वनमालाव्याख्या
भृगुवल्ली: प्रथमोऽनुवाकः
वृत्तानुवादपूर्वकमुत्तरवल्लीमवतारयति –
सत्यं ज्ञानमित्यादिना ।
अनुप्रविष्टशब्देन विवक्षितमर्थमाह –
विशेषवदिवेति ।
सांसारिकधर्मजातं विशेषः ; तस्यावास्तवत्वज्ञापनार्थ इवकारः । तथा च श्रुतिः - ‘ध्यायतीव लेलायतीव’ इति ।
प्रवेशवाक्येन ब्रह्मणो जीवभावोक्तेस्तात्पर्यमाह –
यस्मादिति ।
यस्माद्ब्रह्मैव संसारित्वेनोपुलभ्यत इत्युक्तं तस्मादहं यथोक्तं ब्रह्मैवेति विजानीयादिति तात्पर्यतः प्रदर्शितं भवति । जीवभावेनानुप्रवेशकथनस्य अहं ब्रह्मेति ज्ञानैकप्रयोजनकत्वादित्यर्थः । न हि ब्रह्मैव संसारित्वं प्राप्तमिति ज्ञानात्किञ्चित्प्रयोजनं लभ्यते । प्रतीयमानसंसारित्वनिरसनपूर्वकमहं ब्रह्मेति ज्ञानविवक्षायां तु मुक्तिः प्रयोजनं लभ्यत इति जीवस्य ब्रह्मत्वज्ञान एव प्रवेशवाक्यस्य तात्पर्यम् । एतेनाभेदबोधकवाक्याभावादत्राहं ब्रह्मास्मीति ज्ञानमविवक्षितमिति शङ्कापि निरस्ता वेदितव्या, तात्पर्यतो गुहानिहितवाक्यस्य प्रवेशवाक्यस्य चाभेदज्ञानपरत्वात् ।
अभेदज्ञानफलमप्युक्तमनुवदति –
तस्यैवमिति ।
'इत्युपनिषत्’ इत्युपसंहारवाक्यार्थमप्यनुवदति –
परिसमाप्ता च ब्रह्मविद्येति ।
नन्वेवं वक्तव्यानवशेषणादुत्तरवल्ली व्यर्था ; नेत्याह –
अतः परमिति ।
विद्योक्त्यनन्तरमित्यर्थः । न च कोशपञ्चकविवेचनरूपस्य वक्ष्यमाणस्य तपसोऽपि प्रागभिहितत्वात्पुनस्तदुक्तिर्व्यर्थेति वाच्यम् , तस्यैव तपसो ब्रह्मलक्षणमुखेन कर्तव्यत्वरूपविशेषकथनपूर्वकम् उत्तरवल्ल्याः प्रपञ्चार्थत्वेन पौनरुक्त्याभावात् ।
इतश्च न पौनरुक्त्यमित्याशयेनाह –
अन्नादीति ।
ननु तर्हि तपआदिकमेव वक्तव्यं न त्वाख्यायिकापि ; तत्राह –
आख्यायिकेति ।
नन्वाख्यायिकया कथं स्तुतिलाभः ? तत्राह –
प्रियायेति ।
पिता प्रियाय पुत्राय प्रशस्तामेव विद्यामुपदिशेन्नान्यामिति रीत्या विद्यायाः प्रकर्षो लभ्यत इत्यर्थः । हे भगवन् ब्रह्माधीहि स्मर उपदिशेति यावदिति मन्त्रार्थः ।
अत्तारमिति ।
शरिरेऽन्नशब्दप्रयोगात्तदभ्यन्तरस्य प्राणस्यात्तृत्वमुपचारेणोक्तमिति मन्तव्यम् । यद्वा अन्नशब्देन विराडात्मकं शरीरं विवक्षितम् , तदभ्यन्तरः प्राणश्च सूत्रात्मरूपो हिरण्यगर्भो विवक्षित इति कृत्वा प्राणस्यात्तृत्वमुक्तमिति मन्तव्यम् ।
नन्वन्नप्राणयोरुक्तिः ‘अन्नं ब्रह्मेति व्यजानात्’ ‘प्राणो ब्रह्मेति व्यजानात्’ इति करिष्यमाणे विचार उपयुज्यते, रूपाद्युपलब्धिसाधनानां चक्षुरादीनामुक्तिः क्वोपयुज्यते ? तत्राह –
ब्रह्मोपलब्धौ द्वाराणीति ।
अत्र मनःशब्देन ‘मनो ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्यमाणमाधिदैविकं मनो गृह्यते । एतच्च ‘विज्ञानं ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्यमाणस्याधिदैविक विज्ञानस्याप्युपलक्षणम् । वागादीनां चक्षुरादीनां च यथायथं प्राणादिकोशेष्यवन्तर्भूतानां ब्रह्मोपलब्धिद्वारत्वं विवक्षितमिति न चक्षुरादिकथनवैयर्थ्यमिति भावः ।
उक्तानुवादपूर्वकम् ‘यतो वै’ इत्यादेस्तात्पर्यमाह –
उक्त्वा चेत्यादिना ।
निर्विशेषस्य ब्रह्मणो धर्मरूपं लक्षणं न सम्भवतीत्याक्षिपति –
किं तदिति ।
काल्पनिकं धर्मरूपं जगत्कारणत्वं तस्य लक्षणं विवक्षितम् अतो नासम्भव इति श्रुत्या परिहरति –
यत इति ।
प्रयन्तीत्यस्य विवरणमभिसंविशन्तीति ।
तत्राभीत्युपसर्गार्थमाभिमुख्यं विवृणोति –
तादात्म्यमेवेति ।
ब्रह्मणि लीयन्त इत्येव विवक्षितार्थः ।
अत्र ब्रह्मणो भूतलयाधारत्वश्रवणात्प्रकृतित्वरूपं कारणत्वं विवक्षितमित्याशयेनाह –
उत्पत्तीति ।
प्रकृतिरेव हि विकाराणामात्मा स्वरूपमिति स्थापितमारम्भणाधिकरणे, अतो यदात्मकतामित्युक्तम् । यद्यपि ब्रह्मादिस्तम्बपर्यन्तानां भूतानां स्वत उत्पत्त्यादयो न सन्ति, तथापि स्थूलसूक्ष्मोपाधिविशिष्टत्वाकारेण तेषामपि ते सन्तीति भावः । नन्वत्र महाभूतानामाकाशादीनां ग्रहणं कुतो न क्रियते प्राणिष्विवाकाशादिष्वपि भूतशब्दस्य प्रसिद्धत्वात् ? अत एव ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इत्यत्र भूतशब्देन महाभूतानां ग्रहणमाचार्यैरेव कृतम् , तथा जन्मादिसूत्रे द्विविधान्यपि भूतानि गृहीतानि ; तथा च कथमत्र प्राणिनामेव ग्रहणमिति चेत् , उच्यते - भूतशब्दस्योभयत्र रूढत्वेऽपि प्राणधारणकर्तृवाचिजीवन्तीत्युपपदानुसारेण प्राणिरूढेरेवोन्मेषो न महाभूतविषयरूढेरिति नात्राकाशादिग्रहणप्रसक्तिः ‘सर्वाणि ह वा इमानि भूतानि’ इत्यत्र च ‘अस्य लोकस्य का गतिः’ इति पृथिवीलोकादिकारणप्रश्नानुसारेण महाभूतरूढेरेवोन्मेषो न प्राणिरूढेः ; जन्मादिसूत्रे च जगत्कारणवाक्यानां सर्वेषामेवोदाहरणत्वाद्वाक्यान्तरानुसारेण द्विविधान्यपि भूतानि गृहीतानीति न किञ्चिदवद्यम् ।
अत्र विवक्षितं लक्षणमाह –
तदेतदिति ।
भूतकारणत्वमित्यर्थः । श्रुतौ तद्ब्रह्म तद्विजिज्ञासस्वेत्यर्थक्रमो बोध्यः ।
यद्वा, ननु ब्रह्म जिज्ञासवे कथं जगत्कारणं जिज्ञास्यत्वेनोपदिश्यते ? तत्राह श्रुतिः –
तद्ब्रह्मेति ।
