वनमालाव्याख्या
ब्रह्मानन्दवल्ली: प्रथमोऽनुवाकः (१)
ननु ‘शं नो मित्रः’ इत्यादिशान्तेरादावेव पठितत्वादिदानीं पुनः किमर्थं पठ्यते ? तत्राह —
शं नो मित्र इत्याद्यतीतेति ।
संहितोपनिषद्यतीतानां विद्यानां प्राप्तौ ये उपसर्गाः विघ्नास्तेषामुपशमनाय ‘शं नो मित्रः’ इत्याद्या शान्तिरादौ पठितेत्यर्थः ।
पुनः पाठ उत्तरार्थ इत्याह —
इदानीमिति ।
यद्यपि पुनःपाठस्यापि पूर्वशेषत्वमेव प्रतीयते ‘आवीन्माम्’ इत्यादिलिङ्गात् , तथाप्यतीतविद्योपसर्गप्रशमनरूपस्य प्रार्थनाप्रयोजनस्य सिद्धत्वादुपक्रमे ‘शं नो भवत्वर्यमा’ इति प्रार्थनालिङ्गाच्च पुनःपाठस्योत्तरविद्याशेषत्वमुक्तमिति मन्तव्यम् ; तथा च ‘तन्मामावीत्’ इत्यादौ तत् वाय्वाख्यमपरं ब्रह्म माम् अपरविद्यार्थिनम् आवीत् अरक्षत् इदानीं परविद्यार्थिनं मामवत्वित्यादिप्रकारेण परब्रह्मविद्याशेषत्वानुगुणमुपपादनं कर्तव्यमिति भावः ।
‘सह नाववतु’ इति शान्तिं प्रतीकग्रहणपूर्वकं व्याचष्टे —
सह नाववत्वित्यादिना ।
गुरोः कृतार्थत्वाच्छिष्य एव गुरोः स्वस्य च क्षेमं प्रार्थयत इत्याह —
रक्षत्विति ।
ब्रह्मेति शेषः ।
भोजयत्विति ।
पालयत्वित्यर्थः । यथा गुरुर्निरालस्य उपदिशति यथा चाहमुपदिष्टमर्थमप्रतिपत्तिविप्रतिपत्त्यादिरहितो गृह्णामि तथा पालयत्विति भावः ।
विद्यानिमित्तमिति ।
मम विद्योदयं प्रति निमित्ततया यदावयोः सामर्थ्यमपेक्षितमूहापोहादिलक्षणं तत्सहितावेव निर्वर्तयावहै इत्यर्थः ।
अधीतमिति ।
आवयोः सम्बन्धि यदधीतमुपनिषद्ग्रन्थजातं तत्तेजस्व्यस्त्विति योजना ।
अधीतस्य तेजस्वित्वं सौष्ठवमित्याह —
स्वधीतमिति ।
अपेक्षितब्रह्मविद्योपयोगित्वेन तदेव सौष्ठवं निरूपयति —
अर्थज्ञानेति ।
ननु शिष्याचार्ययोर्द्वेषो न प्रसज्यते परस्परमत्यन्तहितैषित्वादित्याशङ्क्याह —
विद्येति ।
विद्याग्रहणं निमित्तीकृत्य कदाचिद्वैमनस्यरूपो द्वेषो प्रसज्यत इत्यर्थः ।
तस्यापि स्वारसिकत्वं व्यावर्तयति —
प्रमादेति ।
अन्यकृतदुर्बोधनादिना शिष्यस्याचार्यविषयेऽनादररूपोऽपराधो भवति, तथा आचार्यस्यापि शिष्यविषये तादृग्विध एवापराधो भवति, इदं च लोके प्रसिद्धमिति भावः । शिष्येण तावत्स्वविषये आचार्यकर्तृकद्वेषोऽवश्यं परिहर्तव्यः, इतरथा अविद्यानिवृत्तिपर्यन्तविद्योदयासम्भवात् ; तदुक्तं वार्त्तिके - ‘स्याज्ज्ञानं फलवद्यस्माच्छान्तान्तःकरणे गुरौ’ इति ; तथा स्वस्याचार्यविषयकद्वेषोऽपि सम्यक्परिहर्तव्यः, तस्य तद्भक्तिविघटकत्वेन भक्तिहीनस्य तादृशविद्योदयासम्भवात् । तथा च श्रुतिः - ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इतीति भावः ।
उक्तार्थमिति ।
त्रिर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमनार्थमिति ग्रन्थेनेति शेषः ।
सह नाववत्विति शान्तेर्वक्ष्यमाणविद्याशेषत्वं निर्विवादमित्याशयेनाह —
वक्ष्यमाणेति ।
‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः’ इत्यादिवचनैरात्मविद्याप्राप्तौ विघ्नबाहुल्यावगमात्तन्निवृत्तिरवश्यं प्रार्थनीयेत्याह —
अविघ्नेन हीति ।
इतरथा तत्प्राप्त्यभावः प्रसिद्ध इति हि-शब्दार्थः ।
ननु मुमुक्षुणा आत्मविद्याप्राप्तिः किमर्थमाशास्यते ? तत्राह —
तन्मूलं हीति ।
प्रकृष्टश्रेयसो मोक्षस्यात्मविद्यामूलकत्वे ‘तरति शोकमात्मवित्’ इत्यादिश्रुतिप्रसिद्धिसूचनार्थो हि-शब्दः ॥
वृत्तानुवादपूर्वकमानन्दवल्ल्यास्तात्पर्यमाह –
संहितादीत्यादिना ।
वक्ष्यमाणविद्यावैलक्षण्यार्थमाह –
कर्मभिरविरुद्धानीति ।
कर्मभिरविरुद्धमेवान्यदप्युपासनमुक्तमित्याह –
अनन्तरं चेति ।
ननु कर्मसमुच्चितेन व्याहृतिशरीरब्रह्मोपासनेन स्वाराज्यप्रापकेणैव सबीजस्य संसारस्य निवृत्तिसम्भवात्किं निरुपाधिकब्रह्मविद्यारम्भेणेत्याशङ्क्याह –
न चैतावतेति ।
कर्मसमुच्चितेनापि सोपाधिकात्मदर्शनेनेत्यर्थः ।
अत इति ।
सोपाधिकात्मदर्शनस्याधिष्ठानयाथात्म्यदर्शनरूपत्वाभावेनाशेषसंसारबीजोपमर्दने सामर्थ्यरहितत्वादित्यर्थः ।
ननु निर्विशेषात्मदर्शनादप्यज्ञानस्य निवृत्तिर्न सम्भवति तस्यानादित्वादित्याशङ्क्य विरोधिसन्निपाते सत्यनादेरपि निवृत्तिः सम्भवत्येव, प्रागभावस्यानादेरपि निवृत्तिदर्शनात् , गौरवेण भावत्वविशेषणायोगादित्याशयेनाह –
प्रयोजनं चेति ।
ननु विरोधिविद्यावशादविद्या कामवस्थामापद्यते ? असत्त्वावस्थामापद्यत इति ब्रूमः । तथा हि - यथा मुद्गरपातादिरूपविरोधिसंनिपातात्पूर्वं मृदादिदेशेन मुहूर्तादिकालेन जलाहरणादिकार्येण च सम्बन्धयोग्यं सद्घटादिस्वरूपं विरोधिसंनिपाताद्देशकालक्रियाभिः सम्बन्धायोग्यत्वलक्षणमसत्त्वमापद्यते, तथा विद्योदयरूपविरोधिसंनिपातात्पूर्वं चैतन्यरूपदेशेन ईश्वराद्यात्मककालेन संसाररूपकार्येण च सम्बन्धयोग्यं सदविद्यास्वरूपं विरोधिविद्योदयसंनिपाताच्चैतन्यादिना सम्बन्धायोग्यत्वलक्षणमसत्त्वमापद्यते । ननु विरोधिसंनिपाते सति घटादेर्ध्वंसो जायत इति चेत् ; किमेतावता ? न हि घटादिरेव ध्वंसरूपाभावो भवति ; अत एव प्रागुत्पत्तेर्नाशादूर्ध्वं च कार्यमसदिति वैशेषिकादिराद्धान्तः । ध्वंसोऽपि जन्मवत्क्षणिको विकारो न पराभिमताभावरूप इति व्यवस्थापितं शास्त्रसिद्धान्तलेशसङ्ग्रहादौ । ननु सिद्धान्ते विरोधिसंनिपाते सति कार्यस्य स्वपरिणाम्युपादाने सूक्ष्मावस्थारूपनाशाभ्युपगमान्नष्टस्यापि घटादिकार्यस्य सूक्ष्मरूपतामापन्नस्यास्ति देशादिसम्बन्धयोग्यतेति चेत् , न ; सिद्धान्तेऽपि कार्यगतस्थूलावस्थाया विरोधिसंनिपातेन निरुक्तासत्त्वोपगमात् । विद्योदये सत्यविद्यायास्तुच्छत्वापत्तिर्वार्त्तिककारैरुक्ता - ‘प्रत्यग्ब्रह्मणि विज्ञाते नासीदस्ति भविष्यति’ इति । पञ्चदश्यामप्युक्तम् - ‘विद्यादृष्ट्या श्रुतं तुच्छम्’ इति । विद्यारूपया तत्त्वदृष्ट्या मूलाविद्यायास्तुच्छत्वापत्तिः श्रुतिसिद्धेति तदर्थः । तस्माद्विद्योदये सति चैतन्यमात्रमवशिष्यते, नाविद्या नापि तत्कार्यमिति सङ्क्षेपः ।
नन्वविद्यानिवृत्तिर्न प्रयोजनम् असत्त्वापत्तिरूपायास्तस्याः सुखदुःखाभावेतरत्वादित्यत आह –
ततश्चेति ।
अविद्यानिवृत्तिवशादेव तत्कार्यसंसारस्य दुःखात्मकस्यात्यन्तिकी निवृत्तिर्भवति ; तथा चाविद्यानिवृत्तिद्वारा संसारदुःखनिवृत्तिरूपा मुक्तिर्विद्यायाः प्रयोजनमित्यर्थः ।
तत्र मानमाह –
वक्ष्यति चेति ।
भयोपलक्षितं संसारदुःखं न प्राप्नोति विद्वानित्यर्थः ।
अत्रैव पुनर्वचनद्वयमाह –
संसारेति ।
विद्ययात्यन्तिकसंसारनिवृत्तौ सत्यामेवाभयप्रतिष्ठावचनं पुण्यपापयोरकरणकरणानुसन्धानप्रयुक्तसन्तापाभाववचनं चोपपन्नमित्यर्थः ।
साधितं ब्रह्मविद्याप्रयोजनं सप्रमाणमुपसंहरति –
अतोऽवगम्यत इति ।
उपाहृतवचनजातादित्यतःशब्दार्थः ।
अस्माद्विज्ञानादिति ।
विधूतसर्वोपाधीत्यत्र प्रकृतादित्यर्थः ।
एवमानन्दवल्ल्यास्तात्पर्यमुपवर्ण्याद्यवाक्यस्य तात्पर्यमाह –
स्वयमेवेति ।
स्वयमेव श्रुतिः ‘ब्रह्मविदाप्नोति परम्’ इति वाक्येन ब्रह्मविद्यायाः प्रयोजनं सम्बन्धं च किमर्थमाहेत्याशङ्क्याह –
आदावेवेति ।
तत्र ‘आप्नोति परम्’ इत्यनेन प्रयोजननिर्देशः, ‘ब्रह्मवित्’ इत्यनेन ब्रह्मविद्याया निर्देशः, ताभ्यामेव समभिव्याहृताभ्यां विद्याप्रयोजनयोः प्रयोजनप्रयोजनिभावलक्षणसम्बन्धनिर्देश इति विभागः ।
नन्वादावेव तयोर्ज्ञापनं किमर्थम् ; तत्राह –
निर्ज्ञातयोर्हीति ।
मुमुक्षोरुपनिषत्सु स्वप्रयोजनमुक्तिसाधनविद्यासाधनत्वज्ञानं विना उपनिषच्छ्रवणादौ प्रवृत्त्ययोगात्तदर्थमादावेव प्रयोजनादिकं वक्तव्यमित्यर्थः । तत्र वृद्धसंमतिसूचनार्थो हि-शब्दः । तदुक्तं वृद्धैः - ‘सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः’ इति । विद्यामुद्दिश्य गुरुमुखात्प्रथमं श्रवणम् , श्रुतस्यार्थस्याप्रतिपत्त्यादिनिरासेन ग्रहणम् , गृहीतस्यार्थस्य धारणम् , धृतस्यार्थस्य युक्तिभिरनुचिन्तनरूपोऽभ्यासः, तदर्थमित्यर्थः ।
नन्वधीतसाङ्गस्वाध्यायस्य वेदान्तेभ्य एव विद्यारूपफलोदयसम्भवाच्छ्रवणादिकं व्यर्थमिति, नेत्याह –
श्रवणादिपूर्वकं हीति ।
तत्र हि-शब्दसूचितं मानमाह –
श्रोतव्य इति ।
प्रमाणप्रमेयासम्भावनयोर्निरासाय श्रवणमनने आवश्यके इति भावः । ‘पाण्डित्यं निर्विद्य’ इत्यादिश्रुतिसङ्ग्रहार्थमादिपदम् ।
इदानीं प्रतीकग्रहणपूर्वकमक्षराणि व्याचष्टे –
ब्रह्मविदित्यादिना ।
वक्ष्यमाणलक्षणं ब्रह्मात्र ब्रह्मेति पदेनाभिधीयते न जात्यादिकमित्यत्र हेतुमाह –
वृद्धतमत्वादिति ।
ब्रह्मपदेन ‘बृहि वृद्धौ’ इति व्युत्पत्तिबलाद्वृद्धिमद्वस्तु कथ्यते ; सा च वृद्धिः सङ्कोचकाभावान्निरतिशयमहत्त्वे पर्यवस्यति ; तच्च निरतिशयमहत्त्वं वक्ष्यमाणलक्षण एव ब्रह्मणि सम्भवति नान्यत्रेति भावः ।
परं निरतिशयमिति ।
न चोत्कृष्टवाचिना परशब्देन स्वर्गादेरपि ग्रहणसम्भवात्कथं निरतिशयोत्कृष्टं ब्रह्मैवात्र परशब्दार्थः स्यादिति वाच्यम् ; ब्रह्मशब्दस्येव परशब्दस्यापि सङ्कोचकाभावेन परमानन्दरूपतया निरतिशयोत्कृष्टे ब्रह्मण्येव पर्यवसानसम्भवादिति भावः ।
ब्रह्मवेदनमात्रादब्रह्मप्राप्त्यसम्भवादपि तदेव परशब्दार्थ इत्याह –
