अद्वैतशारदा

शास्त्रसिद्धान्तलेशसङ्ग्रहः

प्रथमपरिच्छेदः

अधिगतभिदा पूर्वा­चा­र्या­नु­पेत्य सहस्रधा
सरिदिव महीभेदान् सम्प्राप्य शौरिपदोद्गता ।
जयति भग­व­त्पा­द­श्री­म­न्मु­खा­म्बु­ज­नि­र्गता
जननहरणी सूक्ति­र्ब्र­ह्मा­द्व­यै­क­प­रा­यणा ॥१॥
प्राची­नै­र्व्य­व­हा­र­सि­द्ध­वि­ष­ये­ष्वा­त्मै­क्य­सिद्धौ परं
सन्न­ह्य­द्भि­र­ना­द­रात् सरणयो नानाविधा दर्शिताः ।
तन्मूलानिह सङ्ग्रहेण कतिचित् सिद्धान्तभेदान् धिय-
श्शुद्ध्यै सङ्कलयामि तात­च­र­ण­व्या­ख्या­व­चः­ख्या­पि­तान् ॥२॥
तेषू­प­पा­द­ना­पे­क्षान् पक्षान् प्रायो यथामति ।
युक्त्यो­प­पा­द­य­न्नेव लिखा­म्य­न­ति­वि­स्त­रम् ॥३॥

श्रवणविधिविचारः

तत्र अपू­र्वा­दि­वि­धि­त्र­य­स्व­रू­प­नि­रू­प­णम्

तत्र तावत् ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो (मन्तव्यः)’(बृ.उ. २ । ४ । ५) इति अधी­त­सा­ङ्ग­स्वा­ध्या­यस्य वेदा­न्तै­रा­पा­त­प्र­ति­पन्ने ब्रह्मात्मनि समु­दि­त­जि­ज्ञा­सस्य तज्ज्ञानाय वेदान्तश्रवणे विधिः प्रतीयमानः किंविध इति चिन्त्यते ।

तिस्रः खलु विधेर्विधाः – अपूर्वविधिः नियमविधिः परि­स­ङ्ख्या­वि­धिश्च इति । तत्र कालत्रयेऽपि कथ­म­प्य­प्रा­प्तस्य प्राप्तिफलको विधिराद्यः । यथा ‘व्रीहीन् प्रोक्षति’ इति । नात्र व्रीहीणां प्रोक्षणस्य संस्कारकर्मणो विना विनियोगं मानान्तरेण कथमपि प्राप्तिरस्ति । पक्षप्राप्तस्य अप्रा­प्तां­श­प­रि­पू­र­ण­फ­लको विधिर्द्वितीयः । यथा ‘व्रीहीनवहन्ति’ इति । अत्र विध्यभावेऽपि पुरो­डा­श­प्र­कृ­ति­द्र­व्याणां व्रीहीणां तण्डु­ल­नि­ष्प­त्त्या­क्षे­पा­देव अवहननप्राप्तिः भविष्यति इति न तत्प्रा­प्त्य­र्थोऽयं विधिः, किन्तु आक्षे­पा­द­व­ह­न­न­प्राप्तौ तद्वदेव लोका­व­ग­त­का­र­ण­त्वा­वि­शे­षात् नखविदलनादिरपि पक्षे प्राप्नुयात् इति अव­ह­न­ना­प्रा­प्तां­श­स­द्भा­वात् तदंशपरिपूरणफलकः । द्वयोः शेषिणोः एकस्य शेषस्य वा एकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधिः तृतीयः । यथा अग्रिचयने ‘इमा­म­गृ­भ्ण­न्र­श­ना­मृ­त­स्ये­त्य­श्वा­भि­धा­नी­मा­दत्ते’ इति, यथा वा चातु­र्मा­स्या­न्त­र्ग­ते­ष्टि­वि­शेषे गृहमेधीये ‘आज्यभागौ यजति’ इति । अग्निचयने अश्वरशनाग्रहणं गर्दभरशनाग्रहणं च इति द्वयमनुष्ठेयम् । तत्र अश्वरशनाग्रहणे ‘इमामगृभ्णन्’ इति मन्त्रो लिङ्गादेव रश­ना­ग्र­ह­ण­प्र­का­श­न­सा­म­र्थ्य­रू­पात् नित्यं प्राप्नोति इति न तत्प्रा­प्त्यर्थः तद­प्रा­प्तां­श­प­रि­पू­र­णार्थो वा विधिः, किं तु लिङ्गाविशेषात् गर्द­भ­र­श­ना­ग्र­ह­णेऽपि मन्त्रः प्राप्नुयात् इति तन्नि­वृ­त्त्यर्थः । तथा गृहमेधीयस्य दर्श­पू­र्ण­मा­स­प्र­कृ­ति­क­त्वात् अतिदेशादेव आज्यभागौ नित्यं प्राप्नुतः इति न तत्र विधिः तत्प्रा­प्त्यर्थः तन्नियमार्थो वा; किं तु अतिदेशात् प्रयाजादिकमपि प्राप्नुयात् इति तन्नि­वृ­त्त्यर्थः । गृह­मे­धी­या­धि­क­र­ण­पू­र्व­प­क्ष­रीत्या इदमुदाहरणं यत्र क्कचि­दु­दा­ह­र्त­व्य­मि­त्यु­दा­हृ­तम् । न च नियमविधावपि पक्ष­प्रा­प्ता­व­ह­न­नस्य अप्रा­प्तां­श­प­रि­पू­रणे कृते तदवरुद्धत्वात् पाक्षि­क­सा­ध­ना­न्त­रस्य नखविदलनादेः निवृत्तिरपि लभ्यत इति इत­र­नि­वृ­त्ति­फ­ल­क­त्वा­वि­शे­षात् निय­म­प­रि­स­ङ्ख्ययोः फलतो विवेको न यक्त इति शङ्क्यम् । विधि­तोऽ­व­ह­न­न­नि­यमं विना आक्षेपलभ्यस्य नख­वि­द­ल­ना­दे­र्नि­व­र्त­यि­तु­म­श­क्य­तया अप्रा­प्तां­श­प­रि­पू­र­ण­रू­पस्य नियमस्य प्राथम्यात् विधे­या­व­ह­न­न­ग­त­त्वेन प्रत्या­स­न्न­त्वाच्च तस्यैव निय­म­वि­धि­फ­ल­त्वो­प­ग­मात् । तद­नु­नि­ष्पा­दिन्या अविधेयगतत्वेन विप्रकृष्टाया इतरनिवृत्तेः सन्नि­कृ­ष्ट­फ­ल­स­म्भवे फल­त्वा­नौ­चि­त्यात् ।

एवं विविक्तासु तिसृषु विधासु किंविधः श्रव­ण­वि­धि­रा­श्री­यते ।

श्रव­ण­वि­धे­र­पू­र्व­वि­धि­त्वो­प­पा­दम्

प्रक­टा­र्थ­का­रा­दयः केचिदाहुः− अपूर्वविधिरयम् । अप्राप्तत्वात् । न हि ‘वेदान्तश्रवणं ब्रह्म­सा­क्षा­त्का­र­हेतुः’ इति अन्व­य­व्य­ति­रे­क­प्र­मा­ण­मस्ति । लोके कृतश्रवणस्यापि बहु­श­स्त­द­नु­त्पत्तेः अकृतश्रवणस्यापि गर्भगतस्य वामदेवस्य तदुत्पत्तेः उभयतो व्यभिचारात् । न वा श्रवणमात्रं श्रोत­व्या­र्थ­सा­क्षा­त्का­र­हेतुः इति शस्त्रा­न्त­र­श्र­वणे गृहीतः सामा­न्य­नि­य­मोऽस्ति, येनात्र विशिष्य हेतु­त्व­ग्रा­ह­का­भ­वेऽपि सामान्यमुखेनैव हेतुत्वं प्राप्यत इत्याशङ्क्येत । गान्ध­र्वा­दि­शा­स्त्र­श्र­व­णस्य षड्जा­दि­सा­क्षा­त्का­र­हे­तु­त्वा­भ्यु­प­ग­मेऽपि कर्म­का­ण्डा­दि­श्र­व­णात् तद­र्थ­ध­र्मा­दि­सा­क्षा­त्का­रा­द­र्श­नेन व्यभिचारात् । तस्मा­द­पू­र्व­वि­धि­रे­वा­यम् ।

भाष्येऽपि ‘सह­का­र्य­न्त­र­विधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्’(ब्र.सू. ३ । ४ । ४७) इत्यधिकरणे ‘विद्यासहकारिणो मौनस्य बाल्य­पा­ण्डि­त्य­वत् विधि­रे­वा­श्र­यि­तव्यः अपूर्वत्वात्’ इति पाण्डि­त्य­श­ब्द­श­ब्दिते श्रवणे अपू­र्व­वि­धि­रे­वा­ङ्गी­कृतः − इति ।

श्रवणविधेः अपू­र्व­वि­धि­त्व­नि­रा­क­र­ण­पु­र­स्सरं निय­म­वि­धि­त्वो­प­पा­द­नम्

वेदान्तश्रवणस्य नित्या­प­रो­क्ष­ब्र­ह्म­सा­क्षा­त्का­र­हे­तुत्वं न अप्राप्तम् , अप­रो­क्ष­व­स्तु­वि­ष­य­क­प्र­मा­ण­त्वा­व­च्छे­देन साक्षा­त्का­र­हे­तु­त्वस्य प्राप्तेः शाब्दा­प­रो­क्ष­वादे व्यवस्थापनात् । तदर्थमेव हि तत्प्रस्तावः । न च - तावता ब्रह्म­प्र­मा­ण­त्वेन आपा­त­द­र्श­न­सा­धा­र­ण­ब्र­ह्म­सा­क्षा­त्का­र­हे­तु­त्व­प्रा­प्ता­वपि अवि­द्या­नि­वृ­त्त्य­र्थ­मि­ष्य­मा­ण­स­त्ता­नि­श्च­य­रू­प­त­त्सा­क्षा­त्का­र­हे­तुत्वं श्रवणस्य न प्राप्तम् इति वाच्यम् । विचारमात्रस्य विचा­र्य­नि­र्ण­य­हे­तु­त्वस्य ब्रह्मप्रमाणस्य तत्सा­क्षा­त्का­र­हे­तु­त्वस्य च प्राप्तौ विचा­रि­त­वे­दा­न्त­श­ब्द­ज्ञा­न­रू­पस्य श्रवणस्य तद्धे­तु­त्व­प्राप्तेः । न च उक्तोभयतो व्यभिचारः । सह­का­रि­वै­क­ल्ये­ना­न्व­य­व्य­भि­चा­र­स्या­दो­ष­त्वात् , जातिस्मरस्य जन्मा­न्त­र­श्र­व­णात् , फलसम्भवेन व्यति­रे­क­व्य­भि­चा­रा­भा­वात् । अन्यथा व्यभिचारेणैव हेतुत्वबाधे श्रुत्यापि तत्सा­ध­न­ता­ज्ञा­ना­स­म्भ­वात् । घटसाक्षात्कारे चक्षुरतिरेकेण त्वगिन्द्रियमिव ब्रह्म­सा­क्षा­त्कारे श्रवणातिरेकेण उपा­या­न्त­र­म­स्तीति शङ्कायां व्यति­रे­क­व्य­भि­चा­र­स्यापि अदोषत्वात् । तथा च प्राप्त­त्वा­न्ना­पू­र्व­विधिः ।

अत एव ‘आवृ­त्ति­र­स­कृ­दु­प­दे­शात्’(ब्र.सू. ४ । १ । १) इत्यधिकरणभाष्ये ‘दर्श­न­प­र्य­व­सा­नानि हि श्रव­णा­दी­न्या­व­र्त्य­म­नानि दृष्टार्थानि भवन्ति, यथा अवघातादीनि तण्डु­ल­नि­ष्प­त्ति­प­र्य­व­सा­नानि’ इति श्रवणस्य ब्रह्म­द­र्श­ना­र्थस्य दृष्टार्थतया दार्श­पू­र्ण­मा­सि­का­व­घा­त­न्या­य­प्रा­प्ता­वृ­त्त्यु­प­देशः । अपूर्वविधित्वे तु स न सङ्गच्छते सर्वौषधावघातवत् । अग्निचयने ‘सर्वौषधस्य पूर­यि­त्वाऽ­व­हन्ति अथैतदुपदधाति ।’ इति उप­धे­यो­लू­ख­ल­सं­स्का­रा­र्थ­त्वेन विहि­त­स्या­व­घा­तस्य दृष्टा­र्थ­त्वा­भा­वा­न्ना­वृ­त्ति­रिति हि तन्त्रलक्षणे स्थितम् ।

अतो नियमविधिरेवायम् । तदभावे हि यथा वस्तु किञ्चिच्चक्षुषा वीक्षमाणस्तत्र स्वागृहीते सूक्ष्मे विशेषान्तरे केनचित् कथिते तदवगमाय तस्यैव चक्षुषः पुनरपि सप्रणिधानं व्यापारे प्रवर्तते । एवं मनसा ‘अहं’ इति गृह्यमाणे जीवे वेदा­न्तै­र­ध्य­य­न­गृ­ही­तै­रु­प­दिष्टं निर्वि­शे­ष­ब्र­ह्म­चै­त­न्य­रू­प­त्व­मा­कर्ण्य तदवगमाय तत्र सावधानं मनस एव प्रणिधने कदाचित् पुरुषः प्रवर्तेतेति वेदान्तश्रवणे प्रवृत्तिः पाक्षिकी स्यत् । ‘यतो वाचो निवर्तन्ते (अप्राप्य मनसा सह)’(तै.उ. २ । ९ । १) इतिश्रुतिः ’मन­सै­वा­नु­द्र­ष्ट­व्यम्’(बृ.उ. ४ । ४ । १९) ‘द्दश्यते त्वग्र्यया बुद्ध्या’(क.उ. ३ । १२) इत्यपि श्रवणेन अनवहितमनोविषया इति­श­ङ्का­स­म्भ­वात् ।

अथवा ‘जुष्टं यदा पश्य­त्य­न्य­मी­श­मस्य महिमानमिति वीतशोकः’(मु.उ. ३ । १ । २) इत्यादिश्रवणात् भिन्ना­त्म­ज्ञा­ना­न्मु­क्ति­रि­ति­भ्र­म­स­म्भ­वेन मुक्ति­सा­ध­न­ज्ञा­नाय भिन्ना­त्म­वि­चा­र­रूपे शास्त्रा­न्त­र­श्र­व­णेऽपि पक्षे प्रवृ­त्ति­स्स्या­दिति अद्वै­ता­त्म­प­र­वे­दा­न्त­श्र­व­णा­नि­य­म­वि­धि­र­य­मस्तु । इह आत्मशब्दस्य ‘इदं सर्वं यदयमात्मा’(बृ.उ. २ । ४ । ६) इत्या­दि­प्र­क­र­ण­प­र्या­लो­च­नया अद्वि­ती­या­त्म­प­र­त्वात् । न हि वस्तु­स­त्सा­ध­ना­न्त­र­प्रा­प्ता­वेव नियमविधिरिति कुलधर्मः ; येन वेदा­न्त­श्र­व­ण­नि­य­मा­र्थ­व­त्त्वाय निय­मा­दृ­ष्ट­ज­न्य­स्व­प्र­ति­ब­न्ध­क­क­ल्म­ष­नि­वृ­त्ति­द्वारा सत्ता­नि­श्च­य­रू­प­ब्र­ह्म­सा­क्षा­त्का­रस्य वेदा­न्त­श्र­व­णै­क­सा­ध्य­त्व­स्या­भ्यु­प­ग­न्त­व्य­त्वेन तत्र वस्तुत: साध­ना­न्त­रा­भा­वान्न निय­म­वि­धि­र्यु­ज्यत इति शङ्क्येत । किं तु यत्र साधनान्तरतया सम्भाव्यमानस्य पक्षे प्राप्त्या विधि­त्सि­त­सा­ध­नस्य पाक्षि­क्य­प्र­प्ति­र्नि­वा­र­यितुं न शक्यते तत्र नियमविधिः, तावतैव अप्रा­प्तां­श­प­रि­पू­र­णस्य तत्फलस्य सिद्धेः ।

अथवा - गुरुमुखाधीनादिव निपुणस्य स्वप्र­य­त्न­मा­त्र­सा­ध्या­दपि वेदान्तविचारात् सम्भवति सत्तानिश्चयरूपं ब्रह्मा­प­रो­क्ष­ज्ञा­नम् । किं तु गुरु­मु­खा­धी­त­वे­दा­न्त­वा­क्य­श्र­व­ण­नि­य­मा­दृ­ष्टम् अवि­द्या­नि­वृत्तिं प्रति कल्म­ष­नि­रा­से­नो­प­यु­ज्यत इति तदभावेन प्रतिबद्धम् अवि­द्या­म­नि­व­र्त­यत् परो­क्ष­ज्ञा­न­क­ल्प­म­व­ति­ष्ठते । न च ज्ञानोदये अज्ञा­ना­नि­वृ­त्त्य­नु­प­पत्तिः । प्रति­ब­न्ध­का­भा­वस्य सर्व­त्रा­पे­क्षि­त­त्वेन सत्यपि प्रत्य­क्ष­वि­शे­ष­द­र्शने उपाधिना प्रतिबन्धात् प्रति­बि­म्ब­भ्र­मा­नि­वृ­त्ति­वत् तद­नि­वृ­त्त्यु­प­पत्तेः । एवं च लिखितपाठादिनापि स्वाध्या­य­ग्र­ह­ण­प्र­सक्तौ गुरु­मु­खा­धी­ना­ध्य­य­न­नि­य­म­वि­धि­वत् स्वप्र­य­त्न­मा­त्र­पू­र्व­क­स्यापि वेदन्तविचारस्य सत्ता­नि­श्च­य­रू­प­ब्र­ह्म­सा­क्षा­त्का­रा­र्थ­त्वेन पक्षे प्राप्तौ गुरु­मु­खा­धी­न­श्र­व­ण­नि­य­म­वि­धि­रस्तु । न च ‘तद्वि­ज्ञा­नार्थं स गुरु­मे­वा­भि­ग­च्छेत्’(मु.उ. १ । २ । १२) इति गुरूपसदनविधिनैव गुरु­र­हि­त­वि­चा­र­व्या­वृ­त्ति­सि­द्धे­र्वि­फलो नियमविधिरिति शङ्क्यम् । गुरूपसदनस्य श्रवणाङ्गतया श्रवणविध्यभावे तद्विधिरेव नास्तीति तेन तस्य वैफ­ल्या­प्र­सक्तेः । अन्यथा अध्य­य­ना­ङ्ग­भू­तो­प­ग­म­न­वि­धि­नैव लिखि­त­पा­ठा­दि­व्या­वृ­त्ति­रिति अध्ययननियमोऽपि विफलः स्यात् ।

अथवा अद्वै­ता­त्म­प­र­भा­षा­प्र­ब­न्ध­श्र­व­णस्य पक्षे प्राप्त्या वेदान्तश्रवणे नियमविधिरस्तु । न च ‘नम्लेच्छितवै’ इत्या­दि­नि­षे­धा­देव तदप्राप्तिः । शास्त्र­व्यु­त्प­त्ति­मा­न्द्यात् वेदा­न्त­श्र­व­ण­म­श­क्य­मिति पुरु­षा­र्थ­नि­षे­ध­मु­ल्ल­ङ्घ्यापि भाषा­प्र­ब­न्धे­ना­द्वैतं जिज्ञासमानस्य तत्र प्रवृ­त्ति­स­म्भ­वेन निय­म­वि­धे­र­र्थ­व­त्त्वो­प­पत्तेः । ’अभ्युपगम्यते हि कत्रधिकरणे’(जै.सू. ३ । ४ । १२) व्युत्पादितं पुरुषार्थे अनृतवदननिषेधे सत्यपि दर्श­पू­र्ण­मा­स­मध्ये कुत­श्चि­द्धे­तो­र­ङ्गी­कृ­त­नि­षे­धो­ल्ल­ङ्घ­नस्य अविकलां क्रतुसिद्धिं कामयमानस्य अनृतवदने प्रवृत्ति: स्यदिति पुनः क्रत्वर्थतया दर्श­पू­र्ण­मा­स­प्र­क­रणे ‘नानृतं वदेत्’ इति निषेधः इति क्रत्वर्थतया निषे­ध­स्या­र्थ­व­त्वम् ।

यद्वा - यथा ‘मन्त्रैरेव मन्त्रा­र्थ­स्मृतिः साध्या’ इति नियमः , तन्मू­ल­क­क­ल्प­सू­त्रा­त्मी­य­ग्र­ह­ण­क­वा­क्या­दी­ना­मपि पक्षे प्राप्तेः ; तथा वेदा­न्त­मू­ल­के­ति­हा­स­पु­रा­ण­पौ­रु­षे­य­प्र­ब­न्धा­ना­मपि पक्षे प्राप्ति­स­म्भ­वा­न्नि­य­मोऽ­य­मस्तु । सर्वथा नियमविधिरेवायम् । ‘सह­का­र्य­न्त­र­विधिः’ इत्यधिकरणभाष्ये अपू­र्व­त्वो­क्तिस्तु नियमविधित्वेऽपि पाक्षि­का­प्रा­प्ति­स­द्भा­वात् तदभिप्राया इति तत्रैव पक्षेणेति पाक्षि­का­प्रा­प्ति­क­थ­न­प­र­सू­त्र­प­द­यो­ज­नेन स्पष्टीकृतम् - इति विवरणानुसारिणः ॥

शाब्दपरोक्षं प्रति श्रवणस्य शाब्दापरोक्षं प्रति मन­न­नि­दि­ध्या­स­नयोः नियमविधिः

कृतश्रवणस्य प्रथमं शब्दात् निर्विचिकित्सं परो­क्ष­ज्ञा­न­मे­वो­त्प­द्यते । शब्दस्य परो­क्ष­ज्ञा­न­ज­न­न­स्वा­भा­व्येन क्लृप्त­सा­म­र्थ्या­न­ति­ल­ङ्घ­नात् । पश्चात् कृत­म­न­न­नि­दि­ध्या­स­नस्य सह­का­रि­वि­शे­ष­स­म्प­न्नात् तत एव अपरोक्षज्ञानं जायते । तत्तां­श­गो­च­र­ज्ञा­न­ज­न­ना­स­म­र्थ­स्या­पी­न्द्रि­यस्य सत्स­म­र्थ­सं­स्का­र­सा­हि­त्यात् प्रत्य­भि­ज्ञा­न­ज­न­क­त्व­वत् स्वतोऽ­प­रो­क्ष­ज्ञा­न­ज­न­ना­स­म­र्थ­स्यापि शब्दस्य विधु­र­प­रि­भा­वि­त­का­मि­नी­सा­क्षा­त्का­र­स्थले तत्स­म­र्थ­त्वे­न­क्लृ­प्त­भा­व­ना­प्र­च­य­सा­हि­त्या­द­प­रो­क्ष­ज्ञा­न­ज­न­कत्वं युक्तम् । ततश्च शब्दस्य स्वतस्स्वविषये परो­क्ष­ज्ञा­न­ज­न­क­त्वस्य भाव­ना­प्र­च­य­स­ह­कृ­त­ज्ञा­न­क­र­ण­त्वा­व­च्छे­देन विधु­रा­न्त:क­र­ण­व­द­प­रो­क्ष­ज्ञा­न­ज­न­क­त्वस्य च प्राप्तत्वात् पूर्व­व­न्नि­य­म­वि­धि­रिति तदेकदेशिनः ।

शाब्दपरोक्षं प्रति श्रवणस्य मानसापरोक्षं प्रति मन­न­नि­दि­ध्या­स­नयोः नियमविधिः

वेदान्तश्रवणेन न ब्रह्म­सा­क्षा­त्कारः, किन्तु मनसैव , ‘मन­सै­वा­नु­द्र­ष्ट­व्यम्’(बृ.उ. ४ । ४ । १९) इति श्रुतेः । ‘शास्त्रा­चा­र्यो­प­दे­श­श­म­द­मा­दि­सं­स्कृतं मन आत्मदर्शने करणम्’ इति गीता­भा­ष्य­व­च­नाच्च । श्रवणं तु निर्वि­चि­कि­त्स­प­रो­क्ष­ज्ञा­ना­र्थ­मिति तादर्थ्येनैव नियमविधिः इति केचित् ।

