अद्वैतशारदा

तैत्तिरीयोपनिषद्भाष्यम्

भृगुवल्ली

व्याख्याः

प्रथमोऽनुवाकः

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

सत्यं ज्ञानमनन्तं ब्रह्म आका­शा­दि­का­र्य­म­न्न­म­यान्तं सृष्ट्वा तदे­वा­नु­प्र­विष्टं विशे­ष­व­दि­वो­प­ल­भ्य­मानं यस्मात् , तस्मात् सर्व­का­र्य­वि­ल­क्ष­णम् अदृ­श्या­दि­ध­र्म­क­मेव आनन्दं तदेवाहमिति विजानीयात् , अनुप्रवेशस्य तदर्थत्वात् ; तस्यैवं विजानतः शुभाशुभे कर्मणी जन्मा­न्त­रा­र­म्भके न भवतः इत्ये­व­मा­न­न्द­वल्ल्यां विवक्षितोऽर्थः । परिसमाप्ता च ब्रह्मविद्या । अतः परं ब्रह्म­वि­द्या­सा­धनं तपो वक्तव्यम् ; अन्नादिविषयाणि च उपा­स­ना­न्य­नु­क्ता­नी­त्यतः इदमारभ्यते -

भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तं होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्र­य­न्त्य­भि­सं­वि­शन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

आख्यायिका विद्यास्तुतये, प्रियाय पुत्राय पित्रोक्तेति - भृगुर्वै वारुणिः । वै - शब्दः प्रसि­द्धा­नु­स्मा­रकः, भृगुरित्येवं नामा प्रसिद्धो अनुस्मार्यते, वारुणिः वरुणस्यापत्यं वारुणिः वरुणं पितरं ब्रह्म विजिज्ञासुः उपससार उपगतवान् - अधीहि भगवो ब्रह्म इत्यनेन मन्त्रेण । अधीहि अध्यापय कथय । स च पिता विधिवदुपसन्नाय तस्मै पुत्राय एतत् वचनं प्रोवाच - अन्नं प्राणं चक्षुः श्रोत्रम् मनो वाचम् इति । अन्नं शरीरं तदभ्यन्तरं च प्राणम् अत्तारम् अन­न्त­र­मु­प­ल­ब्धि­सा­ध­नानि चक्षुः श्रोत्रं मनो वाचम् इत्येतानि ब्रह्मोपलब्धौ द्वारा­ण्यु­क्त­वान् । उक्त्वा च द्वार­भू­ता­न्ये­ता­न्य­न्ना­दीनि तं भृगुं होवाच ब्रह्मणो लक्षणम् । किं तत् ? यतः यस्मात् वा इमानि ब्रह्मादीनि स्तम्ब­प­र्य­न्तानि भूतानि जायन्ते, येन जातानि जीवन्ति प्राणा­न्धा­र­यन्ति वर्धन्ते, विनाशकाले च यत्प्रयन्ति यद्ब्रह्म प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रतिपद्यन्ते, उत्प­त्ति­स्थि­ति­ल­य­का­लेषु यदात्मतां न जहति भूतानि, तदेतद्ब्रह्मणो लक्षणम् , तद्ब्रह्म विजिज्ञासस्व विशेषेण ज्ञातुमिच्छस्व ; यदेवंलक्षणं ब्रह्म तदन्नादिद्वारेण प्रति­प­द्य­स्वे­त्यर्थः । श्रुत्यन्तरं च - ‘प्राणस्य प्राणमुत चक्षु­ष­श्च­क्षु­रुत श्रोत्रस्य श्रोत्र­म­न्न­स्यान्नं मनसो ये मनो विदुस्ते निचि­क्यु­र्ब्रह्म पुराणमग्र्यम्’(बृ. उ. ४ । ४ । १८) इति ब्रह्मोपलब्धौ द्वारा­ण्ये­ता­नीति दर्शयति । स भृगुः ब्रह्मो­प­ल­ब्धि­द्वा­राणि ब्रह्मलक्षणं च श्रुत्वा पितुः, तपो ब्रह्मो­प­ल­ब्धि­सा­ध­न­त्वेन अतप्यत तप्तवान् । कुतः पुन­र­नु­प­दि­ष्ट­स्यैव तपसः साध­न­त्व­प्र­ति­प­त्ति­र्भृगोः ? सावशेषोक्तेः । अन्नादिब्रह्मणः प्रतिपत्तौ द्वारं लक्षणं च यतो वा इमानि इत्या­द्यु­क्त­वान् । सावशेषं हि तत् , साक्षा­द्ब्र­ह्म­णोऽ­नि­र्दे­शात् । अन्यथा हि स्वरूपेणैव ब्रह्म निर्देष्टव्यं जिज्ञासवे पुत्राय इदमित्थंरूपं ब्रह्म इति ; न चैवं निरदिशत् ; किं तर्हि, साव­शे­ष­मे­वो­क्त­वान् । अतोऽवगम्यते नूनं साध­ना­न्त­र­म­प्य­पे­क्षते पिता ब्रह्मविज्ञानं प्रतीति । तपो­वि­शे­ष­प्र­ति­प­त्तिस्तु सर्व­सा­ध­क­त­म­त्वात् ; सर्वेषां हि निय­त­सा­ध्य­वि­ष­याणां साधनानां तप एव साधकतमं साधनमिति हि प्रसिद्धं लोके । तस्मात् पित्रा अनुपदिष्टमपि ब्रह्म­वि­ज्ञा­न­सा­ध­न­त्वेन तपः प्रतिपेदे भृगुः । तच्च तपो बाह्या­न्तः­क­र­ण­स­मा­धा­नम् , तद्द्वा­र­क­त्वा­द्ब्र­ह्म­प्र­ति­पत्तेः, ‘मन­स­श्चे­न्द्रि­याणां च ह्यैकाग्र्यं परमं तपः । तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते’ इति स्मृतेः । स च तपस्तप्त्वा ॥

