अद्वैतशारदा

वनमालाव्याख्या

शीक्षावल्ली: प्रथमोऽनुवाकः (२)

तस्यार्थमाह —
अनुजानातीति ।
जुहो­मी­त्यु­क्त­वन्तं प्रत्यन्य ओमि­त्ये­वा­नुज्ञां प्रय­च्छ­ती­त्यर्थः ।

प्रवचनं करिष्यन्निति ।
प्रवक्ष्यन्निति ‘वच परिभाषणे’ इत्यस्य रूप­म­स्मि­न्व्या­ख्याने ; द्विती­य­व्या­ख्याने तु ‘वह प्रापणे’ इत्य­स्या­न्त­र्भा­वि­त­ण्य­र्थस्य रूपमिति भेदः ।

वेदमिति ।
वेदं ग्रही­ष्या­मी­त्य­भि­स­न्धि­मा­ना­दा­वो­मि­त्ये­वा­ध्येतुं ब्राह्मण उपक्रमत इत्यर्थः ।

अध्ययनफलभूतां वेदावाप्तिं कथयति ब्रह्मै­वो­पा­प्नो­तीति ; तद्योजयति —
उपाप्नोत्येवेति ।
प्राप­यि­ष्य­न्निति । पर­मा­त्मा­न­मु­पा­प्न­वानि प्रत्यक्त्वेन प्राप्नु­या­मि­त्य­भि­स­न्धि­मा­न्ब्रा­ह्मण आत्मानं ब्रह्म प्राप­यि­ष्य­न्ना­त्मनो ब्रह्म­भा­व­प्रा­प्त्यु­पा­य­म­न्वि­ष्य­न्नो­मि­त्या­हे­त्यर्थः ।

स चेति ।
स च ब्राह्म­ण­स्ते­नो­ङ्का­रेण आत्म­ज्ञा­न­ल­क्ष­ण­मु­पायं लब्ध्वा ब्रह्म प्राप्नो­त्ये­वे­त्यर्थः ।

विव­क्षि­त­म­नु­वा­कार्थं सङ्क्षिप्य दर्शयति —
ओङ्कारपूर्वेति ।
अत्र यद्यपि ‘ओ श्रावय’ इति मन्त्रे ‘ओऽथामोद इव’ इति प्रति­ग­र­ना­म­क­मन्त्रे च ओकार एव श्रूयते न त्वोङ्कारः, तथा­प्यो­का­र­स्यो­ङ्का­रै­क­दे­श­त्वा­त्त­त्पूर्व - प्रवृ­त्ता­ना­म­प्यो­ङ्का­र­पू­र्व­क­त्व­मु­प­चा­रा­दु­क्त­मिति मन्तव्यम् ॥

उत्तरानुवाकस्य व्यवहितानुवाकेन सम्बन्धमाह —
विज्ञा­ना­दे­वे­त्या­दिना ।
कर्मणां स्वारा­ज्य­प्रा­प्ता­व­नु­प­योगः प्राप्त इति शङ्कार्थः । उपासनसहकारितया तत्फलेन स्वाराज्येन कर्मणां फल­व­त्त्व­सि­द्ध्य­र्थ­म­स्मि­न्न­नु­वाके तेषामुपन्यास इति परिहारार्थः । पुरुषार्थपदं स्वाराज्यपरम् , कर्म­णा­मु­पा­स­न­स­ह­का­रि­तया तत्फलं प्रत्यु­प­यो­ग­प्र­का­र­श्चे­त्थम् - उपासकेन स्वक­र्मा­न­नु­ष्ठाने तदकरणसूचितेन प्रत्यवायेन प्रति­ब­द्ध­मु­पा­सनं फलपर्यवसायि न भवेत् ; अतः प्रति­ब­न्धा­प­न­य­द्वारा कर्मणां तत्रोपयोग इति । तथा च श्रुतिः - ‘अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते’ इति । अविद्यया कर्मणा प्रति­ब­न्ध­क­पा­प­ल­क्षणं मृत्युं नाशयित्वा विद्यया उपासनलक्षणया स्वारा­ज्य­ल­क्ष­ण­म­मृ­त­म­श्नुत इति हि तदर्थः ।

व्याख्यातमिति ।
शास्त्रा­न्नि­श्चि­ता­वस्थं दर्शा­दि­क­र्म­जा­त­मृ­त­श­ब्द­वा­च्य­मिति ऋतं वदिष्यामीत्यत्र व्याख्या­त­मि­त्यर्थः ।

उपा­स­क­स्या­ध्या­पने प्रवृ­त्ता­वु­पा­स­ना­नु­ष्ठा­ना­स­म्भ­वा­द­ध्या­प­नस्य काम्यत्वेन तदकरणे प्रत्य­वा­या­भा­वाच्च प्रव­च­न­म­ध्या­प­न­मिति व्याख्या­न­म­यु­क्त­मि­त्य­स्व­र­सा­दाह —
ब्रह्मयज्ञो वेति ।

यथा­व्या­ख्या­तार्थं वेति ।
शास्त्रा­त्क­र्त­व्य­तया बुद्धौ विनिश्चितमेव कर्म वाक्कायाभ्यां सम्पाद्यमानं सत् सत्य­श­ब्द­वा­च्य­मिति सत्यं वदिष्यामीत्यत्र व्याख्यातार्थकं वात्र सत्यपदमित्यर्थः ।

कृच्छ्रादीति ।
आदिपदं चान्द्रा­य­णा­दि­स­ङ्ग्र­हा­र्थम् । न चाश­न­प­रि­त्या­ग­प्र­धाने कृच्छ्रादौ प्रवृत्तस्य कथं स्वारा­ज्य­फ­ल­को­पा­स­ना­नु­ष्ठानं सम्भवतीति वाच्यम् ; शक्तस्य तदु­भ­या­नु­ष्ठा­न­स­म्भ­वात् , अशक्तस्य तु धनिनो धनदानरूपं सर्वसाधारण्येन मिताशनादिरूपं वा तपो भविष्यति । तथा च श्रुतिः - ‘एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति’ इति । ‘हित­मि­त­मे­ध्या­शनं तपः’ इति योगशास्त्रे मिता­श­ना­दि­त­प­सोऽ­प्यु­क्त­त्वात् । विवाहादौ बन्ध्वा­द्यु­प­चारो लौकिकः संव्यवहारः ।

प्रजा­श्चो­त्पाद्या इति ।
प्रजो­त्प­त्त्यर्थाः पुत्र­का­मे­ष्ट्या­दयः कर्तव्या इत्यर्थः ।

निवेशयितव्य इति ।
निवेशो विवाहः ।

पुनः पुनः स्वाध्या­य­ग्र­ह­णस्य तात्पर्यमाह —
सर्वैरित्यादिना ।

यत्नतोऽनुष्ठेये इत्यत्र हेतुमाह —
स्वाध्यायाधीनां हीति ।
अध्य­य­ना­धी­न­मि­त्यर्थः अध्य­य­न­स्या­र्थ­ज्ञा­न­प­र्य­न्तत्वं पूर्व­त­न्त्र­प्र­सि­द्ध­मिति द्योतनार्थो हि-शब्दः ।

अर्थज्ञानायत्तं चेति ।
प्रणाड्या कर्म­का­ण्डा­र्थ­ज्ञा­ना­यत्तं परं श्रेयः, साक्षादेव ज्ञान­का­ण्डा­र्थ­ज्ञा­ना­यत्तं परं श्रेय इति विभा­ग­सू­च­ना­र्थ­श्च­कारः ।

अत इति ।
स्वाध्या­य­स्या­र्थ­ज्ञा­न­द्वारा पर­म­श्रे­यः­सा­ध­न­त्वा­त्प्र­व­च­न­स्या­वि­स्म­र­णा­दि­सा­ध­न­त्वा­च्चे­त्यर्थः ।

सत्यमेवेति ।
अनुष्ठेयानां मध्ये सत्यमेव प्रशस्तं कर्मेति राथीतरस्य मतमिति भावः । तथा च वचनम् - ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्व­मे­ध­स­ह­स्रात्तु सत्यमेव विशिष्यते’ इति । अत्र द्वितीयनामशब्दः प्रसि­द्धि­द्यो­तकः ।

तप एवेति ।
कृच्छ्र­चा­न्द्रा­य­णा­दि­मि­ता­श­न­ध­न­दा­न­रूपं तप एव प्रशस्तं कर्मेति पौरु­शि­ष्टे­र्म­तम् । तस्य प्राशस्त्यं चोत्त­म­लो­क­प्रा­प्ति­सा­ध­न­त्वात् । तथा च श्रुतिः - ‘तपसर्षयः सुवरन्वविन्दन्’ इति ।

मौद्गल्याभिमते स्वाध्य­य­प्र­व­च­न­यो­रु­त्त­म­क­र्मत्वे हेतुमाह श्रुतिः —
तद्धि तप इति ।

हि-शब्दा­र्थ­क­थ­नम् —
यस्मादिति ।
तत्र स्वाध्या­य­श­ब्दि­त­स्या­ध्य­य­नस्य निय­मो­पे­त­त्वा­त्त­पः­श­ब्द­वा­च्य­त्वम् । तदुक्तम् - ‘नियमेषु तपःशब्दः’ इति । प्रवचनशब्दितस्य च ब्रह्मयज्ञस्य तपस्त्वम् ‘तपो हि स्वाध्यायः’ इत्या­दि­श्रु­ति­प्र­सि­द्ध­मिति मत्वा तपस्त्वं तयो­रु­त्त­म­क­र्मत्वे हेतु­त­यो­क्त­मि­त्य­नु­स­न्धे­यम् ।

उक्तानामपीति ।
‘सत्यं च स्वाध्या­य­प्र­व­चने च तपश्च स्वाध्यायवचने च’ इत्य­त्रो­क्ता­ना­म­पी­त्यर्थः ।

आदरार्थमिति ।
आदरसूचनद्वारा मत­भे­दे­नो­त्त­म­क­र्म­त्व­ख्या­प­ना­र्थ­मि­त्यर्थः ॥

नन्वहं वृक्ष­स्ये­त्या­दि­म­न्त्र­पाठः किमर्थ इत्याशङ्क्याह —
स्वाध्यायार्थ इति ।
जपार्थम् इत्यर्थः ।

ननु तज्जपस्य क्वोपयोगः ? तत्राह —
स्वाध्यायश्चेति ।

प्रकरणादिति हेतुं विवृणोति —
विद्यार्थं हीति ।
प्रकरणस्य संहि­तो­प­नि­ष­द्ग­त­म­न्त्र­ब्रा­ह्म­ण­जा­तस्य विद्या­प्र­यो­ज­न­क­त्वा­दि­त्यर्थः ।

ब्रह्म­वि­द्या­सं­निधौ पाठादिति भावः । अहं वृक्ष­स्ये­त्या­दि­म­न्त्रा­म्ना­यस्य कर्म­शे­ष­त्व­शङ्कां निराकरोति —
न चेति ।
तद­व­ग­म­क­श्रु­ति­लि­ङ्गा­दे­र­द­र्श­ना­दिति भावः ।

स्वाध्यायो विद्योत्पत्तये भवतीत्युक्तम् ; तत्र विवक्षितं द्वारं समर्पयति —
स्वाध्यायेन चेति ।
जपादिरूपस्य धर्मस्य पाप­क्ष­य­रू­प­शु­द्धि­द्वारा विद्यो­त्प­त्ति­हे­तु­त्वम् ‘तपसा कल्मषं हन्ति’ इत्या­दि­शा­स्त्र­सि­द्ध­मिति विशे­ष­सू­च­ना­र्थ­श्च­कारः ।

अहमिति ।
साक्षा­त्कृ­त­ब्र­ह्म­त­त्त्व­स्त्रि­श­ङ्कु­नामा ऋषिः अहंशब्दार्थः ।

उच्छे­द्या­त्म­क­स्येति ।
उच्छे­द्य­स्व­भा­व­स्ये­त्यर्थः ।

संसा­र­वृ­क्ष­स्येति ।
विद्या­प्र­ति­पा­दके मन्त्रे प्रसि­द्ध­वृ­क्ष­ग्र­ह­णा­यो­गा­त्सं­सार एवो­च्छे­द्य­स्व­भा­व­त्व­सा­म्या­द्वृ­क्ष­श­ब्देन गृह्यत इति भावः ।

जगदात्मकस्य संसारवृक्षस्य प्रेरयिता परमेश्वर एव, न ब्रह्मविदिति, तत्राह —
अन्त­र्या­म्या­त्म­नेति ।
ब्रह्मविदः सर्वा­त्म­क­त्वा­दिति भावः ।

कीर्त्तिरिति ।
मेरोः शृङ्गमिव मम ब्रह्मविदः कीर्त्तिः प्रसिद्धिः स्वर्ग­लो­क­व्या­पि­नी­त्यर्थः ।

उप­रि­भा­ग­वा­चि­नो­र्ध्व­श­ब्देन संसा­र­म­ण्ड­ला­दु­परि वर्तमानं जग­त्का­र­ण­त्वो­प­ल­क्षितं ब्रह्म लक्ष्यत इत्याशयेनाह —
उर्ध्वं कारणमिति ।
वस्तुतः संसा­रा­स्पृ­ष्ट­मिति यावत् ।

अत एवाह —
पवित्रमिति ।

नन्वेवंभूतमपि ब्रह्म सर्व­प्रा­णि­सा­धा­र­ण­मेव, वस्तुत एका­त्म­क­त्वा­त्स­र्व­प्रा­णि­ना­मिति, तत्राह —
ज्ञान­प्र­का­श्य­मिति ।
अन्येषां ज्ञानाभावादिति भावः । ब्रह्मे­त्य­न­न्तरं स्वरूपभूतमिति शेषः ।

