अद्वैतशारदा

श्रुतिसारसमुद्धरणम्

० विभागः

त्रैलो­क्य­ना­थ­ह­रि­मी­ड्य­मु­दा­र­सत्त्वं शक्तेस्तनूजतनयं परमेष्ठिकल्पम् ।
जीमू­त­मु­क्त­वि­म­ला­म्ब­र­चा­रु­वर्णं वासि­ष्ठ­मु­ग्र­त­पसं प्रणतोऽस्मि नित्यम् ॥ १ ॥

सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया तु जगत् ।
निरविद्यत कश्चिदतो निखिलादविनाशि कृतेन न लभ्यमिति ॥ २ ॥

प्रति­पि­त्सु­र­सा­व­वि­नाशि पदं यतिधर्मरतो यतिमेव गुरुम् ।
विदि­ता­त्म­स­त­त्त्व­मु­पेत्य कविं प्रणिपत्य निवे­दि­त­वा­न्स्व­म­तम् ॥ ३ ॥

भगवन्नुदधौ मृतिजन्मजले सुखदुःखझषे पतितं व्यथितम् ।
कृपया शरणागतमुद्धर माम­नु­शा­ध्युु­प­स­न्न­म­न­न्य­ग­तिम् ॥ ४ ॥

विनिवर्त्य रतिं विषये विषमां परिमुच्य शरीरनिबद्धमतिम् ।
परमात्मपदे भव नित्यरतो जहि मोहमयं भ्रममात्ममतेः ॥ ५ ॥

विसृ­जा­न्न­मा­या­दिषु पञ्चसु तामहमस्मि ममेति मतिं सततम् ।
दृशि­रू­प­म­न­न्त­मृतं विगुणं हृदयस्थमवेहि सदाऽहमिति ॥ ६ ॥

जलभेदकृता बहुतेव रवे­र्घ­टि­का­दि­कृता नभसोऽपि यथा ।
मतिभेदकृता तु तथा बहुता तव बुद्धि­दृ­शोऽ­वि­कृ­तस्य सदा ॥ ७ ॥

दिनकृत्प्रभया सदृशेन सदा जनचित्तर (च्चरि)तं सकलं स्वचिता ।
विदितं भवताऽविकृतेन सदा यत एवमतोऽसित एव सदा ॥ ८ ॥

उपरागमपेक्ष्य मतिर्विषये विषयावधृतिं कुरुते तु यतः ।
तत एव मते­र्वि­दि­ता­वि­दिता विषयास्तु ततः परिणामवती ॥ ९ ॥

मतिवृत्तय आत्मचिता विदिताः सततं हि यतोऽविकृतश्च ततः ।
यदि चाऽऽत्मचितिः परिणामवती मतयो विदिताविदिताः स्युरिमाः ॥ १० ॥

चरितं तु धियः सकलं सततं विदितं भवता परिशुद्धाचिता ।
मतिभेदगुणो नहि तेऽस्ति ततो यत एवमतोऽसदृशस्तु धिया ॥ ११ ॥

११

विदि­त­त्व­म­वि­प्र­ति­प­न्न­तया मतिषु प्रगतं विषयेषु यथा ।
यत एवमतः परसंविदिता विदितत्वत एव यथा विषयाः ॥ १२ ॥

१२

परसंविदिताः सततं हि यतो न विदुः स्वममी विषयास्तु ततः ।
मतयोऽपि तथा परसंविदिता न विदुः स्वम­मू­र्वि­ष­यास्तु यथा ॥ १३ ॥

१३

विष­या­कृ­ति­सं­स्थि­ति­रे­क­विधा मनसस्तु सदा व्यवहारविधौ ।
अहमित्यपि तद्विषया त्वपरा मति­वृ­त्ति­र­व­ज्व­लि­ताऽऽ­त्म­चिता ॥ १४ ॥

१४

पुरुषस्य तु धर्मवदुद्भवति स्वरसेन मतेः स्वमुणोऽपि सती ।
अत आत्मगुणं प्रतियन्ति जना मति­वृ­त्ति­मि­मा­म­ह­मि­त्य­बुधाः ॥ १५ ॥

१५

यदि सा न भवेज्जनमोहकरी व्यवहारमिमं न जनोऽनुभवेत् ।
विफलश्च तदा विषयानुभवो ज्ञगुणो नहि सेति यदा विदिता ॥ १६ ॥

१६

उप­ल­भ्य­घ­टा­दि­नि­भैव भवेन्मनसो यदि संस्थितिरेकविधा ।
पुरुषस्य चितिश्च न विक्रियते मति­वृ­त्ति­म­पेक्ष्य घटादिनिभाम् ॥ १७ ॥

१७

अव­ग­न्त्र­व­ग­म्य­चि­दा­त्म­धि­यो­र­ह­मि­त्य­भि­मा­न­वि­ही­न­तया ।
स्थित­यो­र­भि­मा­न­पु­रः­स­रकं व्यवहारपथं न जनोऽवतरेत् ॥ १८ ॥

१८

अहमीक्ष इति प्रथमं हि धिया सुविचिन्त्य ततो विषयाभिमुखम् ।
नयनं प्रहिणोति तथाऽन्यदपि श्रवणादि वियत्प्रमुखस्य गुणे ॥ १९ ॥

१९

अपहाय न कश्चिदहङ्करणं व्यवहारमुपैति कदाचिदपि ।
उपपन्नतरा हि मतेस्तु ततो व्यवहारपथं प्रति कारणता ॥ २० ॥

२०

चितिशक्तिगुणः किमहङ्करणं किमु बुद्धिगुणोऽथ भवेदुभयोः ।
इति चिन्त्यमिदं मन­साऽ­न­ल­सै­रु­प­प­त्ति­भि­रा­त्म­हितं यतिभिः ॥ २१ ॥

२१

उपलभ्यमहङ्करणं न भवेत्पुरुषस्य गुणो यदि तर्हि भवेत् ।
गुणिरूपमथोऽवययं गुणिनो न विहाय गुणः पृथगस्ति यतः ॥ २२ ॥

२२

न गुणो गुणिनि स्थितवान् गुणिना विषयी क्रियते न च तस्य गुणैः ।
नहि देशकृता न च वस्तुकृता गुणिनोऽस्ति गुणस्य भिदा तु यतः ॥ २३ ॥

