अद्वैतशारदा

तैत्तिरीयोपनिषद्भाष्यम्

शीक्षावल्ली

व्याख्याः

प्रथमोऽनुवाकः

यस्माज्जातं जगत्सर्वं यस्मिन्नेव प्रलीयते ।
येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥ १ ॥

यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।
व्याख्याताः सर्व­वे­दा­न्ता­स्ता­न्नित्यं प्रणतोऽस्म्यहम् ॥ २ ॥

तैत्ति­री­य­क­सा­रस्य मया­चा­र्य­प्र­सा­दतः ।
विस्प­ष्टा­र्थ­रु­चीनां हि व्याख्येयं सम्प्रणीयते ॥ ३ ॥

नित्या­न्य­धि­ग­तानि कर्माणि उपा­त्त­दु­रि­त­क्ष­या­र्थानि, काम्यानि च फलार्थिनां पूर्व­स्मि­न्ग्रन्थे । इदानीं कर्मो­पा­दा­न­हे­तु­प­रि­हा­राय ब्रह्मविद्या प्रस्तूयते । कर्महेतुः कामः स्यात् , प्रवर्तकत्वात् । आप्तकामानां हि कामाभावे स्वात्म­न्य­व­स्था­ना­त्प्र­वृ­त्त्य­नु­प­पत्तिः । आत्मकामत्वे चाप्तकामता । आत्मा च ब्रह्म । तद्विदो हि परप्राप्तिं वक्ष्यति । अतः अविद्यानिवृत्तौ स्वात्म­न्य­व­स्थानं परप्राप्तिः, ‘अभयं प्रतिष्ठां विन्दते’(तै. उ. २ । ७ । १) ‘एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’(तै. उ. २ । ८ । ५) इत्यादि श्रुतेः । काम्य­प्र­ति­षि­द्ध­यो­र­ना­र­म्भात् आरब्धस्य च उपभोगेन क्षयात् नित्यानुष्ठानेन च प्रत्य­वा­या­भा­वात् अयत्नत एव स्वात्म­न्य­व­स्थानं मोक्षः । अथवा, निरतिशयायाः प्रीतेः स्वर्ग­श­ब्द­वा­च्याया कर्म­हे­तु­त्वा­त्क­र्मभ्य एव मोक्ष इति चेत् , न ; कर्मानेकत्वात् । अनेकानि हि आरब्धफलानि अनारब्धफलानि च अने­क­ज­न्मा­न्त­र­कृ­तानि विरुद्धफलानि कर्माणि सम्भवन्ति । अतः तेष्व­ना­र­ब्ध­फ­ला­ना­मे­क­स्मि­ञ्ज­न्म­न्यु­प­भो­गेन क्षयासम्भवात् शेष­क­र्म­नि­मि­त्त­श­री­रा­र­म्भो­प­पत्तिः । कर्म­शे­ष­स­द्भा­व­सि­द्धिश्च ‘तद्य इह रमणीयचरणाः’(छा. उ. ५ । १० । ७) ‘ततः शेषेण’(आ. ध. २ । २ । २ । ३) इत्यादि श्रुति­स्मृ­ति­श­तेभ्यः । इष्टा­नि­ष्ट­फ­ला­ना­म­ना­र­ब्धानां क्षयार्थानि नित्यानि इति चेत् , न ; अकरणे प्रत्य­वा­य­श्र­व­णात् । प्रत्यवायशब्दो हि अनिष्टविषयः । नित्या­क­र­ण­नि­मि­त्तस्य प्रत्यवायस्य दुःखरूपस्य आगामिनः परिहारार्थानि नित्या­नी­त्य­भ्यु­प­ग­मात् न अना­र­ब्ध­फ­ल­क­र्म­क्ष­या­र्थानि । यदि नाम अना­र­ब्ध­फ­ल­क­र्म­क्ष­या­र्थानि नित्यानि कर्माणि, तथाप्यशुद्धमेव क्षपयेयुः ; न शुद्धम् , विरोधाभावात् । न हि इष्टफलस्य कर्मणः शुद्ध­रू­प­त्वा­न्नि­त्यै­र्वि­रोध उपपद्यते । शुद्धा­शु­द्ध­योर्हि विरोधो युक्तः । न च कर्महेतूनां कामानां ज्ञानाभावे निवृ­त्त्य­स­म्भ­वा­द­शे­ष­क­र्म­क्ष­यो­प­पत्तिः । अनात्मविदो हि कामः, अना­त्म­फ­ल­वि­ष­य­त्वात् । स्वात्मनि च कामानुपपत्तिः, नित्य­प्रा­प्त­त्वात् । स्वयं चात्मा परं ब्रह्मे­त्यु­क्तम् । नित्यानां च अकरणमभावः ततः प्रत्य­वा­या­नु­प­प­त्ति­रिति । अतः पूर्वो­प­चि­त­दु­रि­तेभ्यः प्राप्यमाणायाः प्रत्य­वा­य­क्रि­याया नित्याकरणं लक्षणमिति शतृप्रत्ययस्य नानुपपत्तिः - ‘अकुर्वन्विहितं कर्म’(मनु. ११ । ४४) इति । अन्यथा हि अभा­वा­द्भा­वो­त्प­त्ति­रिति सर्व­प्र­मा­ण­व्या­कोप इति । अतः अयत्नतः स्वात्म­न्य­व­स्था­न­मि­त्य­नु­प­प­न्नम् । यच्चोक्तं निरतिशयप्रीतेः स्वर्ग­श­ब्द­वा­च्यायाः कर्म­नि­मि­त्त­त्वा­त्क­र्मा­रभ्य एव मोक्ष इति, तन्न, नित्य­त्वा­न्मो­क्षस्य । न हि नित्यं किञ्चिदारभ्यते, लोके यदारब्धम् , तदनित्यमिति । अतो न कर्मारभ्यो मोक्षः । विद्यासहितानां कर्मणां नित्या­र­म्भ­सा­म­र्थ्य­मिति चेत् , न ; विरोधात् । नित्यं चारभ्यत इति विरुद्धम् । यद्धि नष्टम् , तदेव नोत्पद्यत इति प्रध्वं­सा­भा­व­व­न्नि­त्योऽपि मोक्ष आरभ्य एवेति चेत् , न ; मोक्षस्य भावरूपत्वात् । प्रध्वं­सा­भा­वोऽ­प्या­र­भ्यत इति न सम्भवति अभावस्य विशे­षा­भा­वा­द्वि­क­ल्प­मा­त्र­मे­तत् । भावप्रतियोगी ह्यभावः । यथा ह्यभिन्नोऽपि भावो घट­प­टा­दि­भि­र्वि­शे­ष्यते भिन्न इव घटभावः पटभाव इति, एवं निर्वि­शे­षोऽ­प्य­भावः क्रिया­गु­ण­यो­गा­द्द्र­व्या­दि­व­द्वि­क­ल्प्यते । न ह्यभाव उत्प­ला­दि­व­द्वि­शे­ष­ण­स­ह­भावी । विशेषणवत्त्वे भाव एव स्यात् । विद्या­क­र्म­क­र्तु­र्नि­त्य­त्वात् विद्या­क­र्म­स­न्ता­न­ज­नि­त­मो­क्ष­नि­त्य­त्व­मिति चेत् , न ; गङ्गा­स्रो­तो­व­त्क­र्तृ­त्वस्य दुःखरूपत्वात् , कर्तृत्वोपरमे च मोक्षविच्छेदात् । तस्मा­द­वि­द्या­का­म­क­र्मो­पा­दा­न­हे­तु­नि­वृत्तौ स्वात्म­न्य­व­स्थानं मोक्ष इति । स्वयं चात्मा ब्रह्म । तद्वि­ज्ञा­ना­द­वि­द्या­नि­वृ­त्ति­रिति । अतः ब्रह्म­वि­द्या­र्थो­प­नि­ष­दा­र­भ्यते । उपनिषदिति विद्योच्यते, तत्सेविनां गर्भ­ज­न्म­ज­रा­दि­नि­शा­त­नात् , तदवसादनाद्वा ब्रह्मण उप­नि­ग­म­यि­तृ­त्वात् ; उपनिषण्णं वा अस्यां परं श्रेय इति । तद­र्थ­त्वा­द्ग्र­न्थोऽ­प्यु­प­नि­षत् ॥

ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥

शं सुखं प्राण­वृ­त्ते­र­ह्न­श्चा­भि­मानी देवतात्मा मित्रः नः अस्माकं भवतु । तथैव अपानवृत्तेः रात्रे­श्चा­भि­मानी देवतात्मा वरुणः ; चक्षुषि आदित्ये चाभिमानी अर्यमा ; बले इन्द्रः ; वाचि बुद्धौ च बृहस्पतिः ; विष्णुः उरुक्रमः विस्तीर्णक्रमः पादयोरभिमानी ; एवमाद्या अध्यात्मदेवताः शं नः ; भवतु इति सर्वत्रानुषङ्गः । तासु हि सुखकृत्सु विद्या­श्र­व­ण­धा­र­णो­प­योगाः अप्रतिबन्धेन भविष्यन्तीति तत्सुखकृत्त्वं प्रार्थ्यते - शं नो भवतु इति । ब्रह्म­वि­द्या­वि­वि­दि­षुणा नम­स्का­र­ब्र­ह्म­व­द­न­क्रिये वायुविषये ब्रह्म­वि­द्यो­प­स­र्ग­शा­न्त्यर्थे क्रियेते - सर्वत्र क्रियाफलानां तदधीनत्वात् । ब्रह्म वायुः, तस्मै ब्रह्मणे नमः प्रह्वीभावम् , करोमीति वाक्यशेषः । नमः ते तुभ्यं हे वायो नमस्करोमि इति परो­क्ष­प्र­त्य­क्षाभ्यां वायुरेवाभिधीयते । किं च, त्वमेव चक्षु­रा­द्य­पेक्ष्य बाह्यं संनि­कृ­ष्ट­म­व्य­व­हितं प्रत्यक्षं ब्रह्मासि यस्मात् , तस्मात् त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ; ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुप­रि­नि­श्चि­त­मर्थं त्वदधीनत्वात् त्वामेव वदिष्यामि ; सत्यमिति स एव वाक्कायाभ्यां सम्पाद्यमानः, सोऽपि त्वदधीन एव सम्पाद्यत इति त्वामेव सत्यं वदिष्यमि । तत् सर्वात्मकं वाय्वाख्यं ब्रह्म मयैवं स्तुतं सत् विद्यार्थिनं माम् अवतु विद्यासंयोजनेन । तदेव ब्रह्म वक्तारम् आचार्यं च वक्तृ­त्व­सा­म­र्थ्य­सं­यो­ज­नेन अवतु । अवतु माम् अवतु वक्तारम् इति पुन­र्व­च­न­मा­द­रा­र्थम् । शान्तिः शान्तिः शान्तिः इति त्रिर्वचनम् आध्या­त्मि­का­धि­भौ­ति­का­धि­दै­वि­कानां विद्या­प्रा­प्त्यु­प­स­र्गाणां प्रशमनार्थम् ॥

