वनमालाव्याख्या
शीक्षावल्ली: प्रथमोऽनुवाकः (१)
विघ्नेश्वरं विघ्नशान्त्यै वाणीं वाचः प्रवृत्तये ।
गुरून्गूढार्थभानाय प्रणमामि निरन्तरम् ॥ १ ॥
जगन्मङ्गलरूपाय सृष्टिस्थित्यन्तकारिणे ।
नमो लक्ष्मीसमेताय कृष्णाय परमात्मने ॥ २ ॥
परिपूर्णं नित्यशुद्धं निर्विशेषं स्वयम्प्रभम् ।
सत्यानन्दस्वरूपं यत्तदहं ब्रह्म निर्भयम् ॥ ३ ॥
आचार्यस्य प्रसादेन पूर्वपुण्यैकजन्मना ।
तैत्तिरीयकभाष्यस्य व्याख्यां कुर्वेऽतिभक्तितः ॥ ४ ॥
तैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारः तत्प्रतिपाद्यं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन सामान्येनोपलक्षितं सत्यज्ञानादिना स्वरूपलक्षणेन विशेषतो निश्चितं नमस्करोति —
यस्माज्जातमिति ।
ज्ञानात्मन इति स्वरूपलक्षणं सूचितम् ॥ १ ॥
गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति —
यैरिति ।
इमे क्रमेण व्याख्येयत्वेन बुद्धिस्थाः । पदानि च वाक्यानि च प्रमाणानि च पदवाक्यप्रमाणानि । ‘सोऽकामयत’ इत्यादौ ब्रह्मसत्त्वसाधकतया विवक्षितान्यनुमानानि प्रमाणानि । तेषां पदवाक्यप्रामाणानां विवेचनपूर्वकं व्याख्याता इत्यर्थः । यद्वा पदं व्याकरणं तत्साधुत्वविचाररूपत्वात् , वाक्यं मीमांसा वेदवाक्यविचाररूपत्वात् , प्रमाणं न्यायशास्त्रं प्राधान्येन प्रत्यक्षादिप्रमाणविचारात्मकत्वात् ; ततश्च पदवाक्यप्रमाणैः साधनभूतैर्व्याख्याता इत्यर्थः ॥ २ ॥
चिकीर्षितं निर्दिशति —
तैत्तिरीयकेति ।
ननु व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसम्भवात्पदस्मारितपदार्थानां यथायोग्यं सम्बन्धस्यैव वाक्यार्थस्यावगन्तुं शक्यत्वात् सूत्रकारेण वेदान्ततात्पर्यस्य निरूपितत्त्वाच्च व्यर्थः पृथग्व्याख्यारम्भ इत्याशङ्क्याह —
विस्पष्टार्थेति ।
मन्दमतीनां स्वत एव निःशेषपदार्थस्मरणासम्भवादुपनिषद्गतनिःशेषपदार्थानां निःसंशयज्ञानं येभ्यो रोचते तेषामुपकारायेत्यर्थः ॥ ३ ॥
उपनिषदः कर्मकाण्डेन नियतपौर्वापर्यसूचितं सम्बन्धं विशिष्य ख्यापयितुं कर्मकाण्डार्थे कीर्तयति —
नित्यानीति ।
पूर्वस्मिन्ग्रन्थे नित्यानि कर्माणि सञ्चितदुरितक्षयार्थत्वेनाधिगतानि ; तैश्च नित्यैरिह जन्मनि जन्मान्तरेषु वानुष्ठितैः क्षीणपापस्य शुद्धान्तःकरणस्य कर्मानुष्ठानप्रयोजकाविद्याकामपरिहारद्वारा मुक्तिसिद्धये इदानीम् उपनिषदि ब्रह्मविद्या प्रस्तूयते निरूप्यत इत्यर्थः । तथा च कर्मणां ब्रह्मविद्यां प्रति चित्तशुद्धिद्वारा साधनत्वात्तत्प्रतिपादकयोरपि कर्मकाण्डोपनिषदोः साध्यसाधनभावः सम्बन्ध इत्यर्थः ।
ननु कर्मकाण्डस्य चेत्पापक्षयद्वारा विद्यायां विनियोगः, तर्हि पशुस्वर्गादिसाधनभूतानां काम्यकर्मणां तत्रोक्तिरसङ्गता तेषां विद्यासाधनत्वायोगादित्याशङ्क्याह —
काम्यानि चेति ।
अयं भावः - काम्यानां फलार्थत्वेऽपि फलाभिसन्धिं विना कृतानां तेषां विद्यासाधनत्वमप्यस्त्येव, विविदिषावाक्येन नित्यकाम्यसाधारण्येन कर्मणां विध्यायां विनियुक्तत्वात् ‘अनाश्रितः कर्मफलम्’ इत्यादिस्मृतिष्वपि तथोक्तत्वाच्च ; कर्मकाण्डे फलार्थिनां काम्यकर्मविधानमपि विद्योपयोग्येवेति ।
कर्मोपादानहेतुपरिहारायेत्यत्र निर्दिष्टः कर्मप्रवृत्तिहेतुः क इति जिज्ञासायामाह —
कर्महेतुरिति ।
अत्र यद्यप्यविद्यापि कर्मोपादानहेतुः, तथा च वक्ष्यति - ‘तस्मादविद्यादिकर्मोपादानहेतुनिवृत्तौ’ इति, तथाप्यविद्यायाः कामद्वारा कर्महेतुत्वात्कामो हेतुरित्युक्तम् । कामस्यैव प्राधान्येन कर्महेतुत्वं भगवता व्यासेनाप्युक्तम् - ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ इति ।
कामस्य कर्महेतुत्वेऽन्वयव्यतिरेकौ प्रमाणयति —
प्रवर्तकत्वादिति ।
कामे सति प्राणिनां प्रवृत्तिदर्शनादित्यर्थः ।
आप्तकामानां हीति ।
अनुपपत्तिपदमभावपरम् । ततश्च आप्तकामानां प्राप्तस्वरूपानन्दानां स्वात्मनि स्वरूपानन्देऽवस्थानाद्धेतोः कामाभावे प्रवृत्त्यभावदर्शनाद् इत्यर्थः । तेषां प्रवृत्त्यभावः प्रसिद्ध इति हि-शब्दार्थः ।
नन्वाप्तकामत्वे को हेतुः ? तत्राह —
आत्मकामत्वे चेति ।
आत्मैव काम आनन्दो यस्य साक्षात्कृतः स आत्मकामः, तस्य भाव आत्मकामत्वम् , तस्मिन्सत्याप्तकामता भवतीत्यर्थः ।
ननु ब्रह्मविद्यैवाप्तकामताहेतुः नात्मानन्दसाक्षात्कारवत्त्वम् ; तत्राह —
आत्मा च ब्रह्मेति ।
‘अयमात्मा ब्रह्म’ इति श्रुतेरिति भावः ।
ब्रह्मविद आत्मानन्दप्राप्तौ मानमाह —
तद्विदो हीति ।
हि यस्मात्परस्य स्वरूपानन्दस्य प्राप्तिं ब्रह्मविदः ‘ब्रह्मविदाप्नोति परम्’ इति श्रुतिर्वक्ष्यति, तस्माद्ब्रह्मविदाप्तकाम इत्यर्थः ।
नन्वात्मानन्दस्य नित्यप्राप्तत्वाद्विद्यया तत्प्राप्तिश्रुतिरनुपपन्ना ; नेत्याह —
अत इति ।
आत्मस्वरूपत्वेऽप्यविद्यावृतत्वाद्विद्यया तदावरणनिवृत्तौ स्वात्मानन्दे यदभेदेनावस्थानं तदत्र परप्राप्तिर्विवक्षिता ; अतो न विद्यावैयर्थ्यशङ्केति भावः ।
ब्रह्मविदः परप्राप्तावेवान्यदपि वाक्यद्वयं पठति —
अभयमिति ।
ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठां स्वात्मभावेनावस्थानं यदा विन्दते तदैवाभयं गतो भवतीत्यर्थः । आनन्दमयं परमात्मानमुपसङ्क्रामति प्राप्नोतीत्यर्थः । इदं च वृत्तिकारमताभिप्रायेणोदाहृतम् , स्वमते आनन्दमयस्य जीवत्वादिति बोध्यम् ॥
ननु जीवस्य शरीरेऽवस्थानं बन्धहेतुः, ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति श्रुतेः ; आत्यन्तिकेन शरीरसम्बन्धाभावेन युक्ते स्वस्वरूपेऽवस्थानं मोक्षः, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः ; स चात्यन्तिकः शरीरसम्बन्धाभावो ब्रह्मात्मैकत्वविद्यां विना कर्मभिरेव सिध्यति, किं विद्ययेति मीमांसकः शङ्कते —
काम्येति ।
काम्यं कर्म देवादिशरीरहेतुः, प्रतिषिद्धं कर्म तिर्यगादिशरीरहेतुः, नित्यनैमित्तिकाननुष्ठानं प्रत्यवायोत्पादनद्वारा नारक्यादिजन्महेतुः । तथा च मुमुक्षुणा सर्वात्मना काम्यप्रतिषिद्धयोरनारम्भात्सम्यङ्नित्यनैमित्तिकानुष्ठानेन प्रत्यवायानुत्पादाच्च न भाविजन्मप्राप्तिः, आरब्धफलयोश्च पुण्यपापयोरुपभोगेनैव नाशान्न ततोऽपि भाविजन्मप्राप्तिशङ्का ; तथा च विद्यासम्पादनयत्नं विना मुमुक्षोरेवं वर्तमानस्यात्यन्तिकशरीरसम्बन्धाभावशब्दितः स्वात्मन्येवावस्थानलक्षणो मोक्षः सिध्यतीत्यर्थः । अत्र च शरीरसम्बन्धस्य कर्मनिमित्तकत्वात् ‘निमित्तापाये नैमित्तिकापायः’ इति न्यायेन शरीरसम्बन्धाभावरूपमोक्षस्य कर्मसाध्यत्वोक्तिरिति मन्तव्यम् ।
मीमांसक एव प्रकारान्तरमाह —
अथवेति ।
यानि कर्माणि स्वर्गसाधनत्वेन श्रुतानि तान्येव मोक्षसाधनम् , स्वर्गशब्दवाच्यस्य निरतिशयसुखस्य स्वरूपानन्दलक्षणान्मोक्षादन्यत्वासम्भवात् ‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्’ इत्यर्थवादेन निरतिशयप्रीतेः स्वर्गशब्दवाच्यत्वावगमात् त्रिविष्टपादिजनितसुखे दुःखासम्भिन्नत्वादिविशेषणानामसम्भवात् । तथा च निरतिशयप्रीतिरूपस्य मोक्षस्य कर्महेतुकत्वावगमात्कर्मभ्य एव मोक्षः सिध्यति, किं विद्यासम्पादनयत्नेनेत्यर्थः ।
तत्राद्यं मतं निराकरोति —
न ; कर्मानेकत्वादिति ।
कर्मणामनेकत्वसम्भवान्न विद्यां विना मोक्षसिद्धिरित्यर्थः ।
सङ्ग्रहं विवृणोति —
अनेकानि हीति ।
कर्मानेकत्वप्रसिद्धिद्योतनार्थो हि-शब्दः । तेषु कर्मसु यान्यनारब्धफलानि तेषामुपभोगेन क्षयासम्भवात्तानि शेषकर्माणि तन्निमित्तशरीरारम्भ एवंवृत्तस्याप्युपपद्यत इत्यर्थः ।
नन्वनेकजन्मान्तरकृतानां सर्वेषामेव कर्मणां सम्भूय वर्तमानजन्मारम्भकत्वसम्भवादनारब्धफलानि कर्माणि न सन्त्येव ; नेत्याह —
विरुद्धफलानीति ।
स्वर्गनरकादिरूपविरुद्धफलवतां ज्योतिष्टोमब्रह्महत्यादीनां सम्भूयैकजन्मारम्भकत्वासम्भवेनैकस्मिञ्जन्मन्युपभोगेन तेषां क्षयासम्भवात्सन्त्येव शेषकर्माणीत्यर्थः ।
सञ्चितकर्मसद्भावे मानमाह —
कर्मशेषसद्भावसिद्धिश्चेति ।
तत्तत्र स्वर्गादवरोहतां मध्ये ये इहास्मिँल्लोके रमणीयचरणाः पुण्यकर्माणः ते रमणीयां ब्राह्मणादियोनिं प्रतिपद्यन्त इति श्रुत्यर्थः । प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्मृतिरपि स्वर्गादवरोहतां शेषकर्मसद्भावं दर्शयतीत्यर्थः ।
ननु सञ्चितकर्मणां सत्त्वेऽपि तेषां नित्यानुष्ठानेन क्षयान्न तैर्भाविजन्मप्राप्तिरिति शङ्कते —
इष्टानिष्टेति ।
नित्यानां सञ्चितकर्मक्षयफलकत्वं मीमांसकस्य स्वाभ्युपगमविरुद्धमिति दूषयति —
नेति ।
असुखरूपस्येति ।
सुखसाधनस्येति यावत् ।
आगामिन इति ।
नित्याकरणानन्तरमेव प्रसक्तस्येत्यर्थः ।