२३

न पर­स्प­र­म­ग्नि­गु­णोऽ­ग्नि­गतो विषयत्वमुपैति कदाचिदपि ।
नहि बह्निरपि स्वगुणं स्वगतं विषयी कुरुते स्वगुणेन भुवि ॥ २४ ॥

२४

कण­भु­ग्य­म­ची­क्लृ­प­दा­त्म­गुणं गुण­पू­ग­म­नि­त्य­म­ना­त्म­गु­णम् ।
अनयैव दिशा स निराक्रियतां नहि नित्य­म­नि­त्य­गु­णेन गुणि ॥ २५ ॥

२५

वियतः प्रभवं प्रवदन्ति यतः श्रुतयो बहुशः खमनित्यमतः ।
उपमानमनित्यगुणं वियतो नहि नित्यमिहास्ति कणादकृते ॥ २६ ॥

२६

मनसा पुरुषः पुरुषेण मनो नभसा मुसलं मुसलेन नभः ।
नहि योगवियोगमुपैति कुतोऽ­व­य­वि­त्व­नि­रा­क­र­णा­द­मुतः ॥ २७ ॥

२७

इह रज्जुघटादि हि सावयवं समुपैति युजामितरेतरतः ।
इति दृष्ट­म­तोऽ­न्य­द­दृ­ष्ट­मपि स्वयमूह्यमिदं त्वपरित्यजता ॥ २८ ॥

२८

नहि सावयवं विग­ता­व­य­वै­र्वि­ग­ता­व­यवं न च सावयवैः ।
उपयाति युजामिति दृष्टमिदं यत एवमतः स्थितमुक्तमदः ॥ २९ ॥

२९

नहि कल्पि­त­भा­ग­स­मा­ग­मनं विगतावयवस्य घटेत कुतः ।
वितथत्वमतिः सुदृढा तु यतः परि­क­ल्पि­त­व­स्तुषु इत्यमुतः ॥ ३० ॥

३०

इह वेदशिरःसु तदर्थविदः प्रवदन्ति सम­स्त­ज­ग­त्प्र­कृ­तिम् ।
परमात्मपदं दृशि­मा­त्र­व­पु­र्ध्रु­व­मे­क­म­तोऽ­न्य­द­नि­त्य­मिति ॥ ३१ ॥

३१

अत एव न किञ्चिदुदाहरणं ध्रुवमस्ति परस्य विनाशिगुणम् ।
यत एवमतः स्थितमुक्तमदो नहि नित्य­म­नि­त्य­गु­णेन गुणि ॥ ३२ ॥

३२

उपलभ्यमहङ्करणं भवितुं क्षमते दृशिरूपगुणो न यतः ।
विष­या­कृ­ति­र­ञ्जि­त­धी­गु­ण­वद् विष­य­त्व­म­ह­ङ्क­र­णस्य ततः ॥ ३३ ॥

३३

विषयप्रकृतिं प्रतिपन्नवतीं मति­वृ­त्ति­म­ह­ङ्क­रणं च मतेः ।
उभयं परिपश्यति योऽविकृतः पर­मा­त्म­स­दु­क्ति­रसौ पुरुषः ॥ ३४ ॥

३४

ननु देहभृदेष कथं भवताऽभिहितः पर­मा­त्म­स­दु­क्ति­रिति ।
न विरु­द्ध­म­वा­दि­ष­मे­त­दहं श्रुति­र­प्य­मु­म­र्थ­मु­वाच यतः ॥ ३५ ॥

३५

अमतं न मतेरमतस्तदिदं यदमुत्र तदेव तु कश्चिदिति ।
श्रुतिषु प्रतिपादितमस्य दृशेः पर­मा­त्म­प­द­त्व­म­मूषु भृशम् ॥ ३६ ॥

३६

यदनभ्युदितं वदनेन सदा नयनेन च पश्यति यन्न सदा ।
श्रवणेन च यन्न शृणोति सदा मनसाऽपि च यन्मनुते न सदा ॥ ३७ ॥

३७

वदनं नयनं च तथा श्रवणं मन एव च येन मतं सततम् ।
अवगच्छ तदेव पदं परमं त्वमिति श्रुति­री­क्षि­तु­रु­क्त­वती ॥ ३८ ॥

३८

परमात्मपदत्व इयं च मया श्रुति­र­ल्प­क­णो­क्ति­रि­हा­भि­हिता ।
अणिमादिगुणं सदिति प्रकृतं तदसि त्वमिति श्रुतिरप्यवदत् ॥ ३९ ॥

३९

नभसोऽवयवो विकृतिश्च यथा घटकादिनभो न भवेत्तु तथा ।
परमात्मन एष न चावयवो विकृतिश्च शरीरभृदित्यमृषा ॥ ४० ॥

४०

कर­का­दि­नि­मि­त्त­क­मेव यथा करकाम्बरनाम भवेद्वियतः ।
परमात्मदृशेरपि नाम तथा पुरहेतुकमेव तु जीव इति ॥ ४१ ॥

४१

जनितं वियदग्रणि येन जग­त्प­र­मा­त्म­स­द­क्ष­र­ना­म­भृता ।
प्रविवेश स एव जगत्स्वकृतं खमिवेह घटं घटसृष्टिमनु ॥ ४२ ॥

४२

उदपद्यत खप्रमुखं हि जगत्परमात्मन इत्यपि याः श्रुतयः ।
अवधार्यत आभिरभेदमतिः पर­मा­त्म­स­त­त्त्व­स­म­र्प­णतः ॥ ४३ ॥

४३

यदि सृष्टिविधानपरं वचनं फल­शू­न्य­म­न­र्थ­क­मेव भवेत् ।
जगदित्थमजायत धातुरिति श्रवणं पुरुषस्य फलाय न हि ॥ ४४ ॥

४४

अनृ­त­त्व­म­वा­द्य­स­कृ­द्वि­कृ­ते­र्नि­र­धारि सदेव तु सत्यमिति ।
श्रुति­भि­र्ब­हु­धै­त­द­तोऽ­व­गतं जगतो न हि जन्म विधेयमिति ॥ ४५ ॥

४५

न च तत्त्व­म­सी­त्य­स­कृ­द्व­चनं जगतो जनिमात्रविधौ घटते ।
पर­मा­त्म­प­दा­नु­मतिं तु यदा जनयेत्पुरुषस्य तदा घटते ॥ ४६ ॥

