सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः
० विभागः
सत्त्वं चित्त्वं तथानन्दस्वरूपं परमात्मनः ।
निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥ ६७३ ॥
विशेषणं तु व्यावृत्त्यै भवेद्द्रव्यान्तरे सति ।
परमात्माद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥ ६७४ ॥
वस्त्वन्तरस्याभावेन न व्यावृत्त्यः कदाचन ।
केवलो निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ ६७५ ॥
श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते ।
उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥ ६७६ ॥
सत्त्वचित्त्वानन्दतादि स्वरूपमिति निश्चितम् ।
अत एव सजातीयविजातीयादिलक्षणः ॥ ६७७ ॥
भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि ।
प्रपञ्चस्यापवादेन विजातीयकृता भिदा ॥ ६७८ ॥
नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् ।
अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥ ६७९ ॥
विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् ।
अपवाद इति प्राहुरद्वैतब्रह्मदर्शिनः ॥ ६८० ॥
व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः ।
प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ ६८१ ॥
चतुर्विधं स्थूलशरीरजातं
तद्भोज्यमन्नादि तदाश्रयादि ।
ब्रह्माण्डमेतत्सकलं स्थविष्ठ -
मीक्षेत पञ्चीकृतभूतमात्रम् ॥ ६८२ ॥
यत्कार्यरूपेण यदीक्ष्यते त -
त्तन्मात्रमेवात्र विचार्यमाणे ।
मृत्कार्यभूतं कलशादि सम्य -
ग्विचारितं सन्न मृदो विभिद्यते ॥ ६८३ ॥
अन्तर्बहिश्चापि मृदेव दृश्यते
मृदो न भिन्नं कलशादि किञ्चन ।
ग्रीवादिमद्यत्कलशं तदित्थं
न वाच्यमेतच्च मृदेव नान्यत् ॥ ६८४ ॥
स्वरूपतस्तत्कलशादिनाम्ना
मृदेव मूढैरभिधीयते ततः ।
नाम्नो हि भेदो न तु वस्तुभेदः ।
प्रदृश्यते तत्र विचार्यमाणे ॥ ६८५ ॥
तस्माद्धि कार्यं न कदापि भिन्नं
स्वकारणादस्ति यतस्ततोऽङ्ग ।
यद्भौतिकं सर्वमिदं तथैव
तद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६८६ ॥
तच्चापि पञ्चीकृतभूतजातं
शब्दादिभिः स्वस्वगुणैश्च सार्धम् ।
वपूंषि सूक्ष्माणि च सर्वमेत -
द्भवत्यपञ्चीकृतभूतमात्रम् ॥ ६८७ ॥
तदप्यपञ्चीकृतभूतजातं
रजस्तमःसत्त्वगुणैश्च सार्धम् ।
अव्यक्तमात्रं भवति स्वरूपतः
साभासमव्यक्तमिदं स्वयं च ॥ ६८८ ॥
आधारभूतं यदखण्डमाद्यं
शुद्धं परं ब्रह्म सदैकरूपम् ।
सन्मात्रमेवास्त्यथ नो विकल्पः
सतः परं केवलमेव वस्तु ॥ ६८९ ॥
एकश्चन्द्रः सद्वितीयो यथा स्या -
द्दृष्टेर्दोषादेव पुंसस्तथैकम् ।
ब्रह्मास्त्येतद्बुद्धिदोषेण नाना
दोषे नष्टे भाति वस्त्वेकमेव ॥ ६९० ॥
रज्जोः स्वरूपाधिगमे न सर्पधी
रज्ज्वां विलीना तु यथा तथैव ।
ब्रह्मावगत्या तु जगत्प्रतीति -
स्तत्रैव लीना तु सह भ्रमेण ॥ ६९१ ॥
भ्रान्त्योदितद्वैतमतिप्रशान्त्या
सदैकमेवास्ति सदाद्वितीयम् ।
ततो विजातीयकृतोऽत्र भेदो
न विद्यते ब्रह्मणि निर्विकल्पे ॥ ६९२ ॥
यदास्त्युपाधिस्तदभिन्न आत्मा
तदा सजातीय इवावभाति ।
स्वप्नार्थतस्तस्य मृषात्मकत्वा -
त्तदप्रतीतौ स्वयमेष आत्मा ।
ब्रह्मैक्यतामेति पृथङ् न भाति
ततः सजातीयकृतो न भेदः ॥ ६९३ ॥
घटाभावे घटाकाशो महाकाशो यथा तथा ।
उपाध्यभावे त्वात्मैष स्वयं ब्रह्मैव केवलम् ॥ ६९४ ॥
पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि ।
नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥ ६९५ ॥
अच्छिन्नश्छिन्नवद्भाति पामराणां घटादिना ।
ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ॥ ६९६ ॥
तथैव परमं ब्रह्म महतां च महत्तमम् ।
परिच्छिन्नमिवाभाति भ्रान्त्या कल्पितवस्तुना ॥ ६९७ ॥
तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः ।
अत एव मुहुः श्रुत्याप्येकत्वं प्रतिपाद्यते ॥ ६९८ ॥
ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये ।
प्रत्यक्षादिविरोधेन वाच्ययोर्नोपयुज्यते ।
तत्त्वम्पदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति ॥ ६९९ ॥
शिष्यः -
स्यात्तत्त्वम्पदयोः स्वामिन्नर्थः कतिविधो मतः ।
पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ७०० ॥
वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते ।
लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥ ७०१ ॥
एकत्वकथने का वा लक्षणात्रोररीकृता ।
एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ७०२ ॥
श्रीगुरुः -
शृणुष्वावहितो विद्वन् अद्य ते फलितं तपः ।
वाक्यार्थश्रुतिमात्रेण सम्यग्ज्ञानं भविष्यति ॥ ७०३ ॥
यावन्न तत्त्वम्पदयोरर्थः सम्यग्विचार्यते ।
तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥ ७०४ ॥
अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी ।
मोक्षः सिध्यति वाक्यार्थापरोक्षज्ञानतः सताम् ॥ ७०५ ॥
वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये ।
तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥ ७०६ ॥
अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः ।
वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥ ७०७ ॥
वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम् ।
तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ ७०८ ॥
शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा ।
वाच्यार्थं ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥ ७०९ ॥
समष्टिरूपमज्ञानं साभासं सत्त्वबृंहितम् ।
वियदादिविराडन्तं स्वकार्येण समन्वितम् ॥ ७१० ॥
चैतन्यं तदवच्छिन्नं सत्यज्ञानादिलक्षणम् ।
सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ ७११ ॥
जगत्स्रष्टृत्वपातृत्वसंहर्तृत्वादिधर्मकम् ।
सर्वात्मना भासमानं यदमेयं गुणैश्च तत् ॥ ७१२ ॥
अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते ।
नीलमुत्पलमित्यत्र यथा वाक्यार्थसङ्गतिः ॥ ७१३ ॥
तथा तत्त्वमसीत्यत्र नास्ति वाक्यार्थसङ्गतिः ।
पटाद्व्यावर्तते नील उत्पलेन विशेषितः ॥ ७१४ ॥
शौक्ल्याद्व्यावर्तते नीलेनोत्पलं तु विशेषितम् ।
इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ ७१५ ॥
विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा ।
वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ ७१६ ॥
अतः सङ्गच्छते सम्यग्वाक्यार्थो बाधवर्जितः ।
एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ ७१७ ॥
तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि ।
त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ ७१८ ॥
तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः ।
विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ ७१९ ॥
वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः ।
सङ्गच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ॥ ७२० ॥
सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः ।
सर्वोत्तमः सत्यकामः सत्यसङ्कल्प ईश्वरः ॥ ७२१ ॥
तत्पदार्थस्त्वमर्थस्तु किञ्चिज्ज्ञो दुःखजीवनः ।
संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥ ७२२ ॥
कथमेकत्वमनयोर्घटते विपरीतयोः ।
प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥ ७२३ ॥
विरुद्धधर्माक्रान्ततत्वात्परस्परविलक्षणौ ।
जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥ ७२४ ॥
प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते ।
श्रुतिवचनविरोधो भवति महान्स्मृतिवचनविरोधश्च ॥ ७२५ ॥
श्रुत्याप्येकत्वमनयोस्तात्पर्येण निगद्यते ।
मुहुस्तत्त्वमसीत्यस्मादङ्गीकार्यं श्रुतेर्वचः ॥ ७२६ ॥
वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः ।
अयथार्थतया सोऽयं वाक्यार्थो न मतः श्रुतेः ॥ ७२७ ॥
अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसम्मतः ।
स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनः पुनः ॥ ७२८ ॥
दर्शयित्वा सुषुप्तौ तद्ब्रह्माभिन्नत्वमात्मनः ।
उपपाद्य सदैकत्वं प्रदर्शयितुमिच्छया ॥ ७२९ ॥
ऐतदात्म्यमिदं सर्वमित्युक्त्यैव सदात्मनोः ।
ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ७३० ॥
सति प्रपञ्चे जीवे वाद्वैतत्वं ब्रह्मणः कुतः ।
अतस्तयोरखण्डत्वमेकत्वं श्रुतिसम्मतम् ॥ ७३१ ॥
विरुद्धांशपरित्यागात्प्रत्यक्षादिर्न बाधते ।
अविरुद्धांशग्रहणान्न श्रुत्यापि विरुध्यते ॥ ७३२ ॥
लक्षणा ह्युपगन्तव्या ततो वाक्यार्थसिद्धये ।
वाच्यार्थानुपपत्त्यैव लक्षणाभ्युपगम्यते ॥ ७३३ ॥
सम्बन्धानुपपत्त्या च लक्षणेति जगुर्बुधाः ।
गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥ ७३४ ॥
न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते ।
गङ्गाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥ ७३५ ॥
सर्वो विरुद्धवाक्यार्थस्तत्र प्रत्यक्षतस्ततः ।
गङ्गासम्बन्धवत्तीरे लक्षणा सम्प्रवर्तते ॥ ७३६ ॥
तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे ।
विवक्षिते तु वाक्यार्थेऽपरोक्षत्वादिलक्षणः ॥ ७३७ ॥
विरुध्यते भागमात्रो न तु सर्वो विरुध्यते ।
तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ ७३८ ॥
वाच्यार्थस्य तु सर्वस्य त्यागे न फलमीक्ष्यते ।
नालिकेरफलस्येव कठिनत्वधिया नृणाम् ॥ ७३९ ॥
गङ्गापदं यथा स्वार्थं त्यक्त्वा लक्षयते तटम् ।
तत्पदं त्वम्पदं वापि त्यक्त्वा स्वार्थं यथाखिलम् ॥ ७४० ॥
तदर्थं वा त्वमर्थं वा यदि लक्षयति स्वयम् ।
तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ ७४१ ॥
न शङ्कनीयमित्यार्यैर्ज्ञातार्थे न हि लक्षणा ।
तत्पदं त्वम्पदं वापि श्रूयते च प्रतीयते ॥ ७४२ ॥
तदर्थे च कथं तत्र सम्प्रवर्तेत लक्षणा ।
अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ ७४३ ॥
अजहल्लक्षणा वापि सा जहल्लक्षणा यथा ।
गुणस्य गमनं लोके विरुद्धं द्रव्यमन्तरा ॥ ७४४ ॥
अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः ।
लक्ष्यादिर्लक्ष्यते तत्र लक्षणासौ प्रवर्तते ॥ ७४५ ॥
वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके ।
परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ॥ ७४६ ॥
एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् ।
न सिध्यति यतस्तस्मान्नाजहल्लक्षणा मता ॥ ७४७ ॥
तत्पदं त्वम्पदं चापि स्वकीयार्थविरोधिनम् ।
अंशं सम्यक्परित्यज्य स्वाविरुद्धांशसंयुतम् ॥ ७४८ ॥
तदर्थं वा त्वमर्थं वा सम्यग्लक्षयतः स्वयम् ।
भागलक्षणया साध्यं किमस्तीति न शङ्क्यताम् ॥ ७४९ ॥
अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् ।
एकं पदं लक्षणया संलक्षयितुमर्हति ॥ ७५० ॥
पदान्तरेण सिद्धायां पदार्थप्रमितौ स्वतः ।
तदर्थप्रत्ययापेक्षा पुनर्लक्षणया कुतः ॥ ७५१ ॥
तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा ।
वाक्यार्थसत्त्वाखण्डैकरसतासिद्धये मता ॥ ७५२ ॥
भागं विरुद्धं सन्त्यज्याविरोधो लक्ष्यते यदा ।
सा भागलक्षणेत्याहुर्लक्षणज्ञा विचक्षणाः ॥ ७५३ ॥
सोऽयं देवदत्त इति वाक्यं वाक्यार्थ एव वा ।
देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ ७५४ ॥
देशकालादिवैशिष्ट्यं विरुद्धांशं निरस्य च ।
अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥ ७५५ ॥
भागलक्षणया सम्यग्लक्षयत्यनया यथा ।
तथा तत्त्वमसीत्यत्र वाक्यं वाक्यार्थ एव वा ॥ ७५६ ॥
परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ।
एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥ ७५७ ॥
परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् ।
बुद्ध्यादिस्थूलपर्यन्तमाविद्यकमनात्मकम् ॥ ७५८ ॥
परित्यज्य विरुद्धांशं शुद्धचैतन्यलक्षणम् ।
वस्तु केवलसन्मात्रं निर्विकल्पं निरञ्जनम् ॥ ७५९ ॥
लक्षयत्यनया सम्यग्भागलक्षणया ततः ।
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् ॥ ७६० ॥
निर्विशेषं निराभासमतादृशमनीदृशम् ।
अनिर्देश्यमनाद्यन्तमनन्तं शान्तमच्युतम् ।
अप्रतर्क्यमविज्ञेयं निर्गुणं ब्रह्म शिष्यते ॥ ७६१ ॥
उपाधिवैशिष्ट्यकृतो विरोधो
ब्रह्मात्मनोरेकतयाधिगत्या ।
उपाधिवैशिष्ट्य उदस्यमाने
न कश्चिदप्यस्ति विरोध एतयोः ॥ ७६२ ॥
तयोरुपाधिश्च विशिष्टता च
तद्धर्मभाक्त्वं च विलक्षणत्वम् ।
भ्रान्त्या कृतं सर्वमिदं मृषैव
स्वप्नार्थवज्जाग्रति नैव सत्यम् ॥ ७६३ ॥
निद्रासूतशरीरधर्मसुखदुःखादिप्रपञ्चोऽपि वा
जीवेशादिभिदापि वा न च ऋतं कर्तुं क्वचिच्छक्यते ।
मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशः
को भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ॥ ७६४ ॥
न स्वप्नजागरणयोरुभयोर्विशेषः
सन्दृश्यते क्वचिदपि भ्रमजैर्विकल्पैः ।
यद्दृष्टदर्शनमुखैरत एव मिथ्या
स्वप्नो यथा ननु तथैव हि जागरोऽपि ॥ ७६५ ॥
अविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ ।
दृष्टदर्शनदृश्यादिकल्पनोभयतः समा ॥ ७६६ ॥
अभाव उभयोः सुप्तौ सर्वैरप्यनुभूयते ।
न कश्चिदनयोर्भेदस्तस्मान्मिथ्यात्वमर्हतः ॥ ७६७ ॥
भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः ।
कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८ ॥
यत्र नान्यत्पश्यतीति श्रुतिर्द्वैतं निषेधति ।
कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९ ॥
यतस्ततो ब्रह्म सदाद्वितीयं
विकल्पशून्यं निरुपाधि निर्मलम् ।
निरन्तरानन्दघनं निरीहं
निरास्पदं केवलमेकमेव ॥ ७७० ॥
नैवास्ति काचन भिदा न गुणप्रतीति -
र्नो वाक्प्रवृत्तिरपि वा न मनःप्रवृत्तिः ।
यत्केवलं परमशान्तमनन्तमाद्य -
मानन्दमात्रमवभाति सदद्वितीयम् ॥ ७७१ ॥
यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् ।
अजरामरणं नित्यं सत्यमेतद्वचो मम ॥ ७७२ ॥
न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरो
मनो वा बुद्धिर्वा क्वचिदपि तथाहङ्कृतिरपि ।
न चैषां सङ्घातस्त्वमु भवति विद्वन् शृणु परं
यदेतेषां साक्षी स्फुरणममलं तत्त्वमसि हि ॥ ७७३ ॥
यज्जायते वस्तु तदेव वर्धते
तदेव मृत्युं समुपैति काले ।
जन्मैव तेनास्ति तथैव मृत्यु -
र्नास्त्येव नित्यस्य विभोरजस्य ॥ ७७४ ॥
य एष देहो जनितः स एव
समेधते नश्यति कर्मयोगात् ।
त्वमेतदीयास्वखिलास्वववस्था -
स्ववस्थितः साक्ष्यसि बोधमात्रः ॥ ७७५ ॥
यत्स्वप्रकाशमखिलात्मकमासुषुप्ते -
रेकात्मनाहमहमित्यवभाति नित्यम् ।
बुद्धेः समस्तविकृतेरविकारि बोद्धृ
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७६ ॥
स्वात्मन्यनस्तमयसंविदि कल्पितस्य
व्योमादिसर्वजगतः प्रददाति सत्ताम् ।
स्फूर्तिं स्वकीयमहसा वितनोति साक्षा -
द्यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७७ ॥
सम्यक्समाधिनिरतैर्विमलान्तरङ्गे
साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् ।
सन्तुष्यते परमहंसकुलैरजस्रं
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७८ ॥
अन्तर्बहिः स्वयमखण्डितमेकरूप -
मारोपितार्थवदुदञ्चति मूढबुद्धेः ।
मृत्स्नादिवद्विगतविक्रियमात्मवेद्यं
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७९ ॥
श्रुत्युक्तमव्ययमनन्तमनादिमध्य -
मव्यक्तमक्षरमनाश्रयमप्रमेयम् ।
आनन्दसद्घनमनामयमद्वितीयं
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७८० ॥
शरीरतद्योगतदीयधर्मा -
द्यारोपणं भ्रान्तिवशात्त्वयीदम् ।
न वस्तुतः किञ्चिदतस्त्वजस्त्वं
मृत्योर्भयं क्वास्ति तवासि पूर्णः ॥ ७८१ ॥
यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्ट्या
तत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव ।
त्वत्तो नान्यद्वस्तु किञ्चित्तु लोके
कस्माद्भीतिस्ते भवेदद्वयस्य ॥ ७८२ ॥
पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् ।
भयं स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥ ७८३ ॥
तस्मात्त्वमभयं नित्यं केवलानन्दलक्षणम् ।
निष्कलं निष्क्रियं शान्तं ब्रह्मैवासि सदाद्वयम् ॥ ७८४ ॥
ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् ।
ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८५ ॥
अन्तःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तद्दृशिमात्रम् ।
सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८६ ॥
सर्वाकारं सर्वमसर्वं सर्वनिषेधावधिभूतं यत् ।
सत्यं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८७ ॥
नित्यानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम् ।
प्रत्यगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८८ ॥
त्वं प्रत्यस्ताशेषविशेषं व्योमेवान्तर्बहिरपि पूर्णम् ।
ब्रह्मानन्दं परमद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८९ ॥
ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम् ।
इत्येवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ ७९० ॥
अखण्डामेवैतां घटितपरमानन्दलहरीं
परिध्वस्तद्वैतप्रमितिममलां वृत्तिमनिशम् ।
अमुञ्चानः स्वात्मन्यनुपमसुखे ब्रह्मणि परे
रमस्व प्रारब्धं क्षपय सुखवृत्त्या त्वमनया ॥ ७९१ ॥
ब्रह्मानन्दरसास्वादतत्परेणैव चेतसा ।
समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्सदा मुने ॥ ७९२ ॥
शिष्यः -
अखण्डाख्या वृत्तिरेषा वाक्यार्थश्रुतिमात्रतः ।
श्रोतुः सञ्जायते किं वा क्रियान्तरमपेक्षते ॥ ७९३ ॥
समाधिः कः कतिविधस्तत्सिद्धेः किमु साधनम् ।
