वनमालाव्याख्या
ब्रह्मानन्दवल्ली: प्रथमोऽनुवाकः (२)
आयुष्ट्वमुपास्यो गुण इति मत्वाह –
आयुरिति ।
तस्य तद्गुणकत्वे हेतुः –
जीवनहेतुत्वादिति ।
तद्धेतुत्वस्य श्रुत्यनुभवसिद्धत्वादित्यर्थः ।
प्रागिति ।
वर्तमानदेहारम्भसमये यावदायुः सप्तत्यशीत्यादिलक्षणं विधिना कल्पितं तावदायुः प्राप्तायुःशब्दार्थः ।
सर्वमायुरितीति ।
'सर्वमेव च आयुर्यन्ति’ इत्यत्र सर्वशब्दसामर्थ्याच्छतं वर्षाणि यन्तीत्येव युक्तमित्यर्थः ।
परार्धसङ्ख्यां विहाय शतमित्यत्र हेतुमाह –
श्रुतिप्रसिद्धेरिति ।
'शतायुः पुरुषः’ इति श्रुतिप्रसिद्धेरित्यर्थः ।
आयुष्ट्वगुणकोपासनया आयुरेव प्राप्तव्यमित्यत्र किं विनिगमकमिति पृच्छति –
किं कारणमिति ।
श्रुतिरुत्तरमित्याशयेनाह –
प्राणो हीति ।
नन्वत्र किं नियामकं सूचितं भवतीत्यत आह –
यो यद्गुणकमिति ।
'तं यथा यथोपासते तदेव भवति’ इति न्यायेनायुष्ट्वगुणकोपासनादायुःप्राप्तिलक्षणं फलं युक्तमित्येवं विद्याफलप्राप्तौ हेतुसूचनार्थमिदम् ‘प्राणो हि’ इत्यादिपुनर्वचनमित्यर्थः ।
'तस्यैष एव’ इति वाक्यमानन्दमयो ब्रह्मेति वदतां वृत्तिकाराणां मतेन व्याचष्टे –
तस्य पूर्वस्येति ।
अत एवानन्दमयाधिकरणे वृत्तिकारमते स्थित्वा आनन्दमयपर्यायस्थमिदं वाक्यं तस्य पूर्वस्येति पदयोरित्यर्थमेव व्यवहितान्वयप्रदर्शनेन व्याख्यातमाचार्यैः । विवक्षितार्थस्तु - पूर्वस्यान्नमयस्य कल्पितस्य यः परमार्थरूप आत्मा आकाशादिद्वारा तत्कारणत्वेन प्रकृतः, एष एव तस्य ‘अन्योन्तर आत्मा प्राणमयः’ इति ब्राह्मणोक्तस्य प्राणमयस्य मुख्य आत्मा ; अस्य च शारीरत्वं शरीरे साक्षितयोपलभ्यमानत्वादुपपद्यते ; एवं च सति प्रकृतप्रधानपरामर्शकैतच्छब्द आत्मशब्दश्च मुख्यार्थौ भवतः ; वस्तुतः स्वरूपान्तरव्यवच्छेदकमवधारणं च सङ्गच्छते ; शरीरस्वामित्वरूपं मुख्यशारीरत्वं प्राणमयेऽपि न सम्भवतीति मन्तव्यम् । अत एव वार्त्तिके यथाभाष्यमिदं वाक्यं योजयित्वा पश्चादियं योजना मुख्यत्वेन प्रदर्शिता - ‘सत्यादिलक्षणो वात्मा गौणो ह्यात्मा ततोऽपरः । सर्वान्तरत्वान्न्याय्येयं यः पूर्वस्येति हि श्रुतिः’ इति । एवमुत्तरपर्यायेष्वपि द्रष्टव्यमिति सङ्क्षेपः ।
अन्यदिति ।
मनोमयपदव्यतिरिक्तमित्यर्थः ।
मयटो विकारार्थत्वे दृष्टान्तः –
यथेति ।
यजुःशब्दस्य प्रसिद्धमर्थमाह –
यजुरितीत्यादिना ।
मन्त्रपदात्पूर्वं य इति शेषः ।
प्राधान्यादिति ।
शरीराङ्गाणां मध्ये शिरस इव वेदानां मध्ये यजुषः प्राधान्यादित्यर्थः ।
संनिपत्येति ।
यागादौ स्वरूपोपकार्यङ्गत्वादित्यर्थः ।
तदेव विवृणोति –
यजुषा हीति ।
शास्त्रात्मिका ऋक् स्तोत्रात्मकं साम च स्तुतिद्वारा आरादुपकारकत्वादप्रधानमिति भावः ।
ननु देवतोद्देशेन द्रव्यत्यागात्मकस्य यागस्य स्वरूपोत्पत्तिर्मन्त्रं विनापि सम्भवत्येव, परं त्वपूर्वीयस्य तस्य तेन विनोत्पत्तिर्न सम्भवति ; तथा च विचक्षितविवेकेन यजुषोऽपि ऋक्सामयोरिवादृष्टार्थत्वपर्यवसानाद्यजुषः प्राधान्यमसिद्धम् , प्रत्युत ‘वेदानां सामवेदोऽस्मि’ इति भगवतोक्तत्वात्तस्यैव प्राधान्यं युक्तमित्यस्वरसात्पूर्वोक्तां वस्तुगतिं स्मारयति –
वाचनिकी वेति ।
ननु यजुःशब्दस्य शब्दराशिविशेषे प्रसिद्धत्वात्तस्य च शब्दराशिविशेषस्य मनोमयकोशं प्रत्यवयवत्वाभावात्कथं प्रसिद्धयजुषि शिरस्त्वकल्पनम् , पूर्वोत्तरपर्यायेषु प्रायेण कोशावयवेष्वेव शिरस्त्वादिकल्पनादर्शनादित्याशङ्क्य, तर्हि यजुरादौ मनोमयं प्रति शिरआदिदृष्टिविधिबलादेव वेदानां मनोवृत्तिविशेषरूपत्वेन तदवयवत्वं कल्प्यते प्रमाणभूतायाः श्रुतेरनतिशङ्कनीयत्वादित्याशयेनाह –
मनसो हीत्यादिना ।
हि-शब्दः प्रसिद्धिद्योतनार्थः अवधारणार्थो वा । तथा च मनसोऽवयवत्वेन प्रसिद्धा वृत्तिरेव यजुरित्युच्यत इति सम्बन्धः ।
तामेव वृत्तिं विशिनष्टि –
स्थानेत्यादिना ।
ताल्वादिस्थानेषु वाय्वभिघातानुकूलेन प्रयत्नेन जनितो यो नादो ध्वनिः तद्व्यङ्ग्या ये उदात्तादिस्वरयुक्ता वर्णाः ते च पदानि च वाक्यानि च विषया यस्यां वृत्तौ सा तथोक्ता ।
तत्सङ्कल्पनात्मिकेति ।
तेषु वर्णपदवाक्येषु पूर्वोक्तानियताक्षरपादावसानत्वसङ्कल्परूपेत्यर्थः ।
तद्भावितेति ।
यजुर्वेदोऽयमित्याकारोपेतेत्यर्थः । श्रोत्राख्यं करणं द्वारं यस्याः सा तथोक्ता ।
प्रथमं शब्दराशिविशेषे गृहीतोऽपि सङ्केतः पश्चात्तद्विषयकवृत्तिविशेषविषयतया कल्प्यते, यथा प्रथमं चक्षुरादिशब्दानां गोलकेषु गृहीतोऽपि सङ्केतस्तदतिरिक्तचक्षुरादीन्द्रियविषयतया पश्चात्कल्प्यते तद्वदित्याशयेनाह –
यजुःसङ्केतविशिष्टेति ।
यजुष इव ऋगादेरपि तुल्यन्यायतया मनोवृत्तिविशेषरूपत्वमाह –
एवमिति ।
ऋक्सामग्रहणमथर्ववेदस्याप्युपलक्षणम् ।
श्रुत्यनुग्राहिकां युक्तिमाह –
एवं चेति ।
एवंशब्दार्थमेवाह –
मनोवृत्तित्वे मन्त्राणामिति ।
अन्यथेति ।
तेषां मानसक्रियारूपत्वानुपगम इत्यर्थः ।
मन्त्रो नावर्तयितुं शक्य इत्यत्र हेतुः –
अविषयत्वादिति ।
आवृत्तिविषयत्वादर्शनादित्यर्थः ।
मास्तु मन्त्रावृत्तिरिति वदन्तं प्रत्याह –
मन्त्रावृत्तिश्चोद्यत इति ।
मन्त्राणां घटादिवद्बाह्यद्रव्यत्वे तेषामावृत्तिर्नोपपद्यते लोके क्रियाया एवावर्त्यत्वदर्शनात् अत आवृत्तिविध्यनुपपत्त्या मन्त्राणां क्रियात्वं वाच्यमित्युक्तम् ।
तत्रान्यथाप्युपपत्तिं शङ्कते –
अक्षरविषयेति ।
अन्यथोपपत्तिं दूषयति –
न, मुख्यार्थेति ।
ननु कोऽसौ मुख्यार्थः कथं वा तदसम्भवप्रसङ्ग इत्याकाङ्क्षायामाह –
त्रिः प्रथमामित्यादिना ।
तत्रेति ।
आवृत्तावित्यर्थः । अविषयत्व इति च्छेदः । नन्वेवं ‘स्वाध्यायोऽध्येतव्यः’ इत्यादौ वाचनिके जपे च मन्त्राणामुच्चारणं तदावृत्तिश्चावगम्यते ; तेषां मनोवृत्तित्वपक्षे कथमुच्चारणकर्मत्वं सम्भवति ? तथा चाध्ययनविध्यादेर्मुख्यार्थपरित्यागप्रसङ्ग इति चेत् , न ; मानसजपविध्यनुसारेण मनोवृत्तिरूपवेदानामध्ययनादेर्बाह्यशब्दद्वारकतया गौणत्वोपपत्तेः । न चात्र विनिगमनाविरह इति वाच्यम् ; मानसजपस्य फलाधिक्यश्रवणेन तस्यैव मुख्यताया न्याय्यत्वात् । अनेनैवाशयेन मानसो जपो नोपपद्यत इति प्रागुक्तम् । वार्त्तिकेऽप्येतद्दर्शितम् - ‘भूयोल्पीयःफलत्वं च बाह्यमानसयोर्जपे । अतो मानसमुख्यत्वमितरस्यास्तु गौणता’ इति ।
नन्वस्मिन्पक्षे कथं वेदानां नित्यत्वनिर्वाहः वृत्तेः क्षणिकत्वादित्याशङ्कां परिहरन्नुपसंहरति –
तस्मादिति ।
वृत्तिविशेषानुगतं चैतन्यमेव वेदा इत्यर्थः । यया वृत्त्या बह्यो वेदो विषयीक्रियते तद्वृत्त्यनुगतचैतन्येनापि स विषयीक्रियत इति प्रसिद्धवेदविषयकं चैतन्यमेव मुख्यवेदश्चैतन्यस्य तदुपाधिभूतवृत्तेश्च कल्पिततादात्म्यसत्त्वाद्वेदानां सृष्टिप्रलयादिश्रवणं पूर्वोक्तावृत्त्यादिकं सर्वं चैतन्यस्यैव भवतीति न पूर्वग्रन्थविरोधोऽपीति भावः ।
येनाभिप्रायेण वेदानां चैतन्यरूपत्वमुपसंहारावसरे दर्शितं तमेवाभिप्रायं प्रपञ्चयति –
एवं चेति ।
चैतन्यरूपत्वे सतीत्यर्थः । वेदानां चैतन्यरूपत्वाविशेषेऽप्युपाधिभूतवृत्तिभेदाद्यजुरादिभेद इत्यादिकमूह्यम् ।
अन्यथेति ।
अन्यथा मनोवृत्तिमात्रत्वे शब्दमात्रत्वे वा वेदानां विषयत्वशब्दितं जडत्वं प्रसज्येत, सति च विषयत्वे रूपादिवदनित्यत्वं भवेदित्यर्थः । ‘अतोऽन्यदार्तम्’ इत्यादिश्रुत्या चैतन्यातिरिक्तस्य सर्वस्य विनाशित्वावगमादिति युक्तिसूचनार्थश्चकारः ।
तत्रेष्टापत्तिं वारयति –
नैतद्युक्तमिति ।
एतद्वेदानित्यत्वं न युक्तम् ‘वाचा विरूप नित्यया’ ‘अनादिनिधना नित्या’ इत्यादिश्रुतिस्मृतिविरोधप्रसङ्गादित्यर्थः ।
वेदानां चैतन्यरूपत्वे श्रुत्यन्तरमनुकूलयति –
सर्वे वेदा इति ।
यत्र चिदेकरसे आत्मनि एकम् एकतां गच्छन्ति स मानसीनः मनसि साक्षितया वर्तमानः सर्वेषां जनानाम् आत्मा वास्तवस्वरूपमित्यर्थः ।
ऋगादीनां कार्यत्वेनानित्यत्वेऽपि कार्यकारणयोस्तादात्म्यादेकं भवन्तीति वचनं कथञ्चिदुपपद्यते ; तेषां नित्यत्वेन स्वरूपैक्ये तु जीवब्रह्मणोरिवैकत्ववचनं मुख्यार्थमेव भवतीत्याशयेनाह –
समञ्जसेति ।
सर्वकारणत्वात्परमे विभुत्वादिभिर्व्योमसदृशे अक्षरे नाशरहिते यस्मिन्ब्रह्मणि देवा ब्रह्मादयः सर्वे अधिनिषेदुः उपरिभावेन स्थिताः, सर्वसंसारास्पृष्टे ब्रह्मणि स्वरूपत्वेन स्थिता इति यावत् ; तथैव ऋचो वेदास्तस्मिन्स्थिता इति मन्त्रार्थः । अतिदेष्टव्यविशेषान्कर्तव्यविशेषान् इदमेवं कर्तव्यमिति अतिदिशति उपदिशतीत्यर्थः ।
ननु ब्राह्मणं चेति ब्राह्मणस्यापि प्रतिष्ठात्वेन ग्रहणं न युक्तम् आदेशपदेन ब्राह्मणस्यात्मत्वेन समर्पितत्वादित्याशङ्क्य अत्र ब्राह्मणपदं तद्विशेषपरम् अतो नोक्तदोष इत्याशयेन ब्राह्मणमपि विशिनष्टि –
शान्तीत्यादिना ।
प्रधाना इति पुंलिङ्गनिर्देशो मन्त्रपदाभिप्रायः, तदिति निर्देशः पुच्छपदाभिप्राय इति विभागः ।
मनोमयात्मप्रकाशक इति ।
मनोमयावयवयजुरादिप्रकाशक इत्यर्थः ॥