४६

स्थिर­ज­ङ्ग­म­दे­ह­धियां चरितं परिपश्यति योऽविकृतः पुरुषः ।
पर­मा­त्म­स­दु­क्ति­र­सा­विति यद्भणितं तद­ति­ष्ठि­प­मि­त्थ­म­हम् ॥ ४७ ॥

४७

पृथगेव यदाऽक्षरतो मति­वि­न्म­क­रो­द­क­वन्न घटाम्बरवत् ।
न विरोत्स्यति तत्त्वमसीति तदा वचनं कथमेष स इत्यपि च ॥ ४८ ॥

४८

न तु वस्तु­स­त­त्त्व­वि­बो­ध­न­कृ­द्वि­नि­व­र्त­य­द­प्र­ति­बो­ध­मि­दम् ।
सदु­पा­स­न­क­र्म­वि­धा­न­परं तत एव मतं न विरोत्स्यति मे ॥ ४९ ॥

४९

मनआदिषु कारणदृष्टिविधिः प्रतिमासु च देवधियां करणम् ।
स्वमतिं त्वनपोह्य यथा हि तथा त्वमसीति सदा­त्म­म­ति­र्व­च­नात् ॥ ५० ॥

५०

अथवा त्वमि­ति­ध्व­नि­वा­च्य­मिदं सदसीति वदेद्वचनं गुणतः ।
विभयं पुरुषं प्रवदन्ति यथा मृग­रा­ड­य­मी­श्व­र­गुप्त इति ॥ ५१ ॥

५१

यदि वा स्तुतये सदसीति वदेन्मघवानसि विष्णुरसीति यथा ।
त्वमि­ति­श्रु­ति­वा­च्य­स­त­त्त्व­क­ता­म­थवा सत एव वदेद्वचनम् ॥ ५२ ॥

५२

यदि तत्त्वमिति ध्वनिनाऽभिहितः परमात्मसतत्त्वक एव सदा ।
किमिति स्वकमेव न रूप­म­वे­त्प्र­ति­बो­ध्यत एव यतो वचनैः ॥ ५३ ॥

५३

अत एव हि जीवसदात्मकतां नहि तत्त्वमसीति वदेद्वचनम् ।
यदपीदृशमन्यदतो वचनं तदपि प्रथयेदनयैव दिशा ॥ ५४ ॥

५४

त्वदु­दा­हृ­त­वा­क्य­वि­ल­क्ष­णता वचनस्य हि तत्त्वमसीति यतः ।
अत एव न दृष्टिविधानपरं सत एव सदात्मकतागमकम् ॥ ५५ ॥

५५

इति शब्द­शि­र­स्क­प­दो­क्त­म­ति­र्वि­हिता मनआदिषु तैर्वचनैः ।
न विधानमिहास्ति तथा वचने सुविलक्षणमेतदतो वचनात् ॥ ५६ ॥

५६

मनसो वियतः सवितृप्रभृतेः प्रवदन्ति न तानि सदात्मकताम् ।
मनआदि हि मुख्यमुपास्यतया प्रवदन्ति यतोऽ­क्ष­र­दृ­ष्टि­यु­तम् ॥ ५७ ॥

५७

करको न मृदः पृथगस्ति यथा मनआदि सतोऽस्ति तथा न पृथक् ।
इति वस्तुसतत्त्वकता तु यथा विधिशब्द इतिश्च तथा तु वृथा ॥ ५८ ॥

५८

मन­आ­दि­स­मा­न­वि­भ­क्ति­तया विधिशब्दमितिं च विहाय यदि ।
जनकेन सता सहयोगमियादनृतं तदिति स्फुटमुक्तमभूत् ॥ ५९ ॥

५९

ननु जीवसतोरपि तत्त्वमिति स्फुट­मे­क­वि­भ­क्त्य­भि­धा­न­मि­दम् ।
कथमस्य शरीरभृतोऽनृतता न भवे­द­वि­भ­क्त­वि­भ­क्ति­युजः ॥ ६० ॥

६०

प्रकृ­ते­र­भि­धा­न­प­देन यथा विकृ­ते­र­भि­धा­न­मु­पैति युजाम् ।
अनृतत्वमतिस्तु तथा विकृतौ मृदयं घट इत्यभिधासु यथा ॥ ६१ ॥

६१

विकृतित्वमवादि मनः­प्र­भृ­ते­र्ब­हुशः श्रुतिषु प्रकृतेस्तु सतः ।
अत एव समानविभक्तितया मनआदि सुवे­द्य­म­स­त्य­मिति ॥ ६२ ॥

६२

जनितत्वमवादि नहि श्रुतिभिर्जनकेन सताऽस्य शरीरभृतः ।
मन­आ­दि­वि­का­र­वि­ल­क्ष­णतां प्रतियन्ति शरीरभृतस्तु ततः ॥ ६३ ॥

६३

यद­जी­ज­न­द­म्ब­र­पू­र्व­मिदं जग­द­क्ष­र­मी­क्ष­ण­वि­ग्र­ह­कम् ।
प्रविवेश तदेव जगत्स्वकृतं स च जीवसमाख्य इति श्रुतयः ॥ ६४ ॥

६४

पर­मा­त्म­वि­का­र­वि­भ­क्त­म­तिर्न भवत्यत एव शरीरभृतः ।
यत एव विका­र­वि­भि­न्न­म­तिर्न भवत्यत एव मृषात्वमतिः ॥ ६५ ॥

६५

अवि­भ­क्त­वि­भ­क्त्य­भि­धा­न­कृता परमात्मपदेन शरीरभृतः ।
न भवेदिह तत्त्व­म­सि­प्र­भृतौ लवणं जलमित्यभिधासु यथा ॥ ६६ ॥

६६

पर­मा­त्म­वि­का­र­नि­रा­क­रणं कृतमस्य शरीरभृतस्तु यतः ।
पर­मे­श्व­र­रू­प­वि­ल­क्ष­णता न मनागपि देहभृतोऽस्ति ततः ॥ ६७ ॥

६७

ननु जीव­स­तो­र­णु­मा­त्र­मपि स्वगतं न विशेषणमस्ति यदा ।
वद तत्त्वमसीति तदा वचनं किमु वक्ति तथैष त इत्यपि च ॥ ६८ ॥

६८

स्वगतं यदि भेद­क­मि­ष्ट­म­भू­द­णु­मा­त्र­म­पी­श्व­र­दे­ह­भृतोः ।
अपनेतुमशक्यमदो वचनैरमुनाऽस्य पृथ­क्त्व­नि­षे­ध­परैः ॥ ६९ ॥

