अद्वैतशारदा

शास्त्रसिद्धान्तलेशसङ्ग्रहः

द्वितीयपरिच्छेदः

द्विती­य­प­रि­च्छे­दस्य अविरोधाध्यायेन प्रथमपरिच्छेदेन च सङ्ग­ति­सू­च­न­पू­र्वकं मिथ्या­त्व­श्रु­तीनां प्रत्य­क्ष­बा­ध­नि­रू­प­णम्

अथ कथमद्वितीये ब्रह्मणि वेदान्तानां समन्वयः, प्रत्य­क्षा­दि­वि­रो­धात् इति चेत् ,
न आर­म्भ­णा­धि­क­र­णो­दा­हृ­त­श्रु­ति­यु­क्तिभिः प्रत्य­क्षा­द्य­धि­ग­म्य­प्र­प­ञ्चस्य ब्रह्मविवर्ततया मिथ्या­त्वा­व­ग­मात् ।

भिन्न­वि­ष­य­क­त्वो­प­पा­द­नेन श्रुति­प्र­त्य­क्ष­यो­र्वि­रो­ध­नि­रासः

ननु - न श्रुतियुक्तिभिः प्रपञ्चस्य मिथ्यात्वं प्रत्याययितुं शक्यते, “घटः सन्” इत्या­दि­घ­टा­दि­स­त्त्व­ग्रा­हि­प्र­त्य­क्षा­दि­वि­रो­धात्−

अत्राहुः तत्त्व­शु­द्धि­काराः− न प्रत्यक्षं घटपटादि तत्सत्त्वं वा गृह्णाति, किं तु अधिष्ठानत्वेन घटाद्यनुगतं सन्मात्रम् । तथा च प्रत्यक्षमपि सद्रू­प­ब्र­ह्मा­द्वै­त­सि­द्ध्य­नु­कू­ल­मेव । तथा सति ‘सत्’ ‘सत्’ इत्येव प्रत्यक्षं स्यात् , न तु ‘घटः सन्’ इत्या­दि­प्र­त्य­क्ष­मि­न्द्रि­या­न्व­य­व्य­ति­रे­का­नु­वि­धायि इति चेत् , न – यथा भ्रमेषु इद­मं­श­स्या­धि­ष्ठा­नस्य प्रत्यक्षेण ग्रहणम् , इन्द्रि­या­न्व­य­व्य­ति­रे­कयोः तत्रैवोपक्षयः, रजतांशस्य त्वारोपितस्य भ्रान्त्या प्रतिभासः, तथा सर्वत्र सन्मात्रस्य प्रत्यक्षेण ग्रहणम् , तत्रै­वे­न्द्रि­य­व्या­पारः, घटा­दि­भे­द­व­स्तु­प्र­ति­भासो भ्रान्त्या, इत्यभ्युपगमात् । ननु तद्वदिह बाधादर्शनात् तथाभ्युपगम एव निर्मूल इति चेत् , न - बाधादर्शनेऽपि देश­का­ल­व्य­व­हि­त­व­स्तु­वत् घटादिभेदवस्तुनः प्रत्य­क्षा­यो­ग्य­त्व­स्यैव तत्र मूलत्वात् । तथाहि − इन्द्रि­य­व्या­पा­रा­न­न्तरं प्रतीयमानो घटादिः सर्वतो भिन्न एव प्रतीयते, तदा तत्र घटादिभेदे संश­य­वि­प­र्य­या­दि­द­र्श­नात् । यत्रापि स्थाण्वादौ पुरु­ष­त्वा­दि­सं­शयः तत्रापि तद्व्य­ति­रि­क्तेभ्यो भेदोऽ­स­न्दि­ग्धा­वि­प­र्य­स्त­त्वात् प्रकाशत एव । भेदस्य च प्रति­यो­गि­स­हो­प­ल­म्भ­नि­य­म­वतो न प्रत्यक्षेण ग्रहणं सम्भवति । देशकालव्यवधानेन अस­न्नि­कृ­ष्टा­ना­मपि प्रतियोगिनां सम्भवात् । भेदज्ञानं प्रतियोग्यंशे संस्का­रा­पे­क्ष­णात् स्मृतिरूपमस्तु प्रत्य­भि­ज्ञा­न­मिव तत्तांशे इति चेत् , न तथापि भेद­ग­त­प्र­ति­यो­गि­वै­शि­ष्ट्यांशे तदभावात् । न च कनकाचलो भेदप्रतियोगी वस्तुत्वात् इति भेदे प्रति­यो­गि­वै­शि­ष्ट्य­गो­च­रा­नु­मित्या तत्सं­स्का­र­स­म्भवः । भेदज्ञानं विना अनुमित्यभावेन (अनु­मा­न­प्र­वृ­त्त्य­यो­गे­न)आ­त्मा­श्र­या­पत्तेः । पक्ष­सा­ध्य­हे­तु­स­प­क्षा­द्य­भे­द­भ्रमे सति सिद्धसाधनादिना अनु­मा­ना­प्र­वृत्त्या तद­भे­द­ज्ञा­न­वि­घ­ट­नाय तद्भे­द­ज्ञा­न­स्या­पे­क्षि­त­त्वात् । अस्तु तर्हि भेदांश इव प्रति­यो­गि­वै­शि­ष्ट्यां­शेऽपि प्रत्यक्षमिति चेत् , न - प्रति­यो­गि­नोऽ­प्र­त्य­क्षत्वे तद्वै­शि­ष्ट्य­प्र­त्य­क्षा­यो­गात् । सम्ब­न्धि­द्व­य­प्र­त्यक्षं विना सम्ब­न्ध­प्र­त्य­क्षा­स­म्भ­वात् । तस्मात् प्रत्य­क्षा­यो­ग्यस्य प्रतियोगिनो भ्रान्तिरूप एव प्रतिभास इति तदे­क­वि­त्ति­वे­द्य­त्व­नि­य­तस्य भेदस्य भेदै­क­वि­त्ति­वे­द्य­त्व­नि­य­तस्य घटादेश्च भ्रमै­क­वि­ष­य­त्वात् प्रत्यक्षं निर्वि­शे­ष­स­न्मा­त्र­ग्राहि अद्वै­त­सि­द्ध्य­नु­कू­ल­मिति ।

न्याय­सु­धा­कृ­त­स्त्वाहुः− घटा­दे­रै­न्द्रि­य­क­त्वेऽपि ‘सन् घटः’ इत्या­दि­र­धि­ष्ठा­न­स­त्ता­नु­वेध इति न विरोधः । एवं नीलो घट इत्या­दि­र­धि­ष्ठा­न­नै­ल्या­नु­वेधः किं न स्यादिति चेत् , न श्रुत्या सद्रूपस्य वस्तुनो जग­दु­पा­दा­न­त्व­मु­क्तम् अविरोधात् सर्वसम्मतमिति तदनुवेधेनैव ‘सन् घटः’ इत्या­दि­प्र­ति­भा­सो­प­पत्तौ घटादावपि सत्ताकल्पने गौरवम् , तस्य रूपा­दि­ही­न­त्वा­न्नै­ल्या­दिकं घटादावेव कल्पनीयमिति वैषम्यादिति ।

संक्षे­प­शा­री­र­का­चा­र्या­स्त्वाहुः− प्रत्यक्षस्य घटा­दि­स­त्त्व­ग्रा­हि­त्वेऽपि पराग्विषयस्य प्रत्य­क्षा­दे­स्त­त्त्वा­वे­द­क­त्व­ल­क्ष­ण­प्रा­मा­ण्या­भा­वान्न तद्वि­रो­धे­ना­द्वै­त­श्रु­त्या­दि­बा­ध­शङ्का । अज्ञातबोधकं हि प्रमाणम् । न च प्रत्यक्षादि विषयस्य घटा­दे­र­ज्ञा­त­त्व­मस्ति , जडे आवरणकृत्याभावेन अज्ञा­न­वि­ष­य­त्वा­नु­प­ग­मात् । स्वप्रकाशतया प्रसक्तप्रकाशं ब्रह्मैव अज्ञानविषय इति तद्बोधकमेव तत्त्वावेदकं प्रमाणम् , तदेव प्रमितिविषयः । अत एव श्रुतिरपि ‘आत्मा वा अरे द्रष्टव्यः’ इत्यात्मन एव प्रमेयत्वमिति नियच्छति । न हि द्रष्टव्य इत्यनेन दर्शनं विधीयते, प्रमा­ण­प­र­त­न्त्रस्य तस्य विध्यगोचरत्वात् , किं तु ‘आत्मा दर्शनार्हः’ इति अज्ञा­त­त्वा­दा­त्मन एव प्रमेयत्वमुचितं ,नान्यस्येति नियम्यते − इति ।

केचित्तु - घटा­दि­स­त्त्व­ग्रा­हिणः प्रत्यक्षस्य प्रामाण्ये ब्रह्म­प्र­मा­ण­न्यू­न­ता­न­व­ग­मेऽपि तद्ग्राह्यं सत्त्व­म­नु­ग­त­प्र­त्य­यात् सत्ताजातिरूपं वा, इहेदानीं घटोऽस्तीति देश­का­ल­स­म्ब­न्ध­प्र­तीतेः तत्त­द्दे­श­का­ल­स­म्ब­न्ध­रूपं वा, ‘नास्ति घट’ इति स्वरू­प­नि­षे­ध­प्र­ती­ते­र्घ­टा­दि­स्व­रूपं वा पर्यवस्यति । तच्च स्वमिथ्यात्वेन न विरुध्यते । न हि मिथ्या­त्व­वा­दि­नापि घटादेः स्वरूपं वा तस्य देशकालसम्बन्धो वा तत्र जात्यादिकं वा नाभ्युपगम्यते, किं तु तेषामबाध्यत्वम् । न चाबाध्यत्वमेव सत्त्वं प्रत्य­क्ष­ग्रा­ह्य­म­स्त्विति वाच्यम् । ‘कालत्रयेऽपि नास्य बाधः’ इति वर्त­मा­न­मा­त्र­ग्रा­हिणा प्रत्यक्षेण ग्रही­तु­म­श­क्य­त्वात् - इत्याहुः ।

अन्ये तु - अबा­ध्य­त्व­रू­प­स­त्त्वस्य प्रत्य­क्ष­ग्रा­ह्य­त्वेऽपि ‘प्राणा वै सत्यं तेषामेष सत्यं’ इति श्रुत्या प्रधा­न­भू­त­प्रा­ण­ग्र­ह­णो­प­ल­क्षि­तस्य कृत्स्नस्य प्रपञ्चस्य ब्रह्मणश्च सत्य­त्वो­त्क­र्षा­प­क­र्ष­प्र­तीतेः, सत्यत्वे चाबाध्यत्वरूपे सर्व­दै­वा­बा­ध्यत्वं किञ्चि­त्का­ल­म­बा­ध्य­त्वम् इत्ये­वं­वि­धो­त्क­र्षा­प­कर्षं विना राजराजो मन्मथमन्मथ इत्यादि शब्द­ता­त्प­र्य­गो­च­र­नि­य­न्तृ­त्व­सौ­न्द­र्या­दी­ना­मिव भूयो­वि­ष­य­त्वा­ल्प­वि­ष­य­त्वा­दि­रू­पो­त्क­र्षा­प­क­र्षा­स­म्भ­वात् , विधान्तरेण तत्सम्भवेऽपि प्रपञ्चस्य ब्रह्म­ज्ञा­न­बा­ध्य­त्व­श्रु­त्य­न्त­रै­का­र्थ्यात् उक्तो­त्क­र्षा­प­कर्ष एव पर्यवसानाच्च, प्रत्य­क्ष­ग्राह्यं घटादिसत्त्वं याव­द्ब्र­ह्म­ज्ञा­न­म­बा­ध्य­त्व­रू­प­मिति न मिथ्या­त्व­श्रु­ति­वि­रोधः− इत्याहुः ।

श्रुतेः प्रत्य­क्षा­त्प्रा­ब­ल्य­प्र­यो­ज­क­वि­चारः

प्रत्य­क्ष­वि­रो­धेऽपि मिथ्या­त्व­श्रुतेः प्रबलत्वात् प्रत्य­क्ष­बा­ध­क­त्व­नि­रू­प­णम्

अपरे तु - प्रपञ्चस्य मिथ्या­त्व­स­त्य­त्व­ग्रा­हिणोः श्रुति­प्र­त्य­क्षयोः विरोधेऽपि दोष­श­ङ्का­क­ल­ङ्कि­तात् प्रथ­म­प्र­वृ­त्तात् प्रत्यक्षात् निर्दोषत्वात् अपच्छेदन्यायेन परत्वाच्च श्रुतिरेव बलियसी । ‘प्राब­ल्य­मा­ग­म­स्यैव जात्या तेषु त्रिषु स्मृतम्’ इति स्मरणाच्च । न च वेदै­क­ग­म्या­र्थ­वि­ष­य­मिदं स्मरणम् । तत्र प्रत्य­क्ष­वि­रो­ध­श­ङ्काया अभावेन शङ्कि­त­प्र­त्य­क्ष­वि­रोध एव वेदार्थे वेदस्य प्राब­ल्यो­क्त्यौ­चि­त्यात् । ‘तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । न तलं विद्यते व्योम न खद्योतो हुताशनः ॥ तस्मात् प्रत्य­क्ष­दृ­ष्टेऽपि युक्तमर्थे परीक्षितुम् । परीक्ष्य ज्ञापयन्नर्थान् न धर्मात् परिहीयते’ ॥ इति नारदस्मृतौ साक्षिप्रकरणे प्रत्य­क्ष­दृ­ष्ट­स्यापि प्रत्य­क्ष­म­वि­श्वस्य प्रमा­णो­प­दे­शा­दिभिः परी­क्ष­णी­य­त्व­प्र­ति­पा­द­नाच्च । न हि नभो­नै­ल्य­प्र­त्यक्षं नभसः शब्दादिषु पञ्चसु शब्दै­क­गु­ण­त्व­प्र­ति­पा­द­का­ग­मो­प­दे­श­म­न्त­रेण प्रत्यक्षादिना शक्यमपवदितुम् । न च ‘नभसि समीपे नैल्या­नु­प­ल­म्भात् दूरे तद्धी­र्दू­र­त्व­दो­ष­जन्ये’ति निश्चयेन तद्बाधः । दूरे नैल्यादर्शनात् समीपे तद­नु­प­ल­म्भ­स्तु­हि­ना­व­कु­ण्ठ­ना­नु­प­ल­म्भ­व­त्सा­मी­प्य­दो­ष­जन्यः इत्यपि सम्भवात् , अनुभवबलात् नभो­नै­ल्य­म­व्या­प्य­वृ­त्ती­त्यु­प­प­त्तेश्च । नापि दूरस्थस्य पुंसो यत्र भूसन्निहिते नभःप्रदेशे नैल्यधीः, तत्रैव समीपं गतस्य नैल्य­बु­द्धे­र­भा­व­प्र­त्य­क्षेण बाधः । उपरिस्थितस्यैव नैल्य­स्या­भ्र­न­क्ष­त्रा­दे­रिव दूरत्वदोषात् भूसन्निधानावभास इत्युपपत्तेः । पृथिव्यादिषु सङ्कीर्णतया प्रतीयमानानां गन्धादीनाम् ‘उपलभ्याप्सु चेद्गन्धं केचि­द्ब्रू­यु­र­नै­पुणाः । पृथिव्यामेव तं विद्यात् अपो वायुं च संश्रितम्’ ॥ (म.भा.शा. २३८ । ७८) इत्या­दि­भि­रा­ग­मै­रेव व्यवस्थाया वक्तव्यत्वेन प्रत्य­क्षा­दा­ग­म­प्रा­ब­ल्यस्य निर्वि­श­ङ्क­त्वाच्च । न हि आजा­न­सि­द्ध­ज­लो­प­ष्ट­म्भा­दि­गतं गन्धादि ‘पृथिवीगुण एव गन्धः, न जलादिगुणः’ इत्यादिरूपेण अस्मदादिभिः प्रत्यक्षेण शक्यं विवेचयितुम् । पृथव्यादीनां प्रायः पर­स्प­र­सं­सृ­ष्ट­तया अन्य­ध­र्म­स्या­न्य­त्रा­व­भासः सम्भाव्यत इति शङ्कितदोषं प्रत्यक्षम् , अतस्त(त्रा) (दा)गमेन शिक्ष्यते - इति चेत् , तर्हीहापि ब्रह्म­प्र­प­ञ्चयोः उपा­दा­नो­पा­दे­य­भा­वेन पर­स्प­र­सं­सृ­ष्ट­तया अन्य­ध­र्म­स्या­न्य­त्रा­व­भासः सम्भव्यत इति शङ्कितदोषं प्रत्यक्षं ‘अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥’ (दृग्दृ­श्य­वि­वेकः -२०) इति वृद्धो­क्त­प्र­का­रे­णा­ग­मेन व्यव­स्था­प्य­ता­मिति तुल्यम् । न चैव­मु­प­जी­व्य­वि­रोधः । आगमप्रमाणेन वर्ण­प­द­वा­क्या­दि­स्व­रू­पां­श­प्र­त्य­क्ष­मु­प­जीव्य अनु­प­जी­व्य­त­त्स­त्य­त्वां­शो­प­म­र्द­नात् - इत्याहुः ।

ननु - आगमस्य प्रत्यक्षात् बलीयस्त्वे ‘यजमानः प्रस्तरः’ इत्यत्र प्रत्य­क्षा­वि­रो­धाय यजमानशब्दस्य प्रस्तरे गौणी वृत्तिर्न कल्पनीया । तथा ‘सोमेन यजेत’ इत्यत्र, वैय­धि­क­र­ण्ये­ना­न्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापारभेदेन वाक्यभेदापत्तेः सामा­ना­धि­क­र­ण्ये­ना­न्वये वक्तव्ये, प्रत्य­क्षा­वि­रो­धाय सोमवता यागेनेति मत्वर्थलक्षणा न कल्पनीया । उभयत्रापि सत्यपि प्रत्यक्षविरोधे तदनादृत्य आगमेन बलीयसा प्रस्तरे यजमानाभेदस्य यागे सोमाभेदस्य च सिद्धिसम्भवात् इति चेत् –