तथा च यतश्चिदेकरसादानन्दान्मनसा सह वाचस्तमप्राप्य निवर्तन्ते तं ब्रह्मणः स्वरूपभूतमानन्दं मनोमयस्य शिरःपक्षादिरूपं विद्वानुपासीनः कदापि न बिभेतीति योजना । यद्वा मनोमयात्मप्रकाशक इति भाष्यं यथाश्रुतमेव । न चैवमब्रह्मस्वरूपस्य मनोमयात्मनः श्लोकप्रतिपाद्यब्रह्मात्मत्वासम्भवादसङ्गतिरिति वाच्यम् ; अब्रह्मण्यपि तस्मिन्ब्रह्मत्वमध्यारोप्य श्लोकप्रवृत्त्युपपत्तेः । न चारोपे निमित्तप्रयोजनयोरभाव इति वाच्यम् ; ब्रह्मविज्ञानसाधनत्वेन निमित्तेन तस्मिन्ब्रह्मत्वारोपाभ्युपगमादारोपस्य चात्रोपास्यस्य मनोमयकोशस्य स्तुतिरूपप्रयोजनसम्भवाच्च ; तथा च वक्ष्यति - ‘मनोमये चोदाहृतो मन्त्रो मनसो ब्रह्मविज्ञानसाधनत्वात्तत्र ब्रह्मत्वमध्यारोप्येति’ ; तथा च अवाङ्मनसगोचरब्रह्मत्वेन स्तुतस्य मनोमयस्य स्वरूपं यजुराद्यवयवोपेतं विद्वानुपासीनः सौत्रं पदं प्राप्य आनन्दमनुभवन्न बिभेति कादचनेत्यध्याहारेण योजना । अथवा मन्त्रे ब्रह्मण इति मनस एव निर्देशः । मनोमयकोशस्यात्रापरब्रह्मदृष्टिभाक्त्वेन विवक्षितत्वात् वागाद्यगोचरत्वं च तस्यैव विशेषणम् , मनसः साक्षिप्रत्यक्षसिद्धस्याज्ञातत्वाभावेन शब्दगम्यत्वाभावात् स्वस्य स्वविषयत्वाभावेन मनोगोचरत्वाभावाच्च । तथा च अवाङ्मनसगोचरस्य मनोमयाख्यस्य ब्रह्मणः स्वरूपं विद्वान् क्रमेणानन्दं प्राप्य न बिभेतीति योजना पूर्ववदेव द्रष्टव्या । वेदात्मनि मनोमय उक्ते सति वेदार्थस्य बुद्धिस्थत्वाद्विज्ञानमय इत्यत्र वेदार्थज्ञानमेव प्रकृत्यर्थ इत्याशयेनाह –
वेदात्मोक्त इति ।
ननु मनोमयावयवत्वेन निर्दिष्टं यजुरादि तदवयवभूतवृत्तिविशेषानुगतं चैतन्यमेव नान्यदित्युक्तम् , तथा च वेदार्थविषयकं निश्चयरूपं विज्ञानमपि चैतन्यमेवेति विज्ञानमयोऽपि वेदात्मा स्यादिति मन्दशङ्कां वारयति –
तच्चेति ।
यद्वा वेदार्थगोचरविज्ञानस्यात्मधर्मत्वाद्वक्ष्यमाणरीत्या तन्मयत्वमन्तःकरणस्य कथमित्याशङ्क्य हेत्वसिद्धिमाह –
तच्चेति ।
धर्म इति ।
अत्र प्रकृत्यर्थत्वेन विवक्षितं विज्ञानमन्तःकरणधर्म एव न चैतन्यमित्यर्थः । यद्वा अन्तःकरणस्यैव धर्मो नात्मनः तस्य कूटस्थनित्यत्वादित्यर्थः ।
तन्मय इति ।
ननु विज्ञानमयत्वं विज्ञानविकारत्वम् , तच्च कथमन्तःकरणस्य तद्धर्मिणश्चतुर्थकोशत्वेनात्र विवक्षितस्य सम्भवतीत्याशङ्क्याह –
निश्चयेति ।
यद्यपि मनोमयकोशोऽप्यन्तःकरणमेव तथापि संशयवृत्त्यवस्थमन्तःकरणं मनोमयः निश्चयवृत्त्यवस्थमन्तःकरणमेव विज्ञानमय इत्यवस्थाभेदेन भेद इति भावः । यद्वा केवलमन्तःकरणं मनोमयः तप्तायःपिण्डवच्चैतन्यतादात्म्यापन्नं तदेव विज्ञानमय इति भेदः ।
प्रमाणस्वरूपैरिति ।
प्रमारूपैर्विज्ञानैर्विशेषणभूतैस्तद्विशिष्टतया निर्वर्तितो निष्पादितोऽन्तःकरणात्मा धर्मी विज्ञानमयशब्दवाच्यतामापन्नः सन्मनोमयस्याभ्यन्तर आत्मा भवतीत्यर्थः । विशिष्टरूपस्य विशेषणायत्तत्वानुभवाद्विशिष्टस्य विशेषणविकारत्वं सम्भवतीति भावः ।
निश्चयरूपं वेदार्थविज्ञानमेव प्रकृत्यर्थ इत्यत्र हेत्वन्तरमाह –
प्रमाणविज्ञानेति ।
तायते, तनोतेरिदं रूपम् ; विस्तार्यत इत्यर्थः ।
ततः किम् ? अत आह –
यज्ञादीति ।
'विज्ञानं यज्ञं तनुते’ इति मन्त्रेण विज्ञानस्य यज्ञादिहेतुताया वक्ष्यमाणत्वादत्र ब्राह्मणेऽपि विज्ञानं यज्ञानुष्ठानहेतुवेदार्थज्ञानमेवेत्यर्थः । एतेन अन्नमयप्राणमयमनोमयशब्देषु प्रकृत्यर्थतया आधिदैविकानामन्नप्राणमनसां गृहीतत्वात् भृगुवल्ल्यां कोशवाक्यगतान्नप्राणमनोविज्ञानपदोपात्तानामाधिदैविकान्नादीनामिह प्रकृतिभिः प्रत्यभिज्ञायमानत्वाच्च विज्ञानमय इत्यत्र प्रकृत्यर्थतया निश्चयावस्थं समष्ट्यन्तःकरणमेव ग्राह्यम् , एवं सति मयडर्थभूतविकारत्वमप्यस्मदाद्यन्तःकरणस्य मुख्यमेव सम्भवतीति शङ्का निरस्ता ; अत्रैकार्थविषयतया प्रवृत्तयोर्मन्त्रब्राह्मणयोः श्रुतस्य विज्ञानपदस्यावश्यमेकार्थताया वक्तव्यत्वान्मन्त्रे च विज्ञानपदस्य वेदार्थज्ञानपरत्वस्य निश्चितत्वाद् मन्त्रेणैव प्रकृत्यर्थस्यान्यथा व्याख्याने क्रियमाणे सति पूर्वोक्ताधिदैविकप्रायपाठादेरकिञ्चित्करत्वादिति भावः । यद्वा विज्ञानपदस्याधिदैविकविज्ञानपरत्वमुक्तप्रमाणसिद्धं कृत्वा वेदार्थविज्ञानपरतयापि व्याख्यानं सम्भवतीत्याशयेनास्य भाष्यस्य प्रवृत्तिरुपपादनीया, मन्त्रब्राह्मणयोरेककोशोपास्तिविषयत्वमात्रेण सङ्गत्युपपत्तेः ; अत एव कोशवाक्यविवरणरूपयोर्भाष्यवार्त्तिकयोस्तात्पर्यनिरूपणावसरे श्रीमदानन्दगिर्याचार्यैरुक्तम् - ‘अत्र प्राणो मनो विज्ञानं चेति प्रकृत्यर्थभूतं कोशत्रयं सूत्रात्मरूपमन्नं विराट् कोश आनन्दः कारणकोशः’ इति । एतेन तुल्यन्यायतया आनन्दमय इत्यत्रापि प्रकृत्यर्थतया प्रियमोदादिग्रहणं व्याख्यानान्तराभिप्रायमेवेति सूचितं भवति । वस्तुतस्तु - भृगुवल्ल्यां पञ्चमपर्याये सर्वभूतकारणत्वेन वक्ष्यमाणमानन्दरूपं ब्रह्मैव कारणत्वविशिष्टवेषेणानन्दमय इत्यत्र प्रकृत्यर्थः ; ‘आनन्द आत्मा’ इत्यत्र च कारणत्वप्रयोजकमायोपहितत्ववेषेण तदेवानन्दपदार्थ इति सर्वमनवद्यम् ।
तस्येति ।
वेदार्थनिश्चयवतो या पूर्वं श्रद्धोत्पद्यते सा तस्य प्रकृतस्य विज्ञानमयस्य शिर इव शिर इति योजना । श्रद्धां विना वेदार्थानुष्ठानं विफलमिति शास्त्रीयप्रसिद्धिसूचनार्थो विज्ञावतो हीति हि-शब्दः ।
यथाव्याख्याते इति ।
'ऋतं वदिष्यामि, सत्यं वदिष्यामि’ इत्यत्र यथाव्याख्याते एव ऋतसत्ये विज्ञानमयस्य दक्षिणोत्तरपक्षावित्यर्थः ।
समाधानमिति ।
समाधानं समाधिः, स च तस्य आत्मा मध्यकायः ।
तत्र दृष्टान्तः –
आत्मेवेति ।
प्रसिद्धदेहमध्यकाय इवेत्यर्थः ।
समाधानस्य प्रसिद्धदेहमध्यकायस्य च किं साम्यम् ? अत आह –
आत्मवतो हीति ।
यथा आत्मवत आत्मशब्दितमध्यकायवतः प्रसिद्धदेहस्याङ्गानि शिरआदीनि स्वकार्यक्षमाणि भवन्ति हि प्रसिद्धमेतत् , तथा मुमुक्षोर्युक्तस्य श्रद्धा ऋतसत्यानि यथार्थशब्दितब्रह्मप्रतिपत्तिरूपस्वकार्यक्षमाणि भवन्तीत्यर्थः । एतदुक्तं भवति - देहावयवानां मध्ये मध्यकायस्य प्राधान्यं ब्रह्मप्रतिपत्तिसाधनश्रद्धादीनां मध्ये समाधेः प्राधान्यमित्यनेन साम्येन समाधौ मध्यकायत्वदृष्टिरत्र विवक्षितेति । एतच्च यत्र किञ्चिन्नियामकं सम्भाव्यते तत्र न त्वक्तव्यमित्याशयेनोक्तम् । वस्तुगतिस्तु प्रागेवासकृद्दर्शिता वाचनिकी वा शिरआदिकल्पना सर्वत्रेति ।
महत्तत्त्वमिति ।
समष्ट्यन्तःकरणाभिमानी हिरण्यगर्भ इत्यर्थः । हिरण्यगर्भस्य विराडपेक्षयापि प्रथममुत्पन्नत्वात्प्रथमजत्वम् ।
तत्र मानमाह –
महद्यक्षमिति ।
यक्षं पूज्यम् ।
ननु कारणत्वेऽपि कथं प्रतिष्ठात्वम् ? तत्राह –
कारणं हीति ।
हि-शब्दसूचितां प्रसिद्धिमुदाहरणेन दर्शयति –
यथेति ।
नन्वस्मदादिबुद्धिरूपाणां विज्ञानमयकोशानां हिरण्यगर्भः कारणं चेदस्तु तस्य प्रतिष्ठात्वम् , तदेवासिद्धमित्याशङ्क्याह –
सर्वबुद्धीति ।
'आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’ इत्यादिशास्त्रेण हिरण्यगर्भस्य सर्वभूतकारणत्वमवगम्यते ; न च भूतानां स्वतः कार्यत्वमस्ति ; अतो भूतशब्दितजीवोपाधिभूतानां लिङ्गशरीराणां ब्रह्मा कारणं सिद्धमिति भावः ।
फलितमाह –
तेनेति ।
कारणत्वेनेत्यर्थः ।
पूर्ववदित्युक्तं विवृणोति –
यथेति ।
विज्ञानमयस्यापीति ।
प्रकाशकः श्लोको भवतीति शेषः ॥
ननु विज्ञानं नाम वेदार्थविषयो निश्चय इत्युक्तम् , अतस्तस्य कथं कर्तृत्वनिर्देश इत्याशङ्क्य, उपचारादित्याह –
विज्ञानवान्हीति ।
'य एवं विद्वान्यजते’ इत्यादौ वेदार्थज्ञानवतो यज्ञादिकर्तृत्वं प्रसिद्धमिति सूचनार्थो हि-शब्दः ।
कर्माणि चेति ।
लौकिकानीति शेषः, वैदिककर्मणां यज्ञशब्देन सङ्गृहीतत्वात् । अत्र विज्ञानमयस्य मुख्यं लौकिकवैदिककर्मकर्तृत्वम् , विज्ञानस्य तु तदौपचारिकमिति व्यवस्था दर्शिता । स च विज्ञानमयो नानाविधानि कर्माण्युपासनानि च कुर्वन्नपरब्रह्मवज्जगतः कारणं भवति । इयांस्तु विशेषः - विज्ञानमयो ह्यदृष्टद्वारा कारणम् , अपरब्रह्म तु साक्षादेवेश्वरवत्कारणमिति ।
तथा च ‘विज्ञानं यज्ञं तनुते’ इति वाक्योक्तं सर्वकर्मकर्तृत्वं विज्ञानमयकोशे जगत्कारणत्वसाम्यसम्पादनद्वारा अपरब्रह्मारोपे निमित्तमित्याशयेनाह –
यस्मादिति ।
विज्ञानपदं कोशपरम् ।
इतश्च विज्ञानमयोऽपरब्रह्माभेदेनोपास्य इत्याह –
किं च विज्ञानमिति ।
विज्ञानमयमित्यर्थः ।
ज्येष्ठपदं कारणपरं वेत्याह –
सर्वप्रवृत्तीनामिति ।
सर्वप्राणिचेष्टानां सूत्ररूपब्रह्मकारणकत्वाद्वा ब्रह्म ज्येष्ठमित्यर्थः ।
ध्यायन्तीति ।
पूर्वजन्मनि यजमानावस्थायामिति शेषः ।
अभिमानमिति ।
अहम्बुद्धिमित्यर्थः ।
पूर्वं ब्रह्मोपासनं देवैरनुष्ठितमित्यत्र देवत्वावस्थायां ज्ञानाद्यैश्वर्यदर्शनं लिङ्गमित्याशयेनाह –
तस्मादिति ।
इदानीमुपासनविधिं दर्शयति –
तच्च विज्ञानमिति ।
विज्ञानमयमित्यर्थः । अत्र चेच्छब्दः प्रकृतोपासनदौर्लभ्यसूचनार्थः, कथञ्चिदुपासने प्रवृत्तावपि तत्र प्रमादसम्भवस्यावश्यकत्वात् । अप्रमाददौर्लभ्यसूचनार्थो द्वितीयश्चेच्छब्दः ।
प्रमादप्रसक्तिमाह –
बाह्येष्विति ।
विज्ञानमयापेक्षया बाह्यानां मनोमयप्राणमयान्नमयानामपि पूर्वमात्मत्वेन भावितत्वादित्यर्थः ।
प्रमदनमिति ।
