वनमालाव्याख्या
ब्रह्मानन्दवल्ली: प्रथमोऽनुवाकः (३)
असदिति पदेनाव्याकृतं ब्रह्मोच्यत इति सम्बन्धः । तत्रासच्छब्दप्रयोगे हेतुमाह –
व्याकृतेति ।
व्याकृतौ व्यक्तीकृतौ नामरूपात्मकौ विशेषौ यस्य जगतस्तस्मिन्सच्छब्दस्य प्रसिद्धत्वात्तद्विपरीते कारणे ब्रह्मण्यसच्छब्दप्रयोग इत्यर्थः ।
नन्वसत्पदस्य शून्यवाचित्वमेव किं न स्यात् ? तत्राह –
न पुनरिति ।
तत्र हेतुः –
न हीति ।
हि यस्मादसतः सकाशात्सतः कार्यस्य जन्म लोके नास्ति तस्मादत्र सज्जन्महेतुत्वेन श्रूयमाणमसदत्यन्तासन्न भवतीत्यर्थः ।
इदमिति पदस्यार्थमाह –
नामरूपेति ।
तत इति ।
कारणादित्यर्थः ।
स्वयमिति ।
स्वयमन्यानधिष्ठितं सदात्मानमेव जगदात्मना कृतवदित्यर्थः ।
यस्मादेवमिति ।
यस्माद्ब्रह्म स्वयमेव कृतवदित्यर्थः । सूपसर्गस्य शोभनवाचिनः स्वयंशब्दनिर्दिष्टमपरतन्त्रत्वलक्षणं शोभनमर्थः । कर्मार्थकस्यापि क्तप्रत्ययस्य च्छान्दस्या प्रक्रियया कर्तृत्ववाचित्वस्वीकारात्कृतमित्यस्य कर्त्रर्थः । तथा च तस्मादिति हेतुवचनानुसारेण स्वयं कर्तृत्ववेषेण ब्रह्मैव सुकृतमित्युच्यत इत्यर्थः ।
ननु ब्रह्मण एव स्वयं कर्तृत्वात्सुकृतशब्दवाच्यत्वमित्ययुक्तं ब्रह्मान्यस्यापि कस्यचित्स्वयं कर्तृत्वसम्भवादित्याशङ्क्याह –
स्वयमिति ।
लोकशब्दिते शास्त्रे समस्तजगत्कारणत्वाद्ब्रह्मैव स्वयमन्यानधिष्ठिततया जगत्कर्त्रिति प्रसिद्धं नान्यत् , अतो नातिप्रसङ्ग इति भावः ।
'तदात्मानं स्वयमकुरुत’ ‘तस्मात्तत्सुकृतमुच्यते’ इति वाक्यद्वयं पुनरपि योजयन्प्रकारान्तरेण ब्रह्मणः सुकृतशब्दवाच्यत्वमाह –
यस्माद्वेति ।
यद्वा ब्रह्म स्वयमात्मानमेव सर्वं जगदकरोत् यस्मादात्मानमेव सर्वजगदात्मनाकरोत्तस्मात्तदेव कारणं ब्रह्म पुण्यरूपेणाप्यवस्थितं सत्सुकृतमुच्यत इति योजना ।
'असद्वा इदमग्र आसीत्’ इति प्रकृतश्लोके ‘तस्मात्तत्सुकृतमुच्यते’ इति भागस्य ब्रह्मणः सुकृतशब्दवाच्यत्वसाधने न तात्पर्यं वैफल्यात् , किं तु ब्रह्मास्तित्वसाधन एव तात्पर्यं तत्परतयैवास्य श्लोकस्यावतारितत्वादित्याशयेन सुकृतशब्दवाच्येऽनास्थां प्रदर्शयन्ब्रह्मास्तित्वसाधने उपयोगं सुकृतवाक्यस्य दर्शयति –
सर्वथापि त्वित्यादिना ।
यदि प्रसिद्धिबलात्पुण्यं सुकृतशब्दवाच्यं यदि वास्मदुक्तरीत्या ब्रह्म उभयथापि सुकृतशब्दवाच्यं स्वर्गादिफलसम्बन्धादिकारणं लोकशब्दिते शास्त्रे प्रसिद्धमित्यर्थः । तत्र पुण्यस्य फलसम्बन्धतत्साधनदिव्यदेहादिसम्बन्धकारणत्वं कर्मकाण्डे प्रसिद्धम् , स्वयं कर्तृतया सुकृतशब्दवाच्यस्य ब्रह्मणोऽपि फलसम्बन्धादिकारणत्वम् ‘श्रुतत्वाच्च’ इति सूत्रोदाहृतश्रुतिप्रसिद्धमिति विभागः । फलदातृत्वस्य श्रुतिसिद्धत्वादुपपत्तेश्च ब्रह्मैव फलदातृ, न कर्म आशुतरविनाशित्वादिति सूत्रार्थः ।
ततः किम् ? अत आह –
सा प्रसिद्धिरिति ।
सुकृतशब्दवाच्यपुण्यस्य सा फलसम्बन्धादिकारणत्वप्रसिद्धिः आशुतरविनाशिनो जडस्य पुण्यकर्मणः स्वतः फलदातृत्वायोगान्नित्ये सर्वज्ञे ब्रह्मणि सत्येवोपपद्यत इत्यर्थः । ब्रह्मणः सुकृतशब्दवाच्यत्वपक्षे तु सा ब्रह्मणि फलसम्बन्धादिकारणत्वप्रसिद्धिस्तस्यासत्त्वे नोपपद्यत इति बहिरेव द्रष्टव्यम् ।
उपसंहरति –
तस्मादिति ।
सुकृतस्य फलसम्बन्धादिकारणत्वप्रसिद्धेरित्यर्थः ।
रसत्वादिति ।
आनन्दत्वादिति यावत् । यत्सुकृतशब्दवाच्यत्वेन प्रसिद्धं ब्रह्म तदेव रसः । विधेयापेक्षया पुंलिङ्गनिर्देशः ।
रसशब्दो ब्रह्मानन्दे गौण इति मत्वा गुणज्ञानाय मुख्यार्थमाह –
रसो नामेति ।
तृप्तिपदं तुष्टिपरम् । एवं ब्रह्मानन्दोऽपि सत्त्वप्रधानेऽन्तःकरणेऽभिव्यक्तः सन्प्राणिनामानन्दकर इति प्रागभिहितम् । तथा चानन्दकरत्वसाम्याद्रसशब्दो ब्रह्मानन्दे गौण इति भावः ।
रसमिवायमिति ।
अयं लोकः प्रसिद्धरससदृशमात्मानन्दं वृत्तिद्वारा लब्ध्वेत्यर्थः ।
सुखी भवतीति ।
तथा चानन्दकरत्वादानन्दरूपं ब्रह्मास्तीति भावः ।
ननु ब्रह्मणः सत्त्वाभावेऽप्यानन्दहेतुत्वमस्तु ; नेत्याह –
नासत इति ।
ननु विषयाणामेवानन्दहेतुत्वं न ब्रह्मानन्दस्येत्याशङ्क्य विषयशून्यानामप्यानन्ददर्शनान्मैवमित्याह –
बाह्येति ।
बाह्यत्वं साधनविशेषणम् । निरीहाः समस्तकरणचेष्टावर्जिताः, समाधिनिष्ठा इति यावत् । निरेषणाः नीरागाः विद्वांसः, साक्षात्कृतब्रह्मतत्त्वा इति यावत् ।
तेषामानन्दकारणं ब्रह्मैवेति निश्चीयत इत्याह –
नूनमिति ।
एवं विषयाभावेऽप्यानन्ददर्शनाद्विषयानुसन्धानस्थलेऽपि विषयाणां वृत्तिविशेषद्वारा स्वरूपानन्दव्यञ्जकत्वमेव, नाविद्यमानानन्दस्वरूपोत्पादकत्वमिति प्रागावेदितम् ; अतः सर्वप्राण्यानन्दहेतुत्वादस्ति तदानन्दकारणं ब्रह्मेत्युपसंहरति –
तस्मादिति ।
तेषामित्युपलक्षणम् , सर्वप्राणिनामित्यर्थः ।
इतश्चेति ।
वक्ष्यमाणहेतोरपि ब्रह्मास्ति ।
तमेव हेतुमाकाङ्क्षापूर्वकमाह –
कुत इत्यादिना ।
हेतुं साधयति –
अयमपि हीति ।
अपिशब्दोऽनुक्तसमुच्चयार्थः सन्नाधिदैविकादिपिण्डसङ्ग्रहार्थः । अध्यात्माधिभूताधिदैविकेषु पिण्डेषु प्राणनादिक्रिया प्रत्यक्षानुमानादिप्रसिद्धेति सूचनार्थो हि-शब्दः ।
मृतदेहं व्यावर्तयति –
जीवत इति ।
'को ह्येवान्यात्कः प्राण्यात्’ इति श्रुतौ प्राणापानग्रहणमुपलक्षणमित्याशयेनाह –
इत्येवमिति ।
संहतैरिति ।
यथा मृद्दारुतृणादीनि गृहप्रासादादिभावेन संहन्यन्ते तथा शरीरभावेन कार्यकरणानि संहन्यन्त इति भावः ।
ततः किमित्यत आह –
तच्चैकार्थेति ।
कार्यकरणानामेकस्य चेतनस्यार्थं प्रयोजनं प्रति साधनत्वेन मेलनमित्यर्थः ।
असंहतमिति ।
संहतकार्यकरणव्यतिरिक्तमित्यर्थः ।
अन्यत्रेति ।
गृहप्रासादादिषु स्वतन्त्रं चेतनं स्वामिनमन्तरेण संहननस्यादर्शनात्कार्यकरणसङ्घातेऽपि तद्विलक्षणः स्वामी चेतनोऽस्तीति निश्चीयते । स च चेतनः प्रतिशरीरं भेदेऽनन्यथासिद्धप्रमाणाभावात्सर्वात्मकं ब्रह्मैवेति तदस्तित्वसिद्धिरित्यर्थः ।
इतश्चेत्यादिना प्रसाधितेऽर्थे वाक्यमवतारयति –
तदाहेति ।
तत्कार्यकरणचेष्टाशेषित्वेन ब्रह्मणोऽस्तित्वमाह श्रुतिरित्यर्थः । ननु ‘आकाश आनन्दो न स्यात्’ इत्यत्राकाशानन्दपदयोः सामानाधिकरण्यमुचितम् , योगेन निरूढ्या वा आकाशपदस्य ब्रह्मण्यपि प्रयोगसम्भवात् , अत एव ‘आकाशस्तल्लिङ्गात्’ इत्यधिकरणे अत्रत्याकाशपदस्यानन्दत्वरूपब्रह्मासाधारणगुणश्रवणाद्ब्रह्मपरत्वमाचार्यैरेवे दर्शितम् ; तथापि गुहानिहितवाक्यानुसारात् रूढ्यनुसाराच्च वैयधिकरण्यमुक्तमिति मन्तव्यम् ।
न भवेदिति ।
सन्न स्यादित्यर्थः । अपानचेष्टां निःश्वासमिति यावत् ।
यदर्था इति ।
कार्यकरणानां प्राणनाद्युपलक्षिताः सर्वाश्चेष्टा यदर्थाः यस्यासंहतस्य चेतनस्य भोगार्थाः स चेतनोऽस्त्येव अन्यथा भोक्तुरभावेन कार्यकरणचेष्टानां वैयर्थ्यप्रसङ्गात् तस्य च चेतनस्य वस्तुगत्या ब्रह्मत्वादस्ति तद्ब्रह्मेत्युक्तम् ।
तत्कृत एव चेति ।
आत्मानन्दकृत एव लोकस्यानन्दश्चेत्यर्थः ।
ननु परस्यैवानन्दरूपत्वादानन्दहेतुत्वमयुक्तम् आनन्दभेदाभावादित्याशङ्क्याह –
स एवेति ।
अविद्ययेति ।
भ्रान्त्या नानात्वेनानुभूयत इत्यर्थः ।
'यदा ह्येवैषः’ इत्यादेस्तात्पर्यमाह –
भयाभयेति ।
नन्वसतः सकाशादेव भयनिवृत्तिरस्तु ; नेत्याह –
सद्वस्त्वाश्रयण इति ।
लोके श्रीरामादेः सत एव भयनिवृत्तिहेतुत्वप्रसिद्धेरसतः शशशृङ्गादेस्तदप्रसिद्धेश्च असद्ब्रह्माश्रयणाद्भयनिवृत्तिर्नोपपद्यत इत्यर्थः ।
ब्रह्मणो विद्वदभयहेतुत्वे मानं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।
विकार इति ।
अध्यस्तमिति यावत् ।
अविषयीभूत इति ।
सर्वदृश्यवर्जित इति यावत् ।
आत्म्यपदेनात्मीयं शरीरमुच्यत इत्याशयेनाह –
अशरीर इति ।
यस्माच्चेति ।
च-शब्दोऽवधारणार्थः । यस्माद्धेतोरनात्म्यं ब्रह्म तस्मादेव हेतोरनिरुक्तमपीत्यर्थः । अत्रात्म्यनिरुक्तनिलयनानां दृश्यविशेषत्वाद्दृश्यसामान्यनिषेधस्य ‘व्यापकनिवृत्त्या व्याप्यनिवृत्तिः’ इति न्यायेनात्म्यनिरुक्तनिलयननिषेधहेतुत्वमत्र विवक्षितमिति मन्तव्यम् ।
विशेषो हीति ।
स विशेषः पदार्थ इत्यर्थः । निरुच्यते समानासमानजातीयेभ्यो निष्कृष्योच्यत इत्यर्थः । घटादिरत्रोदाहरणम् ।
यत एवमिति ।
यतः अदृश्यत्वाद्धेतोरनिरुक्तं ब्रह्म तस्मादेव हेतोरनिलयनम् आधाररहितमित्यर्थः । यद्वा यथाश्रुतानुरोधेन पूर्वपूर्वनिषेधस्यैवोत्तरोत्तरनिषेधहेतुत्वं बोध्यम् ।
एवं व्याख्यातानि पदान्यनूद्य वाक्यार्थमाह –
तस्मिन्नेतस्मिन्नित्यादिना ।
सर्वकार्यपदं दृश्यमात्रोपलक्षणार्थम् , अन्यथा मूलाविद्यादिवैलक्षण्यसिद्ध्यभावप्रसङ्गादिति बोध्यम् ।
क्रियाविशेषणमिति ।
अभयं यथा भवति तथा विन्दत इति लाभक्रियाविशेषणमित्यर्थः ।
प्रतिष्ठाविशेषणं वेत्याह –
अभयामिति वेति ।
आत्मभावमिति ।
सर्वविशेषरहितं ब्रह्माहमिति साक्षात्काराभिव्यङ्ग्यमिति शेषः ।
अदर्शनादिति ।
वस्तुत इति शेषः । विदुषोऽपि बाधितद्वैतदर्शनाभ्युपगमादिति मन्तव्यम् ।
अभयप्राप्तिमेव विवृणोति –
स्वरूपप्रतिष्ठो हीति ।
यत्र यस्मिन्स्वरूपे स्थितो विद्वान्वस्तुतोऽन्यन्न पश्यति अन्यन्न शृणोति अन्यन्न विजानाति च, तादृशस्वरूपप्रितष्ठोऽसौ विद्वान् तदा विद्याकाले भवतीति मन्तव्यमित्यर्थः ; अद्वितीयं ब्रह्मैव तदा भवतीति यावत् । तत्र ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिश्रुतिप्रसिद्धिसूचनार्थो हि-शब्दः ।
