अद्वैतशारदा

वनमालाव्याख्या

ब्रह्मानन्दवल्ली: प्रथमोऽनुवाकः (१)

ननु ‘शं नो मित्रः’ इत्या­दि­शा­न्ते­रा­दा­वेव पठितत्वादिदानीं पुनः किमर्थं पठ्यते ? तत्राह —
शं नो मित्र इत्याद्यतीतेति ।
संहि­तो­प­नि­ष­द्य­ती­तानां विद्यानां प्राप्तौ ये उपसर्गाः विघ्ना­स्ते­षा­मु­प­श­म­नाय ‘शं नो मित्रः’ इत्याद्या शान्तिरादौ पठितेत्यर्थः ।

पुनः पाठ उत्तरार्थ इत्याह —
इदानीमिति ।
यद्यपि पुनःपाठस्यापि पूर्वशेषत्वमेव प्रतीयते ‘आवीन्माम्’ इत्यादिलिङ्गात् , तथा­प्य­ती­त­वि­द्यो­प­स­र्ग­प्र­श­म­न­रू­पस्य प्रार्थ­ना­प्र­यो­ज­नस्य सिद्ध­त्वा­दु­प­क्रमे ‘शं नो भवत्वर्यमा’ इति प्रार्थ­ना­लि­ङ्गाच्च पुनः­पा­ठ­स्यो­त्त­र­वि­द्या­शे­ष­त्व­मु­क्त­मिति मन्तव्यम् ; तथा च ‘तन्मामावीत्’ इत्यादौ तत् वाय्वाख्यमपरं ब्रह्म माम् अप­र­वि­द्या­र्थि­नम् आवीत् अरक्षत् इदानीं परविद्यार्थिनं माम­व­त्वि­त्या­दि­प्र­का­रेण पर­ब्र­ह्म­वि­द्या­शे­ष­त्वा­नु­गु­ण­मु­प­पा­दनं कर्तव्यमिति भावः ।

‘सह नाववतु’ इति शान्तिं प्रती­क­ग्र­ह­ण­पू­र्वकं व्याचष्टे —
सह नाव­व­त्वि­त्या­दिना ।

गुरोः कृता­र्थ­त्वा­च्छिष्य एव गुरोः स्वस्य च क्षेमं प्रार्थयत इत्याह —
रक्षत्विति ।
ब्रह्मेति शेषः ।

भोजयत्विति ।
पालयत्वित्यर्थः । यथा गुरुर्निरालस्य उपदिशति यथा चाह­मु­प­दि­ष्ट­म­र्थ­म­प्र­ति­प­त्ति­वि­प्र­ति­प­त्त्या­दि­र­हितो गृह्णामि तथा पालयत्विति भावः ।

विद्या­नि­मि­त्त­मिति ।
मम विद्योदयं प्रति निमित्ततया यदावयोः साम­र्थ्य­म­पे­क्षि­त­मू­हा­पो­हा­दि­ल­क्षणं तत्सहितावेव निर्वर्तयावहै इत्यर्थः ।

अधीतमिति ।
आवयोः सम्बन्धि यद­धी­त­मु­प­नि­ष­द्ग्र­न्थ­जातं तत्ते­ज­स्व्य­स्त्विति योजना ।

अधीतस्य तेजस्वित्वं सौष्ठवमित्याह —
स्वधीतमिति ।

अपे­क्षि­त­ब्र­ह्म­वि­द्यो­प­यो­गि­त्वेन तदेव सौष्ठवं निरूपयति —
अर्थज्ञानेति ।

ननु शिष्या­चा­र्य­यो­र्द्वेषो न प्रसज्यते पर­स्प­र­म­त्य­न्त­हि­तै­षि­त्वा­दि­त्या­श­ङ्क्याह —
विद्येति ।
विद्याग्रहणं निमित्तीकृत्य कदा­चि­द्वै­म­न­स्य­रूपो द्वेषो प्रसज्यत इत्यर्थः ।

तस्यापि स्वारसिकत्वं व्यावर्तयति —
प्रमादेति ।
अन्य­कृ­त­दु­र्बो­ध­ना­दिना शिष्य­स्या­चा­र्य­वि­ष­येऽ­ना­द­र­रू­पोऽ­प­राधो भवति, तथा आचार्यस्यापि शिष्यविषये तादृग्विध एवापराधो भवति, इदं च लोके प्रसिद्धमिति भावः । शिष्येण तावत्स्वविषये आचा­र्य­क­र्तृ­क­द्वे­षोऽ­वश्यं परिहर्तव्यः, इतरथा अवि­द्या­नि­वृ­त्ति­प­र्य­न्त­वि­द्यो­द­या­स­म्भ­वात् ; तदुक्तं वार्त्तिके - ‘स्याज्ज्ञानं फल­व­द्य­स्मा­च्छा­न्ता­न्तः­क­रणे गुरौ’ इति ; तथा स्वस्या­चा­र्य­वि­ष­य­क­द्वे­षोऽपि सम्य­क्प­रि­ह­र्तव्यः, तस्य तद्भ­क्ति­वि­घ­ट­क­त्वेन भक्तिहीनस्य तादृ­श­वि­द्यो­द­या­स­म्भ­वात् । तथा च श्रुतिः - ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इतीति भावः ।

उक्तार्थमिति ।
त्रिर्व­च­न­मा­ध्या­त्मि­का­धि­भौ­ति­का­धि­दै­वि­कानां विद्या­प्रा­प्त्यु­प­स­र्गाणां प्रशमनार्थमिति ग्रन्थेनेति शेषः ।

सह नाववत्विति शान्ते­र्व­क्ष्य­मा­ण­वि­द्या­शे­षत्वं निर्वि­वा­द­मि­त्या­श­ये­नाह —
वक्ष्यमाणेति ।

‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः’ इत्या­दि­व­च­नै­रा­त्म­वि­द्या­प्राप्तौ विघ्न­बा­हु­ल्या­व­ग­मा­त्त­न्नि­वृ­त्ति­र­वश्यं प्रार्थ­नी­ये­त्याह —
अविघ्नेन हीति ।
इतरथा तत्प्रा­प्त्य­भावः प्रसिद्ध इति हि-शब्दार्थः ।

ननु मुमुक्षुणा आत्म­वि­द्या­प्राप्तिः किमर्थमाशास्यते ? तत्राह —
तन्मूलं हीति ।
प्रकृष्टश्रेयसो मोक्ष­स्या­त्म­वि­द्या­मू­ल­कत्वे ‘तरति शोकमात्मवित्’ इत्या­दि­श्रु­ति­प्र­सि­द्धि­सू­च­नार्थो हि-शब्दः ॥

वृत्ता­नु­वा­द­पू­र्व­क­मा­न­न्द­व­ल्ल्या­स्ता­त्प­र्य­माह –
संहि­ता­दी­त्या­दिना ।

­वक्ष्यमाणविद्यावैलक्षण्यार्थमाह –
कर्म­भि­र­वि­रु­द्धा­नीति ।

कर्म­भि­र­वि­रु­द्ध­मे­वा­न्य­द­प्यु­पा­स­न­मु­क्त­मि­त्याह –
अनन्तरं चेति ।

ननु कर्मसमुच्चितेन व्याहृ­ति­श­री­र­ब्र­ह्मो­पा­स­नेन स्वारा­ज्य­प्रा­प­के­णैव सबीजस्य संसारस्य निवृ­त्ति­स­म्भ­वात्किं निरु­पा­धि­क­ब्र­ह्म­वि­द्या­र­म्भे­णे­त्या­श­ङ्क्याह –
न चैतावतेति ।
कर्म­स­मु­च्चि­ते­नापि सोपा­धि­का­त्म­द­र्श­ने­ने­त्यर्थः ।

अत इति ।
सोपा­धि­का­त्म­द­र्श­न­स्या­धि­ष्ठा­न­या­था­त्म्य­द­र्श­न­रू­प­त्वा­भा­वे­ना­शे­ष­सं­सा­र­बी­जो­प­म­र्दने साम­र्थ्य­र­हि­त­त्वा­दि­त्यर्थः ।

ननु निर्वि­शे­षा­त्म­द­र्श­ना­द­प्य­ज्ञा­नस्य निवृत्तिर्न सम्भवति तस्या­ना­दि­त्वा­दि­त्या­शङ्क्य विरोधिसन्निपाते सत्यनादेरपि निवृत्तिः सम्भवत्येव, प्राग­भा­व­स्या­ना­दे­रपि निवृ­त्ति­द­र्श­नात् , गौरवेण भाव­त्व­वि­शे­ष­णा­यो­गा­दि­त्या­श­ये­नाह –
प्रयोजनं चेति ।
ननु विरो­धि­वि­द्या­व­शा­द­विद्या काम­व­स्था­मा­प­द्यते ? अस­त्त्वा­व­स्था­मा­प­द्यत इति ब्रूमः । तथा हि - यथा मुद्ग­र­पा­ता­दि­रू­प­वि­रो­धि­सं­नि­पा­ता­त्पूर्वं मृदादिदेशेन मुहूर्तादिकालेन जला­ह­र­णा­दि­का­र्येण च सम्बन्धयोग्यं सद्घटादिस्वरूपं विरो­धि­सं­नि­पा­ता­द्दे­श­का­ल­क्रि­याभिः सम्ब­न्धा­यो­ग्य­त्व­ल­क्ष­ण­म­स­त्त्व­मा­प­द्यते, तथा विद्यो­द­य­रू­प­वि­रो­धि­सं­नि­पा­ता­त्पूर्वं चैतन्यरूपदेशेन ईश्व­रा­द्या­त्म­क­का­लेन संसाररूपकार्येण च सम्बन्धयोग्यं सदविद्यास्वरूपं विरो­धि­वि­द्यो­द­य­सं­नि­पा­ता­च्चै­त­न्या­दिना सम्ब­न्धा­यो­ग्य­त्व­ल­क्ष­ण­म­स­त्त्व­मा­प­द्यते । ननु विरोधिसंनिपाते सति घटादेर्ध्वंसो जायत इति चेत् ; किमेतावता ? न हि घटादिरेव ध्वंसरूपाभावो भवति ; अत एव प्रागु­त्प­त्ते­र्ना­शा­दूर्ध्वं च कार्यमसदिति वैशे­षि­का­दि­रा­द्धान्तः । ध्वंसोऽपि जन्मवत्क्षणिको विकारो न पराभिमताभावरूप इति व्यवस्थापितं शास्त्र­सि­द्धा­न्त­ले­श­स­ङ्ग्र­हादौ । ननु सिद्धान्ते विरोधिसंनिपाते सति कार्यस्य स्वप­रि­णा­म्यु­पा­दाने सूक्ष्मा­व­स्था­रू­प­ना­शा­भ्यु­प­ग­मा­न्न­ष्ट­स्यापि घटादिकार्यस्य सूक्ष्म­रू­प­ता­मा­प­न्न­स्यास्ति देशा­दि­स­म्ब­न्ध­यो­ग्य­तेति चेत् , न ; सिद्धान्तेऽपि कार्य­ग­त­स्थू­ला­व­स्थाया विरोधिसंनिपातेन निरु­क्ता­स­त्त्वो­प­ग­मात् । विद्योदये सत्य­वि­द्या­या­स्तु­च्छ­त्वा­प­त्ति­र्वा­र्त्ति­क­का­रै­रुक्ता - ‘प्रत्य­ग्ब्र­ह्मणि विज्ञाते नासीदस्ति भविष्यति’ इति । पञ्च­द­श्या­म­प्यु­क्तम् - ‘विद्यादृष्ट्या श्रुतं तुच्छम्’ इति । विद्यारूपया तत्त्वदृष्ट्या मूला­वि­द्या­या­स्तु­च्छ­त्वा­पत्तिः श्रुतिसिद्धेति तदर्थः । तस्मा­द्वि­द्यो­दये सति चैत­न्य­मा­त्र­म­व­शि­ष्यते, नाविद्या नापि तत्कार्यमिति सङ्क्षेपः ।

नन्व­वि­द्या­नि­वृ­त्तिर्न प्रयोजनम् अस­त्त्वा­प­त्ति­रू­पा­या­स्तस्याः सुख­दुः­खा­भा­वे­त­र­त्वा­दि­त्यत आह –
ततश्चेति ।
अवि­द्या­नि­वृ­त्ति­व­शा­देव तत्का­र्य­सं­सा­रस्य दुःखा­त्म­क­स्या­त्य­न्तिकी निवृत्तिर्भवति ; तथा चावि­द्या­नि­वृ­त्ति­द्वारा संसा­र­दुः­ख­नि­वृ­त्ति­रूपा मुक्ति­र्वि­द्यायाः प्रयो­ज­न­मि­त्यर्थः ।

तत्र मानमाह –
वक्ष्यति चेति ।
भयोपलक्षितं संसारदुःखं न प्राप्नोति विद्वानित्यर्थः ।

अत्रैव पुनर्वचनद्वयमाह –
संसारेति ।
विद्य­या­त्य­न्ति­क­सं­सा­र­नि­वृत्तौ सत्या­मे­वा­भ­य­प्र­ति­ष्ठा­व­चनं पुण्य­पा­प­यो­र­क­र­ण­क­र­णा­नु­स­न्धा­न­प्र­यु­क्त­स­न्ता­पा­भा­व­व­चनं चोप­प­न्न­मि­त्यर्थः ।

साधितं ब्रह्म­वि­द्या­प्र­यो­जनं सप्र­मा­ण­मु­प­सं­ह­रति –
अतोऽवगम्यत इति ।
उपा­हृ­त­व­च­न­जा­ता­दि­त्य­तः­श­ब्दार्थः ।

अस्मा­द्वि­ज्ञा­ना­दिति ।
विधू­त­स­र्वो­पा­धी­त्यत्र प्रकृ­ता­दि­त्यर्थः ।

एव­मा­न­न्द­व­ल्ल्या­स्ता­त्प­र्य­मु­प­व­र्ण्या­द्य­वा­क्यस्य तात्पर्यमाह –
स्वयमेवेति ।

स्वयमेव श्रुतिः ‘ब्रह्म­वि­दा­प्नोति परम्’ इति वाक्येन ब्रह्मविद्यायाः प्रयोजनं सम्बन्धं च किम­र्थ­मा­हे­त्या­श­ङ्क्याह –
आदावेवेति ।
तत्र ‘आप्नोति परम्’ इत्यनेन प्रयो­ज­न­नि­र्देशः, ‘ब्रह्मवित्’ इत्यनेन ब्रह्मविद्याया निर्देशः, ताभ्यामेव सम­भि­व्या­हृ­ताभ्यां विद्या­प्र­यो­ज­नयोः प्रयो­ज­न­प्र­यो­ज­नि­भा­व­ल­क्ष­ण­स­म्ब­न्ध­नि­र्देश इति विभागः ।

नन्वादावेव तयोर्ज्ञापनं किमर्थम् ; तत्राह –
निर्ज्ञा­त­यो­र्हीति ।
मुमु­क्षो­रु­प­नि­षत्सु स्वप्र­यो­ज­न­मु­क्ति­सा­ध­न­वि­द्या­सा­ध­न­त्व­ज्ञानं विना उपनिषच्छ्रवणादौ प्रवृ­त्त्य­यो­गा­त्त­द­र्थ­मा­दा­वेव प्रयोजनादिकं वक्त­व्य­मि­त्यर्थः । तत्र वृद्ध­सं­म­ति­सू­च­नार्थो हि-शब्दः । तदुक्तं वृद्धैः - ‘सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः’ इति । विद्यामुद्दिश्य गुरु­मु­खा­त्प्र­थमं श्रवणम् , श्रुत­स्या­र्थ­स्या­प्र­ति­प­त्त्या­दि­नि­रा­सेन ग्रहणम् , गृहीतस्यार्थस्य धारणम् , धृतस्यार्थस्य युक्ति­भि­र­नु­चि­न्त­न­रू­पोऽ­भ्यासः, तदर्थमित्यर्थः ।

नन्व­धी­त­सा­ङ्ग­स्वा­ध्या­यस्य वेदान्तेभ्य एव विद्या­रू­प­फ­लो­द­य­स­म्भ­वा­च्छ्र­व­णा­दिकं व्यर्थमिति, नेत्याह –
श्रवणादिपूर्वकं हीति ।

तत्र हि-शब्दसूचितं मानमाह –
श्रोतव्य इति ।
प्रमा­ण­प्र­मे­या­स­म्भा­व­न­यो­र्नि­रा­साय श्रवणमनने आवश्यके इति भावः । ‘पाण्डित्यं निर्विद्य’ इत्या­दि­श्रु­ति­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

इदानीं प्रती­क­ग्र­ह­ण­पू­र्व­क­म­क्ष­राणि व्याचष्टे –
ब्रह्म­वि­दि­त्या­दिना ।

वक्ष्यमाणलक्षणं ब्रह्मात्र ब्रह्मेति पदेनाभिधीयते न जात्या­दि­क­मि­त्यत्र हेतुमाह –
वृद्धतमत्वादिति ।
ब्रह्मपदेन ‘बृहि वृद्धौ’ इति व्युत्प­त्ति­ब­ला­द्वृ­द्धि­म­द्वस्तु कथ्यते ; सा च वृद्धिः सङ्को­च­का­भा­वा­न्नि­र­ति­श­य­म­हत्त्वे पर्यवस्यति ; तच्च निरतिशयमहत्त्वं वक्ष्यमाणलक्षण एव ब्रह्मणि सम्भवति नान्यत्रेति भावः ।

परं निरतिशयमिति ।
न चोत्कृष्टवाचिना परशब्देन स्वर्गादेरपि ग्रह­ण­स­म्भ­वा­त्कथं निर­ति­श­यो­त्कृष्टं ब्रह्मैवात्र परशब्दार्थः स्यादिति वाच्यम् ; ब्रह्मशब्दस्येव परशब्दस्यापि सङ्कोचकाभावेन परमानन्दरूपतया निर­ति­श­यो­त्कृष्टे ब्रह्मण्येव पर्य­व­सा­न­स­म्भ­वा­दिति भावः ।

