अद्वैतशारदा

वनमालाव्याख्या

शीक्षावल्ली: प्रथमोऽनुवाकः (१)

विघ्नेश्वरं विघ्नशान्त्यै वाणीं वाचः प्रवृत्तये ।
गुरू­न्गू­ढा­र्थ­भा­नाय प्रणमामि निरन्तरम् ॥ १ ॥
जगन्मङ्गलरूपाय सृष्टि­स्थि­त्य­न्त­का­रिणे ।
नमो लक्ष्मीसमेताय कृष्णाय परमात्मने ॥ २ ॥
परिपूर्णं नित्यशुद्धं निर्विशेषं स्वयम्प्रभम् ।
सत्या­न­न्द­स्व­रूपं यत्तदहं ब्रह्म निर्भयम् ॥ ३ ॥
आचार्यस्य प्रसादेन पूर्व­पु­ण्यै­क­ज­न्मना ।
तैत्ति­री­य­क­भा­ष्यस्य व्याख्यां कुर्वेऽ­ति­भ­क्तितः ॥ ४ ॥

तैत्ति­री­य­को­प­नि­षदं व्याचि­ख्या­सु­र्भ­ग­वा­न्भा­ष्य­कारः तत्प्रतिपाद्यं ब्रह्म जग­ज्ज­न्मा­दि­का­र­ण­त्वेन तटस्थलक्षणेन सामा­न्ये­नो­प­ल­क्षितं सत्यज्ञानादिना स्वरूपलक्षणेन विशेषतो निश्चितं नमस्करोति —
यस्माज्जातमिति ।
ज्ञानात्मन इति स्वरूपलक्षणं सूचितम् ॥ १ ॥

गुरु­भ­क्ते­र्वि­द्या­प्रा­प्ता­व­न्त­र­ङ्ग­सा­ध­नत्वं ख्यापयितुं गुरून्प्रणमति —
यैरिति ।
इमे क्रमेण व्याख्येयत्वेन बुद्धिस्थाः । पदानि च वाक्यानि च प्रमाणानि च पद­वा­क्य­प्र­मा­णानि । ‘सोऽकामयत’ इत्यादौ ब्रह्म­स­त्त्व­सा­ध­क­तया विव­क्षि­ता­न्य­नु­मा­नानि प्रमाणानि । तेषां पद­वा­क्य­प्रा­मा­णानां विवेचनपूर्वकं व्याख्याता इत्यर्थः । यद्वा पदं व्याकरणं तत्सा­धु­त्व­वि­चा­र­रू­प­त्वात् , वाक्यं मीमांसा वेद­वा­क्य­वि­चा­र­रू­प­त्वात् , प्रमाणं न्यायशास्त्रं प्राधान्येन प्रत्य­क्षा­दि­प्र­मा­ण­वि­चा­रा­त्म­क­त्वात् ; ततश्च पदवाक्यप्रमाणैः साध­न­भू­तै­र्व्या­ख्याता इत्यर्थः ॥ २ ॥

चिकीर्षितं निर्दिशति —
तैत्तिरीयकेति ।

ननु व्युत्पन्नस्य पदेभ्य एव पदा­र्थ­स्मृ­ति­स­म्भ­वा­त्प­द­स्मा­रि­त­प­दा­र्थानां यथायोग्यं सम्बन्धस्यैव वाक्या­र्थ­स्या­व­गन्तुं शक्यत्वात् सूत्रकारेण वेदा­न्त­ता­त्प­र्यस्य निरू­पि­त­त्त्वाच्च व्यर्थः पृथ­ग्व्या­ख्या­रम्भ इत्याशङ्क्याह —
विस्पष्टार्थेति ।
मन्दमतीनां स्वत एव निःशे­ष­प­दा­र्थ­स्म­र­णा­स­म्भ­वा­दु­प­नि­ष­द्ग­त­निः­शे­ष­प­दा­र्थानां निःसंशयज्ञानं येभ्यो रोचते तेषा­मु­प­का­रा­ये­त्यर्थः ॥ ३ ॥

उपनिषदः कर्मकाण्डेन निय­त­पौ­र्वा­प­र्य­सू­चितं सम्बन्धं विशिष्य ख्यापयितुं कर्मकाण्डार्थे कीर्तयति —
नित्यानीति ।
पूर्व­स्मि­न्ग्रन्थे नित्यानि कर्माणि सञ्चि­त­दु­रि­त­क्ष­या­र्थ­त्वे­ना­धि­ग­तानि ; तैश्च नित्यैरिह जन्मनि जन्मान्तरेषु वानुष्ठितैः क्षीणपापस्य शुद्धा­न्तः­क­र­णस्य कर्मा­नु­ष्ठा­न­प्र­यो­ज­का­वि­द्या­का­म­प­रि­हा­र­द्वारा मुक्तिसिद्धये इदानीम् उपनिषदि ब्रह्मविद्या प्रस्तूयते निरूप्यत इत्यर्थः । तथा च कर्मणां ब्रह्मविद्यां प्रति चित्त­शु­द्धि­द्वारा साध­न­त्वा­त्त­त्प्र­ति­पा­द­क­यो­रपि कर्म­का­ण्डो­प­नि­षदोः साध्यसाधनभावः सम्बन्ध इत्यर्थः ।

ननु कर्मकाण्डस्य चेत्पा­प­क्ष­य­द्वारा विद्यायां विनियोगः, तर्हि पशु­स्व­र्गा­दि­सा­ध­न­भू­तानां काम्यकर्मणां तत्रो­क्ति­र­स­ङ्गता तेषां विद्या­सा­ध­न­त्वा­यो­गा­दि­त्या­श­ङ्क्याह —
काम्यानि चेति ।
अयं भावः - काम्यानां फलार्थत्वेऽपि फलाभिसन्धिं विना कृतानां तेषां विद्या­सा­ध­न­त्व­म­प्य­स्त्येव, विविदिषावाक्येन नित्य­का­म्य­सा­धा­र­ण्येन कर्मणां विध्यायां विनियुक्तत्वात् ‘अनाश्रितः कर्मफलम्’ इत्या­दि­स्मृ­ति­ष्वपि तथोक्तत्वाच्च ; कर्मकाण्डे फलार्थिनां काम्य­क­र्म­वि­धा­न­मपि विद्यो­प­यो­ग्ये­वेति ।

कर्मो­पा­दा­न­हे­तु­प­रि­हा­रा­ये­त्यत्र निर्दिष्टः कर्म­प्र­वृ­त्ति­हेतुः क इति जिज्ञासायामाह —
कर्महेतुरिति ।
अत्र यद्यप्यविद्यापि कर्मो­पा­दा­न­हेतुः, तथा च वक्ष्यति - ‘तस्मा­द­वि­द्या­दि­क­र्मो­पा­दा­न­हे­तु­नि­वृत्तौ’ इति, तथाप्यविद्यायाः कामद्वारा कर्म­हे­तु­त्वा­त्कामो हेतुरित्युक्तम् । कामस्यैव प्राधान्येन कर्महेतुत्वं भगवता व्यासे­ना­प्यु­क्तम् - ‘यद्यद्धि कुरुते जन्तु­स्त­त्त­त्का­मस्य चेष्टितम्’ इति ।

कामस्य कर्म­हे­तु­त्वेऽ­न्व­य­व्य­ति­रेकौ प्रमाणयति —
प्रव­र्त­क­त्वा­दिति ।
कामे सति प्राणिनां प्रवृ­त्ति­द­र्श­ना­दि­त्यर्थः ।

आप्तकामानां हीति ।
अनु­प­प­त्ति­प­द­म­भा­व­प­रम् । ततश्च आप्तकामानां प्राप्त­स्व­रू­पा­न­न्दानां स्वात्मनि स्वरू­पा­न­न्देऽ­व­स्था­ना­द्धेतोः कामाभावे प्रवृ­त्त्य­भा­व­द­र्श­नाद् इत्यर्थः । तेषां प्रवृत्त्यभावः प्रसिद्ध इति हि-शब्दार्थः ।

नन्वाप्तकामत्वे को हेतुः ? तत्राह —
आत्मकामत्वे चेति ।
आत्मैव काम आनन्दो यस्य साक्षात्कृतः स आत्मकामः, तस्य भाव आत्मकामत्वम् , तस्मि­न्स­त्या­प्त­का­मता भवतीत्यर्थः ।

ननु ब्रह्म­वि­द्यै­वा­प्त­का­म­ता­हेतुः नात्मा­न­न्द­सा­क्षा­त्का­र­व­त्त्वम् ; तत्राह —
आत्मा च ब्रह्मेति ।
‘अयमात्मा ब्रह्म’ इति श्रुतेरिति भावः ।

ब्रह्मविद आत्मा­न­न्द­प्राप्तौ मानमाह —
तद्विदो हीति ।
हि यस्मात्परस्य स्वरूपानन्दस्य प्राप्तिं ब्रह्मविदः ‘ब्रह्म­वि­दा­प्नोति परम्’ इति श्रुति­र्व­क्ष्यति, तस्मा­द्ब्र­ह्म­वि­दा­प्त­काम इत्यर्थः ।

नन्वा­त्मा­न­न्दस्य नित्य­प्रा­प्त­त्वा­द्वि­द्यया तत्प्रा­प्ति­श्रु­ति­र­नु­प­पन्ना ; नेत्याह —
अत इति ।
आत्म­स्व­रू­प­त्वेऽ­प्य­वि­द्या­वृ­त­त्वा­द्वि­द्यया तदावरणनिवृत्तौ स्वात्मानन्दे यदभेदेनावस्थानं तदत्र पर­प्रा­प्ति­र्वि­व­क्षिता ; अतो न विद्या­वै­य­र्थ्य­श­ङ्केति भावः ।

ब्रह्मविदः पर­प्रा­प्ता­वे­वा­न्य­दपि वाक्यद्वयं पठति —
अभयमिति ।
ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठां स्वात्म­भा­वे­ना­व­स्थानं यदा विन्दते तदैवाभयं गतो भवतीत्यर्थः । आनन्दमयं पर­मा­त्मा­न­मु­प­स­ङ्क्रा­मति प्राप्नो­ती­त्यर्थः । इदं च वृत्ति­का­र­म­ता­भि­प्रा­ये­णो­दा­हृ­तम् , स्वमते आनन्दमयस्य जीवत्वादिति बोध्यम् ॥

ननु जीवस्य शरीरेऽवस्थानं बन्धहेतुः, ‘न ह वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­रस्ति’ इति श्रुतेः ; आत्यन्तिकेन शरी­र­स­म्ब­न्धा­भा­वेन युक्ते स्वस्व­रू­पेऽ­व­स्थानं मोक्षः, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः ; स चात्यन्तिकः शरी­र­स­म्ब­न्धा­भावो ब्रह्मा­त्मै­क­त्व­विद्यां विना कर्मभिरेव सिध्यति, किं विद्ययेति मीमांसकः शङ्कते —
काम्येति ।
काम्यं कर्म देवा­दि­श­री­र­हेतुः, प्रतिषिद्धं कर्म तिर्य­गा­दि­श­री­र­हेतुः, नित्य­नै­मि­त्ति­का­न­नु­ष्ठानं प्रत्य­वा­यो­त्पा­द­न­द्वारा नार­क्या­दि­ज­न्म­हेतुः । तथा च मुमुक्षुणा सर्वात्मना काम्य­प्र­ति­षि­द्ध­यो­र­ना­र­म्भा­त्स­म्य­ङ्नि­त्य­नै­मि­त्ति­का­नु­ष्ठा­नेन प्रत्य­वा­या­नु­त्पा­दाच्च न भावि­ज­न्म­प्राप्तिः, आरब्धफलयोश्च पुण्य­पा­प­यो­रु­प­भो­गे­नैव नाशान्न ततोऽपि भावि­ज­न्म­प्रा­प्ति­शङ्का ; तथा च विद्या­स­म्पा­द­न­यत्नं विना मुमुक्षोरेवं वर्त­मा­न­स्या­त्य­न्ति­क­श­री­र­स­म्ब­न्धा­भा­व­श­ब्दितः स्वात्म­न्ये­वा­व­स्था­न­ल­क्षणो मोक्षः सिध्यतीत्यर्थः । अत्र च शरीरसम्बन्धस्य कर्म­नि­मि­त्त­क­त्वात् ‘निमित्तापाये नैमित्तिकापायः’ इति न्यायेन शरी­र­स­म्ब­न्धा­भा­व­रू­प­मो­क्षस्य कर्म­सा­ध्य­त्वो­क्ति­रिति मन्तव्यम् ।

मीमांसक एव प्रकारान्तरमाह —
अथवेति ।
यानि कर्माणि स्वर्गसाधनत्वेन श्रुतानि तान्येव मोक्षसाधनम् , स्वर्ग­श­ब्द­वा­च्यस्य निरतिशयसुखस्य स्वरू­पा­न­न्द­ल­क्ष­णा­न्मो­क्षा­द­न्य­त्वा­स­म्भ­वात् ‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्’ इत्यर्थवादेन निरतिशयप्रीतेः स्वर्ग­श­ब्द­वा­च्य­त्वा­व­ग­मात् त्रिवि­ष्ट­पा­दि­ज­नि­त­सुखे दुःखा­स­म्भि­न्न­त्वा­दि­वि­शे­ष­णा­ना­म­स­म्भ­वात् । तथा च निर­ति­श­य­प्री­ति­रू­पस्य मोक्षस्य कर्म­हे­तु­क­त्वा­व­ग­मा­त्क­र्मभ्य एव मोक्षः सिध्यति, किं विद्या­स­म्पा­द­न­य­त्ने­ने­त्यर्थः ।

तत्राद्यं मतं निराकरोति —
न ; कर्मा­ने­क­त्वा­दिति ।
कर्म­णा­म­ने­क­त्व­स­म्भ­वान्न विद्यां विना मोक्ष­सि­द्धि­रि­त्यर्थः ।

सङ्ग्रहं विवृणोति —
अनेकानि हीति ।
कर्मा­ने­क­त्व­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः । तेषु कर्मसु यान्य­ना­र­ब्ध­फ­लानि तेषामुपभोगेन क्षया­स­म्भ­वा­त्तानि शेषकर्माणि तन्नि­मि­त्त­श­री­रा­रम्भ एवं­वृ­त्त­स्या­प्यु­प­प­द्यत इत्यर्थः ।

नन्व­ने­क­ज­न्मा­न्त­र­कृ­तानां सर्वेषामेव कर्मणां सम्भूय वर्त­मा­न­ज­न्मा­र­म्भ­क­त्व­स­म्भ­वा­द­ना­र­ब्ध­फ­लानि कर्माणि न सन्त्येव ; नेत्याह —
विरुद्धफलानीति ।
स्वर्ग­न­र­का­दि­रू­प­वि­रु­द्ध­फ­ल­वतां ज्योति­ष्टो­म­ब्र­ह्म­ह­त्या­दीनां सम्भू­यै­क­ज­न्मा­र­म्भ­क­त्वा­स­म्भ­वे­नै­क­स्मि­ञ्ज­न्म­न्यु­प­भो­गेन तेषां क्षया­स­म्भ­वा­त्स­न्त्येव शेष­क­र्मा­णी­त्यर्थः ।

सञ्चि­त­क­र्म­स­द्भावे मानमाह —
कर्म­शे­ष­स­द्भा­व­सि­द्धि­श्चेति ।
तत्तत्र स्वर्गादवरोहतां मध्ये ये इहास्मिँल्लोके रमणीयचरणाः पुण्यकर्माणः ते रमणीयां ब्राह्म­णा­दि­योनिं प्रतिपद्यन्त इति श्रुत्यर्थः । प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्मृतिरपि स्वर्गादवरोहतां शेषकर्मसद्भावं दर्शयतीत्यर्थः ।

ननु सञ्चितकर्मणां सत्त्वेऽपि तेषां नित्यानुष्ठानेन क्षयान्न तैर्भा­वि­ज­न्म­प्रा­प्ति­रिति शङ्कते —
इष्टानिष्टेति ।

नित्यानां सञ्चि­त­क­र्म­क्ष­य­फ­ल­कत्वं मीमांसकस्य स्वाभ्यु­प­ग­म­वि­रु­द्ध­मिति दूषयति —
नेति ।