ननु विदुषोऽन्यदर्शनाभावेऽपि कथं भयनिवृत्तिरित्यत आह –
अन्यस्य हीति ।
ननु स्वस्मादपि स्वस्य भयं किं न स्यादित्याशङ्क्याह –
नात्मन इति ।
तथा सति ‘द्वितीयाद्वै भयं भवति’ इति श्रुतिविरोधप्रसङ्गादनुभवविरोधप्रसङ्गाच्चेति भावः ।
अनात्मैवेति ।
स च विदुषो वस्तुतो नास्ति, अतः ‘अथ सोऽभयं गतो भवति’ इति वचनमुपपन्नमिति भावः ।
यदुक्तं विद्वदभयहेतुत्वादस्ति ब्रह्मेति तदनुभवेन साधयति –
सर्वत इति ।
ब्राह्मणा ब्रह्मविदः ।
भयहेतुष्विति ।
शरीरप्रतिकूलेषु सर्पव्याघ्रादिष्वित्यर्थः ।
उक्तमर्थं सङ्क्षिप्य प्रश्नपूर्वकमाह –
कदासावित्यादिना ।
तैमिरिकेति ।
यथा तैमिरिको दुष्टनेत्रः पुरुषो वस्तुत एकस्मिन्नेव चन्द्रे चन्द्रभेदं पश्यति तथा एकस्मिन्नेवात्मस्वरूपे ब्रह्मण्यविद्यया कल्पितं भेदरूपं वस्तु यदा पश्यतीत्यर्थः ।
अविद्याप्रत्युपस्थापितभेदवस्तुदर्शनमेवाक्षरव्याख्यानपूर्वकं विवृणोति –
उदित्यादिना ।
नन्वत्रान्तरशब्दितस्यात्मब्रह्मभेदस्यानादित्वादन्तरं कुरुत इत्यनुपपन्नमित्याशङ्क्याह –
भेददर्शनमिति ।
इतश्चान्तरपदं भेददर्शनपरमेव न भेदपरमित्याह –
भेददर्शनमेव हीति ।
अल्पमपीति ।
उपास्योपासकभावोपेतमपीत्यर्थः ।
आत्मन इति ।
भेदेन दृष्टादीश्वरादित्यर्थः ।
उक्तमर्थं सङ्क्षिप्याह –
तस्मादिति ।
स्वरूपभूतोऽपि परमात्मा तद्भेददर्शिनो भयकारणमित्युक्तं भवतीत्यर्थः ।
अस्मिन्नर्थे उत्तरवाक्यमवतार्य व्याचष्टे –
तदेतदाहेति ।
विद्वानपीति ।
य एकरूपमद्वितीयमात्मनस्तत्त्वं न पश्यति, सोऽयं विद्वानपि सकलवेदशास्त्रविदपि अविद्वानेव भयमध्यस्थत्वादित्यर्थः ।
नन्वविदुषः स्वस्येश्वराद्भेदं पश्यतोऽपि कथं भयसम्भावना ? तत्राह –
उच्छेदेति ।
उच्छेदो नाशपीडादिः, तत्कारणवस्तुज्ञानादुच्छेद्यत्वेनाभिमतस्य प्राणिवर्गस्य भयं भवतीत्यर्थः । तच्च सर्वोच्छेदहेतुभूतं वस्तु ब्रह्मैवेत्याशयः ।
कुत इत्यत आह –
अनुच्छेद्यं हीति ।
उच्छेदहेतोरप्युच्छेद्यत्वे तस्य तस्यान्य उच्छेदहेतुर्वक्तव्य इत्यनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यम् ; तच्च ब्रह्मणोऽन्यत्र न सम्भाव्यते, ‘अतोऽन्यदार्तम्’ इति श्रुत्या तदतिरिक्तस्य सर्वस्य नाशप्रतिपादनादिति भावः ।
एवं भेददर्शिनः प्राणिवर्गस्य भयकारणं ब्रह्मेति वदतो वाक्यसन्दर्भस्य ब्रह्मास्तित्वसाधने तात्पर्यमादौ सङ्गृहीतं प्रपञ्चयति –
तन्नासतीति ।
तस्मादुच्छेदहेतुदर्शनकार्यं भयं जगतो दृश्यमानं स्वयमनुच्छेद्यस्वभावे परेषामुच्छेदहेतावसति न युक्तमिति योजना ।
ननु तद्दर्शनकार्यं भयं जगतो नास्तीति वदन्तं प्रत्याह –
सर्वं चेति ।
अनुच्छेदात्मकमिति ।
नित्यमिति यावत् ।
यत इति ।
यतो जगद्बिभेति तद्भयकारणमस्ति नूनं निश्चय इत्यर्थः ॥
अस्मादिति ।
प्रकृताद्ब्रह्मण इत्यर्थः । अग्निश्चेन्द्रश्च स्वस्वकार्यमनुतिष्ठत इत्यर्थः ।
धावतीति ।
समाप्तायुषः प्रतीति शेषः । पञ्चमः पञ्चत्वसङ्ख्यापूरक इत्यर्थः ।
श्लोकस्य भयकारणब्रह्मास्तित्वे तात्पर्यं दर्शयति –
वातादयो हीति ।
महार्हा इति ।
पूज्यतमा इत्यर्थः । यदा वाय्वादीनामपि भयकारणं ब्रह्म तदान्येषां किमु वक्तव्यमित्याशयेन श्रुतौ वातादय उदाहृताः, तमाशयं प्रकटयितुं महार्हत्वादिविशेषणमिति मन्तव्यम् ।
ननु स्वयं दिगीश्वराणामपि तेषां नियता प्रवृत्तिः स्वत एवास्तु यथेश्वरस्य सृष्ट्यादौ नियता प्रवृत्तिरनन्यायत्ता तद्वदिति ; नेत्याह –
तद्युक्तमिति ।
बहूनां दिक्पालानां प्रायेण तुल्यैश्वर्याणां विरुद्धेषु कार्येषु प्रवर्तमानानां विनिगमनाविरहादिना लोकवदेव कलहप्रवृत्तेरावश्यकत्वान्नियतं तेषां प्रवर्तनमसत्यन्यस्मिन्नियन्तरि न युक्तमित्यर्थः ।
यत इति ।
यतस्ते वातादयो राज्ञो भृत्या इव बिभ्यति तत्तेषां नियन्तृ ब्रह्मास्तीति योजना ।
ननु सैषा ब्रह्मणो मीमांसा भवतीति वक्तव्यं तस्यैव भयादिहेतुत्वेन प्रकृतत्वात् नानन्दस्येत्याशङ्कां वारयन्मीमांसावाक्यमवतारयति –
यस्मादित्यादिना ।
आनन्दं ब्रह्मेति ।
'यदेष आकाश आनन्दो न स्यात्’ इति ब्रह्मण एवानन्दरूपत्वस्योक्तत्वान्नासङ्गतिरिति भावः ।
नन्वानन्दस्वरूपस्य दुःखादिस्वरूपवत्प्रसिद्धत्वादानन्दस्वरूपं न विचारणीयमिति मत्वा शङ्कते –
किमानन्दस्येति ।
ब्रह्मस्वरूपतया श्रुत आनन्दो विषयानन्दवज्जन्यो नित्यो वेति संशयनिवृत्त्यर्था मीमांसेत्याह –
उच्यत इति ।
स्रक्चन्दनादिर्विषयः, तदनुभविता पुरुषो विषयी, तयोः सम्बन्धेनेत्यर्थः ॥
ननु ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि मानुषाद्यानन्दोपन्यासः ? तत्राह –
तत्र लौकिक इति ।
बाह्यसाधनानि विषयाः, आध्यात्मिकानि साधनानि देहमधिकृत्य वर्तमानानि यौवनादीनि, तेषां द्विविधानां साधनानां सम्पत्तिर्मेलनं निमित्तं यस्यानन्दस्य स तथा । अत एवानन्दस्योत्कर्षो निर्दिश्यते ‘स एको मानुषः’ इत्यादिनेति शेषः ।
ब्रह्मानन्दानुगमार्थमिति ।
लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परिमाणवदित्यानन्दतारतम्यावधित्वेन निरतिशयस्वाभाविकानन्दरूपब्रह्मानन्दानुमानार्थं लौकिक आनन्दो निर्दिश्यत इत्यर्थः ।
अनुगममेव विशदयति –
अनेन हीति ।
ब्रह्मानन्दस्य विषयानुसन्धानविमुखविद्वद्बुद्धिविषयत्वाच्च न विषयविषयिसम्बन्धजनितत्वमित्याशयेनाह –
व्यावृत्तेति ।
व्यावृत्ता निवृत्ता विषया यस्या बुद्धेः सकाशात्सा तथा ।
प्रकारान्तरेण लौकिकानन्दानां ब्रह्मानन्दावगमोपायत्वमभिप्रेत्याह –
लौकिकोऽपीति ।
मात्रा अवयवः । लोकिकानन्दानां हिरण्यगर्भानन्दादर्वाक्तारतम्येन निकर्षः, मानुषानन्दादूर्ध्वं तारतम्येनोत्कर्ष इति व्यवस्था ।
तत्र लौकिकानन्दस्य ब्रह्मानन्दमात्रारूपत्वं प्रपञ्चयन्नादौ तत्र निकर्षप्रयोजकमाह –
अविद्ययेति ।
तिरस्क्रियमाणे विज्ञान इति ।
विवेके तारतम्येनाभिभूयमान इत्यर्थः ; तथा च विवेकाभिभव एको निकर्षप्रयोजक इति भावः ।
तत्र प्रयोजकान्तरं सूचयति –
उत्कृष्यमाणायां चेति ।
कामक्रोधादिलक्षणैः स्वकार्यविशेषैर्निबिडायामित्यर्थः ।
कर्मापकर्षतारतम्यमप्यपकर्षप्रयोजकमित्याशयेनाह –
कर्मवशादिति ।
यथाविज्ञानं विभाव्यमान इति सम्बन्धः ।
विषयापकर्षादिकमपि तत्र प्रयोजकमित्याशयेनाह –
विषयादीति ।
चलः क्षणिकः, अनवस्थितः अनेकरूपः, अपकर्षतारतम्योपेत इति यावत् । सम्पद्यते, ब्रह्मानन्दो लौकिकः सम्पद्यत इत्यर्थः । योऽयं ब्रह्मानन्दस्य विषयविशेषादिकृतवृत्त्युपहितो भागः एष एव मात्राशब्दितो लौकिकान्द इति भावः ।
स एवेति ।
व्यावृत्तविषयबुद्धिगम्य इत्यत्र अकामहतविद्वच्छ्रोत्रियप्रत्यक्षगम्यत्वेन प्रकृतो ब्रह्मानन्द एव मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु ब्रह्मण आनन्द इत्यन्तासु शतगुणोत्तरोत्कर्षेण विभाव्यत इति सम्बन्धः ।
उत्तरोत्तरमानन्दोत्कर्षे पूर्वोक्तानामविद्यादीनामपकर्षतारतम्यं प्रयोजकमाह –
अविद्याकामकर्मापकर्षेणेति ।
अकामहतेति ।
अकामहतविद्वच्छ्रोत्रियपदानां कर्मधारयः । ‘श्रोत्रियस्य चाकामहतस्य’ इत्यत्राकामहतत्वं सातिशयमिति वक्ष्यति, तद्वदत्रापीति शङ्कानिरासार्थं विद्वत्पदम् , तच्च ब्रह्मसाक्षात्कारवत्परमिति मन्तव्यम् ।
ब्रह्मण इत्यस्य विवरणम् –
हिरण्यगर्भस्येति ॥
मात्राभूतेन लौकिकानन्दजातेनावगन्तव्यं ब्रह्मानन्दं दर्शयति –
निरस्ते त्विति ।
साधनसम्पत्तिकृतवृत्तिविशेषोपहितस्वरूपानन्दो विषयः, तदनुभविता जीवो विषयी, तयोर्विभागो मूलाविद्याप्रयुक्तः ; तस्मिन्नविद्याकृते ब्रह्मात्मैक्यविद्यया निरस्ते सति य आनन्दः समाधावभिव्यज्यते स एव स्वाभाविकः पिरपूर्ण एकरूपो ब्रह्मानन्द इत्यवगतो भवतीत्यर्थः । एतदुक्तं भवति - यथोक्ताः सर्वे लौकिकानन्दा यस्य मात्राः समुद्राम्भस इव विप्रुषः, स स्वाभाविक आनन्दो विद्वत्प्रत्यक्षसिद्धोऽस्ति, स एव ब्रह्मानन्द इत्येवं मात्रारूपलौकिकानन्दैर्नित्यो ब्रह्मानन्दो विदितो भवतीति ।
एतमर्थमिति ।
अद्वैतानन्दावगमोपायभूतं लौकिकानन्दं विभावयिष्यन्प्रदर्शयिष्यन्नाह श्रुतिरित्यर्थः ।
प्रथमवया इति ।
पूर्ववया इत्यर्थः । साधुर्यथोक्तकारी ।
आशुतम इति ।
भोग्येषु वस्तुषु यथाकालमविलम्बेन प्रवृत्तिमानिति यावत् ।
दृढतम इति ।
युद्धादिषु प्रवृत्तौ मनोधैर्यवानित्यर्थः ।
बलवत्तम इति ।
कायिकबलातिशयविशेषवानित्यर्थः ।
'युवा स्यात्’ इत्यादेः पिण्डितार्थमाह –
एवमाध्यात्मिकेति ।
आत्मानं देहमधिकृत्य यानि साधनानि सम्भाव्यन्ते तैः सर्वैः सम्पन्न इत्यर्थः ।
वित्तस्य दृष्टार्थत्वमेव विवृणोति –
उपभोगेति ।
अदृष्टार्थत्वविवरणम् –
कर्मेति ।
मनुष्याः सन्त इति ।
अस्मिन्कल्पे मनुष्याः सन्त इत्यर्थः ।
तेषामानन्दोत्कर्षे हेतुमाह –
ते हीति ।
आकाशगमनादिशक्तिसङ्ग्रहार्थमादिग्रहणम् । उक्तशक्त्यादिसम्पत्तिः शास्त्रप्रसिद्धेति सूचनार्थो हि-शब्दः । कार्यकरणानां सूक्ष्मत्वं प्रायेण शीतोष्णादिद्वन्द्वाभिघातायोग्यत्वम् ।
तस्मादिति ।
सूक्ष्मकार्यकरणवत्त्वादित्यर्थः ।
द्वन्द्वेति ।
अल्पानां द्वन्द्वानां प्राप्तावपि तेषां प्रतिघाते निवारणे या शक्तिः या च स्रक्चन्दनादीनामानन्दसाधनानां सम्पत्तिः सा चास्तीत्यर्थः ।
फलितमाह –
अत इति ।