मान­सा­प­रो­क्ष­ज्ञानं प्रति श्रवणादीनां त्रयाणामपि नियमविधिः

अप­रो­क्ष­ज्ञा­ना­र्थ­त्वे­नैव श्रवणे नियमविधिः । ‘द्रष्टव्य’ इति फलकीर्तनात् । तादर्थ्यञ्च तस्य कर­ण­भू­त­म­नः­स­ह­का­रि­त­यैव न साक्षात् । शाब्दा­प­रो­क्ष­ज्ञा­ना­न­ङ्गी­क­र­णात् । न च तस्य तेन रुपेण तादर्थ्यं न प्राप्त­मि­त्य­पू­र्व­वि­धि­त्व­प्र­सङ्गः । श्रावणेषु षड्जादिषु समा­रो­पि­त­प­र­स्प­रा­वि­वे­क­नि­वृ­त्त्य­र्थ­गा­न्ध­र्व­शा­स्त्र­श्र­व­ण­स­ह­कृ­त­श्रो­त्रेण पर­स्प­रा­स­ङ्की­र्ण­त­द्या­था­र्थ्या­प­रो­क्ष्य­द­र्श­नेन, प्रकाशमाने वस्तुनि आरो­पि­ता­वि­वे­क­नि­वृ­त्त्य­र्थ­शा­स्त्र­स­द्भावे तच्छ्रवणं तत्सा­क्षा­त्का­र­ज­न­के­न्द्रि­य­स­ह­का­रि­भा­वे­नो­प­यु­ज्यत इत्यस्य क्लृप्तत्वात् इति अपरे ।

प्रतिबन्धनिरासं प्रति श्रवणादीनां नियमविधिः

वेदा­न्त­वा­क्या­नाम् अद्वितीये ब्रह्मणि तात्प­र्य­नि­र्ण­या­नु­कू­ल­न्या­य­वि­चा­रा­त्म­क­चे­तो­वृ­त्ति­वि­शे­ष­रू­पस्य श्रवणस्य न ब्रह्मणि परोक्षमपरोक्षं वा ज्ञानं फलम् , तस्य शब्दा­दि­प्र­मा­ण­फ­ल­त्वात् । न च उक्त­रू­प­वि­चा­रा­व­धा­रि­त­ता­त्प­र्य­वि­शि­ष्ट­श­ब्द­ज्ञा­न­मेव श्रवणमस्तु तस्य ब्रह्मज्ञानं फलम् युज्यते इति वाच्यम् , ज्ञाने विध्यनुपपत्तेः ।श्र­व­ण­वि­धे­र्वि­चा­र­क­र्त­व्य­ता­वि­धा­य­क­जि­ज्ञा­सा­सू­त्र­मू­ल­त्वो­प­ग­माच्च । ऊहा­पो­हा­त्म­क­मा­न­स­क्रि­या­रू­प­वि­चा­र­स्यैव श्रव­ण­त्वौ­चि­त्यात् । न च विचारस्यैव तात्प­र्य­नि­र्ण­य­द्वारा तज्ज­न्य­ता­त्प­र्य­भ्र­मा­दि­पु­रु­षा­प­रा­ध­रू­प­प्र­ति­ब­न्ध­क­वि­ग­म­द्वारा वा ब्रह्मज्ञानं फलमस्त्विति वाच्यम् । तात्प­र्य­ज्ञा­नस्य शाब्दज्ञाने कार­ण­त्वा­नु­प­ग­मात् कार्ये क्कचिदपि प्रति­ब­न्ध­का­भा­वस्य कार­ण­त्वा­नु­प­ग­माच्च तयो­र्द्वा­र­त्वा­नु­प­पत्तेः । ब्रह्मज्ञानस्य विचा­र­रू­पा­ति­रि­क्त­का­र­ण­कत्वे तत्प्रामाण्यस्य पर­त­स्त्वा­प­त्तेश्च । तस्मात् तात्प­र्य­नि­र्ण­य­द्वरा परु­षा­प­रा­ध­नि­रा­सा­र्थ­त्वे­नैव विचाररूपे श्रवणे नियमविधिः । ‘द्रष्टव्यः’ इति तु दर्शनार्हत्वेन स्तुतिमात्रं न श्रव­ण­फ­ल­स­ङ्की­र्त­नम् इति सङ्क्षे­प­शा­री­र­का­नु­सा­रिणः ।

ब्रह्म­सा­क्षा­त्कारं प्रति श्रवणमननयोः परिसङ्ख्याविधिः

ब्रह्म­ज्ञा­नार्थं वेदान्तश्रवणे प्रवृत्तस्य चिकि­त्सा­ज्ञा­नार्थं चर­क­सु­श्रु­ता­दि­श्र­वणे प्रवृत्तस्येव मध्ये व्यापा­रा­न्त­रेऽपि प्रवृत्तिः प्रसज्येत इति तन्निवृत्तिफलकः ‘श्रोतव्यः’ इति परिसङ्ख्याविधिः । ‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति’(छा.उ. २ । २३ । १) इति छान्दोग्ये अन­न्य­व्या­पा­र­त्वस्य मुक्त्यु­पा­य­त्वा­व­धा­र­णात् , सम्पूर्वस्य तिष्ठतेः समाप्तिवाचितया ब्रह्म­सं­स्था­श­ब्द­श­ब्दि­ताया ब्रह्मणि समाप्तेः अन­न्य­व्या­पा­र­रू­प­त्वात् । ‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ’(मु.उ. २ । २ । ५) इत्याथर्वणे कण्ठत एव व्यापा­रा­न्त­र­प्र­ति­षे­धाच्च , ‘आसुप्तेरामृतेः कालं नये­द्वे­दा­न्त­चि­न्तया’ इत्या­दि­स्मृ­तेश्च । न च ब्रह्म­ज्ञा­ना­नु­प­यो­गिनो व्यापारान्तरस्य एकस्मिन् साध्ये श्रवणेन सह समुच्चित्य प्राप्त्यभावात् न तन्नि­वृ­त्त्यर्थः परि­स­ङ्ख्या­वि­धि­र्यु­ज्यत इति वाच्यम् । ’सह­का­र्य­न्त­र­विधिः’(ब्र.सू. ३ । ४ । ४७) इत्यादिसूत्रे ‘यस्मात् पक्षे भेद­द­र्श­न­प्रा­ब­ल्यान्न प्राप्नोति तस्मा­न्नि­य­म­विधिः’ इति तद्भाष्ये च कृतश्रवणस्य शाब्द­ज्ञा­न­मा­त्रात् कृतकृत्यतां मन्वानस्य अवि­द्या­नि­व­र्त­क­सा­क्षा­त्का­रो­प­यो­गिनि निदिध्यासने प्रवृत्तिर्न स्यादिति अत­त्सा­ध­न­प­क्ष­प्र­प्ति­मा­त्रेण निदिध्यासने निय­म­वि­धे­र­भ्यु­प­ग­त­तया तन्न्यायेन असाधनस्य समुच्चित्य प्राप्तावपि तन्नि­वृ­त्ति­फ­ल­कस्य परिसङ्ख्याविधेः सम्भवादिति । ‘नियमः परिसङ्ख्या वा विध्यर्थोऽत्र भवेत् , यतः । अना­त्मा­द­र्श­ने­नैव परा­त्मा­न­मु­पा­स्महे ॥’(नै.सि. १ । ८८) इति वर्ति­क­व­च­ना­नु­सा­रिणः किचित् आहुः ॥

श्रवणादीनां विध्यभावः

‘आत्मा श्रोतव्यः’ इति मननादिवत् आत्मविषयकत्वेन निबध्यमानं श्रवणम् आग­मा­चा­र्यो­प­दे­श­ज­न्य­मा­त्म­वि­षयं ज्ञानमेव न तात्प­र्य­वि­चा­र­रू­पम् इति न तत्र कोऽपि विधिः । अत एव समन्वयसूत्रे(ब्र.सू. १ । १ । ४) आत्म­ज्ञा­न­वि­धि­नि­रा­क­र­णा­न­न्तरं भाष्यं "किमर्थानि तर्हि ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादीनि वचनानि विधिच्छायानि ? स्वभा­वि­क­प्र­वृ­त्ति­वि­ष­य­वि­मु­खी­क­र­णा­र्थ­नीति ब्रूमः" इत्यादि ।

यदि च वेदा­न्त­ता­त्प­र्य­वि­चारः श्रवणं तदा तस्य तात्प­र्य­नि­र्ण­य­द्वारा वेदा­न्त­ता­त्प­र्य­भ्र­म­सं­श­य­रू­प­प्र­ति­ब­न्ध­क­नि­रास एव फलं न प्रति­ब­न्ध­का­न्त­र­नि­रासो ब्रह्मावगमो वा । तत्फलकत्वं च तस्य लोकत एव प्राप्तम् , साधनान्तरं च किञ्चि­द्वि­कल्प्य समुच्चित्य वा न प्राप्तम् , इति न तत्र विधि­त्र­य­स्या­प्य­व­काशः ।

विचा­र­वि­ध्य­भा­वेऽपि विज्ञानार्थतया विधीयमानं गुरूपसदनं दृष्ट­द्वा­र­स­म्भवे अदृ­ष्ट­क­ल्प­ना­यो­गात् गुरु­मु­खा­धी­न­वे­दा­न्त­वि­चा­र­द्वा­रैव विज्ञानार्थं पर्यवस्यतीति । अत एव स्वप्र­य­त्न­सा­ध्य­वि­चा­र­व्या­वृत्तिः । अध्ययनविध्यभावे तु उपगमनं विधीयमानम् अक्ष­रा­वा­प्त्य­र्थ­त्वे­ना­वि­धी­य­मा­न­त्वात् न तदर्थं गुरु­मु­खो­च्चा­र­णा­नु­च्चा­र­ण­म­ध्य­यनं द्वारीकरोतीति लिखि­त­पा­ठा­दि­व्या­वृ­त्त्य­सिद्धेः सफ­लोऽ­ध्य­य­न­नि­य­म­विधिः ।

न च तात्प­र्य­भ्र­मा­दि­नि­रा­साय वेदा­न्त­वि­चा­रा­र्थिनः कदाचित् द्वैत­शा­स्त्रेऽपि प्रवृत्तिः स्यात् , तत्रापि तदभिमतयोजनया वेदा­न्त­वि­चा­र­स­त्त्वात् , इत्य­द्वै­ता­त्म­प­र­वे­दा­न्त­वि­चा­र­नि­य­म­वि­धि­र­र्थ­वा­निति वाच्यम् । स्वयमेव तात्प­र्य­भ्र­म­हे­तो­स्तस्य तन्नि­रा­स­क­त्वा­भा­वेन साध­ना­न्त­र­प्रा­प्त्य­भा­वात् । तन्नि­रा­स­क­त्व­भ्र­मेण तत्रापि कस्यचित् प्रवृत्तिः स्यात् इत्येतावता श्रोतव्य इति निय­म­वि­धे­र­भ्यु­प­गमः इत्यपि न । ईश्व­रा­नु­ग्र­ह­ल­ब्धा­द्वै­त­श्र­द्धा­र­हि­तस्य श्रोत­व्य­वा­क्येऽपि पराभिमतयोजनया सद्वि­ती­या­त्म­वि­चा­र­वि­धि­प­र­त्व­भ्र­म­स­म्भ­वेन भ्रमप्रयुक्ताया अन्यत्र प्रवृत्तेः विधि­श­ते­ना­प्य­प­रि­हा­र्य­त्वात् ।

न च व्यापा­रा­न्त­र­नि­वृ­त्त्यर्था परिसङ्ख्येति वाच्यम् । असन्न्यासिनो व्यापा­रा­न्त­र­नि­वृ­त्ते­र­श­क्य­त्वात् , सन्न्या­सि­न­स्त­न्नि­वृत्तः ब्रह्मसंस्थया सह सन्न्या­स­वि­धा­य­केन ‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति’ इति श्रुत्यन्तरेण सिद्धतया, सन्न्या­स­वि­धा­य­क­श्रु­त्य­न्त­र­म­पेक्ष्य श्रोतव्यवाक्येन तस्य व्यापा­रा­न्त­र­नि­वृ­त्त्यु­प­दे­शस्य व्यर्थत्वात् ।

न च विचा­र­वि­ध्य­स­म्भ­वेऽपि विचा­र­वि­ष­य­वे­दा­न्त­नि­य­म­विधिः सम्भवति भाषा­प्र­ब­न्धा­दि­व्या­व­र्त्य­स­त्त्वात् इति शङ्क्यम् । सन्निधानादेव वेदान्तनियमस्य लब्धत्वेन विधि­वि­ष­य­त्वा­यो­गात् , ‘स्वाध्या­योऽ­ध्ये­तव्यः’ इत्य­र्था­व­बो­धा­र्थ­नि­य­म­वि­धि­ब­ला­देव अध्य­य­न­गृ­ही­त­वे­दो­त्पा­दितं वेदार्थज्ञानं फलपर्यवसायि न कार­णा­न्त­रो­त्पा­दि­तम् इत्यस्यार्थस्य लब्धत्वेन वेदार्थे ब्रह्मणि मोक्षाय ज्ञातव्ये भाषा­प्र­ब­न्धा­दी­ना­म­प्रा­प्तेश्च ।

न च ‘सह­का­र्य­न्त­र­विधिः’ इत्यधिकरणे पाण्डि­त्य­बा­ल्य­मौ­न­श­ब्दि­तेषु श्रव­ण­म­न­न­नि­दि­ध्या­स­नेषु विधिरभ्युपगत इति वाच्यम् । विचारे विचा­र्य­ता­त्प­र्य­नि­र्ण­य­हे­तु­त्वस्य वस्तु­सि­द्ध्य­नु­कू­ल­यु­क्त्य­नु­स­न्धा­न­रूपे मनने तत्प्र­त्य­या­भ्या­स­रूपे निदिध्यासने च वस्त्व­व­ग­म­वै­श­द्य­हे­तु­त्वस्य च लोकसिद्धत्वेन तेषु विध्यनपेक्षणात् । विधि­च्छा­या­र्थ­वा­द­स्येव प्रशंसाद्वारा प्रवृ­त्त्य­ति­श­य­क­र­त्व­मा­त्रेण तत्र विधि­त्व­व्य­व­हा­रात् ।

एवं च श्रव­ण­वि­ध्य­भा­वात् कर्म­का­ण्ड­वि­चा­र­वत् ब्रह्म­का­ण्ड­वि­चा­रोऽ­प्य­ध्य­य­न­विधि मूलः इति आचा­र्य­वा­च­स्प­ति­प­क्षा­नु­सा­रिणः ॥

ब्रह्म­ल­क्ष­ण­वि­चारः

जन्मादिषु एकैकं प्रति कारणत्वं लक्षणम्

विचार्यस्य च ब्रह्मणः जग­ज्ज­न्म­स्थि­ति­ल­य­का­र­णत्वं लक्षणमुक्तं ‘यतो वा इमानि भूतानि जायन्ते’(तै.उ. ३ । १ । १) इत्यादिश्रुत्या । जग­ज्ज­न्म­स्थि­ति­ल­येषु एकै­क­का­र­ण­त्व­म­प्य­न­न्य­गा­मि­त्वा­ल्ल­क्षणं भवितुमर्हतीति चेत् , सत्यम् । लक्षणत्रयमेवेदं पर­स्प­र­नि­प­र­पे­क्षम् । अत एव ‘अत्ता­च­रा­च­र­ग्र­ह­णात्’(ब्र.सू. १ । १ । ९) इत्या­द्य­धि­क­र­णेषु सर्व­सं­ह­र्तृ­त्वा­दिकं प्रत्येकं ब्रह्मलिङ्गतया उपन्यस्तम् इति कौमुदीकाराः ।

जग­ज्ज­न्मा­दि­त्रि­तयं प्रति कारणत्वं लक्षणम्

अन्ये तु जन्मकारणत्वस्य स्थिति­का­र­ण­त्वस्य च निमि­त्त­सा­धा­र­ण्यात् उपा­दा­न­त्व­प्र­त्या­य­नाय प्रपञ्चस्य ब्रह्मणि लयो दर्शितः । अस्तु ब्रह्म जगदुपादानम् , तज्जन्मनि घटजन्मनि कुलालवत् तत्स्थितौ राज्यस्थेमनि राजवत् उपदानादन्यदेव निमित्तं भविष्यतीति शङ्का­व्य­व­च्छे­दाय तस्यैव जग­ज्ज­न­न­जी­व­न­नि­या­म­क­त्व­मु­क्तम् । तथा चैकमेवेदं लक्षणम् अभि­न्न­नि­मि­त्तो­पा­दा­न­तया अद्वितीयं ब्रह्म उप­ल­क्ष­य­ती­त्याहुः ।

उपा­दा­न­त्व­नि­र्व­च­नम्

ब्रह्मणश्च उपादानत्वम् अद्वि­ती­य­कू­ट­स्थ­चै­त­न्य­रू­पस्य न पर­मा­णू­ना­मि­वा­र­म्भ­क­त्व­रू­पम् , न वा प्रकृतेरिव परिणामित्वरूपम् , किं तु अविद्यया विय­दा­दि­प्र­प­ञ्च­रू­पेण विव­र्त­मा­न­त्व­ल­क्ष­णम् । वस्तुनः तत्स­म­स­त्ता­कोऽ­न्य­था­भावः परिणामः तदसमसत्ताको विवर्तः इति वा, कार­ण­स­ल­क्ष­णोऽ­न्य­था­भावः परिणामः तद्विलक्षणो विवर्तः इति वा, कारणाभिन्नं कार्यं परिणामः तदभेदं विनैव तद्व्यतिरेकेण दुर्वचं कार्यं विवर्तः इति वा, विव­र्त­प­रि­णा­म­यो­र्वि­वेकः ॥

शुद्ध­ब्र­ह्म­जी­वे­श्व­राणां मतभेदेन जग­दु­पा­दा­न­त्व­नि­रू­प­णम्

अथ शुद्धं ब्रह्म उपादानमिष्यते, ईश्वररूपम् , जीवरूपं वा । अत्र संक्षे­प­शा­री­र­का­नु­सा­रिणः केचिदाहुः − शुद्ध­मे­वो­पा­दा­नम् । जन्मा­दि­सू­त्र­त­द्भा­ष्ययोः उपादानत्वस्य ज्ञेय­ब्र­ह्म­ल­क्ष­ण­त्वोक्तेः । तथा च ‘आत्मन आकाशस्सम्भूतः’(तै.उ. २ । १ । १) इत्या­दि­का­र­ण­वा­क्येषु शब­ल­वा­चि­ना­मा­त्मा­दि­श­ब्दानां शुद्धे लक्षणैवेति ॥

विव­र­णा­नु­सा­रि­णस्तु ‘यस्स­र्व­ज्ञ­स्स­र्व­वित् यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायाते’(मु.उ. १ । १ । ९) इति श्रुतेः सर्व­ज्ञ­त्वा­दि­वि­शष्टं माया­श­ब­ल­मी­श्व­र­रू­प­मेव ब्रह्म उपादानम् । अत एव भाष्ये ‘अन्त­स्त­द्ध­र्मो­प­दे­शात्’(ब्र.सू. १ । १ । २०) ‘सर्वत्र प्रसि­द्धो­प­दे­शात्’(ब्र.सू. १ । २ । १) इत्या­द्य­धि­का­र­णेषु ‘सैव ऋक्तत्साम तदुक्थं तद्य­जु­स्त­द्ब्रह्म’(छा.उ. १ । ७ । ५)सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’(छा.उ. ३ । १४ । ४) इत्या­दि­श्रु­त्युक्तं सर्वो­पा­दा­न­त्व­प्र­युक्तं सर्वात्मकत्वं जीव­व्या­वृ­त्त­मी­श्व­र­लि­ङ्ग­मि­त्यु­प­व­र्णि­तम् । जीवे­श्व­रा­नु­स्यू­त­चै­त­न्य­मा­त्रस्य सर्वोपादानत्वे तु न तत् जीव­व्या­वृ­त्त­मी­श्व­र­लिङ्गं स्यत् । सङ्क्षेपशारीरके शब­लो­पा­दा­न­त्व­नि­रा­क­र­ण­मपि माया­वि­शि­ष्टो­पा­दा­न­त्व­नि­रा­क­र­णा­भि­प्रा­यम् , न तु निष्कृ­ष्टे­श्व­र­रू­प­चै­त­न्यो­पा­दा­न­त्व­नि­रा­क­र­ण­प­रम् ।तत्रैव प्रथ­मा­ध्या­यान्ते जगदुपादानत्वस्य तत्प­दा­र्थ­वृ­त्ति­त्वोक्तेः । एवञ्च ईश्वरगतमपि कारणत्वं तद­नु­ग­त­म­ख­ण्ड­चै­तन्यं शाखाचन्द्रमसमिव तट­स्थ­त­यो­प­ल­क्ष­यितुं शक्नोतीति तस्य ज्ञेय­ब्र­ह्म­ल­क्ष­ण­त्वो­क्ति­रिति मन्यन्ते ।

वियदादिप्रपञ्च ईश्व­रा­श्रि­त­मा­या­प­रि­णाम इति तत्रेश्वर उपादानम् । अन्तःकरणादिकं तु ईश्व­रा­श्रि­त­मा­या­प­रि­णा­म­म­हा­भू­तो­प­सृ­ष्ट­जी­वा­वि­द्या­कृ­त­भू­त­सू­क्ष्म­का­र्य­मिति तत्रो­भ­यो­रु­पा­दा­न­त्वम् । अत एव ‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’(प्र.उ. ६ । ५) इति श्रुतौ कला­श­ब्द­वा­च्यानां प्राण­म­नः­प्र­भृ­तीनां विदुषो विदेहकैवल्यसमये विद्या­नि­व­र्त्य­वि­द्या­का­र्यां­शा­भि­प्रा­येण विद्ययोच्छेदो दर्शितः । ‘गताः कलाः पञ्चदश प्रतिष्ठाः’(मु.उ. ३ । २ । ७) इति श्रुत्यन्तरे तद­नि­व­र्त्य­मा­या­प­रि­णा­म­म­हा­भू­त­रू­पो­प­ष्ठ­म्भ­क­का­र्यां­शा­भि­प्र­येण तेषां स्वस्वप्रकृतिषु लयो दर्शित इति मायाऽ­वि­द्या­भे­द­वा­दिनः ॥

यथा वियदादिप्रपञ्च ईश्व­रा­श्रि­त­मा­या­प­रि­णाम इति तत्र ईश्वर उपादानम् , तथा अन्तःकरणादि जीवा­श्रि­ता­वि­द्या­मा­त्र­प­रि­णाम इति तत्र जीव एव उपादानम् ।न च अन्तःकरणादौ माया­का­र्य­म­हा­भू­ता­ना­म­प्य­न­नु­प्र­वेशे उदा­हृ­त­श्रु­ति­द्व­य­व्य­व­स्था­नु­प­पत्तिः । कलानां विद्य­यो­च्छे­द­श्रु­ति­स्त­त्त्व­वि­द्दृ­ष्टि­वि­षया । ‘गताः कलाः’ इति श्रुतिस्तु तत्त्वविदि म्रियमाणे समीपवर्तिनः पुरुषाः नश्य­द्ध­ट­व­त्त­दी­य­श­री­रा­दी­ना­मपि भूम्यादिषु लयं मन्यन्ते इति तट­स्थ­पु­रु­ष­प्र­ती­ति­वि­षया, इति व्यवस्थायाः कला­प्र­ल­या­धि­क­र­ण­भाष्ये स्पष्टत्वादिति मायाऽ­वि­द्या­भे­द­वा­दि­ष्वे­क­दे­शिनः ॥

तदभेदवादिष्वपि केचित् - यद्यपि विय­दा­दि­प्र­प­ञ्चस्य ईश्वर उपादानम् , तथा­प्य­न्तः­क­र­णा­दीनां जीव­ता­दा­त्म्य­प्र­तितेः जीव एवोपादानम् । अत एव अध्यासभाष्ये अन्तःकरणादीनां जीव एवाध्यासो दर्शितः, विवरणे च प्रति­क­र्म­व्य­व­स्थायां ब्रह्म­चै­त­न्य­स्यो­पा­दा­न­तया घटादिसङ्गित्वं जीवचैतन्यस्य तद­स­ङ्गि­त्वेऽ­प्य­न्तः­क­र­णा­दि­स­ङ्गित्वं च वर्णितम् - इत्याहुः ॥

‘एतस्माज्जायते प्राणो मन­स्स­र्वे­न्द्रि­याणि च । खं वायु­र्ज्यो­ति­रापः पृथिवी विश्वस्य धारिणी’(मु.उ. २ । १ । ३) इत्यादिश्रुतेः कृत्स्न­व्या­व­हा­रि­क­प्र­प­ञ्चस्य ब्रह्मैव उपादानम् । जीवस्तु प्रातिभासिकस्य स्वाप्न­प्र­प­ञ्चस्य । ’कृत्स्न­प्र­स­क्ति­र्नि­र­व­य­व­त्व­श­ब्द­कोपो वा’(ब्र.सू. २ । १ । २६) इत्यधिकरणे - ब्रह्मणो जगदुपादानत्वे तस्य कार्त्स्न्येन जगदाकारेण परिणामे विकारातिरेकेण ब्रह्माभावो वा एकदेशेन परिणामे निर­व­य­व­त्व­श्रु­ति­वि­रोधो वा प्रसज्यत इति पूर्वपक्षे ‘आत्मनि चैवं विचित्राश्च हि’(ब्र.सू. २ । १ । २८) इति सूत्रेण विव­र्त­वा­दा­भि­प्रा­येण स्वप्नदृशि जीवात्मनि स्वरू­पा­नु­प­म­र्दे­ना­ने­का­का­र­स्वा­प्न­प्र­प­ञ्च­सृ­ष्टि­वत् ब्रह्मणि विय­दा­दि­सृ­ष्टि­रु­प­प­द्यत इति-सि­द्धा­न्ति­त­त्वा­दिति अन्ये ।

जीव एव स्वप्न­द्र­ष्टृ­वत् स्वस्मि­न्नी­श्व­र­त्वा­दि­स­र्व­क­ल्प­क­त्वेन सर्वकारणम् इत्यपि केचित् ।

मायायाः जग­त्का­र­ण­त्व­वि­चारः

अथ ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतेः, मायाजाड्यस्य घटा­दि­ष्व­नु­ग­माच्च माया जगदुपादानं प्रतीयते । कथं ब्रह्मोपादानम् ?