असुखरूपस्येति ।
सुखसाधनस्येति यावत् ।

आगामिन इति ।
नित्या­क­र­णा­न­न्त­र­मेव प्रस­क्त­स्ये­त्यर्थः ।

नित्यानां तदभ्युपगमेऽपि परस्य नाभि­म­त­सि­द्धि­रि­त्याह —
यदि नामेति ।
नित्या­न्य­ना­र­ब्ध­फ­ल­क­र्म­क्ष­या­र्थानि सन्तु नामेत्यर्थः । ‘धर्मेण पापमपनुदति’ इति शास्त्रा­च्छु­द्ध्य­शु­द्धि­रू­पयोः सुकृ­त­दु­ष्कृ­त­यो­रेव विरोधाच्च नित्यानि पापमेव नाशयेयुः, न सञ्चितपुण्यमपि ; अत­स्त­त्पु­ण्य­नि­मित्तं भाविजन्म मुमु­क्षो­र­व­श्य­म्भा­वी­त्यर्थः ।

विरोधाभावमेव साधयति —
न हीत्यादिना ।

यदुक्तं काम्य­प्र­ति­षि­द्ध­यो­र­ना­र­म्भा­दिति, तत्र जन्मारभ्य प्रायणपर्यन्तं सर्वात्मना प्रति­षि­द्ध­व­र्जनं पुरुषेण कर्तुमशक्यम् अतिनिपुणानामपि सूक्ष्मा­प­रा­ध­द­र्श­नात् , काम्यवर्जनमपि सर्वात्मना कर्तु­म­श­क्य­मि­त्याह —
न चेति ।
आत्मज्ञानं हि कामानामशेषतो निवर्तकम् , ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति स्मरणात् ; ज्ञानाभावे च सति कामा­व­श्य­म्भा­वात् काम्या­नु­ष्ठा­न­मपि कदा­चि­न्मु­मुक्षोः प्रसज्जते, तद्वशाच्च जन्मापि स्यादित्यर्थः । अशे­ष­क­र्म­क्ष­यो­प­प­त्तिर्न चेत्यन्वयः ।

ननु आत्मज्ञानं न कामानां निवर्तकम् आत्मविदोऽपि कामदर्शनादिति ; नेत्याह —
अनात्मविदो हीति ।

फलविषयत्वादिति ।
आत्मव्यतिरिक्तं किञ्चिदपि वस्तुतो नास्तीति मन्य­मा­न­स्या­त्म­विदः स्वव्य­ति­रि­क्त­फ­ला­भा­वा­दिति भावः ।

तर्हि स्वात्म­न्ये­वा­न­न्द­रूपे तस्य कामोऽस्तु ; नेत्याह —
स्वात्मनि चेति ।

नन्वात्मविदः प्राप्त­स्व­रू­पा­न­न्द­स्यापि पर­ब्र­ह्म­प्राप्तौ कामोऽस्ति ; नेत्याह —
स्वस्येति ।
विदुष इत्यर्थः ।

नित्यानुष्ठानेन च प्रत्य­वा­या­भा­वा­दिति वदता त्वया यदि प्रत्यवायस्य नित्या­क­र­ण­ज­न्यत्वं विवक्षितम् , तदा तदपि न सम्भवतीत्याह —
नित्यानां चेति ।

प्रत्य­वा­या­नु­प­प­त्ति­रिति ।
प्रत्य­वा­यो­त्प­त्तिर्न सम्भवतीत्यर्थः ।

ननु ‘अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रस­ज्जं­श्चे­न्द्रि­या­र्थेषु नरः पतनमृच्छति’ इति वच­न­ग­त­श­तृ­प्र­त्य­या­द­क­र­णस्य प्रत्य­वा­य­हे­तु­त्व­म­व­ग­म्यते ; अक­र­णा­त्प्र­त्य­वा­यो­त्प­त्त्य­नु­प­गमे च शतृ­प्र­त्य­या­नु­प­प­त्ति­रिति ; नेत्याह —
इत्यत इति ।
वक्ष्यमाणरीत्या अकरणस्य प्रत्य­वा­या­हे­तु­त्वा­दि­त्यर्थः । ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण हेताविव लक्षणेऽपि शतुर्विधानादत्र लक्षणार्थ एव स इत्यर्थः । नन्वकरणेन प्रत्यवायक्रिया कथं लक्ष्यते ? उच्यते - यदि यथा­व­न्नि­त्या­नु­ष्ठा­न­म­भ­वि­ष्य­त्तदा सञ्चि­त­दु­रि­त­क्ष­योऽ­भ­वि­ष्यत् , न चायं नित्यमकार्षीत् ; ततः प्रत्यवायी भविष्यतीत्येवं नित्याकरणेन पूर्वजन्मसु सञ्चितेभ्यो दुरितेभ्यः प्राप्यमाणा दुःखरूपा प्रत्यवायक्रिया शिष्टैर्लक्ष्यत इति ।

ननु लक्षणे हेतौ च साधा­र­णा­च्छ­तृ­प्र­त्य­या­द­क­र­णस्य प्रतीतं हेतुत्वमेव कस्मान्नोपेयते ? तत्राह —
अन्यथेति ।
अकरणस्य हेतुत्वे स्वीकृते सत्यभावाद्भाव उत्पद्यत इति प्रसज्जेत अक­र­ण­स्या­भा­व­रू­प­ताया उक्त­त्वा­दि­त्यर्थः ।

तत्रेष्टापत्तिं वारयति —
सर्वेति ।
अभावस्य भाव­ध­र्मा­श्र­य­त्वा­यो­ग्यत्वं प्रत्य­क्षा­दि­प्र­मा­ण­सि­द्धम् , अभावस्य कार­ण­त्व­रू­प­भा­व­ध­र्मा­श्र­य­त्व­स्वी­कारे तु प्रत्य­क्षा­दि­प्र­मा­ण­वि­रोधः स्यादित्यर्थः । न चैवमकरणस्य कथं ज्ञापकत्वं कथं वानु­प­ल­ब्धे­र­भा­व­ज्ञा­प­क­त्व­मिति वाच्यम् , अक­र­णा­नु­प­ल­ब्ध्यो­र्ज्ञा­त­यो­रेव ज्ञाप­क­त्वा­भ्यु­प­ग­मेन स्वरू­प­त­स्त­यो­र्ज्ञा­न­हे­तु­त्वा­भा­वा­दि­त्य­न्यत्र विस्तरः ।

मीमां­स­क­स्या­द्य­प्र­का­र­नि­रा­क­र­ण­मु­प­सं­ह­रति —
इत्यत इति ।
उक्तप्रकारेण ब्रह्मज्ञानं विना यथा­व­र्णि­त­च­रि­त­स्यापि मुमु­क्षो­र्मो­क्षा­स­म्भ­वा­दि­त्यर्थः ।

अथ वेत्या­द्यु­क्त­म­प्य­नूद्य निराकरोति —
यच्चो­क्त­मि­त्या­दिना ।

किं केवलकर्मणां मोक्षा­र­म्भ­क­त्वम् , विद्यासहितानां वा ? नाद्य इत्याह —
तन्नेति ।

ननु नित्यत्वेऽपि कर्मसाध्यत्वं तस्य किं न स्यादिति ; नेत्याह —
न हीति ।
लोके यन्नि­त्य­मा­त्मादि तत्किञ्चिदपि नारभ्यते, यद्धि घटाद्यारब्धं तदनित्यमिति व्याप्ति­द­र्श­ना­दि­त्यर्थः ।

द्विती­य­क­ल्प­म­नूद्य निराकरोति —
विद्या­स­हि­ता­ना­मिति ।
विद्या­रू­प­स­ह­का­रि­म­हिम्ना कर्मारभ्यस्यापि मोक्षस्य नित्यत्वं भविष्यतीति शङ्ककाभिमानः ।

विरुद्धमिति ।
विद्या­रू­प­स­ह­का­रि­म­हिम्ना तावत्कर्मसाध्ये मोक्षे कश्चिदतिशयो भविष्यति, ’यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति’ इति श्रुतेः । स चातिशयो न नित्यत्वरूपः, ‘यत्कृतकं तदनित्यम्’ इति व्याप्ति­वि­रो­धात् ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इत्या­दि­श्रु­ति­वि­रो­धाच्च ; किं तु तदतिरिक्त उत्कर्षरूप एव वक्तव्य इति भावः । किं च निर­ति­श­य­प्री­ते­रा­त्म­स्व­रू­प­त्वे­ना­र­भ्य­त्वा­यो­गाच्च न विद्यासहितानां केवलानां वा कर्मणां मोक्षः फलम् । न च स्वर्ग­का­म­श्रु­ति­वि­रोधः, तत्र निर­ति­श­य­प्री­ति­वा­च­कस्य स्वर्गशब्दस्य कर्म­यो­ग्य­ता­नु­सा­रेण विष­य­ज­नि­त­सु­ख­वि­शेषे लाक्ष­णि­क­त्वो­प­पत्तेः । एतच्च बृह­दा­र­ण्य­क­ष­ष्ठा­ध्या­य­वा­र्त्तिके प्रपञ्चितम् , तत्रैव द्रष्टव्यम् ।

शङ्कते —
यद्विनष्टमिति ।
यद्‍घटादि विनष्टं तत्पु­न­र्नो­त्प­द्यत इति दर्शनात् घटा­दि­वि­ना­श­रू­पस्य प्रध्वंसाभावस्य नित्यत्वं निश्चीयते, तस्यानित्यत्वे तु विनष्टस्य घटादेः पुन­रु­त्प­त्ति­प्र­सङ्गः स्यात् ; ध्वंस­प्रा­ग­भा­वा­न­धि­क­र­ण­का­लस्य प्रति­यो­गि­का­ल­त्व­नि­य­मा­दि­त्यर्थः ।

ततः किम् ? तत्राह —
प्रध्वं­सा­भा­व­व­दिति ।

प्रध्वंसाभावस्य कार्यत्वमुपेत्य यद्भावकार्यं तदनित्यमिति व्याप्ति­र्वि­व­क्षिता ; निर­ति­श­य­प्री­ति­रूपा च मुक्ति­र्भा­व­रू­पैव तवापि संमता, अतो न मुक्ते­र्नि­त्यत्वं सिध्यतीति दूषयति —
नेति ।

परमार्थतस्तु प्रध्वंसस्य कार्यत्वं नास्तीत्याह —
प्रध्वं­सा­भा­वोऽ­पीति ।
प्रध्वं­सा­भा­वोऽ­प्या­र­भ्यत इति न सम्भावति, नैरु­क्तै­र्ज­ने­र्भा­व­प­दा­र्थ­ध­र्म­त्व­प्र­ति­पा­द­न­वि­रो­धे­ना­भा­वस्य भाव­रू­प­ज­न्मा­श्र­य­त्वा­यो­गेन च प्रध्वंसाभावे जन्म­रू­प­वि­शे­षा­भा­वा­भ्यु­प­ग­मा­दि­त्यर्थः ।

कथं तर्हि वादिनां प्रध्वंसाभावे जन्मा­श्र­य­त्व­ज्ञा­न­मि­त्या­शङ्क्य भ्रान्ति­मा­त्र­मे­त­दि­त्याह —
विक­ल्प­मा­त्र­मे­त­दिति ।

ननु प्रध्वंसाभावस्य प्रति­यो­गि­ज­न्य­त्वा­भावे तत्प्र­ति­यो­गि­कत्वं न स्यादि­त्या­शङ्क्य प्राग­भा­वा­त्य­न्ता­भा­व­यो­रिव तस्य तत्प्र­ति­यो­गि­कत्वं सम्भ­व­ती­त्या­श­ये­नाह —
भावप्रतियोगी ह्यभाव इति ।
अभावस्य भाव­प्र­ति­यो­गि­कत्वं घटाभावः पटाभाव इति व्यव­हा­र­सि­द्ध­मिति हि-शब्दार्थः ।

नन्वाभावे भाव­प्र­ति­यो­गि­क­त्व­वि­शे­षा­भ्यु­प­गमे तत्र जनिरूपविशेषोऽपि पर­मा­र्थोऽ­स्त्विति न शङ्कनीयम् , भाव­प्र­ति­यो­गि­क­त्व­स्यापि तत्र पर­मा­र्थ­त्वा­सि­द्धे­रि­त्ये­त­त्स­दृ­ष्टा­न्त­माह —
यथा हीति ।
भावः सत्त्वम् , तच्च सर्वानुगतं सद्रूपं वस्तुतो निर्विशेषं ब्रह्मैव नान्यत् ; तद्यथा एकमपि घटसत्त्वं पटसत्त्वमिति रीत्या भिन्नमिव घटा­दि­भि­र्वि­शे­ष्यते घटा­दि­प्र­ति­यो­गि­क­त्वेन कल्प्यते, तथा घटो नास्ति पटो नास्तीति प्रती­य­मा­ना­भा­वोऽ­प्येक एव, सम­वा­य­स­त्ता­जा­त्या­दि­वत् लाघवात् ; स चाभावः सर्व­वि­शे­ष­र­हि­तोऽपि भावेषु घटादिषु मुद्ग­रा­भि­घा­ता­दि­ज­नि­त­क्रि­या­यो­गा­द्घ­टा­दि­प्र­ति­यो­गि­क­त्वेन जातत्वेन च वादि­भि­र्भ्रान्त्या परिकल्प्यते, द्वाव­भा­वा­वि­त्या­दि­व्य­व­हा­रात् सङ्ख्या­गु­ण­यो­ग­म­भा­वस्य मत्वा द्रव्य­त्वे­ना­भावः केनचित् परिकल्प्यते । एतदुक्तं भवति - यथा ह्यभावस्य द्रव्या­न्त­र्भा­व­मा­श­ङ्क­मा­न­स्या­भावे गुणा­श्र­य­त्व­द्र­व्य­त्व­भ्रान्तिः, तथा वादिनामपि तत्र वस्तुतो भाव­प्र­ति­यो­गि­क­त्व­ज­न्मा­श्र­य­त्वा­दि­र­स्तीति भ्रान्तिरिति ।

अभावस्य वस्तुतो जन्मा­दि­रू­प­भा­व­ध­र्मा­श्र­यत्वे बाधकमाह —
न ह्यभाव इत्यादिना ।
भावधर्माश्रयस्य भाव­त्व­नि­य­म­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः ।

विशेषणसहभावीति ।
विशेषणाश्रय इत्यर्थः । नन्वे­क­स्या­भा­वस्य जन्मा­दि­क­ल्प­ना­स्प­दस्य ब्रह्म­तु­ल्य­यो­ग­क्षे­म­स्या­ङ्गी­कारे द्वैतापत्तिरिति चेत् , नायं दोषः ; भावा­द्वै­ता­भि­प्रा­ये­णास्य भाष्यस्य प्रवृ­त्त्यु­प­पत्तेः । वस्तुतस्तु अयमभावो न ब्रह्मा­ति­रिक्तः, ब्रह्मणि कल्पि­त­घ­टा­दि­प्र­ति­यो­गि­क­त्वात् कल्पि­त­प्र­ति­यो­गि­का­भा­व­स्या­धि­ष्ठा­ना­न­ति­रे­का­दिति मन्तव्यम् ।

साध्यस्य मोक्षस्य स्वरूपेण नित्य­त्वा­यो­गेऽपि प्रवाहनित्यत्वं सम्भवतीति शङ्कते —
विद्या­क­र्म­क­र्तु­रिति ।

कर्तुरात्मनो नित्यत्वादात्मा सन्ततं विद्याकर्मणी कुर्वन्नेवास्ते ; तथा च विद्या­क­र्म­ल­क्ष­ण­सा­ध­न­स­न्ता­न­ज­नितो मोक्षोऽपि सन्ततोऽवतिष्ठते । प्रवाहनित्यत्वे दृष्टान्तमाह —
गङ्गेति ।

नेति ।
मुक्तिकालेऽपि साध­ना­नु­ष्ठा­तृ­त्व­रू­पस्य कर्तृ­त्व­स्या­नु­वृ­त्त्यु­प­गमे मुक्त्युच्छेदः, तस्य दुःखात्मकत्वात् ; एतद्दोषपरिहाराय तदा तदुपरमोपगमे च मोक्षस्यापि विच्छे­दा­द­नि­त्यत्वं तद­व­स्थ­मे­वे­त्यर्थः ।

तस्मादिति ।
मोक्षस्य साध्यत्वे नित्य­त्व­भ­ङ्ग­प्र­स­ङ्गा­दि­त्यर्थः । काम आदिपदार्थः । कर्मो­पा­दा­न­हे­तो­र­वि­द्या­दे­र्नि­वृत्तौ सत्यामित्यर्थः ।

ननु ब्रह्मा­त्म­ना­व­स्थानं मोक्षः ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुतेः, न त्वात्म­न्य­व­स्था­न­मिति शङ्कां निराकरोति —
स्वयं चेति ।

