अद्वैतशारदा

शतश्लोकी

० विभागः

दृष्टान्तो नैव दृष्ट­स्त्रि­भु­व­न­ज­ठरे सद्गु­रो­र्ज्ञा­न­दातुः
स्पर्श­श्चे­त्तत्र कल्प्यः स नयति यदहो स्वर्ण­ता­म­श्म­सा­रम् ।
न स्पर्शत्वं तथापि श्रितचरणयुगे सद्गुरुः स्वीयशिष्ये
स्वीयं साम्यं विधत्ते भवति निरुपमस्तेन वालौकिकोऽपि ॥ १ ॥

यद्व­च्छ्री­ख­ण्ड­वृ­क्ष­प्र­सृ­त­प­रि­म­ले­ना­भि­तोऽ­न्येऽपि वृक्षाः
शश्व­त्सौ­ग­न्ध्य­भा­जोऽ­प्य­त­नु­त­नु­भृतां तापमुन्मूलयन्ति ।
आचा­र्या­ल्ल­ब्ध­बोधा अपि विधिवशतः संनिधौ संस्थितानां
त्रेधा तापं च पापं सकरुणहृदयाः स्वोक्तिभिः क्षालयन्ति ॥ २ ॥

आत्मा­ना­त्म­प्र­तीतिः प्रथममभिहिता सत्य­मि­थ्या­त्व­योगा -
द्द्वेधा ब्रह्म­प्र­ती­ति­र्नि­ग­म­नि­ग­दिता स्वानु­भू­त्यो­प­पत्त्या ।
आद्या देहा­नु­ब­न्धा­द्भ­वति तदपरा सा च सर्वात्मकत्वा -
दादौ ब्रह्मा­ह­म­स्मी­त्य­नु­भव उदिते खल्विदं ब्रह्म पश्चात् ॥ ३ ॥

आत्मा चिद्वि­त्सु­खा­त्मा­नु­भ­व­प­रि­चितः सर्वदेहादियन्ता
सत्येवं मूढबुद्धिर्भजति ननु जनोऽ­नि­त्य­दे­हा­त्म­बु­द्धिम् ।
बाह्योऽ­स्थि­स्ना­यु­म­ज्जा­प­ल­रु­धि­र­व­सा­च­र्म­मे­दो­यु­गन्त -
र्विण्मू­त्र­श्ले­ष्म­पूर्णं स्वपरवपुरहो संविदित्वापि भूयः ॥ ४ ॥

देह­स्त्री­पु­त्र­मि­त्रा­नु­च­र­ह­य­वृ­षा­स्तो­ष­हे­तु­र्म­मेत्थं
सर्वे स्वायुर्नयन्ति प्रथितमलममी मांसमीमांसयेह ।
एते जीवन्ति येन व्यवहृतिपटवो येन सौभाग्यभाज -
स्तं प्राणा­धी­श­म­न्त­र्ग­त­म­मृ­त­ममुं नैव मीमांसयन्ति ॥ ५ ॥

कश्चित्कीटः कथ­ञ्चि­त्प­टु­म­ति­र­भितः कण्टकानां कुटीरं
कुर्वंस्तेनैव साकं व्यवहृतिविधये चेष्टते यावदायुः ।
तद्वज्जीवोऽपि नाना­च­रि­त­स­मु­दितैः कर्मभिः स्थूलदेहं
निर्मायात्रैव तिष्ठ­न्न­नु­दि­न­म­मुना साकमभ्येति भूमौ ॥ ६ ॥

स्वीकु­र्व­न्व्या­घ्र­वेषं स्वजठरभृतये भीषयन्यश्च मुग्धा -
न्मत्वा व्याघ्रोऽ­ह­मित्थं स नर­प­शु­मु­खा­न्बा­धते किं नु सत्त्वान् ।
मत्वा स्त्रीवेषधारी स्त्र्यहमिति कुरुते कि नटो भर्तुरिच्छां
तद्वच्छारीर आत्मा पृथगनुभवतो देहतो यत्स साक्षी ॥ ७ ॥

स्वं बालं रोदमानं चिरतरसमयं शान्ति­मा­ने­तु­मग्रे
द्राक्षं खार्जूरमाम्रं सुकदलमथवा योज­य­त्य­म्बि­कास्य ।
तद्व­च्चे­तोऽ­ति­मूढं बहु­ज­न­न­भ­वा­न्मौ­ढ्य­सं­स्का­र­योगा -
द्बोधो­पा­यै­र­ने­कै­र­व­श­मु­प­नि­ष­द्बो­ध­या­मास सम्यक् ॥ ८ ॥

यत्प्रीत्या प्रीतिमात्रं तनु­यु­व­ति­त­नू­जा­र्थ­मुख्यं स तस्मा -
त्प्रेयानात्माथ शोकास्पदमितरदतः प्रेय एतत्कथं स्यात् ।
भार्याद्यं जीवितार्थी वितरति च वपुः स्वात्मनः श्रेय इच्छं -
स्तस्मा­दा­त्मा­न­मेव प्रिय­म­धि­क­मु­पा­सीत विद्वान्न चान्यत् ॥ ९ ॥

यस्मा­द्या­व­त्प्रियं स्यादिह हि विष­य­त­स्ता­व­द­स्मि­न्प्रि­यत्वं
यावद्दुःखं च यस्माद्भवति खलु तत­स्ता­व­दे­वा­प्रि­य­त्वम् ।
नैक­स्मि­न्स­र्व­का­लेऽ­स्त्यु­भ­य­मपि कदाप्यप्रियोऽपि प्रियः स्या -
त्प्रेया­न­प्य­प्रियो वा सततमपि ततः प्रेय आत्माख्यवस्तु ॥ १० ॥

श्रेयः प्रेयश्च लोके द्विविधमभिहितं काम्य­मा­त्य­न्तिकं च
काम्यं दुःखैकबीजं क्षणलवविरसं तच्चिकीर्षन्ति मन्दाः ।
ब्रह्मै­वा­त्य­न्तिकं यन्नि­र­ति­श­य­सु­ख­स्या­स्पदं संश्रयन्ते
तत्त्व­ज्ञा­स्तच्च काठोपनिषदभिहितं षड्विधायां च वल्ल्याम् ॥ ११ ॥

आत्मा­म्भो­धे­स्त­र­ङ्गोऽ­स्म्य­ह­मिति गमने भावयन्नासनस्थः
संवि­त्सू­त्रा­नु­विद्धो मणिरहमिति वास्मी­न्द्रि­या­र्थ­प्र­तीतौ ।
दृष्टोऽ­स्म्या­त्मा­व­लो­का­दिति शयनविधौ मग्न आनन्दसिन्धा -
वन्तर्निष्ठो मुमुक्षुः स खलु तनुभृता यो नयत्येवमायुः ॥ १२ ॥