अत्राहुः पदा­र्थ­त­त्त्व­नि­र्ण­य­काराः −ब्रह्म माया चेत्यु­भ­य­मु­पा­दा­न­मि­त्यु­भ­य­श्रु­त्यु­प­पत्तिः । सत्ता­जा­ड्य­रू­पो­भ­य­ध­र्मा­नु­ग­त्यु­प­प­त्तिश्च । तत्र ब्रह्म विवर्तमानतया उपादानम् , अविद्या परिणममानतया । न च विवर्ताधिष्ठाने पारि­भा­षि­क­मु­पा­दा­न­त्वम् । स्वात्मनि कार्य­ज­नि­हे­तु­त्व­स्यो­पा­दा­न­ल­क्ष­णस्य तत्रा­प्य­वि­शे­षा­दिति ॥

केचित् उक्तामेव प्रक्रि­या­मा­श्रित्य विव­र्त­प­रि­णा­मो­पा­दा­न­द्व­य­सा­धा­र­ण­म­न्य­ल्ल­क्ष­ण­माहुः− स्वाभि­न्न­का­र्य­ज­न­क­त्व­मु­पा­दा­न­त्वम् । अस्ति च प्रपञ्चस्य सद्रूपेण ब्रह्मणा विवर्तमानेन, जडेनाज्ञानेन परिणामिना च, अभेदः । ‘सन् घटः, जडो घटः’ इति सामा­ना­धि­क­र­ण्या­नु­भ­वात् । न च ‘तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः’(ब्र.सू. २ । १ । १४) इति सूत्रे ‘अनन्यत्वं व्यति­रे­के­णा­भावः’ ‘न खल्व­न­न्य­त्व­मि­त्य­भेदं ब्रूमः किं तु भेदं व्यासेधामः’ इति भाष्य­भा­म­ती­नि­ब­न्ध­नाभ्यां प्रपञ्चस्य ब्रह्मा­भे­द­नि­षे­धात् अभेदाभ्युपगमे अपसिद्धान्त इति वाच्यम् । तयो­र्ब्र­ह्म­रू­प­ध­र्मि­स­मा­न­स­त्ता­का­भे­द­नि­षेधे तात्पर्येण शुक्तिरजतयोरिव प्राती­ति­का­भे­दा­भ्यु­प­ग­मेऽपि विरोधाभावादिति ॥

सङ्क्षे­प­शा­री­र­क­कृ­तस्तु - ब्रह्मै­वो­पा­दा­नम् , कूटस्थस्य स्वतः कार­ण­त्वा­नु­प­पत्तेः माया ‘द्वारकारणम् , अकारणमपि द्वारं कार्येऽ­नु­ग­च्छति, मृद इव तद्ग­त­श्ल­क्ष्ण­त्वा­दे­रपि घटे अनुगमदर्शनात्’ , इत्याहुः ॥

वाच­स्प­ति­मि­श्रास्तु - जीवा­श्रि­त­मा­या­वि­ष­यी­कृतं ब्रह्म स्वत एव जाड्या­श्र­य­प्र­प­ञ्चा­का­रेण विवर्तमानतया उपादानमिति माया सहकारिमात्रम् , न कार्या­नु­ग­त­द्वा­र­का­र­णम् इत्याहुः ॥

सिद्धा­न्त­मु­क्ता­व­ली­कृ­तस्तु - माया­श­क्ति­रे­वो­पा­दा­नम् , न ब्रह्म । ‘तदेतत् ब्रह्मा­पू­र्व­म­न­प­र­म­बा­ह्यम्’(बृ.उ. २ । ५ । १९) ‘न तस्य कार्यं करणं च विद्यते’(श्वे.उ. ६ । ८) इत्यादिश्रुतेः । जगु­दु­पा­दा­न­मा­या­धि­ष्ठा­न­त्वेन तु उपचारात् उपादानम् , तादृ­श­मे­वो­पा­दा­नत्वं लक्षणे विवक्षितम् इत्याहुः ॥

जीवेश्वरयोः मतभेदेन स्वरूपनिरूपणम्

तत्र मतभेदेन उभयोरपि प्रति­बि­म्ब­त्व­नि­रू­प­णम्

अथ क ईश्वरः कश्च जीवः । अत्रोक्तम् प्रकटार्थविवरणे − अना­दि­र­नि­र्वाच्या भूतप्रकृतिः चिन्मा­त्र­स­म्ब­न्धिनी माया । तस्यां चित्प्रतिबिम्ब ईश्वरः, तस्या एव परि­च्छि­न्ना­न­न्त­प्र­दे­शेषु आव­र­ण­वि­क्षे­प­श­क्ति­मत्सु अविद्याभिधानेषु चित्प्रतिबिम्बो जीव इति ॥

तत्त्वविवेके तु - त्रिगु­णा­त्मि­काया मूलप्रकृतेः ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’(नृ.उ. ९ । ३) इति श्रुतिसिद्धौ द्वौ रूपभेदौ । रज­स्त­मोऽ­न­भि­भू­त­शु­द्ध­स­त्व­प्र­धाना माया, तद­भि­भू­त­म­लि­न­स­त्व­प्र­धाना अविद्या, इति मायाविद्याभेदं परिकल्प्य, मायाप्रतिबिम्ब ईश्वरः अवि­द्या­प्र­ति­बिम्बो जीवः − इत्युक्तम् ॥

एकैव मूलप्रकृतिः विक्षे­प­प्रा­धा­न्येन मायाशब्दिता ईश्वरोपाधिः । आवरणप्राधान्येन अवि­द्याऽ­ज्ञा­न­श­ब्दिता जीवोपाधिः । अत एव तस्या जीवे­श्व­र­सा­धा­र­ण­चि­न्मा­त्र­स­म्ब­न्धि­त्वेऽपि जीवस्यैव ‘अज्ञोऽ­स्मि’इ­त्य­ज्ञा­न­स­म्ब­न्धा­नु­भवः नेश्वरस्य - इति जीवेश्वरविभागः क्वचित् उपपादितः ।

संक्षेपशारीरके तु - ‘कार्योपाधिरयं जीवः कार­णो­पा­धि­री­श्वरः’ इति श्रुतिमनुसृत्य अविद्यायां चित्प्रतिबिम्ब ईश्वरः । अन्तःकरणे चित्प्रतिबिम्बो जीवः । न च − अन्तःकरणरूपेण द्रव्येण घटेनाकाशस्येव चैत­न्य­स्या­व­च्छे­द­स­म्भ­वात् तदवच्छिन्नमेव चैतन्यं जीवोऽस्तु − इति वाच्यम् । इह परत्र च जीव­भा­वे­ना­व­च्छे­द्य­चै­त­न्य­प्र­दे­शस्य भेदेन कृत­हा­ना­कृ­ता­भ्या­ग­म­प्र­स­ङ्गात् । प्रतिबिम्बस्तु उपा­धे­र्ग­ता­ग­त­यो­र­व­च्छे­द्य­वत् न भिद्यत इति प्रति­बि­म्ब­प­क्षे­नायं दोषः −इत्युक्तम् ।

एव­मु­क्ते­ष्वे­तेषु जीवेश्वरयोः प्रति­बि­म्ब­वि­शे­ष­त्व­प­क्षेषु , यत् बिम्बस्थानीयं ब्रह्म तत् मुक्तप्राप्यं शुद्धचैतन्यम् ॥

चित्रदीपे - ‘जीव ईशो विशुद्धाचित्’ इति चित्त्रै­वि­ध्य­प्र­क्रियां विहाय यथा घटा­व­च्छि­न्ना­काशो घटाकाशः , तदाश्रिते जले प्रतिबिम्बितः साभ्रनक्षत्रो जलाकाशः, अनवच्छिन्नो महाकाशः, माहा­का­श­म­ध्य­व­र्तिनि मेघमण्डले वृष्टि­ल­क्ष­ण­का­र्या­नु­मे­येषु जलरूपतदवयवेषु तुषाराकारेषु प्रतिबिम्बतो मेघाकाशः , इति वस्तुत एक­स्या­प्या­का­शस्य चातुर्विध्यम् , तथा स्थूल­सू­क्ष्म­दे­ह­द्व­यस्य अधिष्ठानतया वर्तमानं तदवच्छिन्नं चैतन्यं कूट­व­न्नि­र्वि­का­र­त्वेन स्थितं कूटस्थम् । तत्र कल्पि­तेऽ­न्तः­क­रणे प्रतिबिम्बितं चैतन्यं संसारयोगी जीवः , अनवच्छिन्नं चैतन्यं ब्रह्म, तदाश्रिते मायातमसि स्थितासु सर्वप्राणिनां धीवासनासु प्रतिबिम्बितं चैतन्यम् ईश्वरः , इति चैतन्यस्य चातुर्विध्यं परिकल्प्य अन्तः­क­र­ण­धी­वा­स­नो­प­र­क्ता­ज्ञा­नो­पा­धि­भे­देन जीवेश्वरविभागो दर्शितः ।

अयं चापरस्तदभिहितो विशेषः− चतुर्विधेषु चैतन्येषु जीवः ‘अहम्’ इति प्रकाशमानः कूटस्थे अवि­द्या­ति­रो­हि­ता­ङ्गा­न­न्द­रू­प­वि­शे­षांशे शुक्तौ रूप्यवदध्यस्तः । अत एव इद­न्त्व­र­ज­त­त्व­यो­रिव अधि­ष्ठा­न­सा­मा­न्यां­शा­ध्य­स्त­वि­शे­षां­श­रू­पयोः स्वय­न्त्वा­ह­न्त्वयोः सह प्रकाशः ‘स्वयमहं करोमि’ इत्यादौ । अहन्त्वं हि अध्य­स्त­वि­शे­षां­श­रू­पम् । पुरुषान्तरस्य पुरुषान्तरे ‘अहम्’ इति व्यवहाराभावेन व्यावृत्तत्वात् । स्वयन्त्वं च अन्य­त्व­प्र­ति­यो­ग्य­धि­ष्ठा­न­सा­मा­न्यां­श­रू­पम् । ‘स्वयं देवदत्तो गच्छति’ इति पुरुषान्तरेऽपि व्यवहारेण अनुवृत्तत्वात् । एवं पर­स्प­रा­ध्या­सा­देव कूट­स्थ­जी­व­यो­र­वि­वेको लौकिकानाम् । विवेकस्तु तयोः बृहदारण्यके ‘प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्ये­वा­नु­वि­न­श्यति’(बृ.उ. ४ । ५ । १३) इति जीवाभिप्रायेण उपा­धि­वि­ना­श­प्र­ति­पा­द­नेन ‘अविनाशी वा अरेऽयमात्मा’(बृ.उ. ४ । ५ । १४) इति कूट­स्था­भि­प्रा­ये­णा­वि­ना­श­प्र­ति­पा­द­नेन च स्पष्टः । अहमर्थजीवस्य विनाशित्वे कथ­म­वि­ना­शि­ब्र­ह्म­भेदः । नेदमभेदे सामानाधिकरण्यम् , किन्तु बाधायाम् । यथा ‘यः स्थाणुरेष पुमान्’ इति पुरुषत्वबोधेन स्थाणु­त्व­बु­द्धि­र्नि­व­र्त्यते, एवं ‘अहं ब्रह्मास्मि’ इति कूट­स्थ­ब्र­ह्म­स्व­रू­प­त्व­बो­धेन अध्य­स्ता­ह­म­र्थ­रू­पत्वं निवर्त्यते । ‘योऽयं स्थाणुः पुमानेष पुंधिया स्थणुधीरिव । ब्रह्मास्मीति धियाऽशेषा ह्यहं­बु­द्धि­र्नि­व­र्तते ॥’(नै.सि. २ । २९) इति नैष्क­र्म्य­सि­द्धि­व­च­नात् ।

यदि च विव­र­णा­द्यु­क्त­रीत्या इदमभेदे सामानाधिकरण्यम् , तदा जीव­वा­चि­नोऽ­हं­श­ब्दस्य लक्षणया कूटस्थपरत्वम् अस्तु । तस्यानध्यस्तस्य ब्रह्मा­भे­द­यो­ग्य­त्वात् ।

यस्तु मेघाकाशतुल्यो धीवा­स­ना­प्र­ति­बिम्ब ईश्वर उक्तः सोऽयं ‘सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्’(मा.उ. १ । ५) इति माण्डू­क्य­श्रु­ति­सि­द्ध­सौ­षु­प्ता­न­न्द­मयः । तत्रैव तदनन्तरम् ‘एष सर्वेश्वर एष सर्वज्ञ एषोऽ­न्त­र्या­म्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्’(मा.उ. १ । ६) इति श्रुतेः । सर्व­व­स्तु­वि­ष­य­क­स­क­ल­प्रा­णि­धी­वा­स­नो­पा­धि­कस्य तस्य सर्वज्ञत्वस्य तत एव सर्व­क­र्तृ­त्वा­दे­रपि उपपत्तेश्च । न चास्म­द्बु­द्धि­वा­स­नो­प­हि­तस्य कस्यचित् सार्वज्ञ्यं नानुभूयत इति वाच्यम् । वासनानां परोक्षत्वेन तदुपहितस्यापि परोक्षत्वात् इति ॥

ब्रह्मानन्दे तु - सुषु­प्ति­सं­यो­गात् माण्डूक्योक्त आनान्दमयो जीव इत्युक्तम् । यदा हि जाग्रदादिषु भोगप्रदस्य कर्मणः क्षये निद्रारूपेण विलीनमन्तःकरणं पुन­र्भो­ग­प्र­द­क­र्म­व­शात् प्रबोधे घनीभवति, तदा तदुपाधिको जीवः विज्ञानमय इत्युच्यते । स एव पूर्वं सुषुप्तिसमये विली­ना­व­स्थो­पा­धिकः सन् अनन्दमय इत्युच्यते । स एव माण्डूक्ये ‘सुषुप्तस्थानः’ इत्यादिना दर्शित इति ।

एवं सति तस्य सर्वे­श्व­र­त्वा­दि­व­चनं कथं सङ्गच्छताम् ।

इत्थं - सन्त्य­धि­दै­व­त­म­ध्यात्मं च परमात्मनः सविशेषाणि त्रीणि त्रीणिरूपाणि । तत्र अधिदैवतं त्रीणि शुद्धं चैतन्यं च इति चत्वारि रूपाणि चित्र­प­ट­दृ­ष्टा­न्तेन चित्रदीपे समर्थितानि । यथा - स्वतश्शुभ्रः पटो धौतः, अन्नविलिप्तो घट्टितः, मष्याकारयुक्तो लाञ्छितः, वर्णपूरितो रञ्जितः, इत्य­व­स्था­च­तु­ष्ट­यम् एकस्यैव चित्रपटस्य, तथा परमात्मा माया­त­त्का­र्यो­पा­धि­र­हितः शुद्धः मायोपहित ईश्वरः, अप­ञ्ची­कृ­त­भू­त­का­र्य­स­म­ष्टि­सू­क्ष्म­श­री­रो­प­हितो हिरण्यगर्भः, पञ्ची­कृ­त­भू­त­का­र्य­स­म­ष्टि­स्थू­ल­श­री­रो­प­हितो विराट्पुरुषः, इत्य­व­स्था­च­तु­ष्ट­यम् एकस्यैव परमात्मनः । अस्मिन् चित्रपटस्थानीये परमात्मनि चित्रस्थनीयः स्थाव­र­ज­ङ्ग­मा­त्मको निखिलप्रपञ्चः । यथा चित्र­ग­त­म­नु­ष्याणां चित्रा­धा­र­व­स्त्र­स­दृशा वस्त्राभासा लिख्यन्ते, तथा पर­मा­त्मा­ध्य­स्त­दे­हि­नाम् अधि­ष्ठा­न­चै­त­न्य­स­दृ­शा­श्चि­दा­भासाः कल्प्यन्ते, ते च जीवनामानः संसरन्ति − इति । अध्यात्मं तु विश्व­तै­ज­स­प्रा­ज्ञ­भे­देन त्रिणि रूपाणि । तत्र सुषुप्तौ विली­नेऽ­न्तः­का­रणे अज्ञा­न­मा­त्र­साक्षी प्राज्ञः, योऽयमिहानन्दमय उक्तः । स्वप्ने व्यष्टि­सू­क्ष्म­श­री­रा­भि­मानी तैजसः । जागरे व्यष्टि­स्थू­ल­श­री­रा­भि­मानी विश्वः । तत्र माण्डू­क्य­श्रुतिः अहमनुभावे प्रका­श­मा­न­स्या­त्मनो विश्व­तै­ज­स­प्रा­ज्ञ­तु­र्या­व­स्था­भे­द­रूपं पादचतुष्टयं ‘सोऽय­मा­त्मा­च­तु­ष्पात्’(मा.उ. १ । २) इत्युपक्षिप्य पूर्व­पू­र्व­पा­द­प्र­वि­ला­प­नेन निष्प्र­प­ञ्च­ब्र­ह्मा­त्म­क­तु­र्य­पा­द­प्र­ति­प­त्ति­सौ­क­र्याय स्थूल­सू­क्ष्म­त­रो­पा­धि­सा­म्यात् विराडादीन् विश्वा­दि­ष्व­न्त­र्भाव्य ‘जागरितस्थानो बहिः प्रज्ञः’(मा.उ. १ । ३) इत्यादिना विश्वा­दि­पा­दा­न्न्य­रू­प­यत् । अतः प्राज्ञशब्दिते आनन्दमये आव्या­कृ­त­स्ये­श्व­र­स्या­न्त­र्भावं विवक्षित्वा तस्य सर्वे­श्व­र­त्वा­दि­त­द्ध­र्म­व­च­न­मिति । इत्थमेव भग­व­त्पा­दै­र्गौ­ड­पा­दी­य­वि­व­रणे व्याख्यातम् ।

दृग्दृश्यविवेके तु - चित्र­दी­प­व्यु­त्पा­दितं कूटस्थं जीव­को­टा­व­न्त­र्भाव्य चित्त्रै­वि­ध्य­प्र­क्रि­यै­वा­व­ल­म्बिता इति विशेषः । तत्र ह्युक्तम् - जला­श­य­त­र­ङ्ग­बु­द्बु­द­न्या­येन उप­र्यु­प­रि­क­ल्प­नात् जीवः त्रिविधः - पारमार्थिको व्यावहारिकः प्राति­भा­सि­क­श्चेति । तत्र अविच्छिन्नः पारमार्थिको जीवः । तस्मि­न्न­व­च्छे­द­कस्य कल्पितत्वेऽपि अवच्छेद्यस्य तस्य अकल्पितत्वेन ब्रह्म­णोऽ­भि­न्न­त्वात् । तमा­वृ­त्य­स्थि­तायां मायायां कल्पि­तेऽ­न्तः­क­रणे चिदाभासः अन्तः­क­र­ण­ता­दा­त्म्या­पत्त्या ‘अहं’ इत्यभिमन्यमानो व्यावहारिकः । तस्य मायिकत्वेऽपि याव­द्व्य­व­हा­र­म­नु­वृत्तेः । स्वप्ने तमप्यावृत्त्य स्थितया माया­व­स्था­भे­द­रू­पया निद्रया कल्पिते स्वप्नदेहादौ अहमभिमानी प्रातिभासिकः । स्वप्नप्रपञ्चेन सह तद्द्र­ष्टु­र्जी­व­स्यापि प्रबोधे निवृत्तेः इति । एवम् एते प्रति­बि­म्बे­श्व­र­वा­दिनां पक्षभेदाः दर्शिताः ।

बिम्बे­श्व­र­प­क्ष­नि­रू­प­णम्

विव­र­णा­नु­सा­रि­णस्तु आहुः – ’विभे­द­ज­न­केऽ­ज्ञाने नाशमात्यन्तिकं गते’(वि.पु. ६ । ७ । ९६) इति स्मृत्या एक­स्यै­वा­ज्ञा­नस्य जीवे­श्व­र­वि­भा­गो­पा­धि­त्व­प्र­ति­पा­द­नात् बिम्ब­प्र­ति­बि­म्ब­भा­वेन जीवे­श्व­र­यो­र्वि­भागः, न उभयोरपि प्रतिबिम्बभावेन । उपा­धि­द्व­य­म­न्त­रेण उभयोः प्रति­बि­म्ब­त्वा­यो­गात् । तत्रापि प्रतिबिम्बो जीवः बिम्बस्थनीय ईश्वरः । तथा सत्येव लौकि­क­बि­म्ब­प्र­ति­ब­म्ब­दृ­ष्टा­न्तेन स्वात­न्त्र्य­मी­श्व­रस्य तत्पारतन्त्र्यं च जीवस्य युज्यते ।
‘प्रतिबिम्बगताः पश्यन् ऋजु­व­क्रा­दि­वि­क्रियाः ।
पुमान् क्रीडेद्यथा ब्रह्म तथा जीवस्थविक्रियाः ॥’
इति कल्प­त­रू­क्त­रीत्या ‘लोकवत्तु लीलाकैवल्यम्’(ब्र.सू. २ । १ । ३३) इति सूत्रमपि सङ्गच्छते । अज्ञा­न­प्र­ति­बि­म्बि­तस्य जीवस्य अन्तः­क­र­ण­रू­पोऽ­ज्ञा­न­प­रि­णा­म­भेदः विशे­षा­भि­व्य­क्ति­स्थानं सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्पण इव । अतः तस्य तदु­पा­धि­क­त्व­व्य­व­हा­रोऽपि । न एतावता अज्ञा­नो­पा­धि­प­रि­त्यागः । अन्तः­क­र­णो­पा­धि­प­रि­च्छि­न्न­स्यैव चैतन्यस्य जीवत्वे योगिनः काय­व्यू­हा­धि­ष्ठा­ना­नु­प­पत्तेः । न च - योगप्रभावात् योगिनोऽन्तःकरणं काय­व्यू­हा­भि­व्य­क्ति­योग्यं वैपुल्यं प्राप्नोतीति तदवच्छिन्नस्य काय­व्यू­हा­धि­ष्ठानं युज्यते -इति वाच्यम् । ‘प्रदी­प­व­दा­वे­श­स्तथा हि दर्शयति’ इति शास्त्रो­पा­न्त्य­धि­क­र­ण­भा­ष्या­दिषु कायव्यूहे प्रति­दे­ह­म­न्तः­क­र­णस्य चक्षुरादिवत् भिन्नस्यैव योगप्रभावात् सृष्टे­रु­प­व­र्ण­नात् । प्रतिबिम्बे बिम्बात् भेदमात्रस्य अध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वात् न प्रति­बि­म्ब­रू­प­जी­वस्य मुक्त्य­न्व­या­स­म्भवः इति न तदतिरेकेण मुक्त्यन्वयाय अव­च्छि­न्न­रू­प­जी­वा­न्तरं वा (प्रति­बि­म्ब­जी­वा­ति­रिक्तं) जिवे­श्व­र­वि­ल­क्षणं कृटस्थशब्दितं चैतन्यान्तरं वा कल्पनीयम् । ‘अविनाशी वा अरेऽयमात्मा’ इति श्रवणं जीवस्य तदुपाधिनिवृत्तौ प्रति­बि­म्ब­भा­वा­प­ग­मेऽपि स्वरूपं न विन­श्य­ती­त्ये­त­त्प­रम् , न तद­ति­रि­क्त­कू­ट­स्थ­ना­म­क­चै­त­न्या­न्त­र­प­रम् । जीवोपाधिना अन्तःकरणादिना अवच्छिन्नं चैतन्यं बिम्बभूत ईश्वर एव । ‘यो विज्ञाने तिष्ठन्’(बृ.उ. ३ । ७ । २२) इत्यादिश्रुत्या ईश्वरस्यैव जीवसन्निधानेन तद­न्त­र्या­मि­भा­वेन विका­रा­न्त­र­व­स्था­न­श्र­व­णात् इति ।

