अद्वैतशारदा

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः

० विभागः

आरम्भन्ते कार्यगुणान्ये कारणगुणा हि ते ।
एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥ ३३७ ॥

एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि ।
स्थूलान्यपि च भूतानि चान्यो­न्यां­श­वि­मे­ल­नात् ॥ ३३८ ॥

अप­ञ्ची­कृ­त­भू­तेभ्यो जातं सप्तदशाङ्गकम् ।
संसारकारणं लिङ्गमात्मनो भोगसाधनम् ॥ ३३९ ॥

श्रोत्रा­दि­प­ञ्चकं चैव वागादीनां च पञ्चकम् ।
प्राणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥ ३४० ॥

श्रोत्र­त्व­क्च­क्षु­र्जि­ह्वा­घ्रा­णानि पञ्च जातानि ।
आकाशादीनां सत्त्वांशेभ्यो धीन्द्रि­या­ण्य­नु­क्र­मतः ॥ ३४१ ॥

आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् ।
मिलि­त्वै­वा­न्तः­क­र­ण­म­भ­व­त्स­र्व­का­र­णम् ॥ ३४२ ॥

प्रका­श­क­त्वा­दे­तेषां सात्त्वि­कां­श­त्व­मि­ष्यते ।
प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ ३४३ ॥

तदन्तःकरणं वृत्तिभेदेन स्याच्च­तु­र्वि­धम् ।
मनो बुद्धि­र­ह­ङ्का­र­श्चित्तं चेति तदुच्यते ॥ ३४४ ॥

सङ्कल्पान्मन इत्या­हु­र्बु­द्धि­र­र्थस्य निश्चयात् ।
अभि­मा­ना­द­ह­ङ्का­र­श्चि­त्त­म­र्थस्य चिन्तनात् ॥ ३४५ ॥

मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् ।
अन्तर्भावोऽत्र बोद्धव्यो लिङ्ग­ल­क्ष­ण­सि­द्धये ॥ ३४६ ॥

चिन्तनं च मनोधर्मः सङ्कल्पादिर्यथा तथा ।
अन्तर्भावो मनस्येव सम्यक्चित्तस्य सिध्यति ॥ ३४७ ॥

देहादावहमित्येव भावो दृढतरो धियः ।
दृश्य­तेऽ­ह­ङ्कृ­ते­स्त­स्मा­द­न्त­र्भा­वोऽत्र युज्यते ॥ ३४८ ॥

तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् ।
सिध्यत्यात्मन उभ­या­द्वि­द्या­त्सं­सा­र­का­रणं मोहात् ॥ ३४९ ॥

विज्ञानमयकोशः स्यात् बुद्धि­र्ज्ञा­ने­न्द्रियैः सह ।
विज्ञा­न­प्र­चु­र­त्वे­ना­प्या­च्छा­द­क­त­या­त्मनः ॥ ३५० ॥

विज्ञा­न­म­य­को­शोऽ­य­मिति विद्व­द्भि­रु­च्यते ।
अयं महा­न­ह­ङ्का­र­वृ­त्ति­मा­न्क­र्तृ­ल­क्षणः ॥ ३५१ ॥

अहं ममेत्येव सदाभिमानं
देहेन्द्रियादौ कुरुते गृहादौ ।
जीवाभिमानः पुरुषोऽयमेव
कर्ता च भोक्ता च सुखी च दुःखी ॥ ३५२ ॥

स्ववासनाप्रेरित एव नित्यं
करोति कर्मोभयलक्षणं च ।
भुङ्क्ते तदुत्पन्नफलं विशिष्टं
सुखं च दुःखं च परत्र चात्र ॥ ३५३ ॥

नाना­यो­नि­स­ह­स्रेषु जायमानो मुहुर्मुहुः ।
म्रियमाणो भ्रमत्येष जीवः संसारमण्डले ॥ ३५४ ॥

मनो मनोमयः कोशो भवे­ज्ज्ञा­ने­न्द्रियैः सह ।
प्राचुर्यं मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ ३५५ ॥

चिन्ता­वि­षा­द­ह­र्षाद्याः कामाद्या अस्य वृत्तयः ।
मनुते मनसैवैष फलं कामयते बहिः ।
यतते कुरुते भुङ्क्ते तन्मनः सर्वकारणम् ॥ ३५६ ॥

मनो ह्यमुष्य प्रवणस्य हेतु -
रन्त­र्ब­हि­श्चा­र्थ­म­नेन वेत्ति ।
शृणोति जिघ्रत्यमुनैव चेक्षते
वक्ति स्पृशत्यत्ति करोति सर्वम् ॥ ३५७ ॥

बन्धश्च मोक्षो मनसैव पुंसा -
मर्थोऽ­प्य­न­र्थोऽ­प्य­मु­नैव सिध्यति ।
शुद्धेन मोक्षो मलिनेन बन्धो
विवे­क­तोऽ­र्थोऽ­प्य­वि­वे­क­तोऽन्यः ॥ ३५८ ॥

रजस्तमोभ्यां मलिनं त्वशुद्ध -
मज्ञानजं सत्त्वगुणेन रिक्तम् ।
मन­स्त­मो­दो­ष­स­म­न्वि­तत्वा -
ज्जड­त्व­मो­हा­ल­स­ता­प्र­मादैः ।
तिरस्कृतं सन्न तु वेत्ति वास्तवं
पदार्थतत्त्वं ह्युपलभ्यमानम् ॥ ३५९ ॥

रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः
प्रतीपैः कामा­द्यै­र­नि­श­म­भि­भूतं व्यथयति ।
कथ­ञ्चि­त्सू­क्ष्मा­र्था­व­ग­ति­म­दपि भ्राम्यति भृशं
मनो दीपो यद्व­त्प्र­ब­ल­म­रुता ध्वस्तमहिमा ॥ ३६० ॥

ततो मुमु­क्षु­र्भ­व­ब­न्ध­मुक्त्यै
रजस्तमोभ्यां च तदीयकार्यैः ।
वियोज्य चित्तं परिशुद्धसत्त्वं
प्रियं प्रयत्नेन सदैव कुर्यात् ॥ ३६१ ॥

गर्भा­वा­स­ज­नि­प्र­णा­श­न­ज­रा­व्या­ध्या­दिषु प्राणिनां
यद्दुःखं परिदृश्यते च नरके तच्चिन्तयित्वा मुहुः ।
दोषानेव विलोक्य सर्व­वि­ष­ये­ष्वाशां विमुच्याभित -
श्चित्त­ग्र­न्थि­वि­मो­च­नाय सुमतिः सत्त्वं समालम्बनात् ॥ ३६२ ॥

यमेषु निरतो यस्तु नियमेषु च यत्नतः ।
विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ ३६३ ॥

आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् ।
मोक्षै­क­का­ङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥ ३६४ ॥

पर­द्र­व्य­प­र­द्रो­ह­प­र­नि­न्दा­प­र­स्त्रियः ।
नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५ ॥

आत्म­व­त्स­र्व­भू­तेषु यः समत्वेन पश्यति ।
सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६ ॥

अत्यन्तं श्रद्धया भक्त्या गुरु­मी­श्व­र­मा­त्मनि ।
यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥ ३६७ ॥

शिष्टा­न्न­मी­शा­र्च­न­मा­र्य­सेवां
तीर्थाटनं स्वाश्र­म­ध­र्म­नि­ष्ठाम् ।
यमानुषक्तिं नियमानुवृत्तिं
चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ ३६८ ॥

कट्वा­म्ल­ल­व­णा­त्यु­ष्ण­ती­क्ष्ण­रू­क्ष­वि­धा­यि­नाम् ।
पूति­प­र्यु­षि­ता­दीनां त्यागः सत्त्वाय कल्पते ॥ ३६९ ॥

श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः ।
अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ ३७० ॥

यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् ।
तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ ३७१ ॥

हितपरिमितभोजी नित्य­मे­का­न्त­सेवी
सकृ­दु­चि­त­हि­तोक्तिः स्वल्प­नि­द्रा­वि­हारः ।
अनुनियमनशीलो यो भजत्युक्तकाले
स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ ३७२ ॥

चित्तप्रसादेन विनावगन्तुं
बन्धं न शक्नोति परात्मतत्त्वम् ।
तत्त्वावगत्या तु विना विमुक्ति -
र्न सिध्यति ब्रह्म­स­ह­स्र­को­टिषु ॥ ३७३ ॥

मनोऽप्रसादः पुरुषस्य बन्धो
मनःप्रसादो भवबन्धमुक्तिः ।
मनः­प्र­सा­दा­धि­ग­माय तस्मा -
न्मनोनिरासं विदधीत विद्वान् ॥ ३७४ ॥

पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् ।
वाक्पा­णि­पा­द­पा­यू­प­स्थानि कर्मे­न्द्रि­या­ण्यनु ॥ ३७५ ॥

समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः ।
प्राणादयः समुत्पन्नाः पञ्चा­प्या­न्त­र­वा­यवः ॥ ३७६ ॥

प्राणः प्राग्गमनेन स्याद­पा­नोऽ­वा­ग्ग­म­नेन च ।
व्यानस्तु विष्व­ग्ग­म­ना­दु­त्क्रा­न्त्यो­दान इष्यते ॥ ३७७ ॥

