अद्वैतशारदा

शास्त्रसिद्धान्तलेशसङ्ग्रहः

चतुर्थपरिच्छेदः

जीव­न्मु­क्ति­स­द­स­द्भा­वो­प­पा­द­नम्

अथ कोऽय­म­वि­द्या­लेशः, यदनुवृत्त्या जीवन्मुक्तिः ?

आव­र­ण­वि­क्षे­प­श­क्ति­मत्या मूलाविद्यायाः प्रार­ब्ध­क­र्म­व­र्त­मा­न­दे­हा­द्य­नु­वृ­त्ति­प्र­यो­जको विक्षेपशक्त्यंश इति केचित् ।

क्षालि­त­ल­शु­न­भा­ण्डा­नु­वृ­त्त­ल­शु­न­वा­स­ना­क­ल्पोऽ­वि­द्या­सं­स्कार इति − अन्ये ।

दग्ध­प­ट­न्या­ये­ना­नु­वृत्ता मूलाविद्यैवेति − अपरे ।

सर्व­ज्ञा­त्म­गु­र­वस्तु − विरो­धि­सा­क्षा­त्का­रो­दये लेश­तोऽ­प्य­वि­द्या­नु­वृ­त्त्य­स­म्भ­वात् जीव­न्मु­क्ति­शास्त्रं श्रव­णा­दि­वि­ध्य­र्थ­वा­द­मा­त्रम् , शास्त्रस्य जीव­न्मु­क्ति­प्र­ति­पा­दने प्रयोजनाभावात् । अतः कृत­नि­दि­ध्या­स­नस्य ब्रह्म­सा­क्षा­त्का­रो­द­य­मा­त्रेण सवि­ला­स­वा­स­ना­वि­द्या­नि­वृत्तिः – इत्यपि कञ्चित् पक्षमाहुः ।

अवि­द्या­नि­वृ­त्ति­स्व­रू­प­वि­चारः

अथ केय­म­वि­द्या­नि­वृत्ति: ?

आत्मैवेति ब्रह्म­सि­द्धि­काराः । न च तस्य नित्य(त्वे­न)सि­द्ध­त्वात् ज्ञानवैयर्थ्यम् । असति ज्ञाने अन­र्थ­हे­त्व­वि­द्याया विद्यमानतया अनर्थमपि तिष्ठेदिति तदन्वेषणात् , ‘यस्मिन् सति अग्रिमक्षणे यस्य सत्त्वं यद्व्यतिरेके च अभावः तत् तत्साध्यम्’ इति लक्षणानुरोधेन आत्मरूपाया अप्य­वि­द्या­नि­वृत्तेः ज्ञान­सा­ध्य­त्वाच्च । ज्ञाने सति अग्रिमक्षणे आत्म­रू­पा­वि­द्या­नि­वृ­त्ति­सत्त्वं तद्व्यतिरेके तत्प्र­ति­यो­ग्य­वि­द्या­रूपः तदभाव इति उक्त­ल­क्ष­ण­स­त्त्वात् ।

आत्मन्यैव अवि­द्या­नि­वृत्तिः । सा च न सती । अद्वैतहानेः । नाप्यसती । ज्ञान­सा­ध्य­त्वा­यो­गात् । नापि सदसद्रूपा । विरोधात् । नाप्य­नि­र्वाच्या, अनिर्वाच्यस्य सादेः अज्ञा­नो­पा­दा­न­क­त्व­नि­य­मेन मुक्तावपि तदु­पा­दा­ना­ज्ञा­ना­नु­वृ­त्त्या­पत्तेः, ज्ञान­नि­व­र्त्य­त्वा­प­त्तेश्च । किन्तु उक्त­प्र­का­र­च­तु­ष्ट­यो­त्तीर्णा पञ्चमप्रकारा इति आन­न्द­बो­धा­चार्याः ।

अविद्यावत् तन्नि­वृ­त्ति­र­प्य­नि­र्वा­च्यैव । न च तदनुवृत्तौ तदु­पा­दा­ना­ज्ञा­न­स्या­प्य­नु­वृ­त्ति­नि­य­मात् अनि­र्मो­क्ष­प्र­सङ्गः । तदनुवृत्तौ प्रमाणाभावात् । उत्पत्तेः प्रथ­म­स­म­य­मा­त्र­सं­स­र्गि­भा­व­वि­का­र­त्व­वत् निवृत्तेरपि चर­म­स­म­य­मा­त्र­सं­स­र्गि­भा­व­वि­का­र­त्वो­प­पत्तेः । अत एव, यथा पूर्वं पश्चाच्च ‘उत्पत्स्यते’ ‘उत्पन्नः’ इति भाविभूतभावेन व्यवह्रियमाणाया उत्पत्तेः प्रथमसमयमात्रे ‘उत्पद्यते’ इति वर्त­मा­न­त्व­व्य­व­हारः, तथा पूर्वं पश्चाच्च ‘निवर्तिष्यते’ ‘निवृत्तः’ इति भाविभूतभावेन व्यवह्रियमाणाया निवृत्तेः चरमसमयमात्रे ‘निवर्तते’ ‘नश्यति’ ‘ध्वंसते’ इति वर्त­मा­न­त्व­व्य­प­देशः । निवृ­त्ते­र­नु­वृत्तौ तु चिरशकलितेऽपि घटे ‘इदानीं निवर्तते’ इत्यादिव्यवहारः स्यात् । आख्यातानां प्रकृ­त्य­र्थ­ग­त­व­र्त­मा­न­त्वा­द्य­र्था­भि­धा­यि­त्वात् ।