इति प्रथ­मा­नु­वा­क­भा­ष्यम् ॥

द्वितीयोऽनुवाकः

अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रय­न्त्य­भि­सं­वि­श­न्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

अन्नं ब्रह्मेति व्यजानात् विज्ञातवान् । तद्धि यथो­क्त­ल­क्ष­णो­पे­तम् । कथम् ? अन्नाद्ध्येव खलु इमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रय­न्त्य­भि­सं­वि­श­न्तीति । तस्मा­द्यु­क्त­म­न्नस्य ब्रह्म­त्व­मि­त्य­भि­प्रायः । स एवं तपस्तप्त्वा, अन्नं ब्रह्मेति विज्ञाय लक्षणेन उपपत्त्या च पुनरेव संशयमापन्नः वरुणं पितरमुपससार - अधीहि भगवो ब्रह्मेति । कः पुनः संश­य­हे­तु­र­स्येति, उच्यते - अन्न­स्यो­त्प­त्ति­द­र्श­नात् । तपसः पुनः पुनरुपदेशः साध­ना­ति­श­य­त्वा­व­धा­र­णार्थः । यावद्ब्रह्मणो लक्षणं निरतिशयं न भवति, यावच्च जिज्ञासा न निवर्तते, तावत्तप एव ते साधनम् ; तपसैव ब्रह्म विजि­ज्ञा­स­स्वे­त्यर्थः । ऋज्वन्यत् ॥

इति द्विती­या­नु­वा­क­भा­ष्यम् ॥

तृतीयोऽनुवाकः

प्राणो ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रय­न्त्य­भि­सं­वि­श­न्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीही भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

इति तृतीयोऽनुवाकः ॥

चतुर्थोऽनुवाकः

मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रय­न्त्य­भि­सं­वि­श­न्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

इति चतुर्थोऽनुवाकः ॥

पञ्चमोऽनुवाकः

विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रय­न्त्य­भि­सं­वि­श­न्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

इति पञ्चमोऽनुवाकः ॥

षष्ठोऽनुवाकः

आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रय­न्त्य­भि­सं­वि­श­न्तीति । सैषा भार्गवी वारुणी विद्या । परमे व्योमन् प्रतिष्ठिता । स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति । प्रजया पशु­भि­र्ब्र­ह्म­व­र्च­सेन । महान् कीर्त्या ॥ १ ॥

एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्रह्म­ल­क्ष­ण­म­प­श्यन् शनैः शनैः अन्तरनुप्रविश्य अन्तरतममानन्दं ब्रह्म विज्ञातवान् तपसैव साधनेन भृगुः ; तस्मात् ब्रह्म विजिज्ञासुना बाह्या­न्तः­क­र­ण­स­मा­धा­न­ल­क्षणं परमं तपः साध­न­म­नु­ष्ठे­य­मिति प्रकरणार्थः । अधुना आख्यायिकां च उपसंहृत्य श्रुतिः स्वेन वचनेन आख्या­यि­का­नि­र्व­र्त्य­म­र्थ­मा­चष्टे । सैषा भार्गवी भृगुणा विदिता वरुणेन प्रोक्ता वारुणी विद्या परमे व्योमन् हृदयाकाशगुहायां परमे आनन्दे अद्वैते प्रतिष्ठिता परिसमाप्ता अन्न­म­या­दा­त्म­नोऽ­धि­प्र­वृत्ता । य एवमन्योऽपि तपसैव साधनेन अनेनैव क्रमेण अनुप्रविश्य आनन्दं ब्रह्म वेद, स एवं विद्या­प्र­ति­ष्ठा­नात् प्रतितिष्ठति आनन्दे परमे ब्रह्मणि, ब्रह्मैव भवतीत्यर्थः । दृष्टं च फलं तस्योच्यते - अन्नवान् प्रभूतमन्नमयस्य विद्यत इत्यन्नवान् ; सत्तामात्रेण तु सर्वो हि अन्नवानिति विद्याया विशेषो न स्यात् । एव­म­न्न­म­त्ती­त्य­न्नादः, दीप्ता­ग्नि­र्भ­व­ती­त्यर्थः । महान्भवति । केन महत्त्वमित्यत आह - प्रजया पुत्रादिना पशुभिः गवाश्वादिभिः ब्रह्मवर्चसेन शम­द­म­ज्ञा­ना­दि­नि­मि­त्तेन तेजसा । महान्भवति कीर्त्या ख्यात्या शुभा­चा­र­नि­मि­त्तया ॥

इति षष्ठा­नु­वा­क­भा­ष्यम् ॥

सप्तमोऽनुवाकः

अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति । प्रजया पशु­भि­र्ब्र­ह्म­व­र्च­सेन । महान् कीर्त्या ॥ १ ॥

किं च, अन्नेन द्वारभूतेन ब्रह्म विज्ञातं यस्मात् , तस्मात् गुरुमिव अन्नं न निन्द्यात् ; तत् अस्य एवं ब्रह्मविदो व्रतम् उपदिश्यते । व्रतोपदेशो अन्नस्तुतये, स्तुतिभाक्त्वं च अन्नस्य ब्रह्मो­प­ल­ब्ध्यु­पा­य­त्वात् । प्राणो वा अन्नम् , शरी­रा­न्त­र्भा­वा­त्प्रा­णस्य । यत् यस्यान्तः प्रतिष्ठितं भवति, तत्तस्यान्नं भवतीति । शरीरे च प्राणः प्रतिष्ठितः, तस्मात् प्राणोऽन्नं शरीरमन्नादम् । तथा शरीरमप्यन्नं प्राणोऽन्नादः । कस्मात् प्राणे शरीरं प्रतिष्ठितम् ? तन्नि­मि­त्त­त्वा­च्छ­री­र­स्थितेः । तस्मात् तदेतत् उभयं शरीरं प्राणश्च अन्नमन्नादश्च । येना­न्यो­न्य­स्मि­न्प्र­ति­ष्ठितं तेनान्नम् ; येनान्योन्यस्य प्रतिष्ठा तेनान्नादः । तस्मात् प्राणः शरीरं च उभयमन्नमन्नादं च । स य एवम् एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति अन्ना­न्ना­दा­त्म­नैव । किं च, अन्नवानन्नादो भवतीत्यादि पूर्ववत् ॥

इति सप्त­मा­नु­वा­क­भा­ष्यम् ॥

अष्टमोऽनुवाकः

अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशु­भि­र्ब्र­ह्म­व­र्च­सेन । महान्कीर्त्या ॥

अन्नं न परिचक्षीत न परिहरेत् । तद्व्रतं पूर्व­व­त्स्तु­त्य­र्थम् । तदेवं शुभाशुभकल्पनया अपरिह्रीयमाणं स्तुतं महीकृतमन्नं स्यात् । एवं यथो­क्त­मु­त्त­रे­ष्वपि आपो वा अन्नम् इत्यादिषु योजयेत् ॥