६९

इह यस्य च यो गुण आत्मगतः स्वत एव न जातु भवेत्परतः ।
वचनेन न तस्य निराकरणं क्रियते स गुणः सहजस्तु यतः ॥ ७० ॥

७०

वचनं त्ववबोधकमेव यतस्तत एव न वस्तु­वि­प­र्य­य­कृत् ।
ऩहि वस्त्वपि शब्द­व­शा­त्प्र­कृतिं प्रज­हा­त्य­न­व­स्थि­ति­दो­ष­भ­यात् ॥ ७१ ॥

७१

यत एवमतो विषयस्य गुणं विषयेण सहात्मनि मूढधिया ।
अधि­रो­पि­त­म­प्स्विव भूमिगुणं प्रतिषेधति तत्त्वमसीति वचः ॥ ७२ ॥

७२

अत एव न दृष्टिविधानपरं गुणवादपरं च न तद्वचनम् ।
स्तुतिवाद्यपि नैतदुपास्यतया विधिरत्र न देहभृतोऽस्ति यतः ॥ ७३ ॥

७३

सत एव हि नाम जग­त्प्र­कृ­ते­रु­प­धा­न­व­शा­दिह जीव इति ।
अत एव न जीवसतत्त्वकतां प्रकृतस्य सतः प्रतिपादयति ॥ ७४ ॥

७४

यदि जीवसतत्त्वकतां गम­ये­द­णि­मा­दि­गु­णस्य जगत्प्रकृतेः ।
अणि­मा­दि­गु­णो­क्ति­क­ताऽस्य मृषा यदि वाऽस्य शरीरभृदात्मकता ॥ ७५ ॥

७५

इह संसृ­ति­हे­तु­नि­रा­क­रणं कृतमस्य शरीरभृतोऽभिमतम् ।
पर­मे­श्व­र­मा­त्म­तया ब्रुवता वचनेन च तत्त्व­म­सी­त्य­मुना ॥ ७६ ॥

७६

त्वमसीति पदद्वयमेति युजां तदिति ध्वनिना सह तत्त्वमिति ।
क्रियया सह नामपदं समि­या­न्नि­र­पे­क्ष­मु­पै­त्य­नया हि युजाम् ॥ ७७ ॥

७७

नहि नामसहस्रमपि क्रियया रहितं किमपि प्रतिपादयति ।
प्रतिपादकमेषु लिङादि भवे­द्वि­हि­ता­दि­म­ते­र्ज­नकं हि यतः ॥ ७८ ॥

७८

भगवानपि मध्यममेव यतो विनियच्छति युष्मदि नित्यमतः ।
प्रथमं त्वमसीति पदे समितश्चरमं त्वसिना समियात्तदिति ॥ ७९ ॥

७९

पुरु­षोऽ­भि­हि­त­स्त्व­म­सीति यदा किमसानि वदेति तदाऽभिमुखः ।
श्रवणाय भवेदणिमादिगुणं सदिति प्रकृतं तदसीति वदेत् ॥ ८० ॥

८०

त्वमिति ध्वनि­नाऽ­भि­हि­तस्य यत­स्त­दि­ति­श्रु­ति­वा­च्य­स­दा­त्म­क­ताम् ।
अवदद्वचनं तत एव सतो नहि जीवसतत्त्वकतां वदति ॥ ८१ ॥

८१

विषयाभिमुखानि (णि) शरीरभृतः स्वरसेन सदा करणानि यतः ।
स्वकमेष न रूपमवैति ततः प्रतिबोध्यत एव ततो वचनैः ॥ ८२ ॥

८२

वचनं च पराञ्चिपुरःसरकं बहु वैदिकमत्र तथा स्मरणम् ।
विषयेषु च नावमिवाम्भसि यन्म­न­से­न्द्रि­य­र­श्मि­वि­नि­ग्र­ह­वत् ॥ ८३ ॥

८३

इयता हि न देहभृतोऽस्ति भिदा परमात्मदृशेरिति वाच्यमिदम् ।
स्थितिकाल इहापि च सृष्टिमुखे सदनन्यतया श्रुत एष यतः ॥ ८४ ॥

८४

द्वयमप्यविरोधि शरीरभृतो वचनीयमिदं रघुनन्दनवत् ।
उपदेशमपेक्ष्य सदाऽऽत्ममतिः पर­मा­त्म­स­त­त्त्व­कता च सदा ॥ ८५ ॥

८५

सदुपासनमस्य विधेयतया वचनस्य मम प्रतिभाति यतः ।
अत एव न जीवसदात्मकतां प्रति­बो­ध­य­ती­त्य­व­द­त्त­द­सत् ॥ ८६ ॥

८६

सदुपास्य इति श्रुतिरत्र न न ते तदसि त्वमिति श्रुतिरेवमियम् ।
यत एवमतो न विधित्सितता सदुपासनकर्मण इत्यमृषा ॥ ८७ ॥

८७

यदि तस्य कुत­श्चि­दि­हाऽऽ­न­यनं क्रियते तदनर्थकमेव भवेत् ।
पुरुषेण कृतस्य यतः श्रुतिता न भवेदिति वेदविदां स्मरणम् ॥ ८८ ॥

८८

किमरे पुरुषं प्रतिबोधयितुं स्वक­म­र्थ­म­श­क्त­मिदं वचनम् ।
यदतोऽन्यत आनयनं क्रियते भवता श्रवणेन विनाऽपि विधेः ॥ ८९ ॥

८९

श्रुत­हा­नि­रि­हा­श्रु­त­क्लृ­प्ति­रपि श्रुतिवित्समयो न भवेत्तु यतः ।
श्रुतिभक्तिमता श्रुतिवक्तृगतं ग्रहणीयमतो न तु बुद्धिवशात् ॥ ९० ॥

९०

पुरुषम्य शरीरगतात्ममतिं मृति­स­म्भ­व­हे­तु­म­न­र्थ­क­रीम् ।
अपनीय सदात्ममतिं दधती महते पुरुषस्य हिताय भवेत् ॥ ९१ ॥

९१

विनिवर्तत एव शरीरगता विपरीतमतिः पुरुषस्य तदा ।
वचनेन तु तत्त्वमसीति यदा प्रतिबोध्यत एष त इत्यपि च ॥ ९२ ॥