प्रसादो विक्षेपराहित्यम् , शुद्धिविशेष इति यावत् । मनुष्यगन्धर्वाणां स्वरूपं वार्तिके दर्शितम् - ‘सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः । नृत्तगीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः’ इति ।
देवगन्धर्वादीनामपि यथोक्तसामग्र्युत्कर्षतारतम्यकृतचित्तप्रसादविशेष आनन्दोत्कर्षतारतम्यप्रयोजक इत्यतिदिशति –
एवमिति ।
भूमिः पदम् , देवगन्धर्वत्वाद्यवस्थेति यावत् ।
'स एको मानुष आनन्दः’ इत्यत्र प्रथमपर्याये ‘श्रोत्रियस्य चाकामहतस्य’ इति कुतो न पठ्यते ? तत्राह –
प्रथममिति ।
मनुष्येति ।
मनुष्यस्य सार्वभौमस्य यो विषयभोगः विषयानन्दः तद्गोचरकामरहितस्य मनुष्यगन्धर्वानन्दप्राप्तिसाधनंसपत्तिं विनैव तमानन्दमत्रैव लोके कामयमानस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणितेन मनुष्यगन्धर्वानन्देन तुल्यः सन्नानन्दो भवतीति वक्तव्यमित्येतदर्थमित्यर्थः । मानुषानन्दे कामाभावप्रयोजकविवेकोपयोगित्वेन मनुष्यगन्धर्वानन्दे कामोपयोगिगुणदर्शनोपयोगित्वेन च साङ्गाध्ययनवत्त्वरूपं श्रोत्रियत्वमुपात्तमिति मन्तव्यम् । ननु मनुष्यगन्धर्वस्य नृत्तगीतादिसामग्रीविशेषमहिम्ना यो हर्षविशेषो भवति स कथमत्रैवाकामहतश्रोत्रियस्य भवेदिति चेत् , अत्राहुः - मा भूदयं हर्षविशेषः तस्य क्षणिकस्य मुख्यानन्दत्वाभावात् , कस्तर्हि तस्य मुख्यानन्दः ? उच्यते - मनुष्यगन्धर्वस्य स्वोचितविषयप्राप्त्या तदिच्छायां शान्तायां नृत्तगीतादिजनितहर्षविशेषेषु च शान्तेषु या तृप्तिरनुगच्छति सैव मुख्य आनन्दः, तथा च स्मर्यते - ‘यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्’ इति । स च तृप्तिरूपो मुख्यानन्दो मनुष्यगन्धर्वेण समानः श्रोत्रियस्य सम्भवति । न चास्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दे कामनावत्त्वान्न तृष्णाक्षय इति वाच्यम् , तथापि मनुष्यगन्धर्वाणां तत्पर्यायपठितश्रोत्रियस्य च मानुषानन्दगोचरतृष्णाक्षयसाम्येन तृप्तिलक्षणानन्दसाम्ये बाधकाभावादिति । मनुष्यगन्धर्वपर्याये पठितस्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दगोचरकामनावत्त्वम् ‘मनुष्यविषयभोग - - ‘ इति भाष्ये मनुष्यग्रहणसूचितम् , वार्तिकेऽपि स्पष्टमेव दर्शितम् - ‘मार्त्याद्भोगाद्विरक्तस्य ह्युत्तराह्लादकामिनः’ इति । एवमुत्तरत्रापि तत्तत्पर्यायपठितस्य श्रोत्रियस्य तत्पूर्वपूर्वभूम्यन्तानन्देषु कामानभिभूतत्वं तत्तद्भूमिगतानन्दकामनावत्त्वं चोहनीयम् ।
ननु सार्वभौमस्याश्रोत्रियत्वात्पूर्वे वयस्यतिक्रान्तमर्यादत्वाच्च न तस्य मानुषानन्दः सम्पूर्ण इत्याशङ्कावारणायोक्तं स्मारयति –
साध्विति ।
साधुपदाद्यथोक्तकारित्वरूपमवृजिनत्वं गृह्यते, ततो न तस्यातिक्रान्तमर्यादत्वाशङ्का, तथा अध्यायकपदाच्छ्रोत्रियत्वं गृह्यत इत्यर्थः । एवम् ‘श्रोत्रियस्य चाकामहतस्य’ इति प्रतिपर्यायं श्रुतस्य श्रोत्रियस्यापि यथोक्तकारित्वरूपमवृजिनत्वमपेक्षितम् , अन्यथा अधीतसाङ्गस्वाध्यायत्वेन श्रोत्रियस्यापि तस्य यथोक्तकारिभिः श्रोत्रियैर्निन्द्यमानस्य मनुष्यगन्धर्वादितुल्यानन्दप्राप्त्यसम्भवप्रसङ्गाद् , अत एव श्रुत्यन्तरे तदपि पठ्यते - ‘यश्च श्रोत्रियोऽवृजिनोऽकामहतः’ इति ।
ननु द्वितीयपर्यायमारभ्य श्रुतानां श्रोत्रियाणां मध्ये कस्यचिन्मनुष्यगन्धर्वानन्देन तुल्य आनन्दः कस्यचित्तु देवगन्धर्वानन्देनेत्यादिलक्षणो विशेषः किङ्कृतः श्रोत्रियत्वावृजिनत्वाकामहतत्वानामानन्दसाधनानामेकरूपत्वादिति ; नेत्याह –
ते हीति ।
हि-शब्दोऽवधारणार्थः । सर्वत्र सर्वेषु श्रोत्रियेषु श्रोत्रियत्वावृजिनत्वे एवाविशिष्टे तुल्ये, न त्वकामहतत्वमपि, तत्तु तत्तत्पर्यायगतस्य श्रोत्रियस्य विशिष्यते भिद्यते ।
तद्भेदे हेतुः –
विषयेति ।
मनुष्यगन्धर्वपर्यायस्थश्रोत्रियस्य मानुषानन्दमात्रे कामाभावः तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात् , तथा देवगन्धर्वपर्यायस्थस्य श्रोत्रियस्य मानुषानन्दे मनुष्यगन्धर्वानन्दे च विषये कामाभावः तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात् । एवमुत्तरत्रापि । एतदुक्तं भवति – कामस्य विषयबाहुल्यरूपोत्कर्षे सति तन्निवृत्तिरूपस्याकामहतत्वस्यापकर्षरूपो विशेषो भवति, कामस्य विषयाल्पत्वरूपापकर्षेसति तन्निवृत्तिरूपस्याकामहतत्वस्योत्कर्षरूपो विशेषो भवतीति । तथा चाकामहतत्वोत्कर्षादुत्तरोत्तरमानन्दोत्कर्षः श्रोत्रियाणामिति स्थितम् ।
एवं यावद्यावदकामहतत्वोत्कर्षस्तावत्तावच्छ्रोत्रियानन्दोत्कर्ष इति श्रुत्यर्थे स्थिते फलितं श्रुतितात्पर्यमाह –
अत इति |
तद्विशेषत इति ।
अकामहतत्वविशेषतः श्रोत्रियेष्वान्दोत्कर्षोपलब्ध्या सर्वात्मना कामोपशमे सति सर्वोत्कृष्टः परमानन्दः प्राप्तो भवेदिति यतः प्रतिभाति अतः अकामहतग्रहणं निरतिशयस्याकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थमिति गम्यत इत्यर्थः ।
'ते ये शतं मनुष्यगन्धर्वाणामानन्दाः’ इत्यादिपदजातं न व्याख्येयं प्रथमपर्यायव्याख्यानेन गतार्थत्वादित्याशयेनाह –
व्याख्यातमन्यदिति ।
जातित इति ।
जन्मत इत्यर्थः । एतदुक्तं भवति – कल्पादावेव देवलोके जाता गायका देवगन्धर्वा इति ।
कर्मदेवत्वं विवृणोति –
ये वैदिकेनेति ।
केवलेनेति ।
उपासनासमुच्चयरहितेनेत्यर्थः । देवानपियन्ति देवैश्चन्द्रादिभिरधिष्ठिताल्लोँकान्यान्तीत्यर्थः ।
'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्दः’ इत्यत्रानन्दस्य परिमाणकथनलिङ्गेन ब्रह्मशब्दस्य हिरण्यगर्भपरत्वमाह –
समष्टीत्यादिना ।
समष्टिव्यष्टिरूपः व्याप्यव्यापकरूपः । तत्र कार्यात्मना व्याप्यः कारणात्मना व्यापक इत्यर्थः ।
तदीयव्याप्तेरवधिमाह –
संसारेति ।
ब्रह्माण्डव्यापीत्यर्थः ।
यत्रैत इति ।
यत्र हिरण्यगर्भे प्रकृता आनन्दविशेषाः पारिमाणत एकत्वमिव गच्छन्ति सांसारिकानन्दोत्कर्षसर्वस्वं यत्रेत्यर्थः । तन्निमित्त इति । तस्यानन्दोत्कर्षसर्वस्वभूतस्य फलस्य निमित्तभूतो धर्मश्च यत्र निरवधिक इत्यर्थः ।
तद्विषयमिति ।
यथोक्तफलतन्निमित्तधर्मादिविषयकं ज्ञानं च यत्र निरतिशयमित्यर्थः ।
अकामहतत्वं चेति ।
हिरण्यगर्भस्य तावत्पूर्वभूमिषु नास्ति कामना, स्वभूम्यपेक्षया तासामत्यन्तनिकृष्टत्वात् ; स्वभूमावपि नास्ति कामना, तस्याः प्राप्तत्वात् , अप्राप्तवस्तुगोचरत्वात्कामनायाः ; अतस्तस्याकामहतत्वमपि निरतिशयमित्यर्थः । तथा च स्मृतिः ‘ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्’ इति । ननु मानुषानन्दोऽस्माकं प्रसिद्ध एव, मनुष्यस्य प्रत्यक्षत्वेन मुखप्रसादादिलिङ्गैस्तदीयानन्दस्योत्प्रेक्षितुं शक्यत्वाद् , अन्ये त्वस्माकमप्रसिद्धा इति कथं तद्द्वारा ब्रह्मानन्दानुगमसिद्धिरप्रिसिद्धेनाप्रसिद्धबोधनायोगात् , अतोऽन्यैरप्यानन्दैः प्रसिद्धैरेव भवितव्यम् , तेषां प्रसिद्धिमाश्रित्य ब्रह्मानन्दानुगम इत्ययमर्थः प्रागाचार्यैरेव दर्शितः ‘अनेन हि प्रसद्धेनानन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते’ इत्यादिना । नैष दोषः, मनुष्यगन्धर्वाद्यानन्दानां प्रसिद्धिसम्पादनायैव प्रतिपर्यायं मनुष्यलोकस्थश्रोत्रियप्रत्यक्षत्वकथनात् ।
इममेवाभिप्रायं प्रकटयितुं हिरण्यगर्भानन्दस्य तत्पर्यायस्थश्रोत्रियप्रत्यक्षत्वमाह –
तस्यैष आनन्द इति ।
हिरण्यगर्भाद्यानन्दस्य ब्रह्मानन्दावगमोपायत्वसिद्ध्युपयोगितया प्रसिद्धत्वकथनपरेण ‘श्रोत्रियस्य चाकामहतस्य’ इति वाक्यजातेनान्यदपि सिध्यतीत्याह –
तस्मादिति ।
मनुष्यस्य सतः श्रोत्रियस्य श्रोत्रियत्वादित्रितयमहिम्ना हिरण्यगर्भादितुल्यानन्दकथनात्त्रीण्यप्येतान्यानन्दप्राप्तौ साधनानीति गम्यत इत्यर्थः ।
त्रिषु मध्ये विशेषमाह –
तत्रेति ।
सर्वेषां श्रोत्रियाणां श्रोत्रियत्वावृजिनत्वे नियते साधारणे, अकामहतत्वमेवोत्कृष्यमाणं सदानन्दोत्कर्षे कारणमित्यतः प्रकृष्टसाधनता अकामहतत्वस्यावगम्यत इत्यर्थः ।
यदुक्तं प्रकारान्तरेण ब्रह्मानन्दानुगमप्रदर्शनाय लौकिकोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्रेति, तमेव प्रकारान्तरेण ब्रह्मानन्दानुगममिदानीं लौकिकानन्दानां ब्रह्मानन्दमात्रात्वप्रदर्शनपूर्वकं दर्शयति –
तस्येत्यादिना ।
तस्य ब्रह्मण इति सम्बन्धः । आनन्द इत्यनन्तरमपिशब्दोऽध्याहर्तव्यः । स च पूर्वोक्तानन्दानामनुक्तानां च सङ्ग्रहार्थ इति मन्तव्यम् ।
सर्वेषामेव लौकिकानन्दानां ब्रह्मानन्दैकदेशत्वे मानमाह –
एतस्यैवेति ।
अन्यानीति ।
ब्रह्मणः सकाशादात्मानमन्यत्वेन मन्यमानानि भूतानि प्राणिन इत्यर्थः ।
लौकिकानन्दस्य परमानन्दमात्रात्वे मानसिद्धे फलितमाह –
स एष इति ।
पूर्वोक्तो लौकिकानन्दो यस्य मात्रा यस्मादुपाधितो भिन्नो यत्रैवोपाधिविलये पुनरेकतां गच्छति स आनन्दः स्वाभाविको नित्योऽस्तीत्यत्र हेतुमाह –
अद्वैतत्वादिति ।
'अथ यदल्पं तन्मर्त्यम्’ इति श्रुत्या परिच्छिन्नस्यानित्यत्वप्रतिपादनादद्वैतत्वं नित्यत्वसाधने समर्थमिति मन्तव्यम् ।
ननु ब्रह्मानन्दस्याद्वैतत्वमसिद्धम् ‘रसं ह्येवायं लब्ध्वानन्दी भवति’ इत्यानन्दानन्दिभावेन ब्रह्मानन्दजीवयोर्भेदावगमादित्यत आह –
आनन्दानन्दिनोश्चेति ।