ब्रह्म­वे­द­न­मा­त्रा­द­ब्र­ह्म­प्रा­प्त्य­स­म्भ­वा­दपि तदेव परशब्दार्थ इत्याह –
न ह्यन्यस्येति ।
लोके कौन्तेयस्य सतो राधेयत्वभ्रमवत आप्तो­प­दे­श­ज­नि­तात् ‘कौन्तेयोऽहम्’ इति ज्ञानात्कौन्तेय एव प्राप्यो नान्य इति प्रसि­द्धि­सू­च­नार्थो हि-शब्दः ।

श्रुत्य­न्त­रा­नु­सा­रा­द­प्ये­व­मे­वे­त्याह –
स्पष्टं चेति ।
तत्प्रकृतं परं ब्रह्म यो वेद स ब्रह्मैव भवति ह वै प्रसि­द्ध­मे­त­द्वि­दु­षा­मिति श्रुत्य­न्त­रार्थः ।

आप्नोतीत्यस्य विवक्षितमर्थं दर्श­यि­तु­मा­क्षि­पति –
नन्विति ।

वक्ष्यतीति ।
आन­न्त्या­दि­व­च­ने­नेति शेषः ।

ततः किम् ? अत आह –
अत इति ।
सर्व­ग­त्वा­त्स­र्वा­त्म­क­त्वा­च्चे­त्यर्थः ।

एवं­भू­त­स्या­प्या­प्यत्वं किं न स्यादि­त्या­शङ्क्य तत्र लौकि­क­व्या­प्ति­वि­रोधं मत्वा तामाह –
आप्तिश्चेति ।

लोके प्राप्यत्वेन प्रसि­द्ध­ग्रा­मा­दि­वै­ल­क्षण्यं ब्रह्मणो दर्शयति –
अपरिच्छिन्नमिति ।

फलितमाह –
अत इति ।

उक्ता­नु­प­प­त्ते­र­दो­षत्वं कथमिति पृच्छति –
कथमिति ।

मुख्या­प्ते­र­त्रा­वि­व­क्षि­त­त्वा­द­नु­प­प­त्तिर्न दोष इत्याशयेनाह –
दर्शनेति ।

अद­र्श­न­नि­मि­त्ता­म­प्राप्तिं साधयति –
परमार्थत इत्यादिना ।
भूतमात्राभिः पञ्ची­कृ­ता­प­ञ्ची­कृ­त­भू­तांशैः कृता ये आत्म­स्व­रू­पा­पे­क्षया बाह्याः परि­च्छि­न्ना­श्चा­न्न­म­या­दयः कोशाः तेष्वा­त्म­द­र्शिनो जीवस्य या अविद्या तया स जीवो नान्योऽ­ह­म­स्मी­त्य­भि­म­न्यत इति योजना । तदासक्तचेतसः तेष्वेवासक्तं चेतो यस्य तथाभूतस्य । आसक्तिरत्र कोशा­भि­मा­न­प्र­यु­क्त­दुः­खा­दि­मत्ता विवक्षिता । परमार्थं ब्रह्मस्वरूपं नास्ती­त्य­भा­व­द­र्शनं लक्षणं लिङ्गं यस्याः सा तथा, तयेत्यर्थः । ‘अन्नमयादीन्’ इत्यादिद्वितीया षष्ठ्यर्थे । अन्न­म­या­द्या­त्म­भ्योऽ­न्योऽ­ह­म­स्मीति नाभिमन्यते कोशव्यतिरिक्तं परमार्थस्वरूपं न जानातीत्यर्थः । अत्र नाभिमन्यत इत्यनेन स्वरूपभूतेऽपि ब्रह्मणि ग्रहणाभाव उक्तः । अन्न­म­या­द्या­त्म­द­र्शिन इत्यनेन तस्मि­न्दे­हा­द्या­त्म­त्व­गो­चरो विपर्यय उक्तः । अवि­द्य­ये­त्य­ने­ना­व­र­ण­स­मर्था मूलाविद्या दर्शिता ।

स्वरू­पेऽ­प्य­ग्र­ह­णा­दयो भवन्तीत्यत्र दृष्टान्तमाह –
प्रकृतेति ।
प्रकृताया दशसङ्ख्यायाः पूरणे समर्थस्यात्मनः स्वस्य देवदत्तस्य संनिकृष्टस्यापि स्वापेक्षया बाह्या ये नव सङ्ख्येयाः तद्वि­ष­या­स­क्त­चि­त्त­तया स्वात्मानं विहाय तेष्वेव पुनः पुनः परि­ग­ण­न­व्या­स­क्त­चि­त्त­तया स्वात्मभूतोऽपि दशमो नास्ती­त्य­भा­व­द­र्श­नम् , तद्धेतुभूतं दशमं न जाना­मी­त्य­नु­भू­य­मा­न­मा­व­र­णम् , नवैव वर्तामह इति विपर्ययश्च यथा दशमस्य स्वरूपेऽपि दृश्यन्ते तथेत्यर्थः ।

अदर्शननिमित्तां ब्रह्म­णोऽ­ना­प्ति­मु­प­सं­ह­रति –
एवमिति ।

इदानीं दर्शननिमित्तां तदाप्तिं दृष्टान्तेन विवृणोति –
तस्यैवमिति ।

केनचिदिति ।
'दश­म­स्त्व­मसि’ इत्याप्तेन स्मारि­त­स्व­रू­प­स्ये­त्यर्थः ।

तस्यैवेति ।
यद्द­श­म­स्व­रू­प­म­वि­द्य­या­ना­प्त­मा­सी­त्त­स्यै­वे­त्यर्थः ।

श्रुतीति ।
श्रुत्यु­प­दि­ष्टस्य सर्वात्मकस्य ब्रह्मणो यदात्मत्वेन दर्शनं तदेव विद्या, तया आप्ति­र­ना­प्त­त्व­भ्र­म­नि­वृ­त्ति­रूपा उपपद्यत इत्यर्थः ।

इत्थमाद्यं ब्राह्मणवाक्यं व्याख्याय अनेन वाक्ये­नो­त्त­र­स­न्द­र्भस्य सङ्गतिमाह –
ब्रह्म­वि­दा­प्नो­तीति ।

सूत्रभूतमिति ।
सङ्ग्रा­ह­क­मि­त्यर्थः । अने­ना­द्य­वा­क्य­स्यैव विव­र­ण­रू­प­त्वा­दु­त्त­र­ग्र­न्थस्य व्याख्या­न­व्या­ख्ये­य­भा­वे­ना­नयोः सङ्गतिरित्यर्थः ।

इत्थ­मा­द्य­वा­क्य­वि­व­र­ण­रू­प­मु­त्तरं मन्त्र­ब्रा­ह्म­ण­वा­क्य­जा­त­मिति तात्प­र्य­मुक्त्त्वा ‘सत्यं ज्ञानम्’ इति मन्त्रं सङ्क्षे­प­तोऽ­र्थ­क­थ­न­पू­र्व­क­म­व­ता­र­यति –
ब्रह्म­वि­दा­प्नोति पर­मि­त्य­ने­ने­त्या­दिना ।

अनिर्धारितेति ।
बृह­त्त्वा­द्ब्र­ह्मेति व्युत्प­त्ति­ब­ले­नास्ति किमपि महद्वस्त्विति प्रतीयते, न तु तद्बलेन ब्रह्मणः स्वरूपविशेषोऽपि प्रतीयत इति भावः । सर्वतो व्यावृत्तो यः स्वरू­प­वि­शे­ष­स्त­त्स­म­र्पणे समर्थस्य लक्ष­ण­स्या­भि­धा­नेन स्वरू­प­नि­र्धा­र­णा­यैषा ऋगुदाह्रियत इति सम्बन्धः । ब्रह्म­वि­दि­त्य­नेन अविशेषेण ‘अस्ति ब्रह्म’ ‘अहं ब्रह्म’ इति वेद­न­द्व­य­सा­धा­र­ण्ये­नोक्तं वेदनं यस्य ब्रह्मणः तस्येत्यर्थः । वक्ष्यमाणं लक्षणं सच्चि­दा­न­न्त्य­रूपं यस्य तस्येत्यर्थः । विशेषेणेत्यस्य विव­र­ण­म­न­न्य­रू­पे­णेति ।

तस्य पर्यवसितमर्थमाह –
प्रत्य­गा­त्म­त­येति ।
'अहं ब्रह्म’ इत्येवमाकारेण ब्रह्मणो विज्ञेयत्वाय चैषा ऋगुदाह्रियत इति सम्बन्धः ।

तत्सर्वात्मभाव इति ।
सर्व­सं­सा­रा­स्पृ­ष्ट­ब्र­ह्म­स्व­रू­प­भू­त­स­र्वा­त्म­भाव एव नान्य­त्स्व­र्गा­दि­क­मि­त्यर्थः ।

इत्थं मन्त्रमवतार्य तदा­द्य­पा­द­ता­त्प­र्य­माह –
ब्रह्मण इति ।
ब्रह्मणः स्वरू­प­ल­क्ष­णा­र्थ­क­मिदं वाक्यमित्यर्थः ।

लक्ष­ण­वा­क्य­स्थ­प­दानि विभजते –
सत्यादीनि हीति ।
सत्यादिपदत्रयं विशे­ष­ण­स­म­र्प­क­मि­त्यर्थः । ब्रह्म­प­द­स­म­भि­व्या­हृ­तानां सत्यादिपदानां बुभुत्सितं ब्रह्म प्रति विशे­ष­ण­स­म­र्प­क­त्वा­भावे ब्रह्म­स्व­रू­प­वि­शे­ष­नि­र्ण­या­यो­गा­दिति युक्तिसूचनार्थो हि-शब्दः ।

वेद्यतयेति ।
आद्यवाक्ये वेद्यतयोक्तं ब्रह्म विशेष्यम् ; तस्यैव प्राधान्येनात्र वक्तु­मि­ष्ट­त्वा­दि­त्यर्थः । न च लक्षणं सजा­ती­य­वि­जा­ती­य­व्या­व­र्त­कम् , विशेषणं तु विशेष्यस्य तत्स­जा­ती­य­मा­त्र­व्या­व­र्क­मिति वक्ष्यति, तथा च लक्ष­ण­वि­शे­ष­ण­यो­र्भे­दा­त्कथं लक्षणार्थं वाक्य­मि­त्यु­प­क्रम्य विशे­ष­णा­द्य­र्थ­क­तया वाक्यं व्याख्यायत इति वाच्यम् ; सजा­ती­य­वि­जा­ती­य­व्या­व­र्त­कस्य सतो लक्षणस्य विशेषणस्येव सजा­ती­य­व्या­व­र्त­क­त्वां­शोऽपि विद्यत इत्येतावतात्र विशे­ष­ण­त्व­व्य­व­हा­र­स्वी­का­रेण समा­न­जा­ती­य­मा­त्र­नि­व­र्त­क­त्व­रू­प­मु­ख्य­वि­शे­ष­ण­त्व­स्या­त्रा­वि­व­क्षि­त­त्वात् । न चैवमपि ब्रह्मणः स्वरूपभूतं सत्यादिकं कथं लक्षणम् , व्याव­र्त­क­ध­र्म­स्यैव वादि­भि­र्ल­क्ष­ण­त्वा­भ्यु­प­ग­मा­दिति वाच्यम् ; गौरवेण धर्मत्वांशस्य तत्र प्रवेशायोगात् , व्याव­र्त­क­मा­त्रस्य स्वरूपेऽपि सम्भवात् । न च सत्या­दे­र्ल­क्ष्य­ब्र­ह्म­स्व­रू­प­त्वा­त्क­थ­मे­क­स्यैव लक्षणत्वं लक्ष्यत्वं च सम्भवतीति वाच्यम् ; लक्ष्य­स्व­रू­प­स्यापि सतः सत्या­दे­र्ज्ञा­तस्य इत­र­व्या­वृ­त्ति­बो­धो­प­यु­क्त­तया लक्षणत्वम् , सत्या­दि­स्व­रू­प­स्यैव सतो ब्रह्मण इतरव्यावृत्ततया ज्ञाप्य­मा­न­त्व­रूपं लक्ष्य­त्व­मि­त्ये­क­त्रापि रूप­भे­दे­नो­प­प­त्ते­रि­त्य­न्यत्र विस्तरः ।

सत्या­दि­प­दा­र्थानां विशे­ष­ण­वि­शे­ष्य­भावे लिङ्गमाह –
विशे­ष­ण­वि­शे­ष्य­त्वा­दे­वेति ।
'नीलं मह­त्सु­ग­न्ध्यु­त्प­लम्’ इत्यादौ सत्येव विशे­ष­ण­वि­शे­ष्य­भावे समा­ना­धि­क­र­ण­त­यै­क­वि­भ­क्त्य­न्तानि नीलादिपदानि प्रसिद्धानि ; प्रकृते च सत्यादिपदानि तथाभूतानि ; ततोऽ­र्थ­ग­त­वि­शे­ष­ण­वि­शे­ष्य­भा­व­नि­ब­न्ध­ना­नीति गम्यत इत्यर्थः ।

सत्या­दि­प­दा­र्थानां विशे­ष­ण­त्व­प्र­सा­ध­न­फ­ल­माह –
सत्यादिभिश्चेति ।

विशेष्यमाणमिति ।
सम्ब­ध्य­मा­न­मि­त्यर्थः । निर्धार्यते व्यावर्त्यते ।

इत­र­व्या­वृ­त्ति­बो­ध­फ­ल­माह –
एवं हीति ।
यदि ब्रह्मान्येभ्यो निर्धारितं स्यादेवं सति तद्ब्रह्म ज्ञातं विशेष्य निर्णीतं भवतीत्यर्थः ।

बुभुत्सितस्य वस्तुनो विशे­ष­णै­र्वि­शे­षतो निर्धारणे हि-शब्दसूचितं दृष्टान्तमाह –
यथेति ।

उक्तं विशे­ष­ण­वि­शे­ष्य­भा­व­मा­क्षि­पति –
नन्विति ।

यत्र विशेष्यजातीयं वस्तु विशेषणान्तरं व्यभिचरद्वर्तते तत्र विशेष्यजातीयं विशेष्यते विशे­ष­णै­रि­त्य­त्रो­दा­ह­र­णम् –
यथेति ।
उप्पलजातीयं नीलं रक्तं चास्तीति कृत्वा नैल्येन विशेष्यते ‘नीलमुत्पलम्’ इति यथेत्यर्थः ।

एतदेव प्रपञ्चयति –
यदा हीति ।

अर्थवत्त्वमिति ।
स्यादिति शेषः ।

तत्र व्यतिरेकमाह –
न हीति ।
एकस्मिन्नेव वस्तुनि विशे­ष­णा­न्त­रा­यो­गा­द्धे­तो­र्वि­शे­ष­ण­स्या­र्थ­वत्त्वं न हि सम्भवतीत्यर्थः ।

अत्रोदाहरणमाह –
यथासाविति ।
विशे­ष­णा­न्त­र­यो­गिन आदि­त्य­जा­ती­य­स्या­न्य­स्या­भा­वा­दा­दि­त्यस्य विशेषणमर्थवन्न भवति यथेत्यर्थः ।

ततः किम् ? तत्राह –
तथैकमेवेति ।
ब्रह्म­णोऽ­द्वि­ती­य­त्व­श्र­व­णा­दिति भावः ।

किमत्र सत्याद्यर्थानां समा­न­जा­ती­य­मा­त्र­व्या­व­र्त­क­त्व­रूपं मुख्य­वि­शे­ष­ण­त्व­मा­क्षि­प्यते किं वा समा­न­जा­ती­य­व्या­व­र्त­क­त्व­मा­त्र­रू­प­मौ­प­चा­रि­क­मपि ? नान्त्यः, तस्येहापि सम्भवात् ; न च ब्रह्मणः समानजातीयानां ब्रह्मा­न्त­रा­णा­म­भा­वा­त्कथं तत्सम्भवतीति वाच्यम् ; वस्तुतो ब्रह्मा­न्त­रा­णा­म­भा­वेऽपि कल्पि­ता­ना­म­व्या­कृ­त­भू­ता­का­श­का­ला­दि­ल­क्ष­ण­ब्र­ह्मा­न्त­राणां सत्त्वा­त्ते­षा­मपि व्याप­क­त्व­रू­प­वृ­द्धि­म­त्त्वेन ब्रह्म­श­ब्द­वा­च्य­त्वो­प­पत्तेः ; तथा च ब्रह्म­स­मा­न­जा­ती­या­ना­म­व्या­कृ­ता­दीनां व्यावर्त्यानां सत्त्वा­त्स­त्या­द्य­र्थानां समा­न­जा­ती­य­व्या­व­र्त­क­त्व­मा­त्र­रू­प­मौ­प­चा­रि­क­वि­शे­ष­णत्वं निष्प्रत्यूहम् , यथा बिम्ब­प्र­ति­बि­म्ब­भा­वे­ना­दि­त्यस्य कल्पितं नानात्वमादाय ‘अम्बरस्थः सविता सत्यः’ इति सत्यविशेषणस्य जलादौ कल्पि­ता­दि­त्य­व्या­व­र्त­ने­ना­र्थ­व­त्त्वम् ; नाद्यः, इष्टा­प­त्ते­रि­त्या­श­ये­नाह –
नेति ।
स्वरू­प­ल­क्ष­ण­स­म­र्प­क­त्वा­द्वि­शे­ष­ण­प­दा­ना­मि­त्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –
नायं दोष इत्यादिना ।

विशेषणानीति ।
सत्यादीनि विशेषणपदानि यतो लक्ष­ण­रू­पा­र्थ­प­रा­ण्येव, न मुख्य­वि­शे­ष­ण­प­राणि, तथा सति ब्रह्मणः सत्यादिविशेषणैः समा­न­जा­ती­या­द्व्या­वृ­त्ति­ला­भेऽपि प्रकृते विवक्षितायाः सर्वतो व्यावृ­त्ते­र­ला­भ­प्र­स­ङ्गात् , ततश्च स्वरू­प­वि­शे­ष­नि­र्धा­र­णा­भा­व­प्र­सङ्ग इत्यर्थः ।