नन्व­वि­द्या­दि­नि­वृ­त्ति­रेव कर्मसाध्या अस्तु, तथा च कर्मभिरेव मोक्ष इति ; नेत्याह —
तद्विज्ञानादिति ।
कर्म­णा­म­वि­द्या­नि­व­र्तने साम­र्थ्या­भा­वा­दिति भावः । इति-शब्दो विचा­र­स­मा­प्त्यर्थः ।

एवं कर्मणां मुक्तिहेतुत्वं निरस्य आदौ ब्रह्मविद्या प्रस्तूयत इति यदुक्तं तदेवोपसंहरति —
अतो ब्रह्म­वि­द्या­र्थेति ।
ब्रह्मविद्याया एव मुक्ति­सा­ध­न­त्वा­दि­त्यर्थः ।

ब्रह्म­वि­द्या­या­मु­प­नि­ष­च्छ­ब्द­प्र­सि­द्धि­रपि विद्याया एव निःश्रे­य­स­सा­ध­नत्वे प्रमा­ण­मि­त्या­श­ये­नो­प­नि­ष­च्छ­ब्दा­र्थ­माह —
उपनिषदितीति ।
अत्र सामीप्यवाचिना उपोपसर्गेण प्रतीचो ब्रह्म­सा­मी­प्य­मु­च्यते । तच्च सामीप्यं तयोरभेदरूपं विवक्षितम् । नि-शब्दो निश्चयार्थः । तथा च उपसर्गद्वयेन तयो­र­भे­द­नि­श्च­य­रूपा विद्योच्यते । विशरणावसादनगतयो धात्वर्थाः । क्विप्प्र­त्य­य­श्चात्र कर्तरि विवक्षितः । ततश्च प्रत्य­ग्ब्र­ह्मै­क्य­गो­चरा विद्या विदुषामनर्थं शातयति अवसादयति वा तान्ब्रह्म गमयतीति वा उपनिषत्पदेन सफला ब्रह्म­वि­द्यो­च्यत इत्यर्थः ।

एतदेव विवृणोति —
तच्छीलिनामिति ।
ब्रह्म­वि­द्या­भ्या­स­शी­ल­व­ता­मि­त्यर्थः । शातनं शिथिलीकरणम् , तेषां गर्भा­दी­ना­म­व­सा­दनं नाशनम् । उप­नि­ग­म­यि­तृ­त्वात् प्रत्यक्तया प्राप­यि­तृ­त्वा­दि­त्यर्थः ।

एवमुपनिषत्पदस्य ‘षदॢ विश­र­ण­ग­त्य­व­सा­द­नेषु’ इति वैया­क­र­ण­प्र­सि­द्धि­म­नु­सृ­त्या­र्थ­त्रयं दर्शितम् । इदानीं स्वय­म­र्था­न्त­र­माह —
उप निषण्णं वेति ।
उप सामीप्येन विषयतया अस्यां विद्यायां ब्रह्मस्वरूपं परं श्रेयो नितरामबाधिततया स्थितमित्यर्थः ।

उपनिषत्पदस्य ग्रन्थे प्रसिद्धिं घटयति —
तदर्थत्वादिति ।
विद्या­प्र­यो­ज­न­क­त्वा­द्ग्र­न्थोऽ­प्यु­प­नि­ष­त्प­देन निरूढलक्षणया व्यवह्रियत इत्यर्थः । अत्र व्याख्येयस्य ग्रन्थस्य ब्रह्म­वि­द्या­र्थ­त्वोक्त्या तस्य मानान्तरानधिगतं ब्रह्म विषयः तद्विद्याद्वारा मुक्तिः प्रयोजनम् , तत्का­मोऽ­धि­का­रीति सूचितं भवति ॥

एवं विष­या­दि­म­त्त्वा­दु­प­नि­षदो व्याख्यारम्भं समर्थ्य व्याख्यामारभते —
शं सुखमित्यादिना ।
शमित्यस्य सुखकृदित्यर्थः ।

चक्षुषीति ।
चक्षु­ष्या­दि­त्य­म­ण्डले च वर्त­मा­न­स्त­यो­र­भि­मा­नी­त्यर्थः ।

बल इति ।
बाह्वो­र्ब­लेऽ­भि­मा­नि­त्वेन वर्तमानो देव इन्द्र इत्यर्थः । वाचि बुद्धौ वागभिमानी गुरुरित्यर्थः ।

विस्तीर्णक्रम इति ।
त्रिवि­क्र­मा­व­तारे विस्ती­र्ण­पा­दो­पेत इत्यर्थः ।

शरी­र­स्थ­प्रा­ण­क­र­णा­भि­मा­नि­नीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते ? अत्राह —
तासु हीति ।
विद्यार्थं श्रवणम् , श्रुत­स्या­वि­स्म­रणं धारणम् , शिष्येभ्यः प्रतिपादनं विनियोगः । शमा­दि­क­मा­दि­प­दार्थः ।

नमो ब्रह्मण इत्या­दे­स्ता­त्प­र्य­माह —
ब्रह्म विविदिषुणेति ।
त्वं ब्रह्मेति वदनक्रिया ब्रह्मवदनक्रिया ।

परोक्षेति ।
नमो ब्रह्मण इत्यत्र वायोः सम्बोधनाभावात् परोक्षतया निर्देश इत्यर्थः । उत्तरवाक्ये वायुपदेन सम्बो­ध­ना­त्प्र­त्य­क्ष­तया निर्देश इत्यर्थः । यद्वा ब्रह्मेति पारोक्ष्येण निर्देशः, वायो­र्ब्र­ह्म­श­ब्दि­त­सू­त्रा­त्म­ता­रू­पेण परोक्षत्वात् , वायुशब्देन च प्रत्यक्षतया निर्देशः, प्राणवायुरूपेण नमस्कार्यस्य वायोः प्रत्य­क्ष­त्वा­दि­त्यर्थः । किं चेत्यस्य त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीत्यनेन सम्बन्धः ।

वायोः प्रत्य­क्ष­ब्र­ह्म­त्व­व­दने हेतुपरं त्वमेवेति वाक्यं व्याचष्टे —
त्वमेव चक्षु­रा­द्य­पे­क्ष्ये­त्या­दिना ।
बाह्य­म­प्र­त्यक्षं चक्षु­रा­द्य­पेक्ष्य, त्वमेव प्रत्यक्षं ब्रह्मासीति सम्बन्धः ।

प्रत्यक्षत्वे हेतु­र­व्य­व­हि­त­त्वम् ; तदेव विवृणोति —
संनिकृष्टमिति ।
त्वगि­न्द्र­य­सं­नि­कृ­ष्ट­मि­त्यर्थः ।

वदिष्यामीति ।
वदामीत्यर्थः ।

ऋत­स­त्य­श­ब्द­यो­र­पु­न­रु­क्त­मर्थं वदन्नेव तौ व्याचष्टे —
ऋतमित्यादिना ।

स एवेति ।
शास्त्रानुसारेण कर्तव्यतया निश्चितार्थ एवेत्यर्थः ।

त्वदधीन एवेति ।
कर्मसम्पादनस्य प्राण­वा­य्व­धी­न­त्व­द­र्श­ना­दिति भावः ।

सर्वात्मकमिति ।
सम­ष्टि­व्य­ष्ट्या­त्म­क­मि­त्यर्थः । वायोः सूत्रात्मरूपेण समष्टिशब्दितं व्यापकत्वम् , अस्म­दा­दि­प्रा­ण­रू­पेण व्यष्टिशब्दितं परिच्छिन्नत्वं चेत्युभयं परो­क्ष­प्र­त्य­क्ष­नि­र्दे­शाभ्यां प्रकृतमिति मत्वा तत्स­र्वा­त्म­क­मिति सर्वनामप्रयोग इति मन्तव्यम् ।

एवं स्तुतमिति ।
उक्तप्रकारेण ब्रह्म­व­द­न­क्रि­यया स्तुतमित्यर्थः । इदमुपलक्षणम् । नमस्कृतं चेत्यपि द्रष्टव्यम् , तस्यापि पूर्वं कृतत्वात् ।

आध्यात्मिकेति ।
ज्वरशिरोरोगादय आध्यात्मिकाः, चोर­व्या­घ्रा­द्यु­प­द्रवा आधिभौतिकाः, यक्ष­रा­क्ष­सा­द्यु­प­द्रवा आधिदैविका इति विभागः ॥

शीक्षा­ध्या­या­र­म्भस्य तात्पर्यमाह —
अर्थ­ज्ञा­ने­त्या­दिना ।

यत्नोपरम इति ।
अध्ययनकाले स्वरा­दि­ष्वौ­दा­सी­न्य­मि­त्यर्थः । स्वर­व­र्णा­दि­व्य­त्यासे च सत्य­न्य­था­र्था­व­बोधः प्रसज्जेत ; तत­श्चा­न­र्थ­प्र­सङ्गः स्यात् ‘मन्त्रो हीनः स्वरतो वर्णतो वा’ इत्या­दि­शा­स्त्रा­दिति भावः । नन्वेवं सति कर्म­का­ण्डेऽ­प्य­य­म­ध्यायो वक्तव्य इति चेत् , सत्यम् ; अत एवो­भ­य­सा­धा­र­ण्या­यायं काण्डयोर्मध्ये पठितः । ननु तर्हि भाष्ये उप­नि­ष­द्ग्र­ह­ण­म­न­र्थ­कम् ; नानर्थकम् , उपनिषत्पाठे यत्ना­धि­क्य­द्यो­त­ना­र्थ­त्वो­प­पत्तेः । तथा हि - कर्मकाण्डे क्वचि­द­न्य­था­र्थ­ज्ञा­न­पू­र्व­का­न्य­था­नु­ष्ठा­नस्य प्रायश्चित्तेन समाधानं सम्भवति, ‘अनाज्ञातं यदाज्ञातम्’ इत्या­दि­म­न्त्र­लि­ङ्गात् । ज्ञानकाण्डे तु सगु­ण­नि­र्गु­ण­वा­क्या­ना­म­न्य­था­र्था­व­बोधे सति सम्य­गु­पा­स­ना­नु­ष्ठा­न­त­त्त्व­ज्ञा­न­यो­र­ला­भा­त्पु­रु­षा­र्था­सि­द्धि­रेव स्यात् , प्राय­श्चि­त्ते­नात्र समाधानासम्भवात् । अतो यथा­व­द्ब्र­ह्म­बो­धा­यो­प­नि­ष­त्पाठे यत्नाधिक्यं कर्तव्यमिति द्योत­ना­र्थ­त्वे­नो­प­नि­ष­द्ग्र­ह­ण­मु­प­प­द्यत इति ॥

शीक्षाशब्दस्य द्वेधा व्युत्पत्तिं दर्शयति —
शिक्ष्यत इत्यादिना ।
लक्षणपदम् ‘अकु­ह­वि­स­र्ज­नी­यानां कण्ठः, इचुयशानां तालु, ऋटुरषाणां मूर्धा, ऌतुलसानां दन्ताः’ इत्या­दि­शा­स्त्र­प­रम् ।

नन्वेवं सति वर्णा­द्यु­च्चा­र­ण­ल­क्षणं शिक्ष्यतेऽनयेति व्युत्प­त्ति­र­युक्ता, तल्लक्षणस्य शीक्षा­श­ब्दि­तेऽ­ध्याये शिक्ष­णा­द­र्श­ना­दि­त्या­शङ्क्य व्युत्प­त्त्य­न्तरं दर्शयति —
शिक्ष्यन्त इति ।
वेद­नी­य­त्वे­नो­प­दि­श्यन्त इत्यर्थः ।

चक्षिङ इति ।
‘चक्षिङः ख्याञ्’ इति सूत्रेण ख्याञादिष्टो यस्य तस्येदं रूपम् , न तु ‘ख्या प्रकथने’ इत्यस्य, तस्यार्धधातुके प्रयो­गा­भा­वा­दि­त्यर्थः । व्यक्ता वाक्कर्म क्रिया अर्थो यस्य तस्येत्यर्थः ।

मध्यमवृत्त्येति ।
अति­द्रु­त­त्वा­दिकं विनेत्यर्थः ॥

अथातः संहिताया इत्या­दे­स्ता­त्प­र्य­माह —
अधुनेति ।
वर्णा­ना­म­त्य­न्त­सा­मीप्यं संहिता, तद्वि­ष­यो­प­नि­ष­दु­पा­स­न­मि­दा­नी­मु­च्यत इत्यर्थः । शं नो मित्र इत्याशीर्वादः कृत्स्नो­प­नि­ष­च्छेषः ।

संहि­तो­प­नि­ष­च्छे­ष­मा­शी­र्वा­दा­न्तरं प्रथममाह —
तत्रेति ।
उप­नि­ष­त्प­रि­ज्ञा­न­मु­पा­स­न­वि­ष­यकं ज्ञानम् ; तच्च शिष्य­स्या­चा­र्यो­प­दे­श­ज­नि­त­मा­चा­र्यस्य च तदु­प­दे­श­प्र­यो­ज­कम् , तन्निमित्तकं यश इत्यर्थः ।

तेज इति ।
मुख­का­न्त्या­दि­रू­प­मु­प­नि­ष­त्प­रि­ज्ञा­न­नि­मि­त्त­क­मि­त्यर्थः ।

ननु सहैवास्त्विति केन प्रार्थ्यते ? तत्राह —
शिष्यवचनमिति ।

तत्र विनिगमकमाह —
शिष्यस्य हीति ।
तस्या­कृ­ता­र्थत्वं प्रसिद्धमिति हि-शब्दार्थः ।

नन्वा­चा­र्योऽ­प्य­कृ­तार्थ एव शिष्य­सा­पे­क्ष­त्वा­दिति ; नेत्याह —
कृतार्थो हीति ।
न ह्याचार्यस्य स्वप्र­यो­ज­न­सि­द्ध्यर्थं शिष्या­पे­क्षास्ति, किं तु केवलं तद­नु­ग्र­हा­र्थ­मे­वा­चा­र्य­प्र­वृ­त्ति­रिति भावः । नन्वे­व­मा­चा­र्यस्य शिष्येण किमर्थं यशआदि प्रर्थ्यते ? स्वार्थमेवेति ब्रूमः, यशस्विनः शिष्या हि लोके यशस्विनो भवन्ति ; यशस्विनां च लाभपूजादिकं फलं प्रसिद्धम् ; अतः स्वार्थमेव शिष्यो गुरोर्यशः प्रार्थयत इत्यनवद्यम् । पूर्व­वृ­त्त­स्या­न­न्त­र­मिति सम्बन्धः ।

वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतु­र­तः­श­ब्दे­नोक्त इत्याह —
यतोऽत्यर्थमिति ।
ज्ञानमुपासनम् , तदेव विषयः, तस्मि­न्नि­त्यर्थः ।

ग्रन्थ­सं­नि­कृ­ष्टा­मे­वेति ।
संहि­ता­रू­प­ग्र­न्थ­प्र­धा­ना­मे­वेति यावत् ।

नन्व­धि­क­र­णे­ष्विति सप्तम्या लोकादिषु संहि­ता­दृ­ष्टि­वि­धि­रिह विवक्षित इति प्रतीयते ; तथा सति लोकानामेव संहि­ता­दृ­ष्ट्यो­पा­स्यत्वं स्यात् ; तच्चो­प­क्र­मो­प­सं­हा­र­वि­रु­द्धम् , ‘अथातः संहितायाः’ इत्युपक्रमे ‘य एवमेता महासंहीता व्याख्याता वेद’ इत्युपसंहारे च संहिताया एवो­पा­स्य­त्वा­व­ग­मा­दि­त्या­श­ङ्क्याह —
ज्ञान­वि­ष­ये­ष्वि­त्यर्थ इति ।
अधिकरणपदस्य विष­य­प­र­त्वो­क्ति­रु­प­ल­क्ष­णम् ; सप्तमी तृती­या­र्थ­प­रे­त्यपि द्रष्टव्यम् । तथा च लोकाद्यात्मना संहि­तै­वो­पा­स्येति लभ्यते, अतो न विरोध इति भावः ।

लोकेष्वधीति ।
लोकविषयकमिति यावत् । एवमुत्तरत्रापि ।

अत्र विधि­त्सि­ता­ना­मु­पा­स­नानां स्तावकं ता महासंहिता इति वाक्यम् । तद्व्याचष्टे —
ता एता इति ।

अथा­धि­लो­क­म­था­धि­ज्यो­ति­ष­मि­त्या­दि­वा­क्य­स्था­थ­श­ब्दा­ना­म­र्थ­माह —
दर्शनक्रमेति ।
अत्रो­पा­स­न­स्यै­क­त्वेन कर्तु­रे­क­त्वा­ल्लो­का­दि­भे­देन प्रयो­ग­भे­दा­च्चा­व­श्य­म्भा­विनि क्रमे तद्विधानार्था अथ-शब्दा इत्यर्थः । तत्राद्योऽथशब्द आरम्भार्थः, इतरे तन्नि­रू­पि­त­क्र­मार्था इति भावः ।

