अद्वैतशारदा

शास्त्रसिद्धान्तलेशसङ्ग्रहः

तृतीयपरिच्छेदः

मुक्ति­सा­ध­न­नि­रू­प­णम्

ननु - कथं विद्ययैव ब्रह्मप्राप्तिः । यावता कर्मणामपि तत्प्रा­प्ति­हे­तुत्वं स्मर्यते− ‘तत्प्रा­प्ति­हे­तु­र्वि­ज्ञानं कर्म चोक्तं माहामुने’(वि.पु. ६ । ५ । ६०) इति ।

सत्यम् । ‘नान्यः पन्था विद्यतेऽयनाय’(श्वे.उ. ३ । ८) इति श्रुतेः नित्य­सि­द्ध­ब्र­ह्मा­वाप्तौ कण्ठ­ग­त­वि­स्मृ­त­क­न­क­मा­ला­वा­प्ति­तु­ल्यायां विद्या­ति­रि­क्तस्य साध­न­त्वा­स­म्भ­वाच्च । ब्रह्मावाप्तौ परम्परया कर्मा­पे­क्षा­मा­त्र­परा तादृशी स्मृतिः ।

कर्मणां विवि­दि­षा­वि­द्या­फ­ल­क­त्व­वि­चारः

विवि­दि­षो­प­यो­गि­क­र्म­वि­वे­च­नम्

क्व तर्हि कर्मणामुपयोगः ।

अत्र भाम­ती­म­ता­नु­व­र्तिन आहुः - ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’(बृ.उ. ४ । ४ । २२) इति श्रुतेः विद्या­स­म्पा­द­न­द्वारा ब्रह्मा­वा­प्त्यु­पा­य­भू­तायां विवि­दि­षा­या­मु­प­योगः । नन्विष्यमाणायां विद्या­या­मे­वो­प­योगः किं न स्यात् ? न स्यात् – प्रत्ययार्थस्य प्राधान्यात् , ‘विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमदमादीनि, विवि­दि­षा­सं­यो­गात्तु बाह्यतराणि यज्ञादीनि’ इति सर्वा­पे­क्षा­धि­क­र­ण­भा­ष्याच्च । ननु – विविदिषार्थं यज्ञा­द्य­नु­ष्ठा­तु­र्वे­द­न­गो­च­रे­च्छा­वत्त्वे विविदिषायाः सिद्धत्वेन तदभावे वेद­नो­पा­य­वि­वि­दि­षायां कामनाऽसम्भवेन च विविदिषार्थं यज्ञा­द्य­नु­ष्ठा­ना­यो­गात् न यज्ञादीनां विविदिषायां विनियोगो युक्त इति चेत् , न – अन्नद्वेषेण कार्श्यं प्राप्तस्य तत्प­रि­हा­रा­या­न्न­वि­ष­यौ­न्मु­ख्य­ल­क्ष­णा­या­मि­च्छायां सत्यामपि उत्क­टा­जी­र्णा­दि­प्र­यु­क्त­धा­तु­वै­ष­म्य­दो­षात् तत्र प्रवृ­त्ति­प­र्यन्ता रुचिर्न जायत इति तद्रो­च­कौ­ष­ध­वि­धि­वत् ‘निर­ति­श­या­न­न्द­रूपं ब्रह्म, तत्प्राप्तौ विद्या साधनम्’ इत्यर्थे प्राची­न­ब­हु­ज­न्मा­नु­ष्ठि­ता­न­भि­सं­हि­त­फ­ल­क­नि­त्य­नै­मि­त्ति­क­क­र्मो­प­स­ञ्जा­त­चि­त्त­प्र­सा­द­म­हि­म्ना­स­म्प­न्न­वि­श्वा­सस्य पुरुषस्य ब्रह्मावाप्तौ विद्यायां च तदौ­न्मु­ख्य­ल­क्ष­णा­या­मि­च्छायां सत्यामपि अना­दि­भ­व­स­ञ्चि­ता­ने­क­दु­रि­त­दो­षेण आस्तिककामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं सम्पादयता प्रतिबन्धात् विद्यासाधने श्रवणादौ प्रवृ­त्ति­प­र्यन्ता रुचिर्न जायत इति प्रति­ब­न्ध­नि­रा­स­पू­र्वकं तत्स­म्पा­द­क­य­ज्ञा­दि­वि­धा­नो­प­पत्तेः – इति ।

विव­र­णा­नु­सा­रि­ण­स्त्वाहुः – ‘प्रकृ­ति­प्र­त्य­या­र्थयोः प्रत्ययार्थस्य प्राधान्यम्’ इति सामान्यन्यायात् ‘इच्छाविषयतया शब्दबोध्य एव शाब्द­सा­ध­न­ताऽ­न्वयः’ इति स्वर्ग­का­मा­दि­वाक्ये क्लृप्त­वि­शे­ष­न्या­यस्य बलवत्त्वात् । ‘अश्वेन जिगमिषति’ ‘असिना जिघांसति’ इत्या­दि­लौ­कि­क­प्र­योगे अश्वा­दि­रू­प­सा­ध­नस्य ‘तदन्वेष्टव्यं तद्वाव विजि­ज्ञा­सि­त­व्यम्’(छा.उ. ८ । १ । १) ‘मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ.उ. २ । ४ । ५) इत्या­दि­वै­दि­क­प्र­योगे तव्या­र्थ­भू­त­वि­धेश्च सन्प्र­त्य­या­भि­हि­ते­च्छा­वि­षय एव गमनादौ अन्वयस्य व्युत्प­न्न­त्वाच्च प्रकृ­त्य­भि­हि­तायां विद्यायां यज्ञादीनां विनियोगः । ननु तथा सति यावद्विद्योदयं कर्मा­नु­ष्ठा­ना­पत्त्या ‘त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक् परं पदम्’ इत्या­दि­श्रु­ति­सिद्धा कर्मत्यागरूपस्य सन्न्यासस्य विद्यार्थता पीड्येतेति चेत् , न – प्राग् बीजावापात् कर्षणं तद­न­न्त­र­म­क­र्ष­ण­मिति कर्ष­णा­क­र्ष­णाभ्यां व्रीह्या­दि­नि­ष्प­त्ति­वत् ‘आरु­रु­क्षो­र्मु­ने­र्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥’(भ.गी. ६ । ३) इत्या­दि­व­च­ना­नु­सा­रेण चेतसश्शुद्धौ विवि­दि­षा­दि­रू­प­प्र­त्य­क्प्रा­व­ण्यो­द­य­प­र्यन्तं कर्मानुष्ठानं ततः सन्न्यासः इति कर्म­त­त्स­न्न्या­साभ्यां विद्या­नि­ष्प­त्त्य­भ्यु­प­ग­मात् । उक्तं हि नैष्क­र्म्य­सिद्धौ – ‘प्रत्य­क्प्र­व­णतां बुद्धेः कर्मा­ण्यु­त्पाद्य शुद्धितः । कृता­र्था­न्य­स्त­मा­यान्ति प्रावृडन्ते घना इव ॥’(१ । ४९) इति ।

कर्मणां विद्या­र्थ­त्व­प­क्षेऽपि विवि­दि­षा­प­र्य­न्त­मेव कर्मानुष्ठाने विवि­दि­षा­र्थ­त्व­प­क्षात् को भेद इति चेत् , अयं भेदः – कर्मणां विद्या­र्थ­त्व­पक्षे द्वार­भू­त­वि­वि­दि­षा­सि­द्ध्य­न­न्त­र­मु­प­र­ता­वपि फलपर्यन्तानि विशि­ष्ट­गु­रु­ला­भा­न्नि­र्वि­घ्न­श्र­व­ण­म­न­ना­दि­सा­ध­नानि निवृ­त्ति­प्र­मु­खानि सम्पाद्य विद्यो­त्पा­द­क­त्व­नि­य­मोऽस्ति । विवि­दि­षा­र्थ­त्व­पक्षे तु श्रव­णा­दि­प्र­वृ­त्ति­ज­न­न­स­म­र्थो­त्क­टे­च्छा­स­म्पा­द­न­मा­त्रेण कृतार्थतेति नावश्यं विद्यो­त्पा­द­क­त्व­नि­यमः । ‘यस्यैते चत्वारिंशत् संस्काराः’(गौ.ध.सू. १ । ८ । २५) इति स्मृतिमूले कर्म­णा­मा­त्म­ज्ञा­न­यो­ग्य­ता­पा­द­क­म­ला­प­क­र्ष­ण­गु­णा­धा­न­ल­क्ष­ण­सं­स्का­रा­र्थ­त्व­पक्ष इव - इति वदन्ति ॥

विद्यो­प­यो­गि­क­र्म­वि­वे­च­नम्

ननु केषां कर्मणाम् उदाहृतश्रुत्या विनियोगो बोध्यते ।

अत्र कैश्चत् उक्तं−’वे­दा­नु­व­च­तेन’ इति ब्रह्म­चा­रि­ध­र्माणां ‘यज्ञेन दानेन’ इति गृहस्थधर्माणां च ‘तपसाऽनाशकेन’ इति वान­प्र­स्थ­ध­र्माणां च उपलक्षणम् इत्या­श्र­म­ध­र्मा­णा­मेव विद्योपयोगः । अत एव ‘विहि­त­त्वा­च्चा­श्र­म­क­र्मापि’(ब्र.सू. ३ । ४ । ३२) इति शारीरकसूत्रे विद्या­र्थ­क­र्म­स्वा­श्र­म­क­र्म­प­द­प्र­योगः - इति ।

कल्पतरौ तु − नाश्र­म­ध­र्मा­णा­मेव विद्योपयोगः, ‘अन्तरा चापि तु तद्दृष्टेः’(ब्र.सू. ३ । ४ । ३६) इत्यधिकरणे अना­श्र­मि­वि­धु­रा­द्य­नु­ष्ठि­त­क­र्म­णा­मपि विद्यो­प­यो­ग­नि­रू­प­णात् । न च −विधु­रा­दी­ना­म­ना­श्र­मिणां प्राग्ज­न्मा­नु­ष्ठि­त­य­ज्ञा­द्यु­त्पा­दि­त­वि­वि­दि­षाणां विद्या­सा­ध­न­श्र­व­णा­दा­व­धि­का­र­नि­रू­प­ण­मा­त्र­परं तदधिकरणम् , न तु तद­नु­ष्ठि­त­क­र्मणां विद्यो­प­यो­ग­नि­रू­प­ण­प­र­मि­ति−श­ङ्क्यम् । ‘विशे­षा­नु­ग्र­हश्च’(ब्र.सू. ३ । ४ । ३८) इति तद­धि­क­र­ण­सू­त्र­त­द्भा­ष्ययोः तदनुष्ठितानां जपा­दि­रू­प­व­र्ण­मा­त्र­ध­र्मा­णा­मपि विद्योपयोगस्य कण्ठत उक्तेः । ‘विहि­त­त्वा­च्चा­श्र­म­क­र्मापि’ इति सूत्रे आश्रमकर्मपदस्य वर्ण­ध­र्मा­णा­म­प्यु­प­ल­क्ष­ण­त्वात् इत्य­भि­प्रा­ये­ण−उ­क्तम् । आश्र­म­ध­र्म­व्य­ति­रि­क्ता­ना­म­प्यस्ति विद्योपयोगः, किं तु नित्यानामेव । तेषां हि फलं दुरितक्षयं विद्या अपेक्षते, न काम्यानां फलं स्वर्गादि । तत्र यथा प्रकृतौ क्लृप्तो­प­का­रा­णा­म­ङ्गा­ना­म­ति­देशे सति न प्राकृ­तो­प­का­रा­ति­रि­क्तो­प­का­र­क­ल्प­नम् , एवं ज्ञाने विनियुक्तानां यज्ञादीनां नित्य­क्लृ­प्त­फ­ल­पा­प­क्ष­या­ति­रे­केण न नित्य­का­म्य­सा­धा­र­ण­वि­द्यो­प­यो­ग्यु­प­का­र­क­ल्प­न­मिति ।

