अद्वैतशारदा

वनमालाव्याख्या

भृगुवल्ली: प्रथमोऽनुवाकः

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­र­व­ल्ली­म­व­ता­र­यति –
सत्यं ज्ञानमित्यादिना ।

अनु­प्र­वि­ष्ट­श­ब्देन विवक्षितमर्थमाह –
विशेषवदिवेति ।
सांसा­रि­क­ध­र्म­जातं विशेषः ; तस्या­वा­स्त­व­त्व­ज्ञा­प­नार्थ इवकारः । तथा च श्रुतिः - ‘ध्यायतीव लेलायतीव’ इति ।

प्रवेशवाक्येन ब्रह्मणो जीव­भा­वो­क्ते­स्ता­त्प­र्य­माह –
यस्मादिति ।
यस्माद्ब्रह्मैव संसा­रि­त्वे­नो­पु­ल­भ्यत इत्युक्तं तस्मादहं यथोक्तं ब्रह्मैवेति विजानीयादिति तात्पर्यतः प्रदर्शितं भवति । जीव­भा­वे­ना­नु­प्र­वे­श­क­थ­नस्य अहं ब्रह्मेति ज्ञानै­क­प्र­यो­ज­न­क­त्वा­दि­त्यर्थः । न हि ब्रह्मैव संसारित्वं प्राप्तमिति ज्ञाना­त्कि­ञ्चि­त्प्र­यो­जनं लभ्यते । प्रती­य­मा­न­सं­सा­रि­त्व­नि­र­स­न­पू­र्व­क­महं ब्रह्मेति ज्ञानविवक्षायां तु मुक्तिः प्रयोजनं लभ्यत इति जीवस्य ब्रह्मत्वज्ञान एव प्रवेशवाक्यस्य तात्पर्यम् । एते­ना­भे­द­बो­ध­क­वा­क्या­भा­वा­द­त्राहं ब्रह्मास्मीति ज्ञान­म­वि­व­क्षि­त­मिति शङ्कापि निरस्ता वेदितव्या, तात्पर्यतो गुहा­नि­हि­त­वा­क्यस्य प्रवेशवाक्यस्य चाभे­द­ज्ञा­न­प­र­त्वात् ।

अभे­द­ज्ञा­न­फ­ल­म­प्यु­क्त­म­नु­व­दति –
तस्यैवमिति ।

'इत्यु­प­नि­षत्’ इत्यु­प­सं­हा­र­वा­क्या­र्थ­म­प्य­नु­व­दति –
परिसमाप्ता च ब्रह्मविद्येति ।

नन्वेवं वक्त­व्या­न­व­शे­ष­णा­दु­त्त­र­वल्ली व्यर्था ; नेत्याह –
अतः परमिति ।
विद्यो­क्त्य­न­न्त­र­मि­त्यर्थः । न च कोश­प­ञ्च­क­वि­वे­च­न­रू­पस्य वक्ष्यमाणस्य तपसोऽपि प्राग­भि­हि­त­त्वा­त्पु­न­स्त­दु­क्ति­र्व्य­र्थेति वाच्यम् , तस्यैव तपसो ब्रह्म­ल­क्ष­ण­मु­खेन कर्त­व्य­त्व­रू­प­वि­शे­ष­क­थ­न­पू­र्व­कम् उत्तरवल्ल्याः प्रप­ञ्चा­र्थ­त्वेन पौन­रु­क्त्या­भा­वात् ।

इतश्च न पौन­रु­क्त्य­मि­त्या­श­ये­नाह –
अन्नादीति ।

ननु तर्हि तपआदिकमेव वक्तव्यं न त्वाख्यायिकापि ; तत्राह –
आख्यायिकेति ।

नन्वाख्यायिकया कथं स्तुतिलाभः ? तत्राह –
प्रियायेति ।
पिता प्रियाय पुत्राय प्रशस्तामेव विद्या­मु­प­दि­शे­न्ना­न्या­मिति रीत्या विद्यायाः प्रकर्षो लभ्यत इत्यर्थः । हे भगवन् ब्रह्माधीहि स्मर उपदिशेति यावदिति मन्त्रार्थः ।

अत्तारमिति ।
शरि­रेऽ­न्न­श­ब्द­प्र­यो­गा­त्त­द­भ्य­न्त­रस्य प्राण­स्या­त्तृ­त्व­मु­प­चा­रे­णो­क्त­मिति मन्तव्यम् । यद्वा अन्नशब्देन विराडात्मकं शरीरं विवक्षितम् , तदभ्यन्तरः प्राणश्च सूत्रात्मरूपो हिरण्यगर्भो विवक्षित इति कृत्वा प्राण­स्या­त्तृ­त्व­मु­क्त­मिति मन्तव्यम् ।

