अद्वैतशारदा

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः

० विभागः

सत्त्वं चित्त्वं तथानन्दस्वरूपं परमात्मनः ।
निर्गुणस्य गुणा­यो­गा­द्गु­णास्तु न भवन्ति ते ॥ ६७३ ॥

विशेषणं तु व्यावृत्त्यै भवे­द्द्र­व्या­न्तरे सति ।
पर­मा­त्मा­द्वि­ती­योऽयं प्रपञ्चस्य मृषात्वतः ॥ ६७४ ॥

वस्त्व­न्त­र­स्या­भा­वेन न व्यावृत्त्यः कदाचन ।
केवलो निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ ६७५ ॥

श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते ।
उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥ ६७६ ॥

सत्त्व­चि­त्त्वा­न­न्द­तादि स्वरूपमिति निश्चितम् ।
अत एव सजा­ती­य­वि­जा­ती­या­दि­ल­क्षणः ॥ ६७७ ॥

भेदो न विद्यते वस्तु­न्य­द्वि­तीये परात्मनि ।
प्रप­ञ्च­स्या­प­वा­देन विजातीयकृता भिदा ॥ ६७८ ॥

नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् ।
अहे­र्गु­ण­वि­व­र्तस्य गुणमात्रस्य वस्तुतः ॥ ६७९ ॥

विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् ।
अपवाद इति प्राहु­र­द्वै­त­ब्र­ह्म­द­र्शिनः ॥ ६८० ॥

व्युत्क्रमेण तदु­त्प­त्ते­र्द्र­ष्टव्यं सूक्ष्म­बु­द्धिभिः ।
प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ ६८१ ॥

चतुर्विधं स्थूलशरीरजातं
तद्भोज्यमन्नादि तदाश्रयादि ।
ब्रह्मा­ण्ड­मे­त­त्स­कलं स्थविष्ठ -
मीक्षेत पञ्ची­कृ­त­भू­त­मा­त्रम् ॥ ६८२ ॥

यत्कार्यरूपेण यदीक्ष्यते त -
त्तन्मा­त्र­मे­वात्र विचार्यमाणे ।
मृत्कार्यभूतं कलशादि सम्य -
ग्विचारितं सन्न मृदो विभिद्यते ॥ ६८३ ॥

अन्तर्बहिश्चापि मृदेव दृश्यते
मृदो न भिन्नं कलशादि किञ्चन ।
ग्रीवा­दि­म­द्य­त्क­लशं तदित्थं
न वाच्यमेतच्च मृदेव नान्यत् ॥ ६८४ ॥

स्वरू­प­त­स्त­त्क­ल­शा­दि­नाम्ना
मृदेव मूढैरभिधीयते ततः ।
नाम्नो हि भेदो न तु वस्तुभेदः ।
प्रदृश्यते तत्र विचार्यमाणे ॥ ६८५ ॥

तस्माद्धि कार्यं न कदापि भिन्नं
स्वकारणादस्ति यतस्ततोऽङ्ग ।
यद्भौतिकं सर्वमिदं तथैव
तद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६८६ ॥

तच्चापि पञ्चीकृतभूतजातं
शब्दादिभिः स्वस्वगुणैश्च सार्धम् ।
वपूंषि सूक्ष्माणि च सर्वमेत -
द्भव­त्य­प­ञ्ची­कृ­त­भू­त­मा­त्रम् ॥ ६८७ ॥

तद­प्य­प­ञ्ची­कृ­त­भू­त­जातं
रज­स्त­मः­स­त्त्व­गु­णैश्च सार्धम् ।
अव्यक्तमात्रं भवति स्वरूपतः
साभा­स­म­व्य­क्त­मिदं स्वयं च ॥ ६८८ ॥

आधारभूतं यदखण्डमाद्यं
शुद्धं परं ब्रह्म सदैकरूपम् ।
सन्मा­त्र­मे­वा­स्त्यथ नो विकल्पः
सतः परं केवलमेव वस्तु ॥ ६८९ ॥

एकश्चन्द्रः सद्वितीयो यथा स्या -
द्दृष्टे­र्दो­षा­देव पुंसस्तथैकम् ।
ब्रह्मा­स्त्ये­त­द्बु­द्धि­दो­षेण नाना
दोषे नष्टे भाति वस्त्वेकमेव ॥ ६९० ॥

रज्जोः स्वरूपाधिगमे न सर्पधी
रज्ज्वां विलीना तु यथा तथैव ।
ब्रह्मावगत्या तु जगत्प्रतीति -
स्तत्रैव लीना तु सह भ्रमेण ॥ ६९१ ॥

भ्रान्त्यो­दि­त­द्वै­त­म­ति­प्र­शान्त्या
सदैकमेवास्ति सदाद्वितीयम् ।
ततो विजातीयकृतोऽत्र भेदो
न विद्यते ब्रह्मणि निर्विकल्पे ॥ ६९२ ॥

यदा­स्त्यु­पा­धि­स्त­द­भिन्न आत्मा
तदा सजातीय इवावभाति ।
स्वप्ना­र्थ­त­स्तस्य मृषात्मकत्वा -
त्तदप्रतीतौ स्वयमेष आत्मा ।
ब्रह्मै­क्य­ता­मेति पृथङ् न भाति
ततः सजातीयकृतो न भेदः ॥ ६९३ ॥

घटाभावे घटाकाशो महाकाशो यथा तथा ।
उपाध्यभावे त्वात्मैष स्वयं ब्रह्मैव केवलम् ॥ ६९४ ॥

पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि ।
नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥ ६९५ ॥

अच्छि­न्न­श्छि­न्न­व­द्भाति पामराणां घटादिना ।
ग्राम­क्षे­त्रा­द्य­व­धि­भि­र्भि­न्नेव वसुधा यथा ॥ ६९६ ॥

तथैव परमं ब्रह्म महतां च महत्तमम् ।
परि­च्छि­न्न­मि­वा­भाति भ्रान्त्या कल्पितवस्तुना ॥ ६९७ ॥

तस्मा­द्ब्र­ह्मा­त्म­नो­र्भेदः कल्पितो न तु वास्तवः ।
अत एव मुहुः श्रुत्या­प्ये­कत्वं प्रतिपाद्यते ॥ ६९८ ॥

ब्रह्मा­त्म­नो­स्त­त्त्व­म­सी­त्य­द्व­य­त्वो­प­प­त्तये ।
प्रत्य­क्षा­दि­वि­रो­धेन वाच्य­यो­र्नो­प­यु­ज्यते ।
तत्त्व­म्प­दा­र्थ­यो­रैक्यं लक्ष्ययोरेव सिध्यति ॥ ६९९ ॥

शिष्यः -

स्यात्त­त्त्व­म्प­दयोः स्वामिन्नर्थः कतिविधो मतः ।
पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ७०० ॥

वाच्यै­क­त्व­वि­व­क्षायां विरोधः कः प्रतीयते ।
लक्ष्या­र्थ­यो­र­भि­न्नत्वे स कथं विनिवर्तते ॥ ७०१ ॥

एकत्वकथने का वा लक्ष­णा­त्रो­र­री­कृता ।
एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ७०२ ॥

श्रीगुरुः -

शृणुष्वावहितो विद्वन् अद्य ते फलितं तपः ।
वाक्या­र्थ­श्रु­ति­मा­त्रेण सम्यग्ज्ञानं भविष्यति ॥ ७०३ ॥

यावन्न तत्त्व­म्प­द­यो­रर्थः सम्यग्विचार्यते ।
तावदेव नृणां बन्धो मृत्यु­सं­सा­र­ल­क्षणः ॥ ७०४ ॥

अवस्था सच्चि­दा­न­न्दा­ख­ण्डै­क­र­स­रू­पिणी ।
मोक्षः सिध्यति वाक्या­र्था­प­रो­क्ष­ज्ञा­नतः सताम् ॥ ७०५ ॥

वाक्यार्थ एव ज्ञातव्यो मुमु­क्षो­र्भ­व­मु­क्तये ।
तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥ ७०६ ॥

अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः ।
वाच्य­ल­क्ष्या­दि­भे­देन प्रस्तुतं श्रूयतां त्वया ॥ ७०७ ॥

वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम् ।
तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ ७०८ ॥

शास्त्रा­र्थ­को­वि­दै­रर्थो वाच्यो लक्ष्य इति द्विधा ।
वाच्यार्थं ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥ ७०९ ॥

सम­ष्टि­रू­प­म­ज्ञानं साभासं सत्त्वबृंहितम् ।
विय­दा­दि­वि­रा­डन्तं स्वकार्येण समन्वितम् ॥ ७१० ॥

चैतन्यं तदवच्छिन्नं सत्य­ज्ञा­ना­दि­ल­क्ष­णम् ।
सर्व­ज्ञ­त्वे­श्व­र­त्वा­न्त­र्या­मि­त्वा­दि­गु­णै­र्यु­तम् ॥ ७११ ॥

जग­त्स्र­ष्टृ­त्व­पा­तृ­त्व­सं­ह­र्तृ­त्वा­दि­ध­र्म­कम् ।
सर्वात्मना भासमानं यदमेयं गुणैश्च तत् ॥ ७१२ ॥

अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते ।
नील­मु­त्प­ल­मि­त्यत्र यथा वाक्या­र्थ­स­ङ्गतिः ॥ ७१३ ॥

तथा तत्त्वमसीत्यत्र नास्ति वाक्या­र्थ­स­ङ्गतिः ।
पटाद्व्यावर्तते नील उत्पलेन विशेषितः ॥ ७१४ ॥

शौक्ल्या­द्व्या­व­र्तते नीलेनोत्पलं तु विशेषितम् ।
इत्थ­म­न्यो­न्य­भे­दस्य व्यावर्तकतया तयोः ॥ ७१५ ॥

विशे­ष­ण­वि­शे­ष्य­त्व­सं­स­र्ग­स्ये­त­रस्य वा ।
वाक्यार्थत्वे प्रमा­णा­न्त­र­वि­रोधो न विद्यते ॥ ७१६ ॥

अतः सङ्गच्छते सम्य­ग्वा­क्यार्थो बाधवर्जितः ।
एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ ७१७ ॥

तदर्थस्य परो­क्ष­त्वा­दि­वि­शि­ष्ट­चि­ते­रपि ।
त्वम­र्थ­स्या­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चि­ते­रपि ॥ ७१८ ॥

तथै­वा­न्यो­न्य­भे­दस्य व्यावर्तकतया तयोः ।
विशे­ष­ण­वि­शे­ष्यस्य संसर्गस्येतरस्य वा ॥ ७१९ ॥

वाक्यार्थत्वे विरोधोऽस्ति प्रत्य­क्षा­दि­कृ­त­स्ततः ।
सङ्गच्छते न वाक्या­र्थ­स्त­द्वि­रोधं च वच्मि ते ॥ ७२० ॥

सर्वे­श­त्व­स्व­त­न्त्र­त्व­स­र्व­ज्ञ­त्वा­दि­भि­र्गुणैः ।
सर्वोत्तमः सत्यकामः सत्यसङ्कल्प ईश्वरः ॥ ७२१ ॥

तत्प­दा­र्थ­स्त्व­म­र्थस्तु किञ्चिज्ज्ञो दुःखजीवनः ।
संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥ ७२२ ॥

कथ­मे­क­त्व­म­न­यो­र्घ­टते विपरीतयोः ।
प्रत्यक्षेण विरो­धोऽ­य­मु­भ­यो­रु­प­ल­भ्यते ॥ ७२३ ॥

विरु­द्ध­ध­र्मा­क्रा­न्त­त­त्वा­त्प­र­स्प­र­वि­ल­क्षणौ ।
जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥ ७२४ ॥

प्रत्य­क्षा­दि­वि­रोधः स्यादित्यैक्ये तयोः परित्यक्ते ।
श्रुतिवचनविरोधो भवति महा­न्स्मृ­ति­व­च­न­वि­रो­धश्च ॥ ७२५ ॥

श्रुत्या­प्ये­क­त्व­म­न­यो­स्ता­त्प­र्येण निगद्यते ।
मुहु­स्त­त्त्व­म­सी­त्य­स्मा­द­ङ्गी­कार्यं श्रुतेर्वचः ॥ ७२६ ॥

वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः ।
अयथार्थतया सोऽयं वाक्यार्थो न मतः श्रुतेः ॥ ७२७ ॥

अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसम्मतः ।
स्थूल­सू­क्ष्म­प्र­प­ञ्चस्य सन्मात्रत्वं पुनः पुनः ॥ ७२८ ॥

दर्शयित्वा सुषुप्तौ तद्ब्र­ह्मा­भि­न्न­त्व­मा­त्मनः ।
उपपाद्य सदैकत्वं प्रद­र्श­यि­तु­मि­च्छया ॥ ७२९ ॥

ऐतदात्म्यमिदं सर्व­मि­त्यु­क्त्यैव सदात्मनोः ।
ब्रवीति श्रुतिरेकत्वं ब्रह्म­णोऽ­द्वै­त­सि­द्धये ७३० ॥

सति प्रपञ्चे जीवे वाद्वैतत्वं ब्रह्मणः कुतः ।
अत­स्त­यो­र­ख­ण्ड­त्व­मे­कत्वं श्रुतिसम्मतम् ॥ ७३१ ॥

विरु­द्धां­श­प­रि­त्या­गा­त्प्र­त्य­क्षा­दिर्न बाधते ।
अवि­रु­द्धां­श­ग्र­ह­णान्न श्रुत्यापि विरुध्यते ॥ ७३२ ॥

लक्षणा ह्युपगन्तव्या ततो वाक्या­र्थ­सि­द्धये ।
वाच्या­र्था­नु­प­प­त्त्यैव लक्ष­णा­भ्यु­प­ग­म्यते ॥ ७३३ ॥

सम्ब­न्धा­नु­प­पत्त्या च लक्षणेति जगुर्बुधाः ।
गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥ ७३४ ॥

न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते ।
गङ्गाया अपि घोष­स्या­धा­रा­धे­य­त्व­ल­क्ष­णम् ॥ ७३५ ॥

सर्वो विरु­द्ध­वा­क्या­र्थ­स्तत्र प्रत्यक्षतस्ततः ।
गङ्गा­स­म्ब­न्ध­व­त्तीरे लक्षणा सम्प्रवर्तते ॥ ७३६ ॥

तथा तत्त्वमसीत्यत्र चैत­न्यै­क­त्व­ल­क्षणे ।
विवक्षिते तु वाक्या­र्थेऽ­प­रो­क्ष­त्वा­दि­ल­क्षणः ॥ ७३७ ॥

विरुध्यते भागमात्रो न तु सर्वो विरुध्यते ।
तस्मा­ज्ज­ह­ल्ल­क्ष­णायाः प्रवृ­त्ति­र्नात्र युज्यते ॥ ७३८ ॥

वाच्यार्थस्य तु सर्वस्य त्यागे न फलमीक्ष्यते ।
नालिकेरफलस्येव कठिनत्वधिया नृणाम् ॥ ७३९ ॥

गङ्गापदं यथा स्वार्थं त्यक्त्वा लक्षयते तटम् ।
तत्पदं त्वम्पदं वापि त्यक्त्वा स्वार्थं यथाखिलम् ॥ ७४० ॥

तदर्थं वा त्वमर्थं वा यदि लक्षयति स्वयम् ।
तदा जहल्लक्षणायाः प्रवृ­त्ति­रु­प­प­द्यते ॥ ७४१ ॥

न शङ्क­नी­य­मि­त्या­र्यै­र्ज्ञा­तार्थे न हि लक्षणा ।
तत्पदं त्वम्पदं वापि श्रूयते च प्रतीयते ॥ ७४२ ॥

तदर्थे च कथं तत्र सम्प्रवर्तेत लक्षणा ।
अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ ७४३ ॥

अजहल्लक्षणा वापि सा जहल्लक्षणा यथा ।
गुणस्य गमनं लोके विरुद्धं द्रव्यमन्तरा ॥ ७४४ ॥

अतस्तमपरित्यज्य तद्गु­णा­श्र­य­ल­क्षणः ।
लक्ष्या­दि­र्ल­क्ष्यते तत्र लक्षणासौ प्रवर्तते ॥ ७४५ ॥

वाक्ये तत्त्वमसीत्यत्र ब्रह्मा­त्मै­क­त्व­बो­धके ।
परो­क्ष­त्वा­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चि­तो­र्द्वयोः ॥ ७४६ ॥

एक­त्व­रू­प­वा­क्यार्थो विरु­द्धां­शा­वि­व­र्ज­नात् ।
न सिध्यति यत­स्त­स्मा­न्ना­ज­ह­ल्ल­क्षणा मता ॥ ७४७ ॥

तत्पदं त्वम्पदं चापि स्वकी­या­र्थ­वि­रो­धि­नम् ।
अंशं सम्यक्परित्यज्य स्वावि­रु­द्धां­श­सं­यु­तम् ॥ ७४८ ॥

तदर्थं वा त्वमर्थं वा सम्यग्लक्षयतः स्वयम् ।
भागलक्षणया साध्यं किमस्तीति न शङ्क्यताम् ॥ ७४९ ॥

अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् ।
एकं पदं लक्षणया संल­क्ष­यि­तु­म­र्हति ॥ ७५० ॥

पदान्तरेण सिद्धायां पदार्थप्रमितौ स्वतः ।
तद­र्थ­प्र­त्य­या­पेक्षा पुनर्लक्षणया कुतः ॥ ७५१ ॥

तस्मा­त्त­त्त्व­म­सी­त्यत्र लक्षणा भागलक्षणा ।
वाक्या­र्थ­स­त्त्वा­ख­ण्डै­क­र­स­ता­सि­द्धये मता ॥ ७५२ ॥

भागं विरुद्धं सन्त्य­ज्या­वि­रोधो लक्ष्यते यदा ।
सा भाग­ल­क्ष­णे­त्या­हु­र्ल­क्ष­णज्ञा विचक्षणाः ॥ ७५३ ॥