अस्मिन्पक्षे यथाश्रुत एवार्थक्रमः ।
ननु विजिज्ञासस्वेति पित्रा न वक्तव्यम् , स्वरूपविशेषजिज्ञासायाः प्रागेव सिद्धत्वादित्याशङ्क्याह –
यदेवंलक्षणमिति ।
अन्नादेर्ब्रह्मोपलब्धिद्वारत्वमन्यत्रापि प्रसिद्धमित्याह –
श्रुत्यन्तरमिति ।
षष्ठ्यन्तप्राणादिशब्दोपात्तस्य कार्यकरणसङ्घातजातस्याधिष्ठानतया सत्तास्फूर्तिप्रदं द्वितीयान्तप्राणादिशब्दोपात्तं प्रत्यगात्मानं ये श्रुतिन्यायाभ्यां विदुः ते सृष्टेः पूर्वकालेऽपि स्थितं कूटस्थं ब्रह्म आत्मत्वेन निचिक्युर्जानीयुः नेतरे प्रत्यगात्मस्वरूपज्ञानरहिता इति श्रुत्यन्तरार्थः । योऽन्नादेरधिष्ठानतया सत्ताप्रकाशरूपः प्रत्यगात्मा स ब्रह्मैवेत्येवंप्रकारेण ब्रह्मोपलब्धिद्वारत्वं तत्रावगम्यत इति भावः । पितुरिति पञ्चमी । तस्माच्छ्रुत्वेति योजना ।
ननु पित्रा तपसा ब्रह्म विजिज्ञासस्वेत्यनुक्तत्वात्कथं तपसि ब्रह्मविज्ञानसाधनत्वं भृगुणा विनिश्चितम् ? न हि तन्निश्चयं विना तत्र प्रवृत्तिस्तस्य सम्भवतीति शङ्कते –
कुतः पुनरिति ।
परिहरति –
सावशेषोक्तेरिति ।
सावसेषोक्तेस्तपसि ब्रह्मविज्ञानसाधनत्वप्रतिपत्तिर्भृगोरभूदित्यर्थः ।
गुरूक्तार्थानुवादपूर्वुकं तदुक्तेः सावशेषत्वं साधयति –
अन्नादीत्यादिना ।
ब्रह्मणः प्रतिपत्तौ द्वारभूतमन्नादिकम् ‘अन्नं प्राणम्’ इत्यादिनोक्तवानित्यर्थः ।
सावशेषं हि तदिति ।
यद्भूतजन्मादिकारणं तद्ब्रह्म, तत्प्रतिपत्तौ चान्नादि द्वारमित्येतादृशमुपदेशनं सावशेषमिति ।
अत्र हि-शब्दोक्तं हेतुमाह –
साक्षादिति ।
त्वं ब्रह्मेत्यपरोक्षतया ब्रह्मणो निर्देशाभावादित्यर्थः ।
नन्वेतावता कथं गुरूक्तेः सावशेषत्वं सिध्यति ? तत्राह –
अन्यथा हीति ।
सावशेषत्वाभावे हीत्यर्थः ।
स्वरूपेणैवेति ।
प्रत्यक्त्वेनैवेत्यर्थः । वस्तुतः प्रत्यगात्मस्वरूपत्वाद्ब्रह्मण इति भावः ।
भृगोर्वास्तवस्वरूपज्ञाने ताटस्थ्यं वारयति –
जिज्ञासव इति ।
गुरोर्वास्तवस्वरूपबोधने उपेक्षां वारयति –
स्वपुत्रायेति ।
निर्देशस्वरूपमेव दर्शयति –
इदमित्थंरूपमिति ।
इदं त्वया पृष्टं ब्रह्म इत्थंरूपं तव देहे बुद्ध्यादिसाक्षितयोपलभ्यमानचैतन्यरूपमिति निर्देष्टव्यमिति योजना ।
ननु तथैव पित्रा निर्दिष्टं ब्रह्म ; नेत्याह –
न चैवमिति ।
अनुपलम्भादिति भावः ।
ननु तर्हि कीदृशं ब्रह्मोक्तवानिति पृच्छति –
किं तर्हीति ।
परोक्षतयैव ब्रह्मोक्तवानित्याह –
सावशेषमेवेति ।
इत्थं सावशेषोक्तेरिति हेतुं प्रसाध्य तेन तपसि ब्रह्मज्ञानसाधनत्वप्रतिपत्तिप्रकारमाह –
अत इति ।
सावशेषोक्तेरित्यर्थः ।
साधनान्तरमिति ।
स्वस्मिन्विधिवदुपसदनादिलक्षणं यत्साधनमस्ति तदपेक्षयान्यत्साधनमित्यर्थः । ननु परोक्षतया ब्रह्मोपदेशस्य वस्तुतः सावशेषत्वेऽपि तस्य तत्सावशेषत्वं शिष्येण कथं ज्ञातम् , प्रत्यगात्मैव ब्रह्मेति ज्ञानं विना तदुपदेशस्य सावशेषत्वज्ञानासम्भवादिति चेत् ; नैवम् , ब्रह्मवित्सभायां तदीयव्यवहारादिना सामान्यतो जीवो ब्रह्मेति ज्ञात्वा तदैक्यापरोक्ष्याय गुरूपसदनसम्भवेन परोक्षोपदेशस्य सावशेषत्वज्ञानसम्भवात् ।
ननु ब्रह्मात्मैक्यसाक्षात्कारं प्रति चित्तगतप्रतिबन्धनिवृत्तिद्वारा तत्सम्पादनसमर्थं साधनान्तरं ममापेक्षते पिता नूनं निश्चय इत्यनेन प्रकारेण स्वस्यानुष्ठेयं सामान्यतः साधनान्तरं निश्चितमित्यस्तु, तच्च साधनान्तरं तप एव पितुराशयस्थमिति कथं निश्चितमितयाशङ्क्य योग्यताविशेषादित्याह –
तपोविशेषेति ।
तपोरूपसाधनविशेषेत्यर्थः ।
सर्वेति ।
सर्वेषां ज्ञानसाधनानां मध्ये तपसो ज्ञानं प्रत्यतिशयितसाधनत्वेन ब्रह्मविद्व्यवहारे प्रसिद्धत्वादित्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
सर्वेषां हीति ।
साध्यपदं ज्ञानपरम् , तस्य नियतत्वमैकान्तिकफलत्वं ; तेन नियतसाध्येन सह साधनतया सम्बद्धानामित्यर्थः ।
तस्मादिति ।
सावशेषोक्त्यादिलिङ्गादित्यर्थः ।
तपसः स्वरूपं दर्शयति –
तच्चेति ।
समाधानमिति ।
उदाहरिष्यमाणस्मृतिगतस्यैकाग्र्यपदस्य व्याख्यानं समाधानमिति । तत्र बाह्यकरणानां समाधानं विषयेभ्यो व्यावृत्तत्वरूपं विवक्षितम् , अन्तःकरणस्य समाधानं तत्त्वे स्थापनमिति विभागः । स्मृतौ तपसः परमत्वविवरणमुत्तरार्धम् । तपः सर्वधर्माणां मध्ये वस्तुगत्या ज्यायो भवति ; स च तपोरूपो धर्मः पर इति विद्वद्भिरप्युच्यत इति तदर्थः । परमार्थतस्तु श्रुतौ स्मृतौ च तपःपदं भाष्यगतसमाधानपदं च तत्त्वचिन्तापरम् , न समाधिपरम् , ‘तप आलोचने’ इति स्मरणात् महावाक्यार्थज्ञानं प्रति त्वम्पदार्थशोधनरूपस्यालोचनस्यैव साधकतमत्वाच्च, अत्र गुरूपदिष्टस्य ब्रह्मलक्षणस्यापि क्रमेण कोशेभ्यः सकाशादात्मतत्त्वस्य विवेचन एवोपयोगाच्च ब्रह्म जिज्ञासोर्भृगोर्जिज्ञासिते ब्रह्मणि विचारं विना जिज्ञासानिवर्तकनिर्णयायोगाच्च । अत एव ‘तद्विजिज्ञासस्व’ इति श्रुतिमूलके जिज्ञासासूत्रे ब्रह्म जिज्ञासोर्विचार एव कर्तव्यत्वेनोपदिष्टः । अत एव चात्र भाष्यवार्तिके प्रथमं यथाश्रुतभाष्यादिकमनुरुध्य पश्चात्तपःशब्दो विचारपरत्वेनोपपत्तिपूर्वकं योजितः । तथा च वार्त्तिकम् - ‘अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत् । अहं ब्रह्मेति वाक्यार्थबोधायालमिदं यतः’ इति । सूतसंहितायां परमेश्वरेणाप्युक्तम् - ‘कोऽहं मुक्तिः कथं केन संसारं प्रतिपन्नवान् । इत्यालोचनमर्थज्ञास्तपः संशन्ति पण्डिताः’ इति ॥