ननु प्रसि­द्ध­वि­शे­ष­णानां सजा­ती­य­मा­त्र­व्या­व­र्त­कत्वं लक्षणस्य तु सर्वतो व्याव­र्त­क­त्व­मि­त्ययं विशेष एव कुतः यतोऽत्र सत्यादीनां लक्षणत्वमुपेत्य विशेषणत्वं प्रतिषिध्यते न विशे­ष­ण­प्र­धा­ना­नी­त्या­क्षि­पति –
कः पुनरिति ।

अनु­भ­व­मा­श्रि­त्याह –
उच्यत इति ।

सर्वत इति ।
सजा­ती­या­द्वि­जा­ती­या­च्चे­त्यर्थः ।

यथेति ।
यथा भूतत्वेन सदृ­शा­त्पृ­थि­व्या­दे­र्वि­स­दृ­श­दा­त्मा­देश्च सकाशादाकाशस्य व्याव­र्त­क­म­व­का­श­दा­तृ­त्व­मि­त्यर्थः ।

ननु सत्यादिवाक्यं विशे­ष­ण­वि­शे­ष्य­सं­स­र्ग­परं समा­ना­धि­क­र­ण­वा­क्य­त्वा­न्नी­लो­त्प­ल­वा­क्य­व­दिति, नेत्याह –
लक्षणार्थं चेति ।
देव­द­त्त­स्व­रू­पै­क्य­परे ‘सोऽयं देवदत्तः’ इति वाक्ये व्यभि­चा­रा­त्स­त्य­त्वा­दि­वि­शे­ष­ण­वि­शि­ष्टस्य ब्रह्मणः सत्या­दि­वा­क्या­र्थत्वे विशिष्टस्य तस्य परि­च्छि­न्न­त्वे­ना­न­न्त्या­यो­गा­द्वा­क्य­शेषे तस्य वागा­द्य­गो­च­र­त्व­प्र­ति­पा­द­न­वि­रो­धाच्च विशिष्टस्य वागा­दि­गो­च­र­त्व­नि­य­मा­त्त­स्मान्न नीलो­त्प­ल­वा­क्य­वत् न संसर्गपरं सत्यादिवाक्यं किं त्वख­ण्डै­क­र­स­व­स्तु­प­र­मिति मत्वा प्रागेव ब्रह्मणो लक्षणार्थं वाक्य­मि­त्य­वो­चा­मे­त्यर्थः ॥

ननु प्राक्स­त्या­द्य­र्थानां त्रयाणामपि ब्रह्म­वि­षे­ण­त्व­मि­त्यु­क्तम् ; तदयुक्तम् , संनिधानात्तेषां पर­स्प­र­वि­शे­ष­ण­वि­शे­ष्य­भा­व­स­म्भ­वा­दिति, नेत्याह –
सत्यादिशब्दा इति ।

हेतुं साधयति –
विशेष्यार्था हि त इति ।
आद्यवाक्ये वेद्यतयोपात्तं ब्रह्म कीदृ­श­मि­त्या­का­ङ्क्षायां तत्स्व­रू­प­वि­शे­ष­स­म­प­र्क­त्वेन प्रवृत्तं सत्यादिपदत्रयं ब्रह्मण एव विशेषणम् , संनि­धा­ना­दा­का­ङ्क्षायाः प्रब­ल­त्वा­द्वि­शे­ष्यस्य प्रधानत्वेन विशेषणानां तदर्थत्वाच्च, प्रधा­न­स­म्ब­न्ध­स्या­भ्य­र्हि­त­त्वा­द्वि­शे­ष­णानां समत्वेन परस्परं गुण­प्र­धा­न­भा­व­ल­क्ष­ण­वि­शे­ष­ण­वि­शे­ष्य­भावे विनिगमकाभावाच्च । अस्मिन्नर्थे वृद्ध­सं­म­ति­सू­च­नार्थो हि-शब्दः । तदुक्तं जैमिनिना - ‘आन­न्त­र्य­म­चो­दना’ ‘गुणानां च परा­र्थ­त्वा­द­स­म्बन्धः समत्वात्स्यात्’ इति । आकाङ्क्षा विरु­द्ध­मा­न­न्तर्यं संनिधानमचोदना अन्वये कारणं न भव­ती­त्या­द्य­सू­त्रार्थः ।

अत इति ।
पर­स्प­र­स­म्ब­न्धा­यो­गा­दि­त्यर्थः ।

तत्र सत्यपदार्थमाह –
यद्रूपेणेति ।
रज्जुत्वेन रूपेण निश्चितं रज्ज्वात्मकं वस्तु न कदा­चि­द्र­ज्जु­त्व­रूपं परित्यजतीति तत्तेन रूपेण सत्य­मि­त्यु­च्यते, तथा तदेव रज्ज्वात्मकं वस्तु सर्पत्वेन रूपेण निश्चितं कालान्तरे तद्रूपं परित्यजतीति तेन रूपेण तदनृतमुच्यते । एतदुक्तं भवति - यद्यस्य कादाचित्कं रूपं तत्तस्यानृतं यथा रज्ज्वादेः सर्पादिरूपं यथा वा मृदा­दे­र्घ­टा­दि­रू­प­मिति ।

फलि­त­म­नृ­त­श­ब्दा­र्थ­माह –
अत इति ।
रज्ज्वादौ सर्पादेरिव प्रकृतिषु विकाराणामपि कादा­चि­त्क­त्वा­वि­शे­षा­दि­त्यर्थः ।

उक्त­यु­क्ति­सि­द्ध­वि­का­रा­नृ­त­त्वा­नु­वा­दिनीं श्रुतिमाह –
वाचारम्भणमिति ।
घटशरावादिविकारो नामधेयं नाममात्रम् , अनृतमिति यावत् ; तत्र हेतुर्वाचेति ; विकारसत्यत्वस्य वागा­ल­म्ब­न­मा­त्र­त्वात् , कार­ण­स­त्त्व­व्य­ति­रे­केण दुर्नि­रू­प­त्वा­दि­त्यर्थः । न चैव­म­र्थ­क­ल्प­नायां मानाभाव इति वाच्यम् ; कार­ण­मा­त्र­स­त्य­त्वा­व­धा­र­ण­स्यैव मानत्वात् ।

'एवं सोम्य स आदेशो भवति’ इति दार्ष्टा­न्ति­क­श्रु­ति­म­र्थतः पठति –
एवं सदेवेति ।
आदिश्यत उपदिश्यत इत्यादेशः परमात्मा सच्छब्दवाच्यः एवं मृदादिवत्सत्यं परमार्थो भवति ब्रह्म, विकारस्तु प्रपञ्चो मृद्विकारवदनृत एवेत्यर्थः ।

एवं विका­र­स्या­नृ­तत्वं कारणस्य सत्यत्वं च प्रसाध्य सत्यविशेषणफलमाह –
अत इति ।
विकारस्य सत्य­त्वा­भा­वा­दि­त्यर्थः ।

ननु सत्यविशेषणेन ब्रह्मणो विका­रा­द्व्या­वृ­त्ति­सि­द्धा­वतः परि­शे­षा­त्का­र­णत्वं प्राप्तं चेत्‌ ; अस्तु को दोषः ? तत्राह –
कारणस्य चेति ।

कारकत्वमिति ।
कर्त्रा­दि­का­र­क­रू­प­त्व­मि­त्यर्थः । कारणेषु कुलालादिषु कर्त्रा­दि­का­र­क­भा­व­द­र्श­ना­दिति भावः ।

ब्रह्माचेतनं वस्तु­त्वा­न्मृ­दा­दि­व­दि­त्याह –
वस्तुत्वादिति ।

ननु ज्ञानविशेषणेन ब्रह्मणः कार­क­त्व­नि­वृ­त्तिर्न लभ्यते कर्तृ­सा­ध­न­ज्ञा­न­प­देन तस्य ज्ञानक्रियां प्रति कर्तृ­का­र­क­त्वा­व­ग­मा­दिति, नेत्याह –
ज्ञानं ज्ञप्तिरिति ।

ज्ञानपदस्य ज्ञप्तिपरत्वे हेतुमाह –
ब्रह्मेति ।

ननु ज्ञानस्य सत्या­न­न्त्याभ्यां सह ब्रह्म प्रति विशेषणत्वेऽपि ब्रह्म ज्ञानकर्तृ किं न स्यादि­त्या­श­ङ्क्याह –
न हीति ।

ब्रह्मणो ज्ञानकर्तृत्वे सत्य­त्वा­द्य­नु­प­पत्तिं प्रपञ्चयति –
ज्ञानकर्तृत्वेन हीति ।
ज्ञानकर्तृत्वं हि ज्ञानं तदनुकूलक्रिया च । न च ज्ञानादिरूपेण विक्रियमाणस्य ब्रह्मणः सत्यत्वं सम्भवति । विकारजातस्येव विकारिणोऽपि जडत्वनियमात् जडस्य च चित्य­ध्य­स्त­त्व­नि­य­मे­ना­नृ­त­त्वा­व­श्य­म्भा­वा­दिति युक्तिसूचनार्थो हि-शब्दः ।

अनन्तं चेति ।
कथं भवेदित्यनुषङ्गः ।

तत्र हेतुः –
यद्धीति ।
प्रविभज्यते भिद्यते ।

ननु ज्ञान­क­र्तृ­त्वेऽपि ब्रह्मणो नास्ति कुत­श्चि­त्प्र­वि­भागः, तत्राह –
ज्ञानकर्तृत्वे चेति ।
च-शब्दः शङ्कानिरासार्थः । कर्तृत्वस्य कर्म­क्रि­या­नि­रू­पि­त­त्वा­त्ताभ्यां कर्तुर्भेदाभावे कर्त्रा­दि­व्य­व­स्था­यो­गात् , तस्मा­द्ब्र­ह्म­णोऽ­न­न्त­तायै ज्ञात्रा­दि­द्वै­त­रा­हित्यं वक्त­व्य­मि­त्यर्थः ।

तस्य सर्व­द्वै­त­रा­हित्ये श्रुत्यन्तरमाह –
यत्रेति ।

ज्ञान­क्रि­या­क­र्तृ­भू­तस्य वस्तु­तोऽ­न­न्त­त्वा­भा­वेऽपि श्रुतिमाह –
यत्रान्यदिति ।
यत्रेत्यस्य यदित्यर्थः ।

शङ्कते –
विशे­ष­प्र­ति­षे­धा­दिति ।
न विजानातीति ज्ञान­क­र्तृ­त्व­सा­मा­न्य­नि­षे­ध­म­कृत्वा अन्यत्र विजा­ना­ती­त्य­न्य­वि­ज्ञा­तृ­त्व­रू­प­वि­शे­ष­प्र­ति­षे­ध­सा­म­र्थ्या­त्स्व­क­र्म­क­ज्ञा­न­क­र्तृत्वं भूम्नः श्रुत्यनुमतमिति गम्यते ; तथा च यः स्वात्मानं विजानाति स भूमेति वाक्या­र्थ­प­र्य­व­सा­ना­द्ब्र­ह्मणो द्वैत­रा­हि­त्ये­नेयं श्रुति­र्मा­न­मि­त्यर्थः ।

'भूमानं भगवो विजिज्ञासे’ इति भूम­स्व­रू­प­ल­क्ष­ण­जि­ज्ञा­सायां सत्यामिदं वाक्यं प्रवृत्तम् , अतो न स्वज्ञा­तृ­त्व­प­र­मिदं वाक्यमिति दूषयति –
नेति ।

सङ्ग्रहवाक्यं विवृणोति –
यत्र नान्यदित्यादिना ।
भूम्नो लक्षणविधिपरमेव वाक्यं न स्वात्मनि क्रिया­स्ति­त्व­प­र­मिति सम्बन्धः । बुभु­त्सि­त­भू­म­स्व­रू­प­ज्ञा­प­न­प­र­मेव तत् न स्वक­र्म­क­ज्ञा­न­क्रि­या­क­र्तृ­त्व­स­द्भा­व­प­रम् , तस्या­बु­भु­त्सि­त­त्वा­दि­त्यर्थः ।

वाक्यस्य स्वज्ञा­तृ­त्व­प­र­त्वा­भावे फलितं वाक्यार्थमाह –
यथा­प्र­सि­द्ध­मे­वेति ।
भ्रान्ति­सि­द्ध­मेव ज्ञात्रा­दि­द्वै­त­म­नूद्य तद्यत्र वस्तुतो नास्ति स भूमेति भूमस्वरूपं लक्षणवाक्येन बोध्यते एवमन्यग्रहणस्य प्रति­षे­ध­शे­ष­त्वान् स्वज्ञातृत्वे वाक्य­ता­त्प­र्य­ग्रा­ह­क­ते­त्यर्थः ।

विरोधादपि न स्वज्ञातृत्वे भूम­ल­क्ष­ण­वा­क्य­ता­त्प­र्य­मि­त्याह –
स्वात्मनि चेति ।
एक­क्रि­या­नि­रू­पितं कर्तृत्वं कर्मत्वं चैकदैकत्र विरुद्धत्वेन प्रसिद्धम् ; तथा च स्वात्मनि ब्रह्मणि भेदा­भा­वा­त्स्व­क­र्म­क­ज्ञा­न­क­र्तृ­त्वा­नु­प­प­त्ति­रि­त्यर्थः ।

ननु तर्हि प्रत्य­गा­त्म­रू­पस्य ब्रह्मणो ज्ञान­क­र्म­त्व­मे­वास्तु ; तत्राह –
आत्मनश्चेति ।
च-शब्दः शङ्कानिरासार्थः ॥

नन्वा­त्म­न­श्चि­ज्ज­ड­रू­पां­श­द्व­यो­पे­त­त्वा­च्चि­दं­शेन ज्ञाता जडांशेन ज्ञेयश्च भविष्यति, अतो न ज्ञात्र­भा­व­प्र­सङ्ग इति भट्टमतमाशङ्क्य निषेधति –
एक एवेति ।

नेति ।
निष्फलश्रुत्या आत्मनो निर­व­य­व­त्वा­व­ग­मा­त्सा­व­य­व­स्या­नि­त्य­त्व­नि­य­माच्च तन्मतं न युक्तमित्यर्थः ।

ननु निरवयवस्यापि युग­प­दे­क­ज्ञा­न­क्रि­या­नि­रू­पितं कर्तृत्वं कर्मत्वं च किं न स्यादि­त्या­शङ्क्य स्वात्मनि चेत्य­त्रो­क्ता­मे­वा­नु­प­पत्तिं स्मारयति –
न हीति ।

स्वात्मनो लौकि­क­ज्ञा­न­क­र्म­त्वो­प­गमे तदु­प­दे­शा­न­र्थ­क्य­प्र­स­ङ्गाच्च न स्वज्ञातृत्वे भूमवाक्यस्य ‘सत्यं ज्ञानम् ‘ इत्यत्र ज्ञानपदस्य च तात्पर्यमित्याह –
आत्मनश्चेति ।

तस्मादिति ।
ज्ञातु­र्ज्ञे­य­ज्ञा­नाभ्यां प्रवि­भ­क्त­त्वा­दि­त्यर्थः ।

ब्रह्मणो ज्ञातृत्वे सत्य­त्वा­नु­प­प­त्ति­म­प्युक्तां समारयति –
सन्मात्रत्वं चेति ।
ज्ञान­क­र्तृ­त्वा­दि­वि­शे­ष­वत्त्वं ज्ञान­त­द­नु­कू­ल­क्रि­या­दि­रू­प­प­रि­णा­म­वत्त्वं परिणामिनश्च मिथ्या­त्वा­व­श्य­म्भा­वा­द्बा­धा­यो­ग्य­त्व­रूपं सन्मा­त्र­त्व­म­नु­प­प­न्न­मि­त्यर्थः ।

ननु सन्मा­त्र­त्वा­नु­प­त्ता­वपि मन्त्रो­क्त­स­त्य­त्वा­नु­प­पत्तौ किमागतममित्यत आह –
सन्मात्रं च सत्यमिति ।
सद्वस्तु प्रकृत्य ‘तत्सत्यम्’ इति वदता श्रुत्यन्तरेण सन्मा­त्र­स­त्य­यो­र­भे­द­प्र­ति­पा­द­ना­त्स­न्मा­त्र­त्वा­नु­प­पत्तिः सत्य­त्वा­नु­प­त्ति­रे­वे­त्यर्थः ।

ब्रह्मणो ज्ञानकर्तृत्वे सत्य­त्वा­न­न्त­त्व­यो­र­यो­गा­ज्ज्ञा­न­श­ब्दस्य भाव­सा­ध­न­त्व­मे­वे­त्यु­प­सं­ह­रति –
तस्मादिति ।

ज्ञानपदस्य ज्ञप्तिपरत्वे सिद्धे फलितमाह –
ज्ञानमिति ।
यदुक्तं सत्यविशेषणेन ब्रह्मणो विका­रा­द्व्या­वृ­त्ति­सिद्धौ विका­र­भि­न्न­त्वा­त्का­र­णत्वं प्राप्तम् , कारणस्य च कारकत्वं मृदा­दि­व­द­चि­द्रू­पता च प्राप्ता, अत इदमुच्यते ज्ञानं ब्रह्मेतीति, ज्ञानविशेषणफलं तदत्र सिद्धमिति बोध्यम् । ज्ञानशब्दस्य ज्ञान­क­र्तृ­प­र­त्व­नि­रा­क­र­ण­प­रेण ग्रन्थे­ना­र्था­ज्ज्ञा­यते यत्तज्ज्ञानमिति कर्म­व्यु­त्प­त्ति­प्राप्तं कर्मकारकत्वमपि स्वात्मनि च भेदा­भा­वा­दि­त्या­दिना निरस्तम् ; एवं ज्ञायतेऽनेनेति व्युत्प­त्ति­प्राप्तं करणकारकत्वमपि ब्रह्म­रू­प­स्या­त्मनो न सम्भवति, तस्य करणत्वे ज्ञात्र­भा­व­प्र­स­ङ्गात् , इदमपि प्रागात्मनश्च विज्ञेयत्वे ज्ञात्र­भा­व­प्र­सङ्ग इत्य­त्रो­क्त­प्रा­य­मेव ; तथा ज्ञान­क­र्तृ­त्व­नि­रा­क­र­णे­ना­धि­क­र­ण­का­र­क­त्व­मपि निरस्तम् ; एवं ज्ञानपदस्य कार­का­न्त­र­प­र­त्व­नि­रा­क­र­ण­मपि सिद्धवत्कृत्य कर्त्रा­दी­त्या­दि­ग्र­ह­ण­मिति मन्तव्यम् ।