सङ्क्षेपशरीरके तु नित्यानां काम्यानां च कर्मणां विनियोग उक्तः । यज्ञा­दि­श­ब्दा­वि­शे­षात् । प्रकृतौ क्लृप्तो­प­का­राणां पदार्थानां क्लृप्त­प्रा­कृ­तो­प­का­रा­ति­दे­श­मु­खे­नैव विकृ­ति­ष्व­ति­दे­शेन सम्बन्धः, न तु पदा­र्था­ना­म­ति­दे­शा­न­न्त­र­मु­प­का­र­क­ल्पना, इति न तत्र प्राकृ­तो­प­का­रा­ति­रि­क्तो­प­का­र­क­ल्प­ना­प्र­सक्तिः । इह तु प्रत्य­क्ष­श्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनाम् उप­दि­ष्टा­ना­म­ङ्गा­ना­मिव पश्चात्कल्पनीय उपकारः प्रथ­मा­व­ग­त­वि­नि­यो­ग­नि­र्वा­हाय अक्लृप्तोऽपि सामा­न्य­श­ब्दो­पा­त्त­स­क­ल­नि­त्य­का­म्य­सा­धा­रणः कथं न कल्प्यः । अध्व­र­मी­मां­स­कै­रपि हि ‘उपकारमुखेन पदार्थान्वय एव क्लृप्तो­प­का­र­नि­यमः, पदा­र्था­न्व­या­न­न्त­रम् उपकारकल्पने तु अक्लृप्तोऽपि विनि­यु­क्त­प­दा­र्था­नु­गु­ण्येन उपकारः कल्पनीयः’ इति सम्प्रतिपद्यैव बाध­ल­क्ष­णा­र­म्भ­सि­द्ध्य­र्थम् उपकारमुखेन विकृतिषु प्राकृतान्वयो दशमाद्ये समर्थितः । किं च कॢप्तो­प­का­रा­ला­भात् नित्यानामेवायं विनियोग इत्यभ्युपगमे नित्येभ्यो दुरितक्षयस्य तस्माच्च ज्ञानोत्पत्तेः अन्यतः सिद्धौ व्यर्थोऽयं विनियोगः, अन्यतस्तदसिद्धौ ज्ञाना­पे­क्षि­तो­प­का­र­ज­न­कत्वं तेष्वकॢप्तमिति अविशेषात् नित्य­का­म्य­सा­धा­रणो विनियोगो दुर्वारः । ननु – नित्यानां दुरि­त­क्ष­य­मा­त्र­हे­तु­त्वस्य अन्यतः सिद्धावपि विशिष्य ज्ञानो­त्प­त्ति­प्र­ति­ब­न्ध­क­दु­रि­त­नि­ब­र्ह­कत्वं न सिद्धम् , किन्तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्या­नु­ष्ठा­नात् अवश्यं ज्ञानं भावति, इतरथा शुद्धिमात्रं न नियता ज्ञानोत्पत्तिः, इति सार्थकोऽयं विनियोग इति चेत् , तर्हि नित्यानामपि अक्लृप्तमेव ज्ञानो­त्प­त्ति­प्र­ति­ब­न्ध­क­दु­रि­त­नि­ब­र्ह­णत्वं, ज्ञान­सा­ध­न­वि­शि­ष्ट­गु­रु­ला­भ­श्र­व­ण­म­न­ना­दि­स­म्पा­द­का­पूर्वं च द्वारं कल्पनीयमिति अक्लृ­प्तो­प­का­र­क­ल्प­ना­वि­शे­षात् न सामा­न्य­श्रु­त्या­पा­दितो नित्य­का­म्य­सा­धा­रणो विनियोगो भञ्जनीय इति ।

विद्यार्थकर्मसु अधिकारिविचारः

ननु-एवमपि कथं ‘कर्मणैव हि संसि­द्धि­मा­स्थिता जनकादयः ।’(भ.गी. ३ । २०) इत्या­दि­स्म­र­ण­नि­र्वाहः । न च तस्य विद्या­र्थ­क­र्मा­नु­ष्ठा­न­प­र­त्वम् । विविदिषावाक्ये ब्राह्मणग्रहणेन ब्राह्मणानामेव विद्या­र्थ­क­र्म­ण्य­धि­का­र­प्र­तीतेः । अतो जन­का­द्य­नु­ष्ठि­त­क­र्मणां साक्षादेव मुक्त्युपयोगो वक्तव्यः, मैवम् - विविदिषावाक्ये ब्राह्म­ण­ग्र­ह­णस्य त्रैव­र्णि­को­प­ल­क्ष­ण­त्वात् । यथाहुः अत्रभवन्तो वार्तिककाराः ‘ब्राह्मणग्रहणं चात्र द्विजा­ना­मु­प­ल­क्ष­णम् । अवि­शि­ष्टा­धि­का­र­त्वात् सर्वे­षा­मा­त्म­बो­धने ॥’ (४ । ४ । १०२९) इति । न हि ‘विद्याकामो यज्ञा­दी­न­नु­ति­ष्ठेत्’ इति विपरिणमिते विद्या­का­मा­धि­का­र­विधौ ब्राह्म­ण­प­द­स्या­धि­का­रि­वि­शे­ष­स­म­र्प­कत्वं युज्यते । उद्देश्ये विशेषणायोगात् । नापि-‘राजा स्वाराज्यकामो राजसूयेन यजेत’ इति स्वारा­ज्य­का­मा­धि­कारे राजसूयविधौ ‘स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेत’ इति कर्तृतया यागविशेषणत्वेन विधेयस्य राज्ञः, राज­क­र्तृ­क­रा­ज­सू­यस्य अराज्ञा सम्पा­द­यि­तु­म­श­क्य­त्वात् अर्था­द­धि­का­रि­को­टि­नि­वे­श­वत् , इह यज्ञादिकर्तृतया विधेयस्य ब्राह्मणस्य अर्था­द­धि­का­रि­को­टि­नि­वेश इति युज्यते । ‘सर्वथापि त एवोभयलिङ्गात्’(ब्र.सू. ३ । ४ । ३४) इति सूत्रे, अन्यत्र विहितानामेव यज्ञादीनां विविदिषावाक्ये फल­वि­शे­ष­स­म्ब­न्ध­विधिः नापू­र्व­य­ज्ञा­दि­वि­धि­रिति व्यव­स्था­पि­त­त्वेन, प्राप्त­य­ज्ञा­द्य­नु­वा­देन एकस्मिन् वाक्ये कर्तृ­रू­प­गु­ण­विधिः फल­स­म्ब­न्ध­वि­धिश्च इत्यु­भ­य­वि­धा­ना­द्वा­क्य­भे­दा­पत्तेः । नापि-रा­ज­सू­य­वाक्ये राज्ञः कर्तृतया विधे­य­त्वा­भा­व­पक्षे राज­प­द­स­म­भि­व्या­हा­र­मा­त्रा­द्वि­शि­ष्ट­क­र्तृ­क­त्व­ला­भ­वत् , इह वाक्याभेदाय कर्तृतया ब्राह्म­णा­वि­धा­नेऽपि ब्राह्म­ण­प­द­स­म­भि­व्या­हा­र­मा­त्रेण ब्राह्म­ण­क­र्तृ­क­त्व­ला­भात् , तद­धि­का­र­प­र्य­व­सा­न­मि­त्यु­प­प­द्यते । अन्यत्र त्रैव­र्णि­का­धि­का­रि­क­त्वेन क्लृप्तानाम् इहापि त्रैव­र्णि­का­धि­का­रा­त्म­वि­द्या­र्थ­त्वेन विधीयमानानां यज्ञादीनां त्रैव­र्णि­का­धि­का­र­त्वस्य युक्ततया विधि­सं­स­र्ग­ही­न­ब्रा­ह्म­ण­प­द­स­म­भि­व्या­हा­र­मा­त्रा­द­धि­का­र­स­ङ्को­चा­स­म्भ­वेन ब्राह्मणपदस्य यथा­प्रा­प्त­वि­द्या­धि­का­रि­मा­त्रो­प­ल­क्ष­ण­त्वौ­चि­त्यात् ।

ननु विद्या­धि­का­रि­मा­त्रो­प­ल­क्ष­णत्वे शूद्रस्यापि विद्या­या­म­र्थि­त्वा­दि­स­म्भ­वेन तस्यापि विद्या­र्थ­क­र्मा­धि­का­र­प्र­सङ्ग इति चेत् , न – ‘अध्य­य­न­गृ­ही­त­स्वा­ध्या­य­ज­न्य­त­द­र्थ­ज्ञा­न­वत एव वैदि­के­ष्व­धि­कारः’(ब्र.सू. १ । ३ । ३४) इत्य­प­शू­द्रा­धि­क­रणे अध्य­य­न­वे­द­वा­क्य­श्र­व­णा­दि­वि­धु­रस्य शूद्रस्य विद्या­धि­का­र­नि­षे­धात् , ‘न शूद्राय मतिं दद्यात्’(म.नु. ४ । ८०) इति स्मृतेः आपाततोऽपि तस्य विद्या­म­हि­मा­व­ग­त्यु­पा­या­स­म्भ­वेन तद­र्थि­त्वा­नु­प­प­त्तेश्च, तस्य विद्या­या­म­न­धि­का­रा­दिति केचित् ।

अन्ये त्वाहुः – शूद्र­स्या­प्य­स्त्येव विद्या­र्थ­क­र्मा­धि­कारः, तस्य वेदा­नु­व­च­ना­ग्नि­हो­त्रा­द्य­स­म्भ­वेऽपि कण्ठो­क्त­स­र्व­व­र्णा­धि­का­र­श्री­प­ञ्चा­क्ष­र­म­न्त्र­रा­ज­वि­द्या­दि­ज­प­पा­प­क्ष­य­हे­तु­त­पो­दा­न­पा­क­य­ज्ञा­दि­स­म्भ­वात् ‘वेदानुवचनेन यज्ञेन दानेन’(बृ.उ. ४ । ४ । २२) इत्या­दि­पृ­थ­क्का­र­क­वि­भ­क्ति­श्रुतेः विधुरादीनां विद्या­र्थ­ज­प­दा­ना­दि­मा­त्रा­नु­ष्ठा­ना­नु­म­तेश्च वेदा­नु­व­च­ना­दि­स­मु­च्च­या­पे­क्ष­णात् । न च शूद्रस्य विद्या­या­म­र्थि­त्वा­स­म्भवः । ‘श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः ।’ इति इति­हा­स­पु­रा­ण­श्र­वणे चातु­र्व­र्ण्या­धि­का­र­स्म­र­णेन पुरा­णा­द्य­व­ग­त­वि­द्या­मा­हा­त्म्यस्य तस्यापि तद­र्थि­त्व­स­म्भ­वात् । ‘न शूद्राय मतिं दद्यात्’ इति स्मृतेश्च तद­नु­ष्ठा­ना­नु­प­यो­ग्य­ग्नि­हो­त्रा­दि­क­र्म­ज्ञा­न­दा­न­नि­षे­ध­प­र­त्वात् । अन्यथा तस्य स्वव­र्ण­ध­र्म­स्या­प्य­व­ग­त्यु­पा­या­स­म्भ­वेन ‘शूद्रश्चतुर्थो वर्ण एकजातिः’ ‘तस्यापि सत्य­म­क्रो­ध­श्शौ­चम्’ ‘आचमनार्थे पाणि­पा­द­प्र­क्षा­ल­न­मे­वैके’ ‘श्राद्धकर्म’ ‘भृत्यभरणम्’ ‘स्वदारतुष्टिः’ ‘परिचर्या चोत्तरेषाम्’(गौ.ध.सू. २ । १ । ५१-५७) इत्या­दि­त­द्ध­र्म­वि­भा­ज­क­व­च­ना­ना­म­न­नु­ष्ठा­न­ल­क्ष­णा­प्रा­मा­ण्या­पत्तेः । न चैवं सति अप­शू­द्रा­धि­क­र­णस्य निर्विषयत्वम् । तस्य ‘न शूद्रे पातकं किञ्चित् न च संस्कारमर्हति’(मनु. १० । १२६) इत्यादि स्मृतेः गुरू­प­स­द­ना­ख्य­वि­द्या­ङ्गो­प­न­य­न­सं­स्का­र­वि­धु­रस्य शूद्रस्य सगुणविद्यासु निर्गु­ण­वि­द्या­सा­ध­न­वे­दा­न्त­श्र­व­णा­दिषु च अधि­का­र­नि­षे­ध­प­र­त्वात् , निर्गु­ण­वि­द्यायां शूद्रस्यापि विष­य­सौ­न्द­र्य­प्र­यु­क्ता­र्थि­त्वस्य निषे­द्धु­म­श­क्य­त्वात् , अविधेयायां च तस्यां तद­ति­रि­क्ता­धि­का­रा­प्र­सक्त्या तन्नि­षे­धा­यो­गाच्च । न च तस्य वेदा­न्त­श्र­व­णा­स­म्भवे विद्या­र्थ­क­र्मा­नु­ष्ठा­न­स­म्भ­वेऽपि विद्या­नु­त्पत्तेः तस्य तद­र्थ­क­र्मा­नु­ष्ठानं व्यर्थमिति वाच्यम् । तस्य वेदा­न्त­श्र­व­णा­धि­का­रा­भा­वेऽपि भगवत्पादैः -‘श्राव­ये­च्च­तुरो वर्णान्’ इति चेति­हा­स­पु­रा­णा­धि­गमे चातु­र्व­र्ण्या­धि­का­र­स्म­र­णात् वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् - इति अप­शू­द्रा­धि­क­र­णो­प­सं­हा­र­भष्ये ब्रह्मा­त्मै­क्य­प­र­पु­रा­णा­दि­श्र­वणे विद्या­सा­ध­नेऽ­धि­का­रस्य दर्शितत्वात्; विद्यो­त्प­त्ति­यो­ग्य­वि­म­ल­दे­व­श­री­र­नि­ष्पा­द­न­द्वारा मुक्त्यर्थं भविष्यतीति त्रैवर्णिकानां क्रम­मु­क्ति­फ­ल­क­स­गु­ण­वि­द्या­र्थ­क­र्मा­नु­ष्ठा­न­वत् वेदा­न्त­श्र­व­ण­यो­ग्य­त्रै­व­र्णि­क­श­री­र­नि­ष्पा­द­न­द्वारा विद्यो­त्प­त्त्य­र्थत्वं भविष्यतीति शूद्रस्य विद्या­र्थ­क­र्मा­नु­ष्ठा­ना­वि­रो­धाच्च । तस्मात् विविदिषावाक्ये ब्राह्मणपदस्य यथा­प्रा­प्त­वि­द्या­धि­का­रि­मा­त्र­वि­ष­य­त्वेन शूद्रस्यापि विद्या­र्थ­क­र्मा­धि­कारः सिद्ध्यत्येवेति ।

संन्यासस्य विद्यो­प­यो­गि­त्व­नि­रू­प­णम्

नन्वस्तु कर्मणां चित्त­शु­द्धि­द्वारा विद्योपयोगः, सन्न्यासस्य किंद्वारा तदुपयोगः ?