अव­च्छे­द­प­क्ष­नि­रू­प­णम्

अन्ये तु - रूपा­नु­प­हि­त­प्र­ति­बिम्बो न युक्तः, सुतरां नीरूपे ।

गग­न­प्र­ति­बि­म्बो­दा­ह­र­ण­म­प्य­यु­क्तम् । गगनाभोगव्यापिनि सवितृकिरणमण्डले सलि­ल­प्र­ति­बि­म्बिते गग­न­प्र­ति­बि­म्ब­त्व­व्य­व­हा­रस्य भ्रम­मा­त्र­मू­ल­क­त्वात् ।

ध्वनौ वर्ण­प्र­ति­बि­म्ब­वा­दोऽ­प्य­युक्तः । व्यञ्ज­क­त­या­स­न्नि­धा­न­मा­त्रेण ध्वनि­ध­र्म­णा­मु­दा­त्ता­दि­स्व­राणां वर्णे­ष्वा­रो­पो­प­पत्तेः ध्वने­र्व­र्ण­प्र­ति­बि­म्ब­ग्रा­हि­त्व­क­ल्प­नाया निष्प्र­मा­ण­क­त्वात् ।

प्रतिध्वनिरपि न पूर्व­श­ब्द­प्र­ति­बिम्बः । पञ्ची­क­र­ण­प्र­क्रि­यया पट­ह­प­यो­नि­धि­प्र­भृ­ति­श­ब्दानां क्षिति­स­लि­ला­दि­श­ब्द­त्वेन प्रति­ध्व­ने­रे­वा­का­श­श­ब्द­त्वेन तस्य अन्य­श­ब्द­प्र­ति­बि­म्ब­त्वा­यो­गात् ।

वर्ण­रू­प­प्र­ति­श­ब्दोऽपि न पूर्व­व­र्ण­प्र­ति­बिम्बः । वर्णा­भि­व्य­ञ्ज­क­ध्व­नि­नि­मि­त्त­क­प्र­ति­ध्वनेः मूलध्वनिवदेव वर्णा­भि­व्य­ञ्ज­क­त्वे­नो­प­पत्तेः । तस्मात् घटाकाशवत् अन्तः­क­र­णा­व­च्छिन्नं चैतन्यं जीवः, तदनवच्छिन्नम् ईश्वरः ।

न चैवम् - अण्डा­न्त­र्व­र्ति­न­श्चै­त­न्यस्य तत्त­द­न्तः­क­र­णो­पा­धिभिः सर्वात्मना जीव­भा­वे­ना­व­च्छे­दात् तद­व­च्छे­द­र­हि­त­चै­त­न्य­रू­पस्य ईश्वरस्य अण्डात् बहिरेव सत्त्वं स्यात् इति ‘यो विज्ञाने तिष्ठन्’ इत्यादौ अन्तर्यामिभावेन विका­रा­न्त­र­व­स्था­न­श्र­वणं विरुध्येत । प्रतिबिम्बपक्षे तु जल­ग­त­स्वा­भा­वि­का­काशे सत्येव प्रति­बि­म्बा­का­श­द­र्श­नात् एकत्र द्विगुणीकृत्य वृत्तिरुपपद्यते - इति वाच्यम् । यतः प्रति­बि­म्ब­प­क्षेऽपि उपाधौ अनन्तर्गतस्यैव चैतन्यस्य तत्र प्रतिबिम्बो वाच्यः, न तु जलचन्द्रन्यायेन कृत्स्न­प्र­ति­बिम्बः । तदन्तर्गतभागस्य तत्र प्रति­बि­म्बा­स­म्भ­वात् । न हि मेघावच्छिन्नस्य आकाशस्यालोकस्य वा जले प्रतिबिम्बवत् जला­न्त­र्ग­त­स्यापि तत्र प्रतिबिम्बो दृश्यते । न वा मुखादीनां बहिःस्थितिसमय इव जला­न्त­र्नि­म­ज्ज­नेऽपि प्रति­बि­म्बोऽस्ति । अतो जलप्रतिबिम्बं प्रति­मे­घा­का­शा­दे­रिव अन्तः­क­र­णा­द्यु­पा­धि­प्र­ति­बिम्बं प्रति तदनन्तर्गतस्यैव बिम्बत्वं स्यात् इति बिम्बभूतस्य विका­रा­न्त­र­व­स्था­ना­यो­गात् ईश्वरे अन्त­र्या­मि­ब्र­ह्म­ण­सा­म­ञ्ज­स्या­भा­व­स्तुल्यः ।

एतेन - अवच्छिन्नस्य जीवत्वे कर्तृ­भो­क्तृ­स­म­ययोः तत्र­त­त्रा­न्तः­क­र­णा­व­च्छे­द्य­चै­त­न्य­प्र­दे­शस्य भिन्नत्वात् कृत­हा­ना­कृ­ता­भ्या­ग­म­प्र­सङ्ग इति - निरस्तम् ।

प्रति­बि­म्ब­प­क्षेऽपि स्वानन्तर्गतस्य स्वसन्निहितस्य चैतन्यप्रदेशस्य अन्तःकरणे प्रतिबिम्बस्य वक्तव्यतया तत्र तत्र अन्तःकरणस्य गमने बिम्बभेदात् तत्प्र­ति­बि­म्ब­स्यापि भेदावश्यम्भावेन दोषतौल्यात् । न च अन्तः­क­र­ण­प्र­ति­बिम्बो जीव इति पक्षे दोषतौल्येऽपि ‘अवि­द्या­प्र­ति­बिम्बो जीवः, तस्य च तत्र तत्र गत्वरमन्तःकरणं जलाशयव्यापिनो महा­मे­घ­म­ण्ड­ल­प्र­ति­बि­म्बस्य तदुपरि विसृ­त्व­र­स्फी­ता­लोक इव तत्र तत्र विशे­षा­भि­व्य­क्ति­हेतुः’ इति पक्षे नायं दोषः, अन्तःकरणवत् अविद्यायाः गत्यभावेन प्रति­बि­म्ब­भे­दा­ना­पत्तेः इति - वाच्यम् । तथैव अव­च्छे­द­प­क्षेऽ­प्य­वि­द्या­व­च्छिन्नो जीव इति उपगमसम्भवात् । तत्राप्येकस्य जीवस्य क्कचित् प्रदेशे कर्तृत्वं प्रदेशान्तरे भोक्तृत्वम् इत्येवं कृत­हा­ना­दि­दो­षा­प­नु­त्तये वस्तुतो जीवैक्यस्य आदरणीयत्वेन तन्न्यायात् अन्तः­क­र­णो­पा­धि­प­क्षेऽपि वस्तु­त­श्चै­त­न्यै­क्यस्य तद­व­च्छे­द­को­पा­ध्यै­क्यस्य च तन्त्र­त्वा­भ्यु­प­ग­मेन तद्दो­ष­नि­रा­क­र­ण­स­म्भ­वाच्च ।

न च अवच्छेदपक्षे ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहु­धै­कोऽ­नु­ग­च्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रे­ष्वे­व­म­जोऽ­य­मात्मा’ ‘अत एव चोपमा सूर्यकादिवत्’ इति श्रुति­सू­त्राभ्यां विरोधः । ’अम्बु­व­द­ग्र­ह­णात्तु न तथात्वम्’(ब्र.सू. ३ । २ । १९) इति उदा­हृ­त­सू­त्रा­न­न्त­र­सू­त्रेण यथा सूर्यस्य रूपवतः प्रति­बि­म्बो­द­य­योग्यं ततो विप्रकृष्टदेशं रूपवज्जलं गृह्यते, नैवं सर्वगतस्यात्मनः प्रति­बि­म्बो­द­य­योग्यं किञ्चिदस्ति ततो विप्रकृष्टम् इति प्रति­बि­म्बा­स­म्भ­व­मुक्त्वा ‘वृद्धि­ह्रा­स­भा­क्त्व­म­न्त­र्भा­वा­दु­भ­य­सा­म­ञ्ज­स्या­दे­वम्’(ब्र.सू. ३ । २ । २०) इति तदनन्तरसूत्रेण ‘यथा जल­प्र­ति­बि­म्बि­त­सूर्यो जलवृद्धौ वर्धत इव जलह्रासे ह्रसतीव जलचलने चलतीव इति तस्याध्यासिकं जला­नु­रो­धि­वृ­द्धि­ह्रा­सा­दि­भा­क्त्वम् , तथा आत्म­नोऽ­न्तः­क­र­णा­दि­नाऽ­व­च्छे­देन उपा­ध्य­न्त­र्भा­वात् आध्यासिकं तद­नु­रो­धि­वृ­द्धि­ह्रा­सा­दि­भा­क्त्वम् इत्येवं दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः सामञ्जस्यात् अविरोधः’ इति स्वयं सूत्रकृतैव अवच्छेदपक्षे तयोः तात्पर्यकथनात् । ‘घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः ॥’ ’अंशो नाना­व्य­प­दे­शात्……..’(ब्र.सू. २ । ३ । ४३) इति श्रुति­सू­त्रा­भ्याम् अव­च्छे­द­प­क्ष­स्यैव परिग्रहाच्च ।

तस्मात् सर्वगतस्य चैतन्यस्य अन्तः­क­र­णा­दि­नाऽ­व­च्छे­दोऽ­व­श्य­म्भावी इति आवश्यकत्वात् अविच्छिन्नो जीवः - इति पक्षं रोचयन्ते ।

अव­च्छे­द­प्र­ति­बि­म्ब­भा­व­र­हितं ब्रह्म जीव इति पक्षनिरूपणम्

अपरे तु - न प्रतिबिम्बः नाप्यवच्छिन्नो जीवः । किं तु कौन्तेयस्यैव राधेयत्ववत् अविकृतस्यैव ब्रह्मणः अविद्यया जीवभावः । व्याध­कु­ल­सं­व­र्धि­त­रा­ज­कु­मा­र­दृ­ष्टा­न्तेन ‘ब्रह्मैव स्वाविद्यया संसरति, स्वविद्यया मृच्यते’ इति बृह­दा­र­ण्य­क­भाष्ये प्रतिपादनात् । ’राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते । यथै­व­मा­त्म­नोऽ­ज्ञस्य तत्त्व­म­स्या­दि­वा­क्यतः ।’(सं.वा. २३३ - २३४) इति वार्तिकोक्तेश्च । एवं च स्वाविद्यया जीव­भा­व­मा­प­न्न­स्यैव ब्रह्मणः सर्व­प्र­प­ञ्च­क­ल्प­क­त्वात् ईश्वरोऽपि सह सर्व­ज्ञ­त्वा­दि­धर्मैः स्वप्नो­प­ल­ब्ध­दे­व­ता­दि­वत् जीवकल्पितः इत्याचक्षते ।

जीवै­क­त्व­ना­ना­त्व­वि­चारः

तत्र मतभेदेन एक­जी­व­वा­द­नि­रू­प­णम्

आथायं जीव एकः, उतानेकः । अनु­प­दो­क्त­प­क्षा­व­ल­म्बिनः केचिदाहुः - एको जीवः । तेन चैकमेव शरीरं सजीवम् । अन्यानि स्वप्न­दृ­ष्ट­श­री­रा­णीव निर्जीवानि । तदज्ञानकल्पितं सर्वं जगत् । तस्य स्वप्न­द­र्श­न­व­द्या­व­द­विद्यं सर्वो व्यवहारः । बद्ध­मु­क्त­व्य­व­स्थापि नास्ति जीवस्यैकत्वात् । शुक­मु­क्त्या­दि­क­मपि स्वाप्न­पु­रु­षा­न्त­र­मु­क्त्या­दि­क­मिव कल्पितम् । अत्र च सम्भा­वि­त­स­क­ल­श­ङ्का­प­ङ्क­प्र­क्षा­लनं स्वप्न­दृ­ष्टा­न्त­स­लि­ल­धा­र­यैव कर्तव्यम् − इति ।

अन्ये तु - अस्मि­न्ने­क­श­री­रै­क­जी­व­वादे मनः­प्र­त्य­य­म­ल­भ­मानाः ‘अधिकं तु भेदनिर्देशात्’(ब्र.सू. २ । १ । २२) ‘लोकवत्तु लीलाकैवल्यम्’(ब्र.सू. २ । १ । ३३) इत्यादिसूत्रैः ‘जीवाधिक ईश्वर एव जगतः स्रष्टा, न जीवः, तस्य आप्तकामत्वेन प्रयोजनाभावेऽपि केवलं लीलाजगतः सृष्टिः’ इत्यादि प्रतिपादयद्भिः विरोधं च मन्यमानाः - हिरण्यगर्भ एको ब्रह्म­प्र­ति­बिम्बो मुख्यो जीवः, अन्ये तु तत्प्र­ति­बि­म्ब­भूताः चित्र­प­ट­लि­खि­त­म­नु­ष्य­दे­हा­र्पि­त­प­टा­भा­स­कल्पाः जीवाभासाः संसारादिभाजः - इति सवि­शो­षा­ने­क­श­री­रै­क­जी­व­वा­द­मा­ति­ष्ठन्ते ।

अपरे तु - हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्य­जी­व­त्व­मि­त्यत्र नियामकं नास्ती­ति­म­न्य­मानाः − एक एव जीवोऽविशेषेण सर्वं शरीरमधितिष्ठति । नचैवं शरीरावयवभेद इव शरीरभेदेऽपि पर­स्प­र­सु­खा­द्य­नु­स­न्धा­न­प्र­सङ्गः । जन्मा­न्त­री­य­सु­खा­द्य­नु­स­न्धा­ना­द­र्श­नेन शरीरभेदस्य तद­न­नु­स­न्धा­न­प्र­यो­ज­क­त्व­क्लृप्तेः । योगिनस्तु काय­व्यू­ह­सु­खा­द्य­नु­स­न्धानं व्यव­हि­ता­र्थ­ग्र­ह­ण­वत् योग­प्र­भा­व­नि­ब­न्ध­न­मिति न तत् उदाहरणम् − इति अवि­शे­षा­ने­क­श­री­रै­क­जी­व­वादं रोचयन्ते ।

नाना­जी­व­वा­द­नि­रू­प­णम्

इतरे तु अत्रापि बन्ध­मु­क्ति­व्य­व­स्था­भा­वस्य तुल्यत्वेन ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’(बृ.उ. १ । ४ । १०) इत्यादिश्रुतेः ‘प्रतिषेधादिति चेन्न शारीरात्’(ब्र.सू. ४ । २ । १२) इत्यधिकरणे शुक­मु­क्त­त्व­प्र­ति­पा­द­क­भा­ष्यस्य चाना­ञ्ज­स्य­मि­त्य­प­रि­तु­ष्यन्तः अन्तःकरणादीनां जीवो­पा­धि­त्वा­भ्यु­प­ग­मेन अने­क­जी­व­वा­द­मा­श्रित्य बन्ध­मु­क्ति­व्य­वस्थां प्रतिपद्यन्ते ।

नानाजीववादे मतभेदेन बन्ध­मु­क्ति­व्य­व­स्थो­प­पा­द­नम्

तेषु केचिदेवमाहुः - यद्यपि शुद्ध­ब्र­ह्मा­श्र­य­वि­ष­य­मे­क­मे­वा­ज्ञा­नम् , तन्नाश एव च मोक्षः तथापि जीव­न्मु­क्ता­व­ज्ञा­न­ले­शा­नु­वृ­त्त्य­भ्यु­प­ग­मेन अज्ञानस्य सांशत्वात् तदेव क्वचिदुपाधौ ब्रह्मा­व­ग­मो­त्पत्तौ अंशेन निवर्तते, उपाध्यन्तरेषु यथा­पू­र्व­मं­शा­न्त­रै­र­नु­व­र्तते − इति ।

अन्ये तु - यथा न्यायैकदेशिमते भूतले घटा­त्य­न्ता­भा­वस्य वृत्तौ घटसंयोगाभावो नियामक इत्यनेकेषु प्रदेशेषु तद्वत्सु संसृज्य वर्त­मा­न­घ­टा­त्य­न्ता­भावः क्वचित्प्रदेशे घट­सं­यो­गो­त्पत्त्या तदभावनिवृत्तौ न संसृज्यते, एवमज्ञानस्य चैतन्ये वृत्तौ मनोनियामकमिति तदुपाधिना तत्प्रदेशेषु संसृज्य वर्तमानमज्ञानं क्वचि­द्ब्र­ह्म­द­र्श­नो­त्पत्त्या ‘भिद्यते हृदयग्रन्थिः’ इति श्रुत्यु­क्त­रीत्या मनसो निवृत्तौ न संसृज्यते, अन्यत्र यथा­पू­र्व­म­व­ति­ष्ठते । अज्ञा­न­सं­स­र्गा­सं­स­र्गा­देव च बन्धमोक्षौ - इत्याहुः ।

अपरे तु - नाज्ञानं शुद्ध­चै­त­न्या­श्र­यम् , किं तु जीवाश्रयं ब्रह्मविषयम् । अतश्च अन्तः­क­र­ण­प्र­ति­बि­म्ब­रू­पेषु सर्वेषु जीवेषु व्यक्तिषु जातिवत् प्रत्ये­क­प­र्य­व­सि­त­तया वर्तमानम् उत्पन्नविद्यं कञ्चिज्जहाति नष्टां व्यक्तिमिव जातिः स एव मोक्षः । अन्यं यथा­पू­र्व­मा­श्र­यति, इति व्यवस्था इत्याहुः ।

इतरे तु प्रति­जी­व­म­वि­द्या­भे­द­म­भ्यु­प­ग­म्यैव तद­नु­वृ­त्ति­नि­वृ­त्तिभ्यां बन्ध­मु­क्ति­व्य­वस्थां समर्थयन्ते ।

नानाविद्यावादे प्रप­ञ्चै­क­त्व­ना­ना­त्व­वि­चारः

अस्मिन पक्षे कस्याविद्यया प्रपञ्चः कृतोऽस्त्विति चेत् −

विनिगमकाभावात् सर्वा­वि­द्या­कृ­तोऽ­ने­क­त­न्त्वा­र­ब्ध­प­ट­तुल्यः, एकस्य मुक्तौ तदविद्यानाशे एकतन्तुनाशे पटस्येव तत्सा­धा­र­ण­प्र­प­ञ्चस्य नाशः, तदैव विद्य­मा­त­न्त्व­न्तरैः पटान्तरस्येव इतराविद्याभिः सक­ले­त­र­सा­धा­र­ण­प्र­प­ञ्जा­न्त­र­स्यो­त्पा­द­नम् इत्येके ।

तत्त­द­ज्ञा­न­कृ­त­प्रा­ति­भा­सि­क­र­ज­त­वत् न्यायमते तत्त­द­पे­क्षा­बु­द्धि­ज­न्य­द्वि­त्त्व­वच्च तत्तदविद्याकृतो वियदादिप्रपञ्च प्रतिपुरुषं भिन्नः । शुक्तिरजते ‘त्वया यद्दृष्टं रजतं तदेव मयापि’ इतिवत् ऐक्यभ्रममात्रम् − इत्यन्ये ।

जिवा­श्रि­ता­वि­द्या­नि­व­हा­द्भिन्ना मायैव ईश्वराश्रिता प्रपञ्चकारणम् । जीवा­ना­म­वि­द्यास्तु आवरणमात्रे प्राति­भा­सि­क­शु­क्ति­र­ज­ता­दि­वि­क्षे­पेऽपि वा उपयुज्यन्ते − इत्यपरे ।

ब्रह्मणः कर्तृत्ववादः

अवसितम् उपादानत्वम् , तत्प्र­स­क्ता­नु­प्र­सक्तं च ।

अथ किदृशं कत्वर्तृम् ।

केचिदाहुः - ‘तदैक्षत’(छा.उ. ६ । २ । ३) ‘सोऽकामयत’(तै.उ. २ । ६ । ४) ‘तदात्मानं स्वयमकुरुत’(तै.उ. २ । ७ । १) इति श्रवणात् न्यायमत इव कार्या­नु­कू­ल­ज्ञा­न­चि­की­र्षा­कृ­ति­म­त्त्व­रू­प­मिति ।

अन्ये तु - चिकी­र्षा­कृ­ति­क­र्तृ­त्व­नि­र्वा­हाय चिकी­र्षा­कृ­त्य­न्त­रा­पे­क्षा­याम् अन­व­स्था­प्र­स­ङ्गात् कार्या­नु­कू­ल­ज्ञा­न­व­त्त्व­मेव ब्रह्मणः कर्तृत्वम् । न च ज्ञानेऽप्येष प्रसङ्गः । तस्य ब्रह्म­स्व­रू­प­त्वे­ना­का­र्य­त्वात् । एवं च − विवरणे जीवस्य सुखा­दि­क­र्तृ­त्वोक्तिः, वीक्ष­ण­मा­त्र­सा­ध्य­त्वात् वियदादि वीक्षितं हिर­ण्य­ग­र्भ­द्वारा साध्यं वीक्ष­णा­धि­क­य­त्न­सा­ध्य­त्वात् भौतिकं स्मितम् इति कल्पतरूक्तिश्च सङ्गच्छते− इति वदन्ति ।

अपरे तु कार्या­नु­कू­ल­स्र­ष्ट­व्या­लो­च­न­रू­प­ज्ञा­न­वत्त्वं कर्तृत्वम् , न कार्या­नु­कू­ल­ज्ञा­न­व­त्त्व­मा­त्रम् । शुक्ति­र­ज­त­स्वा­प्न­भ्र­मा­दिषु अध्या­सा­नु­कू­ला­धि­ष्ठा­न­ज्ञा­न­व­त्त्वेन जीवस्य कर्तृ­त्व­प्र­स­ङ्गात् । न च इष्टापत्तिः - ‘अथ रथान् रथयोगान् पथः सृजते...स हि कर्ता’(बृ.उ. ४ । ३ । १०) इत्या­दि­श्रु­त्यैव जीवस्य स्वप्न­प्र­प­ञ्च­क­र्तृ­त्वोक्तेः - इति वाच्यम् । भाष्यकारैः ‘लाङ्गलं गवा­दी­नु­द्व­ह­ती­ति­वत् कर्तृ­त्वो­प­चा­र­मात्रं रथा­दि­प्र­ति­भा­न­नि­मि­त्त­त्वेन’ इति व्याख्यातत्वात् इत्याहुः ।

अनेनैव निखि­ल­प्र­प­ञ्च­र­च­ना­क­र्तृ­भा­वे­ना­र्थ­सिद्धिं सर्वज्ञत्वं ब्रह्मणः ‘शास्त्र­यो­नि­त्वात्’(ब्र.सू. १ । १ । ३) इत्यधिकरणे वेद­क­र्तृ­त्वे­नापि समर्थितम् ।

ईश्व­र­स­र्व­ज्ञ­त्व­वादः

अथ कथं ब्रह्म­णः­स­र्व­ज्ञत्वं सङ्गच्छते, जीववत् अन्तःकरणाभावेन ज्ञातृ­त्व­स्यै­वा­यो­गात् । अत्र सर्व­व­स्तु­वि­ष­य­स­क­ल­प्रा­णि­धी­वा­स­नो­प­र­क्ता­ज्ञा­नो­पा­धिक ईश्वरः, अतस्तस्य सर्व­वि­ष­य­वा­स­ना­सा­क्षि­तया सर्वज्ञत्वम् इति भारतीतीर्थादि पक्षः प्रगेव दर्शतः ।