न ह्यन्यस्येति ।
लोके कौन्तेयस्य सतो राधेयत्वभ्रमवत आप्तोपदेशजनितात् ‘कौन्तेयोऽहम्’ इति ज्ञानात्कौन्तेय एव प्राप्यो नान्य इति प्रसिद्धिसूचनार्थो हि-शब्दः ।
श्रुत्यन्तरानुसारादप्येवमेवेत्याह –
स्पष्टं चेति ।
तत्प्रकृतं परं ब्रह्म यो वेद स ब्रह्मैव भवति ह वै प्रसिद्धमेतद्विदुषामिति श्रुत्यन्तरार्थः ।
आप्नोतीत्यस्य विवक्षितमर्थं दर्शयितुमाक्षिपति –
नन्विति ।
वक्ष्यतीति ।
आनन्त्यादिवचनेनेति शेषः ।
ततः किम् ? अत आह –
अत इति ।
सर्वगत्वात्सर्वात्मकत्वाच्चेत्यर्थः ।
एवंभूतस्याप्याप्यत्वं किं न स्यादित्याशङ्क्य तत्र लौकिकव्याप्तिविरोधं मत्वा तामाह –
आप्तिश्चेति ।
लोके प्राप्यत्वेन प्रसिद्धग्रामादिवैलक्षण्यं ब्रह्मणो दर्शयति –
अपरिच्छिन्नमिति ।
फलितमाह –
अत इति ।
उक्तानुपपत्तेरदोषत्वं कथमिति पृच्छति –
कथमिति ।
मुख्याप्तेरत्राविवक्षितत्वादनुपपत्तिर्न दोष इत्याशयेनाह –
दर्शनेति ।
अदर्शननिमित्तामप्राप्तिं साधयति –
परमार्थत इत्यादिना ।
भूतमात्राभिः पञ्चीकृतापञ्चीकृतभूतांशैः कृता ये आत्मस्वरूपापेक्षया बाह्याः परिच्छिन्नाश्चान्नमयादयः कोशाः तेष्वात्मदर्शिनो जीवस्य या अविद्या तया स जीवो नान्योऽहमस्मीत्यभिमन्यत इति योजना । तदासक्तचेतसः तेष्वेवासक्तं चेतो यस्य तथाभूतस्य । आसक्तिरत्र कोशाभिमानप्रयुक्तदुःखादिमत्ता विवक्षिता । परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शनं लक्षणं लिङ्गं यस्याः सा तथा, तयेत्यर्थः । ‘अन्नमयादीन्’ इत्यादिद्वितीया षष्ठ्यर्थे । अन्नमयाद्यात्मभ्योऽन्योऽहमस्मीति नाभिमन्यते कोशव्यतिरिक्तं परमार्थस्वरूपं न जानातीत्यर्थः । अत्र नाभिमन्यत इत्यनेन स्वरूपभूतेऽपि ब्रह्मणि ग्रहणाभाव उक्तः । अन्नमयाद्यात्मदर्शिन इत्यनेन तस्मिन्देहाद्यात्मत्वगोचरो विपर्यय उक्तः । अविद्ययेत्यनेनावरणसमर्था मूलाविद्या दर्शिता ।
स्वरूपेऽप्यग्रहणादयो भवन्तीत्यत्र दृष्टान्तमाह –
प्रकृतेति ।
प्रकृताया दशसङ्ख्यायाः पूरणे समर्थस्यात्मनः स्वस्य देवदत्तस्य संनिकृष्टस्यापि स्वापेक्षया बाह्या ये नव सङ्ख्येयाः तद्विषयासक्तचित्ततया स्वात्मानं विहाय तेष्वेव पुनः पुनः परिगणनव्यासक्तचित्ततया स्वात्मभूतोऽपि दशमो नास्तीत्यभावदर्शनम् , तद्धेतुभूतं दशमं न जानामीत्यनुभूयमानमावरणम् , नवैव वर्तामह इति विपर्ययश्च यथा दशमस्य स्वरूपेऽपि दृश्यन्ते तथेत्यर्थः ।
अदर्शननिमित्तां ब्रह्मणोऽनाप्तिमुपसंहरति –
एवमिति ।
इदानीं दर्शननिमित्तां तदाप्तिं दृष्टान्तेन विवृणोति –
तस्यैवमिति ।
केनचिदिति ।
'दशमस्त्वमसि’ इत्याप्तेन स्मारितस्वरूपस्येत्यर्थः ।
तस्यैवेति ।
यद्दशमस्वरूपमविद्ययानाप्तमासीत्तस्यैवेत्यर्थः ।
श्रुतीति ।
श्रुत्युपदिष्टस्य सर्वात्मकस्य ब्रह्मणो यदात्मत्वेन दर्शनं तदेव विद्या, तया आप्तिरनाप्तत्वभ्रमनिवृत्तिरूपा उपपद्यत इत्यर्थः ।
इत्थमाद्यं ब्राह्मणवाक्यं व्याख्याय अनेन वाक्येनोत्तरसन्दर्भस्य सङ्गतिमाह –
ब्रह्मविदाप्नोतीति ।
सूत्रभूतमिति ।
सङ्ग्राहकमित्यर्थः । अनेनाद्यवाक्यस्यैव विवरणरूपत्वादुत्तरग्रन्थस्य व्याख्यानव्याख्येयभावेनानयोः सङ्गतिरित्यर्थः ।
इत्थमाद्यवाक्यविवरणरूपमुत्तरं मन्त्रब्राह्मणवाक्यजातमिति तात्पर्यमुक्त्त्वा ‘सत्यं ज्ञानम्’ इति मन्त्रं सङ्क्षेपतोऽर्थकथनपूर्वकमवतारयति –
ब्रह्मविदाप्नोति परमित्यनेनेत्यादिना ।
अनिर्धारितेति ।
बृहत्त्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्विति प्रतीयते, न तु तद्बलेन ब्रह्मणः स्वरूपविशेषोऽपि प्रतीयत इति भावः । सर्वतो व्यावृत्तो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायैषा ऋगुदाह्रियत इति सम्बन्धः । ब्रह्मविदित्यनेन अविशेषेण ‘अस्ति ब्रह्म’ ‘अहं ब्रह्म’ इति वेदनद्वयसाधारण्येनोक्तं वेदनं यस्य ब्रह्मणः तस्येत्यर्थः । वक्ष्यमाणं लक्षणं सच्चिदानन्त्यरूपं यस्य तस्येत्यर्थः । विशेषेणेत्यस्य विवरणमनन्यरूपेणेति ।
तस्य पर्यवसितमर्थमाह –
प्रत्यगात्मतयेति ।
'अहं ब्रह्म’ इत्येवमाकारेण ब्रह्मणो विज्ञेयत्वाय चैषा ऋगुदाह्रियत इति सम्बन्धः ।
तत्सर्वात्मभाव इति ।
सर्वसंसारास्पृष्टब्रह्मस्वरूपभूतसर्वात्मभाव एव नान्यत्स्वर्गादिकमित्यर्थः ।
इत्थं मन्त्रमवतार्य तदाद्यपादतात्पर्यमाह –
ब्रह्मण इति ।
ब्रह्मणः स्वरूपलक्षणार्थकमिदं वाक्यमित्यर्थः ।
लक्षणवाक्यस्थपदानि विभजते –
सत्यादीनि हीति ।
सत्यादिपदत्रयं विशेषणसमर्पकमित्यर्थः । ब्रह्मपदसमभिव्याहृतानां सत्यादिपदानां बुभुत्सितं ब्रह्म प्रति विशेषणसमर्पकत्वाभावे ब्रह्मस्वरूपविशेषनिर्णयायोगादिति युक्तिसूचनार्थो हि-शब्दः ।
वेद्यतयेति ।
आद्यवाक्ये वेद्यतयोक्तं ब्रह्म विशेष्यम् ; तस्यैव प्राधान्येनात्र वक्तुमिष्टत्वादित्यर्थः । न च लक्षणं सजातीयविजातीयव्यावर्तकम् , विशेषणं तु विशेष्यस्य तत्सजातीयमात्रव्यावर्कमिति वक्ष्यति, तथा च लक्षणविशेषणयोर्भेदात्कथं लक्षणार्थं वाक्यमित्युपक्रम्य विशेषणाद्यर्थकतया वाक्यं व्याख्यायत इति वाच्यम् ; सजातीयविजातीयव्यावर्तकस्य सतो लक्षणस्य विशेषणस्येव सजातीयव्यावर्तकत्वांशोऽपि विद्यत इत्येतावतात्र विशेषणत्वव्यवहारस्वीकारेण समानजातीयमात्रनिवर्तकत्वरूपमुख्यविशेषणत्वस्यात्राविवक्षितत्वात् । न चैवमपि ब्रह्मणः स्वरूपभूतं सत्यादिकं कथं लक्षणम् , व्यावर्तकधर्मस्यैव वादिभिर्लक्षणत्वाभ्युपगमादिति वाच्यम् ; गौरवेण धर्मत्वांशस्य तत्र प्रवेशायोगात् , व्यावर्तकमात्रस्य स्वरूपेऽपि सम्भवात् । न च सत्यादेर्लक्ष्यब्रह्मस्वरूपत्वात्कथमेकस्यैव लक्षणत्वं लक्ष्यत्वं च सम्भवतीति वाच्यम् ; लक्ष्यस्वरूपस्यापि सतः सत्यादेर्ज्ञातस्य इतरव्यावृत्तिबोधोपयुक्ततया लक्षणत्वम् , सत्यादिस्वरूपस्यैव सतो ब्रह्मण इतरव्यावृत्ततया ज्ञाप्यमानत्वरूपं लक्ष्यत्वमित्येकत्रापि रूपभेदेनोपपत्तेरित्यन्यत्र विस्तरः ।
सत्यादिपदार्थानां विशेषणविशेष्यभावे लिङ्गमाह –
विशेषणविशेष्यत्वादेवेति ।
'नीलं महत्सुगन्ध्युत्पलम्’ इत्यादौ सत्येव विशेषणविशेष्यभावे समानाधिकरणतयैकविभक्त्यन्तानि नीलादिपदानि प्रसिद्धानि ; प्रकृते च सत्यादिपदानि तथाभूतानि ; ततोऽर्थगतविशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः ।
सत्यादिपदार्थानां विशेषणत्वप्रसाधनफलमाह –
सत्यादिभिश्चेति ।
विशेष्यमाणमिति ।
सम्बध्यमानमित्यर्थः । निर्धार्यते व्यावर्त्यते ।
इतरव्यावृत्तिबोधफलमाह –
एवं हीति ।
यदि ब्रह्मान्येभ्यो निर्धारितं स्यादेवं सति तद्ब्रह्म ज्ञातं विशेष्य निर्णीतं भवतीत्यर्थः ।
बुभुत्सितस्य वस्तुनो विशेषणैर्विशेषतो निर्धारणे हि-शब्दसूचितं दृष्टान्तमाह –
यथेति ।
उक्तं विशेषणविशेष्यभावमाक्षिपति –
नन्विति ।
यत्र विशेष्यजातीयं वस्तु विशेषणान्तरं व्यभिचरद्वर्तते तत्र विशेष्यजातीयं विशेष्यते विशेषणैरित्यत्रोदाहरणम् –
यथेति ।
उप्पलजातीयं नीलं रक्तं चास्तीति कृत्वा नैल्येन विशेष्यते ‘नीलमुत्पलम्’ इति यथेत्यर्थः ।
एतदेव प्रपञ्चयति –
यदा हीति ।
अर्थवत्त्वमिति ।
स्यादिति शेषः ।
तत्र व्यतिरेकमाह –
न हीति ।
एकस्मिन्नेव वस्तुनि विशेषणान्तरायोगाद्धेतोर्विशेषणस्यार्थवत्त्वं न हि सम्भवतीत्यर्थः ।
अत्रोदाहरणमाह –
यथासाविति ।
विशेषणान्तरयोगिन आदित्यजातीयस्यान्यस्याभावादादित्यस्य विशेषणमर्थवन्न भवति यथेत्यर्थः ।
ततः किम् ? तत्राह –
तथैकमेवेति ।
ब्रह्मणोऽद्वितीयत्वश्रवणादिति भावः ।
किमत्र सत्याद्यर्थानां समानजातीयमात्रव्यावर्तकत्वरूपं मुख्यविशेषणत्वमाक्षिप्यते किं वा समानजातीयव्यावर्तकत्वमात्ररूपमौपचारिकमपि ? नान्त्यः, तस्येहापि सम्भवात् ; न च ब्रह्मणः समानजातीयानां ब्रह्मान्तराणामभावात्कथं तत्सम्भवतीति वाच्यम् ; वस्तुतो ब्रह्मान्तराणामभावेऽपि कल्पितानामव्याकृतभूताकाशकालादिलक्षणब्रह्मान्तराणां सत्त्वात्तेषामपि व्यापकत्वरूपवृद्धिमत्त्वेन ब्रह्मशब्दवाच्यत्वोपपत्तेः ; तथा च ब्रह्मसमानजातीयानामव्याकृतादीनां व्यावर्त्यानां सत्त्वात्सत्याद्यर्थानां समानजातीयव्यावर्तकत्वमात्ररूपमौपचारिकविशेषणत्वं निष्प्रत्यूहम् , यथा बिम्बप्रतिबिम्बभावेनादित्यस्य कल्पितं नानात्वमादाय ‘अम्बरस्थः सविता सत्यः’ इति सत्यविशेषणस्य जलादौ कल्पितादित्यव्यावर्तनेनार्थवत्त्वम् ; नाद्यः, इष्टापत्तेरित्याशयेनाह –
नेति ।
स्वरूपलक्षणसमर्पकत्वाद्विशेषणपदानामित्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
नायं दोष इत्यादिना ।
विशेषणानीति ।
सत्यादीनि विशेषणपदानि यतो लक्षणरूपार्थपराण्येव, न मुख्यविशेषणपराणि, तथा सति ब्रह्मणः सत्यादिविशेषणैः समानजातीयाद्व्यावृत्तिलाभेऽपि प्रकृते विवक्षितायाः सर्वतो व्यावृत्तेरलाभप्रसङ्गात् , ततश्च स्वरूपविशेषनिर्धारणाभावप्रसङ्ग इत्यर्थः ।
ननु प्रसिद्धविशेषणानां सजातीयमात्रव्यावर्तकत्वं लक्षणस्य तु सर्वतो व्यावर्तकत्वमित्ययं विशेष एव कुतः यतोऽत्र सत्यादीनां लक्षणत्वमुपेत्य विशेषणत्वं प्रतिषिध्यते न विशेषणप्रधानानीत्याक्षिपति –