केचि­दा­हुः−वि­द्यो­त्प­त्ति­प्र­ति­ब­न्ध­क­दु­रि­ता­ना­म­न­न्त­त्वात् किञ्चित् यज्ञा­द्य­नु­ष्ठा­न­नि­वर्त्यं किञ्चित् सन्न्या­सा­पू­र्व­नि­व­र्त्य­मिति कर्मवत् चित्त­शु­द्धि­द्वा­रैव सन्न्यासस्यापि तदुपयोगः । तथा च गृहस्थादीनां कर्मच्छिद्रेषु श्रव­णा­द्य­नु­ति­ष्ठतां न तस्मिन् जन्मनि विद्यावाप्तिः, किं तु जन्मान्तरे सन्न्यासं लब्ध्वैव । येषां तु गृहस्थानामेव सतां जनकादीनां विद्या विद्यते, तेषां पूर्वजन्मनि सन्न्यासात् विद्यावाप्तिः । अतो न विद्यायां सन्न्या­सा­पू­र्व­व्य­भि­चा­र­श­ङ्काऽ­पीति ।

अन्ये तु - ‘शान्तो दान्त उपरतः’(बृ.उ. ४। ४। २३) इत्यादिश्रुतौ उप­र­त­श­ब्द­गृ­ही­त­तया सन्न्यासस्य साध­न­च­तु­ष्ट­या­न्त­र्ग­त­त्वात् , ‘सह­का­र्य­न्त­र­विधिः’(ब्र.सू. ३ । ४ । ४७) इति सूत्रभष्ये तद्व­तः-वि­द्या­वतः सन्न्यासिनः, बाल्य­पा­ण्डि­त्या­पे­क्षया तृतीयमिदं मौनं विधीयते । “तस्मात् ब्राह्मणः पाण्डित्यम्” इत्यादिश्रुतौ (तेः) ततः प्राक् “भिक्षाचर्यं चरन्ति” इति सन्न्या­सा­धि­का­रात्’ इति प्रतिपादनात् , ‘त्यक्ता­शे­ष­क्रि­य­स्यैव संसारं प्रजिहासतः । जिज्ञासोरेव चैकात्म्यं त्रय्य­न्ते­ष्व­धि­का­रिता ।’(सं.वा. १२) इति वार्तिकोक्तेश्च सन्न्या­सा­पू­र्वस्य ज्ञान­सा­ध­न­वे­दा­न्त­श्र­व­णा­द्य­धि­का­रि­वि­शे­ष­ण­त्व­मिति तस्य विद्योपयोगमाहुः ।

अपरे तु - ‘श्रव­णा­द्य­ङ्ग­तया आत्मज्ञानफलता सन्न्यासस्य सिद्धा’ इति विवरणोक्तेः अनन्यव्यापारतया श्रव­णा­दि­नि­ष्पा­दनं कुर्वतः तस्य विद्यायामुपयोगः । दृष्टद्वारे सम्भवति अदृ­ष्ट­क­ल्प­ना­यो­गात् । यदि त्वनलसस्य धीमतः पुरुषधौरेयस्य आश्र­मा­न्त­र­स्थ­स्यापि कर्मच्छिद्रेषु श्रव­णा­दि­स­म्प­द्यते, तदा चतु­र्ष्वा­श्र­मेषु सन्न्या­सा­श्र­म­प­रि­ग्र­हे­णैव श्रवणादि निर्वर्तनीयमिति नियमोऽभ्युपेयः - इति ।

ननु अस्मिन् पक्षद्वये क्षत्रि­य­वै­श्ययोः कथं वेदा­न्त­श्र­व­णा­द्य­नु­ष्ठा­नम् ? सन्न्यासस्य ब्राह्म­णा­धि­का­रि­क­त्वात् , ‘ब्राह्मणो निर्वेदमायात्’ ‘ब्राह्मणो व्युत्थाय’ ‘ब्राह्मणः प्रव्रजेत्’ इति सन्न्यासविधिषु ब्राह्म­ण­ग्र­ह­णात् , ‘अधि­का­रि­वि­शे­षस्य ज्ञानाय ब्राह्मणग्रहः । न सन्न्या­स­वि­धि­र्य­स्मा­च्छ्रुतौ क्षत्रि­य­वै­श्ययो: ।’(बृ.वा. ३ । ५ । ८८) इति वार्ति­को­क्ते­श्च−इति चेत् ।

अत्र केचित् - ‘यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा’(जा.उ. ४) इत्य­वि­शे­ष­श्रुत्या ‘ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेत् गृहात् । त्रयाणामपि वर्णानाममी चत्वार आश्रमाः ।’ इति स्मृत्य­नु­गृ­ही­तया क्षत्रि­य­वै­श्य­यो­रपि सन्न्या­सा­धि­का­र­सिद्धेः श्रुत्यन्तरेषु ब्राह्मणग्रहणं त्रया­णा­मु­प­ल­क्ष­णम् । अत एव वार्तिकेऽपि ‘अधि­का­रि­वि­शे­षस्य’ इति श्लोकेन भाष्या­भि­प्रा­य­मुक्त्वा ‘त्रया­णा­म­वि­शे­षेण सन्न्यासः श्रूयते श्रुतौ । यदोपलक्षणार्थं स्यात् ब्राह्मणग्रहणं तदा ।’(बृ.वा. ३ । ५ । ८९) इत्य­न­न्त­र­श्लो­केन स्वमते क्षत्रि­य­वै­श्य­यो­रपि सन्न्यासाधिकारो दर्शित इति - तयोः श्रव­णा­द्य­नु­ष्ठा­न­सिद्धिं समर्थयन्ते ।

अन्ये तु-अनेकेषु सन्न्या­स­वि­धि­वा­क्येषु ब्राह्म­ण­ग्र­ह­णात् , उदा­हृ­त­जा­बा­ल­श्रुतौ सन्न्या­स­वि­धि­वाक्ये ब्राह्म­ण­ग्र­ह­णा­भा­वेऽपि श्रुत्य­न्त­र­सिद्धं ब्राह्म­णा­धि­का­र­मेव सिद्धं कृत्वा सन्न्या­सा­व­स्था­याम् ‘अयज्ञोपवीती कथं ब्रह्मणः’ इति ब्राह्म­ण­प­रा­म­र्शाच्च ब्राह्मणस्यैव सन्न्यासाधिकारः । विरो­धा­धि­क­र­ण­न्या­येन श्रुत्य­वि­रु­द्ध­स्यैव स्मृत्यर्थस्य सङ्ग्रा­ह्य­त्वात् । यत्तु सन्न्यासस्य सर्वाधिकारत्वेन वार्तिकवचनं तत् विद्व­त्स­न्न्या­स­वि­ष­यम् , न तु आतु­र­वि­वि­दि­षा­स­न्न्यासे‌ भाष्या­भि­प्रा­य­वि­रु­द्ध­स­र्वा­धि­का­र­प्र­ति­पा­द­न­प­रम् । ‘सर्वा(क­र्मा)धि­का­र­वि­च्छेदि विज्ञानं चेदुपेयते । कुतोऽधिकारनियमो व्युत्थाने क्रियते बलात् ॥’(बृ.वा. ३ । ५ । ९०) इत्य­न­न्त­र­श्लो­केन ब्रह्म­ज्ञा­नो­द­या­न­न्तरं जीवन्मुक्तिकाले विद्वत्सन्न्यास एव अधि­का­र­नि­य­म­नि­रा­क­र­णात् । एवं च − ब्राह्मणानामेव श्रव­णा­द्य­नु­ष्ठाने सन्न्यासोऽङ्गम् , क्षत्रि­य­वै­श्ययोः तन्निरपेक्षः श्रवणाद्यधिकार इति, तयोः श्रव­णा­द्य­नु­ष्ठा­न­नि­र्वाहः । न हि सन्न्यासस्य श्रव­णा­पे­क्षि­त­त्व­पक्षे श्रवणमात्रस्य तदपेक्षा नियन्तुं शक्यते । क्रम­मु­क्ति­फ­ल­क­स­गु­णो­पा­स­नया देवभागं प्राप्तस्य श्रवणादौ सन्न्या­स­नै­र­पे­क्ष्यस्य अवश्यं वक्तव्यत्वात् , देवानां कर्मा­नु­ष्ठा­ना­प्र­सक्त्या तत्त्यागरूपस्य सन्न्यासस्य तेष्वसम्भवात् - इत्याहुः ।

अपरे तु ‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति’(छा.उ. २ । २३ । १) इति श्रुत्युदिता यस्य ब्रह्मणि संस्थासमाप्तिः – अन­न्य­व्या­पा­र­त्व­रूपं तन्निष्ठत्वं तस्य श्रवणादिषु मुख्याधिकारः । ‘गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत उच्यते । आसुप्तेरामृतेः कालं नये­द्वे­दा­न्त­चि­न्तया ॥’ इत्यादिस्मृतिषु सर्वदा विचारविधानात् । सा च ब्रह्मणि संस्था विना सन्न्यासम् आश्र­मा­न्त­र­स्थस्य न सम्भवति स्वस्वा­श्र­म­वि­हि­त­क­र्मा­नु­ष्ठा­न­वै­य­ग्र्यात् , इति सन्न्यासरहितयोः क्षत्रि­य­वै­श्ययोः न मुख्य: श्रवणाद्यधिकारः । किं तु ‘दृष्टार्था च विद्या प्रति­षे­धा­भा­व­मा­त्रे­णा­प्य­र्थि­न­म­धि­क­रोति श्रवणादिषु’ इति ‘अन्तरा चापि तु तद्दृष्टेः’(ब्र.सू. ३ । ४ । ३६)‘अन्तरा चापि तु तद्दृष्टेः’(ब्र.सू. ३ । ४ । ३६) इत्य­धि­क­र­ण­भा­ष्यो­क्त­न्या­येन शूद्र­व­द­प्र­ति­षि­द्ध­यो­स्तयोः विधुरादीनामिव देहान्तरे विद्याप्रापकेण अमु­ख्या­धि­का­र­मा­त्रेण श्रवणाद्यनुमतिः । न हि ‘अन्तरा चापि तु तद्दृष्टेः’ इत्यधिकरणे विधु­रा­दी­ना­म­ङ्गी­कृतः श्रवणाद्यधिकारो मुख्य इति वक्तुं शक्यते । ‘अत­स्त्वि­त­र­ज्ज्यायो लिङ्गाच्च’(ब्र.सू. ३ । ४ । ३९) इति सूत्रकारेणैव तेषा­म­मु­ख्या­धि­का­र­स्फु­टी­क­र­णात् । न च−तत्र तेषां श्रवणाद्यधिकार एव नोक्तः, किं तु तदीयकर्मणां विद्या­नु­ग्रा­ह­क­त्व­मिति शङ्क्यम् । ‘दृष्टार्था च विद्या’ इत्यु­दा­हृ­त­त­द­धि­क­र­ण­भा­ष्य­वि­रो­धात् । न च − क्षत्रि­य­वै­श्ययोः सन्न्यासाभावात् अमुख्याधिकारे तत एव देवानामपि श्रव­णा­दि­ष्व­मुख्य एवाधिकारः स्यात् , तथा च क्रम­मु­क्ति­फ­ल­क­स­गु­ण­वि­द्यया देवदेहं प्राप्य श्रव­णा­द्य­नु­ति­ष्ठतां विद्या­प्रा­प्त्यर्थं सन्न्यासार्हं पुन­र्ब्रा­ह्म­ण­जन्म वक्तव्यमिति ‘ब्रह्म­लो­क­म­भि­स­म्प­द्यते, न च पुनरावर्तते’(छा.उ. ८ । १५ । १) ‘अनावृत्तिः शब्दात्’(ब्र.सू. ४ । ४ । २२) इत्या­दि­श्रु­ति­सू­त्र­वि­रोधः इति - वाच्यम् । देवा­ना­म­नु­ष्ठे­य­क­र्म­वै­य­ग्र्या­भा­वात् स्वत एव अन­न्य­व्या­पा­रत्वं सम्भवतीति क्रम­मु­क्ति­फ­ल­क­स­गु­ण­वि­द्या­भि­धा­यि­शा­स्त्र­प्रा­मा­ण्यात् विनाऽपि सन्न्यासं तेषां मुख्या­धि­का­रा­भ्यु­प­ग­मात् इत्याहुः ।

