सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः
० विभागः
आरम्भन्ते कार्यगुणान्ये कारणगुणा हि ते ।
एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥ ३३७ ॥
एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि ।
स्थूलान्यपि च भूतानि चान्योन्यांशविमेलनात् ॥ ३३८ ॥
अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम् ।
संसारकारणं लिङ्गमात्मनो भोगसाधनम् ॥ ३३९ ॥
श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् ।
प्राणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥ ३४० ॥
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च जातानि ।
आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥ ३४१ ॥
आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् ।
मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥ ३४२ ॥
प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते ।
प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ ३४३ ॥
तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् ।
मनो बुद्धिरहङ्कारश्चित्तं चेति तदुच्यते ॥ ३४४ ॥
सङ्कल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् ।
अभिमानादहङ्कारश्चित्तमर्थस्य चिन्तनात् ॥ ३४५ ॥
मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् ।
अन्तर्भावोऽत्र बोद्धव्यो लिङ्गलक्षणसिद्धये ॥ ३४६ ॥
चिन्तनं च मनोधर्मः सङ्कल्पादिर्यथा तथा ।
अन्तर्भावो मनस्येव सम्यक्चित्तस्य सिध्यति ॥ ३४७ ॥
देहादावहमित्येव भावो दृढतरो धियः ।
दृश्यतेऽहङ्कृतेस्तस्मादन्तर्भावोऽत्र युज्यते ॥ ३४८ ॥
तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् ।
सिध्यत्यात्मन उभयाद्विद्यात्संसारकारणं मोहात् ॥ ३४९ ॥
विज्ञानमयकोशः स्यात् बुद्धिर्ज्ञानेन्द्रियैः सह ।
विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥ ३५० ॥
विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते ।
अयं महानहङ्कारवृत्तिमान्कर्तृलक्षणः ॥ ३५१ ॥
अहं ममेत्येव सदाभिमानं
देहेन्द्रियादौ कुरुते गृहादौ ।
जीवाभिमानः पुरुषोऽयमेव
कर्ता च भोक्ता च सुखी च दुःखी ॥ ३५२ ॥
स्ववासनाप्रेरित एव नित्यं
करोति कर्मोभयलक्षणं च ।
भुङ्क्ते तदुत्पन्नफलं विशिष्टं
सुखं च दुःखं च परत्र चात्र ॥ ३५३ ॥
नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः ।
म्रियमाणो भ्रमत्येष जीवः संसारमण्डले ॥ ३५४ ॥
मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह ।
प्राचुर्यं मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ ३५५ ॥
चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः ।
मनुते मनसैवैष फलं कामयते बहिः ।
यतते कुरुते भुङ्क्ते तन्मनः सर्वकारणम् ॥ ३५६ ॥
मनो ह्यमुष्य प्रवणस्य हेतु -
रन्तर्बहिश्चार्थमनेन वेत्ति ।
शृणोति जिघ्रत्यमुनैव चेक्षते
वक्ति स्पृशत्यत्ति करोति सर्वम् ॥ ३५७ ॥
बन्धश्च मोक्षो मनसैव पुंसा -
मर्थोऽप्यनर्थोऽप्यमुनैव सिध्यति ।
शुद्धेन मोक्षो मलिनेन बन्धो
विवेकतोऽर्थोऽप्यविवेकतोऽन्यः ॥ ३५८ ॥
रजस्तमोभ्यां मलिनं त्वशुद्ध -
मज्ञानजं सत्त्वगुणेन रिक्तम् ।
मनस्तमोदोषसमन्वितत्वा -
ज्जडत्वमोहालसताप्रमादैः ।
तिरस्कृतं सन्न तु वेत्ति वास्तवं
पदार्थतत्त्वं ह्युपलभ्यमानम् ॥ ३५९ ॥
रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः
प्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति ।
कथञ्चित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशं
मनो दीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ॥
ततो मुमुक्षुर्भवबन्धमुक्त्यै
रजस्तमोभ्यां च तदीयकार्यैः ।
वियोज्य चित्तं परिशुद्धसत्त्वं
प्रियं प्रयत्नेन सदैव कुर्यात् ॥ ३६१ ॥
गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां
यद्दुःखं परिदृश्यते च नरके तच्चिन्तयित्वा मुहुः ।
दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभित -
श्चित्तग्रन्थिविमोचनाय सुमतिः सत्त्वं समालम्बनात् ॥ ३६२ ॥
यमेषु निरतो यस्तु नियमेषु च यत्नतः ।
विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ ३६३ ॥
आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् ।
मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥ ३६४ ॥
परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः ।
नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५ ॥
आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति ।
सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६ ॥
अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि ।
यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥ ३६७ ॥
शिष्टान्नमीशार्चनमार्यसेवां
तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् ।
यमानुषक्तिं नियमानुवृत्तिं
चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ ३६८ ॥
कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविधायिनाम् ।
पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥ ३६९ ॥
श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः ।
अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ ३७० ॥
यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् ।
तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ ३७१ ॥
हितपरिमितभोजी नित्यमेकान्तसेवी
सकृदुचितहितोक्तिः स्वल्पनिद्राविहारः ।
अनुनियमनशीलो यो भजत्युक्तकाले
स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ ३७२ ॥
चित्तप्रसादेन विनावगन्तुं
बन्धं न शक्नोति परात्मतत्त्वम् ।
तत्त्वावगत्या तु विना विमुक्ति -
र्न सिध्यति ब्रह्मसहस्रकोटिषु ॥ ३७३ ॥
