अद्वैतशारदा

वनमालाव्याख्या

ब्रह्मानन्दवल्ली: प्रथमोऽनुवाकः (३)

असदिति पदेनाव्याकृतं ब्रह्मोच्यत इति सम्बन्धः । तत्रा­स­च्छ­ब्द­प्र­योगे हेतुमाह –
व्याकृतेति ।
व्याकृतौ व्यक्तीकृतौ नामरूपात्मकौ विशेषौ यस्य जग­त­स्त­स्मि­न्स­च्छ­ब्दस्य प्रसि­द्ध­त्वा­त्त­द्वि­प­रीते कारणे ब्रह्म­ण्य­स­च्छ­ब्द­प्र­योग इत्यर्थः ।

नन्वसत्पदस्य शून्यवाचित्वमेव किं न स्यात् ? तत्राह –
न पुनरिति ।

तत्र हेतुः –
न हीति ।
हि यस्मादसतः सकाशात्सतः कार्यस्य जन्म लोके नास्ति तस्मादत्र सज्ज­न्म­हे­तु­त्वेन श्रूय­मा­ण­म­स­द­त्य­न्ता­सन्न भवतीत्यर्थः ।

इदमिति पदस्यार्थमाह –
नामरूपेति ।

तत इति ।
कारणादित्यर्थः ।

स्वयमिति ।
स्वय­म­न्या­न­धि­ष्ठितं सदात्मानमेव जगदात्मना कृतवदित्यर्थः ।

यस्मादेवमिति ।
यस्माद्ब्रह्म स्वयमेव कृतवदित्यर्थः । सूपसर्गस्य शोभनवाचिनः स्वयं­श­ब्द­नि­र्दि­ष्ट­म­प­र­त­न्त्र­त्व­ल­क्षणं शोभनमर्थः । कर्मार्थकस्यापि क्तप्रत्ययस्य च्छान्दस्या प्रक्रियया कर्तृ­त्व­वा­चि­त्व­स्वी­का­रा­त्कृ­त­मि­त्यस्य कर्त्रर्थः । तथा च तस्मादिति हेतुवचनानुसारेण स्वयं कर्तृत्ववेषेण ब्रह्मैव सुकृतमित्युच्यत इत्यर्थः ।

ननु ब्रह्मण एव स्वयं कर्तृ­त्वा­त्सु­कृ­त­श­ब्द­वा­च्य­त्व­मि­त्य­युक्तं ब्रह्मा­न्य­स्यापि कस्यचित्स्वयं कर्तृ­त्व­स­म्भ­वा­दि­त्या­श­ङ्क्याह –
स्वयमिति ।
लोकशब्दिते शास्त्रे सम­स्त­ज­ग­त्का­र­ण­त्वा­द्ब्र­ह्मैव स्वय­म­न्या­न­धि­ष्ठि­त­तया जगत्कर्त्रिति प्रसिद्धं नान्यत् , अतो नातिप्रसङ्ग इति भावः ।

'तदात्मानं स्वयमकुरुत’ ‘तस्मा­त्त­त्सु­कृ­त­मु­च्यते’ इति वाक्यद्वयं पुनरपि योज­य­न्प्र­का­रा­न्त­रेण ब्रह्मणः सुकृ­त­श­ब्द­वा­च्य­त्व­माह –
यस्माद्वेति ।
यद्वा ब्रह्म स्वयमात्मानमेव सर्वं जगदकरोत् यस्मादात्मानमेव सर्व­ज­ग­दा­त्म­ना­क­रो­त्त­स्मा­त्त­देव कारणं ब्रह्म पुण्य­रू­पे­णा­प्य­व­स्थितं सत्सुकृतमुच्यत इति योजना ।

'असद्वा इदमग्र आसीत्’ इति प्रकृतश्लोके ‘तस्मा­त्त­त्सु­कृ­त­मु­च्यते’ इति भागस्य ब्रह्मणः सुकृ­त­श­ब्द­वा­च्य­त्व­सा­धने न तात्पर्यं वैफल्यात् , किं तु ब्रह्मा­स्ति­त्व­सा­धन एव तात्पर्यं तत्परतयैवास्य श्लोक­स्या­व­ता­रि­त­त्वा­दि­त्या­श­येन सुकृ­त­श­ब्द­वा­च्येऽ­नास्थां प्रद­र्श­य­न्ब्र­ह्मा­स्ति­त्व­सा­धने उपयोगं सुकृतवाक्यस्य दर्शयति –
सर्वथापि त्वित्यादिना ।
यदि प्रसि­द्धि­ब­ला­त्पुण्यं सुकृतशब्दवाच्यं यदि वास्म­दु­क्त­रीत्या ब्रह्म उभयथापि सुकृतशब्दवाच्यं स्वर्गा­दि­फ­ल­स­म्ब­न्धा­दि­का­रणं लोकशब्दिते शास्त्रे प्रसि­द्ध­मि­त्यर्थः । तत्र पुण्यस्य फल­स­म्ब­न्ध­त­त्सा­ध­न­दि­व्य­दे­हा­दि­स­म्ब­न्ध­का­र­णत्वं कर्मकाण्डे प्रसिद्धम् , स्वयं कर्तृतया सुकृ­त­श­ब्द­वा­च्यस्य ब्रह्मणोऽपि फल­स­म्ब­न्धा­दि­का­र­ण­त्वम् ‘श्रुतत्वाच्च’ इति सूत्रो­दा­हृ­त­श्रु­ति­प्र­सि­द्ध­मिति विभागः । फलदातृत्वस्य श्रुति­सि­द्ध­त्वा­दु­प­प­त्तेश्च ब्रह्मैव फलदातृ, न कर्म आशु­त­र­वि­ना­शि­त्वा­दिति सूत्रार्थः ।

ततः किम् ? अत आह –
सा प्रसिद्धिरिति ।
सुकृ­त­श­ब्द­वा­च्य­पु­ण्यस्य सा फल­स­म्ब­न्धा­दि­का­र­ण­त्व­प्र­सिद्धिः आशुतरविनाशिनो जडस्य पुण्यकर्मणः स्वतः फल­दा­तृ­त्वा­यो­गा­न्नित्ये सर्वज्ञे ब्रह्मणि सत्येवोपपद्यत इत्यर्थः । ब्रह्मणः सुकृ­त­श­ब्द­वा­च्य­त्व­पक्षे तु सा ब्रह्मणि फल­स­म्ब­न्धा­दि­का­र­ण­त्व­प्र­सि­द्धि­स्त­स्या­सत्त्वे नोपपद्यत इति बहिरेव द्रष्टव्यम् ।

उपसंहरति –
तस्मादिति ।
सुकृतस्य फल­स­म्ब­न्धा­दि­का­र­ण­त्व­प्र­सि­द्धे­रि­त्यर्थः ।

रसत्वादिति ।
आनन्दत्वादिति यावत् । यत्सु­कृ­त­श­ब्द­वा­च्य­त्वेन प्रसिद्धं ब्रह्म तदेव रसः । विधेयापेक्षया पुंलि­ङ्ग­नि­र्देशः ।

रसशब्दो ब्रह्मानन्दे गौण इति मत्वा गुणज्ञानाय मुख्यार्थमाह –
रसो नामेति ।
तृप्तिपदं तुष्टिपरम् । एवं ब्रह्मानन्दोऽपि सत्त्व­प्र­धा­नेऽ­न्तः­क­र­णेऽ­भि­व्यक्तः सन्प्रा­णि­ना­मा­न­न्द­कर इति प्रागभिहितम् । तथा चान­न्द­क­र­त्व­सा­म्या­द्र­स­शब्दो ब्रह्मानन्दे गौण इति भावः ।

रसमिवायमिति ।
अयं लोकः प्रसि­द्ध­र­स­स­दृ­श­मा­त्मा­नन्दं वृत्तिद्वारा लब्ध्वेत्यर्थः ।

सुखी भवतीति ।
तथा चान­न्द­क­र­त्वा­दा­न­न्द­रूपं ब्रह्मास्तीति भावः ।

ननु ब्रह्मणः सत्त्वा­भा­वेऽ­प्या­न­न्द­हे­तु­त्व­मस्तु ; नेत्याह –
नासत इति ।

ननु विष­या­णा­मे­वा­न­न्द­हे­तुत्वं न ब्रह्मा­न­न्द­स्ये­त्या­शङ्क्य विष­य­शू­न्या­ना­म­प्या­न­न्द­द­र्श­ना­न्मै­व­मि­त्याह –
बाह्येति ।
बाह्यत्वं साधनविशेषणम् । निरीहाः सम­स्त­क­र­ण­चे­ष्टा­व­र्जिताः, समाधिनिष्ठा इति यावत् । निरेषणाः नीरागाः विद्वांसः, साक्षा­त्कृ­त­ब्र­ह्म­तत्त्वा इति यावत् ।

तेषामानन्दकारणं ब्रह्मैवेति निश्चीयत इत्याह –
नूनमिति ।

एवं विष­या­भा­वेऽ­प्या­न­न्द­द­र्श­ना­द्वि­ष­या­नु­स­न्धा­न­स्थ­लेऽपि विषयाणां वृत्ति­वि­शे­ष­द्वारा स्वरू­पा­न­न्द­व्य­ञ्ज­क­त्व­मेव, नावि­द्य­मा­ना­न­न्द­स्व­रू­पो­त्पा­द­क­त्व­मिति प्रागावेदितम् ; अतः सर्व­प्रा­ण्या­न­न्द­हे­तु­त्वा­दस्ति तदानन्दकारणं ब्रह्मे­त्यु­प­सं­ह­रति –
तस्मादिति ।
तेषा­मि­त्यु­प­ल­क्ष­णम् , सर्व­प्रा­णि­ना­मि­त्यर्थः ।

इतश्चेति ।
वक्ष्य­मा­ण­हे­तो­रपि ब्रह्मास्ति ।

तमेव हेतु­मा­का­ङ्क्षा­पू­र्व­क­माह –
कुत इत्यादिना ।

हेतुं साधयति –
अयमपि हीति ।
अपि­श­ब्दोऽ­नु­क्त­स­मु­च्च­यार्थः सन्ना­धि­दै­वि­का­दि­पि­ण्ड­स­ङ्ग्र­हार्थः । अध्या­त्मा­धि­भू­ता­धि­दै­वि­केषु पिण्डेषु प्राणनादिक्रिया प्रत्य­क्षा­नु­मा­ना­दि­प्र­सि­द्धेति सूचनार्थो हि-शब्दः ।

मृतदेहं व्यावर्तयति –
जीवत इति ।

'को ह्येवान्यात्कः प्राण्यात्’ इति श्रुतौ प्राणा­पा­न­ग्र­ह­ण­मु­प­ल­क्ष­ण­मि­त्या­श­ये­नाह –
इत्येवमिति ।

संहतैरिति ।
यथा मृद्दा­रु­तृ­णा­दीनि गृह­प्रा­सा­दा­दि­भा­वेन संहन्यन्ते तथा शरीरभावेन कार्यकरणानि संहन्यन्त इति भावः ।

ततः किमित्यत आह –
तच्चैकार्थेति ।
कार्य­क­र­णा­ना­मे­कस्य चेतनस्यार्थं प्रयोजनं प्रति साधनत्वेन मेलनमित्यर्थः ।

असंहतमिति ।
संह­त­का­र्य­क­र­ण­व्य­ति­रि­क्त­मि­त्यर्थः ।

अन्यत्रेति ।
गृहप्रासादादिषु स्वतन्त्रं चेतनं स्वामिनमन्तरेण संह­न­न­स्या­द­र्श­ना­त्का­र्य­क­र­ण­स­ङ्घा­तेऽपि तद्विलक्षणः स्वामी चेतनोऽस्तीति निश्चीयते । स च चेतनः प्रतिशरीरं भेदेऽ­न­न्य­था­सि­द्ध­प्र­मा­णा­भा­वा­त्स­र्वा­त्मकं ब्रह्मैवेति तद­स्ति­त्व­सि­द्धि­रि­त्यर्थः ।

इतश्चेत्यादिना प्रसाधितेऽर्थे वाक्यमवतारयति –
तदाहेति ।
तत्का­र्य­क­र­ण­चे­ष्टा­शे­षि­त्वेन ब्रह्म­णोऽ­स्ति­त्व­माह श्रुतिरित्यर्थः । ननु ‘आकाश आनन्दो न स्यात्’ इत्य­त्रा­का­शा­न­न्द­प­दयोः सामा­ना­धि­क­र­ण्य­मु­चि­तम् , योगेन निरूढ्या वा आकाशपदस्य ब्रह्मण्यपि प्रयोगसम्भवात् , अत एव ‘आका­श­स्त­ल्लि­ङ्गात्’ इत्यधिकरणे अत्र­त्या­का­श­प­द­स्या­न­न्द­त्व­रू­प­ब्र­ह्मा­सा­धा­र­ण­गु­ण­श्र­व­णा­द्ब्र­ह्म­प­र­त्व­मा­चा­र्यै­रेवे दर्शितम् ; तथापि गुहा­नि­हि­त­वा­क्या­नु­सा­रात् रूढ्यनुसाराच्च वैय­धि­क­र­ण्य­मु­क्त­मिति मन्तव्यम् ।

न भवेदिति ।
सन्न स्यादित्यर्थः । अपानचेष्टां निःश्वासमिति यावत् ।

यदर्था इति ।
कार्यकरणानां प्राण­ना­द्यु­प­ल­क्षिताः सर्वाश्चेष्टा यदर्थाः यस्यासंहतस्य चेतनस्य भोगार्थाः स चेतनोऽस्त्येव अन्यथा भोक्तुरभावेन कार्य­क­र­ण­चे­ष्टानां वैय­र्थ्य­प्र­स­ङ्गात् तस्य च चेतनस्य वस्तुगत्या ब्रह्मत्वादस्ति तद्ब्र­ह्मे­त्यु­क्तम् ।

तत्कृत एव चेति ।
आत्मानन्दकृत एव लोक­स्या­न­न्द­श्चे­त्यर्थः ।

ननु पर­स्यै­वा­न­न्द­रू­प­त्वा­दा­न­न्द­हे­तु­त्व­म­यु­क्तम् आन­न्द­भे­दा­भा­वा­दि­त्या­श­ङ्क्याह –
स एवेति ।

अविद्ययेति ।
भ्रान्त्या नाना­त्वे­ना­नु­भू­यत इत्यर्थः ।

'यदा ह्येवैषः’ इत्या­दे­स्ता­त्प­र्य­माह –
भयाभयेति ।

नन्वसतः सकाशादेव भयनिवृत्तिरस्तु ; नेत्याह –
सद्वस्त्वाश्रयण इति ।
लोके श्रीरामादेः सत एव भय­नि­वृ­त्ति­हे­तु­त्व­प्र­सि­द्धे­र­सतः शश­शृ­ङ्गा­दे­स्त­द­प्र­सि­द्धेश्च अस­द्ब्र­ह्मा­श्र­य­णा­द्भ­य­नि­वृ­त्ति­र्नो­प­प­द्यत इत्यर्थः ।

ब्रह्मणो विद्व­द­भ­य­हे­तुत्वे मानं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।

विकार इति ।
अध्यस्तमिति यावत् ।

अविषयीभूत इति ।
सर्वदृश्यवर्जित इति यावत् ।

आत्म्य­प­दे­ना­त्मीयं शरीरमुच्यत इत्याशयेनाह –
अशरीर इति ।

यस्माच्चेति ।
च-शब्दोऽ­व­धा­र­णार्थः । यस्मा­द्धे­तो­र­नात्म्यं ब्रह्म तस्मादेव हेतो­र­नि­रु­क्त­म­पी­त्यर्थः । अत्रा­त्म्य­नि­रु­क्त­नि­ल­य­नानां दृश्य­वि­शे­ष­त्वा­द्दृ­श्य­सा­मा­न्य­नि­षे­धस्य ‘व्याप­क­नि­वृत्त्या व्याप्य­नि­वृत्तिः’ इति न्याये­ना­त्म्य­नि­रु­क्त­नि­ल­य­न­नि­षे­ध­हे­तु­त्व­मत्र विवक्षितमिति मन्तव्यम् ।

विशेषो हीति ।
स विशेषः पदार्थ इत्यर्थः । निरुच्यते समा­ना­स­मा­न­जा­ती­येभ्यो निष्कृष्योच्यत इत्यर्थः । घटा­दि­र­त्रो­दा­ह­र­णम् ।

यत एवमिति ।
यतः अदृ­श्य­त्वा­द्धे­तो­र­नि­रुक्तं ब्रह्म तस्मादेव हेतोरनिलयनम् आधा­र­र­हि­त­मि­त्यर्थः । यद्वा यथा­श्रु­ता­नु­रो­धेन पूर्व­पू­र्व­नि­षे­ध­स्यै­वो­त्त­रो­त्त­र­नि­षे­ध­हे­तुत्वं बोध्यम् ।

एवं व्याख्यातानि पदान्यनूद्य वाक्यार्थमाह –
तस्मि­न्ने­त­स्मि­न्नि­त्या­दिना ।
सर्वकार्यपदं दृश्य­मा­त्रो­प­ल­क्ष­णा­र्थम् , अन्यथा मूला­वि­द्या­दि­वै­ल­क्ष­ण्य­सि­द्ध्य­भा­व­प्र­स­ङ्गा­दिति बोध्यम् ।

क्रिया­वि­शे­ष­ण­मिति ।
अभयं यथा भवति तथा विन्दत इति लाभ­क्रि­या­वि­शे­ष­ण­मि­त्यर्थः ।

प्रति­ष्ठा­वि­शे­षणं वेत्याह –
अभयामिति वेति ।

आत्मभावमिति ।
सर्वविशेषरहितं ब्रह्माहमिति साक्षा­त्का­रा­भि­व्य­ङ्ग्य­मिति शेषः ।

अदर्शनादिति ।
वस्तुत इति शेषः । विदुषोऽपि बाधि­त­द्वै­त­द­र्श­ना­भ्यु­प­ग­मा­दिति मन्तव्यम् ।