उपनिषदः कथं कर्तव्या इत्या­का­ङ्क्षा­या­माह —
तासामित्यादिना ।

ननु संहितायाः पूर्ववर्णः पृथिवीति कथं सामानाधिकरण्यं तयो­र्भे­दा­दि­त्या­श­ङ्क्याह —
पूर्ववर्ण इति ।
मनो ब्रह्म इत्यादिवदत्र सामा­ना­धि­क­र­ण्य­मिति भावः ।

मध्यमिति ।
पूर्वोत्तररूपे सन्धीयेते अस्मिन्निति व्युत्पत्त्या यत्स­न्धि­श­ब्द­वाच्यं पूर्वो­त्त­र­रू­प­यो­र्म­ध्यम् , तत्रा­न्त­रि­क्ष­लो­क­दृष्टिः कर्तव्येत्यर्थः ॥

वायुरिति ।
सन्धीयेते पूर्वोत्तररूपे अनेनेति व्युत्पत्त्या सन्धा­न­श­ब्द­वाच्यं यत्संहितारूपम् , तत्र वायुदृष्टिः कर्तव्येत्यर्थः । इदं च क्वचिदुदाहृत्य प्रदर्श्यते - ‘इषे त्त्वा’ इत्यत्र षकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपः ; यश्चो­प­रि­त­न­स्त­कारः स द्युलोकः ; तयो­र्व­र्ण­यो­र्म­ध्य­दे­शोऽ­न्त­रि­क्ष­लोकः ; तस्मिन्देशे संहितानिमित्तो द्विर्भा­वे­ना­पा­दितो योऽन्यस्तकारः स वायुरिति ।

समानमिति ।
अथाधिज्योतिषम् , अग्निः पूर्वरूपम् , आदित्य उत्तररूपम् , आपः सन्धिः, वैद्युतः सन्धानम् , इत्यधिज्योतिषम् । ज्योतिः­श­ब्दे­नात्र जहल्लक्षणया आपः सङ्गृहीताः । विद्युदेव वैद्युतः । अथाधिविद्यम् , आचार्यः पूर्वरूपम् , अन्ते­वा­स्यु­त्त­र­रू­पम् , विद्या सन्धिः, प्रवचनं सन्धानम् , इत्यधिविद्यम् । इत्य­धि­वि­द्य­मि­त्यत्र विद्याशब्देन आचार्यादयो जहल्लक्षणयैव सङ्गृहीता इति बोध्यम् । विद्या­श­ब्द­श्चा­ध्ये­त­व्य­ग्र­न्थ­परः । ग्रन्थ­स्या­ध्य­य­न­म­ध्या­पनं वा प्रवचनम् । अथाधिप्रजम् , माता पूर्वरूपम् , पितोत्तररूपम् , प्रजा सन्धिः, प्रजननं सन्धानम् , इत्य­धि­प्र­ज­मि­त्यत्र प्रजाशब्दो मात्रादीनपि पूर्व­व­त्स­ङ्गृ­ह्णाति । प्रजननं प्रजाया उत्पत्तिः । अथाध्यात्मम् , अधरा हनुः पूर्वरूपम् , उत्तरा हनुरुत्तररूपम् , वाक्सन्धिः, जिह्वा सन्धानम् , इत्यध्यात्मम् । अत्रात्मा देहः, तद­व­य­व­वि­ष­य­मु­पा­स­न­म­ध्या­त्म­मि­त्यर्थः । एतेषु समानं योजनमित्यर्थः ।

उपप्रदर्श्यन्त इति ।
उपसंह्रियन्त इति यावत् ।

वेदेत्यस्य ज्ञान­वा­चि­त्वा­त्कथं ज्ञाना­वृ­त्ति­रू­पो­पा­स­न­प­र­त्व­मि­त्या­शङ्क्य तत्साधयति —
वेदेत्युपासनं स्यादित्यादिना ।

विज्ञा­ना­धि­का­रा­दिति ।
उपा­स्ति­प्र­क­र­णा­दि­त्यर्थः ।

तत्र मानमाह —
इति प्राचीनेति ।
यथा­शा­स्त्र­मि­त्य­नेन यत्रा­ह­ङ्ग्र­ह­श्चो­दि­त­स्त­त्रा­ह­ङ्ग्र­हेण, अन्यत्र तं विनेति विवक्षितम् । तुल्य­त्व­मे­क­वि­ष­य­क­त्वम् ।

अत­त्प्र­त्य­यै­रिति ।
ध्येयान्यगोचरैः प्रत्य­यै­रि­त्यर्थः । एकवस्तुगोचरा विच्छेदरहिता प्रत्य­य­स­न्त­ति­रु­पा­स­न­मिति निष्कर्षः ।

ननु सकृत्प्रत्यय एवोपासनमस्तु, किं तदा­वृ­त्त्ये­त्या­शङ्क्य क्रिया­वृ­त्ता­वे­वो­पा­स­न­शब्दः प्रसिद्धो लोके, न सकृत्क्रियायाम् , अतोऽत्र वेदेत्यनेन प्रत्य­य­क्रि­या­वृ­त्ति­रेव लक्ष­णी­ये­त्या­श­ये­नाह —
प्रसि­द्ध­श्चे­त्या­दिना ।

ननु तत्रापि सकृ­दु­प­चा­र­क्रि­यै­वो­पा­स­नम् ; नेत्याह —
यो हीति ।

पृथिवी पूर्व­रू­प­मि­त्या­दि­वे­द­न­मा­त्रा­त्फ­ला­स­म्भ­वा­द­प्यु­पा­स­न­मे­वात्र विधेयम् , उपासनस्य तु योग्यतया वक्ष्यमाणं फलं सम्भवति, लोकेऽ­प्यु­पा­स­नस्य फल­व­त्त्व­सि­द्धे­रि­त्या­श­ये­नाह —
स चेति ।
गुर्वाद्युपासक इत्यर्थः ।

अतोऽत्रापीति ।
गुर्वा­द्यु­पा­स­नस्य लोके फल­व­त्त्व­द­र्श­नात् अत्रापि संहिताविषयेऽपि, य एवं लोकादिदृष्ट्या संहिता उपास्त इत्यर्थः ।

सन्धीयत इति ।
सम्बध्यत इत्यर्थः । अत्र फलकामिना क्रियमाणमुपासनं कामितफलाय भवति, फला­भि­स­न्धि­र­हि­तेन तु क्रियमाणं तदेव विद्यासाधनं भवतीति ब्रह्म­वि­द्या­सं­नि­ध्या­म्ना­न­ब­ला­त्क­ल्प्यत इति मन्तव्यम् ॥

ननु यश्छ­न्द­सा­मि­त्या­दयो मन्त्राः किम­र्थ­मा­म्ना­यन्ते ? तत्राह —
मेधेति ।
मेधाकामस्य मेधा­प्रा­प्ति­सा­धनं जप उच्यते, श्रीकामस्य श्रीप्रा­प्ति­सा­धनं होम उच्यत इति विभागः ।

एवं तात्पर्यवर्णने कारणमाह —
स मेन्द्र इत्यादिना । ऋषभ इति ।
गवां मध्ये प्रधानत्वाद्यथा ऋषभः श्रेष्ठः, तथा वेदानां मध्ये प्रणवः श्रेष्ठः प्राधा­न्या­दि­त्यर्थः ।

ननु कथमोङ्कारस्य सर्व­रू­प­त्व­मि­त्या­श­ङ्क्याह —
सर्व­वा­ग्व्या­प्ते­रिति ।

शब्दमात्रे कृत्स्न­स्या­भि­धे­य­स्या­न्त­र्भा­वम् ‘तस्य वाक्तन्तिः’ इत्या­दि­श्रु­त्युक्तं सिद्धं कृत्वा तस्य सर्व­श­ब्दा­त्म­कत्वे प्रमाणमाह —
तद्यथेति ।
‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृ­ण्णा­न्ये­व­मो­ङ्का­रेण सर्वा वाक्सन्तृण्णा’ इति श्रुत्यन्तरम् । तस्य चायमर्थः - यथा लोके अश्वत्थपर्णानि शङ्कु­श­ब्द­वा­च्येन स्वग­त­श­ला­का­वि­शे­षेण व्याप्तानि, तद्वदोङ्कारेण सर्वा शब्दात्मिका वाग्व्याप्तेति ।

अत एवेति ।
विश्वरूपत्वाच्च तस्य श्रेष्ठ­त्व­मि­त्यर्थः ।

नन्वो­ङ्का­र­स्यात्र स्तुतिरन्याय्या ; नेत्याह —
ओङ्कारो ह्यत्रेति ।
अस्यां संहि­तो­प­नि­ष­द्यो­ङ्का­रस्य ‘ओमिति ब्रह्म’ इत्यत्रोपासनं प्रसिद्धमिति हि-शब्दार्थः ।

ओङ्कारस्य सर्ववेदेषु प्राधान्यं कुत इत्याशङ्क्य तद्धे­तु­प्र­द­र्श­न­परं छन्दोभ्य इति वाक्यं व्याचष्टे —
वेदेभ्य इत्यादिना ।

अमृतादिति वेदविशेषणम् ‘वेदा ह्यमृताः’ इति श्रुत्यन्तरात् , एकवचनं च च्छान्द­स­मि­त्या­श­ये­नाह —
वेदा ह्यमृतमिति ।
वेदानाममृतत्वं नित्यत्वम् , तच्चा­वा­न्त­र­प्र­लये नाशाभावरूपं विवक्षितम् । न त्वात्यन्तिकं नित्यत्वमस्ति वेदानाम् ; कल्पादौ सृष्टिश्रवणात् , महाप्रलये नाशाभ्युपगमाच्च । इदं च देवताधिकरणे विस्तरेण निरूपितं तत्रैव द्रष्टव्यम् ।

सम्ब­भू­वे­त्य­स्या­र्थ­माह —
लोकदेवेति ।

सारिष्ठमिति ।
सारतममित्यर्थः । तथा च श्रुतिः - ‘प्रजा­प­ति­र्लो­का­न­भ्य­त­प­त्ते­भ्योऽ­भि­त­प्ते­भ्य­स्त्रयी विद्या सम्प्रा­स्र­व­त्ता­म­भ्य­त­प­त्तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवःसुवरिति तान्य­भ्य­त­प्ते­भ्योऽ­भि­त­प्तेभ्य ओङ्कारः सम्प्रास्रवत्’ इति । अभ्यतपत् सारजिघृक्षया पर्या­लो­चि­त­वा­नि­त्यर्थः । त्रयो वेदास्त्रयी विद्या । यद्यप्यस्यां श्रुतौ लोकानन्तरं देवा न श्रूयन्ते, तथापि ‘प्रजा­प­ति­र्लो­का­न­भ्य­त­प­त्तेषां तप्यमानानां रसा­न्प्रा­बृ­ह­दग्निं पृथिव्या वायु­म­न्त­रि­क्षा­दा­दित्यं दिवः स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां रसान्प्राबृहत्’ इत्यत्र देवा अपि श्रूयन्त इत्यभिप्रेत्य देवग्रहणमिति मन्तव्यम् । प्राबृहत् गृहीतवान् , सारत्वेन ज्ञात­वा­नि­त्यर्थः ।

ननु सम्बभूवेति पदं जन्मपरत्वेनैव कुतो न व्याख्यायते ? तत्राह —
न हीति ।

नित्यस्येति ।
अवा­न्त­र­प्र­ल­या­व­स्था­यिन इत्यर्थः । प्रणवस्य वेदा­न्त­र्भू­त­त्वेन वेद­स­मा­न­यो­ग­क्षे­मस्य वेदेभ्यः सकाशान्मुख्यं जन्म न हि सम्भवतीत्याशयः । परमेश्वर इत्यस्य विवरणं सर्वकामेश इति ।

ननु मेधाप्रदानेन यत्प्रीणनं तात्का­लि­क­प्री­ति­स­म्पा­दनं न तद्विद्याकामस्य विवक्षितं प्रयो­ज­न­मि­त्य­स्व­र­सा­दाह —
बलयतु वेति ।

अत्र विद्या­का­म­स्या­पेक्षां दर्शयति —
प्रज्ञाबलं हीति ।
प्रज्ञात्र मेधाशब्दार्थः । सा च ग्रन्थ­त­द­र्थ­धा­र­ण­शक्तिः, सैव बलम् । प्रज्ञाबलस्य च ‘नायमात्मा बलहीनेन लभ्यः’ इति श्रुतिसिद्धं विद्यासाधनत्वं द्योतयितुं हि-शब्दः ।

तदधिकारादिति ।
अमृ­त­श­ब्द­मु­ख्या­र्थस्य ब्रह्मणो धार­णा­स­म्भ­वा­द­मृ­त­श­ब्देन मुख्या­र्था­द­न्य­देव किञ्चि­ल्ल­क्ष­णी­यम् ; तच्चा­मृ­त­श­ब्दि­त­ब्र­ह्म­प्रा­प्ति­सा­धनं ब्रह्मज्ञानमेव वक्तव्यम् , तत्सा­ध­न­प्र­ज्ञा­प्रा­र्थ­नेन तस्यैव बुद्धि­स्थ­त्वा­दि­त्यर्थः ।

पुरुषविपरिणाम इति ।
उत्तमपुरुषत्वेन पूर्वत्र प्रयुक्तस्य भूयासमित्यस्य भूयादिति प्रथ­म­पु­रु­ष­त्वे­नात्र व्यत्यासः कर्तव्य इत्यर्थः ।

मधुरभाषिणीति ।
भूया­दि­त्य­नु­षङ्गः ।

ननु चक्षुरादेरपि ज्ञानं प्रत्यानुकूल्यं कुतो न प्रार्थ्यते ? प्रार्थ्यत एवेत्याशयेन शरीरं मे विच­र्ष­ण­मि­त्या­दे­र्वि­व­क्षि­त­म­र्थ­माह —
आत्मज्ञानेति ।
कार्यं स्थूलशरीरम् , करणानि चक्षुरादीनि, तेषां सङ्घातः समुदाय इत्यर्थः ।

ननु सङ्घातनिष्ठा योग्यता चेदात्मज्ञानाय प्रार्थ्यते, किमर्थं तर्हि मेधा प्रार्थ्यते ? तत्राह —
मेधा चेति ।
रोगा­दि­प्र­ति­ब­न्ध­र­हि­तस्य जिते­न्द्रि­य­स्यापि मेधां विना­त्म­ज्ञा­ना­स­म्भ­वा­त्सापि प्राधा­न्ये­ना­त्म­ज्ञा­ना­र्थ­मेव प्रार्थ्यत इत्यर्थः । आत्मज्ञानं प्रति प्रज्ञायाः प्रकृ­ष्ट­सा­ध­न­त्व­द्यो­त­नार्थो हि-शब्दः । अत्रा­चे­त­न­स्या­प्यो­ङ्का­रस्य ब्रह्माभेदेन प्रार्थितदाने साम­र्थ्य­म­व­ग­न्त­व्यम् ।

ननु कथं तस्य ब्रह्माभेदः ? तत्प्र­ती­क­त्वा­दिति ब्रूमः । कथं तस्य तत्प्रतीकत्वम् ? तत्राह —
ब्रह्मणः परमात्मन इति ।

नन्वसिं प्रति प्रसि­द्ध­को­श­स्येव ब्रह्म प्रति प्रणवस्य स्वस्मि­न्न­न्त­र्भा­व­यि­तृ­त्व­र­क्ष­क­त्वा­दे­र­भा­वान्न मुख्यं कोशत्वमस्ति ; तत्राह —
उपलब्धीति ।
यथासिः कोशे उपलभ्यते तथा ओङ्कारे ब्रह्मोपलभ्यते ; तत­श्चो­प­ल­ब्धि­स्था­न­त्व­सा­म्या­त्को­श­शब्दो गौण ओङ्कार इत्यर्थः ।

तदेव साम्यं विवृणोति —
त्वं हीति ।
तस्य ब्रह्म­प्र­ती­कत्वे श्रुत्य­न्त­र­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः ।

प्रतीकमिति ।
दृष्ट्या­ल­म्ब­न­मि­त्यर्थः ।

ब्रह्म­दृ­ष्टि­फ­ल­माह —
त्वयीति ।
उपलब्धिः साक्षात्कारः ।

ननु यद्योङ्कारः प्रार्थितफलदाने समर्थस्तर्हि किमिति स सर्वैर्नोपास्यत इति शङ्कावारणर्थं मेधया पिहित इति वाक्यम् । तद्व्याचष्टे —
मेधयेत्यादिना ।

