अद्वैतशारदा

तैत्तिरीयोपनिषद्भाष्यम्

ब्रह्मानन्दवल्ली

व्याख्याः

प्रथमोऽनुवाकः

अती­त­वि­द्या­प्रा­प्त्यु­प­स­र्ग­प्र­श­म­नार्था शान्तिः पठिता । इदानीं तु वक्ष्य­मा­ण­ब्र­ह्म­वि­द्या­प्रा­प्त्यु­प­स­र्गो­प­श­म­नार्था शान्तिः पठ्यते -

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

सह नाववत्विति । सह नाववतु, नौ शिष्याचार्यौ सहैव अवतु रक्षतु । सह नौ भुनक्तु ब्रह्म भोजयतु । सह वीर्यं विद्यानिमित्तं सामर्थ्यं करवावहै निर्वर्तयावहै । तेजस्वि नौ तेजस्विनोरावयोः अधीतं स्वधीतम् अस्तु अर्थ­ज्ञा­न­यो­ग्य­म­स्त्वि­त्यर्थः । मा विद्विषावहै, विद्या­ग्र­ह­ण­नि­मित्तं शिष्यस्य आचार्यस्य वा प्रमा­द­कृ­ता­द­न्या­या­द्वि­द्वेषः प्राप्तः ; तच्छमनायेयमाशीः - मा विद्विषावहै इति । मैव नावितरेतरं विद्वे­ष­मा­प­द्या­वहै । शान्तिः शान्तिः शान्तिरिति त्रिर्व­च­न­मु­क्ता­र्थम् । वक्ष्य­मा­ण­वि­द्या­वि­घ्न­प्र­श­म­नार्था चेयं शान्तिः । अवि­घ्ने­ना­त्म­वि­द्या­प्रा­प्ति­रा­शा­स्यते, तन्मूलं हि परं श्रेय इति ॥

संहितादिविषयाणि कर्म­भि­र­वि­रु­द्धा­न्यु­पा­स­ना­न्यु­क्तानि । अनन्तरं च अन्तः­सो­पा­धि­क­मा­त्म­द­र्श­न­मुक्तं व्याहृतिद्वारेण स्वाराज्यफलम् । न चैतावता अशेषतः संसारबीजस्य उपमर्दनमस्ति । अतः अशे­षो­प­द्र­व­बी­जस्य अज्ञानस्य निवृत्त्यर्थं विधू­त­स­र्वो­पा­धि­वि­शे­षा­त्म­द­र्श­ना­र्थ­मि­द­मा­र­भ्यते -

ब्रह्म­वि­दा­प्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥

ब्रह्म­वि­दा­प्नोति परमित्यादि । प्रयोजनं चास्या ब्रह्मविद्याया अवि­द्या­नि­वृत्तिः, ततश्च आत्यन्तिकः संसाराभावः । वक्ष्यति च - ‘विद्वान्न बिभेति कुतश्चन’(तै. उ. २ । ९ । १) इति । संसारनिमित्ते च सति अभयं प्रतिष्ठां विन्दत इत्यनुपपन्नम् , कृताकृते पुण्यपापे न तपत इति च । अतोऽवगम्यते - अस्मा­द्वि­ज्ञा­ना­त्स­र्वा­त्म­ब्र­ह्म­वि­ष­या­दा­त्य­न्तिकः संसाराभाव इति । स्वयमेवाह प्रयोजनम् ‘ब्रह्म­वि­दा­प्नोति परम्’ इत्यादावेव सम्ब­न्ध­प्र­यो­ज­न­ज्ञा­प­ना­र्थम् । निर्ज्ञातयोर्हि सम्ब­न्ध­प्र­यो­ज­नयोः विद्या­श्र­व­ण­ग्र­ह­ण­धा­र­णा­भ्या­सार्थं प्रवर्तते । श्रवणादिपूर्वकं हि विद्याफलम् , ‘श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. उ. २ । ४ । ५) इत्या­दि­श्रु­त्य­न्त­रेभ्यः । ब्रह्मवित् , ब्रह्मेति वक्ष्य­मा­ण­ल­क्ष­णम् , बृहत्तमत्वात् ब्रह्म, तद्वेत्ति विजानातीति ब्रह्मवित् , आप्नोति प्राप्नोति परं निरतिशयम् ; तदेव ब्रह्म परम् ; न ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः । स्पष्टं च श्रुत्यन्तरं ब्रह्म­प्रा­प्ति­मेव ब्रह्मविदो दर्शयति - ‘स यो हि वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) इत्यादि ॥

ननु, सर्वगतं सर्वस्य चात्मभूतं ब्रह्म वक्ष्यति । अतो नाप्यम् । आप्तिश्च अन्यस्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा । अपरिच्छिन्नं सर्वात्मकं च ब्रह्मेत्यतः परिच्छिन्नवत् अनात्मवच्च तस्या­प्ति­र­नु­प­पन्ना । नायं दोषः । कथम् ? दर्श­ना­द­र्श­ना­पे­क्ष­त्वा­द्ब्र­ह्मण आप्त्य­नाप्त्योः, परमार्थतो ब्रह्म­स्व­रू­प­स्यापि सतः अस्य जीवस्य भूत­मा­त्रा­कृ­त­बा­ह्य­प­रि­च्छि­न्ना­न्न­म­या­द्या­त्म­द­र्शिनः तदासक्तचेतसः । प्रकृ­त­स­ङ्ख्या­पू­र­ण­स्या­त्मनः अव्यवहितस्यापि बाह्य­स­ङ्ख्ये­य­वि­ष­या­स­क्त­चि­त्त­तया स्वरू­पा­भा­व­द­र्श­न­वत् पर­मा­र्थ­ब्र­ह्म­स्व­रू­पा­भा­व­द­र्श­न­ल­क्ष­णया अविद्यया अन्न­म­या­दी­न्बा­ह्या­न­ना­त्मन आत्मत्वेन प्रतिपन्नत्वात् अन्न­म­या­द्य­ना­त्मभ्यो नान्योऽ­ह­म­स्मी­त्य­भि­म­न्यते । एवमविद्यया आत्मभूतमपि ब्रह्म अनाप्तं स्यात् । तस्यैवमविद्यया अना­प्त­ब्र­ह्म­स्व­रू­पस्य प्रकृ­त­स­ङ्ख्या­पू­र­ण­स्या­त्मनः अवि­द्य­या­ना­प्तस्य सतः केन­चि­त्स्मा­रि­तस्य पुनस्तस्यैव विद्यया आप्तिर्यथा, तथा श्रुत्यु­प­दि­ष्टस्य सर्वात्मब्रह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव । ब्रह्म­वि­दा­प्नोति परमिति वाक्यं सूत्रभूतं सर्वस्य वल्ल्यर्थस्य । ब्रह्म­वि­दा­प्नोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्म­णोऽ­नि­र्धा­रि­त­स्व­रू­प­वि­शे­षस्य सर्वतो व्यावृ­त्त­स्व­रू­प­वि­शे­ष­स­म­र्प­ण­स­म­र्थस्य लक्ष­ण­स्या­भि­धा­नेन स्वरू­प­नि­र्धा­र­णाय अविशेषेण च उक्तवेदनस्य ब्रह्मणो वक्ष्य­मा­ण­ल­क्ष­णस्य विशेषेण प्रत्यगात्मतया अनन्यरूपेण विज्ञेयत्वाय, ब्रह्मविद्याफलं च ब्रह्मविदो यत्प­र­प्रा­प्ति­ल­क्ष­ण­मु­क्तम् , स सर्वात्मभावः सर्व­सं­सा­र­ध­र्मा­ती­त­ब्र­ह्म­स्व­रू­प­त्व­मेव, नान्य­दि­त्ये­त­त्प्र­द­र्श­नाय च एषा ऋगुदाह्रियते - तदेषाभ्युक्तेति । तत् तस्मिन्नेव ब्राह्म­ण­वा­क्यो­क्तार्थे एषा ऋक् अभ्युक्ता आम्नाता । सत्यं ज्ञानमनन्तं ब्रह्म इति ब्रह्मणो लक्षणार्थं वाक्यम् । सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्रह्मणः । विशेष्यं ब्रह्म, विव­क्षि­त­त्वा­द्वे­द्य­तया । वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षितम् , तस्माद्विशेष्यं विज्ञेयम् । अतः अस्मा­द्वि­शे­ष­ण­वि­शे­ष्य­त्वा­देव सत्यादीनि एक­वि­भ­क्त्य­न्तानि पदानि समानाधिकरणानि । सत्या­दि­भि­स्त्रि­भि­र्वि­शे­ष­णै­र्वि­शे­ष्य­माणं ब्रह्म विशे­ष्या­न्त­रेभ्यो निर्धार्यते । एवं हि तज्ज्ञातं भवति, यदन्येभ्यो निर्धारितम् ; यथा लोके नीलं मह­त्सु­ग­न्ध्यु­त्प­ल­मिति । ननु, विशेष्यं विशेषणान्तरं व्यभि­च­र­द्वि­शे­ष्यते, यथा नीलं रक्तं चोत्पलमिति ; यदा ह्यनेकानि द्रव्याणि एक­जा­ती­या­न्य­ने­क­वि­शे­ष­ण­यो­गीनि च, तदा विशे­ष­ण­स्या­र्थ­व­त्त्वम् ; न ह्येकस्मिन्नेव वस्तुनि, विशे­ष­णा­न्त­रा­यो­गात् ; यथा असावेक आदित्य इति, तथा एकमेव ब्रह्म, न ब्रह्मान्तराणि, येभ्यो विशेष्येत नीलोत्पलवत् । न ; लक्ष­णा­र्थ­त्वा­द्वि­शे­ष­णा­नाम् । नायं दोषः । कस्मात् ? लक्ष­णा­र्थ­प्र­धा­नानि विशेषणानि, न विशे­ष­ण­प्र­धा­ना­न्येव । कः पुन­र्ल­क्ष­ण­ल­क्ष्य­यो­र्वि­शे­ष­ण­वि­शे­ष्य­योर्वा विशेषः ? उच्यते । सजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य ; लक्षणं तु सर्वत एव, यथा अव­का­श­प्र­दा­त्रा­का­श­मिति । लक्षणार्थं च वाक्यमित्यवोचाम ॥

सत्यादिशब्दा न परस्परं सम्बध्यन्ते, परार्थत्वात् ; विशेष्यार्था हि ते । अत एव एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन सम्बध्यते - सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत्सत्यम् । यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तद­नृ­त­मि­त्यु­च्यते । अतो विकारोऽनृतम् , ‘ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छा. उ. ६ । १ । ४) एवं सदेव सत्य­मि­त्य­व­धा­र­णात् । अतः ‘सत्यं ब्रह्म’ इति ब्रह्म विका­रा­न्नि­व­र्त­यति । अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य च कारकत्वम् , वस्तुत्वात् मृद्वत् अचिद्रूपता च प्राप्ता ; अत इदमुच्यते - ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिः अवबोधः, - भावसाधनो ज्ञानशब्दः - न तु ज्ञानकर्तृ, ब्रह्म­वि­शे­ष­ण­त्वा­त्स­त्या­न­न्ताभ्यां सह । न हि सत्यता अनन्तता च ज्ञानकर्तृत्वे सत्युपपद्येते । ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेत् , अनन्तं च ? यद्धि न कुत­श्चि­त्प्र­वि­भ­ज्यते, तदनन्तम् । ज्ञानकर्तृत्वे च ज्ञेय­ज्ञा­नाभ्यां प्रवि­भ­क्त­मि­त्य­न­न्तता न स्यात् , ‘यत्र नान्यद्विजानाति स भूमा, अथ यत्रा­न्य­द्वि­जा­नाति तदल्पम्’(छा. उ. ७ । २४ । १) इति श्रुत्यन्तरात् । ‘नान्य­द्वि­जा­नाति’ इति विशे­ष­प्र­ति­षे­धात् आत्मानं विजानातीति चेत् , न ; भूम­ल­क्ष­ण­वि­धि­प­र­त्वा­द्वा­क्यस्य । ‘यत्र नान्यत्पश्यति’ इत्यादि भूम्नो लक्षणविधिपरं वाक्यम् । यथाप्रसिद्धमेव अन्योऽ­न्य­त्प­श्य­ती­त्ये­त­दु­पा­दाय यत्र तन्नास्ति, स भूमा इति भूमस्वरूपं तत्र ज्ञाप्यते । अन्यग्रहणस्य प्राप्त­प्र­ति­षे­धा­र्थ­त्वात् न स्वात्मनि क्रिया­स्ति­त्व­परं वाक्यम् । स्वात्मनि च भेदा­भा­वा­द्वि­ज्ञा­ना­नु­प­पत्तिः । आत्मनश्च विज्ञेयत्वे ज्ञात्र­भा­व­प्र­सङ्गः, ज्ञेयत्वेनैव विनियुक्तत्वात् ॥

एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन च उभयथा भवतीति चेत् , न ; युगपदनंशत्वात् । न हि निरवयवस्य युग­प­ज्ज्ञे­य­ज्ञा­तृ­त्वो­प­पत्तिः । आत्मनश्च घटा­दि­व­द्वि­ज्ञे­यत्वे ज्ञानो­प­दे­शा­न­र्थ­क्यम् । न हि घटा­दि­व­त्प्र­सि­द्धस्य ज्ञानोपदेशः अर्थवान् । तस्मात् ज्ञातृत्वे सति आन­न्त्या­नु­प­पत्तिः । सन्मात्रत्वं चानुपपन्नं ज्ञान­क­र्तृ­त्वा­दि­वि­शे­ष­वत्त्वे सति ; सन्मात्रत्वं च सत्यम् , ‘तत् सत्यम्’(छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् । तस्मा­त्स­त्या­न­न्त­श­ब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयो­गा­द्भा­व­सा­धनो ज्ञानशब्दः । ‘ज्ञानं ब्रह्म’ इति कर्तृ­त्वा­दि­का­र­क­नि­वृ­त्त्यर्थं मृदा­दि­व­द­चि­द्रू­प­ता­नि­वृ­त्त्यर्थं च प्रयुज्यते । ‘ज्ञानं ब्रह्म’ इति वच­ना­त्प्रा­प्त­म­न्त­व­त्त्वम् , लौकिकस्य ज्ञानस्य अन्त­व­त्त्व­द­र्श­नात् । अतः तन्नि­वृ­त्त्य­र्थ­माह - अनन्तमिति । सत्या­दी­ना­म­नृ­ता­दि­ध­र्म­नि­वृ­त्ति­प­र­त्वा­द्वि­शे­ष्यस्य च ब्रह्मणः उत्प­ला­दि­व­द­प्र­सि­द्ध­त्वात् ‘मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः । एष वन्ध्यासुतो याति शश­शृ­ङ्ग­ध­नु­र्धरः’ इतिवत् शून्यार्थतैव प्राप्ता सत्या­दि­वा­क्य­स्येति चेत् , न ; लक्षणार्थत्वात् । विशेषणत्वेऽपि सत्यादीनां लक्ष­णा­र्थ­प्रा­धा­न्य­मि­त्य­वो­चाम । शून्ये हि लक्ष्ये अनर्थकं लक्षणवचनम् । अतः लक्ष­णा­र्थ­त्वा­न्म­न्या­महे न शून्यार्थतेति । विशे­ष­णा­र्थ­त्वेऽपि च सत्यादीनां स्वार्था­प­रि­त्याग एव । शून्यार्थत्वे हि सत्यादिशब्दानां विशे­ष्य­नि­य­न्तृ­त्वा­नु­प­पत्तिः । सत्या­द्य­र्थै­र­र्थ­वत्त्वे तु तद्वि­प­री­त­ध­र्म­वद्भ्यो विशेष्येभ्यो ब्रह्मणो विशेष्यस्य निय­न्तृ­त्व­मु­प­प­द्यते । ब्रह्मशब्दोऽपि स्वार्थे­ना­र्थ­वा­नेव । तत्र अनन्तशब्दः अन्त­व­त्त्व­प्र­ति­षे­ध­द्वा­रेण विशेषणम् । सत्यज्ञानशब्दौ तु स्वार्थ­स­म­र्प­णे­नैव विशेषणे भवतः ॥