ननु - अमुख्याधिकारिणा दृष्ट­फ­ल­भू­त­वा­क्या­र्था­व­ग­त्य­र्थम् अवि­हि­त­शा­स्त्रा­न्त­र­वि­चा­र­वत् क्रियमाणो वेदान्तविचारः कथं जन्मा­न्त­र­वि­द्या­वा­प्ता­वु­प­यु­ज्यते । न खल्व­द्य­त­न­वि­चा­रस्य दिना­न्त­री­य­वि­चा­र्या­व­ग­ति­हे­तु­त्व­मपि युज्यते, दूरे जन्मा­न्त­री­य­त­द्धे­तु­त्वम् । न च वाच्यं – मुख्याधिकारिणा परिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेव, अव­ग­ते­र्दृ­ष्टा­र्थ­त्वात् ; तस्य यथा प्रार­ब्ध­क­र्म­वि­शे­ष­रू­प­प्र­ति­ब­न्धात् इह जन्मनि फलमजनयतो जन्मान्तरे प्रति­ब­न्ध­का­प­ग­मेन फलजनकत्वम् ‘ऐहि­क­म­प्य­प्र­स्तु­त­प्र­ति­बन्धे तद्दर्शनात्’(ब्र.सू. ३ । ४ । ५१) इत्यधिकरणे तथा निर्णयात् , एव­म­मु­ख्या­धि­का­रि­कृ­त­स्यापि स्यात् इति । यतः शास्त्री­या­ङ्ग­युक्तं श्रवणम् अपू­र्व­वि­धि­त्व­पक्षे फल­प­र्य­न्त­म­पूर्वं निय­म­वि­धि­त्व­पक्षे नियमादृष्टं वा जनयति, तच्च जाति­स्म­र­त्व­प्रा­प­का­दृ­ष्ट­वत् प्राग्भ­वी­य­सं­स्का­र­मु­द्बोध्य तन्मूलभूतस्य विचारस्य जन्मा­न्त­री­य­वि­द्यो­प­यो­गितां घटयतीति युज्यते । शास्त्री­या­ङ्ग­वि­धुरं श्रवणं नादृ­ष्टो­त्पा­द­क­मिति कुतस्तस्य जन्मा­न्त­री­य­वि­द्यो­प­यो­गि­त्व­मु­प­प­द्यते, घटकादृष्टं विना जन्मा­न्त­री­य­प्र­मा­ण­व्या­पा­रस्य जन्मा­न्त­री­या­व­ग­ति­हे­तु­त्वो­प­गमे अतिप्रसङ्गात् ।

उच्य­ते−अ­मु­ख्या­धि­का­रि­णाऽपि उत्पा­न्न­वि­वि­दि­षेण क्रियमाणं श्रवणं द्वार­भू­त­वि­वि­दि­षो­त्पा­द­क­प्रा­ची­न­वि­द्या­र्थ­य­ज्ञा­द्य­नु­ष्ठा­न­ज­न्या­पू­र्व­प्र­यु­क्त­मिति तदेवापूर्वं विद्या­रू­प­फ­ल­प­र्यन्तं व्याप्रियमाणं जन्मा­न्त­री­या­या­मपि विद्यायां स्वका­रि­त­श्र­व­णस्य उपकारितां घटयतीति नानुपपत्तिः । श्रवणादौ विध्यभावपक्षे तु सन्न्यासपूर्वकं कृतस्यापि श्रवणस्य अदृ­ष्टा­नु­त्पा­द­क­त्वात् प्रतिबन्धके सति तस्य जन्मा­न्त­री­य­वि­द्या­हे­तु­त्वम् इत्थमेव निर्वाह्यम् ।

आचा­र्या­स्तु−नि­य­म­वि­धि­प­क्षेऽपि अयमेव निर्वाहः । श्रवणमभ्यस्यतः फल­प्रा­प्ते­र­र्वाक् प्रायेण तन्नि­य­मा­दृ­ष्टा­नु­त्पत्तेः, तस्य फल­प­र्य­न्ता­वृ­त्ति­गु­ण­क­श्र­व­णा­नु­ष्ठा­न­नि­य­म­सा­ध्य­त्वात् । न हि निय­मा­दृ­ष्ट­ज­न­क­श्र­व­ण­नि­यमः फल­प­र्य­न्त­मा­व­र्त­नी­यस्य श्रवणस्य उपक्रममात्रेण निर्वर्तितो भवति, येन तज्ज­न्य­नि­य­मा­दृ­ष्ट­स्यापि फल­प­र्य­न्त­श्र­व­णा­वृत्तेः प्रागे­वो­त्पत्तिः सम्भाव्येत ।अवघातवत् आवृ­त्ति­गु­ण­क­स्यैव श्रवणस्य फलसाधनत्वेन फल­सा­ध­न­प­दा­र्थ­नि­ष्पत्तेः प्राक् तन्नि­य­म­म­नि­र्व­र्ति­व­च­नस्य निरालम्बनत्वात् , श्रव­णा­व­घा­ता­द्यु­प­क्र­म­मा­त्रेण नियमनिष्पत्तौ तावतैव निय­म­शा­स्त्रा­नु­ष्ठानं सिद्धमिति तद­ना­वृ­त्ता­व­प्य­वै­क­ल्य­प्र­स­ङ्गा­च्च-इ­त्याहुः ।

केचित्तु -दृष्टार्थस्यैव वेदान्तश्रवणस्य ‘दिने दिने तु वेदान्तश्रवणात् भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात् कृच्छ्राशीतिफलं लभेत्’ इत्या­दि­व­च­न­प्रा­मा­ण्यात् स्वत­न्त्रा­दृ­ष्टो­त्पा­द­क­त्व­म­प्यस्ति । यथा अग्नि­सं­स्का­रा­र्थ­स्या­धा­नस्य पुरुषसंस्कारेषु परिगणनात् तदर्थत्वमपि, एवं वच­न­ब­ला­दु­भ­या­र्थ­त्वो­प­पत्ते: । तथा च प्रति­दि­न­श्र­व­ण­ज­नि­ता­दृ­ष्ट­म­हि­म्नैव आमु­ष्मि­क­वि­द्यो­प­यो­गित्वं श्रव­ण­म­न­ना­दि­सा­ध­ना­नाम् - इत्याहुः ।

निर्गु­णो­पा­स­ना­त्म­क­यो­गस्य ब्रह्म­सा­क्षा­त्का­र­सा­ध­न­त्व­नि­रू­प­णम्

एवं श्रव­ण­म­न­ना­दि­सा­ध­ना­नु­ष्ठा­नात् (प्रणाल्या) (प्रवणस्य) विद्यावाप्तिः इत्यस्मिन्नर्थे सर्व­स­म्प्र­ति­पन्ने स्थिते भारतीतीर्थाः ध्यानदीपे विद्यावाप्तौ उपा­या­न्त­र­म­प्याहुः-

‘तत् कारणं साङ्ख्य­यो­गा­भि­प­न्नम्’(श्वे.उ. ६ । १३) ‘यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।’(भ.गी. ५ । ५) इति श्रुति­स्मृ­ति­द­र्श­नात् यथा सङ्ख्यं नाम वेदान्तविचारः श्रवणशब्दितो मननादिसहकृतो विद्या­वा­प्त्यु­पायः, एवं योगशब्दितं निर्गु­ण­ब्र­ह्मो­पा­स­न­मपि । न च निर्गु­ण­स्यो­पा­स­न­मेव नास्तीति शङ्क्यम् । प्रश्नोपनिषदि शैब्यप्रश्ने ‘यः पुनरेतं त्रिमा­त्रे­णो­मि­त्ये­ते­नै­वा­क्ष­रेण परं पुरु­ष­म­भि­ध्या­यीत’(प्र.उ. ५ । ५) इति निर्गु­ण­स्यै­वो­पा­स­न­प्र­ति­पा­द­नात् । तदनन्तरं ‘स एत­स्मा­ज्जी­व­घ­नात् परात् परं पुरिशयं पुरुषमीक्षते’ इति उपासनाफलवाक्ये ईक्षतिकर्मत्वेन निर्दिष्टं यन्निर्गुणं ब्रह्म, तदे­वो­पा­स­ना­वा­क्येऽपि ध्यायतिकर्म, नान्यत् । ईक्षतिध्यानयोः कार्य­का­र­ण­भू­त­यो­रे­क­वि­ष­य­त्व­नि­य­मात् - इत्यस्यार्थस्य ईक्ष­ति­क­र्मा­धि­क­रणे भाष्य­का­रा­दि­भि­र­ङ्गी­कृ­त­त्वात् । अन्यत्रापि ताप­नी­य­क­ठ­व­ल्ल्या­दि­श्रु­त्य­न्तरे निर्गुणोपास्तेः प्रपञ्चितत्वात् । सूत्रकृताऽपि उपा­स्य­गु­ण­प­रि­च्छे­दा­र्थ­मा­रब्धे गुणोपसंहारपादे निर्गुणेऽपि ‘आनन्दादयः प्रधानस्य’(ब्र.सू. ३ । ३ । ११) इति सूत्रेण भावरूपाणां ज्ञाना­न­न्दा­दि­गु­णा­नाम् ‘अक्षरधियां त्ववरोधः’(ब्र.सू. ३ । ३ । ३३) इत्यादिसूत्रेण अभा­व­रू­पा­णा­म­स्थू­ल­त्वा­दि­गु­णानां चोपसंहारस्य दर्शितत्वाच्च । ननु आन­न्दा­दि­गु­णो­प­सं­हारे उपास्यं निर्गुणमेव न स्यादिति चेत् , न-आन­न्दा­दि­भि­र­स्थू­ल­त्वा­दि­भि­श्चो­प­ल­क्षि­त­म­ख­ण्डै­क­रसं ब्रह्मास्मीति निर्गु­ण­त्वा­नु­प­म­र्द­नेन उपासनासम्भवात् । ननु ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’(के.उ. १ । ५) इति श्रुतेः न परं ब्रह्मो­पा­स्य­मिति चेत् , ‘अन्यदेव तद्विदितात्’(के.उ. १ । ४) इति श्रुतेः तस्य वेद्य­त्व­स्या­प्य­सि­द्ध्या­पा­तात् । श्रुत्यन्तरेषु ब्रह्म­वे­द­न­प्र­सिद्धेः अवे­द्य­त्व­श्रु­ति­र्वा­स्त­वा­वे­द्य­त्व­परा चेत् , आथर्वणादौ तदु­पा­स­न­प्र­सिद्धेः तद­नु­पा­स्य­त्व­श्रु­ति­रपि वस्तु­वृ­त्त­प­राऽस्तु ।