तद्धीति ।
अन्नं हीत्यर्थः ।
अन्नाद्ध्येवेति ।
इदं वाक्यमानन्दवल्लीगतेन ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इति वाक्येन समानार्थमिति नास्य व्याख्याने व्याप्रियते ।
तस्मादिति ।
ब्रह्मलक्षणोपेतत्वादित्यर्थः ।
'तद्विज्ञाय’ इत्यस्यार्थमाह –
स एवमिति ।
उपपत्त्या चेति ।
अन्नशब्दितस्य विराजः श्रुतिषूपास्यत्वश्रवणादब्रह्मण उपास्यत्वायोगादित्याद्युपपत्त्या चेत्यर्थः । उपपत्त्या चान्नं ब्रह्मेति विज्ञायेति योजना ।
उत्पत्तिदर्शनादिति ।
ब्रह्मणस्तावदुत्पत्तिर्नास्ति तस्य नित्यत्वश्रवणात् अन्नस्य च हिरण्यगर्भादुत्पत्तेः श्रुतिषु दर्शनात्पृथिव्यादिस्थूलभूतात्मकस्यान्नस्य भूतकारणत्वस्यापि दर्शनाच्चेत्यादिकमालोचयतस्तस्यान्नं ब्रह्म न वेति संशय उत्पन्न इत्यर्थः ।
असकृत् ‘तपसा ब्रह्म विजिज्ञासस्व’ इत्युपदेशस्य तात्पर्यप्रदर्शनपूर्वकमर्थमाह –
तपस इत्यादिना ।
निरतिशयमिति ।
सम्पूर्णमित्यर्थः ।
तावत्तप एवेति ।
विचारं विना जिज्ञासानिवृत्त्ययोगादिति भावः । श्रुतौ ‘तपो ब्रह्म’ इति वाक्यं विधित्सितस्य तपसो ब्रह्मत्वेन स्तुत्यर्थमिति मन्तव्यम् ।
प्रथमपर्यायस्थम् ‘तद्विज्ञाय’ इत्यादिवाक्यव्याख्यानमन्यत्राप्यतिदिशति –
एवं सर्वर्त्रेति ।
'प्राणो ब्रह्मेति व्यजानात्’ इत्यादिवाक्यमभिप्रेत्याह –
ऋज्वन्यदिति ।
स एव ऋज्वर्थः प्रदर्श्यते, तथा हि - स तपः अतप्यत, अन्नस्य सूत्रात्मरूपप्राणपरतन्त्रस्य न ब्रह्मलक्षणं निरपेक्षं सम्भाव्यते प्राणस्य तु स्वातन्त्र्यादिसत्त्वात्तत्सम्भवतीत्यादि लक्षणं विचारं कृतवान् । एवं तपः कृत्वा प्राणो ब्रह्मेति निश्चितवान् , तन्निश्चयोपयोगित्वेन प्राणे ब्रह्मलक्षणं च योजितवानित्याशयेनाह श्रुतिः प्राणाद्ध्येवेत्यादिना । अन्नस्य प्राणाधीनत्वादन्नज्जायमानानि भूतानि प्राणादेव जायन्त इत्ययमर्थो युक्त एवेति द्योतनार्थो हि-शब्दः । तद्विज्ञाय लक्षणोपपत्तिभ्यां प्राणो ब्रह्मेति विज्ञाय पुरनरेव प्राणब्रह्मणि संशयमापन्नो वरुणं पितरमुपगतवान् । संशयकारणं तु प्राणस्यापि मनःपारतन्त्र्यं ज्ञानशक्तिराहित्यादिकमूहनीयम् । इत्थं प्राणब्रह्मणि संशयमापन्नो मुख्यं ब्रह्मान्यदन्वेषमाणो भृगुः पुनर्विचारं कृतवान् - प्राणस्य मनसा निरोधदर्शनेन प्राणापेक्षया मनसः स्वातन्त्र्याज्ज्ञानशक्तिमत्त्वात् , अत एव मनसि ब्रह्मलक्षणसम्भवाच्च आधिदैविकं समष्ट्यन्तःकरणमेव ब्रह्मेति निश्चितवान् । एवं मनो ब्रह्मेति विज्ञाय पुनस्तत्रापि संशयमापन्नो वरुणमुपगतवानित्यादि समानम् । संशयकारणं त्वस्मदादिमनोवदाधिदैविकमनोऽपि करणकोटिप्रविष्टत्वाद्विज्ञानशब्दितकर्तृपरतन्त्रं भवति । न हि परतन्त्रस्य ब्रह्मलक्षणं मुख्यं सम्भवतीत्यादिदोषदर्शनमिति बोध्यम् । एवं मनसि ब्रह्मलक्षणायोगात्कर्तरि च स्वातन्त्र्येण तद्योगादित्यादिविचारं कृत्वा विज्ञानमाधिदैविकं महत्तत्त्वं ब्रह्मेति निश्चितवानित्यादि समानम् । पुनश्च विज्ञानब्रह्मण्यपि तस्य जन्मनाशादिश्रवणलिङ्गेन संशयमापन्नो वरुणमुपगतवानित्याद्यूहनीयम् ॥
'आनन्दो ब्रह्मेति व्यजानात्’ इत्यादि व्याख्यातुमुपक्रमते –
एवं तपसेत्यादिना ।
विशुद्धात्मेति ।
विशुद्धान्तःकरण इत्यर्थः । अत्र विशुद्धिरन्नप्राणादिषु ब्रह्मलक्षणस्य साकल्येन दर्शनविरोधिदोषदर्शनरूपा विवक्षिता प्रकृतत्वादिति बोध्यम् । शनैः शनैरन्तरनुप्रविश्येति । आध्यात्मिककोशानामिवाधिदैविकानामन्नप्राणादिकोशानामप्युत्तरोत्तरस्य पूर्वपूर्वापेक्षया क्रमेणान्तरत्वं निश्चित्येत्यर्थः ।
आन्तरतममिति ।
सर्वान्तरतममित्यर्थः । स्थूलसूक्ष्मकारणात्मकस्य सर्वस्य दृश्यजातस्य विचारेणैव मिथ्यात्वं तदधिष्ठानभूतस्य प्रत्यगानन्दस्य सर्वान्तरत्वं सर्वकारणत्वं च निश्चित्य तदेवानन्दरूपं ब्रह्माहमिति साक्षात्कृतवानित्यर्थः ।
भृगोस्तपसैव ज्ञानमुत्पन्नमिति वदन्त्याः श्रुतेस्तात्पर्यमाह –
तस्मादिति ।
तपसैव ज्ञानोदयदर्शनादित्यर्थः । समाधानपदं विचारपरमिति प्रागुक्तमत्राप्यनुसन्धेयम् ।
प्रकरणार्थ इति ।
तपसा भृगोर्ज्ञानमुत्पन्नमिति यथाश्रुतार्थे प्रयोजनाभावेन प्रकरणस्य तत्र तात्पर्यायोगादिति भावः । श्रुतौ आनन्दं प्रयन्त्यभिसंविशन्तीति, तस्माद्युक्तमानन्दस्येदं लक्षणमित्याभिप्रायः ।
'सैषा भार्गवी’ इत्यादिवचनं न पितुर्न वा पुत्रस्येत्यसङ्गतिमाशङ्क्याह –
अधुनेति ।
आख्यायिकातोऽपसृत्येति ।
कथारूपत्वं परित्यज्येत्यर्थः । सा पूर्ववल्ल्यां प्रकृता । एषा अस्यां वल्ल्यां संनिहिता । विदिता प्राप्ता ।
व्योमस्वरूपमाह –
हृदयाकाश इति ।
हृदयाकाशाख्ये परमे व्योम्नि या गुहा बुद्धिः तस्यां य आनन्दः तस्य कारणत्वादद्वैतत्वम् ; तस्मिन्प्रतिष्ठितेत्यर्थः ।