मनोऽप्रसादः पुरुषस्य बन्धो
मनःप्रसादो भवबन्धमुक्तिः ।
मनःप्रसादाधिगमाय तस्मा -
न्मनोनिरासं विदधीत विद्वान् ॥ ३७४ ॥
पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् ।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्यनु ॥ ३७५ ॥
समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः ।
प्राणादयः समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥ ३७६ ॥
प्राणः प्राग्गमनेन स्यादपानोऽवाग्गमनेन च ।
व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ॥ ३७७ ॥
अशितान्नरसादीनां समीकरणधर्मतः ।
समान इत्यभिप्रेतो वायुर्यस्तेषु पञ्चमः ॥ ३७८ ॥
क्रियैव दिश्यते प्रायः प्राणकर्मेन्द्रियेष्वलम् ।
ततस्तेषां रजोंऽशेभ्यो जनिरङ्गीकृता बुधैः ॥ ३७९ ॥
राजसीं तु क्रियाशक्तिं तमःशक्तिं जडात्मिकाम् ।
प्रकाशरूपिणीं सत्त्वशक्तिं प्राहुर्महर्षयः ॥ ३८० ॥
एते प्राणादयः पञ्च पञ्चकर्मेन्द्रियैः सह ।
भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ ३८१ ॥
यद्यन्निष्पाद्यते कर्म पुण्यं वा पापमेव वा ।
वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ ३८२ ॥
वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते ।
तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥ ३८३ ॥
प्राणकर्मेन्द्रियैर्देहः प्रेर्यमाणः प्रवर्तते ।
नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥ ३८४ ॥
कोशत्रयं मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः ।
अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥ ३८५ ॥
लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते ।
सर्वं लिङ्गवपुर्जातमेकधीविषयत्वतः ॥ ३८६ ॥
समष्टिः स्यात्तरुगणः सामान्येन वनं यथा ।
एतत्समष्ट्युपहितं चैतन्यं सफलं जगुः ॥ ३८७ ॥
हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिताः ।
हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ ३८८ ॥
हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः ।
समस्तलिङ्गदेहेषु सूत्रवन्मणिपङ्क्तिषु ।
व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ ३८९ ॥
नैकधीविषयत्वेन लिङ्गं व्यष्टिर्भवत्यथ ।
यदेतद्व्यष्ट्युपहितं चिदाभाससमन्वितम् ॥ ३९० ॥
चैतन्यं तैजस इति निगदन्ति मनीषिणः ।
तेजोमयान्तःकरणोपाधित्वेनैष तैजसः ॥ ३९१ ॥
स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् ।
अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥ ३९२ ॥
स्वप्ने जागरकालीनवासनापरिकल्पितान् ।
तैजसो विषयान्भुङ्क्ते सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥ ३९३ ॥
समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् ।
अभेद एव ज्ञातव्यो जात्येकत्वे कुतो भिदा ॥ ३९४ ॥
द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः ।
सूत्रात्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥ ३९५ ॥
एवं सूक्ष्मप्रपञ्चस्य प्रकारः शास्त्रसम्मतः ।
अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु ॥ ३९६ ॥
तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् ।
पञ्चीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥ ३९७ ॥
खादीनां भूतमेकैकं सममेव द्विधा द्विधा ।
विभज्य भागं तत्राद्यं त्यक्त्वा भागं द्वितीयकम् ॥ ३९८ ॥
चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् ।
चतुर्णां प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ३९९ ॥
ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते ।
स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥ ४०० ॥
संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् ।
अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्क्यताम् ॥ ४०१ ॥
उपलक्षणमस्यापि तत्त्रिवृत्करणश्रुतिः ।
पञ्चानामपि भूतानां श्रूयतेऽन्यत्र सम्भवः ॥ ४०२ ॥
ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः ।
प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥ ४०३ ॥
आकाशवाय्वोर्धर्मस्तु वह्न्यादावुपलभ्यते ।
यथा तथाकाशवाय्वोर्नाग्न्यादेर्धर्म ईक्ष्यते ॥ ४०४ ॥
अतोऽप्रामाणिकमिति न किञ्चिदपि चिन्त्यताम् ।
खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु ॥ ४०५ ॥
तेनोपलभ्यते शब्दः कारणस्यातिरेकतः ।
तथा नभस्वतो धर्मोऽप्यग्न्यादावुपलभ्यते ॥ ४०६ ॥
न तथा विद्यते व्याप्तिर्वह्न्यादेः खनभस्वतोः ।
सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ॥ ४०७ ॥
कारणस्यानुरूपेण कार्यं सर्वत्र दृश्यते ।
तस्मात्प्रामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥ ४०८ ॥
अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय ।
शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥ ४०९ ॥
तेजः शब्दस्पर्शरूपैर्गुणवत्कारणं क्रमात् ।
आपश्चतुर्गुणः शब्दस्पर्शरूपरसैः क्रमात् ॥ ४१० ॥
एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही ।
आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ ४११ ॥
त्वङ्मारुतांशकतया स्पर्शं गृह्णाति तद्गुणम् ।
तेजोंशकतया चक्षू रूपं गृह्णाति तद्गुणम् ॥ ४१२ ॥
अबंशकतया जिह्वा रसं गृह्णाति तद्गुणम् ।
भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ ४१३ ॥
करोति खांशकतया वाक्शब्दोच्चारणक्रियाम् ।
वाय्वंशकतया पादौ गमनादिक्रियापरौ ॥ ४१४ ॥
तेजोंशकतया पाणी वह्न्याद्यर्चनतत्परौ ।
जलांशकतयोपस्थो रेतोमूत्रविसर्गकृत् ॥ ४१५ ॥
भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् ।
श्रोत्रस्य दैवतं दिक्स्यात्त्वचो वायुर्दृशो रविः ॥ ४१६ ॥
जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ ।