अन्नमिति ।
कर्मफलरूपं वस्वा­दि­दे­व­भो­ग्य­म­मृ­त­म­न्नम् ; तद्व­त्त्व­मा­दि­त्यस्य मधुविद्यायां प्रसिद्धमिति बोध्यम् । यथा सवितरि श्रुति­स्मृ­ति­श­तेभ्यो विशु­द्ध­म­मृ­त­मा­त्म­तत्त्वं प्रसिद्धम् , एवं मय्यपि पुरुषे श्रुति­स्मृ­ति­श­तेभ्य एव विशु­द्ध­मा­त्म­तत्त्वं प्रसिद्धमस्ति । इत्थमुभयत्र प्रसि­द्ध­मा­त्म­तत्त्वं स्वमृ­त­श­ब्दि­त­म­स्मी­त्यर्थः । तथा च श्रुतयः - ‘स यश्चायं पुरुषे, यश्चा­सा­वा­दित्ये, स एकः’ इत्याद्याः, स्मृतयश्च - ‘आदित्ये शुद्ध­म­मृ­त­मा­त्म­तत्त्वं यथा स्थितम् । विद्याधिकारिणि तथा पुरुषेऽपि तदस्ति भोः’ इत्याद्या द्रष्टव्याः ।

धनमिति ।
लौकिकस्य रत्नादिकं धनम् ; ब्रह्मविदस्तु निर­ति­श­या­न­न्द­मा­त्म­त­त्त्व­मेव धनम् , तच्च स्वप्र­का­श­त्वा­द्दी­प्ति­म­दि­त्यर्थः ।

साका­ङ्क्ष­त्वा­दाह —
अस्मीत्यनुवर्तत इति ।

द्रविणं सव­र्च­स­मि­त्य­स्या­र्था­न्त­र­माह —
ब्रह्मज्ञानं वेति ।
ब्रह्मज्ञानं वा द्रविणमिति सम्बन्धः ।

ब्रह्मज्ञानस्य सवर्चसत्वे हेतुमाह —
अमृतत्वेति ।
अमृतत्वं ब्रह्म, तदा­व­र­ण­नि­व­र्त­न­द्वारा तत्प्र­का­श­क­त्वात् ; ब्रह्मणि ‘अहं ब्रह्मास्मि’ इति व्यव­हा­र्य­ता­पा­द­क­त्वा­दि­त्यर्थः ।

मोक्षेति ।
प्रकृताभिप्रायं मोक्षग्रहणम् । पुरु­षा­र्थ­हे­तु­त्व­सा­म्या­द्द्र­वि­ण­शब्दो ब्रह्मज्ञाने प्रयुक्त इत्यर्थः ।

ब्रह्म­स्व­रू­प­व्य­ञ्जकं मुक्तिसाधनभूतं ब्रह्मज्ञानं चेत्सवर्चसं द्रविणम् , तर्हि तदस्मीति पूर्ववदन्वयो न घटते ; तत्राह —
अस्मिन्पक्ष इति ।

शोभनेति ।
शोभना ब्रह्म­ज्ञा­नो­प­यो­गिनी मेधा ग्रन्थ­त­द­र्थ­धा­र­ण­सा­म­र्थ्य­ल­क्षणा यस्य सोऽहं सुमेधा इत्यर्थः ।

सार्वज्ञ्येति ।
सार्व­ज्ञ्य­ल­क्षणा वा मेधा यस्य सोऽहमित्यर्थः ।

विदुषः सर्व­ज्ञ­त्व­ल­क्ष­ण­मे­धा­वत्त्वं साधयति —
संसारेति ।
संसारो जगत् । जग­ज्ज­न्मा­दि­हे­तुत्वं च ब्रह्मभूतस्य विदुषो वाजसनेयके श्रूयते - ‘अस्मा­द्ध्ये­वा­त्मनो यद्यत्कामयते तत्तत्सृजते’ इति । अस्मादित्यस्य साक्षा­त्कृ­ता­दि­त्यर्थः । छान्दोग्येऽपि श्रूयते - ‘एवं विजानत आत्मनः प्राणाः’ इत्यादिना । तथा विदुषः सर्वज्ञत्वमपि प्रश्नोपनिषदि श्रूयते - ‘स सर्वज्ञः सर्वमेवाविवेश’ इति ।

अत एवेति ।
जग­द्धे­तु­त्वा­दे­वे­त्यर्थः । जगत्कारणस्य ब्रह्मचैतन्यस्य नित्य­त्वा­त्त­द्रू­पस्य विदुषो नास्ति मरणमित्यर्थः ।

अव्यय इति ।
अवयवापचयो व्ययः, तद्रहित इत्यर्थः ।

अक्षतो वेति ।
शस्त्रा­दि­कृ­त­क्ष­त­र­हित इत्यर्थः । निरवयवत्वादिति भावः ।

अमृतेन वेति ।
स्वरू­पा­न­न्दा­नु­भ­वेन सदा व्याप्त इति यावत् ।

इतीत्यादीति ।
इति त्रिश­ङ्को­र्वे­दा­नु­व­च­न­मिति वाक्यं ब्राह्म­ण­मि­त्यर्थः ।

कृतकृत्यतेति ।
यथा वामदेवस्य कृत­कृ­त्य­ता­ख्या­प­ना­र्थम् ‘अहं मनुरभवम्’ इत्यादिवचनम् , तथा त्रिशङ्कोरपि वेदानुवचनं तत्ख्यापनार्थम् ; तत्ख्यापनं च मुमुक्षूणां कृत­कृ­त्य­ता­स­म्पा­दके ब्रह्मविचारे प्रवृ­त्त्य­र्थ­मिति बोध्यम् ।

पूर्वम् ‘अहं वृक्षस्य’ इति मन्त्रस्य विद्या­प्र­यो­ज­न­क­प्र­क­र­ण­म­ध्य­प­ठि­त­त्वा­द्वि­द्या­शे­ष­त्व­मु­क्तम् । इदानीं लिङ्गादपि तस्य तच्छेषत्वं वक्तुं शक्यत इत्याशयेन विवक्षितं मन्त्रार्थं कथयति —
त्रिशङ्कुनेति ।

आर्षेणेति ।
तपः­प्र­भा­व­ज­नि­ते­ने­त्यर्थः ।

मन्त्रस्य विद्या­प्र­का­श­कत्वे फलितमाह —
अस्य चेति ।
विद्या­प्र­का­श­न­सा­म­र्थ्य­रू­पा­ल्लि­ङ्गा­च्चेति चकारार्थः ।

पूर्वानुवाके कर्मा­ण्यु­प­न्य­स्या­न­न्त­र­मेव ऋषे­रा­त्म­वि­ष­य­द­र्श­नो­प­न्यासे श्रुतेः कोऽभिप्राय इत्या­का­ङ्क्षा­या­माह —
ऋतं चेत्यादिना ।

अनन्तरं चेति ।
चका­रोऽ­व­धा­र­णार्थः ।

सकामस्य पितृ­लो­क­प्रा­प्ति­रेव ‘कर्मणा पितृलोकः’ इति श्रुतेः, नात्म­द­र्श­न­मि­त्या­श­ये­नाह —
निष्कामस्येति ।

सांसारिकफलेषु निःस्पृहस्यापि विद्या­म­का­म­य­मा­नस्य न विद्योत्पत्तिः, किं तु प्रत्य­वा­य­नि­वृ­त्ति­मा­त्र­मि­त्या­श­ये­नाह —
ब्रह्म विविदिषोरिति ।

आर्षाणीति ।
नित्य­नै­मि­त्ति­क­क­र्म­स्वपि ‘तपसा कल्मषं हन्ति’ इत्यादौ तप­स्त्व­प्र­सि­द्धे­स्त­ज्ज­न्या­ना­मपि दर्श­ना­ना­मा­र्ष­त्व­मु­क्त­मिति मन्तव्यम् ॥

उत्तरानुवाके कर्मणां कर्तव्यता किमर्थमुपदिश्यत इत्या­का­ङ्क्षा­या­माह —
वेद­म­नू­च्ये­त्या­दिना ।

ज्ञानात्पूर्वं कर्मणां ज्ञाना­र्थि­ना­वश्यं कर्तव्यत्वे हेतुमाह —
पुरुषेति ।

संस्कारस्वरूपं कथ­य­न्सं­स्का­र­द्वारा तेषां ब्रह्म­वि­ज्ञा­न­सा­ध­न­त्व­माह —
संस्कृतस्य हीति ।
सत्त्व­स्या­न्तः­क­र­णस्य विशिष्टा या शुद्धिः सैव संस्कार इति भावः ।

अञ्जसैवेति ।
अप्र­ति­ब­न्धे­नै­वे­त्यर्थः ।

पापरूपस्य चित्तमालिन्यस्य ज्ञानो­त्प­त्ति­प्र­ति­ब­न्ध­क­त्वात् , शुद्धिद्वारा कर्मणां विद्यो­द­य­हे­तुत्वे हि-शब्दसूचितं मानमाह —
तपसेति ।
तपसा कर्मणा कल्मषनिवृत्तौ विद्या भवति, तया विद्यया अमृतमश्नुत इति स्मृत्यर्थः ।

इति हि स्मृतिरिति ।
इति स्मृतेरित्यर्थः ।

ननु कर्म­भि­र्वि­शु­द्ध­स­त्त्व­स्यापि तत्त्वचिन्तां विना कथ­मा­त्म­वि­ज्ञा­न­म­ञ्ज­सै­वो­त्प­द्येत ? तत्राह —
वक्ष्यति चेति ।
तत्त्वचिन्तामपि विद्यासाधनत्वेन श्रुति­र्व­क्ष्य­ती­त्यर्थः ।

श्रुतौ तपः­श­ब्द­स्त­त्त्व­वि­चा­र­पर इत्येतदग्रे स्फुटीकरिष्यते । उपसंहरति —
अत इति ।
पुरु­ष­सं­स्का­द्वारा कर्मणां विद्या­सा­ध­न­त्वा­दि­त्यर्थः ।

ननु उप­दि­श­ती­त्य­नुक्त्वा राजे­वा­नु­शा­स्तीति किमर्थं वदति श्रुति­रि­त्याङ्क्य गुरू­प­दे­शा­ति­क्रमे महाननर्थो भवेदिति सूचनार्थमित्याह —
अनु­शा­स­न­श­ब्दा­दिति ।
तदतिक्रमे दोषो भवतीति गम्यत इति शेषः ।

तत्रोपपत्तिमाह —
अनुशासनेति ।
लोके राजा­नु­शा­स­ना­ति­क्रमे दोषो­त्प­त्ति­प्र­सि­द्धे­रिति हि-शब्दार्थः ।

ननु यथा ज्ञानात्पूर्वं कर्माणि ज्ञानार्थं कर्तव्यानि तथा ज्ञानो­द­या­न­न्त­र­मपि मुक्त्यर्थं तानि कर्तव्यानि, ज्ञान­क­र्म­स­मु­च्च­य­स्यैव मुक्ति­सा­ध­न­त्वात् ; तथा च स्मृतिः - ‘तत्प्रा­प्ति­हे­तु­र्वि­ज्ञानं कर्म चोक्तं महामुने’ इति ; नेत्याह —
प्रागु­प­न्या­सा­च्चेति ।
च-शब्दः शङ्कानिरासार्थः । कर्मणां विद्या­र­म्भा­त्प्रा­गु­प­न्या­सा­द्धे­तो­र्वि­द्यो­द­या­न­न्तरं न तान्य­नु­ष्ठे­या­नी­त्यर्थः ।

केवलेति ।
ब्रह्म­वि­दा­प्नोति परमित्यत्र पर­प्रा­प्ति­सा­ध­न­त्वेन विद्या­मा­त्रा­र­म्भाच्च हेतोर्न विद्योदयानन्तरं तान्य­नु­ष्ठे­या­नी­त्यर्थः ।

प्रागुपन्यासं विवृणोति —
पूर्वमिति ।
ब्रह्म­वि­दा­प्नोति परमिति विद्या­र­म्भा­त्पूर्वं संहितोपनिषद्येव ऋतं चेत्या­दा­वु­प­न्य­स्ता­नी­त्यर्थः ।

विद्यो­द­या­न­न्त­र­मेव मुक्ति­ला­भ­श्र­व­णा­त्त­द­न­न्तरं कर्मणां नैष्फ­ल्य­श्र­व­णाच्च न मुक्तिसाधनत्वं कर्म­णा­मि­त्या­श­ये­नाह —
उदितायां चेति ।
यदा ब्रह्मण्यभयं यथा भवति तथा प्रति­ष्ठा­मा­त्म­भावं विद्यया विन्दते तदैवाभयं गतो भवति । ब्रह्मणः स्वरू­प­भू­त­मा­नन्दं विद्वान्न बिभेति कुतश्चन, भयहेत्वविद्याया विद्योदयकाल एव निवृ­त्त­त्वा­दि­त्यर्थः ।

किमहमिति ।
विदुषः साधु­क­र्मा­क­र­ण­प्र­यु­क्त­स­न्ता­पा­भा­वोक्त्या तं प्रति कर्म­णा­मा­कि­ञ्चन्यं फलाभावः प्रतीयत इत्यर्थः ।

समुच्चयस्य श्रुति­बा­ह्य­त्व­मु­प­सं­ह­रति —
अत इति ।
प्रागु­त्प­न्या­सा­दि­हे­तो­रि­त्यर्थः ।

विद्येति ।
विद्यो­त्प­त्त्य­र्था­न्येव न मुक्त्यर्थानीति गम्यत इत्यर्थः ।

इतश्च दुरितक्षयद्वारा विद्यो­त्प­त्त्य­र्था­न्ये­वे­त्याह —
मन्त्रेति ।
अविद्यया कर्मणा मृत्युं पाप्मानं तीर्त्वेति कर्मणां दुरि­त­क्ष­य­फ­ल­क­त्व­प्र­ति­पा­द­न­पू­र्वकं विद्यामात्रस्य मुक्ति­हे­तु­त्व­प्र­ति­पा­द­क­म­न्त्र­व­र्णा­च्चे­त्यर्थः ।

एवं च सति तत्प्रा­प्ति­हे­तु­रिति स्मृतिवचनं क्रमसमुच्चयपरम् , न यौगपद्येन विद्याकर्मणोः समुच्चयपरमिति मन्तव्यम् । पौनरुक्त्यं परिहरति —
ऋतादीनामिति ।
कर्मणां विद्याफले स्वारा­ज्येऽ­नु­प­यो­ग­मा­शङ्क्य तत्रो­प­यो­ग­क­थ­ना­भि­प्रा­येण पूर्वत्रोपदेश इत्यर्थः ।