नित्यानां तदभ्युपगमेऽपि परस्य नाभिमतसिद्धिरित्याह —
यदि नामेति ।
नित्यान्यनारब्धफलकर्मक्षयार्थानि सन्तु नामेत्यर्थः । ‘धर्मेण पापमपनुदति’ इति शास्त्राच्छुद्ध्यशुद्धिरूपयोः सुकृतदुष्कृतयोरेव विरोधाच्च नित्यानि पापमेव नाशयेयुः, न सञ्चितपुण्यमपि ; अतस्तत्पुण्यनिमित्तं भाविजन्म मुमुक्षोरवश्यम्भावीत्यर्थः ।
विरोधाभावमेव साधयति —
न हीत्यादिना ।
यदुक्तं काम्यप्रतिषिद्धयोरनारम्भादिति, तत्र जन्मारभ्य प्रायणपर्यन्तं सर्वात्मना प्रतिषिद्धवर्जनं पुरुषेण कर्तुमशक्यम् अतिनिपुणानामपि सूक्ष्मापराधदर्शनात् , काम्यवर्जनमपि सर्वात्मना कर्तुमशक्यमित्याह —
न चेति ।
आत्मज्ञानं हि कामानामशेषतो निवर्तकम् , ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति स्मरणात् ; ज्ञानाभावे च सति कामावश्यम्भावात् काम्यानुष्ठानमपि कदाचिन्मुमुक्षोः प्रसज्जते, तद्वशाच्च जन्मापि स्यादित्यर्थः । अशेषकर्मक्षयोपपत्तिर्न चेत्यन्वयः ।
ननु आत्मज्ञानं न कामानां निवर्तकम् आत्मविदोऽपि कामदर्शनादिति ; नेत्याह —
अनात्मविदो हीति ।
फलविषयत्वादिति ।
आत्मव्यतिरिक्तं किञ्चिदपि वस्तुतो नास्तीति मन्यमानस्यात्मविदः स्वव्यतिरिक्तफलाभावादिति भावः ।
तर्हि स्वात्मन्येवानन्दरूपे तस्य कामोऽस्तु ; नेत्याह —
स्वात्मनि चेति ।
नन्वात्मविदः प्राप्तस्वरूपानन्दस्यापि परब्रह्मप्राप्तौ कामोऽस्ति ; नेत्याह —
स्वस्येति ।
विदुष इत्यर्थः ।
नित्यानुष्ठानेन च प्रत्यवायाभावादिति वदता त्वया यदि प्रत्यवायस्य नित्याकरणजन्यत्वं विवक्षितम् , तदा तदपि न सम्भवतीत्याह —
नित्यानां चेति ।
प्रत्यवायानुपपत्तिरिति ।
प्रत्यवायोत्पत्तिर्न सम्भवतीत्यर्थः ।
ननु ‘अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति’ इति वचनगतशतृप्रत्ययादकरणस्य प्रत्यवायहेतुत्वमवगम्यते ; अकरणात्प्रत्यवायोत्पत्त्यनुपगमे च शतृप्रत्ययानुपपत्तिरिति ; नेत्याह —
इत्यत इति ।
वक्ष्यमाणरीत्या अकरणस्य प्रत्यवायाहेतुत्वादित्यर्थः । ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण हेताविव लक्षणेऽपि शतुर्विधानादत्र लक्षणार्थ एव स इत्यर्थः । नन्वकरणेन प्रत्यवायक्रिया कथं लक्ष्यते ? उच्यते - यदि यथावन्नित्यानुष्ठानमभविष्यत्तदा सञ्चितदुरितक्षयोऽभविष्यत् , न चायं नित्यमकार्षीत् ; ततः प्रत्यवायी भविष्यतीत्येवं नित्याकरणेन पूर्वजन्मसु सञ्चितेभ्यो दुरितेभ्यः प्राप्यमाणा दुःखरूपा प्रत्यवायक्रिया शिष्टैर्लक्ष्यत इति ।
ननु लक्षणे हेतौ च साधारणाच्छतृप्रत्ययादकरणस्य प्रतीतं हेतुत्वमेव कस्मान्नोपेयते ? तत्राह —
अन्यथेति ।
अकरणस्य हेतुत्वे स्वीकृते सत्यभावाद्भाव उत्पद्यत इति प्रसज्जेत अकरणस्याभावरूपताया उक्तत्वादित्यर्थः ।
तत्रेष्टापत्तिं वारयति —
सर्वेति ।
अभावस्य भावधर्माश्रयत्वायोग्यत्वं प्रत्यक्षादिप्रमाणसिद्धम् , अभावस्य कारणत्वरूपभावधर्माश्रयत्वस्वीकारे तु प्रत्यक्षादिप्रमाणविरोधः स्यादित्यर्थः । न चैवमकरणस्य कथं ज्ञापकत्वं कथं वानुपलब्धेरभावज्ञापकत्वमिति वाच्यम् , अकरणानुपलब्ध्योर्ज्ञातयोरेव ज्ञापकत्वाभ्युपगमेन स्वरूपतस्तयोर्ज्ञानहेतुत्वाभावादित्यन्यत्र विस्तरः ।
मीमांसकस्याद्यप्रकारनिराकरणमुपसंहरति —
इत्यत इति ।
उक्तप्रकारेण ब्रह्मज्ञानं विना यथावर्णितचरितस्यापि मुमुक्षोर्मोक्षासम्भवादित्यर्थः ।
अथ वेत्याद्युक्तमप्यनूद्य निराकरोति —
यच्चोक्तमित्यादिना ।
किं केवलकर्मणां मोक्षारम्भकत्वम् , विद्यासहितानां वा ? नाद्य इत्याह —
तन्नेति ।
ननु नित्यत्वेऽपि कर्मसाध्यत्वं तस्य किं न स्यादिति ; नेत्याह —
न हीति ।
लोके यन्नित्यमात्मादि तत्किञ्चिदपि नारभ्यते, यद्धि घटाद्यारब्धं तदनित्यमिति व्याप्तिदर्शनादित्यर्थः ।
द्वितीयकल्पमनूद्य निराकरोति —
विद्यासहितानामिति ।
विद्यारूपसहकारिमहिम्ना कर्मारभ्यस्यापि मोक्षस्य नित्यत्वं भविष्यतीति शङ्ककाभिमानः ।
विरुद्धमिति ।
विद्यारूपसहकारिमहिम्ना तावत्कर्मसाध्ये मोक्षे कश्चिदतिशयो भविष्यति, ’यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति’ इति श्रुतेः । स चातिशयो न नित्यत्वरूपः, ‘यत्कृतकं तदनित्यम्’ इति व्याप्तिविरोधात् ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इत्यादिश्रुतिविरोधाच्च ; किं तु तदतिरिक्त उत्कर्षरूप एव वक्तव्य इति भावः । किं च निरतिशयप्रीतेरात्मस्वरूपत्वेनारभ्यत्वायोगाच्च न विद्यासहितानां केवलानां वा कर्मणां मोक्षः फलम् । न च स्वर्गकामश्रुतिविरोधः, तत्र निरतिशयप्रीतिवाचकस्य स्वर्गशब्दस्य कर्मयोग्यतानुसारेण विषयजनितसुखविशेषे लाक्षणिकत्वोपपत्तेः । एतच्च बृहदारण्यकषष्ठाध्यायवार्त्तिके प्रपञ्चितम् , तत्रैव द्रष्टव्यम् ।
शङ्कते —
यद्विनष्टमिति ।
यद्घटादि विनष्टं तत्पुनर्नोत्पद्यत इति दर्शनात् घटादिविनाशरूपस्य प्रध्वंसाभावस्य नित्यत्वं निश्चीयते, तस्यानित्यत्वे तु विनष्टस्य घटादेः पुनरुत्पत्तिप्रसङ्गः स्यात् ; ध्वंसप्रागभावानधिकरणकालस्य प्रतियोगिकालत्वनियमादित्यर्थः ।
ततः किम् ? तत्राह —
प्रध्वंसाभाववदिति ।
प्रध्वंसाभावस्य कार्यत्वमुपेत्य यद्भावकार्यं तदनित्यमिति व्याप्तिर्विवक्षिता ; निरतिशयप्रीतिरूपा च मुक्तिर्भावरूपैव तवापि संमता, अतो न मुक्तेर्नित्यत्वं सिध्यतीति दूषयति —
नेति ।
परमार्थतस्तु प्रध्वंसस्य कार्यत्वं नास्तीत्याह —
प्रध्वंसाभावोऽपीति ।
प्रध्वंसाभावोऽप्यारभ्यत इति न सम्भावति, नैरुक्तैर्जनेर्भावपदार्थधर्मत्वप्रतिपादनविरोधेनाभावस्य भावरूपजन्माश्रयत्वायोगेन च प्रध्वंसाभावे जन्मरूपविशेषाभावाभ्युपगमादित्यर्थः ।
कथं तर्हि वादिनां प्रध्वंसाभावे जन्माश्रयत्वज्ञानमित्याशङ्क्य भ्रान्तिमात्रमेतदित्याह —
विकल्पमात्रमेतदिति ।
ननु प्रध्वंसाभावस्य प्रतियोगिजन्यत्वाभावे तत्प्रतियोगिकत्वं न स्यादित्याशङ्क्य प्रागभावात्यन्ताभावयोरिव तस्य तत्प्रतियोगिकत्वं सम्भवतीत्याशयेनाह —
भावप्रतियोगी ह्यभाव इति ।
अभावस्य भावप्रतियोगिकत्वं घटाभावः पटाभाव इति व्यवहारसिद्धमिति हि-शब्दार्थः ।
नन्वाभावे भावप्रतियोगिकत्वविशेषाभ्युपगमे तत्र जनिरूपविशेषोऽपि परमार्थोऽस्त्विति न शङ्कनीयम् , भावप्रतियोगिकत्वस्यापि तत्र परमार्थत्वासिद्धेरित्येतत्सदृष्टान्तमाह —
यथा हीति ।
भावः सत्त्वम् , तच्च सर्वानुगतं सद्रूपं वस्तुतो निर्विशेषं ब्रह्मैव नान्यत् ; तद्यथा एकमपि घटसत्त्वं पटसत्त्वमिति रीत्या भिन्नमिव घटादिभिर्विशेष्यते घटादिप्रतियोगिकत्वेन कल्प्यते, तथा घटो नास्ति पटो नास्तीति प्रतीयमानाभावोऽप्येक एव, समवायसत्ताजात्यादिवत् लाघवात् ; स चाभावः सर्वविशेषरहितोऽपि भावेषु घटादिषु मुद्गराभिघातादिजनितक्रियायोगाद्घटादिप्रतियोगिकत्वेन जातत्वेन च वादिभिर्भ्रान्त्या परिकल्प्यते, द्वावभावावित्यादिव्यवहारात् सङ्ख्यागुणयोगमभावस्य मत्वा द्रव्यत्वेनाभावः केनचित् परिकल्प्यते । एतदुक्तं भवति - यथा ह्यभावस्य द्रव्यान्तर्भावमाशङ्कमानस्याभावे गुणाश्रयत्वद्रव्यत्वभ्रान्तिः, तथा वादिनामपि तत्र वस्तुतो भावप्रतियोगिकत्वजन्माश्रयत्वादिरस्तीति भ्रान्तिरिति ।
अभावस्य वस्तुतो जन्मादिरूपभावधर्माश्रयत्वे बाधकमाह —
न ह्यभाव इत्यादिना ।
भावधर्माश्रयस्य भावत्वनियमप्रसिद्धिद्योतनार्थो हि-शब्दः ।
विशेषणसहभावीति ।
विशेषणाश्रय इत्यर्थः । नन्वेकस्याभावस्य जन्मादिकल्पनास्पदस्य ब्रह्मतुल्ययोगक्षेमस्याङ्गीकारे द्वैतापत्तिरिति चेत् , नायं दोषः ; भावाद्वैताभिप्रायेणास्य भाष्यस्य प्रवृत्त्युपपत्तेः । वस्तुतस्तु अयमभावो न ब्रह्मातिरिक्तः, ब्रह्मणि कल्पितघटादिप्रतियोगिकत्वात् कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति मन्तव्यम् ।
साध्यस्य मोक्षस्य स्वरूपेण नित्यत्वायोगेऽपि प्रवाहनित्यत्वं सम्भवतीति शङ्कते —
विद्याकर्मकर्तुरिति ।
कर्तुरात्मनो नित्यत्वादात्मा सन्ततं विद्याकर्मणी कुर्वन्नेवास्ते ; तथा च विद्याकर्मलक्षणसाधनसन्तानजनितो मोक्षोऽपि सन्ततोऽवतिष्ठते । प्रवाहनित्यत्वे दृष्टान्तमाह —
गङ्गेति ।
नेति ।
मुक्तिकालेऽपि साधनानुष्ठातृत्वरूपस्य कर्तृत्वस्यानुवृत्त्युपगमे मुक्त्युच्छेदः, तस्य दुःखात्मकत्वात् ; एतद्दोषपरिहाराय तदा तदुपरमोपगमे च मोक्षस्यापि विच्छेदादनित्यत्वं तदवस्थमेवेत्यर्थः ।
तस्मादिति ।
मोक्षस्य साध्यत्वे नित्यत्वभङ्गप्रसङ्गादित्यर्थः । काम आदिपदार्थः । कर्मोपादानहेतोरविद्यादेर्निवृत्तौ सत्यामित्यर्थः ।
ननु ब्रह्मात्मनावस्थानं मोक्षः ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुतेः, न त्वात्मन्यवस्थानमिति शङ्कां निराकरोति —