नन्व­न्न­प्रा­ण­यो­रुक्तिः ‘अन्नं ब्रह्मेति व्यजानात्’ ‘प्राणो ब्रह्मेति व्यजानात्’ इति करिष्यमाणे विचार उपयुज्यते, रूपा­द्यु­प­ल­ब्धि­सा­ध­नानां चक्षु­रा­दी­ना­मुक्तिः क्वोपयुज्यते ? तत्राह –
ब्रह्मोपलब्धौ द्वाराणीति ।
अत्र मनःशब्देन ‘मनो ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्य­मा­ण­मा­धि­दै­विकं मनो गृह्यते । एतच्च ‘विज्ञानं ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्य­मा­ण­स्या­धि­दै­विक विज्ञा­न­स्या­प्यु­प­ल­क्ष­णम् । वागादीनां चक्षुरादीनां च यथायथं प्राणा­दि­को­शे­ष्य­व­न्त­र्भू­तानां ब्रह्मो­प­ल­ब्धि­द्वा­रत्वं विवक्षितमिति न चक्षु­रा­दि­क­थ­न­वै­य­र्थ्य­मिति भावः ।

उक्ता­नु­वा­द­पू­र्व­कम् ‘यतो वै’ इत्या­दे­स्ता­त्प­र्य­माह –
उक्त्वा चेत्यादिना ।

निर्विशेषस्य ब्रह्मणो धर्मरूपं लक्षणं न सम्भ­व­ती­त्या­क्षि­पति –
किं तदिति ।

काल्पनिकं धर्मरूपं जगत्कारणत्वं तस्य लक्षणं विवक्षितम् अतो नासम्भव इति श्रुत्या परिहरति –
यत इति ।
प्रयन्तीत्यस्य विव­र­ण­म­भि­सं­वि­श­न्तीति ।

तत्रा­भी­त्यु­प­स­र्गा­र्थ­मा­भि­मुख्यं विवृणोति –
तादात्म्यमेवेति ।
ब्रह्मणि लीयन्त इत्येव विवक्षितार्थः ।

अत्र ब्रह्मणो भूत­ल­या­धा­र­त्व­श्र­व­णा­त्प्र­कृ­ति­त्व­रूपं कारणत्वं विव­क्षि­त­मि­त्या­श­ये­नाह –
उत्पत्तीति ।
प्रकृतिरेव हि विकाराणामात्मा स्वरूपमिति स्थापि­त­मा­र­म्भ­णा­धि­क­रणे, अतो यदा­त्म­क­ता­मि­त्यु­क्तम् । यद्यपि ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तानां भूतानां स्वत उत्पत्त्यादयो न सन्ति, तथापि स्थूल­सू­क्ष्मो­पा­धि­वि­शि­ष्ट­त्वा­का­रेण तेषामपि ते सन्तीति भावः । नन्वत्र महा­भू­ता­ना­मा­का­शा­दीनां ग्रहणं कुतो न क्रियते प्राणि­ष्वि­वा­का­शा­दि­ष्वपि भूतशब्दस्य प्रसिद्धत्वात् ? अत एव ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इत्यत्र भूतशब्देन महाभूतानां ग्रह­ण­मा­चा­र्यै­रेव कृतम् , तथा जन्मादिसूत्रे द्विविधान्यपि भूतानि गृहीतानि ; तथा च कथमत्र प्राणिनामेव ग्रहणमिति चेत् , उच्यते - भूत­श­ब्द­स्यो­भ­यत्र रूढत्वेऽपि प्राण­धा­र­ण­क­र्तृ­वा­चि­जी­व­न्ती­त्यु­प­प­दा­नु­सा­रेण प्राणि­रू­ढे­रे­वो­न्मेषो न महा­भू­त­वि­ष­य­रू­ढे­रिति नात्रा­का­शा­दि­ग्र­ह­ण­प्र­सक्तिः ‘सर्वाणि ह वा इमानि भूतानि’ इत्यत्र च ‘अस्य लोकस्य का गतिः’ इति पृथि­वी­लो­का­दि­का­र­ण­प्र­श्ना­नु­सा­रेण महा­भू­त­रू­ढे­रे­वो­न्मेषो न प्राणिरूढेः ; जन्मादिसूत्रे च जग­त्का­र­ण­वा­क्यानां सर्वे­षा­मे­वो­दा­ह­र­ण­त्वा­द्वा­क्या­न्त­रा­नु­सा­रेण द्विविधान्यपि भूतानि गृहीतानीति न किञ्चिदवद्यम् ।

अत्र विवक्षितं लक्षणमाह –
तदेतदिति ।
भूत­का­र­ण­त्व­मि­त्यर्थः । श्रुतौ तद्ब्रह्म तद्वि­जि­ज्ञा­स­स्वे­त्य­र्थ­क्रमो बोध्यः ।

यद्वा, ननु ब्रह्म जिज्ञासवे कथं जगत्कारणं जिज्ञा­स्य­त्वे­नो­प­दि­श्यते ? तत्राह श्रुतिः –
तद्ब्रह्मेति ।
अस्मिन्पक्षे यथाश्रुत एवार्थक्रमः ।

ननु विजिज्ञासस्वेति पित्रा न वक्तव्यम् , स्वरू­प­वि­शे­ष­जि­ज्ञा­सायाः प्रागेव सिद्ध­त्वा­दि­त्या­श­ङ्क्याह –
यदेवंलक्षणमिति ।