तात्पर्यस्य श्रुति­प्रा­ब­ल्य­प्र­यो­ज­क­त्व­नि­रू­प­णम्

अत्रोक्तं भामतीनिबन्धे – तात्पर्यवती श्रुतिः प्रत्यक्षात् बलवती, न श्रुतिमात्रम् । मन्त्रा­र्थ­वा­दानां तु स्तुति­द्वा­र­भू­तेऽर्थे वाक्या­र्थ­द्वा­र­भूते पदार्थ इव न तात्पर्यम् । तात्पर्याभावे माना­न्त­रा­वि­रु­द्ध­दे­व­ता­वि­ग्र­हा­दिकं न तेभ्यः सिद्ध्येत् तात्पर्यवत्येव शब्दस्य प्रामा­ण्य­नि­य­मात् इति चेत् , न− ‘एतस्यैव रेवतीषु वार­व­न्ती­य­म­ग्नि­ष्टो­म­साम कृत्वा पशुकामो ह्येतेन यजेत’ (ता.ब्रा. १७ - ७ - १) इति विशिष्टविधेः तात्प­र्या­गो­च­रेऽपि विशेषणस्वरूपे प्रामा­ण्य­द­र्श­नेन उक्त­नि­य­मा­सिद्धेः । अत्र हि रेवतीऋगाधारं वारवन्तीयं साम विशेषणम् । न चैतत् सोमा­दि­वि­शे­ष­ण­व­ल्ले­क­सि­द्धम् । येन तद्वि­शि­ष्ट­या­ग­वि­धि­मात्रे प्रामाण्यं वाक्यस्य स्यात् । नापि विशिष्टविधिना विशेषणाक्षेपः । आक्षे­पा­द्वि­शे­ष­ण­प्र­ति­पत्तौ विशिष्टगोचरो विधिः, तस्मिंश्च सति तेन विशेषणाक्षेपः, इति पर­स्प­रा­श्र­या­पत्तेः । अतो विशि­ष्ट­वि­धि­प­र­स्यैव वाक्यस्य विशे­ष­ण­स्व­रू­पेऽपि प्रामाण्यं वक्तव्यम् । अथ च न तत्र तात्पर्यम् । उभयत्र तात्पर्ये वाक्यभेदापत्तेः । एवमर्थवादानामपि विधे­य­स्तु­ति­प­राणां स्तुति­द्वा­र­भू­तेऽर्थे न तात्पर्यमिति तेभ्यः प्रत्यक्षस्यैव बलवत्त्वात् तदविरोधाय तेषु वृत्त्य­न्त­र­क­ल्प­नम् । ‘सोमेन यजेत’ इत्यत्र विशष्टविधिपरे वाक्ये सोम­द्र­व्या­भि­न्न­या­ग­रूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य ‘दध्ना जुहोति’ इत्यादौ विधेयस्य दध्यादेरिव लोक­सि­द्ध­त्वा­भा­वेन विधि­प­रा­द्वा­क्या­देव रेव­त्या­धा­र­वा­र­व­न्ती­य­वि­शे­ष­ण­स्येव विना तात्पर्यं सिद्धिरेष्टव्या । न हि तात्प­र्य­वि­र­हि­ता­दा­ग­मा­द्या­ग­सो­म­ल­ता­भे­द­ग्रा­हि­प्र­त्य­क्ष­वि­रु­द्धार्थः सिद्ध्यतीति तत्रापि तदविरोधाय मत्व­र्थ­ल­क्ष­णा­श्र­य­णम् । अद्वै­त­श्रु­तिस्तु उप­क्र­मो­प­सं­हा­रै­क­रू­प्या­दि­ष­ड्वि­ध­लि­ङ्गा­व­ग­मि­ता­द्वै­त­ता­त्पर्या प्रत्य­क्षा­द्ब­ल­व­तीति ततः प्रत्यक्षस्यैव बाधः, न तदविरोधाय श्रुते­र­न्य­था­न­य­न­मिति ।

तात्पर्यस्य श्रुति­प्रा­बा­ल्य­प­यो­ज­क­त्व­दू­ष­णम्

विवरणवार्तिके तु प्रतिपादितं−

न तात्प­र्य­व­त्त्वेन श्रुतेः प्रत्यक्षात् प्राबल्यम् । ‘कृष्णलं श्रपयेत्’ इति विधेः श्रपणस्य कृष्ण­ला­र्थ­त्व­प्र­ति­पा­दने तात्पर्येऽपि कृष्णले रूप­र­स­प­रा­वृ­त्ति­प्रा­दु­र्भा­व­प­र्य­न्त­मु­ख्य­श्र­प­ण­स­म्बन्धः प्रत्य­क्ष­वि­रुद्ध इति तदविरोधाय श्रपणशब्दस्य उष्णीकरणमात्रे लक्ष­णा­भ्यु­प­ग­मात् , ‘तत्त्व­म­सी’ति­वा­क्यस्य जीव­ब्र­ह्मा­भे­द­प्र­ति­पा­दने तात्पर्येऽपि त्वम्पदवाच्यस्य तत्पदवाच्याभेदः प्रत्य­क्ष­वि­रुद्ध इति तदविरोधाय निष्कृ­ष्ट­चै­तन्ये लक्ष­णा­भ्यु­प­ग­माच्च । अर्थवादानामपि प्रया­जा­द्य­ङ्ग­वि­धि­वा­क्या­ना­मिव स्वार्थ­प्र­मि­ता­व­न­न्या­र्थता, प्रमि­ता­ना­मे­वा­र्थानां प्रयो­ज­न­व­शा­द­न्या­र्थता, इति प्रया­जा­दि­वा­क्य­व­त्ते­षा­म­प्य­वा­न्त­र­सं­सर्गे तात्प­र्य­म­स्त्येव, वाक्यै­क­वा­क्य­त्वात् , पदै­क­वा­क्य­ता­या­मेव परम् अवा­न्त­र­ता­त्प­र्या­न­भ्यु­प­गमः− इति विव­र­णा­चा­र्यै­र्न्या­य­नि­र्णये व्यवस्थापनेन ‘यजमानः प्रस्तरः’ इत्यादीनामपि मुख्या­र्थ­ता­त्प­र्य­प्र­सक्तौ प्रत्य­क्षा­वि­रो­धा­यैव लक्ष­णा­भ्यु­प­ग­माच्च ।

निर्दो­ष­त्व­प­र­त्वयोः औत्स­र्गि­क­श्रु­ति­प्रा­ब­ल्य­प्र­यो­ज­क­त्व­नि­रू­प­णम्

कथं तर्हि श्रुतेः प्राबल्यम् ? उच्यते− निर्दोषत्वात् परत्वाच्च श्रुतिमात्रस्य प्रत्यक्षात् प्राबल्यम् इत्युत्सर्गः । किं तु श्रुतिबाधितमपि प्रत्यक्षं कथञ्चित् स्वोचि­त­वि­ष­यो­प­हा­रेण सम्भावनीयम् , निर्वि­ष­य­ज्ञा­ना­यो­गात् । अत एव अद्वै­त­श्रु­ति­वि­रो­धेन तत्त्वावेदनात् प्रच्यावितं प्रत्यक्षम् अर्थ­क्रि­या­स­म­र्थ­व्या­व­हा­रि­क­वि­ष­य­स­म­र्प­णे­नो­प­पा­द्यते । किं बहुना−’नेदं रजतं’ इति सर्व­सि­द्ध­प्र­त्य­क्ष­बा­धि­त­मपि शुक्ति­र­ज­त­प्र­त्य­क्षम् अनुभवानुरोधात् पुरोदेशे शुक्ति­स­म्भि­न्न­र­ज­तो­प­ग­मेन समर्थ्यते, न तु तद्विरोधेन व्यव­हि­त­मा­न्त­र­म­स­देव वा रजतं विषय इति परिकल्प्यते । एवं च प्रस्तरे यज­मा­न­भे­द­ग्रा­हिणो याव­द्ब्र­ह्म­ज्ञा­न­म­नु­व­र्त­मा­नस्य प्रत्यक्षस्य अर्थ­क्रि­या­सं­वा­देन प्राति­भा­सि­क­वि­ष­य­त्वा­भ्यु­प­ग­मे­नो­प­पा­द­ना­यो­गात् ‘यजमानः प्रस्तरः’ इति श्रुतिबाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहाराय उत्सर्गमपोद्य श्रुतिरेव तत्सि­द्ध्य­धि­क­र­णादि प्रति­पा­दि­त­प्र­का­रेण अन्यथा नीयते । न च अद्वै­त­श्रु­ति­प्र­त्य­क्ष­यो­रिव इह श्रुति­प्र­त्य­क्ष­यो­स्ता­त्त्वि­क­व्या­व­हा­रि­क­वि­ष­य­त्वो­प­ग­मेन प्रत्य­क्षो­प­पा­दनं कर्तुं शक्यम् । ब्रह्मा­ति­रि­क्त­स­क­ल­मि­थ्या­त्व­प्र­ति­पा­द­क­ष­ड्वि­ध­ता­त्प­र्य­लि­ङ्गो­प­प­न्ना­ने­क­श्रु­ति­वि­रु­द्धेन एकेनार्थवादेन प्रस्तरे यज­मा­न­ता­दा­त्म्यस्य तात्त्विकस्य प्रति­पा­द­ना­स­म्भ­वात् । एवं तत्त्व­म­सि­वा­क्येन त्वम्पदवाच्यस्य सर्व­ज्ञ­त्वा­भो­क्तृ­त्वा­क­र्तृ­त्वा­दि­वि­शि­ष्ट­ब्र­ह्म­स्व­रू­प­त्व­बो­धने तत्र अस­र्व­ज्ञ­त्व­भो­क्तृ­त्वा­दि­प्र­त्य­क्ष­म­त्यन्तं निरालम्बनं स्यादिति, तत्परिहाराय अहङ्कारशबलितस्य भोक्तृत्वादि ततो निष्कृष्टस्य शुद्धस्य उदा­सी­न­ब्र­ह्म­स्व­रू­प­त्व­मिति व्यव­स्था­मा­श्रित्य भागत्यागलक्षणा आश्रीयते । एवं ‘कृष्णलं श्रपयेत्’ इत्यादावपि प्रत्य­क्ष­स्या­त्य­न्त­नि­र्वि­ष­य­त्व­प्र­सक्तौ तत्परिहाराय श्रुतौ लक्षणा । कथ­ञ्चि­द्वि­ष­यो­प­पा­द­न­स­म्भवे तु न प्रबलायाः श्रुते­र­न्य­था­न­य­न­मिति न कश्चि­द­प्य­व्य­व­स्था­प्र­सङ्गः ।

अथवा ‘कृष्णलं श्रपयेत्’, ‘सोमेन यजेत’ इत्यादौ न प्रत्य­क्षा­नु­रो­धेन लक्षणाश्रयणम् , किं त्वनु­ष्ठा­ना­शक्त्या । न हि कृष्णले उष्णीकरणमिव मुख्यः पाकोऽनुष्ठातुं शक्यते । न वा सोमद्रव्यकरणको याग इव तदभिन्नो यागः केनचिदनुष्ठातुं शक्यते । न चानु­ष्ठे­य­त्वा­भि­म­तस्य प्रत्यक्षविरोध एव अनु­ष्ठा­ना­श­क्ति­रिति शब्दान्तरेण व्यवह्रियत इति वाच्यम् । ‘शशिमण्डलं कान्तिमत् कुर्यात्’ इति विधौ अनु­ष्ठे­य­त्वा­भि­म­तस्य शशिमण्डले कान्तिमत्त्वस्य प्रत्य­क्षा­वि­रो­धेऽ­प्य­नु­ष्ठा­ना­श­क्ति­द­र्श­नेन तस्यास्ततो भिन्नत्वात् । तथा च तत्र तत एव लक्षणाश्रयणम् ।

तस्मात् अप­च्छे­द­न्या­या­दि­सि­द्धस्य श्रुति­ब­ली­य­स्त्वस्य न कश्चित् बाध इति ।

अथ कथ­म­त्रा­प­च्छे­द­न्या­य­प्र­वृत्तिः ? उच्यते − यथा ज्योतिष्टोमे बहिष्पवमानार्थं प्रसर्पताम् उद्गातुरपच्छेदे सति ‘यद्यु­द्गा­ताऽ­प­च्छि­द्येत अदक्षिणं तं यज्ञम् इष्ट्वा तेन पुनर्यजेत’ इति श्रुति­नि­री­क्ष­णेन जाता उद्गा­त्र­प­च्छे­द­नि­मि­त्त(प्रा­य­श्चि­त्त)क­र्त­व्य­ता­बुद्धिः पश्चात् प्रति­ह­र्त्र­प­च्छेदे सति ‘यदि प्रति­ह­र्ता­प­च्छि­द्येत सर्ववेदसं दद्यात्’ इति श्रुति­नि­री­क्ष­णेन जातया तद्वि­रु­द्ध­प्र­ति­ह­र्त्र­प­च्छे­द­नि­मि­त्त(प्रा­य­श्चि­त्त)क­र्त­व्य­ता­बुद्ध्या बाध्यते । एवं पूर्वं घटा­दि­स­त्य­त्व­प्र­त्यक्षं परया तन्मि­थ्या­त्व­श्रु­ति­ज­न्य­बुद्ध्या बाध्यते । न चोदाहृतस्थले पूर्व­नै­मि­त्ति­क­क­र्त­व्य­ता­बुद्धेः पर­नै­मि­त्ति­क­क­र्त­व्य­ता­बुद्ध्या बाधेऽपि पूर्व­नै­मि­त्ति­क­क­र्त­व्य­ता­बु­द्धि­ज­नकं शास्त्रं यत्रो­द्गा­तृ­मा­त्रा­प­च्छेदः उभयोरपि युगपदपच्छेदो वा उद्गा­त्र­प­च्छे­दस्य परत्वं वा, तत्र सावकाशम् , प्रत्यक्षं तु अद्वैतश्रुत्या बाधे विष­या­न्त­रा­भा­वा­न्नि­रा­ल­म्बनं स्यादिति वैषम्यं − शङ्कनीयम् । यत्र घटादौ श्रुत्या बाध्यं प्रत्यक्षं प्रवर्तते तत्रैव व्यावहारिकं विषयं लब्ध्वा कृतार्थस्य तस्य परापच्छेदस्थले सर्वथा बाधितस्य पूर्वा­प­च्छे­द­शा­स्त्र­स्येव विष­या­न्त­रा­न्वे­ष­णा­भा­वात् । इहापि सर्व­प्र­त्य­य­वे­द्य­ब्र­ह्म­स­त्तायां सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च ।

यत्तु - एकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ तत्त­न्नै­मि­त्ति­क­क­र्त­व्य­त­यो­र्ब­द­र­फले श्याम­र­क्त­रू­प­यो­रिव क्रमेणोत्पादात् रूपज्ञानद्वयवत् कर्त­व्य­ता­ज्ञा­न­द्व­य­मपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधे अपच्क्षेदन्याय उदाहरणम् । अत एवा­प­च्छे­दा­धि­क­रणे (पू.मी. ६ । ५ । १९)‘नैमि­त्ति­क(श­स्त्रा­णां)(शा­स्त्रस्य) ह्ययमर्थः निमित्तोपजननात् प्राग­न्य­था­क­र्त­व्योऽपि क्रतुः निमित्ते सत्य­न्य­था­क­र्तव्यः’ इति शास्त्र­दी­पि­का­व­चा­न­मिति , तन्न ; अङ्गस्य सतः कर्तव्यत्वम् । न च पश्चा­द्भा­वि­प्र­ति­ह­र्त्र­प­च्छे­द­वति क्रतौ पूर्व­वृ­त्तो­द्गा­त्र­प­च्छे­द­नि­मि­त्त­कस्य प्राय­श्चि­त्त­स्या­ङ्ग­त्व­मस्ति । आह­व­नी­य­शा­स्त्रस्य पद­हो­मा­ति­रि­क्त­हो­म­वि­ष­य­त्व­व­द्‘य­द्यु­द्गा­ता­वऽ­प­च्छे­द्येत’ इति शास्त्रस्य पश्चा­द्भा­वि­प्र­ति­ह­र्त्र­प­च्छे­द­र­हि­त­क्र­तु­वि­ष­य­त्वात् । उक्तं हि न्याय­र­त्न­मा­ला­याम् - ‘साधारणस्य शास्त्रस्य विशेषविषयादिना । सङ्कोचः क्लृप्तरूपस्य प्राप्त­बा­धोऽ­भि­धी­यते ॥’ इत्यु­क्त­ल­क्ष­ण­प्रा­प्त­बा­ध­वि­वे­चने , "तत्रैवं सति शास्त्रार्थो भवति , पश्चा­द्भा­व्यु­द्गा­त्र­प­च्छे­द­वि­धु­र­प्र­ति­ह­र्त्र­प­च्छे­द­वतः क्रतो­स्स­र्व­वे­द­स­दा­न­म­ङ्गम् , एव­मु­द्गा­त्र­प­च्छे­देऽपि द्रष्टव्यम्’ इति । यत्तु शास्त्र­दी­पि­का­व­च­न­मु­दा­हृ­तम् , तदपि ‘तेनोत्पन्नमपि पूर्व­प्रा­य­श्चि­त्त­ज्ञानं मिथ्या भवति, बाधितत्वात् , उत्तरस्य तु न किञ्चि­द्बा­ध­क­मस्ति’ इति पूर्व­क­र्त­व्य­ता­बा­ध्य­त्व­प्र­ति­पा­द­क­ग्र­न्थो­प­सं­हा­र­प­ठि­त­त्वात् ‘निमि­त्तो­प­ज­न­ना­त्प्राक् निमित्तोपजननं विना निमि­त्तो­प­ज­न­ना­भावे सति अन्यथा कर्तर्व्योऽपि’ इति कृत्वा­चि­न्ता­मा­त्र­प­रम् , न तु ‘उत्त­र­नि­मि­त्तो­प­ज­न­ना­त्प्रा­क्पू­र्व­नै­मि­त्ति­क­क­र्त­व्यता वस्तुत आसीत्’ इत्येवंपरम् । पूर्व­ग्र­न्थ­स­न्द­र्भ­वि­रो­धा­पत्तेः ।

आस्तां मीमांसकमर्यादा । श्याम­त­दु­त्त­र­र­क्त­रू­प­न्या­येन क्रमि­क­क­र्त­व्य­ता­द्व­यो­त्प­त्त्यु­प­गमे को विरोधः । उच्यते − तथा हि − किं तत्कर्तव्यत्वम् , यत् पर­नै­मि­त्ति­क­क­र्त­व्य­तो­त्पत्त्या निवर्तेत । न तावत् पूर्व­नै­मि­त्ति­कस्य कृति­सा­ध्य­त्व­यो­ग्य­त्वम् । तस्य पश्चा­द­प्य­न­पा­यात् । नापि फलमुखं कृतिसाध्यत्वम् । तस्य पूर्वमप्यजननात् । नापि यदननुष्ठाने क्रतोर्वैकल्यं तत्त्वम् , अङ्गत्वं वा । अननुष्ठाने क्रतु­वै­क­ल्य­प्र­यो­ज­क­त्वस्य निय­म­वि­शे­ष­रू­प­त्वेन, कर्माङ्गत्वस्य फलोपकारितया सन्निपातितया वा कार­ण­त्व­वि­शे­ष­रू­प­त्वेन च, तयोः कादा­चि­त्क­त्वा­यो­गेन स्वाभा­वि­क­त्व­नि­र्वा­हाय ‘पश्चा­द्भा­वि­वि­रु­द्धा­प­च्छे­दा­भा­व­वतः क्रतोः पूर्वा­प­च्छे­द­नै­मि­त्ति­क­मङ्गं तत्रैव तदननुष्ठानं क्रतु­वै­क­ल्य­प्र­यो­जकं’ इति विशेषणीयतया पाश्चा­त्त्या­प­च्छे­दा­न्त­र­वति क्रतौ पूर्वा­प­च्छे­द­नै­मि­त्तिके क्रत्वङ्गत्वस्य तदनुष्ठाने क्रतु­वै­क­ल्य­प्र­यो­ज­क­त्वस्य वा पाश्चा­त्त्या­प­च्छे­दो­त्पत्तेः पूर्वमसम्भवात् । न हि − वस्तु किञ्चि­द्व­स्त्व­न्तरं प्रति कञ्चित्कालं व्यप्यं पश्चान्नेति वा, कञ्चित्कालं कारणं पश्चान्नेति वा, क्वचिद्दृष्टं युक्तं वा । नापि कर्तव्यत्वं नाम धर्मान्तरमेव आगमापाययोग्यं कल्प्यम् । मानाभावात् , विरु­द्धा­प­च्छे­द­शा­स्त्रयोः पदा­ह­व­नी­य­शा­स्त्र­व­द्व्य­व­स्थो­प­पत्तेः । तस्मात् निरालम्बनं क्रमि­क­क­र्त­व्य­ता­द्व­यो­त्प­त्ति­वचः ।

उपक्रमन्यायेन प्रत्य­क्ष­प्रा­ब­ल्य­श­ङ्काया निराकरणम्

ननु चोप­क्र­मा­धि­क­र­ण­न्या­येन अस­ञ्जा­त­वि­रो­धि­त्वात् प्रत्यक्षमेव आगमात् बलीयः किं न स्यात् ।