स्वयं चेति ।
नन्वविद्यादिनिवृत्तिरेव कर्मसाध्या अस्तु, तथा च कर्मभिरेव मोक्ष इति ; नेत्याह —
तद्विज्ञानादिति ।
कर्मणामविद्यानिवर्तने सामर्थ्याभावादिति भावः । इति-शब्दो विचारसमाप्त्यर्थः ।
एवं कर्मणां मुक्तिहेतुत्वं निरस्य आदौ ब्रह्मविद्या प्रस्तूयत इति यदुक्तं तदेवोपसंहरति —
अतो ब्रह्मविद्यार्थेति ।
ब्रह्मविद्याया एव मुक्तिसाधनत्वादित्यर्थः ।
ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याशयेनोपनिषच्छब्दार्थमाह —
उपनिषदितीति ।
अत्र सामीप्यवाचिना उपोपसर्गेण प्रतीचो ब्रह्मसामीप्यमुच्यते । तच्च सामीप्यं तयोरभेदरूपं विवक्षितम् । नि-शब्दो निश्चयार्थः । तथा च उपसर्गद्वयेन तयोरभेदनिश्चयरूपा विद्योच्यते । विशरणावसादनगतयो धात्वर्थाः । क्विप्प्रत्ययश्चात्र कर्तरि विवक्षितः । ततश्च प्रत्यग्ब्रह्मैक्यगोचरा विद्या विदुषामनर्थं शातयति अवसादयति वा तान्ब्रह्म गमयतीति वा उपनिषत्पदेन सफला ब्रह्मविद्योच्यत इत्यर्थः ।
एतदेव विवृणोति —
तच्छीलिनामिति ।
ब्रह्मविद्याभ्यासशीलवतामित्यर्थः । शातनं शिथिलीकरणम् , तेषां गर्भादीनामवसादनं नाशनम् । उपनिगमयितृत्वात् प्रत्यक्तया प्रापयितृत्वादित्यर्थः ।
एवमुपनिषत्पदस्य ‘षदॢ विशरणगत्यवसादनेषु’ इति वैयाकरणप्रसिद्धिमनुसृत्यार्थत्रयं दर्शितम् । इदानीं स्वयमर्थान्तरमाह —
उप निषण्णं वेति ।
उप सामीप्येन विषयतया अस्यां विद्यायां ब्रह्मस्वरूपं परं श्रेयो नितरामबाधिततया स्थितमित्यर्थः ।
उपनिषत्पदस्य ग्रन्थे प्रसिद्धिं घटयति —
तदर्थत्वादिति ।
विद्याप्रयोजनकत्वाद्ग्रन्थोऽप्युपनिषत्पदेन निरूढलक्षणया व्यवह्रियत इत्यर्थः । अत्र व्याख्येयस्य ग्रन्थस्य ब्रह्मविद्यार्थत्वोक्त्या तस्य मानान्तरानधिगतं ब्रह्म विषयः तद्विद्याद्वारा मुक्तिः प्रयोजनम् , तत्कामोऽधिकारीति सूचितं भवति ॥
एवं विषयादिमत्त्वादुपनिषदो व्याख्यारम्भं समर्थ्य व्याख्यामारभते —
शं सुखमित्यादिना ।
शमित्यस्य सुखकृदित्यर्थः ।
चक्षुषीति ।
चक्षुष्यादित्यमण्डले च वर्तमानस्तयोरभिमानीत्यर्थः ।
बल इति ।
बाह्वोर्बलेऽभिमानित्वेन वर्तमानो देव इन्द्र इत्यर्थः । वाचि बुद्धौ वागभिमानी गुरुरित्यर्थः ।
विस्तीर्णक्रम इति ।
त्रिविक्रमावतारे विस्तीर्णपादोपेत इत्यर्थः ।
शरीरस्थप्राणकरणाभिमानिनीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते ? अत्राह —
तासु हीति ।
विद्यार्थं श्रवणम् , श्रुतस्याविस्मरणं धारणम् , शिष्येभ्यः प्रतिपादनं विनियोगः । शमादिकमादिपदार्थः ।
नमो ब्रह्मण इत्यादेस्तात्पर्यमाह —
ब्रह्म विविदिषुणेति ।
त्वं ब्रह्मेति वदनक्रिया ब्रह्मवदनक्रिया ।
परोक्षेति ।
नमो ब्रह्मण इत्यत्र वायोः सम्बोधनाभावात् परोक्षतया निर्देश इत्यर्थः । उत्तरवाक्ये वायुपदेन सम्बोधनात्प्रत्यक्षतया निर्देश इत्यर्थः । यद्वा ब्रह्मेति पारोक्ष्येण निर्देशः, वायोर्ब्रह्मशब्दितसूत्रात्मतारूपेण परोक्षत्वात् , वायुशब्देन च प्रत्यक्षतया निर्देशः, प्राणवायुरूपेण नमस्कार्यस्य वायोः प्रत्यक्षत्वादित्यर्थः । किं चेत्यस्य त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीत्यनेन सम्बन्धः ।
वायोः प्रत्यक्षब्रह्मत्ववदने हेतुपरं त्वमेवेति वाक्यं व्याचष्टे —
त्वमेव चक्षुराद्यपेक्ष्येत्यादिना ।
बाह्यमप्रत्यक्षं चक्षुराद्यपेक्ष्य, त्वमेव प्रत्यक्षं ब्रह्मासीति सम्बन्धः ।
प्रत्यक्षत्वे हेतुरव्यवहितत्वम् ; तदेव विवृणोति —
संनिकृष्टमिति ।
त्वगिन्द्रयसंनिकृष्टमित्यर्थः ।
वदिष्यामीति ।
वदामीत्यर्थः ।
ऋतसत्यशब्दयोरपुनरुक्तमर्थं वदन्नेव तौ व्याचष्टे —
ऋतमित्यादिना ।
स एवेति ।
शास्त्रानुसारेण कर्तव्यतया निश्चितार्थ एवेत्यर्थः ।
त्वदधीन एवेति ।
कर्मसम्पादनस्य प्राणवाय्वधीनत्वदर्शनादिति भावः ।
सर्वात्मकमिति ।
समष्टिव्यष्ट्यात्मकमित्यर्थः । वायोः सूत्रात्मरूपेण समष्टिशब्दितं व्यापकत्वम् , अस्मदादिप्राणरूपेण व्यष्टिशब्दितं परिच्छिन्नत्वं चेत्युभयं परोक्षप्रत्यक्षनिर्देशाभ्यां प्रकृतमिति मत्वा तत्सर्वात्मकमिति सर्वनामप्रयोग इति मन्तव्यम् ।
एवं स्तुतमिति ।
उक्तप्रकारेण ब्रह्मवदनक्रियया स्तुतमित्यर्थः । इदमुपलक्षणम् । नमस्कृतं चेत्यपि द्रष्टव्यम् , तस्यापि पूर्वं कृतत्वात् ।
आध्यात्मिकेति ।
ज्वरशिरोरोगादय आध्यात्मिकाः, चोरव्याघ्राद्युपद्रवा आधिभौतिकाः, यक्षराक्षसाद्युपद्रवा आधिदैविका इति विभागः ॥
शीक्षाध्यायारम्भस्य तात्पर्यमाह —
अर्थज्ञानेत्यादिना ।
यत्नोपरम इति ।
अध्ययनकाले स्वरादिष्वौदासीन्यमित्यर्थः । स्वरवर्णादिव्यत्यासे च सत्यन्यथार्थावबोधः प्रसज्जेत ; ततश्चानर्थप्रसङ्गः स्यात् ‘मन्त्रो हीनः स्वरतो वर्णतो वा’ इत्यादिशास्त्रादिति भावः । नन्वेवं सति कर्मकाण्डेऽप्ययमध्यायो वक्तव्य इति चेत् , सत्यम् ; अत एवोभयसाधारण्यायायं काण्डयोर्मध्ये पठितः । ननु तर्हि भाष्ये उपनिषद्ग्रहणमनर्थकम् ; नानर्थकम् , उपनिषत्पाठे यत्नाधिक्यद्योतनार्थत्वोपपत्तेः । तथा हि - कर्मकाण्डे क्वचिदन्यथार्थज्ञानपूर्वकान्यथानुष्ठानस्य प्रायश्चित्तेन समाधानं सम्भवति, ‘अनाज्ञातं यदाज्ञातम्’ इत्यादिमन्त्रलिङ्गात् । ज्ञानकाण्डे तु सगुणनिर्गुणवाक्यानामन्यथार्थावबोधे सति सम्यगुपासनानुष्ठानतत्त्वज्ञानयोरलाभात्पुरुषार्थासिद्धिरेव स्यात् , प्रायश्चित्तेनात्र समाधानासम्भवात् । अतो यथावद्ब्रह्मबोधायोपनिषत्पाठे यत्नाधिक्यं कर्तव्यमिति द्योतनार्थत्वेनोपनिषद्ग्रहणमुपपद्यत इति ॥
शीक्षाशब्दस्य द्वेधा व्युत्पत्तिं दर्शयति —
शिक्ष्यत इत्यादिना ।
लक्षणपदम् ‘अकुहविसर्जनीयानां कण्ठः, इचुयशानां तालु, ऋटुरषाणां मूर्धा, ऌतुलसानां दन्ताः’ इत्यादिशास्त्रपरम् ।
नन्वेवं सति वर्णाद्युच्चारणलक्षणं शिक्ष्यतेऽनयेति व्युत्पत्तिरयुक्ता, तल्लक्षणस्य शीक्षाशब्दितेऽध्याये शिक्षणादर्शनादित्याशङ्क्य व्युत्पत्त्यन्तरं दर्शयति —
शिक्ष्यन्त इति ।
वेदनीयत्वेनोपदिश्यन्त इत्यर्थः ।
चक्षिङ इति ।
‘चक्षिङः ख्याञ्’ इति सूत्रेण ख्याञादिष्टो यस्य तस्येदं रूपम् , न तु ‘ख्या प्रकथने’ इत्यस्य, तस्यार्धधातुके प्रयोगाभावादित्यर्थः । व्यक्ता वाक्कर्म क्रिया अर्थो यस्य तस्येत्यर्थः ।
मध्यमवृत्त्येति ।
अतिद्रुतत्वादिकं विनेत्यर्थः ॥
अथातः संहिताया इत्यादेस्तात्पर्यमाह —
अधुनेति ।
वर्णानामत्यन्तसामीप्यं संहिता, तद्विषयोपनिषदुपासनमिदानीमुच्यत इत्यर्थः । शं नो मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः ।
संहितोपनिषच्छेषमाशीर्वादान्तरं प्रथममाह —
तत्रेति ।
उपनिषत्परिज्ञानमुपासनविषयकं ज्ञानम् ; तच्च शिष्यस्याचार्योपदेशजनितमाचार्यस्य च तदुपदेशप्रयोजकम् , तन्निमित्तकं यश इत्यर्थः ।
तेज इति ।
मुखकान्त्यादिरूपमुपनिषत्परिज्ञाननिमित्तकमित्यर्थः ।
ननु सहैवास्त्विति केन प्रार्थ्यते ? तत्राह —
शिष्यवचनमिति ।
तत्र विनिगमकमाह —
शिष्यस्य हीति ।
तस्याकृतार्थत्वं प्रसिद्धमिति हि-शब्दार्थः ।
नन्वाचार्योऽप्यकृतार्थ एव शिष्यसापेक्षत्वादिति ; नेत्याह —
कृतार्थो हीति ।
न ह्याचार्यस्य स्वप्रयोजनसिद्ध्यर्थं शिष्यापेक्षास्ति, किं तु केवलं तदनुग्रहार्थमेवाचार्यप्रवृत्तिरिति भावः । नन्वेवमाचार्यस्य शिष्येण किमर्थं यशआदि प्रर्थ्यते ? स्वार्थमेवेति ब्रूमः, यशस्विनः शिष्या हि लोके यशस्विनो भवन्ति ; यशस्विनां च लाभपूजादिकं फलं प्रसिद्धम् ; अतः स्वार्थमेव शिष्यो गुरोर्यशः प्रार्थयत इत्यनवद्यम् । पूर्ववृत्तस्यानन्तरमिति सम्बन्धः ।
वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतःशब्देनोक्त इत्याह —
यतोऽत्यर्थमिति ।
ज्ञानमुपासनम् , तदेव विषयः, तस्मिन्नित्यर्थः ।
ग्रन्थसंनिकृष्टामेवेति ।
संहितारूपग्रन्थप्रधानामेवेति यावत् ।
नन्वधिकरणेष्विति सप्तम्या लोकादिषु संहितादृष्टिविधिरिह विवक्षित इति प्रतीयते ; तथा सति लोकानामेव संहितादृष्ट्योपास्यत्वं स्यात् ; तच्चोपक्रमोपसंहारविरुद्धम् , ‘अथातः संहितायाः’ इत्युपक्रमे ‘य एवमेता महासंहीता व्याख्याता वेद’ इत्युपसंहारे च संहिताया एवोपास्यत्वावगमादित्याशङ्क्याह —
ज्ञानविषयेष्वित्यर्थ इति ।
अधिकरणपदस्य विषयपरत्वोक्तिरुपलक्षणम् ; सप्तमी तृतीयार्थपरेत्यपि द्रष्टव्यम् । तथा च लोकाद्यात्मना संहितैवोपास्येति लभ्यते, अतो न विरोध इति भावः ।
लोकेष्वधीति ।
लोकविषयकमिति यावत् । एवमुत्तरत्रापि ।
अत्र विधित्सितानामुपासनानां स्तावकं ता महासंहिता इति वाक्यम् । तद्व्याचष्टे —