ननु च तेषां स्वाभि­हि­त­स­ङ्ख्या­श्र­य­प्र­कृ­त्य­र्थ­क­र्तृ­क­र्म­ग­त­व­र्त­मा­न­त्वा­द्य­र्था­भि­धा­य­कत्वं स्वाभि­हि­त­प्र­कृ­त्य­र्था­नु­कू­ल­व्या­पा­र­ग­त­व­र्त­मा­न­त्वा­द्य­र्था­भि­धा­य­कत्वं वा अस्तु । तथा च निवृ­त्ति­क्रि­या­क­र्तु­श्चि­र­चू­र्णि­तस्य घटस्य तद्ग­त­नि­वृ­त्त्य­नु­कू­ल­व्या­पा­रस्य च अवर्तमानत्वात् नोक्ता­ति­प्र­स­ङ्ग−इति चेत् , न − आद्ये उत्पन्नेऽपि घटे उत्पद्यत इति व्यवहारापत्तेः । उत्प­त्ति­क्रि­या­क­र्तु­र्घ­टस्य वर्तमानत्वात् । द्वितीये आम­वा­त­ज­डी­कृ­त­क­ले­वरे उत्था­ना­नु­कू­ल­य­त्न­वति उत्थानानुदयेऽपि ‘उत्तिष्ठति’ इति व्यवहारापत्तेः । आख्यातार्थस्य प्रकृ­त्य­र्थ­भू­तो­त्था­ना­नु­कू­लस्य यत्न­रू­प­व्या­पा­रस्य वर्तमानत्वात् । तस्मात् प्रकृ­त्य­र्थ­ग­त­मेव वर्तमानत्वादि आख्यातार्थ इति, ध्वंसस्य स्थायित्वे चिरनिवृत्तेऽपि घटे ‘निवर्तते’ इति व्यवहारो दुर्वारः ।

यदि च मुद्गरादिशकलिते घटे ध्वंसो नाम कश्चिदभावः तत्प्रतियोगिकः स्थायी भूतलाद्याश्रितः उपेयेत, तदा कपालमालापसरणे तदनपसरणेऽपि मणि­क­श­र­वा­दि­क­पा­ल­व्या­वृ­त्त­क­पा­ल­सं­स्था­न­वि­शे­षा­द­र्शने च किमिति स प्रत्यक्षो न स्यात् ।

कपा­ल­सं­स्था­न­वि­शे­षा­दिना अनुमेयो घटादिध्वंसो न प्रत्यक्ष इति चेत् तर्हि तेन मुद्ग­र­नि­पा­त­का­ली­नस्य उत्प­त्ति­व­द्भा­व­वि­का­र­रू­प­तया प्रति­यो­ग्या­श्रि­त­ध्वं­सस्य अनुमानं सम्भवतीति न ततः पश्चा­द­नु­व­र्त­मा­न­प्र­ति­यो­ग्य­धि­क­र­णा­श्रि­ता­भा­व­रू­प­ध्वं­स­सिद्धिः । ‘इह भूतले घटो ध्वस्तः’ इति भूतले ध्वंसा­धि­क­र­ण­त्व­व्य­व­हा­रस्य ‘इह भूतले घट उत्पन्नः’ इतिवत् भाव­वि­का­र­यु­क्त­प्र­ति­यो­ग्य­धि­क­र­ण­त्व­वि­ष­य­त्वो­प­पत्तेः । घटध्वंसानन्तरं भूतले घटा­भा­व­व्य­व­हा­रस्य घटापसरणानन्तरं तदभावव्यवहारवत् सम­य­वि­शे­ष­सं­स­र्ग्य­त्य­न्ता­भा­वा­व­ल­म्ब­न­तो­प­पत्त्या ध्वंस­वि­ष­य­त्व­स्या­क­ल्प­नी­य­त्वाच्च ।

एवं सति घटोत्पत्तेः पूर्वं तद­भा­व­व्य­व­हा­रोऽपि अत्यन्ताभावेन चरितार्थ इति प्रागभावोऽपि न स्यादिति चेत् , सोऽपि माभूत् । नन्वेवं ‘प्राग­भा­वा­धा­र­कालः पूर्वकालः’ ‘ध्वंसाधारः उत्तरकालः’ इति निर्व­च­ना­स­म्भ­वात् काले पूर्वो­त्त­रा­दि­व्य­व­हारः किमालम्बनः स्यात् ? घटादिषु प्रति­यो­गि­त्वा­दि­व्य­व­हा­र­वत् अख­ण्ड­कि­ञ्चि­द्ध­र्म­गो­च­रोऽस्तु । अभा­व­स्व­रू­प­स्था­यि­ध्वं­सा­भ्यु­प­ग­मेऽपि तेषु ध्वंस­त्वा­दे­र­ख­ण्ड­स्यैव वक्तव्यत्वात् । न च जन्याभावत्वरूपं सखण्डमेव ध्वंसत्वम् । ध्वंस­प्रा­ग­भा­व­रू­पस्य घटस्य तद्ध्वं­स­त्वा­पत्तेः । न च सप्त­म­प­दा­र्थ­रू­पा­भा­वत्वं विवक्षितम् । घटस्य प्रागभावं प्रत्यपि ध्वंस­त्वा­भा­व­प्र­स­ङ्गेन घटकाले प्रग­भा­वो­त्त­र­का­ल­त्व­व्य­व­हा­रस्य निरा­ल­म्ब­न­त्वा­पत्तेः । न च प्रति­यो­ग्य­ति­रिक्तः प्रागभावध्वंसः । तथा सति, तुल्यन्यायतया ध्वंस­प्रा­ग­भा­वोऽपि प्रति­यो­ग्य­ति­रिक्तः स्यादिति, प्राग­भा­व­ध्वं­स­स्यापि प्रागभावोऽन्यः, तस्यापि कश्चित् ध्वंसः, तस्यापि प्रागभावोऽन्यः, इत्य­प्रा­मा­णि­का­न­व­धि­क­ध्वं­स­प्रा­ग­भा­व­क­ल्प­ना­पत्तेः । न चान्यत् ध्वंसत्वम् आत्मा­श्र­या­दि­शून्यं निर्वक्तुं शक्यम् , एवं प्रागभावत्वमपि, इत्यन्यत्र विस्तरः ।