अशि­ता­न्न­र­सा­दीनां समीकरणधर्मतः ।
समान इत्यभिप्रेतो वायुर्यस्तेषु पञ्चमः ॥ ३७८ ॥

क्रियैव दिश्यते प्रायः प्राण­क­र्मे­न्द्रि­ये­ष्व­लम् ।
ततस्तेषां रजोंऽशेभ्यो जनिरङ्गीकृता बुधैः ॥ ३७९ ॥

राजसीं तु क्रियाशक्तिं तमःशक्तिं जडात्मिकाम् ।
प्रकाशरूपिणीं सत्त्वशक्तिं प्राहुर्महर्षयः ॥ ३८० ॥

एते प्राणादयः पञ्च पञ्च­क­र्मे­न्द्रियैः सह ।
भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ ३८१ ॥

यद्य­न्नि­ष्पा­द्यते कर्म पुण्यं वा पापमेव वा ।
वागादिभिश्च वपुषा तत्प्रा­ण­म­य­क­र्तृ­कम् ॥ ३८२ ॥

वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते ।
तस्मि­न्वि­नि­श्चले सोऽपि निश्चलः स्याद्यथा तथा ॥ ३८३ ॥

प्राण­क­र्मे­न्द्रि­यै­र्देहः प्रेर्यमाणः प्रवर्तते ।
नानाक्रियासु सर्वत्र विहि­ता­वि­हि­ता­दिषु ॥ ३८४ ॥

कोशत्रयं मिलित्वैतद्वपुः स्यात्सू­क्ष्म­मा­त्मनः ।
अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥ ३८५ ॥

लिङ्ग­मि­त्यु­च्यते स्थूलापेक्षया सूक्ष्ममिष्यते ।
सर्वं लिङ्ग­व­पु­र्जा­त­मे­क­धी­वि­ष­य­त्वतः ॥ ३८६ ॥

समष्टिः स्यात्तरुगणः सामान्येन वनं यथा ।
एत­त्स­म­ष्ट्यु­प­हितं चैतन्यं सफलं जगुः ॥ ३८७ ॥

हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिताः ।
हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ ३८८ ॥

हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः ।
सम­स्त­लि­ङ्ग­दे­हेषु सूत्र­व­न्म­णि­प­ङ्क्तिषु ।
व्याप्य स्थित­त्वा­त्सू­त्रात्मा प्राणनात्प्राण उच्यते ॥ ३८९ ॥

नैकधीविषयत्वेन लिङ्गं व्यष्टिर्भवत्यथ ।
यदे­त­द्व्य­ष्ट्यु­प­हितं चिदा­भा­स­स­म­न्वि­तम् ॥ ३९० ॥

चैतन्यं तैजस इति निगदन्ति मनीषिणः ।
तेजो­म­या­न्तः­क­र­णो­पा­धि­त्वे­नैष तैजसः ॥ ३९१ ॥

स्थूला­त्सू­क्ष्म­तया व्यष्टिरस्य सूक्ष्म­व­पु­र्म­तम् ।
अस्य जाग­र­सं­स्का­र­म­य­त्वा­द्व­पु­रु­च्यते ॥ ३९२ ॥

स्वप्ने जाग­र­का­ली­न­वा­स­ना­प­रि­क­ल्पि­तान् ।
तैजसो विषयान्भुङ्क्ते सूक्ष्मा­र्था­न्सू­क्ष्म­वृ­त्तिभिः ॥ ३९३ ॥

समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् ।
अभेद एव ज्ञातव्यो जात्येकत्वे कुतो भिदा ॥ ३९४ ॥

द्वयो­रु­पा­ध्यो­रे­कत्वे तयो­र­प्य­भि­मा­निनोः ।
सूत्रा­त्म­न­स्तै­ज­स­स्या­प्य­भेदः पूर्ववन्मतः ॥ ३९५ ॥

एवं सूक्ष्म­प्र­प­ञ्चस्य प्रकारः शास्त्रसम्मतः ।
अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु ॥ ३९६ ॥

तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् ।
पञ्चीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥ ३९७ ॥

खादीनां भूतमेकैकं सममेव द्विधा द्विधा ।
विभज्य भागं तत्राद्यं त्यक्त्वा भागं द्वितीयकम् ॥ ३९८ ॥

चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् ।
चतुर्णां प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ३९९ ॥

ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते ।
स्वस्वा­र्ध­भा­गे­ना­न्येभ्यः प्राप्तं भागचतुष्टयम् ॥ ४०० ॥

संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् ।
अमुष्य पञ्ची­क­र­ण­स्या­प्रा­माण्यं न शङ्क्यताम् ॥ ४०१ ॥

उपलक्षणमस्यापि तत्त्रि­वृ­त्क­र­ण­श्रुतिः ।
पञ्चानामपि भूतानां श्रूयतेऽन्यत्र सम्भवः ॥ ४०२ ॥

ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः ।
प्रत्य­क्षा­दि­वि­रोधः स्यादन्यथा क्रियते यदि ॥ ४०३ ॥

आका­श­वा­य्वो­र्ध­र्मस्तु वह्न्या­दा­वु­प­ल­भ्यते ।
यथा तथा­का­श­वा­य्वो­र्ना­ग्न्या­दे­र्धर्म ईक्ष्यते ॥ ४०४ ॥

अतोऽ­प्रा­मा­णि­क­मिति न किञ्चिदपि चिन्त्यताम् ।
खांशव्याप्तिश्च खव्या­प्ति­र्वि­द्यते पावकादिषु ॥ ४०५ ॥

तेनोपलभ्यते शब्दः कारणस्यातिरेकतः ।
तथा नभस्वतो धर्मोऽ­प्य­ग्न्या­दा­वु­प­ल­भ्यते ॥ ४०६ ॥

न तथा विद्यते व्याप्ति­र्व­ह्न्यादेः खनभस्वतोः ।
सूक्ष्म­त्वा­दं­श­क­व्या­प्ते­स्त­द्धर्मो नोपलभ्यते ॥ ४०७ ॥

कारणस्यानुरूपेण कार्यं सर्वत्र दृश्यते ।
तस्मा­त्प्रा­मा­ण्य­मे­ष्टव्यं बुधैः पञ्चीकृतेरपि ॥ ४०८ ॥

अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय ।
शब्दैकगुणमाकाशं शब्द­स्प­र्श­गु­णोऽ­निलः ॥ ४०९ ॥

तेजः शब्द­स्प­र्श­रू­पै­र्गु­ण­व­त्का­रणं क्रमात् ।
आपश्चतुर्गुणः शब्द­स्प­र्श­रू­प­रसैः क्रमात् ॥ ४१० ॥

एतै­श्च­तु­र्भि­र्ग­न्धेन सह पञ्चगुणा मही ।
आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ ४११ ॥

त्वङ्मा­रु­तां­श­क­तया स्पर्शं गृह्णाति तद्गुणम् ।
तेजोंशकतया चक्षू रूपं गृह्णाति तद्गुणम् ॥ ४१२ ॥

अबंशकतया जिह्वा रसं गृह्णाति तद्गुणम् ।
भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ ४१३ ॥

करोति खांशकतया वाक्श­ब्दो­च्चा­र­ण­क्रि­याम् ।
वाय्वंशकतया पादौ गमनादिक्रियापरौ ॥ ४१४ ॥

तेजोंशकतया पाणी वह्न्या­द्य­र्च­न­त­त्परौ ।
जलांशकतयोपस्थो रेतो­मू­त्र­वि­स­र्ग­कृत् ॥ ४१५ ॥

भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् ।
श्रोत्रस्य दैवतं दिक्स्यात्त्वचो वायुर्दृशो रविः ॥ ४१६ ॥

जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ ।
वाचोऽ­ग्नि­र्ह­स्त­यो­रिन्द्रः पादयोस्तु त्रिविक्रमः ॥ ४१७ ॥

पायो­र्मृ­त्यु­रु­प­स्थस्य त्वधिदैवं प्रजापतिः ।
मनसो दैवतं चन्द्रो बुद्धेर्दैवं बृहस्पतिः ॥ ४१८ ॥

रुद्र­स्त्व­ह­ङ्कृ­ते­र्दैवं क्षेत्र­ज्ञ­श्चि­त्त­दै­व­तम् ।
दिगाद्या देवताः सर्वाः खादि­स­त्त्वां­श­स­म्भवाः ॥ ४१९ ॥

संमिता इन्द्रि­य­स्था­ने­ष्वि­न्द्रि­याणां समन्ततः ।
निगृ­ह्ण­न्त्य­नु­गृ­ह्णन्ति प्राणि­क­र्मा­नु­रू­पतः ॥ ४२० ॥

शरीरकरणग्रामा प्राणा­ह­म­धि­दे­वताः ।
पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ ॥

कर्मानुरूपेण गुणोदयो भवे -
द्गुणानुरूपेण मनःप्रवृत्तिः ।
मनो­नु­वृ­त्तै­रु­भ­या­त्म­के­न्द्रियै -
र्निवर्त्यते पुण्यमपुण्यमत्र ॥ ४२२ ॥