अनुशब्दार्थमाह —
ग्रन्थेति ।

वेद­म­ध्या­प्या­न­न्त­र­मेव तद­र्थ­म­प्यु­प­दि­श­तीति वदन्त्याः श्रुते­स्ता­त्प­र्य­महा —
अत इति ।
धर्मजिज्ञासा कर्मविचारः ।

इतश्च धर्मजिज्ञासां कृत्वैव गुरु­कु­ला­न्नि­व­र्ति­त­व्य­मि­त्याह —
बुद्ध्वेति ।
न च वेदा­ध्य­य­ना­न­न्त­र­मा­चा­र्ये­णा­नु­ज्ञातो दारानाहृत्य मीमांसया कर्मावबोधं सम्पादयतु, तदा तत्सम्पादनेऽपि न ‘बुद्ध्वा - ’ इतिस्मृतिविरोध इति वाच्यम् , दार­स­ङ्ग्र­हा­न­न्तरं नित्य­नै­मि­त्ति­का­नु­ष्ठा­ना­व­श्य­म्भा­वेन पुनस्तस्य गुरु­कु­ल­वा­सा­स­म्भ­वात् ; अतः प्रागेव कर्मावबोधः सम्पादनीय इति भावः ।

यथा­प्र­मा­णा­व­ग­त­मपि परस्याहितं न वाच्यमित्याह —
वक्तव्यं चेति ।
वच­ना­र्ह­मि­त्यर्थः । तदाह भगवान् - ‘अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्’ इति ।

सामान्यवचनमिति ।
अनु­ष्ठे­य­सा­मा­न्य­वा­च­क­मपि धर्मपदं सत्या­दि­रू­प­ध­र्म­वि­शे­ष­नि­र्दे­श­सं­नि­धा­ना­त्त­द­ति­रि­क्ता­नु­ष्ठे­य­प­र­मि­त्यर्थः ।

स्वाध्या­या­द­ध्य­य­ना­दिति ।
अध्ययनेन गृहीतस्य स्वाध्यायस्य प्रमादो विस्मरणम् , तन्मा­कु­र्वि­त्यर्थः ; ‘ब्रह्मोज्झे मे किल्बिषम्’ इति मन्त्रवर्णेन ‘ब्रह्महत्यासमं ज्ञेयमधीतस्य विनाशनम्’ इति स्मरणेन च वेदविस्मरणे प्रत्य­वा­या­व­ग­मात् ।

मे मम किल्बिषं ब्रह्मोज्झे वेदविस्मरणवति पुरुषे गच्छत्विति मन्त्रार्थः । ननु न कर्तव्येति कथम् , सन्त­ति­प्रा­प्ते­र्दै­वा­धी­न­त्वा­दि­त्या­श­ङ्क्याह —
अनु­त्प­द्य­मा­नेऽ­पीति ।

इतश्चैवमेव श्रुतेरभिप्राय इत्याह —
प्रजेति ।
ऋतं चेत्यनुवाके ‘प्रजा च स्वाध्या­य­प्र­व­चने च, प्रजनश्च स्वाध्या­य­प्र­व­चने च, प्रजातिश्च स्वाध्या­य­प्र­व­चने च’ इति सन्ततिविषय एव प्रजा­दि­त्र­य­नि­र्दे­श­ब­ला­च्चे­त्यर्थः ।

अन्यथेति ।
श्रुतेः सन्तत्यर्थयत्ने तात्पर्याभाव इत्यर्थः ।

ऋतुकालगमनाभावे प्रत्य­वा­य­स्म­र­णा­त्ता­व­न्मा­त्र­मेव श्रुति­र­व­क्ष्य­दि­त्यर्थः । न च श्रुत्या तात्पर्येण सन्ततिः सम्पादनीयेति किमर्थमुच्यत इति वाच्यम् , पितृऋणस्य पर­लो­क­प्रा­प्ति­प्र­ति­ब­न्ध­क­त्वेन तदपाकरणद्वारा पर­लो­क­प्रा­प्ति­सा­ध­न­त्वात् ; तथा च श्रुतिः — ‘नापुत्रस्य लोकोऽस्ति’ इति । न केवलं पितृऋणं पर­लो­क­प्र­ति­ब­न्ध­कम् , किं तु मोक्षस्यापि ; तथा च मनुः — ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य चैतानि मोक्ष­मि­च्छ­न्व्र­ज­त्यधः’ इति । तथा च मुमुक्षुणापि सन्ततियत्नः कर्तव्य इति । ननु सत्या­त्प्र­मा­द­नि­षे­ध­व­च­नस्य यदि सत्यमेव वक्त­व्य­मि­त्यर्थो विवक्षितः, तदा ‘सत्यं वद’ इत्यनेन पौनरुक्त्यं स्यादि­त्या­श­ङ्क्याह —
सत्याच्चेति ।
च-शब्दः शङ्कानिरासार्थः ।

ननु यद्य­त्रा­नृ­त­व­द­न­नि­षेधो विवक्षितः तर्ह्यनृतं न वक्त­व्य­मि­त्य­नुक्त्वा प्रमा­द­श­ब्द­प्र­योगे कोऽभिप्रायः श्रुते­रि­त्या­श­ङ्क्याह —
प्रमा­द­श­ब्द­सा­म­र्थ्या­दिति ।
अनृतवदनविषये विस्मृ­त्या­नृ­त­व­द­नेऽपि दोषाधिक्यमेव, ‘समूलो वा एष परिशुष्यति योऽनृतमभिवदति’ इति श्रुतेः ‘नानृतात्पातकं किञ्चित्’ इति स्मृतेश्च । तस्मादनृतवर्जने सदा जागरूकेणैव भवितव्यमिति भावः ।

अन्यथेति ।
विस्मृ­त्या­नृ­त­व­द­नेऽपि दोषातिशयाभावे सतीत्यर्थः । असत्येति च्छेदः ।

अननुष्ठानमिति ।
अनु­ष्ठे­य­स्व­रू­पस्य धर्म­स्या­ल­स्या­दि­कृ­त­म­न­नु­ष्ठानं प्रमाद इत्यर्थः ।

अनुष्ठातव्य एवेति ।
धर्म इति शेषः ।

आत्म­र­क्ष­णा­र्था­दिति ।
शरी­र­र­क्ष­णा­र्था­च्चि­कि­त्सा­दि­रू­पा­दि­त्यर्थः ।

मङ्गलार्थादिति ।
‘वायव्यं श्वेतमालभेत’ इत्यादौ विहि­ता­द्वै­दि­कात् लौकि­का­त्प्र­ति­ग्र­हा­दे­श्चे­त्यर्थः ।

देवेति ।
देवकार्यं यागादि, पितृकार्यं श्राद्धादीति विभागः ।

मात्रादीनां वस्तुतो देवत्वाभावादाह —
देवतावदिति ।

श्रौत­स्मा­र्त­क­र्म­जा­त­मु­प­दि­श्या­चा­र­प्र­मा­ण­कानि कर्माणि विशे­षो­क्ति­पू­र्व­क­मु­प­दि­शति —
यान्यपि चेति ।
अपि च यानीति योजना ।

आचार्यकृतानां कर्मणां साक­ल्ये­नो­पा­दे­य­त्व­मिति विशेषमाशङ्क्याह —
यान्यस्माकमिति ।

विपरीतानीति ।
शाप­प्र­दा­ना­दी­नी­त्यर्थः ।

आचार्यत्वादीति ।
आदिपदं मातृ­त्व­पि­तृ­त्वा­दि­स­ङ्ग्र­हा­र्थम् , । आचार्यादिभिन्ना इत्यर्थः ।

प्रशस्यतरा इति ।
सगु­ण­नि­र्गु­ण­ब्र­ह्म­नि­ष्ठा­दि­युक्ता इत्यर्थः ।

श्रुतस्य ब्राह्म­ण्य­स्या­वि­व­क्षायां कारणाभावं मत्वाह —
न क्षत्त्रियेति ।

आसनादिनेति ।
शुश्रू­षा­न्न­पा­ना­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

गोष्ठीति ।
शास्त्रा­र्थ­नि­र्ण­याय क्रियमाणो व्यवहारोऽत्र गोष्ठी, सा निमि­त्त­मु­द्दे­श्य­तया कारणं यस्य समुदितस्य समुदायस्य तस्मि­न्नि­त्यर्थः ।

प्रश्वासोऽपि न कर्तव्य इति ।
किमु वक्तव्यं पण्डितंमन्यतया विस्रम्भेण वार्त्तादिकं न कार्यमितीति भावः ।

तर्हि तेषां समुदिते गत्वा किं कर्तव्यं मयेत्याशङ्क्याह —
केवलमिति ।

श्रद्धयैवेति ।
अवर्जनीयतया प्राप्ते­ष्व­पा­त्रे­ष्व­पी­त्यर्थः । तदुक्तं वार्त्तिके ‘श्रद्धयैव च दात­व्य­म­श्र­द्धा­भा­ज­ने­ष्वपि’ इति ।‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो ईह’ इति भग­व­तो­क्त­त्वा­दिति भावः ।

न दातव्यमिति ।
‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो ईह’ इति भग­व­तो­क्त­त्वा­दिति भावः ।

स्ववि­भू­त्य­नु­सा­रेण देयमित्याह —
श्रियेति ।

बहु ददतापि मया कियद्दीयत इति लज्जावता दातवव्यमित्याह —
लज्जयेति ।

परलोकभयेन देयमित्याह —
भियेति ।

मित्रेति ।
मित्र­सु­हृ­दा­दे­र्य­त्कार्यं तेनापि निमित्तेन देयमित्यर्थः ।

तत्र कर्मादाविति ।
देशाद्यर्थकस्य तत्रशब्दस्य युक्ता इत्यनेनान्वय उक्तः ; कस्मिन्विषये युक्ता इत्या­का­ङ्क्षायां कर्मा­दा­वि­त्यु­क्त­मिति विवेचनीयम् ।

अभियुक्ता इति ।
कर्मादावभियोगो विधि­व­त्त­द­नु­ष्ठा­नम् , अनु­ष्ठे­या­र्थ­नि­र्ण­यस्य संमर्शिन इत्यनेन लब्धत्वादिति मन्तव्यम् ।

अपरप्रयुक्ता इति ।
स्वतन्त्रा इत्यर्थः ।

अकामहता इति ।
लाभ­पू­जा­दि­का­मो­प­हता न भवन्तीत्यर्थः ।

तथा त्वमपीति ।
उदितहोमादिविषये सन्देहे सति स्वस्व­वं­श­स्थि­ता­ना­मे­ता­दृ­शा­ना­मा­चा­रा­द्व्य­वस्थां निश्चित्य तथा वर्तेथा इत्यर्थः ।

केनचिदिति ।
स्वर्ण­स्ते­या­दि­रू­पे­णे­त्यर्थः । सन्दि­ह्य­मा­ने­नेति विशे­ष­णा­त्पा­त­कि­त्वेन निश्चि­ता­ना­म­भ्या­ख्या­त­प­देन ग्रहणं नास्तीति गम्यते तेषा­म­सं­व्य­व­हा­र्य­त्व­नि­श्च­येन तद्विषये विचा­रा­प्र­स­क्ते­रिति मत्वा तद्व्यावृत्तिः कृतेति मन्तव्यम् ।

तेष्विति ।
पात­कि­त्व­सं­श­या­स्प­देषु पुरुषेषु यथोक्तं तस्मिन्देशे काले वेत्यादिकं सर्व­मु­प­न­ये­द्यो­ज­ये­दि­त्यर्थः ।

एवं ये तत्रे­त्या­दि­वा­क्य­जा­तस्य तात्प­र्य­मुक्त्वा अक्ष­रा­र्थ­क­थ­न­प्र­स­क्ता­वाह —
ये तत्रे­त्या­दि­स­मा­न­मिति ।
ये तत्रे­त्या­दि­वा­क्य­जातं पूर्वेण ये तत्रे­त्या­दि­वा­क्य­जा­तेन समानार्थम् , अतो न पृथ­ग्व्या­ख्ये­य­मि­त्यर्थः ।

उक्त­म­नु­शा­स­न­मु­प­सं­ह­रति —
एष इत्यादिना ।
सत्यं वदे­त्या­दि­ग्र­न्थ­स­न्दर्भ एतच्छब्दार्थः ।

पुत्रेति ।
पुत्रादिभ्यः शुकादिभ्यः पित्रादीनां व्यासादीनां य उपदेश इतिहासादौ प्रसिद्धः सोऽप्येष एवेत्यर्थः । अयमेवार्थ इतिहासादावुक्त इति भावः ।

कर्मकाण्डस्य कृत्स्न­स्या­प्य­त्रैव तात्पर्यमिति वक्तुमेषा वेदोपनिषदिति वाक्यम् ; तद्व्याचष्टे —
वेदरहस्यमिति ।
एषा वेदो­प­नि­ष­दि­त्य­त्रै­त­च्छब्दः प्रकृ­त­क­र्म­सं­ह­ति­परः ।

ईश्वरवचनमिति ।
‘श्रुतिस्मृती ममैवाज्ञे’ इति स्मरणादिति भावः ।

नन्वनुशासनं विधिरिति कुतो नोच्यते ? तत्राह —
आदेशवाच्यस्येति ।
आदेशपदेन विधेरुक्ततया पौन­रु­क्त्या­प­त्ते­रिति भावः ।

अनु­शा­स­न­प­द­स्या­र्था­न्त­र­माह —
सर्वेषां वेति ।

आदरार्थमिति ।
यथो­क्त­क­र्मा­नु­ष्ठाने यत्ना­धि­क्य­सि­द्ध्य­र्थ­मि­त्यर्थः ॥

आद्यवादे केवलाया विद्याया मुक्तिसाधनत्वं साधितमपि विशिष्य समु­च्च­य­नि­रा­क­र­णेन पुनः साधयितुं चिन्तामुपक्रमते —
अत्रैतदिति ।
विद्याकर्मणोः फल­भे­द­ज्ञा­ना­र्थ­मे­त­द्व­क्ष्य­माणं वस्तु चिन्त्यत इत्यर्थः ।