कः पुनरिति ।
अनुभवमाश्रित्याह –
उच्यत इति ।
सर्वत इति ।
सजातीयाद्विजातीयाच्चेत्यर्थः ।
यथेति ।
यथा भूतत्वेन सदृशात्पृथिव्यादेर्विसदृशदात्मादेश्च सकाशादाकाशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः ।
ननु सत्यादिवाक्यं विशेषणविशेष्यसंसर्गपरं समानाधिकरणवाक्यत्वान्नीलोत्पलवाक्यवदिति, नेत्याह –
लक्षणार्थं चेति ।
देवदत्तस्वरूपैक्यपरे ‘सोऽयं देवदत्तः’ इति वाक्ये व्यभिचारात्सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थत्वे विशिष्टस्य तस्य परिच्छिन्नत्वेनानन्त्यायोगाद्वाक्यशेषे तस्य वागाद्यगोचरत्वप्रतिपादनविरोधाच्च विशिष्टस्य वागादिगोचरत्वनियमात्तस्मान्न नीलोत्पलवाक्यवत् न संसर्गपरं सत्यादिवाक्यं किं त्वखण्डैकरसवस्तुपरमिति मत्वा प्रागेव ब्रह्मणो लक्षणार्थं वाक्यमित्यवोचामेत्यर्थः ॥
ननु प्राक्सत्याद्यर्थानां त्रयाणामपि ब्रह्मविषेणत्वमित्युक्तम् ; तदयुक्तम् , संनिधानात्तेषां परस्परविशेषणविशेष्यभावसम्भवादिति, नेत्याह –
सत्यादिशब्दा इति ।
हेतुं साधयति –
विशेष्यार्था हि त इति ।
आद्यवाक्ये वेद्यतयोपात्तं ब्रह्म कीदृशमित्याकाङ्क्षायां तत्स्वरूपविशेषसमपर्कत्वेन प्रवृत्तं सत्यादिपदत्रयं ब्रह्मण एव विशेषणम् , संनिधानादाकाङ्क्षायाः प्रबलत्वाद्विशेष्यस्य प्रधानत्वेन विशेषणानां तदर्थत्वाच्च, प्रधानसम्बन्धस्याभ्यर्हितत्वाद्विशेषणानां समत्वेन परस्परं गुणप्रधानभावलक्षणविशेषणविशेष्यभावे विनिगमकाभावाच्च । अस्मिन्नर्थे वृद्धसंमतिसूचनार्थो हि-शब्दः । तदुक्तं जैमिनिना - ‘आनन्तर्यमचोदना’ ‘गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्’ इति । आकाङ्क्षा विरुद्धमानन्तर्यं संनिधानमचोदना अन्वये कारणं न भवतीत्याद्यसूत्रार्थः ।
अत इति ।
परस्परसम्बन्धायोगादित्यर्थः ।
तत्र सत्यपदार्थमाह –
यद्रूपेणेति ।
रज्जुत्वेन रूपेण निश्चितं रज्ज्वात्मकं वस्तु न कदाचिद्रज्जुत्वरूपं परित्यजतीति तत्तेन रूपेण सत्यमित्युच्यते, तथा तदेव रज्ज्वात्मकं वस्तु सर्पत्वेन रूपेण निश्चितं कालान्तरे तद्रूपं परित्यजतीति तेन रूपेण तदनृतमुच्यते । एतदुक्तं भवति - यद्यस्य कादाचित्कं रूपं तत्तस्यानृतं यथा रज्ज्वादेः सर्पादिरूपं यथा वा मृदादेर्घटादिरूपमिति ।
फलितमनृतशब्दार्थमाह –
अत इति ।
रज्ज्वादौ सर्पादेरिव प्रकृतिषु विकाराणामपि कादाचित्कत्वाविशेषादित्यर्थः ।
उक्तयुक्तिसिद्धविकारानृतत्वानुवादिनीं श्रुतिमाह –
वाचारम्भणमिति ।
घटशरावादिविकारो नामधेयं नाममात्रम् , अनृतमिति यावत् ; तत्र हेतुर्वाचेति ; विकारसत्यत्वस्य वागालम्बनमात्रत्वात् , कारणसत्त्वव्यतिरेकेण दुर्निरूपत्वादित्यर्थः । न चैवमर्थकल्पनायां मानाभाव इति वाच्यम् ; कारणमात्रसत्यत्वावधारणस्यैव मानत्वात् ।
'एवं सोम्य स आदेशो भवति’ इति दार्ष्टान्तिकश्रुतिमर्थतः पठति –
एवं सदेवेति ।
आदिश्यत उपदिश्यत इत्यादेशः परमात्मा सच्छब्दवाच्यः एवं मृदादिवत्सत्यं परमार्थो भवति ब्रह्म, विकारस्तु प्रपञ्चो मृद्विकारवदनृत एवेत्यर्थः ।
एवं विकारस्यानृतत्वं कारणस्य सत्यत्वं च प्रसाध्य सत्यविशेषणफलमाह –
अत इति ।
विकारस्य सत्यत्वाभावादित्यर्थः ।
ननु सत्यविशेषणेन ब्रह्मणो विकाराद्व्यावृत्तिसिद्धावतः परिशेषात्कारणत्वं प्राप्तं चेत् ; अस्तु को दोषः ? तत्राह –
कारणस्य चेति ।
कारकत्वमिति ।
कर्त्रादिकारकरूपत्वमित्यर्थः । कारणेषु कुलालादिषु कर्त्रादिकारकभावदर्शनादिति भावः ।
ब्रह्माचेतनं वस्तुत्वान्मृदादिवदित्याह –
वस्तुत्वादिति ।
ननु ज्ञानविशेषणेन ब्रह्मणः कारकत्वनिवृत्तिर्न लभ्यते कर्तृसाधनज्ञानपदेन तस्य ज्ञानक्रियां प्रति कर्तृकारकत्वावगमादिति, नेत्याह –
ज्ञानं ज्ञप्तिरिति ।
ज्ञानपदस्य ज्ञप्तिपरत्वे हेतुमाह –
ब्रह्मेति ।
ननु ज्ञानस्य सत्यानन्त्याभ्यां सह ब्रह्म प्रति विशेषणत्वेऽपि ब्रह्म ज्ञानकर्तृ किं न स्यादित्याशङ्क्याह –
न हीति ।
ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वाद्यनुपपत्तिं प्रपञ्चयति –
ज्ञानकर्तृत्वेन हीति ।
ज्ञानकर्तृत्वं हि ज्ञानं तदनुकूलक्रिया च । न च ज्ञानादिरूपेण विक्रियमाणस्य ब्रह्मणः सत्यत्वं सम्भवति । विकारजातस्येव विकारिणोऽपि जडत्वनियमात् जडस्य च चित्यध्यस्तत्वनियमेनानृतत्वावश्यम्भावादिति युक्तिसूचनार्थो हि-शब्दः ।
अनन्तं चेति ।
कथं भवेदित्यनुषङ्गः ।
तत्र हेतुः –
यद्धीति ।
प्रविभज्यते भिद्यते ।
ननु ज्ञानकर्तृत्वेऽपि ब्रह्मणो नास्ति कुतश्चित्प्रविभागः, तत्राह –
ज्ञानकर्तृत्वे चेति ।
च-शब्दः शङ्कानिरासार्थः । कर्तृत्वस्य कर्मक्रियानिरूपितत्वात्ताभ्यां कर्तुर्भेदाभावे कर्त्रादिव्यवस्थायोगात् , तस्माद्ब्रह्मणोऽनन्ततायै ज्ञात्रादिद्वैतराहित्यं वक्तव्यमित्यर्थः ।
तस्य सर्वद्वैतराहित्ये श्रुत्यन्तरमाह –
यत्रेति ।
ज्ञानक्रियाकर्तृभूतस्य वस्तुतोऽनन्तत्वाभावेऽपि श्रुतिमाह –
यत्रान्यदिति ।
यत्रेत्यस्य यदित्यर्थः ।
शङ्कते –
विशेषप्रतिषेधादिति ।
न विजानातीति ज्ञानकर्तृत्वसामान्यनिषेधमकृत्वा अन्यत्र विजानातीत्यन्यविज्ञातृत्वरूपविशेषप्रतिषेधसामर्थ्यात्स्वकर्मकज्ञानकर्तृत्वं भूम्नः श्रुत्यनुमतमिति गम्यते ; तथा च यः स्वात्मानं विजानाति स भूमेति वाक्यार्थपर्यवसानाद्ब्रह्मणो द्वैतराहित्येनेयं श्रुतिर्मानमित्यर्थः ।
'भूमानं भगवो विजिज्ञासे’ इति भूमस्वरूपलक्षणजिज्ञासायां सत्यामिदं वाक्यं प्रवृत्तम् , अतो न स्वज्ञातृत्वपरमिदं वाक्यमिति दूषयति –
नेति ।
सङ्ग्रहवाक्यं विवृणोति –
यत्र नान्यदित्यादिना ।
भूम्नो लक्षणविधिपरमेव वाक्यं न स्वात्मनि क्रियास्तित्वपरमिति सम्बन्धः । बुभुत्सितभूमस्वरूपज्ञापनपरमेव तत् न स्वकर्मकज्ञानक्रियाकर्तृत्वसद्भावपरम् , तस्याबुभुत्सितत्वादित्यर्थः ।
वाक्यस्य स्वज्ञातृत्वपरत्वाभावे फलितं वाक्यार्थमाह –
यथाप्रसिद्धमेवेति ।
भ्रान्तिसिद्धमेव ज्ञात्रादिद्वैतमनूद्य तद्यत्र वस्तुतो नास्ति स भूमेति भूमस्वरूपं लक्षणवाक्येन बोध्यते एवमन्यग्रहणस्य प्रतिषेधशेषत्वान् स्वज्ञातृत्वे वाक्यतात्पर्यग्राहकतेत्यर्थः ।
विरोधादपि न स्वज्ञातृत्वे भूमलक्षणवाक्यतात्पर्यमित्याह –
स्वात्मनि चेति ।
एकक्रियानिरूपितं कर्तृत्वं कर्मत्वं चैकदैकत्र विरुद्धत्वेन प्रसिद्धम् ; तथा च स्वात्मनि ब्रह्मणि भेदाभावात्स्वकर्मकज्ञानकर्तृत्वानुपपत्तिरित्यर्थः ।
ननु तर्हि प्रत्यगात्मरूपस्य ब्रह्मणो ज्ञानकर्मत्वमेवास्तु ; तत्राह –
आत्मनश्चेति ।
च-शब्दः शङ्कानिरासार्थः ॥
नन्वात्मनश्चिज्जडरूपांशद्वयोपेतत्वाच्चिदंशेन ज्ञाता जडांशेन ज्ञेयश्च भविष्यति, अतो न ज्ञात्रभावप्रसङ्ग इति भट्टमतमाशङ्क्य निषेधति –
एक एवेति ।
नेति ।
निष्फलश्रुत्या आत्मनो निरवयवत्वावगमात्सावयवस्यानित्यत्वनियमाच्च तन्मतं न युक्तमित्यर्थः ।
ननु निरवयवस्यापि युगपदेकज्ञानक्रियानिरूपितं कर्तृत्वं कर्मत्वं च किं न स्यादित्याशङ्क्य स्वात्मनि चेत्यत्रोक्तामेवानुपपत्तिं स्मारयति –
न हीति ।
स्वात्मनो लौकिकज्ञानकर्मत्वोपगमे तदुपदेशानर्थक्यप्रसङ्गाच्च न स्वज्ञातृत्वे भूमवाक्यस्य ‘सत्यं ज्ञानम् ‘ इत्यत्र ज्ञानपदस्य च तात्पर्यमित्याह –
आत्मनश्चेति ।
तस्मादिति ।
ज्ञातुर्ज्ञेयज्ञानाभ्यां प्रविभक्तत्वादित्यर्थः ।
ब्रह्मणो ज्ञातृत्वे सत्यत्वानुपपत्तिमप्युक्तां समारयति –
सन्मात्रत्वं चेति ।
ज्ञानकर्तृत्वादिविशेषवत्त्वं ज्ञानतदनुकूलक्रियादिरूपपरिणामवत्त्वं परिणामिनश्च मिथ्यात्वावश्यम्भावाद्बाधायोग्यत्वरूपं सन्मात्रत्वमनुपपन्नमित्यर्थः ।
ननु सन्मात्रत्वानुपत्तावपि मन्त्रोक्तसत्यत्वानुपपत्तौ किमागतममित्यत आह –
सन्मात्रं च सत्यमिति ।
सद्वस्तु प्रकृत्य ‘तत्सत्यम्’ इति वदता श्रुत्यन्तरेण सन्मात्रसत्ययोरभेदप्रतिपादनात्सन्मात्रत्वानुपपत्तिः सत्यत्वानुपत्तिरेवेत्यर्थः ।
ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वानन्तत्वयोरयोगाज्ज्ञानशब्दस्य भावसाधनत्वमेवेत्युपसंहरति –
तस्मादिति ।
ज्ञानपदस्य ज्ञप्तिपरत्वे सिद्धे फलितमाह –
ज्ञानमिति ।
यदुक्तं सत्यविशेषणेन ब्रह्मणो विकाराद्व्यावृत्तिसिद्धौ विकारभिन्नत्वात्कारणत्वं प्राप्तम् , कारणस्य च कारकत्वं मृदादिवदचिद्रूपता च प्राप्ता, अत इदमुच्यते ज्ञानं ब्रह्मेतीति, ज्ञानविशेषणफलं तदत्र सिद्धमिति बोध्यम् । ज्ञानशब्दस्य ज्ञानकर्तृपरत्वनिराकरणपरेण ग्रन्थेनार्थाज्ज्ञायते यत्तज्ज्ञानमिति कर्मव्युत्पत्तिप्राप्तं कर्मकारकत्वमपि स्वात्मनि च भेदाभावादित्यादिना निरस्तम् ; एवं ज्ञायतेऽनेनेति व्युत्पत्तिप्राप्तं करणकारकत्वमपि ब्रह्मरूपस्यात्मनो न सम्भवति, तस्य करणत्वे ज्ञात्रभावप्रसङ्गात् , इदमपि प्रागात्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्ग इत्यत्रोक्तप्रायमेव ; तथा ज्ञानकर्तृत्वनिराकरणेनाधिकरणकारकत्वमपि निरस्तम् ; एवं ज्ञानपदस्य कारकान्तरपरत्वनिराकरणमपि सिद्धवत्कृत्य कर्त्रादीत्यादिग्रहणमिति मन्तव्यम् ।