ननु कस्मादारभ्य प्रवृत्ताया विद्यायाः प्रत्यगानन्दे परिसमाप्तिरुच्यते ? तत्राह –
अन्नमयादिति ।
'अन्नं ब्रह्म’ इत्यारभ्य पूर्वपूर्वप्रहाणेनोपरि प्रवृत्तेत्यर्थः । तथा चान्नमयादिकोशजातादान्तरतममानन्दरूपमद्वितीयं वस्तु ब्रह्मेत्ययमर्थ आख्यायिकायां निष्पन्न इत्यनया श्रुत्या दर्शितं भवतीति भावः ।
'य एवं वेद’ इत्यादेरर्थमाह –
य एवमन्योऽपीत्यादिना ।
अनेनैव क्रमेणेति ।
अन्नादिषु ब्रह्मलक्षणयोजनारूपेणैव प्रकारेणेत्यर्थः ।
अनुप्रविश्येति ।
अन्नादिषु ब्रह्मत्वबुद्धिपरित्यागपूर्वकं सर्वान्तरमानन्दं कारणत्वेन सम्भाव्य तमानन्दं ब्रह्मभूतमात्मत्वेन यो वेदेत्यर्थः ।
विदुषो ब्रह्मानन्दे प्रतिष्ठारूपफलकीर्तने तत्क्रतुन्यायं सूचयति –
विद्याप्रतिष्ठानादिति ।
विद्याया ब्रह्मानन्दे प्रतिष्ठितत्वात्तादृशमानन्दं विद्वानपि तत्र प्रतितिष्ठतीति युक्तमित्यर्थः विवक्षितमर्थं दर्शयति –
ब्रह्मैवेति ।
नन्वश्रुतं प्रभूतत्वविशेषणं कथं निक्षिप्यते ? तत्राह –
अन्यथेति ।
प्रभूतत्वविशेषणं विना अन्नसामान्यमात्रेणैवान्नवत्त्वे विवक्षिते सति सर्वोऽपि जन्तुः शरीरस्थित्याक्षिप्तेनान्नेनान्नवानेवेति कृत्वा विद्याबलाद्विदुषोऽन्ने विशेषो न स्यात् , अतः प्रभूतत्वविशेषणमावश्यकमित्यर्थः ।
ननु सर्वोऽपि जन्तुरन्नमत्त्येव ; तत्राह –
दीप्ताग्निरिति ।
अन्नवत्त्वं दीप्ताग्नित्वं विना व्यर्थमिति भावः । ननु कृतकृत्यस्य ब्रह्मविदो नेदं फलं भवितुमर्हति, न वा ब्रह्मविद इदं फलं नियमेन दृश्यते, न वा चित्रायागफलन्यायेनास्मिञ्जन्मन्यनुपलभ्यमानस्यामुष्मिकत्वं कल्पयितुं शक्यते तस्य पुनर्जन्माभावात् , तस्मादसङ्गतमिदं फलवचनमिति चेत् ; उच्यते - यथा भूमविद्यायाम् ‘स एकधा भवति’ इत्यादिना सगुणविद्याफलं भूमविद्याफलत्वेन सङ्कीर्त्यते भूमविद्यास्तुत्यर्थम् , तथा वक्ष्यमाणान्नान्नादत्वोपासनफलं प्रकृतब्रह्मविद्याफलत्वेन सङ्कीर्त्यते तत्स्तुत्यर्थमित्यदोषः । एतच्च व्रतोपदेशस्यान्नस्तुत्यर्थत्ववर्णनेन भाष्ये वर्णितप्रायमेवेति मन्तव्यम् ॥
न निन्द्यादिति ।
अपकृष्टमन्नं प्राप्तं न निन्द्यादित्यर्थः, ‘यदृच्छया चोपपन्नमद्याच्छ्रेष्ठमुतावरम्’ इति स्मृतिदर्शनात् ।
ननु ब्रह्मविदः कर्तव्याभावात्कथं तस्यानुष्ठेयतया व्रतमुपदिश्यते ? तत्राह –
व्रतोपदेश इति ।
ननु विदुषा निरसनीयस्यान्नस्य कथं स्तुत्यर्थत्वम् ? तत्राह –
स्तुतिभाक्त्वं चेति ।
शरीरमनआदिरूपेण परिणतिद्वारा अन्नस्य विद्यासाधनत्वादित्यर्थः ।
प्रसङ्गात्काम्यान्युपासनान्याह –
प्राणो वा इत्यादिना ।
तेषां सकामानां प्रजादिफलसम्पादकत्वेऽपि निष्कामनयानुष्ठितानां चित्तैकाग्र्यद्वारा विद्यासाधनत्वाद्विद्याप्रकरणे सङ्गतिरिति वा मन्तव्यम् ।
ननु प्राणस्य कथमन्नत्वमित्याशङ्क्य प्रसिद्धान्नसादृश्यादित्याशयेनाह –
शरीरेऽन्तर्भावादिति ।
एतदेवविवृणोति –
यद्यस्येति ।
तत्तस्यान्नमितीह विवक्षितमित्यर्थः ।
‘प्राणो वा अन्नम्’ इत्यत्र हेतुप्रतिपादकत्वेन ‘शरीरे प्राणः प्रतिष्ठितः’ इति वाक्यमाकृष्य योजयति -
शरीरे चेति ।
तस्मादिति ।
प्राणस्य शरीरे प्रतिष्ठितत्वादित्यर्थः ।
'प्राणे शरीरं प्रतिष्ठितम्’ इति वाक्यसङ्गत्यर्थं श्रुतावपेक्षितं पूरयति –
तथेति ।
प्राणे शरीरस्यान्तर्भावाभावेऽपि प्राणाधीनास्थितिकत्वमात्रेणान्नत्वविवक्षेति भावः ।
'प्राणो वा अन्नम्’ इत्यादेः फलितार्थकथनपरम् ‘तदेतदन्नम्’ इति वाक्यं व्याचष्टे –
तत्तस्मादिति ।
उभयमिति ।
प्रकृतत्वाविशेषादिति भावः ।
श्रुतावपेक्षितं पूरयति –
अन्नादं चेति ।
यत उभयमप्यन्नमन्नादं च तस्मादन्नमन्ने प्रतिष्ठितम् अन्नादश्चान्नादे प्रतिष्ठित इति पर्यवसितार्थ इति भावः ।
उभयोरप्यन्नत्वे अन्नादत्वे च श्रुत्युक्तं नियामकं विशदयति –
येनेति ।
फलितं स्वयमुपसंहरति –
तस्मादिति ।
उभयोरन्नान्नादत्वगोचरमुपासनं विधत्ते –
स य इति ।
अन्नान्नादात्मनैवेति ।
शरीरप्राणात्मनैवेत्यर्थः । प्रतितिष्ठति, चिरं जीवतीति यावत् ॥
शरीरप्राणोभयमन्नान्नादत्वगुणकमुपासीनस्यान्नापरिहाराख्ये व्रते विवक्षिते सत्यर्थादन्नस्तुतिरपि पूर्ववल्लभ्यत इत्याशयेनाह –
पूर्ववत्स्तुत्यर्थमिति ।
आर्थिकस्तुतिलाभप्रकारमेव दर्शयति –
तदेवेति ।
तदेवान्नमपरिह्रियमाणं सत्स्तुतं स्यादिति सम्बन्धः ।
स्तुतमित्यस्य विवरणम् –
महीकृतमिति ।
लोको ह्यन्ने शुभाशुभशब्दितौ गुणदोषौ कल्पयित्वा गुणवदन्नमुपादत्ते दोषवदन्नं परिहरति, तथा न परिहरेदिति व्रतोपदेशः । अत्राशुभपदमन्नगतावरत्वरूपदोषपरं न शास्त्रीयदोषपरम् , तस्मिन्सति पीरिहारावश्यम्भावादिति मन्तव्यम् ।
'प्राणो वा अन्नम्’ इत्यादिवाक्यव्याख्यानप्रकारमन्यत्रातिदिशति –
एवं यथोक्तमिति ।
'आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र शरीरादिसङ्घातान्तःप्रविष्टमेव जलं तेजश्च गृह्यते प्राणशरीरसमभिव्याहारात् । एवम् ‘पृथिवी वा अन्नम् , आकाशोऽन्नादः’ इत्यत्रापि पृथिव्याकाशयोः शरीरादिसङ्घातान्तःप्रविष्टयोरेव ग्रहणं विवक्षितमिति मन्तव्यम् ॥