ननु शास्त्राजनिता प्रज्ञा लौकिकप्रज्ञा, तस्याः कथं पीठादेरिव पिधा­य­क­त्व­मि­त्या­श­ङ्क्यात्र विवक्षितं पिधानं कथयति —
स त्वमिति ।
उक्त­लौ­कि­क­प्र­ज्ञा­मा­त्र­युक्ताः सामान्यप्रज्ञाः ; स त्वं सामा­न्य­प्र­ज्ञै­र­वि­दि­त­म­हि­मासि ; तस्मात्त्वं न सर्वैरुपास्यत इत्यर्थः । श्रव­ण­पू­र्व­क­मा­त्म­ज्ञा­ना­दि­ल­क्षणं विज्ञानं श्रुतम् , तत्प्रा­प्त्य­वि­स्म­र­णा­दिना गोपायेति योजना । प्रथमादिपदेन मननजनितं ज्ञानं सङ्गृह्यते । द्वितीयादिपदेन रागा­दि­ल­क्ष­ण­प्र­ति­ब­न्ध­नि­वृत्तिः सङ्गृह्यते । तदुक्तं वार्त्तिके - ‘राग­द्वे­षा­दि­हे­तुभ्यः श्रुतं गोपाय मे प्रभो’ इति ।

तत्कर्मत्वादिति ।
तनो­ते­र्धा­तो­स्त­द­र्थ­क­त्वा­दि­त्यर्थः ।

ममेति ।
ममान्नपानादिकं सर्वमानयन्ती सर्वदा सम्पादयन्ती तथा सम्पादितं सर्वं विस्तारयन्ती वर्धयन्ती वर्धितं सर्वं चिरं दीर्घकालं कुर्वाणा वर्तयन्ती, यथा विनष्टं न भवति तथा कुर्वतीति यावत् । अचिरमिति च्छेदः सम्भावनामात्रेण । दैर्घ्यं छान्दसम् ।

किमित्याहेति ।
किमा­व­ह­न्ती­त्या­का­ङ्क्षा­या­मा­हे­त्यर्थः । अत्रा­व­ह­न्ती­त्या­दि­प­द­त्रयं श्रियो विशेषणम् ।

नन्वा­व­ह­न्ती­त्या­दि­प­द­त्र­यस्य प्रथमान्तस्य, द्वितीयान्तस्य श्रीपदस्य च कथं विशे­ष­ण­वि­शे­ष्य­भा­वे­ना­न्वय इत्या­श­ङ्क्या­ध्या­हा­रेण योजयति —
श्रीर्यातामीति ।
तामा­व­हे­त्यु­त्त­रे­णा­न्वयः । ततो मे श्रियमित्यत्र तत इत्यस्य व्याख्या मेधा­नि­र्व­र्त­ना­त्प­र­मिति ।

ननु मेधा­नि­ष्प­त्त्य­न­न्त­र­मेव किमिति श्रीः प्रार्थ्यते ? तत्राह —
अमेधसो हीति ।
प्रज्ञा­ही­न­स्या­पा­त्र­व्य­या­दिना धना­दि­क­म­न­र्था­यै­वे­त्ये­त­त्प्र­सि­द्धम् ; अतो मेधानन्तरमेव श्रीः प्रार्थ्यत इत्यर्थः ।

किंविशिष्टां चेति ।
पुनश्च किंवि­शि­ष्टा­मि­त्यर्थः । अजादीनां लोम­श­त्वा­त्त­द्रूपा श्रीर्लोमशेति भावः ।

श्रियमावहेति कः सम्बोध्यते ? तत्राह —
अधिकारादिति ।
संनि­धा­ना­दि­त्यर्थः । ओङ्कारस्य प्रार्थि­त­श्री­प्र­दाने योग्य­ता­सू­च­नार्थो हि-शब्दः । मेधाविनः श्रीयुक्तस्य विद्याप्रदानाय शिष्य­प्रा­प्ति­प्रा­र्थ­ना­मन्त्र आ मा यन्त्विति ।

तं व्याचष्टे —
आयन्तु मामिति ।
स्वस्या­चा­र्य­त्व­प्र­यु­क्त­की­र्ति­प्रा­र्थ­ना­मन्त्रो यशो जन इति ।

तं व्याचष्टे —
यशस्वीति ।
‘वस निवासे’ ‘वस आच्छादने’ इति धातु­द्व­या­दु­प्र­त्ययः शीलार्थे । वेश्मसु वसनशीलः पराच्छादनशीलो वा वसुः ; अतिशयेन वसुर्वसीयान् , तस्माद्वसीयसः ईलोपश्छान्दसः ।

यद्वा धनवाचिना वसुशब्देन वसु­माँ­ल्ल­क्ष्यते ; तथा च अतिशयेन वसु­मा­न्व­सु­म­त्तरः, तस्मादित्यर्थः इत्याशयेनाह —
वसुमत्तराद्वेति ।

तेष्विति ।
वसीयःसु वसुमत्तरेषु वेत्यर्थः ।

विद्या­त­त्सा­ध­न­प्रा­र्थ­ना­न­न्तरं विद्या­फ­ल­प्रा­र्थनां दर्शयति —
किं चेति ।

नन्वत्र विदुषो ब्रह्मरूपे प्रणवे मुख्य­प्र­वे­शा­स­म्भ­वा­दहं ब्रह्मास्मीति ज्ञानमेव तस्य तस्मि­न्प्र­वे­श­त्वेन विवक्षणीयम् । तस्य चामृतस्य देव धारणो भूयसमित्यनेनैव प्रार्थि­त­त्वा­त्पु­न­रुक्तिः स्यादि­त्या­शङ्क्य तात्पर्यमाह —
प्रविश्य चेति ।

वाक्यद्वयस्य विवक्षितमर्थं सङ्क्षिप्याह —
आवयोरिति ।
भेदहेतुमज्ञानं नाशयेत्यर्थः ; तयोरेकत्वस्य स्वतः सिद्धत्वादिति मन्तव्यम् ।

बहुभेद इति ।
शिव­वि­ष्ण्वा­द्य­ने­क­मू­र्त्यु­पेते त्वयि पापं नाशयामि, त्वन्मू­र्ति­भ­ज­नेन पापं नाशयामीति यावत् ।

यदुक्तं ब्रह्मचारिणो मामायन्त्विति, तदेव दृष्टान्तेन प्रपञ्चयति —
यथेति ।

अतो मामिति ।
त्वन्निष्ठायाः संसा­र­श्र­मा­प­न­य­न­स्था­न­त्वा­त्त­द­प­न­याय मां प्रति स्वात्मानं तत्त्वतः प्रकाशयेत्यर्थः ।

आद­र­सू­च­ना­र्थ­मु­क्त­ज्ञानं पुनः संप्रार्थ्य मुक्तिमपि तदर्थमेव पुनः प्रार्थयते —
प्रपद्यस्व चेति ।
रसविद्यो लोहो रसमयो भवति, तद्वन्मां त्वन्मयं कुर्वित्यर्थः ।

विद्यासंनिधौ श्रुतस्य श्रीकामस्य प्रणाड्या विद्यायामुपयोगं दर्शयति —
श्रिका­मोऽ­स्मि­न्त्या­दिना ।

विद्या प्रकाशत इति ।
प्रका­श­तेऽ­भि­व्य­ज्यते, उत्पद्यत इति यावत् । यथा आदर्शतले निर्मले प्रतिबिम्बं स्फुटं पश्यति, तथा पापक्षयेण निर्म­ला­द­र्श­त­ल­तु­ल्येऽ­न्तः­क­रणे ब्रह्मात्मानं पश्यतीति स्मृते­रु­त्त­रा­र्धार्थः ॥

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­रा­नु­वा­क­द्व­य­ता­त्प­र्य­माह —
संहि­ता­वि­ष­य­मि­त्या­दिना ।

संहितोपासनं फलाभिसन्धिं विनानुष्ठितं चित्त­शु­द्धि­द्वारा विद्यो­प­यो­गा­र्थ­मिति सूचयति —
ते चेति ।
च-शब्दोऽप्यर्थः । संहि­तो­पा­स­न­व­त्तेऽ­पी­त्यर्थः ।

अन्तरिति ।
व्याहृतीनां श्रद्धा­गृ­ही­त­त्वा­त्त­त्प­रि­त्या­गे­नो­प­दि­श्य­मानं ब्रह्म न बुद्धिमारोहति । अतो व्याहृतिशरीरस्य ब्रह्मणो हृद­या­न्त­रु­पा­स­न­मु­प­दि­श्यत इत्यर्थः ।

तात्प­र्य­मु­क्त्वा­क्ष­र­व्या­ख्या­नाय प्रतीकमादत्ते —
भूर्भुवः सुवरिति ।

इतीत्युक्तेति ।
भूर्भुवःसुवरिति वाक्येनोक्तानां व्याहृतीनां पाठ­क्र­म­ल­ब्ध­क्र­मा­नु­वा­दार्थः श्रुतावितिशब्द इत्यर्थः ।

प्रद­र्शि­ता­ना­मिति ।
प्रद­र्शि­त­क्र­मो­पे­तानां व्याहृतीनां स्वरू­पा­नु­वा­दार्थ एतास्तिस्रो व्याहृतय इति शब्द इत्यर्थः ।

ननु क्रमतः स्वरूपतश्च ताः किमर्थं परामृश्यन्ते ? तत्राह —
परामृष्टा इति ।

स्मृतिं विवृणोति —
तिस्र एता इति ।

स्मर्यन्ते तावदिति ।
तावच्छब्दः प्राथम्यार्थः । कर्मकाण्डे कर्माङ्गत्वेन प्रसि­द्ध­व्या­हृ­तयः इह प्रथमं स्मर्यन्ते वै-शब्देन तासु क्रमे­णो­पा­स­न­वि­धा­ना­र्थ­मि­त्यर्थः । सोमपानार्थं महांश्चमसो यस्य स महाचमस इति वेदभाष्यकाराः ।

अपत्यमिति ।
गोत्रा­प­त्य­मि­त्यर्थः । तथा च वार्त्तिके दर्शितम् - ‘महा­च­म­स­गो­त्र­त्वा­द्गो­त्रा­र्थ­स्त­द्धितो भवेत्’ इति ।

प्रवेदयत इति लटो भूतार्थपरत्वेन व्याख्याने हेतुमहा —
उ ह स्म इत्येतेषामिति ।

ऋषे­श्च­तु­र्थ­व्या­हृ­ति­वि­ष­यकं वेदनं योगप्रभावजनितं प्रत्यक्षमेवेति मत्वाह —
ददर्शेत्यर्थः इति ।

आर्षेति ।
ऋषि­स­म्ब­न्ध्य­नु­स्म­र­ण­मा­र्षम् , तस्यानुस्मरणस्य कर्त­व्य­ता­द्यो­त­ना­र्थ­मि­त्यर्थः ।

ननु तस्यो­पा­स­ना­ङ्गत्वे सति कर्तव्यता सिध्यति, तदेव कुत इति ; तत्राह —
ऋष्य­नु­स्म­र­ण­म­पीति ।

इहोपदेशादिति ।
उपासनप्रकरणे ऋषेः सङ्की­र्त­ना­दि­त्यर्थः । उत्त­र­त्रो­प­दे­क्ष्य­मा­णाया गतेरपि चिन्त­न­मु­पा­स­ना­ङ्ग­त्वेन कर्त­व्य­मि­हो­प­दे­शा­वि­शे­षा­दि­त्य­पे­रर्थः ।

तद्ब्रह्मेति ।
तच्च­तु­र्थ­व्या­हृ­ति­स्व­रूपं ब्रह्मेति चिन्त­ये­दि­त्यर्थः ।

इत­र­व्या­हृ­ति­त्या­गेन चतु­र्थ­व्या­हृ­ति­स्व­रूपे ब्रह्म­दृ­ष्टि­वि­धाने नियामकमाह —
महद्धि किल ब्रह्म महती च व्याहृतिरिति ।
महत्त्वं व्यापकत्वम् , तच्च ब्रह्मणः श्रुतिषु प्रसिद्धमिति द्योतनार्थौ हि किलेति निपातौ । चतु­र्थ­व्या­हृ­ते­रि­त­र­व्या­हृ­त्य­पे­क्षया व्यापकत्वं वक्ष्यति । तथा च व्याप­क­त्व­सा­म्येन चतु­र्थ­व्या­हृ­ति­स्व­रूपे ब्रह्म­दृ­ष्टि­वि­धि­रिति भावः ।

चतु­र्थ­व्या­हृ­ते­र्व्या­प­कत्वं निरूपयितुं पृच्छति —
किं पुनस्तदिति ।
मह इति व्याहृतिस्वरूपं ब्रह्मे­त्यु­क्तम् , तद्व्या­हृ­ति­स्व­रूपं पुनरपि किं कीदृ­श­मि­त्य­क्ष­रार्थः । अत्रोत्तरं स आत्मेति श्रुतिः । विधेयापेक्षया पुंलि­ङ्ग­नि­र्देशः, स चतु­र्थ­व्या­हृ­ति­स्व­रू­प­मात्मा इत­र­व्या­हृ­त्य­पे­क्षया व्यापकमित्यर्थः ।

ननु चेतने रूढ­स्या­त्म­श­ब्दस्य कथं व्यापकत्वमर्थः ? योगेनेत्याह —
आप्नोतेरिति ।
व्याप्तिः कर्म क्रिया अर्थो यस्य ; ततश्च व्याप्ति­वा­च­का­दा­प्नोतेः सका­शा­न्नि­ष्प­न्नोऽ­य­मा­त्म­शब्दो व्यापकत्वबोधक इत्यर्थः ।

मह इति व्याहृ­ते­रा­त्म­श्रु­त्यु­क्त­मि­त­र­व्या­हृ­त्य­पे­क्षया व्याप­क­त्व­मु­प­पा­द­यति —
इत­रा­श्चे­त्या­दिना यतोऽत इत्यन्तेन ।
च-शब्दोऽवधारणे ।

नन्वि­त­र­व्या­हृ­तयो मह इत्यनेन व्याप्यन्त इत्ययुक्तम् , इतरव्याहृतेषु मह इत्य­स्या­क्ष­रा­नु­वृ­त्ते­र­द­र्श­ना­दि­त्या­श­ङ्क्याह —
आदि­त्य­च­न्द्र­ब्र­ह्मा­न्न­भू­ते­नेति ।
मह इति व्याहृत्यात्मन आदि­त्या­दि­भू­त­त्व­मित्थं श्रूयते - ’मह इत्यादित्यः, मह इति चन्द्रमाः मह इति ब्रह्म, मह इत्यन्नम्’ इति । मह इति ब्रह्मेत्यत्र ब्रह्मोङ्कार इति वक्ष्यति । नन्वा­दि­त्या­दीनां लोकादिष्वेव व्याप्तिः, न व्याहृतिषु, अनुपलम्भात् ; ततश्च कथ­मा­दि­त्य­च­न्द्र­ब्र­ह्मा­न्न­भू­तेन मह इत्यनेन इतरा व्याहृतयो व्याप्यन्त इत्याशङ्क्य तासा­मा­दि­त्या­दि­व्या­प्य­ता­सि­द्ध्यर्थं लोका­द्या­त्म­क­ता­माह – लोकादेवावेदाः प्राणाश्चेति । इतरव्याहृतयो लक­दे­व­वे­द­प्रा­णा­त्मिका इत्यक्षरार्थः । तासामित्थं लोका­द्या­त्म­कत्वं श्रूयते - ‘भूरिति वा अयं लोकः, भुव इत्यन्तरिक्षम् , सुवरित्यसौ लोकः ; भूरिति वा अग्निः, भुव इति वायुः, सुवरित्यादित्यः ; भूरिति वा ऋचः, भुव इति सामानि, सुवरिति यजूषि ; भूरिति वै प्राणः, भुव इत्यपानः, सुवरिति व्यानः’ इति । अत्र पृथि­व्य­न्त­रि­क्ष­द्यु­लो­का­ना­मा­दि­त्य­व्या­प्यता प्रसिद्धा, अग्नि­वा­य्वा­दि­त्य­दे­व­तानां चन्द्रव्याप्यता प्रसिद्धैव, चन्द्रसूर्ययोः स्वदीप्त्या सर्व­लो­क­व्या­प­क­त्वात् ; वागात्मकानां वेदा­ना­मो­ङ्का­र­व्या­प्यता ‘तद्यथा शङ्कुना’ इत्या­दि­श्रु­ति­सिद्धा, प्राणा­ना­म­न्न­र­स­द्वा­रा­न्न­व्या­प्यता प्रसिद्धा ; तथा च लोक­दे­व­वे­द­प्रा­णा­त्मिका इतरव्याहृतयो यत आदि­त्य­च­न्द्र­ब्र­ह्मा­न्न­भू­तेन मह इत्यनेन व्याहृत्यात्मना व्याप्यन्ते, अतो मह इति व्याहृ­ते­रि­त­रा­पे­क्षया व्याप­क­त्व­मि­त्यर्थः ।