निवृत्त्यर्थं चेति ।
यद्यपि भावसाधनो ज्ञानशब्दो ज्ञप्ति­क्रि­या­वाची सा च क्रिया जडरूपा वृत्तिरिति वक्ष्यते, तथापि ज्ञानपदस्य चैतन्यलक्षकत्वं वक्ष्य­मा­ण­म­भि­प्रे­त्या­चि­द्रू­प­ता­नि­वृ­त्त्यर्थं चेत्युक्तमिति मन्तव्यम् ।

ज्ञानपदस्य वाच्यार्थमादाय शङ्कते –
ज्ञानं ब्रह्मेति वचनादिति ।

अनन्तमितीति ।
ब्रह्मणो ज्ञप्ति­क्रि­या­रू­पत्वे सत्या­न­न्त्या­यो­गा­दा­न­न्त्य­सि­द्धये ज्ञानपदेन चैतन्यमात्रं लक्षणीयमिति भावः ।

सत्या­दि­वि­शे­ष­णै­र­नृ­ता­दि­व्या­वृ­त्ते­रु­क्त­त्वा­द­नृ­ता­दि­व्या­वृ­त्ति­रेव सत्या­दि­प­द­वा­च्य­त्वे­नो­क्तेति मत्वा शङ्कते –
सत्यादीनामिति ।

ब्रह्म­प­द­म­प्य­स­द­र्थ­क­मेव, ब्रह्मणो माना­न्त­रा­सि­द्ध­त्वेन तत्सत्त्वे मानाभावादित्याह –
विशेष्यस्य चेति ।

पद­च­तु­ष्ट­य­स्या­प्य­स­द­र्थ­कत्वे फलितं सदृष्टान्तमाह –
मृगतृष्णेति ।
न चानृ­ता­दि­व्या­वृ­त्ते­र­न्यो­न्या­भा­व­रू­प­त्वेन शश­शृ­ङ्गा­दि­व­द­स­त्त्वा­भा­वा­त्कथं शून्यार्थकतेति वाच्यम् ; सिद्धा­न्त्य­भि­म­त­वा­क्या­र्थ­नि­षे­ध­मा­त्र­स्यात्र विवक्षितत्वात् ।

परिहरति –
नेति ।

ननु व्यावृ­त्त्य­र्थ­त्व­स्यो­क्त­त्वा­त्कथं लक्ष­णा­र्थ­त्व­मि­त्या­शङ्क्य सङ्ग्रहवाक्यं विवृणोति –
विशेषणत्वेऽपि चेति ।
च-शब्दः शङ्कानिरासार्थः । सत्या­दि­प­द­त्र­यस्य विशेषणत्वेऽपि व्यावृ­त्त्य­र्थ­त्वेऽपि न व्यावृत्तेः शाब्द­त्व­मु­पे­यते, व्यावृ­त्ते­रा­र्थि­क­त्वो­प­पत्तेः, अतो लक्ष­ण­रू­पा­र्थ­प­र­त्व­मे­वे­त्यु­क्त­मि­त्यर्थः ।

अत एव ब्रह्मपदमपि नासदर्थकमित्याह –
शून्ये हीति ।

विशेषणत्वेऽपि च सत्यादीनां नास­द­र्थ­ते­त्यु­क्त­मेव प्रपञ्चयति –
विशे­ष­णा­र्थ­त्वेऽपि चेत्यादिना ।
सत्यादिपदानां व्यावृ­त्ति­प्र­यो­ज­न­क­त्वेऽपि स्वार्थस्य सन्मात्रादेः परित्यागो नास्त्येव ।

कुत इत्यत आह –
शून्यार्थत्वे हीति ।
सत्यादिपदानां शून्यार्थत्वे स्वार्थ­प­रि­त्यागे सति विशेष्यं प्रति निय­न्तृ­त्वा­नु­प­पत्तिः इत­र­व्या­वृ­त्ति­प्र­यो­ज­न­क­त्वस्य पूर्व­वा­द्य­भि­म­त­स्या­नु­प­पत्तिः सत्या­दि­प­दै­र्ब्र­ह्मणि व्याव­र्त­क­स्व­रू­प­वि­शे­षा­स­म­र्प­णात् लोके नीला­दि­प­दै­रु­त्पले नैल्या­दि­रू­प­वि­शेषे समर्पिते सत्येव रक्ता­दि­व्या­वृ­त्ति­बो­ध­द­र्श­ना­दिति हि-शब्दार्थः ।

एवं व्यति­रे­क­मु­क्त्वा­न्व­य­माह –
सत्या­द्य­र्थै­रिति ।
सत्या­दि­प­दा­ना­मिति शेषः ।

तद्विपरीतेति ।
सत्य­त्वा­दि­ध­र्म­वि­प­रीता अनृ­त­त्वा­दि­धर्माः, तद्व­न्तोऽ­नृ­त­ज­ड­प­रि­च्छिन्नाः पदार्थाः, तेभ्य इत्यर्थः । ब्रह्मणः विशेष्यस्य इति षष्ठ्यौ द्वितीयार्थे ।

यदुक्तं विशेष्यस्य ब्रह्मण उत्प­ला­दि­व­द­प्र­सि­द्ध­त्वा­द­स­त्त्व­मिति, तत्राह –
ब्रह्म­श­ब्दोऽ­पीति ।

स्वार्थेनेति ।
वृद्धि­म­त्त्वे­ने­त्यर्थः । न च पद­मा­त्र­स्या­प्र­मा­ण­त्वा­दु­त्प­ला­दि­व­न्मा­ना­न्त­रा­प्र­सि­द्ध­त्वाच्च न तस्य सत्त्व­सि­द्धि­रिति वाच्यम् , मिथ्यार्थस्य रज्जुसर्पादेः सद­धि­ष्ठा­न­त्व­द­र्श­ना­त्प्र­प­ञ्च­स्यापि दृश्य­त्वा­दि­हे­तु­भि­र्मि­थ्या­त्वे­ना­व­ग­तस्य सद­धि­ष्ठा­न­त्व­म­नु­मी­यते, एवं सर्वा­धि­ष्ठा­न­त­या­नु­मा­नो­प­स्थिते वृद्धिमति ब्रह्मशब्दस्य शक्ति­ग्र­हा­भ्यु­प­ग­मान्न तस्या­स­त्त्व­शङ्का, न चैतमनुमानादेव ब्रह्मसिद्धेः श्रुत्या­दि­वै­य­र्थ्य­मिति वाच्यम् , तस्य स्वरू­प­वि­शे­षा­व­गतेः श्रुत्य­धी­न­त्वा­भ्यु­प­ग­मा­दिति भावः ।

ब्रह्म­स्व­रू­प­ल­क्ष­ण­स­म­र्प­केषु सत्यादिपदेषु त्रिष्वा­व­न्त­र­भे­द­माह –
तत्रेति ।
अनन्तशब्दः परि­च्छे­दा­भा­व­बो­ध­न­द्वारा ब्रह्मणो विशेषणं परि­च्छि­न्ना­द्व्या­व­र्त­क­मि­त्यर्थः ।

सत्यज्ञानशब्दौ त्विति ।
अनन्तशब्दस्येव सत्य­ज्ञा­न­श­ब्द­यो­र­भा­व­बो­ध­द्वा­र­कत्वं नास्तीति विशे­षा­र्थ­क­स्तु-शब्दः ।

तमेव विशेषं विवृणोति –
स्वार्थेति ।
सच्चि­द्रू­प­त्व­ल­क्ष­ण­स्वा­र्थ­बो­ध­न­द्वा­रे­णैव विशेषणे भवतः अनृ­ता­दि­व्या­व­र्तकौ भवतः नाभा­व­स­म­र्प­ण­द्वा­रे­णे­त्यर्थः । अत्र ब्रह्म­ण्य­न­न्त­प­द­स­म­र्पितः परिच्छेदाभावो ब्रह्म­स्व­रू­प­मेव, परिच्छेदस्य कल्पितत्वेन कल्पि­त­प्र­ति­यो­गि­का­भा­व­स्या­धि­ष्ठा­ना­न­ति­रे­का­दिति मन्तव्यम् ॥

ननु जीव­स्या­क­ल्पि­त­तया तत्प्र­ति­यो­गि­क­भे­द­रू­पस्य परि­च्छे­द­स्या­क­ल्पि­त­त्वा­द­न­न्त­प­देन कथं तन्निषेध इति चेत् , न ; जीव­ब्र­ह्म­णो­र्भे­द­स्यै­वा­सि­द्धे­रि­त्या­श­ये­नाह –
तस्माद्वा इति ।
आत्मशब्दस्य जीववाचित्वादिति भावः ।

आन­न्द­म­य­प­द­ल­क्षिते ब्रह्म­ण्या­त्म­श­ब्द­प्र­यो­गा­च्चै­व­मि­त्याह –
एतमिति ।

आत्मतामिति ।
ब्रह्मण इति शेषः ।

ब्रह्मण एव जीवभावे हेत्वन्तरमाह –
तत्प्र­वे­शा­च्चेति ।

ननु प्रवेशश्रवणं जीवभावेनेत्यत्र किं विनि­ग­म­क­मि­त्या­शङ्क्य श्रुत्य­न्त­रा­नु­सा­रा­दि­त्या­श­येन विवृणोति –
तत्सृष्ट्वेति ।
श्रुतौ तच्छब्दौ ब्रह्मपरौ ।

अत इति ।
ब्रह्मणो जीवभावेन प्रवे­श­श्र­व­णा­दि­त्यर्थः ।

शङ्कते –
एवं तर्हीति ।
यद्युक्तिरीत्या जीवात्मैव ब्रह्म तर्हि ब्रह्मण आत्मा­भि­न्न­त्वा­ज्ज्ञा­न­क­र्तृत्वं प्राप्त­मि­त्यर्थः ।

नन्व­स­ङ्ग­त्वा­दा­त्मन एव ज्ञानकर्तृत्वं नास्ति, कुत­स्त­द­भे­दा­द्ब्र­ह्म­ण­स्त­त्प्र­स­क्ति­रि­त्या­श­ङ्क्याह –
आत्मा ज्ञातेति हीति ।
जानामीति ज्ञान­क­र्तृ­त्व­स्या­त्म­न्य­नु­भ­व­सि­द्ध­त्वा­द­स­ङ्ग­त्व­श्रु­ति­र­न्य­प­रेति भावः ।

यथा जीवा­भि­न्न­त्व­व­च­नानि ब्रह्मणो ज्ञानकर्तृत्वं प्रापयन्ति तथा ‘सोऽकामयत’ इति वचनमपि तत्प्रा­प­य­ती­त्यत्र हेतुमाह –
कामिन इति ।

ब्रह्मणो ज्ञान­क­र्तृ­त्व­प्राप्तौ फलितं दोषमाह –
अत इति ।

'ज्ञानं ब्रह्म’ इति वच­ना­त्प्रा­प्त­म­न्त­व­त्त्व­मि­त्य­त्रो­क्त­म­नि­त्य­त्व­प्र­सङ्गं प्रप­ञ्च­य­न्नि­तश्च ज्ञप्ति­र्ब्र­ह्मे­त्य­यु­क्त­मि­त्याह –
अनित्यत्वेति ।

ननु ब्रह्मणो ज्ञप्ति­रू­प­त्वेऽपि कथमनित्यत्वं ज्ञप्ते­र्नि­त्य­चै­त­न्य­रू­प­त्वा­दि­त्या­शङ्क्य हेत्वसिद्धिमाह –
यदि नामेति ।
यदि नामाभ्युपगम्यत इत्यर्थः ।
लौकिकस्य ज्ञान­स्या­न्त­व­त्त्व­द­र्श­ना­त्त­द­ति­रि­क्त­नि­त्य­ज्ञा­ना­भा­वा­च्चेति भावः । पारतन्त्र्यं जन्यत्वम् ।

अनि­त्य­त्वा­दि­प्र­स­ङ्गा­ज्ज्ञ­प्ति­र्ब्र­ह्मे­त्य­यु­क्त­मि­त्यु­प­सं­ह­रति –
अतोऽस्येति ।
ज्ञान­स्ये­त्यर्थः ।

आत्मनो नित्य­चै­त­न्य­रू­प­तायाः श्रुति­यु­क्ति­सि­द्ध­त्वा­ज्ज्ञ­प्ति­र्ब्र­ह्मे­त्य­त्रा­त्म­चै­त­न्य­मेव ज्ञप्ति­र्वि­व­क्षिता, अतो नानि­त्य­त्वा­दि­प्र­सङ्गः ; आत्मनश्च ‘साक्षी चेता केवलो निर्गुणश्च’ इति वच­ना­ज्ज्ञा­न­क­र्तृ­त्व­म­सि­द्धम् ; जाना­मी­त्य­नु­भ­वस्तु बुद्धि­ता­दा­त्म्य­कृतः, ‘ध्यायतीव लेलायतीव’ इति श्रुतेः ; तथा च नात्मा­भि­न्न­त्वा­द्ब्र­ह्मणो ज्ञान­क­र्तृ­त्व­प्र­सङ्गः, काम­यि­तृ­त्व­व­च­न­मपि ब्रह्मणो मायो­पा­धि­प्र­यु­क्त­मेव, न स्वत इत्याशयेन समाधत्ते –
नेति ।
ज्ञप्ते­रा­त्म­स्व­रू­पा­व्य­ति­रे­कत्वे सति तस्यां ज्ञप्तौ कार्य­त्व­स्यो­प­चा­र­मा­त्र­त्वा­ज्ज्ञ­प्ति­रू­पस्य ब्रह्मणो नानि­त्य­त्वा­दि­प्र­सङ्ग इत्यर्थः ।

उक्तं विवृणोति –
आत्मन इति ।
चैतन्यरूपा ज्ञप्तिरात्मनो न भिद्यते मानाभावात् , अतो नित्या­त्म­स्व­रू­प­त्वा­दिह विवक्षिता ज्ञप्ति­र्नि­त्यै­वे­त्यर्थः ।

ननु तर्हि विषयावभासिकायां ज्ञप्तौ कथं कार्य­त्व­प्र­सि­द्धि­रि­त्या­शङ्क्य कार्य­त्वो­प­चा­रा­दि­त्याह –
तथापीति ।
कार्य­वृ­त्ति­सं­स­र्गा­त्का­र्य­त्वे­नो­प­च­र्यत इति शेषः ।

वृत्तेः कार्यत्वं साधयति –
बुद्धे­रु­पा­धि­ल­क्ष­णाया इति ।
प्रत्य­गा­त्मो­पा­धि­भू­ताया इत्यर्थः ।

शब्दाद्याकारेति ।
शब्दा­दि­वि­ष­य­गो­चराः शब्दा­द्य­व­भा­स­क­त्वेन प्रसिद्धाः परिणामास्ते आत्मस्वरूपस्य विज्ञानस्य विष­या­व­भा­स­क­चै­त­न्यस्य विषयभूता उपाधिभूता इत्यर्थः । तथा चोपा­धि­भू­त­वृ­त्ति­ता­दा­त्म्या­दा­त्म­स्व­रू­प­भू­तायां ज्ञप्तौ कार्यत्वोपचार इति भावः । आत्मविज्ञानस्य विषयभूता ये शब्दा­द्या­का­रा­व­भासाः ते उत्पद्यमानाः सन्त आत्म­वि­ज्ञा­न­व्याप्ता एवोत्पद्यन्त इति योजना ।

अत्र वृत्ती­ना­मा­त्म­वि­ज्ञा­नेन व्याप्ति­र्वृ­त्ति­चै­त­न्य­यो­र­व­भा­स्या­व­भा­स­क­भा­व­प्र­यो­ज­क­ता­दा­त्म्य­स­म्ब­न्ध­रूपा विवक्षिता । अत एवाह –
तस्मा­दा­त्म­वि­ज्ञा­न­भा­स्या­श्चेति ।
उक्त­व्या­प्ति­स्त­च्छ­ब्दार्थः ।

भाव­सा­ध­न­ज्ञा­न­श­ब्द­वा­च्य­त्व­मपि वृत्ती­ना­मे­वे­त्याह –
विज्ञानेति ।

जानातीत्यत्र धात्वर्थत्वमपि तासामेव कार­क­पा­र­त­न्त्र्या­दि­त्याह –
ते धात्वर्थभूता इति ।

ननु चक्षु­रा­दि­क­र­ण­ज­न्यानां ज्ञानानां वैशे­षि­का­दि­भि­रा­त्म­ध­र्म­त्वा­ङ्गी­का­रा­द्बु­द्धि­ध­र्म­त्व­म­यु­क्तम् , अत आह –
आत्मन एवेति ।
आत्मनो विकाररूपाः सन्तस्तस्यैव धर्मा गुणा इति श्रुति­ता­त्प­र्या­न­भिज्ञैः कल्प्यन्ते न तु परमार्थत आत्मधर्मत्वं तेषाम् ‘कामः सङ्कल्पः’ इत्यादिश्रुत्या जन्यज्ञानादीनां मनो­ध­र्म­त्व­प्र­ति­पा­द­ना­दा­त्मनो निर्गु­ण­त्व­प्र­ति­पा­द­ना­च्चे­त्यर्थः ।