उच्यते − यत्रैकवाक्यता प्रतीयते तत्रै­क­स्मि­न्ने­वार्थे पर्यवसानेन भाव्यम् , अर्थभेदे प्रति­तै­क­वा­क्य­ता­भ­ङ्ग­प्र­स­ङ्गात् । अतस्तत्र प्रथ­म­स­ञ्जा­त­प्र­ति­प­क्षेण ‘प्रजा­प­ति­र्व­रु­णा­या­श्व­म­न­यत्’ (तै.सं. २ । ३ । १२) इत्या­द्यु­प­क्र­मेण पर­कृ­ति­स­रू­पा­र्थ­वा­देन दातुरिष्टौ बुद्धि­म­धि­रो­पि­तायां तद्विरुद्धार्थं ‘यावतोऽश्वान् प्रति­गृ­ह्णी­या­त्ता­वतो वारुणान् चतु­ष्क­पा­ला­न्नि­र्व­पेत्’ इत्यु­प­सं­हा­र­ग­त­प­द­जा­तम् उप­जा­त­प्र­ति­प­क्ष­त्वात् यथा­श्रु­ता­र्थ­स­म­र्प­णेन तदे­क­वा­क्य­ता­म­प्र­ति­प­द्य­मा­नम् एक­वा­क्य­ता­नि­र्वा­हाय णिज­र्थ­म­न्त­र्भाव्य तदा­नु­गु­ण्ये­नै­वा­त्मानं लभत इति उपक्रमस्य प्राबल्यम् । यत्र तु पर­स्प­र­मे­क­वा­क्यता न प्रतीयते तत्र पूर्व­वृ­त्त­म­वि­ग­णय्य लब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थं बोधयत्येवेति न तत्र पूर्ववृत्तस्य प्राबल्यम् । अत एव षोड­शि­ग्र­ह­ण­वाक्यं पूर्व­वृ­त्त­म­वि­ग­णय्य तद­ग्र­ह­ण­वा­क्य­स्यापि स्वार्थ­बो­ध­क­त्व­मु­पे­यते । किन्तु उभ­यो­र्वि­ष­या­न्त­रा­भा­वात् अगत्या तत्रैव विक­ल्पा­नु­ष्ठा­न­मि­ष्यते । एवं च अद्वैतागमस्य प्रत्य­क्षे­णै­क­वा­क्य­त्व­श­ङ्का­भा­वात् पूर्ववृत्तमपि तदविगणय्य स्वार्थ­बो­ध­क­त्व­म­प्र­ति­ह­तम् । तदर्थबोधजनने च ‘पूर्वं पर­म­जा­त­त्वा­द­बा­धि­त्वैव जायते । पर­स्या­न­न्य­थो­त्पा­दात् नाद्याबाधेन सम्भवः ॥’ (तन्त्रवा ३ । ३ । १४) इत्य­प­च्छे­द­न्या­य­स्यैव प्रवृत्तिः, नोपक्रमन्यायस्य । अत एव लोकेऽपि प्रथमप्रवृत्तं शुक्ति­रू­प्य­प्र­त्य­क्षम् आप्तोपदेशेन बाध्यते इति ।

प्रप­ञ्च­मि­थ्या­त्व­श्रुतेः उप­जी­व्य­प्र­त्य­क्ष­वि­रोध परिहारः

ननु−त­था­प्यु­प­जी­व्य­त्वेन प्रत्यक्षस्यैव प्राबल्यं दुर्वारम् । अप­च्छे­द­शा­स्त्र­योर्हि न पूर्वं पर­स्यो­प­जी­व्य­मिति युक्तः परेण पूर्वस्य बाधः । इह तु वर्ण­प­दा­दि­स्व­रू­प­ग्रा­ह­क­तया मिथ्या­त्व­बो­ध­का­गमं प्रति प्रत्य­क्ष­स्यो­प­जी­व्य­त्वात् आगमस्यैव तद्वि­रु­द्ध­मि­थ्या­त्वा­बो­ध­क­त्व­रूपो बाधो युज्यते । न च मिथ्या­त्व­श्रुत्या वर्ण­प­दा­दि­स­त्य­त्वां­शो­प­म­र्देऽपि उप­जी­व्य­स्व­रू­पां­शो­प­म­र्दा­भा­वात् नोपजीव्यविरोध इति वाच्यम् । ‘नेह नानास्ति किञ्चन’(क.उ. २ । ४ । ११) इत्या­दि­श्रु­तिभिः स्वरूपेणैव प्रप­ञ्चा­भा­व­बो­ध­नात् ।

अत्र केचिदाहुः − वृष­मा­न­ये­त्या­दि­वाक्यं श्रवणदोषात् वृष­भ­मा­न­ये­त्या­दि­रू­पेण शृण्वतोऽपि शाब्द­प्र­मि­ति­द­र्श­नेन शाब्दप्रमितौ वर्ण­प­दा­दि­प्र­त्यक्षं प्रमा­भ्र­म­सा­धा­र­ण­मे­वा­पे­क्षि­त­मिति अद्वैतागमेन वर्ण­प­दा­दि­प्र­त्य­क्ष­मा­त्र­मु­प­जीव्यं न तत्प्रमा । तथा च वर्ण­प­दा­दि­स्व­रू­पो­प­म­र्देऽपि नोपजीव्यविरोध इति ।

अन्ये त्वाहु: − शाब्दप्रमितौ वर्ण­प­दा­दि­स्व­रू­प­सि­द्ध्य­न­पे­क्षा­या­मपि अयोग्यशब्दात् प्रमित्यनुदयात् योग्य­ता­स्व­रू­प­सि­द्ध्य­पे­क्षाऽस्ति । तदपेक्षायामपि नोपजीव्यविरोधः । ‘नेह नानास्ति’ इति श्रुत्या निषेधेऽपि याव­द्ब्र­ह्म­ज्ञा­न­म­नु­व­र्त­मा­न­स्या­र्थ­क्रि­या­सं­वा­दि­नोऽ­स­द्वि­ल­क्ष­ण­प्र­प­ञ्च­स्व­रू­प­स्या­ङ्गी­का­रात् । अन्यथा प्रत्यक्षादीनां व्याव­हा­रि­क­प्र­मा­णानां निर्वि­ष­य­त्व­प्र­स­ङ्गात् । न च −स्वरूपेण निषेधेऽपि कथं प्रप­ञ्च­स्व­रू­प­स्या­त्म­लाभः , निषेधस्य प्रति­यो­ग्य­प्र­ति­क्षे­प­रू­पत्वे व्याघातात् - इति वाच्यम् । शुक्तौ ‘इदं रजतं’ ‘नेदं रजतं’ इति प्रती­ति­द्व­या­नु­रो­धेन अधि­ष्ठा­न­ग­ता­ध्य­स्ता­भा­वस्य बाध­प­र्य­न्ता­नु­वृ­त्ति­का­स­द्वि­ल­क्ष­ण­प्र­ति­यो­गि­स्व­रू­प­स­हि­ष्णु­त्वा­भ्यु­प­ग­मात् । एतेन प्रपञ्चस्य स्वरूपेण निषेधे शश­शृ­ङ्ग­व­द­स­त्त्व­मेव स्यादिति निरस्तम् । ब्रह्म­ज्ञा­न­नि­व­र्त्य­स्व­रू­पा­ङ्गी­का­रेण वैषम्यात् । न च अस्याध्यस्तस्य अधिष्ठाने स्परूपेण निषेधे अन्यत्र तस्य स्वरूपेण निषेधः स्वतस्सिद्ध इति तस्य सर्व­दे­श­का­ल­स­म्ब­न्धि­नि­षे­ध­प्र­ति­यो­गि­त्वा­पत्त्या असत्त्वं दुर्वारम् । ‘सर्व­दे­श­का­ल­स­म्ब­न्धि­नि­षे­ध­प्र­ति­यो­गि­त्व­म­सत्त्वं’ इत्ये­वा­स­त्त्व­नि­र्व­च­नात् , विधान्तरेण तन्नि­र्व­च­ना­यो­गा­दि­ति−वा­च्यम् । असतः सर्व­दे­श­का­ल­स­म्ब­न्धि­नि­षे­ध­प्र­ति­यो­गि­त्व­मु­प­ग­च्छता तस्य तथात्वे, प्रत्यक्षस्य सर्वदेशकालयोः प्रत्य­क्षी­क­र­णा­यो­गेन आगमस्य तादृ­शा­ग­मा­नु­प­ल­म्भेन च प्रमा­ण­यि­तु­म­श­क्य­तया, अनुमानमेव प्रमा­ण­यि­त­व्य­मिति तदनुमाने यत् सद्व्यावृत्तं लिङ्गं वाच्यं तस्यैव प्रथमप्रतीतस्य अस­त्त्व­नि­र्व­च­न­त्वो­प­पत्ते: − इति ।

अपरे तु−नेह नानास्तीति श्रुतेः सत्यत्वेन प्रपञ्चनिषेध एव तात्पर्यं न स्वरूपेण । स्वरूपेण निषेधस्य स्वरू­पा­प्र­ति­क्षे­प­कत्वे तस्य तन्नि­षे­ध­त्वा­यो­गात् । तत्प्र­ति­क्षे­प­कत्वे प्रत्य­क्ष­वि­रो­धात् । न च सत्यत्वस्यापि ‘सन् घटः’ इत्या­दि­प्र­त्य­क्ष­सि­द्ध­त्वात् न तेनापि रूपेण निषेधो युक्त इति वाच्यम् । प्रत्यक्षस्य श्रुत्यविरोधाय सत्य­त्वा­भा­स­रू­प­व्या­व­हा­रि­क­स­त्य­त्व­वि­ष­य­त्वो­प­पत्तेः । न चैवं सति पार­मा­र्थि­क­स­त्य­त्वस्य ब्रह्मगतस्य प्रपञ्चे प्रसक्त्यभावात् तेन रूपेण प्रप­ञ्च­नि­षे­धा­नु­प­पत्तिः । यथा शुक्तौ रज­ता­भा­स­प्र­ती­ति­रेव सत्य­र­ज­त­प्र­स­क्ति­रिति तन्निषेधः, अत एव ‘नेदं रजतं किं तु तत्’ ‘नेयं मदीया गौः किं तु सैव’ ‘नात्र वर्तमानश्चैत्रः किं त्वपवरके’ इति निषि­ध्य­मा­न­स्या­न्यत्र सत्त्वमवगम्यते ; एवं सत्य­त्वा­भा­स­प्र­ती­ति­रेव सत्य­त्व­प्र­स­क्ति­रिति तन्नि­षे­धो­प­पत्तेः । अतो वर्ण­प­द­यो­ग्य­ता­दि­स्व­रू­पो­प­म­र्द­श­ङ्का­भा­वा­न्नो­प­जी­व्य­वि­रोध इत्याहु: ।

अन्ये तु - ब्रह्मणि पार­मा­र्थि­क­स­त्य­त्वम् , प्रपञ्चे व्याव­हा­रि­क­स­त्यत्वं सत्य­त्वा­भा­स­रू­पम् , शुक्तिरजतादौ प्राति­भा­सि­क­स­त्यत्वं ततोऽपि निकृष्टम् , इति सत्तात्रैविध्यं नोपेयते । अधि­ष्ठा­न­ब्र­ह्म­ग­त­पा­र­मा­र्थि­क­स­त्ता­नु­वे­धा­देव घटादौ शुक्तिरजतादौ च सत्त्वा­भि­मा­नो­प­पत्त्या सत्य­त्वा­भा­स­क­ल्प­नस्य निष्प्र­मा­ण­क­त्वात् । एवं च प्रपञ्चे सत्य­त्व­प्र­ती­त्य­भा­वात् तत्ता­दा­त्म्या­पन्ने ब्रह्मणि तत्प्रतीतेरेव अविवेकेन प्रपञ्चे तत्प्र­स­क्ति­त्वो­प­प­त्तेश्च सत्यत्वेन प्रपञ्चनिषेधे नोपजीव्यविरोधः, न वा अप्र­स­क्त­ने­षे­ध­नम् । न च ब्रह्म­ग­त­पा­र­मा­र्थि­क­स­त्ता­ति­रे­केण प्रपञ्चे सत्त्वा­भा­सा­नु­प­गमे व्यव­हि­त­स­त्य­र­ज­ता­ति­रे­केण शुक्तौ रज­ता­भा­सो­त्पत्तिः किमर्थमुपेयत इति वाच्यम् । व्यव­हि­त­स्या­स­न्नि­कृ­ष्ट­स्या­प­रो­क्ष्या­स­म्भ­वात् तन्निर्वाहाय तदुपगमात् इत्याहुः ।

प्रतिबिम्बस्य बिम्ब­भे­दा­भे­दाभ्यां मिथ्या­त्व­स­त्य­त्व­वि­चारः

नन्वेवं प्रति­बि­म्ब­भ्र­म­स्थ­लेऽपि ग्रीवा­स्थ­मु­खा­ति­रे­केण दर्पणे मुखा­भा­सो­त्प­त्ति­रु­पेया स्यात् । स्वकीये ग्रीवास्थमुखे नासा­द्य­व­च्छि­न्न­प्र­दे­शा­प­रो­क्ष्य­स­म्भ­वेऽपि नय­न­गो­ल­क­ल­ला­टा­दि­प्र­दे­शा­प­रो­क्ष्य­यो­गात् , प्रतिबिम्बभ्रमे नय­न­गो­ल­का­दि­प्र­दे­शा­प­रो­क्ष्य­द­र्श­नाच्च । न च बिम्बा­ति­रि­क्त­प्र­ति­ब­म्बा­भ्यु­प­गमे इष्टापत्तिः । ब्रह्म­प्र­ति­बि­म्ब­जी­व­स्यापि ततो भेदेन मिथ्या­त्वा­पत्तेः ।

अत्र विवरणानुसारिणः प्राहुः− ग्रीवास्थ एव मुखे दर्प­णो­पा­धि­स­न्नि­धा­न­दो­षात् दर्प­ण­स्थ­त्व­प्र­त्य­ङ्मु­ख­त्व­बि­म्ब­भे­दा­ना­म­ध्या­स­स­म्भ­वेन न दर्पणे मुख­स्या­प्य­ध्यासः कल्पनीयः , गौरवात् । ‘दर्पणे मुखं नास्ति’ इति संस­र्ग­मा­त्र­बा­धात् । मिथ्या­व­स्त्व­न्त­रत्वे ‘नेदं मुखं’ इति स्वरू­प­बा­धा­पत्तेः । ‘दर्पणे मम मुखं भाति’ इति स्वमु­खा­भे­द­प्र­त्य­भि­ज्ञा­नाच्च । न च ग्रीवा­स्थ­मु­ख­स्या­धि­ष्ठा­न­स्या­प­रो­क्ष्या­स­म्भवः । उपा­धि­प्र­ति­ह­त­न­य­न­र­श्मीनां परावृत्य बिम्ब­ग्रा­हि­त्व­नि­य­मा­भ्यु­प­ग­मात् । तन्नि­य­मा­न­भ्यु­प­गमे परमाणोः कुड्या­दि­व्य­व­हि­त­स्थू­ल­स्यापि चाक्षु­ष­प्र­ति­बि­म्ब­भ्र­म­प्र­स­ङ्गात् । न चाव्य­व­हि­त­स्थू­लो­द्भू­त­रू­प­वत एव चाक्षु­ष­प्र­ति­बि­म्ब­भ्रमः नान्यस्येति नियम इति वाच्यम् । बिम्ब­स्थौ­ल्यो­द्भू­त­रू­पयोः क्लृप्तेन चाक्षु­ष­ज्ञा­न­ज­न­नेन उपयोगसम्भवे विधा­न्त­रे­णो­प­यो­ग­क­ल्प­ना­नु­प­पत्तेः । कुड्या­दि­व्य­व­धा­नस्य प्रति­ह­त­न­य­न­र­श्मि­स­म्ब­न्ध­वि­घ­टनं विनैव इह प्रतिबन्धकत्वे तथैव घट­प्र­त्य­क्षा­दि­स्थ­लेऽपि तस्य प्रति­ब­न्ध­क­त्व­स­म्भ­वेन चक्षुः­स­न्नि­क­र्ष­मा­त्रस्य कार­ण­त्व­वि­लो­प­प्र­स­ङ्गाच्च, दर्पणे मिथ्या­मु­खा­ध्या­स­वा­दि­नापि कार­ण­त्र­या­न्त­र्ग­त­सं­स्का­र­सि­द्ध्यर्थं नयनरश्मीनां कदाचित् परावृत्त्य स्वमु­ख­ग्रा­ह­क­त्व­क­ल्प­न­यैव पूर्वानुभवस्य समर्थनीयत्वाच्च । न च नासा­दि­प्र­दे­शा­व­च्छि­न्न­पू­र्वा­नु­भ­वा­देव संस्कारोपपत्तिः । तावता नय­न­गो­ल­का­दि­प्र­ति­बि­म्बा­ध्या­सा­नु­प­पत्तेः, तटाकसलिले तट­वि­ट­पि­स­मा­रू­ढा­दृ­ष्ट­च­र­पु­रु­ष­प्र­ति­बि­म्बा­ध्या­स­स्थले कथमपि पूर्वानुभवस्य दुर्वचत्वाच्च । एवं च उपा­धि­प्र­ति­ह­त­न­य­न­र­श्मीनां बिम्बं प्राप्य तद्ग्रा­ह­क­त्वेऽ­वश्यं वक्तव्ये फलबलात् - दर्प­णा­द्य­भि­ह­ता­ना­मेव बिम्बं प्राप्य­त­द्ग्रा­ह­क­त्वम् , न शिला­दि­प्र­ति­ह­ता­नाम् , अन­ति­स्व­च्छ­ता­म्रा­दि­प्र­ति­ह­तानां मलि­नो­पा­धि­स­म्ब­न्ध­दो­षात् मुखा­दि­सं­स्था­न­वि­शे­षा­ग्रा­ह­क­त्वम् , साक्षात्सूर्यं प्रेप्सूनामिव उपाधिं प्राप्य निवृत्तानां न तथा सौरतेजसा प्रतिहतिरिति न प्रति­बि­म्ब­सू­र्या­व­लो­कने साक्षात्तदवलोकन इव अशक्यत्वम् , जला­द्यु­पा­धि­स­न्नि­कर्षे केषाञ्चित् उपा­धि­प्र­ति­ह­तानां बिम्ब­प्रा­प्ता­वपि केषाञ्चित् तद­न्त­र्ग­म­ने­ना­न्त­र­सि­क­ता­दि­ग्र­हणं - इत्या­दि­क­ल्प­नान्न कश्चिद्दोष इति ।