‘तस्माद्वा एतस्मादात्मनः’ इति ब्रह्मण्येव आत्म­श­ब्द­प्र­यो­गात् वेदितुरात्मैव ब्रह्म । ‘एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’(तै. उ. २ । ८ । ५) इति च आत्मतां दर्शयति । तत्प्रवेशाच्च ; ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) इति च तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति । अतो वेदितुः स्वरूपं ब्रह्म । एवं तर्हि, आत्म­त्वा­ज्ज्ञा­न­क­र्तृ­त्वम् ; ‘आत्मा ज्ञाता’ इति हि प्रसिद्धम् , ‘सोऽकामयत’(तै. उ. २ । ६ । १) इति च कामिनो ज्ञान­क­र्तृ­त्व­प्र­सिद्धिः ; अतो ज्ञान­क­र्तृ­त्वात् ज्ञप्ति­र्ब्र­ह्मे­त्य­यु­क्तम् ; अनि­त्य­त्व­प्र­स­ङ्गाच्च ; यदि नाम ज्ञप्ति­र्ज्ञा­न­मिति भावरूपता ब्रह्मणः, तदाप्यनित्यत्वं प्रसज्येत ; पारतन्त्र्यं च, धात्वर्थानां कार­का­पे­क्ष­त्वात् , ज्ञानं च धात्वर्थः ; अतोऽस्य अनित्यत्वं परतन्त्रता च । न ; स्वरू­पा­व्य­ति­रे­केण कार्य­त्वो­प­चा­रात् । आत्मनः स्वरूपं ज्ञप्तिः न ततो व्यतिरिच्यते । अतो नित्यैव । तथापि बुद्धे­रु­पा­धि­ल­क्ष­णा­या­श्च­क्षु­रा­दि­द्वा­रै­र्वि­ष­या­का­र­प­रि­णा­मिन्याः ये शब्दा­द्या­का­रा­व­भासाः, ते आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एव आत्मविज्ञानेन व्याप्ता उत्पद्यन्ते । तस्मा­दा­त्म­वि­ज्ञा­ना­व­भा­स्याश्च ते विज्ञा­न­श­ब्द­वा­च्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते । यत्तु ब्रह्मणो विज्ञानम् , तत् सवितृप्रकाशवत् अग्न्यु­ष्ण­त्व­वच्च ब्रह्म­स्व­रू­पा­व्य­ति­रिक्तं स्वरूपमेव तत् । न तत्का­र­णा­न्त­र­स­व्य­पे­क्षम् , नित्य­स्व­रू­प­त्वात् , सर्वभावानां च तेना­वि­भ­क्त­दे­श­का­ल­त्वात् काला­का­शा­दि­का­र­ण­त्वात् निर­ति­श­य­सू­क्ष्म­त्वाच्च । न तस्या­न्य­द­वि­ज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा अस्ति । तस्मात्सर्वज्ञं तद्ब्रह्म । मन्त्रवर्णाच्च ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’(श्वे. उ. ३ । १९) इति । ‘न हि विज्ञ­तु­र्वि­ज्ञा­ते­र्वि­प­रि­लोपो विद्य­तेऽ­वि­ना­शि­त्वान्न तु तद्द्वि­ती­य­मस्ति’(बृ. उ. ४ । ३ । ३०) इत्या­दि­श्रु­तेश्च । विज्ञा­तृ­स्व­रू­पा­व्य­ति­रे­का­त्क­र­णा­दि­नि­मि­त्ता­न­पे­क्ष­त्वाच्च ब्रह्मणो ज्ञान­स्व­रू­प­त्वेऽपि नित्य­त्व­प्र­सिद्धिः । अतो नैव धात्वर्थस्तत् , अक्रि­या­रू­प­त्वात् । अत एव च न ज्ञानकर्तृ ; तस्मादेव च न ज्ञान­श­ब्द­वा­च्य­मपि तद्ब्रह्म । तथापि तदाभासवाचकेन बुद्धि­ध­र्म­वि­शे­षेण ज्ञानशब्देन तल्लक्ष्यते ; न तु उच्यते, शब्द­प्र­वृ­त्ति­हे­तु­जा­त्या­दि­ध­र्म­र­हि­त­त्वात् । तथा सत्यशब्देनापि । सर्व­वि­शे­ष­प्र­त्य­स्त­मि­त­स्व­रू­प­त्वा­द्ब्र­ह्मणः बाह्य­स­त्ता­सा­मा­न्य­वि­ष­येण सत्यशब्देन लक्ष्यते ‘सत्यं ब्रह्म’ इति ; न तु सत्यशब्दवाच्यं ब्रह्म । एवं सत्यादिशब्दा इत­रे­त­र­सं­नि­धा­ना­द­न्यो­न्य­नि­य­म्य­नि­या­मकाः सन्तः सत्या­दि­श­ब्द­वा­च्यात् निवर्तका ब्रह्मणः, लक्षणार्थाश्च भवन्तीति । अतः सिद्धम् ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’(तै. उ. २ । ४ । १) ‘अनि­रु­क्तेऽ­नि­ल­यने’(तै. उ. २ । ७ । १) इति च अवाच्यत्वम् , नीलो­त्प­ल­व­द­वा­क्या­र्थत्वं च ब्रह्मणः ॥

तद्य­था­व्या­ख्यातं ब्रह्म यः वेद विजानाति निहितं स्थितं गुहायाम् , गूहतेः संवरणार्थस्य निगूढा अस्यां ज्ञान­ज्ञे­य­ज्ञा­तृ­प­दार्था इति गुहा बुद्धिः, गूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा, तस्यां परमे प्रकृष्टे व्योमन् व्योम्नि आकाशे अव्याकृताख्ये ; तद्धि परमं व्योम, ‘एत­स्मि­न्ख­ल्व­क्षरे गार्ग्याकाशः’(बृ. उ. ३ । ८ । ११) इत्य­क्ष­र­सं­नि­क­र्षात् ; ‘गुहायां व्योमन्’ इति वा सामा­ना­धि­क­र­ण्या­द­व्या­कृ­ता­का­श­मेव गुहा ; तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु, कार­ण­त्वा­त्सू­क्ष्म­त­र­त्वाच्च ; तस्मि­न्न­न्त­र्नि­हितं ब्रह्म । हार्दमेव तु परमं व्योमेति न्याय्यम् , विज्ञा­ना­ङ्ग­त्वेन व्योम्नो विवक्षितत्वात् । ‘यो वै स बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयमन्तर्हृदय आकाशः’(छा. उ. ३ । १२ । ७) , इति श्रुत्य­न्त­रा­त्प्र­सिद्धं हार्दस्य व्योम्नः परमत्वम् । तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा, तस्यां निहितं ब्रह्म तद्व्यावृत्त्या विवि­क्त­त­यो­प­ल­भ्यत इति । न ह्यन्यथा विशि­ष्ट­दे­श­का­ल­स­म्ब­न्धोऽस्ति ब्रह्मणः, सर्व­ग­त­त्वा­न्नि­र्वि­शे­ष­त्वाच्च । सः एवं ब्रह्म विजानन् ; किमित्याह - अश्नुते भुङ्क्ते सर्वान् निरवशेषान् कामान् काम्य­भो­गा­नि­त्यर्थः । किम­स्म­दा­दि­व­त्पु­त्र­स्व­र्गा­दी­न्प­र्या­येण ? नेत्याह - सह युगपत् एक­क्ष­णो­पा­रू­ढा­नेव एकयोपलब्ध्या सवि­तृ­प्र­का­श­व­न्नि­त्यया ब्रह्म­स्व­रू­पा­व्य­ति­रि­क्तया, यामवोचाम ‘सत्यं ज्ञानम्’ इति । एतत्तदुच्यते - ब्रह्मणा सहेति । ब्रह्मभूतो विद्वान् ब्रह्म­स्व­रू­पे­णैव सर्वान्कामान् सह अश्नुते । न तथा यथोपाधिकृतेन स्वरूपेणात्मनो जल­सू­र्य­का­दि­व­त्प्र­ति­बि­म्ब­भू­तेन सांसारिकेण धर्मा­दि­नि­मि­त्ता­पे­क्षां­श्च­क्षु­रा­दि­क­र­णा­पे­क्षांश्च सर्वा­न्का­मा­न्प­र्या­ये­णा­श्नुते लोकः । कथं तर्हि ? यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्य­ब्र­ह्मा­त्म­स्व­रू­पेण धर्मा­दि­नि­मि­त्ता­न­पे­क्षान् चक्षु­रा­दि­क­र­णा­न­पे­क्षांश्च सर्वा­न्का­मा­न्स­हा­श्नुत इत्यर्थः । विपश्चिता मेधाविना सर्वज्ञेन । तद्धि वैपश्चित्यम् , यत्सर्वज्ञत्वम् । तेन सर्वज्ञस्वरूपेण ब्रह्मणा अश्नुत इति । इतिशब्दो मन्त्र­प­रि­स­मा­प्त्यर्थः ॥

सर्व एव वल्ल्यर्थः ‘ब्रह्म­वि­दा­प्नोति परम्’ इति ब्राह्मण वाक्येन सूत्रितः । स च सूत्रितोऽर्थः सङ्क्षेपतो मन्त्रेण व्याख्यातः । पुनस्तस्यैव विस्त­रे­णा­र्थ­नि­र्णयः कर्तव्य इत्यु­त्त­र­स्त­द्वृ­त्ति­स्था­नीयो ग्रन्थ आरभ्यते - तस्माद्वा एतस्मादित्यादिः । तत्र च ‘ सत्यं ज्ञानमनन्तं ब्रह्म’ इत्युक्तं मन्त्रादौ ; तत्कथं सत्यमनन्तं चेत्यत आह । त्रिविधं ह्यानन्त्यम् - देशतः कालतो वस्तुतश्चेति । तद्यथा - देशतोऽनन्त आकाशः ; न हि देशतस्तस्य परिच्छेदोऽस्ति । न तु कालतश्चानन्त्यं वस्तुतश्च आकाशस्य । कस्मात् ? कार्यत्वात् । नैवं ब्रह्मण आका­श­व­त्का­ल­तोऽ­प्य­न्त­व­त्त्वम् । अकार्यत्वात् । कार्यं हि वस्तु कालेन परिच्छिद्यते । अकार्यं च ब्रह्म । तस्मा­त्का­ल­तोऽ­स्या­न­न्त्यम् । तथा वस्तुतः । कथं पुनर्वस्तुत आनन्त्यम् ? सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भवति, वस्त्व­न्त­र­बु­द्धिर्हि प्रस­क्ता­द्व­स्त्व­न्त­रा­न्नि­व­र्तते । यतो यस्य बुद्धे­र्नि­वृत्तिः, स तस्यान्तः । तद्यथा गोत्व­बु­द्धि­र­श्व­त्वा­न्नि­व­र्तत इत्यश्वत्वान्तं गोत्व­मि­त्य­न्त­व­देव भवति । स चान्तो भिन्नेषु वस्तुषु दृष्टः । नैवं ब्रह्मणो भेदः । अतो वस्तु­तोऽ­प्या­न­न्त्यम् । कथं पुनः सर्वानन्यत्वं ब्रह्मण इति, उच्यते - सर्व­व­स्तु­का­र­ण­त्वात् । सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म । कार्यापेक्षया वस्तु­तोऽ­न्त­व­त्त्व­मिति चेत् , न ; अनृ­त­त्वा­त्का­र्यस्य वस्तुनः । न हि कारणव्यतिरेकेण कार्यं नाम वस्तुतोऽस्ति, यतः कार­ण­बु­द्धि­र्वि­नि­व­र्तेत ; ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छा. उ. ६ । १ । ४) एवं सदेव सत्यमिति श्रुत्यन्तरात् । तस्मा­दा­का­शा­दि­का­र­ण­त्वा­द्दे­श­त­स्ता­व­द­नन्तं ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धं देशतः ; तस्येदं कारणम् ; तस्मात्सिद्धं देशत आत्मन आनन्त्यम् । न ह्यस­र्व­ग­ता­त्स­र्व­ग­त­मु­त्प­द्य­मानं लोके किञ्चिद्दृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतः । तथा अका­र्य­त्वा­त्का­लतः ; तद्भि­न्न­व­स्त्व­न्त­रा­भा­वाच्च वस्तुतः । अत एव निर­ति­श­य­स­त्य­त्वम् ॥

तस्मात् इति मूल­वा­क्य­सू­त्रितं ब्रह्म परामृश्यते ; एतस्मात् इति मन्त्रवाक्येन अनन्तरं यथालक्षितम् । यद्ब्रह्म आदौ ब्राह्मणवाक्येन सूत्रितम् , यच्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यनन्तरमेव लक्षितम् , तस्मा­दे­त­स्मा­द्ब्र­ह्मण आत्मनः आत्म­श­ब्द­वा­च्यात् ; आत्मा हि तत् सर्वस्य, ‘तत्सत्यं स आत्मा’(छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् ; अतो ब्रह्म आत्मा ; तस्मा­दे­त­स्मा­द्ब्र­ह्मण आत्मस्वरूपात् आकाशः सम्भूतः समुत्पन्नः । आकाशो नाम शब्दगुणः अवकाशकरो मूर्त­द्र­व्या­णाम् । तस्मात् आकाशात् स्वेन स्पर्शगुणेन पूर्वेण च आकाशगुणेन शब्देन द्विगुणः वायुः, सम्भूत इत्यनुवर्तते । वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणः अग्निः सम्भूतः । अग्नेश्च स्वेन रसगुणेन पूर्वैश्च त्रिभिः चतुर्गुणा आपः सम्भूताः । अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्च चतुर्भिः पञ्चगुणा पृथिवी सम्भूता । पृथिव्याः ओषधयः । ओषधीभ्यः अन्नम् । अन्नात् रेतोरूपेण परिणतात् पुरुषः शिरः - पाण्या­द्या­कृ­ति­मान् । स वै एष पुरुषः अन्नरसमयः अन्नरसविकारः पुरु­षा­कृ­ति­भा­वितं हि सर्वे­भ्योऽ­ङ्गे­भ्य­स्ते­जः­स­म्भूतं रेतो बीजम् । तस्माद्यो जायते, सोऽपि तथा पुरुषाकृतिरेव स्यात् ; सर्वजातिषु जायमानानां जन­का­कृ­ति­नि­य­म­द­र्श­नात् । सर्वे­षा­म­प्य­न्न­र­स­वि­का­रत्वे ब्रह्मवंश्यत्वे च अविशिष्टे, कस्मात्पुरुष एव गृह्यते ? प्राधान्यात् । किं पुनः प्राधान्यम् ? कर्म­ज्ञा­ना­धि­कारः । पुरुष एव हि शक्त­त्वा­द­र्थि­त्वा­द­प­र्यु­द­स्त­त्वाच्च कर्म­ज्ञा­न­यो­र­धि­क्रि­यते, ‘पुरुषे त्वेवा­वि­स्त­रा­मात्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्ये­ना­मृ­त­मी­क्ष­ती­त्येवं सम्पन्नः ; अथेतरेषां पशू­ना­म­श­ना­या­पि­पासे एवाभिविज्ञानम्’ इत्यादि श्रुत्य­न्त­र­द­र्श­नात् ॥