विज्ञानमये ब्रह्मण्यात्मभावनायाः सकाशात्प्रमदनं नाम पूर्वकोशेषु पुनरात्मभावनमित्यर्थः ।
फलितमाह –
अन्नमयादिष्विति ।
सूक्ष्मशारीराभिन्ने ब्रह्मणि विषये क्रियमाणादुपासनात्पाप्महानं भवतीत्यत्र युक्तिमाह –
शरीराभिमाननिमित्ता हीति ।
मनुष्यत्वब्राह्मणत्वगृहस्थत्वादिधर्मवति शरीरे ‘मनुष्योऽहम्’, ’ब्राह्मणोऽहम्’, ’गृहस्थोऽहम्’ इत्याद्यभिमानं निमित्तीकृत्य मनुष्यादीनां प्रतिषिद्धैः कर्मभिः पाप्मानो भवन्ति । अत्रार्थे लोकवेदप्रसिद्धिद्योतको हि-शब्दः ।
ततः किम् ? तत्राह –
तेषां चेति ।
चोऽवधारणे । तेषां हानमुपपद्यत इति सम्बन्धः । विज्ञानमयब्रह्मण्येवाहमभिमानात्पाप्मनिमित्तस्य शरीरात्माभिमानस्यापाये सतीत्यर्थः ।
निमित्तापाये नैमित्तिकापाय इत्यत्र दृष्टान्तमाह –
छत्रापाय इति ।
एवं पाप्महानफलवचनस्योपपत्तिमुक्त्वा तस्यार्थमाह –
तस्मादिति ।
शरीरात्माभिमानस्य निमित्तस्य निवृत्तत्वादित्यर्थः ।
शरीर एवेति ।
जीवद्दशायामेवेति यावत् ।
विज्ञानमयेनैवात्मनेति ।
इहैव साक्षात्कारेण विज्ञानमयब्रह्मस्वरूपापन्नो विद्वान्सर्वान्पाप्मनो हित्वा देहपातानन्तरं विज्ञानमयब्रह्मात्मभावेनैव स्थित्वा तल्लोकस्थान्सर्वान्भोग्याननुभवतीत्यर्थः ॥
अत्रानन्दमयः प्रकरणी पर एव न संसारीति केचित् ; तान्प्रत्याह –
आनन्दमय इतीति ।
आनन्दमय इति पदेन कार्यात्मन एव प्रतीतिर्भवति न तु कारणस्य परमात्मन इत्यर्थः । यद्यप्यानन्दमयो न कार्यभूतः अविद्योपाधिकस्य जीवस्यानन्दमयत्वाभ्युपगमेनानादित्वात् , तथापि मयडर्थवर्णनावसरे तस्य प्रियमोदादिविशिष्टतया प्रकृत्यर्थभूतानन्दविकारत्वस्य वक्ष्यमाणत्वात्कार्यात्मेत्युक्तम् ।
अधिकारं विवृणोति –
अन्नादिमया हीति ।
तेषां कार्यात्मत्वं प्रसिद्धमिति हि-शब्दार्थः ।
नन्वानन्दमय इत्यत्र मयटः प्राचुर्यार्थकत्वाभ्युपगमान्न तस्य मयट्च्छ्रुत्या कार्यात्मत्वमित्याशङ्क्य द्वितीयहेतुमपि विवृणोति –
मयट् चेति ।
प्राचुर्यार्थत्वपक्षे प्राचुर्यस्य प्रतियोग्यल्पतापेक्षत्वादानन्दप्रचुरस्य ब्रह्मणो दुःखाल्पत्वमपि प्रसज्येत, तस्माद्विकारार्थ एव मयट् न प्राचुर्यार्थ इत्यर्थः ।
किं च विकारे प्राचुर्ये च मयटो विधानाविशेषात्संशये विकारार्थकमयट्प्रवाहपतितत्वाद्विकारार्थकत्वमेवात्र निश्चीयत इत्याशयेनाह –
यथेति ।
एवमनात्मप्रायपाठाद्विकारार्थकमयट्च्छ्रुतिबलाच्चानन्दमयः कार्यात्मेत्युपसंहरति –
तस्मादिति ।
सङ्क्रमणाच्चेति ।
आनन्दमयस्य सङ्क्रमणं प्रति कर्मत्वश्रवणाच्च कार्यात्मत्वमित्यर्थः ।
हेत्वसिद्धिं परिहरति –
आनन्दमयमिति ।
व्याप्तिमाह –
कार्यात्मनां चेति ।
चोऽवधारणे । अत्र प्रकरणे यत्र यत्र सङ्क्रमणकर्मत्वं तत्र तत्र कार्यात्मत्वमेवेति व्याप्तिर्दृष्टेत्यर्थः ।
अनात्मनामिति ।
मुख्यात्मभिन्नानामन्नमयादीनामिति यावत् ।
हेतोः पक्षधर्मत्वमाह –
सङ्क्रमणकर्मत्वेन चेति ।
तदेव दृष्टान्तेन साधयति –
यथेति ।
आनन्दमयस्य सङ्क्रमणकर्मत्वलिङ्गेनाब्रह्मत्वमुक्तम् ।
विपक्षे बाधकं वदन्नप्रयोजकत्वशङ्कां निराकरोति –
न चात्मन एवेति ।
सङ्क्रमितुरेवंविदः परब्रह्मस्वरूपत्वादानन्दमयस्यापि ब्रह्मत्वे स्वस्यैव स्वेनोपसङ्क्रमणिति प्रसज्जेत, तच्च न युक्तमित्यर्थः ।
अधिकारेति ।
सङ्क्रमणकर्तुरेवंविदः सकाशादन्यस्यैवान्नमयादेः सङ्क्रमणकर्मत्वं प्रकृतम् ; अत्र स्वस्यैव स्वेनोपसङ्क्रमणाभ्युपगमे कर्तृकर्मणोर्भेदाधिकारविरोध इत्यर्थः ।
असम्भवं विवृणोति –
न हीति ।
एवंविद्ब्रह्मणोर्भेदमाशङ्क्याह –
आत्मभूतं चेति ।
अत्र सङ्क्रमणं प्राप्तिर्बाधो वा, उभयथाप्यानन्दमयस्य ब्रह्मत्वे सङ्क्रमणकर्मत्वायोगात्कार्यात्मत्वमेवेति भावः ।
आनन्दमयस्य कार्यात्मत्वे हेत्वन्तरमाह –
शिरआदीति ।
ननु ब्रह्मण्यप्युपासनार्थं शिरआदिकल्पनमुपपद्यत इत्याशङ्क्यानुपपत्तिमेव साधयति –
न हि यथोक्तलक्षण इति ।
सत्यज्ञानानन्ताख्यस्वरूपलक्षणवतीत्यर्थः ।
तटस्थलक्षणमप्याह –
आकाशादीति ।
कार्यकोटिप्रविष्ट एवान्नमयादौ शिरआदिकल्पनदर्शनाच्च तद्विलक्षणे ब्रह्मणि न तत्कल्पनमुपपद्यत इत्याशयेनाह –
अकार्यपतित इति ।
इत्थं मुमुक्षुज्ञेये निर्विशेषे ब्रह्मण्यनुपास्ये शिरआदिकल्पनमनुपपन्नम् , निर्विशेषत्वे च यथोक्तलक्षण इत्यादिनोपक्रमस्वारस्यं प्रमाणत्वेन सूचितम् ।
तत्रैव वाक्यशेषं श्रुत्यन्तराणि च प्रमाणयति –
अदृश्य इत्यादिना ।
आनन्दमयः कार्यात्मा शिरआदिकल्पनावत्त्वादन्नमयादिवत् , विपक्षे हेतूच्छित्तिरेव बाधिकेति निष्कर्षः ।
आनन्दमयस्य ब्रह्मत्वे विवक्षिते सति तद्विषयश्लोके तस्यैवासत्त्वाशङ्का वाच्या, सा च न सम्भवति, अतो नानन्दमयो ब्रह्मेत्याह –
मन्त्रोदाहरणेति ।
न हि मन्त्रोदाहरणमुपपद्यत इति सम्बन्धः ।
इतश्च नानन्दमयो ब्रह्मेत्याह –
ब्रह्म पुच्छमिति ।
आनन्दमयस्य ब्रह्मत्वे ब्रह्मणोऽवयवित्वेन गृहीतत्वात्पृथक्तस्यैव ब्रह्मणः पुच्छत्वेन प्रतिष्ठात्वेन च ग्रहणमनुपपन्नम् एकत्रावयवावयविभावादिकल्पनस्यानुचित्तत्वादिति भावः ।
तस्मादिति ।
उक्तहेतुसमुदायादित्यर्थः ।
न पर एवेति ।
न साक्षात्परमात्मैवानन्दमय इत्यर्थः ।
आनन्दमय इत्यत्र प्रकृत्यर्थमाह –
आनन्द इतीति ।
आनन्द इति प्रकृत्यंशेनोपासनाकर्मफलभूतं प्रियमोदादिलक्षणं सुखमुच्यते आनन्दपदस्य लोके विषयसुखेषु प्रसिद्धत्वादित्यर्थः ।
मयडर्थमाह –
तद्विकार इति ।
विशिष्टस्य विशेषणविकारत्वात्प्रकृत्यर्थभूतानन्दविशिष्ट आत्मा तद्विकार इत्यर्थः ।
आनन्दमयस्य विज्ञानमयादान्तरत्वं श्रुत्युक्तमुपपादयति –
ज्ञानकर्मणोर्हि फलमिति ।
तयोः फलशब्दितसुखसाधनत्वं प्रसिद्धमिति हि-शब्दार्थः । भोक्त्रर्थत्वादित्यत्र भोक्तृपदं भावप्रधानं सत्फलत्वेन विवक्षितं सुखरूपं भोगमाह ; तथा च कर्तुर्विज्ञानमयस्य भोक्तृशब्दितफलसाधनत्वाज्ज्ञानकर्मफलभूतं सुखं साधनभूतविज्ञानमयाद्यपेक्षया अन्तरतममित्यर्थः ।
तथाप्यानन्दमयस्यान्तरत्वे किमायातम् ? तत्राह –
अन्तरतमश्चेति ।
चोऽवधारणार्थः । अन्तरतमफलविशिष्टः सन्नानन्दमय आत्मा पूर्वेभ्यो विज्ञानमयान्तेभ्यः कोशेभ्योऽन्तरतमो भवत्येवेत्यर्थः ।
नन्वानन्दमयो न विद्याकर्मफलविशिष्टः किं तु प्रियादिविशिष्टः ‘तस्य प्रियमेव शिरः’ इत्यादिश्रवणादित्याशङ्क्याह –
विद्याकर्मणोः प्रियाद्यर्थत्वाच्चेति ।
च-शब्दः शङ्कानिवृत्त्यर्थः । प्रियादेः सुखरूपत्वान्न विद्याकर्मफलात्प्रियादेर्भेद इति भावः ।
तयोः प्रियाद्यर्थत्वं प्रसिद्धमित्याह –
प्रियादिप्रयुक्ते हीति ।
प्रियाद्युद्देश्यके इत्यर्थः ।
आनन्दमयस्यान्तरत्वप्रतिपादनमुपसंहरति –
तस्मादिति ।
आत्मसंनिकर्षादिति ।
आत्मविशेषणत्वादिति यावत् ।
अस्येति ।
आन्तरैः प्रियादिभिर्विशिष्टस्यात्मन इत्यर्थः ।
इत्थमानन्दमयस्य विज्ञानमयादभ्यन्तरत्वं प्रसाध्य तस्मादन्यत्वं साधयति –
प्रियादिवासनेति ।
जाग्रति प्रियाद्यनुभवजनिताभिर्वासनाभिर्निर्वर्तितः ; वासनाविशिष्ट इति यावत् । एवंभूत आनन्दमय आत्मा विज्ञानमयाश्रिते स्वप्ने प्रियादिविशिष्टतयोपलभ्यते । स च विज्ञानमयादन्यः विज्ञानमयस्य जाग्रति यज्ञादिकर्मकर्तृत्वेन व्यवस्थितत्वात् स्वप्ने चात्मनः कर्मक्रतृत्वाभावात् स्वप्ने कर्मकरणादिव्यापारस्य वासनामात्रत्वात् । किं च स्वप्नप्रपञ्चस्य विज्ञानमयशब्दितसाभासान्तःकर्णपरिणामत्वाद्विज्ञानमयो विषयत्वेनैवोपक्षीणः ; ततो विषयभूताद्विज्ञानमयादानन्दमयस्य स्वप्नद्रष्टुरन्यत्वमावश्यकमित्याशयेन विज्ञानमयाश्रिते स्वप्न इत्युक्तमिति मन्तव्यम् ।
स एव चेति ।
लाभनिमित्त एव हर्षो लब्धस्योपभोगादिना प्रकर्षं प्राप्तः सन्प्रमोदशब्दवाच्यो भवतीत्यर्थः । आनन्द इति पदेन सुखसामान्यमुच्यते ; तच्च शिरआद्यवयवरूपेण कल्पितानां प्रियादीनामात्मा मध्यकाय इत्यर्थः ।
आनन्दस्य सामान्यरूपत्वे युक्तिमाह –
तेष्विति ।
प्रियादिषु सुखविशेषेष्वित्यर्थः ।
ननु सुखसामान्यं नाम किं जातिरूपम् ? नेत्याह –
आनन्द इतीति ।
सुखसामान्यवाचिना आनन्द इति पदेन परं सुखरूपतयोत्कृष्टं ब्रह्मोच्यत इत्यर्थः । यथा घटाद्युपहितानि च्छिद्राण्याकाशविशेषाः तेषु स्वरूपेणानुस्यूतमाकाशमाकाशसामान्यमिति प्रसिद्धम् , तथा वृत्तिविशेषोपहितानि ब्रह्मस्वरूपसुखान्येव सुखविशेषाः तेषु स्वरूपेणानुस्यूतं ब्रह्मसुखमेव सुखसामान्यमुच्यते, न जातिरूपमिति भावः ।
वृत्तिविशेषैरभिव्यक्तं तदुपहितस्वरूपसुखमेव विषयसुखं सदत्र प्रियमोदादिशब्दैरभिधीयत इतीममेवाभिप्रायं प्रकटयति –
तद्धीत्यादिना ।
प्रत्युपस्थाप्यमान इति पदं वृत्तिविशेष इत्यस्य विशेषणम् ; उत्पद्यमान इत्यर्थः । समस्तपाठे प्रत्युपस्थाप्यमानाः प्राप्यमाणाः पुत्रमित्रादिविषयविशेषा उपाधयः कारणानि यस्य वृत्तिविशेषस्येति विग्रहः ।
क्रोधादिवृत्तिवैलक्षण्यरूपं वृत्तेर्विशषमेवाह –
तमसेति ।
अप्रच्छादनफलमाह –
प्रसन्न इति ।
अभिव्यज्यत इति ।
निवृत्तावरणं भवतीत्यर्थः ।
ततः किमित्यत आह –
तद्विषयेति ।