तस्मान्न पूर्वं प्रागभावः, न च पश्चात् ध्वंसाभावः, मध्ये परं किञ्चित्कालम् अनि­र्व­च­नी­यो­त्प­त्ति­स्थि­ति­ध्वं­स­रू­प­भा­व­वि­का­र­वान् घटाद्यध्यासः । एवं च अवि­द्या­नि­वृ­त्ति­रपि ब्रह्म­सा­क्षा­त्का­रो­द­या­न­न्त­र­क्ष­ण­वर्ती कश्चिद्भावविकार इति तस्या मुक्ता­व­नु­वृ­त्त्य­भा­वात् न तदनिर्वाच्यत्वे कश्चिद्दोष इति− अद्वै­त­वि­द्या­चार्याः ।

मोक्षस्य स्थिर­पु­रु­षा­र्थ­त्वो­प­पा­द­नम्

नन्वे­व­म­वि­द्या­नि­वृत्तेः क्षणिकत्वे मोक्षः स्थिरपुरुषार्थो न स्यादिति चेत् , भ्रान्तोऽसि । न ह्यवि­द्या­नि­वृत्तिः स्वयमेव पुरुषार्थ इति तस्या ज्ञान­सा­ध्य­त्व­मु­पे­यते । तस्याः सुख­दुः­खा­भा­वे­त­र­त्वात् । किं तु अख­ण्डा­न­न्दा­वा­र­क­सं­सा­र­दुः­ख­हे­त्व­वि­द्यो­च्छेदे अख­ण्डा­न­न्द­स्फु­रणं संसा­र­दुः­खो­च्छे­दश्च भवतीति तदुपयोगितया तस्या­स्त­त्त्व­ज्ञा­न­सा­ध्य­त्व­मु­पे­यते ।

चित्सु­खा­चा­र्यास्तु − दुःखाभावोऽपि मुक्तौ न स्वतः पुरुषार्थः । सर्वत्र दुःखाभावस्य स्वरू­प­सु­खा­भि­व्य­क्ति­प्र­ति­ब­न्ध­का­भा­व­तया सुखशेषत्वात् । सुखस्यैव स्वतः पुरुषार्थत्वम् अन्येषां सर्वेषामपि तच्छेषत्वमिति सुख­सा­ध­न­ता­ज्ञा­न­स्यैव प्रवर्तकत्वे सम्भवति, दुःखाभावस्यापि स्वतः पुरुषार्थत्वं परिकल्प्य तत्सा­ध­न­प्र­व­र्त­क­स­ङ्ग्र­हाय इष्ट­सा­ध­न­ता­ज्ञा­नस्य इच्छा­वि­ष­य­त्व­प्र­वे­शेन गुरुघटितस्य प्रव­र्त­क­त्व­क­ल्प­ना­यो­गात् । न च दुःखाभाव एव स्वतःपुरुषार्थः तच्छेषतया सुखं काम्यमिति वैपरीत्यापत्तिः । बहु­का­ल­दुः­ख­सा­ध्येऽपि क्षणिकसुखजनके निन्दि­त­ग्रा­म्य­ध­र्मादौ प्रवृ­त्ति­द­र्श­नात् । तत्र क्षणि­क­सु­ख­का­ली­न­दुः­खा­भा­वस्य पुरुषार्थत्वे तदर्थं बहु­का­ल­दुः­खा­नु­भ­वा­यो­गात् । न च तत्र क्षणिकसुखस्य पुरु­षा­र्थ­त्वेऽपि दोषतौल्यम् । भावरूपे सुखे उत्क­र्षा­प­क­र्ष­यो­र­नु­भ­व­सि­द्ध­त्वेन क्षण­म­प्य­त्यु­त्कृ­ष्ट­सु­खार्थं बहु­का­ल­दुः­खा­नु­भ­वो­प­पत्तेः । दुःखाभावे चोत्क­र्षा(द्य)(प­क­र्षा)स­म्भ­वात् । तस्मात् मुक्तौ संसा­र­दुः­ख­नि­वृ­त्ति­र­प्य­वि­द्या­नि­वृ­त्ति­वत् सुखशेष इति अन­व­च्छि­न्ना­न­न्द­प्रा­प्ति­रेव स्वतःपुरुषार्थ इत्याहुः ।

नित्य­सि­द्ध­मो­क्ष­मु­द्दिश्य साधनानुष्ठाने प्रवृ­त्त्यु­प­पा­द­नम्

नन्व­न­व­च्छि­न्ना­नन्दः प्रत्यग्रूपतया नित्यमेव प्राप्तः । सत्यम् । नित्य­प्रा­प्तोऽपि अन­व­च्छि­न्ना­नन्दः तमावृत्य तद्विपरीतमनर्थं प्रदर्शयन्त्या अविद्यया संसा­र­द­शा­या­म­स­त्क­ल्पत्वं नीत इति अकृतार्थताऽभूत् । निवर्तितायां च तस्यां निरस्ते निखि­ला­न­र्थ­वि­क्षेपे स्वक­ण्ठ­ग­त­वि­स्मृ­त­क­न­का­भ­र­ण­वत् प्राप्यत इवेति औपचरिकी तस्य प्राप्तव्यतेति केचित् ।

अन्ये तु - संसारदशयां ‘नास्ति, न प्रकाशते’ इति व्यव­हा­र­यो­ग्य­त्व­रू­पा­ज्ञा­ना­व­र­ण­प्र­यु­क्तस्य ‘मम निरतिशयानन्दो नास्ति’ इति प्रत्ययस्य सर्वसिद्धत्वात् तदालम्बनभूतः कश्चत् ब्रह्मा­न­न्द­स्या­भावः काल्पनिको याव­द­वि­द्य­म­नु­व­र्त­ते,अ­वि­द्या­नि­वृत्तौ च तन्मू­ल­त्वा­न्नि­व­र्तत इति, ‘यस्मिन् सत्यग्रिमक्षणे’ इत्या­दि­ल­क्ष­णा­नु­रो­धेन मुख्यमेव तस्य प्राप्यत्वम् इत्याहुः ।