प्रक­टा­र्थ­का­रा­स्त्वाहुः - यथा जीवस्य स्वोपा­ध्य­न्तः­क­र­ण­प­रि­णा­मा­श्चै­त­न्य­प्र­ति­बि­म्ब­ग्रा­हिणः (सन्ति) इति तद्योगात् ज्ञातृत्वम् , एवं ब्रह्मणः स्वोपा­धि­मा­या­प­रि­णा­म­श्चि­त्प्र­ति­बि­म्ब­ग्रा­हि­ण­स्स­न्तीति तत्प्र­ति­बि­म्बितैः स्फुरणैः काल­त्र­य­व­र्ति­नोऽपि प्रप­ञ्च­स्या­प­रो­क्ष्ये­णा­क­ल­नात् सर्वज्ञत्वमिति ।

तत्त्व­शु­द्धि­का­रास्तु - उक्तरीत्या ब्रह्मणो विद्य­मा­न­नि­खि­ल­प्र­प­ञ्च­सा­क्षा­त्का­र­स­म्भवः, तज्ज­नि­त­त­त्सं­स्का­र­वृ­त्तया च स्मर­णो­प­प­त्ते­र­ती­त­स­क­ल­व­स्त्व­व­भा­स­सिद्धिः, सृष्टेः प्राक् मायायाः सृज्य­मा­न­नि­खि­ल­पा­दा­र्थ­स्फु­र­ण­रू­पेण जीवा­दृ­ष्टा­नु­रो­धेन विवर्तमानत्वात् तत्साक्षितया तदुपाधिकस्य ब्रह्मणोऽपि तत्सा­ध­क­त्व­सिद्धेः अना­ग­त­व­स्तु­वि­ज्ञा­नो­प­पत्तिः, इति सर्वज्ञत्वं समर्थयन्ते ।

कौमुदीकृतस्तु वदन्ति - स्वरूपज्ञानेनैव ब्रह्मणः स्वसं­सृ­ष्ट­स­र्वा­व­भा­स­क­त्वात् सर्वज्ञत्वम् । अतीतानागतयोरपि अवि­द्या­चि­त्र­भित्तौ विमृ­ष्टा­नु­न्मी­लि­त­चि­त्र­वत् संस्कारात्मना सत्त्वेन तत्सं­स­र्ग­स्या­प्यु­प­पत्तेः । न तु वृत्तिज्ञानैः तस्य सर्वज्ञत्वम् । ‘तमेव भान्तमनुभाति सर्वम्’(क.उ. २ । २ । १५) इति साव­धा­र­ण­श्रु­ति­वि­रो­धात् , सृष्टेः प्राक् ‘एक­मे­वा­द्वि­ती­यम्’(छा.उ. ६ । २ । १) इत्य­व­धा­र­णा­नु­रो­धेन महाभूतानामिव वृत्ति­ज्ञा­ना­ना­मपि प्रलयस्य वक्तव्यतया ब्रह्मणः तदा सर्व­ज्ञ­त्वा­भा­वा­पत्त्या प्राथ­मि­क­मा­या­वि­व­र्त­रूपे ईक्षणे तत्पूर्वके महाभूतादौ च स्रष्टृ­त्वा­भा­व­प्र­स­ङ्गाच्च । एवं सति ब्रह्म­ण­स्स­र्व­वि­ष­य­ज्ञा­ना­त्म­क­त्व­मेव स्यात् , न तु सर्व­ज्ञा­न­क­र्तृ­त्व­रू­पम् सर्वज्ञत्वम् , इति चेत् - सत्यम् । सर्व­वि­ष­य­ज्ञा­ना­त्म­क­मेव ब्रह्म, न तु सर्व­ज्ञा­न­क­र्तृ­त्व­रूपं ज्ञातृत्वमस्ति । अत एव ‘वाक्यान्वयात्’(ब्र.सू. १ । ४ । १९) इत्यधिकरणे विज्ञातृत्वं जीव­लि­ङ्ग­मि­त्युक्तं भाष्यकारैः । ‘यस्सर्वज्ञः’ इत्या­दि­श्रु­ति­रपि तस्य ज्ञान­रू­प­त्वा­भि­प्रा­ये­णैव योजनीया इति ।

यद्यपि ब्रह्म स्वरू­प­चै­त­न्ये­नैव स्वसं­सृ­ष्ट­स­र्वा­व­भा­स­कम् , तथापि तस्य स्वरू­पे­णा­का­र्य­त्वेऽपि दृश्या­व­च्छि­न्न­रू­पेण ब्रह्म­का­र्य­त्वात् ‘यस्सर्वज्ञः’ इत्या­दि­ज्ञा­न­ज­नि­क­र्तृ­त्व­श्रु­ते­रपि न कश्चिद्विरोधः इति वाचस्पतिमिश्राः ।

जीवा­ल्प­त्व­नि­रू­प­णम् (प्रतिकर्म व्यव­स्था­व­र्ण­नम्)

ननु ईश्वरवज्जीवोऽपि वृत्तिमनपेक्ष्य स्वरू­प­चै­त­न्ये­नैव किमिति विष­या­न्ना­व­भा­स­यति ॥

अत्रोक्तं विवरणे − ‘ब्रह्मचैतन्यं सर्वोपादानतया सर्व­ता­दा­त्म्या­पन्नं यत्स्वसंसृष्टं सर्वमवभासयति न जीवचैतन्यम् । तस्य अविद्योपाधिकतया सर्वगतत्वेऽपि अनुपादानत्वेन असङ्गित्वात् । यथा सर्वगतं गोत्वसामान्यं स्वभा­वा­द­श्वा­दि­व्य­क्ति­स­ङ्गि­त्वा­भा­वेऽपि सास्ना­दि­म­द्व्यक्तौ संसृज्यते, एवं विष­या­न्त­रा­स­ङ्ग्यपि जीवः स्वभा­वा­द­न्तः­क­र­णेन संसृज्यते । तथा च यदा अन्तःकरणस्य परिणामो वृत्तिरूपो नयनादिद्वारेण निर्गत्य विषयपर्यन्तं चक्षुरश्मिरिव झटिति दीर्घप्रभाकारेण परिणम्य विषयं व्याप्नोति, तदा तमुपारुह्य तं विषयं गोचरयति । केव­ला­ग्न्य­दा­ह्य­स्यापि तृणादेः अयः­पि­ण्ड­स­मा­रू­ढा­ग्नि­दा­ह्य­त्व­वत् केव­ल­जी­व­चै­त­न्य­प्र­का­श्य­स्यापि घटादेः अन्तः­क­र­ण­वृ­त्त्यु­पा­रू­ढ­त­त्प्र­का­श्यत्वं युक्तम् ।

यद्वा अन्तः­क­र­णो­पा­धि­क­त्वेन जीवः परिच्छिन्नः । अतः संसर्गाभावात् न घटादिकमवभासयति । वृत्तिद्वारा तत्सं­सृ­ष्ट­वि­ष­या­व­च्छि­न्न­ब्र­ह्म­चै­त­न्या­भे­दा­भि­व्यक्तौ तु तं विषयं प्रकाशयति ।

अथवा जीवः सर्व­ग­तोऽ­प्य­वि­द्या­वृ­त्ति­त्वात् स्वय­म­प्य­प्र­का­श­मा­न­तया विष­या­न्ना­व­भा­स­यति । विषयविशेषे वृत्त्युपरागादौ आवरणतिरोधानेन तत्रै­वा­भि­व्यक्तः तमेव विषयं प्रकाशयति । एवं च चिदु­प­रा­गा­र्थ­त्वेन , विष­य­चै­त­न्या­भे­दा­भि­व्य­क्त्य­र्थ­त्वेन , आवा­र­णा­भि­भ­वा­र्थ­त्वेन वा वृत्ति­नि­र्ग­म­म­पेक्ष्य तत्सं­सृ­ष्ट­वि­ष­य­मा­त्रा­व­भा­स­क­त्वात् जीवस्य किञ्चि­ज्ज्ञ­त्व­म­प्यु­प­प­द्यते - इति ।

सम्बन्धवादः

अत्र प्रथमे पक्षे सर्वगतस्य जीवस्य वृत्त्यधीनः को विषयोपरागः । वृत्त्यापि पूर्व­सि­द्ध­यो­र्नि­ष्क्रि­य­यो­र्वि­ष­य­जी­व­चै­त­न्य­यो­स्ता­दा­त्म्यस्य संयोगस्य वा न सम्भवत्याधानम् ।

अत्र केचिदाहुः − विष­य­वि­ष­यि­भा­व­स­म्बन्ध एवेति ।

अन्ये तु − विष­य­वि­ष­यि­भा­व­मात्रे नियामिका वृत्तिश्चेत् अनिर्गताया अपि ऐन्द्रि­य­क­वृत्तेः तन्नियामकत्वं नाति­प्र­स­ङ्गा­व­ह­मिति तन्नि­र्ग­मा­भ्यु­प­ग­म­वै­य­र्थ्या­पत्तेः स नाभिसंहितः, किं तु विष­य­स­न्नि­हि­त­जी­व­चै­त­न्य­ता­दा­त्म्या­प­न्नाया वृत्ते­र्वि­ष­य­सं­योगे तस्यापि तद्द्वारकः परम्परासम्बन्धो लभ्यत इति स एव चिदु­प­रा­गोऽ­भि­सं­हितः - इत्याहुः ।

अपरे तु - साक्षा­द­प­रो­क्ष­चै­त­न्य­सं­स­र्गे­णैव सुखा­दे­र­प­रो­क्ष्य­द­र्श­नात् अपरोक्षविषये साक्षात्संसर्ग एष्टव्यः । तस्मा­द्वृ­त्ते­र्वि­ष­य­सं­योगे वृत्ति­रू­पा­व­च्छे­द­क­ला­भात् तदवच्छेदेन तदुपादानस्य जीवस्यापि संयोगजसंयोगः सम्भवति । कार­णा­का­र­ण­सं­यो­गात् कार्या­का­र्य­सं­यो­ग­वत् कार्या­का­र्य­सं­यो­गात् कार­णा­का­र­ण­सं­यो­ग­स्यापि युक्ति­तौ­ल्ये­ना­भ्यु­प­गन्तुं युक्तत्वात् - इत्याहुः ।

एकदेशिनस्तु - अन्तः­क­र­णो­प­हि­तस्य विष­या­व­भा­स­क­चै­त­न्यस्य विष­य­ता­दा­त्म्या­प­न्न­ब्र­ह्म­चै­त­न्या­भे­दा­भि­व्य­क्ति­द्वारा विष­य­ता­दा­त्म्य­स­म्पा­द­न­मेव चिदु­प­रा­गोऽ­भि­सं­हितः । सर्वगततया सर्व­वि­ष­य­स­न्नि­हि­त­स्यापि जीवस्य तेन रूपेण विषयावभासकत्वे तस्य साधारणतया पुरु­ष­वि­शे­षा­प­रो­क्ष­व्य­व­स्थि­त्य­यो­गेन तस्य अन्तः­क­र­णो­प­हि­त­त्व­रू­पे­णैव विष­या­व­भा­स­क­त्वात् । एवं च विषयापरोक्ष्ये आध्या­सि­क­स­म्बन्धो नियामक इति सिद्धान्तोऽपि सङ्गच्छ्ते । न चैवं द्विती­य­प­क्ष­सा­ङ्क­र्यम् । जीवस्य सर्वगतत्वे प्रथमःपक्षः, परिच्छिन्नत्वे द्वितीयः, इत्येव तयोर्भेदात् - इत्याहुः ।

अभे­दा­भि­व्य­क्ति­वादः

अथ द्वितीयपक्षे केय­म­भे­दा­भि­व्यक्तिः ?

केचिदाहुः− कुल्याद्वारा तटा­क­के­दा­र­स­लि­ल­यो­रिव विष­या­न्तः­क­र­णा­व­च्छि­न्न­चै­त­न्ययोः वृत्तिद्वारा एकी­भा­वोऽ­भे­दा­भि­व्यक्तिः । एवं च यद्यपि विषयावच्छिन्नं ब्रह्मचैतन्यमेव विषयप्रकाशकम् , तथाऽपि तस्य वृत्तिद्वारा एकीभावेन जीवत्वं सम्पन्नमिति जीवस्य विष­य­प्र­का­शो­प­प­त्ति­रिति ।

अन्येत्वाहुः – बिम्बस्थानीयस्य विष­या­व­च्छि­न्नस्य ब्रह्मणः प्रतिबिम्बभूतेन जीवेन एकीभावो नाभे­दा­भि­व्यक्तिः । व्यावर्तकोपाधौ दर्पण इव जाग्रति तयो­रे­की­भा­वा­यो­गात् , वृत्ति­कृ­ता­भे­दा­भि­व्यक्त्या विष­या­व­च्छि­न्नस्य ब्रह्मणो जीवत्वप्राप्तौ ब्रह्मणस्तदा तद्वि­ष­य­सं­स­र्गा­भा­वेन तद्द्र­ष्टृ­त्वा­स­म्भवे सति तस्य सर्व­ज्ञ­त्वा­भा­वा­प­त्तेश्च । किं तु विषयावच्छिन्नं ब्रह्मचैतन्यं विषयसंसृष्टाया वृत्तेः अग्रभागे विषयप्रकाशकं प्रतिबिम्बं समर्पयतीति तस्य प्रतिबिम्बस्य जीवेनैकीभावः । एवं च अन्तः­क­र­ण­त­द्वृ­त्ति­वि­ष­या­व­च्छि­न्न­चै­त­न्यानां प्रमा­तृ­प्र­मा­ण­प्र­मे­य­भा­वेन अस­ङ्क­रोऽ­प्यु­प­प­द्यते । न च वृत्त्यु­प­हि­त­चै­त­न्यस्य विषयप्रमात्वे तस्य विष­या­धि­ष्ठा­न­चै­त­न्य­स्येव विष­ये­णा­ध्या­सि­क­स­म्ब­न्धा­भा­वात् विषयापरोक्ष्ये आध्या­सि­क­स­म्ब­न्ध­स्तन्त्रं न स्यादिति वाच्यम् , विष­या­धि­ष्ठा­न­चै­त­न्य­स्यैव विष­ये­णा­व­च्छि­न्नस्य वृत्तौ प्रतिबिम्बिततया तदभेदेन तत्सम्बन्धस्यैव तत्स­म्ब­न्ध­त्वा­दिति ।

अपरे त्वाहुः - बिम्ब­भू­त­वि­ष­या­धि­ष्ठा­न­चै­त­न्य­मेव साक्षा­दा­ध्या­सि­क­स­म्ब­न्ध­ला­भात् विषयप्रकाशकमिति तस्यैव बिम्ब­त्व­वि­शि­ष्ट­रू­पेण भेदसद्भावेऽपि तदु­प­ल­क्षि­त­चै­त­न्या­त्मना एकी­भा­वोऽ­भे­दा­भि­व्यक्तिः । न चैवं सति जीव­ब्र­ह्म­सा­ङ्क­र्यम् , न वा ब्रह्मणः सर्व­ज्ञ­त्व­वि­रोधः । बिम्बात्मना तस्य यथा­पू­र्व­म­व­स्था­ना­दिति ।

आवरणाभिभववादः

अथ तृतीयपक्षे को नामावरणाभिभवः ? अज्ञाननाशश्चेत् , घट­ज्ञा­ने­नै­वा­ज्ञा­न­मूलः प्रपञ्चो निर्वर्तेत - इति चेत्

अत्र केचिदाहुः − चैत­न्य­मा­त्रा­वा­र­क­स्या­ज्ञा­नस्य विष­या­व­च्छि­न्न­प्र­देशे खद्यो­ता­दि­प्र­का­शेन महान्धकारस्येव ज्ञानेन एकदेशेन नाशो वा, कटवत् संवेष्टनं वा, भीतभटवदपसरणं वाऽभिभव इति ।

अन्ये तु - अज्ञानस्य एकदेशेन नाशे उपादानाभावात् पुनस्तत्र कन्दलनायोगेन सकृदवगते सम­या­न्त­रेऽ­प्या­व­र­णा­भा­व­प्र­स­ङ्गात् , निष्क्रि­य­स्या­प­स­र­ण­सं­वे­ष्ट­न­यो­र­स­म्भ­वाच्च न यथो­क्त­रू­पोऽ­भि­भवः सम्भवति । अतः चैत­न्य­मा­त्रा­वा­र­क­स्या­प्य­ज्ञा­नस्य तत्त­दा­का­र­वृ­त्ति­सं­सृ­ष्टा­व­स्थ­वि­ष­या­व­च्छि­न्न­चै­त­न्या­ना­व­र­क­त्व­स्वा­भा­व्य­मेव अभिभवः । न च विष­या­व­गु­ण्ठ­न­प­ट­वत् विष­य­चै­त­न्य­मा­श्रि­त्य­स्थि­त­स्या­ज्ञा­नस्य कथं तदनावारकत्वं युज्यत इति शङ्क्यम् । ‘अहमज्ञः’ इति प्रतीत्या अहमनुभवे प्रका­श­मा­न­चै­त­न्य­मा­श्र­यत एव तस्य तद­ना­वा­र­क­त्व­स­म्प्र­ति­पत्तेः− इत्याहुः ।

अपरे तु − ‘घटं न जानामि’ - इति घट­ज्ञा­न­वि­रो­धि­त्वेन, घटज्ञाने सति ‘घटाज्ञानं निवृत्तम्’ इति तन्नि­व­र्त्य­त्वेन च अनुभूयमानं न मूलाज्ञानम् । शुद्ध­चै­त­न्य­वि­ष­यस्य तज्ज्ञा­न­नि­व­र्त्यस्य च तस्य तथात्वायोगात् । किन्तु घटा­व­च्छि­न्न­चै­त­न्य­वि­षयं मूला­ज्ञा­न­स्या­व­स्था­भे­द­रू­प­म­ज्ञा­ना­न्त­र­मिति तन्नाश एवाभिभवः । न चैवमेकेन ज्ञानेन तन्नाशे तत्समानविषयाणां ज्ञानान्तराणाम् आवरणानाम् आव­र­णा­न­भि­भा­व­क­त्वा­पत्तिः । यावन्ति ज्ञानानि, तावन्ति तन्निवर्त्यानि अज्ञानानि इत्यभ्युपगमात् − इत्याहुः ।

अव­स्था­ज्ञा­न­सा­दि­त्वा­ना­दि­त्व­वादः

इमानि च अवस्थारूपाणि अज्ञानानि मूला­ज्ञा­न­व­द­ज्ञा­न­त्वात् अनादीनीति केचित् ।

व्यावहारिकौ जगज्जीवावावृत्य स्वाप्नौ जगज्जीवौ विक्षिपन्ती निद्रा तावत् आव­र­ण­वि­क्षे­प­श­क्ति­यो­गात् , अज्ञा­ना­व­स्था­भे­द­रूपा । तथा निद्रा­सु­षु­त्य­व­स्थाऽपि अन्तःकरणादौ विलीने ‘सुखमहमस्वाप्सं न किञ्जिदवेदिषम्’ इति परामर्शदर्शनात् मूलाज्ञानवत् सुषु­प्ति­का­लेऽ­नु­भू­य­माना अज्ञानावस्था भेदरूपैव । तयोश्च जाग्र­द्भो­ग­प्र­द­क­र्मो­प­रमे सत्येवोद्भवात् सादित्वमिति, तद्वत् अन्य­द­प्य­ज्ञा­न­म­व­स्था­रूपं सादि इति अन्ये ।

अव­स्था­ज्ञा­ना­ना­दि­त्व­प­क्ष­प­रि­ष्कारः

ननु - अनादित्वपक्षे घटे प्रथ­म­मु­त्प­न्ने­नैव ज्ञानेन सर्वतदज्ञाननाशो भवेत् , विनिगमनाविरहात् , तद­व­च्छि­न्न­चै­त­न्या­व­र­क­स­र्वा­ज्ञा­ना­नाशे विष­य­प्र­का­शा­यो­गाच्च ।अतः पाश्चा­त्य­ज्ञा­ना­नाम् आव­र­णा­न­भि­भा­व­कत्वं तदवस्थमेवेति चेत् −

अत्र केचित् आहुः− यथा ज्ञान­प्रा­ग­भा­वा­ना­म­ने­केषां सत्त्वेऽ­प्ये­क­ज्ञा­नो­दये ‘एक एव प्रागभावो निवर्तते, संश­या­दि­ज­न­न­श­क्त­तया तदावरणरूपेषु प्राग­भा­वा­न्त­रेषु सत्स्वपि विषयावभासः; तथा एकज्ञानोदये एकमेवाज्ञानं निवर्तते, अज्ञानान्तरेषु सत्स्वपि विषयावभासः- इति ।

अन्येतु − आवृ­त­स्या­प­रो­क्ष­ज्ञानं विरुद्धम् , एकज्ञानोदये च प्राग­भा­वा­न्त­र­स­त्त्वेऽपि याव­द्वि­शे­ष­द­र्श­ना­भा­व­कू­ट­रू­प­मा­व­रणं विशे­ष­द­र्श­ना­न्ना­स्तीति मन्यमाना वदन्ति − यदा यदज्ञानमावृणोति तदा तेन ज्ञानेन तस्यैव नाशः । सर्वं च सर्वदा नावृणोति , वैयर्थ्यात् । किं तु आवरकाज्ञाने वृत्त्या नाशिते तद्वृत्त्युपरमे अज्ञा­ना­न्त­र­मा­वृ­णोति । न चैवं सति ब्रह्मा­व­ग­मो­त्प­त्ति­का­लेऽ­ना­वा­र­क­त्वेन स्थिता­ना­म­ज्ञा­नानां ततोऽ­प्य­नि­वृ­त्ति­प्र­सङ्गः । तेषां साक्षा­त्त­द्वि­रो­धि­त्वा­भा­वेऽपि तन्नि­व­र्त्य­मू­ला­ज्ञा­न­प­र­त­न्त्र­तया अज्ञा­न­स­म्ब­न्धा­दि­वत् तन्निवृत्त्यैव निवृ­त्त्यु­प­पत्तेः । एतदर्थमेव तेषां तद­व­स्था­भे­द­रू­प­तया तत्पा­र­त­न्त्र्य­मि­ष्यते − इति ।

अपरे तु ‘अज्ञानस्य सवि­ष­य­स्व­भा­व­त्वात् उत्सर्गतः सर्वं सर्वदा आवृणोत्येव । न च विषयोत्पत्तेः प्रागा­व­र­णी­या­भा­वेन आवारकत्वं न युज्यत इति वाच्यम् , तदापि सूक्ष्मरूपेण तत्सत्त्वात्’ इति मन्यमानाः कल्पयन्ति− यथा बहुजनसमाकुले प्रदेशे कस्यचित् शिरसि निपतन्नशनिः इत­रा­न­प्य­प­सा­र­यति, यथा वा सन्नि­पा­त­ह­र­मौ­ष­धम् एकं दोषं निव­र्त­य­द्दो­षा­न्त­र­मपि दूरीकरोति, एवमेकमज्ञानं नाशयत् ज्ञानम् अज्ञा­ना­न्त­रा­ण्यपि तिरस्करोति । तिरस्कारश्च यावत् ज्ञानस्थितिः तावत् आव­र­ण­श­क्ति­प्र­ति­बन्धः − इति ।

‘ज्ञानसामान्यम् अज्ञा­न­नि­व­र्त­कम्’ इति नियमपरीक्षा

नन्वेवं सति धारावाहिकस्थले द्विती­या­दि­वृ­त्ती­ना­मा­व­र­णा­न­भि­भा­व­क­त्वेन वैफल्यं स्यात् , प्रथमज्ञानेनैव निव­र्त­न­ति­र­स्का­रा­भ्या­मा­व­र­ण­मा­त्र­स्या­भि­भा­वा­दिति −