अद्वै­त­वि­द्या­कृ­तस्तु प्रतिबिम्बस्य मिथ्या­त्व­म­भ्यु­प­ग­च्छतां त्रिवि­ध­जी­व­वा­दिनां विद्या­र­ण्य­गु­रु­प्र­भृ­ती­ना­म­भि­प्रा­य­मे­व­माहु: − चैत्रमुखात् भेदेन तत्सदृशत्वेन च पार्श्वस्थैः स्पष्टं निरीक्ष्यमाणं दर्पणे तत्प्रतिबिम्बं ततो भिन्नं स्वरूपतो मिथ्यैव, स्वकरगतादिव रजतात् शुक्तिरजतम् । न च ‘दर्पणे मम मुखं भाति’ इति बिम्बा­भे­द­ज्ञा­न­वि­रोधः । स्पष्ट­भे­द­द्वि­त्व­प्र­त्य­ङ्मु­ख­त्वा­दि­ज्ञा­न­वि­रो­धेन अभे­द­ज्ञा­ना­स­म्भ­वात् , ‘दर्पणे मम मुखं’ इति व्यपदेशस्य स्वच्छायां मुखे स्वमु­ख­व्य­प­दे­श­वत् गौणत्वाच्च । न च अभे­द­ज्ञा­न­वि­रो­धात् भेदव्यपदेश एव गौणः किं न स्यादिति शङ्क्यम् । बालानां प्रतिबिम्बे पुरु­षा­न्त­र­भ्र­मस्य हानो­पा­दि­त्सा­द्य­र्थ­क्रि­या­प­र्य­न्तस्य अप­ल­पि­तु­म­श­क्य­त्वात् । न च प्रेक्षावतामपि स्वमु­ख­वि­शे­ष­प­रि­ज्ञा­नाय दर्प­णा­द्यु­पा­दा­न­द­र्श­नात् अभे­द­ज्ञा­न­म­प्य­र्थ­क्रि­या­प­र्य­न्त­मिति वाच्यम् । भेदेऽपि प्रतिबिम्बस्य बिम्ब­स­मा­ना­का­र­त्व­नि­य­म­वि­शे­ष­प­रि­ज्ञा­ना­देव तदु­पा­दा­नो­प­पत्तेः । यत्तु - नात्र मुखमिति दर्पणे मुख­सं­स­र्ग­मा­त्रस्य बाधः, न मुखस्येति , तन्न - ‘नेदं रजतमि’त्यत्रापि इदमर्थे रज­त­ता­दा­त्म्य­मा­त्रस्य बाधो न रज­त­स्ये­त्या­पत्तेः । यदि च इदमंशे रजतस्य तादा­त्म्ये­ना­ध्या­सात् नेदं रजतमिति तादात्म्येन रजतस्यैव बाधः न तादा­त्म्य­मा­त्रस्य, तदा दर्पणे मुखस्य संस­र्गि­त­याऽ­ध्या­सात् नात्रमुखमिति संसर्गितया मुखस्यैव बाधः न संस­र्ग­मा­त्र­स्येति तुल्यम् । यत्तु धर्मि­णोऽ­प्य­ध्या­स­क­ल्पने गौरवमिति, तद्र­ज­ता­भा­स­क­ल्प­ना­गौ­र­व­वत् प्रामा­णि­क­त्वान्न दोषः । स्वने­त्र­गो­ल­का­दि­प्र­ति­बि­म्ब­भ्र­म­स्थले बिम्बा­प­रो­क्ष्य­क­ल्प­नो­पा­या­भा­वात् । नय­न­र­श्मी­ना­मु­पा­धि­प्र­ति­ह­तानां बिम्ब­प्रा­प्ति­क­ल्पने हि दृष्टविरुद्धं बह्वापद्यते । कथं जलसन्निकर्षे केषु­चि­न्न­य­न­र­श्मिषु अप्र­ति­ह­त­म­न्त­र्ग­च्छत्सु अन्ये जलसम्बन्धेनापि प्रतिहन्यमाना नितान्तमृदवः सक­ल­न­य­न­र­श्मि­प्र­ति­घा­तिनं किरणसमूहं निर्जित्य तन्मध्यगतं सूर्यमण्डलं प्रविशेयुः । कथं च चन्द्रावलोकन इव तत्प्र­ति­बि­म्बा­व­लो­क­नेऽपि अमृ­त­शी­त­ल­त­द्बि­म्ब­स­न्नि­क­र्षा­वि­शेषे लोचनयोः शैत्या­भि­व्यक्त्या आप्यायनं न स्यात् । कथं च जलसम्बन्धेनापि प्रतिहन्यमानाः शिलादिसम्बन्धेन न प्रतिहन्येरन् , तत्प्रतिहत्या परावृत्तौ वा नयनगोलकादिभिर्न संसृज्येरन् , तत्संसर्गे वा संसृष्टं न साक्षा­त्का­र­येयुः । दोषेणापि हि विशे­षां­श­ग्र­ह­ण­मात्रं प्रतिबध्यमानं दृश्यते, न तु सन्नि­कृ­ष्ट­ध­र्मि­स्व­रू­प­ग्र­ह­ण­मपि । प्रति­मु­खा­ध्या­स­पक्षे तु न किञ्चि­द्दृ­ष्ट­वि­रुद्धं कल्पनीयम् । तथा हि - अव्य­व­हि­त­स्थू­लो­द्भू­त­रू­प­स्यैव चाक्षु­षा­ध्या­स­द­र्श­नात् बिम्ब­ग­त­स्थौ­ल्यो­द्भू­त­रू­पयोः स्वाश्र­य­सा­क्षा­त्का­र­का­र­ण­त्वेन क्लृप्तयोः स्वाश्र­य­प्र­ति­बि­म्बा­ध्या­सेऽपि कारणत्वम् , कुड्या­द्या­व­र­ण­द्र­व्यस्य त्वगि­न्द्रि­य­न्या­येन प्राप्य­का­रि­त­या­व­ग­त­न­य­न­स­न्नि­क­र्ष­वि­घ­ट­न­द्वारा व्यव­हि­त­व­स्तु­सा­क्षा­त्का­र­प्र­ति­ब­न्ध­क­त्वेन क्लृप्तस्य व्यव­हि­त­प्र­ति­बि­म्बा­ध्या­सेऽपि विनैव द्वारान्तरं प्रतिबन्धकत्वं च कल्पनीयम् । तत्र को विरोधः क्वचि­त्का­र­ण­त्वा­दिना क्लृप्तस्य फलबलादन्यत्रापि कार­ण­त्वा­दि­क­ल्पने । एतेन− उपा­धि­प्र­ति­ह­त­न­य­न­र­श्मीनां बिम्ब­प्रा­प्त्य­नु­ग­मने व्यव­हि­त­स्यो­द्भू­त­रू­पा­दि­र­हि­तस्य च चाक्षु­ष­प्र­ति­बि­म्ब­भ्र­म­प्र­सङ्ग इति−निरस्तम् । किं च तदुपगम एव उक्त­दू­ष­ण­प्र­सङ्गः । कथम् ? साक्षात् सूर्यावलोकन इव विनापि चक्षु­र्वि­क्षे­पम् अवनतमौलिना निरीक्ष्यमाणे सलिले तत्प्रतिहतानां नय­न­र­श्मी­ना­मू­र्ध्व­मु­त्प्लुत्य बिम्ब­सू­र्य­ग्रा­ह­क­त्व­वत् तिर्य­क्च­क्षु­र्वि­क्षेपं विना ऋजुचक्षुषा दर्पणे विलोक्यमाने तत्प्रतिहतानां पर्श्व­स्थ­मु­ख­ग्रा­ह­क­त्व­वच्च वद­न­सा­ची­क­र­णा­भा­वेऽ­प्यु­पा­धि­प्र­ति­ह­तानां पृष्ठ­भा­ग­व्य­व­हि­त­ग्रा­ह­कत्वं तावत् दुर्वारम् । उपा­धि­प्र­ति­ह­त­न­य­न­र­श्मीनां प्रति­नि­वृ­त्ति­नि­यमं विहाय यत्र बिम्बं तत्रैव गमनोपगमात् । तथा मलिनदर्पणे श्यामतया गौर­मु­ख­प्र­ति­बि­म्ब­स्थले विद्यमानस्यापि बिम्ब­ग­त­गौ­र­रू­पस्य चाक्षु­ष­ज्ञा­नेऽ­नु­प­यो­गि­तया पीत­श­ङ्ख­भ्र­म­न्या­ये­ना­रो­प्य­रू­प­वै­शि­ष्ट्ये­नैव बिम्बमुखस्य चाक्षुषत्वं निर्वाह्यमिति तथैव नीरूपस्यापि दर्प­णो­पा­धि­श्या­म­त्व­वै­शि­ष्ट्येन चाक्षु­ष­प्र­ति­बि­म्ब­भ्र­म­वि­ष­य­त्व­मपि दुर्वारम् । स्वतो नीरूपस्यापि नभ­सोऽ­ध्य­स्त­नै­ल्य­वै­शि­ष्ट्येन चाक्षु­ष­त्व­सं­प्र­ति­पत्तेः । तस्मात् स्वरूपतः प्रति­मु­खा­ध्या­स­पक्ष एव श्रेयन् । न च तत्रापि पूर्वा­नु­भ­व­सं­स्का­र­दौ­र्घ­ट्यम् । पुरु­ष­सा­मा­न्या­नु­भ­व­सं­स्का­र­मा­त्रेण स्वप्ने­ष्व­दृ­ष्ट­च­र­पु­रु­षा­ध्या­स­वत् मुख­सा­मा­न्या­नु­भ­व­सं­स्का­र­मा­त्रेण दर्पणेषु मुख­वि­शे­षा­ध्या­सो­प­पत्तेः । इयांस्तु भेदः− स्वप्नेषु शुभा­शु­भ­हे­त्व­दृ­ष्टा­नु­रो­धेन पुरु­षा­कृ­ति­वि­शे­षा­ध्यासः, इह तु बिम्ब­स­न्नि­धा­ना­नु­रो­धेन मुखा­कृ­ति­वि­शे­षा­ध्यास इति । न च प्रतिबिम्बस्य स्वरूपतो मिथ्यात्वे ब्रह्म­प्र­ति­बि­म्ब­जी­व­स्यापि मिथ्या­त्वा­प­त्ति­र्दोषः । प्रति­बि­म्ब­जी­वस्य तथात्वेऽपि अवच्छिन्नजीवस्य सत्यतया मुक्ति­भा­क्त्वो­प­प­त्ते­रिति ।

यत्तु प्रतिबिम्बं दर्पणादिषु मुख­च्छा­या­वि­शे­ष­रू­प­तया सत्यमेवेति कस्यचिन्मतं, तन्न । छाया हि नाम शरीरादेः शरीरतदवयवैः आलोके किय­द्दे­श­व्या­पिनि निरुद्धे तत्र देशे लब्धात्मकं तम एव । न च मौक्ति­क­मा­णि­क्या­दि­प्र­ति­बि­म्बस्य तमो­वि­रु­द्ध­सि­त­लो­हि­ता­दि­रू­प­वतः तमो­रू­प­च्छा­यात्वं यक्तम् , न वा तमो­रू­प­च्छा­या­र­हि­त­त­प­ना­दि­प्र­ति­बि­म्बस्य तथात्वमुपपन्नम् । ननु - तर्हि प्रति­बि­म्ब­रू­प­च्छा­यायाः तमो­रू­प­त्वा­स­म्भवे द्रव्या­न्त­र­त्व­मस्तु , क्लृप्त­द्र­व्या­न­न्त­र्भावे तमोवत् द्रव्या­न्त­र­त्व­क­ल्प­नो­प­प­त्ते­रिति चेत् , तत् किं द्रव्यान्तरं प्रती­य­मा­न­रू­प­प­रि­मा­ण­सं­स्था­न­वि­शे­ष­प्र­त्य­ङ्मु­ख­त्वा­दि­ध­र्म­युक्तं तद्रहितं वा स्यात् । अन्त्ये न तेन द्रव्यान्तरेण रूप­वि­शे­षा­दि­घ­टि­त­प्र­ति­बि­म्बो­प­ल­म्भ­नि­र्वाह इति व्यर्थं तत्कल्पनम् । प्रथमे तु कथम् एक­स्मि­न्न­ल्प­प­रि­माणे युग­प­द­स­ङ्की­र्ण­तया प्रतीयमानानां महा­प­रि­मा­णा­ना­म­ने­क­मु­ख­प्र­ति­बि­म्बानां सत्यतानिर्वाहः । कथं च निबि­डा­व­य­वा­नु­स्यूते दर्पणे तथैवावतिष्ठमाने तदन्तः हनु­ना­सि­का­द्य­ने­क­नि­म्नो­न्न­त­प्र­दे­श­वतो द्रव्या­न्त­र­स्यो­त्पत्तिः । किं च सित­पी­त­र­क्ता­द्य­ने­क­व­र्णा­दि­मतः प्रति­बि­म्ब­स्यो­त्पत्तौ दर्पणमध्ये स्थितं तत्सन्निहितं न तादृशं कारणमस्ति । यद्युच्येत − ‘उपा­धि­म­ध्य­वि­श्रा­न्ति­यो­ग्य­प­रि­मा­णा­ना­मेव प्रतिबिम्बानां महापरिमाणज्ञानं तादृ­श­नि­म्नो­न्न­ता­दि­ज्ञानं च भ्रम एव । यथापूर्वं दर्प­ण­त­द­व­य­वा­व­स्था­ना­वि­रो­धेन तादृ­क्प्र­ति­बि­म्बो­त्पा­द­न­स­मर्थं च किञ्चित् कारणं कल्प्यमि’ति । तर्हि शुक्तिरजतमपि सत्यमस्तु । तत्रापि शुक्तौ यथापूर्वं स्थितायामेव तत्ता­दा­त्म्या­प­न्न­र­ज­तो­त्पा­द­न­स­मर्थं किञ्चित्कारणं परिकल्प्य तस्य रजतस्य दोष­त्वा­भि­म­त­का­र­ण­स­ह­कृ­ते­न्द्रि­य­ग्रा­ह्य­त्व­नि­य­म­व­र्ण­नो­प­पत्तेः किं शुक्तिरजतमसत्यं प्रतिबिम्बः सत्य इत्य­र्ध­ज­र­ती­य­न्या­येन । न च तथासति रज­त­मि­ति­दृ­श्य­मा­नायाः शुक्तेः अग्नौ प्रक्षेपे रजतवत् द्रवीभावापत्तिः । अन­ल­क­स्तू­रि­का­दि­प्र­ति­बि­म्ब­स्यौ­ष्ण्य­सौ­र­भ्या­दि­रा­हि­त्य­वत् शुक्तिरजतस्य द्रवी­भा­व­यो­ग्य­ता­रा­हि­त्यो­प­पत्तेः । अथोच्येत – ‘नेदं रजतं’ ‘मिथ्यैव रजतमभात्’ इति सर्व­स­म्प्र­ति­प­न्न­बा­धात् न शुक्तिरजतं सत्यमिति, तर्हि ‘दर्पणे मुखं नास्ति मिथ्यैवात्र दर्पणे मुखमभात्’ इत्यादि सर्वसिद्धबाधात् प्रति­बि­म्ब­म­प्य­स­त्य­मि­त्येव युक्तम् । तस्मादसङ्गतः प्रति­बि­म्ब­स­त्य­त्व­वादः ॥

ननु तन्मि­थ्या­त्व­वा­दोऽ­प्य­युक्तः । शुक्तिरजत इव कस्य­चि­द­न्व­य­व्य­ति­रे­क­शा­लिनः कार­ण­स्या­ज्ञा­नस्य निवर्तकस्य ज्ञानस्य चानिरूपणात् ।

अत्र केचित् – यद्यपि सर्वा­त्म­नाऽ­धि­ष्ठा­न­ज्ञा­ना­न­न्त­र­मपि जायमाने प्रति­बि­म्बा­ध्यासे नाधि­ष्ठा­ना­व­र­ण­म­ज्ञा­न­मु­पा­दानं न वाऽधि­ष्ठा­न­वि­शे­षां­श­ज्ञानं निवर्तकम् , तथाऽपि अधि­ष्ठा­ना­ज्ञा­नस्य आवरणशक्त्यंशेन निवृत्तावपि विक्षे­प­श­क्त्यं­शे­ना­नु­वृ­त्ति­स­म्भ­वात् तदेवोपादानम् । बिम्बो­पा­धि­स­न्नि­धि­नि­वृ­त्ति­स­चिवं चाधिष्ठानज्ञानं सोपादानस्य तस्य निवर्तकम् इति ।

अन्ये तु−ज्ञानस्य विक्षे­प­श­क्त्यंशं विहाय आव­र­ण­श­क्त्यं­श­मा­त्र­नि­व­र्त­कत्वं न स्वाभाविकम् । ब्रह्मज्ञानेन मूलाज्ञानस्य शुक्त्या­दि­ज्ञा­ने­ना­व­स्था­ज्ञा­नस्य च आव­र­ण­श­क्त्यं­श­मा­त्र­नि­वृत्तौ तस्य विक्षेपशक्त्या सर्वदा अनु­वृ­त्ति­प्र­स­ङ्गात् । न च विम्बो­पा­धि­स­न्नि­धि­रू­प­वि­क्षे­प­श­क्त्यं­श­नि­वृ­त्ति­प्र­ति­ब­न्ध­क­प्र­युक्तं तत् । बिम्बो­पा­धि­स­न्नि­धा­नात् प्रागेव बिम्बे चैत्रमुखे दर्प­ण­सं­स­र्गा­द्य­भावे दर्पणे चैत्रमुखाभावे वा प्रत्य­क्ष­तोऽ­व­ग­म्य­माने विक्षे­प­श­क्त्यं­श­स्यापि निवृ­त्त्य­व­श्य­म्भा­वेन तत्काले तयोस्सन्निधाने सति उपादानाभावेन प्रति­बि­म्ब­भ्र­मा­भा­व­प्र­स­ङ्गात् । अतो मूलाज्ञानमेव प्रति­बि­म्बा­ध्या­स­स्यो­पा­दा­नम् । न चात्रा­प्यु­क्त­दो­ष­तौ­ल्यम् । परा­ग्वि­ष­य­वृ­त्ति­प­रि­णा­मानां स्वस्व­वि­ष­या­व­च्छि­न्न­चै­त­न्य­प्र­देशे मूला­ज्ञा­ना­व­र­ण­श­क्त्यं­शा­भि­भा­व­क­त्वेऽपि तदी­य­वि­क्षे­प­श­क्त्यं­शा­नि­व­र्त­क­त्वात् । अन्यथा तत्प्र­दे­श­स्थि­त­व्या­व­हा­रि­क­वि­क्षे­पा­णा­मपि विलयापत्तेः । न च प्रतिबिम्बस्य मूला­ज्ञा­न­का­र्यत्वे व्याव­हा­रि­क­त्वा­पत्तिः । अवि­द्या­ति­रि­क्त­दो­षा­ज­न्य­त्वस्य व्यव­हा­रि­क­त्व­प्र­यो­ज­क­त्वात्‌ , प्रकृते च तद­ति­रि­क्त­बि­म्बो­पा­धि­स­न्नि­धा­न­दो­ष­स­द्भा­वेन प्राति­भा­सि­क­त्वो­प­पत्तेः । न च −एवं सति बिम्बो­पा­धि­स­न्नि­धि­नि­वृ­त्ति­स­ह­कृ­त­स्या­प्य­धि­ष्ठा­न­ज्ञा­नस्य प्रति­बि­म्बा­ध्या­सा­नि­व­र्त­क­त्व­प्र­सङ्गः, तन्मू­ला­ज्ञा­न­नि­व­र्त­क­त्वा­भा­वात् − इति वाच्यम् , विरोधाभावात् । ब्रह्मा­ज्ञा­न­नि­व­र्त­क­त्वेपि तदु­पा­दा­न­क­प्र­ति­बि­म्बा­ध्या­स­वि­रो­धि­वि­ष­य­क­तया अधि­ष्ठा­न­या­था­त्म्य­ज्ञा­नस्य प्रति­ब­न्ध­क­वि­र­ह­स­चि­वस्य तन्नि­व­र्त­क­त्वो­प­पत्तेः । अव­स्था­ज्ञा­नो­पा­दा­न­त्व­प­क्षेऽपि तस्य प्राची­ना­धि­ष्ठा­न­ज्ञा­न­नि­व­र्ति­ता­व­र­ण­श­क्ति­कस्य समा­न­वि­ष­य­त्व­भ­ङ्गेन प्रति­ब­न्ध­का­भा­व­का­ली­ना­धि­ष्ठा­न­ज्ञा­नेन निव­र्त­यि­तु­म­श­क्य­तया प्रति­बि­म्बा­ध्या­स­मा­त्र­स्यैव तन्नि­व­र्त्य­त्व­स्यो­पे­य­त्वात् । अथवा स्वोपा­दा­ना­ज्ञा­न­नि­व­र्त­क­ब्र­ह्म­ज्ञा­न­नि­वर्त्य एवा­य­म­ध्या­सोऽस्तु । व्याव­हा­रि­क­त्वा­प­त्तिस्तु अवि­द्या­ति­रि­क्त­दो­ष­ज­न्य­त्वेन प्रत्युक्ता – इत्याहुः ।

स्वप्ना­ध्या­सा­धि­ष्ठा­न­स­त्ता­दि­वि­चारः

एवं स्वप्ना­ध्या­स­स्यापि अन­व­च्छि­न्न­चै­तन्ये अह­ङ्का­रो­प­हि­त­चै­तन्ये वा अव­स्था­रू­पा­ज्ञा­न­शू­न्येऽ­ध्या­सात् ‘सुषुप्त्याख्यं तमोऽज्ञानं बीजं स्वप्न­प्र­बो­धयोः’ (उ.सा. १७ । २६) इति आचार्याणां स्वप्न­जा­ग्र­त्प्र­प­ञ्च­यो­रे­का­ज्ञा­न­का­र्य­त्वो­क्तेश्च मूला­ज्ञा­न­का­र्य­तया स्वोपा­दा­न­नि­व­र्त­क­ब्र­ह्म­ज्ञा­नै­क­बा­ध्यस्य अवि­द्या­ति­रि­क्त­नि­द्रा­दि­दो­ष­ज­न्य­त­यैव प्राति­भा­सि­क­त्वम् इति केचिदाहुः ।

