन सामग्र्या अयोगव्यवच्छेदेन सौल­भ्या­र्थ­त्वात्, यत्नानङ्गीकारे भोग­पु­ष्ट्य­सि­द्धे­श्चेति पूर्वपक्षार्थः । अत्र लोकवृत्तानुसरणं फलम् , सिद्धान्ते तु विद्याबलेन सङ्कल्पस्यैव भोग­पु­ष्टि­क­र­त्व­सि­द्धि­रिति भेदः ।

किञ्च यदि भोग­स­ङ्क­ल्पा­न­न्त­र­मपि यत्ना­न्त­र­सा­ध्य­नि­मि­त्ता­पेक्षा स्यात्तर्हि निमि­त्त­प्राप्तेः प्राग्जा­त­स­ङ्क­ल्पस्य वन्ध्यत्वं स्याद्भोगे विलम्बात्ततः सत्य­स­ङ्क­ल्प­श्रु­तेर्न यत्ना­न्त­रा­पे­क्षे­त्याह -
निमित्तान्तरमपि त्विति ॥८॥

नन्वी­श्व­रा­धी­नस्य विदुषः कथं सङ्क­ल्प­मा­त्रा­द्भो­ग­सि­द्धि­स्त­त्राह -
अत एवेति ।
ईश्वरधर्म एव विदुष्याविर्भूत इति न सङ्कल्पभङ्ग इति भावः ॥९॥

एवकारवन्मनसेति विशे­ष­णे­ना­न्य­यो­ग­व्य­व­च्छे­दा­द्दे­हा­द्य­भाव इति पूर्वपक्षयति -
अभावं बादरिराह ह्येवम् ।
अत्रापि वादि­वि­वा­दा­त्सं­शयः, तत्र देहादयो न सन्त्येव सदा सन्त्येवेति च पक्षद्वयं पूर्वपक्षः । कालभेदेनेच्छया सन्ति न सन्ति चेति सिद्धान्तपक्षो द्रष्टव्यः । फलं तु तत्त­च्छ्रु­ते­र्मु­ख्य­त्व­मिति विवेकः ॥१० ॥ ॥११॥

द्वादशाहवदिति ।
य एवंविद्वांसः सत्रमुपयन्ति इत्यु­पा­यि­चो­द­ना­ग­म्य­त्व­श्रु­ते­र्द्वा­द­शा­हस्य सत्रत्वम् , आसतेति चोपयन्तीति वा चोदितत्वं सत्रलक्षणमिति स्थितिः । तथा द्वादशाहेन प्रजाकामं याजयेदिति यज­ति­चो­द­ना­द­र्श­ना­न्नि­य­त­क­र्तृ­क­त्वा­व­ग­मेन द्विरा­त्रा­दि­व­द­ही­नत्वं चेत्यर्थः ॥१२ ॥ ॥१३ ॥ ॥१४॥

प्रदीपवदावेशः ।

सङ्क­ल्प­मा­त्रा­न्नि­र्मि­त­दे­हा­नु­प­जीव्य तेषू­भ­य­था­द­र्श­ना­त्सं­श­य­माह -
भावमिति ।

अना­दि­लि­ङ्ग­श­री­र­स्यै­क­स्मि­न्नेव शरीरे भावा­न्नि­र्मि­ता­ने­क­दे­हेषु भोगासिद्धिः पूर्वपक्षफलम् , सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याचष्टे -
यथेत्यादिना ।
स एकधा त्रिधा पञ्च­धे­त्या­दि­श्रुत्या विदुष एवानेकधाभाव उक्तः । विद्वांस्तु न देहो नापि चिन्मात्रः । किन्तु लिङ्गोपहितात्मा । न च तस्य लिङ्गभेदं विनानेकत्वं सम्भवति । अतः श्रुति­ब­ला­दे­क­स्यै­वा­ना­दि­लि­ङ्ग­स्या­ने­क­दे­हेषु प्रवेशेन भेद एष्टव्यः । यद्यपि मूलप्रदीपस्य वर्त्य­न्त­रे­षू­त्प­न्न­दी­पानां चात्य­न्त­भे­दोऽस्ति लिङ्गस्य तु देहभेदकृतो भेदो न स्वतः, स्वतो लिङ्गभेदे तदु­प­हि­त­जी­व­भे­दा­द­नु­स­न्धा­ना­नु­प­पत्तेः । आग­न्तु­का­ने­क­लि­ङ्ग­सृ­ष्टा­व­स­त्का­र्य­वा­दा­पा­ताच्च । तथापि प्रदी­प­त्व­जा­त्यै­क्येन व्यक्ति­ष्वै­क्या­रो­पा­त्दृ­ष्टा­न्त­दा­र्ष्टा­न्ति­कयोः साम्यं दृष्टव्यम् । तथा च यथा प्रदी­पोऽ­नै­क­व­र्तिषु प्रविशति एवं विद्या­यो­ग­ब­ला­द्वि­द्व­ल्लि­ङ्गस्य व्यापि­त्वा­द­ने­क­दे­हेषु युगपदावेश इति सूत्रार्थः ।