अभयप्राप्तिमेव विवृणोति –
स्वरूपप्रतिष्ठो हीति ।
यत्र यस्मिन्स्वरूपे स्थितो विद्वा­न्व­स्तु­तोऽ­न्यन्न पश्यति अन्यन्न शृणोति अन्यन्न विजानाति च, तादृ­श­स्व­रू­प­प्रि­त­ष्ठोऽसौ विद्वान् तदा विद्याकाले भवतीति मन्त­व्य­मि­त्यर्थः ; अद्वितीयं ब्रह्मैव तदा भवतीति यावत् । तत्र ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्या­दि­श्रु­ति­प्र­सि­द्धि­सू­च­नार्थो हि-शब्दः ।

ननु विदु­षोऽ­न्य­द­र्श­ना­भा­वेऽपि कथं भय­नि­वृ­त्ति­रि­त्यत आह –
अन्यस्य हीति ।

ननु स्वस्मादपि स्वस्य भयं किं न स्यादि­त्या­श­ङ्क्याह –
नात्मन इति ।
तथा सति ‘द्वितीयाद्वै भयं भवति’ इति श्रुति­वि­रो­ध­प्र­स­ङ्गा­द­नु­भ­व­वि­रो­ध­प्र­स­ङ्गा­च्चेति भावः ।

अनात्मैवेति ।
स च विदुषो वस्तुतो नास्ति, अतः ‘अथ सोऽभयं गतो भवति’ इति वचनमुपपन्नमिति भावः ।

यदुक्तं विद्व­द­भ­य­हे­तु­त्वा­दस्ति ब्रह्मेति तदनुभवेन साधयति –
सर्वत इति ।
ब्राह्मणा ब्रह्मविदः ।

भयहेतुष्विति ।
शरीरप्रतिकूलेषु सर्प­व्या­घ्रा­दि­ष्वि­त्यर्थः ।

उक्तमर्थं सङ्क्षिप्य प्रश्नपूर्वकमाह –
कदासावित्यादिना ।

तैमिरिकेति ।
यथा तैमिरिको दुष्टनेत्रः पुरुषो वस्तुत एकस्मिन्नेव चन्द्रे चन्द्रभेदं पश्यति तथा एक­स्मि­न्ने­वा­त्म­स्व­रूपे ब्रह्म­ण्य­वि­द्यया कल्पितं भेदरूपं वस्तु यदा पश्यतीत्यर्थः ।

अवि­द्या­प्र­त्यु­प­स्था­पि­त­भे­द­व­स्तु­द­र्श­न­मे­वा­क्ष­र­व्या­ख्या­न­पू­र्वकं विवृणोति –
उदित्यादिना ।

नन्व­त्रा­न्त­र­श­ब्दि­त­स्या­त्म­ब्र­ह्म­भे­द­स्या­ना­दि­त्वा­द­न्तरं कुरुत इत्य­नु­प­प­न्न­मि­त्या­श­ङ्क्याह –
भेददर्शनमिति ।

इतश्चान्तरपदं भेददर्शनपरमेव न भेदपरमित्याह –
भेददर्शनमेव हीति ।

अल्पमपीति ।
उपा­स्यो­पा­स­क­भा­वो­पे­त­म­पी­त्यर्थः ।

आत्मन इति ।
भेदेन दृष्टा­दी­श्व­रा­दि­त्यर्थः ।

उक्तमर्थं सङ्क्षिप्याह –
तस्मादिति ।
स्वरूपभूतोऽपि परमात्मा तद्भेददर्शिनो भय­का­र­ण­मि­त्युक्तं भवतीत्यर्थः ।

अस्मिन्नर्थे उत्त­र­वा­क्य­म­व­तार्य व्याचष्टे –
तदेतदाहेति ।

विद्वानपीति ।
य एक­रू­प­म­द्वि­ती­य­मा­त्म­न­स्तत्त्वं न पश्यति, सोऽयं विद्वानपि सक­ल­वे­द­शा­स्त्र­वि­दपि अविद्वानेव भय­म­ध्य­स्थ­त्वा­दि­त्यर्थः ।

नन्वविदुषः स्वस्ये­श्व­रा­द्भेदं पश्यतोऽपि कथं भयसम्भावना ? तत्राह –
उच्छेदेति ।
उच्छेदो नाशपीडादिः, तत्का­र­ण­व­स्तु­ज्ञा­ना­दु­च्छे­द्य­त्वे­ना­भि­म­तस्य प्राणिवर्गस्य भयं भवतीत्यर्थः । तच्च सर्वो­च्छे­द­हे­तु­भूतं वस्तु ब्रह्मै­वे­त्या­शयः ।

कुत इत्यत आह –
अनुच्छेद्यं हीति ।
उच्छे­द­हे­तो­र­प्यु­च्छे­द्यत्वे तस्य तस्यान्य उच्छे­द­हे­तु­र्व­क्तव्य इत्य­न­व­स्था­प्र­स­ङ्गा­न्नि­त्यत्वं वक्तव्यम् ; तच्च ब्रह्मणोऽन्यत्र न सम्भाव्यते, ‘अतोऽ­न्य­दा­र्तम्’ इति श्रुत्या तदतिरिक्तस्य सर्वस्य नाश­प्र­ति­पा­द­ना­दिति भावः ।

एवं भेददर्शिनः प्राणिवर्गस्य भयकारणं ब्रह्मेति वदतो वाक्यसन्दर्भस्य ब्रह्मा­स्ति­त्व­सा­धने तात्पर्यमादौ सङ्गृहीतं प्रपञ्चयति –
तन्नासतीति ।
तस्मा­दु­च्छे­द­हे­तु­द­र्श­न­कार्यं भयं जगतो दृश्यमानं स्वय­म­नु­च्छे­द्य­स्व­भावे परे­षा­मु­च्छे­द­हे­ता­व­सति न युक्तमिति योजना ।

ननु तद्दर्शनकार्यं भयं जगतो नास्तीति वदन्तं प्रत्याह –
सर्वं चेति ।

अनु­च्छे­दा­त्म­क­मिति ।
नित्यमिति यावत् ।

यत इति ।
यतो जगद्बिभेति तद्भयकारणमस्ति नूनं निश्चय इत्यर्थः ॥

अस्मादिति ।
प्रकृ­ता­द्ब्र­ह्मण इत्यर्थः । अग्नि­श्चे­न्द्रश्च स्वस्व­का­र्य­म­नु­ति­ष्ठत इत्यर्थः ।

धावतीति ।
समाप्तायुषः प्रतीति शेषः । पञ्चमः पञ्च­त्व­स­ङ्ख्या­पू­रक इत्यर्थः ।

श्लोकस्य भय­का­र­ण­ब्र­ह्मा­स्तित्वे तात्पर्यं दर्शयति –
वातादयो हीति ।

महार्हा इति ।
पूज्यतमा इत्यर्थः । यदा वाय्वादीनामपि भयकारणं ब्रह्म तदान्येषां किमु वक्त­व्य­मि­त्या­श­येन श्रुतौ वातादय उदाहृताः, तमाशयं प्रकटयितुं महा­र्ह­त्वा­दि­वि­शे­ष­ण­मिति मन्तव्यम् ।

ननु स्वयं दिगीश्वराणामपि तेषां नियता प्रवृत्तिः स्वत एवास्तु यथेश्वरस्य सृष्ट्यादौ नियता प्रवृ­त्ति­र­न­न्या­यत्ता तद्वदिति ; नेत्याह –
तद्युक्तमिति ।
बहूनां दिक्पालानां प्रायेण तुल्यै­श्व­र्याणां विरुद्धेषु कार्येषु प्रवर्तमानानां विनि­ग­म­ना­वि­र­हा­दिना लोकवदेव कल­ह­प्र­वृ­त्ते­रा­व­श्य­क­त्वा­न्नि­यतं तेषां प्रव­र्त­न­म­स­त्य­न्य­स्मि­न्नि­य­न्तरि न युक्तमित्यर्थः ।

यत इति ।
यतस्ते वातादयो राज्ञो भृत्या इव बिभ्यति तत्तेषां नियन्तृ ब्रह्मास्तीति योजना ।

ननु सैषा ब्रह्मणो मीमांसा भवतीति वक्तव्यं तस्यैव भयादिहेतुत्वेन प्रकृतत्वात् नान­न्द­स्ये­त्या­शङ्कां वार­य­न्मी­मां­सा­वा­क्य­म­व­ता­र­यति –
यस्मादित्यादिना ।

आनन्दं ब्रह्मेति ।
'यदेष आकाश आनन्दो न स्यात्’ इति ब्रह्मण एवा­न­न्द­रू­प­त्व­स्यो­क्त­त्वा­न्ना­स­ङ्ग­ति­रिति भावः ।

नन्वा­न­न्द­स्व­रू­पस्य दुःखा­दि­स्व­रू­प­व­त्प्र­सि­द्ध­त्वा­दा­न­न्द­स्व­रूपं न विचारणीयमिति मत्वा शङ्कते –
किमानन्दस्येति ।

ब्रह्मस्वरूपतया श्रुत आनन्दो विष­या­न­न्द­व­ज्जन्यो नित्यो वेति संश­य­नि­वृ­त्त्यर्था मीमांसेत्याह –
उच्यत इति ।
स्रक्च­न्द­ना­दि­र्वि­षयः, तदनुभविता पुरुषो विषयी, तयोः सम्ब­न्धे­ने­त्यर्थः ॥

ननु ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि मानु­षा­द्या­न­न्दो­प­न्यासः ? तत्राह –
तत्र लौकिक इति ।
बाह्यसाधनानि विषयाः, आध्यात्मिकानि साधनानि देहमधिकृत्य वर्तमानानि यौवनादीनि, तेषां द्विविधानां साधनानां सम्पत्तिर्मेलनं निमित्तं यस्यानन्दस्य स तथा । अत एवा­न­न्द­स्यो­त्कर्षो निर्दिश्यते ‘स एको मानुषः’ इत्यादिनेति शेषः ।

ब्रह्मा­न­न्दा­नु­ग­मा­र्थ­मिति ।
लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः साति­श­य­त्वा­त्प­रि­मा­ण­व­दि­त्या­न­न्द­ता­र­त­म्या­व­धि­त्वेन निर­ति­श­य­स्वा­भा­वि­का­न­न्द­रू­प­ब्र­ह्मा­न­न्दा­नु­मा­नार्थं लौकिक आनन्दो निर्दिश्यत इत्यर्थः ।

अनुगममेव विशदयति –
अनेन हीति ।

ब्रह्मानन्दस्य विष­या­नु­स­न्धा­न­वि­मु­ख­वि­द्व­द्बु­द्धि­वि­ष­य­त्वाच्च न विष­य­वि­ष­यि­स­म्ब­न्ध­ज­नि­त­त्व­मि­त्या­श­ये­नाह –
व्यावृत्तेति ।
व्यावृत्ता निवृत्ता विषया यस्या बुद्धेः सकाशात्सा तथा ।

प्रकारान्तरेण लौकिकानन्दानां ब्रह्मा­न­न्दा­व­ग­मो­पा­य­त्व­म­भि­प्रे­त्याह –
लौकिकोऽपीति ।
मात्रा अवयवः । लोकिकानन्दानां हिर­ण्य­ग­र्भा­न­न्दा­द­र्वा­क्ता­र­त­म्येन निकर्षः, मानु­षा­न­न्दा­दूर्ध्वं तार­त­म्ये­नो­त्कर्ष इति व्यवस्था ।

तत्र लौकिकानन्दस्य ब्रह्मा­न­न्द­मा­त्रा­रू­पत्वं प्रपञ्चयन्नादौ तत्र निक­र्ष­प्र­यो­ज­क­माह –
अविद्ययेति ।

तिरस्क्रियमाणे विज्ञान इति ।
विवेके तार­त­म्ये­ना­भि­भू­य­मान इत्यर्थः ; तथा च विवेकाभिभव एको निकर्षप्रयोजक इति भावः ।

तत्र प्रयोजकान्तरं सूचयति –
उत्कृष्यमाणायां चेति ।
काम­क्रो­धा­दि­ल­क्षणैः स्वका­र्य­वि­शे­षै­र्नि­बि­डा­या­मि­त्यर्थः ।

कर्मा­प­क­र्ष­ता­र­त­म्य­म­प्य­प­क­र्ष­प्र­यो­ज­क­मि­त्या­श­ये­नाह –
कर्मवशादिति ।
यथाविज्ञानं विभाव्यमान इति सम्बन्धः ।

विष­या­प­क­र्षा­दि­क­मपि तत्र प्रयो­ज­क­मि­त्या­श­ये­नाह –
विषयादीति ।
चलः क्षणिकः, अनवस्थितः अनेकरूपः, अप­क­र्ष­ता­र­त­म्यो­पेत इति यावत् । सम्पद्यते, ब्रह्मानन्दो लौकिकः सम्पद्यत इत्यर्थः । योऽयं ब्रह्मानन्दस्य विष­य­वि­शे­षा­दि­कृ­त­वृ­त्त्यु­प­हितो भागः एष एव मात्राशब्दितो लौकिकान्द इति भावः ।

स एवेति ।
व्यावृ­त्त­वि­ष­य­बु­द्धि­गम्य इत्यत्र अका­म­ह­त­वि­द्व­च्छ्रो­त्रि­य­प्र­त्य­क्ष­ग­म्य­त्वेन प्रकृतो ब्रह्मानन्द एव मनु­ष्य­ग­न्ध­र्वा­द्यु­त्त­रो­त्त­र­भू­मिषु ब्रह्मण आनन्द इत्यन्तासु शत­गु­णो­त्त­रो­त्क­र्षेण विभाव्यत इति सम्बन्धः ।

उत्त­रो­त्त­र­मा­न­न्दो­त्कर्षे पूर्वो­क्ता­ना­म­वि­द्या­दी­ना­म­प­क­र्ष­ता­र­तम्यं प्रयोजकमाह –
अवि­द्या­का­म­क­र्मा­प­क­र्षे­णेति ।

अकामहतेति ।
अका­म­ह­त­वि­द्व­च्छ्रो­त्रि­य­प­दानां कर्मधारयः । ‘श्रोत्रियस्य चाकामहतस्य’ इत्य­त्रा­का­म­ह­तत्वं सातिशयमिति वक्ष्यति, तद्वदत्रापीति शङ्कानिरासार्थं विद्वत्पदम् , तच्च ब्रह्म­सा­क्षा­त्का­र­व­त्प­र­मिति मन्तव्यम् ।

ब्रह्मण इत्यस्य विवरणम् –
हिर­ण्य­ग­र्भ­स्येति ॥

मात्राभूतेन लौकि­का­न­न्द­जा­ते­ना­व­ग­न्तव्यं ब्रह्मानन्दं दर्शयति –
निरस्ते त्विति ।
साध­न­स­म्प­त्ति­कृ­त­वृ­त्ति­वि­शे­षो­प­हि­त­स्व­रू­पा­नन्दो विषयः, तदनुभविता जीवो विषयी, तयोर्विभागो मूला­वि­द्या­प्र­युक्तः ; तस्मि­न्न­वि­द्या­कृते ब्रह्मा­त्मै­क्य­वि­द्यया निरस्ते सति य आनन्दः समा­धा­व­भि­व्य­ज्यते स एव स्वाभाविकः पिरपूर्ण एकरूपो ब्रह्मानन्द इत्यवगतो भवतीत्यर्थः । एतदुक्तं भवति - यथोक्ताः सर्वे लौकिकानन्दा यस्य मात्राः समुद्राम्भस इव विप्रुषः, स स्वाभाविक आनन्दो विद्व­त्प्र­त्य­क्ष­सि­द्धोऽस्ति, स एव ब्रह्मानन्द इत्येवं मात्रा­रू­प­लौ­कि­का­न­न्दै­र्नित्यो ब्रह्मानन्दो विदितो भवतीति ।

एतमर्थमिति ।
अद्वै­ता­न­न्दा­व­ग­मो­पा­य­भूतं लौकिकानन्दं विभा­व­यि­ष्य­न्प्र­द­र्श­यि­ष्य­न्नाह श्रुतिरित्यर्थः ।

प्रथमवया इति ।
पूर्ववया इत्यर्थः । साधु­र्य­थो­क्त­कारी ।

आशुतम इति ।
भोग्येषु वस्तुषु यथाकालमविलम्बेन प्रवृत्तिमानिति यावत् ।

दृढतम इति ।
युद्धादिषु प्रवृत्तौ मनो­धै­र्य­वा­नि­त्यर्थः ।

बलवत्तम इति ।
कायि­क­ब­ला­ति­श­य­वि­शे­ष­वा­नि­त्यर्थः ।

'युवा स्यात्’ इत्यादेः पिण्डितार्थमाह –
एव­मा­ध्या­त्मि­केति ।
आत्मानं देहमधिकृत्य यानि साधनानि सम्भाव्यन्ते तैः सर्वैः सम्पन्न इत्यर्थः ।

वित्तस्य दृष्टार्थत्वमेव विवृणोति –
उपभोगेति ।

अदृ­ष्टा­र्थ­त्व­वि­व­र­णम् –
कर्मेति ।

मनुष्याः सन्त इति ।
अस्मिन्कल्पे मनुष्याः सन्त इत्यर्थः ।

तेषा­मा­न­न्दो­त्कर्षे हेतुमाह –
ते हीति ।
आका­श­ग­म­ना­दि­श­क्ति­स­ङ्ग्र­हा­र्थ­मा­दि­ग्र­ह­णम् । उक्त­श­क्त्या­दि­स­म्पत्तिः शास्त्र­प्र­सि­द्धेति सूचनार्थो हि-शब्दः । कार्यकरणानां सूक्ष्मत्वं प्रायेण शीतो­ष्णा­दि­द्व­न्द्वा­भि­घा­ता­यो­ग्य­त्वम् ।

तस्मादिति ।
सूक्ष्म­का­र्य­क­र­ण­व­त्त्वा­दि­त्यर्थः ।

द्वन्द्वेति ।
अल्पानां द्वन्द्वानां प्राप्तावपि तेषां प्रतिघाते निवारणे या शक्तिः या च स्रक्च­न्द­ना­दी­ना­मा­न­न्द­सा­ध­नानां सम्पत्तिः सा चास्तीत्यर्थः ।

फलितमाह –
अत इति ।
प्रसादो विक्षे­प­रा­हि­त्यम् , शुद्धिविशेष इति यावत् । मनु­ष्य­ग­न्ध­र्वाणां स्वरूपं वार्तिके दर्शितम् - ‘सुगन्धिनः कामरूपा अन्त­र्धा­ना­दि­श­क्तयः । नृत्त­गी­ता­दि­कु­शला गन्धर्वाः स्युर्नृ­लौ­किकाः’ इति ।