निवृत्त्यर्थं चेति ।
यद्यपि भावसाधनो ज्ञानशब्दो ज्ञप्तिक्रियावाची सा च क्रिया जडरूपा वृत्तिरिति वक्ष्यते, तथापि ज्ञानपदस्य चैतन्यलक्षकत्वं वक्ष्यमाणमभिप्रेत्याचिद्रूपतानिवृत्त्यर्थं चेत्युक्तमिति मन्तव्यम् ।
ज्ञानपदस्य वाच्यार्थमादाय शङ्कते –
ज्ञानं ब्रह्मेति वचनादिति ।
अनन्तमितीति ।
ब्रह्मणो ज्ञप्तिक्रियारूपत्वे सत्यानन्त्यायोगादानन्त्यसिद्धये ज्ञानपदेन चैतन्यमात्रं लक्षणीयमिति भावः ।
सत्यादिविशेषणैरनृतादिव्यावृत्तेरुक्तत्वादनृतादिव्यावृत्तिरेव सत्यादिपदवाच्यत्वेनोक्तेति मत्वा शङ्कते –
सत्यादीनामिति ।
ब्रह्मपदमप्यसदर्थकमेव, ब्रह्मणो मानान्तरासिद्धत्वेन तत्सत्त्वे मानाभावादित्याह –
विशेष्यस्य चेति ।
पदचतुष्टयस्याप्यसदर्थकत्वे फलितं सदृष्टान्तमाह –
मृगतृष्णेति ।
न चानृतादिव्यावृत्तेरन्योन्याभावरूपत्वेन शशशृङ्गादिवदसत्त्वाभावात्कथं शून्यार्थकतेति वाच्यम् ; सिद्धान्त्यभिमतवाक्यार्थनिषेधमात्रस्यात्र विवक्षितत्वात् ।
परिहरति –
नेति ।
ननु व्यावृत्त्यर्थत्वस्योक्तत्वात्कथं लक्षणार्थत्वमित्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति –
विशेषणत्वेऽपि चेति ।
च-शब्दः शङ्कानिरासार्थः । सत्यादिपदत्रयस्य विशेषणत्वेऽपि व्यावृत्त्यर्थत्वेऽपि न व्यावृत्तेः शाब्दत्वमुपेयते, व्यावृत्तेरार्थिकत्वोपपत्तेः, अतो लक्षणरूपार्थपरत्वमेवेत्युक्तमित्यर्थः ।
अत एव ब्रह्मपदमपि नासदर्थकमित्याह –
शून्ये हीति ।
विशेषणत्वेऽपि च सत्यादीनां नासदर्थतेत्युक्तमेव प्रपञ्चयति –
विशेषणार्थत्वेऽपि चेत्यादिना ।
सत्यादिपदानां व्यावृत्तिप्रयोजनकत्वेऽपि स्वार्थस्य सन्मात्रादेः परित्यागो नास्त्येव ।
कुत इत्यत आह –
शून्यार्थत्वे हीति ।
सत्यादिपदानां शून्यार्थत्वे स्वार्थपरित्यागे सति विशेष्यं प्रति नियन्तृत्वानुपपत्तिः इतरव्यावृत्तिप्रयोजनकत्वस्य पूर्ववाद्यभिमतस्यानुपपत्तिः सत्यादिपदैर्ब्रह्मणि व्यावर्तकस्वरूपविशेषासमर्पणात् लोके नीलादिपदैरुत्पले नैल्यादिरूपविशेषे समर्पिते सत्येव रक्तादिव्यावृत्तिबोधदर्शनादिति हि-शब्दार्थः ।
एवं व्यतिरेकमुक्त्वान्वयमाह –
सत्याद्यर्थैरिति ।
सत्यादिपदानामिति शेषः ।
तद्विपरीतेति ।
सत्यत्वादिधर्मविपरीता अनृतत्वादिधर्माः, तद्वन्तोऽनृतजडपरिच्छिन्नाः पदार्थाः, तेभ्य इत्यर्थः । ब्रह्मणः विशेष्यस्य इति षष्ठ्यौ द्वितीयार्थे ।
यदुक्तं विशेष्यस्य ब्रह्मण उत्पलादिवदप्रसिद्धत्वादसत्त्वमिति, तत्राह –
ब्रह्मशब्दोऽपीति ।
स्वार्थेनेति ।
वृद्धिमत्त्वेनेत्यर्थः । न च पदमात्रस्याप्रमाणत्वादुत्पलादिवन्मानान्तराप्रसिद्धत्वाच्च न तस्य सत्त्वसिद्धिरिति वाच्यम् , मिथ्यार्थस्य रज्जुसर्पादेः सदधिष्ठानत्वदर्शनात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वमनुमीयते, एवं सर्वाधिष्ठानतयानुमानोपस्थिते वृद्धिमति ब्रह्मशब्दस्य शक्तिग्रहाभ्युपगमान्न तस्यासत्त्वशङ्का, न चैतमनुमानादेव ब्रह्मसिद्धेः श्रुत्यादिवैयर्थ्यमिति वाच्यम् , तस्य स्वरूपविशेषावगतेः श्रुत्यधीनत्वाभ्युपगमादिति भावः ।
ब्रह्मस्वरूपलक्षणसमर्पकेषु सत्यादिपदेषु त्रिष्वावन्तरभेदमाह –
तत्रेति ।
अनन्तशब्दः परिच्छेदाभावबोधनद्वारा ब्रह्मणो विशेषणं परिच्छिन्नाद्व्यावर्तकमित्यर्थः ।
सत्यज्ञानशब्दौ त्विति ।
अनन्तशब्दस्येव सत्यज्ञानशब्दयोरभावबोधद्वारकत्वं नास्तीति विशेषार्थकस्तु-शब्दः ।
तमेव विशेषं विवृणोति –
स्वार्थेति ।
सच्चिद्रूपत्वलक्षणस्वार्थबोधनद्वारेणैव विशेषणे भवतः अनृतादिव्यावर्तकौ भवतः नाभावसमर्पणद्वारेणेत्यर्थः । अत्र ब्रह्मण्यनन्तपदसमर्पितः परिच्छेदाभावो ब्रह्मस्वरूपमेव, परिच्छेदस्य कल्पितत्वेन कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति मन्तव्यम् ॥
ननु जीवस्याकल्पिततया तत्प्रतियोगिकभेदरूपस्य परिच्छेदस्याकल्पितत्वादनन्तपदेन कथं तन्निषेध इति चेत् , न ; जीवब्रह्मणोर्भेदस्यैवासिद्धेरित्याशयेनाह –
तस्माद्वा इति ।
आत्मशब्दस्य जीववाचित्वादिति भावः ।
आनन्दमयपदलक्षिते ब्रह्मण्यात्मशब्दप्रयोगाच्चैवमित्याह –
एतमिति ।
आत्मतामिति ।
ब्रह्मण इति शेषः ।
ब्रह्मण एव जीवभावे हेत्वन्तरमाह –
तत्प्रवेशाच्चेति ।
ननु प्रवेशश्रवणं जीवभावेनेत्यत्र किं विनिगमकमित्याशङ्क्य श्रुत्यन्तरानुसारादित्याशयेन विवृणोति –
तत्सृष्ट्वेति ।
श्रुतौ तच्छब्दौ ब्रह्मपरौ ।
अत इति ।
ब्रह्मणो जीवभावेन प्रवेशश्रवणादित्यर्थः ।
शङ्कते –
एवं तर्हीति ।
यद्युक्तिरीत्या जीवात्मैव ब्रह्म तर्हि ब्रह्मण आत्माभिन्नत्वाज्ज्ञानकर्तृत्वं प्राप्तमित्यर्थः ।
नन्वसङ्गत्वादात्मन एव ज्ञानकर्तृत्वं नास्ति, कुतस्तदभेदाद्ब्रह्मणस्तत्प्रसक्तिरित्याशङ्क्याह –
आत्मा ज्ञातेति हीति ।
जानामीति ज्ञानकर्तृत्वस्यात्मन्यनुभवसिद्धत्वादसङ्गत्वश्रुतिरन्यपरेति भावः ।
यथा जीवाभिन्नत्ववचनानि ब्रह्मणो ज्ञानकर्तृत्वं प्रापयन्ति तथा ‘सोऽकामयत’ इति वचनमपि तत्प्रापयतीत्यत्र हेतुमाह –
कामिन इति ।
ब्रह्मणो ज्ञानकर्तृत्वप्राप्तौ फलितं दोषमाह –
अत इति ।
'ज्ञानं ब्रह्म’ इति वचनात्प्राप्तमन्तवत्त्वमित्यत्रोक्तमनित्यत्वप्रसङ्गं प्रपञ्चयन्नितश्च ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्याह –
अनित्यत्वेति ।
ननु ब्रह्मणो ज्ञप्तिरूपत्वेऽपि कथमनित्यत्वं ज्ञप्तेर्नित्यचैतन्यरूपत्वादित्याशङ्क्य हेत्वसिद्धिमाह –
यदि नामेति ।
यदि नामाभ्युपगम्यत इत्यर्थः ।
लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात्तदतिरिक्तनित्यज्ञानाभावाच्चेति भावः । पारतन्त्र्यं जन्यत्वम् ।
अनित्यत्वादिप्रसङ्गाज्ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्युपसंहरति –
अतोऽस्येति ।
ज्ञानस्येत्यर्थः ।
आत्मनो नित्यचैतन्यरूपतायाः श्रुतियुक्तिसिद्धत्वाज्ज्ञप्तिर्ब्रह्मेत्यत्रात्मचैतन्यमेव ज्ञप्तिर्विवक्षिता, अतो नानित्यत्वादिप्रसङ्गः ; आत्मनश्च ‘साक्षी चेता केवलो निर्गुणश्च’ इति वचनाज्ज्ञानकर्तृत्वमसिद्धम् ; जानामीत्यनुभवस्तु बुद्धितादात्म्यकृतः, ‘ध्यायतीव लेलायतीव’ इति श्रुतेः ; तथा च नात्माभिन्नत्वाद्ब्रह्मणो ज्ञानकर्तृत्वप्रसङ्गः, कामयितृत्ववचनमपि ब्रह्मणो मायोपाधिप्रयुक्तमेव, न स्वत इत्याशयेन समाधत्ते –
नेति ।
ज्ञप्तेरात्मस्वरूपाव्यतिरेकत्वे सति तस्यां ज्ञप्तौ कार्यत्वस्योपचारमात्रत्वाज्ज्ञप्तिरूपस्य ब्रह्मणो नानित्यत्वादिप्रसङ्ग इत्यर्थः ।
उक्तं विवृणोति –
आत्मन इति ।
चैतन्यरूपा ज्ञप्तिरात्मनो न भिद्यते मानाभावात् , अतो नित्यात्मस्वरूपत्वादिह विवक्षिता ज्ञप्तिर्नित्यैवेत्यर्थः ।
ननु तर्हि विषयावभासिकायां ज्ञप्तौ कथं कार्यत्वप्रसिद्धिरित्याशङ्क्य कार्यत्वोपचारादित्याह –
तथापीति ।
कार्यवृत्तिसंसर्गात्कार्यत्वेनोपचर्यत इति शेषः ।
वृत्तेः कार्यत्वं साधयति –
बुद्धेरुपाधिलक्षणाया इति ।
प्रत्यगात्मोपाधिभूताया इत्यर्थः ।
शब्दाद्याकारेति ।
शब्दादिविषयगोचराः शब्दाद्यवभासकत्वेन प्रसिद्धाः परिणामास्ते आत्मस्वरूपस्य विज्ञानस्य विषयावभासकचैतन्यस्य विषयभूता उपाधिभूता इत्यर्थः । तथा चोपाधिभूतवृत्तितादात्म्यादात्मस्वरूपभूतायां ज्ञप्तौ कार्यत्वोपचार इति भावः । आत्मविज्ञानस्य विषयभूता ये शब्दाद्याकारावभासाः ते उत्पद्यमानाः सन्त आत्मविज्ञानव्याप्ता एवोत्पद्यन्त इति योजना ।
अत्र वृत्तीनामात्मविज्ञानेन व्याप्तिर्वृत्तिचैतन्ययोरवभास्यावभासकभावप्रयोजकतादात्म्यसम्बन्धरूपा विवक्षिता । अत एवाह –
तस्मादात्मविज्ञानभास्याश्चेति ।
उक्तव्याप्तिस्तच्छब्दार्थः ।
भावसाधनज्ञानशब्दवाच्यत्वमपि वृत्तीनामेवेत्याह –
विज्ञानेति ।
जानातीत्यत्र धात्वर्थत्वमपि तासामेव कारकपारतन्त्र्यादित्याह –
ते धात्वर्थभूता इति ।
ननु चक्षुरादिकरणजन्यानां ज्ञानानां वैशेषिकादिभिरात्मधर्मत्वाङ्गीकाराद्बुद्धिधर्मत्वमयुक्तम् , अत आह –
आत्मन एवेति ।
आत्मनो विकाररूपाः सन्तस्तस्यैव धर्मा गुणा इति श्रुतितात्पर्यानभिज्ञैः कल्प्यन्ते न तु परमार्थत आत्मधर्मत्वं तेषाम् ‘कामः सङ्कल्पः’ इत्यादिश्रुत्या जन्यज्ञानादीनां मनोधर्मत्वप्रतिपादनादात्मनो निर्गुणत्वप्रतिपादनाच्चेत्यर्थः ।
एवं लौकिकज्ञानस्य कारकपारतन्त्र्यादिकं निरूप्य स्वरूपज्ञानस्य तद्वैपरीत्यमुपपादयति –
यत्त्विति ।
तु-शब्दः स्वरूपज्ञानस्य वृत्तिवैलक्षण्यार्थः । ‘सत्यं ज्ञानम्’ इत्यत्र ज्ञानपदलब्धं यज्ज्ञानं तत्सवित्रादेः प्रकाशादिकमिव ब्रह्मस्वरूपादात्मनोऽव्यतिरिक्तमात्मस्वरूपमिति यावत् । अतो ब्रह्मणः स्वरूपमेवेत्यर्थः ।
नन्वात्मस्वरूपत्वेऽपि ज्ञानस्य कथं ब्रह्मस्वरूपत्वं कारकापेक्षस्य तस्य ब्रह्मत्वायोगादित्याशङ्क्याह –
तन्न कारणान्तरेति ।
नित्यात्मस्वरूपादिति हेत्वर्थः ।