विदु­षोऽ­ने­क­धात्वं श्रुतमन्यथा न घटत इत्याह -
नैतदिति ।

इतश्च सात्म­क­त्व­मि­त्याह -
न च निरात्मकानामिति ।
यदनादि मन एकदेहस्थं तदनुसारीणि देहान्तरस्थानि मनांसि भवन्ति तदवस्थानां तन्नि­य­म्य­त्व­स­म्भ­वा­दिति ।

अत्र योग­शा­स्त्र­स­म्म­ति­माह -
एषैवेति ।
निर्मा­ण­चि­त्ता­न्य­स्मि­ता­मा­त्रा­त्प्र­वृ­त्ति­भेदे प्रयोजकं चित्त­मे­क­म­ने­के­षा­मिति हि भगवत्पतञ्जलिना सूत्रितम् । योगि­नोऽ­भि­मा­न­मा­त्रा­न्नि­र्मा­ण­चि­त्तानि निर्माणदेहेषु भवन्ति, तेषां निया­म­क­म­ना­दि­चि­त्त­मि­त्यर्थः ॥१५॥

उत्त­र­सू­त्र­व्या­व­र्त्य­श­ङ्का­माह -
कथं पुनरिति ।
सलिलवत्सलिलः, स्वच्छ इत्यर्थः ।

न तु तद्द्वि­ती­य­म­स्तीति क्वचि­त्सु­षु­प्ति­म­धि­कृ­त्योक्तं 'तत्केन कम्' इत्यादि क्वचिन्मुक्तिं प्रकृत्योक्तम् । एवं विशे­ष­ज्ञा­ना­भा­व­व­चनं सुषु­प्ति­मु­क्त्य­न्य­त­रा­पेक्षं सगुणोपासकस्य भोगोक्तौ न विरुध्यते भिन्न­वि­ष­य­त्वा­दि­त्याह -
स्वाप्ययेति ।
तत्रैव श्रुतौ तद­धि­का­र­व­शा­त्सु­षु­प्त्या­दि­प्र­क­र­ण­ब­लात्, उक्त­व­च­ना­ना­म­न्य­त­रा­पे­क्ष­त्व­मा­वि­ष्कृतं हि यतस्ततोऽवगम्यत इत्यर्थः । अत्र समु­त्था­ना­दि­वाक्यं मुक्तिविषयं यत्र सुप्त इति सुप्तिविषयमिति विभागः ॥१६॥

जग­द्व्या­पा­र­व­र्जम् । सङ्क­ल्पा­दे­वे­त्या­दि­नो­क्तै­श्व­र्यस्य जग­त्सृ­ष्ट्या­दि­व्य­ति­रि­क्त­वि­ष­य­त्वे­ना­त्रा­प­वा­दा­त्स­ङ्गतिः । उभयथा दर्शनात्संशयः । ईश्वरनानात्वं पूर्वपक्षफलम् , सिद्धान्ते तु विद्या­यो­गि­ना­मी­श्व­र­नि­य­म्य­त्वा­दे­कस्य नित्य­सि­द्ध­स्ये­श्व­र­स्यैव जग­त्क­र्तृ­त्व­सि­द्धि­रिति विवेकः । प्रल­या­त्स­र्ग­स­मये यस्येक्षणपूर्वं कर्तृत्वं श्रुतौ प्रकृतं तस्यैव निय­न्तृ­त्वा­दि­र्ज­ग­द्व्या­पारः । न ह्युपासकानां देहं विनेक्षणं सम्भवति । किञ्चेश्वरस्य नित्य­सि­द्ध­त्वा­च्छ­ब्दै­क­स­म­धि­ग­म्य­त्वाच्च जगत्स्रष्टृत्वं युक्तम् , न तु तत्प्र­सा­द­ल­ब्ध­सि­द्धीनां जीवानामित्याह -
नित्य­श­ब्द­नि­ब­न्ध­न­त्वा­च्चेति ।