तद्वृत्तिविशेषोपहितं तेनैवाभिव्यक्तं ब्रह्मस्वरूपसुखमेव लोके विषयजनितं सुखमिति प्रसिद्धं न तु वस्तुगत्या विषयजनितमन्यत्सुखमस्तीत्यर्थः ।
ननु विषयसुखस्य ब्रह्मानन्दस्वरूपत्वे क्षणिकत्वं न स्यात् ब्रह्मानन्दस्य नित्यत्वादित्याशङ्क्याह –
तद्वृत्तीति ।
स्वरूपसुखव्यञ्जकवृत्तिविशेषोत्पादककर्मणः क्षणिकत्वादित्यर्थः ।
नन्वेवमपि स्वरूपसुखस्य वृत्तिविशेषेष्वभिव्यक्तस्याप्येकरूपत्वात्कथं विषयसुखेषूत्कर्षतारतम्यमित्याशङ्क्याह –
तद्यदेति ।
तमोघ्नत्वविशेषणं दमादिसाधारणं बोध्यम् । विद्यया उपास्त्या ।
विविक्त इति ।
तमसेति शेषः । अन्तःकरणशुद्धितारतम्यात्तारतम्योपेतास्तद्वृत्तयो भवन्ति, वृत्तितारतम्याच्च तदभिव्यङ्ग्यमात्मसुखमपि तरतमभावेनाभिव्यज्यत इत्यर्थः ।
आनन्दविशेष इति ।
वृत्तिविशेषोपहितानन्द इत्यर्थः ।
विषयसुखानां ब्रह्मसुखावयवत्वे मानमाह –
वक्ष्यति चेति ।
सः प्रकृतः परमात्मा रसः सारः आनन्द इत्यर्थः ।
अयमिति ।
ब्रह्मादिस्तम्बपर्यन्तो लोक इत्यर्थः ।
एष ह्येवेति ।
आनन्दरूपः पर एव निजेनानन्देनानन्दयतीत्यर्थः ।
वाजसनेयश्रुतिमाह –
एतस्यैवेति ।
आत्मानन्दस्यैवेत्यर्थः । आत्मानं ब्रह्मणः सकाशादन्यत्वेन मन्यमानानि भूतानि प्राणिनो मात्रां लेशमेवानुभवन्तीत्यर्थः ।
सुखतारतम्यस्य चित्तशुद्धितारतम्यानुरोधित्वे सत्येव वाक्यशेषोऽप्युपपद्यत इत्याशयेनाह –
एवं चेति ।
कामोपशमः शुद्धिः ।
वक्ष्यत इति ।
'श्रोत्रियस्य चाकामहतस्य’ इत्यत्रेत्यर्थः ।
'ब्रह्म पुच्छं प्रतिष्ठा’ इति वाक्यं व्याचष्टे –
एवं चेति ।
उक्तरीत्यैवोत्कृष्यमाणस्य उत्कर्षतारतम्योपेतप्रियादिविशिष्टस्यानन्दमयात्मनः परमेव ब्रह्म पुच्छं प्रतिष्ठेति सम्बन्धः ।
नन्वानन्दमयं प्रति ब्रह्मणः प्रतिष्ठात्वं किमर्थमुपदिश्यते ? तत्राह –
परमार्थेति ।
परमार्थस्य ब्रह्मणः सर्वान्तरत्वज्ञानार्थमित्यर्थः ।
पुच्छशब्दप्रयोगेऽपि ब्रह्मणोऽत्र प्राधान्यसूचनार्थं प्रकरणित्वमाह –
यत्प्रकृतमिति ।
ब्रह्मप्रकरणस्य कोशवाक्यैर्विच्छेदमाशङ्क्य तेषां प्रकरणिब्रह्मसम्बन्धित्वमाह –
यस्य चेति ।
यस्य ब्रह्मणः सर्वान्तरत्वप्रतिपत्त्यर्थमन्तर्बहिर्भावेन पञ्च कोशाः श्रुत्योपन्यस्ता इत्यर्थः ।
ननु सर्वान्तरत्वमानन्दमयकोशस्यैव न पुच्छब्रह्मणः तस्यान्तरत्वाश्रवणादित्याशङ्क्याह –
यच्चेति ।
अन्नमयादिवदानन्दमयस्यापि कार्यात्मकतायाः प्राक्साधितत्वान्न तस्य सर्वान्तरत्वम् ; पुच्छब्रह्मण्यान्तरत्ववाचिपदाभावेऽपि प्रतिष्ठात्वलिङ्गेनानन्दमयान्तकोशजातं प्रत्यान्तरत्वरूपं सर्वान्तरत्वं सिध्यतीति भावः ।
'आत्मन आकाशः’ इत्यादौ ब्रह्मण्येवात्मशब्दप्रयोगात्तदेव कोशानां वास्तवं स्वरूपमित्याह –
येन चेति ।
ननु प्रतिष्ठापदेन ब्रह्मण आनन्दमयं प्रत्याधारत्वोक्तौ पुच्छपदेन पौनरुक्त्यं प्रसज्येत तेनापि तदाधारस्य लक्षणीयत्वादित्याशङ्क्य प्रतिष्ठापदस्यानन्दमयोपलक्षितसर्वद्वैताधारपरत्वमाह –
तदेव चेति ।
आनन्दमयस्येति ।
यदद्वैतं ब्रह्म आनन्दमयस्य प्रितष्ठा प्रतिष्ठात्वेन श्रुतं तत्सर्वस्यैव द्वैतस्य अवसानभूतमधिष्ठानभूतमिह विवक्षितमित्यर्थः ।
द्वैतस्य सर्वस्य साधिष्ठानत्वे युक्तिं सूचयति –
अविद्यापरिकल्पितस्येति ।
शुक्तिरूप्यादिवन्मिथ्याभूतस्येत्यर्थः ।
पुच्छवाक्यनिर्दिष्टब्रह्मास्तित्वसाधनपरत्वेन श्लोकमवतारयितुं तदस्तित्वमुपक्षिपति –
एकत्वावसानत्वादस्तीत्यादिना ।
एकत्वमद्वैतमविद्यापरिकल्पितस्य द्वैतस्याद्वैतावसानत्वाद्धेतोर्यत्तस्यावसानभूतमद्वैतं ब्रह्म पुच्छप्रतिष्ठाशब्दितं तदेकमस्तीति योजना । ननु पुच्छपदेन ब्रह्मण आनन्दमयं प्रत्यवयवत्वावगमात्कथं श्लोकस्य तद्विषयत्वं पूर्वपर्यायेषु श्लोकानामवयविकोशविषयत्वदर्शनादिति चेत् , न ; पूर्वत्रापि मनोमयपर्यायस्थस्य ‘यतो वाचः’ इति श्लोकस्य मनोमयावयवभूतयजुरादिविषयत्वेन तथा नियमाभावात् पुच्छपदस्यापि प्रियादिविशिष्टानन्दमयाधारमात्रलक्षकस्यावयवपरत्वाभावेन तेन ब्रह्मणोऽवयवत्वप्रतीत्यभावाच्च । न च ब्रह्मणि पुच्छदृष्टिलक्षकस्य पुच्छपदस्य कथमाधारलक्षकत्वमिति वाच्यम् ; अत्र पर्याये पूर्वपर्यायेष्विवोपासनाविधिफलश्रवणयोरभावेनानन्दमयकोशस्यानुपास्यत्वात् प्रियादिषु शिरःपक्षादिकल्पनस्यानन्दमये कार्यात्मत्वप्रतिपत्तिमात्रप्रयोजनकत्वोपपत्तेः । एतच्च प्रयोजनं प्रागेव भाष्ये शिरआदिकल्पनानुपपत्तेश्चेत्यादिना प्रपञ्चितम् । अतोऽत्र पुच्छवाक्यनिर्दिष्टस्य ब्रह्मण एव प्राधान्यात् ‘असन्नेव स भवति’ इति श्लोकस्य तद्विषयत्वे नानुपपत्तिः ; प्रत्युत तस्यानन्दमयविषयत्व एवानुपपत्तिरुक्ता वक्ष्यते चेति सङ्क्षेपः ॥
असत्सम एव भवतीति ।
वन्ध्यापुत्रसम एव भवतीत्यर्थः ।
तदेव साम्यं प्रपञ्चयति –
यथेति ।
ब्रह्मणो नास्तित्वे स्वयमपि नास्त्येवेति पर्यवस्यति, सर्वेषां तत्स्वरूपत्वात् , तथा च असत्त्वमापन्नस्य ब्रह्मासत्त्ववेदिनो युक्तमेव वन्ध्यापुत्रस्येव भोगाद्यसम्बन्धित्वापादनमिति मन्तव्यम् । तद्विपर्ययेण अस्ति ब्रह्मेति वेद चेदिति सम्बन्धः ।
तदस्तित्वे लिङ्गं सूचयति –
सर्वविकल्पास्पदमिति ।
सर्वस्य विकल्पस्य द्वैतस्याधिष्ठानमित्यर्थः । विमतं जगत्सदधिष्ठानं कल्पितत्वाद्रज्जुसर्पादिवदिति लिङ्गेन तदस्तित्वसिद्धिरिति भावः ।
तत्रैव लिङ्गान्तरं सूचयति –
सर्वप्रवृत्तिबीजमिति ।
सर्वसृष्टिकर्त्रित्यर्थः । क्षित्यादिकं चेतनकर्तृकं कार्यत्वाद्घटवदिति रीत्या सर्वजगत्कर्तृत्वेन च तदस्तित्वसिद्धिरिति भावः ।
सर्वलयाधारत्वेनापि तदस्तित्वं सूचयति –
सर्वविशेषेति ।
सर्वे विशेषाः प्रत्यस्तमिता विलीना यस्मिन्निति विग्रहः ।
ननु यद्युक्तप्रमाणबलादस्ति ब्रह्म कथं तत्र नास्तित्वाशङ्का हेत्वभावादित्याक्षिप्य समाधत्ते –
का पुनरित्यादिना ।
तदेव प्रपञ्चयति –
व्यवहारविषये हीत्यादिना ।
विकारमात्रे अस्तित्वभावनोपेता लोकबुद्धिः व्यवहारविषये अस्तित्वमिव तद्विपरीते शशशृङ्गादौ नास्तित्वमपि व्यवहारकाले निश्चिनुयादित्यर्थः ।
अस्मिन्नर्थे हि-शब्दसूचितां प्रसिद्धिमुदाहृत्य दर्शयति –
यथा घटादिरिति ।
एवमिति ।
तैः शशशृङ्गादिभिः सह इहापि ब्रह्मण्यपि व्यवहारातीतत्वस्य समानत्वादेवं शशशृङ्गादीनामिव बह्मणोऽपि नास्तित्वमिति निश्चयो भवतीत्यर्थः ।
तस्मादुच्यत इति ।
यस्माद्ब्रह्मण्यसत्त्वाशङ्का जायते तस्मात्तन्निराकरणार्थमस्तित्वमुच्यत इत्यर्थः ।
स इति ।
सर्वप्रत्यग्भूतं ब्रह्मास्तीति श्रुत्युपपत्तिभ्यां यो विजानाति स ब्रह्मवित्त्वेनान्येषां वेदनीयो भवतीत्यर्थः ।
ननु वस्तुतः सद्रूपे ब्रह्मण्यसत्त्ववेदनमात्राद्वेदितुरसत्त्वं नोपपद्यत इत्यस्वरसादाह –
अथ वेति ।
सन्मार्गस्य नास्तित्वमेव निश्चिनुयादित्यत्र हेतुमाह –
ब्रह्मेति ।
सन्मार्गेण निष्कामनयानुष्ठितेन प्राप्तव्यं यन्मोक्षरूपं फलं तद्ब्रह्मैव तदपलापे नास्तिकः स्यादित्यर्थः ।
तस्मादिति ।
ब्रह्मनास्तित्ववेदिनो नास्तिकत्वाद्यापत्तेरित्यर्थः ।
अस्य मन्त्रस्यानन्दमयविषयत्वं वृत्तिकाराभिमतं निराकृतमपि दार्ढ्यार्थं पूनर्निराकरोति –
तं प्रतीति ।
आनन्दमयं प्रति या आशङ्का आनन्दमयनास्तित्वगोचरा वृत्तिकारैर्वक्तव्या सा कास्ति नास्त्येव, प्रियादिविशिष्टस्य तस्य प्रत्यक्षसिद्धत्वादित्यर्थः ।
तस्य स्वाभिमतं पुच्छवाक्यनिर्दिष्टब्रह्मविषयकत्वं निषप्रत्यूहं ब्रह्मण्यानन्दमयविलक्षणे नास्तित्वशङ्काया उपपादितत्वादित्याशयेनाह –
अपोढेति ।
ननु ब्रह्मणि सर्वव्यवहारापोहोऽसिद्धः विद्वद्व्यवहारविषयत्वादित्याशङ्क्याह –
सर्वसमत्वाच्चेति ।
च-शब्दः शङ्कानिरासार्थः । ब्रह्मणः सर्वजीवसाधारणत्वात्सर्वान्प्रति तस्य व्यवहार्यत्वं स्यात् , न चैतदस्तीत्यतः सर्वसाधारण्येन व्यवहारविषयत्वाभावात्तत्रासत्त्वशङ्का युक्तेत्यर्थः ।
यस्मादेवमिति ।
सर्वसमं ब्रह्मेत्येवंशब्दार्थः ।
अतस्तस्मादिति ।
अयमतःशब्दः श्रुतिगत इति बोद्धव्यम् ।
आचार्योक्तिमिति ।
ब्रह्मविद्ब्रह्म प्राप्नोति, विद्याप्राप्यं च ब्रह्म सर्वकारणं सर्वात्मकमित्येवमाद्याचार्योपदेशमित्यर्थः ।
श्रुतावविदुषो ब्रह्मप्राप्तिप्रश्नो दृश्यते, तस्यालम्बनमतःशब्दोपात्तं विवृणोति –
सामान्यं हीति ।
समानमित्यर्थः ।
विद्वदविदुषोः समानं ब्रह्मेत्यत्र हि-शब्दसूचितं हेतुमाह –
आकाशादीति ।
प्रकृतस्याकाशादिकारणभूतब्रह्मणः सर्वप्रत्यक्तया पुच्छवाक्ये प्रतिष्ठापदेनोक्तत्वादित्यर्थः । यद्वा आकाशादिक्रमेण सर्वभूतकारणत्वात्कार्यभूतानां विदुषामविदुषां च साधारणं ब्रह्मेत्यर्थः । जीवानां स्वतः कार्यत्वाभावेऽपि स्थूलसूक्ष्मोपाधिविशिष्टतया कार्यत्वाभ्युपगमादिति भावः ।
अमुमिति ।
बुद्ध्यादिसाक्षितया प्रत्यक्षसिद्धस्यापि परमात्मन इन्द्रियागोचरत्वविवक्षया अदःशब्देन परोक्षतया निर्देश इति बोध्यम् ।
लोकमिति ।
लोकनं लोक इति व्युत्पत्त्या चैतन्यैकरसमित्यर्थः ।
इतः प्रेत्येति ।
मृत्वेत्यर्थः ।
नन्वविद्वानपि किं ब्रह्म गच्छति किं वा न गच्छतीति कोटिद्वयोपेतः प्रश्न एक एव यथा विष्णुमित्रो विष्ण्वालयं गच्छति न वेत्यादौ, ततश्च कथं तस्य द्वित्वकल्पनमित्याशङ्क्य बहुवचनानुरोधादित्याह –