वैरा­ज­व्य­ष्टि­रूपं जगदखिलमिदं नामरूपात्मकं स्या -
दन्तः­स्थ­प्रा­ण­मु­ख्या­त्प्र­च­लति च पुनर्वेत्ति सर्वा­न्प­दा­र्थान् ।
नायं कर्ता न भोक्ता सवितृवदिति यो ज्ञान­वि­ज्ञा­न­पूर्णः
साक्षादित्थं विजानन्व्यवहरति परा­त्मा­नु­स­न्धा­न­पू­र्वम् ॥ १३ ॥

नैर्वेद्यं ज्ञानगर्भ द्विविधमभिहितं तत्र वैराग्यमाद्यं
प्रायो दुःखा­व­लो­का­द्भ­वति गृह­सु­हृ­त्पु­त्र­वि­त्तै­ष­णादेः ।
अन्य­ज्ज्ञा­नो­प­दे­शा­द्य­दु­दि­त­वि­षये वान्तवद्धेयता स्या -
त्प्रव्रज्यापि द्विधा स्यान्नि­य­मि­त­म­नसा देहतो गेहतश्च ॥ १४ ॥

यः कश्चि­त्सौ­ख्य­हे­तो­स्त्रि­ज­गति यतते नैव दुःखस्य हेतो -
र्देहेऽहता तदुत्था स्वविषयममता चेति दुःखास्पदे द्वे ।
जान­न्रो­गा­भि­घा­ता­द्य­नु­भ­वति यतो नित्य­दे­हा­त्म­बुद्धि -
र्भार्या­पु­त्रा­र्थ­नाशे विपदमथ परामेति नारातिनाशे ॥ १५ ॥

तिष्ठन्गेहे गृहे­शोऽ­प्य­ति­थि­रिव निजं धाम गन्तुं चिकीर्षु -
र्देहस्थं दुःखसौख्यं न भजति सहसा निर्म­म­त्वा­भि­मानः ।
आया­त्रा­या­स्य­तीदं जलदपटलवद्यातृ यास्यत्यवश्यं
देहाद्यं सर्वमेवं प्रविदितविशयो यश्च तिष्ठत्ययत्नः ॥ १६ ॥

शक्त्या निर्मोकतः स्वाद्बहिरहिरिव यः प्रव्र­ज­न्स्वी­य­गेहा -
च्छायां मार्ग­द्रु­मोत्थां पथिक इव मना­क्सं­श्र­ये­द्दे­ह­सं­स्थाम् ।
क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थ­ये­द्भै­क्ष­मन्नं
स्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्र­जे­द्दे­ह­तोऽपि ॥ १७ ॥

कामो बुद्धावुदेति प्रथममिह मन­स्यु­द्दि­श­त्य­र्थ­जातं
तद्गृ­ह्णा­ती­न्द्रि­या­स्यै­स्त­द­न­धि­ग­मतः क्रोध आविर्भवेच्च ।
प्राप्तावर्थस्य संर­क्ष­ण­म­ति­रु­दितो लोभ एतत्त्रयं स्या -
त्सर्वेषां पातहेतुस्तदिह मतिमता त्याज्य­म­ध्या­त्म­यो­गात् ॥ १८ ॥

दानं ब्रह्मार्पणं यत्क्रियत इह नृभिः स्यात्क्ष­मा­क्रो­ध­सन्ज्ञा
श्रद्धास्तिक्यं च सत्यं सदिति परमतः सेतुसन्ज्ञं चतुष्कम् ।
तत्स्याद्बन्धाय जन्तोरिति चतुर इमा­न्दा­न­पू­र्वै­श्च­तुर्भि -
स्तीर्त्वा श्रेयोऽमृतं च श्रयत इह नरः स्वर्गतिं ज्योतिराप्तिम् ॥ १९ ॥

अन्नं देवा­ति­थि­भ्योऽ­र्पि­त­म­मृ­त­मिदं चान्यथा मोघमन्नं
यश्चात्मार्थं विधत्ते तदिह निगदितं मृत्युरूपं हि तस्य ।
लोकेऽसौ केवलाघो भवति तनुभृतां केवलादी च यः स्या -
त्त्यक्त्वा प्राणा­ग्नि­होत्रं विधिवदनुदिनं योऽश्नुते सोऽपि मर्त्यः ॥ २० ॥

लोके भोजः स एवार्पयति गृह­ग­ता­या­र्थि­नेऽन्नं कृशाय
यस्तस्मै पूर्णमन्नं भवति मखविधौ जायतेऽजातशत्रुः ।
सख्ये नान्नार्थिने योऽर्पयति न स सखा सेवमानाय नित्यं
संस­क्ता­या­न्न­म­स्मा­द्वि­मुख इव परा­वृ­त्ति­मि­च्छे­त्क­द­र्यात् ॥ २१ ॥

स्वाज्ञा­न­ज्ञा­न­हेतू जगदुदयलयौ सर्वसाधारणौ स्तो
जीवे­ष्वा­स्व­र्ण­गर्भं श्रुतय इति जगुर्हूयते स्वप्रबोधे ।
विश्वं ब्रह्मण्यबोधे जगति पुनरिदं हूयते ब्रह्म यद्व -
च्छुक्तो रौप्यं च रौप्येऽ­धि­क­र­ण­म­थवा हूय­तेऽ­न्यो­न्य­मो­हात् ॥ २२ ॥

तुच्छ­त्वा­न्ना­स­दा­सी­द्ग­ग­न­कु­सु­म­व­द्भे­दकं नो सदासी -
त्किं त्वाभ्या­म­न्य­दा­सी­द्व्य­व­हृ­ति­ग­ति­स­न्नास लोकस्तदानीम् ।
किं त्वर्वागेव शुक्तौ रजतवदपरो नो विराड् व्योमपूर्वः
शर्म­ण्या­त्म­न्य­थै­त­त्कु­ह­क­स­लि­ल­वत्किं भवेदावरीवः ॥ २३ ॥

बन्धो जन्मात्ययात्मा यदि न पुनरभूत्तर्हि मोक्षोऽपि नासी -
द्यद्व­द्रा­त्रि­र्दिनं वा न भवति तरणौ किं तु दृग्दोष एषः ।
अप्राणं शुद्धमेकं समभवदथ तन्मायया कर्तृसन्ज्ञं
तस्मादन्यच्च नासी­त्प­रि­वृ­त­म­जया जीवभूतं तदेव ॥ २४ ॥

प्रागा­सी­द्भा­व­रूपं तम इति तमसा गूढ­म­स्मा­द­तर्क्यं
क्षीरा­न्त­र्य­द्व­दम्भो जनिरिह जगतो नामरूपात्मकस्य ।
कामाद्धातुः सिसृ­क्षो­र­नु­ग­त­ज­गतः कर्मभिः सम्प्रवृत्ता -
द्रेतो­रू­पै­र्म­नोभिः प्रथममनुगतैः सन्ततैः कार्यमाणैः ॥ २५ ॥