किञ्च विदुषां समप्राधान्ये मिथो विरोधः । एकं प्रत्यन्येषां गुणत्वे त्वेक एवेश्वर इत्याह -
समनस्कत्वादिति ॥१७॥

अधिकारे नियो­ज­य­त्या­दि­त्या­दी­नि­त्या­धि­का­रिकः, स चासौ मण्डलस्थश्च तस्य प्राप्य­त्वो­क्ते­रि­त्यर्थः । मनसस्पतिः सूर्य­म­ण्ड­ला­न्तःस्थः परमात्मा 'तत्स­वि­तु­र्व­रेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचो­द­यात्' इति श्रुतेः । तथा च यदि पूर्वं निरङ्कुशं स्वाराज्यमुक्तं स्यात्तर्हि ईश्वरस्याग्रे प्राप्यतां न ब्रूयात् । अतो भोगे स्वाराज्यं न जग­ज्ज­न्मा­दि­ष्विति भावः । वाक्प­ति­त्वा­दि­क­म­पी­श्व­रा­धी­श्व­रा­धी­न­मि­त्याह -
तदनुसारेणेति ।

उक्तन्यायं काम­चा­रा­दि­वा­क्ये­ष्व­ति­दि­शति -
एवमिति ॥१८॥

जगद्व्यापार उपासकप्राप्यः तदु­पा­स्य­नि­ष्ठ­त्वा­त्स­ङ्क­ल्प­सि­द्ध्या­दि­व­दि­त्या­श­ङ्क्यो­पा­स्य­स्थ­नि­र्गु­ण­स्व­रूपे व्यभिचारमाह -
विकारावर्ति चेति ॥१९॥

निर्गुणस्वरूपे प्रमाणमाह -
दर्शयतश्चेति ।
यथा ज्ञाना­भा­वा­न्नि­र्गुणं न प्राप्तं तथा ध्याना­भा­वा­ज्ज­ग­त्स्र­ष्टृ­त्वादि न प्राप्यते । ध्यानाभावश्च विध्यभावादिति भावः ॥२०॥

तमुपासकं ब्रह्मलोकगतमाह हिरण्यगर्भः मया खल्विमा आपो अमृतरूपा मीयन्ते भुज्यन्ते तवाप्यसौ लोकोऽ­मृ­तो­द­क­ल­क्षण इत्यर्थः । श्रुत्यन्तरमाह -
स यथेति ।
भोगसाम्ये स दृष्टान्तो यथेत्यर्थः । तेनो इत्यु­श­ब्दोऽ­प्यर्थः । सलो­क­ता­म­पी­त्य­न्वयः । सायुज्यं समानदेहत्वं क्रमेण मुक्तिर्वा ॥२१॥

शास्त्रसमाप्तिं सूच­य­न्त्सू­त्र­कारं पूजयति -
भगवानिति ।
भगवत्त्वं सर्वज्ञत्वम् । सूत्रद्वारा शिष्याणामाचारे स्थाप­ना­दा­चा­र्य­त्वम् । बादरायणपदेन बद­रि­का­श्र­म­वा­सोक्त्या नित्यसर्वज्ञस्य पर­म­गु­रो­र्ना­रा­य­णस्य प्रसा­द­द्यो­त­ना­त्त­त्प्र­णी­त­शास्त्रे निरवद्यतां द्योतयति ।

सगुणविद्यायाः सातिशयफलत्वेऽपि ततो निर्गु­ण­वि­द्य­या­ना­वृ­त्ति­रि­त्याह -
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।
ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य नावर्तन्ते इति सम्बन्धः ।

लोकं विशिनष्टि -
यस्मिन्निति ।
इतोऽ­स्मा­त्पृ­थि­वी­लो­का­त्तृ­ती­यस्यां दिवि यो ब्रह्म­लो­क­स्त­स्मि­न्नर इति ण्य इति चार्णकतुल्यौ सुधा­हृ­दा­वि­त्यर्थः । ऐरमन्नमयम् , मदीयं मदकरं सरः, सोमसवनः अमृतवर्षी ।