अनुप्रश्ना इतीति ।
अन्यौ द्वाविति ।
न्यायसाम्यादिति भावः ।
ननु विदुषो ब्रह्मप्राप्त्यभावशङ्का निरालम्बनेत्याशङ्क्याह –
यद्यविद्वानिति ।
विष्णुमित्रविषयकप्रश्नन्यायमनुसरति –
द्वाविति ।
बहुवचनस्य गतिमाह –
बह्विति ।
पूर्वत्रास्तित्वनास्तित्वरूपकोटिद्वयश्रवणसामर्थ्यप्राप्तं प्रश्नान्तरमपेक्ष्य बहुवचनं भविष्यतीत्यर्थः । तु-शब्दोऽस्य पक्षस्य श्रुत्यभिमतत्वरूपविशेषद्योतनार्थः । प्रथमव्याख्याने हि ‘सोऽकामयत’ इत्यारभ्यैव विद्वदविद्वद्विषयप्रश्ननिर्णय एव कर्तव्यतया प्राप्नोति ; न चासौ ‘सोऽकामयत’ इत्यारभ्य दृश्यते, तस्मात् ‘सोऽकामयत’ इत्यादेरसङ्गतत्वपरिहारायायमेव पक्षः श्रुत्यभिमत इति गम्यत इति मन्तव्यम् ।
सामर्थ्यप्राप्तेत्येतदेव विवृणोति –
असदित्यादिना ।
यद्यपि पूर्वत्रासत्त्ववेदने दोषाभिधानेन सत्त्ववेदने गुणाभिधानेन च ब्रह्मणः सत्त्वं निर्णीतं निर्णीतत्वाच्च न संशयो नापि तन्मूलकः प्रश्नो घटते, तथापि तर्केषु प्रविणस्य ब्रह्मजिज्ञासोरल्पोपत्तिमात्रेणापरितुष्यतः श्रुत्युपदर्शितास्तित्वनास्तित्वरूपकोटिद्वयं चोपशृण्वतः संशयो न निवर्तत इति तन्मूलकः प्रश्नः श्रुत्यभिमत इति भावः ।
अपक्षपातित्वादिति ।
विद्वदविद्वत्साधारण्यत्वादित्यर्थः ॥
उत्तरग्रन्थेऽप्यव्यवहितस्य ‘सोऽकामयत’ इत्यादेरवान्तरतात्पर्यमाह –
तत्रास्तित्वमेवेति ।
तावच्छब्दः प्राथम्यार्थः ।
ननु ‘ब्रह्मविदाप्नोति परम् ‘ इति सूत्रस्य सङ्क्षेपतो व्याख्यानरूपेण ‘सत्यं ज्ञानम् - ‘ इति मन्त्रेण सह सूत्रं प्रति विस्तरतो व्याख्यानरूपस्यास्य ग्रन्थस्य समानार्थताया वक्तव्यत्वात्केनांशेन मन्त्रस्य ‘सोऽकामयत’ इत्यादिब्राह्मणस्य च विवरणविवरणिभावेन समानार्थत्वमिति जिज्ञासायां तद्दर्शयितुमनुवदति –
यच्चोक्तमिति ।
तत्रेति ।
तत्र मन्त्रे सङ्ग्रहेणोक्तं सत्यत्वं कथमित्याकाङ्क्षायामेतद्विस्तरेण वक्तव्यमित्यर्थः ।
ननु ब्रह्मण्यसत्त्वशङ्कानिवृत्तिपरे ग्रन्थे सत्त्वमेवोच्यते न सत्यत्वमित्याशङ्क्य सत्सत्यशब्दयोः पर्यायत्वमुक्तं स्मारयति –
उक्तं हीति ।
हि-शब्दस्तयोः पर्यायत्वप्रसिद्धिद्योतकः ; तथा च सत्त्वसत्यत्वयोरेकत्वान्नोक्तशङ्कावकाश इत्याशयेनाह –
तस्मादिति ।
एवमर्थतेति ।
सत्त्वसाधनपरतेत्यर्थः ।
शब्दानुगमादिति परिहारं विवृणोति –
अनेनैवेति ।
सत्त्वलक्षणेनैवार्थेन, न तु विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिलक्षणेनेत्यर्थः । इत्थं तात्पर्यमुपवर्ण्याक्षराणि व्याचिख्यासुरुत्तरग्रन्थव्यावर्त्यं पूर्वपक्षमुद्भावयति ।
तत्रासदेवेति ।
पूर्वोक्तसंशये सतीत्यर्थः ।
विशेषत इति ।
व्यवहारगोचरत्वेनेत्यर्थः ।
'इदं सर्वमसृजत, यदिदं किं च’ इति श्रुत्युक्तं ब्रह्मणो जगत्कारणत्वमवलम्ब्य शङ्कां निराकरोति –
तन्नेति ।
तन्नेति प्रतिज्ञां विवृणोति –
न नास्ति ब्रह्मेति ।
आकाङ्क्षापूर्वकं हेतुं विवृणोति –
कस्मादित्यादिना ।
कस्मादित्यनन्तरमाकाशादिकारणत्वादिति शेषः ।
हेतुं साधयति –
आकाशादि हीति ।
कार्यत्वेनाभिमतमाकाशादिकं सर्वं ब्रह्मणः सकाशाज्जातत्वेन ‘इदं सर्वमसृजत’ इति श्रुत्या गृह्यते, अतो ब्रह्मणि नाकाशादिकारणत्वहेतोरसिद्धिरित्यर्थः । आकाशादेर्ब्रह्मकार्यत्वे श्रुत्यन्तरप्रसिद्धिसूचनार्थो हि-शब्दः ।
इदानीं व्याप्तिमाह –
यस्माच्चेति ।
च-शब्दोऽवधारणार्थः सन्नस्तीत्यनेन सम्बध्यते । लोके किञ्चिद्यस्माज्जायते तदस्त्येवेति दृष्टमित्यर्थः । यद्भावकार्यं तत्सदुपादानकमिति व्याप्तिनिष्कर्षः ।
निगमयति –
तस्मादिति ।
उक्तव्याप्तिबलादित्यर्थः ; अत्र विमतं जगत्सदुपादानकं कार्यत्वात्संमतवदिति सृष्टिश्रुत्यभिमतानुमाननिष्कर्षः । तच्च जगदुपादानभूतं सद्ब्रह्मैव तदतिरिक्तस्य सर्वस्य कल्पिततायाः प्रागेव तत्र तत्र साधितत्वात् ; तथा च न ब्रह्मण्यसत्त्वशङ्केति भावः ।
नन्वस्तु ब्रह्मण आकाशादिकारणत्वं मास्तु सत्त्वमित्यप्रयोजकत्वशङ्कां निराचष्टे –
न चासत इति ।
ननु लोके कार्यस्यासज्जन्यत्वाग्रहेऽपि सर्गाद्यकार्यमसदुपादानकमेवास्तु ; नेत्याह –
असतश्चेदिति ।
कार्यमित्यनन्तरं जायेतेति शेषः । कार्यस्य ह्युपादानमात्मा सत्ताप्रदमिति यावत् ; तथा च असत उपादानत्वे नामरूपकर्मात्मकस्य जगतो निरात्मकत्वात्सत्ताहीनत्वात्सत्त्वेन रूपेण जगन्नोपलभ्येतेत्यर्थः ।
तर्कस्य विपर्यये पर्यवसानमाह –
उपलभ्यते त्विति ।
'सन्घटः’ ‘सन्पटः’ इत्येवं सत्त्वेनैव जगदुपलभ्यत इत्यर्थः ।
फलितमाह –
तस्मादिति ।
हेतोरप्रयोजकत्वासम्भवादित्यर्थः । यद्वा कारणत्वादित्यर्थः ।
विपक्षे बाधकान्तरप्रदर्शनपूर्वकं पुनस्तदस्तित्वमुपसंहरति –
असतश्चेत्कार्यमित्यादिना ।
असत उपादानभूतात्कार्यं जगज्जायेत चेत्तर्हि यथा जायमानं जगदसदन्वितं जायते तथा गृह्यमाणमप्यसदन्वितत्वेनैव गृह्येतासज्जगदिति, यथा मृद्विकारजातं मृदन्वितत्वेनैव गृह्यते तद्वत् ; न चैवं गृह्यते जगत् , तस्माज्जगति सदुपादानकत्वानुमानस्याप्रयोजकत्वाभावात्कारणं ब्रह्मास्तीत्यर्थः ।
न्यायत इति ।
असदन्वयादर्शनादियुक्तित इत्यर्थः ।
तस्मादिति ।
श्रुत्यन्तरबलादपीत्यर्थः ।
मान्त्रवर्णिकसत्यत्वविवरणवन्मान्त्रवर्णिकचेतनत्वविवकरणमप्यत्र कामयितृत्ववचनेन क्रियत इत्याशयेन तद्वचनाभिप्रायं शङ्कापूर्वकं कथयति –
तद्यदीत्यादिना ।
तद्ब्रह्म ।
ननु कामस्याचेतनधर्मतायाः श्रुतिस्मृतिसिद्धत्वात्कथं कामेन ब्रह्मणोऽचेतनत्वव्यावृत्तिर्लभ्यत इत्याशङ्क्य लौकिकव्याप्तिबलेनेत्याशयेनाह –
न हीति ।
यद्वा प्रसङ्गात्साङ्ख्यशङ्कामुद्भाव्य कामश्रुत्या निराकरोति –
तद्यदीत्यादिना ।
तदाह सूत्रकारः - ‘कामाच्च नानुमानापेक्षा’ इति । अनुमानशब्दितं प्रधानं कारणत्वेन नापेक्षितव्यं कारणस्य ‘सत्यं ज्ञानम् - ‘ इति चिद्रूपत्वश्रवणात्कामयितृत्वश्रवणाच्चेति तदर्थः ।
मन्त्रेऽपि सङ्ग्रहेण ब्रह्मणश्चेतनत्वमुक्तमित्याह –
सर्वज्ञमिति ।
अवोचामेति ।
मन्त्रगतज्ञानपदविवेचनावसर इत्यर्थः ।
यद्वा कामयितृत्ववचनादिना ब्रह्मणश्चेतनत्वसिद्धावपि सृष्टेः पूर्वं शरीराद्यभावेन ज्ञानासम्भवात्सृष्ट्यनुकूलकामानुपपत्तिरित्याशङ्क्याह –
सर्वज्ञमिति ।
'पश्यत्यचक्षुः’ इत्यादिश्रुत्या परमेश्वरज्ञानस्य चैतन्यरूपस्य मायावृत्तिरूपस्य वा करणाद्यनपेक्षत्वश्रवणान्नोक्तशङ्कावकाश इति भावः ।
अत इति ।
चेतनत्वात्सर्वज्ञत्वाद्वेत्यर्थः ।
ब्रह्मणः कामयितृत्वे तस्याप्तकामत्वश्रुतिविरोधमाशङ्कते –
कामयितृत्वादिति ।
अनाप्तकामत्वे कामयितृत्वं न प्रयोजकम् आप्तकामानामपि ब्रह्मविदां परानुग्रहार्थं विद्यासम्प्रदायप्रवर्तनादौ कामयितृत्वदर्शनात् ; किं तु कामवश्यत्वम् , तच्च ब्रह्मणो नास्ति, अतो नाप्तकामत्वश्रुत्या सह कामयितृत्वश्रुतेर्विरोध इति परिहरति –
न ; स्वातन्त्र्यादिति ।
ब्रह्मणः कामेषु स्वातन्त्र्यमस्मदादिकामवैलक्षण्योक्तिपूर्वकं प्रपञ्चयति –
यथान्यानित्यादिना ।
ननु ब्रह्मकामा दोषरूपा ब्रह्मप्रवर्तकाश्च न भवन्ति चेत्तर्हि ते कथम्भूता यतस्तैर्ब्रह्म न प्रवर्त्यत इति पृच्छति –
कथं तर्हीति ।
विशुद्धा इत्युत्तरम् ।
ब्रह्मकामानां विशुद्धत्वे ब्रह्मैवोपमानमित्याशयेनाह –
सत्यज्ञानलक्षणा इति ।
'सत्यं ज्ञानम्’ इति मन्त्रोक्तब्रह्मण इव लक्षणं दोषरहितं स्वरूपं येषां ते यथोक्ताः ।
तेषां विशुद्धत्वे हेतुमाह –
स्वात्मभूतत्वादिति ।
स्वस्य ब्रह्मण आत्मभूता या माया तत्त्वात् तत्परिणामत्वादिति यावत् । आत्मभूतत्वं च मायायास्तादात्म्यापन्नत्वमुपाधित्वं वा । एतदुक्तं भवति – ब्रह्मोपाधिभूतमायाया विशुद्धत्वात्तत्परिणामरूपाणां कामानां विशुद्धत्वं मायाया ब्रह्मवश्यत्वात्कामानामपि तद्वश्यत्वं चेति ।
ननु तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याह –
तेषां त्विति ।
तु-शब्दोऽवधारणार्थः । तद्ब्रह्म प्राणिकर्मापेक्षयैव प्राणिकर्मफलप्रदानां स्वकामानां प्रवर्तकं न प्राणिकर्मानपेक्षया, यथा सेवकानां कर्मापेक्षया राजा स्वकामानां सेवकफलप्रदानां प्रवर्तकस्तथेत्यर्थः ।
एतेन ब्रह्मणः स्वकामेषु सापेक्षत्वे कथं स्वातन्त्र्यमिति शङ्कापि निरस्ता, लोके सेवापेक्षस्यापि राज्ञः स्वातन्त्र्यप्रसिद्धिदर्शनेन ब्रह्मणोऽपि ‘सर्वेश्वरः’ इत्यादिश्रुतिसिद्धस्वातन्त्र्योपपत्तेरित्याशयेनाह –
तस्मादिति ।
कामानां विशुद्धत्वादित्यर्थः ।
अत इति ।
स्वातन्त्र्यादित्यर्थः ।
साधनान्तरेति ।
ब्रह्मणः स्वकामेषु स्वकीयसाधनान्तरानपेक्षत्वाच्च नानाप्तकामं ब्रह्मेति प्रतिपत्तव्यमित्यर्थः ।
साधनान्तरानपेक्षत्वमेव व्यतिरेकोदाहरणेन प्रपञ्चयति –
किं चेत्यादिना ।
अनात्मभूता इति ।
अस्वाधीना इत्यर्थः । यद्वा दोषरूपा इत्यर्थः । अथ वा आत्मव्यतिरिक्तसाधनोद्भूता इत्यर्थः ।
अस्मिन्पक्षेऽस्यैव विवरणम् –
धर्मादीत्यादि ।