समाधेरन्तरायाः के सर्वमेतन्निरूप्यताम् ॥ ७९४ ॥
श्रीगुरुः -
मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः ।
तेषां प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यते ॥ ७९५ ॥
श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वरं कर्मणा
सन्तोष्यार्जिततत्प्रसादमहिमा जन्मान्तरेष्वेव यः ।
नित्यानित्यविवेकतीव्रविरतिन्यासादिभिः साधनै -
र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥ ७९६ ॥
अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्त्रा
वाक्यार्थे बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य ।
नित्यानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकं
तद्ब्रह्मैवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥ ७९७ ॥
अखण्डाकारवृत्तिः सा चिदाभाससमन्विता ।
आत्माभिन्नं परं ब्रह्म विषयीकृत्य केवलम् ॥ ७९८ ॥
बाधते तद्गताज्ञानं यदावरणलक्षणम् ।
अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥ ७९९ ॥
तत्कार्यं सकलं तेन समं भवति बाधितम् ।
तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥ ८०० ॥
तस्य कार्यतया जीववृत्तिर्भवति बाधिता ।
उपप्रभा यथा सूर्यं प्रकाशयितुमक्षमा ॥ ८०१ ॥
तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् ।
स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥ ८०२ ॥
प्रचण्डातपमध्यस्थदीपवन्नष्टदीधितिः ।
तत्तेजसाभिभूतं सल्लीनोपाधितया ततः ॥ ८०३ ॥
बिम्बभूतपरब्रह्ममात्रं भवति केवलम् ।
यथापनीते त्वादर्शे प्रतिबिम्बमुखं स्वयम् ॥ ८०४ ॥
मुखमात्रं भवेत्तद्वदेतच्चोपाधिसङ्क्षयात् ।
घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ ८०५ ॥
घटं विस्फुरयत्येष चिदाभासः स्वतेजसा ।
न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥ ८०६ ॥
अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् ।
न फलव्याप्यता तेन न विरोधः परस्परम् ॥ ८०७ ॥
श्रुत्योदितं ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया ।
प्रज्ञामान्द्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥ ८०८ ॥
स्यादखण्डाकारवृत्तिर्विना तु मननादिना ।
श्रवणान्मननाद्ध्यानात्तात्पर्येण निरन्तरम् ॥ ८०९ ॥
बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते ।
मन्दप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥ ८१० ॥
श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये ।
सर्ववेदान्तवाक्यानां षड्भिर्लिङ्गैः सदद्वये ॥ ८११ ॥
परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः ।
श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥ ८१२ ॥
वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् ।
मननं तच्छ्रुतार्थस्य साक्षात्करणकारणम् ॥ ८१३ ॥
विजातीयशरीरादिप्रत्ययत्यागपूर्वकम् ।
सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥ ८१४ ॥
तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिष्यते ।
तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥ ८१५ ॥
प्रमाणसंशयो यावत्स्वबुद्धेर्न निवर्तते ।
प्रमेयसंशयो यावत्तावत्तु श्रुतियुक्तिभिः ॥ ८१६ ॥
आत्मयाथार्थ्यनिश्चित्त्यै कर्तव्यं मननं मुहुः ।
विपरीतात्मधीर्यावन्न विनश्यति चेतसि ।
तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता ॥ ८१७ ॥
यावन्न तर्केण निरासितोऽपि
दृश्यप्रपञ्चस्त्वपरोक्षबोधात् ।
विलीयते तावदमुष्य भिक्षो -
र्ध्यानादि सम्यक्करणीयमेव ॥ ८१८ ॥
सविकल्पो निर्विकल्प इति द्वेधा निगद्यते ।
समाधिः सविकल्पस्य लक्षणं वच्मि तच्छृणु ॥ ८१९ ॥
ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले ।
तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥ ८२० ॥
सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः ।
मृद एवावभानेऽपि मृण्मयद्विपभानवत् ॥ ८२१ ॥
सन्मात्रवस्तुभानेऽपि त्रिपुटी भाति सन्मयी ।
समाधिरत एवायं सविकल्प इतीर्यते ॥ ८२२ ॥
ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा ।
मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥ ८२३ ॥
जले निक्षिप्तलवणं जलमात्रतया स्थितम् ।
पृथङ् न भाति किं न्वम्भ एकमेवावभासते ॥ ८२४ ॥
यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता ।
पृथङ् न भाति ब्रह्मैवाद्वितीयमवभासते ॥ ८२५ ॥
ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः ।
वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥ ८२६ ॥
समाधिसुप्त्योर्ज्ञानं चाज्ञानं सुप्त्यात्र नेष्यते ।
सविकल्पो निर्विकल्पः समाधी द्वाविमौ हृदि ॥ ८२७ ॥
मुमुक्षोर्यत्नतः कार्यौ विपरीतनिवृत्तये ।
कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥ ८२८ ॥
ज्ञानस्याप्रतिबद्धत्वं सदानन्दश्च सिध्यति ।
दृश्यानुविद्धः शब्दानुविद्धश्चेति द्विधा मतः ॥ ८२९ ॥
सविकल्पस्तयोर्यत्तल्लक्षणं वच्मि तच्छृणु ।
कामादिप्रत्ययैर्दृश्यैः संसर्गो यत्र दृश्यते ॥ ८३० ॥
सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः ।
अहंममेदमित्यादिकामक्रोधादिवृत्तयः ॥ ८३१ ॥
दृश्यन्ते येन सन्दृष्टा दृश्याः स्युरहमादयः ।
कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ॥ ८३२ ॥
साक्षिणं स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः ।
कामादीनामहं साक्षी दृश्यन्ते ते मया ततः ॥ ८३३ ॥
इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् ।
दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ ८३४ ॥
नाहं देहो नाप्यसुर्नाक्षवर्गो
नाहङ्कारो नो मनो नापि बुद्धिः ।
अन्तस्तेषां चापि तद्विक्रियाणां