अत्राहुः− वृत्ति­ति­र­स्कृ­त­म­ज्ञानं तदुपरमे पुनरावृणोति प्रदीपतिरस्कृतं तम इव प्रदीपोपरमे । वृत्त्युपरमसमये वृत्त्यन्तरोदये तु तिरस्कृतमज्ञानं तथैवावतिष्ठते प्रदीपोपरमसमये प्रदीपान्तरोदये तम इव । तथा च ‘यस्मिन् सति अग्रिमक्षणे यस्य सत्त्वं, यद्व्यतिरेके चासत्त्वं, तत्तज्जन्यम्’ इति प्राग­भा­व­प­रि­पा­ल­न­सा­धा­र­ण­ल­क्ष­णा­नु­रो­धेन अनावरणस्य द्विती­या­दि­वृ­त्ति­का­र्य­त्व­स्यापि लाभात् न तद्वैफल्यमिति ।

न्याय­च­न्द्रि­का­कृ­तस्तु आहुः − केनचिज्ज्ञानेन कस्यचिदज्ञानस्य नाश एव, न तु आवा­र­का­णा­म­प्य­ज्ञा­ना­न्त­राणां तिरस्कारः । तथा च धारा­वा­हि­क­द्वि­ती­या­दि­वृ­त्ती­ना­मपि एकै­का­ज्ञा­न­ना­श­क­त्वेन साफल्यम् । न चैवं ज्ञानो­द­येऽ­प्या­व­र­ण­स­म्भ­वा­द्वि­ष­या­न­व­भा­स­प्र­सङ्गः । अव­स्था­रू­पा­ण्य­ज्ञा­नानि हि तत्त­त्का­लो­प­ल­क्षि­त­स्व­रू­पा­वा­र­काणि, ज्ञानानि च याव­त्स्व­का­लो­प­ल­क्षि­त­वि­ष­या­वा­र­का­ज्ञा­न­ना­श­कानि । तथा च किञ्च­ज्ज्ञा­नो­दये तत्क­ली­न­वि­ष­या­वा­रा­का­ज्ञा­नस्य नाशात् विद्य­मा­ना­ना­म­ज्ञा­ना­न्त­रा­णा­म­न्य­का­ली­न­वि­ष­या­वा­र­क­त्वाच्च न तत्का­ली­न­वि­ष­या­व­भासे काचिदनुपपत्तिः । कारीरीफले वृष्टौ आसन्नसमयस्येव अज्ञानविषये घटादौ तत्तत्कालस्य उपलक्षणतया विष­य­को­टा­व­न­नु­प्र­वे­शेन सूक्ष्म­त­त्त­त्का­ल­भे­दा­वि­ष­यै­र्धा­रा­वा­हि­क­द्वि­ती­या­दि­ज्ञा­नै­र­ज्ञा­नानां निवृत्तावपि न काचि­द­नु­प­प­त्ति­रिति ।

केचित्तु − प्रथ­म­ज्ञा­न­नि­व­र्त्य­मे­वा­ज्ञानं स्वरूपावारकम् । द्विती­या­दि­ज्ञा­न­नि­व­र्त्यानि तु देश­का­ला­दि­वि­शे­ष­णा­न्त­र­वि­शि­ष्ट­वि­ष­याणि । अत एव सत्तानिश्चयरूपे अज्ञाननीवर्तके चैत्रदर्शने सकृज्जाते ‘चैत्रं न जानामि’ इति स्वरूपावरणं नानुभूयते, किं तु ‘इदनीं स कुत्रेति न जानामि’ इत्यादिरूपेण विशिष्टावरणमेव । विस्मरणशालिनः क्कचित् सकृत् दृष्टेऽपि ‘न जानामि’ इति स्वरूपावरणं दृश्यते चेत् ,तत्र तथाऽस्तु । अन्यत्र सकृद्दृष्टे विशि­ष्ट­वि­ष­या­न्ये­वा­ज्ञा­नानि ज्ञानानि च । न च - एवं सति धारा­वा­हि­क­द्वि­ती­या­दि­ज्ञा­ना­ना­म­ज्ञा­न­नि­व­र्त­कत्वं न स्यात् । स्थूल­का­ल­वि­शि­ष्टा­ज्ञा­नस्य प्रथमज्ञानेनैव निवृत्तेः, पूर्वा­प­र­ज्ञा­न­व्या­वृ­त्त­सू­क्ष्म­का­ल­वि­शि­ष्टा­ज्ञा­नस्य तद­वि­ष­यै­र्द्वि­ती­या­दि­ज्ञा­नै­र्नि­वृ­त्त्य­यो­गात् − इति वाच्यम् । धारावहनस्थले प्रथमोत्पन्नाया एव वृत्ते­स्ता­व­त्का­ला­व­स्था­यि­त्व­स­म्भ­वेन वृत्ति­भे­दा­न­भ्यु­प­ग­मात् । तदभ्युपगमेऽपि बहु­का­ला­व­स्था­यि­प­ञ्च­ष­वृ­त्ति­रू­प­त्व­स­म्भ­वेन पर­स्प­र­व्या­वृ­त्त­स्थू­ल­का­ला­दि­वि­शे­ष­ण­भे­द­वि­ष­य­त्वो­प­पत्तेः । प्रति­क्ष­णो­द्य­द­ने­क­वृ­त्ति­स­न्ता­न­रू­प­त्वा­भ्यु­प­ग­मेऽपि द्विती­या­दि­वृ­त्ती­ना­म­धि­ग­ता­र्थ­मा­त्र­वि­ष­य­तया प्रामाण्याभावेन आव­र­णा­नि­व­र्त­क­त्वेऽ­प्य­हा­नेश्च । न हि विषयाबाधमात्रं प्रामाण्यम् । प्राग­व­ग­ता­न­व­ग­तयोः पर्व­त­त्त­द्वृ­त्ति­पा­व­क­यो­र­नु­मि­ति­वि­ष­य­यो­र­बा­ध­स्या­वि­शे­षेण उभ­य­त्रा­प्य­नु­मितेः प्रामा­ण्य­प्र­स­ङ्गात् । न चेष्टापत्तिः । ‘वह्नावनुमितिः प्रमाणण्’ इतिवत् ‘पर्व­तेऽ­प्य­नु­मितिः प्रमाणम्’ इति­व्य­व­हा­रा­द­र्श­नात् , विवरणे साक्षि­सि­द्ध­स्या­ज्ञा­नस्य अभा­व­व्या­वृ­त्ति­प्र­त्या­य­ना­र्था­नु­मा­ना­दि­वि­ष­य­त्वेऽपि प्रमा­णा­वे­द्य­त्वो­क्तेश्च । तस्मात् द्विती­या­दि­वृ­त्तीनां प्रामा­ण्या­भा­वात् उपा­स­ना­दि­वृ­त्ती­ना­मिव अज्ञा­ना­नि­व­र्त­क­त्वेऽपि न हानिः । प्रमा­ण­वृ­त्ती­ना­मेव तन्नि­व­र्त­क­त्वा­भ्यु­प­ग­मात् ।

‘प्रमासामान्यम् अज्ञा­न­नि­व­र्त­कम्’ इति नियमपरीक्षा

ननु - नायमपि नियमः, परो­क्ष­वृ­त्ते­र­नि­र्ग­मे­ना­ज्ञा­ना­नि­व­र्त­क­त्वा­दिति चेत् –

अत्र केचिदाहुः – द्विविधं विष­या­वा­र­क­म­ज्ञा­नम् । एकं विषयाश्रितं रज्वा­दि­वि­क्षे­पो­पा­दा­न­भूतं कार्यकल्प्यम् । अन्यत् पुरुषाश्रितं ‘इदमहं न जनामि’ इत्यनुभूयमानम् । पुरुषाश्रितस्य विष­य­स­म्भि­न्न­वि­क्षे­पो­पा­दा­न­त्वा­स­म्भ­वेन विषयाश्रितस्य ‘इदमहं न जानामि’ इति साक्षि­रू­प­प्र­का­श­सं­स­र्गा­यो­गेन द्विवि­ध­स्या­प्या­व­श्य­क­त्वात् । एवं च परोक्षस्थले वृत्ते­र्नि­र्ग­म­ना­भा­वात् दूरस्थवृक्षे आप्तवाक्यात् परि­मा­ण­वि­शे­षा­व­ग­मेऽपि तद्वि­प­री­त­प­रि­मा­ण­वि­क्षे­प­वि­शे­ष­द­र्श­नाच्च विष­य­ग­ता­ज्ञा­ना­नि­वृ­त्ता­वपि पुरु­ष­ग­ता­ज्ञा­न­नि­वृ­त्ति­र­स्त्येव । “शास्त्रार्थं न जानामि” इत्य­नु­भू­ता­ज्ञा­नस्य तदुपदेशानन्तरं निवृ­त्त्य­नु­भ­वात् । अत एव ‘अनुमेयादौ सुषु­प्ति­व्या­वृत्तिः’ इति विवरणस्य ‘तद्वि­ष­या­ज्ञा­न­नि­वृ­त्ति­रर्थः’ इत्युक्तं तत्त्वदीपने इति ।

अन्ये तु – नयनपटलवत् पुरु­षा­श्रि­त­मे­वा­ज्ञानं विषयावारकम् , न तदतिरेकेण विषयगताज्ञाने प्रमाणमस्ति । न च – पुरुषाश्रितस्य विष­य­ग­त­वि­क्षे­प­प­रि­णा­मित्वं न सम्भवति, तत्सम्भवे वा दूर­स्थ­वृ­क्ष­प­रि­माणे परो­क्ष­ज्ञा­ना­द­ज्ञा­न­नि­वृत्तौ विप­री­त­प­रि­मा­ण­वि­क्षेपो न सम्भवतीति – वाच्यम् । वाचस्पतिमते सर्वस्य प्रपञ्चस्य जीवा­श्रि­ता­ज्ञा­न­वि­ष­यी­कृ­त­ब्र­ह्म­वि­व­र्त­त्वेन तद्वत् शुक्तिरजतादेः पुरु­षा­श्रि­ता­ज्ञा­न­वि­ष­यी­कृ­त­ब्र­ह्म­वि­व­र्त­त्वो­प­पत्तेः, परोक्षवृत्त्या एका­व­स्था­नि­वृ­त्ता­वपि अवस्थान्तरेण विप­री­त­प­रि­मा­ण­वि­क्षे­पो­प­प­त्तेश्च – इत्याहुः ।

अपरे तु – शुत्ति­र­ज­ता­दि­प­रि­णा­मो­प­प­त्त्या­ञ्ज­स्यात् विष­या­व­कु­ण्ठ­न­प­ट­वत् विष­य­ग­त­मे­वा­ज्ञानं तदावारकम् । न च तथासति अज्ञानस्य अन्तः­क­र­णो­प­हि­त­सा­क्ष्य­सं­स­र्गेण ततः प्रका­शा­नु­प­पत्तिः परो­क्ष­वृ­त्ति­नि­व­र्त्य­त्वा­स­म्भ­वश्च दोष इति वाच्यम् । अव­स्था­रू­पा­ज्ञा­नस्य साक्ष्य­सं­स­र्गेऽपि तत्सं­सृ­ष्ट­मू­ला­ज्ञा­न­स्यैव ‘शुक्तिमहं न जानामि’ इति प्रकाशोपपत्तेः, शुक्त्यादेरपि मूला­ज्ञा­न­वि­ष­य­चै­त­न्या­भि­न्न­तया तद्वि­ष­य­त्वा­नु­भ­वा­वि­रो­धात् । विवरणादिषु मूला­ज्ञा­न­सा­ध­न­प्र­सङ्ग एव ‘इदमहं न जानामि’ इति प्रत्य­क्ष­प्र­मा­णो­प­द­र्श­नाच्च । ‘अहमज्ञः’ इति सामा­न्य­तोऽ­ज्ञा­ना­नु­भव एव मूला­ज्ञा­न­वि­ष­यकः, ‘शुक्तिमहं न जानामि’ इत्या­दि­वि­ष­य­वि­शे­षा­लि­ङ्गि­ता­ज्ञा­ना­नु­भ­व­स्त्व­व­स्थाऽ­ज्ञा­न­वि­ष­यकः’ इति विशे­षा­भ्यु­प­ग­मेऽपि अव­स्थाऽ­व­स्था­व­तो­र­भे­देन मूलाज्ञानस्य साक्षि­सं­स­र्गाद्वा साक्षि­वि­ष­य­चै­त­न्ययोः वास्तवैक्याद्वा विष­य­ग­त­स्या­प्य­व­स्थाऽ­ज्ञा­नस्य साक्षि­वि­ष­य­त्वो­प­पत्तेः । परो­क्ष­ज्ञा­न­स्या­ज्ञा­ना­नि­व­र्त­क­त्वेऽपि तत­स्त­न्नि­वृ­त्त्य­नु­भ­वस्य सत्ता­नि­श्च­य­रू­प­प­रो­क्ष­वृ­त्ति­प्र­ति­ब­न्ध­क­प्र­यु­क्ता­न­नु­भ­व­नि­ब­न्ध­न­भ्रा­न्ति­त्वो­प­पत्तेः, अप­रो­क्ष­ज्ञा­न­स्यै­वा­ज्ञा­न­नि­व­र्त­क­त्व­नि­य­मा­भ्यु­प­ग­मात् – इत्याहुः ।

ननु नायमपि नियमः । अवि­द्याऽ­ह­ङ्का­र­सु­ख­दुः­खा­दि­त­द्ध­र्म­प्र­त्य­क्ष­स्या­ज्ञा­न­नि­व­र्त­क­त्वा­न­भ्यु­प­ग­मा­दिति चेत् – न – अवि­द्या­दि­प्र­त्य­क्षस्य साक्षिरूपत्वेन वृत्ति­रू­पा­प­रो­क्ष­ज्ञा­न­स्या­व­र­ण­नि­व­र्त­क­त्व­नि­य­मा­न­पा­यात् ।

साक्षि­स्व­रू­प­नि­र्ण­य­वादः

अथ कोऽयं साक्षी जीवातिरेकेण व्यवह्रियते ।

अत्रोक्तं कूटस्थदीपे – देह­द्व­या­धि­ष्ठा­न­भूतं कूटस्थचैतन्यं स्वावच्छेदकस्य देहद्वयस्य साक्षादीक्षणात् निर्वि­का­र­त्वाच्च साक्षीत्युच्यते । लोकेऽपि हि औदा­सी­न्य­बो­धा­भ्या­मेव साक्षित्वं प्रसिद्धम् । यद्यपि जीवस्य वृत्तयः सन्ति देहद्वयभासिकाः, तथापि सर्वतः प्रसृतेन स्वावच्छिन्नेन कूटस्थचैतन्येन ईषत् सदा भास्यमानमेव देहद्वयं जीव­चै­त­न्य­रू­प­प्र­ति­बि­म्ब­ग­र्भा­द­न्तः­क­र­णा­द्वि­च्छि­द्य­वि­च्छि­द्यो­द्ग­च्छ­द्भि­र्वृ­त्ति­ज्ञानैः स्फुटम् अवभास्यते । अन्तरालकालेषु तु सह वृत्त्यभावैः कूट­स्थ­चै­त­न्ये­नैव अवभास्यते । अत एव अहङ्कारादीनां [सदा](सर्वदा) प्रकाशसंसर्गात् संश­या­द्य­गो­च­र­त्वम् अन्य­ज्ञा­न­धा­रा­का­ली­ना­ह­ङ्का­रस्य ‘एतावन्तं कालमिदमहं पश्यन्नेवासम्’ इत्यनुसन्धानं च । न च कूटस्थप्रकाशिते कथं जीवस्य व्यव­हा­र­स्मृ­त्या­दि­क­मिति शङ्क्यम् । अन्यो­न्या­ध्या­सेन जीवै­क­त्वा­पत्त्या कूटस्थस्य जीवा­न्त­र­ङ्ग­त्वात् । न च जीवचैतन्यमेव साक्षी भवतु किं कूटस्थेनेति वाच्यम् । लौकि­क­वै­दि­क­व्य­व­हा­र­क­र्तु­स्तस्य उदा­सी­न­द्र­ष्टृ­त्वा­स­म्भ­वेन ‘साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ. ६ । ११) इति श्रुत्यु­क्त­सा­क्षि­त्वा­यो­गात् । ’तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति’(श्वे.उ. ४ । ६) इति कर्म­फ­ल­भो­क्तु­र्जी­वात् उदा­सी­न­प्र­का­श­रू­पस्य साक्षिणः पृथगाम्नानाच्च इति ।

नाटकदीपेऽपि नृत्य­शा­ला­स्थ­दी­प­दृ­ष्टा­न्तेन साक्षी जीवाद्विविच्य दर्शितः । तथाहि − ‘नृत्य­शा­ला­स्थितो दीपः प्रभुं सभ्यांश्च नर्तकीम् । दीपयेदविशेषेण तदभावेऽपि दीप्यते ॥’(पं.द. १० । ११) । तथा चिदा­भा­स­वि­शि­ष्टा­ह­ङ्का­र­रूपं जीवं विष­य­भो­ग­सा­क­ल्य­वै­क­ल्या­भि­मा­न­प्र­यु­क्त­ह­र्ष­वि­षा­द­व­त्त्वात् नृत्या­भि­मा­नि­प्र­भु­तुल्यं तत्प­रि­स­र­व­र्ति­त्वेऽपि तद्राहित्यात् सभ्य­पु­रु­ष­तु­ल्यान् विषयान् नाना­वि­ध­वि­का­र­व­त्त्वात् नर्तकीतुल्यां धियं च दीपयन् सुषु­प्त्या­दा­व­ह­ङ्का­रा­द्य­भा­वेऽपि दीप्यमानः चिदा­भा­स­वि­शि­ष्टा­ह­ङ्का­र­रू­प­जी­व­भ्र­मा­धि­ष्ठा­न­कू­ट­स्थ­चै­त­न्यात्मा साक्षीति ।

एवं जीवा­द्वि­वे­चि­तोऽयं साक्षी न ब्रह्मकोटिरपि, किं त्वस्पृ­ष्ट­जी­वे­श्व­र­वि­भागं चैतन्यम् , इत्युक्तं कूटस्थदीपे ।

तत्त्व­प्र­दी­पि­का­या­मपि मायाशबलिते सगुणे परमेश्वरे ‘केवलो निर्गुणः’ इति विशे­ष­णा­नु­प­पत्तेः सर्व­प्र­त्य­ग्भूतं विशुद्धं ब्रह्म जीवाभेदेन साक्षीति प्रतिपद्यते इत्युदितम् ।

कौमुद्यां तु ‘एको देवः सर्वभूतेषु गूढःसर्वव्यापी सर्व­भू­ता­न्त­रात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥’(श्वे.उ. ६ । ११) इति देव­त्वा­दि­श्रुतेः परमेश्वरस्यैव रूपभेदः कश्चित् जीव­प्र­वृ­त्ति­नि­वृ­त्त्यो­र­नु­मन्ता स्वयमुदासीनः साक्षी नाम । स च कार­ण­त्वा­दि­ध­र्मा­ना­स्प­द­त्वात् अपरोक्षो जीव­ग­त­म­ज्ञा­ना­द्य­व­भा­स­यंश्च जीवस्यान्तरङ्गः । सुषुप्त्यादौ च कार्यकरणोपरमे जीव­ग­ता­ज्ञा­न­मा­त्रस्य व्यञ्जकः प्राज्ञशब्दितः । ’तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’(बृ.उ. ४ । ३ । २१) ’प्राज्ञे­ना­त्म­नाऽ­न्वा­रूढ उत्सर्जन् याति’(बृ.उ. ४ । ३ । ३५) इति श्रुति­वा­क्याभ्यां सुषु­प्त्यु­त्क्रा­न्त्य­व­स्थ­यो­र्जी­वा­द्भे­देन प्रतिपादितः परमेश्वर इति सुषु­प्त्यु­त्क्रा­न्त्य­धि­क­रणे निर्णयोऽपि साक्षिपरः इत्युपवर्णितम् ।

तत्त्वशुद्धावपि ‘यथा इदं रजतमिति भ्रमस्थले वस्तुतः शुक्ति­को­ट्य­न्त­र्ग­तोऽ­पी­द­मंशः प्रतिभासतो रजतकोटिः तथा ब्रह्मकोटिरेव साक्षी प्रतिभासतो जीवकोटिरिति जीवस्य सुखादिव्यवहारे तस्योपयोगः’ इत्युक्त्या अयमेव पक्षः समर्थितः ।

केचित्तु - अविद्योपाधिको जीव एव साक्षा­द्द्र­ष्टृ­त्वा­त्साक्षी । लोकेऽपि ह्यकर्तृत्वे सति द्रष्टृत्वं साक्षित्वं प्रसिद्धम् । तच्चा­स­ङ्गो­दा­सी­न­प्र­का­श­रूपे जीवे एव साक्षात्सम्भवति । जीव­स्या­न्तः­क­र­ण­ता­दा­त्म्या­पत्त्या कर्तृ­त्वा­द्या­रो­प­भा­क्त्वेऽपि स्वय­मु­दा­सी­न­त्वात् । ‘एको देवः’ इति मन्त्रस्तु ब्रह्मणो जीवभावाभिप्रयेण साक्षि­त्व­प्र­ति­पा­दकः । ‘द्वा सुपर्णा’ इति(मु.उ. ३ । १ । १) मन्त्रः गुहा­धि­क­र­ण­न्या­येन जीवेश्वरोभयपरः गुहा­धि­क­र­ण­भा­ष्यो­दा­हृ­त­पै­ङ्गि­र­ह­स्य­ब्रा­ह्म­ण­व्या­ख्या­तेन प्रकारेण जीवा­न्तः­क­र­णो­भ­य­परो वा, इति न कश्चिद्विरोधः इत्याहुः ।

अन्ये तु - सत्यं जीव एव साक्षी, न तु सर्वगतेन अविद्योपहितेन रूपेण । पुरु­षा­न्त­रा­न्तः­क­र­णा­दी­ना­मपि पुरुषान्तरं प्रति स्वान्तः­क­र­ण­भा­स­क­सा­क्षि­सं­स­र्गा­वि­शे­षेण प्रत्य­क्ष­त्वा­पत्तेः । न चान्तःकरणभेदेन प्रमा­तृ­भे­दा­त्त­द­ना­पत्तिः । साक्षि­भा­स्येऽ­न्तः­क­र­णादौ सर्वत्र साक्ष्यभेदे सति प्रमा­तृ­भे­द­स्या­प्र­यो­ज­क­त्वात् । तस्मा­द­न्तः­क­र­णो­प­धा­नेन जीवः साक्षी । तथा च प्रतिपुरुषं साक्षिभेदात् पुरु­षा­न्त­रा­न्तः­क­र­णादेः पुरु­षा­न्त­र­सा­क्ष्य­सं­स­र्गाद्वा तदयोग्यत्वाद्वा अप्रकाश उपपद्यते । सुषुप्तावपि सूक्ष्म­रू­पे­णा­न्तः­क­र­ण­स­द्भा­वात् तदुपहितः साक्षी तदाप्यस्त्येव । न च – अन्तः­क­र­णो­प­हि­तस्य प्रमातृत्वेन न तस्य साक्षित्वम् , सुषुप्तौ प्रमात्रभावेऽपि साक्षिसत्त्वेन तयोर्भेदश्च अवश्यं वक्तव्यः - इति वाच्यम् । विशे­ष­णो­पा­ध्यो­र्भे­दस्य सिद्धा­न्त­स­म्म­त­त्वेन अन्तः­क­र­ण­वि­शिष्टः प्रमाता तदुपहितः साक्षी इति भेदोपपत्तेः इत्याहुः ।

साक्षिचैतन्यस्य आवृ­त­त्वा­ना­वृ­त­त्व­वि­चारः

ननु -उक्तरूपस्य साक्षि­णः­चै­त­न्य­मा­त्रा­वा­र­के­णा­ज्ञा­ने­ना­व­र­ण­म­व­र्ज­नी­य­मिति कथ­मा­वृ­ते­ना­वि­द्या­ह­ङ्का­रा­दि­भानं - इति चेत् −

राहुवदविद्या स्वावृ­त­प्र­का­श­प्र­का­श्येति केचित् ।

वस्तुतः अवि­द्या­न्तः­क­र­ण­त­द्ध­र्मा­व­भा­सकं साक्षिचैतन्यं विहायैव अज्ञानं चैत­न्य­मा­वृ­णो­तीति अनुभवानुसारेण कल्पनात् न कश्चिद्दोषः । अत एव सर्वदा तेषाम् अना­वृ­त­प्र­का­श­सं­स­र्गात् अज्ञा­न­वि­प­री­त­ज्ञा­न­सं­श­या­गो­च­र­त्वम् ।