इत्थं स आत्मेति वाक्यं व्याख्याय अन­न्त­र­वा­क्य­मा­दत्ते —
अङ्गानीति ।

नन्वन्या व्याहृतयो यथा देवतारूपत्वेन श्रुतास्तथा लोका­दि­रू­प­त्वे­नापि श्रुताः ; ततश्च कथ­म­ग्न्या­दि­दे­व­ता­रू­पा­णा­मेव तासा­म­ङ्ग­त्व­व­च­नम् ? तत्राह —
देवताग्रहणमिति ।
देव­ता­प­द­म­ज­ह­ल्ल­क्ष­णया लोकादीनामपि ज्ञापनार्थम् ; अतो नोक्तदोष इत्यर्थः ।

लोकाद्युपलक्षणे कृते सति फलितम् ‘अङ्गान्यन्या देवताः’ इति वाक्यार्थं दर्शयति —
मह इत्ये­त­स्ये­त्या­दिना इतीत्यन्तेन ।
अत्रेतिशब्दोऽत इत्यर्थे, यत इत्युपक्रमात् ; तथा च यत आदि­त्या­दि­भि­र्लो­का­दयो महीयन्ते अतः सर्वे देवा लोकादयश्च मह इत्येतस्य व्याहृ­त्या­त्म­नोऽ­व­य­व­भूता इति योजना ।

अत्र दृष्टान्तमाह —
आत्मना हीति ।
प्रसिद्धशरीरस्य मध्य­भा­गोऽ­त्रा­त्म­श­ब्दार्थः । तेन हस्त­पा­दा­द्य­ङ्गानि महीयन्ते । शरी­र­म­ध्य­भा­ग­ग­ता­न्ना­दिना अङ्गानां वृद्धिः प्रसिद्धेति हि-शब्दार्थः । अयं भावः - यथा देवदत्तस्य मध्यमभागं प्रति पादादीन्यङ्गानि मध्य­म­भा­गा­धी­न­वृ­द्धि­भा­क्त्वात् , मध्य­म­भा­ग­श्चाङ्गी तद्वृ­द्धि­हे­तु­त्वात् , तथा लोकाद्यात्मिका इतरव्याहृतयः पादा­दि­रू­पा­ङ्गाणि, आदि­त्या­द्या­त्मकं चतु­र्थ­व्या­हृ­ति­स्व­रू­प­म­ङ्गीति कल्प्यते ; मह इत्य­स्या­दि­त्या­द्या­त्म­ने­त­र­वृ­द्धि­हे­तु­त्वेन वृद्धि­हे­तु­त्व­सा­म्यात् , इतरव्याहृतीनां च लोकाद्यात्मना तद­धी­न­वृ­द्धि­भा­क्त्वेन प्रसि­द्धा­ङ्ग­व­द्वृ­द्धि­भा­क्त्व­सा­म्यात् ; तत्रापि प्रथमा व्याहृतिः पादौ, द्वितीया बाहू, तृतीया शिर इति विभागः ; तथा च व्याहृ­ति­च­तु­ष्टयं मिलित्वा शरीरं सम्पद्यते ; तस्मि­न्व्या­हृ­ति­मये शरीरे यदङ्गित्वेन कल्पितं चतु­र्थ­व्या­हृ­ति­स्व­रूपं तत्र तद्ब्रह्मेति वाक्येन ब्रह्म­दृ­ष्टि­र्वि­हिता ; तथा च वक्ष्यति - मह इत्यङ्गिनि ब्रह्मणीति । आदित्यादीनां च लोका­दि­वृ­द्धि­हे­तु­त्व­मित्थं श्रूयते - ‘आदित्येन वाव सर्वे लोका महीयन्ते, चन्द्रमसा वाव सर्वाणि ज्योतीषि महीयन्ते, ब्रह्मणा वाव सर्वे वेदा महीयन्ते, अन्नेन वाव सर्वे प्राणा महीयन्ते’ इति । अयमर्थः लोका­स्ता­व­दा­दि­त्येन प्रकाशिताः सन्तः प्राणिनां व्यव­हा­र्य­त्व­ल­क्षणां वृद्धिं प्राप्नुवन्ति ; अग्नि­वा­य्वा­दि­त्य­दे­व­ता­रू­पाणि ज्योतींषि चन्द्रमसा वर्धन्त इत्येतत् ‘प्रथमां पिबते वह्निः’ इत्या­दि­शा­स्त्र­सि­द्धम् , चन्द्रकलापानेन तेषां वृद्धे­रा­व­श्यि­क­त्वात् ; ब्रह्मणा प्रणवेन सर्वे देवा वर्धन्ते वेदवृद्धेः प्रण­व­पू­र्व­का­ध्य­य­ना­धी­न­त्वात् , तथा च वक्ष्यति ‘ओमिति ब्राह्मणः प्रवक्ष्यन्नाह’ इति ; अन्नेन प्राणा वर्धन्त इत्ये­त­त्प्र­सि­द्धम् , श्रुतिश्चात्र भवति ‘शुष्यति वै प्राण ऋतेऽन्नात्’ इति ।

भूरिति वा अयं लोक इत्यादावैकैका व्याहृ­ति­श्च­तु­ष्प्र­कारा ज्ञातव्येति तात्पर्यमाह —
अयं लोक इत्यादिना ।

भूरितीति ।
चतुर्धा भवतीति शेषः ।

एवमुत्तरा इति ।
अन्तरिक्षं वायुः सामान्यपान इति द्वितीया व्याहृतिर्भुव इति, सुवर्लोक आदित्यो यजूंषि व्यान इति तृतीया व्याहृतिः सुवरिति, आदि­त्य­श्च­न्द्रमा ओङ्कारोऽन्नमिति चतुर्थीं व्याहृतिर्मह इति ; एवमेता उत्तरा व्याहृतयः प्रत्येकं चतुर्धा भवन्तीत्यर्थः ।

मह इति ब्रह्मेत्यत्र ब्रह्मशब्दस्य मुख्यार्थपरत्वं वारयति —
ब्रह्मे­त्यो­ङ्कार इति ।
भूरिति वा ऋच इत्यादिना वेदा­व­य­व­भू­त­श­ब्द­सं­नि­धाने मुख्या­र्थ­ग्र­ह­णा­यो­गात् , चतुर्थव्याहृतौ पूर्वमेव मुख्य­ब्र­ह्म­दृ­ष्टे­रु­क्त­त्वेन पौन­रु­क्त्य­प्र­स­ङ्गा­च्चे­त्यपि द्रष्टव्यम् ।

धा-शब्दस्य प्रकारवचनत्वे सति चत­स्र­श्च­तु­र्धेति वाक्यस्य फलितमर्थं क्रिया­ध्या­हा­र­पू­र्वकं दर्शयति —
चतस्रश्चतस्रः सत्य इति ।
स्वरूपेण चतस्रो व्याहृतयो द्रष्ट­व्य­लो­का­दि­भे­देन प्रत्येकं चतस्रः सत्य इत्यर्थः ।

ननु व्याहृतिषु प्रत्येकं पदा­र्थ­च­तु­ष्ट­य­दृ­ष्टि­वा­क्येभ्य एव तासां प्रत्येकं चतु­र्धा­त्व­क्लृ­प्ति­सिद्धेः चत­स्र­श्च­तु­र्धेति वाक्यं पुनरुक्तमिति ; नेत्याह —
तासां यथा­क्लृ­प्ता­ना­मिति ।
भूरिति वा अयं लोक इत्यादिवचनानां व्याहृ­ति­स्तु­ति­प­र­त्व­श­ङ्का­नि­रा­सेन तथै­वो­पा­स­न­क­र्त­व्य­ता­व­श्यि­क­त्व­द्यो­त­नार्थं इत्यर्थः । चतस्रश्चतस्रो व्याहृतय इति वाक्यं तु निरूपितानां तासा­मु­प­सं­हा­रा­र्थ­मिति भावः ।

ज्ञातस्य ब्रह्मणः पुन­र्ज्ञा­नो­प­देशे पौनरुक्त्यं स्यादिति शङ्कते —
नन्विति ।
तद्ब्रह्मेति वाक्ये ब्रह्म­मा­त्र­म­व­गतं न तु तद्गुणजातम् , ‘स वेद ब्रह्म’ इति वाक्येतु वक्ष्य­मा­ण­गु­ण­वि­शि­ष्ट­त्वेन ज्ञात­व्य­त्व­मु­प­दि­श्यते ।

तथा च वक्ष्य­मा­ण­गु­ण­वि­शि­ष्ट­त्वेन पूर्व­म­ज्ञा­त­त्वान्न पौनरुक्त्यमिति परिहरति —
नेति ।
न च वक्ष्य­मा­ण­गु­णा­ना­मपि वक्ष्य­मा­णा­नु­वा­के­नै­वा­व­गन्तुं शक्यत्वादिदं वचनं व्यर्थमेव स्यादिति वाच्यम् ; एतदनुवाकावगते चतु­र्थ­व्या­हृ­त्या­त्मके ब्रह्मणि वक्ष्य­मा­ण­गु­ण­व­त्त्वा­व­ग­म­स्यै­त­द्व­च­ना­धी­न­त्वेन वैय­र्थ्या­प्र­स­क्ते­रिति भावः ।
सङ्ग्रहं विवृणोति —
सत्यमित्यादिना ।
न तु तद्विशेषो विज्ञायत इति सम्बन्धः ।

तस्य ब्रह्मणो विशेषमेव विवृणोति —
हृद­या­न्त­रि­त्या­दिना ।
योऽय­मु­त्त­रा­नु­वा­को­प­क्रमे दर्शितो हृद­या­न्त­रु­प­ल­भ्य­मा­न­त्व­म­नो­म­य­त्वा­दि­र्हि­र­ण्म­य­त्वान्तो गुणपूगः यश्च तदुपसंहारे प्रदर्शित आका­श­श­री­र­त्वा­दि­शा­न्ति­स­मृ­द्ध­मि­त्ये­व­मन्तो धर्मपूगः, स न ज्ञायत इत्यर्थः । विशे­ष­ण­वि­शे­ष्य­रूप इत्यत्र विशे­ष्य­प­द­म­वि­व­क्षि­ता­र्थम् ; अत एव धर्मपूगस्य विशे­ष­ण­त्व­मा­त्र­मेव वक्ष्यति — धर्मपूगेण विशिष्टं ब्रह्मेति । यद्वा अत्र विशेषणानां पाठक्रमानुसारेण क्रमविशिष्टतया चिन्त­न­म­भि­प्रेत्य विशे­ष­ण­वि­शे­ष्य­रू­प­त्व­मु­क्तम् ; तच्च पूर्वा­प­री­भू­त­त्व­रू­पम् । अत एव ‘इति प्राचीनयोग्य’ इत्यत्र इति-शब्देन प्रकारवाचिना क्रमविशिष्टतयैव गुणानामुपासनं प्रतीयत इति बोध्यम् ।

ननु तद्ब्रह्म स आत्मे­त्य­त्रास्तु तद्वि­शे­षा­ज्ञा­नम् ; ततः किम् ? तत्राह —
तद्विवक्ष्विति ।

एवं पौनरुक्त्यदोषं परिहृत्य स वेद ब्रह्मेति वाक्यस्यार्थं कथयति —
यो हीति ।

ननु लोका­दि­दृ­ष्टि­प­रि­गृ­ही­त­व्या­हृ­ति­श­री­र­ब्र­ह्मो­पा­स­न­वि­धा­य­क­स्या­स्या­नु­वा­कस्य वक्ष्य­मा­णे­ना­नु­वा­के­नै­क­वा­क्यतां विना कथं तत्र­त्य­गु­णा­ना­म­त्रा­न्वय इत्याशङ्क्य वक्ष्य­मा­ण­गु­णा­क­र्ष­कात्स वेद ब्रह्मेति वाक्या­दे­वा­न­यो­रे­क­वा­क्यत्वं कल्प्यत इत्याशयेनाह —
अतो वक्ष्यमाणेति ।

नन्वनुवाकद्वये उपासनैक्यं विना कथमेकवाक्यत्वम् , अर्थै­क्य­नि­ब­न्ध­न­त्वा­दे­क­वा­क्य­ताया इत्याशङ्क्य, तदपि वक्ष्य­मा­ण­गु­णा­क­र्ष­क­वा­क्य­ब­ला­देव कल्प्यत इत्याशयेनाह —
उभयोरिति ।

लिङ्गा­च्चो­पा­स­न­मे­क­मे­वे­त्यु­क्त­मेव विवृणोति —
भूरित्यग्नाविति ।
व्याहृ­त्य­नु­वा­को­क्ता­ना­म­ग्न्या­दि­दृ­ष्टीनां वक्ष्य­मा­णा­नु­वाके फल­क­थ­न­लि­ङ्गा­द्व्या­हृ­ति­श­री­र­ब्र­ह्मो­पा­स­न­मु­भ­य­त्रै­क­मिति गम्यत इत्यर्थः ।

विधा­य­का­भा­वा­च्चेति ।
उपा­स­न­भे­द­क­वि­ध्य­भा­वा­दि­त्यर्थः ।

तमेव विवृणोति —
न हीति ।

ननु व्याहृ­त्य­नु­वा­कस्थः ‘ता यो वेद’ इति विधिरेव तद्भेदकोऽस्तु ; नेत्याह —
ता यो वेदेति त्विति ।
इतिशब्दो वेदेति विधिं परामृशति ; तथा च ‘ता यो वेद’ इत्ययं विधि­र्नो­पा­स­न­भे­दक इति योजना । अयं भावः - ‘ता यो वेद’ इत्यत्र व्याहृतिशरीरस्य ब्रह्मणः प्रधा­न­वि­द्या­वि­धि­रु­त्त­रा­नु­वाके गुणविधिरिति प्रका­रे­णो­पा­स­नै­क्येऽपि ‘ता यो वेद’ इति विधिसम्भवान्न तस्य विद्या­भे­द­क­त्व­मिति ।

ननु तर्हि ‘स वेद ब्रह्म’ इति विधि­र्भे­द­कोऽस्तु ; नेत्याह —
वक्ष्य­मा­णा­र्थ­त्वा­न्नो­पा­स­न­भे­दक इति ।
‘स वेद ब्रह्म’ इति वाक्यं व्याहृ­त्य­नु­वा­कस्थे ब्रह्मोपासने वक्ष्य­मा­ण­गु­णा­क­र्ष­णा­र्थ­त्वान्न विद्यै­क्य­वि­रोधि, किं तु तद­नु­कू­ल­मे­वे­त्यर्थः ।

हेत्वसिद्धिं पूर्वो­क्ता­र्थ­स्मा­र­णेन निराचष्टे —
वक्ष्य­मा­णा­र्थत्वं चेति ।

विदुषे देवाः कदा बलिं प्रय­च्छ­न्ती­त्या­का­ङ्क्षायां स्वारा­ज्य­प्रा­प्त्य­न­न्त­र­मि­त्या­श­ये­नाह —
स्वाराज्येति ।
स्वयमेव राजा स्वराट् , तस्य भावः स्वाराज्यम् , अङ्ग­दे­व­ता­धि­प­ति­त्व­मिति यावत् । तत्प्रा­प्त्य­न­न्त­र­मे­वा­ङ्ग­दे­व­ता­भि­र्ब­ल्यु­प­हा­र­ण­मु­चि­तम् ; अत एवा­र्थ­क्र­मा­नु­सा­रेण ‘सर्वेऽस्मै देवाः’ इति वाक्यम् ‘आप्नोति स्वाराज्यम्’ इति वाक्यानन्तरं पठनीयम् । एतच्चाग्रे स्फुटं वक्ष्यति - स्वयमेव राजा­धि­प­ति­र्भ­व­त्य­ङ्ग­भू­तानां देवतानां यथा ब्रह्म देवाश्च सर्वेऽस्मै बलिमावहन्तीति । एतेनानुवाकयोः पृथ­क्फ­ल­श्र­व­णा­दु­पा­स­न­भेद इति शङ्कापि निरस्ता भवति फल­भ­दे­श्र­व­ण­स्यै­वा­सि­द्धे­रिति ॥