इति प्रथ­मा­नु­वा­क­भा­ष्यम् ॥

द्वितीयोऽनुवाकः

अर्थ­ज्ञा­न­प्र­धा­न­त्वा­दु­प­नि­षदः ग्रन्थपाठे यत्नोपरमो मा भूदिति शीक्षाध्याय आरभ्यते -

शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १ ॥

शिक्षा शिक्ष्यते अनयेति वर्णा­द्यु­च्चा­र­ण­ल­क्ष­णम् , शिक्ष्यन्ते अस्मिन् इति वा शिक्षा वर्णादयः । शिक्षैव शीक्षा । दैर्घ्यं छान्दसम् । तां शीक्षां व्याख्यास्यामः विस्पष्टम् आ सम­न्ता­त्प्र­क­थ­यि­ष्यामः । चक्षिङः ख्याञादिष्टस्य व्याङ्पूर्वस्य व्यक्तवाक्कर्मण एतद्रूपम् । तत्र वर्णः अकारादिः । स्वर उदात्तादिः । मात्रा ह्रस्वाद्याः । बलं प्रयत्नविशेषः । साम वर्णानां मध्य­म­वृ­त्त्यो­च्चा­रणं समता । सन्तानः सन्ततिः, संहितेत्यर्थः । एवं शिक्षि­त­व्योऽर्थः शिक्षा यस्मिन्नध्याये, सोऽयं शीक्षाध्यायः इति एवम् उक्तः उदितः । उक्त इत्यु­प­सं­हा­रार्थः ॥

इति द्विती­या­नु­वा­क­भा­ष्यम् ॥

तृतीयोऽनुवाकः

सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः सं हिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधि­लो­क­म­धि­ज्यौ­ति­ष­म­धि­वि­द्य­म­धि­प्र­ज­म­ध्या­त्मम् । ता महासं हिता इत्याचक्षते । अथाधििलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ॥ १ ॥

अधुना संहि­तो­प­नि­ष­दु­च्यते । तत्र संहि­ता­द्यु­प­नि­ष­त्प­रि­ज्ञा­न­नि­मित्तं यत् यशः प्राप्यते, तत् नौ आवयोः शिष्या­र्चा­र्ययोः सहैव अस्तु । तन्निमित्तं च यत् ब्रह्मवर्चसं तेजः, तच्च सहैवास्तु इति शिष्यवचनमाशीः । शिष्यस्य हि अकृ­ता­र्थ­त्वा­त्प्रा­र्थ­नो­प­प­द्यते ; नाचार्यस्य, कृतार्थत्वात् । कृतार्थो ह्याचार्यो नाम भवति । अथ अनन्तरम् अध्य­य­न­ल­क्ष­ण­वि­धा­नस्य पूर्ववृत्तस्य, अतः यतोऽत्यर्थं ग्रन्थभाविता बुद्धिर्न शक्यते सह­सा­र्थ­ज्ञा­न­वि­ष­येऽ­व­ता­र­यि­तु­मि­त्यतः, संहितायाः उपनिषदं संहिताविषयं दर्शनमित्येतत् ग्रन्थ­सं­नि­कृ­ष्टा­मेव व्याख्यास्यामः, पञ्चसु अधिकरणेषु आश्रयेषु, ज्ञान­वि­ष­ये­ष्वि­त्यर्थः । कानि तानीत्याह - - अधिलोकं लोकेष्वधि यद्दर्शनम् , तदधिलोकम् , तथा अधिज्यौतिषम् अधिविद्यम् अधिप्रजम् अध्यात्ममिति । ताः एताः पञ्चविषया उपनिषदः लोका­दि­म­हा­व­स्तु­वि­ष­य­त्वा­त्सं­हि­ता­वि­ष­य­त्वाच्च महत्यश्च ताः संहिताश्च महासंहिताः इति आचक्षते कथयन्ति वेदविदः । अथ तासां यथोपन्यस्तानां मध्ये अधिलोकं दर्शनमुच्यते । दर्श­न­क्र­म­वि­व­क्षार्थः अथशब्दः सर्वत्र । पृथिवी पूर्वरूपम् , पूर्वो वर्णः पूर्वरूपम् , संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्त­व्ये­त्युक्तं भवति । तथा द्यौः उत्तररूपम् । आकाशः अन्तरिक्षलोकः सन्धिः मध्यं पूर्वो­त्त­र­रू­पयोः सन्धीयते अस्मि­न्पू­र्वो­त्त­र­रूपे इति ॥

वायुः सन्धानम् । इत्यधिलोकम् । अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् । आचार्यः पूर्वरूपम् ॥ २ ॥

अन्ते­वा­स्यु­त्त­र­रू­पम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥ ३ ॥

अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासं हिताः । य एवमेता महासं हिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्म­व­र्च­से­ना­न्ना­द्येन सुवर्गेण लोकेन ॥ ४ ॥

वायुः सन्धानम् । सन्धीयते अनेनेति सन्धानम् । इति अधिलोकं दर्शनमुक्तम् । अथाधिज्यौतिषम् इत्यादि समानम् । इतीमा इति उक्ता उपप्रदर्श्यन्ते । यः कश्चित् एवम् एताः महासंहिताः व्याख्याताः वेद उपास्ते, वेदेत्युपासनं स्यात् , विज्ञा­ना­धि­का­रात् , ‘इति प्राची­न­यो­ग्यो­पास्स्व’ इति च वचनात् । उपासनं च यथाशास्त्रं तुल्य­प्र­त्य­य­स­न्त­ति­र­स­ङ्कीर्णा च अतत्प्रत्ययैः शास्त्रो­क्ता­ल­म्ब­न­वि­षया च । प्रसि­द्ध­श्चो­पा­स­न­श­ब्दार्थो लोके - - ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इति । यो हि गुर्वा­दी­न्स­न्त­त­मु­प­च­रति, स उपास्त इत्युच्यते । स च फल­मा­प्नो­त्यु­पा­स­नस्य । अतः अत्रापि य एवं वेद, सन्धीयते प्रजादिभिः स्वर्गान्तैः । प्रजादिफलं प्राप्नो­ती­त्यर्थः ॥

इति तृती­या­नु­वा­क­भा­ष्यम् ॥

चतुर्थोऽनुवाकः

यश्छन्दसामृषभो विश्वरूपः । छन्दो­भ्योऽ­ध्य­मृ­ता­त्स­म्ब­भूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १ ॥

कुर्वा­णा­ची­र­मा­त्मनः । वासां सि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा । आमायन्तु ब्रह्मचारिणः स्वाहा । विमायन्तु ब्रह्मचारिणः स्वाहा । प्रमायन्तु ब्रह्मचारिणः स्वाहा । दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥

यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मि­न्स­ह­स्र­शाखे । निभगाहं त्वयि मृजे स्वाहा । यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्रमा पाहि प्र मा पद्यस्व ॥ ३ ॥

यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्रा­प्ति­सा­धनं जपहोमावुच्येते, ‘स मेन्द्रो मेधया स्पृणोतु’ ‘ततो मे श्रियमावह’ इति च लिङ्गदर्शनात् । यः छन्दसां वेदानाम् ऋषभ इव ऋषभः, प्राधान्यात् । विश्वरूपः सर्वरूपः, सर्व­वा­ग्व्याप्तेः ‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृ­ण्णा­न्ये­व­मो­ङ्का­रेण सर्वा वाक्स­न्तृ­ण्णो­ङ्कार एवेदं सर्वम्’(छा. उ. २ । २३ । ३) इत्या­दि­श्रु­त्य­न्त­रात् । अत एव ऋष­भ­त्व­मो­ङ्का­रस्य । ओङ्कारो ह्यत्रोपास्य इति ऋषभादिशब्दैः स्तुति­र्न्या­य्यैव ओङ्कारस्य । छन्दोभ्यः वेदेभ्यः, वेदा ह्यमृतम् , तस्मात् अमृतात् अधि सम्बभूव लोक­दे­व­वे­द­व्या­हृ­तिभ्यः सारिष्ठं जिघृक्षोः प्रजा­प­ते­स्त­प­स्यतः ओङ्कारः सारिष्ठत्वेन प्रत्य­भा­दि­त्यर्थः । न हि नित्यस्य ओङ्कारस्य अञ्ज­सै­वो­त्प­त्ति­र­व­क­ल्पते । सः एवंभूत ओङ्कारः इन्द्रः सर्वकामेशः परमेश्वरः मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु, बलयतु वा, प्रज्ञाबलं हि प्रार्थ्यते । अमृतस्य अमृ­त­त्व­हे­तु­भू­तस्य ब्रह्मज्ञानस्य, तदधिकारात् ; हे देव धारणः धारयिता भूयासं भवेयम् । किं च, शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत् , भूयादिति प्रथ­म­पु­रु­ष­वि­प­रि­णामः । जिह्वा मे मम मधुमत्तमा मधुमती, अतिशयेन मधु­र­भा­षि­णी­त्यर्थः । कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवम् , श्रोता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्य­क­र­ण­स­ङ्घा­तोऽ­स्त्विति वाक्यार्थः । मेधा च तदर्थमेव हि प्रार्थ्यते - ब्रह्मणः परमात्मनः कोशः असि असेरिव ; उप­ल­ब्ध्य­धि­ष्ठा­न­त्वात् ; त्वं हि ब्रह्मणः प्रतीकम् , त्वयि ब्रह्मोपलभ्यते । मेधया लौकिकप्रज्ञया पिहितः आच्छादितः स त्वं सामा­न्य­प्र­ज्ञै­र­वि­दि­त­तत्त्व इत्यर्थः । श्रुतं श्रव­ण­पू­र्व­क­मा­त्म­ज्ञा­ना­दिकं विज्ञानं मे गोपाय रक्ष ; तत्प्रा­प्त्य­वि­स्म­र­णा­दिकं कुर्वित्यर्थः । जपार्था एते मन्त्रा मेधाकामस्य । श्रीकामस्य होमा­र्था­स्त्व­धु­नो­च्यन्ते मन्त्राः - आवहन्ती आनयन्ती ; वितन्वाना विस्तारयन्ती ; तनो­ते­स्त­त्क­र्म­क­त्वात् ; कुर्वाणा निर्वर्तयन्ती अचीरम् अचिरं क्षिप्रमेव ; छान्दसो दीर्घः ; चिरं वा ; कुर्वाणा, आत्मनः मम ; किमित्याह वासांसि वस्त्राणि, मम, गावश्च गाश्चेति यावत् ; अन्नपाने च सर्वदा ; एवमादीनि कुर्वाणा श्रीर्या, तां ततः मेधा­नि­र्व­र्त­ना­त्प­रम् आवह आनय ; अमेधसो हि श्रीर­न­र्था­यै­वेति । किंविशिष्टाम् ? लोमशाम् अजा­व्या­दि­यु­क्ताम् अन्यैश्च पशुभिः सह युक्ताम् आवहेति । अधिकारादोङ्कार एवाभिसम्बध्यते । स्वाहा, स्वाहाकारो होमा­र्थ­म­न्त्रा­न्त­ज्ञा­प­नार्थः । आमायन्त्विति । आयन्तु, मामिति व्यवहितेन सम्बन्धः, ब्रह्मचारिणः । विमायन्तु प्रमायन्तु दमायन्तु शमायन्तु इत्यादि । यशोजने यशस्विजनेषु असानि भवानि । श्रेयान् प्रशस्यतरः, वस्यसः वसीयसः वसु­त­रा­द्व­सु­म­त्त­राद्वा धन­व­ज्जा­ती­य­पु­रु­षा­द्वि­शे­ष­वा­न­ह­म­सा­नी­त्यर्थः । किं च, तं ब्रह्मणः कोशभूतं त्वा त्वां हे भग भगवन् पूजार्ह, प्रविशानि । प्रविश्य चान­न्य­स्त्व­दा­त्मैव भवानीत्यर्थः । सः त्वमपि मा मां भग भगवन् , प्रविश ; आव­यो­रे­का­त्म­त्व­मे­वास्तु । तस्मिन् त्वयि सहस्रशाखे बहुशाखाभेदे हे भगवन् , निमृजे शोधयामि अहं पापकृत्याम् । यथा लोके आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति यथा च मासाः अहर्जरम् , संवत्सरोऽहर्जरः अहोभिः परिवर्तमानो लोकाञ्जरयतीति ; अहानि वा अस्मिन् जीर्यन्ति अन्त­र्भ­व­न्ती­त्य­ह­र्जरः ; तं च यथा मासाः यन्ति, एवं मां ब्रह्मचारिणः हे धातः सर्वस्य विधातः, माम् आयन्तु आगच्छन्तु सर्वतः सर्वदिग्भ्यः । प्रतिवेशः श्रमा­प­न­य­न­स्था­नम् आसन्नं गृहमित्यर्थः । एवं त्वं प्रतिवेश इव प्रतिवेशः त्वच्छीलिनां सर्व­पा­प­दुः­खा­प­न­य­न­स्था­न­मसि । अतः मा मां प्रति प्रभाहि प्रकाशयात्मानम् , प्र मा पद्यस्व प्रपद्यस्व च माम् । रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः । श्रीका­मोऽ­स्मि­न्वि­द्या­प्र­क­रणे अभिधीयमानो धनार्थः ; धनं च कर्मार्थम् ; कर्म च उपा­त्त­दु­रि­त­क्ष­या­र्थम् ; तत्क्षये हि विद्या प्रकाशते । तथा च स्मृतिः - ‘ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतले प्रख्ये पश्य­त्या­त्मा­न­मा­त्मनि’(म. भा. शां. २०४ । ८) इति ॥

इति चतु­र्था­नु­वा­क­भा­ष्यम् ॥

पञ्चमोऽनुवाकः

संहि­ता­वि­ष­य­मु­पा­स­न­मु­क्तम् । तदनु मेधाकामस्य श्रीकामस्य चानुक्रान्ता मन्त्राः । ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो ब्रह्मणः अन्तरुपासनं स्वाराज्यफलं प्रस्तूयते -

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥

मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि ॥ २ ॥

मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एता­श्च­त­स्र­श्च­तुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥

भूर्भुवः सुवरिति । इती­त्यु­क्तो­प­प्र­द­र्श­नार्थः । एतास्तिस्र इति च प्रदर्शितानां परामर्शार्थः परामृष्टाः स्मर्यन्ते वै इत्यनेन । तिस्र एताः प्रसिद्धा व्याहृतयः स्मर्यन्त इति यावत् । तासाम् इयं चतुर्थी व्याहृतिर्मह इति ; तामेतां चतुर्थीं महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते, उ ह स्म इत्येतेषां वृत्ता­नु­क­थ­ना­र्थ­त्वात् विदितवान् ददर्शेत्यर्थः । माहा­च­म­स्य­ग्र­ह­ण­मा­र्षा­नु­स्म­र­णा­र्थम् । ऋष्य­नु­स्म­र­ण­म­प्यु­पा­स­ना­ङ्ग­मिति गम्यते, इहोपदेशात् । येयं माहाचमस्येन दृष्टा व्याहृतिः मह इति, तत् ब्रह्म । महद्धि ब्रह्म ; महश्च व्याहृतिः । किं पुनस्तत् ? स आत्मा, आप्नो­ते­र्व्या­प्ति­क­र्मणः आत्मा ; इतराश्च व्याहृतयो लोका देवा वेदाः प्राणाश्च मह इत्यनेन व्याहृत्यात्मना आदि­त्य­च­न्द्र­ब्र­ह्मा­न्न­भू­तेन व्याप्यन्ते यतः, अत अङ्गानि अवयवाः अन्याः देवताः । देव­ता­ग्र­ह­ण­मु­प­ल­क्ष­णार्थं लोकादीनाम् । मह इत्यस्य व्याहृत्यात्मनो देवा लोकादयश्च सर्वे अवयवभूता यतः, अत आह - आदि­त्या­दि­भि­र्लो­का­दयो महीयन्त इति । आत्मना ह्यङ्गानि महीयन्ते महनं वृद्धिः उपचयः । महीयन्ते वर्धन्त इत्यर्थः । अयं लोकः अग्निः ऋग्वेदः प्राण इति प्रथमा व्याहृतिः भूः, अन्तरिक्षं वायुः सामानि अपानः इति द्वितीया व्याहृतिः भुवः ; असौ लोकः आदित्यः यजूंषि व्यानः इति तृतीया व्याहृतिः सुवः ; आदित्यः चन्द्रमाः ब्रह्म अन्नम् इति चतुर्थी व्याहृतिः महः इत्येवम् एकैकाश्चतुर्धा भवन्ति । मह इति ब्रह्म ब्रह्मे­त्यो­ङ्कारः, शब्दाधिकारे अन्य­स्या­स­म्भ­वात् । उक्तार्थमन्यत् । ता वा एता­श्च­त­स्र­श्च­तु­र्धेति । ता वै एताः भूर्भुवःसुवर्मह इति चतस्रः एकैकशः चतुर्धा चतुःप्रकाराः । धा - शब्दः प्रकारवचनः । चतस्रश्चतस्रः सत्यः चतुर्धा भवन्तीत्यर्थः । तासां यथाक्लृप्तानां पुन­रु­प­दे­श­स्त­थै­वो­पा­स­न­नि­य­मार्थः । ताः यथोक्ता व्याहृतीः यः वेद, स वेद विजानाति । किं तत् ? ब्रह्म । ननु, ‘तद्ब्रह्म स आत्मा’ इति ज्ञाते ब्रह्मणि, न वक्त­व्य­म­वि­ज्ञा­त­वत् ‘स वेद ब्रह्म’ इति ; न ; तद्वि­शे­ष­वि­व­क्षु­त्वा­द­दोषः । सत्यं विज्ञातं चतु­र्थ­व्या­हृत्या आत्मा ब्रह्मेति ; न तु तद्विशेषः - हृद­या­न्त­रु­प­ल­भ्यत्वं मनोमयत्वादिश्च । ‘शान्ति­स­मृ­द्धम्’ इत्येवमन्तो विशेषणविशेषरूपो धर्मपूगो न विज्ञायत इति ; तद्विवक्षु हि शास्त्र­म­वि­ज्ञा­त­मिव ब्रह्म मत्वा ‘स वेद ब्रह्म’ इत्याह । अतो न दोषः । यो वा वक्ष्यमाणेन धर्मपूगेण विशिष्टं ब्रह्म वेद, स वेद ब्रह्म इत्यभिप्रायः । अतो वक्ष्य­मा­णा­नु­वा­के­नै­क­वा­क्यता अस्य, उभ­यो­र्ह्य­नु­वा­क­यो­रे­क­मु­पा­स­नम् । लिङ्गाच्च । ‘भूरित्यग्नौ प्रतितिष्ठति’ इत्यादिकं लिङ्ग­मु­पा­स­नै­कत्वे । विधायकाभावाच्च । न हि वेद उपासीत वेति विधायकः कश्चि­च्छ­ब्दोऽस्ति । व्याहृत्यनुवाके ‘ता यो वेद’ इति तु वक्ष्य­मा­णा­र्थ­त्वा­न्नो­पा­स­ना­भे­दकः । वक्ष्य­मा­णा­र्थत्वं च तद्वि­शे­ष­वि­व­क्षु­त्वा­दि­त्या­दि­नो­क्तम् । सर्वे देवाः अस्मै एवंविदुषे अङ्गभूताः आवहन्ति आनयन्ति बलिम् , स्वारा­ज्य­प्राप्तौ सत्यामित्यर्थः ॥