अन्ना­दे­र्ब्र­ह्मो­प­ल­ब्धि­द्वा­र­त्व­म­न्य­त्रापि प्रसिद्धमित्याह –
श्रुत्यन्तरमिति ।
षष्ठ्य­न्त­प्रा­णा­दि­श­ब्दो­पा­त्तस्य कार्य­क­र­ण­स­ङ्घा­त­जा­त­स्या­धि­ष्ठा­न­तया सत्ता­स्फू­र्ति­प्रदं द्विती­या­न्त­प्रा­णा­दि­श­ब्दो­पात्तं प्रत्यगात्मानं ये श्रुति­न्या­याभ्यां विदुः ते सृष्टेः पूर्वकालेऽपि स्थितं कूटस्थं ब्रह्म आत्मत्वेन निचि­क्यु­र्जा­नीयुः नेतरे प्रत्य­गा­त्म­स्व­रू­प­ज्ञा­न­र­हिता इति श्रुत्य­न्त­रार्थः । योऽन्ना­दे­र­धि­ष्ठा­न­तया सत्ताप्रकाशरूपः प्रत्यगात्मा स ब्रह्मै­वे­त्ये­वं­प्र­का­रेण ब्रह्मो­प­ल­ब्धि­द्वा­रत्वं तत्रावगम्यत इति भावः । पितुरिति पञ्चमी । तस्मा­च्छ्रु­त्वेति योजना ।

ननु पित्रा तपसा ब्रह्म विजि­ज्ञा­स­स्वे­त्य­नु­क्त­त्वा­त्कथं तपसि ब्रह्म­वि­ज्ञा­न­सा­ध­नत्वं भृगुणा विनिश्चितम् ? न हि तन्निश्चयं विना तत्र प्रवृत्तिस्तस्य सम्भवतीति शङ्कते –
कुतः पुनरिति ।

परिहरति –
सावशेषोक्तेरिति ।
साव­से­षो­क्ते­स्त­पसि ब्रह्म­वि­ज्ञा­न­सा­ध­न­त्व­प्र­ति­प­त्ति­र्भृ­गो­र­भू­दि­त्यर्थः ।

गुरू­क्ता­र्था­नु­वा­द­पू­र्वुकं तदुक्तेः सावशेषत्वं साधयति –
अन्नादीत्यादिना ।
ब्रह्मणः प्रतिपत्तौ द्वार­भू­त­म­न्ना­दि­कम् ‘अन्नं प्राणम्’ इत्या­दि­नो­क्त­वा­नि­त्यर्थः ।

सावशेषं हि तदिति ।
यद्भू­त­ज­न्मा­दि­का­रणं तद्ब्रह्म, तत्प्रतिपत्तौ चान्नादि द्वार­मि­त्ये­ता­दृ­श­मु­प­दे­शनं सावशेषमिति ।

अत्र हि-शब्दोक्तं हेतुमाह –
साक्षादिति ।
त्वं ब्रह्मे­त्य­प­रो­क्ष­तया ब्रह्मणो निर्दे­शा­भा­वा­दि­त्यर्थः ।

नन्वेतावता कथं गुरूक्तेः सावशेषत्वं सिध्यति ? तत्राह –
अन्यथा हीति ।
सावशेषत्वाभावे हीत्यर्थः ।

स्वरूपेणैवेति ।
प्रत्य­क्त्वे­नै­वे­त्यर्थः । वस्तुतः प्रत्य­गा­त्म­स्व­रू­प­त्वा­द्ब्र­ह्मण इति भावः ।

भृगो­र्वा­स्त­व­स्व­रू­प­ज्ञाने ताटस्थ्यं वारयति –
जिज्ञासव इति ।

गुरो­र्वा­स्त­व­स्व­रू­प­बो­धने उपेक्षां वारयति –
स्वपुत्रायेति ।

निर्दे­श­स्व­रू­प­मेव दर्शयति –
इदमित्थंरूपमिति ।
इदं त्वया पृष्टं ब्रह्म इत्थंरूपं तव देहे बुद्ध्या­दि­सा­क्षि­त­यो­प­ल­भ्य­मा­न­चै­त­न्य­रू­प­मिति निर्दे­ष्ट­व्य­मिति योजना ।

ननु तथैव पित्रा निर्दिष्टं ब्रह्म ; नेत्याह –
न चैवमिति ।
अनुपलम्भादिति भावः ।

ननु तर्हि कीदृशं ब्रह्मो­क्त­वा­निति पृच्छति –
किं तर्हीति ।

परोक्षतयैव ब्रह्मो­क्त­वा­नि­त्याह –
सावशेषमेवेति ।

इत्थं सावशेषोक्तेरिति हेतुं प्रसाध्य तेन तपसि ब्रह्म­ज्ञा­न­सा­ध­न­त्व­प्र­ति­प­त्ति­प्र­का­र­माह –
अत इति ।
साव­शे­षो­क्ते­रि­त्यर्थः ।

साधनान्तरमिति ।
स्वस्मि­न्वि­धि­व­दु­प­स­द­ना­दि­ल­क्षणं यत्साधनमस्ति तद­पे­क्ष­या­न्य­त्सा­ध­न­मि­त्यर्थः । ननु परोक्षतया ब्रह्मोपदेशस्य वस्तुतः सावशेषत्वेऽपि तस्य तत्सावशेषत्वं शिष्येण कथं ज्ञातम् , प्रत्यगात्मैव ब्रह्मेति ज्ञानं विना तदुपदेशस्य साव­शे­ष­त्व­ज्ञा­ना­स­म्भ­वा­दिति चेत् ; नैवम् , ब्रह्म­वि­त्स­भायां तदी­य­व्य­व­हा­रा­दिना सामान्यतो जीवो ब्रह्मेति ज्ञात्वा तदै­क्या­प­रो­क्ष्याय गुरूपसदनसम्भवेन परोक्षोपदेशस्य साव­शे­ष­त्व­ज्ञा­न­स­म्भ­वात् ।