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३५ ॥
वाचः साक्षी प्राणवृत्तेश्च साक्षी
बुद्धेः साक्षी बुद्धिवृत्तेश्च साक्षी ।
चक्षुःश्रोत्रादीन्द्रियाणां च साक्षी
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३६ ॥
नाहं स्थूलो नापि सूक्ष्मो न दीर्घो
नाहं बालो नो युवा नापि वृद्धः ।
नाहं काणो नापि मूको न षण्डः
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३७ ॥
नास्म्यागन्ता नापि गन्ता न हन्ता
नाहं कर्ता न प्रयोक्ता न वक्ता ।
नाहं भोक्ता नो सुखी नैव दुःखी
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३८ ॥
नाहं योगी नो वियोगी न रागी
नाहं क्रोधी नैव कामी न लोभी ।
नाहं बद्धो नापि युक्तो न मुक्तः
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३९ ॥
नान्तःप्रज्ञो न बहिःप्रज्ञको वा
नैव प्रज्ञो नापि चाप्रज्ञ एषः ।
नाहं श्रोता नापि मन्ता न बोद्धा
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८४० ॥
न मेऽस्ति देहेन्द्रियबुद्धियोगो
न पुण्यलेशोऽपि न पापलेशः ।
क्षुधापिपासादिषडूर्मिदूरः
सदा विमुक्तोऽस्मि चिदेव केवलः ॥ ८४१ ॥
अपाणिपादोऽहमवागचक्षुः
अप्राण एवास्म्यमना ह्यबुद्धिः ।
व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मि
सदैकरूपोऽस्मि चिदेव केवलः ॥ ८४२ ॥
इति स्वमात्मानमवेक्षमाणः
प्रतीतदृश्यं प्रविलापयन्सदा ।
जहाति विद्वान्विपरीतभावं
स्वाभाविकं भ्रान्तिवशात्प्रतीतम् ॥ ८४३ ॥
विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते ।
सदा समाहितस्यैव सैषा सिध्यति नान्यथा ॥ ८४४ ॥
न वेषभाषाभिरमुष्य मुक्तिर्या
केवलाखण्डचिदात्मना स्थितिः ।
तत्सिद्धये स्वात्मनि सर्वदा स्थितो
जह्यादहन्तां ममतामुपाधौ ॥ ८४५ ॥
स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम् ।
तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥ ८४६ ॥
ज्ञात्वा देवं सर्वपाशापहानिः
क्षीणैः क्लेशैर्जन्ममृत्युप्रहानिः ।
इत्येवैषा वैदिकी वाग्ब्रवीति
क्लेशक्षत्यां जन्ममृत्युप्रहाणिम् ॥ ८४७ ॥
भूयो जन्माद्यप्रसक्तिर्विमुक्तिः
क्लेशक्षत्यां भाति जन्माद्यभावः ।
क्लेशक्षत्या हेतुरात्मैकनिष्ठा
तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥ ८४८ ॥
क्लेशाः स्युर्वासना एव जन्तोर्जन्मादिकारणम् ।
ज्ञाननिष्ठाग्निना दाहे तासां नो जन्महेतुता ॥ ८४९ ॥
बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ ८५० ॥
तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः ।
निःशेषवासनाक्षत्यै विपरीतनिवृत्तये ॥ ८५१ ॥
ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते ।
कर्मणो ज्ञाननिष्ठाया न सिध्यति सहस्थितिः ॥ ८५२ ॥
परस्परविरुद्धत्वात्तयोर्भिन्नस्वभावयोः ।
कर्तृत्वभावनापूर्वं कर्म ज्ञानं विलक्षणम् ॥ ८५३ ॥
देहात्मबुद्धेर्विच्छित्त्यै ज्ञानं कर्म विवृद्धये ।
अज्ञानमूलकं कर्म ज्ञानं तूभयनाशकं ॥ ८५४ ॥
ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा ।
सहयोगो न घटते यथा तिमिरतेजसोः ॥ ८५५ ॥
निमेषोन्मेषयोर्वापि तथैव ज्ञानकर्मणोः ।
प्रतीचीं पश्यतः पुंसां कुतः प्राचीविलोकनम् ।
प्रत्यक्प्रवणचित्तस्य कुतः कर्मणि योग्यता ॥ ८५६ ॥
ज्ञानैकनिष्ठानिरतस्य भिक्षो -
र्नैवावकाशोऽस्ति हि कर्मतन्त्रे ।
तदेव कर्मास्य तदेव सन्ध्या
तदेव सर्वं न ततोऽन्यदस्ति ॥ ८५७ ॥
बुद्धिकल्पितमालिन्यक्षालनं स्नानमात्मनः ।
तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥ ८५८ ॥
स्वस्वरूपे मनःस्थानमनुष्ठानं तदिष्यते ।
करणत्रयसाध्यं यत्तन्मृषा तदसत्यतः ॥ ८५९ ॥
विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः ।
सा सन्ध्या तदनुष्ठानं तद्दानं तद्धि भोजनम् ॥ ८६० ॥
विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम् ।
यतीनां किमनुष्ठानं स्वानुसन्धिं विनापरम् ॥ ८६१ ॥
तस्मात्क्रियान्तरं त्यक्त्वा ज्ञाननिष्ठापरो यतिः ।
सदात्मनिष्ठया तिष्ठेन्निश्चलस्तत्परायणः ॥ ८६२ ॥
कर्तव्यं स्वोचितं कर्म योगमारोढुमिच्छता ।
आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८६३ ॥
योगं समारोहति यो मुमुक्षुः
क्रियान्तरं तस्य न युक्तमीषत् ।
क्रियान्तरासक्तमनाः पतत्यसौ
तालद्रुमारोहणकर्तृवद्ध्रुवम् ॥ ८६४ ॥
योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः ।
नास्त्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् ।
दृश्यानुविद्धः कथितः समाधिः सविकल्पकः ॥ ८६५ ॥
शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् ।
शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥ ८६६ ॥
आद्योऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम् ।
निगमवचोवेद्योऽहमनवद्याखण्डबोधरूपोऽहम् ॥ ८६७ ॥
विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् ।
केवलदृगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ॥ ८६८ ॥
अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् ।
अजरोऽहमक्षरोऽहं नित्यानन्दोऽहमद्वितीयोऽहम् ॥ ८६९ ॥
प्रत्यगभिन्नमखण्डं सत्यज्ञानादिलक्षणं शुद्धम् ।
श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥ ८७० ॥
एवं सन्मात्रगाहिन्या वृत्त्या तन्मात्रगाहकैः ।
शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ॥ ८७१ ॥
कामादिदृश्यप्रविलापपूर्वकं
शुद्धोऽहमित्यादिकशब्दमिश्रः ।
दृश्येव निष्ठस्य य एष भावः
शब्दानुविद्धः कथितः समाधिः ॥ ८७२ ॥
दृश्यस्यापि च साक्षित्वात्समुल्लेखनमात्मनि ।
निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥ ८७३ ॥
सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् ।
संस्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिध्यति ॥ ८७४ ॥