वाचोऽग्निर्हस्तयोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥ ४१७ ॥
पायोर्मृत्युरुपस्थस्य त्वधिदैवं प्रजापतिः ।
मनसो दैवतं चन्द्रो बुद्धेर्दैवं बृहस्पतिः ॥ ४१८ ॥
रुद्रस्त्वहङ्कृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम् ।
दिगाद्या देवताः सर्वाः खादिसत्त्वांशसम्भवाः ॥ ४१९ ॥
संमिता इन्द्रियस्थानेष्विन्द्रियाणां समन्ततः ।
निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ ४२० ॥
शरीरकरणग्रामा प्राणाहमधिदेवताः ।
पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ ॥
कर्मानुरूपेण गुणोदयो भवे -
द्गुणानुरूपेण मनःप्रवृत्तिः ।
मनोनुवृत्तैरुभयात्मकेन्द्रियै -
र्निवर्त्यते पुण्यमपुण्यमत्र ॥ ४२२ ॥
करोति विज्ञानमयोऽभिमानं
कर्ताहमेवेति तदात्मना स्थितः ।
आत्मा तु साक्षी न करोति किञ्चि -
न्न कारयत्येव तटस्थवत्सदा ॥ ४२३ ॥
द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहङ्कारः ।
स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥ ४२४ ॥
आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता ।
रविवत्प्राणिभिर्लोके क्रियमाणेषु कर्मसु ॥ ४२५ ॥
न ह्यर्कः कुरुते कर्म न कारयति जन्तवः ।
स्वस्वभावानुरोधेन वर्तन्ते स्वस्वकर्मसु ॥ ४२६ ॥
तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना ।
उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ ४२७ ॥
अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः ।
स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ॥ ४२८ ॥
आत्मस्वरूपमविचार्य विमूढबुद्धि -
रारोपयत्यखिलमेतदनात्मकार्यम् ।
स्वात्मन्यसङ्गचितिनिष्क्रिय एव चन्द्रे
दूरस्थमेघकृतधावनवद्भ्रमेण ॥ ४२९ ॥
आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः ।
इममाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥ ४३० ॥
पञ्चीकृतेभ्यः खादिभ्यो भूतेभ्यस्त्वीक्षयेशितुः ।
समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥ ४३१ ॥
व्रीह्याद्योषधयः सर्वा वायुतेजोम्बुभूमयः ।
सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥ ४३२ ॥
केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोशनाः
केचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृद्भक्षकाः ।
केचित्पर्णशिलातृणादनपराः केचित्तु मांसाशिनः
केचिद्व्रीहियवान्नभोजनपरा जीवन्त्यमी जन्तवः ॥ ४३३ ॥
जरायुजाण्डजस्वेदजोद्भिज्जाद्याश्चतुर्विधाः ।
स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥ ४३४ ॥
यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः ।
अण्डजास्ते स्युरण्डेभ्यो जाता ये विहगादयः ॥ ४३५ ॥
स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च ।
भूमिमुद्भिद्य ये जाता उद्भिज्जास्ते द्रुमादयः ॥ ४३६ ॥
इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् ।
सामान्येन समष्टिः स्यादेकधीविषयत्वतः ॥ ४३७ ॥
एतत्समष्ट्यवच्छिन्नं चैतन्यं फलसंयुतम् ।
प्राहुर्वैश्वानर इति विराडिति च वैदिकाः ॥ ४३८ ॥
वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः ।
विराट् स्याद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३९ ॥
चतुर्विधं भूतजातं तत्तज्जातिविशेषतः ।
नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥ ४४० ॥
साभासं व्यष्ट्युपहितं तत्तादात्म्यमुपागतम् ।
चैतन्यं विश्व इत्याहुर्वेदान्तनयकोविदाः ॥ ४४१ ॥
विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति ।
यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥ ४४२ ॥
व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः ।
उच्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥ ४४३ ॥
देहोऽयं पितृभुक्तान्नविकाराच्छुक्लशोणितात् ।
जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ॥ ४४४ ॥
तस्मादन्नविकारित्वेनायमन्नमयो मतः ।
आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥ ४४५ ॥
आत्मनः स्थूलभोगाना -
मेतदायतनं विदुः ।
शब्दादिविषयान्भुङ्क्ते
स्थूलान्स्थूलात्मनि स्थितः ॥ ४४६ ॥
बहिरात्मा ततः स्थूलभोगायतनमुच्यते ।
इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् ।
देहेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥ ४४७ ॥
एकादशद्वारवतीह देहे
सौधे महाराज इवाक्षवर्गैः ।
संसेव्यमानो विषयोपभोगा -
नुपाधिसंस्थो बुभुजेऽयमात्मा ॥ ४४८ ॥
ज्ञानेन्द्रियाणि निजदैवतचोदितानि
कर्मेन्द्रियाण्यपि तथा मनआदिकानि ।
स्वस्वप्रयोजनविधौ नियतानि सन्ति
यत्नेन किङ्करजना इव तं भजन्ते ॥ ४४९ ॥
यत्रोपभुङ्क्ते विषयान्स्थूलानेष महामतिः ।
अहं ममेति सैषास्यावस्था जाग्रदितीर्यते ॥ ४५० ॥
एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः ।
तद्विश्ववैश्वानरयोरभेदः पूर्ववन्मतः ॥ ४५१ ॥
स्थूलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः ।
ते सर्वेऽपि मिलित्वैकः प्रपञ्चोऽपि महान्भवेत् ॥ ४५२ ॥
महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् ।
विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् ॥ ४५३ ॥
यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् ।
महाप्रपञ्चेन सहाविविक्तं सदयोऽग्निवत् ॥ ४५४ ॥
तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः ।
वाच्यार्थ इति निर्णीतं विविक्तं लक्ष्य इत्यपि ॥ ४५५ ॥
स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् ।
दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥ ४५६ ॥
अन्तःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् ।
चैतन्यं यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥ ४५७ ॥