९२

यदि नाप­न­ये­च्छ्रु­ति­रा­त्म­मतिं पुरुषस्य शरीरगतामनृताम् ।
तद­हं­म­ति­हे­तु­क­क­र्म­गतिं सुख­दुः­ख­फ­ला­म­व­शोऽ­नु­भ­वेत् ॥ ९३ ॥

९३

यदि तत्त्वमसीति वदेद्वचनं सदुपासनकर्म न तत्त्वमतिम् ।
पुरुषस्य फलं सदुपासनतो विमृशामि भविष्यति कीदृगिति ॥ ९४ ॥

९४

पुरुषस्य तु मर्त्यगुणस्य भवेत्सदुपासनया न सदात्मकता ।
न कथञ्चिदपि प्रजहाति यतः प्रकृतिं सहजामिह कश्चिदपि ॥ ९५ ॥

९५

यदि देहभृदेष सदात्मकतां प्रगमिष्यति वै सदुपासनया ।
न जिहासति रूपमसौ न निजं यत ऐक्यगतिर्न भवत्युभयोः ॥ ९६ ॥

९६

रसविद्धमयः प्रकृतिं सहजां प्रविहाय यथा कनकत्वमियात् ।
पुरुषोऽपि तथा सदुपासनया प्रतिपत्स्यत एव सदात्मकताम् ॥ ९७ ॥

९७

अयसोऽवयवानभिभूय रसः स्थित­वा­न­न­ला­नु­गृ­ही­ति­मनु ।
कनकत्वमतिं जनयत्ययसि प्रतिपन्नमयो न तु काञ्चनताम् ॥ ९८ ॥

९८

उदकावयवानभिभूय पयो रजतावयवांश्च यथा कनकम् ।
विपरीतमतिं जनयत्युदके रजते च तथाऽयसि हेममतिम् ॥ ९९ ॥

९९

रस­वी­र्य­वि­पा­क­वि­ना­श­मनु प्रविनश्यति काञ्चनताऽप्ययसः ।
कृतकं हि न नित्यमतिप्रगतं सम­वे­त­म­व­श्य­मु­पैति यतः ॥ १०० ॥

१००

अमृ­त­त्व­म­स­त्पु­रु­षस्य यदि क्रियते सदुपासनया यजिवत् ।
यजि­का­र्य­व­द­न्त­व­देव भवेत्कृतकस्य यतो विदिताऽध्रुवता ॥ १०१ ॥

१०१

पुरुषस्य सतश्च विधर्मकयोः सदुपासनया न भवेत्समितिः ।
यदि सङ्गतिरिष्यत एव तयोरविमुक्ततया न चिरं वसतः ॥ १०२ ॥

१०२

फलमीदृगिदं सदुपासनतः पुरुषस्य भविष्यति नान्यदतः ।
न च तन्नि­र­व­द्य­त­याऽ­भि­मतं विदुषां बहुदोषसमीक्षणतः ॥ १०३ ॥

१०३

सदु­पा­स­न­क­र्म­वि­धा­न­परं न भवेदत एव हि तद्वचनम् ।
अहमस्मि शरीरमिदं च ममेत्यविवेकमतिं विनिवर्तयति ॥ १०४ ॥

१०४

सकलोपनिषत्सु शरीरभृतः पर­मा­त्म­प­दै­क­वि­भ­क्ति­तया ।
उप­दे­श­व­चां­स्य­न­यैव दिशा गम­ये­न्म­ति­मा­न­भि­यु­क्त­तया ॥ १०५ ॥

१०५

द्रविडोऽपि च तत्त्वमसीति वचो विनिवर्तकमेव निरूपितवान् ।
शबरेण विव­र्धि­त­रा­ज­शि­शो­र्नि­ज­ज­न्म­वि­दु­क्ति­नि­द­र्श­नतः ॥ १०६ ॥

१०६

यत एवमतः स्वश­री­र­ग­ता­म­ह­मि­त्य­वि­वे­क­मतिं सुदृढाम् ।
प्रविहाय यदक्षरमद्वयकं त्ममवेहि तदक्षरमात्मतया ॥ १०७ ॥

१०७

न मनो न मतिः करणानि च नो न रजो न तमो न च सत्त्वमपि ।
न मही न जलं न च वह्निरपि श्वसनो न नभश्च पदं परमम् ॥ १०८ ॥

१०८

अम­न­स्क­म­बु­द्धि­म­नि­न्द्रि­य­क­म­र­ज­स्क­म­स­त्त्व­त­म­स्क­मपि ।
अम­ही­ज­ल­व­ह्न्य­नि­ला­म्ब­रकं पर­म­क्ष­र­मा­त्म­त­याऽऽ­श्रय भोः ॥ १०९ ॥

१०९

करणानि हि यद्विषयाभिमुखं प्रगमय्य मतिर्विषयेषु चरेत् ।
तदु जागरितं प्रवदन्ति बुधा न तदस्ति ममेत्यवगच्छ दृशेः ॥ ११० ॥

११०

करणानि यदोपरतानि तदा विष­या­नु­भ­वा­हि­त­वा­स­नया ।
विषयेण विना विषयप्रतिमं स्फुरणं स्वपनं प्रवदन्ति बुधाः ॥ १११ ॥

१११

करणस्य धियः स्फुरणेन विना विषयाकृतिकेन तु या स्थितता ।
प्रवदन्ति सुषुप्तिममूं हि बुधा विनिवृत्ततृषः श्रुति­त­त्त्व­विदः ॥ ११२ ॥

११२

इति जागरितं स्वपनं च धियः क्रमतोऽक्रमतश्च सुषुप्तमपि ।
न कदाचिदपि त्रयमस्ति ममेत्यवगच्छ तदाऽस्मि तुरीयमिति ॥ ११३ ॥

११३

यदु जाग­रि­त­प्र­भृ­ति­त्रि­तयं परि­क­ल्पि­त­मा­त्मनि मूढधिया ।
अभिधानमिदं तदपेक्ष्य भवे­त्प­र­मा­त्म­प­दस्य तुरीयमिति ॥ ११४ ॥

११४

यदपेक्ष्य भवेदभिधानमिदं परमात्मपदस्य तुरीयमिति ।
तद­स­त्य­म­स­त्य­गु­णश्च ततः परि­नि­र्मि­त­वा­र­ण­चे­ष्टि­त­वत् ॥ ११५ ॥