करोति विज्ञा­न­म­योऽ­भि­मानं
कर्ताहमेवेति तदात्मना स्थितः ।
आत्मा तु साक्षी न करोति किञ्चि -
न्न कारयत्येव तटस्थवत्सदा ॥ ४२३ ॥

द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहङ्कारः ।
स्वय­मे­त­द्वि­कृ­तीनां साक्षी निर्लेप एवात्मा ॥ ४२४ ॥

आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता ।
रवि­व­त्प्रा­णि­भि­र्लोके क्रियमाणेषु कर्मसु ॥ ४२५ ॥

न ह्यर्कः कुरुते कर्म न कारयति जन्तवः ।
स्वस्व­भा­वा­नु­रो­धेन वर्तन्ते स्वस्वकर्मसु ॥ ४२६ ॥

तथैव प्रत्यगात्मापि रवि­व­न्नि­ष्क्रि­या­त्मना ।
उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ ४२७ ॥

अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः ।
स्वात्म­न्या­रो­प­य­न्त्ये­त­त्क­र्तृ­त्वा­द्य­न्य­गो­च­रम् ॥ ४२८ ॥

आत्म­स्व­रू­प­म­वि­चार्य विमूढबुद्धि -
रारो­प­य­त्य­खि­ल­मे­त­द­ना­त्म­का­र्यम् ।
स्वात्म­न्य­स­ङ्ग­चि­ति­नि­ष्क्रिय एव चन्द्रे
दूर­स्थ­मे­घ­कृ­त­धा­व­न­व­द्भ्र­मेण ॥ ४२९ ॥

आत्मा­ना­त्म­वि­वेकं स्फुटतरमग्रे निवेदयिष्यामः ।
इममाकर्णय विद्वन् जग­दु­त्प­त्ति­प्र­का­र­मा­वृत्त्या ॥ ४३० ॥

पञ्चीकृतेभ्यः खादिभ्यो भूते­भ्य­स्त्वी­क्ष­ये­शितुः ।
समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥ ४३१ ॥

व्रीह्या­द्यो­ष­धयः सर्वा वायु­ते­जो­म्बु­भू­मयः ।
सर्वे­षा­म­प्य­भू­दन्नं चतु­र्वि­ध­श­री­रि­णाम् ॥ ४३२ ॥

केचि­न्मा­रु­त­भो­जनाः खलु परे चन्द्रा­र्क­ते­जो­शनाः
केचि­त्तो­य­क­णा­शि­नोऽ­प­रि­मिताः केचित्तु मृद्भक्षकाः ।
केचि­त्प­र्ण­शि­ला­तृ­णा­द­न­पराः केचित्तु मांसाशिनः
केचि­द्व्री­हि­य­वा­न्न­भो­ज­न­परा जीवन्त्यमी जन्तवः ॥ ४३३ ॥

जरा­यु­जा­ण्ड­ज­स्वे­द­जो­द्भि­ज्जा­द्या­श्च­तु­र्विधाः ।
स्वस्व­क­र्मा­नु­रू­पेण जातास्तिष्ठन्ति जन्तवः ॥ ४३४ ॥

यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः ।
अण्डजास्ते स्युरण्डेभ्यो जाता ये विहगादयः ॥ ४३५ ॥

स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च ।
भूमिमुद्भिद्य ये जाता उद्भिज्जास्ते द्रुमादयः ॥ ४३६ ॥

इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् ।
सामान्येन समष्टिः स्यादे­क­धी­वि­ष­य­त्वतः ॥ ४३७ ॥

एत­त्स­म­ष्ट्य­व­च्छिन्नं चैतन्यं फलसंयुतम् ।
प्राहु­र्वै­श्वा­नर इति विराडिति च वैदिकाः ॥ ४३८ ॥

वैश्वानरो विश्व­न­रे­ष्वा­त्म­त्वे­ना­भि­मा­नतः ।
विराट् स्याद्वि­वि­ध­त्वेन स्वयमेव विराजनात् ॥ ४३९ ॥

चतुर्विधं भूतजातं तत्त­ज्जा­ति­वि­शे­षतः ।
नैकधीविषयत्वेन पूर्व­व­द्व्य­ष्टि­रि­ष्यते ॥ ४४० ॥

साभासं व्यष्ट्युपहितं तत्ता­दा­त्म्य­मु­पा­ग­तम् ।
चैतन्यं विश्व इत्या­हु­र्वे­दा­न्त­न­य­को­विदाः ॥ ४४१ ॥

विश्वोऽ­स्मि­न्स्थू­ल­दे­हेऽत्र स्वाभिमानेन तिष्ठति ।
यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥ ४४२ ॥

व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः ।
उच्य­तेऽ­न्न­वि­का­रि­त्वा­त्को­शोऽ­न्न­मय इत्ययम् ॥ ४४३ ॥

देहोऽयं पितृ­भु­क्ता­न्न­वि­का­रा­च्छु­क्ल­शो­णि­तात् ।
जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ॥ ४४४ ॥

तस्मा­द­न्न­वि­का­रि­त्वे­ना­य­म­न्न­मयो मतः ।
आच्छा­द­क­त्वा­दे­त­स्या­प्यसेः कोशवदात्मनः ॥ ४४५ ॥

आत्मनः स्थूलभोगाना -
मेतदायतनं विदुः ।
शब्दा­दि­वि­ष­या­न्भुङ्क्ते
स्थूला­न्स्थू­ला­त्मनि स्थितः ॥ ४४६ ॥

बहिरात्मा ततः स्थूल­भो­गा­य­त­न­मु­च्यते ।
इन्द्रि­यै­रु­प­नी­तानां शब्दादीनामयं स्वयम् ।
देहे­न्द्रि­य­म­नो­युक्तो भोक्ते­त्या­हु­र्म­नी­षिणः ॥ ४४७ ॥

एकादशद्वारवतीह देहे
सौधे महाराज इवाक्षवर्गैः ।
संसेव्यमानो विषयोपभोगा -
नुपाधिसंस्थो बुभुजेऽयमात्मा ॥ ४४८ ॥

ज्ञाने­न्द्रि­याणि निजदैवतचोदितानि
कर्मे­न्द्रि­या­ण्यपि तथा मनआदिकानि ।
स्वस्व­प्र­यो­ज­न­विधौ नियतानि सन्ति
यत्नेन किङ्करजना इव तं भजन्ते ॥ ४४९ ॥

यत्रोपभुङ्क्ते विष­या­न्स्थू­ला­नेष महामतिः ।
अहं ममेति सैषास्यावस्था जाग्रदितीर्यते ॥ ४५० ॥

एत­त्स­म­ष्टि­व्य­ष्ट्यो­श्चो­भ­यो­र­प्य­भि­मा­निनोः ।
तद्वि­श्व­वै­श्वा­न­र­यो­र­भेदः पूर्ववन्मतः ॥ ४५१ ॥

स्थूल­सू­क्ष्म­का­र­णाख्याः प्रपञ्चा ये निरूपिताः ।
ते सर्वेऽपि मिलित्वैकः प्रपञ्चोऽपि महान्भवेत् ॥ ४५२ ॥

महा­प्र­प­ञ्चा­व­च्छिन्नं विश्व­प्रा­ज्ञा­दि­ल­क्ष­णम् ।
विरा­डा­दी­श­प­र्यन्तं चैतन्यं चैकमेव तत् ॥ ४५३ ॥

यद­ना­द्य­न्त­म­व्यक्तं चैतन्यमजमक्षरम् ।
महाप्रपञ्चेन सहाविविक्तं सदयोऽग्निवत् ॥ ४५४ ॥

तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः ।
वाच्यार्थ इति निर्णीतं विविक्तं लक्ष्य इत्यपि ॥ ४५५ ॥

स्थूला­द्य­ज्ञा­न­प­र्यन्तं कार्य­का­र­ण­ल­क्ष­णम् ।
दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥ ४५६ ॥

अन्तः­क­र­ण­त­द्वृ­त्ति­द्रष्टृ नित्यमविक्रियम् ।
चैतन्यं यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥ ४५७ ॥

एष प्रत्य­क्स्व­प्र­काशो निरंशो -
ऽसङ्गः शुद्धः सर्वदैकस्वभावः ।
नित्या­ख­ण्डा­न­न्द­रूपो निरीहः
साक्षी चेता केवलो निर्गुणश्च ॥ ४५८ ॥

नैव प्रत्यग्जायते वर्धते नो
किञ्चि­न्ना­प­क्षी­यते नैव नाशम् ।
आत्मा नित्यः शाश्वतोऽयं पुराणो
नासौ हन्यो हन्यमाने शरीरे ॥ ४५९ ॥

जन्मा­स्ति­त्व­वि­वृ­द्धयः परि­ण­ति­श्चा­प­क्ष­ति­र्ना­शनं
दृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः ।
स्थूलत्वादि च नीलताद्यपि मिति­र्व­र्णा­श्र­मा­दि­प्रथा
दृश्यन्ते वपुषो न चात्मन इमे तद्वि­क्रि­या­सा­क्षिणः ॥ ४६० ॥

अस्मि­न्ना­त्म­न्य­ना­त्म­त्व­म­ना­त्म­न्या­त्मतां पुनः ।
विपरीततयाध्यस्य संसरन्ति विमोहतः ॥ ४६१ ॥