सोऽयं देवदत्त इति वाक्यं वाक्यार्थ एव वा ।
देव­द­त्तै­क्य­रू­प­स्व­वा­क्या­र्था­न­व­बो­ध­कम् ॥ ७५४ ॥

देश­का­ला­दि­वै­शिष्ट्यं विरुद्धांशं निरस्य च ।
अविरुद्धं देव­द­त्त­दे­ह­मात्रं स्वलक्षणम् ॥ ७५५ ॥

भागलक्षणया सम्य­ग्ल­क्ष­य­त्य­नया यथा ।
तथा तत्त्वमसीत्यत्र वाक्यं वाक्यार्थ एव वा ॥ ७५६ ॥

परो­क्ष­त्वा­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चि­तो­र्द्वयोः ।
एक­त्व­रू­प­वा­क्या­र्थ­वि­रु­द्धां­श­मु­प­स्थि­तम् ॥ ७५७ ॥

परो­क्ष­त्वा­प­रो­क्ष­त्व­स­र्व­ज्ञ­त्वा­दि­ल­क्ष­णम् ।
बुद्ध्या­दि­स्थू­ल­प­र्य­न्त­मा­वि­द्य­क­म­ना­त्म­कम् ॥ ७५८ ॥

परित्यज्य विरुद्धांशं शुद्ध­चै­त­न्य­ल­क्ष­णम् ।
वस्तु केवलसन्मात्रं निर्विकल्पं निरञ्जनम् ॥ ७५९ ॥

लक्षयत्यनया सम्य­ग्भा­ग­ल­क्ष­णया ततः ।
सर्वो­पा­धि­वि­नि­र्मुक्तं सच्चि­दा­न­न्द­म­द्व­यम् ॥ ७६० ॥

निर्विशेषं निरा­भा­स­म­ता­दृ­श­म­नी­दृ­शम् ।
अनि­र्दे­श्य­म­ना­द्य­न्त­म­नन्तं शान्तमच्युतम् ।
अप्र­त­र्क्य­म­वि­ज्ञेयं निर्गुणं ब्रह्म शिष्यते ॥ ७६१ ॥

उपा­धि­वै­शि­ष्ट्य­कृतो विरोधो
ब्रह्मा­त्म­नो­रे­क­त­या­धि­गत्या ।
उपाधिवैशिष्ट्य उदस्यमाने
न कश्चिदप्यस्ति विरोध एतयोः ॥ ७६२ ॥

तयोरुपाधिश्च विशिष्टता च
तद्धर्मभाक्त्वं च विलक्षणत्वम् ।
भ्रान्त्या कृतं सर्वमिदं मृषैव
स्वप्ना­र्थ­व­ज्जा­ग्रति नैव सत्यम् ॥ ७६३ ॥

निद्रा­सू­त­श­री­र­ध­र्म­सु­ख­दुः­खा­दि­प्र­प­ञ्चोऽपि वा
जीवेशादिभिदापि वा न च ऋतं कर्तुं क्वचिच्छक्यते ।
माया­क­ल्पि­त­दे­श­का­ल­ज­ग­दी­शा­दि­भ्र­म­स्ता­दृशः
को भेदोऽ­स्त्य­न­यो­र्द्व­योस्तु कतमः सत्योऽन्यतः को भवेत् ॥ ७६४ ॥

न स्वप्न­जा­ग­र­ण­यो­रु­भ­यो­र्वि­शेषः
सन्दृश्यते क्वचिदपि भ्रम­जै­र्वि­कल्पैः ।
यद्दृ­ष्ट­द­र्श­न­मु­खै­रत एव मिथ्या
स्वप्नो यथा ननु तथैव हि जागरोऽपि ॥ ७६५ ॥

अवि­द्या­का­र्य­त­स्तुल्यौ द्वावपि स्वप्नजागरौ ।
दृष्ट­द­र्श­न­दृ­श्या­दि­क­ल्प­नो­भ­यतः समा ॥ ७६६ ॥

अभाव उभयोः सुप्तौ सर्वै­र­प्य­नु­भू­यते ।
न कश्चि­द­न­यो­र्भे­द­स्त­स्मा­न्मि­थ्या­त्व­म­र्हतः ॥ ७६७ ॥

भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः ।
कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८ ॥

यत्र नान्यत्पश्यतीति श्रुतिर्द्वैतं निषेधति ।
कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९ ॥

यतस्ततो ब्रह्म सदाद्वितीयं
विकल्पशून्यं निरुपाधि निर्मलम् ।
निरन्तरानन्दघनं निरीहं
निरास्पदं केवलमेकमेव ॥ ७७० ॥

नैवास्ति काचन भिदा न गुणप्रतीति -
र्नो वाक्प्र­वृ­त्ति­रपि वा न मनःप्रवृत्तिः ।
यत्केवलं पर­म­शा­न्त­म­न­न्त­माद्य -
मान­न्द­मा­त्र­म­व­भाति सदद्वितीयम् ॥ ७७१ ॥

यदिदं परमं सत्यं तत्त्वं सच्चि­त्सु­खा­त्म­कम् ।
अजरामरणं नित्यं सत्यमेतद्वचो मम ॥ ७७२ ॥

न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरो
मनो वा बुद्धिर्वा क्वचिदपि तथाहङ्कृतिरपि ।
न चैषां सङ्घातस्त्वमु भवति विद्वन् शृणु परं
यदेतेषां साक्षी स्फुरणममलं तत्त्वमसि हि ॥ ७७३ ॥

यज्जायते वस्तु तदेव वर्धते
तदेव मृत्युं समुपैति काले ।
जन्मैव तेनास्ति तथैव मृत्यु -
र्नास्त्येव नित्यस्य विभोरजस्य ॥ ७७४ ॥

य एष देहो जनितः स एव
समेधते नश्यति कर्मयोगात् ।
त्वमे­त­दी­या­स्व­खि­ला­स्व­व­वस्था -
स्ववस्थितः साक्ष्यसि बोधमात्रः ॥ ७७५ ॥

यत्स्व­प्र­का­श­म­खि­ला­त्म­क­मा­सु­षुप्ते -
रेका­त्म­ना­ह­म­ह­मि­त्य­व­भाति नित्यम् ।
बुद्धेः सम­स्त­वि­कृ­ते­र­वि­कारि बोद्धृ
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७६ ॥

स्वात्म­न्य­न­स्त­म­य­सं­विदि कल्पितस्य
व्योमा­दि­स­र्व­ज­गतः प्रददाति सत्ताम् ।
स्फूर्तिं स्वकीयमहसा वितनोति साक्षा -
द्यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७७ ॥

सम्य­क्स­मा­धि­नि­र­तै­र्वि­म­ला­न्त­रङ्गे
साक्षादवेक्ष्य निज­त­त्त्व­म­पा­र­सौ­ख्यम् ।
सन्तुष्यते पर­म­हं­स­कु­लै­र­जस्रं
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७८ ॥

अन्तर्बहिः स्वय­म­ख­ण्डि­त­मे­क­रूप -
मारो­पि­ता­र्थ­व­दु­द­ञ्चति मूढबुद्धेः ।
मृत्स्ना­दि­व­द्वि­ग­त­वि­क्रि­य­मा­त्म­वेद्यं
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७९ ॥

श्रुत्यु­क्त­म­व्य­य­म­न­न्त­म­ना­दि­मध्य -
मव्य­क्त­म­क्ष­र­म­ना­श्र­य­म­प्र­मे­यम् ।
आन­न्द­स­द्घ­न­म­ना­म­य­म­द्वि­तीयं
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७८० ॥

शरी­र­त­द्यो­ग­त­दी­य­धर्मा -
द्यारोपणं भ्रान्ति­व­शा­त्त्व­यी­दम् ।
न वस्तुतः किञ्चि­द­त­स्त्व­जस्त्वं
मृत्योर्भयं क्वास्ति तवासि पूर्णः ॥ ७८१ ॥

यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्ट्या
तत्त­त्स­म्य­ग्व­स्तु­दृष्ट्या त्वमेव ।
त्वत्तो नान्यद्वस्तु किञ्चित्तु लोके
कस्माद्भीतिस्ते भवेदद्वयस्य ॥ ७८२ ॥

पश्य­त­स्त्व­ह­मे­वेदं सर्व­मि­त्या­त्म­ना­खि­लम् ।
भयं स्याद्विदुषः कस्मा­त्स्व­स्मान्न भयमिष्यते ॥ ७८३ ॥

तस्मात्त्वमभयं नित्यं केव­ला­न­न्द­ल­क्ष­णम् ।
निष्कलं निष्क्रियं शान्तं ब्रह्मैवासि सदाद्वयम् ॥ ७८४ ॥

ज्ञातृ­ज्ञा­न­ज्ञे­य­वि­हीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् ।
ज्ञेया­ज्ञे­य­त्वा­दि­वि­मुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८५ ॥

अन्तः­प्र­ज्ञ­त्वा­दि­वि­क­ल्पै­र­स्पृष्टं यत्त­द्दृ­शि­मा­त्रम् ।
सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८६ ॥