देव­ग­न्ध­र्वा­दी­ना­मपि यथो­क्त­सा­म­ग्र्यु­त्क­र्ष­ता­र­त­म्य­कृ­त­चि­त्त­प्र­सा­द­वि­शेष आन­न्दो­त्क­र्ष­ता­र­त­म्य­प्र­यो­जक इत्यतिदिशति –
एवमिति ।
भूमिः पदम् , देव­ग­न्ध­र्व­त्वा­द्य­व­स्थेति यावत् ।

'स एको मानुष आनन्दः’ इत्यत्र प्रथमपर्याये ‘श्रोत्रियस्य चाकामहतस्य’ इति कुतो न पठ्यते ? तत्राह –
प्रथममिति ।

मनुष्येति ।
मनुष्यस्य सार्वभौमस्य यो विषयभोगः विषयानन्दः तद्गो­च­र­का­म­र­हि­तस्य मनु­ष्य­ग­न्ध­र्वा­न­न्द­प्रा­प्ति­सा­ध­नं­स­पत्तिं विनैव तमानन्दमत्रैव लोके कामयमानस्य श्रोत्रियस्य मनु­ष्या­न­न्दा­च्छ­त­गु­णि­तेन मनु­ष्य­ग­न्ध­र्वा­न­न्देन तुल्यः सन्नानन्दो भवतीति वक्त­व्य­मि­त्ये­त­द­र्थ­मि­त्यर्थः । मानुषानन्दे कामा­भा­व­प्र­यो­ज­क­वि­वे­को­प­यो­गि­त्वेन मनु­ष्य­ग­न्ध­र्वा­नन्दे कामो­प­यो­गि­गु­ण­द­र्श­नो­प­यो­गि­त्वेन च साङ्गा­ध्य­य­न­व­त्त्व­रूपं श्रोत्रि­य­त्व­मु­पा­त्त­मिति मन्तव्यम् । ननु मनु­ष्य­ग­न्ध­र्वस्य नृत्त­गी­ता­दि­सा­म­ग्री­वि­शे­ष­म­हिम्ना यो हर्षविशेषो भवति स कथ­म­त्रै­वा­का­म­ह­त­श्रो­त्रि­यस्य भवेदिति चेत् , अत्राहुः - मा भूदयं हर्षविशेषः तस्य क्षणिकस्य मुख्या­न­न्द­त्वा­भा­वात् , कस्तर्हि तस्य मुख्यानन्दः ? उच्यते - मनु­ष्य­ग­न्ध­र्वस्य स्वोचि­त­वि­ष­य­प्राप्त्या तदिच्छायां शान्तायां नृत्त­गी­ता­दि­ज­नि­त­ह­र्ष­वि­शे­षेषु च शान्तेषु या तृप्तिरनुगच्छति सैव मुख्य आनन्दः, तथा च स्मर्यते - ‘यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णा­क्ष­य­सु­ख­स्यैते नार्हतः षोडशीं कलाम्’ इति । स च तृप्तिरूपो मुख्यानन्दो मनुष्यगन्धर्वेण समानः श्रोत्रियस्य सम्भवति । न चास्य श्रोत्रियस्य मनु­ष्य­ग­न्ध­र्वा­नन्दे कामनावत्त्वान्न तृष्णाक्षय इति वाच्यम् , तथापि मनु­ष्य­ग­न्ध­र्वाणां तत्प­र्या­य­प­ठि­त­श्रो­त्रि­यस्य च मानु­षा­न­न्द­गो­च­र­तृ­ष्णा­क्ष­य­सा­म्येन तृप्ति­ल­क्ष­णा­न­न्द­साम्ये बाधकाभावादिति । मनु­ष्य­ग­न्ध­र्व­प­र्याये पठितस्य श्रोत्रियस्य मनु­ष्य­ग­न्ध­र्वा­न­न्द­गो­च­र­का­म­ना­व­त्त्वम् ‘मनुष्यविषयभोग - - ‘ इति भाष्ये मनु­ष्य­ग्र­ह­ण­सू­चि­तम् , वार्तिकेऽपि स्पष्टमेव दर्शितम् - ‘मार्त्या­द्भो­गा­द्वि­र­क्तस्य ह्युत्त­रा­ह्ला­द­का­मिनः’ इति । एवमुत्तरत्रापि तत्त­त्प­र्या­य­प­ठि­तस्य श्रोत्रियस्य तत्पू­र्व­पू­र्व­भू­म्य­न्ता­न­न्देषु कामानभिभूतत्वं तत्त­द्भू­मि­ग­ता­न­न्द­का­म­ना­वत्त्वं चोहनीयम् ।

ननु सार्व­भौ­म­स्या­श्रो­त्रि­य­त्वा­त्पूर्वे वय­स्य­ति­क्रा­न्त­म­र्या­द­त्वाच्च न तस्य मानुषानन्दः सम्पूर्ण इत्या­श­ङ्का­वा­र­णा­योक्तं स्मारयति –
साध्विति ।
साधु­प­दा­द्य­थो­क्त­का­रि­त्व­रू­प­म­वृ­जि­नत्वं गृह्यते, ततो न तस्या­ति­क्रा­न्त­म­र्या­द­त्वा­शङ्का, तथा अध्या­य­क­प­दा­च्छ्रो­त्रि­यत्वं गृह्यत इत्यर्थः । एवम् ‘श्रोत्रियस्य चाकामहतस्य’ इति प्रतिपर्यायं श्रुतस्य श्रोत्रियस्यापि यथो­क्त­का­रि­त्व­रू­प­म­वृ­जि­न­त्व­म­पे­क्षि­तम् , अन्यथा अधी­त­सा­ङ्ग­स्वा­ध्या­य­त्वेन श्रोत्रियस्यापि तस्य यथोक्तकारिभिः श्रोत्रि­यै­र्नि­न्द्य­मा­नस्य मनु­ष्य­ग­न्ध­र्वा­दि­तु­ल्या­न­न्द­प्रा­प्त्य­स­म्भ­व­प्र­स­ङ्गाद् , अत एव श्रुत्यन्तरे तदपि पठ्यते - ‘यश्च श्रोत्रि­योऽ­वृ­जि­नोऽ­का­म­हतः’ इति ।

ननु द्विती­य­प­र्या­य­मा­रभ्य श्रुतानां श्रोत्रियाणां मध्ये कस्य­चि­न्म­नु­ष्य­ग­न्ध­र्वा­न­न्देन तुल्य आनन्दः कस्यचित्तु देव­ग­न्ध­र्वा­न­न्दे­ने­त्या­दि­ल­क्षणो विशेषः किङ्कृतः श्रोत्रि­य­त्वा­वृ­जि­न­त्वा­का­म­ह­त­त्वा­ना­मा­न­न्द­सा­ध­ना­ना­मे­क­रू­प­त्वा­दिति ; नेत्याह –
ते हीति ।
हि-शब्दोऽ­व­धा­र­णार्थः । सर्वत्र सर्वेषु श्रोत्रियेषु श्रोत्रि­य­त्वा­वृ­जि­नत्वे एवाविशिष्टे तुल्ये, न त्वकामहतत्वमपि, तत्तु तत्त­त्प­र्या­य­ग­तस्य श्रोत्रियस्य विशिष्यते भिद्यते ।

तद्भेदे हेतुः –
विषयेति ।
मनु­ष्य­ग­न्ध­र्व­प­र्या­य­स्थ­श्रो­त्रि­यस्य मानु­षा­न­न्द­मात्रे कामाभावः तस्य तद­ति­रि­क्ता­न­न्देषु सर्वत्र साभिलाषत्वात् , तथा देव­ग­न्ध­र्व­प­र्या­य­स्थस्य श्रोत्रियस्य मानुषानन्दे मनु­ष्य­ग­न्ध­र्वा­नन्दे च विषये कामाभावः तस्य तद­ति­रि­क्ता­न­न्देषु सर्वत्र साभिलाषत्वात् । एवमुत्तरत्रापि । एतदुक्तं भवति – कामस्य विष­य­बा­हु­ल्य­रू­पो­त्कर्षे सति तन्नि­वृ­त्ति­रू­प­स्या­का­म­ह­त­त्व­स्या­प­क­र्ष­रूपो विशेषो भवति, कामस्य विष­या­ल्प­त्व­रू­पा­प­क­र्षे­सति तन्नि­वृ­त्ति­रू­प­स्या­का­म­ह­त­त्व­स्यो­त्क­र्ष­रूपो विशेषो भवतीति । तथा चाका­म­ह­त­त्वो­त्क­र्षा­दु­त्त­रो­त्त­र­मा­न­न्दो­त्कर्षः श्रोत्रि­या­णा­मिति स्थितम् ।

एवं याव­द्या­व­द­का­म­ह­त­त्वो­त्क­र्ष­स्ता­व­त्ता­व­च्छ्रो­त्रि­या­न­न्दो­त्कर्ष इति श्रुत्यर्थे स्थिते फलितं श्रुति­ता­त्प­र्य­माह –
अत इति |

तद्विशेषत इति ।
अका­म­ह­त­त्व­वि­शे­षतः श्रोत्रि­ये­ष्वा­न्दो­त्क­र्षो­प­लब्ध्या सर्वात्मना कामोपशमे सति सर्वोत्कृष्टः परमानन्दः प्राप्तो भवेदिति यतः प्रतिभाति अतः अकामहतग्रहणं निर­ति­श­य­स्या­का­म­ह­त­त्वस्य पर­मा­न­न्द­प्रा­प्ति­सा­ध­न­त्व­वि­धा­ना­र्थ­मिति गम्यत इत्यर्थः ।

'ते ये शतं मनु­ष्य­ग­न्ध­र्वा­णा­मा­नन्दाः’ इत्यादिपदजातं न व्याख्येयं प्रथ­म­प­र्या­य­व्या­ख्या­नेन गता­र्थ­त्वा­दि­त्या­श­ये­नाह –
व्याख्या­त­म­न्य­दिति ।

जातित इति ।
जन्मत इत्यर्थः । एतदुक्तं भवति – कल्पादावेव देवलोके जाता गायका देवगन्धर्वा इति ।

कर्मदेवत्वं विवृणोति –
ये वैदिकेनेति ।

केवलेनेति ।
उपा­स­ना­स­मु­च्च­य­र­हि­ते­ने­त्यर्थः । देवानपियन्ति देवै­श्च­न्द्रा­दि­भि­र­धि­ष्ठि­ता­ल्लोँ­का­न्या­न्ती­त्यर्थः ।

'ते ये शतं प्रजा­प­ते­रा­नन्दाः, स एको ब्रह्मण आनन्दः’ इत्यत्रानन्दस्य परि­मा­ण­क­थ­न­लि­ङ्गेन ब्रह्मशब्दस्य हिर­ण्य­ग­र्भ­प­र­त्व­माह –
समष्टीत्यादिना ।
सम­ष्टि­व्य­ष्टि­रूपः व्याप्य­व्या­प­क­रूपः । तत्र कार्यात्मना व्याप्यः कारणात्मना व्यापक इत्यर्थः ।

तदी­य­व्या­प्ते­र­व­धि­माह –
संसारेति ।
ब्रह्मा­ण्ड­व्या­पी­त्यर्थः ।

यत्रैत इति ।
यत्र हिरण्यगर्भे प्रकृता आनन्दविशेषाः पारिमाणत एकत्वमिव गच्छन्ति सांसा­रि­का­न­न्दो­त्क­र्ष­स­र्वस्वं यत्रेत्यर्थः । तन्निमित्त इति । तस्या­न­न्दो­त्क­र्ष­स­र्व­स्व­भू­तस्य फलस्य निमित्तभूतो धर्मश्च यत्र निरवधिक इत्यर्थः ।

तद्विषयमिति ।
यथो­क्त­फ­ल­त­न्नि­मि­त्त­ध­र्मा­दि­वि­ष­यकं ज्ञानं च यत्र निर­ति­श­य­मि­त्यर्थः ।

अकामहतत्वं चेति ।
हिरण्यगर्भस्य ताव­त्पू­र्व­भू­मिषु नास्ति कामना, स्वभूम्यपेक्षया तासा­म­त्य­न्त­नि­कृ­ष्ट­त्वात् ; स्वभूमावपि नास्ति कामना, तस्याः प्राप्तत्वात् , अप्रा­प्त­व­स्तु­गो­च­र­त्वा­त्का­म­नायाः ; अत­स्त­स्या­का­म­ह­त­त्व­मपि निर­ति­श­य­मि­त्यर्थः । तथा च स्मृतिः ‘ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्’ इति । ननु मानु­षा­न­न्दोऽ­स्माकं प्रसिद्ध एव, मनुष्यस्य प्रत्यक्षत्वेन मुख­प्र­सा­दा­दि­लि­ङ्गै­स्त­दी­या­न­न्द­स्यो­त्प्रे­क्षितुं शक्यत्वाद् , अन्ये त्वस्मा­क­म­प्र­सिद्धा इति कथं तद्द्वारा ब्रह्मा­न­न्दा­नु­ग­म­सि­द्धि­र­प्रि­सि­द्धे­ना­प्र­सि­द्ध­बो­ध­ना­यो­गात् , अतोऽ­न्यै­र­प्या­नन्दैः प्रसिद्धैरेव भवितव्यम् , तेषां प्रसि­द्धि­मा­श्रित्य ब्रह्मा­न­न्दा­नु­गम इत्ययमर्थः प्रागाचार्यैरेव दर्शितः ‘अनेन हि प्रस­द्धे­ना­न­न्देन व्यावृ­त्त­वि­ष­य­बु­द्धि­गम्य आनन्दोऽनुगन्तुं शक्यते’ इत्यादिना । नैष दोषः, मनु­ष्य­ग­न्ध­र्वा­द्या­न­न्दानां प्रसि­द्धि­स­म्पा­द­ना­यैव प्रतिपर्यायं मनु­ष्य­लो­क­स्थ­श्रो­त्रि­य­प्र­त्य­क्ष­त्व­क­थ­नात् ।

इममेवाभिप्रायं प्रकटयितुं हिर­ण्य­ग­र्भा­न­न्दस्य तत्प­र्या­य­स्थ­श्रो­त्रि­य­प्र­त्य­क्ष­त्व­माह –
तस्यैष आनन्द इति ।

हिर­ण्य­ग­र्भा­द्या­न­न्दस्य ब्रह्मा­न­न्दा­व­ग­मो­पा­य­त्व­सि­द्ध्यु­प­यो­गि­तया प्रसि­द्ध­त्व­क­थ­न­प­रेण ‘श्रोत्रियस्य चाकामहतस्य’ इति वाक्य­जा­ते­ना­न्य­दपि सिध्यतीत्याह –
तस्मादिति ।
मनुष्यस्य सतः श्रोत्रियस्य श्रोत्रि­य­त्वा­दि­त्रि­त­य­म­हिम्ना हिर­ण्य­ग­र्भा­दि­तु­ल्या­न­न्द­क­थ­ना­त्त्री­ण्य­प्ये­ता­न्या­न­न्द­प्राप्तौ साधनानीति गम्यत इत्यर्थः ।

त्रिषु मध्ये विशेषमाह –
तत्रेति ।
सर्वेषां श्रोत्रियाणां श्रोत्रि­य­त्वा­वृ­जि­नत्वे नियते साधारणे, अका­म­ह­त­त्व­मे­वो­त्कृ­ष्य­माणं सदानन्दोत्कर्षे कारणमित्यतः प्रकृष्टसाधनता अका­म­ह­त­त्व­स्या­व­ग­म्यत इत्यर्थः ।

यदुक्तं प्रकारान्तरेण ब्रह्मा­न­न्दा­नु­ग­म­प्र­द­र्श­नाय लौकि­कोऽ­प्या­नन्दो ब्रह्मा­न­न्द­स्यैव मात्रेति, तमेव प्रकारान्तरेण ब्रह्मा­न­न्दा­नु­ग­म­मि­दानीं लौकिकानन्दानां ब्रह्मा­न­न्द­मा­त्रा­त्व­प्र­द­र्श­न­पू­र्वकं दर्शयति –
तस्येत्यादिना ।
तस्य ब्रह्मण इति सम्बन्धः । आनन्द इत्य­न­न्त­र­म­पि­श­ब्दोऽ­ध्या­ह­र्तव्यः । स च पूर्वो­क्ता­न­न्दा­ना­म­नु­क्तानां च सङ्ग्रहार्थ इति मन्तव्यम् ।

सर्वेषामेव लौकिकानन्दानां ब्रह्मा­न­न्दै­क­दे­शत्वे मानमाह –
एतस्यैवेति ।

अन्यानीति ।
ब्रह्मणः सका­शा­दा­त्मा­न­म­न्य­त्वेन मन्यमानानि भूतानि प्राणिन इत्यर्थः ।

लौकिकानन्दस्य पर­मा­न­न्द­मा­त्रात्वे मानसिद्धे फलितमाह –
स एष इति ।

पूर्वोक्तो लौकिकानन्दो यस्य मात्रा यस्मादुपाधितो भिन्नो यत्रै­वो­पा­धि­वि­लये पुनरेकतां गच्छति स आनन्दः स्वाभाविको नित्योऽ­स्ती­त्यत्र हेतुमाह –
अद्वैतत्वादिति ।
'अथ यदल्पं तन्मर्त्यम्’ इति श्रुत्या परि­च्छि­न्न­स्या­नि­त्य­त्व­प्र­ति­पा­द­ना­द­द्वै­तत्वं नित्यत्वसाधने समर्थमिति मन्तव्यम् ।

ननु ब्रह्मा­न­न्द­स्या­द्वै­त­त्व­म­सि­द्धम् ‘रसं ह्येवायं लब्ध्वानन्दी भवति’ इत्या­न­न्दा­न­न्दि­भा­वेन ब्रह्मा­न­न्द­जी­व­यो­र्भे­दा­व­ग­मा­दि­त्यत आह –
आन­न्दा­न­न्दि­नो­श्चेति ।
च-शब्दः शङ्कानिरासार्थः । अत्रेत्यस्य विद्याकाल इत्यर्थः । ततश्चाविद्याकाल एवाविद्यिको भेदो न विद्याकाले विद्यया भेद­को­पा­धे­र­वि­द्याया निर­स्त­त्वा­दि­त्यर्थः । एतदुक्तं भवति - ब्रह्मा­न­न्द­जी­व­यो­र­वि­द्या­क­ल्पितो विभागो न वास्तवः, अतो ब्रह्मानन्दस्य नाद्वै­त­त्व­हा­नि­रिति ॥