भ्रान्त्या मनुष्योऽहमहं द्विजोऽहं
तज्ज्ञोऽ­ह­म­ज्ञोऽ­ह­म­तीव पापी ।
भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी -
त्येवं विमुह्यात्मनि कल्पयन्ति ॥ ४६२ ॥

अनात्मनो जन्म­ज­रा­मृ­ति­क्षुधा -
तृष्णा­सु­ख­क्ले­श­भ­या­दि­ध­र्मान् ।
विपर्ययेण ह्यतथाविधेऽस्मि -
न्नारो­प­य­न्त्या­त्मनि बुद्धिदोषात् ॥ ४६३ ॥

भ्रान्त्या यत्र यद­ध्या­स­स्त­त्कृ­तेन गुणेन वा ।
दोषे­णा­प्य­णु­मा­त्रेण स न सम्बध्यते क्वचित् ॥ ४६४ ॥

किं मरु­न्मृ­ग­तृ­ष्णा­म्बु­पू­रे­णा­र्द्र­त्व­मृ­च्छति ।
दृष्टि­सं­स्थि­त­पी­तेन शङ्खः पीतायते किमु ॥ ४६५ ॥

बाल­क­ल्पि­त­नै­ल्येन व्योम किं मलिनायते । शिष्यः - प्रत्य­गा­त्म­न्य­वि­ष­येऽ­ना­त्मा­ध्यासः कथं प्रभो ॥ ४६६ ॥

पुरो दृष्टे हि विष­येऽ­ध्य­स्यन्ति विषयान्तरम् ।
तद्दृष्टं शुक्तिरज्ज्वादौ सादृ­श्या­द्य­नु­ब­न्धतः ॥ ४६७ ॥

परत्र पूर्व­दृ­ष्ट­स्या­व­भासः स्मृतिलक्षणः ।
अध्यासः स कथं स्वामिन् भवे­दा­त्म­न्य­गो­चरे ॥ ५६८ ॥

नानुभूतः कदा­प्या­त्मा­न­नु­भू­तस्य वस्तुनः ।
सादृश्यं सिध्यति कथमनात्मनि विलक्षणे ॥ ४६९ ॥

अना­त्म­न्या­त्म­ता­ध्यासः कथमेष समागतः ।
निवृत्तिः कथमेतस्य केनोपायेन सिध्यति ॥ ४७० ॥

उपाधियोग उभयोः सम एवेशजीवयोः ।
जीवस्यैव कथं बन्धो नेश्वरस्यास्ति तत्कथम् ॥ ४७१ ॥

एतत्सर्वं दयादृष्ट्या करा­म­ल­क­व­त्स्फु­टम् ।
प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥ ४७२ ॥

श्रीगुरुः -

न सावयव एकस्य नात्मा विषय इष्यते ।
अस्या­स्म­त्प्र­त्य­या­र्थ­त्वा­द­प­रो­क्षाच्च सर्वशः ॥ ४७३ ॥

प्रसि­द्धि­रा­त्म­नोऽ­स्त्येव न कस्यापि च दृश्यते ।
प्रत्ययो नाहमस्मीति न ह्यस्ति प्रत्यगात्मनि ॥ ४७४ ॥

न कस्यापि स्वसद्भावे प्रमा­ण­म­भि­का­ङ्क्ष्यते ।
प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥ ४७५ ॥

माया­का­र्यै­स्ति­रो­भूतो नैष आत्मानुभूयते ।
मेघबृन्दैर्यथा भानु­स्त­था­य­म­ह­मा­दिभिः ॥ ४७६ ॥

पुरस्थ एव विषये वस्तु­न्य­ध्य­स्य­ता­मिति ।
नियमो न कृतः सद्भि­र्भ्रा­न्ति­रे­वात्र कारणम् ॥ ४७७ ॥

दृगाद्यविषये व्योम्नि नीलतादि यथाबुधाः ।
अध्यस्यन्ति तथै­वा­स्मि­न्ना­त्म­न्यपि मतिभ्रमात् ॥ ४७८ ॥

अना­त्म­न्या­त्म­ता­ध्यासे न सादृश्यमपेक्षते ।
पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥ ४७९ ॥

निरु­पा­धि­भ्र­मे­ष्व­स्मि­न्नै­वा­पेक्षा प्रदृश्यते ।
सोपाधिष्वेव तद्दृष्टं रज्जु­स­र्प­भ्र­मा­दिषु ॥ ४८० ॥

तथापि किञ्चि­द्व­क्ष्यामि सादृश्यं शृणु तत्परः ।
अत्यन्तनिर्मलः सूक्ष्म आत्मा­य­म­ति­भा­स्वरः ॥ ४८१ ॥

बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वरामला ।
सांनि­ध्या­दा­त्म­व­द्भाति सूर्यवत्स्फटिको यथा ॥ ४८२ ॥

आत्माभासा ततो बुद्धि­र्बु­द्ध्या­भासं ततो मनः ।
अक्षाणि मन­आ­भा­सा­न्य­क्षा­भा­स­मिदं वपुः ।
अत एवा­त्म­ता­बु­द्धि­र्दे­हा­क्षा­दा­व­ना­त्मनि ॥ ४८३ ॥

मूढानां प्रतिबिम्बादौ बालानामिव दृश्यते ।
सादृश्यं विद्यते बुद्धा­वा­त्म­नोऽ­ध्या­स­का­र­णम् ॥ ४८४ ॥

अना­त्म­न्य­ह­मि­त्येव योऽयमध्यास ईरितः ।
स्यादु­त्त­रो­त्त­रा­ध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥

सुप्ति­मू­र्छो­त्थि­ते­ष्वेव दृष्टः संसारलक्षणः ।
अना­दि­रे­षा­वि­द्यातः संस्कारोऽपि च तादृशः ॥ ४८६ ॥

अध्या­स­बा­धा­ग­म­नस्य कारणं
शृणु प्रवक्ष्यामि समाहितात्मा ।
यस्मादिदं प्राप्त­म­न­र्थ­जातं
जन्मा­प्य­य­व्या­धि­ज­रा­दि­दुः­खम् ॥ ४८७ ॥

आत्मो­पा­धे­र­वि­द्याया अस्ति शक्तिद्वयं महत् ।
विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥ ४८८ ॥

आवृतिस्तमसः शक्ति­स्त­द्ध्या­व­र­ण­का­र­णम् ।
मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ ४८९ ॥

विवे­क­वा­न­प्य­ति­यौ­क्ति­कोऽपि
श्रुता­त्म­त­त्त्वोऽपि च पण्डितोऽपि ।
शक्त्या यया संवृतबोधदृष्टि -
रात्मा­न­मा­त्म­स्थ­मिमं न वेद ॥ ४९० ॥

विक्षेपनाम्नी रजसस्तु शक्तिः
प्रवृत्तिहेतुः पुरुषस्य नित्यम् ।
स्थूला­दि­लि­ङ्गा­न्त­म­शे­ष­मेत -
द्यया सदात्मन्यसदेव सूयते ॥ ४९१ ॥

निद्रा यथा पुरुषमप्रमत्तं
समावृणोतीयमपि प्रतीचम् ।
तथा­वृ­णो­त्या­वृ­ति­श­क्ति­रन्त -
र्विक्षेपशक्तिं परिजृम्भयन्ती ॥ ४९२ ॥

शक्त्या मह­त्या­व­र­णा­भि­धा­नया
समावृते सत्यमलस्वरूपे ।
पुमा­न­ना­त्म­न्य­ह­मेष एवे -
त्यात्म­त्व­बुद्धिं विदधाति मोहात् ॥ ४९३ ॥

यथा प्रसु­प्ति­प्र­ति­भा­स­देहे
स्वात्मत्वधीरेष तथा ह्यनात्मनः ।
जन्मा­प्य­य­क्षु­द्भ­य­तृ­ट्छ्र­मादी -
नारोपयत्यात्मनि तस्य धर्मान् ॥ ४९४ ॥

विक्षेपशक्त्या परिचोद्यमानः
करोति कर्मा­ण्यु­भ­या­त्म­कानि ।
भुञ्जान एत­त्फ­ल­म­प्यु­पात्तं
परिभ्रमत्येव भवाम्बुराशौ ॥ ४९५ ॥

अध्या­स­दो­षा­त्स­मु­पा­ग­तोऽयं
संसारबन्धः प्रबलः प्रतीचः ।
यद्योगतः क्लिश्यति गर्भवास -
जन्मा­प्य­य­क्ले­श­भ­यै­र­ज­स्रम् ॥ ४९६ ॥

अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः ।
स्वाभा­वि­क­भ्रा­न्ति­मूलं संसृ­ते­रा­दि­का­र­णम् ॥ ४९७ ॥

सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः ।
ततः संसारसम्पातः सन्त­त­क्ले­श­ल­क्षणः ॥ ४९८ ॥

अध्यासादेव संसारो नष्टेऽध्यासे न दृश्यते ।
तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥ ४९९ ॥

बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः ।
प्रवृत्तिरेव संसारो निवृ­त्ति­र्मु­क्ति­रि­ष्यते ॥ ५०० ॥