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­रा­नु­वा­क­ता­त्प­र्य­माह —
भूर्भु­व­रि­त्या­दिना ।
मह इति व्याहृ­त्य­पे­क्षया अन्या भूर्भु­वः­सु­वः­स्व­रूपा व्याहृतयो देव­ता­दि­रू­पा­श्च­तु­र्थ­व्या­हृ­त्या­त्म­कस्य ब्रह्म­णोऽ­ङ्गा­नी­त्यु­क्त­मि­त्यर्थः ।

एतस्येति ।
स इति तच्छ­ब्दे­ना­स्मि­न्न­नु­वाके समा­कृ­ष्ट­स्ये­त्यर्थः । पुरुषपदापेक्षया स इति पुंलिङ्गनिर्देश इति न तद्विरोधः । उपासनार्थं साक्षा­दु­प­ल­ब्ध्यर्थं चेत्यर्थक्रमः उपा­स­न­फ­ल­त्वा­त्सा­क्षा­त्का­रस्य ।

उपासनार्थं स्थान­वि­शे­षो­प­देशे दृष्टान्तमाह —
सालग्राम इवेति ।

साक्षा­दु­प­ल­ब्ध्य­र्थ­मि­त्युक्तं प्रपञ्चयति —
तस्मिन्हीति ।
उपासकानामिदं प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।

व्युत्क्रम्येति ।
संनि­हि­त­मा­का­श­मु­ल्ल­ङ्घ्ये­त्यर्थः ।

हृदयस्वरूपमाह —
पुण्डरीकेति ।

प्राणायतन इति ।
‘हृदि प्राणः’ इति प्रसिद्धेरिति भावः ।

अनेकेति ।
अने­क­ना­ड्या­श्र­य­भू­तानि सुषिराणि यस्येति विग्रहः ।

पुण्ड­री­का­का­र­त्वा­धो­मु­ख­त्वो­र्ध्व­ना­ल­त्व­वि­शिष्टे मांसखण्डे मानमाह —
विशस्यमान इति ।
‘पद्म­को­श­प्र­ती­काशं हृदयं चाप्यधोमुखम्’ इत्या­दि­श्रु­ति­प्र­सिद्धो यथोक्तमांसखण्डो विशस्यमाने पशौ प्रत्यक्षत उपलभ्यत इत्यर्थः ।

प्रसिद्ध एवेति ।
‘योऽयमन्तर्हृदय आकाशः’ इत्या­दि­श्रु­ति­ष्विति शेषः । करकाकाशो यथा प्रसिद्ध इति दृष्टान्तयोजना । पुरि हृदये शरीरे वा शय­ना­द­व­स्था­ना­त्पु­रुषः, पूर्णत्वाद्वा पुरुषः, भूरादयः पूर्णा येन स पुरुष इति वा ।

मननं मन इति भाव­व्यु­त्प­त्ति­मा­श्रि­त्याह —
मनो ज्ञानमिति ।

मननं ज्ञानमित्यत्र हेतुमाह —
मनुतेरिति ।
ज्ञानं कर्म क्रिया वाच्यभूता यस्य तस्मा­न्म­नु­ते­र्धा­तो­र्नि­ष्पन्नो मनःशब्दो यतो ज्ञान­वा­ची­त्यर्थः ।

पुरुषस्य मनो­वि­का­र­त्वा­भा­वा­दाह —
तत्प्राय इति ।
मनःप्रधान इत्यर्थः ।

तत्र हेतुमाह —
तदु­प­ल­भ्य­त्वा­दिति ।
तेनो­पा­स­न­सं­स्कृ­तेन मन­सो­प­ल­भ्य­मा­न­त्वा­दि­त्यर्थः ।

तल्लिङ्गो वेति ।
अस्मदादिमनसा अस्म­दा­दि­भि­र­नि­वा­र्येण तन्नियन्तृतया ब्रह्मा­नु­मा­न­स­म्भ­वा­दिति भावः ।

ज्योतिर्मय इति ।
स्वप्रकाश इत्यर्थः । व्याहृतिशरीरे ब्रह्मणि मनो­म­य­त्वा­दि­गु­ण­व­त्य­ह­ङ्ग्र­ह­म­भि­प्रेत्य विदुष आत्म­भू­त­स्ये­त्यु­क्तम् , अहङ्ग्रहं विना तद्भावायोगात् तद्भावं विना च स्वारा­ज्य­प्रा­प्त्य­यो­गात् ; अतः स्वारा­ज्य­प्रा­प्ति­व­च­ना­नु­रो­धेन विदुषो ब्रह्मभावो ब्रह्म­ण्य­ह­ङ्ग्र­हश्च कल्प्यत इति भावः । तथा च श्रुतिः - ‘देवो भूत्वा देवानप्येति’ इति । इहैव भावनया देवभावं प्राप्य देहपातोत्तरकालं देवभावं प्राप्नोतीति तदर्थः ।

इन्द्ररूपस्येति ।
‘सेन्द्रयोनिः’ इति वाक्य­शे­ष­द­र्श­ना­दि­न्द्र­रू­प­त्व­मु­क्तम् ।

‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि निःसृतैका । तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति’ इति श्रुत्य­न्त­र­म­नु­सृ­त्याह —
हृद­या­दू­र्ध्व­मिति ।

श्रुति­प्र­सि­द्धायां शताधिकायां नाड्यां नामान्तरेण योग­शा­स्त्र­प्र­सिद्धिं कथयति —
सुषुम्नेति ।

स्तन इवेति ।
आस्यान्तरिति शेषः ।

तेनेति ।
तस्येत्यर्थः । तस्य चान्तरेण अन्तर्देशं प्राप्यमाणा शीर्षकपाले व्यपोह्य या निर्गतेति योजना । विनिष्क्रम्य प्रतितिष्ठतीति सम्बन्धः ।

लोकस्येति ।
ऋग्वेदस्य प्राणस्य चेत्यर्थः ।

इमं लोकमिति ।
ऋग्वेदं प्राणं चेत्यपि द्रष्टव्यम् । प्रथमव्याहृतौ लोका­ग्नि­ऋ­ग्वे­द­प्रा­णानां चतुर्णां दृष्टत्वेन लोका­ग्नि­भा­व­व­दृ­ग्वे­द­प्रा­ण­भा­व­स्यापि वक्तव्यत्वात् । न च प्रधा­न­ब्र­ह्मो­पा­स­न­फ­ल­व­च­नेन ‘मह इति ब्रह्मणि’ इत्यनेन सर्वा­त्म­क­ब्र­ह्म­भावे कथिते सति विदुष ऋग्वे­द­प्रा­ण­भा­व­स्यापि सिद्धत्वान्न पृथक्तद्भावो वक्तव्य इति वाच्यम् ; तथा सति लोका­ग्नि­भा­व­स्यापि तत एव सिद्धत्वेन ‘अग्नौ प्रतितिष्ठति’ इति श्रुति­व­च­न­म­ग्न्या­त्म­नेमं लोकं व्याप्नोतीति भाष्यवचनं चानर्थकं स्यात् । एतेन भूरिति व्याहृतौ ऋग्वे­द­प्रा­ण­दृ­ष्ट्यो­र्ब्र­ह्मो­पा­सनं प्रत्यङ्गतया प्रधानफलेनैव फल­व­त्त्वा­च्छ्रुतौ भाष्ये च पृथ­क्त­द्भा­व­व­च­ना­भाव इति शङ्कापि निरस्ता, तस्यां लोका­ग्नि­दृ­ष्ट्यो­र­प्य­ङ्ग­त्वेन तत्फ­ल­स्या­प्य­व­क्त­व्य­त्वा­पत्तेः । यदि चाङ्गानां प्रधानफलेनैव फल­व­त्त्वेऽ­प्य­ङ्ग­स्तु­त्यर्थं पृथ­क्फ­ल­व­च­न­म­पे­क्षि­त­मि­त्यु­च्येत, तदा ऋग्वे­दा­दि­दृ­ष्टा­वपि तदर्थं पृथक्फलं वक्तव्यम् ; एवमुत्तरत्रापि द्रष्टव्यमिति सङ्क्षेपः ।

आत्मभावेन स्थित्वेति ।
अत्र क्रमकथनं पाठ­क्र­म­मा­श्रित्य । वस्तुतस्तु क्रमो न विवक्षितः, विदुषः सर्वा­त्म­क­ब्र­ह्म­भाव एवा­ग्न्या­दि­भा­व­स्या­न्त­र्भा­वेण क्रमाभावादिति मन्तव्यम् ।

ब्रह्मभूतमिति ।
‘मह इति ब्रह्मणि’ इति वाक्यो­क्त­ब्र­ह्म­भा­व­प्र­यु­क्त­मि­त्यर्थः ।

उपासकः सर्वेषां हि मनसां पतिर्भवतीत्यत्र हि-शब्दसूचितं हेतुमाह —
सर्वा­त्म­क­त्वा­द्ब्र­ह्मण इति ।
ब्रह्मभूतस्य विदुषः सर्व­जी­वा­त्म­क­त्वा­दि­त्यर्थः ।

ननु ब्रह्मणः सर्वात्मकत्वे सिद्धे तद्भावमापन्नस्य विदुषः सर्वात्मकत्वं स्यात् , तदेव कुत इत्यत्राह —
सर्वैर्हीति ।
तद्ब्रह्म सर्वै­रु­पा­धि­भू­तै­र्म­नोभिः प्राप्तजीवभावं सन्मनुते चक्षुरादिद्वारा रूपादिकमनुभवति । ब्रह्मणो जीवभावे मानत्वेन प्रवे­श­वा­क्या­दि­सू­च­नार्थो हि-शब्दः ।

न केवलमुपासकः सर्वमनसां पतिः, किं तु वागदीनामपीत्याह —
किं चेति ।
सर्वा­त्म­क­त्वा­दिति । विदुष इति शेषः ।

ननु त्वगा­दि­प­ति­त्व­मपि कुतो नोक्त­मि­त्या­शङ्क्य आप्नोति मन­स­स्प­ति­मि­त्या­दे­र्वि­व­क्षि­त­म­र्थ­माह —
सर्व­प्रा­णि­ना­मिति ।
तद्वानिति । निय­म्य­नि­या­म­क­भा­व­स­म्बन्धो मत्वर्थः ।

न केवलमेतावदेव विदुषः फलं भवति, किं त्वितोऽपि बहु फलं भवतीत्याह —
किं च ततोऽपीति ।

शरीरमस्येति ।
शरीरपदं स्वरूपपरम् ; ततश्च आका­श­म­धि­ष्ठा­न­भू­तस्य ब्रह्मणः कल्पितं स्वरूपमित्यर्थः ।

सूक्ष्ममिति ।
जला­दि­भि­र्दुः­खा­दि­भिश्च संश्ले­षा­यो­ग्यत्वं सूक्ष्मत्वम् ; तदाह भगवान् - ‘यथा सर्वगतं सौक्ष्म्या­दा­काशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते’ इति ।

सत्यमिति ।
सद्भू­त­त्र­य­ल­क्षणं मूर्तम् , त्यद्वा­य्वा­का­शा­त्म­क­म­मू­र्तम् , तदुभयं सच्च त्यच्च सत्त्यमिति व्युत्पत्त्या सत्त्य­श­ब्द­वा­च्यम् , तदात्मा कल्पितं रूपमस्येत्यर्थः ।

सत्यशब्दस्य परमार्थवस्तुनि रूढिमाश्रित्याह —
अवितथमिति ।

प्राणेष्विति ।
सवि­ष­ये­ष्वि­न्द्रि­ये­ष्वि­त्यर्थः । इदं च व्याख्यानं ब्रह्मणो जीव­भा­वा­भि­प्रा­यम् ।

केव­ल­ब्र­ह्म­प­र­त्वे­नापि व्याचष्टे —
प्राणानां वेति ।

यस्मिन्निति ।
यस्मिन्ब्रह्मणि नियन्तृरूपे सतीत्यर्थः ।

मनआनन्दमिति पदं ब्रह्मणो जीव­भा­वा­भि­प्रा­ये­णैव व्याचष्टे —
मन इत्यादिना ।

शान्तिश्चेति ।
सर्व­द्वै­त­नि­वृ­त्ति­रू­प­मि­त्यर्थः । अज्ञा­न­त­त्का­र्य­ध्वं­स­स्या­धि­ष्ठा­न­ब्र­ह्मा­न­ति­रे­का­दिति भावः ।

समृद्धं चेति ।
सम्यगात्मभावेन ऋद्धिं व्याप्तिं गतं समृद्धम् , सर्व­व्या­प­क­मि­त्यर्थः ।

शान्त्या वेति ।
सर्व­वृ­त्त्यु­प­र­म­ल­क्ष­णया समाधिशब्दितया शान्त्या समृ­द्ध­व­त्पू­र्णा­न्द­रू­पेण योगिभिरुपलभ्यत इत्यर्थः ।

एतच्चेति ।
ननु फल­त्वे­नो­क्त­स्या­धि­क­त­र­वि­शे­ष­णस्य कथ­मु­पा­स्य­गु­णा­न्त­र्भाव उच्यते ? नैष दोषः, ‘तं यथा यथोपासते’ इति श्रुत्या फल­त्वे­ना­व­ग­त­स्यापि विशेषणजातस्य ध्येयत्वावगमात् , विशिष्यात्र व्यव­हि­त­सं­नि­हि­त­स­क­ल­गु­ण­पू­ग­ल­क्ष­ण­प्र­का­र­प­रा­म­र्शि­ने­ति­प­दे­ना­धि­क­त­र­वि­शे­ष­ण­स्या­प्यु­पास्तिं प्रति विषयतया समर्पणाच्च । न चैवम् ‘आप्नोति स्वाराज्यम्’ इत्या­दा­वु­क्तानां सर्व­दे­वा­धि­प­ति­त्व­स­र्व­दे­व­पू­ज्य­त्व­स­र्व­क­र­ण­प­ति­त्वा­ना­मपि फल­रू­पा­णा­मु­पा­स्य­गु­ण­त्व­प्र­सङ्ग इति वाच्यम् ; इष्टत्वात् । तत्सङ्ग्रहार्थ एवैतच्चेत्यत्र चकार इति सङ्क्षेपः ।

ननु उपासनस्य श्रुत्या स्वेन रूपे­णो­क्ता­व­प्य­नु­ष्ठा­न­सिद्धेः आचा­र्यो­क्ति­क­ल्पनं मुधा, नेत्याह —
आदरार्थेति ।
उपासनानुष्ठाने आद­रा­ति­श­य­सि­द्ध्य­र्थे­त्यर्थः ।