इति अष्ट­मा­नु­वा­क­भा­ष्यम् ॥

नवमोऽनुवाकः

अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशु­भि­र्ब्र­ह्म­व­र्च­सेन । महान्कीर्त्या ॥

अप्सु ज्योतिः इत्य­ब्ज्यो­ति­षो­र­न्ना­न्ना­द­गु­ण­त्वे­नो­पा­स­कस्य अन्नस्य बहुकरणं व्रतम् ॥

इति नव­मा­नु­वा­क­भा­ष्यम् ॥

दशमोऽनुवाकः

न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्न­मि­त्या­च­क्षते । एतद्वै मुखतोऽन्नं राद्धम् । मुखतोऽस्मा अन्नं राध्यते । एतद्वै मध्यतोऽन्नं राद्धम् । मध्यतोऽस्मा अन्नं राध्यते । एतद्वा अन्ततोऽन्नं राद्धम् । अन्ततोऽस्मा अन्नं राध्यते ॥ १ ॥

तथा पृथि­व्या­का­शो­पा­स­कस्य वसतौ वसतिनिमित्तं कञ्चन कञ्चिदपि न प्रत्याचक्षीत, वसत्यर्थमागतं न निवा­र­ये­दि­त्यर्थः । वासे च दत्ते अवश्यं हि अशनं दातव्यम् । तस्माद्यया कया च विधया येन केन च प्रकारेण बह्वन्नं प्राप्नुयात् बह्वन्नसङ्ग्रहं कुर्यादित्यर्थः । यस्मादन्नवन्तो विद्वांसः अभ्यागताय अन्नार्थिने अराधि संसिद्धम् अस्मै अन्नम् इत्याचक्षते, न नास्तीति प्रत्याख्यानं कुर्वन्ति, तस्माच्च हेतोः बह्वन्नं प्राप्नुयादिति पूर्वेण सम्बन्धः । अपि च अन्नदानस्य माहा­त्म्य­मु­च्यते - यथा यत्कालं प्रयच्छत्यन्नम् , तथा तत्कालमेव प्रत्युपनमते । कथमिति तदेतदाह - एतद्वै अन्नं मुखतः मुख्ये प्रथमे वयसि मुख्यया वा वृत्त्या पूजा­पु­रः­स­र­म­भ्या­ग­ता­या­न्ना­र्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः । तस्य किं फलं स्यादिति, उच्यते - मुखतः पूर्वे वयसि मुख्यया वा वृत्त्या अस्मै अन्नदाय अन्नं राध्यते ; यथा­द­त्त­मु­प­ति­ष्ठत इत्यर्थः । एवं मध्यतो मध्यमे वयसि मध्यमेन च उपचारेण ; तथा अन्ततः अन्ते वयसि जघन्येन च उपचारेण परिभवेन तथैवास्मै राध्यते संसिध्यत्यन्नम् ॥

य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥ २ ॥

य एवं वेद य एवमन्नस्य यथोक्तं माहात्म्यं वेद तद्दानस्य च फलम् , तस्य यथोक्तं फलमुपनमते । इदानीं ब्रह्मण उपासनप्रकारः उच्यते - क्षेम इति वाचि । क्षेमो नाम उपा­त्त­प­रि­र­क्ष­णम् । ब्रह्म वाचि क्षेमरूपेण प्रति­ष्ठि­त­मि­त्यु­पा­स्यम् । योगक्षेम इति, योगः अनु­पा­त्त­स्यो­पा­दा­नम् । तौ हि योगक्षेमौ प्राणापानयोः बलवतोः सतोर्भवतः यद्यपि, तथापि न प्राणा­पा­न­नि­मि­त्ता­वेव ; किं तर्हि, ब्रह्मनिमित्तौ । तस्माद्ब्रह्म योगक्षेमात्मना प्राणापानयोः प्रति­ष्ठि­त­मि­त्यु­पा­स्यम् । एव­मु­त्त­रे­ष्व­न्येषु तेन तेन आत्मना ब्रह्मै­वो­पा­स्यम् । कर्मणो ब्रह्म­नि­र्व­र्त्य­त्वात् हस्तयोः कर्मात्मना ब्रह्म प्रति­ष्ठि­त­मि­त्यु­पा­स्यम् । गतिरिति पादयोः । विमुक्तिरिति पायौ । इत्येता मानुषीः मनुष्येषु भवा मानुष्याः समाज्ञाः, आध्यात्मिक्यः समाज्ञा ज्ञानानि विज्ञा­ना­न्यु­पा­स­ना­नी­त्यर्थः । अथ अनन्तरं दैवीः दैव्यः देवेषु भवाः समाज्ञा उच्यन्ते । तृप्तिरिति वृष्टौ । वृष्टे­र­न्ना­दि­द्वा­रेण तृप्ति­हे­तु­त्वा­द्ब्र­ह्मैव तृप्त्यात्मना वृष्टौ व्यव­स्थि­त­मि­त्यु­पा­स्यम् ; तथा अन्येषु तेन तेनात्मना ब्रह्मै­वो­पा­स्यम् । तथा बलरूपेण विद्युति ॥

यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजा­ति­र­मृ­त­मा­नन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्र­ति­ष्ठे­त्यु­पा­सीत । प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान् भवति । तन्मन इत्युपासीत । मानवान् भवति ॥ ३ ॥

यशोरूपेण पशुषु । ज्योतीरूपेण नक्षत्रेषु । प्रजातिः अमृतम् अमृ­त­त्व­प्राप्तिः पुत्रेण ऋण­वि­मो­क्ष­द्वा­रेण आनन्दः सुख­मि­त्ये­त­त्स­र्व­मु­प­स्थ­नि­मित्तं ब्रह्मैव अनेनात्मना उपस्थे प्रति­ष्ठि­त­मि­त्यु­पा­स्यम् । सर्वं हि आकाशे प्रतिष्ठितम् ; अतो यत्सर्वमाकाशे तद्ब्र­ह्मै­वे­त्यु­पा­स्यम् ; तच्चाकाशं ब्रह्मैव । तस्मात् तत् सर्वस्य प्रति­ष्ठे­त्यु­पा­सीत । प्रति­ष्ठा­गु­णो­पा­स­नात् प्रतिष्ठावान् भवति । एवं सर्वेष्वपि । यद्यत्राधिगतं फलम् , तत् ब्रह्मैव ; तदु­पा­स­ना­त्त­द्वा­न्भ­व­तीति द्रष्टव्यम् ; श्रुत्यन्तराच्च - ‘तं यथा यथोपासते तदेव भवति’ इति । तन्मह इत्युपासीत । महः महत्त्वगुणवत् तदुपासीत । महान्भवति । तन्मन इत्युपासीत । मननं मनः । मानवान्भवति मननसमर्थो भवति ॥

तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्र­ह्मे­त्यु­पा­सीत । ब्रह्मवान् भवति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४ ॥

तन्नम इत्युपासीत नमनं नमः नमनगुणवत् तदुपासीत । नम्यन्ते प्रह्वीभवन्ति अस्मै उपासित्रे कामाः काम्यन्त इति भोग्या विषया इत्यर्थः । तद्ब्र­ह्मे­त्यु­पा­सीत । ब्रह्म परि­बृ­ढ­त­म­मि­त्यु­पा­सीत । ब्रह्मवान् तद्गुणो भवति । तद्ब्रह्मणः परिमर इत्युपासीत ब्रह्मणः परिमरः परि­म्रि­य­न्तेऽ­स्मि­न्पञ्च देवता विद्यु­द्वृ­ष्टि­श्च­न्द्रमा आदि­त्योऽ­ग्नि­रि­त्येताः । अतः वायुः परिमरः, श्रुत्य­न्त­र­प्र­सिद्धेः । स एवायं वायु­रा­का­शे­ना­नन्य इत्याकाशो ब्रह्मणः परिमरः ; तस्मादाकाशं वाय्वात्मानं ब्रह्मणः परिमर इत्युपासीत । एनम् एवंविदं प्रतिस्पर्धिनो द्विषन्तः ; अद्विषन्तोऽपि सपत्ना यतो भवन्ति, अतो विशेष्यन्ते द्विषन्तः सपत्ना इति । एनं द्विषन्तः सपत्नाः ते परिम्रियन्ते प्राणान् जहति । किं च, ये च अप्रिया अस्य भ्रातृव्या अद्विषन्तोऽपि ते च परिम्रियन्ते ॥