एवम् ‘सैषानन्दस्य मीमांसा भवति’ इत्युपक्रम्य श्रुत्या मात्रा­भू­त­सा­ति­श­या­न­न्दो­प­न्या­स­द्वारा सूचितया ‘लौकिकानन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्’ ‘लौकिकानन्दो यस्य मात्रा समुद्राम्भस इव विप्रुट्’ इत्यादिलक्षणया मीमांसया ‘अस्त्यद्वितीयः परमानन्दः’ इति निर्णयः कृत इति प्रदर्श्य इदा­नी­मु­त्त­र­वा­क्य­ता­त्प­र्य­माह –
तदेतदिति ।
तदेतत् ब्रह्मा­न­न्द­स्या­द्वि­ती­य­त्व­स्वा­भा­वि­क­त्वा­दि­ल­क्षणं मीमांसाफलं मीमांसया निर्णी­त­मि­त्यर्थः ।

'स यश्चायम्’ इत्यत्र स इति शब्देन गुहानिहितवाक्ये तद्वृ­त्ति­स्था­नीये प्रवेशवाक्ये च निर्दिष्टः प्रत्यगात्मा निर्दिश्यत इत्याह –
यो गुहायामिति ।
आकाशे या गुहा तस्यामित्यन्वयः । योऽन्न­म­या­न्त­मा­का­शा­दि­कार्यं सृष्ट्वा तदेव कार्य­म­नु­प्र­विष्ट इत्यर्थः ।

अयमित्यनेन तस्या­प­रो­क्ष­त्व­मु­च्यत इत्याशयेनाह –
कोऽसावित्यादिना ।

पुरुष इति ।
शरीर इत्यर्थः ।

श्रोत्रि­य­प्र­त्यक्ष इति ।
यद्यपि लौकि­का­न­न्दा­ना­मेव पूर्वत्र श्रोत्रि­य­प्र­त्य­क्षत्वं निर्दिष्टं न परमानन्दस्य, तथापि तत्र पर­मा­न­न्द­स्या­का­म­ह­त­वि­द्व­च्छ्रो­त्रि­य­प्र­त्य­क्ष­त्व­म­र्था­न्नि­र्दि­ष्ट­मिति तदभिप्रायोऽयं ग्रन्थः, अकामहतत्वस्य निरतिशयोत्कर्षे सति विदुषः पर­मा­न­न्द­प्राप्तेः प्रागु­प­पा­दि­त­त्वा­दिति मन्तव्यम् । यो विद्व­त्प्र­त्य­क्ष­त्वेन ब्रह्मा­दि­स­र्व­भू­तो­प­जी­व्या­न­न्दा­नु­ग­म्य­त्वेन च प्रकृतः परमानन्दः, सोऽसा­वा­दि­त्य­दे­व­ता­धे­य­त्वेन निर्दिश्यत इत्यर्थः ।

स एक इति ।
‘स यश्चायं पुरुषे’ इति वाक्य­नि­र्दि­ष्टस्य बुद्ध्य­व­च्छि­न्न­जी­व­रू­पा­न­न्दस्य ‘यश्चा­सा­वा­दित्ये’ इति वाक्ये आदि­त्या­न्तः­स्थ­त्वेन निर्दिष्टस्य माया­व­च्छि­न्न­प­र­मा­न­न्दस्य च ‘स एकः’ इति वाक्ये­नो­पा­धि­द्व­य­नि­र­स­न­पू­र्वकं स्वाभा­वि­क­म­भि­न्न­त्व­मु­प­दि­श्यते, अस्मिन्नर्थे इत्थमक्षरयोजना - सः द्विवि­धोऽ­प्या­नन्दो वस्तुत एक एवेति । भिन्न­प्र­दे­श­स्थ­यो­र्घ­टा­का­शा­का­श­यो­रा­का­श­स्व­रू­पेण यथैकत्वमिति दृष्टान्तार्थः ।

ननु ‘स यश्चायं पुरुषे’ इति सामान्यतः शरी­र­स्थ­त्वे­ना­त्मनो निर्देशो न युक्तः प्रसि­द्धि­वि­रो­धा­दिति शङ्कते –
नन्विति ।

तन्निर्देश इति ।
तस्या­त्म­नोऽ­ध्या­त्म­नि­र्देशे विवक्षिते सतीत्यर्थः ।

कथं तर्हि निर्देशः कर्तव्य इत्या­का­ङ्क्षा­या­माह –
यश्चायं दक्षिण इति ।
'य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षि­णेऽ­क्ष­न्पु­रुषः’ इति श्रुत्यन्तरे दक्षि­णा­क्षि­ग्र­ह­णस्य प्रसि­द्ध­त्वा­त्त­दै­क­रू­प्या­या­त्रापि तथा निर्देश एव युक्त इत्यर्थः ।

तत्र सोपाधिकस्य ब्रह्मण उपासनार्थं स्थान­वि­शे­ष­नि­र्दे­शेऽपि नात्र तदपेक्षेति परिहरति –
न, पराधिकारादिति ।
निरु­पा­धि­का­त्म­प्र­क­र­णा­दि­त्यर्थः ।

हेतुं साधयति –
परो हीत्यादिना ।

ननु परस्य प्रकृतत्वेऽपि ‘यश्चा­सा­वा­दित्ये’ इत्यादौ सोपा­धि­क­मु­पा­स्य­मेव निर्दिश्यतामिति ; नेत्याह –
न ह्यकस्मादिति ।
परमात्मनि प्रकृते सति ‘स यश्चायम्’ इत्यादौ प्रकृ­त­प­र­मा­त्मा­क­र्ष­क­स­र्व­ना­म­श्रु­तिषु च सतीषु कथमकस्माद्धेतुं विनात्र सोपाधिको निर्देष्टुं युक्तः तस्या­प्र­कृ­त­त्वा­दि­त्यर्थः ।

ननु तर्हि परस्यैव ध्याना­र्थ­मा­दि­त्या­दि­स्था­न­नि­र्दे­शोऽ­त्रास्तु ; नेत्याह –
परमात्मविज्ञानं चेति ।
च-शब्दः शङ्कानिरासार्थः । निरुपाधिकस्य ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इत्यादौ ध्याननिषेधादत्र तद्ध्या­न­वि­व­क्षायां माना­भा­वा­च्चे­त्यर्थः ।

उपसंहरति –
तस्मादिति ।
पराधिकारात्पर एव निर्दिश्यते नापरः, अतो नाक्षि­स्था­न­नि­र्दे­शा­पे­क्षे­त्यर्थः ।

इतश्चात्र पर एव निर्दिश्यत इत्याह सिद्धान्ती –
नन्वानन्दस्येति ।

फलस्वरूपमेव कथयति –
अभिन्नस्वभावक इत्यादिना ।
न च मीमां­सा­फ­ल­स्या­नु­प­सं­हारे कानुपपत्तिरिति वाच्यम् , मीमां­स्य­त्वे­नो­प­क्रा­न्त­स्या­न­न्दस्य ‘स यश्चायम्’ इत्या­दा­व­द्वि­ती­य­त्वे­नो­प­सं­हा­रा­भावे चर­म­प­र्या­य­नि­र्दिष्टे विष­य­वि­ष­यि­स­म्ब­न्ध­ज­निते सातिशये हिरण्यगर्भानन्द एव मीमां­सा­प­र्य­व­सा­ना­पत्त्या तद­द्वि­ती­य­त्व­नि­र्ण­या­ला­भ­ल­क्ष­णाया अनुपपत्तेः सत्त्वात् ।

सिद्धान्त्येव स्वपक्षे पुरुष इत्याद्यविशेषतो निर्दे­श­स्या­नु­कू­ल्य­माह –
ननु तदनुरूप एवेति ।
'स यश्चायम्’ इति वाक्यं जीवानुवादकम् , आदि­त्य­वा­क्य­मी­श्व­रा­नु­वा­द­कम् , ‘स एकः’ इति तु तयो­र्भि­न्ना­धि­क­र­ण­स्थ­यो­रु­पा­धि­वि­शे­ष­नि­र­स­न­द्वारा एकत्वबोधकमिति रीत्या निर्दे­श­स्या­नु­रू­प्यम् । ते च भिन्ने अधिकरणे आदित्यः शरीरं चेति मन्तव्यम् ।

अत्रो­प­स­न­वि­व­क्षा­भावे सत्यादिग्रहणं विफलम् , ‘तत्त्वमसि’ इत्या­दा­वि­वे­श्व­रस्य शब्दान्तरेणैव निर्दे­श­स­म्भ­वा­दिति मत्वा शङ्कते –
नन्वेवमपीति ।
उक्तरीत्या पर­मा­त्म­नि­र्दे­शा­दे­रा­व­श्य­क­त्वेऽ­पी­त्यर्थः । आदित्यदेवताया उत्कृ­ष्टो­पा­धि­क­त्वा­त्त­द­न्तः­स्थ­त्वेन परमात्मनो निर्देशे तस्या­प्यु­त्कृ­ष्टो­पा­धि­क­त्वे­ना­र्था­दु­त्कर्षो निर्दिष्टो भवति ; तथा च ‘स यश्चायम्’ इत्यनेन निकृ­ष्ट­मा­त्मा­न­म­नूद्य ‘यश्चा­सा­वा­दित्ये’ इत्य­ने­नो­त्कृ­ष्ट­मी­श्वरं चानूद्य ‘स एकः’ इत्यनेन तयो­र्नि­रु­पा­धि­क­प­र­मा­न­न्द­स्व­रू­पे­णै­कत्वे बोधिते सत्यु­पा­धि­त­त्कृ­तो­त्क­र्षा­प­क­र्षा­णा­म­पोहो भवति ।

एव­मु­त्क­र्ष­प्र­त्या­य­न­द्वारा तद­पो­ह­प्र­यो­ज­न­क­त्वा­दा­दि­त्य­ग्र­हणं नानर्थकमिति परिहरति –
नानर्थकमिति ।
उत्क­र्ष­स्या­प­क­र्ष­नि­रू­प­क­त्वा­दु­त्क­र्षा­पोहे निकर्षापोहोऽपि भवतीति मत्वा निक­र्षा­पो­होऽ­प्या­दि­त्य­ग्र­ह­ण­प्र­यो­ज­न­त्वे­नोक्त इति मन्तव्यम् ।

आदि­त्य­दे­व­तो­पा­धे­रु­त्कृ­ष्टत्वे मानमाह –
द्वैतस्य हीति ।
अत्र सवितृशब्दो मण्डलपरः तदन्तर्गतश्च सम­ष्टि­लि­ङ्ग­दे­होऽपि विवक्षितः । तत्र मण्डलात्मकः सविता मूर्तस्य पर उत्कर्षः सार इति यावत् , तथा तदन्तर्गतो लिङ्गात्मा अमूर्तस्य पर उत्कर्षः, तदु­भ­य­मा­दि­त्य­दे­व­तो­पा­धि­भूतं मूर्ता­मू­र्त­ल­क्ष­णस्य द्वैतस्य सार­भू­त­मि­त्ये­त­द्वा­ज­स­ने­यके प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।

ननु ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­ने­नो­त्क­र्षा­द्य­पोहे सति किं फल­ती­त्या­श­ङ्क्याह –
स चेदिति ।
सवित्रादिद्वारा बुद्धिस्थः सर्वोत्कृष्टः परमेश्वर इत्यर्थः । तथा च सोपाधिक ईश्वरः स्वोपाधिभूतं विशेषं परित्यजन् शरी­र­ग­त­लि­ङ्गा­त्म­क­जी­वो­पा­ध्यु­प­म­र्द­नेन पर­मा­न­न्द­म­पेक्ष्य पर­मा­न­न्द­स्व­रू­पेण सम एकत्वमापन्नो भवति चेदित्यर्थः ।

ततः किमित्यत आह –
न कश्चिदिति ।
निर्वि­शे­ष­प­र­मा­न­न्द­ब्र­ह्मणा सहैकत्वलक्षणम् ‘स एकः’ इति वाक्ये प्रकृतां गतिं गतस्य विदुषः सगु­ण­मु­क्त­स्ये­वो­त्कर्षो वा संसारिण इवापकर्षो वा न कश्चिदस्तीति सिध्यतीत्यर्थः ।

ननु निकर्षस्य हेयत्वेऽपि पर­म­मु­क्त­स्यो­त्कर्षः किमिति हेयः, सूर्या­दे­रि­वो­त्कर्षं प्राप्तस्यापि तस्य कृता­र्थ­त्व­स­म्भ­वात् , तथा चोत्क­र्षा­पो­ह­प्र­यो­ज­न­क­मा­दि­त्य­ग्र­ह­ण­म­स­ङ्ग­त­मिति ; नेत्याह –
अभयमिति ।
मुक्त­स्यो­त्क­र्ष­प्रा­प्त्यु­प­गमे तत्प्र­यो­ज­के­नो­पा­धि­नापि भवितव्यम् , तथा च सोपाधिकस्य मुक्तस्य पर­मा­न­न्द­रू­पा­दी­श्व­रा­द्भे­दा­व­श्य­म्भा­वा­त्सू­र्य­वा­य्वा­दे­रिव भय­मा­व­श्य­क­मि­त्ये­क­त्व­ज्ञा­नेन मुक्तिं प्राप्तस्य ‘अभयं प्रतिष्ठां विन्दते’ इति वचनमनुपपन्नमेव स्यात् , ततो न विदुष उत्क­र्ष­प्रा­प्ति­रि­ष्टेति तद­पो­ह­प्र­यो­ज­न­क­मा­दि­त्य­ग्र­ह­णमं सङ्गतमेवेति भावः ॥

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
अस्ति नास्तीत्यादिना ।
व्याख्यातो निराकृत इत्यर्थः ।

कथं निराकृत इत्या­का­ङ्क्षा­या­माह –
कार्येति ।
कार्यं च रसलाभश्च प्राणनं चाभयप्रतिष्ठा च भयदर्शनं च, एतान्येवोपपत्तय इत्यर्थः ।

विषयाविति ।
अविशिष्टाविति शेषः ।

उच्यत इति ।
'स य एवंवित्’ इत्यादिना ब्रह्म­प्रा­प्ति­र्वि­दुष उच्यत इत्यर्थः ।

ननु तर्हि मध्य­मोऽ­नु­प्रश्नो विशिष्येत ; नेत्याह –
मध्यम इति ।
विदुषो ब्रह्म­प्रा­प्ति­प्र­ति­पा­द­ने­ना­न्त्य­प्र­श्ना­पा­क­रणे कृते सति अर्था­द­वि­दु­ष­स्त­त्प्रा­प्ति­र्ना­स्तीति निर्ण­य­ला­भा­न्म­ध्य­म­प्रश्नो निरा­क­र्त­व्य­त्वेन नावशिष्यते, अतो न तदपाकरणाय श्रुत्या प्रयत्नः कृत इत्यर्थः । इदमुपलक्षणम् ; अविदुषो ब्रह्म­प्रा­प्ति­प्र­श्न­स्या­ति­फ­ल्गु­त्वाच्च तदपाकरणाय श्रुत्या न यत्यत इत्यपि द्रष्टव्यम् ।

वेद­न­स्यो­त्क­र्षा­दि­र­हि­ता­द्वि­ती­य­स्व­प्र­का­श­ब्र­ह्म­वि­ष­य­क­त्व­लाभे हेतुमाह –
एवंशब्दस्येति ।

लोकशब्दस्य प्रत्य­क्ष­सि­द्ध­भो­ग्य­मा­त्र­प­रत्वं व्यावर्तयति –
दृष्टादृष्टेति ।

'अस्मा­ल्लो­का­त्प्रेत्य’ इत्यनेन सर्व­स्मा­त्क­र्म­फ­ला­द्वै­राग्यं विवक्षितमित्याह –
निरपेक्षो भूत्वेति ।
अत्र येन क्रमेणैव वेदनं प्राप्तं तत्क्र­मा­नु­वा­द­पू­र्व­क­मेवं वेदनफलमुच्यत इति प्रतीयते, तां प्रती­ति­मा­श्रित्य व्याख्यानमिदम् ; विवक्षितं तु व्याख्यानं करि­ष्य­मा­ण­चि­न्ता­व­साने भविष्यतीति मन्तव्यम् ।

एवं विरक्तो भूत्वा प्रथमं पुमान्किं करोति ? तत्राह –
एतमिति ।

यथोक्तमिति ।
'स वा एष पुरु­षोऽ­न्न­र­स­मयः’ इत्य­त्रा­न्न­र­स­वि­का­र­त्वे­नो­क्त­मि­त्यर्थः । विषयजातमित्यनेन व्यष्टि­पि­ण्ड­व्य­ति­रिक्तः सम­ष्टि­पि­ण्डात्मा विराडुच्यते ।

विराजं व्यष्टि­पि­ण्ड­व्य­ति­रिक्तं न पश्यति चेत्कथं तर्हि पश्य­ती­त्या­का­ङ्क्षायां तद्द­र्श­य­न्नु­प­स­ङ्क्रा­म­ती­त्य­स्या­र्थ­माह –
सर्वमिति ।
सम­ष्टि­स्थू­ला­त्मानं विरा­ज­म­न्न­म­या­त्मानं पश्यति सम­ष्टि­व्य­ष्ट्या­त्म­क­म­न्न­ल­क्षणं ब्रह्माहमिति पस्यतीति यावत् ।

तत इति ।
विरा­डा­त्म­का­द­न्न­म­य­को­शा­दा­न्त­र­मि­त्यर्थः ।

एतमिति ।
'अन्योऽ­न्तर आत्मा प्राणमयः’ इत्यत्र प्रकृतमित्यर्थः ।

अविभक्तमिति ।
सूत्रात्मना एकीभूतमित्यर्थः । अत एव सर्व­पि­ण्ड­व्या­पि­त्व­रूपं सर्वा­न्न­म­या­त्म­स्थ­त्व­वि­शे­षणं प्राण­म­य­स्यो­प­प­द्यते । तथा चान्न­म­या­त्म­द­र्श­ना­न­न्तरं तद्धित्वा यथोक्तं प्राणमयात्मानं पश्यतीत्यर्थः । एवमुत्तरत्रापि योजनीयम् ।