च-शब्दः शङ्कानिरासार्थः । अत्रेत्यस्य विद्याकाल इत्यर्थः । ततश्चाविद्याकाल एवाविद्यिको भेदो न विद्याकाले विद्यया भेदकोपाधेरविद्याया निरस्तत्वादित्यर्थः । एतदुक्तं भवति - ब्रह्मानन्दजीवयोरविद्याकल्पितो विभागो न वास्तवः, अतो ब्रह्मानन्दस्य नाद्वैतत्वहानिरिति ॥
एवम् ‘सैषानन्दस्य मीमांसा भवति’ इत्युपक्रम्य श्रुत्या मात्राभूतसातिशयानन्दोपन्यासद्वारा सूचितया ‘लौकिकानन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्’ ‘लौकिकानन्दो यस्य मात्रा समुद्राम्भस इव विप्रुट्’ इत्यादिलक्षणया मीमांसया ‘अस्त्यद्वितीयः परमानन्दः’ इति निर्णयः कृत इति प्रदर्श्य इदानीमुत्तरवाक्यतात्पर्यमाह –
तदेतदिति ।
तदेतत् ब्रह्मानन्दस्याद्वितीयत्वस्वाभाविकत्वादिलक्षणं मीमांसाफलं मीमांसया निर्णीतमित्यर्थः ।
'स यश्चायम्’ इत्यत्र स इति शब्देन गुहानिहितवाक्ये तद्वृत्तिस्थानीये प्रवेशवाक्ये च निर्दिष्टः प्रत्यगात्मा निर्दिश्यत इत्याह –
यो गुहायामिति ।
आकाशे या गुहा तस्यामित्यन्वयः । योऽन्नमयान्तमाकाशादिकार्यं सृष्ट्वा तदेव कार्यमनुप्रविष्ट इत्यर्थः ।
अयमित्यनेन तस्यापरोक्षत्वमुच्यत इत्याशयेनाह –
कोऽसावित्यादिना ।
पुरुष इति ।
शरीर इत्यर्थः ।
श्रोत्रियप्रत्यक्ष इति ।
यद्यपि लौकिकानन्दानामेव पूर्वत्र श्रोत्रियप्रत्यक्षत्वं निर्दिष्टं न परमानन्दस्य, तथापि तत्र परमानन्दस्याकामहतविद्वच्छ्रोत्रियप्रत्यक्षत्वमर्थान्निर्दिष्टमिति तदभिप्रायोऽयं ग्रन्थः, अकामहतत्वस्य निरतिशयोत्कर्षे सति विदुषः परमानन्दप्राप्तेः प्रागुपपादितत्वादिति मन्तव्यम् । यो विद्वत्प्रत्यक्षत्वेन ब्रह्मादिसर्वभूतोपजीव्यानन्दानुगम्यत्वेन च प्रकृतः परमानन्दः, सोऽसावादित्यदेवताधेयत्वेन निर्दिश्यत इत्यर्थः ।
स एक इति ।
‘स यश्चायं पुरुषे’ इति वाक्यनिर्दिष्टस्य बुद्ध्यवच्छिन्नजीवरूपानन्दस्य ‘यश्चासावादित्ये’ इति वाक्ये आदित्यान्तःस्थत्वेन निर्दिष्टस्य मायावच्छिन्नपरमानन्दस्य च ‘स एकः’ इति वाक्येनोपाधिद्वयनिरसनपूर्वकं स्वाभाविकमभिन्नत्वमुपदिश्यते, अस्मिन्नर्थे इत्थमक्षरयोजना - सः द्विविधोऽप्यानन्दो वस्तुत एक एवेति । भिन्नप्रदेशस्थयोर्घटाकाशाकाशयोराकाशस्वरूपेण यथैकत्वमिति दृष्टान्तार्थः ।
ननु ‘स यश्चायं पुरुषे’ इति सामान्यतः शरीरस्थत्वेनात्मनो निर्देशो न युक्तः प्रसिद्धिविरोधादिति शङ्कते –
नन्विति ।
तन्निर्देश इति ।
तस्यात्मनोऽध्यात्मनिर्देशे विवक्षिते सतीत्यर्थः ।
कथं तर्हि निर्देशः कर्तव्य इत्याकाङ्क्षायामाह –
यश्चायं दक्षिण इति ।
'य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ इति श्रुत्यन्तरे दक्षिणाक्षिग्रहणस्य प्रसिद्धत्वात्तदैकरूप्यायात्रापि तथा निर्देश एव युक्त इत्यर्थः ।
तत्र सोपाधिकस्य ब्रह्मण उपासनार्थं स्थानविशेषनिर्देशेऽपि नात्र तदपेक्षेति परिहरति –
न, पराधिकारादिति ।
निरुपाधिकात्मप्रकरणादित्यर्थः ।
हेतुं साधयति –
परो हीत्यादिना ।
ननु परस्य प्रकृतत्वेऽपि ‘यश्चासावादित्ये’ इत्यादौ सोपाधिकमुपास्यमेव निर्दिश्यतामिति ; नेत्याह –
न ह्यकस्मादिति ।
परमात्मनि प्रकृते सति ‘स यश्चायम्’ इत्यादौ प्रकृतपरमात्माकर्षकसर्वनामश्रुतिषु च सतीषु कथमकस्माद्धेतुं विनात्र सोपाधिको निर्देष्टुं युक्तः तस्याप्रकृतत्वादित्यर्थः ।
ननु तर्हि परस्यैव ध्यानार्थमादित्यादिस्थाननिर्देशोऽत्रास्तु ; नेत्याह –
परमात्मविज्ञानं चेति ।
च-शब्दः शङ्कानिरासार्थः । निरुपाधिकस्य ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इत्यादौ ध्याननिषेधादत्र तद्ध्यानविवक्षायां मानाभावाच्चेत्यर्थः ।
उपसंहरति –
तस्मादिति ।
पराधिकारात्पर एव निर्दिश्यते नापरः, अतो नाक्षिस्थाननिर्देशापेक्षेत्यर्थः ।
इतश्चात्र पर एव निर्दिश्यत इत्याह सिद्धान्ती –
नन्वानन्दस्येति ।
फलस्वरूपमेव कथयति –
अभिन्नस्वभावक इत्यादिना ।
न च मीमांसाफलस्यानुपसंहारे कानुपपत्तिरिति वाच्यम् , मीमांस्यत्वेनोपक्रान्तस्यानन्दस्य ‘स यश्चायम्’ इत्यादावद्वितीयत्वेनोपसंहाराभावे चरमपर्यायनिर्दिष्टे विषयविषयिसम्बन्धजनिते सातिशये हिरण्यगर्भानन्द एव मीमांसापर्यवसानापत्त्या तदद्वितीयत्वनिर्णयालाभलक्षणाया अनुपपत्तेः सत्त्वात् ।
सिद्धान्त्येव स्वपक्षे पुरुष इत्याद्यविशेषतो निर्देशस्यानुकूल्यमाह –
ननु तदनुरूप एवेति ।
'स यश्चायम्’ इति वाक्यं जीवानुवादकम् , आदित्यवाक्यमीश्वरानुवादकम् , ‘स एकः’ इति तु तयोर्भिन्नाधिकरणस्थयोरुपाधिविशेषनिरसनद्वारा एकत्वबोधकमिति रीत्या निर्देशस्यानुरूप्यम् । ते च भिन्ने अधिकरणे आदित्यः शरीरं चेति मन्तव्यम् ।
अत्रोपसनविवक्षाभावे सत्यादिग्रहणं विफलम् , ‘तत्त्वमसि’ इत्यादाविवेश्वरस्य शब्दान्तरेणैव निर्देशसम्भवादिति मत्वा शङ्कते –
नन्वेवमपीति ।
उक्तरीत्या परमात्मनिर्देशादेरावश्यकत्वेऽपीत्यर्थः । आदित्यदेवताया उत्कृष्टोपाधिकत्वात्तदन्तःस्थत्वेन परमात्मनो निर्देशे तस्याप्युत्कृष्टोपाधिकत्वेनार्थादुत्कर्षो निर्दिष्टो भवति ; तथा च ‘स यश्चायम्’ इत्यनेन निकृष्टमात्मानमनूद्य ‘यश्चासावादित्ये’ इत्यनेनोत्कृष्टमीश्वरं चानूद्य ‘स एकः’ इत्यनेन तयोर्निरुपाधिकपरमानन्दस्वरूपेणैकत्वे बोधिते सत्युपाधितत्कृतोत्कर्षापकर्षाणामपोहो भवति ।
एवमुत्कर्षप्रत्यायनद्वारा तदपोहप्रयोजनकत्वादादित्यग्रहणं नानर्थकमिति परिहरति –
नानर्थकमिति ।
उत्कर्षस्यापकर्षनिरूपकत्वादुत्कर्षापोहे निकर्षापोहोऽपि भवतीति मत्वा निकर्षापोहोऽप्यादित्यग्रहणप्रयोजनत्वेनोक्त इति मन्तव्यम् ।
आदित्यदेवतोपाधेरुत्कृष्टत्वे मानमाह –
द्वैतस्य हीति ।
अत्र सवितृशब्दो मण्डलपरः तदन्तर्गतश्च समष्टिलिङ्गदेहोऽपि विवक्षितः । तत्र मण्डलात्मकः सविता मूर्तस्य पर उत्कर्षः सार इति यावत् , तथा तदन्तर्गतो लिङ्गात्मा अमूर्तस्य पर उत्कर्षः, तदुभयमादित्यदेवतोपाधिभूतं मूर्तामूर्तलक्षणस्य द्वैतस्य सारभूतमित्येतद्वाजसनेयके प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।
ननु ब्रह्मात्मैकत्वविज्ञानेनोत्कर्षाद्यपोहे सति किं फलतीत्याशङ्क्याह –
स चेदिति ।
सवित्रादिद्वारा बुद्धिस्थः सर्वोत्कृष्टः परमेश्वर इत्यर्थः । तथा च सोपाधिक ईश्वरः स्वोपाधिभूतं विशेषं परित्यजन् शरीरगतलिङ्गात्मकजीवोपाध्युपमर्दनेन परमानन्दमपेक्ष्य परमानन्दस्वरूपेण सम एकत्वमापन्नो भवति चेदित्यर्थः ।
ततः किमित्यत आह –
न कश्चिदिति ।
निर्विशेषपरमानन्दब्रह्मणा सहैकत्वलक्षणम् ‘स एकः’ इति वाक्ये प्रकृतां गतिं गतस्य विदुषः सगुणमुक्तस्येवोत्कर्षो वा संसारिण इवापकर्षो वा न कश्चिदस्तीति सिध्यतीत्यर्थः ।
ननु निकर्षस्य हेयत्वेऽपि परममुक्तस्योत्कर्षः किमिति हेयः, सूर्यादेरिवोत्कर्षं प्राप्तस्यापि तस्य कृतार्थत्वसम्भवात् , तथा चोत्कर्षापोहप्रयोजनकमादित्यग्रहणमसङ्गतमिति ; नेत्याह –
अभयमिति ।
मुक्तस्योत्कर्षप्राप्त्युपगमे तत्प्रयोजकेनोपाधिनापि भवितव्यम् , तथा च सोपाधिकस्य मुक्तस्य परमानन्दरूपादीश्वराद्भेदावश्यम्भावात्सूर्यवाय्वादेरिव भयमावश्यकमित्येकत्वज्ञानेन मुक्तिं प्राप्तस्य ‘अभयं प्रतिष्ठां विन्दते’ इति वचनमनुपपन्नमेव स्यात् , ततो न विदुष उत्कर्षप्राप्तिरिष्टेति तदपोहप्रयोजनकमादित्यग्रहणमं सङ्गतमेवेति भावः ॥
वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति –
अस्ति नास्तीत्यादिना ।
व्याख्यातो निराकृत इत्यर्थः ।
कथं निराकृत इत्याकाङ्क्षायामाह –
कार्येति ।
कार्यं च रसलाभश्च प्राणनं चाभयप्रतिष्ठा च भयदर्शनं च, एतान्येवोपपत्तय इत्यर्थः ।
विषयाविति ।
अविशिष्टाविति शेषः ।
उच्यत इति ।
'स य एवंवित्’ इत्यादिना ब्रह्मप्राप्तिर्विदुष उच्यत इत्यर्थः ।
ननु तर्हि मध्यमोऽनुप्रश्नो विशिष्येत ; नेत्याह –
मध्यम इति ।
विदुषो ब्रह्मप्राप्तिप्रतिपादनेनान्त्यप्रश्नापाकरणे कृते सति अर्थादविदुषस्तत्प्राप्तिर्नास्तीति निर्णयलाभान्मध्यमप्रश्नो निराकर्तव्यत्वेन नावशिष्यते, अतो न तदपाकरणाय श्रुत्या प्रयत्नः कृत इत्यर्थः । इदमुपलक्षणम् ; अविदुषो ब्रह्मप्राप्तिप्रश्नस्यातिफल्गुत्वाच्च तदपाकरणाय श्रुत्या न यत्यत इत्यपि द्रष्टव्यम् ।
वेदनस्योत्कर्षादिरहिताद्वितीयस्वप्रकाशब्रह्मविषयकत्वलाभे हेतुमाह –
एवंशब्दस्येति ।
लोकशब्दस्य प्रत्यक्षसिद्धभोग्यमात्रपरत्वं व्यावर्तयति –
दृष्टादृष्टेति ।
'अस्माल्लोकात्प्रेत्य’ इत्यनेन सर्वस्मात्कर्मफलाद्वैराग्यं विवक्षितमित्याह –
निरपेक्षो भूत्वेति ।
अत्र येन क्रमेणैव वेदनं प्राप्तं तत्क्रमानुवादपूर्वकमेवं वेदनफलमुच्यत इति प्रतीयते, तां प्रतीतिमाश्रित्य व्याख्यानमिदम् ; विवक्षितं तु व्याख्यानं करिष्यमाणचिन्तावसाने भविष्यतीति मन्तव्यम् ।
एवं विरक्तो भूत्वा प्रथमं पुमान्किं करोति ? तत्राह –
एतमिति ।
यथोक्तमिति ।
'स वा एष पुरुषोऽन्नरसमयः’ इत्यत्रान्नरसविकारत्वेनोक्तमित्यर्थः । विषयजातमित्यनेन व्यष्टिपिण्डव्यतिरिक्तः समष्टिपिण्डात्मा विराडुच्यते ।
विराजं व्यष्टिपिण्डव्यतिरिक्तं न पश्यति चेत्कथं तर्हि पश्यतीत्याकाङ्क्षायां तद्दर्शयन्नुपसङ्क्रामतीत्यस्यार्थमाह –
सर्वमिति ।
समष्टिस्थूलात्मानं विराजमन्नमयात्मानं पश्यति समष्टिव्यष्ट्यात्मकमन्नलक्षणं ब्रह्माहमिति पस्यतीति यावत् ।
तत इति ।
विराडात्मकादन्नमयकोशादान्तरमित्यर्थः ।
एतमिति ।
'अन्योऽन्तर आत्मा प्राणमयः’ इत्यत्र प्रकृतमित्यर्थः ।
अविभक्तमिति ।