तथेति ।
अन्नान्नादत्वगुणकत्वेन पृथिव्याकाशद्वयोपासकस्य स्वगृहे वासार्थमागतं न निवारयेदित्येतद्व्रतमित्यर्थः ।
बह्वन्नसङ्ग्रहे वसत्यर्थमागतानामप्रत्याख्यानरूपं व्रतमेको हेतुरुक्तः ; तत्रैव विद्वदाचाररूपं हेत्वन्तरमाह –
यस्मादिति ।
एवं सङ्गृहीतमन्नं सर्वदा पूजापुरःसरमेवार्थिभ्यो देयं नान्यथा ‘श्रद्धया देयम्’ इत्यादिदर्शनादित्याशयेनाह –
अपि चान्नदानस्येति ।
तत्र मानं पृच्छति –
कथमितीति ।
श्रुत्योत्तरमाह –
तदेतदाहेति ।
मुख्यामेव वृत्तिं विवृणोति –
पूजेति ॥
यथोक्तमिति ।
कार्यकरणसङ्घातोपचयादिद्वारा ब्रह्मविद्यासाधनत्वरूपमित्यर्थः । फलं च वेदेति सम्बन्धः ।
श्रुतौ ‘य एवं वेद’ इत्यस्यापेक्षितं पूरयति –
तस्येति ।
यथोक्तम् अन्नदानादिफलमित्यर्थः ।
'प्राणो वा अन्नम्’ इत्यारभ्याब्रह्मोपासनान्युक्तानीति सूचयति –
इदानीमिति ।
उपात्तपरिरक्षणमिति ।
स्थितपरिपालनमित्यर्थः ।
योगक्षेम इतीति ।
प्राणे योगरूपेण अपाने क्षेमरूपेण च ब्रह्म प्रतिष्ठितमित्युपास्यमिति विभागः ।
प्राणापानयोर्योगक्षमरूपेण ब्रह्मदृष्ट्यालम्बनत्वे हेतुमाह –
तौ हीति ।
ननु यदि प्राणापानाधीनौ योगक्षेमौ तर्हि तावेव प्राणापानयोर्द्रष्टव्यौ न तु ब्रह्मेत्याशङ्क्याह –
तथापीति ।
प्राणापाननिमित्तकत्वेऽपीत्यर्थः ।
ब्रह्मनिमित्ताविति ।
ब्रह्मनिमित्तावपीत्यर्थः । ब्रह्मणः सर्वफलदातृत्वस्य शास्त्रसिद्धत्वादिति भावः ।
ब्रह्मनिर्वर्त्यत्वादिति ।
ब्रह्मणः कारयितृत्वादिति भावः । विमुक्तिर्विसर्गः ।
मानुष्य इत्यस्य पर्यवसानमाह –
आध्यात्मिक्य इति ॥
पुत्रेणेति ।
पुत्रजन्मना पितृऋणमोक्षद्वारेण या पितुरमृतत्वप्राप्तिः सा अत्रामृतपदेन विवक्षितेत्यर्थः ।
उपस्थनिमित्तमिति ।
यस्मादेतत्सर्वमुपस्थहेतुकं तस्मादनेनैव रूपेण ब्रह्म तत्र स्थितमित्युपास्यमित्यर्थः । इदमुपासनम् ‘विमुक्तिरिति पायौ’ इत्यत्रैव द्रष्टव्यम् । आध्यात्मिकत्वात् ।
सर्वं हीति ।
हि यस्मात्सर्वमाकाशे प्रतिष्ठितं तस्माद्यत्सर्वमाकाशे वर्तते तत्सर्वरूपेणाकाशे ब्रह्मैव प्रतिष्ठितमित्युपास्यमित्यर्थः ।
'तत्प्रतिष्ठा...’ इत्यत्र ब्रह्माभिन्नमाकाशमुपास्यं केवलस्याकाशस्योपास्यत्वायोगादित्याशयेन तस्य ब्रह्माभिन्नत्वमाह –
तच्चेति ।
सर्वाश्रयत्वेन प्रकृतमित्यर्थः ।
तस्मात्तदिति ।
व्यापकत्वनिर्लेपत्वनिरवयवत्वसूक्ष्मत्वसर्वाश्रयत्वादिरूपलक्षणसाम्येनाकाशस्य ब्रह्माभिन्नत्वसम्भवात्तद्ब्रह्मभूतमाकाशमित्यर्थः ।
प्रतिष्ठावानिति ।
अन्नपानादिभिः स्थितिमानित्यर्थः ।
ननु ‘क्षेम इति वाचि’ इत्यादौ फलाश्रवणात्कथं तदुपासनेषु प्रवृत्तिरित्याशङ्क्याह –
यद्यत्रेति ।
यत्र वागादौ यत्फलं कार्यं क्षेमादिकं श्रुतं तद्रूपेण ब्रह्मैवोपास्यमित्युक्तमित्यर्थः ।
ततः किम् ? अत आह –
तदुपासनादिति ।
क्षेमादिगुणेन ब्रह्मोपासनात्क्षेमादिमानेव भवत्यौचित्यादिति द्रष्टव्यमित्यर्थः ।
अत्रार्थे श्रुतिमप्याह –
श्रुत्यन्तराच्चेति ।
तदेवेति ।
तदनुरूपमेव फलं भवतीत्यर्थः । ‘तन्महः’ इत्यादौ तत्पदं ब्रह्मपरम् ; तथा च वार्त्तिकम् - ‘तद्ब्रह्म मह इत्येवमुपासीत ततः फलम्’ इत्यादि ॥
परिबृढतममिति ।
विराडात्मकमित्यर्थः ।
ब्रह्मवानिति ।
ब्रह्मणो विराजो यो गुणो भोगः तद्वान्भवतीत्यर्थः ।
परस्येति ।
परस्य मायोपाधिकस्य ब्रह्मणः स्वरूपतयोक्तं यदाकाशं तदाकाशं परिमरत्वगुणकमुपासीतेत्यर्थः ।
आकशस्य परिमरत्वगुणोपपादनाय प्रथमं वायोः परिमरत्वमाह –
परिमर इत्यादिना ।
श्रुत्यन्तरेति ।
वायुं प्रकृत्य ‘तमेताः पञ्च देवता अपियन्ति’ इत्यादिश्रुत्यन्तरप्रसिद्धेरित्यर्थः ।
इदानीमाकाशस्य परिमरत्वं साधयति –
स एवायमिति ।
वायुं प्रत्याकाशस्य कारणत्वाद्वाय्वनन्यत्वमित्यर्थः । तं वाय्वात्मानमाकाशं ब्रह्मणः स्वरूपभूतं परिमरत्वगुणकमुपासीतेत्यर्थः ।
सपत्ना द्विविधाः - द्विषन्तोऽद्विषन्तश्च ; ततः सपत्नानां द्विषन्त इति विशेषणमित्याह –
द्विषन्त इत्यादिना ।
अद्विषन्तोऽपि चेति ।
एनमद्विषन्तोऽपीत्यर्थः ॥
प्राणशरीरादेरन्नान्नादत्वनिरूपणस्य विवक्षितं तात्पर्यं कथयितुं व्यवहितं तदनुवदति –
प्राणो वा अन्नमित्यादिना ।
‘आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र आपः शरीरारम्भिका विवक्षिताः, ज्योतिश्च जाठरं शरीरारम्भकं वा विवक्षितम् । एवं पृथिव्याकाशावपि शरीरारम्भकावेव विवक्षितौ, प्राणरीरसमभिव्याहारेणाबादीनामाध्यात्मिकत्वावगमात् ; ततश्च शरीरप्राणादीनां प्रत्यगात्मोपाधिभूतानामेव ‘प्राणो वा अन्नम्’ इत्यादिना भोगसाधनत्वरूपमन्नत्वं भोक्तृत्वरूपमन्नादत्वं चोक्तमित्यर्थः ।
उक्तं नाम, किं तेनेति ।
उक्तमस्तु नाम, तेनोक्तेन किं तव प्रयोजनं सिध्यति यदर्थं तदिहानूदितमित्यर्थः ।
तदुक्तिसिद्धं प्रयोजनं कथयति –
तेनैतदिति ।
भोक्तृभोग्यभावादिरूपः सर्वोऽपि संसारः कार्यात्मकोपाधिधर्म एव नात्मधर्म इत्यात्मनो नित्यमुक्तत्वं सिध्यतीत्यर्थः ।