सर्वाकारं सर्वमसर्वं सर्व­नि­षे­धा­व­धि­भूतं यत् ।
सत्यं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८७ ॥

नित्या­न­न्दा­ख­ण्डै­क­रसं निष्क­ल­म­क्रि­य­म­स्त­वि­का­रम् ।
प्रत्यगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८८ ॥

त्वं प्रत्य­स्ता­शे­ष­वि­शेषं व्योमे­वा­न्त­र्ब­हि­रपि पूर्णम् ।
ब्रह्मानन्दं परमद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८९ ॥

ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम् ।
इत्येवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ ७९० ॥

अखण्डामेवैतां घटि­त­प­र­मा­न­न्द­ल­हरीं
परि­ध्व­स्त­द्वै­त­प्र­मि­ति­म­मलां वृत्तिमनिशम् ।
अमुञ्चानः स्वात्म­न्य­नु­प­म­सुखे ब्रह्मणि परे
रमस्व प्रारब्धं क्षपय सुखवृत्त्या त्वमनया ॥ ७९१ ॥

ब्रह्मा­न­न्द­र­सा­स्वा­द­त­त्प­रे­णैव चेतसा ।
समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्सदा मुने ॥ ७९२ ॥

शिष्यः -

अखण्डाख्या वृत्तिरेषा वाक्या­र्थ­श्रु­ति­मा­त्रतः ।
श्रोतुः सञ्जायते किं वा क्रिया­न्त­र­म­पे­क्षते ॥ ७९३ ॥

समाधिः कः कति­वि­ध­स्त­त्सिद्धेः किमु साधनम् ।
समाधेरन्तरायाः के सर्व­मे­त­न्नि­रू­प्य­ताम् ॥ ७९४ ॥

श्रीगुरुः -

मुख्य­गौ­णा­दि­भे­देन विद्य­न्तेऽ­त्रा­धि­का­रिणः ।
तेषां प्रज्ञा­नु­सा­रे­णा­खण्डा वृत्तिरुदेष्यते ॥ ७९५ ॥

श्रद्धा­भ­क्ति­पु­रः­स­रेण विहितेनैवेश्वरं कर्मणा
सन्तो­ष्या­र्जि­त­त­त्प्र­सा­द­म­हिमा जन्मान्तरेष्वेव यः ।
नित्या­नि­त्य­वि­वे­क­ती­व्र­वि­र­ति­न्या­सा­दिभिः साधनै -
र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥ ७९६ ॥

अध्या­रो­पा­प­वा­द­क्र­म­म­नु­स­रता देशिकेनात्र वेत्त्रा
वाक्यार्थे बोध्यमाने सति सपदि सतः शुद्ध­बु­द्धे­र­मुष्य ।
नित्या­न­न्दा­द्वि­तीयं निरुपमममलं यत्परं तत्त्वमेकं
तद्ब्र­ह्मै­वा­ह­म­स्मी­त्यु­द­यति पर­मा­ख­ण्ड­ता­का­र­वृत्तिः ॥ ७९७ ॥

अख­ण्डा­का­र­वृत्तिः सा चिदाभाससमन्विता ।
आत्माभिन्नं परं ब्रह्म विषयीकृत्य केवलम् ॥ ७९८ ॥

बाधते तद्गताज्ञानं यदावरणलक्षणम् ।
अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥ ७९९ ॥

तत्कार्यं सकलं तेन समं भवति बाधितम् ।
तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥ ८०० ॥

तस्य कार्यतया जीववृत्तिर्भवति बाधिता ।
उपप्रभा यथा सूर्यं प्रका­श­यि­तु­म­क्षमा ॥ ८०१ ॥

तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् ।
स्वप्रकाशं परं ब्रह्म प्रका­श­यि­तु­म­क्ष­मम् ॥ ८०२ ॥

प्रच­ण्डा­त­प­म­ध्य­स्थ­दी­प­व­न्न­ष्ट­दी­धितिः ।
तत्तेजसाभिभूतं सल्लीनोपाधितया ततः ॥ ८०३ ॥

बिम्ब­भू­त­प­र­ब्र­ह्म­मात्रं भवति केवलम् ।
यथापनीते त्वादर्शे प्रतिबिम्बमुखं स्वयम् ॥ ८०४ ॥

मुखमात्रं भवे­त्त­द्व­दे­त­च्चो­पा­धि­स­ङ्क्ष­यात् ।
घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ ८०५ ॥

घटं विस्फुरयत्येष चिदाभासः स्वतेजसा ।
न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥ ८०६ ॥

अत एव मतं वृत्ति­व्या­प्यत्वं वस्तुनः सताम् ।
न फलव्याप्यता तेन न विरोधः परस्परम् ॥ ८०७ ॥

श्रुत्योदितं ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया ।
प्रज्ञामान्द्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥ ८०८ ॥

स्याद­ख­ण्डा­का­र­वृ­त्ति­र्विना तु मननादिना ।
श्रव­णा­न्म­न­ना­द्ध्या­ना­त्ता­त्प­र्येण निरन्तरम् ॥ ८०९ ॥

बुद्धेः सूक्ष्म­त्व­मा­याति ततो वस्तूपलभ्यते ।
मन्दप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥ ८१० ॥

श्रवणं मननं ध्यानं सम्य­ग्व­स्तू­प­ल­ब्धये ।
सर्व­वे­दा­न्त­वा­क्यानां षड्भिर्लिङ्गैः सदद्वये ॥ ८११ ॥

परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः ।
श्रुत­स्यै­वा­द्वि­ती­यस्य वस्तुनः प्रत्यगात्मनः ॥ ८१२ ॥

वेदा­न्त­वा­क्या­नु­गु­ण­यु­क्ति­भि­स्त्व­नु­चि­न्त­नम् ।
मननं तच्छ्रुतार्थस्य साक्षा­त्क­र­ण­का­र­णम् ॥ ८१३ ॥

विजा­ती­य­श­री­रा­दि­प्र­त्य­य­त्या­ग­पू­र्व­कम् ।
सजा­ती­या­त्म­वृ­त्तीनां प्रवाहकरणं यथा ॥ ८१४ ॥

तैल­धा­रा­व­द­च्छि­न्न­वृत्त्या तद्ध्यानमिष्यते ।
तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥ ८१५ ॥

प्रमाणसंशयो याव­त्स्व­बु­द्धेर्न निवर्तते ।
प्रमेयसंशयो यावत्तावत्तु श्रुतियुक्तिभिः ॥ ८१६ ॥

आत्म­या­था­र्थ्य­नि­श्चित्त्यै कर्तव्यं मननं मुहुः ।
विप­री­ता­त्म­धी­र्या­वन्न विनश्यति चेतसि ।
तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता ॥ ८१७ ॥

यावन्न तर्केण निरासितोऽपि
दृश्य­प्र­प­ञ्च­स्त्व­प­रो­क्ष­बो­धात् ।
विलीयते तावदमुष्य भिक्षो -
र्ध्यानादि सम्यक्करणीयमेव ॥ ८१८ ॥

सविकल्पो निर्विकल्प इति द्वेधा निगद्यते ।
समाधिः सविकल्पस्य लक्षणं वच्मि तच्छृणु ॥ ८१९ ॥

ज्ञात्रा­द्य­वि­ल­ये­नैव ज्ञेये ब्रह्मणि केवले ।
तदाकाराकारितया चित्त­वृ­त्ते­र­व­स्थितिः ॥ ८२० ॥

सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः ।
मृद एवावभानेऽपि मृण्म­य­द्वि­प­भा­न­वत् ॥ ८२१ ॥

सन्मा­त्र­व­स्तु­भा­नेऽपि त्रिपुटी भाति सन्मयी ।
समाधिरत एवायं सविकल्प इतीर्यते ॥ ८२२ ॥

ज्ञात्रा­दि­भा­व­मु­त्सृज्य ज्ञेय­मा­त्र­स्थि­ति­र्दृढा ।
मनसो निर्विकल्पः स्यात्स­मा­धि­र्यो­ग­सं­ज्ञितः ॥ ८२३ ॥

जले निक्षिप्तलवणं जलमात्रतया स्थितम् ।
पृथङ् न भाति किं न्वम्भ एकमेवावभासते ॥ ८२४ ॥

यथा तथैव सा वृत्ति­र्ब्र­ह्म­मा­त्र­तया स्थिता ।
पृथङ् न भाति ब्रह्मै­वा­द्वि­ती­य­म­व­भा­सते ॥ ८२५ ॥

ज्ञात्रा­दि­क­ल्प­ना­भा­वा­न्म­तोऽयं निर्विकल्पकः ।
वृत्तेः सद्भा­व­बा­धा­भ्या­मु­भ­यो­र्भेद इष्यते ॥ ८२६ ॥

समा­धि­सु­प्त्यो­र्ज्ञानं चाज्ञानं सुप्त्यात्र नेष्यते ।
सविकल्पो निर्विकल्पः समाधी द्वाविमौ हृदि ॥ ८२७ ॥

मुमु­क्षो­र्य­त्नतः कार्यौ विपरीतनिवृत्तये ।
कृतेऽ­स्मि­न्वि­प­री­ताया भावनाया निवर्तनम् ॥ ८२८ ॥