अपरे तु - अवे­द्य­स्या­पु­रु­षा­र्थ­त्वात् संसारदशायां सद­प्य­न­व­च्छि­न्न­सु­खम् आप­रो­क्ष्या­भा­वात् न पुरुषार्थः । न च− स्वरू­प­ज्ञा­ने­ना­प­रोक्ष्यं तदाप्यस्ति, तस्य सर्वदा स्वरू­प­सु­खा­भि­न्न­त्वात् , वृत्ति­ज्ञा­ने­ना­प­रोक्ष्यं तु न मुक्ता­व­पी­ति−वा­च्यम् । न हि स्वव्य­व­हा­रा­नु­कू­ल­चै­त­न्या­भे­द­मा­त्र­मा­प­रो­क्ष्यम् । घटा­व­च्छि­न्न­चै­त­न्या­भि­व्यक्तौ तदभिन्नस्य घटगन्धस्यापि आप­रो­क्ष्या­पत्तेः । किन्तु अनावृतार्थस्य तदभेदः । तथा च अनावृतत्वांशः तत्त्व­सा­क्षा­त्कारे सत्येवेति निर­ति­श­य­सु­खा­प­रो­क्ष्यस्य पुरुषार्थस्य विद्या­प्रा­प्यत्वं युक्तम् इत्याहुः ।

इतरे तु−अस्तु व्यव­हा­रा­नु­कू­ल­चै­त­न्या­भे­द­मा­त्र­मा­प­रो­क्ष्यम् , तथाऽपि अज्ञानमहिम्ना जीवभेदवत् चिदानन्दभेदोऽपि अध्यस्त इति संसारदशायां पुरुषान्तरस्य पुरु­षा­न्त­र­चै­त­न्या­प­रो­क्ष्य­वत् अन­व­च्छि­न्न­सु­खा­प­रो­क्ष्य­मपि नास्ति । अज्ञाननिवृत्तौ तु चिदा­न­न्द­भे­द­प्र­वि­ल­या­त्त­दा­प­रो­क्ष्य­मिति तस्य विद्या­सा­ध्य­त्वम् इत्याहुः ।

मुक्त­स्व­रू­प­वि­चारः

अथ विद्योदये सति उपा­धि­वि­ल­या­द­पे­त­जी­व­भा­वस्य किमी­श्व­र­भा­वा­प­त्ति­र्भ­वति, उत शुद्ध­चै­त­न्य­मा­त्र­रू­पे­णा­व­स्था­नम् ? इति विवेचनीयम् ।

उच्य­ते−ए­क­जी­व­वादे तदे­का­ज्ञा­न­क­ल्पि­तस्य जीवे­श्व­र­वि­भा­गा­दि­कृ­त्स्र­भे­द­प्र­प­ञ्चस्य तद्विद्योदये विलयात् निर्वि­शे­ष­चै­त­न्य­रू­पे­णै­वा­व­स्था­नम् ।

अने­क­जी­व­वा­द­म­भ्यु­प­गम्य बद्ध­मु­क्त­व्य­व­स्था­ङ्गी­का­रेऽपि यद्यपि कस्यचित् विद्योदये तद­वि­द्या­कृ­त­प्र­प­ञ्च­वि­ल­येऽपि बद्ध­पु­रु­षा­न्त­रा­वि­द्या­कृतः जीवे­श्व­र­वि­भा­गा­दि­प्र­प­ञ्चोऽ­नु­व­र्तते, तथापि ‘जीव इवेश्वरोऽपि प्रति­बि­म्ब­वि­शेषः’ इति पक्षे मुक्तस्य बिम्ब­भू­त­शु­द्ध­चै­त­न्य­रू­पे­णै­वा­व­स्था­नम् । अनेकोपाधिषु एकस्य प्रतिबिम्बे सति एकोपाधिविलये तत्प्र­ति­बि­म्बस्य बिम्ब­भा­वे­नै­वा­व­स्था­नौ­चि­त्येन प्रति­बि­म्बा­न्त­र­त्वा­प­त्त्य­स­म्भ­वात् । तत्सम्भवे कदा­चि­ज्जी­व­रू­प­प्र­ति­बि­म्बा­न्त­र­त्वा­प­त्ते­रपि दुर्वारत्वेन अवच्छेदपक्ष इव मुक्तस्य पुन­र्ब­न्धा­पत्तेः । अत एव अनेकजीववादे अवच्छेदपक्षो नाद्रियते । यदवच्छेदेन मुक्तिः तद­व­च्छे­दे­ना­न्तः­क­र­णा­न्त­र­सं­सर्गे पुनरपि बन्धापत्तेः ।

“प्रतिबिम्बो जीवः विम्बस्थानीय ईश्वरः उभयानुस्यूतं शुद्धचैतन्यम्” , इति पक्षे तु मुक्तस्य याव­त्स­र्व­मु­क्ति­स­र्व­ज्ञ­त्व­स­र्व­क­र्तृ­त्व­स­र्वे­श्व­र­त्व­स­त्य­का­म­त्वा­दि­गु­ण­प­र­मे­श्व­र­भा­वा­प­त्ति­रि­ष्यते । यथा−अनेकेषु दर्पणेषु एकस्य मुख­स्य­प्र­ति­बिम्बे सति एकदर्पणापनये तत्प्रतिबिम्बो बिम्ब­भा­वे­ना­व­ति­ष्ठते, न तु मुखमात्ररूपेण, तदानीमपि दर्प­णा­न्त­र­स­न्नि­धा­न­प्र­यु­क्तस्य मुखे बिम्ब­त्व­स्या­न­पा­यात् ; तथा एकस्य ब्रह्मचैतन्यस्य अनेकेषूपाधिषु प्रतिबिम्बे सति एकस्मिन् प्रतिबिम्बे विद्योदये तेन तदुपाधिविलये तत्प्र­ति­बि­म्बस्य बिम्ब­भा­वे­ना­व­स्था­ना­व­श्य­म्भा­वात् । न च मुक्तस्य अविद्याऽभावात् सत्य­का­म­त्वा­दि­गु­ण­वि­शि­ष्ट­स­र्वे­श्व­र­त्वा­नु­प­पत्तिः । तद­वि­द्याऽ­भा­वेऽपि तदानीं बद्ध­पु­रु­षा­न्त­रा­वि­द्या­स­त्त्वात् । न हि ईश्व­र­स्ये­श्व­रत्वं सत्य­का­मा­दि­गु­ण­वै­शिष्ट्यं च स्वाविद्याकृतम् , तस्य निरञ्जनत्वात् । किं तु बद्ध­पु­रु­षा­वि­द्या­कृ­त­मेव तत्स­र्व­मे­ष्ट­व्यम् ।