स हि पुरुषः इह विद्यया आन्तरतमं ब्रह्म सङ्क्रा­म­यि­तु­मिष्टः । तस्य च बाह्या­का­र­वि­शे­षे­ष्व­ना­त्मसु आत्म­भा­वि­ता­बुद्धिः विना आलम्बनविशेषं कञ्चित् सहसा आन्त­र­त­म­प्र­त्य­गा­त्म­वि­षया निरालम्बना च कर्तुमशक्येति दृष्ट­श­री­रा­त्म­सा­मा­न्य­क­ल्प­नया शाखा­च­न्द्र­नि­द­र्श­न­व­दन्तः प्रवेशयन्नाह - तस्येदमेव शिरः । तस्य अस्य पुरु­ष­स्या­न्न­र­स­म­यस्य इदमेव शिरः प्रसिद्धम् । प्राण­म­या­दि­ष्व­शि­रसां शिर­स्त्व­द­र्श­ना­दि­हापि तत्प्रसङ्गो मा भूदिति इदमेव शिर इत्युच्यते । एवं पक्षादिषु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो बाहुः उत्तरः पक्षः । अयं मध्यमो देहभागः आत्मा अङ्गानाम् , ‘मध्यं ह्येषा­म­ङ्गा­ना­मात्मा’ इति श्रुतेः । इदमिति नाभे­र­ध­स्ता­द्य­द­ङ्गम् , तत् पुच्छं प्रतिष्ठा । प्रति­ति­ष्ठ­त्य­न­येति प्रतिष्ठा । पुच्छमिव पुच्छम् , अधो­ल­म्ब­न­सा­मा­न्यात् , यथा गोः पुच्छम् । एतत्प्रकृत्य उत्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः, मूषा­नि­षि­क्त­द्रु­त­ता­म्र­प्र­ति­मा­वत् । तदप्येष श्लोको भवति । तत् तस्मिन्नेवार्थे ब्राह्मणोक्ते अन्न­म­या­त्म­प्र­का­शके एष श्लोकः मन्त्रः भवति ॥

इति प्रथ­मा­नु­वा­क­भा­ष्यम् ॥

द्वितीयोऽनुवाकः

अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मा­त्स­र्वौ­ष­ध­मु­च्यते । सर्वं वै तेऽन्न­मा­प्नु­वन्ति । येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मा­त्स­र्वौ­ष­ध­मु­च्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । तस्माद्वा एत­स्मा­द­न्न­र­स­म­यात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥

अन्नात् रसा­दि­भा­व­प­रि­ण­तात् , वै इति स्मरणार्थः, प्रजाः स्थाव­र­ज­ङ्ग­मा­त्मकाः, प्रजायन्ते । याः काश्च अविशिष्टाः पृथिवीं श्रिताः पृथि­वी­मा­श्रिताः, ताः सर्वा अन्नादेव प्रजायन्ते । अथो अपि, जाताः अन्नेनैव जीवन्ति प्राणा­न्धा­र­यन्ति, वर्धन्त इत्यर्थः । अथ अपि, एनत् अन्नम् , अपियन्ति अपिगच्छन्ति, अपि शब्दः प्रतिशब्दार्थे, अन्नं प्रति लीयन्त इत्यर्थः ; अन्ततः अन्ते जीवनलक्षणाया वृत्तेः परिसमाप्तौ । कस्मात् ? अन्नं हि यस्मात् भूतानां प्राणिनां ज्येष्ठं प्रथमजम् । अन्नमयादीनां हि इतरेषां भूतानां कारणमन्नम् ; अतः अन्नप्रभवा अन्नजीवना अन्नप्रलयाश्च सर्वाः प्रजाः । यस्माच्चैवम् , तस्मात् सर्वौषधं सर्वप्राणिनां देह­दा­ह­प्र­श­म­न­म­न्न­मु­च्यते ॥

अन्नब्रह्मविदः फलमुच्यते - सर्वं वै ते समस्तमन्नजातम् आप्नुवन्ति । के ? ये अन्नं ब्रह्म यथोक्तम् उपासते । कथम् ? अन्न­जोऽ­न्ना­त्मा­न्न­प्र­ल­योऽ­हम् , तस्मादन्नं ब्रह्म इति । कुतः पुनः सर्वा­न्न­प्रा­प्ति­फ­ल­म­न्ना­त्मो­पा­स­न­मिति, उच्यते - अन्नं हि भूतानां ज्येष्ठं भूतेभ्यः पूर्व­मु­त्प­न्न­त्वा­ज्ज्येष्ठं हि यस्मात् , तस्मा­त्स­र्वौ­ष­ध­मु­च्यते ; तस्मादुपपन्ना सर्वा­न्ना­त्मो­पा­स­कस्य सर्वा­न्न­प्राप्तिः । अन्नाद्भूतानि जायन्ते, जातान्यन्नेन वर्धन्ते इति उपसंहारार्थं पुनर्वचनम् । इदा­नी­म­न्न­श­ब्द­नि­र्व­च­न­मु­च्यते - अद्यते भुज्यते चैव यद्भूतैः अत्ति च भूतानि स्वयम् , तस्मात् भूतै­र्भु­ज्य­मा­न­त्वा­द्भू­त­भो­क्तृ­त्वाच्च अन्नं तत् उच्यते । इति शब्दः प्रथ­म­को­श­प­रि­स­मा­प्त्यर्थः । अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्यः अभ्यन्तरतमं ब्रह्म विद्यया प्रत्य­गा­त्म­त्वेन दिदर्शयिषु शास्त्रम् अवि­द्या­कृ­त­प­ञ्च­को­शा­प­न­य­नेन अने­क­तु­ष­को­द्र­व­वि­तु­षी­क­र­णे­नेव तण्डुलान् प्रस्तौति - तस्माद्वा एत­स्मा­द­न्न­र­स­म­या­दि­त्यादि । तस्माद्वै एतस्मात् यथोक्तात् अन्न­र­स­म­या­त्पि­ण्डात् अन्यः व्यतिरिक्तः अन्तरः अभ्यन्तरः आत्मा पिण्डवदेव मिथ्यापरिकल्पित आत्मत्वेन प्राणमयः, प्राणः वायुः, तन्मयः तत्प्रायः । तेन प्राणमयेन एषः अन्नरसमय आत्मा पूर्णः वायुनेव दृतिः । स वै एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव शिरःपक्षादिभिः । किं स्वत एव ? नेत्याह - प्रसिद्धं ताव­द­न्न­र­स­म­य­स्या­त्मनः पुरुषविधत्वम् ; तस्य अन्नरसमयस्य पुरुषविधतां पुरुषाकारताम् अनु अयं प्राणमयः पुरुषविधः मूषा­नि­षि­क्त­प्र­ति­मा­वत् , न स्वत एव । एवं पूर्वस्य पूर्वस्य पुरुषविधता ; तामनु उत्तरोत्तरः पुरुषविधो भवति, पूर्वः पूर्व­श्चो­त्त­रो­त्त­रेण पूर्णः । कथं पुनः पुरुषविधता अस्येति, उच्यते - तस्य प्राणमयस्य प्राण एव शिरः प्राणमयस्य वायुविकारस्य प्राणः मुख­ना­सि­का­निः­स­रणो वृत्तिविशेषः शिर इति कल्प्यते, वचनात् । सर्वत्र वचनादेव पक्षादिकल्पना । व्यानः व्यानवृत्तिः दक्षिणः पक्षः । अपानः उत्तरः पक्षः । आकाश आत्मा, य आकाशस्थो वृत्तिविशेषः समानाख्यः, स आत्मेव आत्मा प्राण­वृ­त्त्य­धि­का­रात् । मध्य­स्थ­त्वा­दि­तराः पर्यन्ता वृत्तीरपेक्ष्य आत्मा ; ‘मध्यं ह्येषा­म­ङ्गा­ना­मात्मा’ इति प्रसिद्धं मध्य­स्थ­स्या­त्म­त्वम् । पृथिवी पुच्छं प्रतिष्ठा । पृथिवीति पृथिवीदेवता आध्यात्मिकस्य प्राणस्य धारयित्री स्थिति­हे­तु­त्वात् । ‘सैषा पुरु­ष­स्या­पा­न­म­व­ष्टभ्य’(प्र. उ. ३ । ८) इति हि श्रुत्यन्तरम् । अन्यथा उदानवृत्त्या ऊर्ध्वगमनं गुरुत्वात्पतनं वा स्याच्छरीरस्य । तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्य आत्मनः । तत् तस्मिन्नेवार्थे प्राण­म­या­त्म­वि­षये एष श्लोको भवति ॥

इति द्विती­या­नु­वा­क­भा­ष्यम् ॥

तृतीयोऽनुवाकः

प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मा­त्स­र्वा­यु­ष­मु­च्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मा­त्स­र्वा­यु­ष­मु­च्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एत­स्मा­त्प्रा­ण­म­यात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥

प्राणं देवा अनु प्राणन्ति । अग्न्यादयः देवाः प्राणं वाय्वात्मानं प्राण­न­श­क्ति­म­न्तम् अनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति, प्राणनक्रियया क्रियावन्तो भवन्ति । अध्या­त्मा­धि­का­रात् देवाः इन्द्रियाणि प्राणमनु प्राणन्ति । मुख्यप्राणमनु चेष्टन्त इति वा । तथा मनुष्याः पशवश्च ये, ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति । अतश्च नान्नमयेनैव परि­च्छि­न्ना­त्मना आत्मवन्तः प्राणिनः । किं तर्हि ? तद­न्त­र्ग­त­प्रा­ण­म­ये­नापि साधारणेनैव सर्व­पि­ण्ड­व्या­पिना आत्मवन्तो मनुष्यादयः । एवं मनोमयादिभिः पूर्व­पू­र्व­व्या­पिभिः उत्तरोत्तरैः सूक्ष्मैः आन­न्द­म­या­न्तै­रा­का­शा­दि­भू­ता­र­ब्धै­र­वि­द्या­कृतैः आत्मवन्तः सर्वे प्राणिनः ; तथा, स्वाभा­वि­के­ना­प्या­का­शा­दि­का­र­णेन नित्येनाविकृतेन सर्वगतेन सत्य­ज्ञा­ना­न­न्त­ल­क्ष­णेन पञ्चकोशातिगेन सर्वात्मना आत्मवन्तः ; स हि परमार्थत आत्मा सर्वे­षा­मि­त्ये­त­द­प्य­र्था­दुक्तं भवति । प्राणं देवा अनु प्राण­न्ती­त्या­द्यु­क्तम् ; तत्कस्मादित्याह - प्राणः हि यस्मात् भूतानां प्राणिनाम् आयुः जीवनम् , ‘याव­द्ध्य­स्मि­ञ्श­रीरे प्राणो वसति तावदेवायुः’(कौ. उ. ३ । २) इति श्रुत्यन्तरात् । तस्मात् सर्वायुषम् , सर्वेषामायुः सर्वायुः, सर्वायुरेव सर्वायुषम् इत्युच्यते ; प्राणापगमे मरणप्रसिद्धेः । प्रसिद्धं हि लोके सर्वायुष्ट्वं प्राणस्य । अतः अस्मा­द्बा­ह्या­द­सा­धा­र­णा­द­न्न­म­या­दा­त्म­नोऽ­प­क्रम्य अन्तः साधारणं प्राणमयमात्मानं ब्रह्म उपासते ये ‘अहमस्मि प्राणः सर्व­भू­ता­ना­मात्मा आयुः, जीवनहेतुत्वात्’ इति, ते सर्वमेव आयुः अस्मिंल्लोके यन्ति ; नापमृत्युना म्रियन्ते प्राक्प्रा­प्ता­दा­युष इत्यर्थः । शतं वर्षाणीति तु युक्तम् , ‘सर्वमायुरेति’(छा. उ. २ । ११ । २) इति श्रुति­प्र­सिद्धेः । किं कारणम् ? - प्राणो हि भूतानामायुः तस्मा­त्स­र्वा­यु­ष­मु­च्यत इति । यो यद्गुणकं ब्रह्मोपास्ते, स तद्गु­ण­भा­ग्भ­व­तीति विद्या­फ­ल­प्रा­प्ते­र्हे­त्वर्थं पुनर्वचनम् - प्राणो हीत्यादि । तस्य पूर्वस्य अन्नमयस्य एष एव शरीरे अन्नमये भवः शारीरः आत्मा । कः ? य एष प्राणमयः । तस्माद्वा एत­स्मा­दि­त्या­द्यु­क्ता­र्थ­म­न्यत् । अन्योऽन्तर आत्मा मनोमयः । मन इति सङ्क­ल्प­वि­क­ल्पा­त्म­क­म­न्तः­क­र­णम् , तन्मयो मनोमयः ; सोऽयं प्राण­म­य­स्या­भ्य­न्तर आत्मा । तस्य यजुरेव शिरः । यजुरिति अनि­य­ता­क्ष­र­पा­दा­व­सानो मन्त्रविशेषः ; तज्जातीयवचनो यजुःशब्दः ; तस्य शिरस्त्वम् , प्राधान्यात् । प्राधान्यं च यागादौ संनि­प­त्यो­प­का­र­क­त्वात् यजुषा हि हविर्दीयते स्वाहाकारादिना ॥

वाचनिकी वा शिरआदिकल्पना सर्वत्र । मनसो हि स्थान­प्र­य­त्न­ना­द­स्व­र­व­र्ण­प­द­वा­क्य­वि­षया तत्स­ङ्क­ल्पा­त्मिका तद्भाविता वृत्तिः श्रोत्र­क­र­ण­द्वारा यजुःसङ्केतेन विशिष्टा यजुरित्युच्यते । एवम् ऋक् ; एवं साम च । एवं च मनोवृत्तित्वे मन्त्राणाम् , वृत्तिरेव आवर्त्यत इति मानसो जप उपपद्यते । अन्यथा अवि­ष­य­त्वा­न्मन्त्रो नावर्तयितुं शक्यः घटादिवत् इति मानसो जपो नोपपद्यते । मन्त्रा­वृ­त्ति­श्चो­द्यते बहुशः कर्मसु । अक्ष­र­वि­ष­य­स्मृ­त्या­वृत्त्या मन्त्रावृत्तिः स्यात् इति चेत् , न ; मुख्या­र्था­स­म्भ­वात् । ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति ऋगावृत्तिः श्रूयते । तत्र ऋचः अविषयत्वे तद्वि­ष­य­स्मृ­त्या­वृत्त्या मन्त्रावृत्तौ च क्रियमाणायाम् ‘त्रिः प्रथमामन्वाह’ इति ऋगा­वृ­त्ति­र्मु­ख्योऽ­र्थ­श्चो­दितः परित्यक्तः स्यात् । तस्मा­न्म­नो­वृ­त्त्यु­पा­धि­प­रि­च्छिन्नं मनो­वृ­त्ति­नि­ष्ठ­मा­त्म­चै­त­न्य­म­ना­दि­नि­धनं यजुःशब्दवाच्यम् आत्मविज्ञानं मन्त्रा इति । एवं च नित्य­त्वो­प­प­त्ति­र्वे­दा­नाम् । अन्यथाविषयत्वे रूपा­दि­व­द­नि­त्यत्वं च स्यात् ; नैतद्युक्तम् । ‘सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा’ इति च श्रुतिः नित्या­त्म­नै­कत्वं ब्रुवन्ती ऋगादीनां नित्यत्वे समञ्जसा स्यात् । ‘ऋचोऽक्षरे परमे व्योम­न्य­स्मि­न्देवा अधि विश्वे निषेदुः’(श्वे. उ. ४ । ८) इति च मन्त्रवर्णः । आदेशः अत्र ब्राह्मणम् , आदे­ष्ट­व्य­वि­शे­षा­ना­दि­श­तीति । अथर्वणाङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणं च शान्ति­क­पौ­ष्टि­का­दि­प्र­ति­ष्ठा­हे­तु­क­र्म­प्र­धा­न­त्वात् पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति मनो­म­या­त्म­प्र­का­शकः पूर्ववत् ॥