ननु ब्रह्मा­त्मै­क्य­सा­क्षा­त्कारं प्रति चित्त­ग­त­प्र­ति­ब­न्ध­नि­वृ­त्ति­द्वारा तत्स­म्पा­द­न­स­मर्थं साधनान्तरं ममापेक्षते पिता नूनं निश्चय इत्यनेन प्रकारेण स्वस्यानुष्ठेयं सामान्यतः साधनान्तरं निश्चि­त­मि­त्यस्तु, तच्च साधनान्तरं तप एव पितुराशयस्थमिति कथं निश्चि­त­मि­त­या­शङ्क्य योग्य­ता­वि­शे­षा­दि­त्याह –
तपोविशेषेति ।
तपो­रू­प­सा­ध­न­वि­शे­षे­त्यर्थः ।

सर्वेति ।
सर्वेषां ज्ञानसाधनानां मध्ये तपसो ज्ञानं प्रत्य­ति­श­यि­त­सा­ध­न­त्वेन ब्रह्म­वि­द्व्य­व­हारे प्रसि­द्ध­त्वा­दि­त्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –
सर्वेषां हीति ।
साध्यपदं ज्ञानपरम् , तस्य निय­त­त्व­मै­का­न्ति­क­फ­लत्वं ; तेन नियतसाध्येन सह साधनतया सम्ब­द्धा­ना­मि­त्यर्थः ।

तस्मादिति ।
साव­शे­षो­क्त्या­दि­लि­ङ्गा­दि­त्यर्थः ।

तपसः स्वरूपं दर्शयति –
तच्चेति ।

समाधानमिति ।
उदा­ह­रि­ष्य­मा­ण­स्मृ­ति­ग­त­स्यै­का­ग्र्य­प­दस्य व्याख्यानं समाधानमिति । तत्र बाह्यकरणानां समाधानं विषयेभ्यो व्यावृ­त्त­त्व­रूपं विवक्षितम् , अन्तःकरणस्य समाधानं तत्त्वे स्थापनमिति विभागः । स्मृतौ तपसः पर­म­त्व­वि­व­र­ण­मु­त्त­रा­र्धम् । तपः सर्वधर्माणां मध्ये वस्तुगत्या ज्यायो भवति ; स च तपोरूपो धर्मः पर इति विद्व­द्भि­र­प्यु­च्यत इति तदर्थः । परमार्थतस्तु श्रुतौ स्मृतौ च तपःपदं भाष्य­ग­त­स­मा­धा­न­पदं च तत्त्व­चि­न्ता­प­रम् , न समाधिपरम् , ‘तप आलोचने’ इति स्मरणात् महा­वा­क्या­र्थ­ज्ञानं प्रति त्वम्प­दा­र्थ­शो­ध­न­रू­प­स्या­लो­च­न­स्यैव साधकतमत्वाच्च, अत्र गुरूपदिष्टस्य ब्रह्म­ल­क्ष­ण­स्यापि क्रमेण कोशेभ्यः सका­शा­दा­त्म­त­त्त्वस्य विवेचन एवोपयोगाच्च ब्रह्म जिज्ञा­सो­र्भृ­गो­र्जि­ज्ञा­सिते ब्रह्मणि विचारं विना जिज्ञा­सा­नि­व­र्त­क­नि­र्ण­या­यो­गाच्च । अत एव ‘तद्वि­जि­ज्ञा­सस्व’ इति श्रुतिमूलके जिज्ञासासूत्रे ब्रह्म जिज्ञासोर्विचार एव कर्त­व्य­त्वे­नो­प­दिष्टः । अत एव चात्र भाष्यवार्तिके प्रथमं यथा­श्रु­त­भा­ष्या­दि­क­म­नु­रुध्य पश्चात्तपःशब्दो विचा­र­प­र­त्वे­नो­प­प­त्ति­पू­र्वकं योजितः । तथा च वार्त्तिकम् - ‘अन्व­य­व्य­ति­रे­का­दि­चि­न्तनं वा तपो भवेत् । अहं ब्रह्मेति वाक्या­र्थ­बो­धा­या­ल­मिदं यतः’ इति । सूतसंहितायां पर­मे­श्व­रे­णा­प्यु­क्तम्‌ - ‘कोऽहं मुक्तिः कथं केन संसारं प्रतिपन्नवान् । इत्या­लो­च­न­म­र्थ­ज्ञा­स्तपः संशन्ति पण्डिताः’ इति ॥

तद्धीति ।
अन्नं हीत्यर्थः ।

अन्नाद्ध्येवेति ।
इदं वाक्य­मा­न­न्द­व­ल्ली­ग­तेन ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इति वाक्येन समानार्थमिति नास्य व्याख्याने व्याप्रियते ।