उपसङ्क्रामतीति ।
एवं क्रमे­णा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्र­म्या­न­न्त­र­मा­न­न्द­मयं प्रति पुच्छ­प्र­ति­ष्ठा­भू­त­मु­त्क­र्षा­दि­र­हितं सत्य­ज्ञा­ना­न­न्त­ल­क्षणं ब्रह्माहमस्मीति पश्यंस्तदेव प्राप्नोतीति भावः ।

अथेति ।
एवंविदेवं वेद­ना­न­न्त­र­मि­त्यर्थः ॥

तत्रै­त­च्चि­न्त्य­मिति ।
'स य एवंवित्’ इत्यत्र ‘उपसङ्क्रामति’ इत्यत्र च एवंवित्स्वरूपं सङ्क्रमणस्वरूपं च विचा­र­णी­य­मि­त्यर्थः ।

कोऽय­मे­वं­वि­दि­त्युक्तं विवृणोति –
किमिति ।

अन्य इत्यस्य विवरणं प्रविभक्त इति पक्ष­द्व­येऽ­प्य­नु­प­प­त्त्य­भा­वा­त्सं­शयो न घटत इति मत्वा पृच्छति –
किं तत इति ।

पक्ष­द्व­येऽ­प्य­नु­प­पत्तिं संशयकारणभूतामाह –
यद्यन्यः स्यादित्यादिना ।
'अन्योऽसौ ‘ इत्यनया श्रुत्या जीव­प­र­भे­द­चि­न्त­न­स्या­ज्ञा­न­प्र­यु­क्त­त्व­प्र­ति­पा­द­ना­त्तयोः स्वाभा­वि­क­म­न्य­त्व­मे­त­च्छ्रु­ति­वि­रुद्धं चेत्यर्थः ।

आनन्दमयमिति ।
उपसङ्क्रमणस्य प्राप्ति­रू­प­त्व­मा­श्रि­त्ये­द­मु­दा­ह­र­णम् ; तथा च एवं­वि­त्प­र­यो­र­भेदे तयोः प्राप्तिं प्रति कर्तृकर्मभावो नोपपद्यत इत्यर्थः ।

किं च, तयोरभेदपक्षे किं जीवस्य पर­स्मि­न्न­न्त­र्भावः किं वा परस्य जीवे ? नाद्यः, तथा सति परव्यतिरेकेण जीवा­भा­वा­द­चे­त­नानां संसा­रि­त्वा­स­म्भ­वा­च्चा­नु­भू­य­मानं संसारित्वं परमात्मन एव प्रसज्येतेत्याह –
परस्यैवेति ।

द्वितीये दोषमाह –
पराभावो वेति ।
जीवनियन्तृत्वेन श्रुतिसिद्धस्य परस्याभावः प्रस­ज्ये­ते­त्यर्थः ।

पक्ष­द्व­येऽ­प्य­प­रि­हार्यं दोषं श्रुत्वा मध्य­स्थ­श्चि­न्ता­मा­क्षि­पति –
यद्युभयथेति ।
जीवस्य पर­स्मा­द­न्य­त्वेऽ­न­न्यत्वे चेत्यर्थः ।

नन्वभेदपक्षे प्राप्तो दोषो वक्ष्यमाणरीत्या परिहर्तुं शक्यत इति वदन्तं चिन्ता­र­म्भ­वा­दिनं प्रति मध्यस्थ एवाह –
अथा­न्य­त­र­स्मि­न्निति ।

परा­प­र­यो­र्वा­स्तवौ भेदाभेदाविति पक्षान्तरं निर्दुष्टं मन्यमानस्य भास्क­रा­दे­र­भि­प्रा­य­म­नूद्य तस्मिन्नपि पक्षे चिन्ता­वै­य­र्थ्य­माह –
तृतीये वेति ।
अदुष्ट इति च्छेदः ।

सिद्धान्ती चिन्तावैयर्थ्यं निराकरोति –
न, तन्नि­र्धा­र­णे­नेति ।
तेषां पक्षा­णा­म­न्य­त­म­स्या­दु­ष्ट­त्व­नि­र्धा­र­णे­ने­त्यर्थः । चिन्तां विना निर्धा­र­णा­स­म्भ­वा­दिति भावः ।

सङ्ग्रहवाक्यं तट­स्थो­क्ता­नु­वा­द­पू­र्वकं विवृणोति –
सत्यमित्यादिना ।
न शक्य इत्यत्र यदि­श­ब्दोऽ­ध्या­ह­र्तव्यः ।

पुनरपि मध्य­स्थ­श्चि­न्ता­वै­य­र्थ्य­माह –
सत्यमर्थवतीति ।

न तु निर्णेष्यसीति ।
त्वया निर्णे­तु­म­श­क्य­मि­त्य­भि­सन्धिः ।

अभिसन्धिमानेव तटस्थं निराकरोति –
किमिति ।
निर्ण­य­स्या­श­क्य­त्व­म­सि­द्ध­मि­त्या­र­म्भ­वा­दि­नोऽपि गूढोऽभिसन्धिः ।

यथा­श्रु­त­मु­पा­लम्भं तटस्थः परिहरति –
नेति ।
वेदवचनं न भवतीत्यर्थः ।

आरम्भवादी न तु निर्णे­ष्य­सी­त्यत्र हेतुं पृच्छति –
कथं तर्हीति ।
यदि न वेदवचनं तर्हि कथं न निर्णेष्यसीति वदसीत्यर्थः ।

निर्ण­य­स्या­श­क्यत्वे स्वाभिसंहिते हेतुमाह –
बह्विति ।
अद्वैतस्यैव वेदा­र्थ­त्वा­त्त­त्सा­ध­न­प­र­स्त्व­मेक एव, भेदवादिनः पुनरसङ्ख्याताः, ततश्च कथं तेषु जीवत्सु तव निर्ण­य­सि­द्धि­रि­त्यर्थः ।

'शत­म­प्य­न्धानां न पश्यति’ इति न्याय­मा­श्रि­त्या­र­म्भ­वादी परिहरति –
एतदेवेति ।

एकयोगिनमिति ।
एक­त्व­वा­दि­न­मि­त्यर्थः । अनेकयोगिनो नानात्ववादिनो बहवः प्रतिपक्षा यस्य स तथा, तमित्यर्थः । त्वदीयं यदे­क­त्व­वा­दी­त्या­दि­व­च­न­मे­त­देव मम स्वस्त्ययनं निर्ण­य­सा­म­र्थ्य­सू­च­क­मि­त्यर्थः । नानात्ववादिनां बहुत्वेऽपि न तेषां प्राबल्यशङ्का, नानात्वस्य मान­शू­न्य­ता­या­स्तत्र तत्रो­क्त­त्वा­द्व­क्ष्य­मा­ण­त्वा­च्चेति भावः ।

तेषां दौर्ब­ल्या­भि­प्राये स्थिते फलितमाह –
अत इति ।

एवमात्मैकत्वस्य वादि­वि­प्र­ति­पत्त्या सन्दि­ग्ध­त्वा­त्त­न्नि­र्ण­यस्य मुक्ति­फ­ल­क­त्वाच्च विष­य­प्र­यो­ज­न­व­ती­मा­त्म­त­त्त्व­गो­चरां चिन्तामारभते –
आरभे च चिन्तामिति ॥

भेदपक्षं भेदाभेदपक्षं चाव­धा­र­ण­तु­श­ब्दाभ्यां क्रमेण निराकुर्वन्नेव सिद्धान्तमाह –
स एव तु स्यादिति ।
न ताव­ज्जी­व­ब्र­ह्म­णो­र्भे­दोऽस्ति मानाभावात् । न चाभेदे परस्यैव संसारित्वं पराभावो वा स्यादिति वाच्यम् , चिदात्मनः परमार्थत एकत्वेऽपि बुद्ध्यु­प­हि­त­श्चि­दात्मा जीवः बुद्धि­का­र­णी­भू­ता­वि­द्यो­प­हि­त­श्चि­दात्मा परमेश्वर इत्येवं भेदकल्पनया संसा­रि­त्वा­सं­सा­रि­त्व­व्य­व­स्थो­प­पा­द­न­स­म्भ­वात् ; तथा च श्रुतिः - ‘कार्योपाधिरयं जीवः कार­णो­पा­धि­री­श्वरः’ इति । एतेन नाहमीश्वर इति भेदप्रत्यक्षस्य सुख­दुः­खा­दि­वै­चि­त्र्या­देश्च जीवे­श्व­र­भे­द­सा­ध­कत्वं निरस्तम् औपा­धि­क­भे­दे­नै­वो­क्त­प्र­त्य­क्षा­द्यु­प­पत्त्या वास्तवभेदसाधने तत्प्र­त्य­क्षादेः सामर्थ्याभावात् । अत एव तयोर्वास्तवौ भेदाभेदाविति पक्षोऽपि निरस्तः, एकत्र वस्तुतो भेदा­भे­द­यो­र्वि­रु­द्ध­त्वाच्च । तस्माद्वस्तुतो जीवः पराभिन्नः, ‘अन्योऽसौ’ इत्यत्र भेद­दृ­ष्टे­र्नि­न्दि­त­त्वात् ‘एक­मे­वा­द्वि­ती­यम्’ ‘तत्त्वमसि’ इत्या­द्य­भे­द­श्रु­ते­श्चेति भावः ।

एवंवित्पर एव स्यादित्यत्र हेत्वन्तरमाह –
तद्भावस्य त्विति ।
तु-शब्दश्चार्थः सन्पञ्चम्या सम्बध्यते ।

विवृणोति –
तद्विज्ञानेनेति ।
पर­ब्र­ह्म­वि­ज्ञा­ने­ने­त्यर्थः ।

ननु पर­स्यै­वं­वि­द्भि­न्न­त्वेऽपि ‘ब्रह्म­वि­दा­प्नोति परम् ‘ इत्यत्र विवक्षिता पर­भा­वा­प­त्ति­रे­वं­विदः किं न स्यादिति ; नेत्याह –
न हीति ।
अन्यस्य स्वरूपे स्थिते नष्टे वा अन्यात्मकत्वं न ह्युपपद्यत इत्यर्थः ।

अभे­द­प­क्षेऽ­प्य­नु­प­प­त्ति­तौ­ल्य­मा­श­ङ्कते –
नन्विति ।

यद्यपि ब्रह्मस्वरूपस्य सतो ब्रह्म­वि­द­स्त­द्भा­वा­प­त्ति­र्मुख्या न सम्भवति, तथाप्यौपचारिकी सा सम्भवतीत्याह –
न, अविद्याकृतेति ।
अविद्याकृतो योऽय­म­त­दा­त्म­भा­व­स्त­द­पोह एवार्थः पुरुषार्थः तत्स्व­रू­प­त्वा­त्त­द्भा­वा­पत्तेः न तद्भा­वा­नु­प­प­त्ति­रि­त्यर्थः ।

हेतुं विवृणोति –
या हीत्यादिना ।
उपदिश्यते ‘ब्रह्म­वि­दा­प्नोति परम्’ इत्या­दि­श्रु­त्येति शेषः ।

अध्या­रो­पि­त­स्येति ।
एतेन सङ्ग्र­ह­वा­क्य­ग­ता­त­दा­त्म­भा­व­श­ब्देन प्रत्य­गा­त्म­न्य­भे­दे­ना­ध्य­स्तोऽ­न्न­म­या­दि­र­नात्मा विवक्षित इति सूचितम् । अन्न­म­या­दे­र­वि­द्या­कृ­त­त्व­वि­शे­ष­णेन विद्यया अवि­द्या­पो­ह­द्वारा तत्कृ­ता­न्न­म­या­दे­र­पोह इति सूचितम् , प्रत्य­गा­त्म­न्य­ध्य­स्तस्य कार्यवर्गस्य साक्षा­द्वि­द्या­पो­ह्य­त्वा­भा­वात् ; तदुक्तं पञ्चपादिकायाम् - ‘यतो ज्ञान­म­ज्ञा­न­स्यैव निवर्तकम्’ इति ।

देवदत्तस्य ग्रामा­दि­प्रा­प्ति­व­दत्र मुख्यां प्राप्तिं विहा­या­मु­ख्य­प्रा­प्त्य­र्थ­कता फलवाक्यस्य केन हेतुनावगम्यत इति पृच्छति –
कथमिति ।

पर­प्रा­प्ति­सा­ध­न­त्वेन ‘ब्रह्मविद्’ इति विद्या­मा­त्रो­प­दे­शा­त्स­का­र्या­वि­द्या­नि­वृ­त्ति­रेव परप्राप्तिरिति गम्यत इत्याह –
विद्यामात्रेति ।

नन्व­प्रा­प्त­प्रा­प्ति­रपि विद्यामात्रफलं किं न स्यादिति ; नेत्याह –
विद्यायाश्चेति ।
च-शब्दः शङ्कानिरासार्थः अवधारणार्थो वा । लोके शुक्ति­त­त्त्वा­दि­गो­च­र­वि­द्यायाः सका­र्या­वि­द्या­नि­वृ­त्ति­रेव कार्यत्वेन दृष्टा, नाप्रा­प्त­प्रा­प्ति­र­पी­त्यर्थः ।

ननु सर्वमस्येदं दृष्टं भवति ‘य एवं वेद’ इत्यादाविव ‘ब्रह्मविद्’ इत्यत्रापि विदे­र्वि­द्या­वृ­त्ति­रू­पो­पा­स्ति­वा­चि­त्वा­द्वि­द्या­मा­त्रो­प­दे­शोऽ­सिद्ध इति ; नेत्याह –
तच्चेहेति ।
विदे­रु­क्तो­पा­स्ति­प­रत्वे लक्ष­णा­प्र­स­ङ्गा­द्वि­द्या­मा­त्र­मेव तदर्थ इति नासिद्धिशङ्का, उदाहृतश्रुतौ च ‘यां देवतामुपास्से’ इत्यु­प­क्र­मा­नु­सा­रा­दि­लि­ङ्ग­ब­ला­ल्ल­क्षणा न दुष्यतीति विशेष इति भावः ।

ननु ‘ब्रह्म­वि­दा­प्नोति परम्’ इत्युपदेशस्य ‘मार्ग­वि­दा­प्नोति ग्रामम्’ इत्यु­प­दे­श­तु­ल्य­त्वा­द्यथा तत्र मार्गविदः क्रियाद्वारा ग्रामप्राप्तिः अवाप्यो ग्रामश्च मार्गविदो गन्तुः सकाशादन्यः, तथात्रापि ब्रह्मविद्यावतो विद्या­वृ­त्ति­ल­क्ष­णो­पा­स्ति­द्वारा परप्राप्तिः प्राप्तव्यं परं च ब्रह्मविदः सका­शा­द­न्य­त्स्यात् ; तथा चावि­द्या­नि­वृ­त्ति­रू­पा­प­र­प्रा­प्ति­र­नु­प­पन्ना, उपा­स्ते­र­वि­द्या­नि­व­र्त­क­त्वा­भा­वा­दिति शङ्कते –
मार्गेति ।

शङ्कामेव विवृणोति –
तदात्मत्व इति ।
अवि­द्या­नि­वृ­त्ति­मा­त्र­रूपे परात्मभाव इत्यर्थः ।

'ब्रह्म­वि­दा­प्नोति’ इत्यत्र ब्रह्मविद्या ‘अहं ब्रह्म’ इत्याकारा विवक्षिता, गुहा­नि­हि­त­त्व­व­च­नेन प्रवेशवाक्येन च तथा निर्णीतत्वात् ; अत एव प्राप्यं परं ब्रह्मापि ब्रह्मविदो न भिन्नम् ; तथा चोप­दे­श­वै­ष­म्या­न्नायं दृष्टान्तो युक्त इत्याह –
नेति ।

तत्र हीति ।
यः प्राप्तव्यो ग्रामः तद्विषयं ज्ञानं न ह्युपदिश्यते ‘त्वं ग्रामोऽसि’ इत्य­नु­क्ते­रि­त्यर्थः ।

न तथेहेति ।
प्राप्तव्यं यत्परं ब्रह्म तद्विषयमेव ज्ञानम् ‘ब्रह्मवित् - - ‘ इत्युपदिश्यते, न तद्व्यतिरेकेण तदा­वृ­त्ति­ल­क्ष­णस्य साधनान्तरस्य तद्विज्ञानस्य वात्रो­प­दे­शोऽस्ति, ‘वेद’ इत्यस्य साध­ना­न्त­रा­दि­प­रत्वे लक्ष­णा­प्र­स­ङ्गा­दिति भावः ।

ननु ‘ब्रह्म­वि­दा­प्नोति परम्’ इत्यत्र विद्या­मा­त्र­श्र­व­णेऽपि न तन्मात्रं पर­प्रा­प्ति­सा­ध­न­त्वे­नो­प­दि­श्यते, किं तु संहि­तो­प­नि­ष­द्युक्तैः कर्मज्ञानैः समुच्चितमेव ब्रह्मविज्ञानम् , अतो विद्या­मा­त्रो­प­दे­शोऽ­सिद्ध इति पुनः शङ्कते –
उक्तकर्मादीति ।

अवि­द्या­नि­वृ­त्ति­मात्रे मोक्षे ब्रह्म­वि­ज्ञा­न­व्य­ति­रि­क्त­सा­ध­ना­पे­क्षा­भा­वा­त्स­मु­च्च­य­वा­दिना ब्रह्म­भा­व­ल­क्ष­णोऽन्यो वा मोक्षो ज्ञान­क­र्म­स­मु­च्च­य­जन्यो वाच्यः, तत्र चानि­त्य­त्व­प्र­स­ङ्ग­दोषः प्रागेवोक्त इत्याह –
न नित्यत्वादिति ।
'ब्रह्म­वि­दा­प्नोति’ इत्यत्र समुच्चयोपदेशो न विवक्षित इति प्रतिज्ञार्थः ।

प्रत्यु­क्त­त्वा­दिति ।
समु­च्च­य­प­क्ष­स्येति शेषः । एवम् ‘तद्भावस्य तु विवक्षितत्वात्’ इत्यादिना एवंवित्पर एव स्यादित्यत्र परप्राप्तिवचनं प्रमा­ण­मि­त्यु­प­पा­दि­तम् ।