एवकारस्य व्याख्यानम् —
केवलेभ्य इति ।

उत विद्येति ।
विद्या परब्रह्मविद्या, उपसर्जनतया तत्सापेक्षेभ्य इत्यर्थः ।

विद्याकर्मणोः सम­प्रा­धा­न्य­प­क्ष­माह —
आहोस्विदिति ।

विद्या­प्रा­धा­न्य­को­टि­माह —
विद्यया वेति ।

सिद्धा­न्त­को­टि­माह —
उत केवलयैवेति ।

पूर्वपक्षमाह —
तत्रेत्यादिना ।
‘वेदमनूच्य’ इत्यादौ श्रुतेः कर्म­स्व­त्य­न्ता­द­र­द­र्श­नात् ‘कर्मणैव हि संसि­द्धि­मा­स्थिता जनकादयः’ इति भग­व­द्व­च­न­द­र्श­नाच्च कर्मभ्य एव परं श्रेयः ; नच विद्यावैयर्थ्यं शङ्कनीयम् , तस्याः कर्म­शे­ष­त्वा­भ्यु­प­ग­मात् , तत्फलवचनस्यात एवा­र्थ­वा­द­त्वान्न तद्विरोधोऽपीति भावः ।

उपनिषज्जन्याया विद्यायाः कर्मशेषत्वे हेतुमाह —
समस्तेति ।

सम­स्त­वे­दा­र्थ­ज्ञा­न­वतः कर्माधिकारे मानमाह —
वेद इति ।
रह­स्या­न्यु­प­नि­षदः ।

सम­स्त­वे­दा­र्थ­ज्ञा­न­वतः कर्मा­धि­का­रेऽ­प्यु­प­नि­ष­द­र्थ­ज्ञा­नस्य कर्माङ्गत्वे किमायातम् ? तत्राह —
अधिगमश्चेति ।
सरहस्य इति विशे­ष­णा­दु­प­नि­ष­त्प्र­यो­ज­न­भू­ते­ना­त्म­वि­ज्ञा­नेन सहैव वेदार्थावगमो गुरुकुले सम्पादनीय इति स्मृत्य­र्थोऽ­व­ग­म्यते ; तथा च कर्म­का­ण्डा­र्थ­ज्ञा­न­व­द्वे­दा­न्ता­र्थ­ज्ञा­न­स्यापि कर्मा­ङ्ग­त्व­मा­या­तीति भावः ।

आत्मविद्यायाः कर्माङ्गत्वे हेत्वन्तरमाह —
विद्वानिति ।
सर्वत्र वेदे विद्वान्यजते विद्वान्याजयति इति सम­स्त­वे­दा­र्थ­ज्ञा­न­रू­प­वि­द्या­वत एव यतोऽधिकारः प्रदर्श्यते, ततोऽ­प्या­त्म­ज्ञा­नस्य कर्म­शे­ष­त्व­मि­त्यर्थः ।

सम­स्त­वे­दा­र्थ­ज्ञा­न­वतः कर्माधिकारे स्मृत्यन्तरमाह —
ज्ञात्वेति ।
‘ज्ञात्वा­नु­ष्ठा­नम्’ इति स्मृत्या च विदुष एव कर्मण्यधिकारः प्रदर्श्यत इति योजना ।

एव­मौ­प­नि­ष­दा­त्म­ज्ञा­नस्य तत्फलवचनस्य च कर्म­शे­ष­त्व­प्र­द­र्श­नेन कृत्स्नस्य वेदस्य कर्म­प­र­त्व­मु­क्तम् । तत्र जैमि­नि­श­ब­र­स्वा­मि­सं­म­ति­माह —
कृत्स्नश्चेति ।
तदुक्तं जैमिनिना - ‘आम्नास्यस्य क्रियार्थत्वात् - ’ इति ; शबरस्वामिना चोक्तम् - ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इति । तस्य वेदस्यार्थः प्रयोजनम् ।

एवं कर्मणामेव मुक्तिहेतुत्वं प्रसाध्य विपक्षे दण्डमाह —
कर्मभ्यश्चेदिति ।

अनर्थकः स्यादिति ।
पर­म­पु­रु­षा­र्थ­प­र्य­व­सायी न स्यात् । न चेष्टापत्तिः, अध्य­य­न­वि­धि­वि­रो­ध­प्र­स­ङ्गात् । अध्ययनविधिना हि समस्तस्य वेद­स्या­भ्यु­द­य­निः­श्रे­य­स­फ­ल­व­द­र्था­व­बो­ध­प­र­त्व­मा­पा­दि­तम् । तस्मा­त्क­र्म­मा­त्र­साध्यो मोक्ष इति स्वीकर्तव्यमिति स्थितम् । विद्याया मुक्ति­हे­तु­त्वेऽपि न केव­ला­या­स्त­स्या­स्त­द्धे­तु­त्वम् , ‘विद्यां चाविद्यां च’ इति श्रुत्या विद्या­क­र्म­स­मु­च्च­यस्य मुक्ति­हे­तु­त्वा­व­ग­मात् ।

समुच्चयेऽपि ‘कर्मणैव हि संसिद्धिम्—’ इत्या­दि­व­च­ना­नु­रो­धेन कर्म­प्रा­धा­न्य­पक्षः, ‘तत्प्रा­प्ति­हे­तु­र्वि­ज्ञानं कर्म चोक्तं महामुने’ इत्या­दि­व­च­ना­नु­रो­धेन सम­प्रा­धा­न्य­पक्षः, ’ब्रह्म­वि­दा­प्नोति परम्’ इत्या­दि­व­च­ना­नु­रो­धेन विद्या­प्रा­धा­न्य­पक्ष इति विभागः । इदं च समु­च्च­य­प­क्षो­प­पा­दनं स्पष्ट­त्वा­दु­पे­क्षितं भाष्यकारेणेति मन्तव्यम् । तत्र केवलकर्मजन्यो मोक्ष इति पक्षं निराकरोति —
नेत्यादिना ।

नित्यो हीति ।
मोक्षस्य नित्यत्वे ‘न स पुनरावर्तते’ इति श्रुति­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः ।

कर्मकार्यस्यापि तस्य नित्यत्वं किं न स्यादि­त्या­श­ङ्क्याह —
कर्मकार्यस्य चेति ।

ततः किम् ? तत्राह —
कर्मभ्यश्चेदिति ।
अनित्यमिति च्छेदः ।

अनित्यत्वे इष्टापत्तिं वारयति —
तच्चेति ।
मुक्तस्यापि पुनः संसा­र­प्र­स­ङ्गा­दिति भावः ।

पूर्ववादी प्रकारान्तरेण मोक्षस्य विद्या­नै­र­पेक्ष्यं शङ्कते —
काम्येति ।
मुमुक्षुणा जन्म­प्रा­य­ण­यो­र­न्त­राले सर्वात्मना काम्य­नि­षि­द्ध­यो­र­ना­र­म्भान्न तस्य तन्निमित्ता भावि­ज­न्म­प्राप्तिः ; पूर्वजन्मसु सञ्चितस्य कर्माशयस्य सर्वस्यैव वर्त­मा­न­दे­हा­र­म्भ­क­त्वा­भ्यु­प­ग­मे­ना­र­ब्ध­फ­लस्य तस्य कर्मण उपभोगेन क्षयात् न तन्निमित्ता च भावि­ज­न्म­प्राप्तिः ; नित्य­नै­मि­त्ति­कानां साक­ल्ये­ना­नु­ष्ठा­ना­त्प्र­त्य­वा­या­नु­त्पत्तौ प्रत्य­वा­य­नि­मित्ता च न जन्मप्राप्तिः ; न चान्य­ज्ज­न्म­नि­मि­त्त­मस्ति ; तस्मा­द्वि­द्या­न­पेक्षो मोक्ष इत्यर्थः ।

निराकरोति —
तच्च नेति ।
मुमु­क्षो­र्व­र्त­मा­न­दे­हा­र­म्भ­स­मये कानिचिदेव कर्माणि वर्त­मा­न­दे­ह­मा­र­भन्ते न सर्वाणि, स्वर्ग­न­र­क­म­नु­ष्या­दि­वि­रु­द्ध­फ­लानां कर्म­णा­मे­क­दे­हा­र­म्भ­क­त्वा­स­म्भ­वात् ; अतः शेष­क­र्म­स­म्भ­वा­त्त­दपि मतं न सम्भवतीत्यर्थः ।

ननु शेष­क­र्म­स­म्भ­वेऽपि यथा­व­र्णि­त­च­रि­तस्य मुमु­क्षो­र्ज्ञा­न­नि­र­पेक्ष एव जन्माभावलक्षणो मोक्षः सिध्यतीति मतं कुतो न सम्भवति ? तत्राह —
तन्निमित्तेति ।
शेष­क­र्म­नि­मि­त्ते­त्यर्थः ।

प्रत्युक्तमिति ।
आद्यवाद इति शेषः ।

नन्वस्तु शेषकर्मसम्भवः, तथापि तस्य नित्यानुष्ठानेन नाशसम्भवान्न तन्निमित्ता शरी­रो­त्प­त्ति­रिति, तन्न ; नित्यानुष्ठानेन दुरितस्य क्षयसम्भवेऽपि न सुकृतस्य तेन क्षयः सम्भवति, नित्या­नु­ष्ठा­न­स­ञ्चि­त­सु­कृ­त­यो­रु­भ­यो­रपि शुद्धिरूपत्वेन विरोधाभावात् ; अतः सञ्चि­त­सु­कृ­त­नि­मित्ता शरी­रो­त्प­त्ति­र­प­रि­हा­र्येति मत्वाह —
कर्मशेषस्य चेति ।

इति चेति ।
इति चाद्यवादे नित्या­नु­ष्ठा­नस्य सुकृ­त­क्ष­य­हे­तुत्वं प्रत्यु­क्त­मि­त्यर्थः । अतो ज्ञानं विना सञ्चि­त­क­र्म­क्ष­या­स­म्भ­वा­ज्ज्ञा­ना­पेक्ष एव मोक्षो न तन्निरपेक्ष इति भावः ।

उप­नि­ष­द­र्थ­ज्ञा­न­स्यापि कर्म­शे­ष­त्वा­त्क­र्म­साध्य एव मोक्ष इत्युक्तमनूद्य निराकरोति —
यच्चो­क्त­मि­त्या­दिना ।

श्रुतज्ञानेन ।
गुरुकुले वेदान्तजनितं ज्ञानं श्रुतज्ञानम् , तस्य कर्मशेषत्वेऽपि तद­ति­रि­क्तो­पा­स­नस्य मोक्षसाधनस्य सत्त्वान्न कर्मसाध्यो मोक्ष इत्यर्थः ।

ननु ‘वेदः कृत्स्नोऽ­धि­ग­न्तव्यः’ इति वचनाद्यथा श्रुतज्ञानं कर्मा­धि­का­रि­वि­शे­ष­ण­तया कर्मशेषस्तथा मन­ना­द्या­त्म­क­मु­पा­स­न­मपि तच्छे­षोऽ­स्त्विति शङ्कां वारयति —
श्रुत­ज्ञा­न­मा­त्रेण हीति ।

मात्र­प­द­व्य­व­च्छे­द्य­माह —
नोपासनमपेक्षत इति ।
मानाभावादिति शेषः ।

ननु श्रुत­ज्ञा­ना­द­र्था­न्त­र­भू­त­मु­पा­सनं वेदान्तेषु मोक्षफलकत्वेन न क्वापि विधीयते, अतो नोपासनसाध्यो मोक्ष इति वदन्तं प्रत्याह —
उपासनं चेति ।
‘मन्तव्यो निदि­ध्या­सि­तव्यः’ इत्यु­पा­स­न­वि­धा­ना­न­न्त­र­मु­प­सं­हारे ‘एतावदरे खल्वमृतत्वम्’ इति श्रव­णा­द­मृ­त­त्व­सा­ध­न­तया तत्रोपासनविधिः प्रतीयत इति भावः ।

ननु मन­ना­दि­रू­प­मु­पा­स­न­मपि श्रुत­ज्ञा­ना­न्ना­ति­रि­च्यते ब्रह्म­प्र­त्य­य­त्वा­वि­शे­षा­दिति ; नेत्याह —
अर्था­न्त­र­प्र­सि­द्धिश्च स्यादिति ।
मन­न­नि­दि­ध्या­स­न­यो­र्ब्र­ह्म­प्र­त्य­य­त्वेऽपि श्रुत­ज्ञा­ना­द­र्था­न्त­रत्वं प्रसिद्धमेव भवति, तयो­र्वि­जा­ती­य­त्वा­त्पृ­थ­ग्वि­धा­ना­च्चे­त्यर्थः ।

एतदेव विवृणोति —
श्रोतव्य इत्युक्त्वेति ।

मन­न­नि­दि­ध्या­स­न­यो­श्चेति ।
चका­रोऽ­व­धा­र­णार्थः सन्प्रसिद्धपदेन सम्बध्यते । वस्तुतस्तु श्रुत­ज्ञा­न­स्यापि नास्ति कर्मशेषत्वे मानम् । न चाध्य­य­न­वि­धि­ब­ला­द्गु­रु­कुले सम्पा­दि­त­स­म­स्त­वे­दा­र्थ­ज्ञा­न­म­ध्य­पा­ति­न­स्त­स्यापि कर्म­ज्ञा­न­व­त्क­र्मा­ङ्गत्वं प्रतीयत इत्युक्तमिति वाच्यम् ; अध्य­य­न­वि­धे­र­क्ष­रा­वा­प्ति­मा­त्र­फ­ल­क­त्वे­ना­र्था­व­बो­ध­प­र्य­न्त­त्वा­सिद्धेः । न च तथा सति विचा­र­वि­ध्य­भा­वा­त्पू­र्वो­त्त­र­मी­मां­स­यो­र­प्र­वृ­त्ति­प्र­सङ्ग इति वाच्यम् ; अर्थज्ञानं विना­नु­ष्ठा­ना­स­म्भ­वेन तत्त­त्क्र­तु­वि­धि­भि­रेव पूर्व­मी­मां­सा­प्र­वृ­त्त्यु­प­पत्तेः, उत्त­र­मी­मां­सा­प्र­वृत्तेः श्रोत­व्य­वि­धि­प्र­यु­क्त­त्वस्य ब्रह्म­जि­ज्ञा­सा­सूत्रे स्फुटत्वात् , ‘विद्वान्यजते’ इति वचनस्य कर्मकाण्डगतस्य प्रकृ­त­त­त्त­त्क­र्म­वि­द्व­त्ता­मा­त्र­प­र­त्वे­ना­त्म­वि­द्व­त्ता­प­र­त्वा­भ­वात् , आत्मज्ञानस्य कर्मा­नु­ष्ठा­न­प्र­ति­कू­ल­ताया वक्ष्यमाणत्वेन तच्छे­ष­त्वा­नु­प­प­त्तेश्च, ‘आम्नायस्य क्रिया­र्थ­त्वात्—’ इत्या­दि­वृ­द्ध­व­च­न­जा­तस्य कर्म­वि­चा­र­प्र­क­र­ण­ग­त­त्वेन कर्म­का­ण्ड­मा­त्र­वि­ष­य­तायाः समन्वयसूत्रे स्पष्टत्वाच्च । तस्मा­च्छ्रु­त­ज्ञा­न­मपि न कर्मशेषः । अत एवा­त्म­ज्ञा­न­फ­ल­श्र­व­ण­म­र्थ­वाद इति शङ्कापि निरालम्बनेति बोध्यम् ।