‘प्राणो वा अन्नं शरीरमन्नादम्’ इत्यारभ्य आकाशान्तस्य कार्यस्यैव अन्ना­न्ना­द­त्व­मु­क्तम् । उक्तं नाम - किं तेन ? तेनैतत्सिद्धं भवति - कार्यविषय एव भोज्य­भो­क्तृ­त्व­कृतः संसारः, न त्वात्मनीति । आत्मनि तु भ्रान्त्या उपचर्यते । नन्वात्मापि परमात्मनः कार्यम् , ततो युक्तः तस्य संसार इति ; न, असंसारिण एव प्रवेशश्रुतेः । ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) इत्या­का­शा­दि­का­र­णस्य हि असंसारिण एव परमात्मनः कार्ये­ष्व­नु­प्र­वेशः श्रूयते । तस्मा­त्का­र्या­नु­प्र­विष्टो जीव आत्मा पर एव असंसारी ; सृष्ट्वा अनुप्राविशदिति समा­न­क­र्तृ­त्वो­प­प­त्तेश्च । सर्ग­प्र­वे­श­क्रि­य­यो­श्चै­क­श्चे­त्कर्ता, ततः क्त्वाप्रत्ययो युक्तः । प्रविष्टस्य तु भावा­न्त­रा­प­त्ति­रिति चेत् , न ; प्रवे­श­स्या­न्या­र्थ­त्वेन प्रत्या­ख्या­त­त्वात् । ‘अनेन जीवेन आत्मना’(छा. उ. ६ । ३ । २) इति विशेषश्रुतेः धर्मा­न्त­रे­णा­नु­प्र­वेश इति चेत् , न ; ‘तत् त्वमसि’(छा. उ. ६। ८। १६)‘तत् त्वमसि’(छा. उ. ६ । ८ । १६) इति पुनः तद्भावोक्तेः। भावा­न्त­रा­प­न्न­स्यैव तदपोहार्था संपत् इति चेत् - न; ‘तत् सत्यम्’ ‘स आत्मा’ ‘तत् त्वमसि’ इति सामा­ना­धि­क­र­ण्यात् । दृष्टं जीवस्य संसारित्वमिति चेत् , न ; उप­ल­ब्धु­र­नु­प­ल­भ्य­त्वात् । संसा­र­ध­र्म­वि­शिष्ट आत्मोपलभ्यत इति चेत् , न ; धर्माणां धर्मि­णोऽ­व्य­ति­रे­कात् कर्म­त्वा­नु­प­पत्तेः । उष्ण­प्र­का­श­यो­र्दा­ह्य­प्र­का­श्य­त्वा­नु­प­प­त्ति­वत् त्रासा­दि­द­र्श­ना­द्दुः­खि­त्वा­द्य­नु­मी­यत इति चेत् , न ; त्रासा­दे­र्दुः­खस्य च उपलभ्यमानत्वात् नोप­ल­ब्धृ­ध­र्म­त्वम् । कापि­ल­का­णा­दा­दि­त­र्क­शा­स्त्र­वि­रोध इति चेत् , न ; तेषां मूलाभावे वेदविरोधे च भ्रान्त­त्वो­प­पत्तेः । श्रुत्यु­प­प­त्तिभ्यां च सिद्धम् आत्म­नोऽ­सं­सा­रि­त्वम् , एकत्वाच्च । कथमेकत्वमिति, उच्यते - स यश्चायं पुरुषे यश्चासावादित्ये स एकः इत्येवमादि पूर्ववत्सर्वम् ॥

स य एवंवित् । अस्मा­ल्लो­का­त्प्रेत्य । एत­म­न्न­म­य­मा­त्मा­न­मु­प­स­ङ्क्रम्य । एतं प्राण­म­य­मा­त्मा­न­मु­प­स­ङ्क्रम्य । एतं मनो­म­य­मा­त्मा­न­मु­प­स­ङ्क्रम्य । एतं विज्ञा­न­म­य­मा­त्मा­न­मु­प­स­ङ्क्रम्य । एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रम्य । इमां­ल्लो­का­न्का­मान्नी काम­रू­प्य­नु­स­ञ्च­रन् । एतत्साम गायन्नास्ते । हा३वु हा३वु हा३वु ॥ ५ ॥