चत्वारोऽस्याः कपर्दा युवतिरथ भवेन्नूतना नित्यमेषा
माया वा पेशला स्याद­घ­ट­न­घ­ट­ना­पा­टवं याति यस्मात् ।
स्यादारम्भे घृतास्या श्रुति­भ­व­व­यु­ना­न्ये­व­मा­च्छा­द­यन्ती
तस्यामेतौ सुपर्णाविव परपुरुषौ तिष्ठ­तोऽ­र्थ­प्र­तीत्या ॥ २६ ॥

एक­स्त­त्रा­स्त्य­स­ङ्ग­स्त­दनु तद­प­रोऽ­ज्ञा­न­सिन्धुं प्रविष्टो
विस्मृ­त्या­त्म­स्व­रूपं स विवि­ध­ज­ग­दा­का­र­मा­भा­स­मै­क्षत् ।
बुद्ध्या­न्त­र्या­व­दै­क्ष­द्वि­सृ­जति तमजा सोऽपि तामेवमेक -
स्ताव­द्वि­प्रा­स्त­मेकं कथमपि बहुधा कल्पयन्ति स्ववाग्भिः ॥ २७ ॥

नायाति प्रत्यगात्मा प्रजननसमये नैव यात्यन्तकाले
यत्सोऽ­ख­ण्डोऽस्ति लैङ्गं मन इह विशति प्रव्र­ज­त्यू­र्ध्व­म­र्वाक् ।
तत्कार्श्यं स्थूलतां वा न भजति वपुषः किन्तु संस्कारजाते
तेजोमात्रा गृहीत्वा व्रजति पुनरिहायाति तैस्तैः सहैव ॥ २८ ॥

आसीत्पूर्वं सुब­न्धु­र्भृ­श­म­व­नि­सुरो यः पुरोधाः सनाते -
र्ब्राह्म्या­त्कू­टा­भि­चा­रात्स खलु मृति­मि­त­स्त­न्म­नोऽ­गा­त्कृ­ता­न्तम् ।
तद्भ्राता श्रौतमन्त्रैः पुनरनयदिति प्राह सूक्तेन वेद -
स्तस्मा­दा­त्मा­भि­युक्तं व्रजति ननु मनः कर्हि­चि­न्ना­न्त­रात्मा ॥ २९ ॥

एको निष्कम्प आत्मा प्रचलति मनसा धावमानेन तस्मिं -
स्तिष्ठ­न्न­ग्रेऽथ पश्चान्न हि तमनुगतं जानते चक्षुराद्याः ।
यद्व­त्पा­थ­स्त­रङ्गैः प्रचलति परितो धावमानैस्तदन्तः
प्राक्प­श्चा­दस्ति तेषां पवनसमुदितैस्तैः प्रशा­न्तै­र्य­था­वत् ॥ ३० ॥

एकाक्यासीत्स पूर्वं मृगयति विष­या­ना­नु­पू­र्व्या­न्त­रात्मा
जाया मे स्यात्प्रजा वा धनमुपकरण कर्म कुर्वस्तदर्थम् ।
क्लेशैः प्राणा­व­शे­षै­र्म­ह­दपि मनुते नान्य­द­स्मा­द्ग­रीय -
स्त्वेका­ला­भेऽ­प्य­कृत्स्नो मृत इव विर­म­त्ये­क­हा­न्या­कृ­तार्थः ॥ ३१ ॥

नासीत्पूर्वं न पश्चा­द­त­नु­दि­न­क­रा­च्छा­दको वारिवाहो
दृश्यः किं त्वन्तरासौ स्थगयति स दृशं पश्यतो नार्कबिम्बम् ।
नो चेदेवं विनार्कं जलधरपटलं भासते तर्हि कस्मा -
त्तद्वद्विश्वं पिधत्ते दृशमथ न परं भासकं चालकं स्वम् ॥ ३२ ॥

भुञ्जानः स्वप्नराज्यं ससकलविभवो जागरं प्राप्य भूयो
राज्य­भ्र­ष्टोऽ­ह­मित्थं न भजति विषमं तन्मृषा मन्यमानः ।
स्वप्ने कुर्व­न्न­ग­म्या­ग­म­न­मु­ख­मघं तेन न प्रत्यवायी
तद्व­ज्जा­ग्र­द्द­शायां व्यवहृतिमखिलां स्वप्न­व­द्वि­स्म­रे­च्चेत् ॥ ३३ ॥

स्वप्ना­व­स्था­नु­भूतं शुभमथ विषमं तन्मृषा जागरे स्या -
ज्जाग्रत्यां स्थूल­दे­ह­व्य­व­हृ­ति­वि­षयं तन्मृषा स्वापकाले ।
इत्थं मिथ्या­त्व­सि­द्धा­व­नि­श­मु­भ­यथा सज्जते तत्र मूढः
सत्ये तद्भा­स­केऽ­स्मि­न्निह हि कुत इदं तन्न विद्मो वयं हि ॥ ३४ ॥

जीवन्तं जाग्रतीह स्वजनमथ मृतं स्वप्नकाले निरीक्ष्य
निर्वेदं यात्य­क­स्मा­न्मृ­त­म­मृ­त­ममुं वीक्ष्य हर्षं प्रयाति ।
स्मृत्वा­प्ये­तस्य जन्तो­र्नि­ध­न­म­सु­युतिं भाषते तेन साकं
सत्येवं भाति भूयोऽ­ल्प­क­स­म­य­व­शा­त्स­त्यता वा मृषात्वम् ॥ ३५ ॥

स्वाप्न­स्त्री­स­ङ्ग­सौ­ख्या­दपि भृशमसतो या च रेतश्च्युतिः स्या -
त्सा दृश्या तद्व­दे­त­त्स्फु­रति जगदसत्कारणं सत्यकल्पम् ।
स्वप्ने सत्यः पुमा­न्स्या­द्यु­व­ति­रिह मृषैवानयोः संयुतिश्च
प्रातः शुक्रेण वस्त्रोपहतिरिति यतः कल्पनामूलमेतत् ॥ ३६ ॥

पश्य­न्त्या­रा­म­मस्य प्रतिदिवसममी जन्तवः स्वापकाले
पश्यत्येनं न कश्चि­त्क­र­ण­ग­ण­मृते मायया क्रीडमानम् ।
जाग्र­त्य­र्थ­व्र­जा­ना­मथ च तनुभृतां भासकं चालकं वा
नो जानीते सुषुप्तौ परमसुखमयं कश्चि­दा­श्च­र्य­मे­तत् ॥ ३७ ॥

स्वप्ने मन्त्रोपदेशः श्रवणपरिचितः सत्य एष प्रबोधे
स्वाप्नादेव प्रसा­दा­द­भि­ल­षि­त­फलं सत्यतां प्रातरेति ।
सत्य­प्रा­प्ति­स्त्व­स­त्या­दपि भवति तथा किं च तत्स्वप्रकाशं
येनेदं भाति सर्वं चरमचरमथोच्चावचं दृश्यजातम् ॥ ३८ ॥