न च ‘यथा­क्र­तु­र­स्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवति’(छा.उ. ३ । १४ । १) ‘तं यथायथोपासते’(मुद्गलोपनिषत्. ३) इत्यादिश्रुतिषु सगुणोपासकानामपि ईश्व­र­सा­यु­ज्य­श्र­व­णा­न्मुक्तेः सगु­ण­वि­द्या­फ­ला­वि­शे­षा­पत्तिः । सगु­णो­पा­स­का­ना­म­ख­ण्ड­सा­क्षा­त्का­रा­भा­वात् नावि­द्या­नि­वृत्तिः, न वा तन्मू­ला­ह­ङ्का­रा­दे­र्वि­लयः । आव­र­णा­नि­वृ­त्ते­र्ना­ख­ण्डा­न­न्द­स्फु­र­णम् । ‘जग­द्व्या­पा­र­वर्जं प्रक­र­णा­द­स­न्नि­हि­त­त्वाच्च’(ब्र.सू. ४ । ४ । १७) ‘भोग­मा­त्र­सा­म्य­लि­ङ्गाच्च’(ब्र.सू. ४ । ४ । २१) इत्या­दि­सू­त्रो­क्त­न्या­येन तेषां परमेश्वरेण भोगसाम्येऽपि सङ्कल्पमात्रात् स्वभो­गो­प­यु­क्त­दि­व्य­दे­हे­न्द्रि­य­व­नि­ता­दि­सृ­ष्टि­सा­म­र्थ्येऽपि सक­ल­ज­ग­त्सृ­ष्टि­सं­हा­रा­दि­स्वा­त­न्त्र्य­ल­क्षणं न निर­व­ग्र­ह­मै­श्व­र्यम् , मुक्तानां तु निस्स­न्धि­ब­न्ध­मी­श्व­र­भावं प्राप्तानां तत्सर्वमिति महतो विशेषस्य सद्भावात् । न च परमेश्वरस्य रघुनाथाद्यवतारे तम­स्वि­त्व­दुः­ख­सं­स­र्गा­दि­श्र­व­णात् मुक्ता­ना­मी­श्व­र­भावे पुन­र्ब­न्धा­पत्तिः । तस्य विप्र­शा­पा­मो­घ­त्वा­दि­स्व­कृ­त­म­र्या­दा­प­रि­पा­ल­नाय कथञ्चित् भृगुशापादि सत्यत्वं प्रत्याययितुं नटवदीश्वरस्य तद­भि­न­य­मा­त्र­प­र­त्वात् । अन्यथा तस्य नित्य­मु­क्त­त्व­नि­र­व­ग्र­ह­स्वा­त­न्त्र्य­स­मा­भ्य­धि­क­रा­हि­त्या­दि­श्रु­ति­वि­रो­धात् । तस्मा­द्या­व­त्स­र्व­मुक्ति परमेश्वरभावो मुक्तस्येति बिम्बेश्वर (पक्षे) (वादे) न कश्चिद्दोषः ॥

अयमेव पक्षः श्रुति­सू­त्र­भा­ष्या­द्य­नु­गुणः । तथा हि− समन्वयाध्याये तावत् ‘दहर उत्तरेभ्यः’(ब्र.सू. १ । ३ । १४) इत्यधिकरणे ‘अथयदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशः’(छा.उ. ८ । १ । १) इत्या­दि­श्रु­ति­नि­र्दिष्टो दहराकाशो न भूताकाशः, नापि जीवः, किं तु परमेश्वरः, उत्तरेभ्यो - वाक्यशेषेभ्यः । ‘उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते’ ‘यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाशः’(छा.उ. ८ । १ । ३) ‘एष आत्मापहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सेऽ­पि­पासः सत्यकामः सत्यसङ्कल्पः’(छा.उ. ८ । १ । ५) इत्यादिना प्रति­पा­द्य­मा­नेभ्यो द्यावा­पृ­थि­व्या­द्या­धा­र­त्व­ल­क्ष­ण­गु­णेभ्यो हेतुभ्य’ इति निर्णीय ‘उत्त­रा­च्चे­दा­वि­र्भू­त­स्व­रू­पस्तु’(ब्र.सू. १ । ३ । १९) इति सूत्रान्तरेण दह­र­वि­द्या­न­न्त­र­मि­न्द्र­प्र­जा­प­ति­सं­वादे ‘य आत्मापहतपाप्मा’(छा.उ. ८ । ७ । ३) इत्यादिना अप­ह­त­पा­प्म­त्वा­दि­गु­णा­ष्ट­क­यु­क्त­मा­त्मा­न­मु­प­दे­श्य­मु­प­क्षिप्य ‘य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मा’(छा.उ. ८ । ७ । ४) इति जाग्रदवस्थायां द्रष्टृ­त्वे­ना­क्षि­स­न्नि­हि­तस्य ‘य एष स्वप्ने महीयमानश्चरति एष आत्मा’ (छा.उ. ८ । १० । १) स्वप्ना­व­स्था­प­न्नस्य तद्य­त्रै­त­त्सु­प्त­स्स­म­स्त­स्स­म्प्र­सन्नः स्वप्नं न विजानाति एष आत्मा’ (छा.उ. ८ । ११ । १) इति सुषु­प्त्य­व­स्था­प­न्नस्य ‘एष­स­म्प्र­सा­दोऽ­स्मा­च्छ­री­रात् समुत्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते स उत्तमः पुरुषः’(छा.उ. ८ । १२ । ३) इत्य­व­स्था­त्र­यो­त्ती­र्णस्य च जीवस्योपदेशात् जीवेऽप्यस्ति अप­ह­त­पा­प्म­त्वा­दि­गु­णा­ष्ट­क­मिति न तद्दहराकाशस्य पर­मे­श्व­र­त्व­नि­र्णा­य­कम् । ‘य एष स्वप्ने’ इत्या­दि­प­र्या­येषु प्रतिपर्यायं ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि’(छा.उ. ८ । १० । ४) इति श्रवणेन ‘स्फुट­स्व­प्ना­दि­जी­व­लि­ङ्गानां द्विती­या­दि­प­र्या­या­णा­मेव जीवविषयत्वं प्रथमपर्यायस्य च ब्रह्मविषयत्वं’ इति चोद्या­न­व­का­शा­त्−इ­त्या­शङ्क्य तत्र चतुर्थपर्याये निरूप्यमाणः सक­ल­ब­न्ध­वि­नि­र्मु­क्त­त्वे­ना­वि­र्भू­त­स्व­रूपो जीवः प्रतिपाद्यः, न तु सांसा­रि­का­व­स्था­भे­द­क­लु­षितः, तत्र सत्य­स­ङ्क­ल्प­त्वा­दि­गु­ण­बा­धात् अव­स्था­त्र­यो­प­न्या­सस्य तत्त­द­व­स्था­दो­षा­भि­धा­नेन चतु­र्थ­प­र्या­यो­प­दे­श­शे­ष­त्व­प्र­ति­पत्तेः’ इति समादधानः सूत्रकारः चतुर्थपर्याये प्रतिपाद्यस्य मुक्त­स्ये­श्व­र­भा­वा­पत्तिं स्पष्टमाह । तदभावे मुक्तेऽपि सत्य­स­ङ्क­ल्प­त्वा­द्य­यो­गात् अनुक्रान्तस्य गुणाष्टकस्य ईश्व­रा­द­न्य­त्रापि भावे कृत­श­ङ्का­प­रि­हा­रा­ला­भाच्च । तस्मिन् सूत्रे ‘तस्मात् यद­वि­द्या­प्र­त्यु­प­स्था­पि­त­म­पा­र­मा­र्थिकं जैवं रूपं कर्तृ­त्व­भो­क्तृ­त्व­रा­ग­द्वे­षा­दि­दो­ष­क­लु­षि­त­म­ने­का­न­र्थ­योगि तद्विलयनेन तद्वि­प­री­त­म­प­ह­त­पा­प्म­त्वा­दि­गु­णकं पारमेश्वरं रूपं विद्यया प्रतिपद्यते’ इति भाष्य­का­रोऽ­प्य­ति­स्पष्टं मुक्तस्य सगु­णे­श्व­र­भा­वा­प­त्ति­माह ।