इति तृती­या­नु­वा­क­भा­ष्यम् ॥

चतुर्थोऽनुवाकः

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एत­स्मा­न्म­नो­म­यात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादि । तस्य पूर्वस्य प्राणमयस्य एष एव आत्मा शारीरः शरीरे प्राणमये भवः शरीरः । कः ? य एष मनोमयः । तस्माद्वा एतस्मादिति पूर्ववत् । अन्योऽन्तर आत्मा विज्ञानमयः मनो­म­य­स्या­भ्य­न्तरो विज्ञानमयः । मनोमयो वेदात्मा उक्तः । वेदार्थविषया बुद्धि­र्नि­श्च­या­त्मिका विज्ञानम् , तच्चा­ध्य­व­सा­य­ल­क्ष­ण­म­न्तः­क­र­णस्य धर्मः, तन्मयः निश्चयविज्ञानैः प्रमा­ण­स्व­रू­पै­र्नि­र्व­र्तितः आत्मा विज्ञानमयः प्रमा­ण­वि­ज्ञा­न­पू­र्वको हि यज्ञादिः तायते । यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन । निश्च­य­वि­ज्ञा­न­वतो हि कर्त­व्ये­ष्व­र्थेषु पूर्वं श्रद्धा उपपद्यते । सा सर्वकर्तव्यानां प्राथम्यात् शिर इव शिरः । ऋतसत्ये यथाव्याख्याते एव । योगः युक्तिः समाधानम् आत्मैव आत्मा । आत्मवतो हि युक्तस्य समाधानवतः अङ्गानीव श्रद्धादीनि यथा­र्थ­प्र­ति­प­त्ति­क्ष­माणि भवन्ति । तस्मात्समाधानं योग आत्मा विज्ञानमयस्य । महः पुच्छं प्रतिष्ठा । मह इति महत्तत्त्वं प्रथमजम् , ‘महद्यक्षं प्रथमजं वेद’(बृ. उ. ५ । ४ । १) इति श्रुत्यन्तरात् , पुच्छं प्रतिष्ठा कारणत्वात् । कारणं हि कार्याणां प्रतिष्ठा, यथा वृक्षवीरुधां पृथिवी । सर्वविज्ञानानां च महत्तत्त्वं कारणम् । तेन तद्वि­ज्ञा­न­म­य­स्या­त्मनः प्रतिष्ठा । तदप्येष श्लोको भवति पूर्ववत् । यथा अन्नमयादीनां ब्राह्म­णो­क्तानां प्रकाशकाः श्लोकाः, एवं विज्ञानमयस्यापि ॥

इति चतु­र्था­नु­वा­क­भा­ष्यम् ॥

पञ्चमोऽनुवाकः

विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वा­न्का­मा­न्स­म­श्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एत­स्मा­द्वि­ज्ञा­न­म­यात् । अन्योऽन्तर आत्मानन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुष विधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥

विज्ञानं यज्ञं तनुते, विज्ञानवान्हि यज्ञं तनोति श्रद्धापूर्वकम् ; अतो विज्ञानस्य कर्तृत्वं तनुत इति । कर्माणि च तनुते । यस्मा­द्वि­ज्ञा­न­क­र्तृकं सर्वम् , तस्माद्युक्तं विज्ञानमय आत्मा ब्रह्मेति । किञ्च, विज्ञानं ब्रह्म सर्वे देवाः इन्द्रादयः ज्येष्ठम् , प्रथमजत्वात् ; सर्ववृत्तीनां वा तत्पू­र्व­क­त्वा­त्प्र­थ­मजं विज्ञानं ब्रह्म उपासते ध्यायन्ति, तस्मि­न्वि­ज्ञा­न­मये ब्रह्मण्यभिमानं कृत्वा उपासत इत्यर्थः । तस्मात्ते महतो ब्रह्मण उपासनात् ज्ञानै­श्व­र्य­वन्तो भवन्ति । तच्च विज्ञानं ब्रह्म चेत् यदि वेद विजानाति ; न केवलं वेदैव, तस्मात् ब्रह्मणः चेत् न प्रमाद्यति ; बाह्ये­ष्व­ना­त्म­स्वात्मा भावितः ; तस्मात्प्राप्तं विज्ञानमये ब्रह्म­ण्या­त्म­भा­व­नायाः प्रमदनम् ; तन्नि­वृ­त्त्य­र्थ­मु­च्यते - तस्माच्चेन्न प्रमाद्यतीति । अन्न­म­या­दि­ष्वा­त्म­भावं हित्वा केवले विज्ञानमये ब्रह्म­ण्या­त्मत्वं भावयन्नास्ते चेदित्यर्थः । ततः किं स्यादिति, उच्यते - शरीरे पाप्मनो हित्वा ; शरी­रा­भि­मा­न­नि­मित्ता हि सर्वे पाप्मानः ; तेषां च विज्ञानमये ब्रह्म­ण्या­त्मा­भि­मा­नात् निमित्तापाये हानमुपपद्यते ; छत्रापाय इव च्छायायाः । तस्मात् शरी­रा­भि­मा­न­नि­मि­त्ता­न्स­र्वान् पाप्मनः शरीरप्रभवान् शरीरे एव हित्वा विज्ञा­न­म­य­ब्र­ह्म­स्व­रू­पा­पन्नः तत्स्थान् सर्वान् कामान् विज्ञा­न­म­ये­नै­वा­त्मना समश्नुते सम्यग्भुङ्क्ते इत्यर्थः । तस्य पूर्वस्य मनोमयस्य आत्मा एष एव शरीरे मनोमये भवः शारीरः । कः ? य एष विज्ञानमयः । तस्माद्वा एत­स्मा­दि­त्यु­क्ता­र्थम् । आनन्दमय इति कार्या­त्म­प्र­तीतिः, अधिकारात् मयट्शब्दाच्च । अन्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः । तद­धि­का­र­प­ति­त­श्चा­य­मा­न­न्द­मयः । मयट् चात्र विकारार्थे दृष्टः, यथा अन्नमय इत्यत्र । तस्मा­त्का­र्यात्मा आनन्दमयः प्रत्येतव्यः । सङ्क्रमणाच्च । ‘आन­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’ इति वक्ष्यति । कार्यात्मनां च सङ्क्र­म­ण­म­न्ना­त्मनां दृष्टम् । सङ्क्र­म­ण­क­र्म­त्वेन च आनन्दमय आत्मा श्रूयते, यथा ‘अन्न­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’ इति । न च आत्मन एवोपसङ्क्रमणम् , अधिकारविरोधात् । असम्भवाच्च । न ह्यात्मनैव आत्मन उपसङ्क्रमणं सम्भवति, स्वात्मनि भेदाभावात् ; आत्मभूतं च ब्रह्म सङ्क्रमितुः । शिर­आ­दि­क­ल्प­ना­नु­प­प­त्तेश्च । न हि यथोक्तलक्षणे आकाशादिकारणे अकार्यपतिते शिर­आ­द्य­व­य­व­रू­प­क­ल्पना उपपद्यते । ‘अदृ­श्येऽ­ना­त्म्येऽ­नि­रु­क्तेऽ­नि­ल­यने’(तै. उ. २ । ७ । १) ‘अस्थूलमनणु’(बृ. उ. ३ । ८ । ८) ‘नेति नेत्यात्मा’(बृ. उ. ३ । ९ । २६) इत्या­दि­वि­शे­षा­पो­ह­श्रु­ति­भ्यश्च । मन्त्रो­दा­ह­र­णा­नु­प­प­त्तेश्च । न हि, प्रिय­शि­र­आ­द्य­व­य­व­वि­शिष्टे प्रत्य­क्ष­तोऽ­नु­भू­य­माने आनन्दमये आत्मनि ब्रह्मणि नास्ति ब्रह्मे­त्या­श­ङ्का­भा­वात् ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेत्’(तै. उ. २ । ६ । १) इति मन्त्रो­दा­ह­र­ण­मु­प­प­द्यते । ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यपि चानुपपन्नं पृथग्ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम् । तस्मा­त्का­र्य­प­तित एवानन्दमयः, न पर एवात्मा । आनन्द इति विद्याकर्मणोः फलम् , तद्विकार आनन्दमयः । स च विज्ञा­न­म­या­दा­न्तरः, यज्ञा­दि­हे­तो­र्वि­ज्ञा­न­म­या­द­स्या­न्त­र­त्व­श्रुतेः । ज्ञानकर्मणोर्हि फलं भोक्त्र­र्थ­त्वा­दा­न्त­र­तमं स्यात् ; आन्तरतमश्च आनन्दमय आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रिया­द्य­र्थ­त्वाच्च । प्रिया­दि­प्र­युक्ते हि विद्याकर्मणी ; तस्मा­त्प्रि­या­दीनां फल­रू­पा­णा­मा­त्म­सं­नि­क­र्षात् विज्ञा­न­म­या­द­स्या­भ्य­न्त­र­त्व­मु­प­प­द्यते ; प्रिया­दि­वा­स­ना­नि­र्व­र्तितो ह्यात्मा आनन्दमयो विज्ञा­न­म­या­श्रितः स्वप्ने उपलभ्यते । तस्य आन­न्द­म­य­स्या­त्मनः इष्ट­पु­त्रा­दि­द­र्श­नजं प्रियं शिर इव शिरः, प्राधान्यात् । मोद इति प्रिय­ला­भ­नि­मित्तो हर्षः । स एव च प्रकृष्टो हर्षः प्रमोदः । आनन्द इति सुखसामान्यम् आत्मा प्रियादीनां सुखावयवानाम् , तेष्व­नु­स्यू­त­त्वात् । आनन्द इति परं ब्रह्म ; तद्धि शुभकर्मणा प्रत्यु­प­स्था­प्य­माने पुत्र­मि­त्रा­दि­वि­ष­य­वि­शे­षो­पाधौ अन्तः­क­र­ण­वृ­त्ति­वि­शेषे तमसा अप्रच्छाद्यमाने प्रसन्ने अभिव्यज्यते । तद्विषयसुखमिति प्रसिद्धं लोके । तद्वृ­त्ति­वि­शे­ष­प्र­त्यु­प­स्था­प­कस्य कर्म­णोऽ­न­व­स्थि­त­त्वात् सुखस्य क्षणिकत्वम् । तद्यदन्तःकरणं तपसा तमोघ्नेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्म­ल­त्व­मा­प­द्यते यावत् , तावत् विविक्ते प्रसन्ने अन्तःकरणे आनन्दविशेष उत्कृष्यते विपुलीभवति । वक्ष्यति च - ‘रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति, एष ह्येवानन्दयाति’(तै. उ. २ । ७ । १) ‘एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति’(बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । एवं च कामो­प­श­मो­त्क­र्षा­पे­क्षया शत­गु­णो­त्त­रो­त्त­रो­त्कर्षः आनन्दस्य वक्ष्यते । एवं च उत्कृष्यमाणस्य आन­न्द­म­य­स्या­त्मनः पर­मा­र्थ­ब्र­ह्म­वि­ज्ञा­ना­पे­क्षया ब्रह्म परमेव यत्प्रकृतं सत्य­ज्ञा­ना­न­न्त­ल­क्ष­णम् , यस्य च प्रतिपत्त्यर्थं पञ्च अन्नादिमयाः कोशा उपन्यस्ताः, यच्च तेभ्य आभ्यन्तरम् , येन च ते सर्वे आत्मवन्तः, तत् ब्रह्म पुच्छं प्रतिष्ठा । तदेव च सर्व­स्या­वि­द्या­प­रि­क­ल्पि­तस्य द्वैतस्य अवसानभूतम् अद्वैतं ब्रह्म प्रतिष्ठा, आनन्दमयस्य एक­त्वा­व­सा­न­त्वात् । अस्ति तदे­क­म­वि­द्या­क­ल्पि­तस्य द्वैत­स्या­व­सा­न­भू­त­म­द्वैतं ब्रह्म प्रतिष्ठा पुच्छम् । तदे­त­स्मि­न्न­प्यर्थे एष श्लोको भवति ॥

इति पञ्च­मा­नु­वा­क­भा­ष्यम् ॥

षष्ठोऽनुवाकः

असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेन न्ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथा­तोऽ­नु­प्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती ३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता ३ उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदे­वा­नु­प्रा­वि­शत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्स­त्य­मि­त्या­च­क्षते । तदप्येष श्लोको भवति ॥ १ ॥

असन्नेव असत्सम एव, यथा असन् अपु­रु­षा­र्थ­स­म्बन्धी, एवं सः भवति अपु­रु­षा­र्थ­स­म्बन्धी । कोऽसौ ? यः असत् अविद्यमानं ब्रह्म इति वेद विजानाति चेत् यदि । तद्विपर्ययेण यत्स­र्व­वि­क­ल्पा­स्पदं सर्व­प्र­वृ­त्ति­बीजं सर्व­वि­शे­ष­प्र­त्य­स्त­मि­त­मपि, अस्ति तत् ब्रह्म इति वेद चेत् , कुतः पुनराशङ्का तन्नास्तित्वे ? व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः । व्यवहारविषये हि वाचारम्भणमात्रे अस्ति­त्व­भा­वि­त­बुद्धिः तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते । यथा ‘घटा­दि­र्व्य­व­हा­र­वि­ष­य­त­यो­प­पन्नः सन् , तद्विपरीतः असन्’ इति प्रसिद्धम् , एवं तत्सा­मा­न्या­दि­हापि स्याद्ब्रह्मणो नास्तित्वं प्रत्याशङ्का । तस्मादुच्यते - अस्ति ब्रह्मेति चेद्वेदेति । किं पुनः स्यात्तदस्तीति विजानतः ? तदाह - सन्तं विद्यमानं ब्रह्मस्वरूपेण पर­मा­र्थ­स­दा­त्मा­प­न्नम् एनम् एवंविदं विदुः ब्रह्मविदः । ततः तस्मात् अस्तित्ववेदनात् सः अन्येषां ब्रह्म­व­द्वि­ज्ञेयो भवतीत्यर्थः । अथवा यो नास्ति ब्रह्मेति मन्यते, स सर्वस्यैव सन्मार्गस्य वर्णा­श्र­मा­दि­व्य­व­स्था­ल­क्ष­णस्य नास्तित्वं प्रतिपद्यते ; ब्रह्म­प्र­ति­प­त्त्य­र्थ­त्वा­त्तस्य । अतः नास्तिकः सः असन् असाधुरुच्यते लोके । तद्विपरीतः सन् यः अस्ति ब्रह्मेति चेद्वेद, स तद्ब्र­ह्म­प्र­ति­प­त्ति­हेतुं सन्मार्गं वर्णा­श्र­मा­दि­व्य­व­स्था­ल­क्षणं श्रद्दधानतया यथा­व­त्प्र­ति­प­द्यते यस्मात् , ततः तस्मात् सन्तं साधुमार्गस्थम् एनं विदुः साधवः । तस्मादस्तीत्येव ब्रह्म प्रति­प­त्त­व्य­मिति वाक्यार्थः । तस्य पूर्वस्य विज्ञानमयस्य एष एव शरीरे विज्ञानमये भवः शारीरः आत्मा । कोऽसौ ? य एष आनन्दमयः । तं प्रति नास्त्याशङ्का नास्तित्वे । अपो­ढ­स­र्व­वि­शे­ष­त्वात्तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता ; सर्वसाम्याच्च ब्रह्मणः । यस्मादेवम् , अतः तस्मात् अथ अनन्तरं श्रोतुः शिष्यस्य अनुप्रश्नाः आचार्योक्तिमनु एते प्रश्नाः । सामान्यं हि ब्रह्म आका­शा­दि­का­र­ण­त्वात् विदुषः अविदुषश्च ; अतः अविदुषोऽपि ब्रह्म­प्रा­प्ति­रा­श­ङ्क्यते - उत अपि अविद्वान् अमुं लोकं परमात्मानम् इतः प्रेत्य कश्चन, चनशब्दः अप्यर्थे, अविद्वानपि गच्छति प्राप्नोति ? ‘किं वा न गच्छति ? ’इति द्वितीयोऽपि प्रश्नो द्रष्टव्यः, अनुप्रश्ना इति बहुवचनात् । विद्वांसं प्रत्यन्यौ प्रश्नौ - यद्य­वि­द्वा­न्सा­मान्यं कारणमपि ब्रह्म न गच्छति, अतो विदुषोऽपि ब्रह्मा­ग­म­न­मा­श­ङ्क्यते ; अतस्तं प्रति प्रश्नः - आहो विद्वानिति । उकारं च वक्ष्य­मा­ण­म­ध­स्ता­द­प­कृष्य तकारं च पूर्व­स्मा­दु­त­श­ब्दा­द्व्या­सज्य आहो इत्ये­त­स्मा­त्पू­र्व­मु­त­शब्दं संयोज्य पृच्छति - उताहो विद्वानिति । विद्वान् ब्रह्मविदपि कश्चित् इतः प्रेत्य अमुं लोकं समश्नुते प्राप्नोति । समश्नुते उ इत्येवं स्थिते, अयादेशे यलोपे च कृते, अकारस्य प्लुतिः - समश्नुता ३ उ इति । विद्वा­न्स­म­श्नुते अमुं लोकम् ; किं वा, यथा अविद्वान् , एवं विद्वानपि न समश्नुते इत्यपरः प्रश्नः । द्वावेव वा प्रश्नौ विद्व­द­वि­द्व­द्वि­षयौ ; बहुवचनं तु साम­र्थ्य­प्रा­प्त­प्र­श्ना­न्त­रा­पे­क्षया घटते । ‘असद् ब्रह्मेति वेद चेत्’ ‘अस्ति ब्रह्मेति चेद्वेद’ इति श्रवणादस्ति नास्तीति संशयः । ततः अर्थप्राप्तः किमस्ति नास्तीति प्रथ­मोऽ­नु­प्रश्नः । ब्रह्मणः अपक्षपातित्वात् अविद्वान्गच्छति न गच्छतीति द्वितीयः । ब्रह्मणः समत्वेऽपि अविदुष इव विदु­षोऽ­प्य­ग­म­न­मा­शङ्क्य किं विद्वा­न्स­म­श्नुते न समश्नुते इति तृती­योऽ­नु­प्रश्नः ॥