मध्यप्राणं सुषुप्तौ स्वज­नि­म­नु­वि­श­न्त्य­ग्नि­सू­र्या­द­योऽमी
वागाद्याः प्राणवायुं तदिह निगदिता ग्लानिरेषां न वायोः ।
तेभ्यो दृश्यावभासो भ्रम इति विदितः शुक्ति­का­रौ­प्य­कल्पः
प्राणायामव्रतं तच्छ्रुतिशिरसि मतं स्वात्मलब्धौ न चान्यत् ॥ ३९ ॥

नोऽक­स्मा­दा­र्द्र­मेधः स्पृशति च दहनः किं तु शुष्कं निदाघा -
दार्द्रं चेतोऽनुबन्धैः कृतसुकृतमपि स्वोक्त­क­र्म­प्र­जार्थैः ।
तद्व­ज्ज्ञा­ना­ग्नि­रे­त­त्स्पृ­शति न सहसा किं तु वैराग्यशुष्कं
तस्माच्छुद्धो विरागः प्रथ­म­म­भि­हि­त­स्तेन विज्ञानसिद्धिः ॥ ४० ॥

यत्कि­ञ्चि­न्ना­म­रू­पा­त्म­क­मि­द­म­स­दे­वो­दितं भाति भूमौ
येना­ने­क­प्र­का­रै­र्व्य­व­ह­रति जगद्येन तेनेश्वरेण ।
तद्व­त्प्र­च्छा­द­नीयं निभृतरशनया यद्वदेष द्विजिह्व -
स्तेन त्यक्तेन भोज्यं सुखमनतिशयं मा गृधोऽ­न्य­द्ध­ना­द्यम् ॥ ४१ ॥

जीव­न्मु­क्ति­र्मु­मुक्षोः प्रथममथ ततो मुक्ति­रा­त्य­न्तिकी च
तेऽभ्या­स­ज्ञा­न­यो­गा­द्गु­रु­च­र­ण­कृ­पा­पा­ङ्ग­स­ङ्गेन लब्धात् ।
अभ्यासोऽपि द्विधा स्याद­धि­क­र­ण­व­शा­द्दै­हिको मानसश्च
शारी­र­स्त्वा­स­नाद्यो ह्युपरतिरपरो ज्ञानयोगः पुरोक्तः ॥ ४२ ॥

सर्वानुन्मूल्य कामान्हृदि कृत­नि­ल­या­न्क्षि­प्त­श­ङ्कू­नि­वोच्चै -
र्दीर्य­द्दे­हा­भि­मा­न­स्त्य­जति चप­ल­ता­मा­त्म­द­त्ता­व­धानः ।
यात्यू­र्ध्व­स्था­न­मुच्चैः कृतसुकृतभरो नाडि­का­भि­र्वि­चित्रं
नील­श्वे­ता­रु­णाभिः स्रवदमृतभरं गृह्य­मा­णा­त्म­सौख्यः ॥ ४३ ॥

प्राप­श्य­द्वि­श्व­मा­त्मे­त्य­य­मिह पुरुषः शोकमोहाद्यतीतः
शुक्रं ब्रह्मा­ध्य­ग­च्छत्स खलु सक­ल­वि­त्स­र्व­सि­द्ध्या­स्पदं हि ।
विस्मृत्य स्थूल­सू­क्ष्म­प्र­भृ­ति­व­पु­रसौ सर्व­स­ङ्क­ल्प­शून्यो
जीव­न्मु­क्त­स्तु­रीयं पद­म­धि­ग­त­वा­न्पु­ण्य­पा­पै­र्वि­हीनः ॥ ४४ ॥

यः सत्त्वा­का­र­वृत्तौ प्रतिफलति युवा देह­मा­त्रा­वृ­तोऽपि
तद्ध­र्मै­र्बा­ल्य­वा­र्द्ध्या­दि­भि­र­नु­प­हतः प्राण आविर्बभूव ।
श्रेया­न्सा­ध्य­स्त­मेतं सुनिपुणमतयः सत्यसङ्कल्पभाजो
ह्यभ्या­सा­द्दे­व­यन्तः परिणतमनसा साकमूर्ध्वं नयन्ति ॥ ४५ ॥

प्रायोऽ­का­मोऽ­स्त­कामो निर­ति­श­य­सु­खा­या­त्म­का­म­स्त­दासौ
तत्प्रा­प्ता­वा­प्त­कामः स्थित­च­र­म­द­श­स्तस्य देहावसाने ।
प्राणा नैवोत्क्रमन्ति क्रमविरतिमिताः स्वस्वहेतौ तदानीं
क्वायं जीवो विलीनो लवणमिव जलेऽखण्ड आत्मैव पश्चात् ॥ ४६ ॥

पिण्डीभूतं यद­न्त­र्ज­ल­नि­धि­स­लिलं याति तत्सैन्धवाख्यं
भूयः प्रक्षि­प्त­म­स्मि­न्वि­ल­य­मु­प­गतं नामरूपे जहाति ।
प्राज्ञ­स्त­द्व­त्प­रा­त्म­न्यथ भजति लयं तस्य चेतो हिमांशौ
वागग्नौ चक्षुरर्के पयसि पुनरसृग्रेतसी दिक्षु कर्णौ ॥ ४७ ॥

क्षीरा­न्त­र्य­द्व­दाज्यं मधुरिमविदितं तत्पृ­थ­ग्भू­त­मस्मा -
द्भूतेषु ब्रह्म तद्व­द्व्य­व­हृ­ति­वि­दितं श्रान्त­वि­श्रा­न्ति­बी­जम् ।
यं लब्ध्वा लाभमन्यं तृणमिव मनुते यत्र नोदेति भीतिः
सान्द्रानन्दं यदन्तः स्फुरति तदमृतं विद्ध्यतो ह्यन्यदार्तम् ॥ ४८ ॥

ओतः प्रोतश्च तन्तुष्विह वित­त­प­ट­श्चि­त्र­व­र्णेषु चित्र -
स्तस्मि­ञ्जि­ज्ञा­स्य­माने ननु भवति पटः सूत्र­मा­त्रा­व­शेषः ।
तद्वद्विश्वं विचित्रं नग­न­ग­र­न­र­ग्रा­म­प­श्वा­दि­रूपं
प्रोतं वैराजरूपे स वियति तदपि ब्रह्मणि प्रोतमोतम् ॥ ४९ ॥

रूपं रूपं प्रतीदं प्रति­फ­ल­न­व­शा­त्प्रा­ति­रूप्यं प्रपेदे
ह्येको द्रष्टा द्वितीयो भवति च सलिले सर्वतोऽनन्तरूपः ।
इन्द्रो मायाभिरास्ते श्रुतिरिति वदति व्यापकं ब्रह्म तस्मा -
ज्जीवत्वं यात्य­क­स्मा­द­ति­वि­म­ल­तरे बिम्बितं बुद्ध्युपाधौ ॥ ५० ॥