एष प्रत्यक्स्वप्रकाशो निरंशो -
ऽसङ्गः शुद्धः सर्वदैकस्वभावः ।
नित्याखण्डानन्दरूपो निरीहः
साक्षी चेता केवलो निर्गुणश्च ॥ ४५८ ॥
नैव प्रत्यग्जायते वर्धते नो
किञ्चिन्नापक्षीयते नैव नाशम् ।
आत्मा नित्यः शाश्वतोऽयं पुराणो
नासौ हन्यो हन्यमाने शरीरे ॥ ४५९ ॥
जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनं
दृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः ।
स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिप्रथा
दृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥ ४६० ॥
अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मतां पुनः ।
विपरीततयाध्यस्य संसरन्ति विमोहतः ॥ ४६१ ॥
भ्रान्त्या मनुष्योऽहमहं द्विजोऽहं
तज्ज्ञोऽहमज्ञोऽहमतीव पापी ।
भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी -
त्येवं विमुह्यात्मनि कल्पयन्ति ॥ ४६२ ॥
अनात्मनो जन्मजरामृतिक्षुधा -
तृष्णासुखक्लेशभयादिधर्मान् ।
विपर्ययेण ह्यतथाविधेऽस्मि -
न्नारोपयन्त्यात्मनि बुद्धिदोषात् ॥ ४६३ ॥
भ्रान्त्या यत्र यदध्यासस्तत्कृतेन गुणेन वा ।
दोषेणाप्यणुमात्रेण स न सम्बध्यते क्वचित् ॥ ४६४ ॥
किं मरुन्मृगतृष्णाम्बुपूरेणार्द्रत्वमृच्छति ।
दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु ॥ ४६५ ॥
बालकल्पितनैल्येन व्योम किं मलिनायते । शिष्यः - प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥ ४६६ ॥
पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् ।
तद्दृष्टं शुक्तिरज्ज्वादौ सादृश्याद्यनुबन्धतः ॥ ४६७ ॥
परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः ।
अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥ ५६८ ॥
नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः ।
सादृश्यं सिध्यति कथमनात्मनि विलक्षणे ॥ ४६९ ॥
अनात्मन्यात्मताध्यासः कथमेष समागतः ।
निवृत्तिः कथमेतस्य केनोपायेन सिध्यति ॥ ४७० ॥
उपाधियोग उभयोः सम एवेशजीवयोः ।
जीवस्यैव कथं बन्धो नेश्वरस्यास्ति तत्कथम् ॥ ४७१ ॥
एतत्सर्वं दयादृष्ट्या करामलकवत्स्फुटम् ।
प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥ ४७२ ॥
श्रीगुरुः -
न सावयव एकस्य नात्मा विषय इष्यते ।
अस्यास्मत्प्रत्ययार्थत्वादपरोक्षाच्च सर्वशः ॥ ४७३ ॥
प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते ।
प्रत्ययो नाहमस्मीति न ह्यस्ति प्रत्यगात्मनि ॥ ४७४ ॥
न कस्यापि स्वसद्भावे प्रमाणमभिकाङ्क्ष्यते ।
प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥ ४७५ ॥
मायाकार्यैस्तिरोभूतो नैष आत्मानुभूयते ।
मेघबृन्दैर्यथा भानुस्तथायमहमादिभिः ॥ ४७६ ॥
पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति ।
नियमो न कृतः सद्भिर्भ्रान्तिरेवात्र कारणम् ॥ ४७७ ॥
दृगाद्यविषये व्योम्नि नीलतादि यथाबुधाः ।
अध्यस्यन्ति तथैवास्मिन्नात्मन्यपि मतिभ्रमात् ॥ ४७८ ॥
अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते ।
पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥ ४७९ ॥
निरुपाधिभ्रमेष्वस्मिन्नैवापेक्षा प्रदृश्यते ।
सोपाधिष्वेव तद्दृष्टं रज्जुसर्पभ्रमादिषु ॥ ४८० ॥
तथापि किञ्चिद्वक्ष्यामि सादृश्यं शृणु तत्परः ।
अत्यन्तनिर्मलः सूक्ष्म आत्मायमतिभास्वरः ॥ ४८१ ॥
बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वरामला ।
सांनिध्यादात्मवद्भाति सूर्यवत्स्फटिको यथा ॥ ४८२ ॥
आत्माभासा ततो बुद्धिर्बुद्ध्याभासं ततो मनः ।
अक्षाणि मनआभासान्यक्षाभासमिदं वपुः ।
अत एवात्मताबुद्धिर्देहाक्षादावनात्मनि ॥ ४८३ ॥
मूढानां प्रतिबिम्बादौ बालानामिव दृश्यते ।
सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४ ॥
अनात्मन्यहमित्येव योऽयमध्यास ईरितः ।
स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥
सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः ।
अनादिरेषाविद्यातः संस्कारोऽपि च तादृशः ॥ ४८६ ॥
अध्यासबाधागमनस्य कारणं
शृणु प्रवक्ष्यामि समाहितात्मा ।
यस्मादिदं प्राप्तमनर्थजातं
जन्माप्ययव्याधिजरादिदुःखम् ॥ ४८७ ॥
आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् ।
विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥ ४८८ ॥
आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् ।
मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ ४८९ ॥
विवेकवानप्यतियौक्तिकोऽपि
श्रुतात्मतत्त्वोऽपि च पण्डितोऽपि ।
शक्त्या यया संवृतबोधदृष्टि -
रात्मानमात्मस्थमिमं न वेद ॥ ४९० ॥
विक्षेपनाम्नी रजसस्तु शक्तिः
प्रवृत्तिहेतुः पुरुषस्य नित्यम् ।
स्थूलादिलिङ्गान्तमशेषमेत -
द्यया सदात्मन्यसदेव सूयते ॥ ४९१ ॥
निद्रा यथा पुरुषमप्रमत्तं
समावृणोतीयमपि प्रतीचम् ।
तथावृणोत्यावृतिशक्तिरन्त -
र्विक्षेपशक्तिं परिजृम्भयन्ती ॥ ४९२ ॥
शक्त्या महत्यावरणाभिधानया
समावृते सत्यमलस्वरूपे ।
पुमाननात्मन्यहमेष एवे -
त्यात्मत्वबुद्धिं विदधाति मोहात् ॥ ४९३ ॥
यथा प्रसुप्तिप्रतिभासदेहे
स्वात्मत्वधीरेष तथा ह्यनात्मनः ।
जन्माप्ययक्षुद्भयतृट्छ्रमादी -
नारोपयत्यात्मनि तस्य धर्मान् ॥ ४९४ ॥
विक्षेपशक्त्या परिचोद्यमानः
करोति कर्माण्युभयात्मकानि ।
भुञ्जान एतत्फलमप्युपात्तं
परिभ्रमत्येव भवाम्बुराशौ ॥ ४९५ ॥
अध्यासदोषात्समुपागतोऽयं
संसारबन्धः प्रबलः प्रतीचः ।
यद्योगतः क्लिश्यति गर्भवास -
जन्माप्ययक्लेशभयैरजस्रम् ॥ ४९६ ॥
अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः ।
स्वाभाविकभ्रान्तिमूलं संसृतेरादिकारणम् ॥ ४९७ ॥
सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः ।
ततः संसारसम्पातः सन्ततक्लेशलक्षणः ॥ ४९८ ॥
अध्यासादेव संसारो नष्टेऽध्यासे न दृश्यते ।
तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥ ४९९ ॥
बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः ।
प्रवृत्तिरेव संसारो निवृत्तिर्मुक्तिरिष्यते ॥ ५०० ॥
आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः ।
असत्कल्पोऽपि संसारं तनुते रज्जुसर्पवत् ॥ ५०१ ॥
उपाधियोगसाम्येऽपि जीववत्परमात्मनः ।
उपाधिभेदान्नो बन्धस्तत्कार्यमपि किञ्चन ॥ ५०२ ॥
अस्योपाधिः शुद्धसत्त्वप्रधाना
माया यत्र त्वस्य नास्त्यल्पभावः ।
सत्त्वस्यैवोत्कृष्टता तेन बन्धो
नो विक्षेपस्तत्कृतो लेशमात्रः ॥ ५०३ ॥
सर्वज्ञोऽप्रतिबद्धबोधविभवस्तेनैव देवः स्वयं
मायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः ।
सृष्टिस्थित्यदनप्रवेशयमनव्यापारमात्रेच्छया
कुर्वन्क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या स्वया ॥ ५०४ ॥
तस्मादावृतिविक्षेपौ किञ्चित्कर्तुं न शक्नुतः ।
स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ५०५ ॥
तमेव सा धीकर्मेति श्रुतिर्वक्ति महेशितुः ।
निग्रहानुग्रहे शक्तिरावृतिक्षेपयोर्यतः ॥ ५०६ ॥
रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः ।
जीवोपाधौ तथा जीवे तत्कार्यं बलवत्तरम् ॥ ५०७ ॥
तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः ।
सम्प्राप्तः सर्वदा यत्र दुःखं भूयः स ईक्षते ॥ ५०८ ॥
एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः ।
अध्यासमूलमज्ञानमाहुरावृतिलक्षणम् ॥ ५०९ ॥
अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा ।
अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ ५१० ॥
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।
कर्मणः कार्यमेवैषा जन्ममृत्युपरम्परा ॥ ५११ ॥
नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् ।
अज्ञानकार्यं तत्कर्म यतोऽज्ञानेन वर्धते ॥ ५१२ ॥
यद्येन वर्धते तेन नाशस्तस्य न सिध्यति ।
येन यस्य सहावस्था निरोधाय न कल्पते ॥ ५१३ ॥
नाशकत्वं तदुभयोः को नु कल्पयितुं क्षमः ।
सर्वं कर्माविरोध्येव सदाज्ञानस्य सर्वदा ॥ ५१४ ॥
ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिध्यति ।
यस्य प्रध्वस्तजनको यत्संयोगोऽस्ति तत्क्षणे ॥ ५१५ ॥
तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः ।
तमःप्रकाशयोर्यद्वत्परस्परविरोधिता ॥ ५१६ ॥
अज्ञानज्ञानयोस्तद्वदुभयोरेव दृश्यते ।
न ज्ञानेन विना नाशस्तस्य केनापि सिध्यति ॥ ५१७ ॥
तस्मादज्ञानविच्छित्त्यै ज्ञानं सम्पादयेत्सुधीः ।
आत्मानात्मविवेकेन ज्ञानं सिध्यति नान्यथा ॥ ५१८ ॥
युक्त्यात्मानात्मनोऽस्तस्मात्करणीयं विवेचनम् ।
अनात्मन्यात्मताबुद्धिग्रन्थिर्येन विदीर्यते ॥ ५१९ ॥
आत्मानात्मविवेकार्थं विवादोऽयं निरूप्यते ।
येनात्मानात्मनोस्तत्त्वं विविक्तं प्रस्फुटायते ॥ ५२० ॥
मूढा अश्रुतवेदान्ताः स्वयं पण्डितमानिनः ।
ईशप्रसादरहिताः सद्गुरोश्च बहिर्मुखाः ॥ ५२१ ॥
विवदन्ति प्रकारं तं शृणु वक्ष्यामि सादरम् ।
अत्यन्तपामरः कश्चित्पुत्र आत्मेति मन्यते ॥ ५२२ ॥
आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् ।
पुत्रे तु पुष्टे पुष्टोऽहं नष्टे नष्टेऽहमित्यतः ॥ ५२३ ॥
अनुभूतिबलाच्चापि युक्तितोऽपि श्रुतेरपि ।
आत्मा वै पुत्रनामासीत्येवं च वदति श्रुतिः ॥ ५२४ ॥
दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते ।
पितुर्गुणानां तनये बीजाङ्कुरवदीक्षणात् ॥ ५२५ ॥
अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः ।
तन्मतं दूषयत्यन्यः पुत्र आत्मा कथं त्विति ॥ ५२६ ॥
प्रीतिमात्रात्कथं पुत्र आत्मा भवितुमर्हति ।
अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्रधनादिषु ॥ ५२७ ॥
पुत्राद्विशिष्टा देहेऽस्मिन्प्राणिनां प्रीतिरिष्यते ।
प्रदीप्ते भवने पुत्रं त्यक्त्वा जन्तुः पलायते ॥ ५२८ ॥
तं विक्रीणाति देहार्थं प्रतिकूलं निहन्ति च ।
तस्मादात्मा तु तनयो न भवेच्च कदाचन ॥ ५२९ ॥
गुणरूपादिसादृश्यं दीपवन्न सुते पितुः ।
अव्यङ्गाज्जायते व्यङ्गः सुगुणादपि दुर्गुणः ॥ ५३० ॥
आभासमात्रास्ताः सर्वा युक्तयोऽप्युक्तयोऽपि च ।
पुत्रस्य पितृवद्गेहे सर्वकार्येषु वस्तुषु ॥ ५३१ ॥
स्वामित्वद्योतनायास्मिन्नात्मत्वमुपचर्यते ।
श्रुत्या तु मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥ ५३२ ॥
औपचारिकमात्मत्वं पुत्रे तस्मान्न मुख्यतः ।
अहम्पदप्रत्ययार्थो देह एव न चेतरः ॥ ५३३ ॥
प्रत्यक्षः सर्वजन्तूनां देहोऽहमिति निश्चयः ।
एष पुरुषोऽन्नरसमय इत्यपि च श्रुतिः ॥ ५३४ ॥
पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः ।
आत्मायं देह एवेति चार्वाकेण विनिश्चितम् ॥ ५३५ ॥
तन्मतं दूषयत्यन्योऽसहमानः पृथग्जनः ।
देह आत्मा कथं नु स्यात्परतन्त्रो ह्यचेतनः ॥ ५३६ ॥
इन्द्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः क्वचित् ।
आश्रयश्चक्षुरादीनां गृहवद्गृहमेधिनाम् ॥ ५३७ ॥
बाल्यादिनानावस्थावाञ्शुक्लशोणितसम्भवः ।
अतः कदापि देहस्य नात्मत्वमुपपद्यते ॥ ५३८ ॥
बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः ।
इन्द्रियाणि भवन्त्यात्मा येषामस्त्यर्थवेदनम् ॥ ५३९ ॥
इन्द्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम् ।
एतमेत्येत्यूचुरिति श्रुत्यैव प्रतिपाद्यते ॥ ५४० ॥
यतस्तस्मादिन्द्रियाणां युक्तमात्मत्वमित्यमुम् ।
निश्चयं दूषयत्यन्योऽसहमानः पृथग्जनः ॥ ५४१ ॥
इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् ।
करणस्य कुठारादेश्चेतनत्वं न हीक्ष्यते ॥ ५४२ ॥
श्रुत्याधिदेवतामेवेन्द्रियेषूपचर्यते ।
न तु साक्षादिन्द्रियाणां चेतनत्वमुदीर्यते ॥ ५४३ ॥
अचेतनस्य दीपादेरर्थाभासकता यथा ।
तथैव चक्षुरादीनां जडानामपि सिध्यति ॥ ५४४ ॥
इन्द्रियाणां चेष्टयिता प्राणोऽयं पञ्चवृत्तिकः ।