एतेषां प्रतिवचनार्थ उत्तरो ग्रन्थ आरभ्यते । तत्र अस्तित्वमेव तावदुच्यते । यच्चोक्तम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति, तत्र च कथं सत्य­त्व­मि­त्ये­त­द्व­क्त­व्य­मिति इदमुच्यते । सत्त्वोक्त्यैव सत्यत्वमुच्यते । उक्तं हि सदेव सत्यमिति ; तस्मा­त्स­त्त्वो­क्त्यैव सत्यत्वमुच्यते । कथमेवमर्थता अवगम्यते अस्य ग्रन्थस्य ? शब्दानुगमात् । अनेनैव ह्यर्थे­ना­न्वि­तानि उत्तरवाक्यानि - ‘तत्स­त्य­मि­त्या­च­क्षते’(तै. उ. २ । ६ । १) ‘यदेष आकाश आनन्दो न स्यात्’(तै. उ. २ । ७ । १) इत्यादीनि । तत्र असदेव ब्रह्मे­त्या­श­ङ्क्यते । कस्मात् ? यदस्ति, तद्विशेषतो गृह्यते ; यथा घटादि । यन्नास्ति, तन्नोपलभ्यते ; यथा शशविषाणादि । तथा नोपलभ्यते ब्रह्म ; तस्माद्विशेषतः अग्र­ह­णा­न्ना­स्तीति । तन्न, आका­शा­दि­का­र­ण­त्वा­द्ब्र­ह्मणः । न नास्ति ब्रह्म । कस्मात् ? आकाशादि हि सर्वं कार्यं ब्रह्मणो जातं गृह्यते ; यस्माच्च जायते किञ्चित् , तदस्तीति दृष्टं लोके, यथा घटा­ङ्कु­रा­दि­का­रणं मृद्बीजादि ; तस्मा­दा­का­शा­दि­का­र­ण­त्वा­दस्ति ब्रह्म । न चासतो जातं किञ्चिद्गृह्यते लोके कार्यम् । अस­त­श्चे­न्ना­म­रू­पादि कार्यम् , निरा­त्म­क­त्वा­न्नो­प­ल­भ्येत ; उपलभ्यते तु ; तस्मादस्ति ब्रह्म । असतश्चेत्कार्यं गृह्यमाणमपि असदन्वितमेव स्यात् ; न चैवम् ; तस्मादस्ति ब्रह्म । तत्र ‘कथमसतः सज्जायेत’(छा. उ. ६ । २ । २) इति श्रुत्यन्तरमसतः सज्ज­न्मा­स­म्भ­व­म­न्वा­चष्टे न्यायतः । तस्मात्सदेव ब्रह्मेति युक्तम् । तद्यदि मृद्बीजादिवत् कारणं स्यात् , अचेतनं तर्हि । न ; कामयितृत्वात् । न हि काम­यि­त्र­चे­त­न­मस्ति लोके । सर्वज्ञं हि ब्रह्मेत्यवोचाम ; अतः काम­यि­तृ­त्वो­प­पत्तिः । काम­यि­तृ­त्वा­द­स्म­दा­दि­व­द­ना­प्त­का­म­मिति चेत् , न ; स्वातन्त्र्यात् । यथा अन्या­न्प­र­व­शी­कृत्य कामादिदोषाः प्रवर्तयन्ति, न तथा ब्रह्मणः प्रवर्तकाः कामाः । कथं तर्हि ? सत्य­ज्ञा­न­ल­क्षणाः स्वात्म­भू­त­त्वा­द्वि­शुद्धाः । न तैर्ब्रह्म प्रवर्त्यते ; तेषां तु तत्प्रवर्तकं ब्रह्म प्राणि­क­र्मा­पे­क्षया । तस्मा­त्स्वा­तन्त्र्यं कामेषु ब्रह्मणः ; अतो न अनाप्तकामं ब्रह्म । साध­ना­न्त­रा­न­पे­क्ष­त्वाच्च । यथा अन्ये­षा­म­ना­त्म­भूता धर्मा­दि­नि­मि­त्ता­पेक्षाः कामाः स्वात्म­व्य­ति­रि­क्त­का­र्य­क­र­ण­सा­ध­ना­न्त­रा­पे­क्षाश्च, न तथा ब्रह्मणः । किं तर्हि ? स्वात्म­नोऽ­नन्याः । तदेतदाह - सोऽकामयत । सः आत्मा यस्मादाकाशः सम्भूतः, अकामयत कामितवान् । कथम् ? बहु प्रभूतं स्यां भवेयम् । कथ­मे­क­स्या­र्था­न्त­रा­न­नु­प्र­वेशे बहुत्वं स्यादिति, उच्यते - प्रजायेय उत्पद्येय । न हि पुत्रो­त्प­त्ते­रि­वा­र्था­न्त­र­वि­षयं बहुभवनम् । कथं तर्हि ? आत्म­स्था­न­भि­व्य­क्त­ना­म­रू­पा­भि­व्यक्त्या । यदा आत्मस्थे अनभिव्यक्ते नामरूपे व्याक्रियेते, तदा आत्म­स्व­रू­पा­प­रि­त्या­गे­नैव ब्रह्मणः अप्र­वि­भ­क्त­दे­श­काले सर्वावस्थासु व्याक्रियेते । तदे­त­न्ना­म­रू­प­व्या­क­रणं ब्रह्मणो बहुभवनम् । नान्यथा निरवयवस्य ब्रह्मणो बहु­त्वा­प­त्ति­रु­प­प­द्यते अल्पत्वं वा, यथा आकाशस्याल्पत्वं बहुत्वं च वस्त्व­न्त­र­कृ­त­मेव । अतः तद्द्वा­रे­णै­वात्मा बहु भवति । न ह्यात्म­नोऽ­न्य­द­ना­त्म­भूतं तत्प्र­वि­भ­क्त­दे­श­कालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते । अतः नामरूपे सर्वावस्थे ब्रह्म­णै­वा­त्म­वती । न ब्रह्म तदात्मकम् । ते तत्प्र­त्या­ख्याने न स्त एवेति तदात्मके उच्येते । ताभ्यां च उपाधिभ्यां ज्ञातृ­ज्ञे­य­ज्ञा­न­श­ब्दा­र्था­दि­स­र्व­सं­व्य­व­हा­र­भा­ग्ब्रह्म । सः आत्मा एवंकामः सन् तपः अतप्यत । तप इति ज्ञानमुच्यते, ‘यस्य ज्ञानमयं तपः’(मु. उ. १ । १ । ८) इति श्रुत्यन्तरात् । आप्तकामत्वाच्च इतरस्य असम्भव एव तपसः । तत्तपः अतप्यत तप्तवान् , सृज्य­मा­न­ज­ग­द्र­च­ना­दि­वि­ष­या­मा­लो­च­ना­म­क­रो­दा­त्मे­त्यर्थः । सः एवमालोच्य तपः तप्त्वा प्राणि­क­र्मा­दि­नि­मि­त्ता­नु­रू­पम् इदं सर्वं जगत् देशतः कालतः नाम्ना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वा­व­स्थै­र­नु­भू­य­मा­नम् असृजत सृष्टवान् । यदिदं किञ्च यत्कि­ञ्चे­द­म­वि­शि­ष्टम् , तत् इदं जगत् सृष्ट्वा, किमकरोदिति, उच्यते - तदेव सृष्टं जगत् अनुप्राविशदिति ॥

तत्रै­त­च्चि­न्त्यम् - कथ­म­नु­प्रा­वि­श­दिति । किम् , यः स्रष्टा, स तेनै­वा­त्म­ना­नु­प्रा­वि­शत् , उत अन्येनेति ? किं तावद्युक्तम् ? क्त्वाप्र­त्य­य­श्र­व­णात् , यः स्रष्टा, स एवा­नु­प्रा­वि­श­दिति । ननु न युक्तं मृद्व­च्चे­त्का­रणं ब्रह्म, तदा­त्म­क­त्वा­त्का­र्यस्य, कारणमेव हि कार्यात्मना परिणमते ; अतः अप्रविष्टस्यैव कार्यो­त्प­त्ते­रूर्ध्वं पृथक्कारणस्य पुनः प्रवे­शोऽ­नु­प­पन्नः । न हि घट­प­रि­णा­म­व्य­ति­रे­केण मृदो घटे प्रवेशोऽस्ति । यथा घटे चूर्णात्मना मृदोऽनुप्रवेशः, एवमनेन आत्मना नामरूपकार्ये अनुप्रवेश आत्मनः इति चेत् , श्रुत्यन्तराच्च ‘अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य’(छा. उ. ६ । ३ । २) इति ; नैवं युक्तम् , एक­त्वा­द्ब्र­ह्मणः । मृदा­त्म­न­स्त्व­ने­क­त्वात् सावयवत्वाच्च युक्तो घटे मृद­श्चू­र्णा­त्म­ना­नु­प्र­वेशः, मृदश्चूर्णस्य अप्र­वि­ष्ट­दे­श­त्वाच्च । न त्वात्मन एकत्वे सति निर­व­य­व­त्वा­द­प्र­वि­ष्ट­दे­शा­भा­वाच्च प्रवेश उपपद्यते ; कथं तर्हि प्रवेशः स्यात् ? युक्तश्च प्रवेशः, श्रुतत्वात् - ‘तदे­वा­नु­प्रा­वि­शत्’ इति । सावयवमेवास्तु ; तर्हि सावयवत्वात् मुखो हस्तप्रवेशवत् नामरूपकार्ये जीवा­त्म­ना­नु­प्र­वेशो युक्त एवेति चेत् , न ; अशून्यदेशत्वात् । न हि कार्यात्मना परिणतस्य नाम­रू­प­का­र्य­दे­श­व्य­ति­रे­केण आत्मशून्यः प्रदेशोऽस्ति, यं प्रवि­शे­ज्जी­वा­त्मना । कारणमेव चेत्प्रविशेत् , जीवात्मत्वं जह्यात् , यथा घटो मृत्प्रवेशे घटत्वं जहाति । ‘तदे­वा­नु­प्रा­वि­शत्’ इति च श्रुतेर्न कारणानुप्रवेशो युक्तः । कार्यान्तरमेव स्यादिति चेत् - तदे­वा­नु­प्रा­वि­श­दिति जीवात्मरूपं कार्यं नामरूपपरिणतं कार्यान्तरमेव आपद्यत इति चेत् , न ; विरोधात् । न हि घटो घटा­न्त­र­मा­प­द्यते, व्यति­रे­क­श्रु­ति­वि­रो­धाच्च । जीवस्य नाम­रू­प­का­र्य­व्य­ति­रे­का­नु­वा­दिन्यः श्रुतयो विरुध्येरन् ; तदापत्तौ मोक्षासम्भवाच्च । न हि यतो मुच्यमानः, तदेव आपद्यते । न हि शृङ्खलापत्तिः बद्धस्य तस्करादेः । बाह्या­न्त­र्भे­देन परिणतमिति चेत् - तदेव कारणं ब्रह्म शरी­रा­द्या­धा­र­त्वेन तद­न्त­र्जी­वा­त्मना आधेयत्वेन च परिणतमिति चेत् , न ; बहिष्ठस्य प्रवेशोपपत्तेः । न हि यो यस्यान्तःस्थः स एव तत्प्रविष्ट उच्यते । बहि­ष्ठ­स्या­नु­प्र­वेशः स्यात् , प्रवे­श­श­ब्दा­र्थ­स्यैवं दृष्टत्वात् - यथा गृहं कृत्वा प्राविशदिति । जल­सू­र्य­का­दि­प्र­ति­बि­म्ब­वत् प्रवेशः स्यादिति चेत् , न ; अप­रि­च्छि­न्न­त्वा­द­मू­र्त­त्वाच्च । परिच्छिन्नस्य मूर्तस्यान्यस्य अन्यत्र प्रसादस्वभावके जलादौ सूर्य­का­दि­प्र­ति­बि­म्बो­दयः स्यात् , न त्वात्मनः ; अमूर्तत्वात् , आकाशादिकारणस्य आत्मनः व्यापकत्वात् । तद्वि­प्र­कृ­ष्ट­दे­श­प्र­ति­बि­म्बा­धा­र­व­स्त्व­न्त­रा­भा­वाच्च प्रति­बि­म्ब­व­त्प्र­वेशो न युक्तः । एवं तर्हि नैवास्ति प्रवेशः ; न च गत्य­न्त­र­मु­प­ल­भा­महे, ‘तदे­वा­नु­प्रा­वि­शत्’ इति श्रुतेः । श्रुतिश्च नोऽती­न्द्रि­य­वि­षये विज्ञानोत्पत्तौ निमित्तम् । न चास्मा­द्वा­क्यात् यत्नवतामपि विज्ञा­न­मु­त्प­द्यते । हन्त तर्ह्य­न­र्थ­क­त्वा­द­पो­ह्य­मे­त­द्वा­क्यम् ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’ इति ; न, अन्यार्थत्वात् । किमर्थमस्थाने चर्चा ? प्रकृतो ह्यन्यो विवक्षितोऽस्य वाक्यार्थः अस्ति ; स स्मर्तव्यः - ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) ‘यो वेद निहितं गुहायाम्’(तै. उ. २ । १ । १) इति । तद्विज्ञानं च विवक्षितम् ; प्रकृतं च तत् । ब्रह्म­स्व­रू­पा­व­ग­माय च आका­शा­द्य­न्न­म­यान्तं कार्यं प्रदर्शितम् ; ब्रह्मावगमश्च आरब्धः । तत्र अन्न­म­या­दा­त्म­नोऽ­न्योऽ­न्तर आत्मा प्राणमयः ; तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायां प्रवेशितः ; तत्र च आनन्दमयो विशिष्ट आत्मा प्रदर्शितः । अतः पर­मा­न­न्द­म­य­लि­ङ्गा­धि­ग­म­द्वा­रेण आन­न्द­वि­वृ­द्ध्य­व­सान आत्मा । ब्रह्म पुच्छं प्रतिष्ठा सर्व­वि­क­ल्पा­स्पदो निर्वि­क­ल्पोऽ­स्या­मेव गुहा­या­म­धि­ग­न्तव्य इति तत्प्रवेशः प्रकल्प्यते । न ह्यन्य­त्रो­प­ल­भ्यते ब्रह्म, निर्विशेषत्वात् ; विशेषसम्बन्धो ह्युप­ल­ब्धि­हे­तु­र्दृष्टः - यथा राहो­श्च­न्द्रा­र्क­वि­शे­ष­स­म्बन्धः । एव­म­न्तः­क­र­ण­गु­हा­त्म­स­म्बन्धो ब्रह्मण उपलब्धिहेतुः, संनिकर्षात् , अव­भा­सा­त्म­क­त्वाच्च अन्तःकरणस्य । यथा च आलो­क­वि­शि­ष्ट­घ­टा­द्यु­प­लब्धिः, एवं बुद्धि­प्र­त्य­या­लो­क­वि­शि­ष्टा­त्मो­प­लब्धिः स्यात् , तस्मात् उपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव । तद्वृ­त्ति­स्था­नीये त्विह पुन­स्त­त्सृष्ट्वा तदे­वा­नु­प्रा­वि­श­दि­त्यु­च्यते ॥