इति पञ्च­मा­नु­वा­क­भा­ष्यम् ॥

षष्ठोऽनुवाकः

भूर्भुवः सुवः स्वरूपा मह इत्येतस्य हिरण्यगर्भस्य व्याहृत्यात्मनो ब्रह्म­णोऽ­ङ्गा­न्यन्या देवता इत्युक्तम् । यस्य ता अङ्गभूताः, तस्यैतस्य ब्रह्मणः साक्षा­दु­प­ल­ब्ध्य­र्थ­मु­पा­स­नार्थं च हृदयाकाशः स्थानमुच्यते, सालग्राम इव विष्णोः । तस्मिन्हि तद्ब्रह्म उपास्यमानं मनो­म­य­त्वा­दि­ध­र्म­वि­शिष्टं साक्षा­दु­प­ल­भ्यते, पाणाविवामलकम् । मार्गश्च सर्वा­त्म­भा­व­प्र­ति­प­त्तये वक्तव्य इत्यनुवाक आरभ्यते -

स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले । भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १ ॥

सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्प­ति­श्च­क्षु­ष्पतिः । श्रोत्र­प­ति­र्वि­ज्ञा­न­पतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्ति­स­मृ­द्ध­म­मृ­तम् । इति प्राची­न­यो­ग्यो­पास्स्व ॥ २ ॥

स इति व्युत्क्रम्य अयं पुरुष इत्यनेन सम्बन्ध्यते । य एष अन्तर्हृदये हृदयस्यान्तः । हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणा­य­त­नोऽ­ने­क­ना­डी­सु­षिर ऊर्ध्व­ना­लोऽ­धो­मुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते । तस्यान्तः य एष आकाशः प्रसिद्ध एव करकाकाशवत् , तस्मिन् सोऽयं पुरुषः, पुरि शयनात् , पूर्णा वा भूरादयो लोका येनेति पुरुषः मनोमयः, मनः विज्ञानं मनु­ते­र्ज्ञा­न­क­र्मणः, तन्मयः तत्प्रायः, तदुपलभ्यत्वात् । मनुते अनेनेति वा मनः अन्तःकरणम् ; तदभिमानी तन्मयः, तल्लिङ्गो वा । अमृतः अमरणधर्मा । हिरण्मयः ज्योतिर्मयः । तस्यैवंलक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्य ईश्वररूपस्य प्रतिपत्तये मार्गोऽभिधीयते - हृदयादूर्ध्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु प्रसिद्धा । सा च अन्तरेण तालुके मध्ये तालुकयोर्गता । यश्च एष तालुकयोर्मध्ये स्तन इव अवलम्बते मांसखण्डः, तस्य च अन्तरेण इत्येतत् । यत्र च असौ केशान्तः केशानामन्तो मूलं केशान्तः विवर्तते विभागेन वर्तते, मूर्धप्रदेश इत्यर्थः ; तं देशं प्राप्य तेनान्तरेण व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले, विनिर्गता या, सा इन्द्रयोनिः इन्द्रस्य ब्रह्मणः योनिः मार्गः, स्वरू­प­प्र­ति­प­त्ति­द्वा­र­मि­त्यर्थः । तथा एवं विद्वा­न्म­नो­म­या­त्म­दर्शी मूर्ध्नो विनिष्क्रम्य अस्य लोकस्याधिष्ठाता भूरिति व्याहृतिरूपो योऽग्निः महतो ब्रह्म­णोऽ­ङ्ग­भूतः, तस्मिन् अग्नौ प्रतितिष्ठति, अग्न्यात्मना इमं लोकं व्याप्नो­ती­त्यर्थः । तथा भुव इति द्विती­य­व्या­हृ­त्या­त्मनि वायौ, प्रति­ति­ष्ठ­ती­त्य­नु­व­र्तते । सुवरिति तृती­य­व्या­हृ­त्या­त्मनि आदित्ये । मह इत्यङ्गिनि चतु­र्थ­व्या­हृ­त्या­त्मनि ब्रह्मणि प्रतितिष्ठतीति । तेष्वात्मभावेन स्थित्वा आप्नोति ब्रह्मभूतं स्वाराज्यं स्वराड्भावं स्वयमेव राजा अधिपतिर्भवति अङ्गभूतानां देवतानां यथा ब्रह्म ; देवाश्च सर्वे अस्मै अङ्गिने बलिमावहन्ति अङ्गभूताः यथा ब्रह्मणे । आप्नोति मनसस्पतिम् , सर्वेषां हि मनसां पतिः, सर्वा­त्म­क­त्वा­द्ब्र­ह्मणः सर्वैर्हि मनोभिस्तन्मनुते । तदाप्नोत्येवं विद्वान् । किं च, वाक्पतिः सर्वासां वाचां पतिर्भवति । तथैव चक्षुष्पतिः चक्षुषां पतिः । श्रोत्रपतिः श्रोत्राणां च पतिः । विज्ञानपतिः विज्ञानानां च पतिः । सर्वा­त्म­क­त्वा­त्स­र्व­प्रा­णिनां कर­णै­स्त­द्वा­न्भ­व­ती­त्यर्थः । किं च, ततोऽपि अधिकतरम् एतत् भवति । किं तत् ? उच्यते - आकाशशरीरम् आकाशः शरीरमस्य, आकाशवद्वा सूक्ष्मं शरी­र­म­स्ये­त्या­का­श­श­री­रम् । किं तत् ? प्रकृतं ब्रह्म । सत्यात्म, सत्यं मूर्तामूर्तम् अवितथं स्वरूपं वा आत्मा स्वभावोऽस्य, तदिदं सत्यात्म । प्राणारामम् , प्राणे­ष्वा­र­म­ण­मा­क्रीडा यस्य तत्प्राणारामम् ; प्राणानां वा आरामो यस्मिन् , तत्प्राणारामम् । मन आनन्दम् , आनन्दभूतं सुखकृदेव यस्य मनः, तन्मन आनन्दम् । शान्तिसमृद्धम् , शान्तिरुपशमः, शान्तिश्च तत्समृद्धं च शान्तिसमृद्धम् ; शान्त्या वा समृ­द्ध­व­त्त­दु­प­ल­भ्यत इति शान्तिसमृद्धम् । अमृतम् अमरणधर्मि, एत­च्चा­धि­क­र­ण­वि­शे­षणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति । एवं मनो­म­य­त्वा­दि­ध­र्मै­र्वि­शिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्व इत्या­चा­र्य­व­च­नो­क्ति­रा­द­रार्था । उक्त­स्तू­पा­स­ना­श­ब्दार्थः ॥

इति षष्ठो­नु­वा­क­भा­ष्यम् ॥

सप्तमोऽनुवाकः

यदे­त­द्व्या­हृ­त्या­त्मकं ब्रह्मो­पा­स्य­मु­क्तम् , तस्यैवेदानीं पृथि­व्या­दि­पा­ङ्क्त­स्व­रू­पे­णो­पा­स­न­मु­च्यते -

पृथि­व्य­न्त­रिक्षं द्यौर्दि­शोऽ­वा­न्त­र­दिशः । अग्नि­र्वा­यु­रा­दि­त्य­श्च­न्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मांसंस्नावास्थि मज्जा । एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ॥ १ ॥

पञ्च­स­ङ्ख्या­यो­गा­त्प­ङ्क्ति­च्छन्दः सम्पक्तिः ; ततः पाङ्क्तत्वं सर्वस्य । पाङ्क्तश्च यज्ञः, ‘पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः’ इति श्रुतेः । तेन यत्सर्वं लोका­द्या­त्मान्तं च पाङ्क्तं परिकल्पयति, यज्ञमेव तत्परिकल्पयति । तेन यज्ञेन परिकल्पितेन पाङ्क्तात्मकं प्रजा­प­ति­म­भि­स­म्प­द्यते । तत्कथं पाङ्क्तं वा इदं सर्वमित्यत आह - पृथिवी अन्तरिक्षं द्यौः दिशः अवान्तरदिशः इति लोकपाङ्क्तम् । अग्निः वायुः आदित्यः चन्द्रमाः नक्षत्राणि इति देवतापाङ्क्तम् । आपः ओषधयः वनस्पतयः आकाशः आत्मा इति भूतपाङ्क्तम् । आत्मेति विराट् , भूताधिकारात् । इत्यधिभूतमिति अधि­लो­का­धि­दै­व­त­पा­ङ्क्त­द्व­यो­प­ल­क्ष­णा­र्थम् , लोक­दे­व­ता­पा­ङ्क्त­यो­र्द्व­यो­श्चा­भि­हि­त­त्वात् । अथ अनन्तरम् अध्यात्मं पाङ्क्त­त्र­य­मु­च्यते - प्राणादि वायुपाङ्क्तम् । चक्षुरादि इन्द्रि­य­पा­ङ्क्तम् । चर्मादि धातुपाङ्क्तम् । एतावद्धीदं सर्वमध्यात्मं बाह्यं च पाङ्क्तमेव इति एतत् एवम् अधिविधाय परिकल्प्य ऋषिः वेदः एत­द्द­र्श­न­स­म्पन्नो वा कश्चिदृषिः, अवोचत् उक्तवान् । किमित्याह - पाङ्क्तं वा इदं सर्वं पाङ्क्तेनैव आध्यात्मिकेन, सङ्ख्या­सा­मा­न्यात् , पाङ्क्तं बाह्यं स्पृणोति बलयति पूरयति एकात्मतयोपलभ्यत इत्येतत् । एवं पाङ्क्तमिदं सर्वमिति यो वेद, स प्रजापत्यात्मैव भवतीत्यर्थः ॥