सूत्रात्मना एकीभूतमित्यर्थः । अत एव सर्वपिण्डव्यापित्वरूपं सर्वान्नमयात्मस्थत्वविशेषणं प्राणमयस्योपपद्यते । तथा चान्नमयात्मदर्शनानन्तरं तद्धित्वा यथोक्तं प्राणमयात्मानं पश्यतीत्यर्थः । एवमुत्तरत्रापि योजनीयम् ।
उपसङ्क्रामतीति ।
एवं क्रमेणानन्दमयमात्मानमुपसङ्क्रम्यानन्तरमानन्दमयं प्रति पुच्छप्रतिष्ठाभूतमुत्कर्षादिरहितं सत्यज्ञानानन्तलक्षणं ब्रह्माहमस्मीति पश्यंस्तदेव प्राप्नोतीति भावः ।
अथेति ।
एवंविदेवं वेदनानन्तरमित्यर्थः ॥
तत्रैतच्चिन्त्यमिति ।
'स य एवंवित्’ इत्यत्र ‘उपसङ्क्रामति’ इत्यत्र च एवंवित्स्वरूपं सङ्क्रमणस्वरूपं च विचारणीयमित्यर्थः ।
कोऽयमेवंविदित्युक्तं विवृणोति –
किमिति ।
अन्य इत्यस्य विवरणं प्रविभक्त इति पक्षद्वयेऽप्यनुपपत्त्यभावात्संशयो न घटत इति मत्वा पृच्छति –
किं तत इति ।
पक्षद्वयेऽप्यनुपपत्तिं संशयकारणभूतामाह –
यद्यन्यः स्यादित्यादिना ।
'अन्योऽसौ ‘ इत्यनया श्रुत्या जीवपरभेदचिन्तनस्याज्ञानप्रयुक्तत्वप्रतिपादनात्तयोः स्वाभाविकमन्यत्वमेतच्छ्रुतिविरुद्धं चेत्यर्थः ।
आनन्दमयमिति ।
उपसङ्क्रमणस्य प्राप्तिरूपत्वमाश्रित्येदमुदाहरणम् ; तथा च एवंवित्परयोरभेदे तयोः प्राप्तिं प्रति कर्तृकर्मभावो नोपपद्यत इत्यर्थः ।
किं च, तयोरभेदपक्षे किं जीवस्य परस्मिन्नन्तर्भावः किं वा परस्य जीवे ? नाद्यः, तथा सति परव्यतिरेकेण जीवाभावादचेतनानां संसारित्वासम्भवाच्चानुभूयमानं संसारित्वं परमात्मन एव प्रसज्येतेत्याह –
परस्यैवेति ।
द्वितीये दोषमाह –
पराभावो वेति ।
जीवनियन्तृत्वेन श्रुतिसिद्धस्य परस्याभावः प्रसज्येतेत्यर्थः ।
पक्षद्वयेऽप्यपरिहार्यं दोषं श्रुत्वा मध्यस्थश्चिन्तामाक्षिपति –
यद्युभयथेति ।
जीवस्य परस्मादन्यत्वेऽनन्यत्वे चेत्यर्थः ।
नन्वभेदपक्षे प्राप्तो दोषो वक्ष्यमाणरीत्या परिहर्तुं शक्यत इति वदन्तं चिन्तारम्भवादिनं प्रति मध्यस्थ एवाह –
अथान्यतरस्मिन्निति ।
परापरयोर्वास्तवौ भेदाभेदाविति पक्षान्तरं निर्दुष्टं मन्यमानस्य भास्करादेरभिप्रायमनूद्य तस्मिन्नपि पक्षे चिन्तावैयर्थ्यमाह –
तृतीये वेति ।
अदुष्ट इति च्छेदः ।
सिद्धान्ती चिन्तावैयर्थ्यं निराकरोति –
न, तन्निर्धारणेनेति ।
तेषां पक्षाणामन्यतमस्यादुष्टत्वनिर्धारणेनेत्यर्थः । चिन्तां विना निर्धारणासम्भवादिति भावः ।
सङ्ग्रहवाक्यं तटस्थोक्तानुवादपूर्वकं विवृणोति –
सत्यमित्यादिना ।
न शक्य इत्यत्र यदिशब्दोऽध्याहर्तव्यः ।
पुनरपि मध्यस्थश्चिन्तावैयर्थ्यमाह –
सत्यमर्थवतीति ।
न तु निर्णेष्यसीति ।
त्वया निर्णेतुमशक्यमित्यभिसन्धिः ।
अभिसन्धिमानेव तटस्थं निराकरोति –
किमिति ।
निर्णयस्याशक्यत्वमसिद्धमित्यारम्भवादिनोऽपि गूढोऽभिसन्धिः ।
यथाश्रुतमुपालम्भं तटस्थः परिहरति –
नेति ।
वेदवचनं न भवतीत्यर्थः ।
आरम्भवादी न तु निर्णेष्यसीत्यत्र हेतुं पृच्छति –
कथं तर्हीति ।
यदि न वेदवचनं तर्हि कथं न निर्णेष्यसीति वदसीत्यर्थः ।
निर्णयस्याशक्यत्वे स्वाभिसंहिते हेतुमाह –
बह्विति ।
अद्वैतस्यैव वेदार्थत्वात्तत्साधनपरस्त्वमेक एव, भेदवादिनः पुनरसङ्ख्याताः, ततश्च कथं तेषु जीवत्सु तव निर्णयसिद्धिरित्यर्थः ।
'शतमप्यन्धानां न पश्यति’ इति न्यायमाश्रित्यारम्भवादी परिहरति –
एतदेवेति ।
एकयोगिनमिति ।
एकत्ववादिनमित्यर्थः । अनेकयोगिनो नानात्ववादिनो बहवः प्रतिपक्षा यस्य स तथा, तमित्यर्थः । त्वदीयं यदेकत्ववादीत्यादिवचनमेतदेव मम स्वस्त्ययनं निर्णयसामर्थ्यसूचकमित्यर्थः । नानात्ववादिनां बहुत्वेऽपि न तेषां प्राबल्यशङ्का, नानात्वस्य मानशून्यतायास्तत्र तत्रोक्तत्वाद्वक्ष्यमाणत्वाच्चेति भावः ।
तेषां दौर्बल्याभिप्राये स्थिते फलितमाह –
अत इति ।
एवमात्मैकत्वस्य वादिविप्रतिपत्त्या सन्दिग्धत्वात्तन्निर्णयस्य मुक्तिफलकत्वाच्च विषयप्रयोजनवतीमात्मतत्त्वगोचरां चिन्तामारभते –
आरभे च चिन्तामिति ॥
भेदपक्षं भेदाभेदपक्षं चावधारणतुशब्दाभ्यां क्रमेण निराकुर्वन्नेव सिद्धान्तमाह –
स एव तु स्यादिति ।
न तावज्जीवब्रह्मणोर्भेदोऽस्ति मानाभावात् । न चाभेदे परस्यैव संसारित्वं पराभावो वा स्यादिति वाच्यम् , चिदात्मनः परमार्थत एकत्वेऽपि बुद्ध्युपहितश्चिदात्मा जीवः बुद्धिकारणीभूताविद्योपहितश्चिदात्मा परमेश्वर इत्येवं भेदकल्पनया संसारित्वासंसारित्वव्यवस्थोपपादनसम्भवात् ; तथा च श्रुतिः - ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’ इति । एतेन नाहमीश्वर इति भेदप्रत्यक्षस्य सुखदुःखादिवैचित्र्यादेश्च जीवेश्वरभेदसाधकत्वं निरस्तम् औपाधिकभेदेनैवोक्तप्रत्यक्षाद्युपपत्त्या वास्तवभेदसाधने तत्प्रत्यक्षादेः सामर्थ्याभावात् । अत एव तयोर्वास्तवौ भेदाभेदाविति पक्षोऽपि निरस्तः, एकत्र वस्तुतो भेदाभेदयोर्विरुद्धत्वाच्च । तस्माद्वस्तुतो जीवः पराभिन्नः, ‘अन्योऽसौ’ इत्यत्र भेददृष्टेर्निन्दितत्वात् ‘एकमेवाद्वितीयम्’ ‘तत्त्वमसि’ इत्याद्यभेदश्रुतेश्चेति भावः ।
एवंवित्पर एव स्यादित्यत्र हेत्वन्तरमाह –
तद्भावस्य त्विति ।
तु-शब्दश्चार्थः सन्पञ्चम्या सम्बध्यते ।
विवृणोति –
तद्विज्ञानेनेति ।
परब्रह्मविज्ञानेनेत्यर्थः ।
ननु परस्यैवंविद्भिन्नत्वेऽपि ‘ब्रह्मविदाप्नोति परम् ‘ इत्यत्र विवक्षिता परभावापत्तिरेवंविदः किं न स्यादिति ; नेत्याह –
न हीति ।
अन्यस्य स्वरूपे स्थिते नष्टे वा अन्यात्मकत्वं न ह्युपपद्यत इत्यर्थः ।
अभेदपक्षेऽप्यनुपपत्तितौल्यमाशङ्कते –
नन्विति ।
यद्यपि ब्रह्मस्वरूपस्य सतो ब्रह्मविदस्तद्भावापत्तिर्मुख्या न सम्भवति, तथाप्यौपचारिकी सा सम्भवतीत्याह –
न, अविद्याकृतेति ।
अविद्याकृतो योऽयमतदात्मभावस्तदपोह एवार्थः पुरुषार्थः तत्स्वरूपत्वात्तद्भावापत्तेः न तद्भावानुपपत्तिरित्यर्थः ।
हेतुं विवृणोति –
या हीत्यादिना ।
उपदिश्यते ‘ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुत्येति शेषः ।
अध्यारोपितस्येति ।
एतेन सङ्ग्रहवाक्यगतातदात्मभावशब्देन प्रत्यगात्मन्यभेदेनाध्यस्तोऽन्नमयादिरनात्मा विवक्षित इति सूचितम् । अन्नमयादेरविद्याकृतत्वविशेषणेन विद्यया अविद्यापोहद्वारा तत्कृतान्नमयादेरपोह इति सूचितम् , प्रत्यगात्मन्यध्यस्तस्य कार्यवर्गस्य साक्षाद्विद्यापोह्यत्वाभावात् ; तदुक्तं पञ्चपादिकायाम् - ‘यतो ज्ञानमज्ञानस्यैव निवर्तकम्’ इति ।
देवदत्तस्य ग्रामादिप्राप्तिवदत्र मुख्यां प्राप्तिं विहायामुख्यप्राप्त्यर्थकता फलवाक्यस्य केन हेतुनावगम्यत इति पृच्छति –
कथमिति ।
परप्राप्तिसाधनत्वेन ‘ब्रह्मविद्’ इति विद्यामात्रोपदेशात्सकार्याविद्यानिवृत्तिरेव परप्राप्तिरिति गम्यत इत्याह –
विद्यामात्रेति ।
नन्वप्राप्तप्राप्तिरपि विद्यामात्रफलं किं न स्यादिति ; नेत्याह –
विद्यायाश्चेति ।
च-शब्दः शङ्कानिरासार्थः अवधारणार्थो वा । लोके शुक्तितत्त्वादिगोचरविद्यायाः सकार्याविद्यानिवृत्तिरेव कार्यत्वेन दृष्टा, नाप्राप्तप्राप्तिरपीत्यर्थः ।
ननु सर्वमस्येदं दृष्टं भवति ‘य एवं वेद’ इत्यादाविव ‘ब्रह्मविद्’ इत्यत्रापि विदेर्विद्यावृत्तिरूपोपास्तिवाचित्वाद्विद्यामात्रोपदेशोऽसिद्ध इति ; नेत्याह –
तच्चेहेति ।
विदेरुक्तोपास्तिपरत्वे लक्षणाप्रसङ्गाद्विद्यामात्रमेव तदर्थ इति नासिद्धिशङ्का, उदाहृतश्रुतौ च ‘यां देवतामुपास्से’ इत्युपक्रमानुसारादिलिङ्गबलाल्लक्षणा न दुष्यतीति विशेष इति भावः ।
ननु ‘ब्रह्मविदाप्नोति परम्’ इत्युपदेशस्य ‘मार्गविदाप्नोति ग्रामम्’ इत्युपदेशतुल्यत्वाद्यथा तत्र मार्गविदः क्रियाद्वारा ग्रामप्राप्तिः अवाप्यो ग्रामश्च मार्गविदो गन्तुः सकाशादन्यः, तथात्रापि ब्रह्मविद्यावतो विद्यावृत्तिलक्षणोपास्तिद्वारा परप्राप्तिः प्राप्तव्यं परं च ब्रह्मविदः सकाशादन्यत्स्यात् ; तथा चाविद्यानिवृत्तिरूपापरप्राप्तिरनुपपन्ना, उपास्तेरविद्यानिवर्तकत्वाभावादिति शङ्कते –
मार्गेति ।
शङ्कामेव विवृणोति –
तदात्मत्व इति ।
अविद्यानिवृत्तिमात्ररूपे परात्मभाव इत्यर्थः ।
'ब्रह्मविदाप्नोति’ इत्यत्र ब्रह्मविद्या ‘अहं ब्रह्म’ इत्याकारा विवक्षिता, गुहानिहितत्ववचनेन प्रवेशवाक्येन च तथा निर्णीतत्वात् ; अत एव प्राप्यं परं ब्रह्मापि ब्रह्मविदो न भिन्नम् ; तथा चोपदेशवैषम्यान्नायं दृष्टान्तो युक्त इत्याह –
नेति ।
तत्र हीति ।
यः प्राप्तव्यो ग्रामः तद्विषयं ज्ञानं न ह्युपदिश्यते ‘त्वं ग्रामोऽसि’ इत्यनुक्तेरित्यर्थः ।
न तथेहेति ।
प्राप्तव्यं यत्परं ब्रह्म तद्विषयमेव ज्ञानम् ‘ब्रह्मवित् - - ‘ इत्युपदिश्यते, न तद्व्यतिरेकेण तदावृत्तिलक्षणस्य साधनान्तरस्य तद्विज्ञानस्य वात्रोपदेशोऽस्ति, ‘वेद’ इत्यस्य साधनान्तरादिपरत्वे लक्षणाप्रसङ्गादिति भावः ।
ननु ‘ब्रह्मविदाप्नोति परम्’ इत्यत्र विद्यामात्रश्रवणेऽपि न तन्मात्रं परप्राप्तिसाधनत्वेनोपदिश्यते, किं तु संहितोपनिषद्युक्तैः कर्मज्ञानैः समुच्चितमेव ब्रह्मविज्ञानम् , अतो विद्यामात्रोपदेशोऽसिद्ध इति पुनः शङ्कते –
उक्तकर्मादीति ।
अविद्यानिवृत्तिमात्रे मोक्षे ब्रह्मविज्ञानव्यतिरिक्तसाधनापेक्षाभावात्समुच्चयवादिना ब्रह्मभावलक्षणोऽन्यो वा मोक्षो ज्ञानकर्मसमुच्चयजन्यो वाच्यः, तत्र चानित्यत्वप्रसङ्गदोषः प्रागेवोक्त इत्याह –
न नित्यत्वादिति ।
'ब्रह्मविदाप्नोति’ इत्यत्र समुच्चयोपदेशो न विवक्षित इति प्रतिज्ञार्थः ।