अवि­रो­धा­ध्या­येऽपि ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’(कौ.उ. ३ । ८) इत्यादिश्रुतेः तत्त­त्क­र्म­क­र्तृ­त्वेन तत्त­त्क­र्म­का­र­यि­तृ­त्वेन च उप­का­र्यो­प­का­र­क­भा­वे­ना­व­ग­तयोः जीवेश्वरयोः अंशां­शि­भा­व­रू­प­स­म्बन्ध निरू­प­णा­र्थ­त्वे­ना­व­ता­रिते ‘अंशो नानाव्यपदेशात्’(ब्र.सू. २ । ३ । ४३) इत्यधिकरणे ‘जीव­स्ये­श्व­रां­श­त्वा­भ्यु­प­गमे तदीयेन संसारदुःखभोगेन ईश्वरस्यापि दुःखित्वं स्यात् , यथा लोके हस्त­पा­दा­द्य­न्य­त­मां­श­ग­तेन दुःखेनांशिनो देवदत्तस्यापि दुःखित्वम् , तद्वत् ; ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् , ततो वरं पूर्वावस्था संसार एवास्तु इति सम्य­ग्ज्ञा­ना­न­र्थ­क्य­प्र­सङ्गः’ इति शङ्काग्रन्थेन, भामत्यादिषु स्पष्टीकृतं बिम्ब­प्र­ति­बि­म्ब­भा­व­कृ­ता­स­ङ्क­र­मु­पा­दाय समाहितेन भाष्यकारो मुक्तस्य ईश्वरभावापत्तिं स्पष्टीचकार ।

साधनाध्यायेऽपि ‘सन्ध्ये सृष्टिराह हि’(ब्र.सू. ३ । २ । १) इत्यधिकरणे स्वप्न­प्र­प­ञ्चस्य मिथ्यात्वे व्यवस्थापिते तत्र मिथ्याभूते स्वप्नप्रपञ्चे जीवस्य कर्तृ­त्व­मा­शङ्क्य ‘परा­भि­ध्या­नात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ’(ब्र.सू. ३ । २ । ५) इति सूत्रेण ‘जीव­स्ये­श्व­रा­भि­न्न­त्वात् सदपि सत्य­स­ङ्क­ल्प­त्वा­दि­क­म­वि­द्या­दो­षा­त्ति­रो­हि­त­मिति न तस्य स्वप्नप्रपञ्चे स्रष्टृत्वं सम्भवति’ इति वदन् सूत्रकारः ‘तत्पु­न­स्ति­रो­हितं सत् परमभिध्यायतो यतमानस्य जन्तो­र्वि­धू­त­ध्वा­न्तस्य तिमिरतिरस्कृतेव दृक्छक्तिः औषधवीर्यात् ईश्व­र­प्र­सा­दा­त्सं­सि­द्धस्य कस्य­चि­दे­वा­वि­र्भ­वति, न स्वभावत एव सर्वेषां जन्तूनाम्’ इति तत्सू­त्रा­भि­प्रायं वर्णयन् भाष्यकारश्च मुक्तस्य स्वप्न­सृ­ष्ट्या­द्यु­प­यो­गि­स­त्य­स­ङ्क­ल्प­त्वा­द्य­भि­व्य­क्त्य­ङ्गी­क­रेण पर­मे­श्व­र­भा­वा­पत्तिं स्पष्टीचकार ।