११५

गगनप्रमुखं पृथिवीचरमं विष­ये­न्द्रि­य­बु­द्धि­म­नः­स­हि­तम् ।
जनि­म­ज्ज­ग­दे­त­द­भू­त­मिति श्रुतयः प्रव­द­न्त्यु­प­मा­न­शतैः ॥ ११६ ॥

११६

कफ­पि­त्त­स­मी­र­ण­धा­तु­धृतं कुशरीरमिदं सततं हि यथा ।
प्रभवप्रभृति प्रलयान्तमिदं जग­द­ग्नि­र­वी­न्दु­धृतं हि तथा ॥ ११७ ॥

११७

जगतः स्थिति­का­र­ण­मि­त्थ­मिदं प्रथितं रवि­व­ह्नि­श­शि­त्रि­त­यम् ।
स्मृतिवेदजनेषु भृशं यदिति श्रुति­री­रि­त­व­त्य­नृनं तदिति ॥ ११८ ॥

११८

यदु रोहि­त­शु­क्ल­सु­कृ­ष्णा­मिदं ज्वलनादिषु रूपमवैति जनः ।
तदु तैज­स­मा­प्य­म­था­न्न­मिति ब्रुवती त्रयमेव तु सत्यमिति ॥ ११९ ॥

११९

रुचकप्रमुखं कनकादिमयं रुच­का­द्य­भि­धा­न­नि­मि­त्त­मिति ।
असदित्यवगम्यत एव यतो व्यभिचारवती रुचकादिमतिः ॥ १२० ॥

१२०

न कदाचिदपि व्यभिचारवती कनकादिमतिः पुरुषस्य यतः ।
तत एव हि सत्यतयाऽभिमतं कनकादि विपर्यय एषु नहि ॥ १२१ ॥

१२१

रुचकादिसमं ज्वलनादि भवेदनृतत्वगुणेन तु सत्यतया ।
अरुणप्रमुखं ज्वल­न­प्र­भृ­ति­प्र­कृ­ति­त्रि­तयं कनकादिसमम् ॥ १२२ ॥

१२२

अन­यो­प­म­याऽ­नृ­त­ता­म­व­द­च्छ्रु­ति­र­ग्नि­दि­वा­क­र­च­न्द्र­म­साम् ।
अमृषात्वमपि श्रुतिरुक्तवती त्रितयस्य तु रक्तपुरःसरिणः ॥ १२३ ॥

१२३

अनृतत्वमिदं ज्वल­न­प्र­भृ­ते­र्य­द­वादि भवेत्तदुदाहरणम् ।
वितथा विकृतिः सततं सकला न तथा प्रकृतिः श्रुतिनिश्चयतः ॥ १२४ ॥

१२४

प्रदि­द­र्श­यि­षु­र्व­स­नस्य यथा वितथत्वमपास्यति तन्तुगुणम् ।
अपकृष्य तु तन्तुसमं त्रितयं ज्वलनप्रमुखस्य तथोक्तवती ॥ १२५ ॥

१२५

अवनिप्रमुखं वियदन्तमिदं विकृतिस्तु परस्य भवत्यपरम् ।
अनृतं त्वपरं विकृतिस्तु यतोऽवितथं तु परं प्रकृतिस्तु यतः ॥ १२६ ॥

१२६

अत एतदसेधि सदुक्ति परं न मृषेति मृषा तु ततोऽन्यदिति ।
इति सिद्धमतो यदवादि मया जनि­म­ज्ज­ग­दे­त­द­भू­त­मिति ॥ १२७ ॥

१२७

मन­सोऽ­प्य­नृ­त­त्व­म­से­ध्य­मुतः प्रतिपादितहेतुत एव भवेत् ।
चरितं च तदीयमसत्यमतः परि­नि­र्मि­त­वा­र­ण­चे­ष्टि­त­वत् ॥ १२८ ॥

१२८

ननु नाभ्य­व­द­च्छ्रु­ति­रु­द्भ­वनं मनसस्तु सतो न च खप्रमुखात् ।
कथमस्य भवे­द­नृ­त­त्व­ग­ति­र्म­नसो भगवन् वद निश्चयतः ॥ १२९ ॥

१२९

ननु सप्तम आत्मन उद्भवनं मन­सोऽ­भि­द­धा­व­सु­नाऽपि सह ।
कथमस्य भवे­द­मृ­त­त्व­ग­ति­र्म­नसो विकृतित्वगुणस्य वद ॥ १३० ॥

१३०

असुना कर­णै­र्ग­ग­न­प्र­मुखैः सह मुण्डक उद्भवनं मनसः ।
पुरु­षा­त्प­र­मा­त्मन उक्तमतो वितथं मन इत्यवधारय भोः ॥ १३१ ॥

१३१

मन­सोऽ­न्न­म­य­त्व­म­वादि यतस्तत एव हि भूतमयत्वगतिः ।
कुशरीरवदेव ततोऽपि भृशं वितथं मन इत्यवधारय भोः ॥ १३२ ॥

१३२

कुरु पक्षमिमं गगनप्रमुखं जनिमत्सकलं नहि सत्यमिति ।
प्रथमं चरमं च न चास्ति यतो रुच­का­दि­व­दि­त्यु­पमां च वद ॥ १३३ ॥

१३३

कनके रुचकादि न पूर्वमभूच्चरमं च न विद्यत इत्यनृतम् ।
अधुनाऽपि तथैव समस्तमिदं जनिमद्वियदादि भवेदनृतम् ॥ १३४ ॥

१३४

कनकादिषु यद्यु­प­जा­त­म­भू­द्रु­च­क­प्र­मुखं पृथगेव ततः ।
अधिकं परिमाणममीषु कुतो न भवेदिति वाच्यमवश्यमिदम् ॥ १३५ ॥

१३५

कन­क­प्र­भृ­ते­र्व्य­ति­रि­क्त­मतो रुचकादि न विद्यत एव कुतः ।
पृथ­ग­ग्र­ह­णा­त्क­न­क­प्र­भृ­ते­रिति कारणमेव सदन्यदसत् ॥ १३६ ॥

१३६

ननु नाम पृथग्विकृतेः प्रकृतेरथ रूपमथापि च कार्यमतः ।
कथ­म­व्य­ति­रि­क्त­त­याऽ­व­गमः प्रकृ­ते­र्वि­कृ­ते­रिति वाच्यमिदम् ॥ १३७ ॥