प्रत्युक्तत्वादिति ।
समुच्चयपक्षस्येति शेषः । एवम् ‘तद्भावस्य तु विवक्षितत्वात्’ इत्यादिना एवंवित्पर एव स्यादित्यत्र परप्राप्तिवचनं प्रमाणमित्युपपादितम् ।
तत्रैव हेत्वन्तरमाह –
श्रुतिश्चेति ।
कार्यस्थस्येति ।
देहादिसङ्घातलक्षणे कार्ये साक्षित्वेन स्थितस्य प्रत्यगात्मनो ब्रह्मस्वरूपत्वं दर्शयतीत्यर्थः ।
एवंवित्पर एवेत्यत्र हेत्वन्तरमाह –
अभयेति ।
अभयप्रतिष्ठावचनोपपत्तिमेव प्रपञ्चयति –
यदि हीति ।
यदा एवंवित्स्वस्माद्भिन्नमीश्वरं न पश्यति ततस्तदा सकलजगद्भयहेतोः परमेश्वरस्य स्वस्मादन्यस्याभावाद्विदुषोऽभयं प्रतिष्ठां विदन्त इति फलवचनमुपपन्नं स्यादिति योजना । विदुषः सकाशात्परमेश्वरस्यान्यत्वे तस्मादस्य भयावश्यम्भावादभयप्रतिष्ठावचनोपपत्तये तयोरनन्यत्वं निश्चीयत इति निष्कर्षः ।
नन्वीश्वरस्यानन्यत्वेऽपि राजादेरन्यस्य सत्त्वात्कथमभयसिद्धिरित्याशङ्क्य जीवपरान्यत्ववद्राजादिजगदप्यसदेवेत्याह –
अन्यस्य चेति ।
राजादिप्रपञ्चस्याप्यन्यत्वेन प्रतीयमानस्योक्तवक्ष्यमाणश्रुतिन्यायैरविद्याकृतत्वे सिद्धे सति विदुषो विद्यया सर्वं जगदवस्त्वेवेति दर्शनमुपपद्यते, तथा च न जगतोऽपि विदुषो भयप्रसक्तिरित्यर्थः । एतदुक्तं भवति – श्रुत्यादिप्रमाणजनितया तत्वदृष्ट्या द्वैतस्याग्रहणादसत्त्वमिति ।
अस्मिन्नर्थे दृष्टान्तमाह –
तद्धीति ।
दृष्टान्तवैषम्यमाशङ्कते –
नैवमिति ।
यथा तिमिराख्यदोषरहितचक्षुष्मता द्वितीयश्चन्द्रो न गृह्यते एवं द्वैतं विदुषा न गृह्यत इति न, किं तु गृह्यत एव, अन्यथा विदुषः शास्त्रार्थोपदेशादौ प्रवृत्त्यभावप्रसङ्गादित्यर्थः ।
व्यवहारकाले विदुषा तद्ग्रहणेऽपि समाध्यवस्थायामग्रहणादविद्वत्साधारण्येन सुषुप्तावग्रहणाच्च न वैषम्यमित्याशयेन परिहरति –
न, सुषुप्तेति ।
सुषुप्तादौ द्वैताग्रहणं द्वैतासत्त्वप्रयुक्तं न भवतीति शङ्कते –
सुषुप्त इति ।
यथा इषुकार इष्वासक्तमनस्तया इषुव्यतिरिक्तं विद्यमानमपि न पश्यति, एवं विद्यमानमेव द्वैतं सुषुप्तौ समाधौ च न पश्यतीत्यर्थः ।
दृष्टान्तवैषम्येण निराकरोति –
न, सर्वाग्रहणादिति ।
इषुकारस्य हि सर्वाग्रहणं नास्ति इषुग्रहणस्यैव सत्त्वात् , सुषुप्त्यादौ तु न कस्यापि विशेषस्य ग्रहणमस्ति, अतो द्वितीयचन्द्रस्येव द्वैतस्य कदाचिदग्रहणादसत्त्वमेव वक्तव्यमित्यर्थः ।
ननु द्वैतस्य सुषुप्तादौ चेदनुपलम्भादसत्त्वं तर्हि जाग्रदादावुपलम्भात्सत्त्वमेव किं न स्यादिति शङ्कते –
जाग्रदिति ।
उपलभ्यमानत्वमात्रं न सत्त्वप्रयोजकम् , तथा सति शुक्तिरूप्यद्वितीयचन्द्रादेरपि सत्त्वप्रसङ्गात् , किं तु बाधायोग्यत्वादिकमन्यदेव सत्त्वप्रयोजकम् , तच्च द्वैतस्य नास्ति ‘नेह नानास्ति किञ्चन’ इत्यादौ सहस्रशो बाधदर्शनादित्यभिप्रेत्य द्वैतस्य शुक्तिरूप्यादेरिवान्वयव्यतिरेकाभ्यामविद्याकार्यत्वं दर्शयति –
न, अविद्याकृतत्वादिति ।
सङ्ग्रहं विवृणोति –
यदन्यग्रहणमिति ।
यदन्यत्वेन गृह्यमाणं जगदित्यर्थः ।
अन्वयमाह –
अविद्याभाव इति ।
मुक्तावविद्याया अभावे जगतोऽभावादिति व्यतिरेको बहिरेव द्रष्टव्यः । न चात्र मानाभावः शङ्कनीयः, ‘सत्किञ्चिदवशिष्यते’ इत्यादेर्मुक्तिप्रतिपादकशास्त्रस्य मानत्वात् ।
नन्वविद्यायां सत्यां गृह्यमाणं द्वैतं यद्यसत्तर्हि सुषुप्ते स्वयमेव प्रकाशमानमद्वैतमपि परमार्थं न स्यात् , तदाप्यविद्यायाः सत्त्वादिति मत्वा शङ्कते –
सुषुप्तेऽग्रहणमपीति ।
न विद्यते ग्रहणं स्वेनान्येन वा यस्य तदग्रहणम् , स्वयञ्ज्योतिःस्वभावमद्वैतमिति यावत् ।
अविद्याकालीनस्याप्यद्वैतस्य न कल्पितत्वम् अन्यानपेक्षस्वभावत्वादिति परिहरति –
नेति ।
सङ्गृहीतमर्थं दृष्टान्तपूर्वकं विवृणोति –
द्रव्यस्य हीत्यादिना ।
लोके प्रसिद्धस्य मृदादिद्रव्यस्य अविक्रिया यत्कुलालादिकारकैरविकृतं मृत्स्वरूपमस्ति तत्तस्य तत्त्वम् अनृतविलक्षणं स्वरूपम् उक्तकारकानपेक्षत्वात् , तस्यैव मृदादिद्रव्यस्य या विक्रिया घटादिविकारावस्था सा तस्य अतत्त्वम् अनृतं रूपमित्यर्थः ।
ननु मृद्वस्तुनः कारकापेक्षमपि विकाररूपं वास्तवं किं न स्यादिति चेत् ; नेत्याह –
न हीति ।
कारकापेक्षं विकारजातं वस्तुनो मृदादेस्तत्त्वं वास्तवं रूपं न भवति कादाचित्कत्वाच्छुक्तिरूप्यादिवदित्यर्थः । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ‘ इति श्रुतिप्रसिद्धिसङ्ग्रहार्थो हि-शब्दः ।
एवं जगत्कारणस्य ब्रह्मणः परानपेक्षस्वभावत्वान्मृदादिद्रव्यस्येव सत्यत्वमभिप्रेत्य मृदादिविकारस्येव ब्रह्मविकारस्य जगतोऽनृतत्वमाह –
सत इति ।
ननु सतः सत्सामान्यरूपस्य ब्रह्मणो विशेषो नाम कः यस्य कारकापेक्षत्वेन मिथ्यात्वमुच्यते ? तत्राह –
विशेषश्च विक्रियेति ।
विक्रिया विकारात्मकं जगदित्यर्थः ।
अयमेव मिथ्याभूतो विशेषः प्रत्यक्षादिना गृह्यते, न केवलं परमार्थसत्यमद्वैतमित्याशयेनाह –
जाग्रदिति ।
ग्रहणपदं गृह्यमाणार्थकम् ।
एवं द्रव्यस्य हीत्यादिना प्रपञ्चितमर्थं सङ्क्षिप्याह –
यद्धि यस्येति ।
अन्याभाव इति ।
यद्यपि मृदादेः कारकापेक्षं घटादिरूपं कारकाभावेऽपि तिष्ठति तथापि शुक्त्यादेरज्ञानादिसापेक्षं रजतादिरूपं तदभावे न तिष्ठति, तथा सद्रूपस्य ब्रह्मणोऽपि मूलाविद्यादिसापेक्षं जगद्रूपं तदभावे न तिष्ठतीति प्रायिकाभिप्रायेण तदुक्तिः । विवक्षितार्थस्तु – यद्धि यस्य कादाचित्कं रूपं न तत्तस्य तत्त्वं यथा शुक्त्यादे रूप्यादि, यथा वा मृदादेर्घटादि ; यद्धि यस्याव्यभिचारिरूपं तत्तस्य वास्तवं रूपम् , परं तु मृदादिस्वरूपमापेक्षिकसत्यम् , ब्रह्म तु पारमार्थिकसत्यं कदापि व्यभिचाराभावादिति । इममेव विभागमभिप्रेत्य परमार्थसत्यस्य ब्रह्मणो लौकिकसत्यं मृदादिश्रुतौ दृष्टान्तत्वेनोपादीयते । एतेनानाद्यज्ञानादेरपि मिथ्यात्वं व्याख्यातम् , अज्ञानादेरपि चैतन्ये कादाचित्कत्वात् । न च हेत्वसिद्धिः, अज्ञानतत्सम्बन्धजीवत्वादीनां विद्यया निवृत्तिश्रवणादित्यन्यत्र विस्तरः ।
उपसंहरति –
तस्मादिति ।
यथा जाग्रत्स्वप्नयोरनुभूयमानो विशेषः कादाचित्कत्वादविद्याकृतः तथा सुषुप्ते सुषुप्त्यादिसाधकत्वेन प्रकाशमानं सदद्वयं वस्तु नाविद्याकृतम् अन्यानपेक्षस्वभावत्वादित्यर्थः ।
एवं स्वमते भयहेतोरन्यस्य परस्याभावादभयं प्रतिष्ठां विन्दत इत्युपपाद्य एवंवित्परस्मादन्य इति पक्षे तदसम्भवमिदानीमाह –
येषामित्यादिना ।
येषां मते परमार्थत एव जीवादन्यः परो जगच्चान्यत् , तेषां मते विदुषो भयनिवृत्तिर्न स्याद्भयहेतोरन्यस्येश्वरस्य सत्त्वादित्यर्थः ।
ननु परमार्थतोऽन्यस्यापि सत ईश्वरस्य विद्यया नाशसम्भवात्स्यादेव भयनिवृत्तिरिति ; नेत्याह –
सतश्चेति ।
च-शब्दः शङ्कानिरासार्थः । आत्महानं स्वरूपनाशः ।
तत्र दृष्टान्तमाह –
न चासत आत्मलाभ इति ।
यथा शशशृङ्गादेरसत आत्मलाभशब्दितोत्पत्तिर्न सम्भवति तथैवेश्वरस्य परमार्थसतो नाशो नोपपद्यत इत्यर्थः । न च परमार्थस्यापि पटादेर्नाशो दृष्ट इति वाच्यम् , पटादौ परमार्थत्वासम्प्रतिपत्तेः भिन्नेश्वरवादिभिरीश्वरनाशेन विदुषो भयनिवृत्त्यनभ्युपगमाच्चेति भावः ।
नन्वीश्वरस्य प्राणिकर्मसापेक्षस्यैवास्माभिर्भयहेतुत्वमुपेयते न सत्तामात्रेण, विदुषस्तु कर्माभावादभयं भविष्यतीति शङ्कते –
सापेक्षस्येति ।
निराकरोति –
न तस्यापीति ।
ईश्वरं प्रति सहायभूतस्य धर्मादेरपि त्वया परमार्थसत्यत्वाभ्युपगमादीश्वरस्येवात्महानं न सम्भवति ; तथा चास्मिन्नपि पक्षे विदुषो भयानिवृत्तिदोषस्य तुल्यत्वान्नायं परिहारो युक्त इत्यर्थः ।
सङ्ग्रहं विवृणोति –
यद्धर्मादीति ।
नित्यमनित्यं वा यदन्यद्धर्मादिलक्षणं निमित्तमपेक्ष्यान्यद्ब्रह्म भयकारणं स्यात्तस्यापि तथाभूतस्येश्वरवत्परमार्थभूतस्य धर्मादेरात्मनाशाभावादित्यर्थः ।
निमित्तपदव्याख्यानम् –
सहायभूतमिति ।
नित्यमिति साङ्ख्यमताभिप्रायम् , तन्मते धर्मादेः प्रकृतिपरिणामस्य प्रकृत्यात्मना नित्यत्वाभ्युपगमात् ।
परमार्थसतोऽपि धर्मादेरात्महानोपगमे बाधकमाह –
आत्महाने वेति ।
यथा शशशृङ्गादेरसतः सत्त्वापत्तावसत्स्वभाववैपरीत्यं तथा सतः परमार्थस्यापि नाशेनासत्त्वापत्तौ सत्स्वभाववैपरीत्यमापद्येत ; एवं सदसतोरितरेतरतापत्तावुपगम्यमानायामात्माकाशादावपि त्वत्पक्षे आश्वासो न स्यात् , आत्माकाशादेरप्यसत्त्वप्रसङ्ग इत्यर्थः ; तस्मादीश्वरस्य तत्सहायभूतधर्मादेश्च नाशासम्भवादभयवचनं भिन्नेश्वरवादे न सम्भवतीति स्थितम् ।
स्वमते तु नोक्तदोष इत्याह –
एकत्वपक्ष इति ।
निमित्तमविद्या, तया सहैव जीवेश्वरविभागादिलक्षणस्य संसारस्य भ्रान्तिसिद्धत्वाद्विद्यया तन्निवृत्तौ सत्यामभयं विदुषः सम्भवतीति स्वमते भयनिवृत्त्यनुपपत्तिदोषो नास्तीत्यर्थः ।
ननु जीवपरयोरेकत्वपक्षेऽपि पूर्वमसतः संसारस्याविद्यादिकारणवशात्सत्त्वापत्तिर्विद्यया चासत्त्वापत्तिरिति स्वभाववैपरीत्यप्रसङ्गदोषस्तुल्य इत्याशङ्क्याह –
तैमिरिकदृष्टस्य हीति ।
दोषवता पुरुषेण दृष्टस्य द्वितीयचन्द्रादेरनिर्वचनीयत्वाद्वस्तुत उत्पत्तिर्विनाशो वा नास्ति, हि प्रसिद्धमित्यर्थः । अयं भावः – चन्द्रद्वित्वादिवदनिर्वचनीयस्य स्थूलसूक्ष्मात्मनानादिकालमारभ्यानुवर्तमानस्य संसारस्याविद्यादिकारणबलेन सर्गादावात्मलाभोपगमेऽपि नासतः सत्त्वापत्तिः असत उत्पत्त्यनुपगमादुत्पन्नस्यापि संसारस्यात्मवत्सत्त्वानुपगमाच्च ; अत एव विद्याबलात्संसारस्यासत्त्वापत्तावपि न सतोऽसत्त्वापत्तिरूपस्वभाववैपरीत्यं संसारस्य सत्त्वानभ्युपगमादेवेति ।