इत्थं केवलकर्मभ्यः परं श्रेय इति पक्षं निरस्य कर्म प्रधानं विद्या चोपसर्जनमिति समु­च्च­य­प­क्ष­मु­त्था­प­यति —
एवं तर्हीति ।

ननु नित्यस्य मोक्षस्य कर्मारभ्यत्वं न सम्भवति, कार्य­स्या­नि­त्य­त्व­नि­य­मा­दि­त्युक्ते कथं तस्य विद्या­स­हि­त­क­र्म­का­र्य­त्व­शङ्का ? तत्राह —
विद्यासहितानां चेति ।
च-शब्दः शङ्कानिरासार्थः । विद्या­ल­क्ष­ण­स­ह­का­रि­म­हिम्ना नित्य­स्या­प्या­रम्भः सम्भवतीति भावः ।

कार्यान्तरेति ।
नित्य­का­र्ये­त्यर्थः ।

सह­का­रि­सा­म­र्थ्या­त्का­र्य­वै­चि­त्र्य­मात्रे दृष्टान्तमाह —
यथेति ।
यथा स्वतो मर­ण­रू­प­का­र्या­र­म्भ­सा­म­र्थ्य­व­तोऽपि विषस्य मन्त्र­सं­यु­क्तस्य पुष्टि­रू­प­का­र्या­न्त­रा­र­म्भ­सा­म­र्थ्यम् , यथा वा दध्नः समयविशेषे ज्वर­रू­प­का­र्या­र­म्भ­सा­म­र्थ्य­व­तोऽपि तदा गुड­श­र्क­रा­दि­सं­यु­क्तस्य तस्य तृप्ति­मा­त्रा­र­म्भ­सा­म­र्थ्यम् , यथा वा वेत्रबीजस्य दावदग्धस्य कद­ल्या­र­म्भ­सा­म­र्थ्यम् , एवं प्रकृ­तेऽ­पी­त्यर्थः ।

अस्तु सह­का­रि­वै­चि­त्र्या­त्का­र्य­वै­चि­त्र्यम् , तावता आरभ्यस्यापि मोक्ष­स्या­नि­त्य­त्व­प्र­स­ङ्ग­दोषे किमागतमिति दूषयति —
नारभ्यस्येति ।
‘यत्कृतकं तदनित्यम्’ इति न्याय­वि­रो­धा­न्नि­त्य­स्या­रम्भो न सम्भवतीत्यर्थः ।

‘न स पुनरावर्तते’ इति वच­ना­दा­र­भ्य­स्यापि मोक्षस्य नित्य­त्व­म­वि­रु­द्ध­मिति शङ्कते —
वचनादिति ।

वच­न­स्या­न­धि­ग­त­यो­ग्या­र्थ­ज्ञा­प­क­त्वेन पदा­र्थ­यो­ग्य­ता­ना­धा­य­क­त्वान्न वचनबलादारभ्यस्य नित्यत्वं सिध्यतीति दूषयति —
नेति ।

सङ्ग्रहवाक्यं विवृणोति —
वचनं नामेत्यादिना ।

ननु वचनमेवारभ्यस्य मोक्षस्य नित्यत्वं प्रति योग्य­ता­म­वि­द्य­मा­ना­म­प्या­धाय पश्चा­न्नि­त्यत्वं तस्य ज्ञापयतीति ; नेत्याह —
नाविद्यमानस्य कर्त्रिति ।

कुत इत्यत आह —
न हीति ।

नित्यमिति ।
आत्मस्वरूपमिति शेषः ।

आरब्धं वेति ।
घटादीति शेषः । हि यस्मा­द्व­च­न­श­ते­नापि नित्यस्यारम्भो लोके न दृश्यते तस्मा­न्ना­वि­द्य­मा­नस्य कर्त्रिति योजना । अन्यथा ‘अन्धो मणिमविन्दत्’ इत्यादावपि वचनबलादेव योग्यताप्रसङ्ग इति भावः ।

सम­स­मु­च्च­य­प­क्ष­म­प्य­ति­दे­शेन निराकरोति —
एतेनेति ।
अनि­त्य­त्व­प्र­स­ङ्गे­ने­त्यर्थः ॥

प्रतीचो ब्रह्म­त्व­रू­प­मो­क्षस्य नित्यत्वेन समु­च्च­या­ज­न्य­त्वेऽपि तदा­वा­र­का­वि­द्या­नि­वृ­त्ति­हे­तु­त्व­मेव समु­च्च­य­स्या­स्त्विति शङ्कते —
विद्याकर्मणी इति ।

आव­र­ण­रू­प­प्र­ति­ब­न्ध­हे­तो­र­वि­द्याया निवृत्तौ विद्या­मा­त्र­स्यै­वा­पे­क्षि­त­त्वेन कर्म­णोऽ­न­पे­क्षि­त­त्वान्न समुच्चयाधीना मुक्तिरिति मत्वाह —
नेति ।

कर्म­णा­म­वि­द्या­नि­वृ­त्त्य­पे­क्षया फलान्तरस्यैव लोके प्रसिद्धत्वाच्च न प्रति­ब­न्ध­हे­तु­नि­वृत्तौ कर्मा­पे­क्षे­त्याह —
कर्मण इति ।

तदेव विवृणोति —
उत्पत्तीति ।
उत्पत्तिः पुरोडाशादेः, संस्कारो व्रीह्यादेः, विकारः सोम­स्या­भि­ष­व­ल­क्षणः, आप्तिः पयसः, इत्येवं कर्मणः फलं प्रसि­द्ध­मि­त्यर्थः ।

ननु यद्य­वि­द्या­नि­वृत्तौ न कर्मापेक्षा, कर्मफलं चोत्प­त्त्या­दि­क­मेव, तर्हि ब्रह्म­स्व­रू­प­मो­क्ष­स्यै­वो­त्प­त्त्या­द्य­न्य­त­म­त्व­मस्तु ; नेत्याह —
उत्प­त्त्या­दि­फ­ल­वि­प­री­त­श्चेति ।
ब्रह्मस्वरूपस्य तु मोक्ष­स्या­ना­दि­त्वा­द­ना­धे­या­ति­श­य­त्वा­द­वि­का­र्य­त्वा­न्नि­त्या­प्त­त्वाच्च कर्म­फ­ल­वै­प­री­त्यम् ; एतेषां हेतूनां श्रुति­सि­द्ध­त्वाच्च नासिद्धिशङ्का कार्येति भावः ।

प्रत्यगात्मतया नित्य­प्रा­प्त­स्यापि ब्रह्मणो गति­श्रु­ति­म­व­लम्ब्य प्राप्य­त्व­मा­श­ङ्कते —
गतीति ।

शङ्कां विवृ­ण्व­न्ग­ति­श्रु­ती­रु­दा­ह­रति —
सूर्येति ।
विरजा निष्कल्मषा ब्रह्मविद इत्यर्थः ।

तयेति ।
सुषुम्नाख्यया नाड्येत्यर्थः ।

आदिपदात् ‘तेऽर्चि­ष­म­भि­स­म्भ­वन्ति’ इत्यादिश्रुतयो गृह्यन्ते । गति­श्रु­ती­ना­म­न्य­वि­ष­य­त्व­म­भि­प्रेत्य परब्रह्मणो गतिप्राप्यत्वं निराकरोति —
न सर्वगतत्वादिति ।
लोके गन्तुः सकाशादन्यस्य परिच्छिन्नस्य च प्राप्यता प्रसिद्धा ; ब्रह्मणस्तु तदुभयाभावान्न प्राप्य­ते­त्यर्थः ।

सर्वगतत्वं साधयति —
आकाशादीति ।

ब्रह्मणो गन्तृ­भि­र्जी­वै­र­भि­न्नत्वं विवृणोति —
ब्रह्मा­व्य­ति­रि­क्ता­श्चेति ।
चकारोऽवधारणे ।

तेनेति ।
सर्व­ग­त­त्वा­दि­ने­त्यर्थः ।

ननु यदि सर्वगतं गन्तुरनन्यच्च न प्राप्यम् , तर्हि कीदृशं गन्तव्यम् ? अत आह —
गन्तुरिति ।

अनन्यस्य गन्त­व्य­त्वा­भा­व­म­नु­भ­वेन साधयति —
न हि येनैवेति ।

गन्तृ­भि­र­न­न्यत्वं साधयति —
तद­न­न्य­त्व­प्र­सि­द्धि­श्चेति ।
तस्य ब्रह्मणो गन्तृ­भि­र­न­न्यत्वं च श्रुत्यादिभ्यः सिध्यतीत्यर्थः । ब्रह्मण एव जीवभावेन प्रवे­श­श्र­व­णा­त्क्षे­त्र­ज्ञस्य जीवस्य ब्रह्म­त्व­श्र­व­णा­च्चे­त्यर्थः ।

‘अहं ब्रह्म’ इत्यादिश्रुतयः ‘आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति’ इत्या­दि­स्मृ­त­यश्च आदिपदग्राह्या विवक्षिताः । गतिश्रुतीनां गतिं पृच्छति —
गत्यै­श्व­र्या­दीति ।
यथा ब्रह्मविदो गतिः श्रूयते तथा तस्यैश्वर्यमपि श्रूयते, ब्रह्मणो नित्य­प्रा­प्त­त्वा­द्यथा तस्य प्रप्यता न सम्भवति तथा परब्रह्मविदो मुक्तस्य निरु­पा­धि­क­त्वा­दै­श्व­र्य­मपि न सम्भवति ; ततश्च तुल्य­न्या­य­त्वा­दै­श्व­र्य­श्रु­ती­ना­मपि गतिप्रश्न इति मन्तव्यम् ।

प्रश्नं प्रपञ्चयति —
अथापि स्यादिति ।

गतिश्रुतयः पूर्वमुदाहृता इत्या­श­ये­नै­श्व­र्य­श्रु­ती­रु­दा­ह­रति —
स एकधेत्यादिना ।
‘स एकधा भवति त्रिधा भवति’ इत्या­दि­श्रु­ति­र्मु­क्त­स्या­ने­क­श­री­र­योगं दर्शयति ; ‘स यदि पितृलोककामो भवति’ इत्या­दि­श्रु­तिस्तु मुक्तस्य सङ्क­ल्प­मा­त्र­स­मु­त्था­न्पि­त्रा­दि­भो­गा­न्द­र्श­यति ; तथा ‘स्त्रीभिर्वा’ इत्या­दि­श्रु­ति­रपि तस्यै­श्व­र्य­मा­वे­द­य­ती­त्यर्थः ।

‘कार्यं बादरिः’ इत्य­धि­क­र­ण­न्या­येन तासां श्रुतीनां गतिमाह —
न कार्येति ।

ननु सगु­ण­ब्र­ह्मो­पा­स­कस्य सत्य­लो­क­स्थ­का­र्य­ब्र­ह्म­प्रा­प्ति­वि­ष­यास्ताः श्रुतयो न निर्गु­ण­ब्र­ह्म­विदः पर­ब्र­ह्म­प्रा­प्ति­वि­षया इत्यत्र किं विनि­ग­म­क­मि­त्या­श­ङ्क्याह —
कार्ये हीति ।
कार्ये हिरण्यगर्भाख्ये ब्रह्मणि प्राप्ते सति तल्लोके स्त्र्यादयो विषयाः सन्ति, न कार­ण­त्वो­प­ल­क्षिते निर्गु­ण­वि­द्या­प्राप्ये विशुद्धे ब्रह्मणि विषयाः सन्ति, विद्यया अवि­द्या­त­त्का­र्य­जा­तस्य सर्वस्य निवृत्तत्वात् निर्गुणमुक्तस्य निरुपाधिकत्वेन भोक्तृ­त्वा­यो­गा­च्चे­त्यर्थः । कार्यब्रह्मलोके स्त्र्यादि­वि­षयाः सन्तीत्यत्र ‘स यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति’ इत्या­दि­श्रु­ति­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः ।

परममुक्तौ भोगाभावे मानमाह —
एकमेवेत्यादिना ।
सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­र­हितं ब्रह्मेत्यर्थः ।

यत्रेति ।
अन्योऽ­न्य­त्प­श्य­ती­त्ये­व­मा­त्मकं प्रसिद्धं द्वैतं यत्र वस्तुतो नास्ति स भूमेत्यर्थः ।