१३७

इह वीर­ण­त­न्तु­सु­व­र्ण­मृदः कट­शा­ट­क­हा­र­घ­टा­कृ­तयः ।
उप­ल­ब्धृ­ज­नै­रू­प­ल­ब्ध­मतो न भिदाऽस्ति ततः प्रकृ­ते­र्वि­कृतेः ॥ १३८ ॥

१३८

विकृतिर्यदि नास्ति पृथक् प्रकृतेर्न घटेत भिदाऽ­प्य­भि­धा­प्र­भृतेः ।
इति धीर्विफला तव येन जनैर्विविदे नयनेन मृदाद्यभिदा ॥ १३९ ॥

१३९

ननु रूपमथो अपि कार्यमथो अभिधाऽपि नटस्य पृथग् विदिता ।
न पृथक्त्वमुपैति नटः किमिति प्रति­वा­च्य­म­व­श्य­मिदं कुशलैः ॥ १४० ॥

१४०

असतो न कथञ्चन जन्म भवेत्तदसत्त्वत एव खपुष्पमिव ।
न सतोऽस्ति भवः पुरुतोऽपि भवाद्यत आत्मवदेव सदिष्टमिति ॥ १४१ ॥

१४१

कपि­ला­सु­र­प­ञ्च­शि­खा­दि­मतं परिगृह्य वदेद्यदि कश्चिदिदम् ।
न कदा चन जन्म वदामि सतः प्रवदामि तु यच्छृणु तत्त्वमपि ॥ १४२ ॥

१४२

प्रकृ­ता­व­वि­शि­ष्ट­तया यदभूदधुना तु तदेव विशेषयुतम् ।
निरवद्यमिदं प्रतिभाति मम प्रवदात्र विरोधमवैषि यदि ॥ १४३ ॥

१४३

सदयुज्यत येन गुणेन पुरा प्रकृतौ स इहास्ति न वेति वद ।
यदि विद्यत एव पुरा प्रकृतावधुनाऽपि विशेषयुतत्वमसत् ॥ १४४ ॥

१४४

यदि नास्ति पुरा स गुणः प्रकृ­ता­व­स­दु­द्भ­वनं भवतोऽभिमतम् ।
जननेन च सत्त्व­मु­पा­त्त­वतो जनिमत्त्वत एव विनष्टिरपि ॥ १४५ ॥

१४५

भवतोऽभिमतं परिहर्तुमिदं न कथञ्चन शक्यत इत्यमुतः ।
कणभक्षमतेन समत्वमिदं भवतोऽभिमतं शनकैरगमत् ॥ १४६ ॥

१४६

असतो भवनं नशनं च सतः कणभोजिमतं विदितं कविभिः ।
उप­प­त्ति­वि­रु­द्ध­तया सुभृशं तदभाणि मयाऽपि विरुद्धतया ॥ १४७ ॥

१४७

प्रतिषिद्धमिदं कणभोजिमतं हरिणाऽपि सम­स्त­गु­रो­र्गु­रुणा ।
वचनेन तु नासत इत्यमुना ब्रुवता च पृथातनयाय हितम् ॥ १४८ ॥

१४८

असतश्च सतश्च न जन्म भवेदिति पूर्व­म­वा­द्यु­प­प­त्ति­यु­तम् ।
सदसच्च न जायत एव कुतो नहि वस्तु तथाविधमस्ति यतः ॥ १४९ ॥

१४९

सदसत्त्वमतीत्य मनःप्रभृतेर्न कथञ्चन वृत्तिरिहास्ति यतः ।
तत एव मनःप्रमुखस्य भवो न भवेदिति सर्वसुवेद्यमिति ॥ १५० ॥

१५०

यदि नाम कथञ्चिदमुष्य भवः सद­स­त्त्व­म­पेक्ष्य भविष्यति वः ।
अमृषात्वममुष्य तथाऽपि न तु श्रुतिरस्य मृषात्वमुवाच यतः ॥ १५१ ॥

१५१

मन­सोऽ­नृ­त­तै­व­म­वादि यतस्तत एव हि तस्य मृषा चरितम् ।
यत एव मृषा मनसश्चरितं तत एव पुरो­दि­त­सि­द्धि­र­भूत् ॥ १५२ ॥

१५२

यदपेक्ष्य तु नाम भवेत्त्रितयं परमात्मपदस्य तुरीयमिति ।
तद­स­त्य­म­स­त्य­गु­णस्तु यतः परि­नि­र्मि­त­स­र्प­वि­स­र्प­ण­वत् ॥ १५३ ॥

१५३

निखिलस्य मनःप्रमुखस्य यतो वितथत्वमवादि पुरा तु मया ।
श्रुति­यु­क्ति­ब­लेन ततोऽद्वयकं परमक्षरमेव सदन्यदसत् ॥ १५४ ॥

१५४

यद­पू­र्व­म­बा­ह्य­म­न­न्त­रकं न च किञ्चन तस्य भवत्यपरम् ।
इति वेदवचोनुऽशशास यतो वितयं परतोऽन्यदतः प्रगतम् ॥ १५५ ॥

१५५

प्रतिषिध्य यतो बहिरन्तरपि स्ववि­ल­क्ष­ण­मा­त्मन उक्तवती ।
अव­वो­ध­घ­न­त्व­म­तोऽ­न्य­द­स­ल्ल­व­णै­क­र­स­त्व­नि­द­र्श­नतः ॥ १५६ ॥

१५६

लवणैकरसत्वसमं भणितं स्ववि­ल­क्ष­ण­व­स्तु­नि­षे­ध­नतः ।
अवबोधघनं परमात्मपदं त्वमवेहि तदस्मि सदाऽहमिति ॥ १५७ ॥

१५७

अणु नो न च तद्विपरीतगुणो न च ह्नस्वमतो न च दीर्घमपि ।
प्रति­षि­द्ध­स­म­स्त­वि­शे­ष­णकं पर­म­क्ष­र­मा­त्म­त­याऽऽ­श्रय भोः ॥ १५८ ॥

१५८

असु­बु­द्धि­श­री­र­गु­णान् षडि­मा­न­वि­वे­कि­ज­नै­र्दृ­शि­ध­र्म­तया ।
प्रतिपन्नतमान् प्रविहाय शनै­र्दृ­शि­मा­त्र­म­वेहि सदाऽहमिति ॥ १५९ ॥

१५९

अहि­नि­र्ल्व­य­नी­म­हि­रा­त्म­तया जगृहे परिमोक्षणतस्तु पुरा ।
परिमुच्य तु तामुरगः स्वबिले न पुनः समवेक्षत आत्मतया ॥ १६० ॥