ननु यदि संसारस्य कार्यनिष्ठत्वं श्रुत्यभिमतं तदा जीवात्मापि शरीरप्राणादिवत्कार्यविशेष एवेति तस्य स्वाभाविकः संसारो न भ्रान्तिसिद्ध इति शङ्कते –
नन्वात्मापीति ।
आत्मा कार्यं विभक्तत्वादाकाशादिवदित्यर्थः ।
आगमबाधितमनुमानमित्याशयेन निराकरोति –
नेति ।
असंसारिणः परस्यैव जीवरूपेण प्रवेशश्रवणात्परजीवयोरेकत्वमवगम्यते, ततो नात्मनः कार्यत्वमित्यर्थः ।
सङ्ग्रहं विवृणोति –
तत्सृष्ट्वेत्यादिना ।
न केवलमसंसारिणो जीवरूपेण प्रवेशश्रवणाल्लिङ्गात्परेतरात्मनोरेकत्वनिश्चयः, किं तु क्त्वाश्रुतिबलादपीत्याह –
सृष्ट्वेति ।
स्रष्टा तावत्परमात्मेति निर्विवादम् ; प्रविष्टस्य च ‘पश्यञ्शृण्वन्मन्वानः’ इत्यादौ संसारित्वश्रवणात्प्रवेशे जीवः कर्ता सिद्धः ; तथा च क्त्वाश्रुत्या तयोरेकत्वं निश्चीयते, इतरथा कर्त्रैक्याभावेन क्त्वाश्रुतिविरोधप्रसङ्गादित्यर्थः ।
यदुक्तमसंसारिण एव प्रवेशश्रवणात्परेतरात्मनोरेकत्वमिति, तत्र शङ्कते –
प्रविष्टस्येति ।
प्रविष्टस्य बुद्ध्यादिकार्येषूपादानतया सृष्टिसमय एव सिद्धस्य परस्य जीवरूपभावान्तरात्मना परिणतिरेव प्रवेशो विवक्षितः, अतो न प्रवेशलिङ्गात्तयोरेकत्वसिद्धिरित्यर्थः ।
अस्य चोद्यस्य प्रागेव निरासपूर्वकं प्रवेशपदस्यार्थान्तरपरत्वेन व्याख्यातत्वान्नैवमिति परिहरति –
न, प्रवेशस्येति ।
ननु जीवरूपेण परिणामं विनैव परस्य बुद्धिसम्बन्धात्संसारित्वेन भानमेव प्रवेशपदार्थ इति पूर्वव्याख्यानमयुक्तमिति शङ्कते –
अनेनेति ।
धर्मान्तरेणेति ।
जीवरूपविकारान्तरात्मनैव प्रवेशो न त्वविकृतस्यैव परस्य, अन्यथा जीवेनेति विशेषणवैयर्थ्यापत्तेरित्यर्थः ।
यदि जीवेनेति विशेषणबलाज्जीवस्य ब्रह्मविकारत्वं तत्राभिप्रेतं स्यात्तदा वाक्यशेषविरोधः प्रसज्येतेति दूषयति –
न, तत्त्वमसीतीति ।
जीवस्याकाशादिवद्विकारत्वे तस्य ब्रह्मैक्योपदेशविरोध इत्यर्थः ।
अभेदोपदेशस्यान्यथासिद्धिमाशङ्कते –
भावान्तरेति ।
जीवलक्षणं भावान्तरं विकारान्तरमापन्नस्यैव सतः परस्य संसारित्वप्राप्तौ तदपोहार्था जीवपरयोरभेदध्यानलक्षणा सम्पत् ‘तत्त्वमसि’ इत्युपदिश्यते, न पुनर्जीवस्य ब्रह्मविकारत्वविरुद्धम् ऐक्यमुपदिश्यते, अतो न वाक्यशेषविरोध इत्यर्थः ।
'तत्त्वमसि’ इति वाक्यस्य सम्पदुपासनापरत्वे मानाभावाज्जीवस्य विकारत्वे नाशापत्त्या ‘न जीवो म्रियते’ इति वाक्यशेषविरोधाद्वास्तवस्य संसारस्य सम्पदापोहासम्भवाच्च ‘तत्त्वमसि’ इत्यैक्योपदेश एव ‘सोऽयं देवदत्तः’ इतिवदिति परिहरति –
न, तत्सत्यमिति ।
ननु जीवस्य ब्रह्मत्वं संसारित्वानुभवविरुद्धम् , अतो जीवस्य विकारत्वाभावेऽपि ब्रह्मभिन्नत्वात्सम्पत्परमेव ‘तत्त्वमसि’ इति वाक्यमित्याशयेन शङ्कते –
दृष्टमिति ।
आत्मनः संसारोपलब्धृत्वान्न संसारधर्मकत्वमुपलभ्यमानस्य नीलपीतादेरुपलब्धृधर्मत्वादर्शनादित्यर्थः ।
संसारस्य रूपादिवैलक्षण्यं शङ्कते –
संसारधर्मेति ।
'अहं सुखदुःखादिमान्’ इति संसारस्यात्मधर्मत्वमनुभूयते ; स चानुभवो बाधकाभावात्प्रमैव ; ‘गौरोऽहम्’ ‘नीलोऽहम्’ इत्याद्यनुभवस्तु जीवस्य देहव्यतिरिक्तत्वसाधकश्रुतियुक्तिबाधितः ; अतो न रूपादितुल्यत्वं संसारस्येत्यर्थः ।
आत्मनि संसारस्याप्यसङ्गत्वादिश्रुतिबाधितत्वस्य समानत्वान्नात्मनः संसारित्वं परमार्थम् , अतो नाभेदश्रुत्यनुपपत्तिरित्याशयेन परिहरति –
नेति ।
किं चात्मधर्मत्वेनाभिमतस्य सुखदुःखादेरात्मना सहाभेदो भेदो वा ? आद्ये न संसारस्यात्मधर्मतयोपलभ्यमानता सिध्यतीत्याह –
धर्माणामिति ।
अव्यतिरेकादिति ।
अव्यतिरेकाभ्युपगमादित्यर्थः । अभेदपक्षे धर्माणामुपलब्धिकर्तृकोटिप्रविष्टत्वादुपलब्धिकर्मत्वानुपपत्तिरित्यर्थः । भेदपक्षे न संसारस्यात्मधर्मत्वं सिध्यति । तयोः सम्बन्धानिरुपणात् समवायस्य सूत्रकारेणैव निरस्तत्वादित्यन्यत्र विस्तरः ।
अभेदे कर्तृकर्मभावानुपपत्तिरित्यत्र दृष्टान्तमाह –
उष्णेति ।
'तत्त्वमसि’ इत्यभेदोपदेशस्यात्मनि संसारित्वग्राहकप्रत्यक्षविरोधं परिहृत्य तत्र तद्ग्राहकानुमानविरोधमाशङ्क्य परिहरति –
त्रासादिदर्शनादित्यादिना ।
त्रासादेस्तदनुमेयदुःखादेश्च दृश्यत्वेन वस्तुतो द्रष्टृधर्मत्वासम्भवस्य प्रागेवोक्तत्वादित्याशयेनाह –
न, त्रासादेरिति ।
'तत्त्वमसि’ इत्यभेदोपदेशस्य शास्त्रान्तरविरोधमाशङ्क्य निराकरोति –
कापिलेत्यादिना ।
कापिलादिशास्त्रे हि प्रतिशरीरं वस्तुत आत्मभेदः, तेषां च परमार्थ एव ब्रह्मभेदः, संसारित्वं च तेषां वास्तवमित्यादिप्रक्रिया दृश्यते ; ततो निष्प्रपञ्चब्रह्मात्मैक्यं प्रतिपादयत आगमस्य तर्कशास्त्रविरोधादप्रामाण्यं स्यादिति शङ्कार्थः ।
कापिलादितर्कशास्त्राणां मूलप्रमाणशून्यत्वस्य तर्कपादे प्रतिष्ठापितत्वात्पौरुषेयाणां तेषां वेदवत्स्वतःप्रमाण्यायोगाच्चेत्याशयेनाह –
मूलाभाव इति ।
श्रुतिविरोधे स्मृत्यप्रामाण्यस्य पूर्वतन्त्रे व्यवस्थापितत्वाच्च न तद्विरोधाच्छ्रुत्यप्रामाण्यप्रसङ्ग इत्याशयेनाह –
वेदविरोधे चेति ।
भ्रान्तत्वमप्रामाण्यम् ।