ननु संसारकारणभूताया अविद्याया आत्मधर्मत्वमेवाभ्युपगन्तव्यं धर्म्यन्तरानुपलम्भात् , तथा तन्निवर्तिकाया विद्याया अपि तत्सामानाधिकरण्यलाभायात्मधर्मत्वमेवोपेयमित्यविद्यादिधर्मवता पुरुषेण निर्धर्मकस्य परस्याभिन्नत्वमिति पक्षः कथं सम्भाव्यत इति मन्वानः शङ्कते –
विद्याविद्ययोरिति ।
किं तयोरात्मधर्मत्वं काल्पनिकं विवक्षितं वास्तवं वा ? आद्ये न परापरयोरेकत्वानुपपत्तिरिति मत्वा द्वितीयं निराकरोति –
न, प्रत्यक्षत्वादिति ।
प्रत्यक्षत्वं साक्षिप्रत्यक्षविषयत्वम् , दृश्यत्वमिति यावत् । तथा च विद्याविद्ययोर्दृश्यत्वाद्दृग्रूपात्मधर्मत्वं तयोर्वस्तुतो न सम्भवतीत्यर्थः ।
तयोः स्वरूपकथनपूर्वकं हेतुं साधयति –
विवेकेति ।
सर्वदृश्यविविक्तात्मतत्त्वगोचरा तत्त्वमस्यादिश्रुतिजनिता वृत्तिर्विवेकः तन्निवर्त्या मूलाविद्या अविवेकः ।
ननु दृश्ययोरपि तयोर्द्रष्टृधर्मत्वं किं न स्यादित्याशङ्क्य अन्यत्रादर्शनादित्याह –
न हीति ।
विद्याविद्ययोः प्रत्यक्षत उपलभ्यमानत्वं प्रपञ्चयति –
अविद्या चेत्यादिना ।
चकारोऽवधारणार्थः । किमात्मतत्त्वं जानासीति गुरुणा पृष्टेन शिष्येण आत्मतत्त्वविषये मूढ एवाहं मम स्वरूपभूतं विज्ञानमविविक्तं विविच्य न ज्ञातमित्येवं स्वानुभवेन सिद्धा मूलाविद्या निरूप्यते, तथा विद्योपदेशे प्रवृत्तेन गुरुणा प्रथमं स्वकीया विद्यानुभूयते, पश्चादनुभवसिद्धां तां शिष्येभ्य उपदिशति, शिष्याश्च तां गृहीत्वा उपपत्तिरभिरवधारयन्तीत्यर्थः । विद्याविद्ययोर्दृश्यत्वे नास्ति विवादावसर इत्याशयः ।
तयोरात्मधर्मत्वनिराकरणमुपसंहरति –
तस्मादिति ।
आत्मधर्मत्वासम्भवान्मूढोऽहं विद्वानहमित्यनुभवानुसारेण नामरूपान्तर्भूतान्तःकरणस्यैव विद्याविद्ये धर्मत्वेनावशिष्येते । तदुक्तं प्रागेवान्तःकरणस्थाविति । ननु वृत्तिरूपाया विद्याया अन्तःकरणधर्मत्वेऽपि नाविद्यायास्तद्धर्मत्वम् अविद्याकार्यस्यान्तःकरणस्याविद्याश्रयत्वायोगादिति चेत् ; नायं दोषः, अविद्यायाश्चैतन्याश्रितत्वेऽपि प्रतीतितः कामादिपरिणाम्यन्तःकरणधर्मत्ववर्णनस्यात्र विवक्षितत्वाद् , जीवचैतन्यस्याविद्यावत्त्वेऽपि वस्तुतस्तद्राहित्यान्न ब्रह्मैक्यानुपपत्तिरित्यावेदितमधस्तादिति सङ्क्षेपः ।
ननु विद्याविद्ययोर्नामरूपान्तर्गतान्तःकरणधर्मत्वेऽपि नामरूपयोरेवात्मधर्मत्वमस्तु ; नेत्याह –
नामरूपे चेति ।
नामरूपे चिदात्मनः कल्पितधर्मावेव न वास्तवधर्मौ, चिदात्मनि तयोः शतशो निषेधोपलम्भात् तयोरर्थान्तरत्वाच्चेति भावः । नामरूपे आत्मधर्मौ न भवत इत्यक्षरार्थः ।
तयोश्चिदात्मनः सकाशादर्थान्तरत्वे श्रुतिमाह –
नामरूपयोरिति ।
ते नामरूपे यदन्तरा यस्माद्भिन्ने तन्नामरूपनिर्वहित्राकाशं ब्रह्मेत्यर्थः ।
नामरूपशब्दितस्य प्रपञ्चस्यात्मनि कल्पितधर्मत्वं सदृष्टान्तमाह –
ते च पुनरिति ।
उदयास्तमयवर्जिते सवितरि यथा तौ कल्प्येते तथेत्यर्थः । एवं बहुप्रपञ्चेनैवंवित्पर एवेति साधितम् ।
तत्र पूर्वोक्तामनुपपत्तिमुद्भाव्य निराकरोति –
अभेद इत्यादिना ।
नेति ।
न तावदानन्दमयः परमात्मा तस्य कार्यात्मतायाः प्रागेवोक्तत्वात् ; नापि तत्प्राप्तिः सङ्क्रमणं प्राप्तेः सङ्क्रमणार्थताया निरसिष्यमाणत्वात् , किं तु ब्रह्मात्मैकत्वविज्ञानमात्रकृता भ्रमनिवृत्तिरत्र सङ्क्रमणम् , अतो नोक्तानुपपत्तिरित्यर्थः ।
सङ्ग्रहं विवृणोति –
न, जलूकावदित्यादिना ।
सङ्क्रमणस्य प्राप्तिरूपत्वनिराकरणार्थमाशङ्कामुद्भावयति –
नन्विति ।
'आनन्दमयमात्मानमुपसङ्क्रमति’ इत्युपसङ्क्रमणं श्रूयते ; तच्चान्नमय इवानन्दमयेऽपि मुख्यमेव किं न स्यादिति शङ्कार्थः ।
दृष्टान्तासिद्ध्या निराकरोति –
नेति ।
सङ्ग्रहं विवृणोति –
न मुख्यमेवेत्यादिना ।
आनन्दमयपर्याये सङ्क्रमणं मुख्यं न भवत्येवेति प्रतिज्ञार्थः ।
न हीति ।
बाह्यात्पुत्रभार्यादिलक्षणादस्मादपरोक्षाल्लोकाद्भोगोपायभूतात्प्रेत्य अन्नमयमुपसङ्क्रामतस्तत्त्वविदो जलूकावदन्नमये सङ्क्रमणं न हि दृश्यत इत्यर्थः । यथा एकतृणस्थाया जलूकायास्तृणान्तरप्राप्तिरूपं सङ्क्रमणं दृश्यते, नैवमेवंविदः शरीरस्थस्यान्नमयसङ्क्रमणं दृश्यत इति यावत् । अतो नानन्दमयेऽपि सङ्क्रमणं प्राप्तिरिति भावः ।
ब्रह्मविदः शरीरस्थत्वादेव प्रकारान्तरेण सङ्क्रमणमपि निरस्तमित्याशयेनाह –
अन्यथा वेति ।
नीडे पक्षिप्रवेशवद्वान्नमये सङ्क्रमणं न दृश्यत इत्यर्थः ।
नन्वेवंवित्परयोरभेदेऽपि तस्य प्रवेशादिरूपं परं प्रति सङ्क्रमणं सम्भवति, मनोमयविज्ञानमययोरात्मसङ्क्रमणस्य तथाविधस्य दृष्टत्वादिति मन्वानः शङ्कते –
मनोमयस्येति ।
संशयात्मकवृत्तिमदन्तःकरणं मनोमयः निश्चयात्मकवृत्तिमदन्तःकरणं विज्ञानमय इति विभागः ।
दृष्टान्तासिद्ध्या निराकरोति –
नेति ।
तत्र संशयनिश्चयरूपयोर्वृत्त्योरेव बहिर्विषयदेशे चक्षुरादिद्वारा निर्गमनं पुनः स्वाश्रयं प्रत्यागमनरूपं सङ्क्रमणं च दृश्यते, न तु साक्षान्मनोमयविज्ञानमययोर्बहिर्निर्गमनं स्वात्मनां प्रत्यागमनरूपं च सङ्क्रमणं दृश्यते, न च सम्भवति, स्वात्मनि स्वस्यैव प्रवेशादिक्रियाया विरुद्धत्वादित्यर्थः ।
मनोमयो मनोमयमेवोपसङ्क्रामति विज्ञानमयो विज्ञानमयमेवोपसङ्क्रामतीत्यर्थकल्पनं प्रक्रमविरुद्धं चेत्याह –
अन्य इति ।
एवंविदित्यर्थः ।
एवं दृष्टान्तं निरस्य दार्ष्टान्तिकं निराकरोति –
तथेति ।
आनन्दमय एव सन्नेवंविदानन्दमयं स्वात्मानमुपसङ्क्रामति प्राप्नोति प्रविशतीति वा नोपपद्यते, स्वात्मनि क्रियाविरोधात्प्रक्रमविरोधाच्चेत्यर्थः ।
सङ्क्रमणस्य प्राप्त्यादिरूपत्वनिराकरणमुपसंहरति –
तस्मादिति ।
ननु स्वात्मनि क्रियाविरोधादानन्दमयसङ्क्रमणमानन्दमयकर्तृकं न भवति चेत् , तर्हि अन्नमयाद्यन्यतमकर्तृकमस्तु ; नेत्याह –
नापीति ।
'आनन्दमयमात्मानमुपसङ्क्रामति’ इत्यत्रान्नमयाद्यन्यतमस्य कर्तृत्वेनाश्रवणादिति भावः ।
फलितमाह –
पारिशेष्यादिति ।
प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः परिशेषः, परिशेष एव पारिशेष्यम् , तस्मादित्यर्थः । एतदुक्तं भवति - आनन्दमयसङ्क्रमणे तावदहमनुभवगोचरः कर्तेति निर्विवादम् ; तच्च कर्तृत्वमन्नमयादिष्वपि प्रसक्तम् अन्नमयादीनामप्यहमनुभवगोचरत्वात् ; तत्प्रतिषेधे सत्यहमनुभवगोचरादन्यत्र स्तम्भादिषु तत्कर्तृत्वाप्रसक्तेः शिष्यमाणे चिदात्मन्येवंवित्त्वेन प्रकृते बुद्ध्युपाधिसम्बन्धादानन्दमयसङ्क्रमणकर्तृत्वमस्तीति प्रमारूपः संप्रत्ययो भवति ; तादृशसंप्रत्ययरूपात्परिशेषात्कोशपञ्चकव्यतिरिक्तकर्तृकमानन्दमयसङ्क्रमणमित्युपपद्यते ; एवमन्नमयादिसङ्क्रमणेऽप्येवंविदेव कर्ता, तस्यैव सर्वत्र सङ्क्रमणे कर्तृत्वेन प्रकृतत्वादिति ।
ज्ञानमात्रं चेति ।
तत्त्वज्ञानमात्रकृतं भ्रान्तिनाशरूपमेव सङ्क्रमणमिति चोपपद्यत इत्यर्थः ।
ननु सङ्क्रमशब्दस्य भ्रमनाशे प्रसिद्ध्यभावात्कथमुपपत्तिरित्याशङ्क्याह –
ज्ञानमात्रे चेति ।
ज्ञानमात्रकृते विभ्रमनाशे सङ्क्रमशब्द उपचर्यते न मुख्यस्तत्र, अतो न प्रसिद्ध्यपेक्षेति भावः ।
एतदेव विशदयति –
आनन्दमयेत्यादिना ।
वस्तुतः सर्वान्तरस्य ब्रह्मणो जगत्सृष्ट्वानुप्रविष्टत्वेन श्रुतस्य बुद्धितादात्म्याद्योऽयमन्नमयादिष्वात्मत्वभ्रमो मूलाविद्याकृतः, स मुमुक्षोः कोशविवेकक्रमेणात्मतत्त्वसाक्षात्कारोत्पत्त्या समूलो विनश्यति ।
ततः किम् ? अत आह –
तदेतस्मिन्निति ।
एतदुक्तं भवति - तत्तत्कोशगोचरविभ्रमनाशस्तत्र तत्र सङ्क्रमो विवक्षित इति ।
एवमुपचारे नियामिकां मुख्यार्थानुपपत्तिमुक्तां स्मारयति –
न ह्यञ्जसेति ।
सर्वगतस्येति ।
पूर्णत्वेनात्मानं मन्यमानस्य विदुष इत्यर्थः ।
वस्त्वन्तरेति ।
अत्रोपसङ्क्रमणकर्मत्वेन श्रुतानामन्नमयादीनामप्राप्तग्रामादीनामिवात्यन्तभिन्नत्व - विप्रकृष्टत्वाद्यभावाच्चेत्यर्थः ।
नन्वत्यन्तभेदविप्रकर्षाद्यभावेऽपि मुख्यप्राप्यता किं न स्यादित्याशङ्क्याह –
न च स्वात्मन एवेति ।
न हि रज्जोः स्वाध्यस्तसर्पसङ्क्रमणं मुख्यं दृष्टमित्यर्थः ।
यद्वा विदुषः स्वव्यतिरिक्तवस्त्वभावाच्च न विद्वत्कर्तृकं सङ्क्रमणं मुख्यं सम्भवतीत्याह –
वस्त्वन्तरेति ।
स्वात्मकर्मकमेव तर्हि मुख्यसङ्क्रमणमस्तु ; नेत्याह –
न च स्वात्मन एवेति ।
तत्रोदाहरणमाह –
न हीति ।
इत्थमेवंवित्परयोरभेदसाधनेन सङ्क्रमणमौपचारिकमिति व्याख्याय प्रकरणस्य महातात्पर्यमुपसंहारव्याजेनाह –
तस्मादिति ।
आनन्दमीमांसासङ्ग्रहार्थमादिग्रहणम् । संव्यवहारविषयत्वयोग्यं यदज्ञातं ब्रह्म, तस्मिन्ब्रह्मणि सर्गादिकं लोकभ्रान्तिसिद्धमुपदिश्यते शुद्धब्रह्मप्रतिपत्त्यर्थमेव, न तु श्रुत्या तात्पर्येण प्रतिपाद्यते, सर्गादेर्मायामात्रत्वादित्यर्थः ।
'यतो वाचः ...’ इति मन्त्रो विद्याफलविषय इत्याह –
तमेतमिति ।
एवं विदित्वा क्रमेण कोशानुपसङ्क्रम्येति योजना । यद्यपि कोशानामुपसङ्क्रमणं नाम भ्रमनिवृत्तिरूपो बाध इत्युक्तम् , स च बाधस्तत्त्वज्ञानबलेन युगपदेव सम्भवति रज्जुतत्त्वज्ञानबलेनेव तत्राध्यस्तसर्पधारादीनाम् ; तथापि तत्त्वप्रतिपत्त्युपायभूते कोशविवेचने क्रमस्य प्रागुक्तत्वात्तत्फलप्राप्तावपि स एव क्रमोऽनूदितः श्रुत्येति मन्तव्यम् ।