१६०

अविवेकत आत्मतया विदितं कुशरीरमिदं भवताऽप्यहिवत् ।
अहिवत्त्यज देहमिमं त्वमपि प्रतिपद्य चिदा­त्म­क­मा­त्म­तया ॥ १६१ ॥

१६१

रजनीदिवसौ न रवेर्भवतः प्रभया सततं यत एष युतः ।
अवि­वे­क­वि­वे­क­गु­णा­वपि ते भवतो न रवेरिव नित्यदृशेः ॥ १६२ ॥

१६२

परि­शु­द्ध­वि­बु­द्ध­वि­मु­क्त­दृ­शे­र­वि­वे­क­वि­वे­क­वि­व­र्ज­नतः ।
मम बन्धविमोक्षगुणौ भवतो न कदा­चि­द­पी­त्य­व­गच्छ भृशम् ॥ १६३ ॥

१६३

न मम ग्रहणोज्झनमस्ति मया न परेण दृशेरिति निश्चिनु भोः ।
नहि कस्यचिदात्मनि कर्म भवेन्न च कश्चिदिहास्ति मदन्य इति ॥ १६४ ॥

१६४

अहमस्मि चरस्थिरदेहधियां चरितस्य सदेक्षक एक इति ।
न भवेदत एव मदन्य इति त्वमवेहि सुमेध इदं सुदृढम् ॥ १६५ ॥

१६५

गगने विमले जलदादिमतेः सति वाऽसति वा न भिदाऽस्ति यथा ।
त्वयि सर्वगते परिशुद्धदृशौ न भिदाऽस्ति तथा द्वयभेदकृता ॥ १६६ ॥

१६६

अनृतं द्वयमित्यवदाम पुरा व्यवहारमपेक्ष्य तु गीतमिदम् ।
अनृतेन न सत्यमुपैति युजां न मरीचिजलेन नदी ह्रदिनी ॥ १६७ ॥

१६७

बहुनाऽभिहितेन किमु क्रियते शृणु सङ्ग्रहमत्र वदामि तव ।
त्वयि जाग­रि­त­प्र­भृ­ति­त्रि­तयं परि­क­ल्पि­त­मि­त्य­स­देव सदा ॥ १६८ ॥

१६८

परि­क­ल्पि­त­मि­त्य­स­दि­त्यु­दितं मन इत्य­भि­श­ब्दि­त­मा­ग­मतः ।
उपपत्तिभिरेव च सिद्धमतो भव­तोऽ­न्य­द­शे­ष­म­भू­त­मिति ॥ १६९ ॥

१६९

यद­बा­ह्य­म­न­न्त­र­मे­क­रसं यद­का­र्य­म­का­र­ण­म­द्व­य­कम् ।
यद­शे­ष­वि­शे­ष­वि­ही­न­तरं दृशि­रू­प­म­न­न्त­मृतं तदसि ॥ १७० ॥

१७०

इयदेव मयोपनिषत्सु पदं परमं विदितं न ततोऽस्त्यधिकम् ।
इति पिप्पलभक्ष इवा­भ्य­व­द­द्ध्य­व­शि­ष्ट­मतिं विनिवारयितुम् ॥ १७१ ॥

१७१

इतरोऽपि गुरुं प्रणिपत्य जगौ भगवन्निति तारितवानसि माम् ।
अवबोधतरेण समुद्रमिमं मृतिजन्मजलं सुखदुःखझषम् ॥ १७२ ॥

१७२

अधुनाऽस्मि सुनिर्वृत आत्मरतिः कृतकृत्य उपेक्षक एकमनाः ।
प्रह­स­न्वि­ष­या­न्मृ­ग­तो­य­स­मा­न्वि­च­रामि महीं भवता सहितः ॥ १७३ ॥

१७३

तव दास्यमहं भृश­मा­म­र­णा­त्प्र­ति­पद्य शरीरधृतिं भगवन् ।
करवाणि मया शकनीयमिदं तव कर्तु­म­तोऽ­न्य­द­श­क्य­मिति ॥ १७४ ॥

१७४

गुरु­शि­ष्य­क­था­श्र­व्र­णेन मया श्रुति­व­च्छ्रु­ति­सा­र­स­मु­द्ध­र­णम् ।
कृतमित्थमवैति य एतदसौ न पतत्युदधौ मृतिजन्मजले ॥ १७५ ॥

१७५

भगवद्भिरिदं गुरुभक्तियुतैः पठि­त­व्य­म­पा­ठ्य­म­तोऽ­न्य­जनैः ।
गुरुभक्तिमतः प्रतिभाति यतो गुरु­णो­क्त­म­तोऽ­न्य­रतो न पठेत् ॥ १७६ ॥

१७६

निगमोऽपि च यस्य इति­प्र­भृ­ति­र्गु­रु­भ­क्ति­मतः कथितं गुरुणा ।
प्रतिभाति महात्मन इत्य­व­द­त्प­ठि­त­व्य­मतो गुरुभक्तियुतैः ॥ १७७ ॥

१७७

येषां धीसूर्यदीप्त्या प्रति­ह­ति­म­ग­म­न्ना­श­मे­का­न्ततो मे
ध्वान्तं स्वान्तस्य हेतु­र्ज­न­न­म­र­ण­स­न्ता­न­दो­ला­धि­रूढेः ।
येषां पादौ प्रपन्नाः श्रुति­श­म­वि­न­यै­र्भू­षिताः शिष्यसङ्घाः
सद्यो मुक्तौ स्थिता­स्ता­न्य­ति­प­र­म­हि­ता­न्या­व­दा­यु­र्न­मामि ॥ १७८ ॥

१७८

भूः पादौ यस्य नाभि­र्वि­य­द­सु­र­नि­ल­श्च­न्द्र­सूर्यौ च नेत्रे
कर्णावाशा शिरो द्यौर्मुखमपि दहनो यस्य वास्तव्यमब्धिः ।
अन्तःस्थं यस्य विश्वं सुर­न­र­ख­ग­गो­भो­गि­ग­न्ध­र्व­दैत्यै-
श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ १७९ ॥

१७९

इति श्रीम­च्छ­ङ्क­र­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्य­श्री­तो­ट­का­चा­र्य­वि­र­चितं श्रुति­सा­र­स­मु­द्ध­र­णाख्यं प्रकरणं सम्पूर्णम् ॥