ननु ज्ञानस्य ब्रह्मरूपत्वे सर्वज्ञत्वश्रुतिविरोधः, तस्याकार्यतया ब्रह्मणस्तत्र कर्तृत्वासम्भवात् ; न च बुद्धिवृत्त्युपहितत्वेन स्वरूपज्ञानेऽपि कार्यत्वोपचार उक्त इति वाच्यम् , तावता बुद्ध्युपाधिकस्य जीवस्य ज्ञानकर्तृत्वलाभेऽपि ब्रह्मणस्तदलाभात् ; जीवब्रह्मणोरभेदेऽपि कल्पितभेदाभ्युपगमेन धर्मसाङ्कर्यायोगादित्याशङ्क्य ब्रह्मणः सर्वज्ञत्वं सर्वसाक्षित्वरूपमेवास्तु, कर्तृत्वश्रुतेरौपचारिकत्वोपपत्तेरित्याशयेन सर्वसाक्षित्वमुपपादयति –
सर्वभावानां चेत्यादिना ।
तेनेति ।
तेन ब्रह्मणा अविभक्तौ विभागरहितौ देशकालौ येषां ते तथोक्तास्तेषां भावस्तत्त्वं तस्मान्न तस्य विप्रकृष्टादिकमस्तीत्यर्थः ।
सर्वपदार्थानां ब्रह्माविभक्तत्वे हेतुः –
कालाकाशादीति ।
सर्वकल्पनाधिष्ठानत्वादित्यर्थः ।
स्वप्रकाशचिद्रूपतया ब्रह्मणोऽतिस्वच्छत्वान्न तस्याप्रकाश्यं किञ्चित्सूक्ष्ममस्तीत्याह –
निरतिशयेति ।
तस्मात्त्विति ।
सर्वपदार्थसंसर्गित्वादित्यर्थः । वस्तुतस्तु जीवस्य बुद्ध्युपाधिवशान्मुख्यज्ञातृत्वादिवद्ब्रह्मणोऽपि मायोपाधिवशान्मुख्यमेव सर्वज्ञत्वं कामयितृत्वादिकं च सम्भवतीति विशेषसङ्ग्रहार्थस्तु-शब्दः । तदुक्तं वाक्यवृत्तावाचार्यैरेव - ‘मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः’ इति ।
कारकनिरपेक्षं स्वरूपज्ञानमस्तीत्यत्र मन्त्रब्राह्मणवाक्यानि प्रमाणयति –
मन्त्रेत्यादिना ।
अपाणिर्ग्रहीता अपादो जवनः ।
परस्य नान्योऽवभासकोऽस्ति, तस्य स्वप्रकाशत्वादित्याह –
न चेति ।
अग्रे सृष्टेः पूर्वकाले भवमग्र्यम् । विज्ञातुरात्मनो या विज्ञातिः स्वरूपभूता संवित् तस्या विपरिलोपो विनाशो नास्ति, अविनाशित्वात् नाशसामग्रीशून्यत्वादित्यर्थः ।
ज्ञप्तेरात्मस्वरूपत्वेन कारकानपेक्षत्वप्रधानफलमाह –
विज्ञातृस्वरूपेति ।
तत् आत्मस्वरूपं ज्ञानम् । न धात्वर्थ इत्यत्र अतःशब्दोक्तं हेतुमाह –
अविक्रियेति ।
नित्यत्वादित्यर्थः । कारकसापेक्षक्रियाया एव धत्वर्थत्वादिति भावः । अत एवेति । ज्ञातस्य नित्यत्वादेव तत्र ज्ञाने ब्रह्मणः कर्तृत्वमप्यापादयितुमशक्यमित्यर्थः ।
तस्मादेव चेति ।
तत् ज्ञानस्वरूपं ब्रह्म ज्ञानपदवाच्यलौकिकज्ञानविलक्षणत्वादेव ज्ञानपदवाच्यमपि नेत्यर्थः ।
कथं तर्हि ‘ज्ञानं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –
तथापीति ।
वाच्यत्वाभावेऽपीत्यर्थः ।
तदाभासेति ।
ज्ञानाभासवाचकेनेत्यर्थः ।
कोऽसौ ज्ञानाभास इत्याकाङ्क्षायां तदेव विवृणोति –
बुद्धीति ।
बुद्धिपरिणामरूपवृत्तिज्ञानवाचकेनेत्यर्थः । वृत्तेर्जडायाश्चैतन्यतादात्म्यमन्तरेण विषयावभासकत्वायोगाज्ज्ञानाभासत्वमिति भावः ।
पूर्वोक्तं वाच्यत्वाभावमनूद्य तत्र हेत्वन्तरमाह –
न तूच्यत इत्यादिना ।
अर्थेषु शब्दानां प्रवृत्तिहेतुत्वेन प्रसिद्धा ये जात्यादयो धर्मास्तद्रहितत्वाद्ब्रह्मण इत्यर्थः ।
तद्रहितत्वे हेतुमाह –
सत्यानन्तेति ।
सामानाधिकरण्यादित्यनन्तरं ब्रह्मशब्दस्येति शेषः । सत्यानन्तपदाभ्यां बाधायोग्यत्वत्रिविधपरिच्छेदराहित्यसमर्पकाभ्यां ब्रह्मणो निर्विशेषत्वावगमादित्यर्थः ।
अत एव सत्यशब्दस्यापि न वाच्यं ब्रह्मेत्याह –
तथा सत्यशब्देनापीति ।
सर्वेति ।
सर्वविशेषरहितस्वरूपत्वादेवेत्यर्थः ।
कथं तर्हि ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –
बाह्येति ।
बाह्यं लोकसिद्धं यत्सत्तासामान्यं सत्ताजातिस्वरूपं तद्वाचकेन सत्यशब्देन बाधायोग्यं वस्तु लक्ष्यत इत्यर्थः । यद्वा पूर्वं विकारेष्वव्यभिचारितया वर्तमाने वस्तुनि रज्ज्वादौ सत्यशब्दप्रसिद्धेरुक्तत्वाल्लौकिकसत्यवस्तुवाचिना सत्यशब्देन परमार्थभूतं वस्तु लक्ष्यते, अतः ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यमुपपद्यत इति बोध्यम् ।
न त्विति ।
केवलस्य परमार्थवस्तुनः प्रागनुपस्थितत्वेन शक्तिग्रहाभावादिति भावः ।
सत्यादिपदत्रयव्याख्यानमुपसंहरति –
एवमिति ।
नियम्यनियामकभावफलमाह –
सत्यादीति ।
स्वस्वाच्यार्थान्निवर्तकाश्च भूत्वा ब्रह्मणो लक्षणस्य सच्चिदद्वितीयस्वरूपस्य समर्पका भवन्तीत्यर्थः ।
लक्षणवाक्यार्थविचारमुपसंहरति –
अतः सिद्धमिति ।
निरुक्तं वाच्यम् , तद्भिन्नमनिरुक्तम् ।
नीलोत्पलवदिति ।
सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थतायाः ‘न विशेषणप्रधानान्येव’ इत्यत्र ‘लक्षणार्थं च वाक्यमित्यवोचाम’ इत्यत्र च तात्पर्यतो निरस्तत्वाद्ब्रह्मणो नीलोत्पलवाक्यार्थवैलक्षण्यं च सिद्धमित्यर्थः । सच्चिदेकरसं ब्रह्म प्रकृतं भेदवर्जितम् । मन्त्रस्य प्रथमे पादे तात्पर्येण निरूपितम् ॥
गूहतेरिति ।
गूहतेः संवरणार्थस्य गुहेति रूपमिति भावः ।
गुहाशब्दस्यावारकार्थकत्वेऽपि प्रकृते का गुहा विवक्षिता ? तत्राह –
निगूढा इत्यादिना ।
ज्ञात्रादिपदार्थानां बुद्धिपरिणामत्वपक्षमाश्रित्य तत्र तेषां निगूढत्वमुक्तम् । बुद्धिनिरोधावसरे ज्ञात्रादिपदार्थानां भेदेनानुपलम्भात्तेषां तत्र निगूढत्वमवगन्तव्यम् ।
तेषां मायापरिणामत्वपक्षमाश्रित्याह –
निगूढाविति ।
भोगो दुःखादिः, अपवर्गो ज्ञानम् , तदुभयं बुद्धिपरिणामत्वात्तत्र निगूढमित्यर्थः ।
भूताकाशं व्यावर्तयति –
अव्याकृताख्य इति ।
अव्याकृतमज्ञानम् ।
तस्य परमत्वे कारणं हि-शब्देनाह –
तद्धीति ।
जगत्कारणत्वादिति हि-शब्दार्थः ।
इतश्चाव्याकृतं परममित्याह –
एतस्मिन्निति ।
अक्षरे ब्रह्मणि हे गार्गि कालत्रयापरिच्छिन्नं जगदुपादानमाकाशशब्दितमव्याकृतं साक्षादध्यस्तमिति श्रुत्यर्थः । संनिकर्षः साक्षात्सम्बन्धः । अज्ञानव्यतिरिक्तपदार्थानामज्ञाते ब्रह्मण्यध्यस्ततया अज्ञानद्वारक एव ब्रह्मणा संनिकर्ष इति भावः । एवमव्याकृताख्ये परमे व्योम्नि कारणभूते या कार्यभूता बुद्धिगुहा तस्यां निहितं ब्रह्मेति रीत्या ‘गुहायाम्’ ‘व्योमन्’ इति सप्तम्योर्वैयधिकरण्यमुक्तम् ।
इदानीं तयोः सामानाधिकरण्यमाह –
गुहायामिति ।
न बुद्धिरित्येवकारार्थः ।
अव्याकृतेऽपि गुहाशब्दप्रवृत्तिनिमित्तमाह –
तत्रापीति ।
सृष्टिस्थितिसंहारकालेष्वित्यर्थः ।
ननु बुद्धेः स्वच्छत्वात्तत्र ब्रह्मणो निधानं सम्भवति, कथमव्याकृते तत्सम्भवतीत्याशङ्क्याह –
सूक्ष्मतरत्वाच्चेति ।
अतिस्वच्छत्वादित्यर्थः । च-शब्दः शङ्कानिरासार्थः । वस्तुतस्तु परमे व्योम्नि या गुहा बुद्धिः तस्यां निहितमिति सप्तम्योर्वैयधिकरण्येन व्याख्यानमेव युक्तम् , बुद्धुयपहितजीवाभेदेन ब्रह्मण आपरोक्ष्यलाभात् ‘अहं ब्रह्मास्मि’ इत्यादिश्रुत्यन्तरैकार्थ्यलाभात् प्रवेशवाक्येन वृत्तिस्थानीयेनास्य गुहानिहितवाक्यस्यैकर्थ्यलाभाच्च । सामानाधिकरण्यपक्षे त्वव्याकृतस्य विक्षेपशक्तिमदज्ञानांशरूपस्य परोक्षत्वात्तत्र निहितस्य ब्रह्मण आपरोक्ष्यादिकं न लभ्यते । अनेनैवाभिप्रायेण बुद्धेरेव गुहात्वं स्वीकृत्य तत्र निधानमौपचारिकमिति वक्ष्यतीति मन्तव्यम् ।
'परमे व्योमन्’ इत्यत्र व्योमपदं पराभिप्रायेण व्याख्याय स्वाभिप्रायेण व्याचष्टे –
हार्दमेव त्विति ।
भूताकाशमेव व्योमेत्यत्र हेतुः –
न्याय्यमिति ।
रूढ्यनुसारस्य न्याय्त्वादित्यर्थः । परं तूक्तरीत्या बुद्धेरेवात्र गुहात्वात्तदधिकरणत्वलाभाय हार्दमित्युक्तम् । हृदयमध्यस्थमित्यर्थः । परमत्वविशेषणमपि तस्य सम्भवतीति सूचनार्थस्तु-शब्दः । अव्याकृतवारणायावधारणम् ।
ननु भूताकाशस्य कार्यत्वात्कथं परमत्वं सम्भवति ? तत्राह –
विज्ञानाङ्गत्वेनेति ।
सगुणब्रह्मोपासनस्थानतया हार्दस्य व्योम्नो गायत्रीविद्यादौ विवक्षितत्वात्कार्यस्यापि तस्योत्कर्षरूपं परमत्वं सम्भवतीत्यर्थः । न हि कारणत्वप्रयुक्त एवोत्कर्ष इति नियमोऽस्ति, भूतकार्यस्यापि सूर्यमण्डलादेः स्वकारणापेक्षयोत्कर्षस्य मूर्तामूर्तब्राह्मणादौ प्रसिद्धत्वादिति भावः ।
हार्दव्योम्नो विज्ञानाङ्गत्वेन परमत्वमेव साधयति –
यो वै स इति ।
पुरुषाच्छरीरात् यो बहिर्धा बहिराकाशः यो वा अन्तः पुरुषे शरीरे आकाशः स इत्युपक्रम्य ‘योऽयमन्तर्हृदय आकाशः’ इति श्रुत्यन्तराद्गायत्त्रीविद्याप्रकरणस्थाद्गायत्त्रीपदलक्षितब्रह्मोपासनस्थानतया हार्दाकाशस्य ब्रह्मविज्ञानाङ्गत्वबोधकात् हार्दस्य व्योम्नः परमत्वं प्रसिद्धं निश्चितमित्यर्थः ।
तद्वृत्त्येति ।
बुद्धिवृत्त्या ‘तत्त्वमसि’ इति श्रुतिजनितया बुद्ध्यादिभ्यः सकाशाद्विविक्ततया गृह्यत इत्यर्थः । यद्वा बुद्धिवृत्त्या बुद्धिसंसर्गेण विविक्ततया स्फुटतया द्रष्टृत्वश्रोतृत्वमन्तृत्वादिरूपेण ब्रह्मोपलभ्यत इत्यर्थः । तथा च गुहानिहितवाक्यं प्रति वृत्तिस्थानीयस्य प्रवेशवाक्यस्यार्थवर्णनावसरे वक्ष्यति - ‘गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते’ इति ।
ननु निहितशब्दः स्थितिं ब्रूते, ततश्च कथमन्यथा निधानं व्याख्यायते ? तत्राह –
न ह्यन्यथेति ।
अत्र सम्बन्धपदमाधेयत्वपरम् ; तथा च अन्यथा उपलम्भव्यतिरेकेण देशविशेषाद्याधेयत्वरूपं निधानं ब्रह्मणो न ह्यस्तीत्यर्थः ।
सर्वगतत्वादिति ।
न चाकाशस्य सर्वगतत्वेऽपि स्वकारणमादायादौ स्थितिरस्तीति वाच्यम् , कार्यस्याकाशस्य लोकप्रसिद्ध्या सर्वगतत्वेऽपि वस्तुतः सर्वगतत्वाभावादिति भावः ।
किं च ‘यत्राधेयत्वं तत्र सविशेषत्वम् ‘ इति व्याप्तिर्दृश्यते, ब्रह्मणि च व्यापकसविशेषत्वनिवृत्त्या व्याप्याधेयत्वनिवृत्तिरित्याशयेनाह –