यद्यपि तेषामिह न पुनरावृत्तिरिमं मानवमिति च श्रुति­ष्वि­हे­म­मिति विशे­ष­णा­द­स्मि­न्कल्पे ब्रह्मलोकं गतानां कल्पान्तरे आवृत्तिर्भाति, तथा­पी­श्व­रो­पास्तिं विना पञ्चा­ग्नि­वि­द्या­श्व­मे­ध­दृ­ढ­ब्र­ह्म­च­र्या­दि­सा­ध­नैर्ये गतास्तेषां तत्त्व­ज्ञा­न­नि­य­मा­भा­वा­दा­वृत्तिः स्यात्, ये तु दह­रा­दी­श्व­रो­पास्त्या गतास्तेषां सगु­ण­वि­द्या­फ­ल­क्ष­येऽपि निर­व­ग्र­हे­श्व­रा­नु­ग्र­ह­ल­ब्धा­त्म­ज्ञा­ना­न्मु­क्ति­रिति नियम इत्यभिप्रेत्याह -
अन्तवत्त्वेऽपि त्विति ।

नन्वत्र सूत्रकृता सगु­ण­वि­दा­मे­वा­ना­वृ­त्ति­क्रम उक्तो न निर्गुणविदां तत्र को हेतु­रि­त्या­शङ्क्य तेषा­मा­वृ­त्ति­श­ङ्का­भा­वा­दि­त्याह -
सम्यगिति ।

तदाश्रयणेनेति ।
सगु­ण­वि­दा­मा­वृ­त्ति­प्राप्तौ सम्य­ग्द­र्श­ना­श्र­य­णे­नै­वा­ना­वृत्तिः साधिता, अतः स्वत एव सम्य­ग्द­र्शि­ना­मा­वृ­त्ति­शङ्का नेति किमु वाच्यमित्यर्थः ।

यत्रा­ध्या­य­स­मा­प्ति­स्तत्र पद­मा­त्र­स्या­भ्यासो दर्शितः, इह सूत्र­स्यै­वा­भ्या­सा­च्छा­स्त्र­स­मा­प्ति­र्द्ये­त्यत इत्याह -
अनावृत्तिः शब्दादिति ।
एवं समन्वयोक्त्या ब्रह्मा­त्मै­क्यस्य वेदा­न्त­प्र­मा­ण­क­त्व­म­व­धा­र­यितुं वाक्यार्थज्ञाने स्मृति­त­र्का­दि­स­र्व­प्र­का­र­वि­रोधः परिहृतः, साधनसम्पत्तिश्च दर्शिता, तस्मा­द्वि­वे­का­दि­सा­ध­न­स­म्प­न्नस्य श्रव­णा­द्या­वृ­त्ति­नि­र­स्त­स­म­स्त­प्र­ति­ब­न्ध­स्या­ख­ण्डा­त्म­स­म्बो­धा­त्स­मू­ल­ब­न्ध­ध्वंसे सत्या­वि­र्भू­त­नि­ष्क­ल­ङ्का­न­न्त­स्व­प्र­का­श­चि­दा­न­न्दा­त्म­ना­व­स्था­न­मिति सिद्धम् ॥२२॥
नाना­वि­ध­ग्र­न्थ­जातं वीक्ष्य सम्यग्यथामति ।
शारीकस्य भाष्यस्य कृता व्याख्या सतां मुदे ॥१॥
अन्तर्यामी जगत्साक्षी सर्वकर्ता रघूद्वहः ।
अतोऽत्र दोषोऽशङ्क्यः स्यादेष ह्येवेति शासनात् ॥२॥
वक्ष­स्य­क्ष्णोश्च पार्श्वे करतलयुगले कौस्तुभाभां दयां च सीतां कोद­ण्ड­दी­क्षा­म­भ­य­व­र­युतां वीक्ष्य रामाङ्गसङ्गः ।
स्वस्याः क्व स्यादितीयं हृदि कृतमनना भाष्य­र­त्न­प्र­भाख्या, स्वात्मा­न­न्दै­क­लुब्धा रघु­व­र­च­र­णा­म्भो­ज­युग्मं प्रपन्ना ॥३॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­द्गो­पा­ल­स­र­स्व­ती­पू­ज्य­पा­द­शि­ष्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥
॥ इति चतु­र्थ­स्या­ध्या­यस्य ब्रह्म­प्रा­प्ति­ब्र­ह्म­लो­क­स्थि­ति­नि­रू­प­णा­ख्य­श्च­तुर्थः पादः ॥
॥ इति श्रीम­द्ब्र­ह्म­सू­त्र­शा­ङ्क­र­भाष्ये फला­ख्य­श्च­तु­र्थोऽ­ध्यायः ॥
॥ ओं तत्सत् ॥