तत्रैव हेत्वन्तरमाह –
श्रुतिश्चेति ।

कार्यस्थस्येति ।
देहा­दि­स­ङ्घा­त­ल­क्षणे कार्ये साक्षित्वेन स्थितस्य प्रत्यगात्मनो ब्रह्म­स्व­रू­पत्वं दर्शयतीत्यर्थः ।

एवंवित्पर एवेत्यत्र हेत्वन्तरमाह –
अभयेति ।

अभ­य­प्र­ति­ष्ठा­व­च­नो­प­प­त्ति­मेव प्रपञ्चयति –
यदि हीति ।
यदा एवं­वि­त्स्व­स्मा­द्भि­न्न­मी­श्वरं न पश्यति ततस्तदा सकलजगद्भयहेतोः परमेश्वरस्य स्वस्मा­द­न्य­स्या­भा­वा­द्वि­दु­षोऽ­भयं प्रतिष्ठां विदन्त इति फलवचनमुपपन्नं स्यादिति योजना । विदुषः सका­शा­त्प­र­मे­श्व­र­स्या­न्यत्वे तस्मादस्य भया­व­श्य­म्भा­वा­द­भ­य­प्र­ति­ष्ठा­व­च­नो­प­प­त्तये तयोरनन्यत्वं निश्चीयत इति निष्कर्षः ।

नन्वी­श्व­र­स्या­न­न्य­त्वेऽपि राजादेरन्यस्य सत्त्वा­त्क­थ­म­भ­य­सि­द्धि­रि­त्या­शङ्क्य जीव­प­रा­न्य­त्व­व­द्रा­जा­दि­ज­ग­द­प्य­स­दे­वे­त्याह –
अन्यस्य चेति ।
राजा­दि­प्र­प­ञ्च­स्या­प्य­न्य­त्वेन प्रती­य­मा­न­स्यो­क्त­व­क्ष्य­मा­ण­श्रु­ति­न्या­यै­र­वि­द्या­कृ­तत्वे सिद्धे सति विदुषो विद्यया सर्वं जगदवस्त्वेवेति दर्शनमुपपद्यते, तथा च न जगतोऽपि विदुषो भय­प्र­स­क्ति­रि­त्यर्थः । एतदुक्तं भवति – श्रुत्या­दि­प्र­मा­ण­ज­नि­तया तत्वदृष्ट्या द्वैत­स्या­ग्र­ह­णा­द­स­त्त्व­मिति ।

अस्मिन्नर्थे दृष्टान्तमाह –
तद्धीति ।

दृष्टा­न्त­वै­ष­म्य­मा­श­ङ्कते –
नैवमिति ।
यथा तिमि­रा­ख्य­दो­ष­र­हि­त­च­क्षु­ष्मता द्विती­य­श्चन्द्रो न गृह्यते एवं द्वैतं विदुषा न गृह्यत इति न, किं तु गृह्यत एव, अन्यथा विदुषः शास्त्रा­र्थो­प­दे­शादौ प्रवृ­त्त्य­भा­व­प्र­स­ङ्गा­दि­त्यर्थः ।

व्यवहारकाले विदुषा तद्ग्रहणेऽपि समा­ध्य­व­स्था­या­म­ग्र­ह­णा­द­वि­द्व­त्सा­धा­र­ण्येन सुषु­प्ता­व­ग्र­ह­णाच्च न वैष­म्य­मि­त्या­श­येन परिहरति –
न, सुषुप्तेति ।

सुषुप्तादौ द्वैताग्रहणं द्वैता­स­त्त्व­प्र­युक्तं न भवतीति शङ्कते –
सुषुप्त इति ।
यथा इषुकार इष्वा­स­क्त­म­न­स्तया इषुव्यतिरिक्तं विद्यमानमपि न पश्यति, एवं विद्यमानमेव द्वैतं सुषुप्तौ समाधौ च न पश्यतीत्यर्थः ।

दृष्टा­न्त­वै­ष­म्येण निराकरोति –
न, सर्वाग्रहणादिति ।
इषुकारस्य हि सर्वाग्रहणं नास्ति इषुग्रहणस्यैव सत्त्वात् , सुषुप्त्यादौ तु न कस्यापि विशेषस्य ग्रहणमस्ति, अतो द्विती­य­च­न्द्र­स्येव द्वैतस्य कदा­चि­द­ग्र­ह­णा­द­स­त्त्व­मेव वक्त­व्य­मि­त्यर्थः ।

ननु द्वैतस्य सुषुप्तादौ चेद­नु­प­ल­म्भा­द­सत्त्वं तर्हि जाग्र­दा­दा­वु­प­ल­म्भा­त्स­त्त्व­मेव किं न स्यादिति शङ्कते –
जाग्रदिति ।

उप­ल­भ्य­मा­न­त्व­मात्रं न सत्त्वप्रयोजकम् , तथा सति शुक्ति­रू­प्य­द्वि­ती­य­च­न्द्रा­दे­रपि सत्त्व­प्र­स­ङ्गात् , किं तु बाधा­यो­ग्य­त्वा­दि­क­म­न्य­देव सत्त्वप्रयोजकम् , तच्च द्वैतस्य नास्ति ‘नेह नानास्ति किञ्चन’ इत्यादौ सहस्रशो बाध­द­र्श­ना­दि­त्य­भि­प्रेत्य द्वैतस्य शुक्ति­रू­प्या­दे­रि­वा­न्व­य­व्य­ति­रे­का­भ्या­म­वि­द्या­का­र्यत्वं दर्शयति –
न, अवि­द्या­कृ­त­त्वा­दिति ।

सङ्ग्रहं विवृणोति –
यदन्यग्रहणमिति ।
यदन्यत्वेन गृह्यमाणं जगदित्यर्थः ।

अन्वयमाह –
अविद्याभाव इति ।
मुक्तावविद्याया अभावे जगतोऽभावादिति व्यतिरेको बहिरेव द्रष्टव्यः । न चात्र मानाभावः शङ्कनीयः, ‘सत्कि­ञ्चि­द­व­शि­ष्यते’ इत्या­दे­र्मु­क्ति­प्र­ति­पा­द­क­शा­स्त्रस्य मानत्वात् ।

नन्वविद्यायां सत्यां गृह्यमाणं द्वैतं यद्यसत्तर्हि सुषुप्ते स्वयमेव प्रका­श­मा­न­म­द्वै­त­मपि परमार्थं न स्यात् , तदाप्यविद्यायाः सत्त्वादिति मत्वा शङ्कते –
सुषु­प्तेऽ­ग्र­ह­ण­म­पीति ।
न विद्यते ग्रहणं स्वेनान्येन वा यस्य तदग्रहणम् , स्वय­ञ्ज्यो­तिः­स्व­भा­व­म­द्वै­त­मिति यावत् ।

अवि­द्या­का­ली­न­स्या­प्य­द्वै­तस्य न कल्पितत्वम् अन्या­न­पे­क्ष­स्व­भा­व­त्वा­दिति परिहरति –
नेति ।

सङ्गृहीतमर्थं दृष्टा­न्त­पू­र्वकं विवृणोति –
द्रव्यस्य हीत्यादिना ।
लोके प्रसिद्धस्य मृदादिद्रव्यस्य अविक्रिया यत्कु­ला­ला­दि­का­र­कै­र­वि­कृतं मृत्स्वरूपमस्ति तत्तस्य तत्त्वम् अनृतविलक्षणं स्वरूपम् उक्त­का­र­का­न­पे­क्ष­त्वात् , तस्यैव मृदादिद्रव्यस्य या विक्रिया घटा­दि­वि­का­रा­वस्था सा तस्य अतत्त्वम् अनृतं रूपमित्यर्थः ।

ननु मृद्वस्तुनः कारकापेक्षमपि विकाररूपं वास्तवं किं न स्यादिति चेत् ; नेत्याह –
न हीति ।
कारकापेक्षं विकारजातं वस्तुनो मृदादेस्तत्त्वं वास्तवं रूपं न भवति कादा­चि­त्क­त्वा­च्छु­क्ति­रू­प्या­दि­व­दि­त्यर्थः । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ‘ इति श्रुति­प्र­सि­द्धि­स­ङ्ग्र­हार्थो हि-शब्दः ।

एवं जगत्कारणस्य ब्रह्मणः परा­न­पे­क्ष­स्व­भा­व­त्वा­न्मृ­दा­दि­द्र­व्य­स्येव सत्य­त्व­म­भि­प्रेत्य मृदा­दि­वि­का­र­स्येव ब्रह्मविकारस्य जगतोऽनृतत्वमाह –
सत इति ।

ननु सतः सत्सा­मा­न्य­रू­पस्य ब्रह्मणो विशेषो नाम कः यस्य कारकापेक्षत्वेन मिथ्या­त्व­मु­च्यते ? तत्राह –
विशेषश्च विक्रियेति ।
विक्रिया विकारात्मकं जगदित्यर्थः ।

अयमेव मिथ्याभूतो विशेषः प्रत्यक्षादिना गृह्यते, न केवलं पर­मा­र्थ­स­त्य­म­द्वै­त­मि­त्या­श­ये­नाह –
जाग्रदिति ।
ग्रहणपदं गृह्यमाणार्थकम् ।

एवं द्रव्यस्य हीत्यादिना प्रपञ्चितमर्थं सङ्क्षिप्याह –
यद्धि यस्येति ।

अन्याभाव इति ।
यद्यपि मृदादेः कारकापेक्षं घटादिरूपं कारकाभावेऽपि तिष्ठति तथापि शुक्त्या­दे­र­ज्ञा­ना­दि­सा­पेक्षं रजतादिरूपं तदभावे न तिष्ठति, तथा सद्रूपस्य ब्रह्मणोऽपि मूला­वि­द्या­दि­सा­पेक्षं जगद्रूपं तदभावे न तिष्ठतीति प्रायि­का­भि­प्रा­येण तदुक्तिः । विव­क्षि­ता­र्थस्तु – यद्धि यस्य कादाचित्कं रूपं न तत्तस्य तत्त्वं यथा शुक्त्यादे रूप्यादि, यथा वा मृदादेर्घटादि ; यद्धि यस्या­व्य­भि­चा­रि­रूपं तत्तस्य वास्तवं रूपम् , परं तु मृदा­दि­स्व­रू­प­मा­पे­क्षि­क­स­त्यम् , ब्रह्म तु पारमार्थिकसत्यं कदापि व्यभि­चा­रा­भा­वा­दिति । इममेव विभागमभिप्रेत्य परमार्थसत्यस्य ब्रह्मणो लौकिकसत्यं मृदादिश्रुतौ दृष्टा­न्त­त्वे­नो­पा­दी­यते । एते­ना­ना­द्य­ज्ञा­ना­दे­रपि मिथ्यात्वं व्याख्यातम् , अज्ञानादेरपि चैतन्ये कादाचित्कत्वात् । न च हेत्वसिद्धिः, अज्ञा­न­त­त्स­म्ब­न्ध­जी­व­त्वा­दीनां विद्यया निवृ­त्ति­श्र­व­णा­दि­त्य­न्यत्र विस्तरः ।

उपसंहरति –
तस्मादिति ।
यथा जाग्र­त्स्व­प्न­यो­र­नु­भू­य­मानो विशेषः कादा­चि­त्क­त्वा­द­वि­द्या­कृतः तथा सुषुप्ते सुषु­प्त्या­दि­सा­ध­क­त्वेन प्रकाशमानं सदद्वयं वस्तु नाविद्याकृतम् अन्या­न­पे­क्ष­स्व­भा­व­त्वा­दि­त्यर्थः ।

एवं स्वमते भयहेतोरन्यस्य परस्याभावादभयं प्रतिष्ठां विन्दत इत्युपपाद्य एवं­वि­त्प­र­स्मा­दन्य इति पक्षे तद­स­म्भ­व­मि­दा­नी­माह –
येषामित्यादिना ।
येषां मते परमार्थत एव जीवादन्यः परो जगच्चान्यत् , तेषां मते विदुषो भयनिवृत्तिर्न स्याद्भ­य­हे­तो­र­न्य­स्ये­श्व­रस्य सत्त्वा­दि­त्यर्थः ।

ननु पर­मा­र्थ­तोऽ­न्य­स्यापि सत ईश्वरस्य विद्यया नाश­स­म्भ­वा­त्स्या­देव भयनिवृत्तिरिति ; नेत्याह –
सतश्चेति ।
च-शब्दः शङ्कानिरासार्थः । आत्महानं स्वरूपनाशः ।

तत्र दृष्टान्तमाह –
न चासत आत्मलाभ इति ।
यथा शशशृङ्गादेरसत आत्म­ला­भ­श­ब्दि­तो­त्प­त्तिर्न सम्भवति तथैवेश्वरस्य परमार्थसतो नाशो नोपपद्यत इत्यर्थः । न च परमार्थस्यापि पटादेर्नाशो दृष्ट इति वाच्यम् , पटादौ पर­मा­र्थ­त्वा­स­म्प्र­ति­पत्तेः भिन्ने­श्व­र­वा­दि­भि­री­श्व­र­ना­शेन विदुषो भय­नि­वृ­त्त्य­न­भ्यु­प­ग­मा­च्चेति भावः ।

नन्वीश्वरस्य प्राणि­क­र्म­सा­पे­क्ष­स्यै­वा­स्मा­भि­र्भ­य­हे­तु­त्व­मु­पे­यते न सत्तामात्रेण, विदुषस्तु कर्माभावादभयं भविष्यतीति शङ्कते –
सापेक्षस्येति ।

निराकरोति –
न तस्यापीति ।
ईश्वरं प्रति सहायभूतस्य धर्मादेरपि त्वया पर­मा­र्थ­स­त्य­त्वा­भ्यु­प­ग­मा­दी­श्व­र­स्ये­वा­त्म­हानं न सम्भवति ; तथा चास्मिन्नपि पक्षे विदुषो भया­नि­वृ­त्ति­दो­षस्य तुल्यत्वान्नायं परिहारो युक्त इत्यर्थः ।

सङ्ग्रहं विवृणोति –
यद्धर्मादीति ।
नित्यमनित्यं वा यद­न्य­द्ध­र्मा­दि­ल­क्षणं निमि­त्त­म­पे­क्ष्या­न्य­द्ब्रह्म भयकारणं स्यात्तस्यापि तथा­भू­त­स्ये­श्व­र­व­त्प­र­मा­र्थ­भू­तस्य धर्मा­दे­रा­त्म­ना­शा­भा­वा­दि­त्यर्थः ।

निमि­त्त­प­द­व्या­ख्या­नम् –
सहायभूतमिति ।
नित्यमिति साङ्ख्य­म­ता­भि­प्रा­यम् , तन्मते धर्मादेः प्रकृ­ति­प­रि­णा­मस्य प्रकृत्यात्मना नित्य­त्वा­भ्यु­प­ग­मात् ।

परमार्थसतोऽपि धर्मा­दे­रा­त्म­हा­नो­प­गमे बाधकमाह –
आत्महाने वेति ।
यथा शशशृङ्गादेरसतः सत्त्वा­प­त्ता­व­स­त्स्व­भा­व­वै­प­रीत्यं तथा सतः परमार्थस्यापि नाशे­ना­स­त्त्वा­पत्तौ सत्स्व­भा­व­वै­प­री­त्य­मा­प­द्येत ; एवं सद­स­तो­रि­त­रे­त­र­ता­प­त्ता­वु­प­ग­म्य­मा­ना­या­मा­त्मा­का­शा­दा­वपि त्वत्पक्षे आश्वासो न स्यात् , आत्मा­का­शा­दे­र­प्य­स­त्त्व­प्र­सङ्ग इत्यर्थः ; तस्मादीश्वरस्य तत्स­हा­य­भू­त­ध­र्मा­देश्च नाशा­स­म्भ­वा­द­भ­य­व­चनं भिन्नेश्वरवादे न सम्भवतीति स्थितम् ।

स्वमते तु नोक्तदोष इत्याह –
एकत्वपक्ष इति ।
निमित्तमविद्या, तया सहैव जीवे­श्व­र­वि­भा­गा­दि­ल­क्ष­णस्य संसारस्य भ्रान्ति­सि­द्ध­त्वा­द्वि­द्यया तन्निवृत्तौ सत्यामभयं विदुषः सम्भवतीति स्वमते भय­नि­वृ­त्त्य­नु­प­प­त्ति­दोषो नास्तीत्यर्थः ।

ननु जीव­प­र­यो­रे­क­त्व­प­क्षेऽपि पूर्वमसतः संसा­र­स्या­वि­द्या­दि­का­र­ण­व­शा­त्स­त्त्वा­प­त्ति­र्वि­द्यया चास­त्त्वा­प­त्ति­रिति स्वभा­व­वै­प­री­त्य­प्र­स­ङ्ग­दो­ष­स्तुल्य इत्याशङ्क्याह –
तैमिरिकदृष्टस्य हीति ।
दोषवता पुरुषेण दृष्टस्य द्विती­य­च­न्द्रा­दे­र­नि­र्व­च­नी­य­त्वा­द्व­स्तुत उत्प­त्ति­र्वि­नाशो वा नास्ति, हि प्रसि­द्ध­मि­त्यर्थः । अयं भावः – चन्द्र­द्वि­त्वा­दि­व­द­नि­र्व­च­नी­यस्य स्थूल­सू­क्ष्मा­त्म­ना­ना­दि­का­ल­मा­र­भ्या­नु­व­र्त­मा­नस्य संसा­र­स्या­वि­द्या­दि­का­र­ण­ब­लेन सर्गा­दा­वा­त्म­ला­भो­प­ग­मेऽपि नासतः सत्त्वापत्तिः असत उत्प­त्त्य­नु­प­ग­मा­दु­त्प­न्न­स्यापि संसा­र­स्या­त्म­व­त्स­त्त्वा­नु­प­ग­माच्च ; अत एव विद्या­ब­ला­त्सं­सा­र­स्या­स­त्त्वा­प­त्ता­वपि न सतोऽ­स­त्त्वा­प­त्ति­रू­प­स्व­भा­व­वै­प­रीत्यं संसारस्य सत्त्वा­न­भ्यु­प­ग­मा­दे­वेति ।