निर्विशेषत्वाच्चेति ।
यद्वा विशेषपदमाधारपरम् , ततश्च आधारराहित्यश्रवणाच्च न तस्याधेयत्वमित्यर्थः ।
एवं गुहानिहितवाक्यं व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वं व्याचष्टे –
स एवमित्यादिना ।
यो ब्रह्म गुहायां प्रत्यक्तया स्थितम् ‘अहं ब्रह्म’ इति वेद विजानाति स एवं विजानन्किं लभत इत्याकाङ्क्षायामाहेत्यर्थः । भुङ्क्ते अनुभवति ।
सर्वशब्दस्यासङ्कुचितं साकल्यमर्थतया दर्शयति –
निरवशिष्टानिति ।
कामशब्दस्येच्छापरत्वं व्यावर्तयति –
काम्यानिति ।
तानेव विशिष्य दर्शयति –
भोगानित्यर्थ इति ।
भुज्यत इति व्युत्पत्त्या भोगपदमानन्दपरमिति भावः ।
सह शब्दमवतारयति –
किमिति ।
यथास्मादादिः पुत्रस्वर्गादीन्पर्यायेण क्रमेण भुङ्क्ते तथैव विद्वानपि किं कामान्भुङ्क्त इति योजना ।
एकक्षणेति ।
एकक्षणावच्छिन्नानित्यर्थः ।
ननु सुखव्यञ्जकानां सत्त्ववृत्तिविशेषाणां क्रमिकत्वात्कथमेकदैवानन्दानामनुभवो विदुषः सिध्यति ? तत्राह –
एकयेति ।
वृत्तिकृतानन्दानुभवो नात्र विवक्षित इति भावः ।
यामिति ।
'सत्यं ज्ञानम्’ इत्यत्र ज्ञानमिति पदेन लक्षणीयतया यामुपलब्धिमवोचाम तया ब्रह्मस्वरूपाव्यतिरिक्तया कामानश्नुत इति योजना ।
तदुच्यत इति ।
यत्सर्वकामानामनुभवे यौगपद्यमुक्तं तदेव ब्रह्मणा सहेत्यत्र सहशब्देनोच्यते न साहित्यमित्यर्थः ।
नन्वत्र तृतीयया साहित्यमेव सहशब्दार्थतया भातीत्याशङ्क्याह –
ब्रह्मभूत इति ।
इत्थम्भावे तृतीयेयं न साहित्यप्रतियोगित्ववाचिनीति भावः ।
पूर्वोक्तव्यतरेकदृष्टान्तविवरणपूर्वकमुक्तमर्थं प्रपञ्चयति –
न तथेत्यादिना ।
अत्रोपाधिकृतेनेत्याद्या अपि तृतीया इत्थम्भावे द्रष्टव्याः ; तथा च परमात्मनो जलसूर्यवत्प्रतिबिम्बभूतं घटाकाशवदवच्छिन्नं वा उपाधिकृतं सांसारिकं संसारधर्मकं यत्स्वरूपं तदात्मा लोको यथा धर्मादिसाधनापेक्षान्कामान्पर्यायेणाश्नुत इत्यर्थः ।
विदुषः कामाशनप्रकारं पृच्छति –
कथं तर्हीति ।
पूर्वोक्तेनैव प्रकारेणेत्याह –
यथोक्तेनेति ।
सर्वज्ञेनेति ।
सर्वसाक्षिणेत्यर्थः ।
सर्वगतेन हीति ।
सर्वप्राणिसुखानुगतेन विदुष आत्मभूतेनेत्यर्थः । सर्वगतत्वादिकं श्रुतिषु प्रसिद्धमिति हि-शब्दार्थः ।
सर्वज्ञादिरूपस्य विद्वदात्मनः सेश्वरसाङ्ख्यमत इव ताटस्थ्यं वारयति –
नित्यब्रह्मस्वरूपेणेति ।
धर्मादीति ।
स्वकीयधर्माद्यनपेक्षानित्यर्थः ; यथाश्रुते प्रतिप्राणिवर्तिनां कामानां तत्तद्धर्माद्यपेक्षत्वादसाङ्गत्यापत्तेः । एवमग्रेऽपि ।
तद्धीति ।
ब्रह्मणः प्रसिद्धं सर्वसाक्षित्वमेव विपश्चित्त्वम् , नान्यदित्यर्थः ।
इदं च विशेषणं विदुषो ब्रह्मानन्दानुभवकाले समुद्राम्भसि विप्रुषामिव ब्रह्मानन्देऽन्तर्भूतानां सर्वप्राणिगतानामानन्दानां सर्वसाक्षिचैतन्यरूपेणैवाशनमत्र विवक्षितं न प्रकारान्तरेणेत्येतस्यार्थस्य गमकमित्याशयेनाह –
तेन सर्वज्ञस्वरूपेणेति ।
ननु यः सत्यज्ञानानन्तलक्षणं ब्रह्म प्रत्यक्त्वेन वेद सोऽर्चिरादिवर्त्मना ब्रह्मलोकं गत्वा तत्रस्थेन सर्वज्ञेन ब्रह्मणा सह दिव्यान्कामानश्नुत इति ऋज्वर्थ एवात्र किमिति न विवक्षित इति चेत् , न ; ब्रह्मणा सहेत्यन्वयस्य ‘सोऽस्नुते सर्वान्कामान्सह’ इत्यत्राध्ययनसम्प्रदायप्राप्तवाक्यविच्छेदाननुगुणत्वात् परब्रह्मविदो गत्युत्क्रान्त्याद्यभावस्य चतुर्थाध्याये साधितत्वाद् ‘अशरीरं वाव सन्तम् ‘ इत्यादिश्रुत्या मुक्तस्य शरीरसम्बन्धप्रतिषेधात् ‘तत्केन कं पश्येत्’ इत्यादिश्रुत्या तस्य विशेषविज्ञानप्रतिषेधाच्च ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुत्या सावधारणया ब्रह्मस्वरूपव्यतिरिक्तस्य प्राप्यत्वप्रतिषेधाच्च ; तस्मादत्र ऋज्वर्थाविवक्षेत्यन्यत्र विस्तरः ॥
वृत्तानुवादपूर्वकमुत्तरसन्दर्भमवतारतयति –
सर्व एवेत्यादिना ।
तद्वृत्तीति ।
तस्य सूत्रस्य वृत्तिर्विस्तरतो व्याख्या तत्स्थानीय इत्यर्थः ।
तत्र सृष्टिवाक्येनानन्त्यं प्राधान्येन प्रपञ्च्यत इति तात्पर्यं दर्शयितुं पूर्वोक्तेष्वर्थविशेषमनुवदति –
तत्र चेति ।
आहेत्यनन्तरम् ‘तस्माद्वै’ इत्यादिश्रुतिरिति शेषः ।
नन्वन्तशब्दस्य नाशे प्रसिद्धत्वादनन्तत्वं नित्यत्वम् ; तच्चाकाशादिकारणत्ववचनाद्ब्रह्मणो न सिध्यति, तस्यान्तवत्त्वेऽप्याकाशादेर्वाय्वादिकारणत्ववदाकाशादिकारणत्वोपपत्तेरित्याशङ्क्य आनन्त्यं विभजते –
तत्र त्रिविधं हीति ।
तथा च त्रिविधे आनन्त्ये यद्वस्तुत आनन्त्यं तदेव सृष्टिवाक्येन तात्पर्यतो निरूप्यत इति भावः ।
तत्र देशत आनन्त्यस्य हि-शब्दसूचितां प्रसिद्धिमाकाशे दर्शयति –
तद्यथेति ।
न हीति ।
अवकाशात्मना सर्वत्रावस्थानादित्यर्थः । अभावः परिच्छेदः ।
ननु किं कालतो वस्तुतश्चानन्त्यमप्याकाशे प्रसिद्धम् ? नेत्याह –
न त्विति ।
कालत आनन्त्याभावे हेतुं पृच्छति –
कस्मादिति ।
यद्वा आकाशस्य नित्यत्वमभिप्रेत्य नैयायिकः शङ्कते –
कस्मादिति ।
'आत्मन आकाशः सम्भूतः’ इति श्रुतिमाश्रित्य परिहरति –
कार्यत्वादिति ।
तथा च कार्याकाशस्यानित्यत्वात्कालत आनन्त्यं नास्ति । वाय्वादेराकाशसमसत्ताकस्य वस्तुनः सत्त्वाद्वस्तुत आनन्त्यमपि तस्य नास्तीति भावः ।
ननु नित्यत्वेन प्रसिद्धस्य चेदाकाशस्य कालत आनन्त्यं नास्ति, तर्हि ब्रह्मणोऽपि तन्नास्त्येव, नेत्याह –
नैवमिति ।
नन्वकार्यत्वमसिद्धं ब्रह्मणः कारणत्वादाकाशादिवदिति, नेत्याह –
अकार्यं चेति ।
च-शब्दः शङ्कानिरासार्थः । आकाशादेरिव ब्रह्मणः सृष्टिप्रलययोरश्रवणान्मूलकारणस्यापि ब्रह्मणः कार्यत्वे कारणानवस्थाप्रसङ्गेनोक्तकारणत्वानुमानस्याप्रयोजकत्वात् ‘सर्वगतश्च नित्यः’ इत्यादौ नित्यत्वश्रवणात् ब्रह्मण उत्पत्तौ सामग्र्यनिरूपणादेश्च हेतोरकार्यं ब्रह्मेत्यर्थः ।
तथेति ।
तथा वस्तुतश्चानन्तं ब्रह्मेत्यर्थः ।
ननु वस्तुतो ब्रह्मातिरिक्तस्य जगतः सत्त्वात्तस्य वस्तुत आनन्त्यमसिद्धमित्याक्षिपति –
कथं पुनरिति ।
जगतो ब्रह्मापेक्षया वस्त्वन्तरत्वमसिद्धं कल्पितत्वादित्याशयेनाह –
सर्वानन्यत्वादिति ।
ननु सर्वस्य जगतो ब्रह्मानन्यत्वेऽपि ब्रह्मणस्तत्कृतः परिच्छेदः किं न स्यादित्याशङ्क्याह –
भिन्नं हीति ।
भिन्नस्यान्तत्वं प्रसिद्धमित्युक्तम् , तदेव प्रपञ्चयति –
वस्त्वन्तरबुद्धिर्हीति ।
गोत्वसंनिकर्षदशायां गोत्वरूपस्याश्वत्वाद्यपेक्षया वस्त्वन्तरस्य बुद्धिर्जायते ; सा च गोसंनिहितायामश्वादिव्यक्तावपि गौरयमपीत्येवमाकारेण प्रसक्ता सती तत्राश्वत्वं दृष्ट्वा निवर्तते नायं गौरिति हि प्रसिद्धमेतदित्यर्थः ।
ततः किम् ? तत्राह –
यत इति ।
उक्तं सामान्यन्यायं स्वयमेवोदाहरणनिष्ठतया योजयति –
तद्यथेति ।
अश्वत्वान्तमिति ।
गोत्वमश्वत्वान्तमश्वत्वावधिकमनुभूयत इति कृत्वा गोत्वमन्तवद्भवतीत्यर्थः ।
उक्तस्य वस्तुपरिच्छेदस्य घटत्वादिसाधारण्येन प्रसिद्धिमाह –
स चेति ।
एवं वस्त्वन्तरस्यान्तवत्त्वं प्रसाध्य प्रकृतमाह –
नैवमिति ।
भेदपदं भिन्नवस्तुपरम् ।
अत इति ।
परमार्थतो ब्रह्मभिन्नवस्त्वभावादित्यर्थः । सर्वस्यैव जगतो ब्रह्मानन्यत्वस्य पूर्वमभिहितत्वादिति भावः ।
सर्वानन्त्यत्वे हेतुं पृच्छति –
कथमिति ।
'आत्मन आकाशः सम्भूतः’ इति सृष्टिवाक्येनोत्तरमाह –
उच्यत इति ।
ननु कालपरमाण्वादीनां नित्यत्वात्सर्ववस्तुकारणत्वमसिद्धमित्याशङ्क्याह –
सर्वेषां हीति ।
कालादेरपि कार्यत्वं वियदधिकरणन्यायसिद्धमिति सूचनार्थो हि-शब्दः । ‘चिदविद्यासम्बन्धः कालः’ विष्णुपुराणोक्तरीत्या ‘ब्रह्मण एव रूपभेदः कालः’ इति पक्षयोः कालस्यानादित्वेन कार्यत्वाभावेऽपि न क्षतिः, आद्यपक्षे कालस्याविद्यावत्कल्पितत्वेन वस्त्वन्तरत्वाभावात् , द्वितीये कालस्य ब्रह्मस्वरूपत्वादेव वस्त्वन्तरत्वाभावादिति मन्तव्यम् ।
ब्रह्मवद्ब्रह्मकार्यस्यापि परमार्थत्वं मन्वानः शङ्कते –
कार्यापेक्षयेति ।
आरम्भणाधिकरणन्यायेन परिहरति –
नानृतत्वादिति ।
यत इति ।
यतः पृथक्सत्त्वाद्धेतोः कारणबुद्धिः कार्यान्निवर्तेत तत्पृथक्सत्त्वं कार्यस्य नास्तीत्यर्थः । अत एव ‘मृद्घटः’ ‘मृच्छरावम्’ इति विकारेषु कारणबुद्धिरनुवर्तते, तथा जगत्यपि ‘सन्घटः’ ‘सन्पटः’ इत्यादिरूपेण सद्रूपब्रह्मबुद्धिरनुवर्तते, न हि पृथक्सत्त्वयुक्तयोर्घटपटयोर्मध्ये घटबुद्धिः पटे पटबुद्धिर्वा घटेऽनुवर्तत इति भावः ।
कार्यस्य कारणात्पृथक्सत्त्वाभावे श्रुतिमाह –
वाचारम्भणमिति ।
वस्तुत आनन्त्यनिरूपणमुपसंहरति –
तस्मादिति ।
देशत इति पाठेऽपि देशपदं वस्तुपरम् ।
ब्रह्मणो देशत आनन्त्यं कैमुतिकन्यायेन साधयति –
आकाशो हीत्यादिना ।
आकाशस्य देशत आनन्त्यं प्रसिद्धमित्ययमर्थः प्रागेवोक्त इति सूचनार्थो हि-शब्दः ।
ननु सर्वगतमाकाशं प्रति ब्रह्मण उपादानकारणत्वेऽपि कथं तस्याकाशापेक्षयापि महत्त्वं सिध्यति स्वन्यूनपरिमाणद्रव्यस्याप्युपादानत्वसम्भवादित्याशङ्कां निराकरोति –
न हीति ।
कार्यद्रव्ये स्वन्यूनपरिमाणद्रव्यारभ्यत्वनियमस्य दीर्घविस्तृतदुकूलाद्यारब्धरज्ज्वादौ व्यभिचारात्सर्वगतस्याकाशादेरसर्वगतादुत्पद्यमानतायाः प्रत्यक्षादिसिद्धत्वाभावाच्चौचित्येनाकाशस्य ततोऽप्यधिकपरिमाणादेवोत्पत्तिः सिध्यतीत्यर्थः ।