देवे­द­मा­का­शा­दि­का­रणं कार्यं सृष्ट्वा तद­नु­प्र­वि­ष्ट­मि­वा­न्त­र्गु­हायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञा­त्रि­त्येवं विशेषवदुपलभ्यते । स एव तस्य प्रवेशः ; तस्मादस्ति तत्कारणं ब्रह्म । अतः अस्ति­त्वा­द­स्ती­त्ये­वो­प­ल­ब्धव्यं तत् । तत् कार्य­म­नु­प्र­विश्य ; किम् ? सच्च मूर्तं त्यच्च अमूर्तम् अभवत् । मूर्तामूर्ते ह्यव्या­कृ­त­ना­म­रूपे आत्मस्थे अन्तर्गतेन आत्मना व्याक्रियेते मूर्ता­मू­र्त­श­ब्द­वाच्ये । ते आत्मना त्वप्र­वि­भ­क्त­दे­श­काले इति कृत्वा आत्मा ते अभवदित्युच्यते । किं च, निरुक्तं चानिरुक्तं च, निरुक्तं नाम निष्कृष्य समा­ना­स­मा­न­जा­ती­येभ्यः देश­का­ल­वि­शि­ष्ट­तया इदं तदित्युक्तम् ; अनिरुक्तं तद्विपरीतम् ; निरु­क्ता­नि­रुक्ते अपि मूर्ता­मू­र्त­यो­रेव विशेषणे । यथा सच्च त्यच्च प्रत्य­क्ष­प­रोक्षे, तथा निलयनं चानिलयनं च । निलयनं नीडम् आश्रयः मूर्तस्यैव धर्मः ; अनिलयनं तद्विपरीतम् अमूर्तस्यैव धर्मः । त्यद­नि­रु­क्ता­नि­ल­य­नानि अमू­र्त­ध­र्म­त्वेऽपि व्याकृ­त­वि­ष­या­ण्येव, सर्गो­त्त­र­का­ल­भा­व­श्र­व­णात् । त्यदिति प्राणा­द्य­नि­रुक्तं तदेवानिलयनं च । अतो विशेषणानि अमूर्तस्य व्याकृ­त­वि­ष­या­ण्ये­वै­तानि । विज्ञानं चेतनम् ; अविज्ञानं तद्रहितमचेतनं पाषाणादि । सत्यं च व्यवहारविषयम् , अधिकारात् ; न परमार्थसत्यम् ; एकमेव हि परमार्थसत्यं ब्रह्म । इह पुनः व्यव­हा­र­वि­ष­य­मा­पे­क्षिकं सत्यम् , मृग­तृ­ष्णि­का­द्य­नृ­ता­पे­क्षया उदकादि सत्यमुच्यते । अनृतं च तद्विपरीतम् । किं पुनः ? एतत्सर्वमभवत् , सत्यं परमार्थसत्यम् ; किं पुनस्तत् ? ब्रह्म, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति प्रकृतत्वात् । यस्मात् , सत्त्यदादिकं मूर्ता­मू­र्त­ध­र्म­जातं यत्किञ्चेदं सर्वमविशिष्टं विकारजातमेकमेव सच्छब्दवाच्यं ब्रह्माभवत् , तद्व्य­ति­रे­के­णा­भा­वा­न्ना­म­रू­प­वि­का­रस्य, तस्मात् तत् ब्रह्म सत्य­मि­त्या­च­क्षते ब्रह्मविदः । अस्ति नास्ती­त्य­नु­प्रश्नः प्रकृतः ; तस्य प्रतिवचनविषये एतदुक्तम् - ‘आत्माकामयत बहु स्याम्’ इति । स यथाकामं च आकाशादिकार्यं सत्त्य­दा­दि­ल­क्षणं सृष्ट्वा तदनुप्रविश्य पश्य­ञ्शृ­ण्व­न्म­न्वानो विजानन् बह्वभवत् ; तस्मात् तदे­वे­द­मा­का­शा­दि­का­रणं कार्यस्थं परमे व्योमन् हृदयगुहायां निहितं तत्प्र­त्य­या­व­भा­स­वि­शे­षे­णो­प­ल­भ्य­मा­न­म­स्ती­त्येवं विजा­नी­या­दि­त्युक्तं भवति । तत् एतस्मिन्नर्थे ब्राह्मणोक्ते एषः श्लोकः मन्त्रः भवति । यथा पूर्वे­ष्व­न्न­म­या­द्या­त्म­प्र­का­शकाः पञ्चस्वपि, एवं सर्वा­न्त­र­त­मा­त्मा­स्ति­त्व­प्र­का­श­कोऽपि मन्त्रः कार्यद्वारेण भवति ॥

इति षष्ठा­नु­वा­क­भा­ष्यम् ॥

सप्तमोऽनुवाकः

असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वयमकुरुत । तस्मा­त्त­त्सु­कृ­त­मु­च्यत इति । यद्वै तत्सुकृतम् । रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति । यदा ह्येवैष एत­स्मि­न्न­दृ­श्येऽ­ना­त्म्येऽ­नि­रु­क्तेऽ­नि­ल­य­नेऽ­भयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एत­स्मि­न्नु­द­र­म­न्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदु­षोऽ­म­न्वा­नस्य । तदप्येष श्लोको भवति ॥ १ ॥

असद्वा इदमग्र आसीत् । असदिति व्याकृ­त­ना­म­रू­प­वि­शे­ष­वि­प­री­त­रू­पम् अव्याकृतं ब्रह्म उच्यते ; न पुन­र­त्य­न्त­मे­वा­सत् । न ह्यसतः सज्जन्मास्ति । इदम् इति नाम­रू­प­वि­शे­ष­व­द्व्या­कृतं जगत् ; अग्रे पूर्वं प्रागुत्पत्तेः ब्रह्मैव अस­च्छ­ब्द­वा­च्य­मा­सीत् । ततः असतः वै सत् प्रवि­भ­क्त­ना­म­रू­प­वि­शे­षम् अजायत उत्पन्नम् । किं ततः प्रविभक्तं कार्यमिति - पितुरिव पुत्रः ? नेत्याह । तत् असच्छब्दवाच्यं स्वयमेव आत्मानमेव अकुरुत कृतवत् । यस्मादेवम् , तस्मात् तत् ब्रह्मैव सुकृतं स्वयं कर्तृ उच्यते । स्वयं कर्तृ ब्रह्मेति प्रसिद्धं लोके सर्वकारणत्वात् । यस्माद्वा स्वयमकरोत्सर्वं सर्वात्मना, तस्मा­त्पु­ण्य­रू­पे­णापि तदेव ब्रह्म कारणं सुकृतम् उच्यते । सर्वथापि तु फल­स­म्ब­न्धा­दि­का­रणं सुकृतशब्दवाच्यं प्रसिद्धं लोके । यदि पुण्यं यदि वा अन्यत् सा प्रसिद्धिः नित्ये चेतनकारणे सति उपपद्यते, तस्मादस्ति ब्रह्म, सुकृ­त­प्र­सि­द्धे­रिति । इतश्चास्ति ; कुतः ? रसत्वात् । कुतो रस­त्व­प्र­सि­द्धि­र्ब्र­ह्मण इत्यत आह - यद्वै तत्सुकृतं रसो वै सः । रसो नाम तृप्तिहेतुः आनन्दकरो मधुराम्लादिः प्रसिद्धो लोके । रसमेव हि अयं लब्ध्वा प्राप्य आनन्दी सुखी भवति । नासत आनन्दहेतुत्वं दृष्टं लोके । बाह्या­न­न्द­सा­ध­न­र­हिता अपि अनीहा निरेषणा ब्राह्मणा बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसः ; नूनं ब्रह्मैव रसस्तेषाम् । तस्मादस्ति तत्ते­षा­मा­न­न्द­का­रणं रसवद्ब्रह्म । इतश्चास्ति ; कुतः ? प्राण­ना­दि­क्रि­या­द­र्श­नात् । अयमपि हि पिण्डो जीवतः प्राणेन प्राणिति अपानेन अपानिति । एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्य­क­र­णै­र्नि­र्व­र्त्य­माना दृश्यन्ते । तच्चै­का­र्थ­वृ­त्ति­त्वेन संहननं नान्तरेण चेतनमसंहतं सम्भवति, अन्य­त्रा­द­र्श­नात् । तदाह - यत् यदि एषः आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यात् न भवेत् , को ह्येव लोके अन्यात् अपानचेष्टां कुर्यादित्यर्थः । कः प्राण्यात् प्राणनं वा कुर्यात् ; तस्मादस्ति तद्ब्रह्म, यदर्थाः कार्य­क­र­ण­प्रा­ण­ना­दि­चेष्टाः ; तत्कृत एव च आनन्दो लोकस्य । कुतः ? एष ह्येव पर आत्मा आनन्दयाति आनन्दयति सुखयति लोकं धर्मानुरूपम् । स एवात्मा आन­न्द­रू­पोऽ­वि­द्यया परिच्छिन्नो विभाव्यते प्राणि­भि­रि­त्यर्थः । भया­भ­य­हे­तु­त्वा­द्वि­द्व­द­वि­दु­षो­रस्ति तद्ब्रह्म । सद्व­स्त्वा­श्र­य­णेन हि अभयं भवति ; नास­द्व­स्त्वा­श्र­य­णेन भय­नि­वृ­त्ति­रु­प­प­द्यते । कथ­म­भ­य­हे­तु­त्व­मिति, उच्यते - यदा ह्येव यस्मात् एषः साधकः एतस्मिन् ब्रह्मणि - किंविशिष्टे ? अदृश्ये दृश्यं नाम द्रष्टव्यं विकारः, दर्श­ना­र्थ­त्वा­द्वि­का­रस्य ; न दृश्यम् अदृश्यम् , अविकार इत्यर्थः । एतस्मिन्नदृश्ये अवि­का­रेऽ­वि­ष­य­भूते, अनात्म्ये अशरीरे, यस्माददृश्यं तस्मादनात्म्यम् , यस्मादनात्म्यं तस्मादनिरुक्तम् ; विशेषो हि निरुच्यते ; विशेषश्च विकारः ; अविकारं च ब्रह्म, सर्व­वि­का­र­हे­तु­त्वात् ; तस्मात् अनिरुक्तम् । यत एवम् , तस्मादनिलयनं निलयनं नीड आश्रयः न निलयनम् अनिलयनम् अनाधारं तस्मिन् एतस्मिन् अदृ­श्येऽ­ना­त्म्येऽ­नि­रु­क्तेऽ­नि­ल­यने सर्व­का­र्य­ध­र्म­वि­ल­क्षणे ब्रह्मणीति वाक्यार्थः । अभयमिति क्रियाविशेषणम् । अभयामिति वा लिङ्गान्तरं परिणम्यते । प्रतिष्ठां स्थितिमात्मभावं विन्दते लभते । अथ तदा सः तस्मि­न्ना­ना­त्वस्य भय­हे­तो­र­वि­द्या­कृ­त­स्या­द­र्श­ना­द­भयं गतो भवति । स्वरूपप्रतिष्ठो ह्यसौ यदा भवति, तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति । अन्यस्य ह्यन्यतो भयं भवति, न आत्मन एव आत्मनो भयं युक्तम् ; तस्मात् आत्मैव आत्मनः अभयकारणम् । सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते सत्सु भयहेतुषु ; तच्चायुक्तमसति भयत्राणे ब्रह्मणि । तस्मा­त्ते­षा­म­भ­य­द­र्श­ना­दस्ति तदभयकारणं ब्रह्मेति । कदा असौ अभयं गतो भवति साधकः ? यदा नान्यत्पश्यति आत्मनि च अन्तरं भेदं न कुरुते, तदा अभयं गतो भवतीत्यभिप्रायः । यदा पुन­र­वि­द्या­व­स्थायां हि यस्मात् एषः अविद्यावान् अविद्यया प्रत्यु­प­स्था­पितं वस्तु तैमि­रि­क­द्वि­ती­य­च­न्द्र­व­त्प­श्य­त्या­त्मनि च एतस्मिन् ब्रह्मणि, उत अपि, अरम् अल्पमपि, अन्तरं छिद्रं भेददर्शनं कुरुते ; भेददर्शनमेव हि भयकारणम् ; अल्पमपि भेदं पश्यतीत्यर्थः । अथ तस्मा­द्भे­द­द­र्श­ना­द्धेतोः तस्य भेददर्शिनः आत्मनो भयं भवति । तस्मा­दा­त्मै­वा­त्मनो भयकारणमविदुषः ; तदेतदाह - तत् ब्रह्म त्वेव भयं भेददर्शिनो विदुषः ईश्वरोऽन्यो मत्तः अहमन्यः संसा­री­त्ये­वं­वि­दुषः भेद­दृ­ष्ट­मी­श्व­राख्यं तदेव ब्रह्म अल्पमप्यन्तरं कुर्वतः भयं भवति एकत्वेन अमन्वानस्य । तस्मात् विद्वा­न­प्य­वि­द्वा­ने­वासौ, योऽय­मे­क­म­भि­न्न­मा­त्म­तत्त्वं न पश्यति । उच्छे­द­हे­तु­द­र्श­ना­द्ध्यु­च्छे­द्या­भि­म­तस्य भयं भवति ; अनुच्छेद्यो ह्युच्छेदहेतुः ; तत्र असत्युच्छेदहेतौ उच्छेद्ये न तद्दर्शनकार्यं भयं युक्तम् । सर्वं च जग­द्भ­य­व­द्दृ­श्यते । तस्माज्जगतो भय­द­र्श­ना­द्ग­म्यते - नूनं तदस्ति भय­का­र­ण­मु­च्छे­द­हे­तु­र­नु­च्छे­द्या­त्म­कम् , यतो जगद्बिभेतीति । तत् एत­स्मि­न्न­प्यर्थे एषः श्लोकः भवति ॥

इति सप्त­म­नु­वा­क­भा­ष्यम् ॥

अष्टमोऽनुवाकः

भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषा­स्मा­द­ग्नि­श्चे­न्द्रश्च । मृत्युर्धावति पञ्चम इति । सैषानन्दस्य मीमां सा भवति । युवा स्यात्सा­धु­यु­वा­ध्या­यकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १ ॥