फलाध्यायेऽपि ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’(छा.उ. ८ । ३ । ४) इति मुच्य­मा­न­वि­ष­यायां श्रुतौ केन रूपे­णा­भि­नि­ष्प­त्ति­र्वि­व­क्षिता इति बुभुत्सायां ‘ब्राह्मेण जैमि­नि­रु­प­न्या­सा­दिभ्यः’(ब्र.सू. ४ । ४ । ५) इति सूत्रेण यत् ब्राह्मं रूप­म­प­ह­त­पा­प्म­त्वादि सत्य­स­ङ्क­ल्प­त्वा­द्य­व­सानं सर्व­ज्ञ­त्व­स­र्वे­श्व­र­त्वादि च तेना­भि­नि­ष्पत्तिः ‘य आत्मापहतपाप्मा’(छा.उ. ८ । ७ । १) इत्या­द्यु­प­न्या­सेन ‘स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा’(छा.उ. ८ । १२ । ३) इत्या­द्यै­श्व­र्या­वे­द­नेन च इति जैमिनिमतम् , ‘चितितन्मात्रेण तदा­त्म­क­त्वा­दि­त्यौ­डु­लोमिः’(ब्र.सू. ४ । ४ । ६) इत्यनन्तरेण सूत्रेण ‘एवं वा अरेऽ­य­मा­त्माऽ­न­न्त­रोऽ­बाह्यः कृत्स्नः प्रज्ञानघन एव’(बृ.उ. ४ । ५ । १३) इत्यादिश्रुत्या चैत­न्य­मा­त्र­मा­त्म­स्व­रू­प­मि­त्य­व­गतेः तन्मा­त्रे­णा­भि­नि­ष्प­त्तिः−इति मतान्तरं चोपन्यस्य ‘एव­म­प्यु­प­न्या­सा­त्पू­र्व­भा­वा­द­वि­रोधं बादरायणः’(ब्र.सू. ४ । ४ । ७) इति सिद्धा­न्त­सू­त्रेण ‘वस्तुदृष्ट्या चैत­न्य­मा­त्र­त्वेऽपि पूर्वे­क्त­गु­ण­क­ला­पस्य उप­न्या­सा­द्य­व­ग­तस्य मायामयस्य बद्ध­पु­रु­ष­व्य­व­हा­र­दृष्ट्या सम्भवात् न श्रुति­द्व­य­वि­रोधः’ इति अविरोधं वदन् सूत्रकारः, सूत्र­त्र­य­मि­द­मु­क्ता­र्थ­प­र­त्वेन व्याकुर्वन् भाष्यकारश्च, मुक्त­स्ये­श्व­र­भा­वा­पत्तिं स्पष्टमनुमेने । भाम­ती­नि­ब­न्धृ­प्र­भृ­त­यश्च श्रुत्यु­प­बृं­हि­त­मिदं सूत्रजातं भगवतो भाष्यकारस्य उदाहृतं वचनजातं च तथैवान्ववर्तन्त ।

न च श्रुत्यु­प­बृं­हि­तस्य एतावतः सूत्र­भा­ष्य­व­च­न­जा­तस्य ‘ऐश्व­र्य­म­ज्ञा­न­ति­रो­हितं सत् ध्याना­द­भि­व्य­ज्यत इत्यवोचत् । शरीरिणः सूत्रकृदस्य यत्तु तद­भ्यु­पे­त्यो­दि­त­मु­क्त­हेतोः ।’(सं.शा. ३ । १७५) इति सङ्क्षे­प­शा­री­र­को­क्त­रीत्या अभ्यु­पे­त्य­वा­दत्वं युक्तं वक्तुम् । तस्मा­न्मु­क्ता­ना­मी­श्व­र­भा­वा­प­त्ते­र­व­श्या­भ्यु­पे­य­त्वात् एतदसम्भव एव प्रति­बि­म्बे­श्व­र­वादे दोषः । तदाहुः कल्पतरुकाराः − ‘न माया­प्र­ति­बि­म्बस्य विमु­क्तै­रु­प­सृ­प्यता’(कल्पतरुः १ । ४ । ३) इति । एतदसम्भवश्च एक­जी­व­वा­द­पा­र­मा­र्थि­क­जी­व­भे­द­वा­द­यो­रपि दोषः ।

यत्तु कैश्चित् द्वैति­भि­रु­च्य­ते−भे­दस्य पारमार्थिकत्वेन मुक्तौ जीव­स्ये­श्व­र­भा­वा­भा­वेऽपि तत्रापीश्वर इव पृथ­ग­प­ह­त­पा­प्म­त्वा­दि­गु­ण­स­म्भ­वा­द­वि­रोध इति, तत्तुच्छम् – तथा सति जीव­स्या­प­ह­त­पा­प्म­त्वा­दि­क­म­स्तीति न तस्य ब्रह्म­लि­ङ्ग­त्व­मिति शङ्का­प­रि­हा­रा­ला­भेन ‘उत्त­रा­च्चे­दा­वि­र्भू­त­स्व­रू­पस्तु’(ब्र.सू. १ । ३ । १९) इति सूत्रविरोधात् ‘ब्राह्मेण जैमिनिः’(ब्र.सू. ४ । ४ । ५) इति सूत्रे जीव­ग­त­स्या­प­ह­त­पा­प्म­त्वादेः ‘उप­न्या­सा­दिभ्यः’(ब्र.सू. ४ । ४ । ५) इत्य­त्रा­दि­श­ब्दा­र्थ­त्वेन परे­षा­म­प्य­भि­म­तस्य ‘जक्षत् क्रीडन् रममाणः’(छा.उ. ८ । १२ । ३) इत्या­दि­श्रु­त्यु­दि­तस्य जक्षणादेश्च ब्राह्म­त्व­नि­र्दे­श­वि­रो­धाच्च । भेदे तेषां गुणानां सत्यत्वेन ‘चिति­त­न्मा­त्रेण’(ब्र.सू. ४ । ४ । ६) इति सूत्रोक्तस्य मुक्तजीवानां चैत­न्य­मा­त्र­त्वस्य ‘एवमपि’(ब्र.सू. ४ । ४ । ७) इति­सि­द्धा­न्त­सू­त्रेऽ­ङ्गी­का­र­वि­रो­धाच्च । ‘सम्प­द्या­वि­र्भावः’(ब्र.सू. ४ । ४ । १) इत्य­धि­का­र­ण­वि­रो­धाच्च । तत्र हि ’स्वेन रूपे­णा­भि­नि­ष्प­द्यते’(छा.उ. ८ । ३ । ४) इति श्रुतौ आगन्तुना केन­चि­द्रू­पे­णा­भि­नि­ष्प­त्ति­र्नो­च्यते । स्वेन­श­ब्द­वै­य­र्थ्या­पत्तेः । येन रूपेण आगन्तुना स्वय­म­भि­नि­ष्प­द्यते तस्या­त्मी­य­त्व­स्या­व­क्त­व्य­त्वात् । तस्मा­दा­त्म­वा­चि­स्व­श­ब्दो­पा­दा­नात् नित्यसिद्धेन स्वस्वरूपेणैव अभि­नि­ष्प­त्ति­र्वि­व­क्षिता न तु केन­चि­द्ध­र्मे­णेति व्यवस्थापितम् ।