तस्मादिति ।
ब्रह्म­ल­क्ष­णो­पे­त­त्वा­दि­त्यर्थः ।

'तद्वि­ज्ञाय’ इत्यस्यार्थमाह –
स एवमिति ।

उपपत्त्या चेति ।
अन्नशब्दितस्य विराजः श्रुति­षू­पा­स्य­त्व­श्र­व­णा­द­ब्र­ह्मण उपा­स्य­त्वा­यो­गा­दि­त्या­द्यु­प­पत्त्या चेत्यर्थः । उपपत्त्या चान्नं ब्रह्मेति विज्ञायेति योजना ।

उत्प­त्ति­द­र्श­ना­दिति ।
ब्रह्म­ण­स्ता­व­दु­त्प­त्ति­र्नास्ति तस्य नित्य­त्व­श्र­व­णात् अन्नस्य च हिर­ण्य­ग­र्भा­दु­त्पत्तेः श्रुतिषु दर्श­ना­त्पृ­थि­व्या­दि­स्थू­ल­भू­ता­त्म­क­स्या­न्नस्य भूत­का­र­ण­त्व­स्यापि दर्श­ना­च्चे­त्या­दि­क­मा­लो­च­य­त­स्त­स्यान्नं ब्रह्म न वेति संशय उत्पन्न इत्यर्थः ।

असकृत् ‘तपसा ब्रह्म विजिज्ञासस्व’ इत्युपदेशस्य तात्प­र्य­प्र­द­र्श­न­पू­र्व­क­म­र्थ­माह –
तपस इत्यादिना ।

निरतिशयमिति ।
सम्पू­र्ण­मि­त्यर्थः ।

तावत्तप एवेति ।
विचारं विना जिज्ञा­सा­नि­वृ­त्त्य­यो­गा­दिति भावः । श्रुतौ ‘तपो ब्रह्म’ इति वाक्यं विधित्सितस्य तपसो ब्रह्मत्वेन स्तुत्यर्थमिति मन्तव्यम् ।

प्रथ­म­प­र्या­य­स्थम् ‘तद्विज्ञाय’ इत्या­दि­वा­क्य­व्या­ख्या­न­म­न्य­त्रा­प्य­ति­दि­शति –
एवं सर्वर्त्रेति ।

'प्राणो ब्रह्मेति व्यजानात्’ इत्या­दि­वा­क्य­म­भि­प्रे­त्याह –
ऋज्वन्यदिति ।
स एव ऋज्वर्थः प्रदर्श्यते, तथा हि - स तपः अतप्यत, अन्नस्य सूत्रा­त्म­रू­प­प्रा­ण­प­र­त­न्त्रस्य न ब्रह्मलक्षणं निरपेक्षं सम्भाव्यते प्राणस्य तु स्वात­न्त्र्या­दि­स­त्त्वा­त्त­त्स­म्भ­व­ती­त्यादि लक्षणं विचारं कृतवान् । एवं तपः कृत्वा प्राणो ब्रह्मेति निश्चितवान् , तन्नि­श्च­यो­प­यो­गि­त्वेन प्राणे ब्रह्मलक्षणं च योजि­त­वा­नि­त्या­श­ये­नाह श्रुतिः प्राणा­द्ध्ये­वे­त्या­दिना । अन्नस्य प्राणा­धी­न­त्वा­द­न्न­ज्जा­य­मा­नानि भूतानि प्राणादेव जायन्त इत्ययमर्थो युक्त एवेति द्योतनार्थो हि-शब्दः । तद्विज्ञाय लक्ष­णो­प­प­त्तिभ्यां प्राणो ब्रह्मेति विज्ञाय पुरनरेव प्राणब्रह्मणि संशयमापन्नो वरुणं पितरमुपगतवान् । संशयकारणं तु प्राणस्यापि मनःपारतन्त्र्यं ज्ञान­श­क्ति­रा­हि­त्या­दि­क­मू­ह­नी­यम् । इत्थं प्राणब्रह्मणि संशयमापन्नो मुख्यं ब्रह्मा­न्य­द­न्वे­ष­माणो भृगुः पुनर्विचारं कृतवान् - प्राणस्य मनसा निरोधदर्शनेन प्राणापेक्षया मनसः स्वात­न्त्र्या­ज्ज्ञा­न­श­क्ति­म­त्त्वात् , अत एव मनसि ब्रह्म­ल­क्ष­ण­स­म्भ­वाच्च आधिदैविकं सम­ष्ट्य­न्तः­क­र­ण­मेव ब्रह्मेति निश्चितवान् । एवं मनो ब्रह्मेति विज्ञाय पुनस्तत्रापि संशयमापन्नो वरु­ण­मु­प­ग­त­वा­नि­त्यादि समानम् । संशयकारणं त्वस्म­दा­दि­म­नो­व­दा­धि­दै­वि­क­म­नोऽपि कर­ण­को­टि­प्र­वि­ष्ट­त्वा­द्वि­ज्ञा­न­श­ब्दि­त­क­र्तृ­प­र­तन्त्रं भवति । न हि परतन्त्रस्य ब्रह्मलक्षणं मुख्यं सम्भ­व­ती­त्या­दि­दो­ष­द­र्श­न­मिति बोध्यम् । एवं मनसि ब्रह्म­ल­क्ष­णा­यो­गा­त्क­र्तरि च स्वातन्त्र्येण तद्यो­गा­दि­त्या­दि­वि­चारं कृत्वा विज्ञा­न­मा­धि­दै­विकं महत्तत्त्वं ब्रह्मेति निश्चि­त­वा­नि­त्यादि समानम् । पुनश्च विज्ञा­न­ब्र­ह्म­ण्यपि तस्य जन्म­ना­शा­दि­श्र­व­ण­लि­ङ्गेन संशयमापन्नो वरु­ण­मु­प­ग­त­वा­नि­त्या­द्यू­ह­नी­यम् ॥