एवं लौकिकज्ञानस्य कार­क­पा­र­त­न्त्र्या­दिकं निरूप्य स्वरूपज्ञानस्य तद्वै­प­री­त्य­मु­प­पा­द­यति –
यत्त्विति ।
तु-शब्दः स्वरूपज्ञानस्य वृत्ति­वै­ल­क्ष­ण्यार्थः । ‘सत्यं ज्ञानम्’ इत्यत्र ज्ञानपदलब्धं यज्ज्ञानं तत्सवित्रादेः प्रकाशादिकमिव ब्रह्म­स्व­रू­पा­दा­त्म­नोऽ­व्य­ति­रि­क्त­मा­त्म­स्व­रू­प­मिति यावत् । अतो ब्रह्मणः स्वरू­प­मे­वे­त्यर्थः ।

नन्वा­त्म­स्व­रू­प­त्वेऽपि ज्ञानस्य कथं ब्रह्म­स्व­रू­पत्वं कारकापेक्षस्य तस्य ब्रह्म­त्वा­यो­गा­दि­त्या­श­ङ्क्याह –
तन्न कारणान्तरेति ।
नित्या­त्म­स्व­रू­पा­दिति हेत्वर्थः ।

ननु ज्ञानस्य ब्रह्मरूपत्वे सर्व­ज्ञ­त्व­श्रु­ति­वि­रोधः, तस्याकार्यतया ब्रह्मणस्तत्र कर्तृ­त्वा­स­म्भ­वात् ; न च बुद्धि­वृ­त्त्यु­प­हि­त­त्वेन स्वरूपज्ञानेऽपि कार्यत्वोपचार उक्त इति वाच्यम् , तावता बुद्ध्यु­पा­धि­कस्य जीवस्य ज्ञान­क­र्तृ­त्व­ला­भेऽपि ब्रह्म­ण­स्त­द­ला­भात् ; जीव­ब्र­ह्म­णो­र­भे­देऽपि कल्पि­त­भे­दा­भ्यु­प­ग­मेन धर्म­सा­ङ्क­र्या­यो­गा­दि­त्या­शङ्क्य ब्रह्मणः सर्वज्ञत्वं सर्व­सा­क्षि­त्व­रू­प­मे­वास्तु, कर्तृ­त्व­श्रु­ते­रौ­प­चा­रि­क­त्वो­प­प­त्ते­रि­त्या­श­येन सर्व­सा­क्षि­त्व­मु­प­पा­द­यति –
सर्वभावानां चेत्यादिना ।

तेनेति ।
तेन ब्रह्मणा अविभक्तौ विभागरहितौ देशकालौ येषां ते तथोक्तास्तेषां भावस्तत्त्वं तस्मान्न तस्य विप्र­कृ­ष्टा­दि­क­म­स्ती­त्यर्थः ।

सर्वपदार्थानां ब्रह्मा­वि­भ­क्तत्वे हेतुः –
कालाकाशादीति ।
सर्व­क­ल्प­ना­धि­ष्ठा­न­त्वा­दि­त्यर्थः ।

स्वप्र­का­श­चि­द्रू­प­तया ब्रह्म­णोऽ­ति­स्व­च्छ­त्वान्न तस्याप्रकाश्यं किञ्चि­त्सू­क्ष्म­म­स्ती­त्याह –
निरतिशयेति ।

तस्मात्त्विति ।
सर्व­प­दा­र्थ­सं­स­र्गि­त्वा­दि­त्यर्थः । वस्तुतस्तु जीवस्य बुद्ध्यु­पा­धि­व­शा­न्मु­ख्य­ज्ञा­तृ­त्वा­दि­व­द्ब्र­ह्म­णोऽपि मायो­पा­धि­व­शा­न्मु­ख्य­मेव सर्वज्ञत्वं कामयितृत्वादिकं च सम्भवतीति विशे­ष­स­ङ्ग्र­हा­र्थ­स्तु-शब्दः । तदुक्तं वाक्य­वृ­त्ता­वा­चा­र्यै­रेव - ‘मायो­पा­धि­र्ज­ग­द्योनिः सर्व­ज्ञ­त्वा­दि­ल­क्षणः’ इति ।

कारकनिरपेक्षं स्वरू­प­ज्ञा­न­म­स्ती­त्यत्र मन्त्र­ब्रा­ह्म­ण­वा­क्यानि प्रमाणयति –
मन्त्रेत्यादिना ।
अपाणिर्ग्रहीता अपादो जवनः ।

परस्य नान्योऽ­व­भा­स­कोऽस्ति, तस्य स्वप्र­का­श­त्वा­दि­त्याह –
न चेति ।
अग्रे सृष्टेः पूर्वकाले भवमग्र्यम् । विज्ञातुरात्मनो या विज्ञातिः स्वरूपभूता संवित् तस्या विपरिलोपो विनाशो नास्ति, अविनाशित्वात् नाश­सा­म­ग्री­शू­न्य­त्वा­दि­त्यर्थः ।

ज्ञप्ते­रा­त्म­स्व­रू­प­त्वेन कार­का­न­पे­क्ष­त्व­प्र­धा­न­फ­ल­माह –
विज्ञा­तृ­स्व­रू­पेति ।

तत् आत्मस्वरूपं ज्ञानम् । न धात्वर्थ इत्यत्र अतःशब्दोक्तं हेतुमाह –
अविक्रियेति ।
नित्य­त्वा­दि­त्यर्थः । कार­क­सा­पे­क्ष­क्रि­याया एव धत्वर्थत्वादिति भावः । अत एवेति । ज्ञातस्य नित्यत्वादेव तत्र ज्ञाने ब्रह्मणः कर्तृ­त्व­म­प्या­पा­द­यि­तु­म­श­क्य­मि­त्यर्थः ।

तस्मादेव चेति ।
तत् ज्ञानस्वरूपं ब्रह्म ज्ञान­प­द­वा­च्य­लौ­कि­क­ज्ञा­न­वि­ल­क्ष­ण­त्वा­देव ज्ञानपदवाच्यमपि नेत्यर्थः ।

कथं तर्हि ‘ज्ञानं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –
तथापीति ।
वाच्य­त्वा­भा­वेऽ­पी­त्यर्थः ।

तदाभासेति ।
ज्ञाना­भा­स­वा­च­के­ने­त्यर्थः ।

कोऽसौ ज्ञानाभास इत्या­का­ङ्क्षायां तदेव विवृणोति –
बुद्धीति ।
बुद्धि­प­रि­णा­म­रू­प­वृ­त्ति­ज्ञा­न­वा­च­के­ने­त्यर्थः । वृत्ते­र्ज­डा­या­श्चै­त­न्य­ता­दा­त्म्य­म­न्त­रेण विष­या­व­भा­स­क­त्वा­यो­गा­ज्ज्ञा­ना­भा­स­त्व­मिति भावः ।

पूर्वोक्तं वाच्य­त्वा­भा­व­म­नूद्य तत्र हेत्वन्तरमाह –
न तूच्यत इत्यादिना ।
अर्थेषु शब्दानां प्रवृ­त्ति­हे­तु­त्वेन प्रसिद्धा ये जात्यादयो धर्मा­स्त­द्र­हि­त­त्वा­द्ब्र­ह्मण इत्यर्थः ।

तद्रहितत्वे हेतुमाह –
सत्यानन्तेति ।
सामा­ना­धि­क­र­ण्या­दि­त्य­न­न्तरं ब्रह्म­श­ब्द­स्येति शेषः । सत्या­न­न्त­प­दाभ्यां बाधा­यो­ग्य­त्व­त्रि­वि­ध­प­रि­च्छे­द­रा­हि­त्य­स­म­र्प­काभ्यां ब्रह्मणो निर्वि­शे­ष­त्वा­व­ग­मा­दि­त्यर्थः ।

अत एव सत्यशब्दस्यापि न वाच्यं ब्रह्मेत्याह –
तथा सत्यशब्देनापीति ।

सर्वेति ।
सर्व­वि­शे­ष­र­हि­त­स्व­रू­प­त्वा­दे­वे­त्यर्थः ।

कथं तर्हि ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –
बाह्येति ।
बाह्यं लोकसिद्धं यत्स­त्ता­सा­मान्यं सत्ता­जा­ति­स्व­रूपं तद्वाचकेन सत्यशब्देन बाधायोग्यं वस्तु लक्ष्यत इत्यर्थः । यद्वा पूर्वं विका­रे­ष्व­व्य­भि­चा­रि­तया वर्तमाने वस्तुनि रज्ज्वादौ सत्य­श­ब्द­प्र­सि­द्धे­रु­क्त­त्वा­ल्लौ­कि­क­स­त्य­व­स्तु­वा­चिना सत्यशब्देन परमार्थभूतं वस्तु लक्ष्यते, अतः ‘सत्यं ब्रह्म’ इति सामा­ना­धि­क­र­ण्य­मु­प­प­द्यत इति बोध्यम् ।

न त्विति ।
केवलस्य परमार्थवस्तुनः प्राग­नु­प­स्थि­त­त्वेन शक्ति­ग्र­हा­भा­वा­दिति भावः ।

सत्या­दि­प­द­त्र­य­व्या­ख्या­न­मु­प­सं­ह­रति –
एवमिति ।

निय­म्य­नि­या­म­क­भा­व­फ­ल­माह –
सत्यादीति ।
स्वस्वा­च्या­र्था­न्नि­व­र्त­काश्च भूत्वा ब्रह्मणो लक्षणस्य सच्चि­द­द्वि­ती­य­स्व­रू­पस्य समर्पका भवन्तीत्यर्थः ।

लक्ष­ण­वा­क्या­र्थ­वि­चा­र­मु­प­सं­ह­रति –
अतः सिद्धमिति ।
निरुक्तं वाच्यम् , तद्भि­न्न­म­नि­रु­क्तम् ।

नीलोत्पलवदिति ।
सत्य­त्वा­दि­वि­शे­ष­ण­वि­शि­ष्टस्य ब्रह्मणः सत्या­दि­वा­क्या­र्थ­तायाः ‘न विशे­ष­ण­प्र­धा­ना­न्येव’ इत्यत्र ‘लक्षणार्थं च वाक्य­मि­त्य­वो­चाम’ इत्यत्र च तात्पर्यतो निर­स्त­त्वा­द्ब्र­ह्मणो नीलो­त्प­ल­वा­क्या­र्थ­वै­ल­क्षण्यं च सिद्धमित्यर्थः । सच्चिदेकरसं ब्रह्म प्रकृतं भेदवर्जितम् । मन्त्रस्य प्रथमे पादे तात्पर्येण निरूपितम् ॥

गूहतेरिति ।
गूहतेः संवरणार्थस्य गुहेति रूपमिति भावः ।

गुहा­श­ब्द­स्या­वा­र­का­र्थ­क­त्वेऽपि प्रकृते का गुहा विवक्षिता ? तत्राह –
निगूढा इत्यादिना ।
ज्ञात्रा­दि­प­दा­र्थानां बुद्धि­प­रि­णा­म­त्व­प­क्ष­मा­श्रित्य तत्र तेषां निगूढत्वमुक्तम् । बुद्धि­नि­रो­धा­व­सरे ज्ञात्रा­दि­प­दा­र्थानां भेदे­ना­नु­प­ल­म्भा­त्तेषां तत्र निगू­ढ­त्व­म­व­ग­न्त­व्यम् ।

तेषां माया­प­रि­णा­म­त्व­प­क्ष­मा­श्रि­त्याह –
निगूढाविति ।
भोगो दुःखादिः, अपवर्गो ज्ञानम् , तदुभयं बुद्धि­प­रि­णा­म­त्वा­त्तत्र निगूढमित्यर्थः ।

भूताकाशं व्यावर्तयति –
अव्याकृताख्य इति ।
अव्या­कृ­त­म­ज्ञा­नम् ।

तस्य परमत्वे कारणं हि-शब्देनाह –
तद्धीति ।
जग­त्का­र­ण­त्वा­दिति हि-शब्दार्थः ।

इतश्चाव्याकृतं परममित्याह –
एतस्मिन्निति ।
अक्षरे ब्रह्मणि हे गार्गि काल­त्र­या­प­रि­च्छिन्नं जग­दु­पा­दा­न­मा­का­श­श­ब्दि­त­म­व्या­कृतं साक्षा­द­ध्य­स्त­मिति श्रुत्यर्थः । संनिकर्षः साक्षा­त्स­म्बन्धः । अज्ञा­न­व्य­ति­रि­क्त­प­दा­र्था­ना­म­ज्ञाते ब्रह्म­ण्य­ध्य­स्त­तया अज्ञानद्वारक एव ब्रह्मणा संनिकर्ष इति भावः । एवमव्याकृताख्ये परमे व्योम्नि कारणभूते या कार्यभूता बुद्धिगुहा तस्यां निहितं ब्रह्मेति रीत्या ‘गुहायाम्’ ‘व्योमन्’ इति सप्त­म्यो­र्वै­य­धि­क­र­ण्य­मु­क्तम् ।

इदानीं तयोः सामा­ना­धि­क­र­ण्य­माह –
गुहायामिति ।
न बुद्धि­रि­त्ये­व­का­रार्थः ।

अव्याकृतेऽपि गुहा­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­माह –
तत्रापीति ।
सृष्टि­स्थि­ति­सं­हा­र­का­ले­ष्वि­त्यर्थः ।

ननु बुद्धेः स्वच्छ­त्वा­त्तत्र ब्रह्मणो निधानं सम्भवति, कथमव्याकृते तत्स­म्भ­व­ती­त्या­श­ङ्क्याह –
सूक्ष्म­त­र­त्वा­च्चेति ।
अति­स्व­च्छ­त्वा­दि­त्यर्थः । च-शब्दः शङ्कानिरासार्थः । वस्तुतस्तु परमे व्योम्नि या गुहा बुद्धिः तस्यां निहितमिति सप्त­म्यो­र्वै­य­धि­क­र­ण्येन व्याख्यानमेव युक्तम् , बुद्धु­य­प­हि­त­जी­वा­भे­देन ब्रह्मण आपरोक्ष्यलाभात् ‘अहं ब्रह्मास्मि’ इत्या­दि­श्रु­त्य­न्त­रै­का­र्थ्य­ला­भात् प्रवेशवाक्येन वृत्ति­स्था­नी­ये­नास्य गुहा­नि­हि­त­वा­क्य­स्यै­क­र्थ्य­ला­भाच्च । सामा­ना­धि­क­र­ण्य­पक्षे त्वव्याकृतस्य विक्षे­प­श­क्ति­म­द­ज्ञा­नां­श­रू­पस्य परो­क्ष­त्वा­त्तत्र निहितस्य ब्रह्मण आपरोक्ष्यादिकं न लभ्यते । अने­नै­वा­भि­प्रा­येण बुद्धेरेव गुहात्वं स्वीकृत्य तत्र निधा­न­मौ­प­चा­रि­क­मिति वक्ष्यतीति मन्तव्यम् ।

'परमे व्योमन्’ इत्यत्र व्योमपदं पराभिप्रायेण व्याख्याय स्वाभिप्रायेण व्याचष्टे –
हार्दमेव त्विति ।

भूताकाशमेव व्योमेत्यत्र हेतुः –
न्याय्यमिति ।
रूढ्यनुसारस्य न्याय्त्वा­दि­त्यर्थः । परं तूक्तरीत्या बुद्धेरेवात्र गुहा­त्वा­त्त­द­धि­क­र­ण­त्व­ला­भाय हार्द­मि­त्यु­क्तम् । हृद­य­म­ध्य­स्थ­मि­त्यर्थः । परमत्वविशेषणमपि तस्य सम्भवतीति सूच­ना­र्थ­स्तु-शब्दः । अव्या­कृ­त­वा­र­णा­या­व­धा­र­णम् ।

ननु भूताकाशस्य कार्यत्वात्कथं परमत्वं सम्भवति ? तत्राह –
विज्ञा­ना­ङ्ग­त्वे­नेति ।
सगु­ण­ब्र­ह्मो­पा­स­न­स्था­न­तया हार्दस्य व्योम्नो गायत्रीविद्यादौ विव­क्षि­त­त्वा­त्का­र्य­स्यापि तस्योत्कर्षरूपं परमत्वं सम्भवतीत्यर्थः । न हि कारणत्वप्रयुक्त एवोत्कर्ष इति नियमोऽस्ति, भूतकार्यस्यापि सूर्यमण्डलादेः स्वका­र­णा­पे­क्ष­यो­त्क­र्षस्य मूर्ता­मू­र्त­ब्रा­ह्म­णादौ प्रसि­द्ध­त्वा­दिति भावः ।

हार्दव्योम्नो विज्ञा­ना­ङ्ग­त्वेन परमत्वमेव साधयति –
यो वै स इति ।
पुरुषाच्छरीरात् यो बहिर्धा बहिराकाशः यो वा अन्तः पुरुषे शरीरे आकाशः स इत्युपक्रम्य ‘योऽयमन्तर्हृदय आकाशः’ इति श्रुत्य­न्त­रा­द्गा­य­त्त्री­वि­द्या­प्र­क­र­ण­स्था­द्गा­य­त्त्री­प­द­ल­क्षि­त­ब्र­ह्मो­पा­स­न­स्था­न­तया हार्दाकाशस्य ब्रह्म­वि­ज्ञा­ना­ङ्ग­त्व­बो­ध­कात् हार्दस्य व्योम्नः परमत्वं प्रसिद्धं निश्चि­त­मि­त्यर्थः ।

तद्वृत्त्येति ।
बुद्धिवृत्त्या ‘तत्त्वमसि’ इति श्रुतिजनितया बुद्ध्यादिभ्यः सका­शा­द्वि­वि­क्त­तया गृह्यत इत्यर्थः । यद्वा बुद्धिवृत्त्या बुद्धिसंसर्गेण विविक्ततया स्फुटतया द्रष्टृ­त्व­श्रो­तृ­त्व­म­न्तृ­त्वा­दि­रू­पेण ब्रह्मोपलभ्यत इत्यर्थः । तथा च गुहानिहितवाक्यं प्रति वृत्ति­स्था­नी­यस्य प्रवे­श­वा­क्य­स्या­र्थ­व­र्ण­ना­व­सरे वक्ष्यति - ‘गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशे­ष­व­दु­प­ल­भ्यते’ इति ।