निर्विकल्पकसमाधिनिष्ठया
तिष्ठतो भवति नित्यता ध्रुवम् ।
उद्भवाद्यपगतिर्निरर्गला
नित्यनिश्चलनिरस्तनिर्वृतिः ॥ ८७५ ॥
विद्वानहमिदमिति वा किञ्चि
द्बाह्याभ्यन्तरवेदनशून्यः ।
स्वानन्दामृतसिन्धुनिमग्न -
स्तूष्णीमास्ते कश्चिदनन्यः ॥ ८७६ ॥
निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः ।
एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशाम् ॥ ८७७ ॥
यथा समाधित्रितयं यत्नेन क्रियते हृदि ।
तथैव बाह्यदेशेऽपि कार्यं द्वैतनिवृत्तये ॥ ८७८ ॥
तत्प्रकारं प्रवक्ष्यामि निशामय समासतः ।
अधिष्ठानं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ८७९ ॥
तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् ।
सत्त्वं चित्त्वं तथानन्दरूपं यद्ब्रह्मणस्त्रयम् ॥ ८८० ॥
अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् ।
एतानि सच्चिदानन्दनामरूपाणि पञ्च च ॥ ८८१ ॥
एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात् ।
शैत्यं श्वेतं रसं द्राव्यं तरङ्ग इति नाम च ॥ ८८२ ॥
एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा ।
आरोपिते नामरूपे उपेक्ष्य ब्रह्मणस्ततः ॥ ८८३ ॥
स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः ।
सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥ ८८४ ॥
नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन् ।
अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् ।
यत्तदेवाहमित्येव निश्चितात्मा भवेद्ध्रुवम् ॥ ८८५ ॥
इयं भूर्न सन्नापि तोयं न तेजो
न वायुर्न खं नापि तत्कार्यजातम् ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८६ ॥
न शब्दो न रूपं न च स्पर्शको वा
तथा नो रसो नापि गन्धो न चान्यः ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८७ ॥
न सद्द्रव्यजातं गुणा न क्रिया वा
न जातिर्विशेषो न चान्यः कदापि ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८८ ॥
न देहो न चाक्षाणि न प्राणावायु -
र्मनो नापि बुद्धिर्न चित्तं ह्यहन्धीः ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८९ ॥
न देशो न कालो न दिग्वापि सत्स्या -
न्न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८९० ॥
एतद्दृश्यं नामरूपात्मकं यो -
ऽधिष्ठानं तद्ब्रह्म सत्यं सदेति ।
गच्छंस्तिष्टन्वा शयानोऽपि नित्यं
कुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥ ८९१ ॥
अध्यस्तनामरूपादिप्रविलापेन निर्मलम् ।
अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२ ॥
निर्विकारं निराकारं निरञ्जनमनामयम् ।
आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न संशयः ॥ ८९३ ॥
निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् ।
आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ ८९४ ॥
निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् ।
प्रज्ञानैकरसं सत्यं ब्रह्मैवास्मीति भावयेत् ॥ ८९५ ॥
शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ ८९६ ॥
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।
केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥ ८९७ ॥
इत्येवं निर्विकारादिशब्दमात्रसमर्पितम् ।
ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥ ८९८ ॥
ब्रह्मानन्दरसावेशादेकीभूय तदात्मना ।
वृत्तेर्या निश्चलावस्था स समाधिरकल्पकः ॥ ८९९ ॥
उत्थाने वाप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः ।
समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥ ९०० ॥
विपरीतार्थधीर्यावन्न निःशेषं निवर्तते ।
स्वरूपस्फुरणं यावन्न प्रसिध्यत्यनर्गलम् ।
तावत्समाधिषट्केन नयेत्कालं निरन्तरम् ॥ ९०१ ॥
न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता ।
प्रमादे जृम्भते माया सूर्यापाये तमो यथा ॥ ९०२ ॥
स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः ।
स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ॥ ९०३ ॥
अस्मिन्समाधौ कुरुते प्रयासं
यस्तस्य नैवास्ति पुनर्विकल्पः ।
सर्वात्मभावोऽप्यमुनैव सिध्ये -
त्सर्वात्मभावः खलु केवलत्वम् ॥ ९०४ ॥
सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः ।
जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥ ९०५ ॥
योऽहं ममेत्याद्यसदात्मगाहको
ग्रन्थिर्लयं याति स वासनामयः ।
समाधिना नश्यति कर्मबन्धो
ब्रह्मात्मबोधोऽप्रतिबन्ध इष्यते ॥ ९०६ ॥
एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः ।
शुद्धात्मनां मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ९०७ ॥
तस्मात्त्वं चाप्यप्रमत्तः समाधी -
न्कृत्वा ग्रन्थिं साधु निर्दह्य युक्तः ।
नित्यं ब्रह्मानन्दपीयूषसिन्धौ
मज्जन्क्रीडन्मोदमानो रमस्व ॥ ९०८ ॥
निर्विकल्पसमाधिर्यो वृत्तिर्नैश्चल्यलक्षणा ।
तमेव योग इत्याहुर्योगशास्त्रार्थकोविदाः ॥ ९०९ ॥
अष्टावङ्गानि योगस्य यमो नियम आसनम् ।
प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ९१० ॥
ध्यानं समाधिरित्येव निगदन्ति मनीषिणः ।
सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ॥ ९११ ॥
यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ।
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ ९१२ ॥
नियमो हि परानन्दो नियमात्क्रियते बुधैः ।
सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ॥ ९१३ ॥
आसनं तद्विजानीयादितरत्सुखनाशनम् ।
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ॥ ९१४ ॥
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ।
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ॥ ९१५ ॥