'आनन्दो ब्रह्मेति व्यजानात्’ इत्यादि व्याख्या­तु­मु­प­क्र­मते –
एवं तपसेत्यादिना ।

विशुद्धात्मेति ।
विशुद्धान्तःकरण इत्यर्थः । अत्र विशु­द्धि­र­न्न­प्रा­णा­दिषु ब्रह्मलक्षणस्य साकल्येन दर्श­न­वि­रो­धि­दो­ष­द­र्श­न­रूपा विवक्षिता प्रकृतत्वादिति बोध्यम् । शनैः शनै­र­न्त­र­नु­प्र­वि­श्येति । आध्या­त्मि­क­को­शा­ना­मि­वा­धि­दै­वि­का­ना­म­न्न­प्रा­णा­दि­को­शा­ना­म­प्यु­त्त­रो­त्त­रस्य पूर्व­पू­र्वा­पे­क्षया क्रमेणान्तरत्वं निश्चि­त्ये­त्यर्थः ।

आन्तरतममिति ।
सर्वा­न्त­र­त­म­मि­त्यर्थः । स्थूल­सू­क्ष्म­का­र­णा­त्म­कस्य सर्वस्य दृश्यजातस्य विचारेणैव मिथ्यात्वं तदधिष्ठानभूतस्य प्रत्यगानन्दस्य सर्वान्तरत्वं सर्वकारणत्वं च निश्चित्य तदेवानन्दरूपं ब्रह्माहमिति साक्षा­त्कृ­त­वा­नि­त्यर्थः ।

भृगोस्तपसैव ज्ञान­मु­त्प­न्न­मिति वदन्त्याः श्रुते­स्ता­त्प­र्य­माह –
तस्मादिति ।
तपसैव ज्ञानो­द­य­द­र्श­ना­दि­त्यर्थः । समाधानपदं विचारपरमिति प्रागु­क्त­म­त्रा­प्य­नु­स­न्धे­यम् ।

प्रकरणार्थ इति ।
तपसा भृगो­र्ज्ञा­न­मु­त्प­न्न­मिति यथाश्रुतार्थे प्रयोजनाभावेन प्रकरणस्य तत्र तात्प­र्या­यो­गा­दिति भावः । श्रुतौ आनन्दं प्रय­न्त्य­भि­सं­वि­श­न्तीति, तस्मा­द्यु­क्त­मा­न­न्द­स्येदं लक्ष­ण­मि­त्या­भि­प्रायः ।

'सैषा भार्गवी’ इत्यादिवचनं न पितुर्न वा पुत्र­स्ये­त्य­स­ङ्ग­ति­मा­श­ङ्क्याह –
अधुनेति ।

आख्या­यि­का­तोऽ­प­सृ­त्येति ।
कथारूपत्वं परि­त्य­ज्ये­त्यर्थः । सा पूर्ववल्ल्यां प्रकृता । एषा अस्यां वल्ल्यां संनिहिता । विदिता प्राप्ता ।

व्योमस्वरूपमाह –
हृदयाकाश इति ।
हृदयाकाशाख्ये परमे व्योम्नि या गुहा बुद्धिः तस्यां य आनन्दः तस्य कार­ण­त्वा­द­द्वै­त­त्वम् ; तस्मि­न्प्र­ति­ष्ठि­ते­त्यर्थः ।

ननु कस्मादारभ्य प्रवृत्ताया विद्यायाः प्रत्यगानन्दे परि­स­मा­प्ति­रु­च्यते ? तत्राह –
अन्नमयादिति ।
'अन्नं ब्रह्म’ इत्यारभ्य पूर्व­पू­र्व­प्र­हा­णे­नो­परि प्रवृ­त्ते­त्यर्थः । तथा चान्न­म­या­दि­को­श­जा­ता­दा­न्त­र­त­म­मा­न­न्द­रू­प­म­द्वि­तीयं वस्तु ब्रह्मेत्ययमर्थ आख्यायिकायां निष्पन्न इत्यनया श्रुत्या दर्शितं भवतीति भावः ।

'य एवं वेद’ इत्यादेरर्थमाह –
य एव­म­न्योऽ­पी­त्या­दिना ।

अनेनैव क्रमेणेति ।
अन्नादिषु ब्रह्म­ल­क्ष­ण­यो­ज­ना­रू­पे­णैव प्रका­रे­णे­त्यर्थः ।

अनुप्रविश्येति ।
अन्नादिषु ब्रह्म­त्व­बु­द्धि­प­रि­त्या­ग­पू­र्वकं सर्वा­न्त­र­मा­नन्दं कारणत्वेन सम्भाव्य तमानन्दं ब्रह्म­भू­त­मा­त्म­त्वेन यो वेदेत्यर्थः ।

विदुषो ब्रह्मानन्दे प्रति­ष्ठा­रू­प­फ­ल­की­र्तने तत्क्रतुन्यायं सूचयति –
विद्या­प्र­ति­ष्ठा­ना­दिति ।