ज्ञान­स्या­प्र­ति­ब­द्धत्वं सदानन्दश्च सिध्यति ।
दृश्यानुविद्धः शब्दा­नु­वि­द्ध­श्चेति द्विधा मतः ॥ ८२९ ॥

सवि­क­ल्प­स्त­यो­र्य­त्त­ल्ल­क्षणं वच्मि तच्छृणु ।
कामा­दि­प्र­त्य­यै­र्दृश्यैः संसर्गो यत्र दृश्यते ॥ ८३० ॥

सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः ।
अहं­म­मे­द­मि­त्या­दि­का­म­क्रो­धा­दि­वृ­त्तयः ॥ ८३१ ॥

दृश्यन्ते येन सन्दृष्टा दृश्याः स्युरहमादयः ।
कामा­दि­स­र्व­वृ­त्तीनां द्रष्टा­र­म­वि­का­रि­णम् ॥ ८३२ ॥

साक्षिणं स्वं विजा­नी­या­द्यस्ताः पश्यति निष्क्रियः ।
कामादीनामहं साक्षी दृश्यन्ते ते मया ततः ॥ ८३३ ॥

इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् ।
दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ ८३४ ॥

नाहं देहो नाप्य­सु­र्ना­क्ष­वर्गो
नाहङ्कारो नो मनो नापि बुद्धिः ।
अन्तस्तेषां चापि तद्विक्रियाणां
साक्षी नित्यः प्रत्य­गे­वा­ह­मस्मि ॥ ८३५ ॥

वाचः साक्षी प्राणवृत्तेश्च साक्षी
बुद्धेः साक्षी बुद्धिवृत्तेश्च साक्षी ।
चक्षुः­श्रो­त्रा­दी­न्द्रि­याणां च साक्षी
साक्षी नित्यः प्रत्य­गे­वा­ह­मस्मि ॥ ८३६ ॥

नाहं स्थूलो नापि सूक्ष्मो न दीर्घो
नाहं बालो नो युवा नापि वृद्धः ।
नाहं काणो नापि मूको न षण्डः
साक्षी नित्यः प्रत्य­गे­वा­ह­मस्मि ॥ ८३७ ॥

नास्म्यागन्ता नापि गन्ता न हन्ता
नाहं कर्ता न प्रयोक्ता न वक्ता ।
नाहं भोक्ता नो सुखी नैव दुःखी
साक्षी नित्यः प्रत्य­गे­वा­ह­मस्मि ॥ ८३८ ॥

नाहं योगी नो वियोगी न रागी
नाहं क्रोधी नैव कामी न लोभी ।
नाहं बद्धो नापि युक्तो न मुक्तः
साक्षी नित्यः प्रत्य­गे­वा­ह­मस्मि ॥ ८३९ ॥

नान्तःप्रज्ञो न बहिःप्रज्ञको वा
नैव प्रज्ञो नापि चाप्रज्ञ एषः ।
नाहं श्रोता नापि मन्ता न बोद्धा
साक्षी नित्यः प्रत्य­गे­वा­ह­मस्मि ॥ ८४० ॥

न मेऽस्ति देहे­न्द्रि­य­बु­द्धि­योगो
न पुण्यलेशोऽपि न पापलेशः ।
क्षुधा­पि­पा­सा­दि­ष­डू­र्मि­दूरः
सदा विमुक्तोऽस्मि चिदेव केवलः ॥ ८४१ ॥

अपा­णि­पा­दोऽ­ह­म­वा­ग­चक्षुः
अप्राण एवास्म्यमना ह्यबुद्धिः ।
व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मि
सदैकरूपोऽस्मि चिदेव केवलः ॥ ८४२ ॥

इति स्वमा­त्मा­न­म­वे­क्ष­माणः
प्रतीतदृश्यं प्रविलापयन्सदा ।
जहाति विद्वा­न्वि­प­री­त­भावं
स्वाभाविकं भ्रान्ति­व­शा­त्प्र­ती­तम् ॥ ८४३ ॥

विप­री­ता­त्म­ता­स्फू­र्ति­रेव मुक्तिरितीर्यते ।
सदा समाहितस्यैव सैषा सिध्यति नान्यथा ॥ ८४४ ॥

न वेषभाषाभिरमुष्य मुक्तिर्या
केव­ला­ख­ण्ड­चि­दा­त्मना स्थितिः ।
तत्सिद्धये स्वात्मनि सर्वदा स्थितो
जह्यादहन्तां ममतामुपाधौ ॥ ८४५ ॥

स्वात्मतत्त्वं समालम्ब्य कुर्या­त्प्र­कृ­ति­ना­श­नम् ।
तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥ ८४६ ॥

ज्ञात्वा देवं सर्वपाशापहानिः
क्षीणैः क्लेशै­र्ज­न्म­मृ­त्यु­प्र­हानिः ।
इत्येवैषा वैदिकी वाग्ब्रवीति
क्लेशक्षत्यां जन्म­मृ­त्यु­प्र­हा­णिम् ॥ ८४७ ॥

भूयो जन्मा­द्य­प्र­स­क्ति­र्वि­मुक्तिः
क्लेशक्षत्यां भाति जन्माद्यभावः ।
क्लेशक्षत्या हेतु­रा­त्मै­क­निष्ठा
तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥ ८४८ ॥

क्लेशाः स्युर्वासना एव जन्तो­र्ज­न्मा­दि­का­र­णम् ।
ज्ञान­नि­ष्ठा­ग्निना दाहे तासां नो जन्महेतुता ॥ ८४९ ॥

बीजा­न्य­ग्नि­प्र­द­ग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ ८५० ॥

तस्मा­न्मु­मुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः ।
निःशे­ष­वा­स­ना­क्षत्यै विपरीतनिवृत्तये ॥ ८५१ ॥

ज्ञान­नि­ष्ठा­त­त्प­रस्य नैव कर्मोपयुज्यते ।
कर्मणो ज्ञाननिष्ठाया न सिध्यति सहस्थितिः ॥ ८५२ ॥

पर­स्प­र­वि­रु­द्ध­त्वा­त्त­यो­र्भि­न्न­स्व­भा­वयोः ।
कर्तृ­त्व­भा­व­ना­पूर्वं कर्म ज्ञानं विलक्षणम् ॥ ८५३ ॥

देहा­त्म­बु­द्धे­र्वि­च्छित्त्यै ज्ञानं कर्म विवृद्धये ।
अज्ञानमूलकं कर्म ज्ञानं तूभयनाशकं ॥ ८५४ ॥

ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा ।
सहयोगो न घटते यथा तिमिरतेजसोः ॥ ८५५ ॥

निमे­षो­न्मे­ष­यो­र्वापि तथैव ज्ञानकर्मणोः ।
प्रतीचीं पश्यतः पुंसां कुतः प्राचीविलोकनम् ।
प्रत्य­क्प्र­व­ण­चि­त्तस्य कुतः कर्मणि योग्यता ॥ ८५६ ॥

ज्ञानै­क­नि­ष्ठा­नि­र­तस्य भिक्षो -
र्नैवा­व­का­शोऽस्ति हि कर्मतन्त्रे ।
तदेव कर्मास्य तदेव सन्ध्या
तदेव सर्वं न ततोऽन्यदस्ति ॥ ८५७ ॥

बुद्धि­क­ल्पि­त­मा­लि­न्य­क्षा­लनं स्नानमात्मनः ।
तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥ ८५८ ॥

स्वस्वरूपे मनः­स्था­न­म­नु­ष्ठानं तदिष्यते ।
करणत्रयसाध्यं यत्तन्मृषा तदसत्यतः ॥ ८५९ ॥

विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः ।
सा सन्ध्या तदनुष्ठानं तद्दानं तद्धि भोजनम् ॥ ८६० ॥

विज्ञा­त­प­र­मा­र्थानां शुद्ध­स­त्त्वा­त्मनां सताम् ।
यतीनां किमनुष्ठानं स्वानुसन्धिं विनापरम् ॥ ८६१ ॥

तस्मा­त्क्रि­या­न्तरं त्यक्त्वा ज्ञाननिष्ठापरो यतिः ।
सदात्मनिष्ठया तिष्ठे­न्नि­श्च­ल­स्त­त्प­रा­यणः ॥ ८६२ ॥

कर्तव्यं स्वोचितं कर्म योग­मा­रो­ढु­मि­च्छता ।
आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८६३ ॥

योगं समारोहति यो मुमुक्षुः
क्रियान्तरं तस्य न युक्तमीषत् ।
क्रिया­न्त­रा­स­क्त­मनाः पतत्यसौ
ताल­द्रु­मा­रो­ह­ण­क­र्तृ­व­द्ध्रु­वम् ॥ ८६४ ॥

योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः ।
नास्त्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् ।
दृश्यानुविद्धः कथितः समाधिः सविकल्पकः ॥ ८६५ ॥

शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् ।
शान्तोऽ­ह­म­न­न्तोऽहं सत­त­प­रा­न­न्द­सि­न्धु­रे­वा­हम् ॥ ८६६ ॥