तज्ज्ञाः पश्यन्ति बुद्ध्या परमबलवतो माययाक्तं पतङ्गं
बुद्धा­व­न्तः­स­मुद्रे प्रति­फ­लि­त­म­री­च्या­स्पदं वेधसस्तम् ।
यादृ­ग्या­वा­नु­पाधिः प्रतिफलति तथा ब्रह्म तस्मिन्यथास्यं
प्राप्ता­द­र्शा­नु­रूपं प्रतिफलति यथावस्थितं सत्सदैव ॥ ५१ ॥

एको भानुस्तदस्थः प्रति­फ­ल­न­व­शा­द्य­स्त्व­ने­को­द­कान्त -
र्नानात्वं यात्यु­पा­धि­स्थि­ति­ग­ति­स­मतां चापि तद्वत्परात्मा ।
भूतेषूच्चावचेषु प्रतिफलित इवाभाति तावत्स्वभावा -
वच्छिन्नो यः परं तु स्फुटमनुपहतो भाति तावत्स्वभावैः ॥ ५२ ॥

यद्व­त्पी­यू­ष­रश्मौ दिन­क­र­कि­र­णै­र्बि­म्बि­तै­रेति सान्द्रं
नाशं नैशं तमिस्रं गृहगतमथवा मूर्छितैः कांस्यपात्रे ।
तद्वद्बुद्धौ परा­त्म­द्यु­ति­भि­र­नु­पदं बिम्बिताभिः समन्ता -
द्भासन्ते हीन्द्रि­या­स्य­प्र­सृ­ति­भि­र­निशं रूपमुख्याः पदार्थाः ॥ ५३ ॥

पूर्णा­त्मा­ना­त्म­भे­दा­त्त्रि­वि­ध­मिह परं बुद्ध्य­व­च्छि­न्न­मन्य -
त्तत्रै­वा­भा­स­मात्रं गगनमिव जले त्रिप्रकारं विभाति ।
अम्भो­व­च्छि­न्न­म­स्मि­न्प्र­ति­फ­लि­त­मतः पाथ­सोऽ­न्त­र्ब­हिश्च
पूर्णा­व­च्छि­न्न­योगे व्रजति लयमविद्या स्वकार्यैः सहैव ॥ ५४ ॥

दृश्यन्ते दारुनार्यो युगपदगणिताः स्तम्भ­सू­त्र­प्र­युक्ताः
सङ्गीतं दर्शयन्त्यो व्यवहृतिमपरां लोकसिद्धां च सर्वाम् ।
सर्व­त्रा­नु­प्र­वि­ष्टा­द­भि­न­व­वि­भ­वा­द्या­व­द­र्था­नु­बन्धा -
त्तद्व­त्सू­त्रा­त्म­स­न्ज्ञा­द्व्य­व­ह­रति जग­द्भू­र्भु­वः­स्व­र्म­हा­न्तम् ॥ ५५ ॥

तत्सत्यं यत्त्रि­का­ले­ष्व­नु­प­ह­त­मदः प्राण­दि­ग्व्यो­म­मुख्यं
यस्मि­न्वि­श्रा­न्त­मास्ते तदिह निगदितं ब्रह्म सत्यस्य सत्यम् ।
नास्त्य­न्य­त्किञ्च यद्वत्परमधिकमतो नाम सत्यस्य सत्यं
सच्च त्यच्चेति मूर्ता­द्यु­प­हि­त­म­वरं सत्यमस्यापि सत्यम् ॥ ५६ ॥

यत्कि­ञ्चि­द्भा­त्य­सत्यं व्यवहृतिविषये रौप्य­स­र्पा­म्बु­मुख्यं
तद्वै सत्या­श्र­ये­णे­त्य­य­मिह नियमः साव­धि­र्लो­क­सिद्धः ।
तद्वै सत्यस्य सत्ये जगदखिलमिदं ब्रह्मणि प्राविरासी -
न्मिथ्याभूतं प्रतीतं भवति खलु यतस्तच्च सत्यं वदन्ति ॥ ५७ ॥

यत्राकाशावकाशः कलयति च कलामात्रता यत्र कालो
यत्रैवाशावसानं बृहदिह हि विराट् पूर्व­म­र्वा­गि­वास्ते ।
सूत्रं यत्रा­वि­रा­सी­न्म­ह­दपि महतस्तद्धि पूर्णाच्च पूर्णं
सम्पू­र्णा­द­र्ण­वा­दे­रपि भवति यथा पूर्ण­मे­का­र्ण­वाम्भः ॥ ५८ ॥

अन्तः सर्वौषधीनां पृथ­ग­मि­त­र­सै­र्ग­न्ध­वी­र्यै­र्वि­पाकै -
रेकं पाथोदपाथः परिणमति यथा तद्व­दे­वा­न्त­रात्मा ।
नाना­भू­त­स्व­भा­वै­र्व­हति वसुमती येन विश्वं पयोदो
वर्ष­त्यु­च्चै­र्हु­ताशः पचति दहति वा येन सर्वान्तरोऽसौ ॥ ५९ ॥

भूते­ष्वा­त्मा­न­मा­त्म­न्य­नु­ग­त­म­खिलं भूतजातं प्रपश्ये -
त्प्रायः पाथ­स्त­र­ङ्गा­न्व­य­व­दथ चिरं सर्वमात्मैव पश्येत् ।
एकं ब्रह्माद्वितीयं श्रुतिशिरसि मतं नेह नानास्ति किं चि -
न्मृत्यो­रा­प्नोति मृत्युं स इह जगदिदं यस्तु नानेव पश्येत् ॥ ६० ॥

प्राक्प­श्चा­दस्ति कुम्भा­द्ग­ग­न­मि­द­मिति प्रत्यये सत्यपीदं
कुम्भो­त्प­त्ता­वु­देति प्रलयमुपगते नश्य­ती­त्य­न्य­दे­शम् ।
नीते कुम्भेन साकं व्रजति भजति वा तत्प्र­मा­णा­नु­कारा -
वित्थं मिथ्याप्रतीतिः स्फुरति तनुभृतां विश्व­त­स्त­द्व­दात्मा ॥ ६१ ॥

यावान्पिण्डो गुडस्य स्फुरति मधुरिमैवास्ति सर्वोऽपि तावा -
न्यावा­न्क­र्पू­र­पिण्डः परिणमति सदामोद एवात्र तावान् ।
विश्वं यावद्विभाति द्रुम­न­ग­न­ग­रा­रा­म­चै­त्या­भि­रामं
तावच्चैतन्यमेकं प्रविकसति यतोऽन्ते तदात्मावशेषम् ॥ ६२ ॥

वाद्या­न्ना­दा­नु­भू­ति­र्य­दपि तदपि सा नूनमाघातगम्या
वाद्या­घा­त­ध्व­नीनां न पृथगनुभवः किं तु तत्साहचर्यात् ।
मायो­पा­दा­न­मे­त­त्स­ह­च­रि­त­मिव ब्रह्मणाभाति तद्व -
त्तस्मि­न्प्र­त्य­क्प्र­तीते न किमपि विष­यी­भा­व­मा­प्नोति यस्मात् ॥ ६३ ॥