सर्वावस्थास्ववस्थावान्सोऽयमात्मत्वमर्हति ।
अहं क्षुधावांस्तृष्णावानित्याद्यनुभवादपि ॥ ५४५ ॥
श्रुत्यान्योऽन्तर आत्मा प्राणमय इतीर्यते यस्मात् ।
तस्मात्प्राणस्यात्मत्वं युक्तं नो करणसंज्ञानां क्वापि ॥ ५४६ ॥
इति निश्चयमेतस्य दूषयत्यपरो जडः ।
भवत्यात्मा कथं प्राणो वायुरेवैष आन्तरः ॥ ५४७ ॥
बहिर्यात्यन्तरायाति भस्त्रिकावायुवन्मुहुः ।
न हितं वाहितं वा स्वमन्यद्वा वेद किञ्चन ॥ ५४८ ॥
जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा ।
प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥ ५४९ ॥
मनस्तु सर्वं जानाति सर्ववेदनकारणम् ।
यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥ ५५० ॥
सङ्कल्पवानहं चिन्तावानहं च विकल्पवान् ।
इत्याद्यनुभवादन्योऽन्तर आत्मा मनोमयः ॥ ५५१ ॥
इत्यादिश्रुतिसद्भावाद्युक्ता मनस आत्मता ।
इति निश्चयमेतस्य दूषयत्यपरो जडः ॥ ५५२ ॥
कथं मनस आत्मत्वं करणस्य दृगादिवत् ।
कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ ५५३ ॥
करणप्रयोक्ता यः कर्ता तस्यैवात्मत्वमर्हति ।
आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ ५५४ ॥
अहं कर्तास्म्यहं भोक्ता सुखीत्यनुभवादपि ।
बुद्धिरात्मा भवत्येव बुद्धिधर्मो ह्यहङ्कृतिः ॥ ५५५ ॥
अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः ।
मनसोऽपि च भिन्नं विज्ञानमयं कर्तृरूपमात्मानम् ॥ ५५६ ॥
विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च ।
इत्यस्य कर्तृता श्रुत्या मुखतः प्रतिपाद्यते ।
तस्माद्युक्तात्मता बुद्धेरिति बौद्धेन निश्चितम् ॥ ५५७ ॥
प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया ।
तन्निश्चयं दुषयतो बुद्धिरात्मा कथं न्विति ॥ ५५८ ॥
बुद्धेरज्ञानकार्यत्वाद्विनाशित्वात्प्रतिक्षणम् ।
बुद्ध्यादीनां च सर्वेषामज्ञाने लयदर्शनात् ॥ ५५९ ॥
अज्ञोऽहमित्यनुभवादास्त्रीबालादिगोचरात् ।
भवत्यज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५६० ॥
विज्ञानमयादन्यं त्वानन्दमयं परं तथात्मानम् ।
अन्योऽन्तर आत्मानन्दमय इति वदति वेदोऽपि ॥ ५६१ ॥
दुःखप्रत्ययशून्यत्वादानन्दमयता मता ।
अज्ञाने सकलं सुप्तौ बुद्ध्यादि प्रविलीयते ॥ ५६२ ॥
दुःखिनोऽपि सुषुप्तौ त्वानन्दमयता ततः ।
सुप्तौ किञ्चिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ ५६३ ॥
यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् ।
इति तन्निश्चयं भाट्टा दूषयन्ति स्वयुक्तिभिः ॥ ५६४ ॥
कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते ।
ज्ञानाभावे कथं विद्युरज्ञोऽहमिति चाज्ञताम् ।
अस्वाप्सं सुखमेवाहं न जानाम्यत्र किञ्चन ॥ ५६५ ॥
इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते ।
प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥ ५६६ ॥
प्रब्रवीत्युभयात्मत्वमात्मनः स्वयमेव सा ।
आत्मातश्चिज्जडतनुः खद्योत इव सम्मतः ॥ ५६७ ॥
न केवलाज्ञानमयो घटकुड्यादिवज्जडः ।
इति निश्चयमेतेषां दूषयत्यपरो जडः ॥ ५६८ ॥
ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति ।
परस्परविरुद्धत्वात्तेजस्तिमिरवत्तयोः ॥ ५६९ ॥
सामानाधिकरण्यं वा संयोगो वा समाश्रयः ।
तमःप्रकाशवज्ज्ञानाज्ञानयोर्न हि सिध्यति ॥ ५७० ॥
अज्ञानमपि विज्ञानं बुद्धिर्वापि च तद्गुणाः ।
सुषुप्तौ नोपलभ्यन्ते यत्किञ्चिदपि वापरम् ॥ ५७१ ॥
मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते ।
सुषुप्तौ नान्यदस्त्येव नाहमप्यासमित्यनु ॥ ५७२ ॥
सुप्तोत्थितजनैः सर्वैः शून्यमेवानुस्मर्यते ।
यत्ततः शून्यमेवात्मा न ज्ञानाज्ञानलक्षणः ॥ ५७३ ॥
वेदेनाप्यसदेवेदमग्र आसीदिति स्फुटम् ।
निरुच्यते यतस्तस्माच्छून्यस्यैवात्मता मता ॥ ५७४ ॥
असन्नेव घटः पूर्वं जायमानः प्रदृश्यते ।
न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥ ५७५ ॥
यत्तस्मादसतः सर्वं सदिदं समजायत ।
ततः सर्वात्मना शून्यस्यैवात्मत्वं समर्हति ॥ ५७६ ॥
इत्येवं पण्डितंमन्यैः परस्परविरोधिभिः ।
तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभिः ॥ ५७७ ॥
निर्णीतमतजातानि खण्डितान्येव पण्डितैः ।
श्रुतिभिश्चाप्यनुभवैर्बाधकैः प्रतिवादिनाम् ॥ ५७८ ॥
यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः ।
सुसाधितमनात्मत्वं श्रुतियुक्त्यनुभूतिभिः ॥ ५७९ ॥
न हि प्रमाणान्तरबाधितस्य
याथार्थ्यमङ्गीक्रियते महद्भिः ।
पुत्रादिशून्यान्तमनात्मतत्त्व -
मित्येव विस्पष्टमतः सुजातम् ॥ ५८० ॥
शिष्यः -
सुषुप्तिकाले सकले विलीने
शून्यं विना नान्यदिहोपलभ्यते ।
शून्यं त्वनात्मा न ततः परः को -
ऽप्यात्माभिधानस्त्वनुभूयतेऽर्थः ॥ ५८१ ॥
यद्यस्ति चात्मा किमु नोपलभ्यते
सुप्तौ यथा तिष्ठति किं प्रमाणम् ।
किंलक्षणोऽसौ स कथं न बाध्यते
प्रबाध्यमानेष्वहमादिषु स्वयम् ॥ ५८२ ॥
एतत्संशयजातं मे हृदयग्रन्थिलक्षणम् ।
छिन्धि युक्तिमहाखड्गधारया कृपया गुरो ॥ ५८३ ॥
श्रीगुरुः -
अतिसूक्ष्मतरः प्रश्नस्तवायं सदृशो मतः ।
सूक्ष्मार्थदर्शनं सूक्ष्मबुद्धिष्वेव प्रदृश्यते ॥ ५८४ ॥
शृणु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाधुना ।
रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षुभिः ॥ ५८५ ॥
बुद्ध्यादि सकलं सुप्तावनुलीनं स्वकारणे ।
अव्यक्ते वटवद्बीजे तिष्ठत्यविकृतात्मना ॥ ५८६ ॥
तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् ।
क्वचिदङ्कुररूपेण क्वचिद्बीजात्मना वटः ।
कार्यकारणरूपेण यथा तिष्ठत्यदस्तथा ॥ ५८७ ॥
अव्याकृतात्मनावस्थां जगतो वदति श्रुतिः ।
सुषुप्त्यादिषु तद्भेदं तर्ह्यव्याकृतमित्यसौ ॥ ५८८ ॥
इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः ।
जगतो दर्शनं शून्यमिति प्राहुरतद्विदः ॥ ५८९ ॥
नासतः सत उत्पत्तिः श्रूयते न च दृश्यते ।