एवं च ‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १ । २ । ७) इति श्रवणात् येषां बुद्धि­मा­न्द्यात् न्याय­व्यु­त्पा­द­न­कु­श­ल­वि­शि­ष्ट­गु­र्व­ला­भाद्वा श्रवणादि न सम्भवति, तेषा­म­ध्य­य­न­गृ­ही­तै­र्वे­दा­न्तै­रा­पा­त­तोऽ­धि­ग­मि­त­ब्र­ह्मा­त्म­भा­वानां तद्विचारं विनैव प्रश्नो­प­नि­ष­दा­द्यु­क्तम् आर्षग्रन्थेषु ब्राह्म­वा­सि­ष्ठा­दि­क­ल्पेषु पञ्चीकरणादिषु च अने­क­शा­खा­वि­प्र­की­र्ण­स­र्वा­र्थो­प­सं­हा­रेण कल्प­सू­त्रे­ष्व­ग्नि­हो­त्रा­दि­वत् निर्धा­रि­ता­नु­ष्ठा­न­प्र­कारं निर्गुणोपासनं सम्प्र­दा­य­मा­त्र­विद्भ्यो गुरुभ्योऽवधार्य तदनुष्ठानात् क्रमेण उपा­स्य­भू­त­नि­र्गु­ण­ब्र­ह्म­सा­क्षा­त्कारः सम्पद्यते । अवि­सं­वा­दि­भ्र­म­न्या­येन उपास्तेरपि क्वचित् फलकाले प्रमा­प­र्य­व­सा­न­स­म्भ­वात् , पाणौ पञ्च वराटकाः पिधाय केनचित् ‘करे कति वराटकाः’ इति पृष्टे ‘पञ्च वराटकाः’ इति तदुत्तरवक्तुः वाक्य­प्र­यो­ग­मू­ल­भू­त­स­ङ्ख्या­वि­शे­ष­ज्ञा­नस्य मूल­प्र­मा­ण­शू­न्य­स्या­हा­र्या­रो­प­रू­प­स्यापि यथार्थत्ववत् निर्गु­ण­ब्र­ह्मो­पा­स­नस्य अर्थ­त­था­त्व­वि­वे­च­क­नि­र्वि­चि­कि­त्स­मू­ल­प्र­मा­ण­नि­र­पे­क्षस्य दहराद्युपासनवत् उपा­स­ना­शा­स्त्र­मा­त्र­म­व­लम्ब्य क्रियमाणस्यापि वस्तुतो यथार्थत्वेन दह­रा­द्यु­पा­स­ने­नेव निर्गुणोपासनेन जन्यस्य स्ववि­ष­य­सा­क्षा­त्का­रस्य श्रव­णा­दि­प्र­णा­ली­ज­न्य­सा­क्षा­त्का­र­व­देव तत्त्वा­र्थ­वि­ष­य­त्वा­व­श्य­म्भा­वाच्च ।

इयांस्तु विशेषः - प्रति­ब­न्ध­र­हि­तस्य पुंसः श्रव­णा­दि­प्र­णाड्या ब्रह्म­सा­क्षा­त्कारो झटिति सिध्यतीति साङ्ख्यमार्गो मुख्यः कल्पः, उपास्या तु विलम्बेनेति योग­मा­र्गोऽ­नु­कल्पः इति ।

ब्रह्म­सा­क्षा­त्का­र­क­र­ण­वि­चारः

नन्वस्मिन् पक्षद्वयेऽपि ब्रह्म­सा­क्षा­त्कारे किं करणम् ?

केचि­दा­हुः−प्र­त्य­या­भ्या­स­रूपं प्रसङ्ख्यानमेव । योगमार्गे आदित आरभ्य उपासनरूपस्य साङ्ख्यमार्गे मन­ना­न्त­र­नि­दि­ध्या­स­न­रू­पस्य च तस्य सत्त्वात् । न च तस्य ब्रह्म­सा­क्षा­त्का­र­क­र­णत्वे मानाभावः । ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३ । १ । ८) इति श्रवणात् । कामातुरस्य व्यव­हि­त­का­मि­नी­सा­क्षा­त्कारे प्रसङ्ख्यानस्य कर­ण­त्व­क्लृ­प्तेश्च, ‘आ प्राय­णा­त्त­त्रापि हि दृष्टम्’(ब्र.सू. ४ । १ । १२) इत्यधिकरणे ‘विक­ल्पोऽ­वि­शि­ष्ट­फ­ल­त्वात्’(ब्र.सू. ३ । ३ । ५९) इत्यधिकरणे च दह­रा­द्य­ह­ङ्ग्र­हो­पा­स­कानां प्रस­ङ्ख्या­ना­दु­पा­स्य­स­गु­ण­ब्र­ह्म­सा­क्षा­त्का­रा­ङ्गी­का­राच्च । ननु च−प्रस­ङ्ख्या­नस्य प्रमा­ण­प­रि­ग­ण­ने­ष्व­प­रि­ग­ण­नात् तज्जन्यो ब्रह्म­सा­क्षा­त्कारः प्रमा न स्यात् । न च काक­ता­ली­य­सं­वा­दि­व­रा­ट­क­स­ङ्ख्या­वि­शे­षा­हा­र्य­ज्ञा­न­वत् अर्थाबाधेन प्रमा­त्वो­प­पत्तिः । प्रमाणामूलकस्य प्रमात्वायोगात् । आहार्यवृत्तेश्च उपासनावृत्तिवत् ज्ञान­भि­न्न­मा­न­स­क्रि­या­रू­प­तया इच्छा­दि­व­द­बा­धि­ता­र्थ­वि­ष­य­त्वेऽपि प्रमा­त्वा­न­भ्यु­प­ग­मात् । मैवम्; क्लृप्त­प्र­मा­क­र­णा­मू­ल­क­त्वेऽपि ईश्व­र­मा­या­वृ­त्ति­वत् प्रमा­त्वो­प­पत्तेः, विष­या­बा­ध­तौ­ल्यात् । मार्गद्वयेऽपि प्रसङ्ख्यानस्य विचा­रि­ता­द­वि­चा­रि­ताद्वा वेदान्तात् ब्रह्मा­व­ग­ति­मू­ल­क­तया प्रस­ङ्ख्या­न­ज­न्यस्य ब्रह्म­सा­क्षा­त्का­रस्य प्रमा­ण­मू­ल­क­त्वाच्च । उक्तं च कल्पतरुकारैः— “वेदा­न्त­वा­क्य­ज­ज्ञा­न­भा­व­ना­जा­प­रो­क्षधीः । मूल­प्र­मा­ण­दा­र्ढ्येन न भ्रमत्वं प्रपद्यते ॥” न च प्रामा­ण्य­प­र­त­स्त्वा­प­त्तिस्तु प्रसज्यते । अपवादनिरासाय मूल­शु­द्ध्य­नु­रो­धात्” (ब्र.सू. १ । १ । १) इति ।

अन्ये तु−‘एषोऽणुरात्मा चेतसा वेदितव्यः’(मु.उ. ३ । १ । ९) ‘दृश्यते त्वग्र्यया बुद्ध्या’(क.उ. १ । ३ । १२) इत्यादिश्रुतेः मन एव ब्रह्म­सा­क्षा­त्कारे करणम् । तस्य सोपाधिकात्मनि अहं­वृ­त्ति­रू­प­प्र­मा­क­र­ण­त्व­कॢप्तेः, ‘स्वप्न­प्र­प­ञ्च­वि­प­री­त­प्र­मा­त्रा­दि­ज्ञा­न­सा­ध­न­स्या­न्तः­क­र­णस्य’ इत्या­दि­प­ञ्च­पा­दि­का­वि­व­र­ण­ग्र­न्थै­रपि तथा प्रतिपादनात् ‘अहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः’(बृ.उ. ४ । ३ । २०) इति श्रुत्युक्ते स्वाप्ने ब्रह्म­सा­क्षा­त्कार एव मनसः कर­ण­त्व­स­म्प्र­ति­प­त्तेश्च, तदा करणान्तराभावात् । प्रसङ्ख्यानं तु मन­स्स­ह­का­रि­भा­वे­नापि उपयुज्यते । ‘वाक्या­र्थ­भा­व­ना­प­रि­पा­क­स­हि­त­म­न्तः­क­रणं त्वंप­दा­र्थ­स्या­प­रो­क्षस्य तत्त­दु­पा­ध्या­का­र­नि­षे­धेन तत्पदार्थताम् आविर्भावयति’ (ब्र.सू. १ । १ । १) इति भामतीवचनात् । ‘ज्ञानप्रसादेन विशु­द्ध­स­त्त्व­स्त­तस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३ । १ । ८) इति श्रुतावपि ज्ञान­प्र­सा­द­श­ब्दि­त­चि­त्तै­का­ग्र्य­हे­तु­त­यैव ध्यानोपादानात् । न तु प्रसङ्ख्यानं स्वयं करणम् । तस्य क्कचिदपि ज्ञान­क­र­ण­त्वा­क्लृप्तेः, कामा­तु­र­का­मि­नी­सा­क्षा­त्का­रा­दा­वपि प्रस­ङ्ख्या­न­स­ह­कृ­तस्य मनस एव करणत्वोपपत्त्या अक्लृ­प्त­ज्ञा­न­क­र­णा­न्त­र­क­ल्प­ना­यो­गात् - इत्याहुः ।

अपरे तु−‘तद्धास्य विजज्ञौ’(छा.उ. ६ । १६ । ३) ‘तमसः पारं दर्शयति’(छा.उ. ७ । २६ । २) ‘आचार्यवान् पुरुषो वेद तस्य तावदेव चिरम्’(छा.उ. ६ । १४ । २) इत्यादिश्रुतिषु आचा­र्यो­प­दे­शा­न­न्त­र­मेव ब्रह्म­सा­क्षा­त्का­रो­दये जीव­न्मु­क्ति­श्र­व­णात् ‘वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः’(मु.उ. ३ । २ । ६) इति ज्ञाना­न्त­र­नै­रा­का­ङ्क्ष्य­श्र­व­णात् ‘तं त्वौपनिषदं पुरुषम्’(बृ.उ. ३ । ९ । २६) इति ब्रह्मण उप­नि­ष­दे­क­ग­म्य­त्व­श्र­व­णाच्च, औपनिषदं महावाक्यमेव ब्रह्म­सा­क्षा­त्कारे करणम् । न मनः । ‘यन्मनसा न मनुते’(के.उ. १ । ६) इति तस्य ब्रह्म­सा­क्षा­त्का­र­क­र­ण­त्व­नि­षे­धात् । न चाप­क्व­म­नो­वि­ष­य­मि­दम् । ‘येनाहुर्मनो मतम्’(के.उ. १ । ६) इति वाक्यशेषे मनो­मा­त्र­ग्र­ह­णात् । न चैवं ‘यद्वा­चाऽ­न­भ्यु­दि­तम्’(के.उ. १ । ५) इति शब्दस्यापि तत्करणत्वं निषिध्यत इति शङ्क्यम् । मनः­क­र­ण­त्व­वा­दि­ना­मपि शब्दस्य निर्विशेषे परो­क्ष­ज्ञा­न­क­र­ण­त्व­स्या­भ्यु­प­ग­त­त्वेन तस्य ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’(तै.उ. २ । ४ । १) इति श्रुत्यनुरोधेन शब्दा­र्थ­प्रा­प्ति­रू­प­श­क्ति­मु­खेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतया शक्य­स­म्ब­न्ध­रू­प­ल­क्ष­णा­मु­खेन तस्य तत्क­र­ण­त्वा­वि­रो­धात् । न च ‘मन­सै­वा­नु­द्र­ष्ट­व्यम्’(बृ.उ. ४ । ४ । १९) इति श्रुतिसिद्धं मनसोऽपि तत्करणत्वं न पराकर्तुं शक्यमिति वाच्यम् । शाब्द­सा­क्षा­त्का­र­ज­न­नेऽपि तदै­का­ग्र्य­स्या­पे­क्षि­त­त्वेन हेतुत्वमात्रेण तृतीयोपपत्तेः । ‘मनसा ह्येव पश्यति मनसा शृणोति’(बृ.उ. १ । ५ । ३) इत्यादौ तथा दर्शनात् , गीताविवरणे भाष्य­का­री­य­म­नः­क­र­ण­त्व­व­च­नस्य मता­न्त­रा­भि­प्रा­येण प्रवृत्तेः - इत्याहुः ।

शाब्दा­प­रो­क्ष­स­म­र्थ­नम्

ननु तथाऽपि शब्दस्य परो­क्ष­ज्ञा­न­ज­न­क­त्व­स्व­भा­व­स्या­प­रो­क्ष­ज्ञा­न­ज­न­कत्वं न सङ्गच्छते इति चेत् अत्र केचित् - स्वतोऽसमर्थोऽपि शब्दः शास्त्र­श्र­व­ण­म­न­न­पू­र्व­क­प्र­त्य­या­भ्या­स­ज­नि­त­सं­स्का­र­प्र­च­य­ल­ब्ध­ब्र­ह्मै­का­ग्र्य­व­च्चि­त्त­द­र्प­णा­नु­गृ­हीतः अप­रो­क्ष­ज्ञा­न­मु­त्पा­द­यति, शास्री­य­सं­स्का­र­स­ह­कृ­ता­ग्न्य­धि­क­र­णक इव होमोऽपूर्वम् - इति कल्प्यते । ‘तरति शोकमात्मवित्’(छा.उ. ७ । १ । ३) इति शास्त्र­प्रा­मा­ण्यात् । अपरोक्षस्य कर्तृ­त्वा­द्य­ध्या­सस्य अप­रो­क्षा­धि­ष्ठा­न­ज्ञानं विना निवृत्त्ययोगात् , औपनिषदे च ब्रह्मणि माना­न्त­रा­प्र­वृत्तेः, शब्दा­द­प्य­प­रो­क्ष­ज्ञा­ना­नु­त्पत्तौ अनि­र्मो­क्ष­प्र­स­ङ्गात् −इत्याहुः ।