आत्मनः सोऽयमध्यासो मिथ्या­ज्ञा­न­पु­रः­सरः ।
असत्कल्पोऽपि संसारं तनुते रज्जुसर्पवत् ॥ ५०१ ॥

उपा­धि­यो­ग­सा­म्येऽपि जीववत्परमात्मनः ।
उपाधिभेदान्नो बन्ध­स्त­त्का­र्य­मपि किञ्चन ॥ ५०२ ॥

अस्योपाधिः शुद्ध­स­त्त्व­प्र­धाना
माया यत्र त्वस्य नास्त्यल्पभावः ।
सत्त्व­स्यै­वो­त्कृ­ष्टता तेन बन्धो
नो विक्षे­प­स्त­त्कृतो लेशमात्रः ॥ ५०३ ॥

सर्व­ज्ञोऽ­प्र­ति­ब­द्ध­बो­ध­वि­भ­व­स्ते­नैव देवः स्वयं
मायां स्वामवलम्ब्य निश्चलतया स्वच्छ­न्द­वृत्तिः प्रभुः ।
सृष्टि­स्थि­त्य­द­न­प्र­वे­श­य­म­न­व्या­पा­र­मा­त्रे­च्छया
कुर्वन्क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या स्वया ॥ ५०४ ॥

तस्मा­दा­वृ­ति­वि­क्षेपौ किञ्चित्कर्तुं न शक्नुतः ।
स्वयमेव स्वतन्त्रोऽसौ तत्प्र­वृ­त्ति­नि­रो­धयोः ॥ ५०५ ॥

तमेव सा धीकर्मेति श्रुतिर्वक्ति महेशितुः ।
निग्रहानुग्रहे शक्ति­रा­वृ­ति­क्षे­प­यो­र्यतः ॥ ५०६ ॥

रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः ।
जीवोपाधौ तथा जीवे तत्कार्यं बलवत्तरम् ॥ ५०७ ॥

तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः ।
सम्प्राप्तः सर्वदा यत्र दुःखं भूयः स ईक्षते ॥ ५०८ ॥

एतस्य संसृ­ते­र्हे­तु­र­ध्या­सोऽ­र्थ­वि­प­र्ययः ।
अध्या­स­मू­ल­म­ज्ञा­न­मा­हु­रा­वृ­ति­ल­क्ष­णम् ॥ ५०९ ॥

अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा ।
अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ ५१० ॥

कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।
कर्मणः कार्यमेवैषा जन्म­मृ­त्यु­प­र­म्परा ॥ ५११ ॥

नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् ।
अज्ञानकार्यं तत्कर्म यतोऽज्ञानेन वर्धते ॥ ५१२ ॥

यद्येन वर्धते तेन नाशस्तस्य न सिध्यति ।
येन यस्य सहावस्था निरोधाय न कल्पते ॥ ५१३ ॥

नाशकत्वं तदुभयोः को नु कल्पयितुं क्षमः ।
सर्वं कर्माविरोध्येव सदाज्ञानस्य सर्वदा ॥ ५१४ ॥

ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिध्यति ।
यस्य प्रध्वस्तजनको यत्संयोगोऽस्ति तत्क्षणे ॥ ५१५ ॥

तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः ।
तमः­प्र­का­श­यो­र्य­द्व­त्प­र­स्प­र­वि­रो­धिता ॥ ५१६ ॥

अज्ञा­न­ज्ञा­न­यो­स्त­द्व­दु­भ­यो­रेव दृश्यते ।
न ज्ञानेन विना नाशस्तस्य केनापि सिध्यति ॥ ५१७ ॥

तस्मा­द­ज्ञा­न­वि­च्छित्त्यै ज्ञानं सम्पादयेत्सुधीः ।
आत्मा­ना­त्म­वि­वे­केन ज्ञानं सिध्यति नान्यथा ॥ ५१८ ॥

युक्त्या­त्मा­ना­त्म­नोऽ­स्त­स्मा­त्क­र­णीयं विवेचनम् ।
अना­त्म­न्या­त्म­ता­बु­द्धि­ग्र­न्थि­र्येन विदीर्यते ॥ ५१९ ॥

आत्मा­ना­त्म­वि­वे­कार्थं विवादोऽयं निरूप्यते ।
येना­त्मा­ना­त्म­नो­स्तत्त्वं विविक्तं प्रस्फुटायते ॥ ५२० ॥

मूढा अश्रुतवेदान्ताः स्वयं पण्डितमानिनः ।
ईशप्रसादरहिताः सद्गुरोश्च बहिर्मुखाः ॥ ५२१ ॥

विवदन्ति प्रकारं तं शृणु वक्ष्यामि सादरम् ।
अत्यन्तपामरः कश्चित्पुत्र आत्मेति मन्यते ॥ ५२२ ॥

आत्मनीव स्वपुत्रेऽपि प्रब­ल­प्री­ति­द­र्श­नात् ।
पुत्रे तु पुष्टे पुष्टोऽहं नष्टे नष्टेऽहमित्यतः ॥ ५२३ ॥

अनु­भू­ति­ब­ला­च्चापि युक्तितोऽपि श्रुतेरपि ।
आत्मा वै पुत्र­ना­मा­सी­त्येवं च वदति श्रुतिः ॥ ५२४ ॥

दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते ।
पितुर्गुणानां तनये बीजा­ङ्कु­र­व­दी­क्ष­णात् ॥ ५२५ ॥

अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः ।
तन्मतं दूषयत्यन्यः पुत्र आत्मा कथं त्विति ॥ ५२६ ॥

प्रीति­मा­त्रा­त्कथं पुत्र आत्मा भवितुमर्हति ।
अन्य­त्रा­पी­क्ष्यते प्रीतिः क्षेत्र­पा­त्र­ध­ना­दिषु ॥ ५२७ ॥

पुत्रा­द्वि­शिष्टा देहेऽ­स्मि­न्प्रा­णिनां प्रीतिरिष्यते ।
प्रदीप्ते भवने पुत्रं त्यक्त्वा जन्तुः पलायते ॥ ५२८ ॥

तं विक्रीणाति देहार्थं प्रतिकूलं निहन्ति च ।
तस्मादात्मा तु तनयो न भवेच्च कदाचन ॥ ५२९ ॥

गुण­रू­पा­दि­सा­दृश्यं दीपवन्न सुते पितुः ।
अव्यङ्गाज्जायते व्यङ्गः सुगुणादपि दुर्गुणः ॥ ५३० ॥

आभासमात्रास्ताः सर्वा युक्त­योऽ­प्यु­क्त­योऽपि च ।
पुत्रस्य पितृवद्गेहे सर्वकार्येषु वस्तुषु ॥ ५३१ ॥

स्वामि­त्व­द्यो­त­ना­या­स्मि­न्ना­त्म­त्व­मु­प­च­र्यते ।
श्रुत्या तु मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥ ५३२ ॥

औप­चा­रि­क­मा­त्मत्वं पुत्रे तस्मान्न मुख्यतः ।
अह­म्प­द­प्र­त्य­यार्थो देह एव न चेतरः ॥ ५३३ ॥

प्रत्यक्षः सर्वजन्तूनां देहोऽहमिति निश्चयः ।
एष पुरुषोऽन्नरसमय इत्यपि च श्रुतिः ॥ ५३४ ॥

पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः ।
आत्मायं देह एवेति चार्वाकेण विनिश्चितम् ॥ ५३५ ॥

तन्मतं दूष­य­त्य­न्योऽ­स­ह­मानः पृथग्जनः ।
देह आत्मा कथं नु स्यात्परतन्त्रो ह्यचेतनः ॥ ५३६ ॥

इन्द्रि­यै­श्चा­ल्य­मा­नोऽयं चेष्टते न स्वतः क्वचित् ।
आश्र­य­श्च­क्षु­रा­दीनां गृह­व­द्गृ­ह­मे­धि­नाम् ॥ ५३७ ॥

बाल्या­दि­ना­ना­व­स्था­वा­ञ्शु­क्ल­शो­णि­त­स­म्भवः ।
अतः कदापि देहस्य नात्म­त्व­मु­प­प­द्यते ॥ ५३८ ॥

बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः ।
इन्द्रियाणि भवन्त्यात्मा येषा­म­स्त्य­र्थ­वे­द­नम् ॥ ५३९ ॥

इन्द्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम् ।
एत­मे­त्ये­त्यू­चु­रिति श्रुत्यैव प्रतिपाद्यते ॥ ५४० ॥

यत­स्त­स्मा­दि­न्द्रि­याणां युक्त­मा­त्म­त्व­मि­त्य­मुम् ।
निश्चयं दूष­य­त्य­न्योऽ­स­ह­मानः पृथग्जनः ॥ ५४१ ॥

इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् ।
करणस्य कुठा­रा­दे­श्चे­त­नत्वं न हीक्ष्यते ॥ ५४२ ॥

श्रुत्या­धि­दे­व­ता­मे­वे­न्द्रि­ये­षू­प­च­र्यते ।
न तु साक्षा­दि­न्द्रि­याणां चेत­न­त्व­मु­दी­र्यते ॥ ५४३ ॥

अचेतनस्य दीपा­दे­र­र्था­भा­स­कता यथा ।
तथैव चक्षुरादीनां जडानामपि सिध्यति ॥ ५४४ ॥