अन्नमयादिक्रमेण आन­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रम्य एतत्साम गायन्नास्ते । ‘सत्यं ज्ञानम्’ इत्यस्या ऋचः अर्थः व्याख्यातः विस्तरेण तद्विवरणभूतया आनन्दवल्ल्या । ‘सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’(तै. उ. २ । १ । १) इति तस्य फलवचनस्य अर्थविस्तारो नोक्तः । के ते ? किंविषया वा सर्वे कामाः ? कथं वा ब्रह्मणा सह समश्नुते ? - इत्ये­त­द्व­क्त­व्य­मि­ती­द­मि­दा­नी­मा­र­भ्यते । तत्र पिता­पु­त्रा­ख्या­यि­कायां पूर्व­वि­द्या­शे­ष­भू­तायां तपः ब्रह्म­वि­द्या­सा­ध­न­मु­क्तम् । प्राणा­दे­रा­का­शा­न्तस्य च कार्यस्य अन्नान्नादत्वेन विनियोगश्च उक्तः ; ब्रह्म­वि­ष­यो­पा­स­नानि च । ये च सर्वे कामाः प्रति­नि­य­ता­ने­क­सा­ध­न­साध्या आका­शा­दि­का­र्य­भे­द­वि­षयाः, एते दर्शिताः । एकत्वे पुनः काम­का­मि­त्वा­नु­प­पत्तिः, भेदजातस्य सर्वस्य आत्मभूतत्वात् । तत्र कथं युग­प­द्ब्र­ह्म­स्व­रू­पेण सर्वान्कामान् एवंवित्समश्नुत इति, उच्यते - सर्वा­त्म­त्वो­प­पत्तेः । कथं सर्वा­त्म­त्वो­प­प­त्ति­रिति, आह - पुरु­षा­दि­त्य­स्था­त्मै­क­त्व­वि­ज्ञा­ने­ना­पो­ह्यो­त्क­र्षा­प­क­र्षा­व­न्न­म­या­दी­न्आ­त्म­नोऽ­वि­द्या­क­ल्पि­तान् क्रमेण सङ्क्रम्य आनन्दमयान्तान् सत्यं ज्ञानमनन्तं ब्रह्म अदृश्यादिधर्मकं स्वाभा­वि­क­मा­न­न्द­म­ज­म­मृ­त­म­भ­य­म­द्वैतं फलभूतमापन्नः इमँ­ल्लो­का­न्भू­रा­दी­न­नु­स­ञ्च­र­न्निति व्यवहितेन सम्बन्धः । कथमनुसञ्चरन् ? कामान्नी काम­तोऽ­न्न­म­स्येति कामान्नी ; तथा कामतो रूपाण्यस्येति कामरूपी ; अनुसञ्चरन् सर्वात्मना इमान् लोकानात्मत्वेन अनुभवन् । किम् ? एतत्साम गायन्नास्ते । सम­त्वा­द्ब्र­ह्मैव साम सर्वानन्यरूपं गायन् शब्दयन् आत्मैकत्वं प्रख्यापयन् लोकानुग्रहार्थं तद्विज्ञानफलं च अतीव कृतार्थत्वं गायन् आस्ते तिष्ठति । कथम् ? हा३वु हा३वु हा३वु । अहो इत्ये­त­स्मि­न्न­र्थेऽ­त्य­न्त­वि­स्म­य­ख्या­प­ना­र्थम् ॥

कः पुनरसौ विस्मय इति, उच्यते -

अह­म­न्न­म­ह­म­न्न­म­ह­म­न्नम् । अह­म­न्ना­दो३ऽ­ह­म­न्ना­दो३ऽ­ह­म­न्नादः । अहं श्लोककृदहं श्लोककृदहं श्लोककृत् । अहमस्मि प्रथमजा ऋता३स्य । पूर्वं देवेभ्योऽमृतस्य ना३भायि । यो मा ददाति स इदेव मा३वाः । अह­म­न्न­म­न्न­म­द­न्त­मा३द्मि । अहं विश्वं भुवनमभ्यभवा३म् । सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् ॥ ६ ॥