अन्ये तु−भाव­ना­प्र­च­य­सा­हित्ये सति बहिरसमर्थस्यापि मनसो नष्ट­व­नि­ता­सा­क्षा­त्का­र­ज­न­क­त्व­द­र्श­नात् निदि­ध्या­स­न­सा­हि­त्येन शब्द­स्या­प्य­प­रो­क्ष­ज्ञा­न­ज­न­कत्वं युक्तमिति दृष्टानुरोधेन समर्थयन्ते ।

अपरे तु−अप­रो­क्षा­र्थ­वि­ष­यत्वं ज्ञान­स्या­प­रो­क्षत्वं नाम । अन्यानिरुक्तेः । अर्थापरोक्षत्वं तु नाप­रो­क्ष­ज्ञा­न­वि­ष­य­त्वम् , येना­न्यो­न्या­श्रयः स्यात् । किं तु तत्त­त्पु­रु­षी­य­चै­त­न्या­भेदः । अन्तः­क­र­ण­त­द्ध­र्माणां साक्षिणि कल्पिततया तदभेदसत्त्वात् , बाह्यचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृत्ति­कृ­त­त­त्त­त्पु­रु­षी­य­चै­त­न्या­भे­दा­भि­व्यक्त्या तदभेदसत्त्वाच्च न क्वाप्य­व्याप्तिः । न च अन्तः­क­र­ण­त­द्ध­र्माणां ज्ञानादीनामिव धर्मा­ध­र्म­सं­स्का­रा­णा­मपि साक्षिणि कल्पि­त­त्वा­वि­शे­षात् आप­रो­क्ष्या­पत्तिः । तेषा­म­नु­द्भू­त­त्वात् , उद्भूतस्यैव जडस्य चैतन्याभेदे आपरोक्ष्यम् इत्यभ्युपगमात् । एवं च सर्वदा सर्व­पु­रु­ष­चै­त­न्या­भि­न्न­त्वात् ‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म’(बृ.उ. ३ । ४ । १) इति श्रुत्या स्वत एवापरोक्षं ब्रह्मेति अप­रो­क्षा­र्थ­वि­ष­य­त्वात् शाब्दस्यापि ब्रह्मज्ञानस्य अप­रो­क्ष­त्व­वा­चो­यु­क्ति­र्यु­क्ता−इ­त्याहुः ।

अद्वै­त­वि­द्या­चा­र्यास्तु − नाप­रो­क्षा­र्थ­वि­ष­यत्वं ज्ञान­स्या­प­रो­क्ष्यम् , स्वरू­प­सु­खा­प­रो­क्ष­रू­प­स्व­रू­प­ज्ञा­ना­व्या­प­नात् । स्ववि­ष­य­त्व­ल­क्ष­ण­स्व­प्र­का­श­त्व­नि­षे­धात् । किं तु यथा तत्तदर्थस्य स्वव्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भे­दोऽ­र्था­प­रो­क्ष्यम् , एवं तत्त­द्व्य­व­हा­रा­नु­कू­ल­चै­त­न्यस्य तत्तदर्थाभेदो ज्ञाना­प­रो­क्ष्यम् । तथा च चैतन्यधर्म एवापरोक्ष्यम् , न त्वनु­मि­ति­त्वा­दि­वत् अन्तः­क­र­ण­वृ­त्ति­धर्मः । अत एव सुखा­दि­प्र­का­श­रूपे साक्षिणि स्वरू­प­सु­ख­प्र­का­श­रूपे चैतन्ये च आपरोक्ष्यम् । न च घटा­द्यै­न्द्रि­य­क­वृत्तौ तदनुभवविरोधः । अनुभवस्य वृत्त्य­व­च्छि­न्न­चै­त­न्य­ग­ता­प­रो­क्ष्य­वि­ष­य­त्वो­प­पत्तेः ।

ननु उक्तं ज्ञाना­र्थ­यो­रा­प­रोक्ष्यं हृद­या­दि­गो­च­र­शा­ब्द­वृ­त्ति­शा­ब्द­वि­ष­य­यो­र­ति­प्र­स­क्तम् , तत्र दैवात् कदाचित् वृत्ति­वि­ष­य­सं­सर्गे सति वृत्त्य­व­च्छि­न्न­चै­त­न्यस्य विष­या­व­च्छि­न्न­चै­त­न्यस्य चाभे­दा­भि­व्यक्तेः अवर्जनीयत्वात् इति चेत् , न−परोक्षवृत्तेः विष­या­व­च्छि­न्न­चै­त­न्य­ग­ता­ज्ञा­न­नि­व­र्त­ना­क्ष­म­तया तत्र अज्ञानेनावृतस्य विषयचैतन्यस्य अनावृतेन वृत्त्य­व­च्छि­न्न­सा­क्षि­चै­त­न्येन अभे­दा­भि­व्य­क्ते­र­भा­वात् आप­रो­क्ष्या­प्र­सक्तेः । अत एव जीवस्य संसारदशायां वस्तुतस्सत्यपि ब्रह्माभेदे न तदापरोक्ष्यम् , अज्ञा­ना­व­र­ण­कृ­त­भे­द­स­त्त्वात् । न चैवं ब्रह्मणो जीवा­प­रो­क्ष्या­स­म्भ­वात् अस­र्व­ज्ञ­त्वा­पत्तिः । अज्ञानस्य ईश्वरं प्रत्यनावारकतया तं प्रति जीव­भे­दा­ना­पा­द­नात् । यं प्रति यदज्ञानमावारकं तस्य तं प्रत्येव स्वाश्र­य­भे­दा­पा­द­क­त्वात् । अत एव चैत्रज्ञानेन तस्य घटाज्ञाने निवृत्ते अनिवृत्तं मैत्राज्ञानं मैत्रं प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटा­प­रो­क्ष्या­नु­भ­वा­नु­प­प­त्ति­रपि ।

ननु−एवं वृत्ति­वि­ष­य­चै­त­न्या­भे­दा­भि­व्य­क्ति­ल­क्ष­ण­स्या­प­रो­क्ष्यस्य स्ववि­ष­य­चै­त­न्य­ग­ता­ज्ञा­न­नि­वृ­त्ति­प्र­यो­ज्यत्वे तस्य अज्ञा­न­नि­वृ­त्ति­प्र­यो­ज­क­त्वा­यो­गात् ज्ञान­मा­त्र­म­ज्ञा­न­नि­व­र्तकं भवेदिति चेत् , न−यत् ज्ञानम् उत्पद्यमानं स्वकारणमहिम्ना विष­य­सं­सृ­ष्ट­मे­वो­त्प­द्यते तदे­वा­ज्ञा­न­नि­व­र्त­क­मिति विशेषणात् , ऐन्द्रि­य­क­ज्ञा­नानां तथात्वात् । एवं च शब्दा­दु­त्प­द्य­मा­न­मपि ब्रह्मज्ञानं सर्वो­पा­दा­न­भू­त­स्व­वि­ष­य­ब्र­ह्म­सं­सृ­ष्ट­मेव उत्पद्यत इति तस्या­ज्ञा­न­नि­व­र्त­क­त्वम् अज्ञाननिवृत्तौ तन्मू­ल­भे­द­प्र­वि­ल­या­दा­प­रोक्ष्यं चेत्यु­प­प­द्य­ते­त­राम् । नन्वेवम् अध्य­य­न­गृ­ही­त­वे­दा­न्त­ज­न्ये­नापि तज्ज्ञानेन मूला­ज्ञा­न­नि­वृत्त्या आपरोक्ष्यं किं न स्यात् । न च तत् सत्ता­नि­श्च­य­रू­प­त्वा­भा­वात् नाज्ञा­न­नि­व­र्त­क­मिति वाच्यम् । तथापि कृतश्रवणस्य निर्वि­चि­कि­त्स­शा­ब्द­ज्ञा­नेन तन्निवृत्त्या मन­ना­दि­वै­य­र्थ्या­प­त्ति­रिति चेत् , न – सत्यपि श्रवणात् निर्वि­चि­कि­त्स­ज्ञाने चित्त­वि­क्षे­प­दो­षेण प्रतिबन्धात् अज्ञा­न­ना­नि­वृत्त्या तन्निराकरणे मन­न­नि­दि­ध्या­स­न­नि­य­म­वि­ध्य­र्था­नु­ष्ठा­न­स्या­र्थ­व­त्त्वात् , भवा­न्त­री­य­म­न­ना­द्य­नु­ष्ठा­न­नि­र­स्त­चि­त्त­वि­क्षे­पस्य उपदेशमात्रात् ब्रह्मा­प­रो­क्ष्यस्य इष्यमाणत्वाच्च इत्याहुः ।

अथै­व­म­पि−कृ­त­नि­दि­ध्या­स­नस्य वेदा­न्त­ज­न्य­ब्र­ह्म­ज्ञा­ने­नेव घटादिज्ञानेनापि ब्रह्म­ज्ञा­न­नि­वृत्तिः किं न स्यात् । न च तस्य ब्रह्मा­वि­ष­य­त्वात् न ततो ब्रह्मा­ज्ञा­न­नि­वृ­त्ति­रिति वाच्यम् । ‘घटस्सन्’ इत्या­दि­बु­द्धि­वृत्तेः सद्रू­प­ब्र­ह्म­वि­ष­य­त्वो­प­ग­मात् । न च तत्र घटा­द्या­का­र­वृत्त्या तदज्ञाननिवृत्तौ स्वतःस्फुरणादेव तदवच्छिन्नं चैतन्यं सदिति प्रकाशते, न तस्य घटा­द्या­का­र­वृ­त्ति­वि­ष­य­त्व­मिति – वाच्यम् । तदभावे घटविषयं ज्ञानं तद­व­च्छि­न्न­चै­त­न्य­वि­ष­य­म­ज्ञा­न­मिति भिन्नविषयेण ज्ञानेन तद­ज्ञा­न­नि­वृ­त्ते­र­यो­गात् , जडे आवरणकृत्याभावेन घट­स्या­ज्ञा­ना­वि­ष­य­त्वात् । न च घटादिवृत्तेः तद­व­च्छि­न्न­चै­त­न्य­वि­ष­य­त्वेऽपि अख­ण्डा­न­न्दा­का­र­त्वा­भा­वात् न ततो मूला­ज्ञा­न­नि­वृ­त्ति­रिति वाच्यम् । वेदा­न्त­ज­न्य­सा­क्षा­त्का­रेऽपि तदभावात् । न हि तत्र अख­ण्ड­त्व­मा­न­न्दत्वं वा कश्चिदस्ति प्रकारः । वेदान्तानां संस­र्गा­गो­च­र­प्र­मा­ज­न­क­त्व­ल­क्ष­णा­ख­ण्डा­र्थ­त्व­हा­ना­पत्तेः । न च वेदा­न्त­ज­न्य­ज्ञा­ना­देव तन्निवृत्तिनियम इति वाच्यम् । क्लृप्ता­ज्ञा­न­नि­व­र्त­क­त्व­प्र­यो­ज­कस्य रूपस्य ज्ञानान्तरेऽपि सद्भावे तथा­नि­य­न्तु­म­श­क्य­त्वात् । न च घटा­द्या­का­र­वृ­त्ति­वि­ष­य­स्या­व­च्छि­न्न­चै­त­न्य­स्यापि कल्पितत्वेन यत् मूला­ज्ञा­न­वि­ष­य­भूतं सत्य­म­न­व­च्छि­न्न­चै­तन्यं तद्वि­ष­य­त्वा­भा­वात् घटादिवृत्तीनां निव­र्त्य­त्वा­भि­म­ता­ज्ञा­न­स­मा­न­वि­ष­य­त्व­ल­क्षणं कॢप्तप्रयोजकमेव नास्तीति वाच्यम् । तत्र अवच्छेदकांशस्य कल्पितत्वेऽपि अवच्छेद्यांशस्य अक­ल्पि­त­मू­ला­ज्ञा­न­वि­ष­य­चै­त­न्य­रू­प­त्वात् , तस्य कल्पितत्वे घटवज्जडतया अवस्थाज्ञानं प्रत्यपि विषयत्वायोगेन अवस्थाज्ञानस्य मूला­ज्ञा­न­वि­ष­या­क­ल्पि­त­चै­त­न्य­वि­ष­य­त्वस्य वक्तव्यतया तन्नि­व­र्त­क­घ­टा­दि­ज्ञा­न­स्यापि तद्वि­ष­य­त्वा­व­श्य­म्भा­वेन तत्पक्षेऽपि ततो मूला­ज्ञा­न­नि­वृ­त्ति­प्र­स­ङ्गस्य अपरिहारात् ।