न केवलं विद्याफलविषय एवायं मन्त्रः, किं तु कृत्स्नवल्ल्यर्थोपसंहारपरश्चेति तात्पर्यान्तरमाह –
सर्वस्यैवेति ॥
'अदृश्येऽनात्म्ये’ इत्यादिनिषेधश्रुतिमभिप्रेत्याह –
निर्विकल्पादिति ।
सर्वविशेषरहितादित्यर्थः ।
'सत्यं ज्ञानमनन्तम्’ इति लक्षणवाक्यमभिप्रेत्याह –
यथोक्तलक्षणादिति ।
आनन्त्यविवरणपराम् ‘आत्मन आकाशः सम्भूतः’ इति सृष्टिश्रुतिमभिप्रेत्याह –
अद्वयादिति ।
यद्वा विशेष्यमाह –
अद्वयादिति ।
ब्रह्मण इत्यर्थः ।
मन्त्रे ‘आनन्दं ब्रह्मणः’ इति भेदनिर्देशः ‘राहोः शिरः’ इतिवदौपचारिक इति मत्वाह –
आनन्दात्मन इति ।
आनन्दस्वरूपादित्यर्थः । ‘आनन्दादात्मनः’ इति व्यस्तपाठेऽप्ययमेवार्थः ।
अभिधानानि वाचकपदानि । तेषां मुख्यविषयत्वमाह –
द्रव्यादीति ।
गुणादिसङ्ग्रहार्थमादिग्रहणम् । सविशोषवस्तुविषयाणीति निष्कर्षः ।
ननु तेषां निर्विशेषे ब्रह्मणि प्राप्तेरप्रसक्तत्वात्कथं प्रतिषेध इत्याशङ्क्याह –
वस्तुसामान्यादिति ।
वस्तुत्वसामान्यादित्यर्थः ।
नन्वप्रकाश्येत्यनुपपन्नम् उपनिषच्छब्दैरवश्यं निर्विकल्पस्य ब्रह्मणः प्रकाशनीयत्वात् अन्यथा ‘तं त्वौपनिषदम्’ इत्युपनिषत्प्रकाश्यत्वश्रुतिविरोधप्रसङ्गादित्याशङ्क्य प्राप्तिनिषेधश्रुतेस्तात्पर्यमाह –
स्वसामर्थ्याद्धीयन्त इति ।
सामर्थ्यं शक्तिः, तद्विषयत्वमेवात्र निषिध्यते, न लक्षणाविषयत्वमपि ; अतो न श्रुत्यन्तरविरोध इति भावः । मनसा सहाप्राप्येति सम्बन्धाद्ब्रह्मणि मनःप्रकाश्यत्वमपि निषिध्यते, स्वप्रकाशस्य तस्य मनःप्रकाश्यत्वायोगात् । तत्र सहशब्देन वाचां मनसश्च सहभाव उच्यते ।
तमुपपादयति –
मन इतीत्यादिना ।
मन इति पदेन प्रत्ययोऽभिधीयते, स च प्रत्ययो ज्ञानसामान्यरूपो न भवति । किं तु वाच इत्यनेन समभिव्याहाराच्छब्दशक्तिजनितं विज्ञानं पर्यवस्यति ।
ततः किमत आह –
तच्चेति ।
यत्र शब्दशक्तिविषयत्वं प्रथममेव प्रवृत्तमस्ति तत्र तदनु शब्दशक्तिजनितविज्ञानप्रकाश्यत्वमपि भवति ; यत्र च तादृशज्ञानप्रकाश्यत्वं तत्र शब्दशक्तिविषयत्वमप्यस्त्येवेति कृत्वा सहभाव उक्त इति निष्कर्षः । तदुक्तं वार्त्तिके - ‘उदपादि च यच्छब्दैर्ज्ञानमाकारवद्धियः । स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते’ इति । धियः अन्तःकरणस्य परिणामरूपं सप्रकारं यज्ज्ञानं शब्दैः शक्त्या उत्पादितम् , तदित्यर्थः । स्वतो बुद्धमित्यस्य स्वप्रकाशमित्यर्थः ।
अतीन्द्रियेऽपीति ।
जगत्कारणाद्यतीन्द्रियार्थेऽपीत्यर्थः ।
तस्मादिति ।
उक्तरीत्या सहैव प्रवृत्तिदर्शनादित्यर्थः ।
एवं वाङ्मनसयोः सहैव प्रवृत्तिमुक्त्वा निवृत्तिरपि सहैवेत्याह –
तस्मादित्यादिना ।
अप्रत्ययविषयादिति ।
प्रत्ययविषयत्वायोग्यादित्यर्थः ।
अनभिधेयादिति ।
शब्दशक्त्ययोग्यादित्यर्थः ।
उभयत्र हेतुं सूचयति –
अदृश्यादिविशेषणादिति ।
निर्विशेषत्वात्स्वप्रकाशत्वाच्चेत्यर्थः ।
सर्वप्रकाशनसमर्थेनेति ।
अग्नितप्तायःपिण्डवच्चैतन्यव्याप्तं वृत्तिज्ञानं समस्तस्य सविशेषस्य प्रकाशने समर्थमपि स्वप्रकाशब्रह्मप्रकाशने सामर्थ्याभावान्निवर्तत इति भावः । शब्दशक्तिजनितविज्ञानस्य निर्विशेषब्रह्मगोचरत्वयोग्यताराहित्यात्तदप्रकाश्यैव निवृत्तिरित्यपि मन्तव्यम् ।
अस्यानन्दस्य पारोक्ष्यवारणाय विद्वत्प्रत्यक्षत्वमाह –
श्रोत्रियस्येति ।
अवृजिनत्वं पापराहित्यम् ।
आनन्दमीमांसावाक्यनिर्दिष्टश्रोत्रियनिरासायात्राकामहतत्वं निरङ्कुशमित्याशयेनाह –
सर्वैषणेति ।
सातिशयानन्दवैलक्षण्यं प्रकृतानन्दस्य दर्शयति –
विषयेति ।
विषयादिसम्बन्धजनितत्वाभावेऽपि गगनादेरिवोत्पत्तिमाशङ्क्याह –
स्वाभाविकमिति ।
अनादिमित्यर्थः ।
अनादेरप्यविद्यादेरिव नाशमाशङ्क्याह –
नित्यमिति ।
सर्वेषु शरीरेषु तस्यैक्यमाह –
अविभक्तमिति ।
अत एवास्यानन्दस्य परमत्वमित्याशयेनाह –
परमानन्दमिति ।
यथोक्तेनेति ।
अन्योऽन्तर आत्मान्योऽन्तर आत्मेत्याद्युक्तेन प्रकारेण यथोक्तमानन्दमात्मत्वेन साक्षात्कृतवानित्यर्थः ।
भयनिमित्ताभावात्कुतोऽपि न बिभेतीत्युक्तमेव विशदयति –
न हीति ।
विदुषो भयनिमित्तं वस्त्वन्तरं नास्तीत्यत्र युक्तिमाह –
अविद्ययेत्यादिना ।
ततः किम् ? अत आह –
विदुषस्त्विति ।
भयनिमित्तस्य अविद्याकार्यस्य नाशादिति सम्बन्धः ।
अधिष्ठानयाथात्म्यगोचरविद्यया अध्यस्तवस्तुनाशे दृष्टान्तमाह –
तैमिरिकेति ।
तैमिरिकदृष्टस्य द्वितीयचन्द्रस्य चन्द्रैकत्वविद्यया नाशवदित्यर्थः ।
ननु विशुद्धब्रह्मप्रतिपादकोऽयं मन्त्रः कथमब्रह्मणि मनोमये उदाहृतः कथं वा तत्र भयनिमित्तनिषेधमकृत्वा भयमात्रनिषेधः कृत इत्याशङ्क्याह –
मनोमये चेति ।
मनोमयशब्दवाच्यस्यास्मदादिमनसो ब्रह्मविज्ञानसाधनत्वात्तत्र मनसि ब्रह्मत्वमध्यारोप्य मनोमये चायं मन्त्र उदाहृत इति योजना ; अतो नोदाहरणानुपपत्तिरिति भावः ।
तत्स्तुत्यर्थमिति ।
मनोमयोपासनस्य ब्रह्मविद्याशेषत्वेन फलस्याविवक्षितत्वात्तदुपासनस्य साक्षाद्भयनिमित्तनिरसने सामर्थ्याभावाच्च मनोमयोपासनस्तुतये तत्र भयमात्रं निषिद्धमित्यर्थः ।
प्रकृते तद्वैषम्यमाह –
इह त्विति ।
अद्वैते विद्याविषये ब्रह्मणि द्वैतावशेषासम्भवाद्भयनिमित्तनिषेध उपपद्यत इत्यर्थः ।
भयनिमित्तनिषेधमाक्षिपति –
नन्वस्तीति ।
परिहरति –
नैवमिति ।
विदुषः साध्वकरणं पापकरणं च भयकारणमस्तीत्येवं न वक्तव्यमित्यर्थः ।
तत्र हेतुं पृच्छति –
कथमिति ।
श्रुत्या हेतुमाह –
उच्यत इत्यादिना ।
यथोक्तमिति ।
'आनन्दं ब्रह्मणो विद्वान् ‘ इत्यादिपूर्वग्रन्थे प्रकृतमित्यर्थः ।
कथं पुनरिति ।
साध्वकरणादिकं कथं सन्तापयत्सदेवंविदमेव न सन्तापयतीति प्रश्नार्थः ।
अहमेवमिति ।
अविदुषामासन्ने मरणकाले एवं श्रुत्युक्तप्रकारेण सन्तापो भवतीति योजना ।
एवमविदुषां पापकरणनिमित्तकोऽपि पश्चात्सन्तापो भवतीत्याह –
तथेति ।
विदुषस्तदभावमाह –
ते एते इति ।
एवंशब्दार्थमेव विवृणोति –
यथेति ।
पुण्यपापयोरात्ममात्रत्वेन दर्शनं विदुषः सन्तापाभावे हेतुरिति प्रश्नपूर्वकमाह –
कस्मात्पुनरित्यादिना ।
एते इति सर्वनाम्नः प्रकृतसाध्वकरणादिपरत्वं व्यावर्तयति –
साध्वसाधुनी इति ।
तापहेतू इतीति इति-शब्दः प्रकारवचनः । अकरणकरणद्वारा तापहेतुत्वेनोक्ते इत्यर्थः ।
नन्वत्र एते आत्मानमिति सामानाधिकरण्यात्पुण्यपापयोरात्माभिन्नत्वं भाति, ततश्चात्माभिन्नत्वकृतं पुण्यपापयोः प्रीणनं बलनं वा वाक्यार्थः स्यात् ; न च तत्सम्भवति, तयोः प्रीत्यादिमत्त्वायोगात् ; न चात्मनः पुण्यपपाभिन्नत्वबोधनद्वारा तत्कृतं प्रीणनादिकमात्मनो भवतीति वाक्यार्थ इह विवक्षित इति वाच्यम् , आत्मनि तापककर्मात्मकत्वस्य प्रीत्यादिहेतुत्वासम्भवात् , तस्य प्रीतिबलनहेतुत्वोक्तावपि भयनिवृत्तिहेतुत्वानभिधानाच्चेत्याशङ्क्य विवक्षितं वाक्यार्थमाह –
परमात्मभावेनोभे पश्यतीत्यर्थ इति ।
'स य एवं विद्वानेते आत्मानं स्पृणुते’ इति वाक्योक्तं पुण्यपापयोरात्ममात्रत्वदर्शनमुत्तरवाक्येनानूद्य तस्य विदुषि तापाभावहेतुत्वं प्रतिपाद्यते हि-शब्दयुक्तत्वादुत्तरवाक्यस्येत्याशयेनाह –
उभे इत्यादिना ।
एवकारमात्मपदेन योजयति –
आत्मस्वरूपेणैवेति ।
पश्यतीति शेषः ।
ननु ज्योतिष्टोमकलञ्जभक्षणादिलक्षणं कर्मास्ति प्रकाशत इत्यनुभवानुरोधात्पुण्यपापयोः सर्वानुगतः सच्चिदंश इतरव्यावृत्तो जडांशश्चास्ति, तथा च चिज्जडोभयरूपयोस्तयोः कथं चिदेकरसात्मभावेन दर्शनमित्याशङ्क्याह –
स्वेनेति ।
स्वीयं यद्विशेषरूपं जडांशः तेन हीने कृत्वा अनुसन्धायेत्यर्थः ।
आत्मानं स्पृणुत एवेति ।
पुण्यपापे चिदंशाभिप्रायेणात्मरूपेणैव पश्यतीत्यर्थः ।
एष एते उभे आत्मानमेव स्पृणुत इत्युक्तम् , तत्र एतच्छब्दार्थं पृच्छति –
क इति ।
श्रुत्योत्तरमाह –
य इति ।
एवमित्यस्य व्याख्यानम् –
यथोक्तमिति ।
'सत्यं ज्ञानम् ‘ इत्यादिमन्त्रब्राह्मणजातेन यथानिरूपितमित्यर्थः ।
यथोक्तं स्वरूपमेव सङ्क्षिप्याह –
अद्वैतमानन्दमिति ।
यः सर्वात्मकमानन्दरूपं ब्रह्मात्मत्वेन वेद स पुण्यपापे अप्यात्मस्वरूपेणैव पश्यतीत्यर्थः । तस्येत्यतः प्राक्तस्मादिति शेषः, हि यस्मादित्युपक्रमात् ।
ननु नास्तिकतमस्य मरणकाले संनिहितेऽपि नास्ति साध्वकरणादिकृतः सन्तापः, तावता पारलौकिकं भयं तस्य परिहृतं न भवति ; तथा सर्वात्मैकत्वदर्शिनः पुण्यपापयोरप्यात्मभावं पश्यतो मास्त्विदानीं भयम् , पारलौकिकं तु कर्मनिमित्तं भयं भविष्यतीत्यविज्ञातमेव ; नेत्याह –
निर्वीर्य इति ।
भर्जितबीजवदिति भावः ।
निर्वीर्यत्वफलमाह –
जन्मारम्भके न भवत इति ।
अतो न विदुषः पारलौकिकभयप्रसक्तिरित्यर्थः ।
इत्युपनिषदित्यस्यार्थमाह –
इतीत्यादिना ।
इतिशब्दपरामृष्टा यथोक्ता ब्रह्मविद्या उपनिषत्परमरहस्यम् , तच्च परमरहस्यमस्यां वल्ल्यां दर्शितमित्यन्वयः ।
परमरहस्यत्वे हेतुः –
यस्मादेवं तस्मादिति ।
यस्माद्यथोक्ता विद्या एवं मुक्तिफला तस्मादित्यर्थः । इतरासां सर्वासां विद्यानां रहस्यभूतानामपि न मुक्तिफलकत्वम् , अतो न परमत्वमिति भावः ।
उपनिषत्पदस्यार्थान्तराभिप्रायेणाह –
परं श्रेय इति ।
अस्यां विद्यायां सत्यामस्य विदुषः परं श्रेयो ब्रह्मस्वरूपभूतम् उप सामीप्येन प्रत्यक्त्वेन निषण्णं नितरां स्थितं भवति यतः, अत इयं विद्या उपनिषदित्यर्थः । इति-शब्दो ब्रह्मवल्लीविवरणसमाप्त्यर्थः ॥