इति सप्त­मा­नु­वा­क­भा­ष्यम् ॥

अष्टमोऽनुवाकः

व्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम् । अनन्तरं च पाङ्क्तस्वरूपेण तस्यै­वो­पा­स­न­मु­क्तम् । इदानीं सर्वो­पा­स­ना­ङ्ग­भू­तस्य ओङ्कारस्योपासनं विधित्स्यते ।

ओमिति ब्रह्म । ओमितीदं सर्वम् । ओमि­त्ये­त­द­नु­कृ­तिर्ह स्म वा अप्यो श्राव­ये­त्या­श्रा­व­यन्ति । ओमिति सामानि गायन्ति । ॐ शोमिति शस्त्राणि शंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमि­त्य­ग्नि­हो­त्र­म­नु­जा­नाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मो­पा­प्न­वा­नीति । ब्रह्मै­वो­पा­प्नोति ॥ १ ॥

परा­प­र­ब्र­ह्म­दृष्ट्या हि उपास्यमान ओङ्कारः शब्दमात्रोऽपि परा­प­र­ब्र­ह्म­प्रा­प्ति­सा­धनं भवति ; स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च, प्रतिमेव विष्णोः, ‘एते­नै­वा­य­त­ने­नै­क­त­र­म­न्वेति’(प्र. उ. ५ । २) इति श्रुतेः । ओमिति, इतिशब्दः स्वरू­प­प­रि­च्छे­दार्थः ; ॐ इत्ये­त­च्छ­ब्द­रूपं ब्रह्म इति मनसा धारयेत् उपासीत ; यतः ॐ इति इदं सर्वं हि शब्द­स्व­रू­प­मो­ङ्का­रेण व्याप्तम् , ‘तद्यथा शङ्कुना’(छा. उ. २ । २३ । ३) इति श्रुत्यन्तरात् । ‘अभिधानतन्त्रं ह्यभिधेयम्’ इत्यतः इदं सर्वमोङ्कार इत्युच्यते । ओङ्का­र­स्तु­त्यर्थ उत्तरो ग्रन्थः, उपा­स्य­त्वा­त्तस्य । ॐ इत्येतत् अनुकृतिः अनुकरणम् । करोमि यास्यामि चेति कृतमुक्त ओमि­त्य­नु­क­रो­त्यन्यः, अतः ओङ्कारोऽनुकृतिः । ह स्म वै इति प्रसि­द्धा­र्थ­द्यो­तकाः । प्रसिद्धं ह्योङ्का­र­स्या­नु­कृ­ति­त्वम् । अपि च ओश्रावय इति प्रैष­पू­र्व­मा­श्रा­व­यन्ति प्रतिश्रावयन्ति । तथा ॐ इति सामानि गायन्ति सामगाः । ॐ शोमिति शस्त्राणि शंसन्ति शस्त्र­शं­सि­ता­रोऽपि । तथा ॐ इति अध्वर्युः प्रतिगरं प्रतिगृणाति । ॐ इति ब्रह्मा प्रसौति अनुजानाति । ॐ इति अग्निहोत्रम् अनुजानाति जुहोमीत्युक्ते ॐ इत्येव अनुज्ञां प्रयच्छति । ॐ इत्येव ब्राह्मणः प्रवक्ष्यन् प्रवचनं करिष्यन् अध्येष्यमाणः ओमित्याह ओमित्येव प्रतिपद्यते अध्ये­तु­मि­त्यर्थः ; ब्रह्म वेदम् उपाप्नवानि इति प्राप्नुयां ग्रहीष्यामीति उपाप्नोत्येव ब्रह्म । अथवा, ब्रह्म परमात्मानम् उपा­प्न­वा­नी­त्या­त्मानं प्रवक्ष्यन् प्रापयिष्यन् ओमित्येवाह । स च तेनोङ्कारेण ब्रह्म प्राप्नोत्येव । ओङ्कारपूर्वं प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात् , तस्मादोङ्कारं ब्रह्मे­त्यु­पा­सी­तेति वाक्यार्थः ॥

इत्य­ष्ट­मा­नु­वा­क­भा­ष्यम् ॥

नवमोऽनुवाकः

विज्ञा­ना­दे­वा­प्नोति स्वारा­ज्य­मि­त्यु­क्त­त्वात् श्रौत­स्मा­र्तानां कर्म­णा­मा­न­र्थक्यं प्राप्त­मि­त्ये­तन्मा प्रापदिति कर्मणां पुरुषार्थं प्रति साध­न­त्व­प्र­द­र्श­नार्थ इहोपन्यासः -

ऋतं च स्वाध्या­य­प्र­व­चने च । सत्यं च स्वाध्या­य­प्र­व­चने च । तपश्च स्वाध्या­य­प्र­व­चने च । दमश्च स्वाध्या­य­प्र­व­चने च । शमश्च स्वाध्या­य­प्र­व­चने च । अग्नयश्य स्वाध्या­य­प्र­व­चने च । अग्निहोत्रं च स्वाध्या­य­प्र­व­चने च । अतिथयश्च स्वाध्या­य­प्र­व­चने च । मानुषं च स्वाध्या­य­प्र­व­चने च । प्रजा च स्वाध्या­य­प्र­व­चने च । प्रजनश्च स्वाध्या­य­प्र­व­चने च । प्रजातिश्च स्वाध्या­य­प्र­व­चने च । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्या­य­प्र­व­चने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ १ ॥

ऋतमिति व्याख्यातम् । स्वाध्यायः अध्ययनम् । प्रवचनमध्यापनं ब्रह्मयज्ञो वा । एतानि ऋतादीनि, अनुष्ठेयानि इति वाक्यशेषः । सत्यं सत्यवचनं यथा­व्या­ख्या­तार्थं वा । तपः कृच्छ्रादि । दमः बाह्यकरणोपशमः । शमः अन्तःकरणोपशमः । अग्नयश्च आधातव्याः । अग्निहोत्रं च होतव्यम् । अतिथयश्च पूज्याः । मानुषमिति लौकिकः संव्यवहारः । तच्च यथा­प्रा­प्त­म­नु­ष्ठे­यम् । प्रजा च उत्पाद्या । प्रजनश्च प्रजननम् ; ऋतौ भार्या­ग­म­न­मि­त्यर्थः । प्रजातिः पौत्रोत्पत्तिः ; पुत्रो निवेशयितव्य इत्येतत् । सर्वैरेतैः कर्म­भि­र्यु­क्त­स्यापि स्वाध्या­य­प्र­व­चने यत्नतोऽनुष्ठेये इत्येवमर्थं सर्वेण सह स्वाध्या­य­प्र­व­च­न­ग्र­ह­णम् । स्वाध्यायाधीनं ह्यर्थज्ञानम् । अर्थज्ञानाधीनं च परं श्रेयः । प्रवचनं च तदविस्मरणार्थं धर्मवृद्ध्यर्थं च । ततः स्वाध्या­य­प्र­व­च­न­यो­रा­दरः कार्यः । सत्यमिति सत्य­मे­वा­नु­ष्ठे­य­मिति सत्यवचाः सत्यमेव वचो यस्य सोऽयं सत्यवचाः, नाम वा तस्य ; राथीतरः रथीतरसगोत्रः राथीतर आचार्यो मन्यते । तप इति तप एव कर्तव्यमिति तपोनित्यः तपसि नित्यः तपःपरः, तपोनित्य इति वा नाम ; पौरुशिष्टिः पुरु­शि­ष्ट­स्या­पत्यं पौरु­शि­ष्टि­रा­चार्यो मन्यते । स्वाध्या­य­प्र­व­चने एव अनुष्ठेये इति नाको नामतः मुद्गलस्यापत्यं मौद्गल्य आचार्यो मन्यते । तद्धि तपस्तद्धि तपः । यस्मा­त्स्वा­ध्या­य­प्र­व­चने एव तपः, तस्मात्ते एवानुष्ठेये इति । उक्तानामपि सत्य­त­पः­स्वा­ध्या­य­प्र­व­च­नानां पुन­र्ग्र­ह­ण­मा­द­रा­र्थम् ॥

इति नव­मा­नु­वा­क­भा­ष्यम् ॥

दशमोऽनुवाकः

अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिश­ङ्को­र्वे­दा­नु­व­च­नम् ॥ १ ॥

अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः । स्वाध्यायश्च विद्योत्पत्तये, प्रकरणात् । विद्यार्थं हीदं प्रकरणम् , न च अन्या­र्थ­त्व­म­व­ग­म्यते । स्वाध्यायेन च विशु­द्ध­स­त्त्वस्य विद्यो­त्प­त्ति­र­व­क­ल्पते । अहं वृक्षस्य उच्छे­द्या­त्म­कस्य संसारवृक्षस्य रेरिवा प्रेरयिता अन्त­र्या­म्या­त्मना । कीर्तिः ख्यातिः गिरेः पृष्ठमिव उच्छ्रिता मम । ऊर्ध्वपवित्रः ऊर्ध्वं कारणं पवित्रं पावनं ज्ञानप्रकाश्यं परं ब्रह्म यस्य सर्वात्मनो मम, सोऽह­मू­र्ध्व­प­वित्रः ; वाजिनि इव वाजवतीव, वाजमन्नम् , तद्वति सवितरीवेत्यर्थः ; यथा सवितरि अमृ­त­मा­त्म­तत्त्वं विशुद्धं प्रसिद्धं श्रुति­स्मृ­ति­श­तेभ्यः, एवं सु अमृतं शोभनं विशु­द्ध­मा­त्म­त­त्त्वम् अस्मि भवामि । द्रविणं धनं सवर्चसं दीप्तिमत् तदेव आत्मतत्त्वम् , अस्मी­त्य­नु­व­र्तते । ब्रह्मज्ञानं वा आत्म­त­त्त्व­प्र­का­श­क­त्वा­त्स­व­र्च­सम् , द्रविणमिव द्रविणम् , मोक्ष­सु­ख­हे­तु­त्वात् । अस्मिन्पक्षे प्राप्तं मयेत्यध्याहारः कर्तव्यः । सुमेधाः शोभना मेधा सर्व­ज्ञ­त्व­ल­क्षणा यस्य मम, सोऽहं सुमेधाः, संसा­र­स्थि­त्यु­त्प­त्ति­सं­हा­र­कौ­श­ल­यो­गा­त्सु­मे­ध­स्त्वम् ; अत एव अमृतः अमरणधर्मा, अक्षितः अक्षीणः अव्ययः अक्षतो वा, अमृतेन वा उक्षितः सिक्तः ‘अमृ­तो­क्षि­तोऽ­हम्’ इत्यादि ब्राह्मणम् । इति एवं त्रिशङ्कोः ऋषेः ब्रह्मभूतस्य ब्रह्मविदः वेदानुवचनम् , वेदः वेदनम् आत्मै­क­त्व­वि­ज्ञा­नम् , तस्य प्राप्तिमनु वचनं वेदानुवचनम् ; आत्मनः कृत­कृ­त्य­ता­प्र­ख्या­प­नार्थं वाम­दे­व­व­त्त्रि­श­ङ्कुना आर्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्म­वि­द्या­प्र­का­शक इत्यर्थः । अस्य च जपो विद्यो­त्प­त्त्य­र्थोऽ­धि­ग­म्यते । ‘ऋतं च’ इति धर्मो­प­न्या­सा­द­न­न्तरं च वेदा­नु­व­च­न­पा­ठा­दे­त­द­व­ग­म्यते । एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विवि­दि­षो­रा­र्षाणि दर्शनानि प्रादु­र्भ­व­न्त्या­त्मा­दि­वि­ष­या­णीति ॥

इति दश­मा­नु­वा­क­भा­ष्यम् ॥

एकादशोऽनुवाकः

वेद­म­नू­च्या­चा­र्योऽ­न्ते­वा­सि­न­म­नु­शास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्या­य­प्र­व­च­नाभ्यां न प्रमदितव्यम् ॥ १ ॥

देव­पि­तृ­का­र्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माकं सुचरितानि । तानि त्वयोपास्यानि ॥ २ ॥

नो इतराणि । ये के चास्म­च्छ्रे­यांसो ब्राह्मणाः । तेषां त्वयासनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धयादेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥

ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥

वेद­म­नू­च्ये­त्ये­व­मा­दि­क­र्त­व्य­तो­प­दे­शा­रम्भः प्राग्ब्र­ह्मा­त्म­वि­ज्ञा­ना­न्नि­य­मेन कर्तव्यानि श्रौतस्मार्तानि कर्मा­णी­त्ये­व­मर्थः, अनुशासनश्रुतेः पुरु­ष­सं­स्का­रा­र्थ­त्वात् । संस्कृतस्य हि विशु­द्ध­स­त्त्वस्य आत्म­ज्ञा­न­म­ञ्ज­सै­वो­प­जा­यते । ‘तपसा कल्मषं हन्ति विद्य­या­मृ­त­म­श्नुते’(मनु. १२ । १०४) इति हि स्मृतिः । वक्ष्यति च - ‘तपसा ब्रह्म विजिज्ञासस्व’(तै. उ. ३ । २ । १) इति । अतो विद्यो­त्प­त्त्य­र्थ­म­नु­ष्ठे­यानि कर्माणि । अनु­शा­स्ती­त्य­नु­शा­स­न­श­ब्दा­द­नु­शा­स­ना­ति­क्रमे हि दोषोत्पत्तिः । प्रागु­प­न्या­साच्च कर्मणाम् , केव­ल­ब्र­ह्म­वि­द्या­र­म्भाच्च पूर्वं कर्मा­ण्यु­प­न्य­स्तानि । उदितायां च ब्रह्म­वि­द्या­याम् ‘अभयं प्रतिष्ठां विन्दते’(तै. उ. २ । ७ । १) ‘न बिभेति कुतश्चन’(तै. उ. २ । ९ । १) ‘किमहं साधु नाकरवम्’(तै. उ. २ । ९ । १) इत्यादिना कर्म­नै­ष्कि­ञ्चन्यं दर्शयिष्यति । अतः अवगम्यते - पूर्वो­प­चि­त­दु­रि­त­क्ष­य­द्वा­रेण विद्यो­त्प­त्त्य­र्थानि कर्माणीति । मन्त्रवर्णाच्च - ‘अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते’(ई. उ. ११) इति ऋतादीनां पूर्वत्रोपदेशः आन­र्थ­क्य­प­रि­हा­रार्थः ; इह तु ज्ञानो­त्प­त्त्य­र्थ­त्वा­त्क­र्त­व्य­ता­नि­य­मार्थः । वेदम् अनूच्य अध्याप्य आचार्यः अन्तेवासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थं ग्राहयतीत्यर्थः । अतोऽवगम्यते अधीतवेदस्य धर्म­जि­ज्ञा­सा­म­कृत्वा गुरुकुलान्न समा­व­र्ति­त­व्य­मिति । ‘बुद्ध्वा कर्माणि कुर्वीत’ इति स्मृतेश्च । कथमनुशास्तीत्यत आह - सत्यं वद यथाप्रमाणावगतं वक्तव्यं च वद । तद्वत् धर्मं चर ; धर्म इत्यनुष्ठेयानां सामान्यवचनम् , सत्या­दि­वि­शे­ष­नि­र्दे­शात् । स्वाध्यायात् अध्ययनात् मा प्रमदः प्रमादं मा कार्षीः । आचार्याय आचार्यार्थं प्रियम् इष्टं धनम् आहृत्य आनीय दत्त्वा विद्या­नि­ष्क्र­या­र्थम् आचार्येण च अनुज्ञातः अनु­रू­पा­न्दा­रा­ना­हृत्य प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सीः ; प्रजा­स­न्त­ते­र्वि­च्छि­त्तिर्न कर्तव्या ; अनु­त्प­द्य­मा­नेऽपि पुत्रे पुत्र­का­म्या­दि­क­र्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः, प्रजा­प्र­ज­न­प्र­जा­ति­त्र­य­नि­र्दे­श­सा­म­र्थ्यात् ; अन्यथा प्रज­न­श्चे­त्ये­त­दे­क­मे­वा­व­क्ष्यत् । सत्यात् न प्रमदितव्यं प्रमादो न कर्तव्यः ; सत्याच्च प्रम­द­न­म­नृ­त­प्र­सङ्गः ; प्रमा­द­श­ब्द­सा­म­र्थ्या­द्वि­स्मृ­त्या­प्य­नृतं न वक्त­व्य­मि­त्यर्थः ; अन्यथा अस­त्य­व­द­न­प्र­ति­षेध एव स्यात् । धर्मात् न प्रमदितव्यम् , धर्म­श­ब्द­स्या­नु­ष्ठे­य­वि­शे­ष­वि­ष­य­त्वा­द­न­नु­ष्ठानं प्रमादः, स न कर्तव्यः, अनुष्ठातव्य एव धर्म इति यावत् । एवं कुशलात् आत्म­र­क्षा­र्था­त्क­र्मणः न प्रमदितव्यम् । भूतिः विभूतिः, तस्यै भूत्यै भूत्य­र्था­न्म­ङ्ग­ल­यु­क्ता­त्क­र्मणः न प्रमदितव्यम् । स्वाध्या­य­प्र­व­च­नाभ्यां न प्रमदितव्यम् , ते हि नियमेन कर्तव्ये इत्यर्थः । तथा देव­पि­तृ­का­र्याभ्यां न प्रमदितव्यम् , दैवपित्र्ये कर्मणी कर्तव्ये । मातृदेवः माता देवो यस्य सः, त्वं मातृदेवः भव स्याः । एवं पितृदेवो भव ; आचार्यदेवो भव ; अतिथिदेवो भव ; देवतावदुपास्या एते इत्यर्थः । यान्यपि च अन्यानि अनवद्यानि अनिन्दितानि शिष्टा­चा­र­ल­क्ष­णानि कर्माणि, तानि सेवितव्यानि कर्तव्यानि त्वया । नो न कर्तव्यानि इतराणि सावद्यानि शिष्टकृतान्यपि । यानि अस्माकम् आचार्याणां सुचरितानि शोभनचरितानि आम्ना­या­द्य­वि­रु­द्धानि, तान्येव त्वया उपास्यानि अदृ­ष्टा­र्था­न्य­नु­ष्ठे­यानि ; नियमेन कर्त­व्या­नी­त्ये­तत् । नो इतराणि विप­री­ता­न्या­चा­र्य­कृ­ता­न्यपि । ये के च विशेषिता आचा­र्य­त्वा­दि­धर्मैः अस्मत् अस्मत्तः श्रेयांसः प्रशस्ततराः, ते च ब्राह्मणाः, न क्षत्रियादयः, तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम् , प्रश्वसनं प्रश्वासः श्रमापनयः ; तेषां श्रमस्त्वया अपनेतव्य इत्यर्थः । तेषां वा आसने गोष्ठीनिमित्ते समुदिते, तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः ; केवलं तदु­क्त­सा­र­ग्रा­हिणा भवितव्यम् । किं च, यत्कि­ञ्चि­द्दे­यम् , तत् श्रद्धयैव दातव्यम् । अश्रद्धया अदेयं न दातव्यम् । श्रिया विभूत्या देयं दातव्यम् । ह्रिया लज्जया च देयम् । भिया भीत्या च देयम् । संविदा च मैत्र्य्या­दि­का­र्येण देयम् । अथ एवं वर्तमानस्य यदि कदाचित् ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वा आचारलक्षणे विचिकित्सा संशयः स्यात् भवेत् , ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः तत्र कर्मादौ युक्ता इति व्यवहितेन सम्बन्धः कर्तव्यः ; संमर्शिनः विचारक्षमाः, युक्ताः अभियुक्ताः, कर्मणि वृत्ते वा आयुक्ताः अपरप्रयुक्ताः, अलूक्षाः अरूक्षाः अक्रूरमतयः, धर्मकामाः अदृष्टार्थिनः अकामहता इत्येतत् ; स्युः भवेयुः, ते ब्राह्मणाः यथा येन प्रकारेण तत्र तस्मिन्कर्मणि वृत्ते वा वर्तेरन् , तथा त्वमपि वर्तेथाः । अथ अभ्याख्यातेषु, अभ्याख्याता अभ्युक्ताः दोषेण सन्दिह्यमानेन संयोजिताः केनचित् , तेषु च ; यथोक्तं सर्वमुपनयेत् - ये तत्रेत्यादि । एषः आदेशः विधिः । एषः उपदेशः पुत्रादिभ्यः पित्रादीनामपि । एषा वेदोपनिषत् वेदरहस्यम् , वेदार्थ इत्येतत् । एतदेव अनुशासनम् ईश्वरवचनम् , आदेशवाच्यस्य विधेरुक्तत्वात् । सर्वेषां वा प्रमा­ण­भू­ता­ना­म­नु­शा­स­न­मे­तत् । यस्मादेवम् , तस्मात् एवं यथोक्तं सर्वम् उपासितव्यं कर्तव्यम् । एवमु च एतत् उपास्यम् उपास्यमेव चैतत् नानुपास्यम् इत्यादरार्थं पुनर्वचनम् ॥