उक्त एवेति ।
उपासनं च यथा­शा­स्त्र­मि­त्या­दा­विति शेषः । नन्वत्र किमपरं ब्रह्मोपास्यं किं वा परं ब्रह्मेति ? किमत्र संशयकारणम् ? परं चापरं च ब्रह्मे­त्या­दा­वु­भ­यत्र ब्रह्म­श­ब्द­प्र­यो­ग­द­र्श­न­मेव । अत्र केचिदपरमेव ध्येयमिति वदन्ति । तथाहि - प्राणारामत्व मनआनन्दत्वयोः सूत्रात्मनि हिरण्यगर्भे स्वार­स्या­न्म­नो­म­य­प­दस्य मनोभिमानीति भाष्यदर्शनेन भाष्कारस्यापि तत्रा­नु­म­त्य­व­ग­माच्च, अन्येषामपि विशेषणानां तस्मिन्नेव यथा­क­थ­ञ्चि­दु­प­पा­द­न­स­म्भ­वा­च्चा­प­र­मे­वात्र विवक्षितमिति । अन्ये तु पर­मी­श्व­र­रू­प­मे­वात्र ब्रह्म ध्येयमिति वदन्ति । तथा हि - परं ब्रह्मैवात्र विवक्षितम् , ब्रह्मशब्दस्य तत्र मुख्यत्वात् ; नापरम् , तत्र तस्या­मु­ख्य­त्वात् ; तदुक्तं सूत्रकारेण ‘सामीप्यात्तु तद्व्यपदेशः’ इति । पर­ब्र­ह्म­सा­मी­प्या­देव सूत्रात्मनि ब्रह्म­श­ब्द­प्र­योगो न मुख्यवृत्त्येति तदर्थः । तथा अमृतत्वं परस्यैव ब्रह्मणो लिङ्गम् । न च ‘सैषानस्तमिता देवता’ इत्या­दा­व­प­र­स्यापि नाश­रा­हि­त्य­रू­प­म­मृ­तत्वं श्रूयत इति वाच्यम् ; तस्या­वा­न्त­र­प्र­लये नाशा­भा­व­श्र­व­णेऽपि महाप्रलये नाशश्रवणेन मुख्या­मृ­त­त्वा­स­म्भ­वात् । न च ‘प्राणारामं मनआनन्दम्’ इति लिङ्ग­द्व­या­नु­रो­धे­ना­पे­क्षि­क­मे­वा­मृ­त­त्व­मि­हा­स्त्विति वाच्यम् ; ब्रह्म­श्रु­त्य­नु­रो­धेन मुख्या­मृ­त­त्व­ग्र­ह­ण­स­म्भवे दुर्ब­ल­लि­ङ्गा­नु­रो­धे­ना­पे­क्षि­का­मृ­त­त्व­ग्र­ह­णा­यो­गात् , उप­सं­हा­रेऽ­प्य­मृ­त­त्व­श्र­व­णे­नो­प­क्र­मो­प­सं­हा­र­स्प­र्शि­त्व­ल­क्ष­ण­ता­त्प­र्य­लिङ्ग - युक्त­स्या­मृ­त­त्वस्य तद्र­हि­त­प्रा­णा­रा­म­त्वा­दि­लि­ङ्गा­नु­रो­धे­ना­न्य­था­न­य­ना­यो­गाच्च । तथा पुरुषपदोदितं पूर्णत्वं हिरण्मयपदोदितं स्वय­ञ्ज्यो­ति­ष्ट्व­मि­न्द्र­प­दो­दितं पार­मै­श्व­र्य­मा­का­श­श­री­र­प­दो­दि­त­मा­का­श­दे­हत्वं सूक्ष्मत्वं वा सत्या­त्म­प­दो­दि­त­म­वि­त­थ­स्व­भा­वत्वं शान्ति­स­मृ­द्ध­प­दो­दितं सर्व­प्र­प­ञ्चो­प­श­मा­त्म­क­त्व­मि­त्ये­तेषां लिङ्गानां परब्रह्मण्येव स्वारस्याच्च । मनो­म­य­प­द­स्या­प्य­र्थ­त्रयं भाष्ये दर्शितम् । तत्र प्रथमतृतीयार्थौ परापरब्रह्मणोः साधारणौ । मनो­भि­मा­नी­त्य­र्थ­प्र­द­र्श­न­मा­त्र­म­प­र­ब्र­ह्म­प­क्ष­पाति । तथा प्राणा­रा­म­त्व­म­न­आ­न­न्दत्वे अपि । न चैतावता हिरण्यगर्भाख्यं ब्रह्म श्रुति­भा­ष्य­यो­र­भि­प्रे­त­मिति निश्चेतुं शक्यते । शाण्डि­ल्य­वि­द्यादौ मनो­म­य­त्व­प्रा­ण­श­री­र­त्व­व­द­त्रापि ब्रह्मणः सार्वा­त्म्य­प्र­यु­क्त­तया तेषामपि पर­स्मि­न्ब्र­ह्म­ण्यु­प­पत्तेः सार्वात्म्यं च प्रकृतस्य ब्रह्मणो दर्शितम् । न चैत­त्प­र­ब्र­ह्म­णोऽ­न्यत्र मुख्यं सम्भवति । तस्मात्परमेव ब्रह्मा­त्रो­पा­स्य­मिति सङ्क्षेपः ॥

उत्त­रोऽ­प्य­नु­वाकः प्रकारान्तरेण ब्रह्मोपासनविषय इत्याह —
यदेतदित्यादिना ।

पृथिव्यादिजगतः कथं पाङ्क्त­त्व­मि­त्या­का­ङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः पृथिव्यादौ सम्पादनादित्याह —
पञ्चसङ्ख्येति ।

न केवलं पञ्च­स­ङ्ख्या­यो­गा­त्प­ङ्क्ति­च्छ­न्दः­स­म्पा­द­नम् , यज्ञ­त्व­स­म्पा­द­न­मपि कर्तुं शक्यत इत्याह —
पाङ्क्तश्च यज्ञ इति ।
पत्नी­य­ज­मा­न­पु­त्र­दै­व­मा­नु­ष­वित्तैः पञ्च­भि­र्यो­गा­द्यज्ञः पाङ्क्त इत्यर्थः । दैववित्तमुपासनं मानुषवित्तं गवादीति विभागः ।

पङ्क्तिच्छन्दसो यज्ञस्य च पञ्च­स­ङ्ख्या­यो­गा­त्पा­ङ्क्तत्वे क्रमेण श्रुतीर्दर्शयति —
पञ्चाक्षरेति ।

जगतो यज्ञ­त्व­स­म्पा­द­न­मेव दर्शयति —
तेनेति ।
पञ्च­स­ङ्ख्या­यो­ग­ल­क्ष­णेन यज्ञ­सा­म्ये­ने­त्यर्थः ।

लोका­द्या­त्मान्तं चेति ।
प्राणा­दि­म­ज्जान्तं चेति चकारार्थः । परिकल्पयति, श्रुतिरिति शेषः ।

एवं ब्रह्मोपाधिभूतं सर्वं जग­त्प­ङ्क्ति­च्छ­न्दो­रूपं यज्ञरूपं च परिकल्प्य तादृ­क्पा­ङ्क्त­ज­ग­दा­त्मकं प्रकृतं ब्रह्माहमस्मीति चिन्तयतः किं फलं भव­ती­त्या­का­ङ्क्षा­या­माह —
तेन यज्ञेनेति ।

प्रजापतिमिति ।
स्थूल­स­र्व­प्र­प­ञ्चो­पा­धि­कस्य ब्रह्मणः प्रजा­प­ति­रू­प­त्वात् ‘तं यथा यथोपासते’ इति न्यायेन जग­दा­त्म­ब्र­ह्मो­पा­स­ना­ज्ज­ग­दा­त्मानं प्रजापतिमेव प्राप्नो­ती­त्यर्थः ।

एवं तात्प­र्य­मुक्त्वा पृथिव्यादिजगतः पञ्च­स­ङ्ख्या­यो­गा­त्पा­ङ्क्त­स्व­रू­पत्वं प्रश्नपूर्वकं श्रुत्या दर्शयति —
तत्कथमित्यादिना ।

विराडिति ।
‘आप ओषधयः’ इत्या­दि­स्थू­ल­भू­ता­धि­का­रा­द्भू­त­मयो विराड्देह इहात्मशब्दार्थ इत्यर्थः ।

इत्य­धि­भू­त­मि­त्यु­प­सं­हा­र­व­च­न­मि­त्य­धि­लो­क­मि­त्य­धि­दै­व­त­मि­त्ये­वं­रू­प­यो­र­धि­लो­का­धि­दै­व­त­पा­ङ्क्त­द्व­यो­प­सं­हा­र­व­च­न­यो­रु­प­ल­क्ष­णा­र्थ­मि­त्यत्र हेतुमाह —
लोक­दे­व­ता­पा­ङ्क्त­यो­श्चेति ।
तयोरपि पूर्व­मु­क्त­त्वा­दि­त्यर्थः ।

अध्यात्ममिति ।
आत्मा देहः, तमधिकृत्य वर्त­मा­न­म­ध्या­त्म­मि­त्यर्थः ।

ननु पाङ्क्त­ष­ट्क­क­थ­नेन कथं सर्वस्य जगतः पाङ्क्त­त्व­मु­क्तम् ? तत्राह —
एतावद्धीति ।
यद्बा­ह्य­म­ध्यात्मं च पाङ्क्तं श्रुत्या दर्शितम् एतावदेवेदं सर्वं जगत् , न ततोऽ­धि­क­म­स्ती­त्य­व­ग­न्त­व्य­मि­त्यर्थः ।

श्रुति­प्र­द­र्शि­त­पा­ङ्क्त­षट्के कृत्स्नस्य जगतोऽन्तर्भावः प्रसिद्ध इति हि-शब्दार्थः । उपासनाविधिं दर्शयति —
एतदेवमिति ।
एतज्जगदेवं पाङ्क्त­रू­पे­णे­त्यर्थः । उक्त­वा­नि­त्य­स्ये­ति­श­ब्देन सम्बन्धः ।

सङ्ख्या­सा­मा­न्या­दिति ।
आध्यात्मिकमपि पाङ्क्तत्रयं बाह्यमपि पाङ्क्त­त्र­य­मि­त्य­स्मा­त्सा­मा­न्या­दा­ध्या­त्मि­केन पाङ्क्तेन बाह्यपाङ्क्तस्य पूरणमित्यर्थः ।

ननु तेन तस्य पूरणं कुसूलादरिव धान्यादिना न सम्भ­व­ती­त्या­श­ङ्क्याह —
एकात्मतयेति ।
बाह्य­मा­ध्या­त्मिकं च सर्वं पाङ्क्त­जा­त­मे­का­त्म­त्वे­नो­प­ल­भते, पाङ्क्त­ज­ग­दा­त्मकं ब्रह्माहमस्मीति चिन्त­ये­दि­त्यु­क्त­वा­निति यावत् ।

एत­द­धि­वि­धा­ये­त्या­दि­नो­क्त­मु­पा­स­न­म­नूद्य तस्य फलमुपक्रमे कथितमित्याह —
एतदेवमिति ॥

उत्तरानुवाकस्य सङ्गतिं वृत्ता­नु­वा­द­पू­र्वकं दर्शयति —
व्याहृत्यात्मन इति ।

अनन्तरं चेति ।
अव्य­व­हि­त­पू­र्वा­नु­वाक इत्यर्थः ।

इदानीमिति ।
उक्त­व­क्ष्य­मा­ण­स­र्वो­पा­स­नानां कर्मणां चाङ्गभूतो य ओङ्का­र­स्त­स्यो­पा­स­न­मि­दानीं विधीयते ; तथा च पूर्वो­क्तो­पा­स­ने­ष्व­ङ्ग­त्वे­नो­प­स्थि­तस्य प्रण­व­स्या­त्रो­पा­स­न­वि­धा­ना­त्स­ङ्ग­ति­रिति भावः । न चोङ्कारस्य सर्व­वै­दि­क­क­र्मो­पा­स­ना­ङ्गत्वे मानाभाव इति वाच्यम् ; ‘तस्मा­दो­मि­त्यु­दा­हृत्य यज्ञ­दा­न­त­पः­क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्’ इति भगवद्वचनस्यैव मानत्वात् । ब्रह्मवादिनां वेद­वा­दि­ना­मि­त्यर्थः ।

ननु शब्द­मा­त्र­रू­प­स्यो­ङ्का­र­स्या­चे­त­न­तया फल­दा­तृ­त्वा­स­म्भ­वात् कथ­मु­पा­स्य­त्व­मि­त्या­श­ङ्क्याह —
परापरेति ।
प्रतिमाद्यर्चन इव ब्रह्मैव फलदात्रिति भावः ।

ब्रह्मण एव सर्वत्र फलदातृत्वम् ‘फलमत उपपत्तेः’ इत्यधिकरणे प्रसिद्धमिति द्योतनार्थो दृष्ट्या हीत्यत्र हि-शब्दः । प्रणवस्य परा­प­र­ब्र­ह्म­दृ­ष्ट्या­ल­म्ब­नत्वं प्रसिद्धमिति सदृष्टान्तमाह —
स हीति ।

प्रणवस्य परा­प­र­ब्र­ह्म­दृ­ष्ट्या­ल­म्ब­नत्वे तद्दृ­ष्ट्यो­पा­सि­तस्य तस्य परा­प­र­प्रा­प्ति­सा­ध­नत्वे च श्रुतिमाह —
एतेनैवेति ।
ओङ्का­रे­णै­वा­य­त­नेन प्राप्तिसाधनेन परमपरं वा प्राप्नो­ती­त्यर्थः ।

एवं तात्प­र्य­मुक्त्वा अक्षराणि व्याचष्टे —
इतीत्यादिना ।

परिच्छेदार्थ इति ।
सङ्ग्रहार्थ इत्यर्थः ।

ओङ्कारस्य परा­प­र­ब्र­ह्म­दृ­ष्ट्या­ल­म्ब­न­त्वेन श्रुतिषु प्रसिद्धत्वेऽपि प्रकृते मुख्य­त्वा­त्प­र­ब्र­ह्म­दृ­ष्टि­रे­वो­ङ्कारे विवक्षितेति मत्वा तत्र ब्रह्म­दृ­ष्ट्य­ध्यासे किं सादृ­श्य­मि­त्या­का­ङ्क्षा­या­माह —
यत ओमितीदं सर्वमिति ।
यत ओङ्कारः सर्वात्मकः ततः सर्वा­त्म­क­त्व­सा­दृ­श्या­दो­ङ्कारे सर्वा­त्म­क­ब्र­ह्म­दृ­ष्टि­र्यु­क्तेति भावः ।

ननु ब्रह्मणः सर्वात्मकत्वम् ‘सर्वं खल्विदं ब्रह्म’ इत्या­दि­श्रु­ति­सि­द्धम् ; ओङ्कारस्य तु कथं सार्वा­त्म्य­मि­त्या­श­ङ्क्याह —
सर्वं हीति ।

नन्वोङ्कारस्य सर्व­श­ब्दा­त्म­क­त्वेऽपि कथ­म­र्थ­प्र­प­ञ्चा­त्म­क­त्व­मि­त्या­शङ्क्य शब्दद्वारेत्याह —
अभिधानतन्त्रं हीति ।
अभि­धे­य­जा­त­स्या­भि­धा­ना­धी­न­सि­द्धि­क­त्वा­द्वा­च्य­वा­च­क­यो­स्ता­दा­त्म्य­स्वी­का­रा­च्चा­भि­धे­य­जा­त­स्या­भि­धा­नेऽ­न्त­र्भावः सम्भवतीत्यर्थः ।

अत इदमिति ।
प्रण­व­सा­र्वा­त्म्य­स्यापि श्रुत्या­दि­सि­द्ध­त्वा­दिदं सर्वमोङ्कार इति प्रसि­द्ध­व­दु­प­दि­श्यते ओमितीदं सर्वमिति वचसेत्यर्थः ।

ननु प्रथमवाक्येन प्रणवे ब्रह्म­दृ­ष्टि­र्वि­हिता, तत्र तद्दृष्टिकरणे नियामकं द्वितीयवाक्येन दर्शितम् , अतो विवक्षितार्थस्य सिद्ध­त्वा­त्कि­मु­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याह —
ओङ्का­र­स्तु­त्यर्थ इति ।

अनुकरणमिति ।
अनुज्ञानरूपमिति यावत् । केन­चि­त्क­रो­मी­त्युक्त्वा कृतं कर्मान्य ओमित्यनुकरोति अनुजानाति, तथा यास्यामि विष्ण्वा­ल­य­मि­त्यु­क्त­मन्य ओमित्यनुकरोतीति योजना ।

प्रसिद्धं हीति ।
प्रसिद्धिश्च करोमीत्यादिना पूर्वं प्रदर्शितैव ।

अप्यो श्रावयेत्यत्र अपि-शब्दो वक्ष्य­मा­णो­दा­ह­र­ण­स­मु­च्च­यार्थ इति मत्वाह —
अपि चेति ।
प्रैषपूर्वकमिति । ‘ओ श्रावय’ इति मन्त्र­ग­ते­नो­ङ्का­रे­णा­ग्नी­ध्र­स­म्बो­ध­न­पू­र्व­क­मि­त्यर्थः । तदुक्तं वेदभाष्ये - ‘मन्त्रगतओङ्कार आग्नी­ध्र­स­म्बो­ध­नार्थः । हे आग्नीध्र देवान्प्रति हविःप्रदानावसरं श्रावयेति मन्त्रार्थः’ इति ।

आश्रा­व­य­न्ती­त्य­स्या­र्थ­माह —
प्रति­श्रा­व­य­न्तीति ।
प्रतिश्रवं कारयन्ति, प्रत्याश्रवणं कारयन्तीतित यावत् । शस्त्रशंसितारो होतारः, तेऽपि ’शों सावोम्’ इत्युपक्रम्य शस्त्राणि शंसन्ति, तान्योमिति समापयतन्ति चेत्यर्थः ।

प्रतिगरमिति ।
’ओऽथामोद इव’ इति मन्त्रमित्यर्थः । ओकारेण होता सम्बोध्यते ; हे होतः अथ अर्ध­र्च­शं­स­ना­न­न्त­र­म­स्मा­क­मा­मोद इव हर्ष एव सम्पन्न इति तदर्थः ।

ब्रह्मेति ।
ऋत्विग्विशेषो ब्रह्मा यदा अन्ये­षा­मृ­त्वि­जा­म­नुज्ञां प्रयच्छति तदा ओं प्रोक्षे­त्या­दि­रू­पेण प्रणवपुरःसरमेव प्रसौति ।