इन्द्रियाणां चेष्टयिता प्राणोऽयं पञ्चवृत्तिकः ।
सर्वा­व­स्था­स्व­व­स्था­वा­न्सोऽ­य­मा­त्म­त्व­म­र्हति ।
अहं क्षुधा­वां­स्तृ­ष्णा­वा­नि­त्या­द्य­नु­भ­वा­दपि ॥ ५४५ ॥

श्रुत्या­न्योऽ­न्तर आत्मा प्राणमय इतीर्यते यस्मात् ।
तस्मा­त्प्रा­ण­स्या­त्मत्वं युक्तं नो करणसंज्ञानां क्वापि ॥ ५४६ ॥

इति निश्चयमेतस्य दूषयत्यपरो जडः ।
भवत्यात्मा कथं प्राणो वायुरेवैष आन्तरः ॥ ५४७ ॥

बहि­र्या­त्य­न्त­रा­याति भस्त्रि­का­वा­यु­व­न्मुहुः ।
न हितं वाहितं वा स्वमन्यद्वा वेद किञ्चन ॥ ५४८ ॥

जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा ।
प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥ ५४९ ॥

मनस्तु सर्वं जानाति सर्ववेदनकारणम् ।
यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥ ५५० ॥

सङ्कल्पवानहं चिन्तावानहं च विकल्पवान् ।
इत्या­द्य­नु­भ­वा­द­न्योऽ­न्तर आत्मा मनोमयः ॥ ५५१ ॥

इत्या­दि­श्रु­ति­स­द्भा­वा­द्युक्ता मनस आत्मता ।
इति निश्चयमेतस्य दूषयत्यपरो जडः ॥ ५५२ ॥

कथं मनस आत्मत्वं करणस्य दृगादिवत् ।
कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ ५५३ ॥

करणप्रयोक्ता यः कर्ता तस्यै­वा­त्म­त्व­म­र्हति ।
आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ ५५४ ॥

अहं कर्तास्म्यहं भोक्ता सुखीत्यनुभवादपि ।
बुद्धिरात्मा भवत्येव बुद्धिधर्मो ह्यहङ्कृतिः ॥ ५५५ ॥

अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः ।
मनसोऽपि च भिन्नं विज्ञानमयं कर्तृ­रू­प­मा­त्मा­नम् ॥ ५५६ ॥

विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च ।
इत्यस्य कर्तृता श्रुत्या मुखतः प्रतिपाद्यते ।
तस्मा­द्यु­क्ता­त्मता बुद्धेरिति बौद्धेन निश्चितम् ॥ ५५७ ॥

प्राभा­क­र­स्ता­र्कि­कश्च तावु­भा­व­प्य­म­र्षया ।
तन्निश्चयं दुषयतो बुद्धिरात्मा कथं न्विति ॥ ५५८ ॥

बुद्धे­र­ज्ञा­न­का­र्य­त्वा­द्वि­ना­शि­त्वा­त्प्र­ति­क्ष­णम् ।
बुद्ध्यादीनां च सर्वेषामज्ञाने लयदर्शनात् ॥ ५५९ ॥

अज्ञोऽ­ह­मि­त्य­नु­भ­वा­दा­स्त्री­बा­ला­दि­गो­च­रात् ।
भव­त्य­ज्ञा­न­मे­वात्मा न तु बुद्धिः कदाचन ॥ ५६० ॥

विज्ञानमयादन्यं त्वानन्दमयं परं तथात्मानम् ।
अन्योऽन्तर आत्मानन्दमय इति वदति वेदोऽपि ॥ ५६१ ॥

दुःख­प्र­त्य­य­शू­न्य­त्वा­दा­न­न्द­म­यता मता ।
अज्ञाने सकलं सुप्तौ बुद्ध्यादि प्रविलीयते ॥ ५६२ ॥

दुःखिनोऽपि सुषुप्तौ त्वानन्दमयता ततः ।
सुप्तौ किञ्चिन्न जाना­मी­त्य­नु­भू­तिश्च दृश्यते ॥ ५६३ ॥

यत एवमतो युक्ता ह्यज्ञा­न­स्या­त्मता ध्रुवम् ।
इति तन्निश्चयं भाट्टा दूषयन्ति स्वयुक्तिभिः ॥ ५६४ ॥

कथ­म­ज्ञा­न­मे­वात्मा ज्ञानं चाप्युपलभ्यते ।
ज्ञानाभावे कथं विद्यु­र­ज्ञोऽ­ह­मिति चाज्ञताम् ।
अस्वाप्सं सुखमेवाहं न जानाम्यत्र किञ्चन ॥ ५६५ ॥

इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते ।
प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥ ५६६ ॥

प्रब्र­वी­त्यु­भ­या­त्म­त्व­मा­त्मनः स्वयमेव सा ।
आत्मा­त­श्चि­ज्ज­ड­तनुः खद्योत इव सम्मतः ॥ ५६७ ॥

न केवलाज्ञानमयो घट­कु­ड्या­दि­व­ज्जडः ।
इति निश्चयमेतेषां दूषयत्यपरो जडः ॥ ५६८ ॥

ज्ञाना­ज्ञा­न­म­य­स्त्वात्मा कथं भवितुमर्हति ।
पर­स्प­र­वि­रु­द्ध­त्वा­त्ते­ज­स्ति­मि­र­व­त्तयोः ॥ ५६९ ॥

सामानाधिकरण्यं वा संयोगो वा समाश्रयः ।
तमः­प्र­का­श­व­ज्ज्ञा­ना­ज्ञा­न­योर्न हि सिध्यति ॥ ५७० ॥

अज्ञानमपि विज्ञानं बुद्धिर्वापि च तद्गुणाः ।
सुषुप्तौ नोपलभ्यन्ते यत्किञ्चिदपि वापरम् ॥ ५७१ ॥

मात्रादिलक्षणं किं नु शून्य­मे­वो­प­ल­भ्यते ।
सुषुप्तौ नान्यदस्त्येव नाह­म­प्या­स­मि­त्यनु ॥ ५७२ ॥

सुप्तोत्थितजनैः सर्वैः शून्य­मे­वा­नु­स्म­र्यते ।
यत्ततः शून्यमेवात्मा न ज्ञाना­ज्ञा­न­ल­क्षणः ॥ ५७३ ॥

वेदे­ना­प्य­स­दे­वे­द­मग्र आसीदिति स्फुटम् ।
निरुच्यते यत­स्त­स्मा­च्छू­न्य­स्यै­वा­त्मता मता ॥ ५७४ ॥

असन्नेव घटः पूर्वं जायमानः प्रदृश्यते ।
न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥ ५७५ ॥

यत्तस्मादसतः सर्वं सदिदं समजायत ।
ततः सर्वात्मना शून्य­स्यै­वा­त्मत्वं समर्हति ॥ ५७६ ॥

इत्येवं पण्डितंमन्यैः परस्परविरोधिभिः ।
तत्त­न्म­ता­नु­रू­पा­ल्प­श्रु­ति­यु­क्त्य­नु­भू­तिभिः ॥ ५७७ ॥

निर्णीतमतजातानि खण्डितान्येव पण्डितैः ।
श्रुति­भि­श्चा­प्य­नु­भ­वै­र्बा­धकैः प्रतिवादिनाम् ॥ ५७८ ॥

यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः ।
सुसा­धि­त­म­ना­त्मत्वं श्रुति­यु­क्त्य­नु­भू­तिभिः ॥ ५७९ ॥

न हि प्रमा­णा­न्त­र­बा­धि­तस्य
याथा­र्थ्य­म­ङ्गी­क्रि­यते महद्भिः ।
पुत्रा­दि­शू­न्या­न्त­म­ना­त्म­तत्त्व -
मित्येव विस्पष्टमतः सुजातम् ॥ ५८० ॥

शिष्यः -

सुषुप्तिकाले सकले विलीने
शून्यं विना नान्य­दि­हो­प­ल­भ्यते ।
शून्यं त्वनात्मा न ततः परः को -
ऽप्या­त्मा­भि­धा­न­स्त्व­नु­भू­य­तेऽर्थः ॥ ५८१ ॥

यद्यस्ति चात्मा किमु नोपलभ्यते
सुप्तौ यथा तिष्ठति किं प्रमाणम् ।
किंलक्षणोऽसौ स कथं न बाध्यते
प्रबा­ध्य­मा­ने­ष्व­ह­मा­दिषु स्वयम् ॥ ५८२ ॥

एतत्संशयजातं मे हृद­य­ग्र­न्थि­ल­क्ष­णम् ।
छिन्धि युक्ति­म­हा­ख­ड्ग­धा­रया कृपया गुरो ॥ ५८३ ॥

श्रीगुरुः -

अतिसूक्ष्मतरः प्रश्नस्तवायं सदृशो मतः ।
सूक्ष्मा­र्थ­द­र्शनं सूक्ष्म­बु­द्धि­ष्वेव प्रदृश्यते ॥ ५८४ ॥

शृणु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाधुना ।
रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षुभिः ॥ ५८५ ॥

बुद्ध्यादि सकलं सुप्तावनुलीनं स्वकारणे ।
अव्यक्ते वटवद्बीजे तिष्ठ­त्य­वि­कृ­ता­त्मना ॥ ५८६ ॥

तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् ।
क्वचि­द­ङ्कु­र­रू­पेण क्वचि­द्बी­जा­त्मना वटः ।
कार्यकारणरूपेण यथा तिष्ठत्यदस्तथा ॥ ५८७ ॥

अव्या­कृ­ता­त्म­ना­वस्थां जगतो वदति श्रुतिः ।
सुषुप्त्यादिषु तद्भेदं तर्ह्य­व्या­कृ­त­मि­त्यसौ ॥ ५८८ ॥

इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः ।
जगतो दर्शनं शून्यमिति प्राहुरतद्विदः ॥ ५८९ ॥

नासतः सत उत्पत्तिः श्रूयते न च दृश्यते ।
उदेति नरशृङ्गात्किं खपुष्पात्किं भविष्यति ॥ ५९० ॥

प्रभवति न हि कुम्भोऽ­वि­द्य­मानो मृदश्चे -
त्प्रभवतु सिकताया वाथवा वारिणो वा ।
न हि भवति च ताभ्यां सर्वथा क्वापि तस्मा -
द्यत उदयति योऽर्थोऽ­स्त्यत्र तस्य स्वभावः ॥ ५९१ ॥

अन्यथा विपरीतं स्यात्का­र्य­का­र­ण­ल­क्ष­णम् ।
नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ ५९२ ॥

कथमसतः सज्जायेतेति श्रुत्या निषिध्यते तस्मात् ।
असतः सज्जननं नो घटते मिथ्यैव शून्यशब्दार्थः ॥ ५९३ ॥

अव्यक्तशब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति ।
कथं सिध्यति शून्यत्वं तस्य भ्रान्तिशिरोमणे ॥ ५९४ ॥

सुषुप्तौ शून्यमेवेति केन पुंसा तवेरितम् ।
हेतुनानुमितं केन कथं ज्ञातं त्वयोच्यताम् ॥ ५९५ ॥

इति पृष्टो मूढतमो वदिष्यति किमुत्तरम् ।
नैवानुरूपकं लिङ्गं वक्ता वा नास्ति कश्चन ।
सुषु­प्ति­स्थि­त­शू­न्यस्य बोद्धा कोऽन्वात्मनः परः ॥ ५९६ ॥

स्वेनानुभूतं स्वयमेव वक्ति
स्वसुप्तिकाले स्थितशून्यभावम् ।
तत्र स्वस­त्ता­म­न­वेक्ष्य मूढः
स्वस्यापि शून्यत्वमयं ब्रवीति ॥ ५९७ ॥

अवेद्यमानः स्वयमन्यलोकैः
सौषुप्तिकं धर्ममवैति साक्षात् ।
बुद्ध्या­द्य­भा­वस्य च योऽत्र बोद्धा
स एष आत्मा खलु निर्विकारः ॥ ५९८ ॥

यस्येदं सकलं विभाति महसा तस्य स्वयञ्ज्योतिषः
सूर्यस्येव किमस्ति भासकमिह प्रज्ञादि सर्वं जडम् ।
न ह्यर्कस्य विभासकं क्षितितले दृष्टं तथैवात्मनो
नान्यः कोऽप्य­नु­भा­स­कोऽ­नु­भ­विता नातः परः कश्चन ॥ ५९९ ॥

येनानुभूयते सर्वं जाग्र­त्स्व­प्न­सु­षु­प्तिषु ।
विज्ञातारमिमं को नु कथं वेदितुमर्हति ॥ ६०० ॥

सर्वस्य दाहको वह्नि­र्व­ह्ने­र्ना­न्योऽस्ति दाहकः ।
यथा तथात्मनो ज्ञातुर्ज्ञाता कोऽपि न दृश्यते ॥ ६०१ ॥

उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः ।
उप­ल­ब्ध्य­न्त­रा­भा­वा­न्ना­य­मा­त्मो­प­ल­भ्यते ॥ ६०२ ॥

बुद्ध्या­दि­वे­द्य­वि­ल­या­द­य­मेक एव
सुप्तौ न पश्यति शृणोति न वेत्ति किञ्चित् ।
सौषुप्तिकस्य तमसः स्वयमेव साक्षी
भूत्वात्र तिष्ठति सुखेन च निर्विकल्पः ॥ ६०३ ॥

सुषु­प्ता­वा­त्म­स­द्भावे प्रमाणं पण्डितोत्तमाः ।
विदुः स्वप्र­त्य­भि­ज्ञा­न­मा­बा­ल­वृ­द्ध­स­म्म­तम् ॥ ६०४ ॥

प्रत्य­भि­ज्ञा­य­मा­न­त्वा­ल्लि­ङ्ग­मा­त्रा­नु­मा­प­कम् ।
स्मर्यमाणस्य सद्भावः सुख­म­स्वा­प्स­मि­त्य­यम् ॥ ६०५ ॥

पुरानुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् ।
इत्या­दि­त­र्क­यु­क्तिश्च सद्भावे मानमात्मनः ॥ ६०६ ॥

यत्रा­त्म­नोऽ­का­म­यि­तृ­त्व­बुद्धिः
स्वप्ना­न­पे­क्षापि च तत्सुषुप्तम् ।
इत्यात्मसद्भाव उदीर्यतेऽत्र
श्रुत्यापि तस्मा­च्छ्रु­ति­रत्र मानम् ॥ ६०७ ॥

अकामयितृता स्वप्नादर्शनं घटते कथम् ।
अविद्यमानस्य तत आत्मास्तित्वं प्रतीयते ॥ ६०८ ॥

एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः ।
आत्मायं केवलः शुद्धः सच्चि­दा­न­न्द­ल­क्षणः ॥ ६०९ ॥

सत्त्व­चि­त्त्वा­न­न्द­ता­दि­ल­क्षणं प्रत्यगात्मनः ।
काल­त्र­येऽ­प्य­बा­ध्यत्वं सत्यं नित्यस्वरूपतः ॥ ६१० ॥

शुद्ध­चै­त­न्य­रू­पत्वं चित्त्वं ज्ञानस्वरूपतः ।
अख­ण्ड­सु­ख­रू­प­त्वा­दा­न­न्द­त्व­मि­ती­र्यते ॥ ६११ ॥

अनुस्यूतात्मनः सत्ता जाग्र­त्स्व­प्न­सु­षु­प्तिषु ।
अहमस्मीत्यतो नित्यो भव­त्या­त्मा­य­म­व्ययः ॥ ६१२ ॥

सर्व­दा­प्या­स­मि­त्ये­वा­भि­न्न­प्र­त्यय ईक्ष्यते ।
कदापि नास­मि­त्य­स्मा­दा­त्मनो नित्यता मता ॥ ६१३ ॥

आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा -
स्वन्या­स्व­प्य­खि­लासु वृत्तिषु धियो दुष्टा­स्व­दु­ष्टा­स्वपि ।
गङ्गा­भ­ङ्ग­प­र­म्प­रासु जल­व­त्स­त्ता­नु­वृ­त्ता­त्मन -
स्तिष्ठत्येव सदा स्थिरा­ह­म­ह­मि­त्ये­का­त्मता साक्षिणः ॥ ६१४ ॥

प्रतिपदमहमादयो विभिन्नाः
क्षणपरिणामितया विकारिणस्ते ।
न परिणतिरमुष्य निष्कलत्वा -
दयमविकार्यत एव नित्य आत्मा ॥ ६१५ ॥

यः स्वप्न­म­द्रा­क्ष­महं सुखं यो -
ऽस्वाप्सं स एवास्म्यथ जागरूकः ।
इत्ये­व­म­च्छि­न्न­त­या­नु­भू­यते
सत्तात्मनो नास्ति हि संशयोऽत्र ॥ ६१६ ॥

श्रुत्युक्ताः षोड­श­क­ला­श्चि­दा­भा­सस्य नात्मनः ।
निष्क­ल­त्वा­न्नास्य लय­स्त­स्मा­न्नि­त्य­त्व­मा­त्मनः ॥ ६१७ ॥

जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः ।
बुद्ध्या­दि­भा­स­क­स्त­स्मा­च्चि­त्स्व­रू­प­स्तथा मतः ॥ ६१८ ॥

कुड्यादेस्तु जडस्य नैव घटते भानं स्वतः सर्वदा
सूर्यादिप्रभया विना क्वचिदपि प्रत्य­क्ष­मे­त­त्तथा ।
बुद्ध्यादेरपि न स्वतोऽ­स्त्य­णु­रपि स्फूर्ति­र्वि­नै­वा­त्मना
सोऽयं केव­ल­चि­न्म­य­श्रु­ति­मतो भानुर्यथा रुङ्मयः ॥ ६१९ ॥

स्वभासने वान्य­प­दा­र्थ­भा­सने
नार्कः प्रका­शा­न्त­र­मी­ष­दि­च्छति ।
स्वबोधने वाप्यहमादिबोधने
तथैव चिद्धातुरयं परात्मा ॥ ६२० ॥

अन्यप्रकाशं न किमप्यपेक्ष्य
यतोऽयमाभाति निजात्मनैव ।
ततः स्वयञ्ज्योतिरयं चिदात्मा
न ह्यात्मभाने परदीप्त्यपेक्षा ॥ ६२१ ॥