किञ्चे­द­म­प­ह­त­पा­प्म­त्वादि जीवस्य मुक्तावागन्तुकं चेत् , ‘सम्प­द्या­वि­र्भावः’(ब्र.सू. ४ । ४ । १) इति मुक्ता­वा­ग­न्तु­क­रू­प­नि­षे­धेन ‘परा­भि­ध्या­नात्तु तिरोहितम्’(ब्र.सू. ३ । २ । ५) ‘उत्त­रा­च्चे­दा­वि­र्भू­त­स्व­रू­पस्तु’(ब्र.सू. १ । ३ । १९) इति अप­ह­त­पा­प्म­त्वा­दे­र्ब­न्ध­मु­क्त्यो­स्ति­रो­भा­वा­वि­र्भा­व­प्र­ति­पा­द­नेन च विरोधः स्यादिति नित्यसिद्धं वाच्यमिति बन्धस्य मिथ्यात्वं दुर्वारम् ।

नित्य­सि­द्ध­म­प­ह­त­पा­प्मत्वं हि सर्वदा पाप्मरहितत्वम् । न च वस्तुतः सर्वदा पाप्मरहिते पाप्मसम्बन्धः तन्मू­ल­क­क­र्तृ­त्व­भो­क्तृ­त्व­स­म्बन्धो वा पारमार्थिकः सम्भवति । एवं च जीव­स्ये­श्व­रा­भे­दोऽपि दुर्वारः । श्रुति­बो­ध्य­त­द­भे­द­वि­रो­धि­ब­न्धस्य सत्यत्वाभावात् । अन्यथा संसारिणि नित्य­सि­द्ध­स­त्य­स­ङ्क­ल्प­ति­रो­धा­नो­क्त्य­यो­गाच्च । न हि जीवस्य संसा­र­द­शा­या­म­नु­व­र्त­मानो यत्कि­ञ्चि­द­र्थ­गो­चरः कश्चि­द­स्त्य­वि­त­थ­स­ङ्कल्पः तिरोहित इति परैरपीष्यते । किं त्वीश्वरस्य यन्नित्यसिद्धं निरवग्रहं सत्यसङ्कल्पत्वं तदेव जीवस्य संसा­र­द­शा­या­मी­श्व­रा­भे­दा­न­भि­व्यक्त्या स्वकी­य­त्वे­ना­न­व­भा­स­मानं तं प्रति तिरोहितमित्येव समर्थनीयमिति घट्ट­कु­टी­प्र­भा­त­वृ­त्तान्तः ।

ननु अपहतपाप्मत्वं न पाप्मविरहः, किं तु पाप्म­हे­तु­क­र्मा­च­र­णेऽपि पापो­त्प­त्ति­प्र­ति­ब­न्ध­क­श­क्ति­यो­गि­त्व­मिति, न तस्य नित्यसिद्धत्वेन बन्धस्य मिथ्या­त्व­प्र­सङ्गः । एवं सत्य­स­ङ्क­ल्प­त्व­मपि शक्तिरूपेण निर्वाच्यमिति नेश्व­रा­भे­द­प्र­सङ्गः− इति चेत् , मैवम् - एवं शब्दार्थकल्पने प्रमाणाभावात् । न हि पाप­ज­न­न­प्र­ति­ब­न्धिका शक्तिः संसा­र­रू­प­प­रि­भ्र­म­ण­द­शायां पापा­नु­त्प­त्त्यर्थं कल्पनीया । तदानीं तदु­त्प­त्ते­रि­ष्ट­त्वात् । विद्योदयप्रभृति तु विद्या­मा­हा­त्म्या­दे­वा­श्लेषः ‘तदधिगम उत्त­र­पू­र्वा­घ­यो­र­श्ले­ष­वि­नाशौ तद्व्यपदेशात्’(ब्र.सू. ४ । १ । १३) इति सूत्रेण दर्शितः । तत एव मुक्तावप्यश्लेष उपपद्यत इति व्यर्था शक्तिकल्पना । तस्मा­दु­दा­हृ­त­श्रु­ति­सू­त्रा­नु­सा­रिभिः मुक्तजीवानां याव­त्स­र्व­मु­क्ति­व­स्तु­स­च्चै­त­न्य­मा­त्र­त्वा­वि­रो­धि­ब­द्ध­पु­रु­षा­वि­द्या­कृ­त­नि­र­व­ग्र­है­श्व­र्य­त­द­नु­गु­ण­गु­ण­क­ला­प­वि­शि­ष्ट­नि­र­ति­श­या­न­न्द­स्फु­र­ण­स­मृ­द्ध­नि­स्स­न्धि­ब­न्ध­प­र­मे­श्व­र­भा­वा­प­त्ति­रा­द­र्त­व्येति सिद्धम् ॥

मङ्गलश्लोकः

॥ इति शास्त्र­सि­द्धा­न्त­ले­श­स­ङ्ग्रहे चतुर्थः परिच्छेदः ॥

॥ समाप्तोऽयं ग्रन्थः ॥

॥ शिवाभ्यां नमः ॥