अत्रै­त­च्चि­न्त्यते विद्या­क­र्म­णो­र्वि­वे­का­र्थम् - किं कर्मभ्य एव केवलेभ्यः परं श्रेयः, उत विद्या­सं­व्य­पे­क्षेभ्यः, आहो­स्वि­द्वि­द्या­क­र्मभ्यां संहताभ्याम् , विद्याया वा कर्मापेक्षायाः, उत केवलाया एव विद्याया इति । तत्र केवलेभ्य एव कर्मभ्यः स्यात् , सम­स्त­वे­दा­र्थ­ज्ञा­न­वतः कर्माधिकारात् ‘वेदः कृत्स्नोऽ­धि­ग­न्तव्यः सरहस्यो द्विजन्मना’ इति स्मरणात् । अधिगमश्च सहो­प­नि­ष­द­र्थे­ना­त्म­ज्ञा­ना­दिना । ‘विद्वान्यजते’ ‘विद्वा­न्या­ज­यति’ इति च विदुष एव कर्मण्यधिकारः प्रदर्श्यते सर्वत्र ज्ञात्वा­नु­ष्ठा­न­मिति च । कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित् । कर्म­भ्य­श्चे­त्परं श्रेयो नावाप्यते, वेदोऽनर्थकः स्यात् । न ; नित्य­त्वा­न्मो­क्षस्य । नित्यो हि मोक्ष इष्यते । कर्मकार्यस्य चानित्यत्वं प्रसिद्धं लोके । कर्म­भ्य­श्चे­च्छ्रेयः, अनित्यं स्यात् ; तच्चानिष्टम् । ननु काम्य­प्र­ति­षि­द्ध­यो­र­ना­र­म्भात् आरब्धस्य च कर्मण उपभोगेनैव क्षयात् नित्या­नु­ष्ठा­नाच्च प्रत्य­वा­या­नु­प­पत्तेः ज्ञाननिरपेक्ष एव मोक्ष इति चेत् , तच्च न, कर्म­शे­ष­स­म्भ­वा­त्त­न्नि­मित्ता शरी­रा­न्त­रो­त्पत्तिः प्राप्नोतीति प्रत्युक्तम् ; कर्मशेषस्य च नित्या­नु­ष्ठा­ने­ना­वि­रो­धा­त्क्ष­या­नु­प­प­त्ति­रिति च । यदुक्तं सम­स्त­वे­दा­र्थ­ज्ञा­न­वतः कर्मा­धि­का­रा­दि­त्यादि, तच्च न ; श्रुत­ज्ञा­न­व्य­ति­रे­का­दु­पा­स­नस्य । श्रुत­ज्ञा­न­मा­त्रेण हि कर्म­ण्य­धि­क्रि­यते, नोपा­स­न­ज्ञा­न­म­पे­क्षते । उपासनं च श्रुत­ज्ञा­ना­द­र्था­न्तरं विधीयते मोक्षफलम् ; अर्था­न्त­र­प्र­सि­द्धेश्च स्यात् ; ‘श्रोतव्यः’ इत्युक्त्वा तद्व्यतिरेकेण ‘मन्तव्यो निदि­ध्या­सि­तव्यः’ इति यत्ना­न्त­र­वि­धा­नात् मन­न­नि­दि­ध्या­स­न­योश्च प्रसिद्धं श्रव­ण­ज्ञा­ना­द­र्था­न्त­र­त्वम् । एवं तर्हि विद्या­सं­व्य­पे­क्षेभ्यः कर्मभ्यः स्यान्मोक्षः ; विद्यासहितानां च कर्मणां भवे­त्का­र्या­न्त­रा­र­म्भ­सा­म­र्थ्यम् ; यथा स्वतो मर­ण­ज्व­रा­दि­का­र्या­र­म्भ­स­म­र्था­ना­मपि विषदध्यादीनां मन्त्र­स­श­र्क­रा­दि­सं­यु­क्तानां कार्या­न्त­रा­र­म्भ­सा­म­र्थ्यम् , एवं विद्याहितैः कर्मभिः मोक्ष आरभ्यत इति चेत् , न ; आर­भ्य­स्या­नि­त्य­त्वा­दि­त्युक्तो दोषः । वचनादारभ्योऽपि नित्य एवेति चेत् , न ; ज्ञाप­क­त्वा­द्व­च­नस्य । वचनं नाम यथा­भू­त­स्या­र्थस्य ज्ञापकम् , नाविद्यमानस्य कर्तृ । न हि वचनशतेनापि नित्यमारभ्यते, आरब्धं वा अविनाशि भवेत् । एतेन विद्याकर्मणोः संह­त­यो­र्मो­क्षा­र­म्भ­कत्वं प्रत्युक्तम् ॥

विद्याकर्मणी मोक्ष­प्र­ति­ब­न्ध­हे­तु­नि­व­र्तके इति चेत् , न ; कर्मणः फलान्तरदर्शनात् । उत्प­त्ति­वि­का­र­सं­स्का­रा­प्तयो हि फलं कर्मणो दृश्यन्ते । उत्प­त्त्या­दि­फ­ल­वि­प­री­तश्च मोक्षः । गतिश्रुतेराप्य इति चेत् - ‘सूर्यद्वारेण’ ‘तयोर्ध्वमायन्’(क. उ. २ । ३ । १६) इत्ये­व­मा­दि­ग­ति­श्रु­तिभ्यः प्राप्यो मोक्ष इति चेत् , न ; सर्वगतत्वात् गन्तृ­भ्य­श्चा­न­न्य­त्वात् । आका­शा­दि­का­र­ण­त्वा­त्स­र्व­गतं ब्रह्म, ब्रह्मा­व्य­ति­रि­क्ताश्च सर्वे विज्ञानात्मानः ; अतो नाप्यो मोक्षः । गन्तु­र­न्य­द्वि­भि­न्न­देशं च भवति गन्तव्यम् । न हि, येनै­वा­व्य­ति­रिक्तं यत् , तत्तेनैव गम्यते । तद­न­न्य­त्व­सि­द्धिश्च ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु’(भ. गी. १३ । २) इत्ये­व­मा­दि­श्रु­ति­स्मृ­ति­श­तेभ्यः । गत्यै­श्व­र्या­दि­श्रु­ति­वि­रोध इति चेत् - अथापि स्यात् यद्यप्राप्यो मोक्षः, तदा गतिश्रुतीनाम् ‘स एकधा’(छा. उ. ७ । २६ । २) ‘स यदि पितृलोककामः भवति’(छा. उ. ८ । २ । १) ‘स्त्रीभिर्वा यानैर्वा’(छा. उ. ८ । १२ । ३) इत्या­दि­श्रु­तीनां च कोपः स्यात् इति चेत् , न ; कार्य­ब्र­ह्म­वि­ष­य­त्वा­त्ता­साम् । कार्ये हि ब्रह्मणि स्त्र्यादयः स्युः, न कारणे ; ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १)‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘यत्र नान्यत्पश्यति’(छा. उ. ७ । २४ । १) ‘तत्केन कं पश्येत्’(बृ. उ. २ । ४ । १४) इत्या­दि­श्रु­तिभ्यः । विरोधाच्च विद्याकर्मणोः समु­च्च­या­नु­प­पत्तिः । प्रली­न­क­र्त्रा­दि­का­र­क­वि­शे­ष­त­त्त्व­वि­षया हि विद्या तद्वि­प­री­त­का­र­क­सा­ध्येन कर्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कर्त्रा­दि­वि­शे­ष­वत् तच्छून्यं चेति उभयथा द्रष्टुं शक्यते । अवश्यं ह्यन्तरन्मिथ्या स्यात् । अन्यतरस्य च मिथ्या­त्व­प्र­सङ्गे युक्तं यत्स्वा­भा­वि­का­ज्ञा­न­वि­ष­यस्य द्वैतस्य मिथ्यात्वम् ; ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) ‘मृत्योः स मृत्युमाप्नोति’(क. उ. २ । १ । १०) ‘अथ यत्रा­न्य­त्प­श्यति तदल्पम्’(छा. उ. ७ । २४ । १) ‘अन्योऽ­सा­व­न्योऽ­ह­मस्मि’(बृ. उ. १ । ४ । १०) ‘उदरमन्तरं कुरुते’ ‘अथ तस्य भयं भवति’(तै. उ. २ । ७ । १) इत्या­दि­श्रु­ति­श­तेभ्यः । सत्यत्वं च एकत्वस्य ‘एक­धै­वा­नु­द्र­ष्ट­व्यम्’(बृ. उ. ४ । ४ । २०) ‘एक­मे­वा­द्वि­ती­यम्’ ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इत्या­दि­श्रु­तिभ्यः । न च सम्प्र­दा­ना­दि­का­र­क­भे­दा­द­र्शने कर्मोपपद्यते । अन्य­त्व­द­र्श­ना­प­वा­दाश्च विद्याविषये सहस्रशः श्रूयन्ते । अतो विरोधो विद्याकर्मणोः । अतश्च समु­च्च­या­नु­प­पत्तिः ॥

तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इत्ये­त­द­नु­प­प­न्न­मिति, तदयुक्तम् , तद्वि­हि­त­त्वा­त्क­र्मणां श्रुतिविरोध इति चेत् - यद्युपमृद्य कर्त्रा­दि­का­र­क­वि­शे­ष­मा­त्मै­क­त्व­वि­ज्ञानं विधीयते सर्पा­दि­भ्रा­न्ति­ज्ञा­नो­प­म­र्द­क­र­ज्ज्वा­दि­वि­ष­य­वि­ज्ञा­न­वत् , प्राप्तः कर्म­वि­धि­श्रु­तीनां निर्वि­ष­य­त्वा­द्वि­रोधः । विहितानि च कर्माणि । स च विरोधो न युक्तः, प्रमा­ण­त्वा­च्छ्रु­ती­ना­मिति चेत् , न ; पुरु­षा­र्थो­प­दे­श­प­र­त्वा­च्छ्रु­ती­नाम् । विद्योपदेशपरा तावच्छ्रुतिः संसारात्पुरुषो मोक्षयितव्य इति संसा­र­हे­तो­र­वि­द्यायाः विद्यया निवृत्तिः कर्तव्येति विद्या­प्र­का­श­क­त्वेन प्रवृत्तेति न विरोधः । एवमपि कर्त्रा­दि­का­र­क­स­द्भा­व­प्र­ति­पा­द­न­परं शास्त्रं विरुध्यत एवेति चेत् , न ; यथाप्राप्तमेव कार­का­स्ति­त्व­मु­पा­दाय उपा­त्त­दु­रि­त­क्ष­यार्थं कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे व्याप्रियते । उप­चि­त­दु­रि­त­प्र­ति­ब­न्धस्य हि विद्यो­त्प­त्ति­र्ना­व­क­ल्पते । तत्क्षये च विद्योत्पत्तिः स्यात् , तत­श्चा­वि­द्या­नि­वृत्तिः, तत आत्यन्तिकः संसारोपरमः । अपि च, अनात्मदर्शिनो ह्यनात्मविषयः कामः ; कामयमानश्च करोति कर्माणि ; तत­स्त­त्फ­लो­प­भो­गाय शरी­रा­द्यु­पा­दा­न­ल­क्षणः संसारः । तद्व्य­ति­रे­के­णा­त्मै­क­त्व­द­र्शिनो विष­या­भा­वा­त्का­मा­नु­प­पत्तिः, आत्मनि चान­न्य­त्वा­त्का­मा­नु­प­पत्तौ स्वात्म­न्य­व­स्थानं मोक्ष इत्यतोऽपि विद्या­क­र्म­णो­र्वि­रोधः । विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते । स्वात्मलाभे तु पूर्वो­प­चि­त­दु­रि­त­प्र­ति­ब­न्धा­प­न­य­न­द्वा­रेण विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति । अत एवा­स्मि­न्प्र­क­रणे उपन्यस्तानि कर्माणीत्यवोचाम । एवं च अविरोधः कर्म­वि­धि­श्रु­ती­नाम् । अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् ॥

एवं तर्हि आश्र­मा­न्त­रा­नु­प­पत्तिः, कर्म­नि­मि­त्त­त्वा­द्वि­द्यो­त्पत्तेः । गृहस्थस्यैव विहितानि कर्मा­णी­त्यै­का­श्र­म्य­मेव । अतश्च याव­ज्जी­वा­दि­श्रु­तयः अनुकूलतराः स्युः । न ; कर्मानेकत्वात् । न ह्यग्नि­हो­त्रा­दी­न्येव कर्माणि, ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि कर्माणि इत­रा­श्र­म­प्र­सि­द्धानि विद्योत्पत्तौ साध­क­त­मा­न्य­स­ङ्कीर्णा विद्यन्ते ध्यान­धा­र­णा­दि­ल­क्ष­णानि च । वक्ष्यति च - ‘तपसा ब्रह्म विजिज्ञासस्व’(तै. उ. ३ । २ । १) इति । जन्मा­न्त­र­कृ­त­क­र्म­भ्यश्च प्रागपि गार्ह­स्थ्या­द्वि­द्यो­त्प­त्ति­स­म्भ­वात् , कर्मार्थत्वाच्च गार्ह­स्थ्य­प्र­ति­पत्तेः, कर्मसाध्यायां च विद्यायां सत्यां गार्ह­स्थ्य­प्र­ति­प­त्ति­र­न­र्थि­कैव । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रा­दि­सा­ध्ये­भ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृ­त्त­का­मस्य, नित्य­सि­द्धा­त्म­द­र्शिनः, कर्मणि प्रयोजनमपश्यतः, कथं प्रवृ­त्ति­रु­प­प­द्यते ? प्रति­प­न्न­गा­र्ह­स्थ्य­स्यापि विद्योत्पत्तौ विद्या­प­रि­पा­का­द्वि­र­क्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात् , ‘प्रव्र­जि­ष्यन्वा अरेऽ­ह­म­स्मा­त्स्था­ना­दस्मि’(बृ. उ. ४ । ५ । २) इत्ये­व­मा­दि­श्रु­ति­लि­ङ्ग­द­र्श­नात् । कर्म प्रति श्रुते­र्य­त्ना­धि­क्य­द­र्श­ना­द­यु­क्त­मिति चेत् , - अग्नि­हो­त्रा­दि­कर्म प्रति श्रुतेरधिको यत्नः ; महांश्च कर्मण्यायासः, अने­क­सा­ध­न­सा­ध्य­त्वा­द­ग्नि­हो­त्रा­दी­नाम् ; तपो­ब्र­ह्म­च­र्या­दीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि समा­न­त्वा­द­ल्प­सा­ध­ना­पे­क्ष­त्वा­च्चे­त­रेषां न युक्त­स्तु­ल्य­व­द्वि­कल्प आश्रमिभिस्तस्य इति चेत् , न ; जन्मा­न्त­र­कृ­ता­नु­ग्र­हात् । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि, नासौ दोषः, यतो जन्मा­न्त­र­कृ­त­म­प्य­ग्नि­हो­त्रा­दि­ल­क्षणं कर्म ब्रह्म­च­र्या­दि­ल­क्षणं चानुग्राहकं भवति विद्योत्पत्तिं प्रति ; येन च जन्मनैव विरक्ता दृश्यन्ते केचित् ; केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्या­वि­द्वे­षिणः । तस्मा­ज्ज­न्मा­न्त­र­कृ­त­सं­स्का­रेभ्यो विर­क्ता­ना­मा­श्र­मा­न्त­र­प्र­ति­प­त्ति­रे­वे­ष्यते । कर्म­फ­ल­बा­हु­ल्याच्च । पुत्र­स्व­र्ग­ब्र­ह्म­व­र्च­सा­दि­ल­क्ष­णस्य कर्म­फ­ल­स्या­स­ङ्ख्ये­य­त्वात् तत्प्रति च पुरुषाणां काम­बा­हु­ल्या­त्त­दर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते, आशिषां बाहुल्यदर्शनात् - इदं मे स्यादिदं मे स्यादिति । उपायत्वाच्च । उपायभूतानि हि कर्माणि विद्यां प्रति इत्यवोचाम । उपाये च अधिको यत्नः कर्तव्यः, न उपेये । कर्म­नि­मि­त्त­त्वा­द्वि­द्याया यत्ना­न्त­रा­न­र्थ­क्य­मिति चेत् - कर्मभ्य एव पूर्वो­प­चि­त­दु­रि­त­प्र­ति­ब­न्ध­क्ष­या­द्वि­द्यो­त्प­द्यते चेत् , कर्मभ्यः पृथ­गु­प­नि­ष­च्छ्र­व­णा­दि­य­त्नोऽ­न­र्थक इति चेत् , न ; नियमाभावात् । न हि, ‘प्रति­ब­न्ध­क्ष­या­देव विद्योत्पद्यते, न त्वीश्व­र­प्र­सा­द­त­पो­ध्या­ना­द्य­नु­ष्ठा­नात्’ इति नियमोऽस्ति ; अहिं­सा­ब्र­ह्म­च­र्या­दीनां च विद्यां प्रत्यु­प­का­र­क­त्वात् , साक्षादेव च कार­ण­त्वा­च्छ्र­व­ण­म­न­न­नि­दि­ध्या­स­ना­दी­नाम् । अतः सिद्धा­न्या­श्र­मा­न्त­राणि । सर्वेषां चाधिकारो विद्यायाम् , परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ॥

इत्ये­का­द­शा­नु­वा­क­भा­ष्यम् ॥

द्वादशोऽनुवाकः

अती­त­वि­द्या­प्रा­प्त्यु­प­स­र्ग­श­म­नार्थां शान्तिं पठति -

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् ॥

शं नो मित्र इत्यादि । व्याख्या­त­मे­त­त्पू­र्वम् ॥

इति द्वाद­शा­नु­वा­क­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ तैत्ति­री­यो­प­नि­ष­द्भाष्ये शीक्षा­व­ल्ली­भा­ष्यम् सम्पूर्णम् ॥