कामानां साधनापेक्षत्वे हि साधनविलम्बात्कामितार्थालाभप्रसक्त्या ब्रह्मणोऽनाप्तकामत्वं स्यात् , साधनान्तरानपेक्षत्वे तु नायं दोष इति भावः । कार्यं स्थूलशरीरम् , कारणं लिङ्गशरीरम् , स्वात्मव्यतिरिक्तानि कार्यकारणान्येव स्वात्मापेक्षया साधनान्तराणीत्यर्थः ।
न तथा ब्रह्मण इति ।
कामानामिति शेषः ।
किं तर्हीति ।
यदि ब्रह्मणः कामाः स्वात्मव्यतिरिक्तसाधनापेक्षा न भवन्ति तर्हि किं तेषां साधनमित्यर्थः ।
उत्तरमाह –
स्वात्मनोऽनन्या इति ।
स्वात्ममात्रसाध्या ब्रह्मणः कामा इत्यर्थः ।
तदेतदिति ।
तद्विशुद्धत्वेन निरूपितमेतत्स्वात्ममात्रसाध्यत्वेन च निरूपितं कामानां स्वरूपमभिप्रेत्य ब्रह्मणः कामयितृत्वमाह श्रुतिरित्यर्थः ।
प्रकृते ब्रह्मणि स इति पुंलिङ्गनिर्धेशो न संनिहितब्रह्मपदापेक्षः, किं तु ‘आत्मन आकाशः सम्भूतः’ इत्यादौ व्यवहितात्मपदापेक्ष इत्याशयेनाह –
स आत्मेति ।
कामनाप्रकारं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।
एकस्य बहुभवनं विरुद्धमिति शङ्कते –
कथमेकस्येति ।
नन्वेकस्यापि मृद्वस्तुनो विकारात्मना बहुभवनं दृष्टमित्याशङ्क्याह –
अर्थान्तराननुप्रवेश इति ।
यद्यप्यर्थान्तरानुप्रवेशाभावे सत्येकस्य बहुत्वं विरुद्धं तथापि प्रकृते न बहुभवनस्यानुपपत्तिः अर्थान्तरानुप्रवेशेनैव बहुत्वस्य विवक्षितत्वादिति परिहरति –
उच्यत इति ।
उत्पद्येयेति ।
पूर्वसिद्धस्य ब्रह्मणः स्वत उत्पत्त्ययोगादाकाशाद्यर्थान्तरानुप्रवेशेनैवोत्पत्तिर्विवक्षिता वाच्या, अतः प्रजायेयेत्येतदर्थान्तरानुप्रवेशेन बहुभवनस्योपपादकमिति भावः ।
ननु पितुरर्थान्तरभूतैः पुत्रादिभिर्यथा तस्य बहुभवनं तथा किं ब्रह्मणोऽर्थान्तरभूतैराकाशादिविकारैर्बहुभवनं विवक्षितम् ? नेत्याह –
न हीति ।
अर्थान्तरपदं भिन्नसत्ताकवस्तुपरम् , तत्प्रयुक्तस्य बहुभवनस्यामुख्यत्वेन प्रकृते तद्ग्रहणे हेत्वभावादिति भावः ।
नन्वसङ्गस्वभावस्य ब्रह्मण आकाशादिविकारतादात्म्यमादायापि बहुभवनं न सम्भवतीत्यभिप्रायेण शङ्कते –
कथं तर्हीति ।
वस्तुतस्तदसम्भवेऽपि काल्पनिकं तादात्म्यमादाय तदुपपद्यत इत्याशयेन परिहरति –
आत्मस्थेति ।
आत्मनि स्थिते अनभिव्यक्ते ये नामरूपे तयोः सर्गादावभिव्यक्त्या आभिमुख्येन तादात्म्येन व्यक्त्या स्थूलीभावापत्त्या नामरूपाधिष्ठानभूतस्यात्मनो बहुभवनमित्यर्थः ।
उक्तं विवृणोति –
यदेति ।
आत्मस्वरूपापरित्यागेनैवेति ।
कारणभूतात्मतादात्म्येनैव, न ततो भेदेनेत्यर्थः ।
तमेवापरित्यागं विवृणोति –
ब्रह्मणोऽप्रविभक्तेति ।
ब्रह्मणः सकाशादप्रविभक्तौ प्रविभागरहितौ देशकालौ ययोरिति विग्रहः । तन्मात्रावस्था स्थूलभूतावस्था अण्डावस्था तदन्तर्वर्तिविकारावस्था चेत्येताः कार्यगता अवस्थाः सर्वावस्थाशब्देनोच्यन्ते ।
नान्यथेति ।
अन्यथा विविधपरिणामिविकारतया बहुत्वापत्तिर्नोपपद्यत इत्यत्र हेतुं सूचयति –
निरवयवस्येति ।
लोके सावयवस्यैव मृदादेः परिणामित्वदर्शनादिति भावः । अल्पत्वं वेति दृष्टान्तार्थम् ।
एवं परिणामितया बहुत्वादिकं निरस्य नामरूपोपाधिकृतमेव ब्रह्मणस्तदित्यत्र दृष्टान्तमाह –
यथेति ।
वस्त्वन्तरकृतमिति ।
घटाद्युपाधिकृतमित्यर्थः । इदं च ब्रह्मणो नानाजीवभावेन बहुभवने उदाहरणमिति बोध्यम् । जगदात्मना बहुभवने तु रज्ज्वादेः सर्वदण्डधारादिभावेन बहुभवनमुदाहर्तव्यम् ।
अतस्तद्द्वारेणैवेति ।
परिणामितया बहुत्वासम्भवात्स्वाध्यस्तनामरूपद्वारेणैवात्मा बहुत्वमापद्यत इत्यर्थः ।
नामरूपयोरप्रविभक्तदेशकालत्वं साधयति –
न हीति ।
अन्यदित्यस्य विवरणमनात्मभूतमिति । यत्सूक्ष्मं व्यवहितं विप्रकृष्टं भूतवर्तमानभविष्यदादिरूपं वात्मनोऽन्यज्जगद्वस्तु तत्तस्माद्ब्रह्मणः सकाशात्प्रविभक्तदेशकालं यथा भवति तथा न हि विद्यत इति योजना । कल्पितस्य जगतोऽधिष्ठानब्रह्मतादात्म्यशून्यतयावस्थानायोगादिति भावः ।
नामरूपयोर्ब्रह्मणि कल्पितत्वे स्थिते फलितमाह –
अत इति ।
ब्रह्मणैवात्मवती इति ।
ब्रह्मसत्तयैव सत्तावती इत्यर्थः । न स्वतः सत्तावती इत्येवकारार्थः ।
वैपरीत्यं निषेधति –
न ब्रह्मेति ।
स्वप्रकाशस्य ब्रह्मणो नामरूपात्मके जगत्यध्यस्तत्वेन तत्सत्तया सत्तावत्त्वे स्वीकृते सति जगदान्ध्यं प्रसज्येत, जगतः स्वतः प्रकाशात्मकत्वाभावादध्यस्तस्य जडत्वनियमेन ब्रह्मणोऽपि स्वप्रकाशत्वासम्भवाच्च ; तस्माद्ब्रह्म नामरूपसत्तया सत्तावन्न भवतीत्यर्थः ।
ब्रह्मणैवात्मवती इत्युक्तं सहेतुकं विवृणोति –
ते तदिति ।
तत्प्रत्याख्याने ब्रह्मप्रत्याख्याने, ब्रह्मसत्तां विनेति यावत् , ते नामरूपे न स्त एवेति कृत्वा ते तदात्मके ब्रह्मात्मके उच्येते इत्यर्थः ।
ब्रह्मणो नामरूपोपाधिकबहुभवनं कीदृशमित्याकाङ्क्षायामाह –
ताभ्यां चेति ।
ताभ्यामेव न स्वत इत्यर्थः । तत्रायं विभागः – बुद्ध्युपाधिकं ब्रह्म ज्ञातृव्यवहारभाक् बुद्धिवृत्त्युपाधिकं ब्रह्म ज्ञानमिति व्यवहारभाक् , विषयोपाधिकं ब्रह्म ज्ञेयव्यवहारभाक् , नामोपाधिकं ब्रह्म शब्दव्यवहारभाक् , सामान्यतो जडोपाधिकं ब्रह्मार्थव्यवहारभागिति । आदिपदं कर्मादिसङ्ग्रहार्थम् । एवं सर्वव्यवहारभाग्ब्रह्मेत्यर्थः । श्रुत्यन्तरे मयट् स्वार्थिक इति भावः ।
इतरस्य कायक्लेशादिरूपस्य तमसः सम्भव एव नास्तीत्यत्र हेत्वन्तरमाह –
आप्तकामत्वाच्चेति ।
इदमुपलक्षणम् ; प्राक्सृष्टेर्ब्रह्मणः कायाभावाच्चेत्यपि द्रष्टव्यम् । आलोचनमित्यनेन ‘तप आलोचने’ इति वैयाकरणप्रसिद्धिरपि प्रकृते तपो ज्ञानमित्यत्र हेतुरिति सूचितं भवति ।
सृज्यमानजगद्वैचित्र्ये निमित्तं सूचयति –
प्राणिकर्मादीति ।
उपासनादिलक्षणं श्रुतमादिपदार्थः, ‘यथाकर्म यथाश्रुतम् ‘ इति श्रुतेः ।
आनुरूप्यमेव विवृणोति –
देशत इत्यादिना ।
सर्वावस्थैरिति ।
देवत्वमनष्यत्वतिर्यक्त्वाद्यवस्थैरित्यर्थः । यत्किं चेदमवशिष्टं जगत् तत्सर्वं सृष्टवानिति योजना । ‘तत्सृष्ट्वा तदेवानुप्राविशत् , तदनुप्रविश्य’ इत्येषु वाक्येषु तच्छब्दा जगत्पराः ॥
प्रवेशपदार्थनिर्णयप्रयोजनकं विचारमारभते –
तत्रैतच्चिन्त्यमित्यादिना ।
कथंशब्दसूचितं विमर्शमेव विवृणोति –
किमिति ।
किं परमात्मा स्वेनैवात्मनानुप्राविशत् , किं वा स्वविकाराद्यात्मनानुप्राविशदित्यर्थः ।
तत्र प्रथमं सिद्धान्तमाह –
किं तावद्युक्तमित्यादिना ।
अन्येनात्मना प्रवेश इति स्वमतमुत्थापयितुं प्रथमं पूर्ववादिसिद्धान्तं निराकरोति –
ननु न युक्तमित्यादिना ।
कार्यस्य बुद्ध्यादेरुत्पत्तिप्रभृतिकारणात्मकत्वात्कारणेन व्याप्तत्वात्कार्यभूतदेहाद्युत्पत्तिव्यतिरेकेण कार्ये देहादौ प्रवेश इत्येतन्न युक्तमित्यर्थः ।
उक्तमेव विवृणोति –
कारणमेव हीति ।
कारणमेव कार्यात्मना परिणतमिति प्रसिद्धमित्यर्थः ।
ततः किम् ? अत आह –
तत इति ।
कारणेन कार्यस्य जन्मप्रभृति व्याप्तत्वादित्यर्थः ।
अप्रविष्टस्येवेति ।
देवदत्तादेरिति शेषः ।
उपादानकारणस्य कार्याकारपरिणतिव्यतिरेकेण कार्ये प्रवेशो नास्तीत्यत्र दृष्टान्तमाह –
न हीति ।
एवं ब्रह्मणस्तेनैवात्मनानुप्रवेश इति सिद्धान्तं निराकृत्यान्येनात्मनानुप्रवेश इति स्वमतं दृष्टान्तेनाह –
यथा घट इत्यादिना ।
पार्थिवानि रजांस्यत्र चूर्णशब्दार्थः । घटोपादानभूताया मृदो मृज्जातीयचूर्णात्मना घटे यथानुप्रवेशः तथा परस्यान्येन जीवेनात्मनानुप्रवेश इह विवक्षित इत्यर्थः ।
अत्रार्थे छन्दोगश्रुतिसंवादमाह –
श्रुत्यन्तराच्चेति ।
सिद्धान्ती निराकरोति –
नैवं युक्तमेकत्वाद्ब्रह्मण इति ।
परमात्मनो जीवेनैक्याच्चूर्णस्य मृदन्यत्ववज्जीवस्य ब्रह्मान्यत्वं नास्ति, तथा च मृदश्चूर्णात्मनेव ब्रह्मणोऽन्येन जीवेनात्मना प्रवेशकल्पनं न युक्तमेवेत्यर्थः । श्रुत्यन्तरेऽपि जीवस्यान्यत्वाश्रवणात् ‘तत्त्वमसि’ इत्यभेदस्यैव श्रवणाच्च अऩ्येनात्मनेति वदतः पूर्ववादिनो न तदप्यनुकूलमिति भावः ।
सङ्ग्रहवाक्यं दृष्टान्तवैशम्योक्तिपूर्वकं विवृणोति –
मृदात्मनस्त्वित्यादिना ।
मृज्जातीयस्य त्वित्यर्थः ।
सावयवत्वाच्चेति ।
सावयवस्य मूर्ततया प्रवेशयोग्यत्वाच्चेत्यर्थः ।
चूर्णस्येति ।
तस्य स्वेनाप्रविष्टदेशवत्त्वाच्चेत्यर्थः ।
एकत्वे सतीति ।
एकत्वादित्यर्थः ।
ननु यदि जीवस्य ब्रह्मानन्यत्वाद्ब्रह्मणश्च स्वतो व्यापकत्वादित्यादियुक्त्या अन्येनात्मना प्रवेशस्त्वया निराक्रियते, तर्हि तवापि कथं प्रवेशनिर्वाहः तेनैवात्मनानुप्रवेशासम्भवस्याप्युक्तत्वादिति मत्वा पूर्ववादी पृच्छति –
कथं तर्हीति ।
मास्तु प्रवेश इति त्वयापि वक्तुं न शक्यत इत्याह –
युक्तश्चेति ।
तस्मादन्येनात्मनानुप्रवेश इति वदता मयैव प्रवेशनिर्वाहः कर्तव्य इति भावः ।
कथमित्याशङ्क्याह पूर्ववादी –
सावयवमेवास्तु तर्हीति ।
यदि ब्रह्मणो निरवयवत्वे प्रवेशायोग्यता तर्हि सावयवमेव ब्रह्मास्तु उपादानत्वान्मृदादिवत् ।
ततश्च प्रवेशोपपत्तिरित्याह –
सावयवत्वादिति ।
यथा शिरःपाण्यादिमतो देवदत्तस्य हस्तादिरवयवः तथा नामरूपशब्दितकार्यप्रपञ्चाकारेण परिणममानस्य ब्रह्मणोऽप्यवयवविशेषो जीवः ; तथा च देवदत्तस्य हस्तात्मना मुखबिले प्रवेशवत्स्वायवभूतजीवात्मना ब्रह्मणः शरीरलक्षणकार्ये प्रवेश उपपद्यत इत्यर्थः ।