ता एता इति ।
अथाधिलोकमथाधिज्योतिषमित्यादिवाक्यस्थाथशब्दानामर्थमाह —
दर्शनक्रमेति ।
अत्रोपासनस्यैकत्वेन कर्तुरेकत्वाल्लोकादिभेदेन प्रयोगभेदाच्चावश्यम्भाविनि क्रमे तद्विधानार्था अथ-शब्दा इत्यर्थः । तत्राद्योऽथशब्द आरम्भार्थः, इतरे तन्निरूपितक्रमार्था इति भावः ।
उपनिषदः कथं कर्तव्या इत्याकाङ्क्षायामाह —
तासामित्यादिना ।
ननु संहितायाः पूर्ववर्णः पृथिवीति कथं सामानाधिकरण्यं तयोर्भेदादित्याशङ्क्याह —
पूर्ववर्ण इति ।
मनो ब्रह्म इत्यादिवदत्र सामानाधिकरण्यमिति भावः ।
मध्यमिति ।
पूर्वोत्तररूपे सन्धीयेते अस्मिन्निति व्युत्पत्त्या यत्सन्धिशब्दवाच्यं पूर्वोत्तररूपयोर्मध्यम् , तत्रान्तरिक्षलोकदृष्टिः कर्तव्येत्यर्थः ॥
वायुरिति ।
सन्धीयेते पूर्वोत्तररूपे अनेनेति व्युत्पत्त्या सन्धानशब्दवाच्यं यत्संहितारूपम् , तत्र वायुदृष्टिः कर्तव्येत्यर्थः । इदं च क्वचिदुदाहृत्य प्रदर्श्यते - ‘इषे त्त्वा’ इत्यत्र षकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपः ; यश्चोपरितनस्तकारः स द्युलोकः ; तयोर्वर्णयोर्मध्यदेशोऽन्तरिक्षलोकः ; तस्मिन्देशे संहितानिमित्तो द्विर्भावेनापादितो योऽन्यस्तकारः स वायुरिति ।
समानमिति ।
अथाधिज्योतिषम् , अग्निः पूर्वरूपम् , आदित्य उत्तररूपम् , आपः सन्धिः, वैद्युतः सन्धानम् , इत्यधिज्योतिषम् । ज्योतिःशब्देनात्र जहल्लक्षणया आपः सङ्गृहीताः । विद्युदेव वैद्युतः । अथाधिविद्यम् , आचार्यः पूर्वरूपम् , अन्तेवास्युत्तररूपम् , विद्या सन्धिः, प्रवचनं सन्धानम् , इत्यधिविद्यम् । इत्यधिविद्यमित्यत्र विद्याशब्देन आचार्यादयो जहल्लक्षणयैव सङ्गृहीता इति बोध्यम् । विद्याशब्दश्चाध्येतव्यग्रन्थपरः । ग्रन्थस्याध्ययनमध्यापनं वा प्रवचनम् । अथाधिप्रजम् , माता पूर्वरूपम् , पितोत्तररूपम् , प्रजा सन्धिः, प्रजननं सन्धानम् , इत्यधिप्रजमित्यत्र प्रजाशब्दो मात्रादीनपि पूर्ववत्सङ्गृह्णाति । प्रजननं प्रजाया उत्पत्तिः । अथाध्यात्मम् , अधरा हनुः पूर्वरूपम् , उत्तरा हनुरुत्तररूपम् , वाक्सन्धिः, जिह्वा सन्धानम् , इत्यध्यात्मम् । अत्रात्मा देहः, तदवयवविषयमुपासनमध्यात्ममित्यर्थः । एतेषु समानं योजनमित्यर्थः ।
उपप्रदर्श्यन्त इति ।
उपसंह्रियन्त इति यावत् ।
वेदेत्यस्य ज्ञानवाचित्वात्कथं ज्ञानावृत्तिरूपोपासनपरत्वमित्याशङ्क्य तत्साधयति —
वेदेत्युपासनं स्यादित्यादिना ।
विज्ञानाधिकारादिति ।
उपास्तिप्रकरणादित्यर्थः ।
तत्र मानमाह —
इति प्राचीनेति ।
यथाशास्त्रमित्यनेन यत्राहङ्ग्रहश्चोदितस्तत्राहङ्ग्रहेण, अन्यत्र तं विनेति विवक्षितम् । तुल्यत्वमेकविषयकत्वम् ।
अतत्प्रत्ययैरिति ।
ध्येयान्यगोचरैः प्रत्ययैरित्यर्थः । एकवस्तुगोचरा विच्छेदरहिता प्रत्ययसन्ततिरुपासनमिति निष्कर्षः ।
ननु सकृत्प्रत्यय एवोपासनमस्तु, किं तदावृत्त्येत्याशङ्क्य क्रियावृत्तावेवोपासनशब्दः प्रसिद्धो लोके, न सकृत्क्रियायाम् , अतोऽत्र वेदेत्यनेन प्रत्ययक्रियावृत्तिरेव लक्षणीयेत्याशयेनाह —
प्रसिद्धश्चेत्यादिना ।
ननु तत्रापि सकृदुपचारक्रियैवोपासनम् ; नेत्याह —
यो हीति ।
पृथिवी पूर्वरूपमित्यादिवेदनमात्रात्फलासम्भवादप्युपासनमेवात्र विधेयम् , उपासनस्य तु योग्यतया वक्ष्यमाणं फलं सम्भवति, लोकेऽप्युपासनस्य फलवत्त्वसिद्धेरित्याशयेनाह —
स चेति ।
गुर्वाद्युपासक इत्यर्थः ।
अतोऽत्रापीति ।
गुर्वाद्युपासनस्य लोके फलवत्त्वदर्शनात् अत्रापि संहिताविषयेऽपि, य एवं लोकादिदृष्ट्या संहिता उपास्त इत्यर्थः ।
सन्धीयत इति ।
सम्बध्यत इत्यर्थः । अत्र फलकामिना क्रियमाणमुपासनं कामितफलाय भवति, फलाभिसन्धिरहितेन तु क्रियमाणं तदेव विद्यासाधनं भवतीति ब्रह्मविद्यासंनिध्याम्नानबलात्कल्प्यत इति मन्तव्यम् ॥
ननु यश्छन्दसामित्यादयो मन्त्राः किमर्थमाम्नायन्ते ? तत्राह —
मेधेति ।
मेधाकामस्य मेधाप्राप्तिसाधनं जप उच्यते, श्रीकामस्य श्रीप्राप्तिसाधनं होम उच्यत इति विभागः ।
एवं तात्पर्यवर्णने कारणमाह —
स मेन्द्र इत्यादिना । ऋषभ इति ।
गवां मध्ये प्रधानत्वाद्यथा ऋषभः श्रेष्ठः, तथा वेदानां मध्ये प्रणवः श्रेष्ठः प्राधान्यादित्यर्थः ।
ननु कथमोङ्कारस्य सर्वरूपत्वमित्याशङ्क्याह —
सर्ववाग्व्याप्तेरिति ।
शब्दमात्रे कृत्स्नस्याभिधेयस्यान्तर्भावम् ‘तस्य वाक्तन्तिः’ इत्यादिश्रुत्युक्तं सिद्धं कृत्वा तस्य सर्वशब्दात्मकत्वे प्रमाणमाह —
तद्यथेति ।
‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णा’ इति श्रुत्यन्तरम् । तस्य चायमर्थः - यथा लोके अश्वत्थपर्णानि शङ्कुशब्दवाच्येन स्वगतशलाकाविशेषेण व्याप्तानि, तद्वदोङ्कारेण सर्वा शब्दात्मिका वाग्व्याप्तेति ।
अत एवेति ।
विश्वरूपत्वाच्च तस्य श्रेष्ठत्वमित्यर्थः ।
नन्वोङ्कारस्यात्र स्तुतिरन्याय्या ; नेत्याह —
ओङ्कारो ह्यत्रेति ।
अस्यां संहितोपनिषद्योङ्कारस्य ‘ओमिति ब्रह्म’ इत्यत्रोपासनं प्रसिद्धमिति हि-शब्दार्थः ।
ओङ्कारस्य सर्ववेदेषु प्राधान्यं कुत इत्याशङ्क्य तद्धेतुप्रदर्शनपरं छन्दोभ्य इति वाक्यं व्याचष्टे —
वेदेभ्य इत्यादिना ।
अमृतादिति वेदविशेषणम् ‘वेदा ह्यमृताः’ इति श्रुत्यन्तरात् , एकवचनं च च्छान्दसमित्याशयेनाह —
वेदा ह्यमृतमिति ।
वेदानाममृतत्वं नित्यत्वम् , तच्चावान्तरप्रलये नाशाभावरूपं विवक्षितम् । न त्वात्यन्तिकं नित्यत्वमस्ति वेदानाम् ; कल्पादौ सृष्टिश्रवणात् , महाप्रलये नाशाभ्युपगमाच्च । इदं च देवताधिकरणे विस्तरेण निरूपितं तत्रैव द्रष्टव्यम् ।
सम्बभूवेत्यस्यार्थमाह —
लोकदेवेति ।
सारिष्ठमिति ।
सारतममित्यर्थः । तथा च श्रुतिः - ‘प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवःसुवरिति तान्यभ्यतप्तेभ्योऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत्’ इति । अभ्यतपत् सारजिघृक्षया पर्यालोचितवानित्यर्थः । त्रयो वेदास्त्रयी विद्या । यद्यप्यस्यां श्रुतौ लोकानन्तरं देवा न श्रूयन्ते, तथापि ‘प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां रसान्प्राबृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां रसान्प्राबृहत्’ इत्यत्र देवा अपि श्रूयन्त इत्यभिप्रेत्य देवग्रहणमिति मन्तव्यम् । प्राबृहत् गृहीतवान् , सारत्वेन ज्ञातवानित्यर्थः ।
ननु सम्बभूवेति पदं जन्मपरत्वेनैव कुतो न व्याख्यायते ? तत्राह —
न हीति ।
नित्यस्येति ।
अवान्तरप्रलयावस्थायिन इत्यर्थः । प्रणवस्य वेदान्तर्भूतत्वेन वेदसमानयोगक्षेमस्य वेदेभ्यः सकाशान्मुख्यं जन्म न हि सम्भवतीत्याशयः । परमेश्वर इत्यस्य विवरणं सर्वकामेश इति ।
ननु मेधाप्रदानेन यत्प्रीणनं तात्कालिकप्रीतिसम्पादनं न तद्विद्याकामस्य विवक्षितं प्रयोजनमित्यस्वरसादाह —
बलयतु वेति ।
अत्र विद्याकामस्यापेक्षां दर्शयति —
प्रज्ञाबलं हीति ।
प्रज्ञात्र मेधाशब्दार्थः । सा च ग्रन्थतदर्थधारणशक्तिः, सैव बलम् । प्रज्ञाबलस्य च ‘नायमात्मा बलहीनेन लभ्यः’ इति श्रुतिसिद्धं विद्यासाधनत्वं द्योतयितुं हि-शब्दः ।
तदधिकारादिति ।
अमृतशब्दमुख्यार्थस्य ब्रह्मणो धारणासम्भवादमृतशब्देन मुख्यार्थादन्यदेव किञ्चिल्लक्षणीयम् ; तच्चामृतशब्दितब्रह्मप्राप्तिसाधनं ब्रह्मज्ञानमेव वक्तव्यम् , तत्साधनप्रज्ञाप्रार्थनेन तस्यैव बुद्धिस्थत्वादित्यर्थः ।
पुरुषविपरिणाम इति ।
उत्तमपुरुषत्वेन पूर्वत्र प्रयुक्तस्य भूयासमित्यस्य भूयादिति प्रथमपुरुषत्वेनात्र व्यत्यासः कर्तव्य इत्यर्थः ।
मधुरभाषिणीति ।
भूयादित्यनुषङ्गः ।
ननु चक्षुरादेरपि ज्ञानं प्रत्यानुकूल्यं कुतो न प्रार्थ्यते ? प्रार्थ्यत एवेत्याशयेन शरीरं मे विचर्षणमित्यादेर्विवक्षितमर्थमाह —
आत्मज्ञानेति ।
कार्यं स्थूलशरीरम् , करणानि चक्षुरादीनि, तेषां सङ्घातः समुदाय इत्यर्थः ।
ननु सङ्घातनिष्ठा योग्यता चेदात्मज्ञानाय प्रार्थ्यते, किमर्थं तर्हि मेधा प्रार्थ्यते ? तत्राह —
मेधा चेति ।
रोगादिप्रतिबन्धरहितस्य जितेन्द्रियस्यापि मेधां विनात्मज्ञानासम्भवात्सापि प्राधान्येनात्मज्ञानार्थमेव प्रार्थ्यत इत्यर्थः । आत्मज्ञानं प्रति प्रज्ञायाः प्रकृष्टसाधनत्वद्योतनार्थो हि-शब्दः । अत्राचेतनस्याप्योङ्कारस्य ब्रह्माभेदेन प्रार्थितदाने सामर्थ्यमवगन्तव्यम् ।
ननु कथं तस्य ब्रह्माभेदः ? तत्प्रतीकत्वादिति ब्रूमः । कथं तस्य तत्प्रतीकत्वम् ? तत्राह —
ब्रह्मणः परमात्मन इति ।
नन्वसिं प्रति प्रसिद्धकोशस्येव ब्रह्म प्रति प्रणवस्य स्वस्मिन्नन्तर्भावयितृत्वरक्षकत्वादेरभावान्न मुख्यं कोशत्वमस्ति ; तत्राह —
उपलब्धीति ।