विद्याया ब्रह्मानन्दे प्रति­ष्ठि­त­त्वा­त्ता­दृ­श­मा­नन्दं विद्वानपि तत्र प्रतितिष्ठतीति युक्तमित्यर्थः विवक्षितमर्थं दर्शयति –
ब्रह्मैवेति ।

नन्वश्रुतं प्रभू­त­त्व­वि­शे­षणं कथं निक्षिप्यते ? तत्राह –
अन्यथेति ।
प्रभू­त­त्व­वि­शे­षणं विना अन्न­सा­मा­न्य­मा­त्रे­णै­वा­न्न­वत्त्वे विवक्षिते सति सर्वोऽपि जन्तुः शरी­र­स्थि­त्या­क्षि­प्ते­ना­न्ने­ना­न्न­वा­ने­वेति कृत्वा विद्या­ब­ला­द्वि­दु­षोऽन्ने विशेषो न स्यात् , अतः प्रभू­त­त्व­वि­शे­ष­ण­मा­व­श्य­क­मि­त्यर्थः ।

ननु सर्वोऽपि जन्तु­र­न्न­म­त्त्येव ; तत्राह –
दीप्ताग्निरिति ।
अन्नवत्त्वं दीप्ताग्नित्वं विना व्यर्थमिति भावः । ननु कृतकृत्यस्य ब्रह्मविदो नेदं फलं भवितुमर्हति, न वा ब्रह्मविद इदं फलं नियमेन दृश्यते, न वा चित्रा­या­ग­फ­ल­न्या­ये­ना­स्मि­ञ्ज­न्म­न्य­नु­प­ल­भ्य­मा­न­स्या­मु­ष्मि­कत्वं कल्पयितुं शक्यते तस्य पुन­र्ज­न्मा­भा­वात् , तस्मादसङ्गतमिदं फलवचनमिति चेत् ; उच्यते - यथा भूमविद्यायाम् ‘स एकधा भवति’ इत्यादिना सगुणविद्याफलं भूम­वि­द्या­फ­ल­त्वेन सङ्कीर्त्यते भूम­वि­द्या­स्तु­त्य­र्थम् , तथा वक्ष्य­मा­णा­न्ना­न्ना­द­त्वो­पा­स­न­फलं प्रकृ­त­ब्र­ह्म­वि­द्या­फ­ल­त्वेन सङ्कीर्त्यते तत्स्तु­त्य­र्थ­मि­त्य­दोषः । एतच्च व्रतो­प­दे­श­स्या­न्न­स्तु­त्य­र्थ­त्व­व­र्ण­नेन भाष्ये वर्णि­त­प्रा­य­मे­वेति मन्तव्यम् ॥

न निन्द्यादिति ।
अपकृष्टमन्नं प्राप्तं न निन्द्या­दि­त्यर्थः, ‘यदृच्छया चोप­प­न्न­म­द्या­च्छ्रे­ष्ठ­मु­ता­व­रम्’ इति स्मृतिदर्शनात् ।

ननु ब्रह्मविदः कर्त­व्या­भा­वा­त्कथं तस्यानुष्ठेयतया व्रतमुपदिश्यते ? तत्राह –
व्रतोपदेश इति ।

ननु विदुषा निर­स­नी­य­स्या­न्नस्य कथं स्तुत्यर्थत्वम् ? तत्राह –
स्तुतिभाक्त्वं चेति ।
शरीरमनआदिरूपेण परिणतिद्वारा अन्नस्य विद्या­सा­ध­न­त्वा­दि­त्यर्थः ।

प्रस­ङ्गा­त्का­म्या­न्यु­पा­स­ना­न्याह –
प्राणो वा इत्यादिना ।
तेषां सकामानां प्रजा­दि­फ­ल­स­म्पा­द­क­त्वेऽपि निष्का­म­न­या­नु­ष्ठि­तानां चित्तै­का­ग्र्य­द्वारा विद्या­सा­ध­न­त्वा­द्वि­द्या­प्र­क­रणे सङ्गतिरिति वा मन्तव्यम् ।

ननु प्राणस्य कथ­म­न्न­त्व­मि­त्या­शङ्क्य प्रसि­द्धा­न्न­सा­दृ­श्या­दि­त्या­श­ये­नाह –
शरी­रेऽ­न्त­र्भा­वा­दिति ।

एतदेवविवृणोति –
यद्यस्येति ।
तत्त­स्या­न्न­मि­तीह विव­क्षि­त­मि­त्यर्थः ।

‘प्राणो वा अन्नम्’ इत्यत्र हेतु­प्र­ति­पा­द­क­त्वेन ‘शरीरे प्राणः प्रतिष्ठितः’ इति वाक्यमाकृष्य योजयति -
शरीरे चेति ।

तस्मादिति ।
प्राणस्य शरीरे प्रति­ष्ठि­त­त्वा­दि­त्यर्थः ।

'प्राणे शरीरं प्रतिष्ठितम्’ इति वाक्य­स­ङ्ग­त्यर्थं श्रुतावपेक्षितं पूरयति –
तथेति ।
प्राणे शरी­र­स्या­न्त­र्भा­वा­भा­वेऽपि प्राणा­धी­ना­स्थि­ति­क­त्व­मा­त्रे­णा­न्न­त्व­वि­व­क्षेति भावः ।