ननु संसारकारणभूताया अविद्याया आत्म­ध­र्म­त्व­मे­वा­भ्यु­प­ग­न्तव्यं धर्म्य­न्त­रा­नु­प­ल­म्भात् , तथा तन्निवर्तिकाया विद्याया अपि तत्सा­मा­ना­धि­क­र­ण्य­ला­भा­या­त्म­ध­र्म­त्व­मे­वो­पे­य­मि­त्य­वि­द्या­दि­ध­र्म­वता पुरुषेण निर्धर्मकस्य पर­स्या­भि­न्न­त्व­मिति पक्षः कथं सम्भाव्यत इति मन्वानः शङ्कते –
विद्या­वि­द्य­यो­रिति ।

किं तयो­रा­त्म­ध­र्मत्वं काल्पनिकं विवक्षितं वास्तवं वा ? आद्ये न परा­प­र­यो­रे­क­त्वा­नु­प­प­त्ति­रिति मत्वा द्वितीयं निराकरोति –
न, प्रत्य­क्ष­त्वा­दिति ।
प्रत्यक्षत्वं साक्षि­प्र­त्य­क्ष­वि­ष­य­त्वम् , दृश्यत्वमिति यावत् । तथा च विद्या­वि­द्य­यो­र्दृ­श्य­त्वा­द्दृ­ग्रू­पा­त्म­ध­र्मत्वं तयोर्वस्तुतो न सम्भवतीत्यर्थः ।

तयोः स्वरू­प­क­थ­न­पू­र्वकं हेतुं साधयति –
विवेकेति ।
सर्व­दृ­श्य­वि­वि­क्ता­त्म­त­त्त्व­गो­चरा तत्त्व­म­स्या­दि­श्रु­ति­ज­निता वृत्तिर्विवेकः तन्निवर्त्या मूलाविद्या अविवेकः ।

ननु दृश्ययोरपि तयो­र्द्र­ष्टृ­ध­र्मत्वं किं न स्यादि­त्या­शङ्क्य अन्य­त्रा­द­र्श­ना­दि­त्याह –
न हीति ।

विद्याविद्ययोः प्रत्यक्षत उपलभ्यमानत्वं प्रपञ्चयति –
अविद्या चेत्यादिना ।
चका­रोऽ­व­धा­र­णार्थः । किमात्मतत्त्वं जानासीति गुरुणा पृष्टेन शिष्येण आत्मतत्त्वविषये मूढ एवाहं मम स्वरूपभूतं विज्ञा­न­म­वि­विक्तं विविच्य न ज्ञातमित्येवं स्वानुभवेन सिद्धा मूलाविद्या निरूप्यते, तथा विद्योपदेशे प्रवृत्तेन गुरुणा प्रथमं स्वकीया विद्यानुभूयते, पश्चा­द­नु­भ­व­सिद्धां तां शिष्येभ्य उपदिशति, शिष्याश्च तां गृहीत्वा उप­प­त्ति­र­भि­र­व­धा­र­य­न्ती­त्यर्थः । विद्या­वि­द्य­यो­र्दृ­श्यत्वे नास्ति विवादावसर इत्याशयः ।

तयो­रा­त्म­ध­र्म­त्व­नि­रा­क­र­ण­मु­प­सं­ह­रति –
तस्मादिति ।
आत्म­ध­र्म­त्वा­स­म्भ­वा­न्मू­ढोऽहं विद्वा­न­ह­मि­त्य­नु­भ­वा­नु­सा­रेण नाम­रू­पा­न्त­र्भू­ता­न्तः­क­र­ण­स्यैव विद्याविद्ये धर्म­त्वे­ना­व­शि­ष्येते । तदुक्तं प्रागे­वा­न्तः­क­र­ण­स्था­विति । ननु वृत्तिरूपाया विद्याया अन्तः­क­र­ण­ध­र्म­त्वेऽपि नावि­द्या­या­स्त­द्ध­र्म­त्वम् अवि­द्या­का­र्य­स्या­न्तः­क­र­ण­स्या­वि­द्या­श्र­य­त्वा­यो­गा­दिति चेत् ; नायं दोषः, अवि­द्या­या­श्चै­त­न्या­श्रि­त­त्वेऽपि प्रतीतितः कामा­दि­प­रि­णा­म्य­न्तः­क­र­ण­ध­र्म­त्व­व­र्ण­न­स्यात्र विवक्षितत्वाद् , जीव­चै­त­न्य­स्या­वि­द्या­व­त्त्वेऽपि वस्तु­त­स्त­द्रा­हि­त्यान्न ब्रह्मै­क्या­नु­प­प­त्ति­रि­त्या­वे­दि­त­म­ध­स्ता­दिति सङ्क्षेपः ।

ननु विद्या­वि­द्य­यो­र्ना­म­रू­पा­न्त­र्ग­ता­न्तः­क­र­ण­ध­र्म­त्वेऽपि नाम­रू­प­यो­रे­वा­त्म­ध­र्म­त्व­मस्तु ; नेत्याह –
नामरूपे चेति ।
नामरूपे चिदात्मनः कल्पितधर्मावेव न वास्तवधर्मौ, चिदात्मनि तयोः शतशो निषेधोपलम्भात् तयो­र­र्था­न्त­र­त्वा­च्चेति भावः । नामरूपे आत्मधर्मौ न भवत इत्यक्षरार्थः ।

तयोश्चिदात्मनः सका­शा­द­र्था­न्त­रत्वे श्रुतिमाह –
नामरूपयोरिति ।
ते नामरूपे यदन्तरा यस्माद्भिन्ने तन्ना­म­रू­प­नि­र्व­हि­त्रा­काशं ब्रह्मेत्यर्थः ।

नामरूपशब्दितस्य प्रप­ञ्च­स्या­त्मनि कल्पितधर्मत्वं सदृष्टान्तमाह –
ते च पुनरिति ।
उद­या­स्त­म­य­व­र्जिते सवितरि यथा तौ कल्प्येते तथेत्यर्थः । एवं बहु­प्र­प­ञ्चे­नै­वं­वि­त्पर एवेति साधितम् ।

तत्र पूर्वो­क्ता­म­नु­प­प­त्ति­मु­द्भाव्य निराकरोति –
अभेद इत्यादिना ।

नेति ।
न तावदानन्दमयः परमात्मा तस्य कार्यात्मतायाः प्रागे­वो­क्त­त्वात् ; नापि तत्प्राप्तिः सङ्क्रमणं प्राप्तेः सङ्क्र­म­णा­र्थ­ताया निर­सि­ष्य­मा­ण­त्वात् , किं तु ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­न­मा­त्र­कृता भ्रम­नि­वृ­त्ति­रत्र सङ्क्रमणम् , अतो नोक्ता­नु­प­प­त्ति­रि­त्यर्थः ।

सङ्ग्रहं विवृणोति –
न, जलू­का­व­दि­त्या­दिना ।

सङ्क्रमणस्य प्राप्ति­रू­प­त्व­नि­रा­क­र­णा­र्थ­मा­श­ङ्का­मु­द्भा­व­यति –
नन्विति ।
'आन­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्र­मति’ इत्युपसङ्क्रमणं श्रूयते ; तच्चान्नमय इवानन्दमयेऽपि मुख्यमेव किं न स्यादिति शङ्कार्थः ।

दृष्टा­न्ता­सिद्ध्या निराकरोति –
नेति ।

सङ्ग्रहं विवृणोति –
न मुख्य­मे­वे­त्या­दिना ।
आनन्दमयपर्याये सङ्क्रमणं मुख्यं न भवत्येवेति प्रतिज्ञार्थः ।

न हीति ।
बाह्या­त्पु­त्र­भा­र्या­दि­ल­क्ष­णा­द­स्मा­द­प­रो­क्षा­ल्लो­का­द्भो­गो­पा­य­भू­ता­त्प्रेत्य अन्न­म­य­मु­प­स­ङ्क्रा­म­त­स्त­त्त्व­विदो जलूकावदन्नमये सङ्क्रमणं न हि दृश्यत इत्यर्थः । यथा एकतृणस्थाया जलू­का­या­स्तृ­णा­न्त­र­प्रा­प्ति­रूपं सङ्क्रमणं दृश्यते, नैवमेवंविदः शरी­र­स्थ­स्या­न्न­म­य­स­ङ्क्र­मणं दृश्यत इति यावत् । अतो नानन्दमयेऽपि सङ्क्रमणं प्राप्तिरिति भावः ।

ब्रह्मविदः शरीरस्थत्वादेव प्रकारान्तरेण सङ्क्रमणमपि निर­स्त­मि­त्या­श­ये­नाह –
अन्यथा वेति ।
नीडे पक्षि­प्र­वे­श­व­द्वा­न्न­मये सङ्क्रमणं न दृश्यत इत्यर्थः ।

नन्वे­वं­वि­त्प­र­यो­र­भे­देऽपि तस्य प्रवेशादिरूपं परं प्रति सङ्क्रमणं सम्भवति, मनो­म­य­वि­ज्ञा­न­म­य­यो­रा­त्म­स­ङ्क्र­म­णस्य तथाविधस्य दृष्टत्वादिति मन्वानः शङ्कते –
मनोमयस्येति ।
संश­या­त्म­क­वृ­त्ति­म­द­न्तः­क­रणं मनोमयः निश्च­या­त्म­क­वृ­त्ति­म­द­न्तः­क­रणं विज्ञानमय इति विभागः ।

दृष्टा­न्ता­सिद्ध्या निराकरोति –
नेति ।
तत्र संश­य­नि­श्च­य­रू­प­यो­र्वृ­त्त्यो­रेव बहिर्विषयदेशे चक्षुरादिद्वारा निर्गमनं पुनः स्वाश्रयं प्रत्यागमनरूपं सङ्क्रमणं च दृश्यते, न तु साक्षा­न्म­नो­म­य­वि­ज्ञा­न­म­य­यो­र्ब­हि­र्नि­र्ग­मनं स्वात्मनां प्रत्यागमनरूपं च सङ्क्रमणं दृश्यते, न च सम्भवति, स्वात्मनि स्वस्यैव प्रवे­शा­दि­क्रि­याया विरु­द्ध­त्वा­दि­त्यर्थः ।

मनोमयो मनो­म­य­मे­वो­प­स­ङ्क्रा­मति विज्ञानमयो विज्ञा­न­म­य­मे­वो­प­स­ङ्क्रा­म­ती­त्य­र्थ­क­ल्पनं प्रक्रमविरुद्धं चेत्याह –
अन्य इति ।
एवंविदित्यर्थः ।

एवं दृष्टान्तं निरस्य दार्ष्टान्तिकं निराकरोति –
तथेति ।
आनन्दमय एव सन्ने­वं­वि­दा­न­न्द­मयं स्वात्मा­न­मु­प­स­ङ्क्रा­मति प्राप्नोति प्रविशतीति वा नोपपद्यते, स्वात्मनि क्रिया­वि­रो­धा­त्प्र­क्र­म­वि­रो­धा­च्चे­त्यर्थः ।

सङ्क्रमणस्य प्राप्त्या­दि­रू­प­त्व­नि­रा­क­र­ण­मु­प­सं­ह­रति –
तस्मादिति ।

ननु स्वात्मनि क्रिया­वि­रो­धा­दा­न­न्द­म­य­स­ङ्क्र­म­ण­मा­न­न्द­म­य­क­र्तृकं न भवति चेत् , तर्हि अन्न­म­या­द्य­न्य­त­म­क­र्तृ­क­मस्तु ; नेत्याह –
नापीति ।
'आन­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’ इत्य­त्रा­न्न­म­या­द्य­न्य­त­मस्य कर्तृ­त्वे­ना­श्र­व­णा­दिति भावः ।

फलितमाह –
पारिशेष्यादिति ।
प्रस­क्त­प्र­ति­षे­धेऽ­न्य­त्रा­प्र­स­ङ्गा­च्छि­ष्य­माणे संप्रत्ययः परिशेषः, परिशेष एव पारिशेष्यम् , तस्मादित्यर्थः । एतदुक्तं भवति - आन­न्द­म­य­स­ङ्क्र­मणे तावदहमनुभवगोचरः कर्तेति निर्विवादम् ; तच्च कर्तृ­त्व­म­न्न­म­या­दि­ष्वपि प्रसक्तम् अन्न­म­या­दी­ना­म­प्य­ह­म­नु­भ­व­गो­च­र­त्वात् ; तत्प्रतिषेधे सत्य­ह­म­नु­भ­व­गो­च­रा­द­न्यत्र स्तम्भादिषु तत्क­र्तृ­त्वा­प्र­सक्तेः शिष्यमाणे चिदा­त्म­न्ये­वं­वि­त्त्वेन प्रकृते बुद्ध्यु­पा­धि­स­म्ब­न्धा­दा­न­न्द­म­य­स­ङ्क्र­म­ण­क­र्तृ­त्व­म­स्तीति प्रमारूपः संप्रत्ययो भवति ; तादृ­श­सं­प्र­त्य­य­रू­पा­त्प­रि­शे­षा­त्को­श­प­ञ्च­क­व्य­ति­रि­क्त­क­र्तृ­क­मा­न­न्द­म­य­स­ङ्क्र­म­ण­मि­त्यु­प­प­द्यते ; एव­म­न्न­म­या­दि­स­ङ्क्र­म­णेऽ­प्ये­वं­वि­देव कर्ता, तस्यैव सर्वत्र सङ्क्रमणे कर्तृत्वेन प्रकृतत्वादिति ।

ज्ञानमात्रं चेति ।
तत्त्व­ज्ञा­न­मा­त्र­कृतं भ्रान्ति­ना­श­रू­प­मेव सङ्क्रमणमिति चोपपद्यत इत्यर्थः ।

ननु सङ्क्रमशब्दस्य भ्रमनाशे प्रसि­द्ध्य­भा­वा­त्क­थ­मु­प­प­त्ति­रि­त्या­श­ङ्क्याह –
ज्ञानमात्रे चेति ।
ज्ञानमात्रकृते विभ्रमनाशे सङ्क्रमशब्द उपचर्यते न मुख्यस्तत्र, अतो न प्रसि­द्ध्य­पे­क्षेति भावः ।

एतदेव विशदयति –
आन­न्द­म­ये­त्या­दिना ।
वस्तुतः सर्वान्तरस्य ब्रह्मणो जग­त्सृ­ष्ट्वा­नु­प्र­वि­ष्ट­त्वेन श्रुतस्य बुद्धि­ता­दा­त्म्या­द्योऽ­य­म­न्न­म­या­दि­ष्वा­त्म­त्व­भ्रमो मूलाविद्याकृतः, स मुमुक्षोः कोश­वि­वे­क­क्र­मे­णा­त्म­त­त्त्व­सा­क्षा­त्का­रो­त्पत्त्या समूलो विनश्यति ।

ततः किम् ? अत आह –
तदेतस्मिन्निति ।
एतदुक्तं भवति - तत्त­त्को­श­गो­च­र­वि­भ्र­म­ना­श­स्तत्र तत्र सङ्क्रमो विवक्षित इति ।

एवमुपचारे नियामिकां मुख्या­र्था­नु­प­प­त्ति­मुक्तां स्मारयति –
न ह्यञ्जसेति ।

सर्वगतस्येति ।
पूर्ण­त्वे­ना­त्मानं मन्यमानस्य विदुष इत्यर्थः ।

वस्त्वन्तरेति ।
अत्रो­प­स­ङ्क्र­म­ण­क­र्म­त्वेन श्रुता­ना­म­न्न­म­या­दी­ना­म­प्रा­प्त­ग्रा­मा­दी­ना­मि­वा­त्य­न्त­भि­न्नत्व - विप्र­कृ­ष्ट­त्वा­द्य­भा­वा­च्चे­त्यर्थः ।

नन्व­त्य­न्त­भे­द­वि­प्र­क­र्षा­द्य­भा­वेऽपि मुख्यप्राप्यता किं न स्यादि­त्या­श­ङ्क्याह –
न च स्वात्मन एवेति ।
न हि रज्जोः स्वाध्य­स्त­स­र्प­स­ङ्क्र­मणं मुख्यं दृष्टमित्यर्थः ।

यद्वा विदुषः स्वव्य­ति­रि­क्त­व­स्त्व­भा­वाच्च न विद्वत्कर्तृकं सङ्क्रमणं मुख्यं सम्भवतीत्याह –
वस्त्वन्तरेति ।

स्वात्मकर्मकमेव तर्हि मुख्य­स­ङ्क्र­म­ण­मस्तु ; नेत्याह –
न च स्वात्मन एवेति ।

तत्रोदाहरणमाह –
न हीति ।

इत्थ­मे­वं­वि­त्प­र­यो­र­भे­द­सा­ध­नेन सङ्क्र­म­ण­मौ­प­चा­रि­क­मिति व्याख्याय प्रकरणस्य महा­ता­त्प­र्य­मु­प­सं­हा­र­व्या­जे­नाह –
तस्मादिति ।
आन­न्द­मी­मां­सा­स­ङ्ग्र­हा­र्थ­मा­दि­ग्र­ह­णम् । संव्य­व­हा­र­वि­ष­य­त्व­योग्यं यदज्ञातं ब्रह्म, तस्मिन्ब्रह्मणि सर्गादिकं लोक­भ्रा­न्ति­सि­द्ध­मु­प­दि­श्यते शुद्ध­ब्र­ह्म­प्र­ति­प­त्त्य­र्थ­मेव, न तु श्रुत्या तात्पर्येण प्रतिपाद्यते, सर्गा­दे­र्मा­या­मा­त्र­त्वा­दि­त्यर्थः ।

'यतो वाचः ...’ इति मन्त्रो विद्याफलविषय इत्याह –
तमेतमिति ।
एवं विदित्वा क्रमेण कोशा­नु­प­स­ङ्क्र­म्येति योजना । यद्यपि कोशा­ना­मु­प­स­ङ्क्र­मणं नाम भ्रम­नि­वृ­त्ति­रूपो बाध इत्युक्तम् , स च बाध­स्त­त्त्व­ज्ञा­न­ब­लेन युगपदेव सम्भवति रज्जु­त­त्त्व­ज्ञा­न­ब­ले­नेव तत्रा­ध्य­स्त­स­र्प­धा­रा­दी­नाम् ; तथापि तत्त्व­प्र­ति­प­त्त्यु­पा­य­भूते कोशविवेचने क्रमस्य प्रागु­क्त­त्वा­त्त­त्फ­ल­प्रा­प्ता­वपि स एव क्रमोऽनूदितः श्रुत्येति मन्तव्यम् ।