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ।
ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ॥ ९१६ ॥
अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम् ।
विषयेष्वात्मतां त्यक्त्वा मनसश्चितिमज्जनम् ॥ ९१७ ॥
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ।
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥ ९१८ ॥
मनसो धारणं चैव धारणा सा परा मता ।
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥ ९१९ ॥
ध्यानशब्देन विख्याता परमानन्ददायिनी ।
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ॥ ९२० ॥
वृत्तिविस्मरणं सम्यक्समाधिर्ध्यानसंज्ञिकः ।
समाधौ क्रियमाणे तु विघ्ना ह्यायान्ति वै बलात् ॥ ९२१ ॥
अनुसन्धानराहित्यमालस्यं भोगलालसम् ।
भयं तमश्च विक्षेपस्तेजस्पन्दश्च शून्यता ॥ ९२२ ॥
एवं यद्विघ्नबाहुल्यं त्याज्यं तद्ब्रह्मविज्जनैः ।
विघ्नानेतान्परित्यज्य प्रमादरहितो वशी ।
समाधिनिष्ठया ब्रह्म साक्षाद्भवितुमर्हसि ॥ ९२३ ॥
इति गुरुवचनाच्छ्रुतिप्रमाणा -
त्परमवगम्य स्वतत्त्वमात्मयुक्त्या ।
प्रशमितकरणः समाहितात्मा क्वचि -
दचलाकृतिरात्मनिष्ठितोऽभूत् ॥ ९२४ ॥
बहुकालं समाधाय स्वस्वरूपे तु मानसम् ।
उत्थाय परमानन्दाद्गुरुमेत्य पुनर्मुदा ॥ ९२५ ॥
प्रमाणपूर्वकं धीमान्सगद्गदमुवाच ह ।
नमो नमस्ते गुरवे नित्यानन्दस्वरूपिणे ॥ ९२६ ॥
मुक्तसङ्गाय शान्ताय त्यक्ताहन्ताय ते नमः ।
दयाधाम्ने नमो भूम्ने महिम्नः पारमस्य ते ।
नैवास्ति यत्कटाक्षेण ब्रह्मैवाभवमद्वयम् ॥ ९२७ ॥
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ॥ ९२८ ॥
मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् ।
मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ ९२९ ॥
नित्यानन्दस्वरूपोऽहमात्माहं त्वदनुग्रहात् ।
पूर्णोऽहमनवद्योऽहं केवलोऽहं च सद्गुरो ॥ ९३० ॥
अकर्ताहमभोक्ताहमविकारोऽहमक्रियः ।
आनन्दघन एवाहमसङ्गोऽहं सदाशिवः ॥ ९३१ ॥
त्वत्कटाक्षवरचान्द्रचन्द्रिकापातधूतभवतापजश्रमः ।
प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ॥ ९३२ ॥
छायया स्पृष्टमुष्णं वा शीतं वा दुष्ठु सुष्ठु वा ।
न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ॥ ९३३ ॥
न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम् ।
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ९३४ ॥
रवेर्यथा कर्मणि साक्षिभावो
वह्नेर्यथा वायसि दाहकत्वम् ।
रज्जोर्यथारोपितवस्तुसङ्ग -
स्तथैव कूटस्थचिदात्मनो मे ॥ ९३५ ॥
इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः ।
मुमुक्षोरुपकाराय प्रष्टव्यांशमपृच्छत ॥ ९३६ ॥
जीवन्मुक्तस्य भगवन्ननुभूतेश्च लक्षणम् ।
विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥ ९३७ ॥
श्रीगुरुः -
वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः ।
ज्ञाते यस्मिंस्त्वया सर्वं ज्ञातं स्यात्पृष्टमद्य यत् ॥ ९३८ ॥
ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता ।
विचारणा द्वितीया तु तृतीया तनुमानसी ॥ ९३९ ॥
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ ९४० ॥
स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः ।
वैराग्यपूर्वमिच्छेति शुभेच्छा चोच्यते बुधैः ॥ ९४१ ॥
शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् ।
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ ९४२ ॥
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता ।
यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ ९४३ ॥
भूमिकात्रितयाभ्यासाच्चित्तेऽर्थविरतेर्वशात् ।
सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ९४४ ॥
दशाचतुष्टयाभ्यासादसंसर्गफला तु या ।
रूढसत्त्वचमत्कारा प्रोक्तासंसक्तिनामिका ॥ ९४५ ॥
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् ।
आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ ९४६ ॥
परप्रयुक्तेन चिरप्रयत्नेनावबोधनम् ।
पदार्थाभावना नाम षष्ठी भवति भूमिका ॥ ९४७ ॥
षड्भूमिकाचिराभ्यासाद्भेदस्यानुपलम्भनात् ।
यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ९४८ ॥
इदं ममेति सर्वेषु दृश्यभावेष्वभावना ।
जाग्रज्जाग्रदिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥ ९४९ ॥
विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम् ।
नामरूपपरित्यागो जाग्रत्स्वप्नः समीर्यते ॥ ९५० ॥
परिपूर्णचिदाकाशे मयि बोधात्मतां विना ।
न किञ्चिदन्यदस्तीति जाग्रत्सुप्तिः समीर्यते ॥ ९५१ ॥
मूलाज्ञानविनाशेन कारणाभासचेष्टितैः ।
बन्धो न मेऽतिस्वल्पोऽपि स्वप्नजाग्रदितीर्यते ॥ ९५२ ॥
कारणाज्ञाननाशाद्यद्द्रष्टृदर्शनदृश्यता ।
न कार्यमस्ति तज्ज्ञानं स्वप्नस्वप्नः समीर्यते ॥ ९५३ ॥
अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचञ्चला ।
विलीयते यदा बोधे स्वप्नसुप्तिरितीर्यते ॥ ९५४ ॥
चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः ।
आनन्दानुभवो विद्वन् सुप्तिजाग्रदितीर्यते ॥ ९५५ ॥
वृत्तौ चिरानुभूतान्तरानन्दानुभवस्थितौ ।
समात्मतां यो यात्येष सुप्तिस्वप्न इतीर्यते ॥ ९५६ ॥
दृश्यधीवृत्तिरेतस्य केवलीभावभावना ।
परं बोधैकतावाप्तिः सुप्तिसुप्तिरितीर्यते ॥ ९५७ ॥
परब्रह्मवदाभाति निर्विकारैकरूपिणी ।
सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥ ९५८ ॥
इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी ।
शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥ ९५९ ॥
यथावद्भेदबुद्ध्येदं जगज्जाग्रदितीर्यते ।
अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥ ९६० ॥
पश्यन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः ।