दृष्टः साक्षादिदानीमिह खलु जगतामीश्वरः संविदात्मा
विज्ञातः स्थाणुरेको गगनवदभितः सर्व­भू­ता­न्त­रात्मा ।
दृष्टं ब्रह्मातिरिक्तं सक­ल­मि­द­म­स­द्रू­प­मा­भा­स­मात्रं
शुद्धं ब्रह्मा­ह­म­स्मी­त्य­वि­र­त­म­धु­ना­त्रैव तिष्ठेदनीहः ॥ ६४ ॥

इन्द्रे­न्द्राण्योः प्रकामं सुरतसुखजुषोः स्याद्रतान्तः सुषुप्ति -
स्तस्या­मा­न­न्द­सान्द्रं पदमतिगहनं यत्स आनन्दकोशः ।
तस्मिन्नो वेद किञ्चि­न्नि­र­ति­श­य­सु­खा­भ्य­न्तरे लीयमानो
दुःखी स्याद्बोधितः सन्निति कुश­ल­म­ति­र्बो­ध­ये­न्नैव सुप्तम् ॥ ६५ ॥

सर्वे नन्दन्ति जीवा अधिगतयशसा गृह्णता चक्षुरादी -
नन्तः सर्वोपकर्त्रा बहिरपि च सुषुप्तौ यथा तुल्यसंस्थाः ।
एतेषां किल्बि­ष­स्पृ­ग्ज­ठ­र­भृ­ति­कृते यो बहि­र्वृ­त्ति­रास्ते
त्वक्च­क्षुः­श्रो­त्र­ना­सा­र­स­न­व­श­मितो याति शोकं च मोहम् ॥ ६६ ॥

जाग्र­त्या­म­न्त­रात्मा विष­य­सु­ख­कृ­तेऽ­ने­क­य­त्ना­न्वि­धास्य -
ञ्श्राम्य­त्स­र्वे­न्द्रि­यौ­घोऽ­धि­ग­त­मपि सुखं विस्मरन्याति निद्राम् ।
विश्रामाय स्वरूपे त्वतितरसुलभं तेन चातीन्द्रियं हि
सुखं सर्वोत्तमं स्यात् परि­ण­ति­वि­र­सा­दि­न्द्रि­यो­त्था­त्सु­खाच्च ॥ ६७ ॥

पक्षावभ्यस्य पक्षी जनयति मरुतं तेन यात्युच्चदेशं
लब्ध्वा वायुं महान्तं श्रममपनयति स्वीयपक्षौ प्रसार्य ।
दुःस­ङ्क­ल्पै­र्वि­क­ल्पै­र्वि­ष­य­मनु कदर्थीकृतं चित्तमेत -
त्खिन्नं विश्रामहेतोः स्वपिति चिरमहो हस्त­पा­दा­न्प्र­सार्य ॥ ६८ ॥

आश्लि­ष्या­त्मा­न­मात्मा न किमपि सहसैवान्तरं वेद बाह्यं
यद्वत्कामी विदे­शा­त्स­द­न­मु­प­गतो गाढमाश्लिष्य कान्ताम् ।
यात्यस्तं तत्र लोक­व्य­व­हृ­ति­र­खिला पुण्य­पा­पा­नु­बन्धः
शोको मोहो भयं वा समविषममिदं न स्मरत्येव किञ्चित् ॥ ६९ ॥

अल्पा­न­ल्प­प्र­प­ञ्च­प्र­लय उप­र­ति­श्चे­न्द्रि­याणां सुखाप्ति -
र्जीवन्मुक्तौ सुषुप्तौ त्रितयमपि समं किं तु तत्रास्ति भेदः ।
प्राक्सं­स्का­रा­त्प्र­सुप्तः पुनरपि च परावृत्तिमेति प्रबुद्धो
नश्य­त्सं­स्का­र­जातो न स किल पुनरावर्तते यश्च मुक्तः ॥ ७० ॥

आनन्दान्यश्च सर्वाननुभवति नृपः सर्व­स­म्प­त्स­मृद्ध-
स्तस्यानन्दः स एकः स खलु शतगुणः सन्प्रदिष्टः पितृणाम् ।
आदेवब्रह्मलोकं शतशतगुणितास्ते यदन्तर्गताः स्यु -
र्ब्रह्मानन्दः स एकोऽस्त्यथ विषयसुखान्यस्य मात्रा भवन्ति ॥ ७१ ॥

यत्रानन्दाश्च मोदाः प्रमुद इति मुदश्चासते सर्व एते
यत्राप्ताः सर्वकामाः स्युर­खि­ल­वि­र­मा­त्के­व­ली­भाव आस्ते ।
मां तत्रा­न­न्द­सान्द्रे कृधि चिरममृतं सोम पीयूषपूर्णां
धारामिन्द्राय देहीत्यपि निगमगिरो भ्रूयु­गा­न्त­र्ग­ताय ॥ ७२ ॥

आत्माकम्पः सुखात्मा स्फुरति तदपरा त्वन्यथैव स्फुरन्ती
स्थैर्यं वा चञ्चलत्वं मनसि परिणतिं याति तत्रत्यमस्मिन् ।
चाञ्चल्यं दुःखहेतुर्मनस इदमहो याव­दि­ष्टा­र्थ­लब्धि -
स्तस्यां यावत्स्थिरत्वं मनसि विषयजं स्यात्सुखं तावदेव ॥ ७३ ॥

यद्वत्सौख्यं रतान्ते निमिषमिह मनस्येकताने रसे स्या -
त्स्थैर्यं यावत्सुषुप्तौ सुखमनतिशयं तावदेवाथ मुक्तौ ।
नित्यानन्दः प्रशान्ते हृदि तदिह सुखस्थैर्ययोः साहचर्यं
नित्यानन्दस्य मात्रा विषयसुखमिदं युज्यते तेन वक्तुम् ॥ ७४ ॥

श्रान्तं स्वान्तं स बाह्य­व्य­व­हृ­ति­भि­रिदं ताः समाकृष्य सर्वा -
स्तत्त­त्सं­स्का­र­युक्तं ह्युपरमति परा­वृ­त्त­मि­च्छ­न्नि­दा­नम् ।
स्वाप्ना­न्सं­स्का­र­जा­त­प्र­ज­नि­त­वि­ष­या­न्स्वा­प्न­दे­हेऽ­नु­भूता -
न्प्रोज्झ्यान्तः प्रत्य­गा­त्म­प्र­व­ण­मि­द­म­गा­द्भूरि विश्राममस्मिन् ॥ ७५ ॥

स्वप्ने भोगः सुखादेर्भवति ननु कुतः साधने मूर्छमाने
स्वाप्नं देहान्तरं तद्व्य­व­हृ­ति­कु­शलं नव्यमुत्पद्यते चेत् ।
तत्सामग्र्या अभावात्कुत इदमुदितं तद्धि साङ्कल्पिकं चे -
त्तत्किं स्वाप्ने रतान्ते वपुषि निपतिते दृश्यते शुक्रमोक्षः ॥ ७६ ॥