उपपादितमर्थमुपसंहरति –
श्रुत्युपपत्तिभ्यां चेति ।
एवमविकृतस्यैव ब्रह्मणो जीवभावेन प्रवेशादिश्रुत्या दृश्यत्वाद्युपपत्त्या च निश्चितमसंसारित्वमात्मन इत्यर्थः ।
एकत्वाच्चेति ।
आत्मनः परेणैकत्वाच्चासंसारित्वं परस्यासंसारित्वादित्यर्थः ।
एकत्वे मानं पृच्छति –
कथमिति ।
उत्तरश्रुतिरेव मानमित्याशयेनाह –
उच्यत इति ॥
उपसङ्क्रम्येति ।
विद्यया कोशेष्वात्मत्वभ्रममपोह्येति यावत् ।
उपसङ्क्रम्येत्यस्य व्यवहितेन सम्बन्धमाह –
एतत्सामेति ।
'इमाँल्लोकान्’ इत्यादेः सङ्गतिकथनाय व्यवहितमनुवदति –
सत्यमित्यादिना ।
'सत्यं ज्ञानम् - - ‘ इति मन्त्रस्य पूर्वार्धार्थो विस्तरेण व्याख्यात इत्यर्थः ।
'स य एवं वित्’ इत्यादिना विदुषो वागाद्यगोचरब्रह्मानन्दप्राप्तेरुक्तत्वादर्थाद्ब्रह्मवल्ल्यामपि सर्वात्मकब्रह्मभावापत्तिप्रयुक्ता सर्वकामाप्तिः सङ्ग्रहेणोक्तैवेति मत्वाह –
विस्तरेणेति ।
इत्थं वृत्तमनूद्याकाङ्क्षापूर्वकम् ‘इमाँल्लोकान्’ इत्यादिकमवतारयति –
के त इत्यादिना ।
तत्र कामानां स्वरूपे आकाङ्क्षां दर्शयति –
के त इति ।
कामानां कारणे तां दर्शयति –
किंविषया इति ।
साहित्ये कामानामशने च तां दर्शयति –
कथं वेति ।
इत्याकाङ्क्षायां सत्यामेतद्विद्याफलं विस्तरेण वक्तव्यमित्याशयेनोत्तरं वाक्यजातं पठ्यत इत्यर्थः ।
एवमुत्तरग्रन्थस्य व्यवहितया आनन्दवल्ल्या सङ्गतिमुक्त्वा अव्यवहितभृगुवल्ल्यापि सङ्गतिं वक्तुम् ‘भृगुर्वै वारुणिः’ इत्यादौ वृत्तं कीर्तयति –
तत्रेत्यादिना ।
अन्नान्नादत्वेनेति ।
अन्नान्नादभावेनोपासने उपयोगश्चोक्त इत्यर्थः ।
'क्षेम इति वाचि’ इत्यादावुक्तमनुवदति –
ब्रह्मविषयेति ।
तेषूपासनेषु विवक्षितान्फलविशेषानपि कामशब्देनानुवदति –
ये चेति ।
प्रतिनियता इति ।
तत्तदुपासनभेदेन व्यवस्थिता इत्यर्थः ।
तेषां मुक्तिवैलक्षण्यं सूचयति –
अनेकेति ।
नानाविधोपायसाध्या इत्यर्थः ।
अत एव तेषामविद्याकालिकत्वमाह –
आकाशादीति ।
आकाशादयो ये अविद्यायाः कर्यभेदास्तद्विषयास्तत्साध्या एव ते अविद्यावस्थायां दर्शिताः, न तु विद्यावस्थायाम् , विद्यावस्थायां त्वत्रापि वल्ल्याम् ‘स एकः, स य एवंवित् ‘ इत्यादौ पूर्वोक्तमेव ‘सोऽश्नुते सर्वान्कामान्सह’ इति फलं तात्पर्यतो दर्शितमिति भावः ।
इत्थमस्यामपि वल्ल्यां वृत्तानुवादेन फलवचनानुवृत्तिं सूचयित्वा तत्रानुपपत्तिमुद्भावयति –
एकत्वे पुनरिति ।
स्वस्य ब्रह्मणा एकत्वे साक्षात्कृते सति कामयितव्यस्याकाशादिभेदजातस्य तत्साध्यकामजातस्य च सर्वस्यात्मव्यतिरेकेणाभावात्पूर्वावस्थायामिव पुनः कामान्प्रति कामित्वानुपपत्तेरित्यर्थः ।
एवमेकत्वे कामित्वानुपपत्तौ सत्यां फलितमाह –
तत्र कथमिति ।
एकत्वं कामित्वानुपपत्तिर्विद्यावस्था वा तत्र-शब्दार्थः । अविद्यालेशवशेन प्रपञ्चाभासमनुभवन्विद्वान् ‘सर्वस्यात्माहम्’ इति मन्यमानोऽणिमाद्यैश्वर्यभुजां योगिनां यत्कामान्नित्वं कामरूपित्वं चास्ति तन्ममैवेति पश्यन्युगपत्सर्वान्विषयानन्दानश्नुत इत्युपचर्यते । विवक्षितं तु विद्याफलं सर्वात्मकब्रह्मभावमात्रम् । अत एव श्रुत्यन्तरम् - ‘ब्रह्मैव भवति’ इति ।
अतो न फलवचने त्वदुक्तानुपपत्तिर्दोष इत्युत्तरग्रन्थतात्पर्येण समाधत्ते –
उच्यत इति ।
तत्राहेति ।
श्रुतिरिति शेषः ।
पूर्वग्रन्थेऽपि विदुषः सार्वात्म्यमर्थसिद्धमिति दर्शयन् ‘स यश्चायम्’ इत्यादौ वृत्तं कीर्तयति –
पुरुषेत्यादिना ।
पुरुषस्थस्य जीवात्मन आदित्यस्थस्य परमात्मनश्चोत्कर्षापकर्षौ तत्प्रयोजकोपाधी च निरस्यैकत्वविज्ञानेनाविद्याकल्पितानन्नमयादीनानन्दमयान्ताननात्मनः क्रमेणोपसङ्क्रम्य सत्यज्ञानादिलक्षणं फलभूतमद्वैतमापन्नः सर्वात्मा सन्निति योजना ।
अद्वैतस्य ब्रह्मणः फलभूतत्वसिद्धये सुखरूपत्वमाह –
आनन्दमिति ।
तस्य तदर्थमेवानर्थास्पृष्टत्वमाह –
अजममृतमभयमिति ।
तस्य परमार्थत्वमाह –
स्वाभाविकमिति ।
तदर्थं निर्विशेषत्वमाह –
अदृश्यादीति ।
सविशेषस्य दृश्यत्वनियमेन मिथ्यात्वादिति भावः ।
तस्य विकारत्वजडत्वपरिच्छेदान्व्यावर्तयति –
सत्यं ज्ञानमनन्तमिति ।
ननु विदुषः सर्वलोकसञ्चारो न नियत इत्याशङ्क्याह –
आत्मत्वेनानुभवन्निति ।
एतत्प्रकृतं ब्रह्म समत्वात्साम ।
समत्वमेवाह –
सर्वानन्यत्वरूपमिति ।
सर्व्यापिस्वरूपभूतमित्यर्थः ।
स्वनुभवसिद्धस्यात्मैकत्वस्य तज्ज्ञानफलस्य कृतार्थत्वस्य च ख्यापनं निष्फलमित्याशङ्क्याह –
लोकानुग्रहार्थमिति ।
आत्मैकत्वज्ञानं विना न संसारदावानलशान्तिः, अतो यत्नतस्तत्सम्पादनीयं सर्वैरिति ज्ञापनं लोकानुग्रहः ।
गानप्रकारमेव प्रश्नपूर्वकमाह –
कथमित्यादिना ।
हावुशब्दो विस्मयार्थः अभ्यासस्तु तत्रातिशयार्थ इति मत्वाह –
अत्यन्तेति ॥
क इति ।
किङ्कृत इत्यर्थः ।
सार्वात्म्यप्राप्तिकृतो विदुषो विस्मय इत्याह –
उच्यत इति ।
ननु नित्यशुद्धादिरूपस्य विदुषः कथमन्नान्नादरूपेण सार्वात्म्यमित्याशङ्क्य विक्षेपशक्तिमदविद्यालेशमहिम्नेत्याशयेनाह –
निरञ्जनोऽपि सन्निति ।