उक्तं पूर्ववादिना प्रवेशनिर्वाहं सिद्धान्ती निराकरोति –
नाशून्यत्वादिति ।
प्रवेष्टव्यप्रदेशशून्यत्वाद्ब्रह्मणो नोक्तविधयापि प्रवेशो युक्त इत्यर्थः ।
उक्तमेव विवृणोति –
न हीति ।
कार्यात्मना परिणतस्य ब्रह्मणस्तावन्नामरूपात्मककार्यदेशे प्रवेशो वक्तुं न शक्यते, मृत्कार्यस्य मृदा तदवयवैरिव च ब्रह्मकार्यस्य सर्वस्य ब्रह्मणा तदवयवजीवैश्च जन्मप्रभृत्येव व्याप्तत्वात् , नापि तदतिरेकेणात्मना शून्यः कश्चित्प्रवेशोऽस्ति यं प्रदेशं स्वावयवभूतेन जीवेनात्मना ब्रह्म प्रविशेदित्यर्थः । निष्कलश्रुत्या विरोधेन ब्रह्मणः सावयवत्वसाधकानुमानानुत्थानाच्चेत्यपि दृष्टव्यम् ।
इत्थमन्येनात्मना ब्रह्मणः कार्ये प्रवेश इति वदतः पूर्ववादिनो निरासं श्रुत्वा तदेकदेशी प्रत्यवतिष्ठते –
कारणमेव चेत्प्रविशेदिति ।
नात्र कारणस्य कार्ये प्रवेशः कथ्यते, किं तु कार्यविशेषस्य जीवस्य कारणे, तस्य च परिच्छिन्नत्वात्प्रवेष्टृत्वोपपत्तिरिति चेदित्यर्थः ।
सिद्धान्ती तमपि निराकरोति –
जीवात्मत्वं जह्यादिति ।
यदि जीवः स्वकारणे प्रविशेत्तदा स्वकीयं जीवात्मत्वमेव जह्यात्परित्यजेदित्यर्थः । जीवस्वरूपस्यैव विलयनप्रसङ्गादिति यावत् ।
विकारस्य प्रकृतौ प्रवेशे लय एव स्यादित्यत्रोदाहरणमाह –
यथेति ।
इतश्च न कारणे कार्यस्यानुप्रवेशो युक्त इत्याह –
तदेवेति ।
तच्छब्दोपात्तस्य कार्यस्यैव प्रवेशकर्मत्वश्रवणादित्यर्थः ।
एवं पूर्ववाद्येकदेशिनि निरस्ते पुनः पूर्ववादी प्रकारान्तरेण प्रवेशनिर्वाहकमाशङ्कते –
कार्यान्तरमेव स्यादिति ।
तदेव विवृणोति –
तदेवेति ।
'तदेवानुप्राविशत्’ इत्यत्र नामरूपात्मना परिणतं ब्रह्म जीवात्मरूपं कार्यं सद्देहादिरूपं कार्यान्तरमेवापद्यत इत्ययमर्थो विवक्षितः, ‘स्थूलोऽहम्’ ‘कृशोऽहम्’ इत्यादिरूपेणाहंशब्दार्थस्य जीवस्य शरीराद्यभेदानुभवादनुभवानुसारेण श्रुत्यर्थवर्णनस्य न्याय्यत्वात् , तथा च ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति सिद्धमिति भावः ।
सिद्धान्ती निराकरोति –
न, विरोधादिति ।
कार्यान्तरस्य कार्यान्तरस्य कार्यान्तरतापत्तेर्विरुद्धत्वादित्यर्थः ।
अत्रोदाहरणमाह –
नहीति ।
जीवस्य देहादिभावो वास्तव इति पक्षे विरोधान्तरमाह –
व्यतिरेकेति ।
जीवस्यावस्थात्रये बाल्यादिषु चानुवृत्तिरवस्थात्रयस्य बाल्यादीनां च व्यावृत्तिश्चानुभवसिद्धा ; तथा चानुवृत्तिव्यावृत्तिलक्षणाभ्यामन्वयव्यतिरेकाभ्यामेव जीवस्य देहादिभ्यः सकाशाद्यो व्यतिरेकः सिद्धः तदुपोद्बलकतया तं व्यतिरेकमनुवदन्त्यः ‘योऽयं विज्ञानमयः’ इत्याद्याः श्रुतयो विरुध्येरन्नित्यर्थः । अत एव ‘स्थूलोऽहम्’ इत्यादिप्रतीतेरप्रमात्वान्न तदनुसारेण प्रवेशवाक्यार्थकल्पनं युज्यत इति भावः ।
जीवस्य देहादिभावो वास्तव इत्यत्रैव बाधकान्तरमाह –
तदापत्ताविति ।
जीवस्य देहादिलक्षणकार्यान्तरतापत्तावित्यर्थः ।
असम्भवमेव विवृणोति –
न हीति ।
यत इति ।
देहादिलक्षणाद्बन्धादित्यर्थः ।
दृष्टान्तमाह –
न हीति ।
यथा शृङ्खलया बद्धस्य चोरादेर्या शृङ्खलापत्तिर्विद्यते सैव तस्करादेर्न हि मोक्षो भवति तद्वदित्यर्थः ।
ननु यदि जीवस्य देहादिभावापत्तौ व्यतिरेकश्रुतिविरोधः प्रसज्येत तर्हि तदविरुद्ध एव प्रवेशोऽस्त्विति पूर्ववादी प्रत्यवतिष्ठते –
बाह्यान्तर्भेदेनेति ।
एतदेव प्रपञ्चयति –
तदेवेति ।
प्रकृतमाकाशादिकारणं ब्रह्मैव प्रथमं जीवं प्रत्याधारभूतदेहाद्याकारेण परिणमते पश्चाद्देहादावाधारे तदाधेयजीवरूपेण च परिणमते ; तथा च ब्रह्मणो देहाद्याकारेण परिणतिः सृष्टिः जीवरूपेण परिणतिः प्रवेश इति सृष्टिप्रवेशक्रिययोर्भेदः समानकर्तृकत्वं च सिध्यति, ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति स्वाभिमतार्थोऽपि सिध्यतीत्यर्थः ।
येयं शरीराद्यन्तर्जीवात्मना परिणतिः सा किं ब्रह्मणो मुख्यप्रवेशत्वेन त्वदभिमता किं वौपचारिकप्रवेशत्वेन ? नाद्य इत्याह –
न ; बहिष्ठेत्यादिना ।
न द्वितीयः, ब्रह्मणः परिणामित्वस्यासम्भवात् । एतच्च ब्रह्मणः परिणामित्वनिराकरणं स्मृतिपादे विस्तरेण कृतमित्याशयेनात्राचार्यैर्न कृतम् । सूचितं चात्रपि सङ्ग्रहेण प्राक् ‘नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते’ इत्यत्र । तस्मादन्येनात्मना ब्रह्मणः प्रवेश इति पूर्ववादिमतमनुपपन्नमेवेति स्थितम् ।
इत्थं पूर्ववादिनं निराकृत्य सिद्धान्ती स्वैकदेशिनमप्युत्थाप्य निराकरोति –
जलसूर्येत्यादिना ।
यथा सूर्यादेर्जलादौ प्रतिबिम्बभावलक्षणः प्रवेशोऽस्ति, तथा बुद्ध्यादौ ब्रह्मणः प्रतिबिम्बभाव एव प्रवेशपदार्थः ‘यथा ह्ययं ज्योतिरात्मा विवस्वान्’ इत्यादिश्रुतिषु ‘आभास एव च’ इत्यादिसूत्रेषु च ब्रह्मणः प्रतिबिम्बभावस्य प्रसिद्धत्वेन तस्यैव प्रवेशपदार्थत्वकल्पने बाधकाभावादित्याशयः ।
अपरिच्छिन्नत्वादिति ।
व्यापकत्वादित्यर्थः ।
अमूर्तत्वाच्चेति ।
मूर्तिरवयवसंस्थानविशेषः, तद्रहितत्वात् , निरवयवद्रव्यत्वादिति यावत् ।
व्यापकत्वे हेतुं पूर्ववाक्येनाह –
आकाशादीति ।
ननु निरवयवत्वव्यापकत्वादिना प्रसिद्धस्य गगनस्य मेघालोकाद्यवच्छेदेन जलादौ प्रतिबिम्बोदयदर्शनादात्मनोऽपि तथा किं न स्यादित्याशङ्क्याह –
तद्विप्रकृष्टेति ।
लोके बिम्बसूर्याद्यपेक्षया विप्रकृष्टदेशवद्रूपवच्च प्रतिबिम्बबोदययोग्यं जलादिकं यथास्ति, न तथा ब्रह्मणः प्रतिबिम्बाधारवस्त्वस्ति, बुद्ध्यादेर्व्यापकात्मापेक्षया विप्रकृष्टदेशत्वाभावात् उद्भूतरूपरहितत्वाच्चेत्यर्थः । अत एव पूर्वोदाहृतश्रुतिसूत्राणामनयैव रीत्या प्रतिबिम्बभावपरत्वं निरस्यार्थान्तरे तात्पर्यम् ‘वृद्धिह्रासभाक्त्वम्’ इति सूत्रतद्भाष्ययोर्महता प्रपञ्चेन प्रतिपादितमिति न तद्विरोध इति भावः ।
प्रतिबिम्बभावलक्षणस्य प्रवेशस्य निराकरणे प्रवेशवाक्यं निर्विषयं स्यादिति सिद्धान्त्येकदेश्याह –
एवं तर्हीति ।
प्रकारान्तरेण प्रवेशवाक्यस्य विषयमाशङ्क्य प्रकारान्तराणां निरस्तत्वादित्याशयेनाह –
न चेति ।
प्रवेशवाक्यस्य निर्विषयत्वमयुक्तं श्रुतिवाक्यत्वादित्याह –
तदेवेति ।
प्रवेशादेरतीन्द्रियत्वेन तत्राज्ञाते श्रुतिप्रामाण्यस्यावाभ्यां स्वीकृतत्वाच्चेत्याह –
श्रुतिश्चेति ।
तर्ह्यस्तु प्रवेशवाक्यादतीन्द्रियार्थबोध इत्याशङ्क्याह –
न चास्मादिति ।
प्रतिबिम्बभावानुपगमे सत्येतद्वाक्यार्थबोधे यत्नवतामप्यस्माकमस्माद्वाक्यादर्थज्ञानं न चोत्पद्यते, तस्मात्प्रतिबिम्बभावनिराकरणे प्रवेशवाक्यं निर्विषयं स्यादित्यर्थः ।
एवमेकदेशिना प्रवेशवाक्यस्य निर्विषयत्वापादने कृते तच्छ्रुत्वा तटस्थ आह –
हन्त तर्हीति ।
इदानीं सिद्धान्ती प्रवेशवाक्यस्य निर्विषयत्वादिकमपाकरोति –
न, अन्यार्थत्वादिति ।
प्राङ् निराकृतेभ्योऽर्थेभ्यः सकाशादन्यस्य प्रकरणाविरुद्धस्य प्रकरणापेक्षितस्य चार्थस्य सत्त्वान्न वाक्यस्य निर्विषयत्वप्रसङ्गो न वापोह्यतेत्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
किमर्थमिति ।
वाक्यस्य निर्विषयत्वाद्यापादनमस्थाने न युक्तम् , अत इदं किमर्थं क्रियत इत्यर्थः ।
निर्विषयत्वाद्यापादनस्यायुक्तत्वे हेतुमाह –
प्रकृतो हीति ।
हि-शब्दो हेत्वर्थः । प्रकृतस्यात्र स्मर्तुं योग्यस्यार्थान्तरस्य सत्त्वादित्यर्थः ।
कोऽसौ प्रकृतोऽर्थ इत्याकाङ्क्षायां तं दर्शयति –
ब्रह्मविदिति ।
'ब्रह्मविदाप्नोति...’ इति सूत्रे ‘सत्यं ज्ञानम्...’ इति मन्त्रे च तस्य ब्रह्मणः प्रत्यक्त्वेन विज्ञानं प्रकृतम् , न केवलं प्रकृतं विवक्षितं च तत् । ‘अहं ब्रह्म’ इति ज्ञानस्यैव परप्राप्तिसाधनत्वादित्यर्थः ।
एवं सूत्रमन्त्रयोः प्रकृतस्य ब्रह्मावगमस्य प्रवेशवाक्यपर्यन्तमनुवृत्तिमाह –
ब्रह्मस्वरूपेत्यादिना ।
ब्रह्मावगमश्चेति ।
'आत्मन आकाशः सम्भूतः’ इत्यादिवाक्ये यतो ब्रह्मस्वरूपावगमायैव शरीरान्तं कार्यं प्रदर्शितम् अतस्तद्वाक्येऽपि ब्रह्मावगम आरब्धोऽनुवृत्त इत्यर्थः ।
एवं सृष्टिवाक्येऽनुवृत्तस्य च तस्य विज्ञानमयवाक्येऽनुवृत्तिमाह –
तत्रान्नमयादिति ।
कोशवाक्येषु मध्य इति तत्रशब्दार्थः । स्थूलसूक्ष्मक्रमेण कोशानामान्तरत्वोपदेशस्य सर्वान्तरब्रह्मप्रतिपत्तिशेषत्वाद्विज्ञानशब्दलक्षितायां बुद्धिगुहायां ब्रह्मावगमस्यानुवृत्तिर्युक्ता । अत्र प्रवेशवाक्यपर्यन्तमनुवृत्तिकथनावसरे प्राणमये प्रवेशितो मनोमये प्रवेशित इत्यनुक्त्वा विज्ञानमयपर्याये प्रवेशित इत्युक्तेः कोऽभिप्राय इत्याकाङ्क्षायां तमभिप्रायं गुहाशब्दप्रयोगेण सूचयति । एतदुक्तं भवति - ‘यो वेद निहितं गुहायां परमे व्योमन्’ इत्यत्र हार्दाकाशनिष्ठा गुहा केत्याकाङ्क्षायां सा गुहा विज्ञानमयपर्याये बुद्धिरूपेण निरूप्यते, अतो बुद्धौ निहितत्वेन ब्रह्मणोऽवगमः सम्पादनीय इति गुहानिहितवाक्यतात्पर्यसूचनार्थं विज्ञानगुहायां प्रवेशित इत्युक्तिरिति ।
नन्वेवमानन्दमयस्य मुख्यात्मत्वं सिध्येत् ‘अन्योऽन्तर आत्मानन्दमयः’ इति वाक्येन तस्यैव बुद्धिगुहास्थत्वाभिधानादित्याशङ्क्याह –
तत्रेति ।