तत्केनेति ।
तत्तदा विदेहकैवल्यसमये केन करणेन कं विषयं पश्येदित्यर्थः । एतेन निर्गु­ण­वि­द्या­प्र­क­र­ण­ग­ता­नाम् ‘स एकधा भवति’ ‘स्त्रीभिर्वा यानैर्वा’ इत्या­द्यै­श्व­र्य­श्रु­तीनां सगु­ण­मु­क्त­वि­ष­य­त्व­क­ल्प­न­म­यु­क्त­मिति शङ्कापि निरस्ता, परममुक्तौ भोगासम्भवस्य ‘तत्केन कम्’ इत्या­दि­श्रु­ति­सि­द्ध­त्वात् , ‘मात्रा­सं­स­र्ग­स्त्वस्य भवति’ इत्यादिश्रुत्या मुक्तस्य सर्वो­पा­ध्य­भा­व­प्र­ति­पा­द­नेन विष­य­भो­गा­स­म्भ­वाच्च । तथा चैश्व­र्य­श्रु­तीनां प्रकरणे निवे­शा­स­म्भ­वा­त्का­र्य­ब्र­ह्म­प्रा­प्ता­ना­मै­श्व­र्य­स­म्भ­वाच्च साम­र्थ्या­नु­सा­रेण प्रक­र­ण­मु­ल्लङ्घ्य सगु­ण­वि­द्या­शे­ष­त्व­क­ल्प­न­द्वारा सगु­ण­मु­क्त­वि­ष­य­त्व­क­ल्पनं युक्तमेवेति ।

एव­म­वि­द्या­नि­वृत्तौ कर्म­णा­म­नु­प­यो­गा­द्ब्र­ह्म­भा­व­ल­क्ष­ण­मो­क्षस्य कर्म­सा­ध्य­त्वा­भा­वाच्च मुक्तौ विद्यैव हेतुर्न विद्याकर्मणोः समुच्चय इति प्रतिपादितम् । इदानीं समुच्चयासम्भवे हेत्वन्तरमाह —
विरोधाच्चेति ।

विरोधमेव प्रपञ्चयति —
प्रविलीनेति ।
कर्त्रा­दि­का­र­क­ल­क्षणा विशेषाः प्रविलीना यस्मिन्ब्रह्मणि तत्तथा, निर्विशेषमिति यावत् । तादृ­श­ब्र­ह्म­वि­षया विद्या यथो­क्त­ब्र­ह्म­वि­प­री­तेन कर्त्रा­दि­का­र­क­जा­तेन साध्यं यत्कर्म तेन विरुध्यते । हि प्रसि­द्ध­मे­त­दि­त्यर्थः ।

ननु ब्रह्मणो निर्विशेषत्वे सिद्धे सद्विषयविद्यया कर्त्रा­दि­द्वै­त­बा­धा­व­श्य­म्भा­वा­त्क­र्मा­नु­ष्ठानं न सम्भवतीति विद्या­क­र्म­णो­र्वि­रोधः स्यात् , न तु तत्सि­द्ध­मि­त्या­शङ्क्य तस्य निर्विशेषत्वं साधयति —
न ह्येकमित्यादिना ।
ब्रह्मणो जग­दु­पा­दा­न­त्व­श्रु­त्य­नु­रो­धेन कर्त्रा­दि­स­क­ल­द्वै­ता­स्प­दत्वं प्रतीयते ‘नेति नेति’ इत्या­दि­नि­षे­ध­श्रु­ति­भि­स्तस्य सर्व­वि­शे­ष­शू­न्यत्वं च प्रतीयते ; न चैकं वस्तु परमार्थत उभयवत्तया प्रमाणतो निश्चेतुं शक्यत इत्यर्थः । तत्र विरोधादिति युक्तिसूचनार्थो हि-शब्दः ।

ततः किम् ? तत्राह —
अवश्यं हीति ।
लोके पुरोवर्तिनि प्रतीतयोः रज­त­त्व­शु­क्ति­त्व­यो­र्वि­रु­द्ध­यो­र­न्य­त­रस्य मिथ्या­त्व­द­र्श­ना­दिति हि-शब्दार्थः ।

नन्वन्यतरस्य मिथ्या­त्वा­व­श्य­म्भा­वेऽपि ब्रह्मणो निर्विशेषत्वमेव मिथ्यास्तु ; तत्राह —
अन्यतरस्य चेति ।
स्वाभाविकमनादि यदज्ञानं तद्विषयस्य तद्वि­ष­य­ब्र­ह्म­का­र्यस्य द्वैतस्य स्वका­र­णा­ज्ञा­न­स­हि­तस्य यन्मिथ्यात्वं तद्यु­क्त­मि­त्यर्थः ।

द्वैतस्य मिथ्यात्वे मानमाह —
यत्र हीत्यादिना ।
यत्राविद्याकाले द्वैतशब्दितं जगल्लब्धात्मकं भवति, तदा इतर इतरं पश्यतीति श्रुत्यर्थः । श्रुताविवकारो मिथ्यात्ववाची, न सादृश्यवाची, उप­मे­या­नु­प­ल­म्भा­दिति भावः । य इह ब्रह्मणि नानाभूतं वस्तुतः कल्पितं जगत्परमार्थं पश्यति, स मृत्यो­र्म­र­णा­न्मृत्युं मरणमेव प्राप्नोतीति द्वैत­स­त्य­त्व­द­र्शि­नोऽ­न­र्थ­प­र­म्प­रा­प्रा­प्त्य­भि­धा­ना­दपि तस्य मिथ्यात्वमेव युक्तमित्यर्थः । अथ भूम­ल­क्ष­णो­क्त्य­न­न्तरं तद्वि­प­री­त­स्या­ल्पस्य लक्षणमुच्यते भूम­ल­क्ष­ण­दा­र्ढ्याय — यत्र जगति अन्यदन्यः पश्यति तदल्पम् ; अतो यत्र दर्श­ना­दि­द्वै­ता­भा­व­स्तस्य भूमरूपता युक्तेत्यर्थः ; द्वैत­स्या­ल्प­त्वा­त्स्व­प्न­द्वै­त­व­न्मि­थ्या­त्व­मिति भावः । यः पर­मे­श्व­र­म­न्योऽ­सा­व­न्योऽ­ह­म­स्मीति चिन्तयति स न पर­मा­त्म­न­स्तत्त्वं वेदेति श्रुत्या जीवस्य पर­मा­त्मा­भे­द­वि­रो­धि­सं­सा­र­ल­क्ष­ण­द्वै­तस्य मिथ्या­त्व­म­व­ग­म्यत इति भावः । यस्तु स्वस्ये­श्व­रा­द­ल्प­मपि भेदं पश्यति, तस्य तदानीमेव भयं भवतीति श्रुत्या जीवे­श्व­र­भे­दो­प­ल­क्षि­तस्य जगतो मिथ्यात्वं भातीति भावः । ‘सर्वं तं परा­दा­द्योऽ­न्य­त्रा­त्मनः सर्वं वेद’ इत्या­दि­श्रु­ति­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

एकत्वशब्दितस्य निर्वि­शे­ष­ब्र­ह्मणः सत्यत्वं च युक्तमित्यत्र हेतुत्वेन श्रुतीरूदाहरति —
एकधैवेति ।
एकरूपेणैव ब्रह्म आचार्योपदेशमनु साक्षा­त्क­र्त­व्य­मि­त्यर्थः । अत्रैकरूपत्वं निर्वि­शे­ष­चै­त­न्य­रू­प­त्वम् , ‘प्रज्ञानघन एव’ इति वाक्य­शे­ष­द­र्श­ना­दिति भावः । ‘ब्रह्मैवेदं सर्वम्’ इति सामानाधिकरण्यं ब्रह्म­व्य­ति­रे­केण सर्वं वस्तुतो नास्ति ; ततश्च ब्रह्म निर्वि­शे­ष­मि­त्ये­त­द­भि­प्रा­य­कम् ; एतदभिप्रायकत्वं चास्य सामा­ना­धि­क­र­ण्यस्य भाष्य­का­रै­र्द्यु­भ्वा­द्या­वि­क­रणे प्रपञ्चितम् ; नेह विस्त­र­भ­या­त्त­ल्लि­ख्यते । सर्व­मि­त्या­दी­त्या­दि­प­देन ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘तत्स­त्य­मि­त्या­च­क्षते’ ‘तत्सत्यं स आत्मा’ इत्यादिश्रुतयो गृह्यन्ते ।

ननूक्तरीत्या सर्वस्य दृश्यजातस्य चिदेकरसे ब्रह्म­ण्य­ध्य­स्त­तया सर्वा­धि­ष्ठा­न­भू­त­ब्र­ह्म­त­त्त्व­वि­द्यया सर्वस्य द्वैतस्य बाधि­त­त्वा­द्व­स्तुतो जग­द्भे­दा­द­र्श­नेऽपि विदुषः कर्मानुष्ठानं कुतो न सम्भवति, यतो विद्या­क­र्म­णो­र्वि­रोधो भवे­दि­त्या­श­ङ्क्याह —
न चेति ।
सम्प्रदानं कर्म­ण्यु­द्देश्या देवता । कर्तृ­क­र­णा­दि­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । स्वप्नवज्जगति माया­मा­त्र­त्व­नि­श्चये सति न प्रवृ­त्ति­रु­प­प­द्यत इति भावः ।

रज्जु­त­त्त्व­सा­क्षा­त्का­रेण रज्जा­व­ध्य­स्त­स­र्प­स्येव ब्रह्म­त­त्त्व­सा­क्षा­त्का­रेण ब्रह्म­ण्य­ध्य­स्त­द्वै­त­स्यो­प­मर्दे युक्तिसिद्धे श्रुतयोऽपि सन्तीत्याह —
अन्य­त्व­द­र्श­ना­प­वा­द­श्चेति ।
अधि­ष्ठा­न­या­था­त्म्य­ज्ञा­न­स्या­ध्या­स­नि­व­र्त­क­त्व­नि­य­म­द­र्श­न­रू­प­यु­क्ति­स­मु­च्च­या­र्थ­श्च­कारः । विद्याविषये ब्रह्मणि विद्या­सा­म­र्थ्या­द्द्वै­त­द­र्श­न­बाधः ‘तत्केन कं पश्येत्’ इत्या­दि­श्रु­ति­षू­प­ल­भ्यत इत्यर्थः । तदुक्तं सूत्रकारेण ‘उपमर्दं च’ इति । विद्यया कर्म­सा­ध­न­का­र­क­जा­त­स्यो­प­मर्दं वाजसनेयिन आमनन्तीति सूत्रार्थः ।

अत इति ।
कर्मसाधनानां विद्य­यो­प­म­र्दि­त­त्वा­दि­त्यर्थः ।

अतश्चेति ।
विरो­धा­च्चे­त्यर्थः ।

समु­च्च­या­नु­प­पत्तौ फलितमाह —
अत्र यदुक्तमिति ।
मोक्ष इत्य­नु­प­प­न्न­मि­त्य­न­न्तरं तदयुक्तमित्यपि क्वचित्पाठो दृश्यते । तदानीमित्थं योजना — संहताभ्यां विद्याकर्मभ्यां मोक्ष इति कृत्वा केवलविद्याया मोक्ष­हे­तु­त्व­म­नु­प­प­न्न­मिति यदुक्तं तदयुक्तमिति ॥

द्वैतस्य मिथ्यात्वे कर्म­श्रु­ती­ना­म­प्रा­माण्यं स्यादिति शङ्कते —
विहितत्वादिति ।

शङ्कां विवृणोति —
यद्यु­प­मृ­द्ये­त्या­दिना ।
उपमर्धो मिथ्यात्वबोधनम् । विधीयते उपदिश्यते ।

सर्पादीति ।
रज्जौ सर्पोऽयमिति भ्रान्तं प्रति मिथ्यैव सर्पो न वस्तुतः सर्पोऽस्ति रज्जु­रे­वै­षे­त्या­प्तेन यथा रज्जु­त­त्त्व­वि­ष­यकं विज्ञा­न­मु­प­दि­श्यते तथेत्यर्थः । शुक्त्या­दि­स­ङ्ग्र­हार्थं द्वितीयमादिपदम् । प्रथमं तु रज­ता­दि­स­ङ्ग्र­हा­र्थ­मिति विभागः ।

निर्वि­ष­य­त्वा­दिति ।
सत्य­वि­ष­य­र­हि­त­त्वा­दि­त्यर्थः । कल्पितद्वैतस्य रज्जुसर्पादेरिव कार्या­क्ष­म­त्वा­दिति भावः ।

विहितत्वादिति हेतुरपि प्रतिपन्न इत्याह —
विहितानि चेति ।

कर्म­श्रु­ति­वि­रो­धा­पा­दने इष्टापत्तिं वारयति —
स चेति ।
तथा च द्वैत­सा­पे­क्ष­क­र्म­श्रु­ती­ना­म­द्वै­त­ब्र­ह्म­बो­ध­क­वि­द्या­श्रु­तीनां च पर­स्प­र­वि­रो­धा­द­प्रा­मा­ण्य­प्र­सङ्ग इति भावः ।

विद्या­क­र्म­श्रु­तीनां परस्परमविरोधेन पुरु­षा­र्थो­प­दे­श­मात्रे प्रवृ­त्त­त्वा­न्ना­प्रा­मा­ण्य­प्र­सङ्ग इति समाधत्ते —
नेत्यादिना ।

तत्र प्रथमं विद्याश्रुतीनां कर्म­श्रु­त्य­वि­रु­द्ध­पु­रु­षा­र्थो­प­देशे प्रवृत्तिं दर्शयति —
विद्योपदेशेति ।
विद्योपदेशपरा ताव­च्छ्रु­ति­र्वि­द्या­प्र­का­श­क­त्वेन प्रवृत्तेति सम्बन्धः ।

श्रुतौ विद्यानिरूपणस्य प्रयोजनमाह —
संसारहेतोरिति ।
कर्तव्येतीति ।

अत्रे­ति­प­दा­न­न्तरं कृत्वेति शेषः । संसा­र­हे­त्व­वि­द्या­नि­व­र्तिकां विद्यां प्रकाशयन्त्याः श्रुतेराशयं दर्शयति —
संसारादिति ।
तथा च मुमु­क्षो­र्मो­क्ष­सा­ध­न­वि­द्या­ल­क्ष­ण­पु­रु­षा­र्थो­प­दे­शाय प्रवृत्ता विद्याश्रुतिः, अतो न विद्याश्रुतेः कर्मश्रुत्या विरोध इत्यर्थः ।

इदानीं विद्या­श्रु­त्य­वि­रु­द्ध­पु­रु­षा­र्थो­प­दे­श­प­रत्वं कर्म­श्रु­ती­ना­मा­श­ङ्का­पू­र्वकं दर्शयति —
एवमपीत्यादिना ।
एवमपीत्यस्य विद्याश्रुतेः कर्मश्रुत्या विरो­धा­भा­वेऽ­पी­त्यर्थः ।