यथासिः कोशे उपलभ्यते तथा ओङ्कारे ब्रह्मोपलभ्यते ; ततश्चोपलब्धिस्थानत्वसाम्यात्कोशशब्दो गौण ओङ्कार इत्यर्थः ।
तदेव साम्यं विवृणोति —
त्वं हीति ।
तस्य ब्रह्मप्रतीकत्वे श्रुत्यन्तरप्रसिद्धिद्योतनार्थो हि-शब्दः ।
प्रतीकमिति ।
दृष्ट्यालम्बनमित्यर्थः ।
ब्रह्मदृष्टिफलमाह —
त्वयीति ।
उपलब्धिः साक्षात्कारः ।
ननु यद्योङ्कारः प्रार्थितफलदाने समर्थस्तर्हि किमिति स सर्वैर्नोपास्यत इति शङ्कावारणर्थं मेधया पिहित इति वाक्यम् । तद्व्याचष्टे —
मेधयेत्यादिना ।
ननु शास्त्राजनिता प्रज्ञा लौकिकप्रज्ञा, तस्याः कथं पीठादेरिव पिधायकत्वमित्याशङ्क्यात्र विवक्षितं पिधानं कथयति —
स त्वमिति ।
उक्तलौकिकप्रज्ञामात्रयुक्ताः सामान्यप्रज्ञाः ; स त्वं सामान्यप्रज्ञैरविदितमहिमासि ; तस्मात्त्वं न सर्वैरुपास्यत इत्यर्थः । श्रवणपूर्वकमात्मज्ञानादिलक्षणं विज्ञानं श्रुतम् , तत्प्राप्त्यविस्मरणादिना गोपायेति योजना । प्रथमादिपदेन मननजनितं ज्ञानं सङ्गृह्यते । द्वितीयादिपदेन रागादिलक्षणप्रतिबन्धनिवृत्तिः सङ्गृह्यते । तदुक्तं वार्त्तिके - ‘रागद्वेषादिहेतुभ्यः श्रुतं गोपाय मे प्रभो’ इति ।
तत्कर्मत्वादिति ।
तनोतेर्धातोस्तदर्थकत्वादित्यर्थः ।
ममेति ।
ममान्नपानादिकं सर्वमानयन्ती सर्वदा सम्पादयन्ती तथा सम्पादितं सर्वं विस्तारयन्ती वर्धयन्ती वर्धितं सर्वं चिरं दीर्घकालं कुर्वाणा वर्तयन्ती, यथा विनष्टं न भवति तथा कुर्वतीति यावत् । अचिरमिति च्छेदः सम्भावनामात्रेण । दैर्घ्यं छान्दसम् ।
किमित्याहेति ।
किमावहन्तीत्याकाङ्क्षायामाहेत्यर्थः । अत्रावहन्तीत्यादिपदत्रयं श्रियो विशेषणम् ।
नन्वावहन्तीत्यादिपदत्रयस्य प्रथमान्तस्य, द्वितीयान्तस्य श्रीपदस्य च कथं विशेषणविशेष्यभावेनान्वय इत्याशङ्क्याध्याहारेण योजयति —
श्रीर्यातामीति ।
तामावहेत्युत्तरेणान्वयः । ततो मे श्रियमित्यत्र तत इत्यस्य व्याख्या मेधानिर्वर्तनात्परमिति ।
ननु मेधानिष्पत्त्यनन्तरमेव किमिति श्रीः प्रार्थ्यते ? तत्राह —
अमेधसो हीति ।
प्रज्ञाहीनस्यापात्रव्ययादिना धनादिकमनर्थायैवेत्येतत्प्रसिद्धम् ; अतो मेधानन्तरमेव श्रीः प्रार्थ्यत इत्यर्थः ।
किंविशिष्टां चेति ।
पुनश्च किंविशिष्टामित्यर्थः । अजादीनां लोमशत्वात्तद्रूपा श्रीर्लोमशेति भावः ।
श्रियमावहेति कः सम्बोध्यते ? तत्राह —
अधिकारादिति ।
संनिधानादित्यर्थः । ओङ्कारस्य प्रार्थितश्रीप्रदाने योग्यतासूचनार्थो हि-शब्दः । मेधाविनः श्रीयुक्तस्य विद्याप्रदानाय शिष्यप्राप्तिप्रार्थनामन्त्र आ मा यन्त्विति ।
तं व्याचष्टे —
आयन्तु मामिति ।
स्वस्याचार्यत्वप्रयुक्तकीर्तिप्रार्थनामन्त्रो यशो जन इति ।
तं व्याचष्टे —
यशस्वीति ।
‘वस निवासे’ ‘वस आच्छादने’ इति धातुद्वयादुप्रत्ययः शीलार्थे । वेश्मसु वसनशीलः पराच्छादनशीलो वा वसुः ; अतिशयेन वसुर्वसीयान् , तस्माद्वसीयसः ईलोपश्छान्दसः ।
यद्वा धनवाचिना वसुशब्देन वसुमाँल्लक्ष्यते ; तथा च अतिशयेन वसुमान्वसुमत्तरः, तस्मादित्यर्थः इत्याशयेनाह —
वसुमत्तराद्वेति ।
तेष्विति ।
वसीयःसु वसुमत्तरेषु वेत्यर्थः ।
विद्यातत्साधनप्रार्थनानन्तरं विद्याफलप्रार्थनां दर्शयति —
किं चेति ।
नन्वत्र विदुषो ब्रह्मरूपे प्रणवे मुख्यप्रवेशासम्भवादहं ब्रह्मास्मीति ज्ञानमेव तस्य तस्मिन्प्रवेशत्वेन विवक्षणीयम् । तस्य चामृतस्य देव धारणो भूयसमित्यनेनैव प्रार्थितत्वात्पुनरुक्तिः स्यादित्याशङ्क्य तात्पर्यमाह —
प्रविश्य चेति ।
वाक्यद्वयस्य विवक्षितमर्थं सङ्क्षिप्याह —
आवयोरिति ।
भेदहेतुमज्ञानं नाशयेत्यर्थः ; तयोरेकत्वस्य स्वतः सिद्धत्वादिति मन्तव्यम् ।
बहुभेद इति ।
शिवविष्ण्वाद्यनेकमूर्त्युपेते त्वयि पापं नाशयामि, त्वन्मूर्तिभजनेन पापं नाशयामीति यावत् ।
यदुक्तं ब्रह्मचारिणो मामायन्त्विति, तदेव दृष्टान्तेन प्रपञ्चयति —
यथेति ।
अतो मामिति ।
त्वन्निष्ठायाः संसारश्रमापनयनस्थानत्वात्तदपनयाय मां प्रति स्वात्मानं तत्त्वतः प्रकाशयेत्यर्थः ।
आदरसूचनार्थमुक्तज्ञानं पुनः संप्रार्थ्य मुक्तिमपि तदर्थमेव पुनः प्रार्थयते —
प्रपद्यस्व चेति ।
रसविद्यो लोहो रसमयो भवति, तद्वन्मां त्वन्मयं कुर्वित्यर्थः ।
विद्यासंनिधौ श्रुतस्य श्रीकामस्य प्रणाड्या विद्यायामुपयोगं दर्शयति —
श्रिकामोऽस्मिन्त्यादिना ।
विद्या प्रकाशत इति ।
प्रकाशतेऽभिव्यज्यते, उत्पद्यत इति यावत् । यथा आदर्शतले निर्मले प्रतिबिम्बं स्फुटं पश्यति, तथा पापक्षयेण निर्मलादर्शतलतुल्येऽन्तःकरणे ब्रह्मात्मानं पश्यतीति स्मृतेरुत्तरार्धार्थः ॥
वृत्तानुवादपूर्वकमुत्तरानुवाकद्वयतात्पर्यमाह —
संहिताविषयमित्यादिना ।
संहितोपासनं फलाभिसन्धिं विनानुष्ठितं चित्तशुद्धिद्वारा विद्योपयोगार्थमिति सूचयति —
ते चेति ।
च-शब्दोऽप्यर्थः । संहितोपासनवत्तेऽपीत्यर्थः ।
अन्तरिति ।
व्याहृतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहति । अतो व्याहृतिशरीरस्य ब्रह्मणो हृदयान्तरुपासनमुपदिश्यत इत्यर्थः ।
तात्पर्यमुक्त्वाक्षरव्याख्यानाय प्रतीकमादत्ते —
भूर्भुवः सुवरिति ।
इतीत्युक्तेति ।
भूर्भुवःसुवरिति वाक्येनोक्तानां व्याहृतीनां पाठक्रमलब्धक्रमानुवादार्थः श्रुतावितिशब्द इत्यर्थः ।
प्रदर्शितानामिति ।
प्रदर्शितक्रमोपेतानां व्याहृतीनां स्वरूपानुवादार्थ एतास्तिस्रो व्याहृतय इति शब्द इत्यर्थः ।
ननु क्रमतः स्वरूपतश्च ताः किमर्थं परामृश्यन्ते ? तत्राह —
परामृष्टा इति ।
स्मृतिं विवृणोति —
तिस्र एता इति ।
स्मर्यन्ते तावदिति ।
तावच्छब्दः प्राथम्यार्थः । कर्मकाण्डे कर्माङ्गत्वेन प्रसिद्धव्याहृतयः इह प्रथमं स्मर्यन्ते वै-शब्देन तासु क्रमेणोपासनविधानार्थमित्यर्थः । सोमपानार्थं महांश्चमसो यस्य स महाचमस इति वेदभाष्यकाराः ।
अपत्यमिति ।
गोत्रापत्यमित्यर्थः । तथा च वार्त्तिके दर्शितम् - ‘महाचमसगोत्रत्वाद्गोत्रार्थस्तद्धितो भवेत्’ इति ।
प्रवेदयत इति लटो भूतार्थपरत्वेन व्याख्याने हेतुमहा —
उ ह स्म इत्येतेषामिति ।
ऋषेश्चतुर्थव्याहृतिविषयकं वेदनं योगप्रभावजनितं प्रत्यक्षमेवेति मत्वाह —
ददर्शेत्यर्थः इति ।
आर्षेति ।
ऋषिसम्बन्ध्यनुस्मरणमार्षम् , तस्यानुस्मरणस्य कर्तव्यताद्योतनार्थमित्यर्थः ।
ननु तस्योपासनाङ्गत्वे सति कर्तव्यता सिध्यति, तदेव कुत इति ; तत्राह —
ऋष्यनुस्मरणमपीति ।
इहोपदेशादिति ।
उपासनप्रकरणे ऋषेः सङ्कीर्तनादित्यर्थः । उत्तरत्रोपदेक्ष्यमाणाया गतेरपि चिन्तनमुपासनाङ्गत्वेन कर्तव्यमिहोपदेशाविशेषादित्यपेरर्थः ।
तद्ब्रह्मेति ।
तच्चतुर्थव्याहृतिस्वरूपं ब्रह्मेति चिन्तयेदित्यर्थः ।
इतरव्याहृतित्यागेन चतुर्थव्याहृतिस्वरूपे ब्रह्मदृष्टिविधाने नियामकमाह —
महद्धि किल ब्रह्म महती च व्याहृतिरिति ।
महत्त्वं व्यापकत्वम् , तच्च ब्रह्मणः श्रुतिषु प्रसिद्धमिति द्योतनार्थौ हि किलेति निपातौ । चतुर्थव्याहृतेरितरव्याहृत्यपेक्षया व्यापकत्वं वक्ष्यति । तथा च व्यापकत्वसाम्येन चतुर्थव्याहृतिस्वरूपे ब्रह्मदृष्टिविधिरिति भावः ।
चतुर्थव्याहृतेर्व्यापकत्वं निरूपयितुं पृच्छति —
किं पुनस्तदिति ।
मह इति व्याहृतिस्वरूपं ब्रह्मेत्युक्तम् , तद्व्याहृतिस्वरूपं पुनरपि किं कीदृशमित्यक्षरार्थः । अत्रोत्तरं स आत्मेति श्रुतिः । विधेयापेक्षया पुंलिङ्गनिर्देशः, स चतुर्थव्याहृतिस्वरूपमात्मा इतरव्याहृत्यपेक्षया व्यापकमित्यर्थः ।
ननु चेतने रूढस्यात्मशब्दस्य कथं व्यापकत्वमर्थः ? योगेनेत्याह —
आप्नोतेरिति ।
व्याप्तिः कर्म क्रिया अर्थो यस्य ; ततश्च व्याप्तिवाचकादाप्नोतेः सकाशान्निष्पन्नोऽयमात्मशब्दो व्यापकत्वबोधक इत्यर्थः ।
मह इति व्याहृतेरात्मश्रुत्युक्तमितरव्याहृत्यपेक्षया व्यापकत्वमुपपादयति —
इतराश्चेत्यादिना यतोऽत इत्यन्तेन ।
च-शब्दोऽवधारणे ।
नन्वितरव्याहृतयो मह इत्यनेन व्याप्यन्त इत्ययुक्तम् , इतरव्याहृतेषु मह इत्यस्याक्षरानुवृत्तेरदर्शनादित्याशङ्क्याह —
आदित्यचन्द्रब्रह्मान्नभूतेनेति ।