आद्योऽ­ह­म­ना­द्योऽहं वाङ्मनसा साध्य­व­स्तु­मा­त्रोऽ­हम् ।
निग­म­व­चो­वे­द्योऽ­ह­म­न­व­द्या­ख­ण्ड­बो­ध­रू­पोऽ­हम् ॥ ८६७ ॥

विदि­ता­वि­दि­ता­न्योऽहं माया­त­त्का­र्य­ले­श­शू­न्योऽ­हम् ।
केव­ल­दृ­गा­त्म­कोऽहं संविन्मात्रः सकृद्विभातोऽहम् ॥ ८६८ ॥

अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् ।
अजरोऽहमक्षरोऽहं नित्या­न­न्दोऽ­ह­म­द्वि­ती­योऽ­हम् ॥ ८६९ ॥

प्रत्य­ग­भि­न्न­म­खण्डं सत्य­ज्ञा­ना­दि­ल­क्षणं शुद्धम् ।
श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥ ८७० ॥

एवं सन्मा­त्र­गा­हिन्या वृत्त्या तन्मात्रगाहकैः ।
शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ॥ ८७१ ॥

कामा­दि­दृ­श्य­प्र­वि­ला­प­पू­र्वकं
शुद्धोऽ­ह­मि­त्या­दि­क­श­ब्द­मिश्रः ।
दृश्येव निष्ठस्य य एष भावः
शब्दानुविद्धः कथितः समाधिः ॥ ८७२ ॥

दृश्यस्यापि च साक्षि­त्वा­त्स­मु­ल्ले­ख­न­मा­त्मनि ।
निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥ ८७३ ॥

सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् ।
संस्कारपूर्वकं कुर्या­न्नि­र्वि­क­ल्पोऽस्य सिध्यति ॥ ८७४ ॥

निर्वि­क­ल्प­क­स­मा­धि­नि­ष्ठया
तिष्ठतो भवति नित्यता ध्रुवम् ।
उद्भ­वा­द्य­प­ग­ति­र्नि­र­र्गला
नित्य­नि­श्च­ल­नि­र­स्त­नि­र्वृतिः ॥ ८७५ ॥

विद्वानहमिदमिति वा किञ्चि
द्बाह्या­भ्य­न्त­र­वे­द­न­शून्यः ।
स्वान­न्दा­मृ­त­सि­न्धु­नि­मग्न -
स्तूष्णीमास्ते कश्चिदनन्यः ॥ ८७६ ॥

निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः ।
एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशाम् ॥ ८७७ ॥

यथा समाधित्रितयं यत्नेन क्रियते हृदि ।
तथैव बाह्यदेशेऽपि कार्यं द्वैतनिवृत्तये ॥ ८७८ ॥

तत्प्रकारं प्रवक्ष्यामि निशामय समासतः ।
अधिष्ठानं परं ब्रह्म सच्चि­दा­न­न्द­ल­क्ष­णम् ॥ ८७९ ॥

तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् ।
सत्त्वं चित्त्वं तथानन्दरूपं यद्ब्र­ह्म­ण­स्त्र­यम् ॥ ८८० ॥

अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् ।
एतानि सच्चि­दा­न­न्द­ना­म­रू­पाणि पञ्च च ॥ ८८१ ॥

एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात् ।
शैत्यं श्वेतं रसं द्राव्यं तरङ्ग इति नाम च ॥ ८८२ ॥

एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा ।
आरोपिते नामरूपे उपेक्ष्य ब्रह्मणस्ततः ॥ ८८३ ॥

स्वरू­प­मा­त्र­ग्र­हणं समाधिर्बाह्य आदिमः ।
सच्चि­दा­न­न्द­रू­पस्य सकाशाद्ब्रह्मणो यतिः ॥ ८८४ ॥

नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन् ।
अधिष्ठानं परं ब्रह्म सच्चि­दा­न­न्द­म­द्व­यम् ।
यत्त­दे­वा­ह­मि­त्येव निश्चितात्मा भवेद्ध्रुवम् ॥ ८८५ ॥

इयं भूर्न सन्नापि तोयं न तेजो
न वायुर्न खं नापि तत्कार्यजातम् ।
यदे­षा­म­धि­ष्ठा­न­भूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८६ ॥

न शब्दो न रूपं न च स्पर्शको वा
तथा नो रसो नापि गन्धो न चान्यः ।
यदे­षा­म­धि­ष्ठा­न­भूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८७ ॥

न सद्द्रव्यजातं गुणा न क्रिया वा
न जातिर्विशेषो न चान्यः कदापि ।
यदे­षा­म­धि­ष्ठा­न­भूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८८ ॥

न देहो न चाक्षाणि न प्राणावायु -
र्मनो नापि बुद्धिर्न चित्तं ह्यहन्धीः ।
यदे­षा­म­धि­ष्ठा­न­भूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८९ ॥

न देशो न कालो न दिग्वापि सत्स्या -
न्न वस्त्वन्तरं स्थूल­सू­क्ष्मा­दि­रू­पम् ।
यदे­षा­म­धि­ष्ठा­न­भूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८९० ॥

एतद्दृश्यं नामरूपात्मकं यो -
ऽधिष्ठानं तद्ब्रह्म सत्यं सदेति ।
गच्छं­स्ति­ष्टन्वा शयानोऽपि नित्यं
कुर्या­द्वि­द्वा­न्बा­ह्य­दृ­श्या­नु­वि­द्धम् ॥ ८९१ ॥

अध्य­स्त­ना­म­रू­पा­दि­प्र­वि­ला­पेन निर्मलम् ।
अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२ ॥

निर्विकारं निराकारं निरञ्जनमनामयम् ।
आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न संशयः ॥ ८९३ ॥

निष्कलङ्कं निरातङ्कं त्रिवि­ध­च्छे­द­व­र्जि­तम् ।
आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ ८९४ ॥

निर्विशेषं निराभासं नित्य­मु­क्त­म­वि­क्रि­यम् ।
प्रज्ञानैकरसं सत्यं ब्रह्मैवास्मीति भावयेत् ॥ ८९५ ॥

शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ ८९६ ॥

सुसू­क्ष्म­म­स्ति­ता­मात्रं निर्विकल्पं महत्तमम् ।
केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥ ८९७ ॥

इत्येवं निर्वि­का­रा­दि­श­ब्द­मा­त्र­स­म­र्पि­तम् ।
ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥ ८९८ ॥

ब्रह्मा­न­न्द­र­सा­वे­शा­दे­की­भूय तदात्मना ।
वृत्तेर्या निश्चलावस्था स समाधिरकल्पकः ॥ ८९९ ॥

उत्थाने वाप्य­नु­त्था­नेऽ­प्य­प्र­मत्तो जितेन्द्रियः ।
समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥ ९०० ॥

विप­री­ता­र्थ­धी­र्या­वन्न निःशेषं निवर्तते ।
स्वरूपस्फुरणं यावन्न प्रसि­ध्य­त्य­न­र्ग­लम् ।
ताव­त्स­मा­धि­ष­ट्केन नयेत्कालं निरन्तरम् ॥ ९०१ ॥

न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता ।
प्रमादे जृम्भते माया सूर्यापाये तमो यथा ॥ ९०२ ॥

स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः ।
स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ॥ ९०३ ॥

अस्मिन्समाधौ कुरुते प्रयासं
यस्तस्य नैवास्ति पुनर्विकल्पः ।
सर्वा­त्म­भा­वोऽ­प्य­मु­नैव सिध्ये -
त्सर्वात्मभावः खलु केवलत्वम् ॥ ९०४ ॥

सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः ।
जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥ ९०५ ॥

योऽहं ममे­त्या­द्य­स­दा­त्म­गा­हको
ग्रन्थिर्लयं याति स वासनामयः ।
समाधिना नश्यति कर्मबन्धो
ब्रह्मा­त्म­बो­धोऽ­प्र­ति­बन्ध इष्यते ॥ ९०६ ॥

एष निष्कण्टकः पन्था मुक्ते­र्ब्र­ह्मा­त्मना स्थितेः ।
शुद्धात्मनां मुमुक्षूणां यत्स­दे­क­त्व­द­र्श­नम् ॥ ९०७ ॥

तस्मात्त्वं चाप्यप्रमत्तः समाधी -
न्कृत्वा ग्रन्थिं साधु निर्दह्य युक्तः ।
नित्यं ब्रह्मा­न­न्द­पी­यू­ष­सिन्धौ
मज्ज­न्क्री­ड­न्मो­द­मानो रमस्व ॥ ९०८ ॥

निर्वि­क­ल्प­स­मा­धिर्यो वृत्ति­र्नै­श्च­ल्य­ल­क्षणा ।
तमेव योग इत्या­हु­र्यो­ग­शा­स्त्रा­र्थ­को­विदाः ॥ ९०९ ॥

अष्टावङ्गानि योगस्य यमो नियम आसनम् ।
प्राणायामस्तथा प्रत्या­हा­र­श्चापि च धारणा ॥ ९१० ॥