विरुध्यत एवेति ।
द्वैत­स­त्य­त्वा­प­हा­रिण्या विद्याश्रुत्या तत्सत्यत्वपरा कर्म­श्रु­ति­र्वि­रु­ध्यत एवेति शङ्कार्थः ।

श्रेयः­सा­ध­न­रू­प­पु­रु­षा­र्थो­प­दे­श­प­रायाः कर्मश्रुतेः कार­का­दि­द्वै­ता­स्ति­त्वेऽपि तात्प­र्या­भा­वान्न विरोध इति परिहरति —
न यथा­प्रा­प्त­मे­वेति ।
भ्रान्ति­प्रा­प्त­मे­वे­त्यर्थः ।

फलेति ।
स्वर्ग­प­श्वा­दि­फ­ला­र्थिनां फलसाधनं च विद­ध­च्छा­स्त्र­मि­त्यर्थः ।

व्याप्रियत इति ।
गौरवादिति भावः । न च द्वैतस्य मिथ्यात्वे शुक्ति­रू­प्या­दि­व­द­र्थ­क्रि­या­सा­म­र्थ्या­भा­वा­त्का­र­कादेः फलसाधनतादिकं न स्यादिति वाच्यम् ; विय­दा­दि­प्र­प­ञ्चस्य मिथ्यात्वेऽपि शुक्ति­र­ज­ता­दि­वै­ल­क्ष­ण्येन याव­त्त­त्त्व­ज्ञा­न­म­र्थ­क्रि­या­सा­म­र्थ्या­ङ्गी­का­रात् । इदं चार­म्भ­णा­धि­क­र­णादौ प्रपञ्चितं तत्रै­वा­नु­स­न्धे­य­मिति भावः ।

ननु मुमुक्षूणां मोक्षसाधनीभूता विद्या शास्त्रेण विधातव्या न तु दुरितक्षयार्थं कर्माणि, विद्यायां मोक्षे वा उपा­त्त­दु­रि­त­क्ष­य­स्या­नु­प­यो­गा­दि­त्या­श­ङ्क्याह —
उपचितेति ।

प्रतिबन्धस्य हीति ।
प्रतिबन्धवतः पुंसः इत्यर्थः । ‘ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मणः’ इत्या­दि­शा­स्त्र­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः ।

ततश्चेति ।
विद्यो­द­या­दि­त्यर्थः । च-शब्दो विद्यायाः कर्मा­स­मु­च्चि­त­त्व­रू­प­कै­व­ल्यार्थः ।

तत आत्यन्तिक इति ।
तथा च कर्मकाण्डस्य निःश्रे­य­स­प­र्य­व­सा­यिनो दुरितक्षयस्य स्वर्गादिफलस्य च साधनत्वेन कर्मणामुपदेशे तात्पर्यमिति कर्मश्रुतीनां पुरु­षा­र्थो­प­दे­श­प­रत्वं प्रदर्शितमिति बोध्यम् ।

एवं द्वैत­मि­थ्या­त्व­सा­ध­न­प्र­स­ङ्ग­प्राप्तं विद्या­क­र्म­श्रु­तीनां परस्पविरोधं परिहृत्य प्रकृतायां विद्याकर्मणोः समु­च्च­या­नु­प­पत्तौ प्रकारान्तरेण विरोधं हेतुमाह —
अपि चेति ।

विद्यावतः कर्मासम्भवं वक्तुं कर्मणः काममूलत्वमाह —
अनात्मदर्शिनो हीति ।
अनात्मनि देहा­दा­वा­त्म­त्व­द­र्शिनः स्वव्य­ति­रि­क्ता­न्का­म­यि­त­व्य­प­दा­र्था­न्प­श्य­त­स्त­द्वि­षयः कामो भवति । हि प्रसि­द्ध­मि­त्यर्थः ।

ततः किम् ? तत्राह —
कामयमानश्च करोतीति ।
तदुक्तं भगवता व्यासेन - ‘यद्यद्धि कुरुते जन्तु­स्त­त्त­त्का­मस्य चेष्टितम्’ इति ।

कर्मणां संसारफलकत्वाच्च विदुषः कर्मानुष्ठानं न सम्भवतीत्याशयेन कर्मफलं दर्शयति —
तत्फलेति ।

संसार इति ।
कामिन इति शेषः ।

विद्यावतस्तु कामाभावान्न कर्मा­नु­ष्ठा­न­मि­त्याह —
तद्व्य­ति­रे­के­णे­त्या­दिना ।
आत्मै­क­त्व­द­र्शि­न­स्त­द्व्य­ति­रे­केण आत्मै­क­त्व­व्य­ति­रे­केण काम­यि­त­व्य­वि­ष­या­भा­वा­द­ना­त्म­गो­च­र­का­मा­नु­प­प­त्ति­रि­त्यर्थः ।

ननु तर्ह्यात्मन्येव कामोऽ­स्त्वा­न­न्द­रू­प­त्वा­दा­त्मनः, तथा च तत्कामनया विदुषोऽपि कर्मानुष्ठानं स्यादिति ; नेत्याह —
आत्मनि चेति ।
काम­स्या­त्मा­न्य­वि­ष­य­त्वा­दा­त्मा­नन्दे च विदु­षोऽ­न्य­त्व­भ्रा­न्ते­र्नि­वृ­त्त­त्वा­दा­त्मनि कामानुपपत्तिः, तदनुपपत्तौ च विदुषो मुक्तिरेव पर्यवस्यति ; तथा च मुक्तस्य न कर्मा­नु­ष्ठा­न­प्र­त्या­शेति भावः ।

फलितमाह —
अतोऽपीति ।
विदुषः कामाभावेन कर्मा­नु­ष्ठा­ना­स­म्भ­वा­द­पी­त्यर्थः ।

विरोध इति ।
एकदैकत्र पुरुषे सहानवस्थानलक्षण इत्यर्थः । तथा च समुच्चयवादिमते कर्म­वि­द्या­श्रु­ती­ना­म­प्ये­क­दै­क­पु­रु­ष­वि­ष­य­त्वा­स­म्भ­व­ल­क्ष­ण­वि­रो­धोऽपि तदनिष्टः प्राप्नोतीति भावः ।

विद्या प्रधानं कर्म चोपसर्जनमिति पक्षोऽपि सम­प्रा­धा­न्य­प­क्ष­व­दत एव निरस्त इत्याह —
विरोधादेव चेति ।

स्वमते कर्म­वि­द्या­श्रु­तीनां क्रम­स­मु­च्च­य­प­र­त्वे­ना­वि­रोधं वक्तुं पूर्वोक्तमर्थं स्मारयति —
स्वात्मलाभे त्विति ।
स्वात्मलाभे तु स्वोत्पत्तौ तु विद्या कर्माण्यपेक्षत इति योजना ।

एतदेव विवृणोति —
पूर्वोपचितेति ।

कर्मणां विद्याहेतुत्वे मानमाह —
अत एवेति ।
विद्यो­द­य­हे­तु­त्वा­दे­वे­त्यर्थः ।

कर्मणां शुद्धिद्वारा विद्याहेतुत्वे फलितमाह —
एवं चेति ।
एतेन ‘विद्यां चाविद्यां च’ इति वचनं क्रम­स­मु­च्च­या­भि­प्रा­यम् , उपा­स­न­क­र्म­णो­र्यौ­ग­प­द्येन समु­च्च­या­भि­प्रायं वा भविष्यति ; ‘कर्मणैव हि’ इति वचनमपि कर्मणैव चित्त­शु­द्ध्या­दि­क्र­मेण मुक्तिं प्राप्ता इत्यभिप्रायकं भविष्यति ; ‘तत्प्रा­प्ति­हे­तु­र्वि­ज्ञा­नम्’ इति वचनमपि क्रम­स­मु­च्च­या­भि­प्रा­य­मे­वेति सूचितमिति ध्येयम् ।

पर­म­प्र­कृ­त­मु­प­सं­ह­रति —
अत इति ।
मोक्षे केव­ल­क­र्म­सा­ध्य­त्वस्य समु­च्च­य­सा­ध्य­त्वस्य च निर­स्त­त्वा­दि­त्यर्थः ॥

कर्मणां विद्या­सा­ध­न­त्व­नि­रू­प­ण­मु­प­श्रुत्य लब्धावकाश आश्र­मा­न्त­रा­ण्या­क्षि­पति —
एवं तर्हीति ।
यदि कर्माणि विद्योत्पत्तौ निमित्तानि, तर्ह्या­श्र­मा­न्त­राणां नैष्ठि­क­वा­न­प्र­स्थ­पा­रि­व्रा­ज्य­ल­क्ष­णा­ना­म­नु­प­प­त्ति­र­न­नु­ष्ठे­यता स्यादित्यर्थः ।

विद्योत्पत्तेः कर्म­नि­मि­त्त­क­त्वेऽपि कथ­मा­श्र­मा­न्त­रा­नु­प­पत्तिः ? अत आह —
गार्हस्थ्ये चेति ।
गार्हस्थ्य एवा­ग्नि­हो­त्रा­दीनि कर्माणि विहितानि नाश्रमान्तरेषु, अतो गार्ह­स्थ्य­मे­क­मे­वा­नु­ष्ठे­य­मि­त्यर्थः ।

गार्ह­स्थ्य­स्यै­वा­नु­ष्ठे­यत्वे हेत्वन्तरमाह —
अतश्चेति ।
अत एवानुकूलतरा भवन्तीति योजना । आश्र­मा­न्त­रा­णा­म­नु­ष्ठा­न­पक्षे सर्वे­षा­म­धि­का­रिणां यावज्जीवं कर्मा­नु­ष्ठा­ना­ला­भा­द्या­व­ज्जी­वा­दि­श्रु­तयो नानुकूलतराः स्युरित्यर्थः । आश्र­मा­न्त­रा­नु­ष्ठा­न­प­क्षेऽपि याव­ज्जी­वा­दि­श्रु­त­योऽ­नु­कूला भवन्त्येव, कर्मणां विद्या­हे­तु­त्वेऽपि विद्या­म­का­म­य­मा­नै­र्गृ­हस्थैः प्रत्य­वा­य­प­रि­हा­रार्थं यावज्जीवं कर्म­णा­म­नु­ष्ठा­नात् , इदानीं तु विद्याकामैरपि विद्योत्पत्तये यावज्जीवं गार्हस्थ्य एव स्थित्वा कर्मा­ण्य­नु­ष्ठे­या­नीति विशे­ष­ला­भा­द­नु­कू­ल­तराः स्युरि­त्यु­क्त­मिति मन्तव्यम् । आदिपदेन ‘वीरहा वा एष देवानां योऽग्नि­मु­द्वा­स­यते’ इत्याद्या आश्र­मा­न्त­र­नि­षे­ध­श्रु­तयो गृह्यन्ते ।

अत्र किमा­श्र­मा­न्त­रा­णा­म­वि­हि­त­त्वा­द­न­नु­ष्ठे­य­त्वम् , किं वा तेषां प्रतिषेधात् , अथ वा तेषु विद्या­हे­तु­क­र्मा­भा­वात् ? नाद्यः श्रुति­स्मृ­त्यो­रा­श्र­मा­न्त­राणां विधिदर्शनात् । न द्वितीयः, निषे­ध­श्रु­ते­र्या­व­ज्जी­वा­दि­श्रु­ते­श्चा­वि­र­क्त­वि­ष­य­तया सङ्कोचोपपत्तेः, अन्यथा सांसा­रि­क­फ­ला­द्वि­र­क्तस्य ‘यदहरेव विरजेत्’ इत्या­दि­सं­न्या­स­वि­धि­वि­रो­ध­प्र­स­ङ्गात् । न तृतीय इत्याह —
न कर्मा­ने­क­त्वा­दिति ।
विद्या­हे­तु­भू­तानां कर्मणां नाना­वि­ध­त्वा­दा­श्र­मा­न्त­रे­ष्वपि सन्त्येव विद्यासाधनानि कर्माणि, अतो नाश्र­मा­न्त­रा­नु­प­प­त्ति­रि­त्यर्थः ।

ननु यानि गार्हस्थ्ये विहितानि तान्येव कर्माणि, नाश्रमान्तरेषु विहितानि ब्रह्म­च­र्या­दी­नी­त्या­श­ङ्क्याह —
न हीति ।
न ह्यग्नि­हो­त्रा­दी­न्येव कर्माणि, किं तु ब्रह्म­च­र्या­दी­न्यपि कर्माणि भवन्त्येव अनु­ष्ठे­य­त्वा­वि­शे­षा­दि­त्यर्थः ।

तान्ये­वा­श्र­मा­न्त­रेषु श्रुत्या­दि­सि­द्धानि कर्माणि प्रप­ञ्च­य­न्वि­द्यो­त्पत्तिं प्रति तेषां गार्हस्थ्ये विहितकर्मभ्यः सकाशादतिशयं दर्शयति —
ब्रह्मचर्यं तप इत्यादिना ।

असङ्कीर्णानीति ।
हिंसा­नृ­त­व­च­ना­दि­दो­षै­र­स­ङ्की­र्णा­नी­त्यर्थः ।

आश्र­मा­न्त­र­स्थानां चित्तै­का­ग्र्य­त­त्त्व­वि­चा­रा­दि­क­र्मणां विद्यासाधनत्वे मानमाह —
वक्ष्यति चेति ।
‘सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्’ इत्या­दि­श्रु­ति­स­ङ्ग्र­हा­र्थ­श्च­कारः ।

इतश्च कर्मणां विद्या­सा­ध­न­त्वेऽपि न गार्ह­स्थ्य­मा­व­श्यि­कम् , अतो नैका­श्र­म्य­नि­र्बन्ध इत्याशयेनाह —
जन्मान्तरेति ।
केषा­ञ्चि­ज्ज­न्मा­न्त­र­कृ­त­क­र्मभ्य एव दार­स­ङ्ग्र­हा­त्प्रा­गपि विद्यो­द­य­स­म्भ­वा­त्तेषां गार्ह­स्थ्य­प्रा­प्ति­र­न­र्थिका ।