मह इति व्याहृत्यात्मन आदित्यादिभूतत्वमित्थं श्रूयते - ’मह इत्यादित्यः, मह इति चन्द्रमाः मह इति ब्रह्म, मह इत्यन्नम्’ इति । मह इति ब्रह्मेत्यत्र ब्रह्मोङ्कार इति वक्ष्यति । नन्वादित्यादीनां लोकादिष्वेव व्याप्तिः, न व्याहृतिषु, अनुपलम्भात् ; ततश्च कथमादित्यचन्द्रब्रह्मान्नभूतेन मह इत्यनेन इतरा व्याहृतयो व्याप्यन्त इत्याशङ्क्य तासामादित्यादिव्याप्यतासिद्ध्यर्थं लोकाद्यात्मकतामाह – लोकादेवावेदाः प्राणाश्चेति । इतरव्याहृतयो लकदेववेदप्राणात्मिका इत्यक्षरार्थः । तासामित्थं लोकाद्यात्मकत्वं श्रूयते - ‘भूरिति वा अयं लोकः, भुव इत्यन्तरिक्षम् , सुवरित्यसौ लोकः ; भूरिति वा अग्निः, भुव इति वायुः, सुवरित्यादित्यः ; भूरिति वा ऋचः, भुव इति सामानि, सुवरिति यजूषि ; भूरिति वै प्राणः, भुव इत्यपानः, सुवरिति व्यानः’ इति । अत्र पृथिव्यन्तरिक्षद्युलोकानामादित्यव्याप्यता प्रसिद्धा, अग्निवाय्वादित्यदेवतानां चन्द्रव्याप्यता प्रसिद्धैव, चन्द्रसूर्ययोः स्वदीप्त्या सर्वलोकव्यापकत्वात् ; वागात्मकानां वेदानामोङ्कारव्याप्यता ‘तद्यथा शङ्कुना’ इत्यादिश्रुतिसिद्धा, प्राणानामन्नरसद्वारान्नव्याप्यता प्रसिद्धा ; तथा च लोकदेववेदप्राणात्मिका इतरव्याहृतयो यत आदित्यचन्द्रब्रह्मान्नभूतेन मह इत्यनेन व्याहृत्यात्मना व्याप्यन्ते, अतो मह इति व्याहृतेरितरापेक्षया व्यापकत्वमित्यर्थः ।
इत्थं स आत्मेति वाक्यं व्याख्याय अनन्तरवाक्यमादत्ते —
अङ्गानीति ।
नन्वन्या व्याहृतयो यथा देवतारूपत्वेन श्रुतास्तथा लोकादिरूपत्वेनापि श्रुताः ; ततश्च कथमग्न्यादिदेवतारूपाणामेव तासामङ्गत्ववचनम् ? तत्राह —
देवताग्रहणमिति ।
देवतापदमजहल्लक्षणया लोकादीनामपि ज्ञापनार्थम् ; अतो नोक्तदोष इत्यर्थः ।
लोकाद्युपलक्षणे कृते सति फलितम् ‘अङ्गान्यन्या देवताः’ इति वाक्यार्थं दर्शयति —
मह इत्येतस्येत्यादिना इतीत्यन्तेन ।
अत्रेतिशब्दोऽत इत्यर्थे, यत इत्युपक्रमात् ; तथा च यत आदित्यादिभिर्लोकादयो महीयन्ते अतः सर्वे देवा लोकादयश्च मह इत्येतस्य व्याहृत्यात्मनोऽवयवभूता इति योजना ।
अत्र दृष्टान्तमाह —
आत्मना हीति ।
प्रसिद्धशरीरस्य मध्यभागोऽत्रात्मशब्दार्थः । तेन हस्तपादाद्यङ्गानि महीयन्ते । शरीरमध्यभागगतान्नादिना अङ्गानां वृद्धिः प्रसिद्धेति हि-शब्दार्थः । अयं भावः - यथा देवदत्तस्य मध्यमभागं प्रति पादादीन्यङ्गानि मध्यमभागाधीनवृद्धिभाक्त्वात् , मध्यमभागश्चाङ्गी तद्वृद्धिहेतुत्वात् , तथा लोकाद्यात्मिका इतरव्याहृतयः पादादिरूपाङ्गाणि, आदित्याद्यात्मकं चतुर्थव्याहृतिस्वरूपमङ्गीति कल्प्यते ; मह इत्यस्यादित्याद्यात्मनेतरवृद्धिहेतुत्वेन वृद्धिहेतुत्वसाम्यात् , इतरव्याहृतीनां च लोकाद्यात्मना तदधीनवृद्धिभाक्त्वेन प्रसिद्धाङ्गवद्वृद्धिभाक्त्वसाम्यात् ; तत्रापि प्रथमा व्याहृतिः पादौ, द्वितीया बाहू, तृतीया शिर इति विभागः ; तथा च व्याहृतिचतुष्टयं मिलित्वा शरीरं सम्पद्यते ; तस्मिन्व्याहृतिमये शरीरे यदङ्गित्वेन कल्पितं चतुर्थव्याहृतिस्वरूपं तत्र तद्ब्रह्मेति वाक्येन ब्रह्मदृष्टिर्विहिता ; तथा च वक्ष्यति - मह इत्यङ्गिनि ब्रह्मणीति । आदित्यादीनां च लोकादिवृद्धिहेतुत्वमित्थं श्रूयते - ‘आदित्येन वाव सर्वे लोका महीयन्ते, चन्द्रमसा वाव सर्वाणि ज्योतीषि महीयन्ते, ब्रह्मणा वाव सर्वे वेदा महीयन्ते, अन्नेन वाव सर्वे प्राणा महीयन्ते’ इति । अयमर्थः लोकास्तावदादित्येन प्रकाशिताः सन्तः प्राणिनां व्यवहार्यत्वलक्षणां वृद्धिं प्राप्नुवन्ति ; अग्निवाय्वादित्यदेवतारूपाणि ज्योतींषि चन्द्रमसा वर्धन्त इत्येतत् ‘प्रथमां पिबते वह्निः’ इत्यादिशास्त्रसिद्धम् , चन्द्रकलापानेन तेषां वृद्धेरावश्यिकत्वात् ; ब्रह्मणा प्रणवेन सर्वे देवा वर्धन्ते वेदवृद्धेः प्रणवपूर्वकाध्ययनाधीनत्वात् , तथा च वक्ष्यति ‘ओमिति ब्राह्मणः प्रवक्ष्यन्नाह’ इति ; अन्नेन प्राणा वर्धन्त इत्येतत्प्रसिद्धम् , श्रुतिश्चात्र भवति ‘शुष्यति वै प्राण ऋतेऽन्नात्’ इति ।
भूरिति वा अयं लोक इत्यादावैकैका व्याहृतिश्चतुष्प्रकारा ज्ञातव्येति तात्पर्यमाह —
अयं लोक इत्यादिना ।
भूरितीति ।
चतुर्धा भवतीति शेषः ।
एवमुत्तरा इति ।
अन्तरिक्षं वायुः सामान्यपान इति द्वितीया व्याहृतिर्भुव इति, सुवर्लोक आदित्यो यजूंषि व्यान इति तृतीया व्याहृतिः सुवरिति, आदित्यश्चन्द्रमा ओङ्कारोऽन्नमिति चतुर्थीं व्याहृतिर्मह इति ; एवमेता उत्तरा व्याहृतयः प्रत्येकं चतुर्धा भवन्तीत्यर्थः ।
मह इति ब्रह्मेत्यत्र ब्रह्मशब्दस्य मुख्यार्थपरत्वं वारयति —
ब्रह्मेत्योङ्कार इति ।
भूरिति वा ऋच इत्यादिना वेदावयवभूतशब्दसंनिधाने मुख्यार्थग्रहणायोगात् , चतुर्थव्याहृतौ पूर्वमेव मुख्यब्रह्मदृष्टेरुक्तत्वेन पौनरुक्त्यप्रसङ्गाच्चेत्यपि द्रष्टव्यम् ।
धा-शब्दस्य प्रकारवचनत्वे सति चतस्रश्चतुर्धेति वाक्यस्य फलितमर्थं क्रियाध्याहारपूर्वकं दर्शयति —
चतस्रश्चतस्रः सत्य इति ।
स्वरूपेण चतस्रो व्याहृतयो द्रष्टव्यलोकादिभेदेन प्रत्येकं चतस्रः सत्य इत्यर्थः ।
ननु व्याहृतिषु प्रत्येकं पदार्थचतुष्टयदृष्टिवाक्येभ्य एव तासां प्रत्येकं चतुर्धात्वक्लृप्तिसिद्धेः चतस्रश्चतुर्धेति वाक्यं पुनरुक्तमिति ; नेत्याह —
तासां यथाक्लृप्तानामिति ।
भूरिति वा अयं लोक इत्यादिवचनानां व्याहृतिस्तुतिपरत्वशङ्कानिरासेन तथैवोपासनकर्तव्यतावश्यिकत्वद्योतनार्थं इत्यर्थः । चतस्रश्चतस्रो व्याहृतय इति वाक्यं तु निरूपितानां तासामुपसंहारार्थमिति भावः ।
ज्ञातस्य ब्रह्मणः पुनर्ज्ञानोपदेशे पौनरुक्त्यं स्यादिति शङ्कते —
नन्विति ।
तद्ब्रह्मेति वाक्ये ब्रह्ममात्रमवगतं न तु तद्गुणजातम् , ‘स वेद ब्रह्म’ इति वाक्येतु वक्ष्यमाणगुणविशिष्टत्वेन ज्ञातव्यत्वमुपदिश्यते ।
तथा च वक्ष्यमाणगुणविशिष्टत्वेन पूर्वमज्ञातत्वान्न पौनरुक्त्यमिति परिहरति —
नेति ।
न च वक्ष्यमाणगुणानामपि वक्ष्यमाणानुवाकेनैवावगन्तुं शक्यत्वादिदं वचनं व्यर्थमेव स्यादिति वाच्यम् ; एतदनुवाकावगते चतुर्थव्याहृत्यात्मके ब्रह्मणि वक्ष्यमाणगुणवत्त्वावगमस्यैतद्वचनाधीनत्वेन वैयर्थ्याप्रसक्तेरिति भावः ।
सङ्ग्रहं विवृणोति —
सत्यमित्यादिना ।
न तु तद्विशेषो विज्ञायत इति सम्बन्धः ।
तस्य ब्रह्मणो विशेषमेव विवृणोति —
हृदयान्तरित्यादिना ।
योऽयमुत्तरानुवाकोपक्रमे दर्शितो हृदयान्तरुपलभ्यमानत्वमनोमयत्वादिर्हिरण्मयत्वान्तो गुणपूगः यश्च तदुपसंहारे प्रदर्शित आकाशशरीरत्वादिशान्तिसमृद्धमित्येवमन्तो धर्मपूगः, स न ज्ञायत इत्यर्थः । विशेषणविशेष्यरूप इत्यत्र विशेष्यपदमविवक्षितार्थम् ; अत एव धर्मपूगस्य विशेषणत्वमात्रमेव वक्ष्यति — धर्मपूगेण विशिष्टं ब्रह्मेति । यद्वा अत्र विशेषणानां पाठक्रमानुसारेण क्रमविशिष्टतया चिन्तनमभिप्रेत्य विशेषणविशेष्यरूपत्वमुक्तम् ; तच्च पूर्वापरीभूतत्वरूपम् । अत एव ‘इति प्राचीनयोग्य’ इत्यत्र इति-शब्देन प्रकारवाचिना क्रमविशिष्टतयैव गुणानामुपासनं प्रतीयत इति बोध्यम् ।
ननु तद्ब्रह्म स आत्मेत्यत्रास्तु तद्विशेषाज्ञानम् ; ततः किम् ? तत्राह —
तद्विवक्ष्विति ।
एवं पौनरुक्त्यदोषं परिहृत्य स वेद ब्रह्मेति वाक्यस्यार्थं कथयति —
यो हीति ।
ननु लोकादिदृष्टिपरिगृहीतव्याहृतिशरीरब्रह्मोपासनविधायकस्यास्यानुवाकस्य वक्ष्यमाणेनानुवाकेनैकवाक्यतां विना कथं तत्रत्यगुणानामत्रान्वय इत्याशङ्क्य वक्ष्यमाणगुणाकर्षकात्स वेद ब्रह्मेति वाक्यादेवानयोरेकवाक्यत्वं कल्प्यत इत्याशयेनाह —
अतो वक्ष्यमाणेति ।
नन्वनुवाकद्वये उपासनैक्यं विना कथमेकवाक्यत्वम् , अर्थैक्यनिबन्धनत्वादेकवाक्यताया इत्याशङ्क्य, तदपि वक्ष्यमाणगुणाकर्षकवाक्यबलादेव कल्प्यत इत्याशयेनाह —
उभयोरिति ।
लिङ्गाच्चोपासनमेकमेवेत्युक्तमेव विवृणोति —
भूरित्यग्नाविति ।
व्याहृत्यनुवाकोक्तानामग्न्यादिदृष्टीनां वक्ष्यमाणानुवाके फलकथनलिङ्गाद्व्याहृतिशरीरब्रह्मोपासनमुभयत्रैकमिति गम्यत इत्यर्थः ।
विधायकाभावाच्चेति ।
उपासनभेदकविध्यभावादित्यर्थः ।
तमेव विवृणोति —
न हीति ।
ननु व्याहृत्यनुवाकस्थः ‘ता यो वेद’ इति विधिरेव तद्भेदकोऽस्तु ; नेत्याह —
ता यो वेदेति त्विति ।
इतिशब्दो वेदेति विधिं परामृशति ; तथा च ‘ता यो वेद’ इत्ययं विधिर्नोपासनभेदक इति योजना । अयं भावः - ‘ता यो वेद’ इत्यत्र व्याहृतिशरीरस्य ब्रह्मणः प्रधानविद्याविधिरुत्तरानुवाके गुणविधिरिति प्रकारेणोपासनैक्येऽपि ‘ता यो वेद’ इति विधिसम्भवान्न तस्य विद्याभेदकत्वमिति ।
ननु तर्हि ‘स वेद ब्रह्म’ इति विधिर्भेदकोऽस्तु ; नेत्याह —
वक्ष्यमाणार्थत्वान्नोपासनभेदक इति ।
‘स वेद ब्रह्म’ इति वाक्यं व्याहृत्यनुवाकस्थे ब्रह्मोपासने वक्ष्यमाणगुणाकर्षणार्थत्वान्न विद्यैक्यविरोधि, किं तु तदनुकूलमेवेत्यर्थः ।
हेत्वसिद्धिं पूर्वोक्तार्थस्मारणेन निराचष्टे —
वक्ष्यमाणार्थत्वं चेति ।
विदुषे देवाः कदा बलिं प्रयच्छन्तीत्याकाङ्क्षायां स्वाराज्यप्राप्त्यनन्तरमित्याशयेनाह —
स्वाराज्येति ।