ननु निहितशब्दः स्थितिं ब्रूते, ततश्च कथमन्यथा निधानं व्याख्यायते ? तत्राह –
न ह्यन्यथेति ।
अत्र सम्ब­न्ध­प­द­मा­धे­य­त्व­प­रम् ; तथा च अन्यथा उप­ल­म्भ­व्य­ति­रे­केण देश­वि­शे­षा­द्या­धे­य­त्व­रूपं निधानं ब्रह्मणो न ह्यस्तीत्यर्थः ।

सर्वगतत्वादिति ।
न चाकाशस्य सर्वगतत्वेऽपि स्वकारणमादायादौ स्थितिरस्तीति वाच्यम् , कार्यस्याकाशस्य लोकप्रसिद्ध्या सर्वगतत्वेऽपि वस्तुतः सर्व­ग­त­त्वा­भा­वा­दिति भावः ।

किं च ‘यत्राधेयत्वं तत्र सविशेषत्वम् ‘ इति व्याप्ति­र्दृ­श्यते, ब्रह्मणि च व्याप­क­स­वि­शे­ष­त्व­नि­वृत्त्या व्याप्या­धे­य­त्व­नि­वृ­त्ति­रि­त्या­श­ये­नाह –
निर्वि­शे­ष­त्वा­च्चेति ।
यद्वा विशे­ष­प­द­मा­धा­र­प­रम् , ततश्च आधा­र­रा­हि­त्य­श्र­व­णाच्च न तस्या­धे­य­त्व­मि­त्यर्थः ।

एवं गुहानिहितवाक्यं व्याख्या­या­न­न्त­र­वा­क्य­मा­का­ङ्क्षा­पूर्वं व्याचष्टे –
स एवमित्यादिना ।
यो ब्रह्म गुहायां प्रत्यक्तया स्थितम् ‘अहं ब्रह्म’ इति वेद विजानाति स एवं विजानन्किं लभत इत्या­का­ङ्क्षा­या­मा­हे­त्यर्थः । भुङ्क्ते अनुभवति ।

सर्व­श­ब्द­स्या­स­ङ्कु­चितं साकल्यमर्थतया दर्शयति –
निरवशिष्टानिति ।

काम­श­ब्द­स्ये­च्छा­प­रत्वं व्यावर्तयति –
काम्यानिति ।

तानेव विशिष्य दर्शयति –
भोगानित्यर्थ इति ।
भुज्यत इति व्युत्पत्त्या भोग­प­द­मा­न­न्द­प­र­मिति भावः ।

सह शब्दमवतारयति –
किमिति ।
यथास्मादादिः पुत्र­स्व­र्गा­दी­न्प­र्या­येण क्रमेण भुङ्क्ते तथैव विद्वानपि किं कामान्भुङ्क्त इति योजना ।

एकक्षणेति ।
एक­क्ष­णा­व­च्छि­न्ना­नि­त्यर्थः ।

ननु सुखव्यञ्जकानां सत्त्व­वृ­त्ति­वि­शे­षाणां क्रमि­क­त्वा­त्क­थ­मे­क­दै­वा­न­न्दा­ना­म­नु­भवो विदुषः सिध्यति ? तत्राह –
एकयेति ।
वृत्ति­कृ­ता­न­न्दा­नु­भवो नात्र विवक्षित इति भावः ।

यामिति ।
'सत्यं ज्ञानम्’ इत्यत्र ज्ञानमिति पदेन लक्षणीयतया यामु­प­ल­ब्धि­म­वो­चाम तया ब्रह्म­स्व­रू­पा­व्य­ति­रि­क्तया कामानश्नुत इति योजना ।

तदुच्यत इति ।
यत्स­र्व­का­मा­ना­म­नु­भवे यौगपद्यमुक्तं तदेव ब्रह्मणा सहेत्यत्र सहशब्देनोच्यते न साहि­त्य­मि­त्यर्थः ।

नन्वत्र तृतीयया साहित्यमेव सहशब्दार्थतया भाती­त्या­श­ङ्क्याह –
ब्रह्मभूत इति ।
इत्थम्भावे तृतीयेयं न साहि­त्य­प्र­ति­यो­गि­त्व­वा­चि­नीति भावः ।

पूर्वो­क्त­व्य­त­रे­क­दृ­ष्टा­न्त­वि­व­र­ण­पू­र्व­क­मु­क्त­मर्थं प्रपञ्चयति –
न तथेत्यादिना ।
अत्रो­पा­धि­कृ­ते­ने­त्याद्या अपि तृतीया इत्थम्भावे द्रष्टव्याः ; तथा च परमात्मनो जल­सू­र्य­व­त्प्र­ति­बि­म्ब­भूतं घटा­का­श­व­द­व­च्छिन्नं वा उपाधिकृतं सांसारिकं संसारधर्मकं यत्स्वरूपं तदात्मा लोको यथा धर्मा­दि­सा­ध­ना­पे­क्षा­न्का­मा­न्प­र्या­ये­णा­श्नुत इत्यर्थः ।

विदुषः कामाशनप्रकारं पृच्छति –
कथं तर्हीति ।

पूर्वोक्तेनैव प्रकारेणेत्याह –
यथोक्तेनेति ।

सर्वज्ञेनेति ।
सर्व­सा­क्षि­णे­त्यर्थः ।

सर्वगतेन हीति ।
सर्व­प्रा­णि­सु­खा­नु­ग­तेन विदुष आत्म­भू­ते­ने­त्यर्थः । सर्वगतत्वादिकं श्रुतिषु प्रसिद्धमिति हि-शब्दार्थः ।

सर्व­ज्ञा­दि­रू­पस्य विद्वदात्मनः सेश्वरसाङ्ख्यमत इव ताटस्थ्यं वारयति –
नित्य­ब्र­ह्म­स्व­रू­पे­णेति ।

धर्मादीति ।
स्वकी­य­ध­र्मा­द्य­न­पे­क्षा­नि­त्यर्थः ; यथाश्रुते प्रति­प्रा­णि­व­र्तिनां कामानां तत्त­द्ध­र्मा­द्य­पे­क्ष­त्वा­द­सा­ङ्ग­त्या­पत्तेः । एवमग्रेऽपि ।

तद्धीति ।
ब्रह्मणः प्रसिद्धं सर्व­सा­क्षि­त्व­मेव विपश्चित्त्वम् , नान्यदित्यर्थः ।

इदं च विशेषणं विदुषो ब्रह्मा­न­न्दा­नु­भ­व­काले समुद्राम्भसि विप्रुषामिव ब्रह्मा­न­न्देऽ­न्त­र्भू­तानां सर्व­प्रा­णि­ग­ता­ना­मा­न­न्दानां सर्व­सा­क्षि­चै­त­न्य­रू­पे­णै­वा­श­न­मत्र विवक्षितं न प्रका­रा­न्त­रे­णे­त्ये­त­स्या­र्थस्य गमकमित्याशयेनाह –
तेन सर्व­ज्ञ­स्व­रू­पे­णेति ।
ननु यः सत्य­ज्ञा­ना­न­न्त­ल­क्षणं ब्रह्म प्रत्यक्त्वेन वेद सोऽर्चि­रा­दि­व­र्त्मना ब्रह्मलोकं गत्वा तत्रस्थेन सर्वज्ञेन ब्रह्मणा सह दिव्या­न्का­मा­न­श्नुत इति ऋज्वर्थ एवात्र किमिति न विवक्षित इति चेत् , न ; ब्रह्मणा सहेत्यन्वयस्य ‘सोऽस्नुते सर्वा­न्का­मा­न्सह’ इत्य­त्रा­ध्य­य­न­स­म्प्र­दा­य­प्रा­प्त­वा­क्य­वि­च्छे­दा­न­नु­गु­ण­त्वात् परब्रह्मविदो गत्यु­त्क्रा­न्त्या­द्य­भा­वस्य चतुर्थाध्याये साधितत्वाद् ‘अशरीरं वाव सन्तम् ‘ इत्यादिश्रुत्या मुक्तस्य शरी­र­स­म्ब­न्ध­प्र­ति­षे­धात् ‘तत्केन कं पश्येत्’ इत्यादिश्रुत्या तस्य विशे­ष­वि­ज्ञा­न­प्र­ति­षे­धाच्च ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुत्या सावधारणया ब्रह्म­स्व­रू­प­व्य­ति­रि­क्तस्य प्राप्य­त्व­प्र­ति­षे­धाच्च ; तस्मादत्र ऋज्व­र्था­वि­व­क्षे­त्य­न्यत्र विस्तरः ॥

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­र­स­न्द­र्भ­म­व­ता­र­त­यति –
सर्व एवेत्यादिना ।

तद्वृत्तीति ।
तस्य सूत्रस्य वृत्ति­र्वि­स्त­रतो व्याख्या तत्स्थानीय इत्यर्थः ।

तत्र सृष्टि­वा­क्ये­ना­नन्त्यं प्राधान्येन प्रपञ्च्यत इति तात्पर्यं दर्शयितुं पूर्वो­क्ते­ष्व­र्थ­वि­शे­ष­म­नु­व­दति –
तत्र चेति ।
आहेत्यनन्तरम् ‘तस्माद्वै’ इत्या­दि­श्रु­ति­रिति शेषः ।

नन्वन्तशब्दस्य नाशे प्रसि­द्ध­त्वा­द­न­न्तत्वं नित्यत्वम् ; तच्चा­का­शा­दि­का­र­ण­त्व­व­च­ना­द्ब्र­ह्मणो न सिध्यति, तस्या­न्त­व­त्त्वेऽ­प्या­का­शा­दे­र्वा­य्वा­दि­का­र­ण­त्व­व­दा­का­शा­दि­का­र­ण­त्वो­प­प­त्ते­रि­त्या­शङ्क्य आनन्त्यं विभजते –
तत्र त्रिविधं हीति ।
तथा च त्रिविधे आनन्त्ये यद्वस्तुत आनन्त्यं तदेव सृष्टिवाक्येन तात्पर्यतो निरूप्यत इति भावः ।

तत्र देशत आनन्त्यस्य हि-शब्दसूचितां प्रसिद्धिमाकाशे दर्शयति –
तद्यथेति ।

न हीति ।
अवकाशात्मना सर्व­त्रा­व­स्था­ना­दि­त्यर्थः । अभावः परिच्छेदः ।

ननु किं कालतो वस्तु­त­श्चा­न­न्त्य­म­प्या­काशे प्रसिद्धम् ? नेत्याह –
न त्विति ।

कालत आनन्त्याभावे हेतुं पृच्छति –
कस्मादिति ।

यद्वा आकाशस्य नित्य­त्व­म­भि­प्रेत्य नैयायिकः शङ्कते –
कस्मादिति ।

'आत्मन आकाशः सम्भूतः’ इति श्रुतिमाश्रित्य परिहरति –
कार्यत्वादिति ।
तथा च कार्या­का­श­स्या­नि­त्य­त्वा­त्का­लत आनन्त्यं नास्ति । वाय्वा­दे­रा­का­श­स­म­स­त्ता­कस्य वस्तुनः सत्त्वाद्वस्तुत आनन्त्यमपि तस्य नास्तीति भावः ।

ननु नित्यत्वेन प्रसिद्धस्य चेदाकाशस्य कालत आनन्त्यं नास्ति, तर्हि ब्रह्मणोऽपि तन्नास्त्येव, नेत्याह –
नैवमिति ।

नन्व­का­र्य­त्व­म­सिद्धं ब्रह्मणः कार­ण­त्वा­दा­का­शा­दि­व­दिति, नेत्याह –
अकार्यं चेति ।
च-शब्दः शङ्कानिरासार्थः । आकाशादेरिव ब्रह्मणः सृष्टि­प्र­ल­य­यो­र­श्र­व­णा­न्मू­ल­का­र­ण­स्यापि ब्रह्मणः कार्यत्वे कार­णा­न­व­स्था­प्र­स­ङ्गे­नो­क्त­का­र­ण­त्वा­नु­मा­न­स्या­प्र­यो­ज­क­त्वात् ‘सर्वगतश्च नित्यः’ इत्यादौ नित्य­त्व­श्र­व­णात् ब्रह्मण उत्पत्तौ साम­ग्र्य­नि­रू­प­णा­देश्च हेतोरकार्यं ब्रह्मेत्यर्थः ।

तथेति ।
तथा वस्तुतश्चानन्तं ब्रह्मेत्यर्थः ।

ननु वस्तुतो ब्रह्मा­ति­रि­क्तस्य जगतः सत्त्वात्तस्य वस्तुत आन­न्त्य­म­सि­द्ध­मि­त्या­क्षि­पति –
कथं पुनरिति ।

जगतो ब्रह्मापेक्षया वस्त्व­न्त­र­त्व­म­सिद्धं कल्पि­त­त्वा­दि­त्या­श­ये­नाह –
सर्वा­न­न्य­त्वा­दिति ।

ननु सर्वस्य जगतो ब्रह्मा­न­न्य­त्वेऽपि ब्रह्म­ण­स्त­त्कृतः परिच्छेदः किं न स्यादि­त्या­श­ङ्क्याह –
भिन्नं हीति ।

भिन्न­स्या­न्तत्वं प्रसि­द्ध­मि­त्यु­क्तम् , तदेव प्रपञ्चयति –
वस्त्व­न्त­र­बु­द्धि­र्हीति ।
गोत्व­सं­नि­क­र्ष­द­शायां गोत्व­रू­प­स्या­श्व­त्वा­द्य­पे­क्षया वस्त्वन्तरस्य बुद्धिर्जायते ; सा च गोसं­नि­हि­ता­या­म­श्वा­दि­व्य­क्ता­वपि गौर­य­म­पी­त्ये­व­मा­का­रेण प्रसक्ता सती तत्राश्वत्वं दृष्ट्वा निवर्तते नायं गौरिति हि प्रसि­द्ध­मे­त­दि­त्यर्थः ।

ततः किम् ? तत्राह –
यत इति ।

उक्तं सामान्यन्यायं स्वय­मे­वो­दा­ह­र­ण­नि­ष्ठ­तया योजयति –
तद्यथेति ।

अश्वत्वान्तमिति ।
गोत्व­म­श्व­त्वा­न्त­म­श्व­त्वा­व­धि­क­म­नु­भू­यत इति कृत्वा गोत्व­म­न्त­व­द्भ­व­ती­त्यर्थः ।

उक्तस्य वस्तु­प­रि­च्छे­दस्य घट­त्वा­दि­सा­धा­र­ण्येन प्रसिद्धिमाह –
स चेति ।

एवं वस्त्व­न्त­र­स्या­न्त­वत्त्वं प्रसाध्य प्रकृतमाह –
नैवमिति ।
भेदपदं भिन्नवस्तुपरम् ।

अत इति ।
परमार्थतो ब्रह्म­भि­न्न­व­स्त्व­भा­वा­दि­त्यर्थः । सर्वस्यैव जगतो ब्रह्मा­न­न्य­त्वस्य पूर्व­म­भि­हि­त­त्वा­दिति भावः ।

सर्वानन्त्यत्वे हेतुं पृच्छति –
कथमिति ।

'आत्मन आकाशः सम्भूतः’ इति सृष्टि­वा­क्ये­नो­त्त­र­माह –
उच्यत इति ।

ननु काल­प­र­मा­ण्वा­दीनां नित्य­त्वा­त्स­र्व­व­स्तु­का­र­ण­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याह –
सर्वेषां हीति ।
कालादेरपि कार्यत्वं विय­द­धि­क­र­ण­न्या­य­सि­द्ध­मिति सूचनार्थो हि-शब्दः । ‘चिद­वि­द्या­स­म्बन्धः कालः’ विष्णु­पु­रा­णो­क्त­रीत्या ‘ब्रह्मण एव रूपभेदः कालः’ इति पक्षयोः काल­स्या­ना­दि­त्वेन कार्य­त्वा­भा­वेऽपि न क्षतिः, आद्यपक्षे काल­स्या­वि­द्या­व­त्क­ल्पि­त­त्वेन वस्त्व­न्त­र­त्वा­भा­वात् , द्वितीये कालस्य ब्रह्म­स्व­रू­प­त्वा­देव वस्त्व­न्त­र­त्वा­भा­वा­दिति मन्तव्यम् ।

ब्रह्म­व­द्ब्र­ह्म­का­र्य­स्यापि परमार्थत्वं मन्वानः शङ्कते –
कार्यापेक्षयेति ।

आर­म्भ­णा­धि­क­र­ण­न्या­येन परिहरति –
नानृतत्वादिति ।

यत इति ।
यतः पृथ­क्स­त्त्वा­द्धेतोः कारणबुद्धिः कार्या­न्नि­व­र्तेत तत्पृथक्सत्त्वं कार्यस्य नास्तीत्यर्थः । अत एव ‘मृद्घटः’ ‘मृच्छरावम्’ इति विकारेषु कार­ण­बु­द्धि­र­नु­व­र्तते, तथा जगत्यपि ‘सन्घटः’ ‘सन्पटः’ इत्यादिरूपेण सद्रू­प­ब्र­ह्म­बु­द्धि­र­नु­व­र्तते, न हि पृथ­क्स­त्त्व­यु­क्त­यो­र्घ­ट­प­ट­यो­र्मध्ये घटबुद्धिः पटे पटबुद्धिर्वा घटेऽनुवर्तत इति भावः ।

कार्यस्य कार­णा­त्पृ­थ­क्स­त्त्वा­भावे श्रुतिमाह –
वाचारम्भणमिति ।

वस्तुत आन­न्त्य­नि­रू­प­ण­मु­प­सं­ह­रति –
तस्मादिति ।
देशत इति पाठेऽपि देशपदं वस्तुपरम् ।

ब्रह्मणो देशत आनन्त्यं कैमुतिकन्यायेन साधयति –
आकाशो हीत्यादिना ।
आकाशस्य देशत आनन्त्यं प्रसि­द्ध­मि­त्य­य­मर्थः प्रागेवोक्त इति सूचनार्थो हि-शब्दः ।