न केवलं विद्याफलविषय एवायं मन्त्रः, किं तु कृत्स्न­व­ल्ल्य­र्थो­प­सं­हा­र­प­र­श्चेति तात्प­र्या­न्त­र­माह –
सर्वस्यैवेति ॥

'अदृ­श्येऽ­नात्म्ये’ इत्या­दि­नि­षे­ध­श्रु­ति­म­भि­प्रे­त्याह –
निर्विकल्पादिति ।
सर्व­वि­शे­ष­र­हि­ता­दि­त्यर्थः ।

'सत्यं ज्ञानमनन्तम्’ इति लक्ष­ण­वा­क्य­म­भि­प्रे­त्याह –
यथो­क्त­ल­क्ष­णा­दिति ।

आन­न्त्य­वि­व­र­ण­प­राम् ‘आत्मन आकाशः सम्भूतः’ इति सृष्टि­श्रु­ति­म­भि­प्रे­त्याह –
अद्वयादिति ।

यद्वा विशेष्यमाह –
अद्वयादिति ।
ब्रह्मण इत्यर्थः ।

मन्त्रे ‘आनन्दं ब्रह्मणः’ इति भेदनिर्देशः ‘राहोः शिरः’ इतिवदौपचारिक इति मत्वाह –
आनन्दात्मन इति ।
आन­न्द­स्व­रू­पा­दि­त्यर्थः । ‘आनन्दादात्मनः’ इति व्यस्त­पा­ठेऽ­प्य­य­मे­वार्थः ।

अभिधानानि वाचकपदानि । तेषां मुख्यविषयत्वमाह –
द्रव्यादीति ।
गुणा­दि­स­ङ्ग्र­हा­र्थ­मा­दि­ग्र­ह­णम् । सवि­शो­ष­व­स्तु­वि­ष­या­णीति निष्कर्षः ।

ननु तेषां निर्विशेषे ब्रह्मणि प्राप्ते­र­प्र­स­क्त­त्वा­त्कथं प्रतिषेध इत्याशङ्क्याह –
वस्तु­सा­मा­न्या­दिति ।
वस्तु­त्व­सा­मा­न्या­दि­त्यर्थः ।

नन्व­प्र­का­श्ये­त्य­नु­प­प­न्नम् उप­नि­ष­च्छ­ब्दै­र­वश्यं निर्विकल्पस्य ब्रह्मणः प्रकाशनीयत्वात् अन्यथा ‘तं त्वौपनिषदम्’ इत्यु­प­नि­ष­त्प्र­का­श्य­त्व­श्रु­ति­वि­रो­ध­प्र­स­ङ्गा­दि­त्या­शङ्क्य प्राप्ति­नि­षे­ध­श्रु­ते­स्ता­त्प­र्य­माह –
स्वसा­म­र्थ्या­द्धी­यन्त इति ।
सामर्थ्यं शक्तिः, तद्वि­ष­य­त्व­मे­वात्र निषिध्यते, न लक्ष­णा­वि­ष­य­त्व­मपि ; अतो न श्रुत्य­न्त­र­वि­रोध इति भावः । मनसा सहाप्राप्येति सम्ब­न्धा­द्ब्र­ह्मणि मनः­प्र­का­श्य­त्व­मपि निषिध्यते, स्वप्रकाशस्य तस्य मनः­प्र­का­श्य­त्वा­यो­गात् । तत्र सहशब्देन वाचां मनसश्च सहभाव उच्यते ।

तमुपपादयति –
मन इतीत्यादिना ।
मन इति पदेन प्रत्य­योऽ­भि­धी­यते, स च प्रत्ययो ज्ञान­सा­मा­न्य­रूपो न भवति । किं तु वाच इत्यनेन सम­भि­व्या­हा­रा­च्छ­ब्द­श­क्ति­ज­नितं विज्ञानं पर्यवस्यति ।

ततः किमत आह –
तच्चेति ।
यत्र शब्द­श­क्ति­वि­ष­यत्वं प्रथममेव प्रवृत्तमस्ति तत्र तदनु शब्द­श­क्ति­ज­नि­त­वि­ज्ञा­न­प्र­का­श्य­त्व­मपि भवति ; यत्र च तादृ­श­ज्ञा­न­प्र­का­श्यत्वं तत्र शब्द­श­क्ति­वि­ष­य­त्व­म­प्य­स्त्ये­वेति कृत्वा सहभाव उक्त इति निष्कर्षः । तदुक्तं वार्त्तिके - ‘उदपादि च यच्छ­ब्दै­र्ज्ञा­न­मा­का­र­व­द्धियः । स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते’ इति । धियः अन्तःकरणस्य परिणामरूपं सप्रकारं यज्ज्ञानं शब्दैः शक्त्या उत्पादितम् , तदित्यर्थः । स्वतो बुद्धमित्यस्य स्वप्र­का­श­मि­त्यर्थः ।

अती­न्द्रि­येऽ­पीति ।
जग­त्का­र­णा­द्य­ती­न्द्रि­या­र्थेऽ­पी­त्यर्थः ।

तस्मादिति ।
उक्तरीत्या सहैव प्रवृ­त्ति­द­र्श­ना­दि­त्यर्थः ।

एवं वाङ्मनसयोः सहैव प्रवृ­त्ति­मुक्त्वा निवृत्तिरपि सहैवेत्याह –
तस्मादित्यादिना ।

अप्र­त्य­य­वि­ष­या­दिति ।
प्रत्य­य­वि­ष­य­त्वा­यो­ग्या­दि­त्यर्थः ।

अनभिधेयादिति ।
शब्द­श­क्त्य­यो­ग्या­दि­त्यर्थः ।

उभयत्र हेतुं सूचयति –
अदृ­श्या­दि­वि­शे­ष­णा­दिति ।
निर्वि­शे­ष­त्वा­त्स्व­प्र­का­श­त्वा­च्चे­त्यर्थः ।

सर्व­प्र­का­श­न­स­म­र्थे­नेति ।
अग्नि­त­प्ता­यः­पि­ण्ड­व­च्चै­त­न्य­व्याप्तं वृत्तिज्ञानं समस्तस्य सविशेषस्य प्रकाशने समर्थमपि स्वप्र­का­श­ब्र­ह्म­प्र­का­शने साम­र्थ्या­भा­वा­न्नि­व­र्तत इति भावः । शब्द­श­क्ति­ज­नि­त­वि­ज्ञा­नस्य निर्वि­शे­ष­ब्र­ह्म­गो­च­र­त्व­यो­ग्य­ता­रा­हि­त्या­त्त­द­प्र­का­श्यैव निवृत्तिरित्यपि मन्तव्यम् ।

अस्यानन्दस्य पारोक्ष्यवारणाय विद्व­त्प्र­त्य­क्ष­त्व­माह –
श्रोत्रियस्येति ।
अवृजिनत्वं पापराहित्यम् ।

आन­न्द­मी­मां­सा­वा­क्य­नि­र्दि­ष्ट­श्रो­त्रि­य­नि­रा­सा­या­त्रा­का­म­ह­तत्वं निर­ङ्कु­श­मि­त्या­श­ये­नाह –
सर्वैषणेति ।

साति­श­या­न­न्द­वै­ल­क्षण्यं प्रकृतानन्दस्य दर्शयति –
विषयेति ।

विष­या­दि­स­म्ब­न्ध­ज­नि­त­त्वा­भा­वेऽपि गग­ना­दे­रि­वो­त्प­त्ति­मा­श­ङ्क्याह –
स्वाभाविकमिति ।
अनादिमित्यर्थः ।

अना­दे­र­प्य­वि­द्या­दे­रिव नाशमाशङ्क्याह –
नित्यमिति ।

सर्वेषु शरीरेषु तस्यैक्यमाह –
अविभक्तमिति ।

अत एवास्यानन्दस्य पर­म­त्व­मि­त्या­श­ये­नाह –
परमानन्दमिति ।

यथोक्तेनेति ।
अन्योऽन्तर आत्मान्योऽन्तर आत्मे­त्या­द्यु­क्तेन प्रकारेण यथो­क्त­मा­न­न्द­मा­त्म­त्वेन साक्षा­त्कृ­त­वा­नि­त्यर्थः ।

भय­नि­मि­त्ता­भा­वा­त्कु­तोऽपि न बिभे­ती­त्यु­क्त­मेव विशदयति –
न हीति ।

विदुषो भयनिमित्तं वस्त्वन्तरं नास्तीत्यत्र युक्तिमाह –
अवि­द्य­ये­त्या­दिना ।

ततः किम् ? अत आह –
विदुषस्त्विति ।
भयनिमित्तस्य अविद्याकार्यस्य नाशादिति सम्बन्धः ।

अधि­ष्ठा­न­या­था­त्म्य­गो­च­र­वि­द्यया अध्य­स्त­व­स्तु­नाशे दृष्टान्तमाह –
तैमिरिकेति ।
तैमिरिकदृष्टस्य द्विती­य­च­न्द्रस्य चन्द्रै­क­त्व­वि­द्यया नाशवदित्यर्थः ।

ननु विशु­द्ध­ब्र­ह्म­प्र­ति­पा­द­कोऽयं मन्त्रः कथमब्रह्मणि मनोमये उदाहृतः कथं वा तत्र भय­नि­मि­त्त­नि­षे­ध­म­कृत्वा भयमात्रनिषेधः कृत इत्याशङ्क्याह –
मनोमये चेति ।
मनो­म­य­श­ब्द­वा­च्य­स्या­स्म­दा­दि­म­नसो ब्रह्म­वि­ज्ञा­न­सा­ध­न­त्वा­त्तत्र मनसि ब्रह्म­त्व­म­ध्या­रोप्य मनोमये चायं मन्त्र उदाहृत इति योजना ; अतो नोदा­ह­र­णा­नु­प­प­त्ति­रिति भावः ।

तत्स्तु­त्य­र्थ­मिति ।
मनोमयोपासनस्य ब्रह्म­वि­द्या­शे­ष­त्वेन फल­स्या­वि­व­क्षि­त­त्वा­त्त­दु­पा­स­नस्य साक्षा­द्भ­य­नि­मि­त्त­नि­र­सने साम­र्थ्या­भा­वाच्च मनो­म­यो­पा­स­न­स्तु­तये तत्र भयमात्रं निषि­द्ध­मि­त्यर्थः ।

प्रकृते तद्वैषम्यमाह –
इह त्विति ।
अद्वैते विद्याविषये ब्रह्मणि द्वैता­व­शे­षा­स­म्भ­वा­द्भ­य­नि­मि­त्त­नि­षेध उपपद्यत इत्यर्थः ।

भय­नि­मि­त्त­नि­षे­ध­मा­क्षि­पति –
नन्वस्तीति ।

परिहरति –
नैवमिति ।
विदुषः साध्वकरणं पापकरणं च भय­का­र­ण­म­स्ती­त्येवं न वक्त­व्य­मि­त्यर्थः ।

तत्र हेतुं पृच्छति –
कथमिति ।

श्रुत्या हेतुमाह –
उच्यत इत्यादिना ।

यथोक्तमिति ।
'आनन्दं ब्रह्मणो विद्वान् ‘ इत्या­दि­पू­र्व­ग्रन्थे प्रकृतमित्यर्थः ।

कथं पुनरिति ।
साध्वकरणादिकं कथं सन्ता­प­य­त्स­दे­वं­वि­द­मेव न सन्तापयतीति प्रश्नार्थः ।

अहमेवमिति ।
अविदुषामासन्ने मरणकाले एवं श्रुत्यु­क्त­प्र­का­रेण सन्तापो भवतीति योजना ।

एवमविदुषां पाप­क­र­ण­नि­मि­त्त­कोऽपि पश्चात्सन्तापो भवतीत्याह –
तथेति ।

विदुषस्तदभावमाह –
ते एते इति ।

एवंशब्दार्थमेव विवृणोति –
यथेति ।

पुण्य­पा­प­यो­रा­त्म­मा­त्र­त्वेन दर्शनं विदुषः सन्तापाभावे हेतुरिति प्रश्नपूर्वकमाह –
कस्मा­त्पु­न­रि­त्या­दिना ।

एते इति सर्वनाम्नः प्रकृ­त­सा­ध्व­क­र­णा­दि­प­रत्वं व्यावर्तयति –
साध्वसाधुनी इति ।
तापहेतू इतीति इति-शब्दः प्रकारवचनः । अकरणकरणद्वारा ताप­हे­तु­त्वे­नोक्ते इत्यर्थः ।

नन्वत्र एते आत्मानमिति सामा­ना­धि­क­र­ण्या­त्पु­ण्य­पा­प­यो­रा­त्मा­भि­न्नत्वं भाति, तत­श्चा­त्मा­भि­न्न­त्व­कृतं पुण्यपापयोः प्रीणनं बलनं वा वाक्यार्थः स्यात् ; न च तत्सम्भवति, तयोः प्रीत्या­दि­म­त्त्वा­यो­गात् ; न चात्मनः पुण्य­प­पा­भि­न्न­त्व­बो­ध­न­द्वारा तत्कृतं प्रीण­ना­दि­क­मा­त्मनो भवतीति वाक्यार्थ इह विवक्षित इति वाच्यम् , आत्मनि ताप­क­क­र्मा­त्म­क­त्वस्य प्रीत्या­दि­हे­तु­त्वा­स­म्भ­वात् , तस्य प्रीति­ब­ल­न­हे­तु­त्वो­क्ता­वपि भय­नि­वृ­त्ति­हे­तु­त्वा­न­भि­धा­ना­च्चे­त्या­शङ्क्य विवक्षितं वाक्यार्थमाह –
परमात्मभावेनोभे पश्यतीत्यर्थ इति ।

'स य एवं विद्वानेते आत्मानं स्पृणुते’ इति वाक्योक्तं पुण्य­पा­प­यो­रा­त्म­मा­त्र­त्व­द­र्श­न­मु­त्त­र­वा­क्ये­ना­नूद्य तस्य विदुषि तापाभावहेतुत्वं प्रतिपाद्यते हि-शब्द­यु­क्त­त्वा­दु­त्त­र­वा­क्य­स्ये­त्या­श­ये­नाह –
उभे इत्यादिना ।

एवकारमात्मपदेन योजयति –
आत्म­स्व­रू­पे­णै­वेति ।
पश्यतीति शेषः ।

ननु ज्योति­ष्टो­म­क­ल­ञ्ज­भ­क्ष­णा­दि­ल­क्षणं कर्मास्ति प्रकाशत इत्य­नु­भ­वा­नु­रो­धा­त्पु­ण्य­पा­पयोः सर्वानुगतः सच्चिदंश इतरव्यावृत्तो जडांशश्चास्ति, तथा च चिज्ज­डो­भ­य­रू­प­यो­स्तयोः कथं चिदे­क­र­सा­त्म­भा­वेन दर्श­न­मि­त्या­श­ङ्क्याह –
स्वेनेति ।
स्वीयं यद्विशेषरूपं जडांशः तेन हीने कृत्वा अनु­स­न्धा­ये­त्यर्थः ।

आत्मानं स्पृणुत एवेति ।
पुण्यपापे चिदं­शा­भि­प्रा­ये­णा­त्म­रू­पे­णैव पश्यतीत्यर्थः ।

एष एते उभे आत्मानमेव स्पृणुत इत्युक्तम् , तत्र एतच्छब्दार्थं पृच्छति –
क इति ।

श्रुत्योत्तरमाह –
य इति ।

एवमित्यस्य व्याख्यानम् –
यथोक्तमिति ।
'सत्यं ज्ञानम् ‘ इत्या­दि­म­न्त्र­ब्रा­ह्म­ण­जा­तेन यथा­नि­रू­पि­त­मि­त्यर्थः ।

यथोक्तं स्वरूपमेव सङ्क्षिप्याह –
अद्वै­त­मा­न­न्द­मिति ।
यः सर्वा­त्म­क­मा­न­न्द­रूपं ब्रह्मात्मत्वेन वेद स पुण्यपापे अप्या­त्म­स्व­रू­पे­णैव पश्यतीत्यर्थः । तस्येत्यतः प्राक्तस्मादिति शेषः, हि यस्मा­दि­त्यु­प­क्र­मात् ।

ननु नास्तिकतमस्य मरणकाले संनिहितेऽपि नास्ति साध्वकरणादिकृतः सन्तापः, तावता पारलौकिकं भयं तस्य परिहृतं न भवति ; तथा सर्वा­त्मै­क­त्व­द­र्शिनः पुण्य­पा­प­यो­र­प्या­त्म­भावं पश्यतो मास्त्विदानीं भयम् , पारलौकिकं तु कर्मनिमित्तं भयं भवि­ष्य­ती­त्य­वि­ज्ञा­त­मेव ; नेत्याह –
निर्वीर्य इति ।
भर्जितबीजवदिति भावः ।

निर्वी­र्य­त्व­फ­ल­माह –
जन्मारम्भके न भवत इति ।
अतो न विदुषः पार­लौ­कि­क­भ­य­प्र­स­क्ति­रि­त्यर्थः ।

इत्यु­प­नि­ष­दि­त्य­स्या­र्थ­माह –
इतीत्यादिना ।
इति­श­ब्द­प­रा­मृष्टा यथोक्ता ब्रह्मविद्या उप­नि­ष­त्प­र­म­र­ह­स्यम् , तच्च परमरहस्यमस्यां वल्ल्यां दर्शि­त­मि­त्य­न्वयः ।

परमरहस्यत्वे हेतुः –
यस्मादेवं तस्मादिति ।
यस्माद्यथोक्ता विद्या एवं मुक्तिफला तस्मादित्यर्थः । इतरासां सर्वासां विद्यानां रहस्यभूतानामपि न मुक्तिफलकत्वम् , अतो न परमत्वमिति भावः ।

उप­नि­ष­त्प­द­स्या­र्था­न्त­रा­भि­प्रा­ये­णाह –
परं श्रेय इति ।
अस्यां विद्यायां सत्यामस्य विदुषः परं श्रेयो ब्रह्म­स्व­रू­प­भू­तम् उप सामीप्येन प्रत्यक्त्वेन निषण्णं नितरां स्थितं भवति यतः, अत इयं विद्या उपनिषदित्यर्थः । इति-शब्दो ब्रह्म­व­ल्ली­वि­व­र­ण­स­मा­प्त्यर्थः ॥