ध्यानं समाधिरित्येव निगदन्ति मनीषिणः ।
सर्वं ब्रह्मेति विज्ञा­ना­दि­न्द्रि­य­ग्रा­म­सं­यमः ॥ ९११ ॥

यमोऽयमिति सम्प्रो­क्तोऽ­भ्य­स­नीयो मुहुर्मुहुः ।
सजातीयप्रवाहश्च विजा­ती­य­ति­र­स्कृतिः ॥ ९१२ ॥

नियमो हि परानन्दो नियमात्क्रियते बुधैः ।
सुखेनैव भवे­द्य­स्मि­न्न­जस्रं ब्रह्मचिन्तनम् ॥ ९१३ ॥

आसनं तद्वि­जा­नी­या­दि­त­र­त्सु­ख­ना­श­नम् ।
चित्ता­दि­स­र्व­भा­वेषु ब्रह्मत्वेनैव भावनात् ॥ ९१४ ॥

निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ।
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ॥ ९१५ ॥

ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ।
तत­स्त­द्वृ­त्ति­नै­श्चल्यं कुम्भकः प्राणसंयमः ॥ ९१६ ॥

अयं चापि प्रबु­द्धा­ना­म­ज्ञानां प्राणपीडनम् ।
विषयेष्वात्मतां त्यक्त्वा मन­स­श्चि­ति­म­ज्ज­नम् ॥ ९१७ ॥

प्रत्याहारः स विज्ञे­योऽ­भ्य­स­नीयो मुमुक्षुभिः ।
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥ ९१८ ॥

मनसो धारणं चैव धारणा सा परा मता ।
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥ ९१९ ॥

ध्यानशब्देन विख्याता परमानन्ददायिनी ।
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ॥ ९२० ॥

वृत्तिविस्मरणं सम्य­क्स­मा­धि­र्ध्या­न­सं­ज्ञिकः ।
समाधौ क्रियमाणे तु विघ्ना ह्यायान्ति वै बलात् ॥ ९२१ ॥

अनु­स­न्धा­न­रा­हि­त्य­मा­लस्यं भोगलालसम् ।
भयं तमश्च विक्षे­प­स्ते­ज­स्प­न्दश्च शून्यता ॥ ९२२ ॥

एवं यद्वि­घ्न­बा­हुल्यं त्याज्यं तद्ब्र­ह्म­वि­ज्जनैः ।
विघ्ना­ने­ता­न्प­रि­त्यज्य प्रमादरहितो वशी ।
समाधिनिष्ठया ब्रह्म साक्षा­द्भ­वि­तु­म­र्हसि ॥ ९२३ ॥

इति गुरु­व­च­ना­च्छ्रु­ति­प्र­माणा -
त्परमवगम्य स्वत­त्त्व­मा­त्म­युक्त्या ।
प्रशमितकरणः समाहितात्मा क्वचि -
दच­ला­कृ­ति­रा­त्म­नि­ष्ठि­तोऽ­भूत् ॥ ९२४ ॥

बहुकालं समाधाय स्वस्वरूपे तु मानसम् ।
उत्थाय पर­मा­न­न्दा­द्गु­रु­मेत्य पुनर्मुदा ॥ ९२५ ॥

प्रमाणपूर्वकं धीमा­न्स­ग­द्ग­द­मु­वाच ह ।
नमो नमस्ते गुरवे नित्या­न­न्द­स्व­रू­पिणे ॥ ९२६ ॥

मुक्तसङ्गाय शान्ताय त्यक्ताहन्ताय ते नमः ।
दयाधाम्ने नमो भूम्ने महिम्नः पारमस्य ते ।
नैवास्ति यत्कटाक्षेण ब्रह्मै­वा­भ­व­म­द्व­यम् ॥ ९२७ ॥

किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ॥ ९२८ ॥

मयि सुखबोधपयोधौ महति ब्रह्मा­ण्ड­बु­द्बु­द­स­ह­स्रम् ।
मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ ९२९ ॥

नित्या­न­न्द­स्व­रू­पोऽ­ह­मा­त्माहं त्वदनुग्रहात् ।
पूर्णोऽ­ह­म­न­व­द्योऽहं केवलोऽहं च सद्गुरो ॥ ९३० ॥

अक­र्ता­ह­म­भो­क्ता­ह­म­वि­का­रोऽ­ह­म­क्रियः ।
आनन्दघन एवाहमसङ्गोऽहं सदाशिवः ॥ ९३१ ॥

त्वत्क­टा­क्ष­व­र­चा­न्द्र­च­न्द्रि­का­पा­त­धू­त­भ­व­ता­प­ज­श्रमः ।
प्राप्त­वा­न­ह­म­ख­ण्ड­वै­भ­वा­न­न्द­मा­त्म­प­द­म­क्षयं क्षणात् ॥ ९३२ ॥

छायया स्पृष्टमुष्णं वा शीतं वा दुष्ठु सुष्ठु वा ।
न स्पृशत्येव यत्कि­ञ्चि­त्पु­रुषं तद्विलक्षणम् ॥ ९३३ ॥

न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम् ।
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ९३४ ॥

रवेर्यथा कर्मणि साक्षिभावो
वह्नेर्यथा वायसि दाहकत्वम् ।
रज्जो­र्य­था­रो­पि­त­व­स्तु­सङ्ग -
स्तथैव कूटस्थचिदात्मनो मे ॥ ९३५ ॥

इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः ।
मुमु­क्षो­रु­प­का­राय प्रष्ट­व्यां­श­म­पृ­च्छत ॥ ९३६ ॥

जीवन्मुक्तस्य भगवन्ननुभूतेश्च लक्षणम् ।
विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥ ९३७ ॥

श्रीगुरुः -

वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः ।
ज्ञाते यस्मिंस्त्वया सर्वं ज्ञातं स्यात्पृष्टमद्य यत् ॥ ९३८ ॥

ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता ।
विचारणा द्वितीया तु तृतीया तनुमानसी ॥ ९३९ ॥

सत्त्वा­प­त्ति­श्च­तुर्थी स्यात्त­तोऽ­सं­स­क्ति­ना­मिका ।
पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ ९४० ॥

स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः ।
वैरा­ग्य­पू­र्व­मि­च्छेति शुभेच्छा चोच्यते बुधैः ॥ ९४१ ॥

शास्त्र­स­ज्ज­न­स­म्प­र्क­वै­रा­ग्या­भ्या­स­पू­र्व­कम् ।
सदा­चा­र­प्र­वृ­त्तिर्या प्रोच्यते सा विचारणा ॥ ९४२ ॥

विचा­र­णा­शु­भे­च्छा­भ्या­मि­न्द्रि­या­र्थेषु रक्तता ।
यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ ९४३ ॥

भूमि­का­त्रि­त­या­भ्या­सा­च्चि­त्तेऽ­र्थ­वि­र­ते­र्व­शात् ।
सत्त्वात्मनि स्थिते शुद्धे सत्त्वा­प­त्ति­रु­दा­हृता ॥ ९४४ ॥

दशा­च­तु­ष्ट­या­भ्या­सा­द­सं­स­र्ग­फला तु या ।
रूढ­स­त्त्व­च­म­त्कारा प्रोक्ता­सं­स­क्ति­ना­मिका ॥ ९४५ ॥

भूमि­का­प­ञ्च­का­भ्या­सा­त्स्वा­त्मा­रा­म­तया भृशम् ।
आभ्यन्तराणां बाह्यानां पदा­र्था­ना­म­भा­व­नात् ॥ ९४६ ॥

परप्रयुक्तेन चिर­प्र­य­त्ने­ना­व­बो­ध­नम् ।
पदार्थाभावना नाम षष्ठी भवति भूमिका ॥ ९४७ ॥

षड्भू­मि­का­चि­रा­भ्या­सा­द्भे­द­स्या­नु­प­ल­म्भ­नात् ।
यत्स्व­भा­वै­क­नि­ष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ९४८ ॥

इदं ममेति सर्वेषु दृश्य­भा­वे­ष्व­भा­वना ।
जाग्र­ज्जा­ग्र­दिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥ ९४९ ॥

विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम् ।
नामरूपपरित्यागो जाग्रत्स्वप्नः समीर्यते ॥ ९५० ॥

परि­पू­र्ण­चि­दा­काशे मयि बोधात्मतां विना ।
न किञ्चि­द­न्य­द­स्तीति जाग्रत्सुप्तिः समीर्यते ॥ ९५१ ॥

मूला­ज्ञा­न­वि­ना­शेन कार­णा­भा­स­चे­ष्टितैः ।
बन्धो न मेऽतिस्वल्पोऽपि स्वप्न­जा­ग्र­दि­ती­र्यते ॥ ९५२ ॥

कार­णा­ज्ञा­न­ना­शा­द्य­द्द्र­ष्टृ­द­र्श­न­दृ­श्यता ।
न कार्यमस्ति तज्ज्ञानं स्वप्नस्वप्नः समीर्यते ॥ ९५३ ॥

अति­सू­क्ष्म­वि­म­र्शेन स्वधी­वृ­त्ति­र­च­ञ्चला ।
विलीयते यदा बोधे स्वप्न­सु­प्ति­रि­ती­र्यते ॥ ९५४ ॥