ननु सर्वगतमाकाशं प्रति ब्रह्मण उपा­दा­न­का­र­ण­त्वेऽपि कथं तस्या­का­शा­पे­क्ष­यापि महत्त्वं सिध्यति स्वन्यू­न­प­रि­मा­ण­द्र­व्य­स्या­प्यु­पा­दा­न­त्व­स­म्भ­वा­दि­त्या­शङ्कां निराकरोति –
न हीति ।
कार्यद्रव्ये स्वन्यू­न­प­रि­मा­ण­द्र­व्या­र­भ्य­त्व­नि­य­मस्य दीर्घ­वि­स्तृ­त­दु­कू­ला­द्या­र­ब्ध­र­ज्ज्वादौ व्यभि­चा­रा­त्स­र्व­ग­त­स्या­का­शा­दे­र­स­र्व­ग­ता­दु­त्प­द्य­मा­न­तायाः प्रत्य­क्षा­दि­सि­द्ध­त्वा­भा­वा­च्चौ­चि­त्ये­ना­का­शस्य ततोऽ­प्य­धि­क­प­रि­मा­णा­दे­वो­त्पत्तिः सिध्यतीत्यर्थः ।

'ज्याया­ना­का­शात्’ इत्यादिश्रुत्या च ब्रह्मणो निरतिशयमहत्त्वं सिद्धमित्याशयेन फलितमाह –
अत इति ।

अत एवेति ।
त्रिवि­ध­प­रि­च्छे­द­शू­न्य­त्वा­दे­वे­त्यर्थः ।

निरतिशयमिति ।
त्रैका­लि­क­बा­ध­शू­न्य­त्व­ल­क्ष­ण­मि­त्यर्थः ॥

इत्थं सृष्टि­वा­क्य­ता­त्प­र्या­र्थ­मा­नन्त्यं निरूप्याक्षराणि व्याचष्टे –
तस्मादित्यादिना ।

यथालक्षितमिति ।
परामृश्यत इत्यनुषङ्गः ।

उक्तं सर्व­ना­म­द्व­या­र्थ­म­नु­व­द­न्नेव वाक्यार्थमाह –
यदित्यादिना ।

ननु प्रतीच एवा­त्म­श­ब्द­वा­च्य­त्वा­त्कथं ब्रह्मण आत्म­श­ब्द­वा­च्य­त्व­मि­त्या­श­ङ्क्याह –
आत्मा हीति ।
तत् ब्रह्म सर्वस्य भोक्तृवर्गस्य आत्मा वास्तवं स्वरूपमित्यर्थः ।

तत्र हि-शब्दसूचितं मानमाह –
तत्सत्यमिति ।

आत्मेति ।
आत्म­श­ब्द­वा­च्य­मि­त्यर्थः ।

आकाशस्य लक्षणं स्वरूपं चाह –
आकाशो नामेत्यादिना ।

तस्माच्चेति ।
चकार आत्म­स­मु­च्च­यार्थः । तथा च आका­श­ता­दा­त्म्या­प­न्ना­दा­त्मनः सकाशादेव वायुः सम्भूत इत्यर्थः । एवमुत्तरत्रापि पूर्व­पू­र्व­भू­त­ता­दा­त्म्या­प­न्ना­दु­त्त­रो­त्त­र­भू­त­स्यो­त्प­त्ति­र­व­ग­न्तव्या ‘तदभिध्यानादेव तु’ इत्यादौ तथा व्यस्था­पि­त­त्वा­दिति मन्तव्यम् । अग्नि­श­ब्द­स्ते­जः­सा­मा­न्य­परः ।

पृथिव्या इति ।
अत्र पञ्चम्याः प्रकृ­त्य­र्थ­त्वा­त्पू­र्व­त्रापि पञ्चम्यः प्रकृत्यर्था एवेति मन्तव्यम् । ओषधयः सम्भूताः, अन्नं सम्भूतम् , पुरुषः सम्भूत इति सर्वत्र क्रियापदं द्रष्टव्यम् । ‘अन्नात्पुरुषः’ इति वाक्योक्तं पुरु­ष­स्या­न्न­वि­का­रत्वं व्याख्यातुम् ‘स वा एषः’ इत्युत्तरवाक्यं प्रवृत्तम् अतो न पौनरुक्त्यमिति मन्तव्यम् ।

रसशब्दितस्य रेतसः पुरु­षा­कृ­ति­नि­या­म­क­त्व­माह –
पुरुषाकृतीति ।
पितुः पुरुषाकृत्या भावितं संस्कृतं सत् पितुरङ्गेभ्यः सका­शा­त्स­म्भू­त­मि­त्यर्थः ।

तेज इति ।
सर्वेषामङ्गानां सारभूतमित्यर्थः । तथा च श्रुतिः – 'यदे­त­द्रे­त­स्त­दे­त­त्स­र्वे­भ्योऽ­ङ्गे­भ्य­स्तेजः सम्भूतम्’ इति ।

तस्मादिति ।
पुरु­षा­कृ­ति­भा­वि­ता­द्रे­तो­रू­पा­द्बी­जा­दि­त्यर्थः ।

पुरुषग्रहणस्य तात्पर्यं वक्तु­मा­क्षे­प­म­व­ता­र­यति –
सर्वेषामपीति ।
पश्वा­दी­ना­म­प­री­त्यर्थः । क्रमेण ब्रह्मविकारत्वं ब्रह्म­वं­श्य­त्वम् ।

समाधत्ते –
प्राधान्यादिति ।

यदि प्राधान्यं भक्षणादिविषये तदा पश्वादीनामेव प्राधान्यं स्यादित्याशयेन शङ्कते –
किं पुनरिति ।

कर्म­ज्ञा­ना­धि­का­रि­त्व­मत्र प्राधान्यम् , तच्च मनुष्यस्यैव न पश्वा­दी­ना­मि­त्याह –
कर्मेति ।
तदुक्तं सूत्रकारेण - ‘मनु­ष्या­धि­का­र­त्वाद् ‘ इति ।

अधिकारमेव साधयति –
पुरुष एव हीति ।

हि-शब्द­सू­चि­ता­न्हे­तू­नाह –
शक्त­त्वा­द­र्थि­त्वा­च्चेति ।
विधि­नि­षे­ध­वि­वे­क­सा­म­र्थ्यो­पे­त­त्वा­च्छा­स्त्रो­क्त­स्व­र्गा­दि­फ­ला­र्थि­त्व­स­म्भ­वा­दि­त्यर्थः । अप­र्यु­द­स्त­त्वा­दि­हे­त्व­न्त­र­स­ङ्ग्र­हा­र्थ­श्च­कारः ।

पुरुषस्य यथो­क्त­सा­म­र्थ्या­द्यु­पे­तत्वे श्रुतिमाह –
पुरुषे त्वेवेति ।
ब्राह्म­ण्या­दि­जा­ति­मति मनुष्यदेह एवा­वि­स्त­रा­म­ति­श­येन प्रकट आत्मा ज्ञाना­द्य­ति­श­य­वा­नि­त्यर्थः ।

एतदेवानुभवेन साधयति –
स हीत्यादिना ।
श्वस्तनं परे­द्यु­र्भा­वि­नम् । लोको भोग्यः, तत्साधनमलोकः । मर्त्येन विनाशार्हेण ज्ञान­क­र्मा­दि­सा­ध­ने­ना­क्षयं फल­मा­प्तु­मि­च्छ­ती­त्यर्थः ।

साधितं ज्ञाना­ति­श­य­मु­प­सं­ह­रति –
एवं सम्पन्न इति ।

येन ज्ञानाद्यतिशयेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह –
अथेतरेषामिति ।
तेषां बुभु­क्षा­दि­वि­ष­य­क­ज्ञा­न­मे­वास्ति न पूर्वो­क्त­मि­त्यर्थः ।

प्रकृतायामपि ब्रह्मविद्यायां पुरु­ष­स्यै­वा­धि­का­रि­त्वा­च्चात्र पुरु­ष­ग्र­ह­ण­मि­त्या­श­ये­नाह –
स हीति ।

ननु यद्यत्र सर्वान्तरं ब्रह्म प्रापयितुमिष्ठः पुरुषस्तर्हि तं प्रति तादृ­श­ब्र­ह्मो­प­न्यास एवोत्तरसन्दर्भे कार्यो न कोशोपन्यास इत्याशङ्क्य तदुपन्यासस्य तात्पर्यमाह –
तस्य चेति ।
विद्याधिकारिणः पुरु­ष­स्ये­त्यर्थः । चका­रोऽ­व­धा­र­णार्थः सन्सप्तम्या सम्बध्यते । चिदात्मापेक्षया बाह्या येऽचिदात्मानः कल्पि­ता­का­र­वि­शेषाः कोशा­स्ते­ष्वे­वा­ना­त्म­स्व­ना­दि­का­ल­मा­र­भ्या­ह­मि­त्या­त्म­त्व­भा­व­नो­पेता बुद्धिः कञ्चि­दु­पा­य­वि­शे­ष­म­ना­लम्ब्य सहसा सर्वा­न्त­र­प्र­त्य­गा­त्म­वि­षया पूर्वमात्मत्वेन गृही­त­को­श­रू­पा­ल­म्ब­न­शून्या च कर्तुमशक्येति कृत्वा प्राणमयादिषु शिरआदिमत्त्वेन दृष्ट­स्थू­ल­श­री­र­सा­म्यो­प­न्या­सेन अन्योऽन्तर आत्मान्योऽन्तर आत्मे­त्या­दि­नान्तः प्रवे­श­य­न्ना­हे­त्यर्थः । यथा लोके चन्द्रं बुबोधयिषुः शाखाग्रमालम्ब्य बोधयति ‘शाखाग्रं चन्द्रः’ इति स च बोद्धा दिगन्तराणि त्यक्त्वा शाखाग्रं पश्यन् तद्द्वारा चन्द्रं पश्यति, तद्वदन्नमयादिषु कोशेषु क्रमे­णा­त्म­त्वे­नो­प­दि­ष्टेषु सत्सु बाह्ये पुत्रादौ पूर्वपूर्वकोशे चात्मत्वबुद्धिं क्रमेण परित्यज्य सर्व­को­शा­धि­ष्ठा­न­भूतं सर्वान्तरं ब्रह्माहमस्मीति प्रतिपद्यते मुमु­क्षु­रि­त्यर्थः । ब्रह्म­वि­द्यो­पा­य­वि­शे­ष­त्वेन कोशपरम्परा शाखा­ग्र­स्था­नी­यो­प­दि­श्यत इति दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः सङ्गतिः । एवं कोशेषु पक्ष­पु­च्छा­दि­म­त्त्वो­प­न्या­सा­त्सु­प­र्णा­का­र­त­यो­पा­स्तयो विधीयन्ते । ता अप्यु­पा­स्त­य­श्चि­त्तै­का­ग्र्य­द्वारा ब्रह्म­वि­द्या­शे­ष­भूता एव न स्वतन्त्राः । तासु फलश्रवणं प्रया­जा­द्य­ङ्ग­वा­क्येषु फल­श्र­व­ण­व­द­र्थ­वा­द­मा­त्र­मि­त्या­दिकं वार्त्तिकादौ द्रष्टव्यमिति सङ्क्षेपः ।

अन्नमयस्य प्रसिद्धं शिर एव शिर इत्य­त्रा­व­धा­र­णस्य तात्पर्यमाह –
प्राण­म­या­दि­ष्विति ।

एवमिति ।
अयमेव दक्षिणः पक्ष इत्या­दि­प्र­का­रे­णा­न्न­म­य­प­र्याये सर्वत्रावधारणं योजनीयमित्यर्थः ।

ननु बाह्वो­र्द­क्षि­ण­त्वा­दे­र­नि­त्य­त­त्वा­त्कथं दक्षिणो बाहुरित्युच्यते ? तत्राह –
पूर्वा­भि­मु­ख­स्येति ।
श्रौतस्मार्तेषु कर्मसु पूर्वा­भि­मु­ख­त्व­स्यौ­त्स­र्गि­क­त्वा­दिति भावः ।

आत्मेति ।

अयं मध्यमो देह­भा­गोऽ­ङ्गा­ना­मा­त्मे­त्य­व­ग­न्त­व्य­मि­त्यत्र श्रुत्यन्तरमाह –
मध्यं हीति ।
मध्यमभागस्य सर्वा­ङ्ग­स्प­र्शि­तया सर्वा­ङ्ग­व्या­प­क­त्व­रू­प­मा­त्मत्वं तस्य युक्तमिति हि-शब्दार्थः ।

प्रतिष्ठापदं स्थितिसाधनत्वं वद­दा­धा­र­प­र­मि­त्याह –
प्रतितिष्ठतीति ।

नाभेरधोभागे पुच्छदृष्टिकरणे इवशब्दसङ्गृहीतं सामान्यमाह –
अधोलम्बनेति ।

एतत्प्रकृत्येति ।
अन्नमयस्य पुरुषविधत्वं शिर­आ­दि­म­त्त्व­ल­क्षणं प्रकृत्य ‘तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’ इति वक्ष्यमाणं पुरुषविधत्वं प्राणमयादीनां सिध्यतीत्यर्थः ।

मूषेति ।
अन्तः प्रति­मा­का­र­च्छि­द्र­वती मृन्मयी प्रति­कृ­ति­र्मूषा, तस्यां निषिक्तं द्रुतं ताम्रादिकं यथा प्रतिमाकारं भवति, तथा शिर­आ­दि­म­त्य­न्न­म­य­को­शेऽ­न्त­र्व्याप्य विद्यमानं प्राणमयादिकमपि तदाकारं भवतीत्यर्थः ।

अत्रा­न्न­म­य­को­शस्य विरा­डा­त्म­नो­पा­स्यत्वं विवक्षितमिति मत्वा विरा­डा­त्म­न्य­न्न­म­य­कोशे मन्त्रमवतारयति –
तदप्येष इति ॥

अन्नादिति ।
विरा­डा­त्म­का­दि­त्यर्थः ।

स्थावरेति ।
व्यष्ट्य­न्न­म­य­कोशा इत्यर्थः ।

कदा लीयन्त इत्या­का­ङ्क्षा­या­माह –
अन्त इति ।

विरा­जोऽ­स्म­दा­दि­का­र­णत्वे हेतुपरमन्नं हीति वाक्यं हि-शब्दयोगादिति मत्वा तदा­का­ङ्क्षा­पू­र्व­क­म­व­तार्य व्याचष्टे –
कस्मादित्यादिना ।

अन्नशब्दितस्य विराजः प्रथमजत्वे फलितमाह –
अन्नमयादीनां हीति ।
प्राण­म­या­दी­ना­म­न्न­वि­का­र­त्वा­भा­वेऽ­प्य­न्नो­प­चि­त­त्व­म­स्तीति मत्वात्रादिपदं प्रयुक्तम् । अन्नं विराडात्मकं यतः प्रथममेव जातं सत्स्व­व्य­ति­रि­क्तानां भूतानां कारणं कारणत्वयोग्यम् अतोऽन्नप्रभवा इत्यर्थः । प्रथ­म­मु­त्प­न्नस्य पश्चा­दु­त्प­द्य­मा­न­कार्यं प्रति कार­ण­त्व­यो­ग्य­ता­स­म्भ­व­सू­च­नार्थो हि-शब्दः ।

यस्माच्चैवमिति ।
चोऽवधारणे । यस्मादन्नजीवना एव प्रजा­श­ब्द­वाच्याः प्राणिन इत्यर्थः ।

दाहेति ।
जाठरकृता क्षुद्दाहः, तत्प्र­शा­म­क­मि­त्यर्थः ॥

उत्त­र­वा­क्य­ता­त्प­र्य­माह –
अन्नब्रह्मविद इति ।

ननु कथमन्नस्य ब्रह्मत्वं कथं वा तदुपासनमिति पृच्छति –
कथमिति ।
उत्तरम् – अन्नज इत्यादि । यस्मादन्नं प्रथमकोशजातस्य जन्म­स्थि­ति­प्र­ल­य­का­रणं तस्मादन्नं ब्रह्म, तच्चान्नात्मकं ब्रह्माहमस्मीति चिन्तयेत् , उपा­स्य­वि­रा­ड्दे­व­भा­वा­पत्तिं विना सर्वा­न्न­प्रा­प्त्य­स­म्भ­वात् देवभावस्य चाहङ्ग्रहं विना प्राप्तु­म­श­क्य­त्वा­दि­त्यर्थः ।

अन्नं हीति पुन­र्व­च­न­म­न्न­ब्र­ह्म­विदः सर्वा­न्न­प्राप्तौ हेतुपरमिति मत्वा तदवतारयति –
कुतः पुनरिति ।

अन्नस्य ज्येष्ठत्वे हेतुमाह –
भूतेभ्य इति ।
भूतेभ्यः पूर्वं निष्प­न्न­त्वा­दन्नं ज्येष्ठम् , तच्च ज्येष्ठमन्नं हि यस्माद्भूतानां जन्म­जी­व­ना­दि­का­रणं तस्मादन्नं सर्वौषधमुच्यते लोकैरिति योजना । अनेन हि पुनर्वचनेन अन्नदेवतात्मनो विराजः स्वकार्येषु सर्वप्राणिषु व्याप्ति­स्ता­त्प­र्येण प्रतिपाद्यते लोके कारणस्य मृदादेः कार्येषु व्याप्तेः प्रसिद्धत्वात् ।

सा च व्याप्ति­र्वि­रा­डा­त्म­भा­व­मा­प­न्न­स्या­न्न­ब्र­ह्म­विदः सर्व­प्रा­ण्या­त्मना सर्वा­न्ना­त्तृत्वे हेतुर्भवतीति मत्वाह –
तस्मादिति ।
अन्नब्रह्मविदो विराडात्मना सर्व­प्रा­णि­व्या­पि­त्वा­दि­त्यर्थः । अस्य पुन­र्व­च­न­स्या­य­म­भि­प्रायो वार्त्तिके स्पष्टमभिहितः - ‘कार्यं सर्वं यतो व्याप्तं कार­णे­ना­त्तृ­रू­पिणा । इति हेतूपदेशाय त्वन्नं हीत्युच्यते पुनः’ इति ।