साक्ष्या­न­न्द­स्या­ना­वृ­त­त्व­वि­चारः

साक्षि­चै­त­न्य­स्या­ना­वृ­तत्वे तत्स्व­रू­प­भू­त­स्या­न­न्द­स्यापि प्रका­शा­प­त्ति­रिति चेत् , न − इष्टापत्तेः, आन­न्द­रू­प­प्र­का­श­प्र­यु­क्तस्य आत्मनि निरु­पा­धि­क­प्रेम्णो दर्शनात् , ‘भासत एव पर­म­प्रे­मा­स्प­द­त्व­ल­क्षणं सुखम्’ इति विवराणाच्च ।

स्यादेतत् − इदा­नी­म­प्या­न­न्द­प्र­काशे मुक्ति­सं­सा­र­यो­र­वि­शे­ष­प्र­सङ्गः । ननु कल्पितभेदस्य साक्ष्यानन्दस्य प्रकाशेऽपि अनवच्छिन्नस्य ब्रह्मा­न­न्द­स्या­वृ­तस्य संसा­र­द­शा­या­म­प्र­का­शेन विशेषोऽस्तीति चेत् , न−आन­न्देऽ­न­व­च्छे­दां­श­स्या­पु­रु­षा­र्थ­त्वात् , आन­न्द­प­रो­क्ष­मा­त्रस्य च इदानीमपि सत्त्वात् । ननु−अवच्छिन्नः साक्ष्यानान्दः सातिशयः, सुषु­प्ति­सा­धा­र­णा­द­न­ति­स्प­ष्टा­त्ततो वैष­यि­का­न­न्दे­ष्व­ति­श­या­नु­भा­वात् । अनवच्छिन्नो ब्रह्मानन्दस्तु निरतिशयः । आनन्दवल्ल्यां मानु­षा­न­न्दा­द्यु­त्त­रो­त्त­र­श­त­गु­णो­त्क­र्षो­प­व­र्ण­नस्य ब्रह्मानन्दे समापनात्− इति चेत् , न−सिद्धान्ते साक्ष्या­न­न्द­वि­ष­या­न­न्द­ब्र­ह्मा­न­न्दानां वस्तुत एकत्वेन उत्क­र्षा­प­क­र्षा­स­म्भ­वात् । मानु­षा­न­न्दा­दी­ना­मु­त्त­रो­त्त­र­मु­त्कर्षं श्रुतिर्वदतीति चेत् , को वा ब्रूते श्रुतिर्न वदतीति, किं तु अद्वैतवादे तदु­प­पा­द­न­म­श­क्य­मि­त्यु­च्यते । नन्वेकस्यैव सौरालोकस्य कर­त­ल­स्फ­टि­क­द­र्प­णा­द्य­भि­व्य­ञ्ज­क­वि­शे­षो­प­धा­ने­ना­भि­व्य­क्ति­ता­र­त­म्य­द­र्श­नात् एक­त्वेऽ­प्या­न­न्दस्य अभि­व्य­ञ्ज­क­सु­ख­वृ­त्ति­भे­दो­प­धा­ने­ना­भि­व्य­क्ति­ता­र­त­म्य­रू­प­मु­त्क­र्षा­प­क­र्ष­वत्त्वं युक्तमिति चेत् , न - दृष्टा­न्ता­स­म्प्र­ति­पत्तेः । सर्वतः प्रसृमरस्य सौरालोकस्य गगने विना कर­त­ला­दि­स­म्ब­न्धम् अस्पष्टं प्रकाशमानस्य निम्नतले प्रसृमरस्य जलस्येव करतलसम्बन्धेन गतिप्रतिहतौ बहु­ली­भा­वा­द­धि­क­प्र­काशः, भास्व­र­द­र्प­णा­दि­स­म्ब­न्धेन गतिप्रतिहतौ बहु­ली­भा­वा­त्त­दी­य­दी­प्ति­सं­व­ल­नाच्च ततोऽ­प्य­धि­क­प्र­काशः, इति तत्रा­भि­व्य­ञ्ज­को­पा­धि­का­भि­व्य­क्ति­ता­र­त­म्या­न­भ्यु­प­ग­मात् । दृष्टा­न्त­स­म्प्र­ति­पत्तौ च गग­न­प्र­सृ­त­सौ­रा­लो­क­वत् अन­व­च्छि­न्ना­न­न्द­स्या­स्प­ष्टता, कर­त­ला­द्य­व­च्छि­न्न­सौ­रा­लो­क­वत् सुख­वृ­त्त्य­व­च्छि­न्ना­न­न्द­स्या­धि­का­भि­व्य­क्ति­रिति मुक्तितः संसारस्यैव अभ्य­र्हि­त­त्वो­प­त्तेश्च । एतेन संसारदशायां प्रका­श­मा­नोऽ­प्या­नन्दो मिथ्या­ज्ञा­न­त­त्सं­स्का­र­वि­क्षि­प्त­तया तीव्र­वा­यु­वि­क्षि­प्त­प्र­दी­प­प्र­भा­व­द­स्पष्टं प्रकाशते, मुक्तौ तदभावात् यथावदवभासते इत्यपि − निरस्तम् । निर्वि­शे­ष­स्व­रू­पा­नन्दे प्रकाशमाने तत्र विक्षे­प­दो­षा­द­प्र­का­श­मा­नस्य मुक्त्य­न्व­यि­नोऽ­ति­श­यस्य असम्भवात् । तस्मात् साक्ष्या­न­न्द­स्या­ना­वृ­त­त्व­क­ल्प­न­म­यु­क्तम् ।

अत्राहुः अद्वै­त­वि­द्या­चार्याः - यथा अत्युत्कृष्टस्य एकस्यैव धवलरूपस्य मालि­न्य­ता­र­त­म्य­यु­क्तेषु अनेकेषु दर्पणेषु प्रतिबिम्बे सति उपा­धि­मा­लि­न्य­ता­र­त­म्यात् तत्र तत्र प्रतिबिम्बे धावल्यापकर्षः तार­त­म्ये­ना­ध्य­स्यते, एवं वस्तुतो निरतिशयस्य एकस्यैव स्वरूपानन्दस्य अन्तः­क­र­ण­प्र­ति­बि­म्बि­त­तया साक्ष्या­न­न्द­भावे प्राक्त­न­सु­कृ­त­स­म्प­त्त्य­धी­न­वि­ष­य­वि­शे­ष­स­म्प­र्क­प्र­यु­क्त­स­त्वो­त्क­र्षा­प­क­र्ष­रू­प­शु­द्धि­ता­र­त­म्य­यु­क्त­सु­ख­रू­पा­न्तः­क­र­ण­वृ­त्ति­प्र­ति­बि­म्बि­त­तया विषयानन्दभावे च तमो­गु­ण­रू­पो­पा­धि­मा­लि­न्य­ता­र­त­म्य­दो­षात् अपकर्षः तार­त­म्ये­ना­ध्य­स्यते इति संसारदशायां प्रका­श­मा­नेऽ­प्या­नन्दे अध्य­स्ता­प­क­र्ष­ता­र­त­म्येन साति­श­य­त्वा­द­तृप्तिः ।विद्योदये निखि­ला­प­क­र्षा­ध्या­स­नि­वृत्तेः अरो­पि­त­सा­ति­श­य­त्वा­पा­यात् कृतकृत्यता, इति विशेषोपपत्तेः निरु­पा­धि­क­प्रे­म­गो­च­र­तया प्रकाशमानः साक्ष्या­न­न्दोऽ­ना­वृत एवेति ।

अन्ये तु -प्रका­श­मा­नोऽ­प्या­नान्दः ‘मयि नास्ति न प्रकाशते’ इत्या­व­र­णा­नु­भ­वात् आवृत एव । एकस्मिन्नपि साक्षिणि अवि­द्या­क­ल्पि­त­रू­प­भे­द­स­म्भ­वेन चैत­न्य­रू­पे­णा­ना­व­र­णस्य आन­न्द­रू­पे­णा­व­र­णस्य चाविरोधात् , स्वरू­प्र­का­श­स्या­व­र­णा­नि­व­र्त­क­तया प्रकाशमाने आव­र­ण­स्या­वि­रो­धाच्च, ‘त्वदुक्तमर्थं न जानामि’ इति प्रकाशमान एवावरणदर्शनाच्च । न च तत्र अना­वृ­त­सा­मा­न्या­का­रा­व­च्छे­देन विशे­षा­व­र­ण­मे­वा­नु­भू­यत इति वाच्यम् । अन्या­व­र­ण­स्या­न्या­व­च्छे­देन भानेऽ­ति­प्र­स­ङ्गात् । न च सामा­न्य­वि­शे­ष­भावो नियामक इति नातिप्रसङ्ग इति वाच्यम् । व्याप्य­व्या­प­क­भा­वा­ति­रि­क्त­सा­मा­न्य­वि­शे­ष­भा­वा­भा­वेन ‘वह्निं न जानामि’ इति धूमा­वा­र­का­ज्ञा­ना­नु­भव प्रसङ्गात् । तस्मात् यद­व­च्छि­न्न­म­ज्ञानं प्रकाशते तदेवावृतमिति प्रका­श­मा­नेऽ­प्य­ज्ञानं युज्यते । अज्ञानं च यथा साक्ष्यंशं विहाय चैतन्यमावृणोति, एवमानन्दमपि तत्त­त्सु­ख­रू­प­वृ­त्ति­क­ब­ली­कृतं विहायैवावृणोति । स एव वैष­यि­का­न­न्द­स्या­व­र­णा­भवः । स चावरणाभिभवः प्रत्यूषसमये बाह्या­व­र­णा­भि­भ­व­वत् कार­ण­वि­शे­ष­प्र­यु­क्त­वृ­त्ति­वि­शे­ष­व­शात् तरतमभावेन भवति । अतः स्वरू­पा­न­न्द­वि­ष­या­न­न्दयोः विषयानन्दानां च परस्परं भेदसिद्धिः − इति वदन्ति ।

सर्वथाऽपि साक्षि­चै­त­न्य­स्या­ना­वृ­त­त्वेन आवरणाभिभवार्थं वृत्ति­म­न­पे­क्ष्यैव तेन अह­ङ्का­रा­दि­प्र­का­श­न­मिति तुल्यमेव ।

केव­ल­सा­क्षि­भा­स्यानां स्मर­णो­प­प­त्ति­नि­रू­प­णम्

नन्वेवं कथ­म­ह­ङ्का­रा­दी­ना­म­नु­स­न्धा­नम् । ज्ञान­सू­क्ष्मा­व­स्था­रू­पस्य संस्कारस्य ज्ञाने सत्ययोगेन नित्येन साक्षिणा तदाधानासम्भवात् ।

अत्र केचिदाहुः- स्वसंसृष्टेन साक्षिणा सदा भास्य­मा­नोऽ­ह­ङ्कारः तत्त­द्घ­टा­दि­वि­ष­य­वृ­त्त्या­का­र­प­रि­ण­त­स्वा­व­च्छि­न्ने­नापि साक्षिणा भास्यत इति तस्या­नि­त्य­त्वात् सम्भवति संस्काराधानं घटादौ विषय इव । न हि स्वाका­र­वृ­त्त्य­व­च्छि­न्न­सा­क्षि­णैव स्वगो­च­र­सं­स्का­रा­धा­न­मिति नियमोऽस्ति । तथा सति वृत्ति­गो­च­र­सं­स्का­रा­स­म्भ­वेन वृत्ते­र­स्म­र­ण­प्र­स­ङ्गात् । अनवस्थापत्त्या वृत्ति­गो­च­र­वृ­त्त्य­न्त­रस्य अनु­व्य­व­सा­य­नि­र­स­नेन निरस्तत्वात् । किं तु यद्वृ­त्त्य­व­च्छि­न्न­चै­तन्ये यत् प्रकाशते तद्वृत्त्या तद्गो­च­र­सं­स्का­रा­धा­नम् इत्येव नियमः । एवं च ज्ञानसुखादयोऽपि अन्तःकरणवृत्तयः तप्ता­यः­पि­ण्डा­द्व्यु­च्च­रन्तो विस्फुलिङ्गाः स्वावच्छिन्नेन वह्निनेव स्वस्वा­व­च्छि­न्नेन अनित्येन साक्षिणा भास्यन्त इति युक्तं तेष्वपि संस्काराधानम् । यस्तु ‘घटैकाकारधीस्था चित् घटमेवावभासयेत् । घटस्य ज्ञातता ब्रह्म­चै­त­न्ये­ना­व­भा­स्यते ॥(पं.द. ८ । ४) इति कूटस्थदीपोक्तः विषयविशेषणस्य ज्ञानस्य विष­या­व­च्छि­न्न­ब्र­ह्म­चै­त­न्या­व­भा­स्य­त्व­प­क्षः,यश्च तत्त्व­प्र­दी­पि­कोक्तो ज्ञाने­च्छा­दी­ना­म­न­व­च्छि­न्न­शु­द्ध­चै­त­न्य­रू­प­नि­त्य­सा­क्षि­भा­स्य­त्व­पक्षः, तयोरपि चैतन्यस्य स्वसं­सृ­ष्टा­प­रो­क्ष­रू­प­त्वात् वृत्ति­सं­स­र्गोऽ­वश्यं वाच्य इति तत्सं­सृ­ष्टा­नि­त्य­रू­प­स­द्भा­वात् न तेषु संस्काराधाने काचि­द­नु­प­प­त्ति­रिति ।

अन्ये तु - सुषुप्तावपि अवि­द्या­द्य­नु­स­न्धान सिद्धये कल्पिताम् अविद्यावृत्तिम् अह­मा­का­रा­म­ङ्गी­कृत्य अहमर्थे संस्का­र­मु­प­पा­द­यन्ति । न चास्मिन् पक्षे ‘एतावन्तं कालमिदमहं पश्यन्नेवासम्’ इति अन्य­ज्ञा­न­धा­रा­का­ली­ना­ह­म­र्था­नु­स­न्धा­ना­नु­प­पत्तिः । अवच्छेदकभेदेन सुख­दुः­ख­यौ­ग­प­द्य­व­द्वृ­त्ति­द्व­य­यौ­ग­प­द्य­स्या­प्य­वि­रो­धेन अन्य­ज्ञा­न­धा­रा­का­लेऽपि अह­मा­का­रा­वि­द्या­वृ­त्ति­स­न्ता­न­स­म्भ­वा­दिति ।

अपरे तु - अहमाकारा वृत्ति­र­न्तः­क­र­ण­वृ­त्ति­रेव । किं तु उपा­स­ना­दि­वृ­त्ति­वत् न ज्ञानम् , क्लृप्त­त­त्क­र­णा­ज­न्य­त्वात् । न हि तत्र चक्षु­रा­दि­प्र­त्य­क्ष­प्र­माणं सम्भवति । न वा लिङ्गादिकम् । लिङ्गा­दि­प्र­ति­स­न्धा­न­शू­न्य­स्या­प्य­ह­ङ्का­रा­नु­स­न्धा­न­द­र्श­नात् । नापि मनः करणम् । तस्यो­पा­दा­न­भू­तस्य क्वचिदपि कर­ण­त्वा­क्लृप्तेः । तर्हि अह­म­र्थ­प्र­त्य­भि­ज्ञाऽपि ज्ञानं न स्यादिति चेत् , न - तस्या अहमंशे ज्ञनत्वाभावेऽपि तत्तांशे स्मृतिकरणत्वेन क्लृप्त­सं­स्का­र­ज­न्य­तया ज्ञानत्वात् , अंशभेदेन ज्ञाने परो­क्ष­त्वा­प­रो­क्ष­त्व­वत् प्रमा­त्वा­प्र­मा­त्व­वच्च ज्ञान­त्वा­ज्ञा­न­त्व­यो­रपि अविरोधात् - इत्याहुः ।

इतरे तु - अहमाकाराऽपि वृत्ति­र्ज्ञा­न­मेव । ‘मामहं जानामि’ इत्यनुभवात् । न च करणासम्भवः । अनुभवानुसारेण मनस एवा­न्त­रि­न्द्रि­य­त्व­स्येव करणत्वस्यापि कल्पनात् - इत्याहुः ।

एवं सति बाह्य­गो­च­रा­प­रो­क्ष­वृ­त्ती­ना­मेव आव­र­णा­भि­भा­व­क­त्व­नि­यमः पर्यवसन्नः ।

भ्रम­का­र­णी­भू­ते­द­मा­का­र­वृ­त्ते­रा­व­र­णा­भि­भा­व­क­त्व­नि­रू­प­णम्

ननु-नायमपि नियमः, शुक्तिरजतस्थले इद­मा­का­र­वृ­त्ते­र­ज्ञा­ना­न­भि­भा­व­क­त्वात् , अन्यथा उपादानाभावेन रज­तो­त्प­त्त्य­यो­गात् इति चेत् -

अत्राहु:− इदमाकारवृत्त्या इद­मं­शा­ज्ञा­न­नि­वृ­त्ता­वपि शुक्ति­त्वा­दि­वि­शे­षां­शा­ज्ञा­ना­नि­वृत्तेः तदेव रजतोपादानम् , शुक्ति­त्वा­द्य­ज्ञाने रजताध्यासस्य तज्ज्ञाने तदभावस्य अनुभूयमानत्वात् । अध्या­स­भा­ष्य­टी­का­वि­व­रणे अनु­भू­य­मा­ना­न्व­य­व्य­ति­रे­क­स्यै­वा­ज्ञा­नस्य रज­ता­द्य­ध्या­सो­पा­दा­न­त्वोक्तेः । अत एव शुक्त्यं­शोऽ­धि­ष्ठा­नम् , इदमंश आधारः; सवि­ला­सा­ज्ञा­न­वि­ष­योऽ­धि­ष्ठा­नम् , अतद्रूपोऽपि तद्रू­पे­णा­रो­प्य­बुद्धौ स्फुरन् आधारः, इति सङ्क्षे­प­शा­री­र­केऽपि विवेचनादिति ।

अपरे तु इदं रजतमिति इदमंश सम्भिन्नत्वेन प्रतीयमानस्य रजतस्य इद­मं­शा­ज्ञा­न­मे­वो­पा­दा­नम् । तस्य च इदमाकारवृत्त्या आव­र­ण­श­क्ति­मा­त्र­नि­वृ­त्ता­वपि विक्षेपशक्त्या सह तदनुवृत्तेः नोपा­दा­न­त्वा­स­म्भवः । जल­प्र­ति­बि­म्बि­त­वृ­क्षा­धोऽ­ग्र­त्वा­ध्यासे जीव­न्मु­क्त्य­नु­वृत्ते प्रपञ्चाध्यासे च सर्वात्मना अधि­ष्ठा­न­सा­क्षा­त्का­रा­न­न्त­र­भा­वि­न्या­मा­व­र­ण­नि­वृ­त्ता­वपि विक्षे­प­श­क्ति­स­हि­ता­ज्ञा­न­मा­त्र­स्यो­पा­दा­न­त्व­स­म्प्र­ति­पत्तेः इत्याहुः ।

भ्रम­का­र­णी­भू­ते­दं­वृ­त्ति­स­द्भावे विवदमानानां मतनिरूपणम्

कवि­ता­र्कि­क­च­क्र­व­र्ति­नृ­सिं­ह­भ­ट्टो­पा­ध्या­यास्तु ‘इदं रजतम्’ इति भ्रम­रू­प­वृ­त्ति­व्य­ति­रे­केण रजतोत्पत्तेः प्राक् इदमाकारा वृत्तिरेव नास्तीति तस्याः अज्ञा­न­नि­व­र्त­क­त्व­स­द­स­द्भा­व­वि­चारं निरालम्बनं मन्यन्ते । तथा हि – न तावत् भ्रम­रू­प­वृ­त्ति­व्य­ति­रे­केण इदमाकारा वृत्तिः अनुभवसिद्धा । ज्ञान­द्वि­त्वा­न­नु­भ­वात् ।

नापि अधि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­म­ध्या­स­का­र­णम् इति कार्यकल्प्या । तस्याः तत्कारणत्वे मानाभावात् । न चाधि­ष्ठा­न­स­म्प्र­यो­गा­भावे रज­ता­द्य­नु­त्प­त्ति­स्तत्र मानम् ; ततो दुष्टे­न्द्रि­य­स­म्प्र­यो­ग­स्यै­वा­ध्या­स­का­र­ण­त्व­प्राप्तेः । न च − सम्प्रयोगो न सर्वभ्रमव्यापी, अधिष्ठानस्फुरणं तु स्वतः प्रकाशमाने प्रत्यगात्मनि अह­ङ्का­र­द्य­ध्या­स­मपि व्याप्नोतीति − वाच्यम् । तस्यापि घटा­द्य­ध्या­सा­व्या­पि­त्वात् । घटा­दि­प्र­त्य­क्षात् प्राक् तद­धि­ष्ठा­न­भू­त­नी­रू­प­ब्र­ह्म­मा­त्र­गो­च­र­चा­क्षु­ष­वृ­त्ते­र­स­म्भ­वात् । स्वरू­प­प्र­का­श­स्या­वृ­त­त्वात् । आवृ­ता­ना­वृ­त­सा­धा­र­ण्ये­ना­धि­ष्ठा­न­प्र­का­श­मा­त्र­स्या­ध्या­स­का­र­णत्वे शुक्ती­द­मं­श­स­म्प्र­यो­गात् प्रागपि तद­व­च्छि­न्न­चै­त­न्य­रू­प­प्र­का­श­स्या­वृ­तस्य सद्भावेन तदा­प्य­ध्या­सा­पत्तेः ।

न च − अध्याससामान्ये अधि­ष्ठा­न­प्र­का­श­सा­मान्यं हेतुः, प्राति­भा­सि­का­ध्या­सेऽ­भि­व्य­क्ता­धि­ष्ठा­न­प्र­काशः इति नातिप्रसङ्गः, सामान्ये सामान्यस्य विशेषे विशेषस्य हेतु­त्वौ­चि­त्या­दि­ति-वा­च्यम् । एवमपि प्राति­भा­सि­क­श­ङ्ख­पी­ति­म­कू­प­ज­ल­नै­ल्या­द्य­ध्या­सा­व्या­प­नात् । रूपा­नु­प­हि­त­चा­क्षु­ष­प्र­त्य­या­यो­गेन तदानीं शङ्खा­दि­ग­त­शौ­क्ल्यो­प­ल­म्भा­भा­वेन च अध्यासात् प्राक् शङ्खा­दि­नी­रू­पा­धि­ष्ठा­न­गो­च­र­वृ­त्त्य­स­म्भ­वात् ।

न च प्राति­भा­सि­के­ष्वपि रज­ता­द्य­ध्या­स­मात्रे निरिक्तो विशे­ष­हे­तु­रा­स्ता­मिति वाच्यम् । तथा सति सम्प्रयोगात् प्राक् पीत­श­ङ्खा­द्य­ध्या­सा­प्र­स­ङ्गाय तदध्यासे दुष्टे­न्द्रि­य­स­म्प्र­योगः कारणमित्यवश्यं वक्तव्यतया तस्यैव सामान्यतः प्राति­भा­सि­का­ध्या­स­मात्रे लाघवात् कारणत्वसिद्धौ तत एव रज­ता­द्य­ध्या­स­का­दा­चि­त्क­त्व­स्यापि निर्वाहात् अधि­ष्ठा­न­प्र­का­शस्य सामान्यतो विशेषतो वाऽध्या­स­का­र­ण­त्व­स्या­सिद्धेः ।