उदेति नरशृङ्गात्किं खपुष्पात्किं भविष्यति ॥ ५९० ॥
प्रभवति न हि कुम्भोऽविद्यमानो मृदश्चे -
त्प्रभवतु सिकताया वाथवा वारिणो वा ।
न हि भवति च ताभ्यां सर्वथा क्वापि तस्मा -
द्यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभावः ॥ ५९१ ॥
अन्यथा विपरीतं स्यात्कार्यकारणलक्षणम् ।
नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ ५९२ ॥
कथमसतः सज्जायेतेति श्रुत्या निषिध्यते तस्मात् ।
असतः सज्जननं नो घटते मिथ्यैव शून्यशब्दार्थः ॥ ५९३ ॥
अव्यक्तशब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति ।
कथं सिध्यति शून्यत्वं तस्य भ्रान्तिशिरोमणे ॥ ५९४ ॥
सुषुप्तौ शून्यमेवेति केन पुंसा तवेरितम् ।
हेतुनानुमितं केन कथं ज्ञातं त्वयोच्यताम् ॥ ५९५ ॥
इति पृष्टो मूढतमो वदिष्यति किमुत्तरम् ।
नैवानुरूपकं लिङ्गं वक्ता वा नास्ति कश्चन ।
सुषुप्तिस्थितशून्यस्य बोद्धा कोऽन्वात्मनः परः ॥ ५९६ ॥
स्वेनानुभूतं स्वयमेव वक्ति
स्वसुप्तिकाले स्थितशून्यभावम् ।
तत्र स्वसत्तामनवेक्ष्य मूढः
स्वस्यापि शून्यत्वमयं ब्रवीति ॥ ५९७ ॥
अवेद्यमानः स्वयमन्यलोकैः
सौषुप्तिकं धर्ममवैति साक्षात् ।
बुद्ध्याद्यभावस्य च योऽत्र बोद्धा
स एष आत्मा खलु निर्विकारः ॥ ५९८ ॥
यस्येदं सकलं विभाति महसा तस्य स्वयञ्ज्योतिषः
सूर्यस्येव किमस्ति भासकमिह प्रज्ञादि सर्वं जडम् ।
न ह्यर्कस्य विभासकं क्षितितले दृष्टं तथैवात्मनो
नान्यः कोऽप्यनुभासकोऽनुभविता नातः परः कश्चन ॥ ५९९ ॥
येनानुभूयते सर्वं जाग्रत्स्वप्नसुषुप्तिषु ।
विज्ञातारमिमं को नु कथं वेदितुमर्हति ॥ ६०० ॥
सर्वस्य दाहको वह्निर्वह्नेर्नान्योऽस्ति दाहकः ।
यथा तथात्मनो ज्ञातुर्ज्ञाता कोऽपि न दृश्यते ॥ ६०१ ॥
उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः ।
उपलब्ध्यन्तराभावान्नायमात्मोपलभ्यते ॥ ६०२ ॥
बुद्ध्यादिवेद्यविलयादयमेक एव
सुप्तौ न पश्यति शृणोति न वेत्ति किञ्चित् ।
सौषुप्तिकस्य तमसः स्वयमेव साक्षी
भूत्वात्र तिष्ठति सुखेन च निर्विकल्पः ॥ ६०३ ॥
सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः ।
विदुः स्वप्रत्यभिज्ञानमाबालवृद्धसम्मतम् ॥ ६०४ ॥
प्रत्यभिज्ञायमानत्वाल्लिङ्गमात्रानुमापकम् ।
स्मर्यमाणस्य सद्भावः सुखमस्वाप्समित्ययम् ॥ ६०५ ॥
पुरानुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् ।
इत्यादितर्कयुक्तिश्च सद्भावे मानमात्मनः ॥ ६०६ ॥
यत्रात्मनोऽकामयितृत्वबुद्धिः
स्वप्नानपेक्षापि च तत्सुषुप्तम् ।
इत्यात्मसद्भाव उदीर्यतेऽत्र
श्रुत्यापि तस्माच्छ्रुतिरत्र मानम् ॥ ६०७ ॥
अकामयितृता स्वप्नादर्शनं घटते कथम् ।
अविद्यमानस्य तत आत्मास्तित्वं प्रतीयते ॥ ६०८ ॥
एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः ।
आत्मायं केवलः शुद्धः सच्चिदानन्दलक्षणः ॥ ६०९ ॥
सत्त्वचित्त्वानन्दतादिलक्षणं प्रत्यगात्मनः ।
कालत्रयेऽप्यबाध्यत्वं सत्यं नित्यस्वरूपतः ॥ ६१० ॥
शुद्धचैतन्यरूपत्वं चित्त्वं ज्ञानस्वरूपतः ।
अखण्डसुखरूपत्वादानन्दत्वमितीर्यते ॥ ६११ ॥
अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु ।
अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ॥ ६१२ ॥
सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते ।
कदापि नासमित्यस्मादात्मनो नित्यता मता ॥ ६१३ ॥
आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा -
स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि ।
गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मन -
स्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥ ६१४ ॥
प्रतिपदमहमादयो विभिन्नाः
क्षणपरिणामितया विकारिणस्ते ।
न परिणतिरमुष्य निष्कलत्वा -
दयमविकार्यत एव नित्य आत्मा ॥ ६१५ ॥
यः स्वप्नमद्राक्षमहं सुखं यो -
ऽस्वाप्सं स एवास्म्यथ जागरूकः ।
इत्येवमच्छिन्नतयानुभूयते
सत्तात्मनो नास्ति हि संशयोऽत्र ॥ ६१६ ॥
श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः ।
निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ॥ ६१७ ॥
जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः ।
बुद्ध्यादिभासकस्तस्माच्चित्स्वरूपस्तथा मतः ॥ ६१८ ॥
कुड्यादेस्तु जडस्य नैव घटते भानं स्वतः सर्वदा
सूर्यादिप्रभया विना क्वचिदपि प्रत्यक्षमेतत्तथा ।
बुद्ध्यादेरपि न स्वतोऽस्त्यणुरपि स्फूर्तिर्विनैवात्मना
सोऽयं केवलचिन्मयश्रुतिमतो भानुर्यथा रुङ्मयः ॥ ६१९ ॥
स्वभासने वान्यपदार्थभासने
नार्कः प्रकाशान्तरमीषदिच्छति ।
स्वबोधने वाप्यहमादिबोधने
तथैव चिद्धातुरयं परात्मा ॥ ६२० ॥
अन्यप्रकाशं न किमप्यपेक्ष्य
यतोऽयमाभाति निजात्मनैव ।
ततः स्वयञ्ज्योतिरयं चिदात्मा
न ह्यात्मभाने परदीप्त्यपेक्षा ॥ ६२१ ॥
यं न प्रकाशयति किञ्चिदिनोऽपि चन्द्रः
नो विद्युतः किमुत वह्निरयं मिताभः ।
यं भान्तमेतमनुभाति जगत्समस्तं
सोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥ ६२२ ॥
आत्मनः सुखरूपत्वादानन्दत्वं स्वलक्षणम् ।
परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ ६२३ ॥
सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते ।
कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥ ६२४ ॥
क्षीणेन्द्रियस्य जीर्णस्य सम्प्राप्तोत्क्रमणस्य वा ।
अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६२५ ॥
आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् ।
यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥ ६२६ ॥
एष एव प्रियतमः पुत्रादपि धनादपि ।
अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥ ६२७ ॥
प्रियत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् ।
विपत्तावपि सम्पत्तौ यथात्मा न तथापरः ॥ ६२८ ॥
आत्मा खलु प्रियतमोऽसुभृतां यदर्था
भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः ।
वाणिज्यकर्षणगवावनराजसेवा -
भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६२९ ॥
प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् ।
आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६३० ॥
तस्मादात्मा केवलानन्दरूपो
यः सर्वस्माद्वस्तुनः प्रेष्ठ उक्तः ।
यो वा अस्मान्मन्यतेऽन्यं प्रियं यं
सोऽयं तस्माच्छोकमेवानुभुङ्क्ते ॥ ६३१ ॥
शिष्यः -
अपरः क्रियते प्रश्नो मयायं क्षम्यतां प्रभो ।
अज्ञवागपराधाय कल्पते न महात्मनाम् ॥ ६३२ ॥
आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता ।
आत्मनः सुखमाशास्यं यतते सकलो जनः ॥ ६३३ ॥
आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् ।
एष मे संशयः स्वामिन् कृपयैव निरस्यताम् ॥ ६३४ ॥
श्रीगुरुः -
आनन्दरूपमात्मानमज्ञात्वैव पृथग्जनः ।
बहिःसुखाय यतते न तु कश्चिद्विदन्बुधः ॥ ६३५ ॥
अज्ञात्वैव हि निक्षेपं
भिक्षामटति दुर्मतिः ।
स्ववेश्मनि निधिं ज्ञात्वा
को नु भिक्षामटेत्सुधीः ॥ ६३६ ॥
स्थूलं च सूक्ष्मं च वपुः स्वभावतो
दुःखात्मकं स्वात्मतया गृहीत्वा ।
विस्मृत्य च स्वं सुखरूपमात्मनो
दुःखप्रदेभ्यः सुखमज्ञ इच्छति ॥ ६३७ ॥
न हि दुःखप्रदं वस्तु सुखं दातुं सर्महति ।
किं विषं पिबतो जन्तोरमृतत्वं प्रयच्छति ॥ ६३८ ॥
आत्मान्यः सुखमन्यच्चेत्येवं निश्चित्य पामरः ।
बहिःसुखाय यतते सत्यमेव न संशयः ॥ ५३९ ॥
इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु ।
प्रतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥ ६४० ॥
स वस्तुधर्मो नो यस्मान्मनस्येवोपलभ्यते ।
वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥ ६४१ ॥
अन्यत्र त्वन्यधर्माणामुपलम्भो न दृश्यते ।
तस्मान्न वस्तुधर्मोऽयमानन्दस्तु कदाचन ॥ ६४२ ॥
नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् ।
असति व्यञ्जके व्यङ्ग्यं नोदेतीति न मन्यताम् ॥ ६४३ ॥
सत्यर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः ।
सत्यपि व्यञ्जके व्यङ्ग्यानुदयो नैव सम्मतः ॥ ६४४ ॥
दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् ।
प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिध्यति ॥ ६४५ ॥
तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः ।
किं तु पुण्यस्य सांनिध्यादिष्टस्यापि च वस्तुनः ॥ ६४६ ॥
सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिम्बति ।
आनन्दलक्षणः स्वच्छे पयसीव सुधाकरः ॥ ६४७ ॥
सोऽयमाभास आनन्दश्चित्ते यः प्रतिबिम्बितः ।
पुण्योत्कर्षापकर्षाभ्यां भवत्युच्चावचः स्वयम् ॥ ६४८ ॥
सार्वभौमादिब्रह्मान्तं श्रुत्या यः प्रतिपादितः ।
स क्षयिष्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥ ६४९ ॥
यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः ।
ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥ ६५० ॥
दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् ।
सुखं विषयसम्पृक्तं विषसम्पृक्तभक्तवत् ॥ ६५१ ॥
भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति ।
सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ ६५२ ॥
भोगकाले भवेन्नॄणां ब्रह्मादिपदभागिनाम् ।
राजस्थानप्रविष्टानां तारतम्यं मतं यथा ॥ ६५३ ॥
तथैव दुःखं जन्तूनां ब्रह्मादिपदभागिनाम् ।
न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६५४ ॥
यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः ।
शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ॥ ६५५ ॥
लक्ष्यते प्रतिबिम्बेनाभासानन्देन बिम्बवत् ।
प्रतिबिम्बो बिम्बमूलो विना बिम्बं न सिध्यति ॥ ६५६ ॥
यत्ततो बिम्ब आनन्दः प्रतिबिम्बेन लक्ष्यते ।
युक्त्यैव पण्डितजनैर्न कदाप्यनुभूयते ॥ ६५७ ॥
अविद्याकार्यकरणसङ्घातेषु पुरोदितः ।
आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः ॥ ६५८ ॥
स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः ।
लये सुषुप्तौ स्फुरति प्रत्यगानन्दलक्षणः ॥ ६५९ ॥
न ह्यत्र विषयः कश्चिन्नापि बुद्ध्यादि किञ्चन ।
आत्मैव केवलानन्दमात्रस्तिष्ठति निर्द्वयः ॥ ६६० ॥
प्रत्यभिज्ञायते सर्वैरेष सुप्तोत्थितैर्जनैः ।
सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ ६६१ ॥
त्वयापि प्रत्यभिज्ञातं सुखमात्रत्वमात्मनः ।
सुषुप्तादुत्थितवता सुखमस्वाप्समित्यनु ॥ ६६२ ॥
दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना ।
अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ ६६३ ॥
दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते ।
सुखलेशोऽपि सर्वेषां प्रत्यक्षं तदिदं खलु ॥ ६६४ ॥
सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः ।
सद्घनोऽयं चिद्घनोऽयमानन्दघन इत्यपि ॥ ६६५ ॥
आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः ।
धन्यैर्महात्मभिर्धीरैर्ब्रह्मविद्भिः सदुत्तमैः ॥ ६६६ ॥
अपरोक्षतयैवात्मा समाधावनुभूयते ।
केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥ ६६७ ॥
स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजन्तवः ।
उपजीवन्त्यमुष्येव मात्रामानन्दलक्षणाम् ॥ ६६८ ॥
आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः ।
स गुडस्यैव नो तेषां माधुर्यं विद्यते क्वचित् ॥ ६६९ ॥
तद्वद्विषयसांनिध्यादानन्दो यः प्रतीयते ।
बिम्बानन्दांशविस्फूर्तिरेवासौ न जडात्मनाम् ॥ ६७० ॥
यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते ।
आनन्दः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥ ६७१ ॥
यथा कुवलयोल्लासश्चन्द्रस्यैव प्रसादतः ।
तथानन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥ ६७२ ॥