भीत्या रोदित्यनेन प्रवदति हसति श्लाघते नूनमस्मा -
त्स्वप्नेऽ­प्य­ङ्गेऽ­नु­बन्धं त्यजति न सहसा मूर्छि­तेऽ­प्य­न्त­रात्मा ।
पूर्वं ये येऽनु­भू­ता­स्त­नु­यु­व­ति­ह­य­व्या­घ्र­दे­शा­द­योऽर्था -
स्तत्सं­स्का­र­स्व­रू­पा­न्सृ­जति पुनरमूञ्श्रित्य संस्कारदेहम् ॥ ७७ ॥

सन्धौ जाग्र­त्सु­षु­प्त्यो­र­नु­भ­व­वि­दिता स्वाप्न्यवस्था द्वितीया
तत्रा­त्म­ज्यो­ति­रास्ते पुरुष इह समाकृष्य सर्वेन्द्रियाणि ।
संवेष्य स्थूलदेहं समुचितशयने स्वीय­भा­सा­न्त­रात्मा
पश्य­न्सं­स्का­र­रू­पा­न­भि­म­त­वि­ष­या­न्याति कुत्रापि तद्वत् ॥ ७८ ॥

रक्षन्प्राणैः कुलायं निजशयनगतं श्वास­मा­त्रा­व­शेषै -
र्मा भूत्त­त्प्रे­त­क­ल्पा­कृ­ति­क­मिति पुनः सार­मे­या­दि­भ­क्ष्यम् ।
स्वप्ने स्वीय­प्र­भा­वा­त्सृ­जति हयरथान्निम्नगाः पल्वलानि
क्रीडा­स्था­ना­न्य­ने­का­न्यपि सुहृ­द­ब­ला­पु­त्र­मि­त्रा­नु­का­रान् ॥ ७९ ॥

मात­ङ्ग­व्या­घ्र­द­स्यु­द्वि­ष­दु­र­ग­क­पी­न्कु­त्र­चि­त्प्रे­य­सीभिः
क्रीडन्नास्ते हसन्वा विहरति कुह­चि­न्मृ­ष्ट­म­श्नाति चान्नम् ।
म्लेच्छत्वं प्राप्त­वा­न­स्म्य­ह­मिति कुहचिच्छङ्कितः स्वीयलोका -
दास्ते व्याघ्रा­दि­भीत्या प्रचलति कुहचिद्रोदिति ग्रस्यमानः ॥ ८० ॥

यो यो दृग्गोचरोऽर्थो भवति स स तदा तद्ग­ता­त्म­स्व­रूपा -
विज्ञा­नो­त्प­द्य­मानः स्फुरति ननु यथा शुक्ति­का­ज्ञा­न­हेतुः ।
रौप्याभासो मृषैव स्फुरति च किर­णा­ज्ञा­न­तोऽम्भो भुजङ्गो
रज्ज्व­ज्ञा­ना­न्नि­मेषं सुखभयकृदतो दृष्टिसृष्टं किलेदम् ॥ ८१ ॥

माया­ध्या­सा­श्र­येण प्रविततमखिलं यन्मया तेन मत्स्था -
न्येतान्येतेषु नाहं यदपि हि रजतं भाति शुक्तौ न रौप्ये ।
शुक्त्यंशस्तेन भूतान्यपि मयि न वसन्तीति विष्वग्विनेता
प्राहा­स्मा­द्दृ­श्य­जातं सकलमपि मृषै­वे­न्द्र­जा­लो­प­मे­यम् ॥ ८२ ॥

हेतुः कर्मैव लोके सुख­त­दि­त­र­यो­रे­व­म­ज्ञोऽ­वि­दित्वा
मित्रं वा शत्रुरित्थं व्यवहरति मृषा याज्ञ­व­ल्क्या­र्त­भागौ ।
यत्कर्मैवोचतुः प्राग्ज­न­क­नृ­प­गृहे चक्र­तु­स्त­त्प्र­शंसां
वंशोत्तंसो यदूनामिति वदति न कोऽप्यत्र तिष्ठत्यकर्मा ॥ ८३ ॥

वृक्षच्छेदे कुठारः प्रभवति यदपि प्राणि­नो­द्य­स्त­थापि
प्रायोऽन्नं तृप्ति­हे­तु­स्त­दपि निगदितं कारणं भोक्तृयत्नः ।
प्राचीनं कर्म तद्व­द्वि­ष­म­स­म­फ­ल­प्रा­प्ति­हे­तु­स्त­थापि
स्वातन्त्र्यं नश्वरेऽस्मिन्न हि खलु घटते प्रेर­कोऽ­स्या­न्त­रात्मा ॥ ८४ ॥

स्मृत्या लोकेषु वर्णा­श्र­म­वि­हि­त­मदो नित्यकाम्यादि कर्म
सर्वं ब्रह्मार्पणं स्यादिति निगमगिरः सङ्गि­र­न्तेऽ­ति­र­म्यम् ।
यन्ना­सा­ने­त्र­जि­ह्वा­क­र­च­र­ण­शि­रः­श्रो­त्र­स­न्त­र्प­णेन
तुष्येदङ्गीव साक्षात्तरुरिव सकलो मूलसन्तर्पणेन ॥ ८५ ॥

यः प्रैत्या­त्मा­न­भिज्ञः श्रुतिविदपि तथा­क­र्म­कृ­त्क­र्म­णोऽस्य
नाशः स्याद­ल्प­भो­गा­त्पु­न­र­व­त­रणे दुःखभोगो महीयान् ।
आत्माभिज्ञस्य लिप्सोरपि भवति महाञ्शाश्वतः सिद्धिभोगो
ह्यात्मा तस्मादुपास्यः खलु तदधिगमे सर्व­सौ­ख्या­न्य­लिप्सोः ॥ ८६ ॥

सूर्या­द्यै­र­र्थ­भानं न हि भवति पुनः केवलैर्नात्र चित्रं
सूर्या­त्सू­र्य­प्र­ती­तिर्न भवति सहसा नापि चन्द्रस्य चन्द्रात् ।
अग्नेरग्नेश्च किं तु स्फुरति रविमुखं चक्षु­ष­श्चि­त्प्र­युक्ता -
दात्म­ज्यो­ति­स्त­तोऽयं पुरुष इह महो देवतानां च चित्रम् ॥ ८७ ॥

प्राणेनाम्भांसि भूयः पिबति पुन­र­सा­व­न्न­म­श्नाति तत्र
तत्पाकं जाठ­रोऽ­ग्नि­स्त­दु­प­हि­त­बलो द्राक्छनैर्वा करोति ।
व्यानः सर्वा­ङ्ग­ना­डी­ष्वथ नयति रसं प्राण­स­न्त­र्प­णार्थं
निःसारं पूतिगन्धं त्यजति बहिरयं देह­तोऽ­पा­न­सन्ज्ञः ॥ ८८ ॥