प्रियादिविशिष्ट एवात्मा तत्र प्रवेशितः न शुद्धचिद्धातुः विशिष्टश्चामुख्य आत्मेत्युक्तमित्यर्थः ।
कथं तर्हि बुद्धिगुहानिहितत्वेन शुद्धब्रह्मावगमसिद्धिरित्याशङ्क्याह –
ततः परमिति ।
आनन्दमयाधिगमानन्तरमित्यर्थः ।
नन्वानन्दयमाधिगमस्यानन्तर्योक्तिसिद्धविशुद्धब्रह्माधिगमोपायत्वं कथमित्यत आह –
आनन्दमयलिङ्गेति ।
आनन्दमय एव विशिष्टोऽर्थो विशेष्यस्य शुद्धचिद्धातोर्लिङ्गम् , विशिष्टस्य विशेष्याव्यभिचारित्वदर्शनात् ।
आनन्देति ।
आनन्दवृद्धेर्वक्ष्यमाणाया अवसानः अवधिभूतः, निरतिशयानन्दरूप इत्यर्थः ।
प्रतिष्ठाशब्दार्थमाह –
सर्वविकल्पेति ।
सर्वकल्पनाधिष्ठानत्वादेव वस्तुतो निर्विशेषत्वमाह – –
निर्विकल्प इति ।
तथा च आनन्दमयरूपलिङ्गाधिगमद्वारेणानन्दवृद्ध्यवसानभूत आत्मा यथोक्तोऽस्यामेवानन्दमयगुहायामेवाधिगन्तव्य इत्यभिप्रेत्य बुद्धौ द्रष्टृत्वादिरूपेणोपलब्धिरेव तस्य ब्रह्मणः प्रवेशत्वेन प्रवेशवाक्ये कल्प्यते गौण्या वृत्त्योपचर्यत इत्यर्थः । तथा च वक्ष्यति – तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते तदेव तस्य प्रवेश इति ।
बुद्धावेव प्रवेशकल्पने हेतुमाह –
न ह्यन्यत्रेति ।
बुद्धेः सकाशादन्यत्र ब्रह्मचैतन्यस्यानुपलम्भादित्यर्थः ।
तत्र हेतुमाह –
निर्विशेषत्वादिति ।
व्यञ्जकपदार्थरूपो यो विशेषस्तत्सम्बन्धरहितत्वादित्यर्थः ।
बुद्धिसम्बन्धस्य ब्रह्मोपलब्धिहेतुत्वं सदृष्टान्तमाह –
विशेषसम्बन्धो हीति ।
व्यञ्जकपदार्थो विशेषपदस्यार्थः ।
ननु बुद्धावेव ब्रह्मचैतन्यस्योपलब्धिरिति न नियमः, घटः स्फुरति पटः स्फुरतीत्यादिप्रकारेण बुद्धेरन्यत्रापि तस्योपलब्धिदर्शनादित्याशङ्क्याह –
संनिकर्षादिति ।
वृत्तिद्वारा बुद्धिसम्बन्धादेव तत्राप्युपलब्धिरित्यर्थः ।
बुद्धेश्चैतन्यव्यञ्जकत्वे युक्तिमाह –
अवभासात्मकत्वाच्चेति ।
प्रकाशात्मकत्वादित्यर्थः । अन्तःकरणस्य प्रकाशात्मकत्वमालोकादेरिव स्वाभाविकमेव, न तु तप्तायःपिण्डादेरिवान्यकृतमिति सूचनार्थश्चकारः ।
बुद्धिवृत्तेर्घटादिषु चैतन्यव्यञ्जकत्वं सदृष्टान्तमाह –
यथा चेति ।
आदिपदं नीलपीतादिसङ्ग्रहार्थम् । यथा नीलपीताद्युपलब्धिरालोकसम्बन्धकृता तथा विषयेष्वात्मनः स्फुरणरूपेणोपलब्धिरन्तःकरणवृत्तिलक्षणालोकसम्बन्धप्रयुक्तेत्यर्थः ।
एवमन्वयव्यतिरेकाभ्यां बुद्धेरेव ब्रह्मोपलब्धिसाधनत्वमिति प्रसाध्य प्रकृतमुपसंहरति –
तस्मादिति ।
मन्त्रे यद्गुहायां निहितमिति गुहानिहितत्वं प्रकृतं तदेव प्राविशदित्यनेन पुनरुच्यत इत्यर्थः ।
तर्हि पौनरुक्त्यं स्यादिति शङ्कां वारयति –
वृत्तिस्थानीय इति ।
वृत्तिर्व्याख्या । तथा च व्याख्यानव्याख्येयभावापन्नयोर्गुहानिहितप्रवेशवाक्ययोर्न पौनरुक्त्यदोष इति भावः ॥
इदानीं प्रवेशशब्दार्थं कथयति –
तदेवेदमित्यादिना ।
यदाकाशादिकारणं प्रकृतं तदेव ब्रह्म इदं प्रत्यक्षादिसंनिधापितं कार्यं सृष्ट्वेत्यर्थः ।
अनुप्रविष्टमिवेति ।
गुहादावनुप्रविष्टं देवदत्तादिवस्तु यथा तदन्तरुपलभ्यते तथा ब्रह्मापि बुद्धेरन्तरुपलभ्यते, तथा चान्तरुपलभ्यमानत्वसाम्यात्प्रवेशशब्दो गौण इत्यर्थः । द्रष्टृत्वादिरूपेणोपलब्धिलक्षणे विवक्षिते प्रवेशे बुद्ध्युपहितचैतन्यरूपस्य जीवस्यैव कर्तृत्वेऽपि जीवब्रह्मणोर्वास्तवैक्यमादाय सृष्टिप्रवेशक्रिययोः समानकर्तृत्वसत्त्वात् यः स्रष्टा स एवानुप्राविशत् क्त्वाप्रत्ययश्रवणादिति सिद्धान्तो निष्प्रत्यूह इति भावः ।
एवमक्षराणि व्याख्याय प्रवेशवाक्यस्यापि ब्रह्मसत्त्वसाधने उपयोगं कथयति –
तस्मादस्तीति ।
तत्प्रकृतमाकाशादिकारणं ब्रह्म अस्ति नास्तीति न, प्रवेष्टृत्वात् असतः प्रवेशादर्शनादित्यर्थः ।
ब्रह्मणो नास्तित्वाभावे फलितमाह –
अत इति ।
पृथिव्यादिभूतत्रयं मूर्तमवशिष्टं भूतद्वयममूर्तमिति विभागो बोध्यः ।
ब्रह्मैव मूर्तामूर्ते अभवदित्यनेन तयोर्ब्रह्मतादात्म्यमुच्यते, तत्रोपपत्तिमाह –
मूर्तामूर्ते हीति ।
प्रागुत्पत्तेरव्याकृतनामरूपतयात्मनि स्थिते मूर्तामूर्ते एव सर्गादौ स्वान्तर्गतेन परमात्मना व्याक्रियेते इत्यर्थः । तयोरव्याकृतनामरूपतया प्रागवस्थाने ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।
ततः किम् ? अत आह –
व्याकृते चेति ।
आत्मना त्विति ।
परमात्मना अविभक्तदेशकाले परमात्मना तादात्म्यापन्ने एव, प्रागुत्पत्तेरात्मनोऽद्वितीयत्वश्रवणादिति भावः । एतदुक्तं भवति - मूर्तामूर्तयोरव्याकृतयोरात्मतादात्म्यात्तयोरेव व्याकृतयोरपि तत्तादात्म्यमुपपद्यत एवेति कृत्वा तत्कारणभूत आत्मा ते मूर्तामूर्ते अभवदिति श्रुत्योच्यत इति ।
इदं तदित्युक्तमिति ।
यत्त्वया पृष्टं तदिदमिति निर्दिष्टमित्यर्थः । इहेदानीमयं विष्णुमित्र इत्यादिप्रकारेण निरूपितं वस्त्वित्यर्थः ।
विशेषणे इति ।
निरुक्तं मूर्तस्यैवाभेदेन विशेषणम् अनिरुक्तममूर्तस्यैवाभेदेन विशेषणमिति विभागः ।
यथेति ।
यथा सच्छब्दवाच्यं प्रत्यक्षं भूतत्रयं मूर्तस्याभेदेन विशेषणं त्यच्छब्दवाच्यं च परोक्षं भूतद्वयममूर्तस्याभेदेन विशेषणं तथा निरुक्तानिरुक्ते अपीत्यर्थः ।
तथेति ।
निलयनं च तथा निरुक्तवन्मूर्तस्यैव धर्म इति सम्बन्धः ।
धर्म इति ।
तथा च सन्निरुक्तनिलयनानि मूर्तधर्माः, त्यदनिरुक्तानिलयनान्यमूर्तधर्मा इति विभागः कृत इति बोध्यम् ।
ननु त्यदादीनाममूर्तधर्मत्वे सति ब्रह्मधर्मत्वं प्रसज्येत ब्रह्मणोऽप्यमूर्तत्वादिति, नेत्याह –
त्यदनिरुक्तेति ।
व्याकृतेति ।
व्याकृतं कार्यम् , तद्विशेषणान्येव न कारणब्रह्मविशेषणानि, तेषां तद्विशेषणत्वे सर्गात्प्रागपि सत्त्वापत्त्या तदुत्तरकालभावित्वश्रवणविरोधादित्यर्थः ।
व्याकृतविषयत्वमेव विवृणोति –
त्यदितीत्यादिना ।
प्राणो वायुः, आकाशसङ्ग्रहार्थमादिपदम् ।
अत इति ।
त्यदनिरुक्तानिलयनशब्दैरभिहितस्य प्राणादेः कार्यत्वादेतान्यमूर्तस्य विशेषणानि व्याकृतविषयाण्येवेति योजना ।
सत्यं चेति ।
'सत्यं चानृतं च’ इत्यत्र सत्यशब्देन व्यावहारिकसत्यमेवोच्यते ।
न तु परमार्थसत्यमित्यत्र हेतुः –
अधिकारादिति ।
सच्च त्यच्चेत्यादीनां व्यवहारविषयाणामेव विकाराणां प्रकरणादित्यर्थः । किं च ‘सत्यं च’ इत्यत्र परमार्थसत्यग्रहणे परमार्थद्वयं प्रसज्येत, ‘सत्यमभवत्’ इत्यत्रापि परमार्थसत्यस्य गृहीतत्वात् ।
भवत्विति चेत् , तत्राह –
एकमेव हीति ।
परमार्थसत्यस्याद्वितीयत्वं श्रुतिस्मृतिन्यायसहस्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः, अतो न परमार्थद्वये इष्टापत्तिरिति भावः ।
ननु व्यवहारविषयाकाशादिप्रपञ्चस्य कल्पितत्वात्कथं तत्र सत्यशब्दप्रवृत्तिरिति शङ्कां निराकुर्वन्सत्यं च व्यवहारविषयमित्युक्तं विवृणोति –
इह पुनरिति ।
'सत्यं चानृतं च’ इत्यत्रेत्यर्थः । आपेक्षिकं सत्यमुच्यत इति सम्बन्धः ।
किमपेक्षयोदकादिलक्षणस्य सत्यस्यापेक्षिकत्वमित्याकाङ्क्षायामाह –
मृगतृष्णिकादीति ।
'सत्यं चानृतं च’ इत्यत्र व्यावहारिकं वस्तु सत्यशब्दार्थः प्रातिभासिकं वस्त्वनृतशब्दार्थ इति निष्कर्षः ।
किं पुनरिति ।
एतत्प्रत्कृतं निरुक्तादिकं सर्वं किमिति प्रश्ने सत्यमभवदिति प्रतिवचनम् ।
तत्र सत्यं विशिनष्टि –
परमार्थेति ।
इदं च विशेषणं सत्यं चेत्यत्र गृहीतसत्यव्यावृत्त्यर्थमिति प्रागेव व्यक्तम् ।
परमार्थसत्यस्वरूपं प्रश्नपूर्वकं विशिष्य दर्शयति –
किं पुनस्तदित्यादिना ।
यत्सत्यादिशब्दैरुपात्तं यच्चेदं किं चाविशेषितं विशिष्यानुपात्तं तत्सर्वं परमार्थसत्यमभवदिति रीत्या श्रुतौ ‘यदिदं किं च’ इति वाक्यस्य पूर्वेणैकवाक्यता बोध्या ।
इमामेवैकवाक्यतां प्रदर्शयन् ‘तत्सत्यमित्याचक्षते’ इत्यस्योपपत्तिमाह –
यस्मादित्यादिना ।
पूर्वग्रन्थस्य विवक्षितमर्थं दर्शयितुं तत्र वृत्तमनुवदति –
अस्तीत्यादिना ।
इदानीं तत्र विवक्षितं कथयति –
तस्मादिति ।
श्रुत्या ब्रह्मण्यसत्त्वाशङ्कानिराकरणपूर्वकं सत्त्वप्रतिपादनायैव तस्य भोक्तृभोग्यात्मनावस्थानप्रतिपादनादित्यर्थः । अस्य हेतोरस्तीति विजानीयादित्यनेन सम्बन्धः ।
तदेवेति ।
ब्रह्मैवेत्यर्थः ।
इदंशब्दार्थमेवाह –
कार्यस्थमिति ।
कार्यकरणसङ्घाते साक्षितया स्थितमित्यर्थः ।
बुद्धौ विशिष्य तस्योपलब्धिमभिप्रेत्याह –
परम इत्यादिना ।
व्योम्नि या गुहा तस्यामिति सप्तम्योर्वैयधिकरण्यम् । हार्दमेवाकाशं परमं व्योमेति च प्रागेव दर्शितम् ।
मुख्यस्य निधानस्यासम्भवं मनसि निधाय हृदयगुहायां निहितमित्यस्यार्थमाह –
तत्प्रत्ययेति ।
तस्मिन्हृदयगुहाशब्दिते प्रत्यये साक्षिणा प्रतीयमानेऽन्तःकरणे योऽयमात्मचैतन्यस्यावभासमानो विशेषः ‘पश्यन् शृण्वन्’ इत्यादिभाष्येण प्रदर्शितो द्रष्टृत्वादिरूपभेदस्तेन रूपभेदेनोपलभ्यमानं प्रकाशमानं ब्रह्मेत्यर्थः ।
ननु ‘असद्वा इदम् - - ’ इति श्लोको न सर्वान्तरात्मास्तित्वप्रतिपादकः तदस्तित्ववाचिपदाभावात् , प्रत्युत आकाशादिकारणे वस्तुन्यसच्छब्दश्रवणेन तदसत्त्वस्यैव प्रतीतेश्चेत्याशङ्क्य विशिनष्टि –
कार्यद्वारेणेति ।
असतः कार्यकारणत्वासम्भवादसच्छब्दनिर्दिष्टस्यापि कारणस्य सत्त्वं सिध्यतीत्याशयः ॥