'ज्यायानाकाशात्’ इत्यादिश्रुत्या च ब्रह्मणो निरतिशयमहत्त्वं सिद्धमित्याशयेन फलितमाह –
अत इति ।
अत एवेति ।
त्रिविधपरिच्छेदशून्यत्वादेवेत्यर्थः ।
निरतिशयमिति ।
त्रैकालिकबाधशून्यत्वलक्षणमित्यर्थः ॥
इत्थं सृष्टिवाक्यतात्पर्यार्थमानन्त्यं निरूप्याक्षराणि व्याचष्टे –
तस्मादित्यादिना ।
यथालक्षितमिति ।
परामृश्यत इत्यनुषङ्गः ।
उक्तं सर्वनामद्वयार्थमनुवदन्नेव वाक्यार्थमाह –
यदित्यादिना ।
ननु प्रतीच एवात्मशब्दवाच्यत्वात्कथं ब्रह्मण आत्मशब्दवाच्यत्वमित्याशङ्क्याह –
आत्मा हीति ।
तत् ब्रह्म सर्वस्य भोक्तृवर्गस्य आत्मा वास्तवं स्वरूपमित्यर्थः ।
तत्र हि-शब्दसूचितं मानमाह –
तत्सत्यमिति ।
आत्मेति ।
आत्मशब्दवाच्यमित्यर्थः ।
आकाशस्य लक्षणं स्वरूपं चाह –
आकाशो नामेत्यादिना ।
तस्माच्चेति ।
चकार आत्मसमुच्चयार्थः । तथा च आकाशतादात्म्यापन्नादात्मनः सकाशादेव वायुः सम्भूत इत्यर्थः । एवमुत्तरत्रापि पूर्वपूर्वभूततादात्म्यापन्नादुत्तरोत्तरभूतस्योत्पत्तिरवगन्तव्या ‘तदभिध्यानादेव तु’ इत्यादौ तथा व्यस्थापितत्वादिति मन्तव्यम् । अग्निशब्दस्तेजःसामान्यपरः ।
पृथिव्या इति ।
अत्र पञ्चम्याः प्रकृत्यर्थत्वात्पूर्वत्रापि पञ्चम्यः प्रकृत्यर्था एवेति मन्तव्यम् । ओषधयः सम्भूताः, अन्नं सम्भूतम् , पुरुषः सम्भूत इति सर्वत्र क्रियापदं द्रष्टव्यम् । ‘अन्नात्पुरुषः’ इति वाक्योक्तं पुरुषस्यान्नविकारत्वं व्याख्यातुम् ‘स वा एषः’ इत्युत्तरवाक्यं प्रवृत्तम् अतो न पौनरुक्त्यमिति मन्तव्यम् ।
रसशब्दितस्य रेतसः पुरुषाकृतिनियामकत्वमाह –
पुरुषाकृतीति ।
पितुः पुरुषाकृत्या भावितं संस्कृतं सत् पितुरङ्गेभ्यः सकाशात्सम्भूतमित्यर्थः ।
तेज इति ।
सर्वेषामङ्गानां सारभूतमित्यर्थः । तथा च श्रुतिः – 'यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ इति ।
तस्मादिति ।
पुरुषाकृतिभाविताद्रेतोरूपाद्बीजादित्यर्थः ।
पुरुषग्रहणस्य तात्पर्यं वक्तुमाक्षेपमवतारयति –
सर्वेषामपीति ।
पश्वादीनामपरीत्यर्थः । क्रमेण ब्रह्मविकारत्वं ब्रह्मवंश्यत्वम् ।
समाधत्ते –
प्राधान्यादिति ।
यदि प्राधान्यं भक्षणादिविषये तदा पश्वादीनामेव प्राधान्यं स्यादित्याशयेन शङ्कते –
किं पुनरिति ।
कर्मज्ञानाधिकारित्वमत्र प्राधान्यम् , तच्च मनुष्यस्यैव न पश्वादीनामित्याह –
कर्मेति ।
तदुक्तं सूत्रकारेण - ‘मनुष्याधिकारत्वाद् ‘ इति ।
अधिकारमेव साधयति –
पुरुष एव हीति ।
हि-शब्दसूचितान्हेतूनाह –
शक्तत्वादर्थित्वाच्चेति ।
विधिनिषेधविवेकसामर्थ्योपेतत्वाच्छास्त्रोक्तस्वर्गादिफलार्थित्वसम्भवादित्यर्थः । अपर्युदस्तत्वादिहेत्वन्तरसङ्ग्रहार्थश्चकारः ।
पुरुषस्य यथोक्तसामर्थ्याद्युपेतत्वे श्रुतिमाह –
पुरुषे त्वेवेति ।
ब्राह्मण्यादिजातिमति मनुष्यदेह एवाविस्तरामतिशयेन प्रकट आत्मा ज्ञानाद्यतिशयवानित्यर्थः ।
एतदेवानुभवेन साधयति –
स हीत्यादिना ।
श्वस्तनं परेद्युर्भाविनम् । लोको भोग्यः, तत्साधनमलोकः । मर्त्येन विनाशार्हेण ज्ञानकर्मादिसाधनेनाक्षयं फलमाप्तुमिच्छतीत्यर्थः ।
साधितं ज्ञानातिशयमुपसंहरति –
एवं सम्पन्न इति ।
येन ज्ञानाद्यतिशयेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह –
अथेतरेषामिति ।
तेषां बुभुक्षादिविषयकज्ञानमेवास्ति न पूर्वोक्तमित्यर्थः ।
प्रकृतायामपि ब्रह्मविद्यायां पुरुषस्यैवाधिकारित्वाच्चात्र पुरुषग्रहणमित्याशयेनाह –
स हीति ।
ननु यद्यत्र सर्वान्तरं ब्रह्म प्रापयितुमिष्ठः पुरुषस्तर्हि तं प्रति तादृशब्रह्मोपन्यास एवोत्तरसन्दर्भे कार्यो न कोशोपन्यास इत्याशङ्क्य तदुपन्यासस्य तात्पर्यमाह –
तस्य चेति ।
विद्याधिकारिणः पुरुषस्येत्यर्थः । चकारोऽवधारणार्थः सन्सप्तम्या सम्बध्यते । चिदात्मापेक्षया बाह्या येऽचिदात्मानः कल्पिताकारविशेषाः कोशास्तेष्वेवानात्मस्वनादिकालमारभ्याहमित्यात्मत्वभावनोपेता बुद्धिः कञ्चिदुपायविशेषमनालम्ब्य सहसा सर्वान्तरप्रत्यगात्मविषया पूर्वमात्मत्वेन गृहीतकोशरूपालम्बनशून्या च कर्तुमशक्येति कृत्वा प्राणमयादिषु शिरआदिमत्त्वेन दृष्टस्थूलशरीरसाम्योपन्यासेन अन्योऽन्तर आत्मान्योऽन्तर आत्मेत्यादिनान्तः प्रवेशयन्नाहेत्यर्थः । यथा लोके चन्द्रं बुबोधयिषुः शाखाग्रमालम्ब्य बोधयति ‘शाखाग्रं चन्द्रः’ इति स च बोद्धा दिगन्तराणि त्यक्त्वा शाखाग्रं पश्यन् तद्द्वारा चन्द्रं पश्यति, तद्वदन्नमयादिषु कोशेषु क्रमेणात्मत्वेनोपदिष्टेषु सत्सु बाह्ये पुत्रादौ पूर्वपूर्वकोशे चात्मत्वबुद्धिं क्रमेण परित्यज्य सर्वकोशाधिष्ठानभूतं सर्वान्तरं ब्रह्माहमस्मीति प्रतिपद्यते मुमुक्षुरित्यर्थः । ब्रह्मविद्योपायविशेषत्वेन कोशपरम्परा शाखाग्रस्थानीयोपदिश्यत इति दृष्टान्तदार्ष्टान्तिकयोः सङ्गतिः । एवं कोशेषु पक्षपुच्छादिमत्त्वोपन्यासात्सुपर्णाकारतयोपास्तयो विधीयन्ते । ता अप्युपास्तयश्चित्तैकाग्र्यद्वारा ब्रह्मविद्याशेषभूता एव न स्वतन्त्राः । तासु फलश्रवणं प्रयाजाद्यङ्गवाक्येषु फलश्रवणवदर्थवादमात्रमित्यादिकं वार्त्तिकादौ द्रष्टव्यमिति सङ्क्षेपः ।
अन्नमयस्य प्रसिद्धं शिर एव शिर इत्यत्रावधारणस्य तात्पर्यमाह –
प्राणमयादिष्विति ।
एवमिति ।
अयमेव दक्षिणः पक्ष इत्यादिप्रकारेणान्नमयपर्याये सर्वत्रावधारणं योजनीयमित्यर्थः ।
ननु बाह्वोर्दक्षिणत्वादेरनित्यतत्वात्कथं दक्षिणो बाहुरित्युच्यते ? तत्राह –
पूर्वाभिमुखस्येति ।
श्रौतस्मार्तेषु कर्मसु पूर्वाभिमुखत्वस्यौत्सर्गिकत्वादिति भावः ।
आत्मेति ।
अयं मध्यमो देहभागोऽङ्गानामात्मेत्यवगन्तव्यमित्यत्र श्रुत्यन्तरमाह –
मध्यं हीति ।
मध्यमभागस्य सर्वाङ्गस्पर्शितया सर्वाङ्गव्यापकत्वरूपमात्मत्वं तस्य युक्तमिति हि-शब्दार्थः ।
प्रतिष्ठापदं स्थितिसाधनत्वं वददाधारपरमित्याह –
प्रतितिष्ठतीति ।
नाभेरधोभागे पुच्छदृष्टिकरणे इवशब्दसङ्गृहीतं सामान्यमाह –
अधोलम्बनेति ।
एतत्प्रकृत्येति ।
अन्नमयस्य पुरुषविधत्वं शिरआदिमत्त्वलक्षणं प्रकृत्य ‘तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’ इति वक्ष्यमाणं पुरुषविधत्वं प्राणमयादीनां सिध्यतीत्यर्थः ।
मूषेति ।
अन्तः प्रतिमाकारच्छिद्रवती मृन्मयी प्रतिकृतिर्मूषा, तस्यां निषिक्तं द्रुतं ताम्रादिकं यथा प्रतिमाकारं भवति, तथा शिरआदिमत्यन्नमयकोशेऽन्तर्व्याप्य विद्यमानं प्राणमयादिकमपि तदाकारं भवतीत्यर्थः ।
अत्रान्नमयकोशस्य विराडात्मनोपास्यत्वं विवक्षितमिति मत्वा विराडात्मन्यन्नमयकोशे मन्त्रमवतारयति –
तदप्येष इति ॥
अन्नादिति ।
विराडात्मकादित्यर्थः ।
स्थावरेति ।
व्यष्ट्यन्नमयकोशा इत्यर्थः ।
कदा लीयन्त इत्याकाङ्क्षायामाह –
अन्त इति ।
विराजोऽस्मदादिकारणत्वे हेतुपरमन्नं हीति वाक्यं हि-शब्दयोगादिति मत्वा तदाकाङ्क्षापूर्वकमवतार्य व्याचष्टे –
कस्मादित्यादिना ।
अन्नशब्दितस्य विराजः प्रथमजत्वे फलितमाह –
अन्नमयादीनां हीति ।
प्राणमयादीनामन्नविकारत्वाभावेऽप्यन्नोपचितत्वमस्तीति मत्वात्रादिपदं प्रयुक्तम् । अन्नं विराडात्मकं यतः प्रथममेव जातं सत्स्वव्यतिरिक्तानां भूतानां कारणं कारणत्वयोग्यम् अतोऽन्नप्रभवा इत्यर्थः । प्रथममुत्पन्नस्य पश्चादुत्पद्यमानकार्यं प्रति कारणत्वयोग्यतासम्भवसूचनार्थो हि-शब्दः ।
यस्माच्चैवमिति ।
चोऽवधारणे । यस्मादन्नजीवना एव प्रजाशब्दवाच्याः प्राणिन इत्यर्थः ।
दाहेति ।
जाठरकृता क्षुद्दाहः, तत्प्रशामकमित्यर्थः ॥
उत्तरवाक्यतात्पर्यमाह –
अन्नब्रह्मविद इति ।
ननु कथमन्नस्य ब्रह्मत्वं कथं वा तदुपासनमिति पृच्छति –
कथमिति ।
उत्तरम् – अन्नज इत्यादि । यस्मादन्नं प्रथमकोशजातस्य जन्मस्थितिप्रलयकारणं तस्मादन्नं ब्रह्म, तच्चान्नात्मकं ब्रह्माहमस्मीति चिन्तयेत् , उपास्यविराड्देवभावापत्तिं विना सर्वान्नप्राप्त्यसम्भवात् देवभावस्य चाहङ्ग्रहं विना प्राप्तुमशक्यत्वादित्यर्थः ।
अन्नं हीति पुनर्वचनमन्नब्रह्मविदः सर्वान्नप्राप्तौ हेतुपरमिति मत्वा तदवतारयति –
कुतः पुनरिति ।
अन्नस्य ज्येष्ठत्वे हेतुमाह –
भूतेभ्य इति ।
भूतेभ्यः पूर्वं निष्पन्नत्वादन्नं ज्येष्ठम् , तच्च ज्येष्ठमन्नं हि यस्माद्भूतानां जन्मजीवनादिकारणं तस्मादन्नं सर्वौषधमुच्यते लोकैरिति योजना । अनेन हि पुनर्वचनेन अन्नदेवतात्मनो विराजः स्वकार्येषु सर्वप्राणिषु व्याप्तिस्तात्पर्येण प्रतिपाद्यते लोके कारणस्य मृदादेः कार्येषु व्याप्तेः प्रसिद्धत्वात् ।
सा च व्याप्तिर्विराडात्मभावमापन्नस्यान्नब्रह्मविदः सर्वप्राण्यात्मना सर्वान्नात्तृत्वे हेतुर्भवतीति मत्वाह –
तस्मादिति ।
अन्नब्रह्मविदो विराडात्मना सर्वप्राणिव्यापित्वादित्यर्थः । अस्य पुनर्वचनस्यायमभिप्रायो वार्त्तिके स्पष्टमभिहितः - ‘कार्यं सर्वं यतो व्याप्तं कारणेनात्तृरूपिणा । इति हेतूपदेशाय त्वन्नं हीत्युच्यते पुनः’ इति ।
ननु ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्युक्तत्वात्पुनः ‘अन्नाद्भूतानि जायन्ते’ इत्यादिवचनं व्यर्थमित्याशङ्क्याह –