अन्ये तु – ‘बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे’ इति भाष्योक्तेः ‘अवि­द्या­त्म­क­ब­न्ध­प्र­त्य­नी­क­त्वात् जाग्रद्बोधवत्’ इति विवरणदर्शनात् उत्थितस्य स्वप्न­मि­थ्या­त्वा­नु­भ­वाच्च जाग्रद्बोधः स्वप्ना­ध्या­स­नि­व­र्तक इति ब्रह्म­ज्ञा­ने­त­र­ज्ञा­न­बा­ध्य­त­यैव तस्य प्राति­भा­सि­क­त्वम् । न चाधि­ष्ठा­न­या­था­त्म्या­गो­चरं स्वोपा­दा­ना­ज्ञा­ना­नि­व­र्तकं ज्ञानं कथ­म­ध्या­स­नि­व­र्तकं स्यादिति वाच्यम् । रज्जु­स­र्पा­ध्या­सस्य स्वोपा­दा­ना­ज्ञा­न­नि­व­र्त­का­धि­ष्ठा­न­या­था­त्म्य­ज्ञा­ने­नेव तत्रैव स्वान­न्त­रो­त्प­न्न­द­ण्ड­भ्र­मे­णापि निवृ­त्ति­द­र्श­नात् - इत्याहुः ।

स्वप्ना­ध्या­सा­धि­ष्ठा­न­वि­चारः

नन्व­न­व­च्छि­न्न­चै­तन्ये अह­ङ्का­रो­प­हि­त­चै­तन्ये वा स्वाप्न­प्र­प­ञ्चा­ध्यास इति प्रागुक्तं पक्ष­द्व­य­म­प्य­यु­क्तम् । आद्ये – स्वाप्नगजादेः अह­ङ्का­रो­प­हि­त­सा­क्षिणो विच्छि­न्न­दे­श­त्वेन सुखा­दि­व­द­न्तः­क­र­ण­वृ­त्ति­सं­स­र्ग­म­न­पेक्ष्य तेन प्रकाशस्य चक्षु­रा­दी­ना­मु­प­र­त­तया वृत्त्यु­द­या­स­म्भ­वेन तत्सं­स­र्ग­म­पेक्ष्य तेन प्रकाशस्य च, अयोगात् । द्वितीये ‘इदं रजतमि’तिवत् ‘अहं गजः’ इति वा, ‘अहं सुखी’तिवद् ‘अहं गजवान्’ इति वा अध्या­स­प्र­स­ङ्गात् ।

अत्र केचित् आद्यपक्षं सम­र्थ­य­न्ते−अ­ह­ङ्का­रा­न­व­च्छि­न्न­चै­तन्यं न देहाद्बहिः स्वाप्न­प्र­प­ञ्च­स्या­धि­ष्ठा­न­मु­पे­यते, किं तु तदन्तरेव । अत एव दृश्य­मा­न­प­रि­मा­णो­चि­त­दे­श­स­म्प­त्त्य­भा­वात् स्वाप्नगजादीनां माया­म­य­त्व­मु­च्यते । एवं च अन्तःकरणस्य देहा­द्ब­हि­र­स्वा­त­न्त्र्यात् जागरणे बाह्य­शु­क्ती­द­मं­शा­दि­गो­च­र­वृ­त्त्यु­त्पा­दाय चक्षु­रा­द्य­पे­क्षा­या­मपि देहा­न्त­र­न्तः­क­र­णस्य स्वतन्त्रस्य स्वयमेव वृत्तिसम्भवात् देहा­न्त­र­न्तः­क­र­ण­वृ­त्त्य­भि­व्य­क्त­स्या­न­व­च्छि­न्न­चै­त­न्य­स्या­धि­ष्ठा­नत्वे न काचिदनुपपत्तिः । अत एव – यथा जागरणे सम्प्र­यो­ग­ज­न्य­वृ­त्त्य­भि­व्य­क्त­शु­क्ती­द­मं­शा­व­च्छि­न्न­चै­त­न्य­स्थि­ताऽ­विद्या रूप्याकारेण विवर्तते, तथा स्वप्नेऽपि देह­स्या­न्त­र­न्तः­क­र­ण­वृत्तौ निद्रा­दि­दो­षो­प­प्लु­ता­याम् अभि­व्य­क्त­चै­त­न्य­स्था­विद्या अदृ­ष्टो­द्बो­धि­त­ना­ना­वि­ष­य­सं­स्का­र­स­हिता प्रपञ्चाकारेण विवर्ततामिति ववरणोपन्यासे भार­ती­ती­र्थ­व­च­न­मिति ।

अन्ये तु अन­व­च्छि­न्न­चै­तन्यं न वृत्त्य­भि­व्यक्तं सत् स्वाप्न­प्र­प­ञ्च­स्या­धि­ष्ठा­नम् , अश­ब्द­मू­ल­का­न­व­च्छि­न्न­चै­त­न्य­गो­च­र­वृ­त्त्यु­द­या­स­म्भ­वात् । अह­ङ्का­रा­द्य­व­च्छि­न्न­चै­तन्य एव अह­मा­का­र­वृ­त्त्यु­द­य­द­र्श­नात् । तस्मात् स्वतोऽ­प­रो­क्ष­म­ह­ङ्का­रा­द्य­न­व­च्छि­न्न­चै­तन्यं तदधिष्ठानम् । अत एव सङ्क्षे­प­शा­री­रके−
‘अप­रो­क्ष­रू­प­वि­ष­य­भ्र­म­धी­र­प­रो­क्ष­मा­स्प­द­म­पेक्ष्य भवेत् ।
मनसा स्वतो नयनतो यदि वा स्वपनभ्रमादिषु तथाप्रथितेः ॥’ (१ । ४१) इति श्लोकेन अप­रो­क्षा­ध्या­सा­पे­क्षि­त­म­धि­ष्ठा­ना­प­रोक्ष्यं क्वचित्स्वतः क्वचि­न्मा­न­स­वृत्त्या क्वचि­द्ब­हि­रि­न्द्रि­य­वृत्त्या इत्यभिधाय
‘स्वतोऽपरोक्षा चितिरत्र विभ्रमस्तथापि रूपाकृतिरेव जायते ।
मनोनिमित्तं स्वपतो मुहु­र्मु­हु­र्वि­नापि चक्षुर्विषयं स्वमास्पदम् ।
मनोऽ­व­ग­म्येऽ­प्य­प­रो­क्ष­ता­ब­लात् तथाऽम्बरे रूपमुपोल्लिखन् भ्रमः ।
सिता­दि­भे­दै­र्ब­हुधा समीक्ष्यते यथाऽक्षिगम्ये रजतादिविभ्रमः’ ॥ (१ । ४२,४३) इत्या­द्य­न­न्त­र­श्लो­केन स्वप्नाध्यासे स्वतोऽ­धि­ष्ठा­ना­प­रो­क्ष्य­मु­दा­हृ­तम् । न चाह­ङ्का­रा­न­व­च्छि­न्न­चै­त­न्य­मा­त्र­मा­वृ­त­मिति वृत्तिमन्तरेण न तदभिव्यक्तिरिति वाच्यम् । ब्रह्म­चै­त­न्य­मे­वा­वृ­तम् अवि­द्या­प्र­ति­बि­म्ब­जी­व­चै­त­न्य­म­ह­ङ्का­रा­न­व­च्छि­न्न­म­प्य­ना­वृ­तम् इत्युपगमात् । एवं च अह­ङ्का­रा­न­व­च्छि­न्न­चै­त­न्येऽ­ध्य­स्य­माने स्वाप्नगजादौ तत्स­म­य­नि­य­ता­धि­ष्ठा­न­गो­च­रा­न्तः­क­र­ण(णादि) वृत्ति­कृ­ता­भे­दा­भि­व्यक्त्या प्रमा­तृ­चै­त­न्य­स्यापि इदं पश्यामीति व्यवहारः − इत्याहुः ।

अपरे तु द्वितीयं पक्षं समर्थयन्ते−

अह­ङ्का­रा­व­च्छि­न्न­चै­त­न्य­म­धि­ष्ठा­न­मिति अहङ्कारस्य विशे­ष­ण­भा­वे­ना­धि­ष्ठा­न­को­टि­प्र­वेशो नोपेयते, किं तु अहङ्कारोपहितं तत्प्र­ति­बि­म्ब­रू­प­चै­त­न्य­मा­त्र­म­धि­ष्ठा­न­मिति , अतो ‘नाहं गजः’ इत्या­द्य­नु­भ­व­प्र­सङ्ग इति ।

एवं शुक्तिरजतमपि शुक्ती­द­मं­शा­व­च्छि­न्न­चै­त­न्य­प्र­ति­बिम्बे वृत्ति­म­द­न्तः­क­र­ण­ग­तेऽ­ध्य­स्यते । शुक्ती­द­मं­शा­व­च्छि­न्न­बि­म्ब­चै­तन्ये सर्वसाधारणे तस्याध्यासे सुखा­दि­व­द­न­न्य­वे­द्य­त्वा­भा­व­प्र­स­ङ्गात् इति केचित् ।

केचित्तु बिम्बचैतन्य एव तदध्यासमुपेत्य यदी­या­ज्ञा­नो­पा­दा­नकं यत् तत् तस्यैव प्रत्यक्षं न जीवान्तरस्य इत्य­न­न्य­वे­द्य­त्व­मु­प­पा­द­यन्ति ।

स्वाप्न­प­दा­र्था­नु­भ­वस्य अनै­न्द्रि­य­क­त्व­नि­रू­प­णम्

ननु शुक्ति­र­ज­ता­ध्यासे चाक्षु­ष­त्वा­नु­भवः साक्षाद्वा अधि­ष्ठा­न­ज्ञा­न­द्वारा तदपेक्षणाद्वा समर्थ्यते । स्वाप्न­ग­जा­दि­चा­क्षु­ष­त्वा­नु­भवः कथं समर्थनीयः ?

उच्यते −

न तावत् तत्समर्थनाय स्वाप्न­दे­ह­व­द्वि­ष­य­वच्च इन्द्रियाणामपि प्रातिभासिको विवर्तः शक्यतेवक्तुम् , प्राति­भा­सि­क­स्या­ज्ञा­त­स­त्त्वा­भा­वात् । इन्द्रियाणां चातीन्द्रियाणां सत्त्वेऽ­ज्ञा­त­स­त्त्वस्य वाच्यत्वात् ।

नापि व्याव­का­रि­का­णा­मे­वे­न्द्रि­याणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्न­दे­ह­मा­श्रित्य स्वस्व­वि­ष­य­ग्रा­ह­कत्वं वक्तुं शक्यते , स्वप्नसमये तेषां व्यापा­र­रा­हि­त्य­रू­पो­प­र­ति­श्र­व­णात् । व्यावहारिकस्य स्पर्श­ने­न्द्रि­यस्य स्वोचि­त­व्या­व­हा­रि­क­दे­श­स­म्प­त्ति­वि­धु­रा­न्तः­श­रीरे स्वाधि­क­प­रि­मा­ण­कृ­त्स्न­स्वा­प्न­श­री­र­व्या­पि­त्वा­यो­गाच्च । तदे­क­दे­शा­श्र­यत्वे च तस्य स्वाप्न­ज­ला­व­गा­ह­न­ज­न्य­स­र्वा­ङ्गी­ण­शी­त­स्प­र्शा­नि­र्वा­हात् ।

अत एव−स्वप्ने जाग्र­दि­न्द्रि­या­णा­मु­प­र­ता­वपि तैज­स­व्य­व­हा­रो­प­यु­क्तानि सूक्ष्म­श­री­रा­व­य­व­भू­तानि सूक्ष्मे­न्द्रि­याणि सन्तीति तैः स्वाप्न­प­दा­र्था­ना­मै­न्द्रि­य­क­त्वम् इत्यु­प­पा­द­न­श­ङ्का­पि−नि­रस्ता । जाग्र­दि­न्द्रि­य­व्य­ति­रि­क्त­सू­क्ष्मे­न्द्रि­या­प्र­सिद्धेः ।

किञ्च ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’(बृ.उ. ४ । ३ । ९) इति जागरे आदि­त्या­दि­ज्यो­ति­र्व्य­ति­क­रा­च्च­क्षु­रा­दि­वृ­त्ति­स­ञ्चा­राच्च दुर्विवेकम् आत्मनः स्वय­ञ्ज्यो­ति­ष्ट्व­मिति स्वप्ना­व­स्था­म­धि­कृत्य तत्रात्मनः स्वय­ञ्ज्यो­तिष्ट्वं प्रतिपादयति । अन्यथा तस्य सर्वदा स्वय­ञ्ज्यो­ति­ष्ट्वेन अत्रेति वैयर्थ्यात् । तत्र यदि स्वप्नेऽपि चक्षु­रा­दि­वृ­त्ति­स­ञ्चारः कल्प्येत, तदा तत्रापि जागर इव तस्य स्वय­ञ्ज्यो­तिष्ट्वं दुर्विवेकं स्यादिति उदाहृता श्रुतिः पीड्येत । ननु स्वप्ने चक्षु­रा­द्यु­प­र­म­क­ल्प­नेऽपि अन्तः­क­र­ण­म­नु­प­र­त­मास्त इति परिशेषासिद्धेः न स्वय­ञ्ज्यो­ति­ष्ट्व­वि­वेकः । मैवम् – ‘कर्ता शास्त्रा­र्थ­व­त्त्वात्’(ब्र.सू. २ । ३ । ३३) इत्यधिकरणे न्याय­नि­र्ण­यो­क्त­रीत्या अन्तःकरणस्य चक्षु­रा­दि­क­र­णा­न्त­र­नि­र­पे­क्षस्य ज्ञान­सा­ध­न­त्वा­भा­वाद्वा तत्त्व­प्र­दी­पि­को­क्त­रीत्या स्वप्ने तस्यैव गजाद्याकारेण परिणामेन ज्ञान­क­र्म­त­याऽ­व­स्थि­त­त्वेन तदानीं ज्ञान­सा­ध­न­त्वा­यो­गाद्वा परिशेषोपपत्तेः । न च स्वप्नेऽ­न्तः­क­र­ण­वृ­त्त्य­भावे उत्थितस्य स्वप्न­दृ­ष्ट­ग­जा­द्य­नु­स­न्धा­ना­नु­प­पत्तिः । सुषु­प्ति­क्लृ­प्तया अविद्यावृत्त्या तदुपपत्तेः । ‘सुषुप्तौ तदवस्थोपहितमेव स्वरूपचैतन्यम् अज्ञा­न­सु­खा­दि­प्र­काशः, उत्थि­त­स्या­नु­स­न्धा­न­मु­पा­धि­भू­ता­व­स्था­वि­ना­श­ज­न्य­सं­स्का­रेण’ इति वेदा­न्त­कौ­मु­द्य­भि­मते सुषु­प्ता­व­वि­द्या­वृ­त्त्य­भा­व­पक्षे इहापि स्वाप्न­ग­जा­दि­भा­स­क­चै­त­न्यो­पा­धि­भू­त­स्व­प्ना­व­स्था­वि­ना­श­ज­न्य­सं­स्का­रा­द­नु­स­न्धा­नो­प­प­त्तेश्च । अथवा ‘तदेतत् सत्त्वं येन स्वप्नं पश्यति’ (पै.र.ब्रा.उ) इत्यादिश्रुतेः अस्तु स्वप्नेऽपि कल्प­त­रू­क्त­रीत्या स्वाप्न­ग­जा­दि­गो­च­रा­न्तः­क­र­ण­वृत्तिः । न च तावता परिशेषासिद्धिः । अन्तःकरणस्य अह­मि­ति­गृ­ह्य­मा­णस्य सर्वात्मना जीवै­क्ये­ना­ध्य­स्त­तया लोकदृष्ट्या तस्य तद्व्य­ति­रे­का­प्र­सिद्धेः परिशेषार्थं चक्षु­रा­दि­व्या­पा­रा­भा­व­मा­त्र­स्यै­वा­पे­क्षि­त­त्वात् । प्रसि­द्ध­दृ­श्य­मात्रं दृग­व­भा­स­यो­ग्य­मिति निश्च­य­स­त्त्वे­न­प­रि­शे­षा­र्थ­म­न्या­न­पे­क्ष­णात् ।

तस्मात् सर्वथाऽपि स्वप्ने चक्षु­रा­दि­व्या­पा­रा­स­म्भ­वात् स्वाप्नगजादौ चाक्षु­ष­त्वा­द्य­नु­भवो भ्रम एव ।

ननु स्वप्नेऽपि ‘चक्षुरुन्मीलने गजाद्यनुभवः , तन्निमीलने न’ इति जागर इव गजाद्यनुभवस्य चक्षु­रु­न्मी­ल­ना­द्य­नु­वि­धानं प्रतीयत इति चेत् , ‘चक्षुषा गजादिकं पश्या­मी’त्य­नु­भ­व­वत् अयमपि कश्चित् स्वप्नभ्रमो भविष्यति - यत् केवलसाक्षिरूपे स्वाप्न­ग­जा­द्य­नु­भवे चक्षु­रा­द्य­नु­वि­धानं तदनुविधायिनी वृत्तिर्वा अध्यस्यते । किमिव हि दुर्घटमपि भ्रमं माया न करोति, विशेषतो निद्रारूपेण परिणता । यस्याः माहात्म्यात् स्वप्ने रथः प्रतीतः क्षणेन मनुष्य प्रतीयते, स च क्षणेन मार्जारः । स्वप्न­द्र­ष्टुश्च न पूर्वा­प­र­वि­रो­धा­नु­स­न्धा­नम् । तस्मा­द­न्व­या­द्य­नु­वि­धा­न­प्र­ती­ति­तौ­ल्येऽपि जाग्र­द्ग­जा­द्य­नु­भव एव चक्षुरादिजन्यः, न स्वाप्न­ग­जा­द्य­नु­भवः ।

दृष्टि­सृ­ष्टि­वा­द­नि­रू­प­णम्

दृष्टि­सृ­ष्टि­वा­दि­नस्तु कल्पि­त­स्या­ज्ञा­त­स­त्त्व­म­नु­प­प­न्न­मिति कृत्स्नस्य जाग्र­त्प्र­प­ञ्चस्य दृष्टिसमसमयां सृष्टिमुपेत्य घटा­दि­दृ­ष्टे­श्च­क्षुः­स­न्नि­क­र्षा­नु­वि­धा­न­प्र­तीतिं दृष्टेः पूर्वं घटा­द्य­भा­वे­ना­स­ङ्ग­च्छ­मानां स्वप्नवदेव समर्थयमानाः जाग्र­द्ग­जा­द्य­नु­भ­वोऽपि न चाक्षुष इत्याहुः ।

ननु - दृष्टि­सृ­ष्टि­म­व­लम्ब्य कृत्स्नस्य जाग्र­त्प्र­प­ञ्चस्य कल्पितत्वोपगमे कस्तस्य कल्पकः । निरुपाधिरात्मा वा, अविद्योपहितो वा । नाद्यः−मो­क्षेऽपि साध­ना­न्त­र­नि­र­पे­क्षस्य कल्पकस्य सत्त्वेन प्रप­ञ्चा­नु­वृत्त्या संसा­रा­वि­शे­ष­प्र­स­ङ्गात् । न द्वितीयः − आविद्याया अपि कल्पनीयत्वेन तत्क­ल्प­ना­त्प्रा­गेव कल्प­क­सि­द्धे­र्व­क्त­व्य­त्वात् ।