अद्वैत आत्मा निरञ्जनोऽपि सन् अह­मे­वा­न्न­म­न्ना­दश्च । किञ्च, अहमेव श्लोककृत् । श्लोको नाम अन्नान्नादयोः सङ्घातः, तस्य कर्ता चेतनावान् । अन्नस्यैव वा परार्थस्य अन्नादार्थस्य सतोऽनेकात्मकस्य पारार्थ्येन हेतुना सङ्घातकृत् । त्रिरुक्तिः विस्म­य­त्व­ख्या­प­नार्था । अहमस्मि भवामि । प्रथमजाः प्रथमजः प्रथमोत्पन्नः । ऋतस्य सत्यस्य मूर्ता­मू­र्त­स्यास्य जगतो देवेभ्यश्च पूर्वममृतस्य नाभिः अमृतत्वस्य नाभिः, मध्यं मत्संस्थम् अमृतत्वं प्राणि­ना­मि­त्यर्थः । यः कश्चित् मा माम् अन्न­म­न्ना­र्थिभ्यो ददाति प्रयच्छति - अन्नात्मना ब्रवीति, सः इत् इत्थ­मे­वे­त्यर्थः, एवमविनष्टं यथाभूतं माम् आवा अवतीत्यर्थः । यः पुनरन्यो मामदत्वा अर्थिभ्यः काले प्राप्तेऽ­न्न­मत्ति तमन्नमदन्तं भक्षयन्तं पुरुषमहमन्नमेव संप्रत्यद्मि भक्षयामि । अत्राह - एवं तर्हि बिभेमि सर्वा­त्म­त्व­प्रा­प्ते­र्मो­क्षात् ; अस्तु संसार एव, यतो मुक्तोऽप्यहम् अन्नभूतः अद्यः स्याम् अन्यस्य । एवं मा भैषीः ; संव्य­व­हा­र­वि­ष­य­त्वात् सर्वकामाशनस्य ; अतीत्यायं संव्य­व­हा­र­वि­ष­य­म­न्ना­न्ना­दा­दि­ल­क्ष­ण­म­वि­द्या­कृतं विद्यया ब्रह्म­त्व­मा­पन्नः विद्वान् ; तस्य नैव द्वितीयं वस्त्व­न्त­र­मस्ति, यतो बिभेति ; अतो न भेतव्यं मोक्षात् । एवं तर्हि किमिदमाह - अहमन्नमहमन्नाद इति ? उच्यते । योऽय­म­न्ना­न्ना­दा­दि­ल­क्षणः संव्यवहारः कार्यभूतः, स संव्य­व­हा­र­मा­त्र­मेव ; न परमार्थवस्तु । स एवंभूतोऽपि ब्रह्मनिमित्तो ब्रह्म­व्य­ति­रे­के­णा­स­न्निति कृत्वा ब्रह्म­वि­द्या­का­र्यस्य ब्रह्मभावस्य स्तुत्य­र्थ­मु­च्यते - ‘अह­म­न्न­म­ह­म­न्न­म­ह­म­न्नम् । अह­म­न्ना­दोऽ­ह­म­न्ना­दोऽ­ह­म­न्नादः’ इत्यादि । अतः भया­दि­दो­ष­ग­न्धोऽपि अविद्यानिमित्तः अवि­द्यो­च्छे­दा­द्ब्र­ह्म­भू­तस्य नास्तीति । अहं विश्वं समस्तं भुवनं भूतैः सम्भजनीयं ब्रह्मा­दि­भि­र्भ­व­न्तीति वा अस्मिन् भूतानीति भुवनम् अभ्यभवाम् अभिभवामि परेणेश्वरेण स्वरूपेण । सुवर्न ज्योतीः सुवः आदित्यः ; नकार उपमार्थे ; आदित्य इव सकृ­द्वि­भा­त­म­स्म­दीयं ज्योतीः ज्योतिः, प्रकाश इत्यर्थः । इति वल्लीद्वयविहिता उपनिषत् परमात्मज्ञानम् ; तामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा भृगुवत् तपो महदास्थाय य एवं वेद, तस्येदं फलं यथोक्तमोक्ष इति ॥

इति दश­मा­नु­वा­क­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ तैत्ति­री­यो­प­नि­ष­द्भाष्ये भृगुवल्लीभाष्यं सम्पूर्णम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ तैत्ति­री­यो­प­नि­ष­द्भाष्यं सम्पूर्णम् ॥