घटादिज्ञानानां मूला­ज्ञा­ना­नि­व­र्त­क­त्व­स­म­र्थ­नम्

अत्राहुः आचार्याः − न चैतन्यं चक्षु­रा­दि­ज­न्य­वृ­त्ति­वि­षयः । ‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्’(क.उ. २ । ३ । ९) ‘पराञ्चि खानि व्यतृ­ण­त्स्व­य­म्भू­स्त­स्मा­त्प­राङ् पश्यति नान्तरात्मन्’(क.उ. २ । १ । १) इत्यादिश्रुत्या तस्य परमाण्वादिवत् चक्षु­रा­द्य­यो­ग्य­त्वो­प­दे­शात् ‘औपनिषदम्’ इति विशेषणाच्च । न च ‘सर्व­प्र­त्य­य­वेद्ये (वा) (च) ब्रह्मरूपे व्यवस्थिते ।’ इत्या­दि­वा­र्ति­क­वि­रोधः । तस्य घटा­द्या­का­र­वृ­त्त्यु­दये सति आवरणाभिभवात् स्वप्रभं सद्रूपं ब्रह्म ‘घटस्सन्’ इति घटवद्व्यवहार्यं भवतीति औप­चा­रि­क­घ­टा­दि­वृ­त्ति­वे­द्य­त्व­प­र­त्वात् । आवरणाभिभावकत्वं च घटादिज्ञानस्य घटा­दि­वि­ष­य­त्वा­देव उपपन्नम् । घटा­दे­र­प्य­ज्ञा­न­वि­ष­य­त्वात् ‘घटं न जानामि’ ‘घटज्ञानेन घटाज्ञानं नष्टम्’ इति अवस्थाज्ञानस्य घटा­दि­वि­ष­य­त्वा­नु­भ­वात् । न च - तत्र आव­र­ण­कृ­त्या­भा­वा­द­ज्ञा­ना­ङ्गी­कारो न युक्तः, तद्भासकस्य तद­व­च्छि­न्न­चै­त­न्यस्य आवरणादेव तद­प्र­का­शो­प­प­त्ते­रि­ति−वा­च्यम् । उक्तभङ्ग्या जडस्य साक्षा­द­ज्ञा­न­वि­ष­य­त्वस्य प्रतिक्षेपेऽपि जडा­व­च्छि­न्न­चै­त­न्य­प्र­का­श­स्या­ज्ञा­ने­ना­व­र­णम् , ततो नित्य­चै­त­न्य­प्र­का­श­सं­स­र्गेऽपि जडस्य ‘नास्ति न प्रकाशते’ इत्या­दि­व्य­व­हा­र­यो­ग्य­त्व­मिति परम्परया अज्ञा­न­वि­ष­य­त्वा­भ्यु­प­ग­मात् साक्षा­त्प­र­म्प­रया वा यदज्ञानावरणीयं तद्विषयत्वस्यैव ज्ञानस्य तद­ज्ञा­न­नि­व­र्त­क­त्व­प्र­यो­ज­क­श­रीरे निवेशात् । न चैवं घटा­दी­ना­मु­क्त­रीत्या मूला­ज्ञा­न­वि­ष­य­त्व­म­पीति घटा­दि­सा­क्षा­त्का­रा­देव मूला­ज्ञा­न­नि­वृ­त्त्या­पातः । फलबलात् तद­ज्ञा­न­का­र्या­ति­रि­क्त­त­द्वि­ष­य­वि­ष­य­क­त्व­स्यैव तन्निवर्तकत्वे तन्त्रत्वात् ।

अथवा, मूलाज्ञानस्यैव जडं न विषयः । अवस्थाज्ञानानां तु अव­च्छि­न्न­चै­त­न्या­श्रि­तानां तत्तज्जडमेव विषयः । अन्यथा चाक्षुषवृत्त्या चन्द­न­ख­ण्ड­चै­त­न्या­भि­व्यक्तौ तत्संसर्गिणो गन्ध­स्या­प्या­प­रो­क्ष्या­पत्तेः, तदनभिव्यक्तौ चन्द­न­त­द्रू­प­यो­र­प्य­प्र­का­शा­पत्तेः । न च - चाक्षुषवृत्त्या चन्द­न­त­द्रू­पा­व­च्छि­न्न­चै­त­न्य­यो­र­भि­व्यक्त्या तयोः प्रकाशः, गन्धा­का­र­वृ­त्त्य­भा­वेन गन्धा­व­च्छि­न्न­चै­त­न्य­स्या­न­भि­व्यक्त्या तस्या­प्र­का­श­श्चेति - वाच्यम् । चैतन्यस्य द्विगुणीकृत्य वृत्त्ययोगेन एकद्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथ­क्पृ­थ­ग्ग­ग­ना­व­च्छे­द­क­त्व­स्येव चैत­न्या­व­च्छे­द­क­त्व­स्या­प्य­स­म्भ­वात् । तेषां स्वाश्र­य­द्र­व्या­व­च्छि­न्न­चै­त­न्ये­नैव शुक्ती­द­मं­शा­व­च्छि­न्न­चै­त­न्येन शुक्तिरजतवत् प्रकाश्यतया तस्याभिव्यक्तौ गन्धस्यापि (आप­रो­क्ष्या­पत्तेः) प्रकाशस्य अनभिव्यक्तौ रज­ता­दे­र­प्य­प्र­का­शस्य चापत्तेः । न च गन्धा­का­र­वृ­त्त्यु­प­रक्त एव चैतन्ये गन्धः प्रकाशत इति नियमः । प्रका­श­सं­स­र्ग­स्यैव प्रका­श­मा­न­श­ब्दा­र्थ­त्वेन असत्यामपि तदाकारवृत्तौ अना­वृ­त­प्र­का­श­सं­सर्गे अप्र­का­श­मा­न­त्व­क­ल्प­नस्य विरुद्धत्वात् , अभिव्यक्तस्य च गन्धो­पा­दा­न­चै­त­न्यस्य गन्धा­सं­स­र्गो­क्त्य­स­म्भ­वात् । तस्मात् यथा चैत्रस्य घटवृत्तौ तं प्रत्या­व­र­क­स्यै­वा­ज्ञा­नस्य निवृत्तिरिति तस्यैव विषयप्रकाशो नान्यस्य, तथा तत्त­द्वि­ष­या­का­र­वृत्त्या तत्त­दा­वा­र­का­ज्ञा­न­स्यैव निवृत्तेः न विष­या­न्त­र­स्या­प­रो­क्ष्यम् , ‘अना­वृ­ता­र्थ­स्यैव संविदभेदात् आपरोक्ष्यम् ‘इत्य­भ्यु­प­ग­मा­दिति प्रमातृभेदेनेव विष­य­भे­दे­ना­प्ये­कत्र चैतन्ये अव­स्था­ज्ञा­न­भे­दस्य वक्तव्यतया अवस्थाज्ञानानां तत्त­ज्ज­ड­वि­ष­य­क­त्व­मिति घटादिवृत्तीनां नाव­स्था­ज्ञा­न­नि­व­र्त­कत्वे काचिदनुपपत्तिः, न वा मूला­ज्ञा­न­नि­व­र्त­क­त्वा­पत्तिः ।

न चैवमपि जीवविषयाया अह­मा­का­रा­वृ­त्ते­र्मू­ला­ज्ञा­न­नि­व­र्त­क­त्वा­पत्तिः । तस्याः स्वय­म्प्र­का­श­मा­न­चि­त्सं­व­लि­ता­चि­दं­श­मा­त्र­वि­ष­य­त्वात् , ‘सोऽहम्’ इति प्रत्यभिज्ञाया अपि स्वयम्प्रकाशे चैतन्ये अन्तः­क­र­ण­वै­शि­ष्ट्येन सह पूर्वा­प­र­का­ल­वै­शि­ष्ट्य­मा­त्र­वि­ष­य­त्वेन चैत­न्य­वि­ष­य­त्वा­भा­वात् − इति ।

केचित्तु - घटादिवृत्तीनां तत्त­द­व­च्छि­न्न­चै­त­न्य­वि­ष­य­त्व­म­भ्यु­प­गम्य ‘सर्व­मा­न­प्र­सक्तौ च सर्व­मा­न­फ­ला­श्र­यात् । श्रोतव्येतिवचः प्राह वेदा­न्ता­व­रु­रु­त्सया’ (बृ.वा. २ । ४ । २१२) इति वार्ति­को­क्त­श्रो­त­व्य­वा­क्या­र्थ­वे­दा­न्त­नि­य­म­वि­ध्य­नु­सा­रेण वेदान्तजन्यमेव नियमादृष्टसहितं ब्रह्म­ज्ञा­न­म­प्र­ति­बद्धं ब्रह्मा­ज्ञा­न­नि­व­र्त­क­मिति घटादिज्ञानान्न तन्नि­वृ­त्ति­प्र­स­ङ्गः−इ­त्याहुः ।

अन्ये तु−तत्त्व­म­स्या­दि­वा­क्य­जन्यं जीव­ब्र­ह्मा­भे­द­गो­च­र­मेव ज्ञानं मूला­ज्ञा­न­नि­व­र्त­कम् , मूलाज्ञानस्य तदभेदगोचरत्वात् , इति न चैत­न्य­स्व­रू­प­मा­त्र­गो­च­रात् घटा­दि­ज्ञा­ना­त्त­न्नि­वृ­त्ति­प्र­सङ्गः । न च अभेदस्य तत्त्वा­वे­द­क­प्र­मा­ण­बो­ध्यस्य चैतन्यातिरेके द्वैतापत्तेः चैत­न्य­मा­त्र­म­भेदः इति तद्गोचरं घटा­दि­ज्ञा­न­म­प्य­भे­द­गो­च­र­मिति वाच्यम् । नह्य­भे­द­ज्ञा­न­मिति विषयतो विशेषं ब्रूमः, किं तु तत्त्व­म्प­द­वा­च्या­र्थ­ध­र्मि­द्व­य­प­रा­म­र्शा­दि­रू­प­का­र­ण­वि­शे­षा­धी­नेन स्वरू­प­स­म्ब­न्ध­वि­शे­षेण चैत­न्य­वि­ष­य­त्व­मेव तदभेदज्ञानत्वम् ।

यथा हि विशे­ष­ण­वि­शे­ष्य­त­त्स­म्ब­न्ध­गो­च­र­त्वा­वि­शे­षेऽपि विशिष्टज्ञानस्य विशे­ष­ण­ज्ञा­ना­दि­का­र­ण­वि­शे­षा­धी­न­स्व­रू­प­स­म्ब­न्ध­वि­शे­षेण तत्त्रि­त­य­गो­च­र­त्व­मेव समू­हा­ल­म्ब­न­व्या­वृत्तं विशि­ष्ट­ज्ञा­न­त्वम् , यथा वा ‘स्थाणु­त्व­पु­रु­ष­त्व­वान्’ इत्या­हा­र्य­वृ­त्ति­व्या­वृत्तं संशयत्वम् , विषयतो विशेषानिरूपणात् ; तथा घटादावपि ‘सोऽयं घटः’ इत्यादिज्ञानस्य स्वरू­प­स­म्ब­न्ध­वि­शे­षेण घटादिविषयत्वमेव केव­ल­घ­ट­श­ब्दा­दि­ज­न्य­ज्ञा­न­व्या­वृत्तं तदभेदज्ञानत्वम् । अति­रि­क्ता­भे­दा­नि­रू­प­णात् । अभा­व­सा­दृ­श्या­दी­ना­म­धि­क­र­ण­प्र­ति­यो­ग्या­दिभिः स्वरू­प­स­म्ब­न्ध­यु­क्ता­नाम् अधिकरणेन आधाराधेयभावरूपः स्वरू­प­स­म्ब­न्ध­वि­शेषः प्रतियोगिना प्रति­यो­ग्य­नु­यो­गि­भा­व­रूपः, इत्यादिप्रकारेण स्वरूपसम्बन्धे अवा­न्त­र­वि­शे­ष­क­ल्प­ना­वत् वृत्तीनां विषयेऽपि संयो­ग­ता­दा­त्म्य­यो­र­ति­प्र­सक्त्या विषयैः विष­य­वि­ष­यि­भा­व­रू­प­स्व­रू­प­स­म्ब­न्ध­व­तीनां विष­य­वि­शे­ष­नि­रू­प­णा­स­म्भवे क्लृप्त एव स्वरूपसम्बन्धे अवा­न्त­र­वि­शे­ष­क­ल्प­नेन अभे­द­ज्ञा­न­त्वा­दि­प­र­स्प­र­वै­ल­क्ष­ण्य­नि­र्वा­हाच्च । एवं च ब्रह्मज्ञानस्य अभे­दा­ख्य­कि­ञ्चि­त्सं­स­र्ग­गो­च­र­त्वा­न­भ्यु­प­ग­मात् न वेदा­न्ता­ना­म­ख­ण्डा­र्थ­त्व­हा­नि­र­पि−इ­त्याहुः ।