अत्र केचिदाहुः − पूर्व­पू­र्व­क­ल्पि­ता­वि­द्यो­प­हि­तो­त्त­रो­त्त­रा­वि­द्या­क­ल्पकः । अनि­द­म्प्र­थ­म­त्वाच्च कल्प­क­क­ल्प­ना­प्र­वा­हस्य नानवस्था दोषः । न च - अविद्याया अना­दि­त्वो­प­ग­मा­च्छु­क्ति­र­ज­त­वत् कल्पितत्वं न युज्यते, अन्यथा साद्य­ना­दि­वि­भा­गा­नु­प­प­त्ते­रिति - वाच्यम् । यथा स्वप्ने कल्प्यमानं गोपुरादि किञ्चित् पूर्वसिद्धत्वेन कल्प्यते किञ्चि­त्त­दा­नी­मु­त्पा­द्य­मा­न­त्वेन, एवं जागरेऽपि किञ्चित् कल्प्यमानं सादित्वेन कल्प्यते किञ्चिदन्यथेति तावता साद्य­ना­दि­वि­भा­गो­प­पत्तेः । एतेन कार्य­का­र­ण­वि­भा­गोऽपि व्याख्यात इति ।

अन्ये तु−वस्तु­तोऽ­ना­द्ये­वा­वि­द्यादि , तत्र दृष्टि­सृ­ष्टि­र्नो­पे­यते, किं तु (ततः) अन्यत्र प्रपञ्चमात्रे − इत्याहुः ।

नन्वेवमपि श्रुति­मा­त्र­प्र­ती­तस्य विय­दा­दि­स­र्ग­त­त्क्र­मादेः कः कल्पकः । न कोऽपि । किमालम्बना तर्हि ‘आत्मन आकाशः सम्भूतः’(तै.उ. २ । १) इत्यादिश्रुतिः । निष्प्र­प­ञ्च­ब्र­ह्मा­त्मै­क्या­व­ल­म्ब­ने­त्य­वेहि । अध्या­रो­पा­प­वा­दाभ्यां निष्प्र­प­ञ्च­ब्र­ह्म­प्र­ति­प­त्ति­र्भ­व­तीति तत्प्र­ति­प­त्त्यु­पा­य­तया श्रुतिषु सृष्टि­प्र­ल­यो­प­न्यासः , न तात्पर्येण इति भाष्या­द्यु­द्घोषः । व्यर्थस्तर्हि तात्पर्याभावे विय­त्प्रा­ण­पा­द­यो­र्वि­य­दा­दि­स­र्ग­त­त्क्र­मा­दि­वि­ष­य­श्रु­तीनां पर­स्प­र­वि­रो­ध­प­रि­हा­राय यत्नः । न व्यर्थः । न्याय­व्यु­त्प­त्त्य­र्थम् अभ्यु­पे­त्य­ता­त्पर्यं तत्प्रवृत्तेः । उक्तं हि शास्त्रदर्पणे−
‘श्रुतीनां सृष्टितात्पर्यं स्वीकृ­त्ये­द­मि­हे­रि­तम् ।
ब्रह्मा­त्मै­क्य­प­र­त्वात्तु तासां तन्नैव विद्यते ।’ (१ । ४ । ४) इति ।
ज्योति­ष्टो­मा­दि­श्रु­ति­बो­धि­ता­नु­ष्ठा­नात् फलसिद्धिः स्वाप्न­श्रु­ति­बो­धि­ता­नु­ष्ठा­न­प्र­यु­क्त­फ­ल­सं­वा­द­तुल्या, ज्योति­ष्टो­मा­दि­श्रु­तीनां च सत्त्व­शु­द्धि­द्वारा ब्रह्मणि तात्प­र्या­न्ना­प्रा­मा­ण्यम् , इत्या­दि­दृ­ष्टि­सृ­ष्टि­व्यु­त्पा­द­न­प्र­क्रि­या­प्र­प­ञ्चस्तु आकरग्रन्थेषु द्रष्टव्यः । अयमेको दृष्टिसमसमया विश्वसृष्टिरिति दृष्टि­सृ­ष्टि­वादः ।

अन्यस्तु− दृष्टिरेव विश्वसृष्टिः । दृश्यस्य दृष्टिभेदे प्रमाणाभावात् ,
‘ज्ञान­स्व­रू­प­मे­वा­हु­र्ज­ग­दे­त­द्वि­च­क्षणाः ।
अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्यन्ये कुदृष्टयः ।’ (वि.पु. १ । ४ । ४०) इति स्मृतेश्च इति - सिद्धा­न्त­मु­क्ता­व­ल्या­दि­द­र्शितो दृष्टि­सृ­ष्टि­वादः ।

द्विवि­ध­दृ­ष्टि­सृ­ष्टि­वा­दा­द्वि­ल­क्ष­ण­सृ­ष्ट­दृ­ष्टि­वा­द­नि­रू­प­णम्

द्विविधेऽपि दृष्टि­सृ­ष्टि­वादे मनः­प्र­त्य­य­म­ल­भ­मानाः केचिदाचार्याः सृष्टदृष्टिवादं रोचयन्ते – श्रुतिदर्शितेन क्रमेण परमेश्वरसृष्टम् अज्ञा­त­स­त्ता­यु­क्त­मेव विश्वम् , तत्त­द्वि­ष­य­प्र­मा­णा­व­त­रणे तस्य तस्य दृष्टि­सि­द्धि­रिति । न चैवं प्रपञ्चस्य कल्पितत्वाभावे श्रुत्या­दि­प्र­ति­प­न्नस्य सृष्टि­प्र­ल­या­दि­मतः प्रत्य­क्षा­दि­प्र­ति­प­न्ना­र्थ­क्रि­या­का­रि­णश्च तस्य सत्य­त्व­मे­वा­भ्यु­प­गतं स्यादिति वाच्यम् , शुक्तिरजतादिवत् सम्प्र­यो­ग­सं­स्का­र­दो­ष­रू­पेण अधि­ष्ठा­न­ज्ञा­न­सं­स्का­र­दो­ष­रू­पेण वा कारणत्रयेण अजन्यतया कल्प­ना­स­म­स­म­य­त्वा­भा­वेऽपि ज्ञानै­क­नि­व­र्त्य­त्व­रू­पस्य सद­स­द्वि­ल­क्ष­ण­त्व­रू­पस्य प्रति­प­न्नो­पा­धि­ग­त­त्रै­का­लि­क­नि­षे­ध­प्र­ति­यो­गि­त्व­रू­पस्य वा मिथ्या­त्व­स्या­भ्यु­प­ग­मात् । सत्यत्वपक्षे प्रपञ्चे उक्त­रू­प­मि­थ्या­त्वा­भा­वेन ततो भेदात् ।

नन्वेवं - अह­ङ्का­र­त­द्ध­र्मा­णा­मपि उक्त­रू­प­मि­थ्यात्वं वियदादिवत् कल्पि­त­त्वा­भा­वेऽपि सिद्ध्यतीति, भाष्य­टी­का­वि­व­र­णेषु तदध्यासे कार­ण­त्रि­त­य­स­म्पा­द­ना­दि­यत्नो व्यर्थः , इति चेत्−अ­ह­ङ्का­रा­दी­ना­मपि केव­ल­सा­क्षि­वे­द्य­तया शुक्तिरजतवत् प्राति­भा­सि­क­त्व­म­भि­म­त­मिति चित्सुखाचार्याः ।

अभ्यु­पे­त्य­वा­द­मात्रं तत् , ‘अद्वि­ती­या­धि­ष्ठा­न­ब्र­ह्मा­त्म­प्र­मा­णस्य चैतन्यस्य’ इत्या­दि­त­त्र­त्य­का­र­ण­त्रि­त­य­स­म्पा­द­न­ग्र­न्थस्य, चैतन्यस्य प्रमाकरणत्वे वेदा­न्त­क­र­ण­त्वा­दि­क­ल्प­ना­भ­ङ्ग­प्र­स­ङ्गेन प्रौढिवादत्वस्य स्फुटत्वादिति रामा­द्व­या­चार्याः ।

मिथ्या­भू­त­स्या­र्थ­क्रि­या­का­रि­त्व­वि­चारः

ननु दृष्टि­सृ­ष्टि­वादे सृष्टदृष्टिवादे च मिथ्या­त्व­सं­प्र­ति­पत्तेः कथं मिथ्या­भू­त­स्या­र्थ­क्रि­या­का­रि­त्वम् ?

स्वप्नवदिति ब्रूमः । ननु स्वाप्न­ज­ला­दि­सा­ध्या­व­गा­ह­ना­दि­रू­पा­र्थ­क्रिया असत्यैव । किं तु जाग्र­ज्ज­ला­दि­साध्या सा सत्या । अवि­शि­ष्ट­मु­भ­य­त्रापि स्वस­मा­न­स­त्ता­का­र्थ­क्रि­या­का­रि­त्व­मिति केचित्‌ ।

अद्वै­त­वि­द्या­चा­र्या­स्त्वाहुः− स्वाप्न­प­दा­र्थानां न केवलं प्रबो­ध­बा­ध्या­र्थ­क्रि­या­मा­त्र­का­रि­त्वम्‌ , स्वाप्ना­ङ्ग­ना­भु­ज­ङ्ग­मा­दीनां तद­बा­ध्य­सु­ख­भ­या­दि­ज­न­क­त्व­स्यापि दर्शनात्‌ । स्वाप्न­वि­ष­य­ज­न्य­स्यापि हि सुखभयादेः प्रबोधानन्तरं न बाधोऽनुभूयते , प्रत्युत प्रबोधानन्तरमपि मनः­प्र­सा­द­श­री­र­क­म्प­ना­दिना सह तद­नु­वृ­त्ति­द­र्श­नात् प्रागपि सत्त्व­मे­वा­व­सी­यते । अत एव प्राणिनां पुनरपि सुख­ज­न­क­वि­ष­य­गो­च­र­स्वप्ने वाञ्छा, अतादृशे च स्वप्ने प्रद्वेषः । सम्भवति च स्वप्नेऽपि ज्ञान­व­द­न्तः­क­र­ण­वृ­त्ति­रू­पस्य सुखभयादेरुदयः । न च - स्वाप्ना­ङ्ग­ना­दि­ज्ञा­न­मेव सुखादिजनकम् , तच्च सदेवेति वाच्यम् , तस्यापि दर्श­न­स्प­र्श­ना­दि­वृ­त्ति­रू­पस्य स्वप्न­प्र­प­ञ्च­सा­क्षि­ण्य­ध्य­स्तस्य कल्प­ना­मा­त्र­सि­द्ध­त्वात् । न ह्युप­र­ते­न्द्रि­यस्य चक्षु­रा­दि­वृ­त्तयः सत्याः सम्भवन्ति । न च – तद्वि­ष­या­प­रो­क्ष­मात्रं सुखजनकम् , तच्च साक्षिरूपं सदेवेति−वाच्यम् , दर्शनात् स्पर्शने कामिन्याः पदा स्पर्शनात् पाणिना स्पर्शने भुज­ङ्ग­म­स्या­म­र्म­स्थले स्पर्शनात् मर्मस्थले स्पर्शने सुखविशेषस्य भयविशेषस्य चानु­भ­व­सि­द्ध­त्वेन स्वप्नेऽपि तत्त­त्सु­ख­भ­या­दि­वि­शे­षस्य कल्पि­त­द­र्श­न­स्प­र्श­ना­दि­वृ­त्ति­वि­शे­ष­ज­न्य­त्वस्य वक्तव्यत्वादिति ।

तथा जागरे घटा­दि­प्र­का­श­न­क्ष­म­त­त्र­त्य­पु­रु­षा­न्त­र­नि­री­क्ष्य­मा­णा­लो­क­व­त्य­प­व­रके सद्यः प्रविष्टेन पुंसा कल्पितस्य सन्तमसस्य प्रसि­द्ध­स­न्त­म­सो­चि­ता­र्थ­क्रि­या­का­रित्वं दृष्टम् । तेन तं प्रति घटाद्यावरणं दीपाद्यानयने तदपसरणं तन्नयने पुनरावरणम् इत्या­दे­र्द­र्श­नात् इत्यपि – केचित् ।

अन्ये तु पाना­व­गा­ह­ना­द्य­र्थ­क्रि­यायां जला­दि­स्व­रू­प­मा­त्र­मु­प­योगि, न तद्गतं सत्यत्वम् , तस्य कार­ण­त्व­त­द­व­च्छे­द­क­त्व­यो­र­भा­वा­दिति किं तेन । न चैवं सति मरु­म­री­चि­को­द­क­शु­क्ति­र­ज­ता­दे­रपि प्रसि­द्धो­द­का­द्यु­चि­ता­र्थ­क्रि­या­का­रि­त्व­प्र­सङ्गः । ‘मरी­चि­को­द­का­दा­वु­द­क­त्वा­दि­जा­ति­र्ना­स्तीति तद्विषयकभ्रमस्य उद­क­श­ब्दो­ल्ले­खित्वं तदु­ल्ले­खि­पू­र्वा­नु­भ­व­सं­स्का­र­ज­न्य­त्व­प्र­युक्तं’ इति तत्त्व­शु­द्धि­का­रादि मते तत्त­द­र्थ­क्रि­या­प्र­यो­ज­को­द­क­त्वा­दि­जा­त्य­भा­वा­देव तदप्रसङ्गात् । ‘तत्रा­प्यु­द­क­त्वा­दि­जा­ति­रस्ति, अन्यथा तद्वै­शि­ष्ट्यो­ल्ले­खि­भ्र­म­वि­रो­धात् उद­का­द्य­र्थि­न­स्तत्र प्रवृ­त्त्य­भा­व­प्र­स­ङ्गाच्च’ इति प्रातिभासिके पूर्व­दृ­ष्ट­स­जा­ती­य­त्व­व्य­व­हा­रा­नु­रो­धिनां मते क्वचि­द­धि­ष्ठा­न­वि­शे­ष­ज्ञाने समू­हा­ध्या­स­ना­शात् क्वचि­द­धि­ष्ठा­न­सा­मा­न्य­ज्ञा­नो­प­र­मेण केव­ला­ध्या­स­ना­शात् क्वचित् गुञ्जापुञ्जादौ चक्षुषा वह्न्या­द्य­ध्या­स­स्थले दाह­पा­का­दि­प्र­यो­ज­क­स्यो­ष्ण­स्प­र्शा­दे­र­न­ध्या­साच्च तत्र­त­त्रा­र्थ­क्रि­याऽ­भा­वो­प­पत्तेः, क्वचित् कासा­ञ्चि­द­र्थ­क्रि­या­णा­मि­ष्य­मा­ण­त्वाच्च । मरी­चि­को­द­का­दि­व्या­व­र्त­क­स्या­र्थ­क्रि­यो­प­यो­गि­रू­पस्य वक्तव्यत्वे च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्ग्रहं त्रिका­ला­बा­ध्यत्वं विहाय दोष­वि­शे­षा­ज­न्य­र­ज­त­त्वा­दे­रेव रज­ता­द्यु­चि­ता­र्थ­क्रि­यो­प­यो­गि­रू­पस्य वक्तुं शक्यत्वाच्च । तस्मात् मिथ्या­त्वेऽ­प्य­र्थ­क्रि­या­का­रि­त्व­स­म्भ­वात् मिथ्यैव प्रपञ्चः,न सत्यः - इति ।

प्रप­ञ्च­मि­थ्या­त्वस्य मिथ्या­त्व­नि­रू­प­णम्

ननु - मिथ्यात्वस्य प्रपञ्चधर्मस्य सत्यत्वे ब्रह्मा­द्वै­त­क्षतेः तदपि मिथ्यैव वक्तव्यमिति कुतः प्रपञ्चस्य सत्यत्वक्षतिः । ‘मिथ्याभूतं ब्रह्मणः सप्रपञ्चत्वं न निष्प्र­प­ञ्च­त्व­वि­रोधि’ इति त्वदुक्तरीत्या मिथ्या­भू­त­मि­थ्या­त्वस्य सत्य­त्वा­वि­रो­धात् ।

अत्रो­क्त­म­द्वै­त­दी­पि­कायां−

विय­दा­दि­प्र­प­ञ्च­स­मा­न­स्व­भावं मिथ्यात्वम् । तच्च धर्मिणः सत्य­त्व­प्र­ति­क्षे­प­कम् । धर्मस्य स्ववि­रु­द्ध­ध­र्म­प्र­ति­क्षे­प­कत्वे हि उभयवादिसिद्धं धर्मिसमसत्त्वं तन्त्रम् , न पारमार्थिकत्वम् । घट­त्वा­दि­प्र­ति­क्षे­पके पटत्वादौ अस्माकं पार­मा­र्थि­क­त्वा­स­म्प्र­ति­पत्तेः । ब्रह्मणः सप्रपञ्चत्वं न धर्मि­स­म­स­त्ता­क­मिति न निष्प्र­प­ञ्च­त्व­प्र­ति­क्षे­प­कम् । अत एव−मिथ्यात्वस्य व्यावहारिकत्वे तद्वि­रो­धि­नोऽ­प्रा­ति­भा­सि­कस्य प्रप­ञ्च­स­त्य­त्वस्य पारमार्थिकत्वं स्यादि­ति-नि­र­स्तम् । धर्मि­स­म­स­त्ता­कस्य मिथ्यात्वस्य व्यावहारिकत्वे धर्मिणोऽपि व्याव­हा­रि­क­त्व­नि­य­मात् ।

अथवा यो यस्य स्ववि­ष­य­सा­क्षा­त्का­रा­नि­वर्त्यो धर्मः स तत्र स्ववि­रु­द्ध­ध­र्म­प्र­ति­क्षे­पकः । शुक्तौ शुक्ति­ता­दात्म्यं तद्वि­ष­य­सा­क्षा­त्का­रा­नि­व­र्त्यम् अशु­क्ति­त्व­वि­रोधि, तत्रैव रजततादात्म्यं तन्निवर्त्यम् अरजतत्वाविरोधि इति व्यव­स्था­द­र्श­नात् । एवं च प्रप­ञ्च­मि­थ्यात्वं कल्पितमपि प्रप­ञ्च­सा­क्षा­त्का­रा­नि­व­र्त्य­मिति सत्य­त्व­प्र­ति­क्षे­प­क­मेव । ब्रह्मणः सप्रपञ्चत्वं तु ब्रह्म­सा­क्षा­त्का­र­नि­व­र्त्य­मिति न निष्प्र­प­ञ्च­त्व­प्र­ति­क्षे­प­क­मिति । एतेन - शब्दगम्यस्य ब्रह्मणः सत्यत्वे शब्दयोग्यतायाः शाब्द­धी­प्रा­मा­ण्यस्य च सत्यत्वं वक्तव्यम्‌ । प्राति­भा­सि­क­यो­ग्य­ता­वता अनाप्तवाक्येन व्याव­हा­रि­का­र्थस्य व्याव­हा­रि­क­यो­ग्य­ता­वता अग्नि­हो­त्रा­दि­वा­क्येन तात्त्वि­का­र्थस्य वा सिद्ध्यभावेन योग्य­ता­स­मा­न­स­त्ता­क­स्यैव शब्दार्थस्य सिद्धिनियमात् । अर्थ­बा­ध­रू­प­प्रा­मा­ण्य­स्या­स­त्यत्वे अर्थस्य सत्यत्वायोगाच्च । तथा च ब्रह्मा­ति­रि­क्त­स­त्य­व­स्तु­स­त्त्वेन द्वैता­व­श्य­म्भावे सति विय­दा­दि­प्र­प­ञ्चोऽपि सत्योऽ­स्त्वि­ति-नि­र­स्तम् ।

व्याव­हा­रि­क­स्या­र्थ­क्रि­या­का­रि­त्वस्य व्यव­स्था­पि­त­त्वेन व्याव­हा­रि­क­यो­ग्य­ताया अपि सत्य­ब्र­ह्म­सि­द्धि­स­म्भ­वात् । ब्रह्मपरे वेदान्ते सत्या­दि­प­द­स­त्त्वात् ब्रह्म­स­त्य­त्व­सिद्धेः । अग्नि­हो­त्रा­दि­वाक्ये तादृशपदाभावात् तत्सत्त्वेऽपि प्रब­ल­ब्र­ह्मा­द्वै­त­श्रु­ति­वि­रो­धात् तदसिद्धिः इत्येव वैषम्योपपत्तेः । शब्दा­र्थ­यो­ग्य­तयोः समा­न­स­त्ता­क­त्व­नि­य­मस्य निष्प्र­मा­ण­क­त्वात् , घट­ज्ञा­न­प्रा­मा­ण्यस्य अघटघटितत्ववत् सत्य­भू­त­ब्र­ह्म­ज्ञा­न­प्रा­मा­ण्य­स्यापि तद­ति­रि­क्त­घ­टि­त­त्वेन मिथ्या­त्वो­प­प­त्तेश्च ।