अन्नं भोग्यजातम् , अन्नादो भोक्ता, तयोः सङ्घातो नाम भोक्तृभोग्यभावलक्षणः सम्बन्धः, तत्कर्ता, सर्वकर्मफलदातेति यावत् ।
तत्र सामर्थ्यं सूचयति –
चेतनावानिति ।
सर्वज्ञ इत्यर्थः ।
अथवेति ।
अथ वा अन्नस्यैव सङ्घातकृदिति योजना ।
नन्वनेकेषां मृत्तृणकाष्ठादीनां गृहप्रासादादिरूपेण सङ्घातकरणं दृष्टम् , तत्कथमेकस्यान्नस्यादनीयस्य सङ्घातकरणमित्याशङ्क्य विशिनष्टि –
अनेकात्मकस्येति ।
शरीरेन्द्रियादिरूपेण परिणतिद्वारा अनेकात्मकस्य तस्य संहतिकरणमुपपन्नमित्यर्थः ।
शरीरप्राणादीनां मेलनरूपं सङ्घातं किमर्थमयं करोति ? तत्राह –
पारार्थ्येनेति ।
परस्य चेतनस्यार्थो भोगादिः तत्सिद्ध्यर्थत्वेनेत्यर्थः ।
ननु शरीरादिरूपेण परिणतस्यान्नस्य परार्थत्वे सिद्धे सति तादर्थ्येन संहतिकरणमित्युपपद्यते, तदेव कुतः सिद्धम् ? अत आह –
परार्थस्येति ।
तद्विशदयति –
अन्नादार्थस्य सत इति ।
भोक्त्रर्थस्य सत इत्यर्थः । जडस्य शरीरप्राणादेः काष्ठतृणादेरिव स्वार्थत्वायोगाच्चेतनार्थत्वं वक्तव्यमिति भावः । सत्त्यस्येति सच्च त्यच्च सत्त्यम् , सन्मूर्तं त्यदमूर्तमिति मूर्तामूर्तात्मकस्य ऋतशब्दितस्य जगत उत्पत्तेः पूर्वमेवोत्पन्नो हिरण्यगर्भश्चाहमस्मीत्यर्थः ।
देवेभ्यश्च पूर्वमिति ।
हिरण्यगर्भोत्पत्त्यनन्तरमिन्द्रादिदेवेभ्यः पूर्वमुत्पन्नो विराट्पुरुषश्चाहमस्मीत्यर्थः ।
अमृतस्य नाभिश्चाहमस्मीति श्रुतौ योजनां मत्वा विवृणोति -
अमृतत्वस्येति ।
सर्वेषां मुमुक्षूणां प्राप्तव्यं यदमृतत्वं तन्मत्संस्थं मत्स्वरूपमेव मम परमानन्दस्वरूपत्वादित्यर्थः ।
ननु मां ददातीत्यनुपपन्नम् , चिदेकरसस्य विदुषो देयत्वायोगादित्याशङ्कां वारयति -
अन्नात्मनेति ।
‘अहमन्नम् ‘ इति प्रागुक्तत्वादन्नात्मना स्थित्वा तथाब्रवीदित्यर्थः ।
इत्थमित्यस्य व्याख्यानम् –
यथाभूतमिति ।
अन्नभूतमित्यर्थः । अन्नभूतं मां यो ददाति स एवं ददत्सन्मामविनष्टं यथा भवति तथावतीत्यर्थः । दातुरन्नं वर्धत इत्यभिप्रायः ।
अदत्वेति ।
लोभादिनेति शेषः ।
प्रत्यद्मीति ।
भक्षयामीत्यर्थः । वैश्वदेवावसाने प्राप्तेभ्योऽतिथिभ्यो यथाशक्त्यन्नमदत्वा भुञ्जानस्य गृहस्थस्य नरकपातो भवेदिति विवक्षितार्थः, अन्नभूतं मामदत्वा भक्षयन्तमहमपि भक्षयामीत्युक्तत्वात् । मुक्तं प्रत्यदनीयतया अन्नभूतो यो नास्तिकः तस्यान्नस्यैव सतो मुक्तोऽप्यदनीयो भवत्येवान्नभूतत्वात् , तथा च नास्तिकैर्व्याघ्रादिभिरिवाद्यस्य मुक्तस्य संसारादपि तीव्रतरं दुःखं प्रसज्येत ।
तथा च तदपेक्षया संसार एव श्रेयानिति मुमुक्षुः शङ्कते –
अत्राहेति ।
परिहरति –
मा भैषीरिति ।
सर्वकामाशनशब्दितस्यान्नान्नादभावलक्षणस्य सर्वात्मभावस्य संव्यवहारविषयत्वात्कल्पनामात्रत्वान्न मुक्तस्य भयलेशोऽप्यस्तीत्यर्थः ।
अन्नादिभावस्य संव्यवहारविषयत्वेऽपि कथं मुक्तस्य भयाभाव इत्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति –
अतीत्यायमित्यादिना ।
विद्वद्दृष्ट्या वस्तुतो भयहेतोरभावान्न तस्य भयमित्यर्थः । अयं विद्वानविद्याकृतं सर्वं विद्ययातीत्य बाधित्वा ब्रह्मत्वमापन्नो वर्तत इति योजना ।
ननु यदि मुक्तो ब्रह्मभावमापन्न एवोक्तरीत्या, तर्हीदम् ‘अहमन्नादः’ इत्यादिवचनं केनाभिप्रायेण प्रवृत्तमिति पृच्छति –
एवं तर्हि किमिति ।
ब्रह्मभावलक्षणमुक्तिस्तुत्यभिप्रायेणेदं वचनं प्रवृत्तमिति परिहरति –
उच्यत इति ।
प्रथममन्नादिभावस्य संव्यवहारविषयत्वादित्युक्तं मिथ्यात्वं साधयति –
योऽयमित्यादिना ।
न परमार्थेति ।
वाचारम्भणादिश्रुतेर्दृश्यत्वादियुक्तेश्चेति भावः ।
इदानीं स्तुत्यभिप्रायकत्वमन्नादिवचनस्य विवृणोति –
स एवंभूतोऽपीति ।
ब्रह्मनिमित्तः ब्रह्मकारणकोऽन्नान्नादभावलक्षणः प्रपञ्चो व्यवह्रियमाणोऽपि ब्रह्मव्यतिरेकेण वस्तुगत्यासन्निति कृत्वा निश्चित्य स्थितस्य विदुषो योऽयं विद्याफलभूतो ब्रह्मभावः तस्य स्तुत्यर्थमन्नादिवचनेन सार्वात्म्यं सर्वकामाशनरूपमुच्यते, न त्वन्नादिभावस्तस्य मुख्य इत्यर्थः ।
उपसंहरति –
अत इति ।
विद्याबलादविद्योच्छेदाद्ब्रह्मभूतस्य विदुषो नास्त्यविद्यानिमित्तो भयदुःखादिदोषलेशोऽपीत्यर्थः ।
एवं मोक्षस्यापुरुषार्थत्वशङ्कां निराकृत्य पुनर्विदुषः स्तुत्यर्थमुपक्षिप्तं सर्वात्मभावमेवानुसरन्नुत्तरवाक्यमादत्ते –
अहं विश्वमिति ।
भुवनमिति ।
भूरादिलोकजातमित्यर्थः ।
ईश्वरेणेति ।
सर्वजगत्संहर्तृरुद्ररूपेणाहमेवाभिभवामि संहरामीत्यर्थः ।
सुवर्न इत्यत्र नकार इवार्थ इत्याशयेनाह –
आदित्य इवेति ।
असकृदिति ।
सदेत्यर्थः । ज्योतिःपदं चैतन्यप्रकाशपरम् ।
'इत्युपनिषत्’ इत्यस्यार्थमाह –
इतीयमिति ।
विहिता निरूपिता ।
'य एवं वेद’ इत्यत्र एवंशब्दार्थमाह –
भृगुवदिति ।
वेद, सम्पादयतीत्यर्थः ।
यथोक्तमिति ।
ब्रह्मभावलक्षणमित्यर्थः ।
मङ्गलार्थमोङ्कारमुच्चारयति –
ओमितीति ॥
अन्नप्राणमनोबुद्धिसुखैः पञ्चभिरुज्ज्वला ।
भगवत्यर्पिता जीयाद्वनमाला कृतिर्मम ॥ १ ॥
नारायणपदद्वन्द्वं नारदादिभिरादृतम् ।
नमामि शतशो नित्यं नमतां मुक्तिदायकम् ॥ २ ॥