स्वयमेव राजा स्वराट् , तस्य भावः स्वाराज्यम् , अङ्गदेवताधिपतित्वमिति यावत् । तत्प्राप्त्यनन्तरमेवाङ्गदेवताभिर्बल्युपहारणमुचितम् ; अत एवार्थक्रमानुसारेण ‘सर्वेऽस्मै देवाः’ इति वाक्यम् ‘आप्नोति स्वाराज्यम्’ इति वाक्यानन्तरं पठनीयम् । एतच्चाग्रे स्फुटं वक्ष्यति - स्वयमेव राजाधिपतिर्भवत्यङ्गभूतानां देवतानां यथा ब्रह्म देवाश्च सर्वेऽस्मै बलिमावहन्तीति । एतेनानुवाकयोः पृथक्फलश्रवणादुपासनभेद इति शङ्कापि निरस्ता भवति फलभदेश्रवणस्यैवासिद्धेरिति ॥
वृत्तानुवादपूर्वकमुत्तरानुवाकतात्पर्यमाह —
भूर्भुवरित्यादिना ।
मह इति व्याहृत्यपेक्षया अन्या भूर्भुवःसुवःस्वरूपा व्याहृतयो देवतादिरूपाश्चतुर्थव्याहृत्यात्मकस्य ब्रह्मणोऽङ्गानीत्युक्तमित्यर्थः ।
एतस्येति ।
स इति तच्छब्देनास्मिन्ननुवाके समाकृष्टस्येत्यर्थः । पुरुषपदापेक्षया स इति पुंलिङ्गनिर्देश इति न तद्विरोधः । उपासनार्थं साक्षादुपलब्ध्यर्थं चेत्यर्थक्रमः उपासनफलत्वात्साक्षात्कारस्य ।
उपासनार्थं स्थानविशेषोपदेशे दृष्टान्तमाह —
सालग्राम इवेति ।
साक्षादुपलब्ध्यर्थमित्युक्तं प्रपञ्चयति —
तस्मिन्हीति ।
उपासकानामिदं प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।
व्युत्क्रम्येति ।
संनिहितमाकाशमुल्लङ्घ्येत्यर्थः ।
हृदयस्वरूपमाह —
पुण्डरीकेति ।
प्राणायतन इति ।
‘हृदि प्राणः’ इति प्रसिद्धेरिति भावः ।
अनेकेति ।
अनेकनाड्याश्रयभूतानि सुषिराणि यस्येति विग्रहः ।
पुण्डरीकाकारत्वाधोमुखत्वोर्ध्वनालत्वविशिष्टे मांसखण्डे मानमाह —
विशस्यमान इति ।
‘पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्’ इत्यादिश्रुतिप्रसिद्धो यथोक्तमांसखण्डो विशस्यमाने पशौ प्रत्यक्षत उपलभ्यत इत्यर्थः ।
प्रसिद्ध एवेति ।
‘योऽयमन्तर्हृदय आकाशः’ इत्यादिश्रुतिष्विति शेषः । करकाकाशो यथा प्रसिद्ध इति दृष्टान्तयोजना । पुरि हृदये शरीरे वा शयनादवस्थानात्पुरुषः, पूर्णत्वाद्वा पुरुषः, भूरादयः पूर्णा येन स पुरुष इति वा ।
मननं मन इति भावव्युत्पत्तिमाश्रित्याह —
मनो ज्ञानमिति ।
मननं ज्ञानमित्यत्र हेतुमाह —
मनुतेरिति ।
ज्ञानं कर्म क्रिया वाच्यभूता यस्य तस्मान्मनुतेर्धातोर्निष्पन्नो मनःशब्दो यतो ज्ञानवाचीत्यर्थः ।
पुरुषस्य मनोविकारत्वाभावादाह —
तत्प्राय इति ।
मनःप्रधान इत्यर्थः ।
तत्र हेतुमाह —
तदुपलभ्यत्वादिति ।
तेनोपासनसंस्कृतेन मनसोपलभ्यमानत्वादित्यर्थः ।
तल्लिङ्गो वेति ।
अस्मदादिमनसा अस्मदादिभिरनिवार्येण तन्नियन्तृतया ब्रह्मानुमानसम्भवादिति भावः ।
ज्योतिर्मय इति ।
स्वप्रकाश इत्यर्थः । व्याहृतिशरीरे ब्रह्मणि मनोमयत्वादिगुणवत्यहङ्ग्रहमभिप्रेत्य विदुष आत्मभूतस्येत्युक्तम् , अहङ्ग्रहं विना तद्भावायोगात् तद्भावं विना च स्वाराज्यप्राप्त्ययोगात् ; अतः स्वाराज्यप्राप्तिवचनानुरोधेन विदुषो ब्रह्मभावो ब्रह्मण्यहङ्ग्रहश्च कल्प्यत इति भावः । तथा च श्रुतिः - ‘देवो भूत्वा देवानप्येति’ इति । इहैव भावनया देवभावं प्राप्य देहपातोत्तरकालं देवभावं प्राप्नोतीति तदर्थः ।
इन्द्ररूपस्येति ।
‘सेन्द्रयोनिः’ इति वाक्यशेषदर्शनादिन्द्ररूपत्वमुक्तम् ।
‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि निःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति’ इति श्रुत्यन्तरमनुसृत्याह —
हृदयादूर्ध्वमिति ।
श्रुतिप्रसिद्धायां शताधिकायां नाड्यां नामान्तरेण योगशास्त्रप्रसिद्धिं कथयति —
सुषुम्नेति ।
स्तन इवेति ।
आस्यान्तरिति शेषः ।
तेनेति ।
तस्येत्यर्थः । तस्य चान्तरेण अन्तर्देशं प्राप्यमाणा शीर्षकपाले व्यपोह्य या निर्गतेति योजना । विनिष्क्रम्य प्रतितिष्ठतीति सम्बन्धः ।
लोकस्येति ।
ऋग्वेदस्य प्राणस्य चेत्यर्थः ।
इमं लोकमिति ।
ऋग्वेदं प्राणं चेत्यपि द्रष्टव्यम् । प्रथमव्याहृतौ लोकाग्निऋग्वेदप्राणानां चतुर्णां दृष्टत्वेन लोकाग्निभाववदृग्वेदप्राणभावस्यापि वक्तव्यत्वात् । न च प्रधानब्रह्मोपासनफलवचनेन ‘मह इति ब्रह्मणि’ इत्यनेन सर्वात्मकब्रह्मभावे कथिते सति विदुष ऋग्वेदप्राणभावस्यापि सिद्धत्वान्न पृथक्तद्भावो वक्तव्य इति वाच्यम् ; तथा सति लोकाग्निभावस्यापि तत एव सिद्धत्वेन ‘अग्नौ प्रतितिष्ठति’ इति श्रुतिवचनमग्न्यात्मनेमं लोकं व्याप्नोतीति भाष्यवचनं चानर्थकं स्यात् । एतेन भूरिति व्याहृतौ ऋग्वेदप्राणदृष्ट्योर्ब्रह्मोपासनं प्रत्यङ्गतया प्रधानफलेनैव फलवत्त्वाच्छ्रुतौ भाष्ये च पृथक्तद्भाववचनाभाव इति शङ्कापि निरस्ता, तस्यां लोकाग्निदृष्ट्योरप्यङ्गत्वेन तत्फलस्याप्यवक्तव्यत्वापत्तेः । यदि चाङ्गानां प्रधानफलेनैव फलवत्त्वेऽप्यङ्गस्तुत्यर्थं पृथक्फलवचनमपेक्षितमित्युच्येत, तदा ऋग्वेदादिदृष्टावपि तदर्थं पृथक्फलं वक्तव्यम् ; एवमुत्तरत्रापि द्रष्टव्यमिति सङ्क्षेपः ।
आत्मभावेन स्थित्वेति ।
अत्र क्रमकथनं पाठक्रममाश्रित्य । वस्तुतस्तु क्रमो न विवक्षितः, विदुषः सर्वात्मकब्रह्मभाव एवाग्न्यादिभावस्यान्तर्भावेण क्रमाभावादिति मन्तव्यम् ।
ब्रह्मभूतमिति ।
‘मह इति ब्रह्मणि’ इति वाक्योक्तब्रह्मभावप्रयुक्तमित्यर्थः ।
उपासकः सर्वेषां हि मनसां पतिर्भवतीत्यत्र हि-शब्दसूचितं हेतुमाह —
सर्वात्मकत्वाद्ब्रह्मण इति ।
ब्रह्मभूतस्य विदुषः सर्वजीवात्मकत्वादित्यर्थः ।
ननु ब्रह्मणः सर्वात्मकत्वे सिद्धे तद्भावमापन्नस्य विदुषः सर्वात्मकत्वं स्यात् , तदेव कुत इत्यत्राह —
सर्वैर्हीति ।
तद्ब्रह्म सर्वैरुपाधिभूतैर्मनोभिः प्राप्तजीवभावं सन्मनुते चक्षुरादिद्वारा रूपादिकमनुभवति । ब्रह्मणो जीवभावे मानत्वेन प्रवेशवाक्यादिसूचनार्थो हि-शब्दः ।
न केवलमुपासकः सर्वमनसां पतिः, किं तु वागदीनामपीत्याह —
किं चेति ।
सर्वात्मकत्वादिति । विदुष इति शेषः ।
ननु त्वगादिपतित्वमपि कुतो नोक्तमित्याशङ्क्य आप्नोति मनसस्पतिमित्यादेर्विवक्षितमर्थमाह —
सर्वप्राणिनामिति ।
तद्वानिति । नियम्यनियामकभावसम्बन्धो मत्वर्थः ।
न केवलमेतावदेव विदुषः फलं भवति, किं त्वितोऽपि बहु फलं भवतीत्याह —
किं च ततोऽपीति ।
शरीरमस्येति ।
शरीरपदं स्वरूपपरम् ; ततश्च आकाशमधिष्ठानभूतस्य ब्रह्मणः कल्पितं स्वरूपमित्यर्थः ।
सूक्ष्ममिति ।
जलादिभिर्दुःखादिभिश्च संश्लेषायोग्यत्वं सूक्ष्मत्वम् ; तदाह भगवान् - ‘यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते’ इति ।
सत्यमिति ।
सद्भूतत्रयलक्षणं मूर्तम् , त्यद्वाय्वाकाशात्मकममूर्तम् , तदुभयं सच्च त्यच्च सत्त्यमिति व्युत्पत्त्या सत्त्यशब्दवाच्यम् , तदात्मा कल्पितं रूपमस्येत्यर्थः ।
सत्यशब्दस्य परमार्थवस्तुनि रूढिमाश्रित्याह —
अवितथमिति ।
प्राणेष्विति ।
सविषयेष्विन्द्रियेष्वित्यर्थः । इदं च व्याख्यानं ब्रह्मणो जीवभावाभिप्रायम् ।
केवलब्रह्मपरत्वेनापि व्याचष्टे —
प्राणानां वेति ।
यस्मिन्निति ।
यस्मिन्ब्रह्मणि नियन्तृरूपे सतीत्यर्थः ।
मनआनन्दमिति पदं ब्रह्मणो जीवभावाभिप्रायेणैव व्याचष्टे —
मन इत्यादिना ।
शान्तिश्चेति ।
सर्वद्वैतनिवृत्तिरूपमित्यर्थः । अज्ञानतत्कार्यध्वंसस्याधिष्ठानब्रह्मानतिरेकादिति भावः ।
समृद्धं चेति ।
सम्यगात्मभावेन ऋद्धिं व्याप्तिं गतं समृद्धम् , सर्वव्यापकमित्यर्थः ।
शान्त्या वेति ।
सर्ववृत्त्युपरमलक्षणया समाधिशब्दितया शान्त्या समृद्धवत्पूर्णान्दरूपेण योगिभिरुपलभ्यत इत्यर्थः ।
एतच्चेति ।
ननु फलत्वेनोक्तस्याधिकतरविशेषणस्य कथमुपास्यगुणान्तर्भाव उच्यते ? नैष दोषः, ‘तं यथा यथोपासते’ इति श्रुत्या फलत्वेनावगतस्यापि विशेषणजातस्य ध्येयत्वावगमात् , विशिष्यात्र व्यवहितसंनिहितसकलगुणपूगलक्षणप्रकारपरामर्शिनेतिपदेनाधिकतरविशेषणस्याप्युपास्तिं प्रति विषयतया समर्पणाच्च । न चैवम् ‘आप्नोति स्वाराज्यम्’ इत्यादावुक्तानां सर्वदेवाधिपतित्वसर्वदेवपूज्यत्वसर्वकरणपतित्वानामपि फलरूपाणामुपास्यगुणत्वप्रसङ्ग इति वाच्यम् ; इष्टत्वात् । तत्सङ्ग्रहार्थ एवैतच्चेत्यत्र चकार इति सङ्क्षेपः ।
ननु उपासनस्य श्रुत्या स्वेन रूपेणोक्तावप्यनुष्ठानसिद्धेः आचार्योक्तिकल्पनं मुधा, नेत्याह —
आदरार्थेति ।
उपासनानुष्ठाने आदरातिशयसिद्ध्यर्थेत्यर्थः ।
उक्त एवेति ।