जीव­ब्र­ह्म­भे­द­नि­र­स­नम्

तस्मात् आर­म्भ­णा­धि­क­र­णो­क्त­न्या­येन कृत्स्नस्य विय­दा­दि­प्र­प­ञ्चस्य मिथ्यात्वं वज्रलेपायते ।

ऐकात्म्यवादे सुख­दुः­खा­दि­व्य­व­स्थो­प­पा­द­नम्

ननु – आर­म्भ­ण­श­ब्दा­दि­भि­र­चे­त­नस्य विय­दा­दि­प्र­प­ञ्चस्य मिथ्या­त्व­सि­द्धा­वपि चेत­ना­ना­म­प­व­र्ग­भाजां मिथ्या­त्वा­यो­गात् अद्वितीये ब्रह्मणि समन्वयो न युक्तः । न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः । परस्परभिन्नानां तेषाम् एकेन ब्रह्म­णाऽ­भे­दा­स­म्भ­वात् । न च तद्भेदासिद्धिः । सुख­दुः­खा­दि­व्य­व­स्थया तत्सिद्धेः−इति चेत् ,

न−तेषामभेदेऽपि उपाधिभेदादेव तद्व्य­व­स्थो­प­पत्तेः ।

ननु उपाधिभेदेऽपि तदभेदानपायात् कथं व्यवस्था । न ह्याश्र­य­भे­दे­नो­प­पा­द­नीयः विरु­द्ध­ध­र्मा­स­ङ्करः तदतिरिक्तस्य कस्यचित् भेदोपगमेन सिद्ध्यति ।

अत्र केचि­दा­हुः−सि­ध्य­त्ये­वा­न्तः­क­र­णो­पा­धि­भे­देन सुख­दुः­खा­दि­व्य­वस्था । ‘कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽ­श्र­द्धा­धृ­ति­र­धृ­ति­र्ह्री­र्घी­र्भी­रि­त्ये­त­त्सर्वं मन एव’(बृ.उ. १ । ५ । ३) ‘विज्ञानं यज्ञं तनुते’(तै.उ. २ । ५ । १) इत्या­दि­श्रु­ति­भि­स्त­स्यैव निखि­ला­न­र्था­श्र­य­त्व­प्र­ति­पा­द­नात् । ‘असङ्गो ह्ययं पुरुषः’(बृ.उ. ४ । ३ । १५) , ‘असङ्गो न हि सज्जते’(बृ.उ. ४ । २ । ४) इत्या­दि­श्रु­तिभिः चेतनस्य सर्वात्मना औदा­सी­न्य­प्र­ति­पा­द­नाच्च । न चैवंसति कर्तृ­त्वा­दि­ब­न्धस्य चैत­न्य­सा­मा­ना­धि­क­र­ण्या­नु­भ­व­वि­रोधः । अन्तःकरणस्य चेत­न­ता­दा­त्म्ये­ना­ध्य­स्त­तया तद्धर्माणां चैत­न्य­सा­मा­ना­धि­क­र­ण्या­नु­भ­वो­प­पत्तेः । न चान्तःकरणस्य कर्तृ­त्वा­दि­ब­न्धा­श्र­यत्वे चेतनः संसारी न स्यादिति वाच्यम् । कर्तृ­त्वा­दि­ब­न्धा­श्र­या­ह­ङ्का­र­ग्र­न्थि­ता­दा­त्म्या­ध्या­सा­धि­ष्ठा­न­भाव एव तस्य संसार इत्युपगमात् । तावतैव भीष­ण­त्वा­श्र­य­स­र्प­ता­दा­त्म्या­ध्या­सा­धि­ष्ठाने रज्वादौ ‘अयं भीषणः’ इत्यभिमानवत् आत्म­नोऽ­न­र्था­श्र­य­त्वा­भि­मा­नो­प­पत्तेः । एतदभिप्रायेणैव ‘ध्यायतीव लेलायतीव’(बृ.उ. ४ । ३ । ७) ‘अह­ङ्का­र­वि­मू­ढात्मा कर्ताहमिति मन्यते’(भ.गी. ३ । २७) इत्या­दि­श्रु­ति­स्मृ­ति­द­र्श­नाच्च । न च एक­स्मि­न्ने­वा­त्मनि विचि­त्र­सु­ख­दुः­खा­श्र­य­त­त्त­द­न्तः­क­र­णा­ना­म­ध्या­सात् आत्म­न्या­भि­मा­नि­क­सु­ख­दुः­खा­दि­व्य­वस्था एवमपि न सिध्यतीति वाच्यम् । आध्या­सि­क­ता­दा­त्म्या­प­न्ना­न्तः­क­र­ण­ग­ता­न­र्थ­जा­त­स्येव तद्ग­त­प­र­स्प­र­भे­द­स्यापि अभिमानत आत्मीयतया आत्मनो यादृ­श­म­न­र्थ­भाक्त्वं तदृशेन भेदेन तद्व्य­व­स्थो­प­पत्तेः । एतेन सुख­दुः­खा­दी­ना­म­न्तः­क­र­ण­ध­र्म­त्वेऽपि तदनुभवः साक्षिरूप इति तस्यैकत्वात् सुख­दुः­खा­नु­भ­व­रू­प­भो­ग­व्य­वस्था न सिध्यतीति - निरस्तम् । तत्त­द­न्तः­क­र­ण­ता­दा­त्म्या­पत्त्या तत्त­द­न्तः­क­र­ण­भे­देन भेदवत एव साक्षिणः तत्त­द­न्तः­क­र­ण­सु­ख­दुः­खा­द्य­नु­भ­व­रू­प­त्वेन तद्व्यवस्थाया अप्युपपत्तेरिति ।

अन्ये तु−जडस्य कर्तृ­त्वा­दि­ब­न्धा­श्र­य­त्वा­नु­प­पत्तेः ‘कर्ता शास्त्रा­र्थ­व­त्त्वात्’(ब्र.सू. २ । ३ । ३३) इति चेतनस्यैव तदा­श्र­य­त्व­प्र­ति­पा­द­क­सू­त्रेण च अन्तःकरणे चिदाभासो बन्धाश्रयः, तस्य चासत्यस्य बिम्बा­द्भि­न्नस्य प्रत्यन्तःकरणं भेदात् विद्व­द­वि­द्व­त्सु­खि­दुः­खि­क­र्त्र­क­र्त्रा­दि­व्य­वस्था । न चैवमध्यस्तस्य बन्धाश्रयत्वे बन्ध­मो­क्ष­यो­र्वै­य­धि­क­र­ण्या­पत्तिः । अस्य चिदाभासस्य अन्तः­क­र­णा­व­च्छिन्ने स्वरू­प­त­स्स­त्य­तया मुक्त्यन्वयिनि पर­मा­र्थ­जी­वेऽ­ध्य­स्त­तया कर्तृ­त्वा­श्र­य­चि­दा­भा­स­ता­दा­त्म्या­ध्या­सा­धि­ष्ठा­न­भावः तस्य बन्ध इत्य­भ्यु­प­ग­मा­त्-इ­त्याहुः ।

अपरे तु ‘आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिणः’(क.उ. १ । ३ । ४) इति सहकारित्वेन देहेन्द्रियैः तादात्म्ये मनसा च युक्तस्य चेतनस्य भोक्तृ­त्व­श्र­व­णात् अन्तःकरणभेदेन तद्वि­शि­ष्ट­भे­दात् व्यवस्था । न चैवं विशिष्टस्य बन्धः शुद्धस्य मोक्ष इति वैयधिकरण्यम् । विशिष्टगतस्य बन्धस्य विशे­ष्येऽ­न­न्व­या­भा­वात् , विशि­ष्ट­स्या­न­ति­रे­कात् - इत्याहुः ।

इतरे तु−अस्तु केवलश्चेतनः कर्तृ­त्वा­दि­ब­न्धा­श्रयः । स्फाटि­क­लौ­हि­त्य­न्या­येन अन्तःकरणस्य तद्विशिष्टस्य वा कर्तृ­त्वा­द्या­श्र­यस्य सन्निधानात् चेतनेऽपि कर्तृ­त्वा­द्य­न्त­र­स्या­ध्या­सो­प­ग­मात् । न च तस्यै­क­त्वा­द्व्य­व­स्था­नु­प­पत्तिः । उपाधिभेदादेव तदुपपत्तेः । न चान्य­भे­दा­द­न्यत्र विरुद्धधर्माणां व्यवस्था न युज्यत इति वाच्यम् मूला­ग्र­रू­पो­पा­धि­भे­द­मा­त्रेण वृक्षे संयो­ग­त­द­भा­व­व्य­व­स्था­द­र्श­नात् , तत्त­त्पु­रु­ष­क­र्ण­पु­टो­पा­धि­भे­देन श्रोत्र­भा­व­मु­प­ग­त­स्या­का­शस्य तत्र तत्र शब्दो­प­ल­म्भ­क­त्वा­नु­प­ल­म्भ­क­त्व­ता­र­म­न्द्रे­ष्टा­नि­ष्ट­श­ब्दो­प­ल­म्भ­क­त्वा­दि­वै­चि­त्र्य­द­र्श­ना­च्च−इ­त्याहुः ।

एके तु - यद्या­श्र­य­भे­दा­देव विरु­द्ध­ध­र्म­व्य­व­स्थो­प­पा­द­न­नि­यमः, तदा चेतने निष्कृष्ट एव उपाधिवशात् भेदकल्पना अस्तु । अकल्पिताश्रयभेद एव व्यवस्थाप्रयोजक इति क्वाप्य­स­म्प्र­ति­पत्तेः, मणि­मु­कु­र­कृ­पा­णा­द्यु­पा­धि­क­ल्पि­तेन भेदेन मुखे श्यामा­व­दा­त­व­र्तु­ल­दी­र्घ­भा­वा­दि­ध­र्मा­णाम् अङ्गु­ल्यु­प­ष्ट­म्भो­पा­धि­क­ल्पि­तेन भेदेन दीपे पाश्चा­त्य­पौ­र­स्त्या­दि­ध­र्माणां च व्यव­स्था­स­म्प्र­ति­पत्तेः− इत्याहुः ।

उक्त­व्य­व­स्थो­प­पा­द­को­पा­धि­भे­द­वि­चारः

एव­मु­पा­धि­व­शा­द्व्य­व­स्थो­प­पा­दने सम्भाविते जीवानां पर­स्प­र­सु­खा­द्य­न­नु­स­न्धा­न­प्र­यो­जक उपाधिः क इति निरूपणीयम् ।

अत्र केचिदाहुः− भोगा­य­त­ना­भे­द­त­द्भेदौ अनु­स­न्धा­ना­न­नु­स­न्धा­न­प्र­यो­ज­को­पाधी । शरी­रा­व­च्छि­न्न­वे­द­नायाः तद­व­च्छि­न्ने­ना­नु­स­न्धा­नात् , चर­णा­व­च्छि­न्न­वे­द­नायाः हस्ता­व­च्छि­न्ने­ना­न­नु­स­न्धा­नाच्च । ‘हस्ता­व­च्छि­न्नोऽहं पादा­व­च्छि­न्न­वे­द­ना­म­नु­भ­वामि’ इत्यप्रत्ययात् । कथं तर्हि चर­ण­ल­ग्न­क­ण्ट­को­द्धा­राय हस्तव्यापारः । नायं हस्तव्यापारः हस्ता­व­च्छि­न्ना­नु­स­न्धा­नात् , किन्तु अव­य­वा­व­य­वि­नो­श्च­र­ण­श­री­र­यो­र्भे­दा­स­त्त्वेन चर­णा­व­च्छि­न्न­वे­दना शरी­रा­वा­च्छि­न्नेन ‘अहं चरणे वेदनावान्’ इत्यनुसन्धीयत इति तदनुसन्धानात् । एवं च चैत्र­मै­त्र­श­री­र­यो­र­भे­दा­भा­वात् चैत्र­श­री­रा­व­च्छि­न्न­वे­दना न मैत्र­श­री­रा­व­च्छि­न्ने­ना­नु­स­न्धी­यते, नाप्यु­भ­य­श­री­रा­नु­स्यू­ता­व­य­वा­न्त­रा­व­च्छिन्ने नानुसन्धीयते, उभ­या­नु­स्यू­त­स्या­व­विनो भोगा­य­त­न­स्यै­वा­भा­वात् इति न चैत्र­श­री­र­ल­ग्न­क­ण्ट­को­द्धा­राय मैत्र­श­री­र­व्या­पा­र­प्र­सङ्ग इति ।

अन्ये तु - विश्लि­ष्टो­पा­धि­भे­दोऽ­न­नु­स­न्धा­न­प्र­यो­जकः । तथ च हस्ता­व­च्छि­न्नस्य चर­णा­व­च्छि­न्न­वे­द­ना­नु­स­न्धा­ना­भ्यु­प­ग­मेऽपि न दोषः । न चैवंसति गर्भस्थस्य मातृ­सु­खा­नु­स­न्धा­न­प्र­सङ्गः । एक­स्मि­न्न­व­य­वि­न्य­व­य­व­भा­वे­ना­न­नु­प्र­वि­ष्टयोः विश्लिष्टशब्देन विवक्षितत्वात् , मातृ­ग­र्भ­श­री­र­यो­स्त­था­त्वात्− इत्याहुः ।

न च ‘उद्य­ता­यु­ध­दो­र्दण्डाः पति­त­स्व­शि­रोऽ­क्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीनिह ॥’ इति भार­तो­क्त्या­वि­श्ले­षेऽ­प्य­नु­स­न्धा­न­म­व­ग­त­मि­ति-वा­च्यम् । तत्रापि शिरः­क­ब­न्ध­यो­रे­क­स्मि­न्न­व­य­वि­न्य­व­य­व­भा­वे­ना­नु­प्र­वि­ष्ट­च­र­त्वात् , शिरच्छेदानन्तरं मूर्छा­म­र­ण­यो­र­न्य­त­रा­व­श्य­म्भा­वेन दृष्ट­वि­रु­द्धा­र्थस्य तादृशवचनस्य कैमुत्यन्यायेन योधो­त्सा­हा­ति­श­य­प्र­शं­सा­प­र­त्वात् , तदृ­क्प्र­भा­व­यु­क्त­पु­रु­ष­वि­शे­ष­वि­ष­य­त्वेन भूता­र्थ­वा­द­त्वेऽपि निरुक्तस्य उत्स­र्ग­तोऽ­न­नु­स­न्धा­न­त­न्त्र­त्वा­वि­घा­ताच्च । अत एव उक्त­व­क्ष्य­मा­ण­प­क्षेषु योगिनां जातिस्मराणां च शरी­रा­न्त­र­वृ­त्ता­न्ता­नु­स­न्धाने न दोषप्रसक्तिः ।

अपरे तु - शरीरैक्यभेदौ अनु­स­न्धा­न­त­द­भा­व­प्र­यो­ज­को­पाधी । बाल्य­भ­वा­न्त­रा­नु­भू­त­यो­र­नु­स­न्धा­न­त­द­भा­व­दृष्टेः । न च बाल्ययौवनयोरपि शरीरभेदः शङ्कनीयः । प्रत्य­भि­ज्ञा­नात् । न च परिमाणभेदेन तद्भेदावगमः । एकस्मिन् वृक्षे मूलाग्रभेदेनेव काल­भे­दे­नै­क­स्मि­न्न­ने­क­प­रि­मा­णा­न्व­यो­प­पत्तेः । ननु अवयवोपचयमन्तरेण न परिमाणभेदः, अवयवाश्च पश्चादापतन्तो न पूर्वसिद्धं शरीरं परियुज्यन्ते इति परिमाणभेदे शरीरभेद आवश्यकः − इति चेत् , न−प्रदी­पा­रो­प­ण­स­म­स­म­य­सौ­धो­द­र­व्या­पि­प्र­भा­म­ण्ड­ल­वि­का­स­त­त्पि­धा­न­स­म­स­म­य­त­त्स­ङ्को­चा­द्य­न­नु­रो­धिनः पर­मा­णु­प्र­क्रि­या­र­म्भ­वा­दस्य अनभ्युपगमात् । विवर्तवादे च ऐन्द्र­जा­लि­क­द­र्शि­त­श­री­र­वत् विनैवावयवोपाचयं मायया शरीरस्य वृद्ध्यु­प­पत्तेः− इत्याहुः ।

इतरे तु - अन्तः­क­र­णा­भे­द­त­द्भे­दा­भ्या­म­नु­स­न्धा­ना­न­नु­स­न्धा­न­व्य­व­स्था­माहुः । अयं च पक्षः प्रागुपपादितः ।

केचित्तु अज्ञानानि जीव­भे­दो­पा­धि­भू­तानि नानेति स्वीकृत्य तद्भे­दा­भे­दा­भ्याम् अनु­स­न्धा­ना­न­नु­स­न्धा­न­व्य­व­स्था­माहुः ।

अत्र केचित् ‘अंशो नानाव्यपदेशात्’(ब्र.सू. २ । ३ । ४३) इत्यधिकरणे ‘अदृ­ष्टा­नि­य­मात्’(ब्र.सू. २ । ३ । ५१) ‘अभि­स­न्ध्या­दि­ष्वपि चैवम्’(ब्र.सू. २ । ३ । ५२) ‘प्रदेशादिति चेन्ना­न्त­र्भा­वात्’(ब्र.सू. २ । ३ । ५३) इति सूत्र­त­द्ग­त­भा­ष्य­री­ति­म­नु­सृत्य एकस्मिन्नात्मनि उपाधिभेदेन व्यवस्थानुपगमे कण­भु­गा­दि­री­त्याऽऽ­त्म­भे­द­वा­देऽपि व्यव­स्था­नु­प­प­त्ति­तौ­ल्य­माहुः । तथा हि−चैत्र­च­र­ण­ल­ग्न­क­ण्ट­केन चैत्रस्य वेदनोत्पादनसमये अन्ये­षा­म­प्या­त्मनां कुतो वेदना न जायते । सर्वात्मनां सर्वगतत्वेन चैत्र­श­री­रा­न्त­र्भा­वा­वि­शे­षात् । न च − यस्य शरीरे कण्टकवेधादि तस्यैव वेदना, नान्ये­षा­मि­ति-व्य­वस्था । सर्वा­त्म­स­न्नि­धा­वु­त्प­द्य­मानं शरीरं कस्यचिदेव नान्येषामिति निय­न्तु­म­श­क्य­त्वात् । न च यद­दृ­ष्टो­त्पा­दितं यच्छरीरं तत्तदीयमिति नियमः । अदृष्टस्यापि नियमासिद्धेः । यदा हि तद­दृ­ष्टो­त्पा­द­नाय केनचिदात्मना संयुज्यते मनः, संयुज्यत एव तदा अन्यैरपि । कथं कारणसाधारण्ये क्वचिदेव तद­दृ­ष्ट­मु­त्प­द्येत ।ननु- मन­स्सं­यो­ग­मा­त्र­सा­धा­र­ण्येऽपि ‘अहमिदं फलं प्राप्नवानि’ इति अभिसन्धिः अदृ­ष्टो­त्पा­द­क­क­र्मा­नु­कू­ल­कृतिः इत्येवमादि व्यवस्थितमिति तत एवादृष्टनियमो भविष्यति इति चेत् , न−अभि­स­न्ध्या­दी­ना­मपि साधा­र­ण­म­न­स्सं­यो­गा­दि­नि­ष्पा­द्य­तया व्यव­स्थि­त्य­सिद्धेः । ननु स्वकी­य­म­न­स्सं­यो­गोऽ­भि­स­न्ध्या­दि­का­र­ण­मिति मनस्संयोग एवासाधारणो भविष्यतीति, न -नित्यं सर्वा­त्म­सं­युक्तं मनः कस्यचिदेव स्वम् इति निय­न्तु­म­श­क्य­त्वात्‌ । न च अदृष्टविशेषात् आत्मविशेषाणां मनसः स्वस्वा­मि­भा­व­सिद्धिः । तस्या­प्य­दृ­ष्टस्य पूर्व­व­द्व्य­व­स्थि­त्य­सिद्धेः । नन्वात्मनां विभुत्वेऽपि तेषां प्रदेशविशेषा एव बन्धभाज इति आत्मान्तराणां चैत्रशरीरे तत्प्र­दे­श­वि­शे­षा­भा­वात् सुख­दुः­खा­दि­व्य­वस्था भविष्यतीति, न−यस्मिन् प्रदेशे चैत्रः सुखाद्यनुभूय तस्मा­त्प्र­दे­शा­द­प­क्रान्तः तस्मिन्नेव मैत्रे समागते तस्यापि तत्र सुख­दुः­खा­दि­द­र्श­नेन शरीरान्तरे आत्मा­न्त­र­प्र­दे­श­वि­शे­ष­स्या­प्य­न्त­र्भा­वात् ।