ननु ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्यु­क्त­त्वा­त्पुनः ‘अन्नाद्भूतानि जायन्ते’ इत्यादिवचनं व्यर्थ­मि­त्या­श­ङ्क्याह –
उपसंहारार्थमिति ।

अद्यत इत्या­दे­स्ता­त्प­र्य­माह –
इदानीमिति ।
तच्च निर्व­च­न­मु­पा­स्य­स्या­न्न­रू­प­प्र­जा­प­ते­र­द्य­त्वा­त्तृ­त्व­रू­प­गु­ण­द्व­य­वि­धा­ना­र्थ­मिति मन्तव्यम् । यस्मात्प्रकृतं व्रीहि­य­वा­दि­ल­क्षणं वस्तु भूतैरद्यते तस्मा­द­न्न­श­ब्द­वाच्यं भवति, यस्माच्च तद्भूतान्यत्ति संहरति तस्मादपि तदन्नमुच्यते ; अन्नस्य चापथ्यादिरूपस्य प्राणि­सं­हा­र­सा­ध­नत्वं लोके प्रसिद्धमिति मन्तव्यम् ।

इत्थमन्नमयकोशं निरूप्य तस्या­ना­त्म­त्व­सि­द्धये प्राण­म­य­को­श­वा­क्य­प्र­वृत्तिः ; एव­मु­त्त­र­त्रा­पीति तात्पर्यमाह –
अन्नमयादिभ्य इति ।

आत्मभ्य इति ।
कल्पितात्मभ्य इत्यर्थः ।

अत एवाह –
अविद्याकृतेति ।
यथा लोकोऽ­ने­क­तु­ष­को­द्र­व­वि­तु­षी­क­र­णेन कोद्र­व­त­ण्डु­ला­न्द­र्श­यितुं प्रवर्तते तथा प्रत्य­गा­त्मा­व­र­ण­भू­ता­वि­द्या­कृ­त­प­ञ्च­को­शा­प­न­य­ने­ना­न्न­म­या­दिभ्य आनन्दमयान्तेभ्य अन्तरतमं ब्रह्म कोशा­प­न­य­न­श­ब्दि­त­वि­वे­क­ज­नि­तया विद्यया प्रत्यक्तया दर्शयितुमिच्छु शास्त्रं प्रस्तौति प्रवर्तत इत्यर्थः । तस्माद्वा एत­स्मा­द्य­थो­क्ता­दिति । अत्र ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्यादौ दूरदेशे भूतकारणत्वेन प्रकृतं विराजं वै-शब्देन स्मारितं तस्मा­दि­त्य­ने­ना­नूद्य एत­स्मा­दि­त्य­ने­ना­न्न­म­य­को­शस्य विराडात्मत्वं प्रबोध्यते । एवमुत्तरत्रापि । तदुक्तं वार्तिके – 'वै-शब्दे­नैव संस्मार्य दवी­यो­दे­श­व­र्ति­नम् । तस्माच्छब्देन वैरा­ज­मा­दा­या­ध्या­त्म­रू­पिणः । एतस्मादिति शब्देन वैराजत्वं प्रबोध्यते । कार्याणां कारणात्मत्वमेवं स्यादु­त्त­रे­ष्वपि’ इति । कार्या­ण्या­ध्या­त्मिकाः कोशाः, तेषां विरा­डा­द्या­त्म­त्व­बो­धनं च प्रागा­न­न्द­म­य­प­र्या­या­द्वि­रा­डा­द्य­भे­दे­नो­पा­स­न­सू­च­ना­र्थम् ; आनन्दमयपर्याये तु तदे­त­च्छ­ब्द­यो­रु­क्ता­र्थ­प­र­त्वेऽपि न चिन्त­न­वि­व­क्षास्ति, किं त्वध्या­त्मा­धि­दै­व­त­ल­क्ष­णा­द्द्वि­वि­धा­द­प्या­न­न्द­म­य­त­त्का­र­ण­को­शा­च्चि­दे­क­र­सस्य पुच्छह्मणो विवेकमात्रं विवक्षितम् ; तत्पर्याये पक्ष­पु­च्छा­दि­क­ल्प­न­स्या­न्य­देव प्रयोजनमिति वक्ष्यते । यथोक्तादित्यस्य सुप­र्णा­का­रे­णो­क्ता­दि­त्यर्थः । आत्मत्वेन परिकल्पित इति योजना ।

वायुरिति ।
अत्र हिर­ण्य­ग­र्भो­पा­धि­भूते सम­ष्टि­का­र­णा­त्मनि क्रिया­श­क्ति­म­दंशः प्राणो विवक्षित इति मत्वा वायुरित्युक्तम् । तत्रैव ज्ञान­श­क्ति­म­दं­श­भूतं समष्ट्यन्तःकरणं मनोमय इत्यत्र मनःशब्दार्थ इत्यपि बोध्यम् ।

तत्प्राय इति ।
तद्विकार इत्यर्थः ।

अत एवानुवादावसरे वक्ष्यति –
वायुविकारस्येति ।
प्राण­म­य­स्या­न्न­मयं प्रत्यात्मत्वं तद्व्या­पि­त्वा­दि­त्यु­प­पा­द­ना­र्थम् ‘तेनैष पूर्णः’ इत्युक्तम् ।

तत्र प्राणेन देहो व्याप्त इत्यत्रानुरूपं दृष्टान्तमाह –
वायुनेवेति ।

शिरः­प­क्षा­दि­भि­रिति ।
शिरः­प­क्ष­पु­च्छा­दि­क­ल्प­ना­ल­म्ब­न­भू­तै­र­व­यवैः पुरुषाकारः प्राण इत्यर्थः ।

ननु पञ्चवृत्तेः प्राण­स्या­मू­र्त­त्वा­त्स्व­य­मेव तस्य पुरुषविधत्वं न सम्भवतीति शङ्कते –
किं स्वयमेवेति ।

'तस्य पुरुषविधताम् ‘ इति श्रुत्या परिहरति –
नेत्याहेति ।
श्रुतिरिति शेषः ।

नन्वन्नमयस्य वा कथं पुरुषविधत्वम् ? तत्राह –
प्रसिद्धमिति ।

प्राणमये उक्तं न्यायं मनो­म­या­दि­ष्व­ति­दि­शति –
एवमिति ।

कथं पुरु­ष­वि­ध­ता­स्येति ।
अस्य प्राणमयस्य यद्यपि पुरुषविधता सिद्धा तथापि कथं पक्ष­पु­च्छा­दि­क­ल्प­ना­प्र­कार इत्यर्थः ।

वृत्तिविशेष इति ।
वृत्तिमतः प्राण­स्या­व­य­वि­त्वेन विव­क्षि­त­त्वा­दिति भावः ।

ननु प्राणवृत्तौ शिर­स्त्व­क­ल्प­नायां किं नियामकम् ? तत्राह –
वचनादिति ।

उत्तरत्रापि वचनमेव नियामकमित्याह –
सर्वत्रेति ।

यद्वा सर्व­प­र्या­ये­ष्वपि वस्तुगत्या वचनमेव तत्कल्पने नियामकमित्याह –
सर्वत्रेति ।

आकाशपदेन शरी­र­म­ध्या­का­श­स्थ­स­मा­न­ल­क्ष­णायां कारणमाह –
प्राण­वृ­त्त्य­धि­का­रा­दिति ।

समानस्य मध्य­भा­ग­त्व­रू­पा­त्म­त्व­क­ल्प­नायां युक्तिमाह –
मध्यस्थत्वादिति ।
इतराः पर्यन्ता वृत्तीरपेक्ष्य मध्य­स्थ­त्वा­त्स­मान आत्मेति योजना ।

ननु मध्यस्थस्यापि कथमात्मत्वम् ? तत्राह –
मध्यं हीति ।

पृथिवीदेवतेति ।
न च प्राण­वृ­त्त्य­धि­का­रा­वि­शे­षा­त्पृ­थि­वी­श­ब्दे­नो­दा­न­ग्र­हणं न्याय्यमिति वाच्यम् ; प्रति­ष्ठा­त्व­लि­ङ्ग­वि­रो­धेन प्रक­र­ण­स्या­ना­द­र­णी­य­त्वात् । न ह्युदा­न­वृ­त्ते­र्वृ­त्ति­मन्तं प्राणमयं प्रति प्रतिष्ठात्वं सम्भवति ।

स्थिति­हे­तु­त्वा­दिति ।
पृथिवीदेवताया आध्या­त्मि­क­प्रा­ण­स्थि­ति­हे­तु­त्वस्य श्रुत्य­न्त­रा­द­व­ग­त­त्वा­दि­त्यर्थः । श्रुतावपानपदं प्राणमयकोशपरम् ।

अन्यथेति ।
देव­ता­कृ­ता­व­ष्ट­म्भ­ना­भाव इत्यर्थः । उदा­न­वृ­त्ते­रू­र्ध्व­ग­म­न­हे­तु­त्वम् ‘अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इत्या­दि­श्रु­त्य­न्त­रा­देव सिद्धमिति मन्तव्यम् , उदानवृत्तेः काल­वि­शे­षा­पे­क्ष­त्वेन सदो­र्ध्व­ग­म­न­प्र­स­क्त्य­भा­वेऽपि च्छिन्न­क­द­ली­स्त­म्भा­दे­रिव भूमौ पतनं वा प्रसज्यत इत्यर्थः ॥

तदात्मभूता इति ।
सूत्रात्मभूता इत्यर्थः । अग्न्या­दि­दे­वानां सूत्रा­त्म­वि­भू­ति­तया तदात्मकतायाः शाक­ल्य­ब्रा­ह्म­ण­सि­द्ध­त्वा­दिति मन्तव्यम् । यद्वा सूत्रा­त्मो­पास्त्या तदात्मकतां प्राप्ता इत्यर्थः । अथवा अस्मदादय इवाग्न्यादयोऽपि तदात्मभूताः क्रिया­श­क्ति­म­त्प्रा­णो­पा­धिकाः सन्त इत्यर्थः ।

देवशब्दस्य प्रसि­द्धि­मा­श्रि­त्या­ग्न्या­दि­प­र­त्व­मु­क्तम् ; इदा­नी­मि­न्द्रि­य­परो देवशब्द इति सयुक्तिकमाह –
अध्या­त्मा­धि­का­रा­त्त्विति ।
तु-शब्दोऽ­व­धा­र­णार्थः सन्नि­न्द्रि­या­णी­त्यत्र सम्बध्यते । प्राण­म­य­को­शा­धि­का­रा­दि­त्यर्थः ।

मुख्य­प्रा­ण­म­न्विति ।
तस्मिन्निरुद्धे इन्द्रियाणां प्रवृ­त्त्य­द­र्श­ना­दिति भावः ।

न केव­ल­मि­न्द्रि­या­णा­मेव प्राणाधीना चेष्टा, अपि तु शरी­रा­दी­ना­म­पी­त्याह –
तथा मनुष्या इति ।

'प्राणं देवा अनु प्राणन्ति’ इत्यादिनां केवलदेहात्मवादो निरस्त इति तात्पर्यमाह –
अतश्चेति ।
प्राणा­धी­न­चे­ष्टा­क­त्वा­च्छ­री­रा­णा­मि­त्यर्थः ।

तस्य वस्तु­तोऽ­ना­त्मत्वं सूचयति –
परिच्छिन्नेनेति ।
आत्मशब्दः स्वरूपपरः ।

नन्व­न्न­म­या­ति­रिक्तं स्वरूपं नोपलभ्यत इति शङ्कते –
किं तर्हीति ।

'प्राणं देवा अनु प्राणन्ति’ इत्या­दि­श्रु­ति­मा­श्रि­त्याह –
तदन्तर्गतेति ।

तस्य पिण्ड­व­त्प­रि­च्छेदं व्याव­र्त­य­न्सा­धा­र­ण­पदं व्याचष्टे –
सर्वपिण्डेति ।
सर्व­प­द­मे­कै­क­स्यैव पिण्ड­स्या­व­य­व­सा­क­ल्या­भि­प्रा­यम् । अथ वा सूत्रात्मरूपेण प्राणमयस्य सर्व­पि­ण्ड­व्या­पि­त्व­मु­क्त­मिति मन्तव्यम् ।

एवमान्तरत्वेन निरूपणीय आत्मा प्राणमय एवेति शङ्का­नि­रा­सा­र्थ­मु­त्त­र­को­शा­ना­म­प्या­त्म­ता­माह –
एवं मनोमयादिभिरिति ।
अत्रापि प्राण­म­या­द्य­न्त­र्ग­तै­रिति मनो­म­या­दे­र्वि­शे­षणं द्रष्टव्यम् , तदन्तर्गतेति प्राण­म­य­स्यो­क्त­त्वात् प्रतिपर्यायं श्रुता­व­न्त­र­श­ब्द­प्र­यो­गाच्च । तथा चोत्त­रो­त्त­र­को­शेषु पूर्व­पू­र्वा­पे­क्ष­या­न्त­र­त्व­सू­क्ष्म­त्व­व्या­पि­त्व­वि­शे­ष­णानि तानि यत्र काष्ठां गच्छन्ति, स एव मुख्य आत्मेति ज्ञापनार्थानीति मन्तव्यम् ।

अवि­द्यो­पा­धि­क­स्या­न­न्द­म­य­श­ब्दि­त­जी­व­स्यापि प्रिया­दि­वि­शि­ष्ट­त्वा­का­रेण कार्यत्वं मत्वाह –
आकाशादीति ।

कोशानां स्वका­र­णै­रा­का­शा­दि­भूतैः सह मिथ्यात्वं सूचयति –
अविद्याकृतैरिति ।

स्वत­श्चै­त­न्य­स्व­रू­पाणां प्राणि­ना­म­न्त­र्ब­हि­र्भा­वे­ना­वा­र­क­तया पञ्चकोशसद्भावे दृष्टान्तमाह –
यथेति ।

ननु अन्योऽन्तर आत्मा अन्योऽन्तर आत्मेति प्रकृत्य आन्त­र­त्वो­क्ते­रा­न­न्द­मये परि­स­मा­प­ना­दा­न­न्द­मय एव परमात्मा, तथा च तस्या­वि­द्या­कृ­त­त्वो­क्ति­र­युक्ता ; नेत्याह –
तथा स्वाभा­वि­के­ना­पीति ।
स्वाभा­वि­क­त्व­म­क­ल्पि­त­त्वम् ।

तत्र हेतुं सूचयति –
आकाशादीति ।
सर्व­क­ल्प­ना­धि­ष्ठा­न­भू­ते­ने­त्यर्थः । तस्य विना­शि­त्व­प­रि­च्छि­न्न­त्व­प­रि­णा­मि­त्वानि वारयति – नित्ये­ने­त्या­दिना विशेषणत्रयेण ।

तस्य प्रकरणित्वं सूचयति –
सत्येति ।
आन­न्त्य­वि­व­र­ण­रू­पाणि नित्येन सर्वगतेन सर्वा­त्म­ने­त्ये­तानि त्रीणि विशेषणानि । आत्मवन्तः मुख्य­स्व­रू­प­वन्तः ।

सर्वे प्राणिन इत्यत्र हेतुमाह –
स हीति ।
'अयमात्मा ब्रह्म’ इत्या­दि­श्रु­ति­भि­र्य­थो­क्ता­त्मैव परपमार्थत आत्मा प्रतीयते यत इत्यर्थः ।

अर्थादिति ।
ब्रह्म­ण्या­न­न्द­म­या­दा­न्त­र­त्वो­क्त्य­भा­वेऽपि तं प्रति ब्रह्मणः प्रति­ष्ठा­त्वो­क्ति­सा­म­र्थ्या­दा­न­न्द­म­या­द­प्या­न्त­रत्वं प्रतीयते ; तत एतदपि पुच्छ­वा­क्य­नि­र्दि­ष्टस्य ब्रह्मणो मुख्या­त्म­त्व­म­प्यत्र कथितप्रायमेव भवति, तस्मा­न्ना­न­न्द­म­यस्य मुख्या­त्म­त्व­मिति भावः ।

तत्क­स्मा­दि­त्या­हेति ।
तत् प्राणस्य सर्व­प्रा­णि­चे­ष्टा­हे­तुत्वं कस्मा­दि­त्या­का­ङ्क्षा­या­मा­हे­त्यर्थः ।

प्राणस्य सर्व­भू­त­जी­व­न­हे­तुत्वे कौषी­त­कि­श्रु­ति­सं­वा­द­माह –
याव­द्ध्य­स्मि­न्निति ।

'तस्मा­त्स­र्वा­यु­ष­मु­च्यते’ इति वाक्येन प्राणस्य सर्वायुष्ट्वे लोक­प्र­सि­द्धि­रु­च्यत इत्यभिरप्रेत्य तां विवृणोति –
प्राणापगम इति ।

'सर्वमेव त आयुर्यन्ति’ ‘ये प्राणं ब्रह्मोपासते’ इति वाक्य­द्व­य­म­र्थ­क्र­मे­णा­व­तार्य व्याचष्टे –
अत इत्यादिना ।
प्राण­म­य­स्या­न्न­मयं प्रत्या­त्म­त्वा­त्स­र्व­भू­ता­यु­ष्ट्वा­च्चे­त्य­तः­श­ब्दार्थः । अस्मादित्यस्य चाक्षु­ष­प्र­त्य­क्ष­सि­द्धा­दि­त्यर्थः ।

असाधारणादिति ।
परि­च्छि­न्ना­दि­त्यर्थः ।

अपक्रम्येति ।
अप­क्र­म­ण­मा­त्म­त्व­बु­द्धि­प­रि­त्यागः । तत्र हेतुत्वेन चाक्षु­ष­त्व­बा­ह्य­त्व­प­रि­च्छि­न्न­त्व­वि­शे­ष­णा­न्यु­पा­त्ता­नीति मन्तव्यम् । सर्वभूतात्मत्वं सूत्रात्मरूपेण बोध्यम् , तेन रूपेण प्राण­म­य­को­श­स्ये­हो­पा­स्य­त्वात् ।