चिन्मयाकारमतयो धीवृ­त्ति­प्र­स­रै­र्गतः ।
आनन्दानुभवो विद्वन् सुप्ति­जा­ग्र­दि­ती­र्यते ॥ ९५५ ॥

वृत्तौ चिरा­नु­भू­ता­न्त­रा­न­न्दा­नु­भ­व­स्थितौ ।
समात्मतां यो यात्येष सुप्तिस्वप्न इतीर्यते ॥ ९५६ ॥

दृश्य­धी­वृ­त्ति­रे­तस्य केवलीभावभावना ।
परं बोधैकतावाप्तिः सुप्ति­सु­प्ति­रि­ती­र्यते ॥ ९५७ ॥

परब्रह्मवदाभाति निर्वि­का­रै­क­रू­पिणी ।
सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥ ९५८ ॥

इत्य­व­स्था­स­मु­ल्लासं विमृशन्मुच्यते सुखी ।
शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥ ९५९ ॥

यथा­व­द्भे­द­बु­द्ध्येदं जग­ज्जा­ग्र­दि­ती­र्यते ।
अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥ ९६० ॥

पश्यन्ति स्वप्नवल्लोकं तुर्य­भू­मि­सु­यो­गतः ।
पञ्चमीं भूमिमारुह्य सुषु­प्ति­प­द­ना­मि­काम् ॥ ९६१ ॥

शान्ता­शे­ष­वि­शे­षां­श­स्ति­ष्ठे­द­द्वै­त­मा­त्रके ।
अन्तर्मुखतया नित्यं षष्ठीं भूमिमुपाश्रितः ॥ ९६२ ॥

परिश्रान्ततया गाढनिद्रालुरिव लक्ष्यते ।
कुर्व­न्न­भ्या­स­मे­तस्यां भूम्यां सम्यग्विवासनः ॥ ९६३ ॥

तुर्यावस्थां सप्तभूमिं क्रमा­त्प्रा­प्नोति योगिराट् ।
विदे­ह­मु­क्ति­रे­वात्र तुर्या­ती­त­द­शो­च्यते ॥ ९६४ ॥

यत्र नासन्न सच्चापि नाहं नाप्यनहङ्कृतिः ।
केवलं क्षीणमनन आस्तेऽ­द्वै­तेऽ­ति­नि­र्भयः ॥ ९६५ ॥

अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ।
अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥ ९६६ ॥

यथास्थितमिदं सर्वं व्यवहारवतोऽपि च ।
अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ ९६७ ॥

नोदेति नास्तमायाति सुखदुःखे मनः प्रभा ।
यथा­प्रा­प्त­स्थि­ति­र्यस्य स जीवन्मुक्त उच्यते ॥ ९६८ ॥

यो जागर्त्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ९६९ ॥

राग­द्वे­ष­भ­या­दी­ना­म­नु­रूपं चरन्नपि ।
योऽन्त­र्व्यो­म­व­द­त्यच्छः स जीवन्मुक्त उच्यते ॥ ९७० ॥

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ ९७१ ॥

यः समस्तार्थजालेषु व्यवहार्यपि शीतलः ।
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९७२ ॥

द्वैत­व­र्जि­त­चि­न्मात्रे पदे परमपावने ।
अक्षु­ब्ध­चि­त्त­वि­श्रान्तः स जीवन्मुक्त उच्यते ॥ ९७३ ॥

इदं जगदयं सोऽयं दृश्य­जा­त­म­वा­स्त­वम् ।
यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते ॥ ९७४ ॥

चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।
आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ९७५ ॥

देह­त्र­या­ति­रि­क्तोऽहं शुद्ध­चै­त­न्य­म­स्म्य­हम् ।
ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ९७६ ॥

यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ९७७ ॥

अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ।
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ९७८ ॥

जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विश­त्य­दे­ह­मु­क्तित्वं पव­नोऽ­स्प­न्द­ता­मिव ॥ ९७९ ॥

तत­स्त­त्स­म्ब­भू­वासौ यद्गि­रा­म­प्य­गो­च­रम् ।
यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥ ९८० ॥

विज्ञानं विज्ञानविदां मलानां च मलात्मकम् ।
पुरुषः साङ्ख्य­दृ­ष्टी­ना­मी­श्वरो योगवादिनाम् ॥ ९८१ ॥

शिवः शैवागमस्थानां कालः कालैकवादिनाम् ।
यत्स­र्व­शा­स्त्र­सि­द्धान्तं यत्स­र्व­हृ­द­या­नु­गम् ।
यत्सर्वं सर्वगं वस्तु तत्तत्त्वं तदसौ स्थितः ॥ ९८२ ॥

ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ।
चिन्मात्रेणेव यस्ति­ष्ठे­द्वि­देहो मुक्त एव सः ॥ ९८३ ॥

यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न ।
अतीतातीतभावो यो विदेहो मुक्त एव सः ॥ ९८४ ॥

चित्त­वृ­त्ते­र­तीतो यश्चि­त्त­वृ­त्त्या­व­भा­सकः ।
चित्त­वृ­त्ति­वि­हीनो यो विदेहो मुक्त एव सः ॥ ९८५ ॥

जीवात्मेति परात्मेति सर्व­चि­न्ता­वि­व­र्जितः ।
सर्व­स­ङ्क­ल्प­ही­नात्मा विदेहो मुक्त एव सः ॥ ९८६ ॥

ओङ्का­र­वा­च्य­ही­नात्मा सर्व­वा­च्य­वि­व­र्जितः ।
अव­स्था­त्र­य­ही­नात्मा विदेहो मुक्त एव सः ॥ ९८७ ॥

अहि­नि­र्ल्व­य­नी­स­र्प­नि­र्मोको जीववर्जितः ।
वल्मीके पति­त­स्ति­ष्ठेत्तं सर्पो नाभिमन्यते ॥ ९८८ ॥

एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते ।
प्रत्य­ग्ज्ञा­न­शि­खि­ध्वस्ते मिथ्याज्ञाने सहेतुके ॥ ९८९ ॥

नेति नेती­त्य­रू­प­त्वा­द­श­रीरो भवत्ययम् ।
विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयम् ॥ ९९० ॥

विराड् हिरण्यगर्भश्च ईश्वरश्चेति ते त्रयम् ।
ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥ ९९१ ॥

स्वस्वो­पा­धि­ल­या­देव लीयन्ते प्रत्यगात्मनि ।
तूष्णीमेव ततस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ९९२ ॥

कालभेदो वस्तुभेदो देशभेदः स्वभेदकः ।
किञ्चिद्भेदो न तस्यास्ति किञ्चिद्वापि न विद्यते ॥ ९९३ ॥

जीवेश्वरेति वाक्ये च वेद­शा­स्त्रे­ष्वहं त्विति ।
इदं चैतन्यमेवेत्यहं चैतन्यमित्यपि ॥ ९९४ ॥

इति निश्चयशून्यो यो विदेहो मुक्त एव सः ।
ब्रह्मैव विद्यते साक्षा­द्व­स्तु­तोऽ­व­स्तु­तोऽपि च ॥ ९९५ ॥

तद्विद्याविषयं ब्रह्म सत्य­ज्ञा­न­सु­खा­त्म­कम् ।
शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥ ९९६ ॥

सिद्धा­न्तोऽ­ध्या­त्म­शा­स्त्राणां सर्वापह्नव एव हि ।
नाविद्यास्तीह नो माया शान्तं ब्रह्मैव तद्विना ॥ ९९७ ॥

प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ ९९८ ॥

यावद्यावच्च सद्बुद्धे स्वयं सन्त्य­ज्य­तेऽ­खि­लम् ।
ताव­त्ता­व­त्प­रा­नन्दः परमात्मैव शिष्यते ॥ ९९९ ॥

यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा ।
परे ब्रह्मणि लीयेत न तस्यो­त्क्रा­न्ति­रि­ष्यते ॥ १००० ॥

यद्यत्स्वाभिमतं वस्तु तत्त्य­ज­न्मो­क्ष­म­श्नुते ।
असङ्कल्पेन शस्त्रेण छिन्नं चित्तमिदं यदा ॥ १००१ ॥

सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा ।
इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥ १००२ ॥

ज्ञातज्ञेयः सम्प्रणम्य सद्गु­रो­श्च­र­णा­म्बु­जम् ।
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ १००३ ॥

गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः ।
पावयन्वसुधां सर्वां विचचार निरुत्तरः ॥ १००४ ॥

इत्याचार्यस्य शिष्यस्य संवा­दे­ना­त्म­ल­क्ष­णम् ।
निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ १००५ ॥

सर्व­वे­दा­न्त­सि­द्धा­न्त­सा­र­स­ङ्ग्र­ह­ना­मकः ।
ग्रन्थोऽयं हृद­य­ग्र­न्थि­वि­च्छित्त्यै रचितः सताम् ॥ १००६ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ सर्व­वे­दा­न्त­सि­द्धा­न्त­सा­र­स­ङ्ग्रहः सम्पूर्णः ॥
ओं ओं ओं ॥
ओं शम् ॥