उपासनं च यथाशास्त्रमित्यादाविति शेषः । नन्वत्र किमपरं ब्रह्मोपास्यं किं वा परं ब्रह्मेति ? किमत्र संशयकारणम् ? परं चापरं च ब्रह्मेत्यादावुभयत्र ब्रह्मशब्दप्रयोगदर्शनमेव । अत्र केचिदपरमेव ध्येयमिति वदन्ति । तथाहि - प्राणारामत्व मनआनन्दत्वयोः सूत्रात्मनि हिरण्यगर्भे स्वारस्यान्मनोमयपदस्य मनोभिमानीति भाष्यदर्शनेन भाष्कारस्यापि तत्रानुमत्यवगमाच्च, अन्येषामपि विशेषणानां तस्मिन्नेव यथाकथञ्चिदुपपादनसम्भवाच्चापरमेवात्र विवक्षितमिति । अन्ये तु परमीश्वररूपमेवात्र ब्रह्म ध्येयमिति वदन्ति । तथा हि - परं ब्रह्मैवात्र विवक्षितम् , ब्रह्मशब्दस्य तत्र मुख्यत्वात् ; नापरम् , तत्र तस्यामुख्यत्वात् ; तदुक्तं सूत्रकारेण ‘सामीप्यात्तु तद्व्यपदेशः’ इति । परब्रह्मसामीप्यादेव सूत्रात्मनि ब्रह्मशब्दप्रयोगो न मुख्यवृत्त्येति तदर्थः । तथा अमृतत्वं परस्यैव ब्रह्मणो लिङ्गम् । न च ‘सैषानस्तमिता देवता’ इत्यादावपरस्यापि नाशराहित्यरूपममृतत्वं श्रूयत इति वाच्यम् ; तस्यावान्तरप्रलये नाशाभावश्रवणेऽपि महाप्रलये नाशश्रवणेन मुख्यामृतत्वासम्भवात् । न च ‘प्राणारामं मनआनन्दम्’ इति लिङ्गद्वयानुरोधेनापेक्षिकमेवामृतत्वमिहास्त्विति वाच्यम् ; ब्रह्मश्रुत्यनुरोधेन मुख्यामृतत्वग्रहणसम्भवे दुर्बललिङ्गानुरोधेनापेक्षिकामृतत्वग्रहणायोगात् , उपसंहारेऽप्यमृतत्वश्रवणेनोपक्रमोपसंहारस्पर्शित्वलक्षणतात्पर्यलिङ्ग - युक्तस्यामृतत्वस्य तद्रहितप्राणारामत्वादिलिङ्गानुरोधेनान्यथानयनायोगाच्च । तथा पुरुषपदोदितं पूर्णत्वं हिरण्मयपदोदितं स्वयञ्ज्योतिष्ट्वमिन्द्रपदोदितं पारमैश्वर्यमाकाशशरीरपदोदितमाकाशदेहत्वं सूक्ष्मत्वं वा सत्यात्मपदोदितमवितथस्वभावत्वं शान्तिसमृद्धपदोदितं सर्वप्रपञ्चोपशमात्मकत्वमित्येतेषां लिङ्गानां परब्रह्मण्येव स्वारस्याच्च । मनोमयपदस्याप्यर्थत्रयं भाष्ये दर्शितम् । तत्र प्रथमतृतीयार्थौ परापरब्रह्मणोः साधारणौ । मनोभिमानीत्यर्थप्रदर्शनमात्रमपरब्रह्मपक्षपाति । तथा प्राणारामत्वमनआनन्दत्वे अपि । न चैतावता हिरण्यगर्भाख्यं ब्रह्म श्रुतिभाष्ययोरभिप्रेतमिति निश्चेतुं शक्यते । शाण्डिल्यविद्यादौ मनोमयत्वप्राणशरीरत्ववदत्रापि ब्रह्मणः सार्वात्म्यप्रयुक्ततया तेषामपि परस्मिन्ब्रह्मण्युपपत्तेः सार्वात्म्यं च प्रकृतस्य ब्रह्मणो दर्शितम् । न चैतत्परब्रह्मणोऽन्यत्र मुख्यं सम्भवति । तस्मात्परमेव ब्रह्मात्रोपास्यमिति सङ्क्षेपः ॥
उत्तरोऽप्यनुवाकः प्रकारान्तरेण ब्रह्मोपासनविषय इत्याह —
यदेतदित्यादिना ।
पृथिव्यादिजगतः कथं पाङ्क्तत्वमित्याकाङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः पृथिव्यादौ सम्पादनादित्याह —
पञ्चसङ्ख्येति ।
न केवलं पञ्चसङ्ख्यायोगात्पङ्क्तिच्छन्दःसम्पादनम् , यज्ञत्वसम्पादनमपि कर्तुं शक्यत इत्याह —
पाङ्क्तश्च यज्ञ इति ।
पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिर्योगाद्यज्ञः पाङ्क्त इत्यर्थः । दैववित्तमुपासनं मानुषवित्तं गवादीति विभागः ।
पङ्क्तिच्छन्दसो यज्ञस्य च पञ्चसङ्ख्यायोगात्पाङ्क्तत्वे क्रमेण श्रुतीर्दर्शयति —
पञ्चाक्षरेति ।
जगतो यज्ञत्वसम्पादनमेव दर्शयति —
तेनेति ।
पञ्चसङ्ख्यायोगलक्षणेन यज्ञसाम्येनेत्यर्थः ।
लोकाद्यात्मान्तं चेति ।
प्राणादिमज्जान्तं चेति चकारार्थः । परिकल्पयति, श्रुतिरिति शेषः ।
एवं ब्रह्मोपाधिभूतं सर्वं जगत्पङ्क्तिच्छन्दोरूपं यज्ञरूपं च परिकल्प्य तादृक्पाङ्क्तजगदात्मकं प्रकृतं ब्रह्माहमस्मीति चिन्तयतः किं फलं भवतीत्याकाङ्क्षायामाह —
तेन यज्ञेनेति ।
प्रजापतिमिति ।
स्थूलसर्वप्रपञ्चोपाधिकस्य ब्रह्मणः प्रजापतिरूपत्वात् ‘तं यथा यथोपासते’ इति न्यायेन जगदात्मब्रह्मोपासनाज्जगदात्मानं प्रजापतिमेव प्राप्नोतीत्यर्थः ।
एवं तात्पर्यमुक्त्वा पृथिव्यादिजगतः पञ्चसङ्ख्यायोगात्पाङ्क्तस्वरूपत्वं प्रश्नपूर्वकं श्रुत्या दर्शयति —
तत्कथमित्यादिना ।
विराडिति ।
‘आप ओषधयः’ इत्यादिस्थूलभूताधिकाराद्भूतमयो विराड्देह इहात्मशब्दार्थ इत्यर्थः ।
इत्यधिभूतमित्युपसंहारवचनमित्यधिलोकमित्यधिदैवतमित्येवंरूपयोरधिलोकाधिदैवतपाङ्क्तद्वयोपसंहारवचनयोरुपलक्षणार्थमित्यत्र हेतुमाह —
लोकदेवतापाङ्क्तयोश्चेति ।
तयोरपि पूर्वमुक्तत्वादित्यर्थः ।
अध्यात्ममिति ।
आत्मा देहः, तमधिकृत्य वर्तमानमध्यात्ममित्यर्थः ।
ननु पाङ्क्तषट्ककथनेन कथं सर्वस्य जगतः पाङ्क्तत्वमुक्तम् ? तत्राह —
एतावद्धीति ।
यद्बाह्यमध्यात्मं च पाङ्क्तं श्रुत्या दर्शितम् एतावदेवेदं सर्वं जगत् , न ततोऽधिकमस्तीत्यवगन्तव्यमित्यर्थः ।
श्रुतिप्रदर्शितपाङ्क्तषट्के कृत्स्नस्य जगतोऽन्तर्भावः प्रसिद्ध इति हि-शब्दार्थः । उपासनाविधिं दर्शयति —
एतदेवमिति ।
एतज्जगदेवं पाङ्क्तरूपेणेत्यर्थः । उक्तवानित्यस्येतिशब्देन सम्बन्धः ।
सङ्ख्यासामान्यादिति ।
आध्यात्मिकमपि पाङ्क्तत्रयं बाह्यमपि पाङ्क्तत्रयमित्यस्मात्सामान्यादाध्यात्मिकेन पाङ्क्तेन बाह्यपाङ्क्तस्य पूरणमित्यर्थः ।
ननु तेन तस्य पूरणं कुसूलादरिव धान्यादिना न सम्भवतीत्याशङ्क्याह —
एकात्मतयेति ।
बाह्यमाध्यात्मिकं च सर्वं पाङ्क्तजातमेकात्मत्वेनोपलभते, पाङ्क्तजगदात्मकं ब्रह्माहमस्मीति चिन्तयेदित्युक्तवानिति यावत् ।
एतदधिविधायेत्यादिनोक्तमुपासनमनूद्य तस्य फलमुपक्रमे कथितमित्याह —
एतदेवमिति ॥
उत्तरानुवाकस्य सङ्गतिं वृत्तानुवादपूर्वकं दर्शयति —
व्याहृत्यात्मन इति ।
अनन्तरं चेति ।
अव्यवहितपूर्वानुवाक इत्यर्थः ।
इदानीमिति ।
उक्तवक्ष्यमाणसर्वोपासनानां कर्मणां चाङ्गभूतो य ओङ्कारस्तस्योपासनमिदानीं विधीयते ; तथा च पूर्वोक्तोपासनेष्वङ्गत्वेनोपस्थितस्य प्रणवस्यात्रोपासनविधानात्सङ्गतिरिति भावः । न चोङ्कारस्य सर्ववैदिककर्मोपासनाङ्गत्वे मानाभाव इति वाच्यम् ; ‘तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्’ इति भगवद्वचनस्यैव मानत्वात् । ब्रह्मवादिनां वेदवादिनामित्यर्थः ।
ननु शब्दमात्ररूपस्योङ्कारस्याचेतनतया फलदातृत्वासम्भवात् कथमुपास्यत्वमित्याशङ्क्याह —
परापरेति ।
प्रतिमाद्यर्चन इव ब्रह्मैव फलदात्रिति भावः ।
ब्रह्मण एव सर्वत्र फलदातृत्वम् ‘फलमत उपपत्तेः’ इत्यधिकरणे प्रसिद्धमिति द्योतनार्थो दृष्ट्या हीत्यत्र हि-शब्दः । प्रणवस्य परापरब्रह्मदृष्ट्यालम्बनत्वं प्रसिद्धमिति सदृष्टान्तमाह —
स हीति ।
प्रणवस्य परापरब्रह्मदृष्ट्यालम्बनत्वे तद्दृष्ट्योपासितस्य तस्य परापरप्राप्तिसाधनत्वे च श्रुतिमाह —
एतेनैवेति ।
ओङ्कारेणैवायतनेन प्राप्तिसाधनेन परमपरं वा प्राप्नोतीत्यर्थः ।
एवं तात्पर्यमुक्त्वा अक्षराणि व्याचष्टे —
इतीत्यादिना ।
परिच्छेदार्थ इति ।
सङ्ग्रहार्थ इत्यर्थः ।
ओङ्कारस्य परापरब्रह्मदृष्ट्यालम्बनत्वेन श्रुतिषु प्रसिद्धत्वेऽपि प्रकृते मुख्यत्वात्परब्रह्मदृष्टिरेवोङ्कारे विवक्षितेति मत्वा तत्र ब्रह्मदृष्ट्यध्यासे किं सादृश्यमित्याकाङ्क्षायामाह —
यत ओमितीदं सर्वमिति ।
यत ओङ्कारः सर्वात्मकः ततः सर्वात्मकत्वसादृश्यादोङ्कारे सर्वात्मकब्रह्मदृष्टिर्युक्तेति भावः ।
ननु ब्रह्मणः सर्वात्मकत्वम् ‘सर्वं खल्विदं ब्रह्म’ इत्यादिश्रुतिसिद्धम् ; ओङ्कारस्य तु कथं सार्वात्म्यमित्याशङ्क्याह —
सर्वं हीति ।
नन्वोङ्कारस्य सर्वशब्दात्मकत्वेऽपि कथमर्थप्रपञ्चात्मकत्वमित्याशङ्क्य शब्दद्वारेत्याह —
अभिधानतन्त्रं हीति ।
अभिधेयजातस्याभिधानाधीनसिद्धिकत्वाद्वाच्यवाचकयोस्तादात्म्यस्वीकाराच्चाभिधेयजातस्याभिधानेऽन्तर्भावः सम्भवतीत्यर्थः ।
अत इदमिति ।
प्रणवसार्वात्म्यस्यापि श्रुत्यादिसिद्धत्वादिदं सर्वमोङ्कार इति प्रसिद्धवदुपदिश्यते ओमितीदं सर्वमिति वचसेत्यर्थः ।
ननु प्रथमवाक्येन प्रणवे ब्रह्मदृष्टिर्विहिता, तत्र तद्दृष्टिकरणे नियामकं द्वितीयवाक्येन दर्शितम् , अतो विवक्षितार्थस्य सिद्धत्वात्किमुत्तरग्रन्थेनेत्याशङ्क्याह —
ओङ्कारस्तुत्यर्थ इति ।
अनुकरणमिति ।
अनुज्ञानरूपमिति यावत् । केनचित्करोमीत्युक्त्वा कृतं कर्मान्य ओमित्यनुकरोति अनुजानाति, तथा यास्यामि विष्ण्वालयमित्युक्तमन्य ओमित्यनुकरोतीति योजना ।
प्रसिद्धं हीति ।
प्रसिद्धिश्च करोमीत्यादिना पूर्वं प्रदर्शितैव ।
अप्यो श्रावयेत्यत्र अपि-शब्दो वक्ष्यमाणोदाहरणसमुच्चयार्थ इति मत्वाह —
अपि चेति ।
प्रैषपूर्वकमिति । ‘ओ श्रावय’ इति मन्त्रगतेनोङ्कारेणाग्नीध्रसम्बोधनपूर्वकमित्यर्थः । तदुक्तं वेदभाष्ये - ‘मन्त्रगतओङ्कार आग्नीध्रसम्बोधनार्थः । हे आग्नीध्र देवान्प्रति हविःप्रदानावसरं श्रावयेति मन्त्रार्थः’ इति ।
आश्रावयन्तीत्यस्यार्थमाह —
प्रतिश्रावयन्तीति ।
प्रतिश्रवं कारयन्ति, प्रत्याश्रवणं कारयन्तीतित यावत् । शस्त्रशंसितारो होतारः, तेऽपि ’शों सावोम्’ इत्युपक्रम्य शस्त्राणि शंसन्ति, तान्योमिति समापयतन्ति चेत्यर्थः ।
प्रतिगरमिति ।
’ओऽथामोद इव’ इति मन्त्रमित्यर्थः । ओकारेण होता सम्बोध्यते ; हे होतः अथ अर्धर्चशंसनानन्तरमस्माकमामोद इव हर्ष एव सम्पन्न इति तदर्थः ।
ब्रह्मेति ।
ऋत्विग्विशेषो ब्रह्मा यदा अन्येषामृत्विजामनुज्ञां प्रयच्छति तदा ओं प्रोक्षेत्यादिरूपेण प्रणवपुरःसरमेव प्रसौति ।