स एको मनु­ष्य­ग­न्ध­र्वा­णा­मा­नन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनु­ष्य­ग­न्ध­र्वा­णा­मा­नन्दाः । स एको देव­ग­न्ध­र्वा­णा­मा­नन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देव­ग­न्ध­र्वा­णा­मा­नन्दाः । स एकः पितॄणां चिर­लो­क­लो­का­ना­मा­नन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितॄणां चिर­लो­क­लो­का­ना­मा­नन्दाः । स एक आजानजानां देवानामानन्दः ॥ २ ॥

श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्यानन्दः ॥ ३ ॥

श्रोत्रियस्य चाकामहतस्य । ते ये शत­मि­न्द्र­स्या­नन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृह­स्प­ते­रा­नन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजा­प­ते­रा­नन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहातस्य ॥ ४ ॥

भीषा भयेन अस्मात् वातः पवते । भीषोदेति सूर्यः । भीषा अस्मात् अग्नि­श्चे­न्द्रश्च । मृत्युर्धावति पञ्चम इति । वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पव­ना­दि­का­र्ये­ष्वा­या­स­ब­हु­लेषु नियताः प्रवर्तन्ते ; तद्युक्तं प्रशास्तरि सति ; यस्मात् नियमेन तेषां प्रवर्तनम् , तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म । यतस्ते भृत्या इव राज्ञः अस्मात् ब्रह्मणः भयेन प्रवर्तन्ते तच्च भयकारणमानन्दं ब्रह्म । तस्य अस्य ब्रह्मणः आनन्दस्य एषा मीमांसा विचारणा भवति । किमानन्दस्य मीमांस्यमिति, उच्यते - किमानन्दो विष­य­वि­ष­यि­स­म्ब­न्ध­ज­नितः लौकिकानन्दवत् , आहोस्वित् स्वाभाविकः, इत्येवमेषा आनन्दस्य मीमांसा ॥

तत्र लौकिक आनन्दो बाह्या­ध्या­त्मि­क­सा­ध­न­स­म्प­त्ति­नि­मित्त उत्कृष्टः । सः य एष निर्दिश्यते ब्रह्मा­न­न्दा­नु­ग­मा­र्थम् । अनेन हि प्रसिद्धेन आनन्देन व्यावृ­त्त­वि­ष­य­बु­द्धि­गम्य आनन्दोऽनुगन्तुं शक्यते । लौकि­कोऽ­प्या­नन्दः ब्रह्मा­न­न्द­स्यैव मात्रा ; अविद्यया तिरस्क्रियमाणे विज्ञाने उत्कृष्यमाणायां च अविद्यायां ब्रह्मादिभिः कर्मवशात् यथाविज्ञानं विष­या­दि­सा­ध­न­स­म्ब­न्ध­व­शाच्च विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः सम्पद्यते ; स एव अवि­द्या­का­म­क­र्मा­प­क­र्षेण मनु­ष्य­ग­न्ध­र्वा­द्यु­त्त­रो­त्त­र­भू­मिषु अका­म­ह­त­वि­द्व­च्छ्रो­त्रि­य­प्र­त्यक्षो विभाव्यते शत­गु­णो­त्त­रो­त्त­रो­त्क­र्षेण याव­द्धि­र­ण्य­ग­र्भस्य ब्रह्मण आनन्द इति ॥

निरस्ते त्वविद्याकृते विष­य­वि­ष­यि­वि­भागे, विद्यया स्वाभाविकः परिपूर्णः एकः आनन्दः अद्वैतः भवतीत्येतमर्थं विभावयिष्यन्नाह - युवा प्रथमवयाः ; साधुयुवेति साधुश्चासौ युवा चेति यूनो विशेषणम् ; युवा­प्य­सा­धु­र्भ­वति साधुरप्ययुवा, अतो विशेषणं युवा स्यात्सा­धु­यु­वेति ; अध्यायकः अधीतवेदः । आशिष्ठः आशास्तृतमः ; दृढिष्ठः दृढतमः ; बलिष्ठः बलवत्तमः ; एव­मा­ध्या­त्मि­क­सा­ध­न­स­म्पन्नः । तस्येयं पृथिवी उर्वी सर्वा वित्तस्य वित्ते­नो­प­भो­ग­सा­ध­नेन दृष्टा­र्थे­ना­दृ­ष्टा­र्थेन च कर्मसाधनेन सम्पन्ना पूर्णा राजा पृथि­वी­प­ति­रि­त्यर्थः । तस्य च य आनन्दः, सः एकः मानुषः मनुष्याणां प्रकृष्टः एक आनन्दः । ते ये शतं मानुषा आनन्दाः, स एको मनु­ष्य­ग­न्ध­र्वा­णा­मा­नन्दः ; मानुषानन्दात् शत­गु­णे­नो­त्कृष्टः मनु­ष्य­ग­न्ध­र्वा­णा­मा­नन्दः भवति । मनुष्याः सन्तः कर्म­वि­द्या­वि­शे­षात् गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः । ते ह्यन्त­र्धा­ना­दि­श­क्ति­स­म्पन्नाः सूक्ष्म­का­र्य­क­रणाः ; तस्मा­त्प्र­ति­घा­ता­ल्पत्वं तेषां द्वन्द्व­प्र­ति­घा­त­श­क्ति­सा­ध­न­स­म्प­त्तिश्च । ततः अप्र­ति­ह­न्य­मा­नस्य प्रतीकारवतः मनु­ष्य­ग­न्ध­र्वस्य स्याच्चि­त्त­प्र­सादः । तत्प्र­सा­द­वि­शे­षा­त्सु­ख­वि­शे­षा­भि­व्यक्तिः । एवं पूर्वस्याः पूर्वस्या भूमे­रु­त्त­र­स्या­मु­त्त­रस्यां भूमौ प्रसादविशेषतः शतगुणेन आनन्दोत्कर्ष उपपद्यते । प्रथमं तु अकामहताग्रहणं मनु­ष्य­वि­ष­य­भो­ग­का­मा­न­भि­ह­तस्य श्रोत्रियस्य मनुष्यानन्दात् शतगुणेन आनन्दोत्कर्षः मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम् । साधुयुवा अध्यायक इति श्रोत्रि­य­त्वा­वृ­जि­नत्वे गृह्येते । ते ह्यविशिष्टे सर्वत्र । अकामहतत्वं तु विष­यो­त्क­र्षा­प­क­र्षतः सुखो­त्क­र्षा­प­क­र्षाय विशेष्यते । अतः अकामहतग्रहणम् , तद्विशेषतः शत­गु­ण­सु­खो­त्क­र्षो­प­लब्धेः अकामहतत्वस्य पर­मा­न­न्द­प्रा­प्ति­सा­ध­न­त्व­वि­धा­ना­र्थम् । व्याख्यातमन्यत् । देवगन्धर्वा जातित एव । चिर­लो­क­लो­का­ना­मिति पितॄणां विशेषणम् । चिरकालस्थायी लोको येषां पितॄणाम् , ते चिरलोकलोका इति । आजान इति देवलोकः तस्मिन्नाजाने जाता आजानजा देवाः, स्मार्त­क­र्म­वि­शे­षतो देवस्थानेषु जाताः । कर्मदेवा ये वैदिकेन कर्मणा अग्निहोत्रादिना केवलेन देवानपियन्ति । देवा इति त्रय­स्त्रिं­श­द्ध­वि­र्भुजः ; इन्द्रस्तेषां स्वामी ; तस्य आचार्यो बृहस्पतिः । प्रजापतिः विराट् त्रैलोक्यशरीरो ब्रह्मा सम­ष्टि­व्य­ष्टि­रूपः संसा­र­म­ण्ड­ल­व्यापी । यत्रैते आनन्दभेदा एकतां गच्छन्ति, धर्मश्च तन्निमित्तः ज्ञानं च तद्विषयम् अकामहतत्वं च निरतिशयं यत्र, स एष हिरण्यगर्भो ब्रह्मा, तस्यैष आनन्दः श्रोत्रियेण अवृजिनेन अकामहतेन च सर्वतः प्रत्य­क्ष­मु­प­ल­भ्यते । तस्मादेतानि त्रीणि साध­ना­नी­त्य­व­ग­म्यते । तत्र श्रोत्रि­य­त्वा­वृ­जि­नत्वे नियते अकामहतत्वं तु उत्कृष्यत इति प्रकृष्टसाधनता अवगम्यते । तस्य अका­म­ह­त­त्व­प्र­क­र्ष­त­श्चो­प­ल­भ्य­मानः श्रोत्रि­य­प्र­त्यक्षो ब्रह्मण आनन्दः यस्य परमानन्दस्य मात्रा एकदेशः, ‘एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति’(बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । स एष आनन्दः - यस्य मात्रा समुद्राम्भस इव विप्रुषः प्रविभक्ताः यत्रैकतां गताः - स एष परमानन्दः स्वाभाविकः, अद्वैतात् ; आन­न्दा­न­न्दि­नोश्च अविभागोऽत्र ॥

तदे­त­न्मी­मां­सा­फ­ल­मु­प­सं­ह्रि­यते -

स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्मा­ल्लो­का­त्प्रेत्य । एत­म­न्न­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति । एतं प्राण­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति । एतं मनो­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति । एतं विज्ञा­न­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति । एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति । तदप्येष श्लोको भवति ॥ ५ ॥

स यश्चायं पुरुष इति । यः गुहायां निहितः परमे व्योम्नि आकाशादिकार्यं सृष्ट्वा अन्नमयान्तम् , तदे­वा­नु­प्र­विष्टः, सः य इति निश्चीयते । कोऽसौ ? अयं पुरुषे । यश्चासावादित्ये यः परमानन्दः श्रोत्रि­य­प्र­त्यक्षो निर्दिष्टः, यस्यैकदेशं ब्रह्मादीनि भूतानि सुखा­र्हा­ण्यु­प­जी­वन्ति, सः यश्चासावादित्ये इति निर्दिश्यते । स एकः भिन्न­प्र­दे­श­घ­टा­का­शा­का­शै­क­त्व­वत् । ननु तन्निर्देशे स यश्चायं पुरुष इत्य­वि­शे­ष­तोऽ­ध्यात्मं न युक्तो निर्देशः ; यश्चायं दक्षि­णेऽ­क्ष­न्निति तु युक्तः, प्रसिद्धत्वात् । न, पराधिकारात् । परो ह्यात्मा अत्र अधिकृतः ‘अदृ­श्येऽ­नात्म्ये’ ‘भीषास्माद्वातः पवते’ ‘सैषानन्दस्य मीमांसा’ इति । न हि अकस्मादप्रकृतो युक्तो निर्देष्टुम् ; परमात्मविज्ञानं च विवक्षितम् । तस्मात् पर एव निर्दिश्यते - स एक इति । नन्वानन्दस्य मीमांसा प्रकृता ; तस्या अपि फल­मु­प­सं­ह­र्त­व्यम् । अभिन्नः स्वाभाविकः आनन्दः परमात्मैव, न विष­य­वि­ष­यि­स­म्ब­न्ध­ज­नित इति । ननु तदनुरूप एव अयं निर्देशः - ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’ इति भिन्ना­धि­क­र­ण­स्थ­वि­शे­षो­प­म­र्देन । नन्वे­व­म­प्या­दि­त्य­वि­शे­ष­ग्र­ह­ण­म­न­र्थ­कम् ; न अनर्थकम् , उत्क­र्षा­प­क­र्षा­पो­हा­र्थ­त्वात् । द्वैतस्य हि यो मूर्ता­मू­र्त­ल­क्ष­णस्य पर उत्कर्षः सवि­त्र­भ्य­न्त­र्गतः स चेत्पु­रु­ष­ग­त­वि­शे­षो­प­म­र्देन पर­मा­न­न्द­म­पेक्ष्य समो भवति, न कश्चि­दु­त्क­र्षोऽ­प­कर्षो वा तां गतिं गतस्येत्यभयं प्रतिष्ठां विन्दत इत्युपपन्नम् ॥

अस्ति नास्ती­त्य­नु­प्रश्नो व्याख्यातः । कार्य­र­स­ला­भ­प्रा­ण­ना­भ­य­प्र­ति­ष्ठा­भ­य­द­र्श­नो­प­प­त्ति­भ्योऽ­स्त्येव तदाकाशादिकारणं ब्रह्मे­त्य­पा­कृतः अनुप्रश्न एकः ; द्वाव­न्या­नु­प्रश्नौ विद्व­द­वि­दु­षो­र्ब्र­ह्म­प्रा­प्त्य­प्रा­प्ति­वि­षयौ ; तत्र विद्वा­न्स­म­श्नुते न समश्नुत इत्य­नु­प्र­श्नोऽन्त्यः ; तदपाकरणायोच्यते । मध्य­मोऽ­नु­प्रश्नः अन्त्या­पा­क­र­णा­देव अपाकृत इति तदपाकरणाय न यत्यते । स यः कश्चित् एवं यथोक्तं ब्रह्म उत्सृ­ज्यो­त्क­र्षा­प­क­र्ष­म­द्वैतं सत्यं ज्ञान­म­न­न्त­म­स्मी­त्येवं वेत्तीति एवंवित् ; एवंशब्दस्य प्रकृ­त­प­रा­म­र्शा­र्थ­त्वात् । स किम् ? अस्मा­ल्लो­का­त्प्रेत्य दृष्टा­दृ­ष्टे­ष्ट­वि­ष­य­स­मु­दायो हि अयं लोकः, तस्मा­द­स्मा­ल्लो­का­त्प्रेत्य प्रत्यावृत्य निरपेक्षो भूत्वा एतं यथाव्याख्यातम् अन्न­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति विष­य­जा­त­म­न्न­म­या­त्पि­ण्डा­त्मनो व्यतिरिक्तं न पश्यति, सर्वं स्थूल­भू­त­म­न्न­म­य­मा­त्मानं पश्यतीत्यर्थः । ततः अभ्यन्तरमेतं प्राणमयं सर्वा­न्न­म­या­त्म­स्थ­म­वि­भ­क्तम् । अथैतं मनोमयं विज्ञा­न­म­य­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति । अथा­दृ­श्येऽ­ना­त्म्येऽ­नि­रु­क्तेऽ­नि­ल­य­नेऽ­भयं प्रतिष्ठां विन्दते ॥

तत्रै­त­च्चि­न्त्यम् - कोऽयमेवंवित् , कथं वा सङ्क्रामतीति ; किं पर­स्मा­दा­त्म­नोऽन्यः सङ्क्रमणकर्ता प्रविभक्तः, उत स एवेति । किं ततः ? यद्यन्यः स्यात् , श्रुतिविरोधः - ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति । न स वेद’(बृ. उ. १ । ४ । १०) ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘तत्त्वमसि’(छा. उ. ६ । ८ । १६) इति । अथ स एव आन­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­म­तीति, कर्म­क­र्तृ­त्वा­नु­प­पत्तिः । परस्यैव च संसारित्वं पराभावो वा । यद्युभयथा प्राप्तो दोषो न परिहर्तुं शक्यत इति, व्यर्था चिन्ता । अथ अन्य­त­र­स्मि­न्पक्षे दोषाप्राप्तिः तृतीये वा पक्षे अदुष्टे, स एव शास्त्रार्थ इति व्यर्थैव चिन्ता ; न, तन्नि­र्धा­र­णा­र्थ­त्वात् । सत्यं प्राप्तो दोषो न शक्यः परि­ह­र्तु­म­न्य­त­र­स्मिन् तृतीये वा पक्षे अदुष्टे अवधृते व्यर्था चिन्ता स्यात् ; न तु सोऽवधृत इति तद­व­धा­र­णा­र्थ­त्वा­द­र्थ­व­त्ये­वैषा चिन्ता । सत्यमर्थवती चिन्ता, शास्त्रा­र्था­व­धा­र­णा­र्थ­त्वात् । चिन्तयसि च त्वम् , न तु निर्णेष्यसि ; किं न निर्णेतव्यमिति वेदवचनम् ? न ; कथं तर्हि ? बहु­प्र­ति­प­क्ष­त्वात् ; एकत्ववादी त्वम् , वेदार्थपरत्वात् ; बहवो हि नानात्ववादिनो वेदबाह्याः त्वत्प्र­ति­पक्षाः ; अतो ममाशङ्का - न निर्णेष्यसीति । एतदेव मे स्वस्त्ययनम् - यन्मा­मे­क­यो­गि­न­म­ने­क­यो­गि­ब­हु­प्र­ति­प­क्ष­मात्थ । अतो जेष्यामि सर्वान् ; आरभे च चिन्ताम् ॥