यं न प्रकाशयति किञ्चिदिनोऽपि चन्द्रः
नो विद्युतः किमुत वह्निरयं मिताभः ।
यं भान्तमेतमनुभाति जगत्समस्तं
सोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥ ६२२ ॥

आत्मनः सुख­रू­प­त्वा­दा­न­न्दत्वं स्वलक्षणम् ।
पर­प्रे­मा­स्प­द­त्वेन सुख­रू­प­त्व­मा­त्मनः ॥ ६२३ ॥

सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते ।
कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥ ६२४ ॥

क्षीणे­न्द्रि­यस्य जीर्णस्य सम्प्रा­प्तो­त्क्र­म­णस्य वा ।
अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६२५ ॥

आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् ।
यस्य शेषतया सर्व­मु­पा­दे­य­त्व­मृ­च्छति ॥ ६२६ ॥

एष एव प्रियतमः पुत्रादपि धनादपि ।
अन्यस्मादपि सर्व­स्मा­दा­त्मायं परमान्तरः ॥ ६२७ ॥

प्रियत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् ।
विपत्तावपि सम्पत्तौ यथात्मा न तथापरः ॥ ६२८ ॥

आत्मा खलु प्रिय­त­मोऽ­सु­भृतां यदर्था
भार्या­त्म­जा­प्त­गृ­ह­वि­त्त­मुखाः पदार्थाः ।
वाणि­ज्य­क­र्ष­ण­ग­वा­व­न­रा­ज­सेवा -
भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६२९ ॥

प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् ।
आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६३० ॥

तस्मादात्मा केवलानन्दरूपो
यः सर्व­स्मा­द्व­स्तुनः प्रेष्ठ उक्तः ।
यो वा अस्मा­न्म­न्य­तेऽन्यं प्रियं यं
सोऽयं तस्मा­च्छो­क­मे­वा­नु­भुङ्क्ते ॥ ६३१ ॥

शिष्यः -

अपरः क्रियते प्रश्नो मयायं क्षम्यतां प्रभो ।
अज्ञवागपराधाय कल्पते न महात्मनाम् ॥ ६३२ ॥

आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता ।
आत्मनः सुखमाशास्यं यतते सकलो जनः ॥ ६३३ ॥

आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् ।
एष मे संशयः स्वामिन् कृपयैव निरस्यताम् ॥ ६३४ ॥

श्रीगुरुः -

आन­न्द­रू­प­मा­त्मा­न­म­ज्ञा­त्वैव पृथग्जनः ।
बहिःसुखाय यतते न तु कश्चि­द्वि­द­न्बुधः ॥ ६३५ ॥

अज्ञात्वैव हि निक्षेपं
भिक्षामटति दुर्मतिः ।
स्ववेश्मनि निधिं ज्ञात्वा
को नु भिक्षा­म­टे­त्सुधीः ॥ ६३६ ॥

स्थूलं च सूक्ष्मं च वपुः स्वभावतो
दुःखात्मकं स्वात्मतया गृहीत्वा ।
विस्मृत्य च स्वं सुखरूपमात्मनो
दुःखप्रदेभ्यः सुखमज्ञ इच्छति ॥ ६३७ ॥

न हि दुःखप्रदं वस्तु सुखं दातुं सर्महति ।
किं विषं पिबतो जन्तोरमृतत्वं प्रयच्छति ॥ ६३८ ॥

आत्मान्यः सुख­म­न्य­च्चे­त्येवं निश्चित्य पामरः ।
बहिःसुखाय यतते सत्यमेव न संशयः ॥ ५३९ ॥

इष्टस्य वस्तुनो ध्यान­द­र्श­ना­द्यु­प­भु­क्तिषु ।
प्रतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥ ६४० ॥

स वस्तुधर्मो नो यस्मा­न्म­न­स्ये­वो­प­ल­भ्यते ।
वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥ ६४१ ॥

अन्यत्र त्वन्य­ध­र्मा­णा­मु­प­लम्भो न दृश्यते ।
तस्मान्न वस्तु­ध­र्मोऽ­य­मा­न­न्दस्तु कदाचन ॥ ६४२ ॥

नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् ।
असति व्यञ्जके व्यङ्ग्यं नोदेतीति न मन्यताम् ॥ ६४३ ॥

सत्यर्थेऽपि च नोदेति ह्यान­न्द­स्तू­क्त­ल­क्षणः ।
सत्यपि व्यञ्जके व्यङ्ग्यानुदयो नैव सम्मतः ॥ ६४४ ॥

दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् ।
प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिध्यति ॥ ६४५ ॥

तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः ।
किं तु पुण्यस्य सांनि­ध्या­दि­ष्ट­स्यापि च वस्तुनः ॥ ६४६ ॥

सत्त्वप्रधाने चित्तेऽ­स्मिं­स्त्वा­त्मैव प्रतिबिम्बति ।
आनन्दलक्षणः स्वच्छे पयसीव सुधाकरः ॥ ६४७ ॥

सोऽयमाभास आनन्दश्चित्ते यः प्रतिबिम्बितः ।
पुण्यो­त्क­र्षा­प­क­र्षाभ्यां भवत्युच्चावचः स्वयम् ॥ ६४८ ॥

सार्व­भौ­मा­दि­ब्र­ह्मान्तं श्रुत्या यः प्रतिपादितः ।
स क्षयिष्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥ ६४९ ॥

यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः ।
ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥ ६५० ॥

दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् ।
सुखं विषयसम्पृक्तं विष­स­म्पृ­क्त­भ­क्त­वत् ॥ ६५१ ॥

भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति ।
सुख­मु­च्चा­व­च­त्वेन क्षयि­ष्णु­त्व­भ­येन च ॥ ६५२ ॥

भोगकाले भवेन्नॄणां ब्रह्मा­दि­प­द­भा­गि­नाम् ।
राज­स्था­न­प्र­वि­ष्टानां तारतम्यं मतं यथा ॥ ६५३ ॥

तथैव दुःखं जन्तूनां ब्रह्मा­दि­प­द­भा­गि­नाम् ।
न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६५४ ॥

यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः ।
शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ॥ ६५५ ॥

लक्ष्यते प्रति­बि­म्बे­ना­भा­सा­न­न्देन बिम्बवत् ।
प्रतिबिम्बो बिम्बमूलो विना बिम्बं न सिध्यति ॥ ६५६ ॥

यत्ततो बिम्ब आनन्दः प्रतिबिम्बेन लक्ष्यते ।
युक्त्यैव पण्डितजनैर्न कदाप्यनुभूयते ॥ ६५७ ॥

अवि­द्या­का­र्य­क­र­ण­स­ङ्घा­तेषु पुरोदितः ।
आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः ॥ ६५८ ॥

स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः ।
लये सुषुप्तौ स्फुरति प्रत्य­गा­न­न्द­ल­क्षणः ॥ ६५९ ॥

न ह्यत्र विषयः कश्चिन्नापि बुद्ध्यादि किञ्चन ।
आत्मैव केव­ला­न­न्द­मा­त्र­स्ति­ष्ठति निर्द्वयः ॥ ६६० ॥

प्रत्यभिज्ञायते सर्वैरेष सुप्तो­त्थि­तै­र्जनैः ।
सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ ६६१ ॥

त्वयापि प्रत्यभिज्ञातं सुख­मा­त्र­त्व­मा­त्मनः ।
सुषु­प्ता­दु­त्थि­त­वता सुख­म­स्वा­प्स­मि­त्यनु ॥ ६६२ ॥

दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना ।
अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ ६६३ ॥

दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते ।
सुखलेशोऽपि सर्वेषां प्रत्यक्षं तदिदं खलु ॥ ६६४ ॥

सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः ।
सद्घनोऽयं चिद्घ­नोऽ­य­मा­न­न्द­घन इत्यपि ॥ ६६५ ॥

आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः ।
धन्यै­र्म­हा­त्म­भि­र्धी­रै­र्ब्र­ह्म­विद्भिः सदुत्तमैः ॥ ६६६ ॥

अप­रो­क्ष­त­यै­वात्मा समाधावनुभूयते ।
केव­ला­न­न्द­मा­त्र­त्वे­नै­व­मत्र न संशयः ॥ ६६७ ॥

स्वस्वो­पा­ध्य­नु­रू­पेण ब्रह्माद्याः सर्वजन्तवः ।
उप­जी­व­न्त्य­मु­ष्येव मात्रा­मा­न­न्द­ल­क्ष­णाम् ॥ ६६८ ॥

आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः ।
स गुडस्यैव नो तेषां माधुर्यं विद्यते क्वचित् ॥ ६६९ ॥

तद्व­द्वि­ष­य­सां­नि­ध्या­दा­नन्दो यः प्रतीयते ।
बिम्बा­न­न्दां­श­वि­स्फू­र्ति­रे­वासौ न जडात्मनाम् ॥ ६७० ॥

यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते ।
आनन्दः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥ ६७१ ॥

यथा कुव­ल­यो­ल्ला­स­श्च­न्द्र­स्यैव प्रसादतः ।
तथा­न­न्दो­द­योऽ­प्येषां स्फुरणादेव वस्तुनः ॥ ६७२ ॥