पञ्चमीं भूमिमारुह्य सुषुप्तिपदनामिकाम् ॥ ९६१ ॥
शान्ताशेषविशेषांशस्तिष्ठेदद्वैतमात्रके ।
अन्तर्मुखतया नित्यं षष्ठीं भूमिमुपाश्रितः ॥ ९६२ ॥
परिश्रान्ततया गाढनिद्रालुरिव लक्ष्यते ।
कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ॥ ९६३ ॥
तुर्यावस्थां सप्तभूमिं क्रमात्प्राप्नोति योगिराट् ।
विदेहमुक्तिरेवात्र तुर्यातीतदशोच्यते ॥ ९६४ ॥
यत्र नासन्न सच्चापि नाहं नाप्यनहङ्कृतिः ।
केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥ ९६५ ॥
अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ।
अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥ ९६६ ॥
यथास्थितमिदं सर्वं व्यवहारवतोऽपि च ।
अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ ९६७ ॥
नोदेति नास्तमायाति सुखदुःखे मनः प्रभा ।
यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ ९६८ ॥
यो जागर्त्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ९६९ ॥
रागद्वेषभयादीनामनुरूपं चरन्नपि ।
योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ ९७० ॥
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ ९७१ ॥
यः समस्तार्थजालेषु व्यवहार्यपि शीतलः ।
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९७२ ॥
द्वैतवर्जितचिन्मात्रे पदे परमपावने ।
अक्षुब्धचित्तविश्रान्तः स जीवन्मुक्त उच्यते ॥ ९७३ ॥
इदं जगदयं सोऽयं दृश्यजातमवास्तवम् ।
यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते ॥ ९७४ ॥
चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।
आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ९७५ ॥
देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् ।
ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ९७६ ॥
यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ९७७ ॥
अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ।
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ९७८ ॥
जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तित्वं पवनोऽस्पन्दतामिव ॥ ९७९ ॥
ततस्तत्सम्बभूवासौ यद्गिरामप्यगोचरम् ।
यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥ ९८० ॥
विज्ञानं विज्ञानविदां मलानां च मलात्मकम् ।
पुरुषः साङ्ख्यदृष्टीनामीश्वरो योगवादिनाम् ॥ ९८१ ॥
शिवः शैवागमस्थानां कालः कालैकवादिनाम् ।
यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ।
यत्सर्वं सर्वगं वस्तु तत्तत्त्वं तदसौ स्थितः ॥ ९८२ ॥
ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ।
चिन्मात्रेणेव यस्तिष्ठेद्विदेहो मुक्त एव सः ॥ ९८३ ॥
यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न ।
अतीतातीतभावो यो विदेहो मुक्त एव सः ॥ ९८४ ॥
चित्तवृत्तेरतीतो यश्चित्तवृत्त्यावभासकः ।
चित्तवृत्तिविहीनो यो विदेहो मुक्त एव सः ॥ ९८५ ॥
जीवात्मेति परात्मेति सर्वचिन्ताविवर्जितः ।
सर्वसङ्कल्पहीनात्मा विदेहो मुक्त एव सः ॥ ९८६ ॥
ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः ।
अवस्थात्रयहीनात्मा विदेहो मुक्त एव सः ॥ ९८७ ॥
अहिनिर्ल्वयनीसर्पनिर्मोको जीववर्जितः ।
वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥ ९८८ ॥
एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते ।
प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ॥ ९८९ ॥
नेति नेतीत्यरूपत्वादशरीरो भवत्ययम् ।
विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयम् ॥ ९९० ॥
विराड् हिरण्यगर्भश्च ईश्वरश्चेति ते त्रयम् ।
ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥ ९९१ ॥
स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि ।
तूष्णीमेव ततस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ९९२ ॥
कालभेदो वस्तुभेदो देशभेदः स्वभेदकः ।
किञ्चिद्भेदो न तस्यास्ति किञ्चिद्वापि न विद्यते ॥ ९९३ ॥
जीवेश्वरेति वाक्ये च वेदशास्त्रेष्वहं त्विति ।
इदं चैतन्यमेवेत्यहं चैतन्यमित्यपि ॥ ९९४ ॥
इति निश्चयशून्यो यो विदेहो मुक्त एव सः ।
ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ॥ ९९५ ॥
तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखात्मकम् ।
शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥ ९९६ ॥
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि ।
नाविद्यास्तीह नो माया शान्तं ब्रह्मैव तद्विना ॥ ९९७ ॥
प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ ९९८ ॥
यावद्यावच्च सद्बुद्धे स्वयं सन्त्यज्यतेऽखिलम् ।
तावत्तावत्परानन्दः परमात्मैव शिष्यते ॥ ९९९ ॥
यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा ।
परे ब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ॥ १००० ॥
यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते ।
असङ्कल्पेन शस्त्रेण छिन्नं चित्तमिदं यदा ॥ १००१ ॥
सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा ।
इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥ १००२ ॥
ज्ञातज्ञेयः सम्प्रणम्य सद्गुरोश्चरणाम्बुजम् ।
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ १००३ ॥
गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः ।
पावयन्वसुधां सर्वां विचचार निरुत्तरः ॥ १००४ ॥
इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।
निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ १००५ ॥
सर्ववेदान्तसिद्धान्तसारसङ्ग्रहनामकः ।
ग्रन्थोऽयं हृदयग्रन्थिविच्छित्त्यै रचितः सताम् ॥ १००६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः सम्पूर्णः ॥
ओं ओं ओं ॥
ओं शम् ॥