स एव तु स्यात् , तद्भावस्य विवक्षितत्वात् । तद्विज्ञानेन परमात्मभावो हि अत्र विवक्षितः - ‘ब्रह्म­वि­दा­प्नोति परम्’ इति । न हि अन्यस्य अन्य­भा­वा­प­त्ति­रु­प­प­द्यते । ननु तस्यापि तद्भा­वा­प­त्ति­र­नु­प­प­न्नैव । न, अवि­द्या­कृ­ता­ना­त्मा­पो­हा­र्थ­त्वात् । या हि ब्रह्मविद्यया स्वात्म­प्रा­प्ति­रु­प­दि­श्यते, सा अविद्याकृतस्य अन्ना­दि­वि­शे­षा­त्मनः आत्म­त्वे­ना­ध्या­रो­पि­तस्य अनात्मनः अपोहार्था । कथमेवमर्थता अवगम्यते ? विद्या­मा­त्रो­प­दे­शात् । विद्यायाश्च दृष्टं कार्य­म­वि­द्या­नि­वृत्तिः ; तच्चेह विद्या­मा­त्र­मा­त्म­प्राप्तौ साधनमुपदिश्यते । मार्ग­वि­ज्ञा­नो­प­दे­श­व­दिति चेत् , तदात्मत्वे विद्या­मा­त्र­सा­ध­नो­प­दे­शोऽ­हेतुः । कस्मात् ? देशा­न्त­र­प्राप्तौ मार्ग­वि­ज्ञा­नो­प­दे­श­द­र्श­नात् । न हि ग्राम एव गन्तेति चेत् , न ; वैधर्म्यात् । तत्र हि ग्रामविषयं नोपदिश्यते, तत्प्रा­प्ति­मा­र्ग­वि­ष­य­मे­वो­प­दि­श्यते विज्ञानम् ; न तथेह ब्रह्म­वि­ज्ञा­न­व्य­ति­रे­केण साधनान्तरविषयं विज्ञा­न­मु­प­दि­श्यते । उक्त­क­र्मा­दि­सा­ध­ना­पेक्षं ब्रह्मविज्ञानं परप्राप्तौ साधनमुपदिश्यत इति चेत् , न ; नित्य­त्वा­न्मो­क्ष­स्ये­त्या­दिना प्रत्यु­क्त­त्वात् । श्रुतिश्च ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’ इति कार्यस्य तदात्मत्वं दर्शयति । अभ­य­प्र­ति­ष्ठो­प­प­त्तेश्च । यदि हि विद्यावान् स्वात्म­नोऽ­न्यन्न पश्यति, ततः अभयं प्रतिष्ठां विन्दत इति स्यात् , भयहेतोः परस्य अन्यस्य अभावात् । अन्यस्य च अविद्याकृतत्वे विद्यया अव­स्तु­त्व­द­र्श­नो­प­पत्तिः ; तद्धि द्वितीयस्य चन्द्रस्य असत्त्वम् , यदतैमिरिकेण चक्षुष्मता न गृह्यते ; नैवं न गृह्यत इति चेत् , न ; सुषु­प्त­स­मा­हि­त­यो­र­ग्र­ह­णात् । सुषु­प्तेऽ­ग्र­ह­ण­म­न्या­स­क्त­व­दिति चेत् , न ; सर्वाग्रहणात् । जाग्र­त्स्व­प्न­यो­र­न्यस्य ग्रह­णा­त्स­त्त्व­मे­वेति चेत् , न ; अवि­द्या­कृ­त­त्वात् जाग्र­त्स्व­प्नयोः ; यदन्यग्रहणं जाग्र­त्स्व­प्नयोः, तदविद्याकृतम् , विद्याभावे अभावात् । सुषुप्ते अग्रहणमपि अविद्याकृतमिति चेत् , न ; स्वाभाविकत्वात् । द्रव्यस्य हि तत्त्व­म­वि­क्रिया, परानपेक्षत्वात् ; विक्रिया न तत्त्वम् , परापेक्षत्वात् । न हि कारकापेक्षं वस्तु­न­स्त­त्त्वम् ; सतो विशेषः कारकापेक्षः, विशेषश्च विक्रिया ; जाग्र­त्स्व­प्न­योश्च ग्रहणं विशेषः । यद्धि यस्य नान्यापेक्षं स्वरूपम् , तत्तस्य तत्त्वम् ; यदन्यापेक्षम् , न तत्तत्त्वम् ; अन्याभावे अभावात् । तस्मात् स्वाभाविकत्वात् जाग्र­त्स्व­प्न­वत् न सुषुप्ते विशेषः । येषां पुनरीश्वरो अन्य आत्मनः, कार्यं च अन्यत् , तेषां भयानिवृत्तिः, भयस्य अन्य­नि­मि­त्त­त्वात् ; सतश्च अन्यस्य आत्म­हा­ना­नु­प­पत्तिः । न च असत आत्मलाभः । सापेक्षस्य अन्यस्य भयहेतुत्वमिति चेत् , न ; तस्यापि तुल्यत्वात् । यद्ध­र्मा­द्य­नु­स­हा­यी­भूतं नित्यमनित्यं वा निमित्तमपेक्ष्य अन्यद्भयकारणं स्यात् , तस्यापि तथाभूतस्य आत्महानाभावात् भयानिवृत्तिः ; आत्महाने वा सद­स­तो­रि­त­रे­त­रा­पत्तौ सर्वत्र अनाश्वास एव । एकत्वपक्षे पुनः सनिमित्तस्य संसारस्य अवि­द्या­क­ल्पि­त­त्वा­द­दोषः । तैमिरिकदृष्टस्य हि द्विती­य­च­न्द्रस्य न आत्मलाभो नाशो वा अस्ति । विद्याविद्ययोः तद्धर्मत्वमिति चेत् , न ; प्रत्यक्षत्वात् । विवेकाविवेकौ रूपादिवत् प्रत्य­क्षा­वु­प­ल­भ्येते अन्तःकरणस्थौ । न हि रूपस्य प्रत्यक्षस्य सतो द्रष्ट्ट­ध­र्म­त्वम् । अविद्या च स्वानुभवेन रूप्यते - मूढोऽहम् अविविक्तं मम विज्ञानम् इति । तथा विद्याविवेको अनुभूयते । उपदिशन्ति च अन्येभ्य आत्मनो विद्यां बुधाः । तथा च अन्ये अवधारयन्ति । तस्मात् नामरूपपक्षस्यैव विद्याविद्ये नामरूपे च ; न आत्मधर्मौ, ‘नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म’(छा. उ. ८ । १४ । १) इति श्रुत्यन्तरात् । ते च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते ; न परमार्थतो विद्यमाने । अभेदे ‘एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’(तै. उ. २ । ८ । ५) इति कर्म­क­र्तृ­त्वा­नु­प­प­त्ति­रिति चेत् , न ; विज्ञा­न­मा­त्र­त्वात् सङ्क्रमणस्य । न जलूकादिवत् सङ्क्र­म­ण­मि­हो­प­दि­श्यते ; किं तर्हि, विज्ञानमात्रं सङ्क्र­म­ण­श्रु­ते­रर्थः । ननु मुख्यमेव सङ्क्रमणं श्रूयते - उपसङ्क्रामतीति इति चेत् , न ; अन्नमये अदर्शनात् । न हि अन्न­म­य­मु­प­स­ङ्क्रा­मतः बाह्या­द­स्मा­ल्लो­कात् जलूकावत् सङ्क्रमणं दृश्यते, अन्यथा वा । मनोमयस्य बहिर्निर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्या आत्म­स­ङ्क्र­म­ण­मिति चेत् , न ; स्वात्मनि क्रियाविरोधात् । अन्योऽ­न्न­म­य­म­न्य­मु­प­स­ङ्क्रा­म­तीति प्रकृत्य मनोमयो विज्ञानमयो वा स्वात्मा­न­मे­वो­प­स­ङ्क्रा­म­तीति विरोधः स्यात् । तथा न आनन्दमयस्य आत्म­स­ङ्क्र­म­ण­मु­प­प­द्यते । तस्मात् न प्राप्तिः सङ्क्रमणम् ; नापि अन्न­म­या­दी­ना­म­न्य­त­म­क­र्तृकं पारि­शे­ष्या­द­न्न­म­या­द्या­न­न्द­म­या­न्ता­त्म­व्य­ति­रि­क्त­क­र्तृकं ज्ञानमात्रं च सङ्क्र­म­ण­मु­प­प­द्यते । ज्ञानमात्रत्वे च आन­न्द­म­या­न्तः­स्थ­स्यैव सर्वान्तरस्य आका­शा­द्य­न्न­म­यान्तं कार्यं सृष्ट्वा अनुप्रविष्टस्य हृद­य­गु­हा­भि­स­म्ब­न्धा­द­न्न­म­या­दिषु अनात्मसु आत्मविभ्रमः सङ्क्र­म­णा­त्म­क­वि­वे­क­वि­ज्ञा­नो­त्पत्त्या विनश्यति । तदे­त­स्मि­न्न­वि­द्या­वि­भ्र­म­नाशे सङ्क्रमणशब्द उपचर्यते ; न हि अन्यथा सर्वगतस्य आत्मनः सङ्क्र­म­ण­मु­प­प­द्यते । वस्त्व­न्त­रा­भा­वाच्च । न च स्वात्मन एव सङ्क्रमणम् । न हि जलूका आत्मानमेव सङ्क्रामति । तस्मात् सत्यं ज्ञानमनन्तं ब्रह्मेति यथो­क्त­ल­क्ष­णा­त्म­प्र­ति­प­त्त्य­र्थ­मेव बहु­भ­व­न­स­र्ग­प्र­वे­श­र­स­ला­भा­भ­य­स­ङ्क्र­म­णादि परिकल्प्यते ब्रह्मणि सर्व­व्य­व­हा­र­वि­षये ; न तु परमार्थतो निर्विकल्पे ब्रह्मणि कश्चिदपि विकल्प उपपद्यते । तमेतं निर्वि­क­ल्प­मा­त्मा­नम् एवं क्रमे­णो­प­स­ङ्क्रम्य विदित्वा न बिभेति कुतश्चन अभयं प्रतिष्ठां विन्दत इत्ये­त­स्मि­न्न­र्थेऽपि एषः श्लोकः भवति । सर्वस्यैव अस्य प्रकरणस्य आन­न्द­व­ल्ल्य­र्थस्य सङ्क्षेपतः प्रकाशनाय एष मन्त्रो भवति ॥

इति अष्ट­मा­नु­वा­क­भा­ष्यम् ॥

नवमोऽनुवाकः

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति । एतं ह वाव न तपति । किमहं साधु ना करवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानं स्पृणुते । उभे ह्येवैष एते आत्मानं स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ १ ॥

यतः यस्मात् निर्विकल्पात् यथोक्तलक्षणात् अद्वयानन्दात् आत्मनः, वाचः अभिधानानि द्रव्या­दि­स­वि­क­ल्प­व­स्तु­वि­ष­याणि वस्तु­सा­मा­न्या­न्नि­र्वि­कल्पे अद्वयेऽपि ब्रह्मणि प्रयोक्तृभिः प्रकाशनाय प्रयुज्यमानानि, अप्राप्य अप्रकाश्यैव निवर्तन्ते स्वसा­म­र्थ्या­द्धी­यन्ते । मन इति प्रत्ययो विज्ञानम् । तच्च, यत्राभिधानं प्रवृ­त्त­म­ती­न्द्रि­येऽ­प्यर्थे, तदर्थे च प्रवर्तते प्रकाशनाय । यत्र च विज्ञानम् , तत्र वाचः प्रवृत्तिः । तस्मात् सहैव वाङ्मनसयोः अभिधानप्रत्ययोः प्रवृत्तिः सर्वत्र । तस्मात् ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचः यस्मा­द­प्र­त्य­य­वि­ष­या­द­न­भि­धे­या­द­दृ­श्या­दि­वि­शे­ष­णात् सहैव मनसा विज्ञानेन सर्व­प्र­का­श­न­स­म­र्थेन निवर्तन्ते, तं ब्रह्मण आनन्दं श्रोत्रियस्य अवृजिनस्य अकामहतस्य सर्वै­ष­णा­वि­नि­र्मु­क्तस्य आत्मभूतं विष­य­वि­ष­यि­स­म्ब­न्ध­वि­नि­र्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं ब्रह्मणो विद्वान् यथोक्तेन विधिना न बिभेति कुतश्चन, निमित्ताभावात् । न हि तस्माद्विदुषः अन्य­द्व­स्त्व­न्त­र­मस्ति भिन्नं यतो बिभेति । अविद्यया यदा उदरमन्तरं कुरुते, अथ तस्य भयं भवतीति हि युक्तम् । विदुषश्च अविद्याकार्यस्य तैमि­रि­क­दृ­ष्ट­द्वि­ती­य­च­न्द्र­वत् नाशा­द्भ­य­नि­मि­त्तस्य न बिभेति कुतश्चनेति युज्यते । मनोमये च उदाहृतः मन्त्रः, मनसो ब्रह्म­वि­ज्ञा­न­सा­ध­न­त्वात् । तत्र ब्रह्म­त्व­म­ध्या­रोप्य तत्स्तुत्यर्थं न बिभेति कदाचनेति भयमात्रं प्रतिषिद्धम् ; इह अद्वैतविषये न बिभेति कुतश्चनेति भयनिमित्तमेव प्रतिषिध्यते । नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च । नैवम् । कथमिति, उच्यते - एतं यथोक्तमेवंविदम् , ह वाव इत्यवधारणार्थौ, न तपति नोद्वेजयति न सन्तापयति । कथं पुनः साध्वकरणं पापक्रिया च न तपतीति, उच्यते - किं कस्मात् साधु शोभनं कर्म नाकरवं न कृतवानस्मि इति पश्चात्सन्तापो भवति आसन्ने मरणकाले ; तथा किं कस्मात् पापं प्रतिषिद्धं कर्म अकरवं कृतवानस्मि इति च नर­क­प­त­ना­दि­दुः­ख­भ­यात् तापो भवति । ते एते साध्व­क­र­ण­पा­प­क्रिये एवमेनं न तपतः, यथा अविद्वांसं तपतः । कस्मा­त्पु­न­र्वि­द्वांसं न तपत इति, उच्यते - स य एवंविद्वान् एते साध्वसाधुनी तापहेतू इति आत्मानं स्पृणुते प्रीणाति बलयति वा, परमात्मभावेन उभे पश्यतीत्यर्थः । उभे पुण्यपापे हि यस्मात् एवम् एष विद्वान् एते आत्मा­ना­त्म­रू­पे­णैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वा आत्मानं स्पृणुत एव । कः ? य एवं वेद यथो­क्त­म­द्वै­त­मा­नन्दं ब्रह्म वेद, तस्य आत्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके जन्मा­न्त­रा­र­म्भके न भवतः । इतीयम् एवं यथोक्ता अस्यां वल्ल्यां ब्रह्म­वि­द्यो­प­नि­षत् , सर्वाभ्यः विद्याभ्यः परमरहस्यं दर्शितमित्यर्थः - परं श्रेयः अस्यां निषण्णमिति ॥

इति नव­मा­नु­वा­क­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ तैत्ति­री­यो­प­नि­ष­द्भाष्ये ब्रह्मा­न­न्द­व­ल्ली­भाष्यं सम्पूर्णम् ॥