व्यापारं देहसंस्थः प्रतिवपुरखिलं पञ्च­वृ­त्त्या­त्म­कोऽसौ
प्राणः सर्वे­न्द्रि­या­णा­म­धि­प­ति­र­निशं सत्तया निर्विवादम् ।
यस्येत्थं चिद्घनस्य स्फुटमिह कुरुते सोऽस्मि सर्वस्य साक्षी
प्राणस्य प्राण एषोऽ­प्य­खि­ल­त­नु­भृतां चक्षु­ष­श्च­क्षु­रेषः ॥ ८९ ॥

यं भान्तं चिद्घनैकं क्षिति­ज­ल­प­व­ना­दि­त्य­च­न्द्रा­दयो ये
भासा तस्यैव चानु प्रविरलगतयो भान्ति तस्मिन्वसन्ति ।
विद्यु­त्पु­ञ्जोऽ­ग्नि­स­ङ्घोऽ­प्यु­डु­ग­ण­वि­त­ति­र्भा­स­येत्किं परेशं
ज्योतिः शान्तं ह्यनन्तं कविमजममरं शाश्वतं जन्मशून्यम् ॥ ९० ॥

तद्ब्र­ह्मै­वा­ह­म­स्मी­त्य­नु­भव उदितो यस्य कस्यापि चेद्वै
पुंसः श्रीस­द्गु­रू­णा­म­तु­लि­त­क­रु­णा­पू­र्ण­पी­यू­ष­दृष्ट्या ।
जीवन्मुक्तः स एव भ्रमविधुरमना निर्ग­तेऽ­ना­द्यु­पाधौ
नित्यानन्दैकधाम प्रविशति परमं नष्ट­स­न्दे­ह­वृत्तिः ॥ ९१ ॥

नो देहो नेन्द्रियाणि क्षरमतिचपलं नो मनो नैव बुद्धिः
प्राणो नैवा­ह­म­स्मी­त्य­खि­ल­ज­ड­मिदं वस्तुजातं कथं स्याम् ।
नाहङ्कारो न दारा गृह­सु­त­सु­ज­न­क्षे­त्र­वि­त्तादि दूरं
साक्षी चित्प्र­त्य­गात्मा निखि­ल­ज­ग­द­धि­ष्ठा­न­भूतः शिवोऽहम् ॥ ९२ ॥

दृश्यं यद्रूपमेतद्भवति च विशदं नीलपीताद्यनेकं
सर्वस्यैतस्य दृग्वै स्फुरदनुभवतो लोचनं चैकरूपम् ।
तद्दृश्यं मानसं दृक्प­रि­ण­त­वि­ष­या­का­र­धी­वृ­त्त­योऽपि
दृश्या दृग्रूप एव प्रभुरिह स तथा दृश्यते नैव साक्षी ॥ ९३ ॥

रज्ज्व­ज्ञा­ना­द्भु­ज­ङ्ग­स्त­दु­परि सहसा भाति मन्दान्धकारे
स्वात्मा­ज्ञा­ना­त्त­थासौ भृश­म­सु­ख­म­भू­दा­त्मनो जीवभावः ।
आप्तो­क्त्या­हि­भ्र­मान्ते स च खलु विदिता रज्जुरेका तथाहं
कूटस्थो नैव जीवो निजगुरुवचसा साक्षिभूतः शिवोऽहम् ॥ ९४ ॥

किं ज्योतिस्ते वदस्वाहनि रविरिह मे चन्द्रदीपादि रात्रौ
स्यादेवं भानु­दी­पा­दि­क­प­रि­क­लने किं तव ज्योतिरस्ति ।
चक्षुस्तन्मीलने किं भवति च सुतरां धीर्धियः किं प्रकाशे
तत्रैवाहं ततस्त्वं तदसि परमकं ज्योतिरस्मि प्रभोऽहम् ॥ ९५ ॥

कञ्चित्कालं स्थितः कौ पुनरिह भजते नैव देहादिसङ्घं
याव­त्प्रा­र­ब्ध­भोगं कथमपि स सुखं चेष्ट­तेऽ­स­ङ्ग­बुद्ध्या ।
निर्द्वन्द्वो नित्यशुद्धो विग­लि­त­म­म­ता­ह­ङ्कृ­ति­र्नि­त्य­तृप्तो
ब्रह्मा­न­न्द­स्व­रूपः स्थिरमतिरचलो निर्गताशेषमोहः ॥ ९६ ॥

जीवा­त्म­ब्र­ह्म­भेदं दलयति सहसा यत्प्रकाशैकरूपं
विज्ञानं तच्च बुद्धौ समुदितमतुलं यस्य पुंसः पवित्रम् ।
माया तेनैव तस्य क्षयमुपगमिता संसृतेः कारणं या
नष्टा सा कायकर्त्री पुनरपि भविता नैव विज्ञानमात्रात् ॥ ९७ ॥

विश्वं नेति प्रमा­णा­द्वि­ग­लि­त­ज­ग­दा­का­र­भा­न­स्त्य­जेद्वै
पीत्वा यद्व­त्फ­ला­म्भ­स्त्य­जति च सुतरां तत्फलं सौरभाढ्यम् ।
सम्य­क्स­च्चि­द्घ­नै­का­मृ­त­सु­ख­क­ब­ला­स्वा­द­पूर्णो हृदासौ
ज्ञात्वा निःसारमेवं जगदखिलमिदं स्वप्रभः शान्तचित्तः ॥ ९८ ॥

क्षीयन्ते चास्य कर्माण्यपि खलु हृद­य­ग्र­न्थि­रु­द्भि­द्यते वै
च्छिद्यन्ते संशया ये जनिमृतिफलदा दृष्टमात्रे परेशे ।
तस्मिं­श्चि­न्मा­त्र­रूपे गुणमलरहिते तत्त्व­म­स्या­दि­लक्ष्ये
कूटस्थे प्रत्य­गा­त्म­न्य­खि­ल­वि­धि­म­नो­गो­चरे ब्रह्मणीशे ॥ ९९ ॥

आदौ मध्ये तथान्ते जनिमृतिफलदं कर्ममूलं विशालं
ज्ञात्वा संसारवृक्षं भ्रम­म­द­मु­दि­ता­शो­क­ता­ने­क­प­त्रम् ।
कामक्रोधादिशाखं सुत­प­शु­व­नि­ता­क­न्य­का­प­क्षि­सङ्घं
छित्वा­स­ङ्गा­सि­नैनं पटु­म­ति­र­भि­त­श्चि­न्त­ये­द्वा­सु­दे­वम् ॥ १०० ॥

जातं मय्येव सर्व पुनरपि मयि तत्संस्थितं चैव विश्वं
सर्वं मय्येव याति प्रविलयमिति तद्ब्रह्म चैवाहमस्मि ।
यस्य स्मृत्या च यज्ञा­द्य­खि­ल­शु­भ­विधौ सुप्रयातीह कार्यं
न्यूनं सम्पूर्णतां वै तम­ह­म­ति­मु­दै­वा­च्युतं संनतोऽस्मि ॥ १०१ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य
श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ
शतश्लोकी समाप्ता ॥