उपसंहारार्थमिति ।
अद्यत इत्यादेस्तात्पर्यमाह –
इदानीमिति ।
तच्च निर्वचनमुपास्यस्यान्नरूपप्रजापतेरद्यत्वात्तृत्वरूपगुणद्वयविधानार्थमिति मन्तव्यम् । यस्मात्प्रकृतं व्रीहियवादिलक्षणं वस्तु भूतैरद्यते तस्मादन्नशब्दवाच्यं भवति, यस्माच्च तद्भूतान्यत्ति संहरति तस्मादपि तदन्नमुच्यते ; अन्नस्य चापथ्यादिरूपस्य प्राणिसंहारसाधनत्वं लोके प्रसिद्धमिति मन्तव्यम् ।
इत्थमन्नमयकोशं निरूप्य तस्यानात्मत्वसिद्धये प्राणमयकोशवाक्यप्रवृत्तिः ; एवमुत्तरत्रापीति तात्पर्यमाह –
अन्नमयादिभ्य इति ।
आत्मभ्य इति ।
कल्पितात्मभ्य इत्यर्थः ।
अत एवाह –
अविद्याकृतेति ।
यथा लोकोऽनेकतुषकोद्रववितुषीकरणेन कोद्रवतण्डुलान्दर्शयितुं प्रवर्तते तथा प्रत्यगात्मावरणभूताविद्याकृतपञ्चकोशापनयनेनान्नमयादिभ्य आनन्दमयान्तेभ्य अन्तरतमं ब्रह्म कोशापनयनशब्दितविवेकजनितया विद्यया प्रत्यक्तया दर्शयितुमिच्छु शास्त्रं प्रस्तौति प्रवर्तत इत्यर्थः । तस्माद्वा एतस्माद्यथोक्तादिति । अत्र ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्यादौ दूरदेशे भूतकारणत्वेन प्रकृतं विराजं वै-शब्देन स्मारितं तस्मादित्यनेनानूद्य एतस्मादित्यनेनान्नमयकोशस्य विराडात्मत्वं प्रबोध्यते । एवमुत्तरत्रापि । तदुक्तं वार्तिके – 'वै-शब्देनैव संस्मार्य दवीयोदेशवर्तिनम् । तस्माच्छब्देन वैराजमादायाध्यात्मरूपिणः । एतस्मादिति शब्देन वैराजत्वं प्रबोध्यते । कार्याणां कारणात्मत्वमेवं स्यादुत्तरेष्वपि’ इति । कार्याण्याध्यात्मिकाः कोशाः, तेषां विराडाद्यात्मत्वबोधनं च प्रागानन्दमयपर्यायाद्विराडाद्यभेदेनोपासनसूचनार्थम् ; आनन्दमयपर्याये तु तदेतच्छब्दयोरुक्तार्थपरत्वेऽपि न चिन्तनविवक्षास्ति, किं त्वध्यात्माधिदैवतलक्षणाद्द्विविधादप्यानन्दमयतत्कारणकोशाच्चिदेकरसस्य पुच्छह्मणो विवेकमात्रं विवक्षितम् ; तत्पर्याये पक्षपुच्छादिकल्पनस्यान्यदेव प्रयोजनमिति वक्ष्यते । यथोक्तादित्यस्य सुपर्णाकारेणोक्तादित्यर्थः । आत्मत्वेन परिकल्पित इति योजना ।
वायुरिति ।
अत्र हिरण्यगर्भोपाधिभूते समष्टिकारणात्मनि क्रियाशक्तिमदंशः प्राणो विवक्षित इति मत्वा वायुरित्युक्तम् । तत्रैव ज्ञानशक्तिमदंशभूतं समष्ट्यन्तःकरणं मनोमय इत्यत्र मनःशब्दार्थ इत्यपि बोध्यम् ।
तत्प्राय इति ।
तद्विकार इत्यर्थः ।
अत एवानुवादावसरे वक्ष्यति –
वायुविकारस्येति ।
प्राणमयस्यान्नमयं प्रत्यात्मत्वं तद्व्यापित्वादित्युपपादनार्थम् ‘तेनैष पूर्णः’ इत्युक्तम् ।
तत्र प्राणेन देहो व्याप्त इत्यत्रानुरूपं दृष्टान्तमाह –
वायुनेवेति ।
शिरःपक्षादिभिरिति ।
शिरःपक्षपुच्छादिकल्पनालम्बनभूतैरवयवैः पुरुषाकारः प्राण इत्यर्थः ।
ननु पञ्चवृत्तेः प्राणस्यामूर्तत्वात्स्वयमेव तस्य पुरुषविधत्वं न सम्भवतीति शङ्कते –
किं स्वयमेवेति ।
'तस्य पुरुषविधताम् ‘ इति श्रुत्या परिहरति –
नेत्याहेति ।
श्रुतिरिति शेषः ।
नन्वन्नमयस्य वा कथं पुरुषविधत्वम् ? तत्राह –
प्रसिद्धमिति ।
प्राणमये उक्तं न्यायं मनोमयादिष्वतिदिशति –
एवमिति ।
कथं पुरुषविधतास्येति ।
अस्य प्राणमयस्य यद्यपि पुरुषविधता सिद्धा तथापि कथं पक्षपुच्छादिकल्पनाप्रकार इत्यर्थः ।
वृत्तिविशेष इति ।
वृत्तिमतः प्राणस्यावयवित्वेन विवक्षितत्वादिति भावः ।
ननु प्राणवृत्तौ शिरस्त्वकल्पनायां किं नियामकम् ? तत्राह –
वचनादिति ।
उत्तरत्रापि वचनमेव नियामकमित्याह –
सर्वत्रेति ।
यद्वा सर्वपर्यायेष्वपि वस्तुगत्या वचनमेव तत्कल्पने नियामकमित्याह –
सर्वत्रेति ।
आकाशपदेन शरीरमध्याकाशस्थसमानलक्षणायां कारणमाह –
प्राणवृत्त्यधिकारादिति ।
समानस्य मध्यभागत्वरूपात्मत्वकल्पनायां युक्तिमाह –
मध्यस्थत्वादिति ।
इतराः पर्यन्ता वृत्तीरपेक्ष्य मध्यस्थत्वात्समान आत्मेति योजना ।
ननु मध्यस्थस्यापि कथमात्मत्वम् ? तत्राह –
मध्यं हीति ।
पृथिवीदेवतेति ।
न च प्राणवृत्त्यधिकाराविशेषात्पृथिवीशब्देनोदानग्रहणं न्याय्यमिति वाच्यम् ; प्रतिष्ठात्वलिङ्गविरोधेन प्रकरणस्यानादरणीयत्वात् । न ह्युदानवृत्तेर्वृत्तिमन्तं प्राणमयं प्रति प्रतिष्ठात्वं सम्भवति ।
स्थितिहेतुत्वादिति ।
पृथिवीदेवताया आध्यात्मिकप्राणस्थितिहेतुत्वस्य श्रुत्यन्तरादवगतत्वादित्यर्थः । श्रुतावपानपदं प्राणमयकोशपरम् ।
अन्यथेति ।
देवताकृतावष्टम्भनाभाव इत्यर्थः । उदानवृत्तेरूर्ध्वगमनहेतुत्वम् ‘अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इत्यादिश्रुत्यन्तरादेव सिद्धमिति मन्तव्यम् , उदानवृत्तेः कालविशेषापेक्षत्वेन सदोर्ध्वगमनप्रसक्त्यभावेऽपि च्छिन्नकदलीस्तम्भादेरिव भूमौ पतनं वा प्रसज्यत इत्यर्थः ॥
तदात्मभूता इति ।
सूत्रात्मभूता इत्यर्थः । अग्न्यादिदेवानां सूत्रात्मविभूतितया तदात्मकतायाः शाकल्यब्राह्मणसिद्धत्वादिति मन्तव्यम् । यद्वा सूत्रात्मोपास्त्या तदात्मकतां प्राप्ता इत्यर्थः । अथवा अस्मदादय इवाग्न्यादयोऽपि तदात्मभूताः क्रियाशक्तिमत्प्राणोपाधिकाः सन्त इत्यर्थः ।
देवशब्दस्य प्रसिद्धिमाश्रित्याग्न्यादिपरत्वमुक्तम् ; इदानीमिन्द्रियपरो देवशब्द इति सयुक्तिकमाह –
अध्यात्माधिकारात्त्विति ।
तु-शब्दोऽवधारणार्थः सन्निन्द्रियाणीत्यत्र सम्बध्यते । प्राणमयकोशाधिकारादित्यर्थः ।
मुख्यप्राणमन्विति ।
तस्मिन्निरुद्धे इन्द्रियाणां प्रवृत्त्यदर्शनादिति भावः ।
न केवलमिन्द्रियाणामेव प्राणाधीना चेष्टा, अपि तु शरीरादीनामपीत्याह –
तथा मनुष्या इति ।
'प्राणं देवा अनु प्राणन्ति’ इत्यादिनां केवलदेहात्मवादो निरस्त इति तात्पर्यमाह –
अतश्चेति ।
प्राणाधीनचेष्टाकत्वाच्छरीराणामित्यर्थः ।
तस्य वस्तुतोऽनात्मत्वं सूचयति –
परिच्छिन्नेनेति ।
आत्मशब्दः स्वरूपपरः ।
नन्वन्नमयातिरिक्तं स्वरूपं नोपलभ्यत इति शङ्कते –
किं तर्हीति ।
'प्राणं देवा अनु प्राणन्ति’ इत्यादिश्रुतिमाश्रित्याह –
तदन्तर्गतेति ।
तस्य पिण्डवत्परिच्छेदं व्यावर्तयन्साधारणपदं व्याचष्टे –
सर्वपिण्डेति ।
सर्वपदमेकैकस्यैव पिण्डस्यावयवसाकल्याभिप्रायम् । अथ वा सूत्रात्मरूपेण प्राणमयस्य सर्वपिण्डव्यापित्वमुक्तमिति मन्तव्यम् ।
एवमान्तरत्वेन निरूपणीय आत्मा प्राणमय एवेति शङ्कानिरासार्थमुत्तरकोशानामप्यात्मतामाह –
एवं मनोमयादिभिरिति ।
अत्रापि प्राणमयाद्यन्तर्गतैरिति मनोमयादेर्विशेषणं द्रष्टव्यम् , तदन्तर्गतेति प्राणमयस्योक्तत्वात् प्रतिपर्यायं श्रुतावन्तरशब्दप्रयोगाच्च । तथा चोत्तरोत्तरकोशेषु पूर्वपूर्वापेक्षयान्तरत्वसूक्ष्मत्वव्यापित्वविशेषणानि तानि यत्र काष्ठां गच्छन्ति, स एव मुख्य आत्मेति ज्ञापनार्थानीति मन्तव्यम् ।
अविद्योपाधिकस्यानन्दमयशब्दितजीवस्यापि प्रियादिविशिष्टत्वाकारेण कार्यत्वं मत्वाह –
आकाशादीति ।
कोशानां स्वकारणैराकाशादिभूतैः सह मिथ्यात्वं सूचयति –
अविद्याकृतैरिति ।
स्वतश्चैतन्यस्वरूपाणां प्राणिनामन्तर्बहिर्भावेनावारकतया पञ्चकोशसद्भावे दृष्टान्तमाह –
यथेति ।
ननु अन्योऽन्तर आत्मा अन्योऽन्तर आत्मेति प्रकृत्य आन्तरत्वोक्तेरानन्दमये परिसमापनादानन्दमय एव परमात्मा, तथा च तस्याविद्याकृतत्वोक्तिरयुक्ता ; नेत्याह –
तथा स्वाभाविकेनापीति ।
स्वाभाविकत्वमकल्पितत्वम् ।
तत्र हेतुं सूचयति –
आकाशादीति ।
सर्वकल्पनाधिष्ठानभूतेनेत्यर्थः । तस्य विनाशित्वपरिच्छिन्नत्वपरिणामित्वानि वारयति – नित्येनेत्यादिना विशेषणत्रयेण ।
तस्य प्रकरणित्वं सूचयति –
सत्येति ।
आनन्त्यविवरणरूपाणि नित्येन सर्वगतेन सर्वात्मनेत्येतानि त्रीणि विशेषणानि । आत्मवन्तः मुख्यस्वरूपवन्तः ।
सर्वे प्राणिन इत्यत्र हेतुमाह –
स हीति ।
'अयमात्मा ब्रह्म’ इत्यादिश्रुतिभिर्यथोक्तात्मैव परपमार्थत आत्मा प्रतीयते यत इत्यर्थः ।
अर्थादिति ।
ब्रह्मण्यानन्दमयादान्तरत्वोक्त्यभावेऽपि तं प्रति ब्रह्मणः प्रतिष्ठात्वोक्तिसामर्थ्यादानन्दमयादप्यान्तरत्वं प्रतीयते ; तत एतदपि पुच्छवाक्यनिर्दिष्टस्य ब्रह्मणो मुख्यात्मत्वमप्यत्र कथितप्रायमेव भवति, तस्मान्नानन्दमयस्य मुख्यात्मत्वमिति भावः ।
तत्कस्मादित्याहेति ।
तत् प्राणस्य सर्वप्राणिचेष्टाहेतुत्वं कस्मादित्याकाङ्क्षायामाहेत्यर्थः ।
प्राणस्य सर्वभूतजीवनहेतुत्वे कौषीतकिश्रुतिसंवादमाह –
यावद्ध्यस्मिन्निति ।
'तस्मात्सर्वायुषमुच्यते’ इति वाक्येन प्राणस्य सर्वायुष्ट्वे लोकप्रसिद्धिरुच्यत इत्यभिरप्रेत्य तां विवृणोति –
प्राणापगम इति ।
'सर्वमेव त आयुर्यन्ति’ ‘ये प्राणं ब्रह्मोपासते’ इति वाक्यद्वयमर्थक्रमेणावतार्य व्याचष्टे –
अत इत्यादिना ।
प्राणमयस्यान्नमयं प्रत्यात्मत्वात्सर्वभूतायुष्ट्वाच्चेत्यतःशब्दार्थः । अस्मादित्यस्य चाक्षुषप्रत्यक्षसिद्धादित्यर्थः ।
असाधारणादिति ।
परिच्छिन्नादित्यर्थः ।
अपक्रम्येति ।
अपक्रमणमात्मत्वबुद्धिपरित्यागः । तत्र हेतुत्वेन चाक्षुषत्वबाह्यत्वपरिच्छिन्नत्वविशेषणान्युपात्तानीति मन्तव्यम् । सर्वभूतात्मत्वं सूत्रात्मरूपेण बोध्यम् , तेन रूपेण प्राणमयकोशस्येहोपास्यत्वात् ।