तस्मात् आत्मभेदेऽपि व्यवस्था दुरुपपादैव । कथ­ञ्चि­त्त­दु­प­पा­दने च श्रुत्य­नु­रो­धा­ल्ला­घ­वाच्च आत्मै­क्य­म­ङ्गी­कृत्य तत्रैव तदुपपादनं कर्तुं युक्तमिति ।

सन्तु तर्ह्यणव एवात्मानः, यदि विभुत्वे व्यवस्था न सुवचा । मैवम्− आत्मनामणुत्वे कदाचित् सर्वा­ङ्गी­ण­सु­खो­द­यस्य कर­शि­र­श्च­र­णा­धि­ष्ठा­नस्य चानुपपत्तेः ।

यद­त्रा­र्वा­ची­न­क­ल्प­न­म्-उ­त्क्रा­न्ति­ग­त्या­ग­ति­श्र­व­णा­न्य­था­नु­प­पत्त्या ‘अणुर्ह्येवैष आत्मा यं वा एते सिनीतः पुण्यं च पापं च’ ‘वाला­ग्र­श­त­भा­गस्य’(श्वे.उ. ५ । ९) इत्यादिश्रुतिषु साक्षा­द­णु­त्व­श्र­व­णेन च अणव एव जीवाः । तेषामणुत्वेऽपि ज्ञानसुखादीनां प्रदी­प­प्र­भा­न्या­येन आश्र­या­ति­रि­क्त­प्र­दे­श­वि­शे­ष­व्या­पि­गु­ण­तया न सर्वा­ङ्गी­ण­सु­खा­नु­प­लब्धिः, ‘द्रोणं बृह­स्प­ते­र्भा­गम्’ इत्या­दि­स्मृ­त्य­नु­रो­धेन जीवा­ना­मं­श­स­त्त्वात् कर­शि­र­श्च­र­णा­द्य­नु­ग­तेषु सुख­दुः­खा­दि­यौ­ग­पद्यं कायव्यूहगतेषु योगिनां भोगवैचित्र्यं चेति न काचिदनुपपत्तिः । एवं च जीवा­ना­म­णु­त्वे­ना­स­ङ्क­रात् सुख­दुः­खा­दि­व्य­वस्था विभोरीश्वरात् भेदश्च − इति ।

अत्रो­क्त­म­द्वै­त­दी­पि­का­याम् - एवमपि कथं व्यवस्थासिद्धिः । चैत्रस्य ‘पादे वेदना शिरसि सुखम्’ इति स्वांश­भे­द­ग­त­सु­ख­दुः­खा­नु­स­न्धा­न­वत् मैत्र­ग­त­सु­ख­दुः­खा­नु­स­न्धा­न­स्यापि दुर्वारत्वात् अविशेषो हि चैत्रजीवात् तदंशयोः मैत्रस्य च भेदः । कायव्यूहस्थले वियु­ज्या­न्य­त्र­प्र­स­र­ण­स­म­र्था­ना­मं­शानां जीवा­द्भे­दा­व­श्य­म्भा­वात् , अंशां­शि­नो­स्त्वया भेदा­भे­दा­भ्यु­प­ग­माच्च । न च शुद्ध­भे­दोऽ­न­नु­स­न्धा­न­प्र­यो­जक इति वाच्यम् । शुद्धत्वं हि भेदस्य अंशां­शि­भा­वा­स­ह­च­रि­तत्वं वा अभेदासहचरितत्वं वा स्यात् ? नाद्यः (‘अंशो ह्येष परमस्य‘) ‘ममैवांशो जीवलोके’(भ.गी. १५ । ७) ‘अंशो नानाव्यपदेशात्’(ब्र.सू. २ । ३ । ४३) इति श्रुति­स्मृ­ति­सू­त्रै­र्जी­वस्य ब्रह्मां­श­त्व­प्र­ति­पा­द­नेन ब्रह्म­जी­व­यो­र्भो­ग­सा­ङ्क­र्य­प्र­स­ङ्गात् । ननु - जीवांशानां जीवं प्रतीव जीवस्य ब्रह्म प्रति नांशत्वम् , किं तु ‘चन्द्रबिम्बस्य गुरुबिम्बः शतांशः’ इतिवत् सदृशत्वे सति ततो न्यून­त्व­मा­त्र­मौ­प­चा­रि­कां­श­त्व­मिति - चेत् , किं तदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रति, यद­त्रा­न­नु­स­न्धा­न­प्र­यो­ज­क­श­रीरे निवेश्यते ? न तावत् पटं प्रति तन्तू­ना­मि­वा­र­म्भ­क­त्वम् । जीव­स्या­ना­दि­त्वात् । नापि महाकाशं प्रति घटाकाशादीनामिव प्रदेशत्वम् , टङ्क­च्छि­न्न­पा­षा­ण­श­क­ला­दी­ना­मिव खण्डत्वं वा । अणुत्वेन निष्प्र­दे­श­त्वा­द­च्छे­द्य­त्वाच्च । भिन्ना­भि­न्न­द्र­व्य­त्व­मं­श­त्व­म­भि­म­त­मिति चेत् , न−तथा सति जीवे­श्व­र­यो­र्जी­वानां च भोग­सा­ङ्क­र्य­प्र­स­ङ्गात् । स्वतो भिन्नानां तेषां चेतनत्वादिना अभेदस्यापि त्वयाऽ­ङ्गी­का­रात् , समू­ह­स­मू­हि­नो­र्भे­दा­भे­द­वा­दि­न­स्तव मते एक­स­मू­हा­न्त­र्ग­त­जी­वानां पर­स्प­र­म­प्य­भे­द­स­त्त्वाच्च स्वाभि­न्न­स­मू­हा­भि­न्नेन स्वस्या­प्य­भे­दस्य दुर्वारत्वात् । ‘यदि संयोगादीनां जातेश्च अनेकाश्रितत्वं स्यात् , तदा गुण­गु­ण्या­दे­र­भे­दात् घटा­भि­न्न­सं­यो­गा­भि­न्न­प­टा­दे­रपि घटाभेदः प्रसज्येत’ इत्यादि वदता त्वया तद­भि­न्ना­भि­न्नस्य तद­भे­द­नि­य­मा­भ्यु­प­ग­मात् । न च जीवा­न्त­र­सा­धा­र­ण­चे­त­न­त्वा­दि­ध­र्मै­क­रू­प्यै­क­स­मू­हा­न्त­र्ग­त­त्वा­दि­प्र­यु­क्ता­भे­द­वि­ल­क्ष­ण­म­भे­दा­न्त­र­मं­शां­शि­नो­रस्ति भेदेऽ­प्य­नु­स­न्धा­न­प्र­यो­ज­कम् , यद­त्रा­न­ति­प्र­स­ङ्गाय विवक्ष्येत । तथा सति तस्यैव विशिष्य निर्व­क्त­व्य­त्वा­पत्तेः । धर्मै­क­रू­प्या­द्य­प्र­यु­क्त­त्व­मं­शां­शि­नो­र­भेदे विशेष इति चेत् , न - जीव­त­दं­श­यो­श्चे­त­न­त्वा­दि­ध­र्मै­क­रू­प्य­स­त्त्वेन एकशरीरावच्छेदे कायव्यूहमेलने च समूहत्वेन च तयोरभेदे धर्मै­क­रू­प्या­दि­प्र­यु­क्त­त्व­स्यापि सद्भावात् । धर्मै­क­रू­प्या­दि­प्र­यु­क्ता­भे­दा­न्त­र­स­त्त्वेऽपि जीव­त­दं­श­यो­रं­शां­शि­भा­व­प्र­यो­ज­का­भेदो न तत्प्रयुक्त इति चेत् , न−तयो­र­भे­द­द्व­या­भा­वात् , त्वन्म­तेऽ­धि­क­र­णैक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वा अने­क­त्वा­न­भ्यु­प­ग­मात् , तस्मादाद्यपक्षे सुस्थोऽ­ति­प्र­सङ्गः । एतेनैव द्वितीयपक्षोऽपि निरस्तः । अभे­दा­स­ह­च­रि­त­भे­द­स्या­न­नु­स­न्धा­न­प्र­यो­ज­कत्वे उक्तरीत्या त्वन्मते जीव­ब्र­ह्म­णो­र्जी­वानां चाभेदस्यापि सत्त्वे­ना­ति­प्र­स­ङ्गस्य दुर्वारत्त्वात् । ननु - अभे­द­प्र­त्य­क्ष­म­नु­स­न्धाने तन्त्रमिति तद­भा­वेऽ­न­नु­स­न्धा­नम् , स्वस्य स्वाभेदः स्वांशाभेदश्च प्रत्यक्ष इति तद्द्र­ष्टु­र्दुः­खा­द्य­नु­स­न्धा­नम् , जीवा­न्त­रे­णा­भे­द­स­त्त्वेऽपि तस्या­प्र­त्य­क्ष­त्वात् न तद्दुः­खा­द्य­नु­स­न्धा­नम् ; जातिस्मरस्य प्राग्भा­वी­या­त्म­नापि अभेदस्य प्रत्य­क्ष­स­त्त्वात् तद्वृ­त्ता­न्ता­नु­स­न्धा­नम् , अन्येषां तदभावात् न; इत्यादि सर्वं सङ्गच्छते−इति चेत् , तर्ह्यै­का­त्म्य­वा­देऽपि सर्वा­त्म­ता­वा­र­का­ज्ञा­ना­व­र­णात् चैत्रस्य न मैत्रा­त्मा­द्य­भे­द­प्र­त्य­क्ष­मिति तत एव सर्व­व्य­व­स्थो­प­पत्तेः व्यर्थः श्रुतिविरुद्ध आत्म­भे­दा­भ्यु­प­गमः । न चेत्थमपि प्रप­ञ्च­त­त्त्व­वा­दि­न­स्तव व्यव­स्था­नि­र्वाहः । सर्व­ज्ञ­स्ये­श्व­रस्य वस्तु­स­ज्जी­वा­न्त­रा­भे­द­प्र­त्य­क्षा­व­श्य­म्भा­वेन जीवेषु दुःखिषु ‘अहं दुःखी’ इत्यनुभवापत्तेः । अस्मन्मते तु ईश्वरः स्वाभिन्ने जीवे संसारं प्रतिबिम्बमुखे मालिन्यमिव पश्यन्नपि मिथ्या­त्व­नि­श्च­यात् न शोचतीति नैष प्रसङ्गः ।

स्यादेतत् - माभूदंशभेदः । कर­शि­र­श्च­र­णा­दीनां कायव्यूहस्य च अधिष्ठानम् , आत्म­दी­प­स्या­न­पा­यिनी ज्ञानप्रभाऽस्ति व्यापिनीति सैव सर्वाधिष्ठानं भविष्यतीति चेत् , न−ज्ञान­व­दा­त्म­ध­र्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्य उत्प­त्त्य­स­म्भ­वेन कर­च­र­णा­द्य­व­य­व­भे­देन अवयविनः, कायव्यूहवतः कायभेदेन च भोग­वै­चि­त्र्या­भा­व­प्र­स­ङ्गात् । ‘सुखदुःखभोगादि ज्ञानधर्म एव नात्मधर्मः’ इत्यभ्युपगमे तद्वैचित्र्येण आत्मगुणस्य ज्ञानस्य भेदसिद्धावपि आत्मनो भेदासिद्ध्या भोग­वै­चि­त्र्या­दिना आत्मा­भे­द­प्र­ति­क्षे­पा­यो­गात् । ‘भोगा­द्या­श्र­य­स्या­त्म­नोऽ­णु­त्वेन प्रतिशरीरं विच्छिन्नतया तद्व्यापित्ववाद इव तदभेदवाद इव च न सर्व­ध­र्म­स­ङ्क­रा­पत्तिः’ इति मतहानेश्च ।

तस्मा­ज्जी­व­स्या­णु­त्वो­प­ग­मेन व्यवस्थोपपादनं न युक्तमिति ।

नापि तेन तस्य ईश्वरात् भेदसाधनं युक्तम् । ‘उत्क्रा­न्त्या­दि­श्र­व­णात् साक्षा­द­णु­त्व­श्र­व­णाच्च अणुर्जीवः’ इति वदतः तव मते ‘तत्सृष्ट्वा । तदे­वा­नु­प्रा­वि­शत् ।’(तै.उ. २ । ६ । १) ‘अन्तः­प्र­वि­ष्ट­श्शास्ता जनानाम्’(तै.आ. ३ । ११) ‘गुहां प्रविष्टौ परमे परार्धे’(क.उ. १ । ३ । १) इत्यादिश्रुतिषु प्रवे­शा­दि­श्र­व­णात् ‘स य एषोऽणिमा’(छा.उ. ६ । ८ । ७) ‘एष म आत्माऽ­न्त­र्हृ­द­येऽ­णी­या­न्व्री­हेर्वा यवाद्वा’(छा.उ. ३ । १४ । ३) इति श्रुतौ साक्षा­द­णु­त्व­श्र­व­णाच्च परोऽप्यणुरेव सिध्येदिति कुतः पर­जी­व­यो­र्वि­भु­त्वा­णु­त्वाभ्यां भेदसिद्धिः । ननु − ‘आकाशवत् सर्वगतश्च नित्यः’(शत.ब्रा. १० । ६ । ३ । २) ‘ज्याया­न­न्त­रि­क्षात् ज्यायान्दिवः’(छा.उ. ३ । १४ । ३) इत्यादिश्रवणात् सर्व­प्र­प­ञ्चो­पा­दा­न­त्वाच्च परस्य सर्व­ग­त­त्व­सिद्धेः तदणुत्वश्रुतयः उपासनार्था दुर्ग्र­ह­त्वा­भि­प्राया वा उन्नेयाः । प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः न च जीवो­त्क्रा­न्त्या­दि­श्रु­त­योऽपि बुद्ध्या­द्यु­पा­धिना निर्वोढुं शक्या इति शङ्क्यम् । ‘तमुत्क्रामन्तं प्राणोऽ­नू­त्क्रा­मति’(बृ.उ. ४ । ४ । २) इति प्राणा­ख्य­बु­द्ध्यु­त्क्रान्तेः प्रागेव जीवो­त्क्रा­न्ति­व­च­नात् । ‘तथा विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः परात्परं पुरुषमुपैति दिव्यम्’(मु.उ. ३ । २ । ८) इति नाम­रू­प­वि­मो­क्षा­न­न्त­र­मपि गतिश्रवणाच्च । ‘तद्या­थाऽ­न­स्सु­स­मा­हि­त­मु­त्स­र्ज­न्या­या­दे­व­मे­वायं शारीर आत्मा प्राज्ञे­ना­त्म­नाऽ­न्वा­रूढ उत्सर्जन् याति’(बृ.उ. ४ । ३ । ३५) इति स्वाभा­वि­क­ग­त्या­श्र­य­श­क­ट­दृ­ष्टा­न्तो­क्तेश्च - इति चेत् , नैतत्सारम्− ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः’(बृ.उ. ४ । ४ । २२) ‘घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः’ । (अमृतबि-१३) इत्यादिश्रुतिषु जीवस्यापि विभुत्वश्रवणात् । त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जग­दु­पा­दा­न­त्वा­भा­वात् जीवस्य काय­व्यू­ह­ग­त­वि­चि­त्र­सु­ख­दुः­खो­पा­दा­न­त्व­वत् अणुत्वेऽपि जग­दु­पा­दा­न­त्व­स­म्भ­वाच्च, ततस्तस्य सर्व­ग­त­त्वा­सिद्धेः । तत्प्र­वे­श­श्रु­तीनां शरी­रो­पा­धि­क­त्व­क­ल्पने जीवो­त्क्रा­न्त्या­दि­श्रु­ती­ना­मपि बुद्ध्यु­पा­धि­क­त्वो­प­ग­म­स­म्भ­वात् ।

‘पञ्च­वृ­त्ति­र्म­नो­व­द्व्य­प­दि­श्यते’(ब्र.सू. २ । ४ । १२) इति सूत्रभाष्ये बुद्धिप्राणयोः कार्य­भे­दा­द्भे­दस्य प्रतिपादितत्वेन बुद्ध्युपाधिके जीवे प्रथ­म­मु­त्क्रा­मति प्राण­स्या­नू­त्क्र­म­णो­प­पत्तेः । नाम­रू­प­वि­मो­क्षा­न­न्तरं ब्रह्म­प्रा­प्ति­श्र­व­णस्य प्राप्तरि जीव इव प्राप्तव्ये ब्रह्मण्यपि विभु­त्व­वि­रो­धि­त्वात् , प्राकृ­त­ना­म­रू­प­वि­मो­क्षा­न­न्त­र­मपि अप्रा­कृ­त­लो­क­वि­ग्र­हा­द्यु­प­धा­नेन ब्रह्मणः प्राप्त­व्य­त्व­वा­दि­मते प्राप्तु­र्जी­व­स्यापि अप्रा­कृ­त­दे­हे­न्द्रि­या­दि­स­त्त्वेन तदुपधानेन ब्रह्म­प्रा­प्ति­श्र­व­णा­वि­रो­धात् , स्वाभा­वि­क­ग­त्या­श्र­य­श­क­ट­दृ­ष्टा­न्त­श्र­व­ण­मा­त्रात् जीवस्य स्वाभा­वि­क­ग­ति­सिद्धौ ‘गुहां प्रविष्टौ’ इति स्वाभा­वि­क­प्र­वे­शा­श्र­य­जी­व­स­म­भि­व्या­हा­रेण ब्रह्मणोऽपि स्वाभा­वि­क­प्र­वे­श­सि­द्ध्य­व­श्य­म्भा­वात् , ब्रह्म­जी­वो­भ­या­न्व­यिन एकस्य प्रविष्टपदस्य एक­रू­प­प्र­वे­श­प­र­त्वस्य वक्तव्यत्वात् । तस्मात् परमते ब्रह्म­जी­व­यो­र्वि­भु­त्वा­णु­त्व­व्य­व­स्थि­त्य­सिद्धेः ततो भेद­सि­द्धि­प्र­त्याशा दूरादपनेया । अस्मन्मते ब्रह्मा­त्मै­क्य­प­र­म­हा­वा­क्या­नु­रो­धेन अवा­न्त­र­वा­क्यानां नेयत्वात् ‘स्वरूपेण जीवस्य विभुत्वम् औपाधिकरूपेण परिच्छेदः’ इत्यादिप्रकारेण जीव­ब्र­ह्म­भे­द­प्रा­प­क­श्रु­ती­ना­मु­प­पा­दनं भाष्यादिषु व्यक्तम् ।

तस्मात् अचेतनस्य प्रपञ्चस्य मिथ्यात्वात् चेतनप्रपञ्चस्य ब्रह्माभेदाच्च न वेदान्तानाम् अद्वितीये ब्रह्मणि विद्यैकप्राप्ये समन्वयस्य कश्चिद्विरोध इति ॥

॥ इति शास्त्र­सि­द्धा­न्त­ले­श­स­ङ्ग्रहे द्वितीयः परिच्छेदः ॥