ननु − सादृ­श्य­नि­र­पेक्षे अध्यासान्तरे अकारणत्वेऽपि तत्सापेक्षे रजताद्यध्यासे रज­ता­दि­सा­दृ­श्य­भू­त­रू­प­वि­शे­षा­दि­वि­शि­ष्ट­ध­र्मि­ज्ञा­न­रू­प­म­धि­ष्ठा­न­सा­मा­न्य­ज्ञानं कारणमवश्यं वाच्यम् । दुष्टे­न्द्रि­य­स­म्प्र­यो­ग­मा­त्रस्य कारणत्वे शुक्तिवत् इङ्गालेऽपि रज­ता­ध्या­स­प्र­स­ङ्गात् । न च सादृश्यमपि विषयदोषत्वेन कारणमिति वाच्यम् । विसदृशेऽपि सादृश्यभ्रमे सति अध्याससद्भावात् । जलधिसलिलपूरे दूरे नील­शि­ला­त­ल­त्वा(ध्या)रो­प­द­र्श­नात् । न च ‘तद्धेतोरेवे’ति न्यायात् सादृ­श्य­ज्ञा­न­सा­म­ग्र्ये­वा­ध्या­स­का­र­ण­म­स्त्विति युक्तम् । ज्ञानसामग्र्या अर्थकारणत्वस्य क्वचि­द­प्य­दृष्टेः, ततः सादृ­श्य­ज्ञा­न­स्यैव लघुत्वाच्च । न च - स्वतश्शुभ्रेऽपि शुभ्र­क­ल­धौ­त­भृ­ङ्गा­र­ग­तेऽपि स्वच्छे जल एव नैल्याध्यासः, न मुक्ताफले इति व्यवस्थावत् वस्तुस्वभावादेव शुक्तौ रजताध्यासः नेङ्गालादौ इति व्यवस्था, न तु सादृ­श्य­ज्ञा­ना­पे­क्ष­णात् - इति वाच्यम् । स्वतः पटखण्डे पुण्ड­री­क­मु­क­ल­त्वा­न­ध्या­सेऽपि तत्रैव कर्त­ना­दि­घ­टि­त­त­दा­कारे तदध्यासदर्शनेन तदध्यासस्य वस्तु­स्व­भा­व­म­न­नु­रुध्य सादृ­श्य­ज्ञा­न­भा­वा­भा­वा­नु­रो­धि­त्व­नि­श्च­यात् । अन्यथा अन्यदापि तत्र तद­ध्या­स­प्र­स­ङ्गात् ।

उच्य­ते−सा­दृ­श्य­ज्ञा­न­स्या­ध्या­स­का­र­ण­त्व­वा­देऽपि विशे­ष­द­र्श­न­प्र­ति­ब­ध्येषु रज­ता­द्य­ध्या­से­ष्वेव तस्य कारणत्वं वाच्यम् । न तु तदप्रतिबध्येषु पीत­श­ङ्खा­द्य­ध्या­सेषु , असम्भवात् । विशे­ष­द­र्श­न­प्र­ति­ब­ध्येषु च प्रति­ब­न्ध­क­ज्ञा­न­सा­मग्र्याः प्रति­ब­न्ध­क­त्व­नि­य­मेन विशे­ष­द­र्श­न­सा­म­ग्र्य­प्य­वश्यं प्रतिबन्धिका वाच्येति तत एव सर्व­व्य­व­स्थो­प­पत्तेः किं सादृश्यज्ञानस्य कारणत्वकल्पनया ? तथा हि इङ्गालादौ चक्षुः­स­म्प्र­युक्ते तदी­य­नै­ल्या­दि­रू­प­वि­शे­ष­द­र्श­न­सा­म­ग्री­स­त्त्वात् न रजताध्यासः । शुक्त्यादावपि नील­भा­गा­दि­व्या­पि­च­क्षुः­स­म्प्र­योगे तत्सत्त्वात् न तदध्यासः । सदृ­श­भा­ग­मा­त्र­स­म्प्र­योगे तदभावादध्यासः ।

तदापि शुक्ति­त्व­रू­प­वि­शे­ष­द­र्श­न­सा­म­ग्री­स­त्त्वा­द­न­ध्या­स­प्र­सङ्ग इति चेत् , न – अध्याससमये शुक्ति­त्व­द­र्श­ना­भा­वेन तत्पूर्वं तत्सा­म­ग्र्य­भा­वस्य त्वयाऽपि वाच्यत्वात् ।

मम सादृ­श्य­ज्ञा­न­रू­पा­ध्या­स­का­र­ण­दो­षेण प्रतिबन्धात् तदा शुक्ति­त्व­द­र्श­न­सा­म­ग्र्य­भा­वा­भ्यु­प­गमः, तव तथाभ्युपगमे तु घट्ट­कु­टी­प्र­भा­त­वृ­त्तान्त इति चेत् , न - समी­पो­प­स­र्प­णा­न­न्तरं रजतसादृश्यरूपे चाकचक्ये दृश्यमान एव शुक्ति­त्वो­प­ल­म्भेन तस्य तत्सा­म­ग्री­प्र­ति­ब­न्ध­क­त्वा­सिद्धौ दूरत्वादिदोषेण प्रतिबन्धाद्वा व्यञ्ज­क­नी­ल­पृ­ष्ठ­त्वा­दि­ग्रा­ह­का­स­म­व­धा­नाद्वा तत्सा­म­ग्र्य­भा­वस्य वक्तव्यत्वात् । एवं जलधिजले निय­त­नी­ल­रू­पा­ध्या­स­प्र­यो­ज­क­दो­षेण प्रतिबन्धात् दूरे नीर­त्व­व्य­ञ्ज­क­त­र­ङ्गा­दि­ग्रा­ह­का­स­म­व­धा­नेन च शौक्ल्य­ज­ल­रा­शि­त्वा­दि­रू­प­वि­शे­ष­द­र्श­न­सा­म­ग्र्य­भा­वात् नील­शि­ला­त­ल­त्वा­ध्यासः । विस्तृते पटे परि­णा­ह­रू­प­वि­शे­ष­द­र्श­न­सा­म­ग्री­स­त्त्वात् न पुण्ड­री­क­मु­कु­ल­त्वा­ध्यासः, कर्तनादि घटिततदाकारे तदभावात्तदध्यास इति ।

नन्वेवं करस्पृष्टे लोहशकले तदी­य­नी­ल­रू­प­वि­शे­ष­द­र्श­न­सा­म­ग्र्य­भा­वात् रजताध्यासः किं न भवेत् , सादृ­श्य­ज्ञा­ना­न­पे­क्ष­णात्− इति चेत् , भवत्येव । किं तु ताम्रा­दि­व्या­व­र्त­क­वि­शे­ष­द­र्श­न­सा­मग्र्या अप्यभावात् तदध्यासेनापि भाव्यमिति क्वचि­द­ने­का­ध्यासे संशयगोचरो भवति, क्वचित्तु रजतप्राये कोशगृहादौ रजताध्यास एव भवति । क्वचित् सत्यपि सादृश्यज्ञाने शुक्तिकादौ कदाचित् कर­ण­दो­षा­द्य­भा­वे­ना­ध्या­सा­नु­द­य­वत् अध्यासानुदयेऽपि न हानिः । तस्मात् न कार्यकल्प्या इदमाकारा वृत्तिः ।

नाप्य­प्र­ति­ब­द्धे­द­म­र्थ­स­म्प्र­यो­ग­का­र­ण­कल्प्या ; ततो भवन्त्या एवेदंवृत्ते: दुष्टे­न्द्रि­य­स­म्प्र­यो­ग­क्षु­भि­ता­वि­द्या­प­रि­णा­म­भू­त­स्व­स­म­का­ल­र­ज­त­वि­ष­य­त्व­स्यापि अस्मा­भि­रु­च्य­मा­न­त्वात् । तत्र च ज्ञान­स­म­का­लो­त्प­त्तिके प्रति­भा­स­मा­त्र­वि­प­रि­व­र्तिनि रजते तत्प्रा­ची­न­स­म्प्र­यो­गा­भा­वेऽपि तत्ता­दा­त्म्या­श्र­ये­द­म­र्थ­स­म्प्र­यो­गा­देव तस्यापि चक्षु­र्ग्रा­ह्य­त्वो­प­पत्तेः । ‘चक्षुषा रजतं पश्यामि’ इति प्राति­भा­सि­क­र­ज­तस्य स्वस­म्प्र­यो­गा­भा­वेऽपि चाक्षु­ष­त्वा­नु­भ­वात् ।

न च − स्वस­म्प्र­यो­गा­भा­वा­देव बाधकात् न तत् चाक्षुषम् , नापि दुष्टे­न्द्रि­य­स­म्प्र­यो­ग­ज­न्यम् इदं­वृ­त्ति­स­म­कालं; ज्ञान­का­र­ण­स्ये­न्द्रि­य­स­म्प्र­यो­ग­स्या­र्थ­का­र­ण­त्वा­क्लृप्तेः । किं तु इदं­वृ­त्त्य­न­न्त­र­भावि तज्जन्यं तदभिव्यक्ते साक्षि­ण्य­ध्या­सात् तद्भास्यम् । चाक्षु­ष­त्वा­नु­भ­वस्तु स्वभा­स­क­चै­त­न्या­भि­व्य­ञ्ज­के­दं­वृ­त्ति­ज­न­क­त्वेन परम्परया चक्षु­र­पे­क्षा­मा­त्रे­णे­ति−वा­च्यम् ।

तथा सति पीतशङ्खभ्रमे चक्षु­र­न­पे­क्षा­प्र­स­ङ्गात् । न हि तत्र शङ्खग्रहणे चक्षुरपेक्षा । रूपं विना केवलशङ्खस्य चक्षु­र्ग्रा­ह्य­त्वा­यो­गात् । नापि पीतिमग्रहणे । आरोप्यस्य ऐन्द्रि­य­क­त्वा­न­भ्यु­प­ग­मात् । न च - पीतिमा स्वरूपतो नाध्यस्यते किं तु नय­न­ग­त­पि­त्त­पी­ति­म्नोऽ­नु­भू­य­मा­नस्य शङ्खे संस­र्ग­मा­त्र­म­ध्य­स्यते इति पीति­मा­नु­भ­वा­र्थ­मेव चक्षरपेक्षेति − वाच्यम् । तथा सति शङ्ख­त­त्सं­स­र्ग­यो­र­प्र­त्य­क्ष­त्व­प्र­स­ङ्गात् । नय­न­प्र­दे­श­ग­त­पि­त्त­पी­ति­मा­का­र­वृ­त्त्य­भि­व्य­क्त­सा­क्ष्य­सं­स­र्गेण तयो­स्त­द्भा­स्य­त्वा­स­म्भ­वात् , पीति­म­सं­सृ­ष्ट­श­ङ्ख­गो­च­रै­क­वृ­त्त्य­न­भ्यु­प­ग­माच्च । न च नय­न­प्र­दे­श­स्थि­तस्य पित्तपीतिम्नो दोषात् शङ्खे संसर्गाध्यासो नोपेयते, किं तु नयनरश्मिभिः सह निर्गतस्य विष­य­व्या­पि­न­स्तस्य तत्र संसर्गाध्यासः । कुसुम्भारुणिम्न इव कौसुम्भे इति, सम्भवति तदा­का­र­वृ­त्त्य­भि­व्य­क्त­सा­क्षि­सं­सर्गः - इति वाच्यम् । तथा सति सुवर्णलिप्त इव पित्तोपहतनयनेन वीक्ष्यमाणे शङ्खे तदितरेषामपि पीति­म­धी­प्र­स­ङ्गात् । न च - स पीतिमा समीपे गृहीत एव दूरे ग्रहीतुं शक्यः विहायसि उपर्युत्पतन् विहङ्गम इव, इतरेषां च समीपे न ग्रह­ण­मि­ति-वा­च्यम् । इतरेषामपि तच्च­क्षु­र्नि­क­ट­न्य­स्त­च­क्षुषां पीति­म­सा­मी­प्य­स­त्त्वेन तद्ग्रहणस्य दुर्वारत्वात् ।

एव­म­प्य­ति­ध­व­ल­सि­क­ता­म­य­त­ल­प्र­व­ह­द­च्छ­न­दी­जले नैल्याध्यासे च गगननैल्याध्यासे रक्तवस्त्रेषु निशि चन्द्रिकायां नैल्याध्यासे च अनु­भू­य­मा­ना­रो­पस्य वक्तुमशक्यत्वेन तत्र नैल्य­सं­सृ­ष्टा­धि­ष्ठा­न­गो­च­र­चा­क्षु­ष­वृ­त्त्य­न­भ्यु­प­गमे चक्षुरनुपयोगस्य दुष्प­रि­ह­र­त्वाच्च । अना­स्वा­दि­त­ति­क्त­र­सस्य बालस्य मधुरे तिक्ततावभासो जन्मा­न्त­रा­नु­भ­व­ज­न्य­सं­स्का­र­हे­तुकः - इति प्रतिपादयता पञ्च­पा­दि­का­ग्र­न्थेन स्वरू­प­तोऽ­ध्य­स्य­मा­न­स्यैव तिक्तरसस्य ऐन्द्रि­य­क­त्व­स्फु­टी­क­र­णाच्च । अन्यथा तत्र रस­ना­व्या­पा­रा­पे­क्षा­नु­प­पत्तेः ।

तस्मात् उदा­हृ­त­नै­ल्या­ध्या­स­स्थ­ले­ष्व­धि­ष्ठा­न­स­म्प्र­यो­गा­देव तद्गो­च­र­चा­क्षु­ष­वृ­त्ति­स­म­का­लो­द­योऽ­ध्यासः तस्या वृत्तेर्विषय इति तस्य चाक्षु­ष­त्व­म­भ्यु­प­ग­न्त­व्यम् । रूपं विना केव­ला­धि­ष्ठा­न­गो­च­र­वृ­त्त्य­भावे च विष­य­चै­त­न्या­भि­व्य­क्त्य­भा­वेन जल­त­द­ध्य­स्त­नै­ल्या­दीनां तद्भा­स्य­त्वा­यो­गात् । तिक्त­र­सा­ध्या­स­स्थले तु अधि­ष्ठा­ना­ध्या­स­यो­रे­के­न्द्रि­य­ग्रा­ह्य­त्वा­भा­वात् त्वगि­न्द्रि­य­ज­न्या­धि­ष्ठा­न­गो­च­र­वृत्त्या तद­व­च्छि­न्न­चै­त­न्या­भि­व्यक्तौ पित्तो­प­ह­त­र­स­न­स­म्प्र­यो­गा­देव तत्र तिक्तरसाध्यासः तन्मा­त्र­वि­ष­य­रा­स­न­वृ­त्तिश्च समकालमुदेतीति तिक्तरसस्य रास­न­त्व­म­भ्यु­प­ग­न्त­व्यम् । त्वग्नि­न्द्रि­य­ज­न्या­धि­ष्ठा­न­गो­च­र­वृ­त्त्य­भि­व्य­क्त­चै­त­न्य­भास्ये तिक्तरसे परम्परयापि रसनोपयोगाभावेन तत्र कथमपि प्रकारान्तरेण रास­न­त्वा­नु­भ­व­स­म­र्थ­ना­स­म्भ­वात् । तथैव रजतस्यापि चाक्षु­ष­त्वो­प­पत्तेः ‘पश्यामि’ इत्यनुभवो न बाधनीयः । न च - असम्प्रयुक्तस्य रजतस्य चाक्षुषत्वे ‘प्रत्य­क्ष­मात्रे विष­ये­न्द्रि­य­स­न्नि­कर्षः करणं’ ‘द्रव्य­प्र­त्यक्षे तत्संयोगः करणं’ ‘रजतप्रत्यक्षे रजतसंयोगः करणम्’ इति गृही­ता­ने­क­का­र्य­का­र­ण­भा­व­नि­य­म­भङ्गः स्यादिति - वाच्यम् । सन्निकर्षत्वस्य संयो­गा­द्य­नु­ग­त­स्यै­क­स्या­भा­वेन आद्य­नि­य­मा­सिद्धेः । द्वितीयनियमस्य, नैयायिकरीत्या तमसीव संयोगायोग्ये क्वचि­द­द्र­व्येऽपि द्रव्य­त्वा­ध्या­स­स­म्भ­वत् व्यवहारदृष्ट्या यत् द्रव्य­त्वा­धि­क­रणं तद्विषयत्वेन, प्रातिभासिकरजते द्रव्यत्वस्य अधिष्ठानगतस्यैव इदन्त्ववत् अध्यासात् प्रती­त्य­भ्यु­प­ग­मेन च, द्विती­य­नि­य­मा­वि­रो­धात् । द्विती­य­नि­य­म­रू­प­सा­मा­न्य­का­र्य­का­र­ण­भा­वा­ति­रे­केण विशिष्यापि कार्य­का­र­ण­भा­व­क­ल्प­नाया गौरवपराहतत्वेन तृती­य­नि­य­मा­सिद्धेः । ‘यत्सामान्ये यत्सामान्यं हेतुः तद्विशेषे तद्विशेषो हेतुः’ इति न्यायस्यापि, यत्र बीजाङ्कुरादौ सामा­न्य­का­र्य­का­र­ण­भा­व­मा­त्रा­भ्यु­प­गमे बीजा­न्त­रा­द­ङ्कु­रा­न्त­रो­त्प­त्त्या­दि­प्र­सङ्गः तद्विषयत्वेन, ततोऽ­जा­ग­ल­स्त­ना­य­मा­न­वि­शे­ष­का­र्य­का­र­ण­भा­वा­सिद्धेः । न चात्रापि द्रव्य­प्र­त्यक्षे द्रव्यसंयोगः कारणमिति सामा­न्य­नि­य­म­मा­त्रो­प­गमे अन्य­सं­यो­गा­द­न्य­द्र­व्य­प्र­त्य­क्षा­प­त्ति­रिति अति­प्र­स­ङ्गोऽ­स्तीति वाच्यम् । तत्त­द्द्र­व्य­प्र­त्यक्षे तत्त­द्द्र­व्य­सं­योगः कारणमिति नियमाभ्युपगमात् , अन्यथा तृती­य­नि­य­मेऽ­प्य­ति­प्र­स­ङ्गस्य दुर्वारत्वात् , तस्मान्नास्ति क्लृप्त­नि­य­म­भ­ङ्ग­प्र­सङ्गः ।

किं चात्र क्लृप्त­नि­य­म­भ­ङ्गेऽपि न दोषः, ‘इदं रजतं पश्यामि, नीलं जलं पश्यामि’ इत्या­दे­र­न­न्य­था­सि­द्ध­स्या­नु­भ­वस्य, प्रथ­म­गृ­ही­ता­ना­मपि प्रत्यक्षमात्रे विषयसन्निकर्षः कारणम् इत्यादिनियमानां व्यावहारिकविषये सङ्को­च­क­ल्प­न­म­न्त­रे­णो­प­पा­द­ना­स­म्भ­वात् । न चैवं सति ‘प्रमायां सन्निकर्षः कारणं न भ्रमे’ इत्यापि सङ्को­च­क­ल्प­ना­स­म्भ­वात् , अस­न्नि­कृ­ष्ट­स्यैव देशान्तरस्थस्य रजतस्य इहा­रो­पा­प­त्ति­रिति अन्य­था­ख्या­ति­वा­द­प्र­सा­रिका । अभि­व्य­क्त­चै­त­न्या­व­कु­ण्ठ­न­शू­न्यस्य देशान्तरस्थस्य रजतस्य आप­रो­क्ष्या­नु­प­पत्तेः । ख्याति­बा­धा­नु­प­प­त्त्या­दि­भि­र्भ्र­म­वि­ष­य­स्या­नि­र्व­च­नी­य­त्व­सि­द्धेश्च । न चाधि­ष्ठा­न­स­म्प्र­यो­ग­मा­त्रात् प्राति­भा­सि­क­स्यै­न्द्रि­य­क­त्वो­प­गमे शुक्ति­र­ज­ता­ध्या­स­स­मये तत्रैव कालान्तरे अध्यसनीयस्य रङ्गस्यापि चाक्षुषत्वं कुतो न स्यादिति वाच्यम् । रजताध्याससमये रङ्ग­र­ज­त­सा­धा­र­ण­चा­क­च­क्य­द­र्श­ना­वि­शे­षेऽपि यतो रागा­दि­रू­प­पु­रु­ष­दो­षा­भा­वा­दि­त­स्तत्र तदा न रङ्गाध्यासः तत एव मया तद्वि­ष­य­वृ­त्त्य­नु­द­य­स्या­भ्यु­प­ग­मात् ।

तस्मात् इद­मं­श­स­म्भि­न्न­र­ज­त­गो­चरा एकैव वृत्तिः इन्द्रियजन्या । न ततः प्रागिदमाकारा वृत्तिरिति नात्र इय­म­ज्ञा­न­नि­व­र्त­क­त्व­स­द­स­द्भा­व­चिन्ता कार्येति ।

वृत्ति­नि­र्ग­म­न­प्र­यो­ज­न­वि­चारः

भ्रमस्थले वृत्त्ये­क­त्वा­ने­क­त्व­वि­चारः

अन्ये तु - ‘अधि­ष्ठा­न­ज्ञा­न­म­ध्या­स­का­र­णमि’ति इदमाकारां वृत्तिमुपेत्य तदभिव्यक्तेनैव साक्षिणा तदध्यस्तस्य रजतस्य अवभाससम्भवात् तद्भा­स­क­सा­क्ष्य­भि­व्य­ञ्जि­कया तयैवेदंवृत्त्या रज­त­वि­ष­य­सं­स्का­रा­धा­नो­प­प­त्तेश्च रज­ता­का­र­वृ­त्ति­र्व्य­र्थे­ति-म­न्यन्ते ।

ज्ञानद्वयपक्षे इदमित्येका वृत्ति­र­ध्या­स­का­र­ण­भूता, इदंरजतमिति द्वितीया वृत्ति­र­ध्य­स्त­र­ज­त­वि­षया, न त्विदमंशं विना अध्य­स्त­मा­त्र­गो­चरा सा । ‘इदं रजतं जनामि’ इति तस्या इद­म­र्थ­ता­दा­त्म्या­प­न्न­र­ज­त­वि­ष­य­त्वा­नु­भ­वा­दिति केचित् ।

अन्ये तु - यथा इद­मं­शा­व­च्छि­न्न­चै­त­न्य­स्था­विद्या रजताकारेण विवर्तते, एव­मि­द­मं­श­वि­ष­य­वृ­त्ति­ज्ञा­ना­व­च्छि­न्न­चै­त­न्य­स्था­विद्या रज­त­ज्ञा­ना­भा­सा­का­रेण विवर्तते, न त्विद­मं­श­वृ­त्ति­व­द­न­ध्यस्तं रजतज्ञानमस्ति । तथा च रजतस्य अधि­ष्ठा­न­ग­ते­द­न्त्व­सं­स­र्ग­भा­न­वत् तज्ज्ञानस्यापि अधि­ष्ठा­न­ग­ते­दं­त्व­वि­ष­य­त्व­सं­स­र्ग­भा­नो­प­पत्तेः ,न तस्यापि इदं­वि­ष­य­त्व­म­भ्यु­प­ग­न्त­व्यम् । न च रजतवत् अध्यस्तस्य रज­ते­द­न्त्व­सं­स­र्गस्य रज­त­ज्ञा­न­गो­च­र­त्वात् तत्प्रतियोगिन इदन्त्वस्यापि तद्विषयत्वं वक्तव्यमिति वाच्यम् । स्वता­दा­त्म्या­श्र­यस्य इद­न्त्व­वि­ष­य­त्वा­देव तस्य तत्सं­स­र्ग­वि­ष­यत्वे अति­प्र­स­ड्गा­भा­वात् । न चाधि­ष्ठा­ना­ध्य­स्य­मा­नयोः एकस्मिन् ज्ञाने प्रकाशनियमस्य सम्भा­व­ना­भा­ष्य­वि­व­रणे प्रतिपादनात् एक­वृ­त्ति­वि­ष­यत्वं वक्तव्यमिति वाच्यम् । वृत्तिभेदेऽपि इद­मा­का­र­वृ­त्त्य­भि­व्यक्ते एकस्मिन् साक्षिणि तयोः प्रका­शो­प­ग­मा­त्-इ­त्याहुः ।

अपरोक्षस्थले वृत्ति­नि­र्ग­म­प्र­यो­ज­न­नि­रू­प­णम्

ननु सर्वपदार्थानां साक्षि­प्र­सा­दा­देव प्रकाशोपपत्तेः किं वृत्त्या ? घटा­दि­वि­ष­य­क­सं­स्का­रा­धा­ना­द्यु­प­प­त्तये तदपेक्षणेऽपि तन्नि­र्ग­मा­भ्यु­प­गमो व्यर्थः । परोक्षस्थल इव अनि­र्ग­त­वृ­त्त्य­व­च्छि­न्न­सा­क्षि­णैव घटादेरपि प्रकाशोपपत्तेः । न च तथा सति परो­क्षा­प­रो­क्ष­वै­ल­क्ष­ण्या­नु­प­पत्तिः । शाब्दा­नु­मि­त्यो­रिव कर­ण­वि­शे­ष­प्र­यु­क्त­वृ­त्ति­वै­जा­त्या­देव तदुपपत्तेः ।

॥ इति शास्त्र­सि­द्धा­न्त­ले­श­स­ङ्ग्रहे प्रथमः परिच्छेदः ॥