ननू­त्प­न्न­वि­द्या­ना­मपि गार्ह­स्थ्य­प्रा­प्ति­रस्तु ; नेत्याह —
कर्मा­र्थ­त्वा­च्चेति ।
‘जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय’ इत्या­दि­श्रु­ति­प­र्या­लो­च­नया गार्ह­स्थ्य­प्राप्तेः कर्मा­नु­ष्ठा­ना­र्थ­त्व­स्यै­वा­व­ग­मा­त्क­र्म­फ­ल­भू­तायां विद्यायां सिद्धायां तत्प्रा­प्ति­र­न­र्थि­कै­वे­त्यर्थः ।

कर्मसाध्यायां चेति ।
कर्मभिः साध­नी­या­या­मि­त्यर्थः । चकारो विदुषः कर्मा­स­म्भ­व­सू­च­नार्थः ।

सर्वेषां गार्ह­स्थ्य­नि­र्ब­न्धा­भावे हेत्वन्तरमाह —
लोका­र्थ­त्वा­च्चेति ।

ननु पुत्र­क­र्मा­प­र­वि­द्यानां गार्हस्थ्ये सम्पादनीयानां लोक­त्र­या­र्थ­त्वेऽपि जन्मा­न्त­र­कृ­त­क­र्म­भि­रु­त्प­न्न­वि­द्येन पुंसा गार्हस्थ्यं प्राप्तव्यमेव, तस्यापि लोकार्थत्वादिति ; नेत्याह —
पुत्रादीति ।
‘अयं लोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्ययादेवलोकः’ इति श्रुत्या पृथिवीलोकादीनां पुत्रा­दि­सा­ध्य­त्व­म­व­ग­म्यते । एतेभ्यश्च पुत्रा­दि­सा­ध्येभ्यो लोकेभ्यो व्यावृ­त्त­का­म­त्वान्न तस्यात्मदर्शिनः कर्मा­नु­ष्ठा­नो­प­यो­गिनि गार्हस्थ्ये प्रवृ­त्ति­रु­प­प­द्यते । नित्यसिद्ध आत्मैव लोकनं लोक इति व्युत्पत्त्या लोकः लोकनं चैतन्यम् । इदं च नित्य­सि­द्धा­त्म­लो­क­द­र्शित्वं व्यावृ­त्त­का­मत्वे हेतुतयोपात्तम् । तदुक्तं भगवता — ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति । रसो रागः ।

एवं ब्रह्मचर्याश्रम एवो­त्प­न्न­वि­द्यानां न गार्ह­स्थ्य­म­पे­क्षि­त­मि­त्यु­क्तम् । इदानीं गृहस्थस्य सतो विद्योदयेऽपि गार्ह­स्थ्य­प­रि­त्याग एव न्याय्य इत्याह —
प्रतिपन्नेति ।
विद्यायाः परिपाकः प्रति­ब­न्ध­रा­हि­त्यम् ; अप्र­ति­ब­न्धा­त्म­वि­द्या­ब­लेन कर्मफलेभ्यो नितरां विर­क्त­स्ये­त्यर्थः ।

निवृत्तिरेवेति ।
विधिना कर्म­प­रि­त्या­ग­रू­प­सं­न्यास एव स्यादित्यर्थः । अरे मैत्रेयि, अस्मा­त्प्र­त्य­क्षा­त्स्था­ना­द्गा­र्ह­स्थ्यात् प्रव्र­जि­ष्य­न्ने­वास्मि त्यक्त्वेदं गार्हस्थ्यं पारिव्राज्यं करिष्यन्नस्मीति प्रति­ज्ञा­पू­र्वकं यज्ञवल्क्यः प्रवव्राजेति विदुषो याज्ञवल्क्यस्य पारिव्राज्ये प्रवृ­त्ति­द­र्श­ना­ल्लि­ङ्गा­दि­त्यर्थः । एव­मा­दी­त्या­दि­प­देन ‘आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इत्यादीनि श्रुतिलिङ्गानि गृह्यन्ते । न कर्मा­ने­क­त्वा­दि­त्या­दिना कर्मणां विद्या­सा­ध­न­त्वेऽपि यथा विद्याकामेन गार्ह­स्थ्य­म­नु­ष्ठातुं शक्यते तथै­वा­श्र­मा­न्त­रा­ण्यपि यथा­रु­च्य­नु­ष्ठातुं शक्यन्ते, तेष्वपि विद्या­सा­ध­न­क­र्मणां सत्त्वात् । तथा च वचनम् ‘तस्या­श्र­म­वि­क­ल्प­मेके समामनन्ति’ इति । अत्र च वचने तच्छब्दो ब्रह्मचारिपरः । अनन्तरं च जन्मा­न्त­र­कृ­ते­त्या­दिना विदुषः पारि­व्रा­ज्य­मे­वे­त्यु­क्तम् ।

इत्थं गार्ह­स्थ्य­स्या­ना­व­श्यि­क­त्वा­दा­श्र­माणां वैक­ल्पि­क­म­नु­ष्ठा­न­मु­क्त­मा­क्षि­पति —
कर्म प्रतीति ।
श्रुते­र­ग्नि­हो­त्रा­दि­क­र्मसु तात्प­र्या­ति­श­य­व­त्त्वा­द­ग्नि­हो­त्रा­दि­ध­र्म­युक्तं गार्हस्थ्यं प्रबलम् , अतोऽ­तु­ल्य­त्वा­द्गा­र्ह­स्थ्या­न­धि­कृ­त­वि­ष­य­मा­श्र­मा­न्त­र­वि­धा­न­मि­त्यर्थः ।

आक्षेपं विवृणोति —
अग्निहोत्रादीति ।
अधिको यत्नः तात्पर्यातिशयः । ‘एष आदेशः’ इत्या­दि­व­च­न­प­र्या­लो­च­नया श्रुते­र्य­त्ना­धि­क्या­व­ग­मा­दिति भावः ।

गार्हस्थ्यस्य प्राबल्ये हेत्वन्तरमाह —
महांश्चेति ।

इतश्च तस्य प्राबल्यमित्याह —
तपो­ब्र­ह्म­च­र्या­दीनां चेति ।
यानि चाश्र­मा­न्त­र­स्थानि कर्माणि तान्यपि यथासम्भवं गृहस्थानां सन्त्येव, परं त्वग्नि­हो­त्रा­दी­न्य­धि­कानि ; तथा च गार्हस्थ्यस्य धर्म­बा­हु­ल्या­त्प्रा­ब­ल्य­मि­त्यर्थः ।

इत­रा­श्र­म­क­र्म­णा­मा­या­सा­धि­क्या­भावे हेतुमाह —
अनन्येति ।
ऋत्वि­ग्वि­त्ता­दि­सा­ध­ना­पे­क्ष­त्वा­भा­वा­दि­त्यर्थः ।

तस्येति ।
गृह­स्थ­स्ये­त्यर्थः ।

यत्ना­धि­क्या­या­स­बा­हु­ल्य­ध­र्म­बा­हु­ल्या­ना­म­न्य­था­सि­द्ध­त्वा­द्गा­र्ह­स्थ्य­प्रा­ब­ल्य­प्र­यो­ज­क­त्व­म­सि­द्ध­मिति मन्वानः कर्मफलभूतायां विद्यायां विरक्तौ वा लब्धायां पुनः कर्मा­नु­ष्ठा­नै­क­प्र­यो­जने गार्हस्थ्ये प्रवृ­त्ति­र्वि­फ­लेति परिहरति —
न जन्मा­न्त­र­कृ­ता­नु­ग्र­हा­दिति ।

सङ्ग्रहवाक्यं विवृणोति —
यदु­क्त­मि­त्या­दिना ।

ब्रह्म­च­र्या­दि­ल­क्षणं चेति ।
आश्र­मा­न्त­र­स्थ­मिति शेषः ।

जन्मा­न्त­र­कृ­त­शु­भा­शु­भ­क­र्म­णा­म­स्मि­ञ्ज­न्मनि स्वफ­लो­त्पा­द­कत्वे लिङ्गमाह —
येनेति ।

कर्मसु प्रवृत्तौ हेतुं सूचयति —
अविरक्ता इति ।

अत एवाह —
विद्याविद्वेषिण इति ।
विद्यायाः सांसा­रि­क­भो­ग­वि­रो­धि­त्वा­त्तत्र रागिणां वैमुख्यं युक्तम् । इदं च वैमु­ख्य­म­शु­भ­क­र्म­फ­ल­म­न­र्थ­प­र­म्प­रा­व­ह­त्वात् । येन जन्मनैव वैराग्यादिकं केषा­ञ्चि­द्दृ­श्यते तेन जन्मा­न्त­र­कृ­त­म­प्य­नु­ग्रा­हकं भवति ; यतो जन्मा­न्त­र­कृ­त­म­प्य­नु­ग्रा­हकं भवति, तस्मा­ज्ज­न्मा­न्त­र­कृ­त­क­र्म­ज­नि­त­सं­स्का­रेभ्यो विर­क्ता­ना­मु­त्प­न्न­वि­द्या­ना­म­नु­त्प­न्न­वि­द्यानां च पारि­व्रा­ज्य­प्रा­प्ति­रे­वे­ष्यते न गार्ह­स्थ्य­प्राप्तिः, कर्मप्रयोजनस्य सिद्ध­त्वा­दि­त्यर्थः ।

इदानीं यत्ना­धि­क्या­दे­र­न्य­था­सि­द्धि­माह —
कर्म­फ­ल­बा­हु­ल्या­च्चेति ।
यद्वा जन्मा­न्त­र­कृ­ता­नु­ग्र­हा­दि­त्य­नेन जन्मा­न्त­र­कृ­ता­ना­म­प्य­ग्नि­हो­त्रा­दीनां यतो विद्यां प्रत्य­नु­ग्रा­ह­क­त्व­म­तोऽ­ग्नि­हो­त्रा­दि­क­र्मसु श्रुते­र्य­त्ना­धि­क्या­दि­क­मु­प­प­द्यत इति यत्ना­धि­क्या­दे­र­न्य­था­सि­द्धा­वेको हेतुरुक्तः ।

हेत्वन्तरमाह —
कर्म­फ­ल­बा­हु­ल्या­च्चेति ।

काम­बा­हु­ल्या­दि­त्यु­क्त­म­नु­भ­वेन साधयति —
आशिषामिति ।
अभ्यु­द­य­फ­ला­ना­म­स­ङ्ख्ये­य­त्वा­देव तत्सा­ध­न­क­र्मा­नु­ष्ठा­नो­प­यो­गिनि गृहाश्रमे कर्मबाहुल्यं कर्म­णा­मा­या­स­बा­हुल्यं चेति भावः ।

अग्नि­हो­त्रा­दीनां विद्यां प्रत्यु­पा­य­त्वाच्च तत्र यत्ना­धि­क्या­दि­क­मि­त्य­न्य­था­सिद्धौ हेत्वन्तरमाह —
उपायत्वाच्चेति ।
उपेयं फलम् । तथा च गार्ह­स्थ्य­प्रा­बल्ये माना­भा­वा­दा­श्र­मा­न्त­र­स्थ­क­र्मणां विद्यां प्रति साध­क­त­म­त्वे­ना­श्र­मा­न्त­रा­णा­मेव प्राब­ल्य­स­म्भ­वाच्च विरक्तानां कर्मा­नु­ष्ठा­न­सा­मर्थ्ये सत्यपि पारिव्राज्यमेव युक्तमिति भावः ।

पूर्वं स्वात्मलाभे त्वित्या­दा­व­ग्नि­हो­त्रा­दि­क­र्मणां प्रति­ब­न्ध­क­दु­रि­त­क्ष­य­द्वारा विद्या­हे­तु­त्व­मु­क्तम् ; तदुपश्रुत्य शङ्कते —
कर्म­नि­मि­त्त­त्वा­दिति ।

किं तद्य­त्ना­न्त­र­मि­त्या­का­ङ्क्षायां सङ्ग्रहं विवृणोति —
कर्मभ्य एवेति ।

श्रव­णा­दि­वै­यर्थ्यं परिहरति —
न, नियमाभावादिति ।
ईश्वरप्रसादपदेन तद्धे­तु­भू­तो­प­नि­ष­च्छ्र­व­णा­दि­यत्नो लक्ष्यते, ईश्व­र­प्र­सा­द­स्या­न­नु­ष्ठे­य­त्वा­च्छ्र­व­णा­दि­य­त्नस्य प्रकृतत्वाच्च । तथा च लोके कर्म­कृ­ता­त्प्र­ति­ब­न्ध­क्ष­या­देव विद्या जायते न तु श्रव­णा­द्य­नु­ष्ठा­ना­दिति नियमो नास्ति, नास्मा­भि­स्त­था­भ्यु­प­ग­म्यते चेत्यर्थः ।

कुत इत्यत आह —
अहिंसेति ।
संन्या­सा­श्र­म­क­र्म­णा­म­हिं­सा­दी­ना­मपि विद्यां प्रत्य­न्त­र­ङ्ग­सा­ध­न­त्वेन तैर्विना कर्मभिः क्षीणपापस्यापि विद्यो­द­या­स­म्भ­वा­दि­त्यर्थः ।

अहिं­सा­द्य­पे­क्ष­यापि श्रवणादौ विशे­ष­म­भि­प्रे­त्याह —
साक्षादेवेति ।
प्रमा­णा­द्य­स­म्भा­व­ना­दि­ल­क्ष­ण­दृ­ष्ट­प्र­ति­ब­न्ध­नि­रा­सेन विद्या­सा­ध­न­त्वा­च्छ्र­व­णा­दे­रा­व­श्य­क­ते­त्यर्थः ।

उपसंहरति —
अतः सिद्धानीति ।
विहि­त­त्वा­वि­शे­षा­दि­यु­क्ते­रि­त्य­तः­श­ब्दार्थः ।

विद्यायामिति ।
विद्या­सा­ध­न­क­र्मसु सर्वे­षा­मा­श्र­मि­णा­म­धि­कारः सिद्ध इत्यर्थः ।

समु­च्च­य­नि­रा­क­र­ण­फ­ल­मु­प­सं­हृ­त­मपि पुनरुपसंहरति चिन्ता­स­मा­प्ति­द्यो­त­ना­र्थम् —
परं श्रेय इति ।
विद्याया इति पञ्चमी ॥