ब्रह्मज्ञानस्य मूला­ज्ञा­न­नि­व­र्त­क­त्व­स­म­र्थ­नम्

ननु − घटादिज्ञानवत् ब्रह्म­ज्ञा­न­स्यापि न मूला­ज्ञा­न­नि­व­र्त­कत्वं युक्तम् , निवर्तकत्वे तद­व­स्था­ना­स­हि­ष्णु­त्व­रू­पस्य विरोधस्य तन्त्रत्वात् , कार्यस्य चोपादानेन सह तादृ­श­वि­रो­धा­भा­वात् इति चेत् − न - कार्यकारणयोः अन्यत्र तादृ­श­वि­रो­धा­द­र्श­नेऽपि एक­वि­ष­य­ज्ञा­ना­ज्ञा­न­भा­व­प्र­यु­क्तस्य तादृग्विरोधस्य अत्र सत्त्वात् , कार्य­का­र­ण­यो­र­प्य­ग्नि­सं­यो­ग­प­टयोः तादृशविरोधस्य दृष्टेश्च । न च अग्निसंयोगात् अव­य­व­वि­भा­ग­प्र­क्रि­यया अस­म­वा­यि­का­र­ण­सं­यो­ग­ना­शा­देव पटनाशः नाग्नि­सं­यो­गा­दि­ति­वा­च्यम् । दग्धपटेऽपि पूर्व­सं­स्था­ना­नु­वृ­त्ति­द­र्श­नेन मुद्ग­र­चू­र्णी­कृ­त­घ­ट­व­द­व­य­व­वि­भा­गा­द­र्श­नात् तत्र अव­य­व­वि­भा­गा­दि­क­ल्प­नाया अप्रा­मा­णि­क­त्वात् । नापि तत्र तन्तूनामपि दाहेन सम­वा­यि­का­र­ण­ना­शात् पटनाश इति युक्तम् । अंशु­त­न्त्वा­दि­भि­स्सह युगपदेव पटस्य दाहदर्शनेन क्रम­क­ल्प­ना­यो­गात् । यतोऽधस्तात् नावयवनाशः तत्रावयवे अग्निसंयोगादेव नाशस्य वाच्यत्वात् ।

ब्रह्म­ज्ञा­न­नि­व­र्त­क­नि­रू­प­णम्

ननु−अ­स्त्वे­त­दे­वम् , तथापि सवि­ला­सा­ज्ञा­न­ना­श­क­मिदं ब्रह्मज्ञानं कथं नश्येत् , नाश­का­न्त­र­स्या­भा­वात् − इति चेत् , न−यथा कतकरजः सलिलेन संयुज्य पूर्व­यु­क्त­र­जोऽ­न्त­र­वि­श्लेषं जनयत् स्वविश्लेषमपि जनयति, तथा आत्म­न्य­ध्य­स्य­मानं ब्रह्मज्ञानं पूर्वा­ध्य­स्त­स­र्व­प्र­पञ्चं निवर्तयत् स्वात्मानमपि निवर्तयतीति केचित् ।

अन्ये तु अन्यन्निवर्त्य स्वयमपि निवृत्तौ दग्ध­लो­ह­पी­ता­म्बु­न्या­य­मु­दा­ह­रन्ति ।

अपरे तु अत्र दग्ध­तृ­ण­कू­ट­द­ह­नो­दा­ह­र­ण­माहुः ।

न च ध्वंसस्य प्रति­यो­ग्य­ति­रि­क्त­ज­न्य­त्व­नि­यमः । अप्रयोजकत्वात् , निरिन्धनदहनादि ध्वंसे व्यभिचाराच्च । न च - ध्वंसस्य प्रति­यो­गि­मा­त्र­ज­न्य­त्वेऽ­ति­प्र­स­ङ्गात् कारणान्तरमवश्यं वाच्यम् , निरि­न्ध­न­द­ह­ना­दि­ध्वं­सेऽपि काला­दृ­ष्टे­श्व­रे­च्छा­दि­का­र­णा­न्त­र­मस्ति इति - वाच्यम् । अति­प्र­स­ङ्गा­प­रि­ज्ञा­नात् । न च ‘घटा­दि­ध्वं­स­स्यापि कार­णा­न्त­र­नि­र­पे­क्षत्वं स्यात्’ इत्यतिप्रसङ्गः । ध्वंसमात्रे कार­णा­न्त­र­नै­र­पे­क्ष्या­न­भि­धा­नात् । न च घट­ध्वं­स­दृ­ष्टा­न्तेन ब्रह्म­ज्ञा­न­ध्वं­सस्य कार­णा­न्त­रा­पे­क्षा­सा­ध­नम् । तद्दृष्टान्तेन मुद्ग­र­प­त­ना­पे­क्षाया अपि साधनापत्तेः । नापि ज्ञान­ध्वं­स­त्व­सा­म्यात् घट­ज्ञा­ना­दि­ध्वं­स­स्यापि कार­णा­न्त­र­नै­र­पेक्ष्यं स्यादि­त्य­ति­प्र­सङ्गः । सेन्ध­ना­न­ल­ध्वं­सस्य जल­से­का­दि­दृ­ष्ट­का­र­णा­पे­क्ष­त्वेऽपि निरि­न्ध­ना­न­ल­ध्वं­सस्य तदनपेक्षत्ववत् , जाग्र­ज्ज्ञा­न­ध्वं­सस्य विरो­धि­वि­शे­ष­गु­णा­न्त­रा­पे­क्ष­त्वेऽपि सुषु­प्ति­पू­र्व­ज्ञा­न­ध्वं­सस्य तद­न­पे­क्ष­त्व­वच्च, मूला­ज्ञा­न­नि­व­र्त­क­ज्ञा­न­ध्वं­सस्य कार­णा­न्त­र­सा­पे­क्ष­त्वेऽपि तन्नि­व­र्त­क­ज्ञा­न­ध्वं­सस्य तद­न­पे­क्ष­त्वो­प­पत्तेः । नापि कार­णा­न्त­र­नै­र­पेक्ष्ये स्वोत्प­त्त्यु­त्त­र­क्षण एव नाशः स्यादि­त्य­ति­प्र­सङ्गः । इष्टापत्तेः । तदु­त्प­त्त्यु­त्त­र­क्षण एव ब्रह्मा­ध्य­स्त­नि­खि­ल­प्र­प­ञ्च­दा­हेन तदन्तर्गतस्य तस्यापि तदैव दाहाभ्युपगमात् , निरि­न्ध­न­द­ह­न­ध्वं­स­न्या­येन ब्रह्म­ज्ञा­न­ध्वं­स­स्यापि काला­दृ­ष्टे­श्व­रे­च्छा­दि­का­र­णा­न्त­र­ज­न्य­त्वेऽ­प्य­वि­रो­धाच्च, ‘सर्व­प्र­प­ञ्च­नि­वृ­त्त्य­न­न्त­रम् एकशेषस्य ब्रह्मज्ञानस्य निवृत्तिः’ इत्यनभ्युपगमेन युगपत् सर्वदाहे पूर्वक्षणे चिद­वि­द्या­स­म्ब­न्ध­रू­पस्य द्रव्या­न्त­र­रू­पस्य वा कालस्य ईश्व­र­प्र­सा­द­रू­प­स्या­न्तः­क­र­ण­गु­ण­वि­शे­षस्य वा अदृष्टस्य अन्येषां च सत्त्वात् । न च − तत्र ज्ञाना­ति­रि­क्त­का­र­णा­पे­क्षणे ब्रह्मज्ञानस्य अमि­थ्या­त्व­प्र­सङ्गः, ज्ञानै­क­नि­व­र्त्यत्वं मिथ्या­त्व­मि­त्य­भ्यु­प­ग­मात् इति वाच्यम् । ज्ञाना­घ­टि­त­सा­म­ग्र्य­नि­व­र्त्यत्वे सति ज्ञान­नि­व­र्त्य­त्वस्य तदर्थत्वात् । ‘नान्यः पन्था’(श्वे.उ. ३ । ८) इति श्रुतेरपि तत्रैव ताप्तर्यात् । अतो युक्त एव दग्ध­दा­ह्य­द­ह­ना­दि­न्यायः ।

केचित्तु - वृत्तिरूपं ब्रह्मज्ञनं नाज्ञा­न­त­न्मू­ल­प्र­प­ञ्च­नि­ब­र्ह­कम् । अज्ञानस्य प्रका­श­नि­व­र्त्य­त्व­नि­य­मेन जड­रू­प­वृ­त्ति­नि­व­र्त्य­त्वा­यो­गात् । किं तु तदा­रू­ढ­चै­त­न्य­प्र­काशः तन्निवर्तकः । स्वरूपेण तस्य अज्ञा­ना­दि­सा­क्षि­तया तद­नि­व­र्त­क­त्वेऽपि अख­ण्डा­का­र­वृ­त्त्यु­पा­रू­ढस्य तस्य तन्नि­व­र्त­क­त्वो­प­पत्तेः । ‘तृणा­दे­र्भा­सि­काऽ­प्येषा सूर्य­दी­प्ति­स्तृणं दहेत् । सूर्य­का­न्त­मु­पा­रुह्य तन्न्यायं तत्र योजयेत् ॥’ इत्य­भि­यु­क्तोक्तेः । एवं च, यथा (किञ्चित्) काष्ठमुपारुह्य ग्रामनगरादिकं दहन् वह्निः दहत्येव तदपि काष्ठम् , तथा चर­म­वृ­त्ति­मु­पा­रुह्य निखि­ल­प्र­प­ञ्च­मु­न्मू­ल­यन् अख­ण्ड­चै­त­न्य­प्र­काशः तन्निवर्तनेऽपि प्रगल्भत इति तन्नाशे न काचिदनुपपत्तिः − इत्यहुः ।

अन्ये तु – ब्रह्म­ज्ञा­न­म­ज्ञा­न­स्यैव निवर्तकम् , ज्ञाना­ज्ञा­न­यो­रेव साक्षा­द्वि­रो­धात् , प्रपञ्चस्य तु उपादाननाशान्नाश इति प्रप­ञ्चा­न्त­र्ग­त­ब्र­ह्म­ज्ञा­न­स्यापि तत एव नाशः । न च प्रपञ्चस्य ज्ञाना­नि­व­र्त्यत्वे मिथ्या­त्वा­नु­प­पत्तिः । प्रप­ञ्च­नि­वृत्तेः साक्षात् ज्ञान­ज­न्य­त्वा­भा­वेऽपि ज्ञान­ज­न्या­ज्ञा­न­ना­श­ज­न्य­त्वात् , साक्षात् परम्परया वा ज्ञानै­क­नि­व­र्त्यत्वं मिथ्या­त्व­मि­त्य­ङ्गी­का­रात् । एवं च तत्त्व­सा­क्षा­त्का­रो­द­येऽपि जीवन्मुक्तस्य देहादिप्रतिभास उपपद्यते । प्रारब्धकर्मणा प्रतिबन्धेन, तत्त्व­सा­क्षा­त्का­रो­द­येऽपि प्रार­ब्ध­क­र्म­त­त्का­र्य­दे­हा­दि­प्र­ति­भा­सा­नु­वृत्त्या, उपा­दा­ना­वि­द्या­ले­शा­नु­वृ­त्त्यु­प­पत्तेः । अज्ञानवत् प्रपञ्चस्यापि साक्षात् ब्रह्म­सा­क्षा­त्का­र­नि­व­र्त्यत्वे नायमुपपद्यते । विरोधिनि ब्रह्म­सा­क्षा­त्कारे सति प्रारब्धकर्मणः स्वय­मे­वा­व­स्था­ना­स­म्भ­वेन अवि­द्या­ले­श­नि­वृ­त्ति­प्र­ति­ब­न्ध­क­त्वा­यो­गात् - इत्याहुः ॥

॥ इति शास्त्र­सि­द्धा­न्त­ले­श­स­ङ्ग्रहे तृतीयः परिच्छेदः ॥