'प्राणो वा अन्नम्’ इत्यादेः फलितार्थकथनपरम् ‘तदेतदन्नम्’ इति वाक्यं व्याचष्टे –
तत्तस्मादिति ।

उभयमिति ।
प्रकृ­त­त्वा­वि­शे­षा­दिति भावः ।

श्रुतावपेक्षितं पूरयति –
अन्नादं चेति ।
यत उभ­य­म­प्य­न्न­म­न्नादं च तस्मादन्नमन्ने प्रतिष्ठितम् अन्ना­द­श्चा­न्नादे प्रतिष्ठित इति पर्यवसितार्थ इति भावः ।

उभयोरप्यन्नत्वे अन्नादत्वे च श्रुत्युक्तं नियामकं विशदयति –
येनेति ।

फलितं स्वयमुपसंहरति –
तस्मादिति ।

उभ­यो­र­न्ना­न्ना­द­त्व­गो­च­र­मु­पा­सनं विधत्ते –
स य इति ।

अन्ना­न्ना­दा­त्म­नै­वेति ।
शरी­र­प्रा­णा­त्म­नै­वे­त्यर्थः । प्रतितिष्ठति, चिरं जीवतीति यावत् ॥

शरी­र­प्रा­णो­भ­य­म­न्ना­न्ना­द­त्व­गु­ण­क­मु­पा­सी­न­स्या­न्ना­प­रि­हा­राख्ये व्रते विवक्षिते सत्य­र्था­द­न्न­स्तु­ति­रपि पूर्ववल्लभ्यत इत्याशयेनाह –
पूर्व­व­त्स्तु­त्य­र्थ­मिति ।

आर्थि­क­स्तु­ति­ला­भ­प्र­का­र­मेव दर्शयति –
तदेवेति ।
तदे­वा­न्न­म­प­रि­ह्रि­य­माणं सत्स्तुतं स्यादिति सम्बन्धः ।

स्तुतमित्यस्य विवरणम् –
महीकृतमिति ।
लोको ह्यन्ने शुभाशुभशब्दितौ गुणदोषौ कल्पयित्वा गुण­व­द­न्न­मु­पा­दत्ते दोषवदन्नं परिहरति, तथा न परिहरेदिति व्रतोपदेशः । अत्रा­शु­भ­प­द­म­न्न­ग­ता­व­र­त्व­रू­प­दो­ष­परं न शास्त्री­य­दो­ष­प­रम् , तस्मिन्सति पीरि­हा­रा­व­श्य­म्भा­वा­दिति मन्तव्यम् ।

'प्राणो वा अन्नम्’ इत्या­दि­वा­क्य­व्या­ख्या­न­प्र­का­र­म­न्य­त्रा­ति­दि­शति –
एवं यथोक्तमिति ।
'आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र शरी­रा­दि­स­ङ्घा­ता­न्तः­प्र­वि­ष्ट­मेव जलं तेजश्च गृह्यते प्राण­श­री­र­स­म­भि­व्या­हा­रात् । एवम् ‘पृथिवी वा अन्नम् , आकाशोऽन्नादः’ इत्यत्रापि पृथिव्याकाशयोः शरी­रा­दि­स­ङ्घा­ता­न्तः­प्र­वि­ष्ट­यो­रेव ग्रहणं विवक्षितमिति मन्तव्यम् ॥

तथेति ।
अन्ना­न्ना­द­त्व­गु­ण­क­त्वेन पृथि­व्या­का­श­द्व­यो­पा­स­कस्य स्वगृहे वासार्थमागतं न निवा­र­ये­दि­त्ये­त­द्व्र­त­मि­त्यर्थः ।

बह्वन्नसङ्ग्रहे वस­त्य­र्थ­मा­ग­ता­ना­म­प्र­त्या­ख्या­न­रूपं व्रतमेको हेतुरुक्तः ; तत्रैव विद्वदाचाररूपं हेत्वन्तरमाह –
यस्मादिति ।

एवं सङ्गृहीतमन्नं सर्वदा पूजा­पु­रः­स­र­मे­वा­र्थिभ्यो देयं नान्यथा ‘श्रद्धया देयम्’ इत्या­दि­द­र्श­ना­दि­त्या­श­ये­नाह –
अपि चान्नदानस्येति ।

तत्र मानं पृच्छति –
कथमितीति ।

श्रुत्योत्तरमाह –
तदेतदाहेति ।

मुख्यामेव वृत्तिं विवृणोति –
पूजेति ॥

यथोक्तमिति ।
कार्य­क­र­ण­स­ङ्घा­तो­प­च­या­दि­द्वारा ब्रह्म­वि­द्या­सा­ध­न­त्व­रू­प­मि­त्यर्थः । फलं च वेदेति सम्बन्धः ।

श्रुतौ ‘य एवं वेद’ इत्य­स्या­पे­क्षितं पूरयति –
तस्येति ।
यथोक्तम् अन्न­दा­ना­दि­फ­ल­मि­त्यर्थः ।

'प्राणो वा अन्नम्’ इत्या­र­भ्या­ब्र­ह्मो­पा­स­ना­न्यु­क्ता­नीति सूचयति –
इदानीमिति ।

उपा­त्त­प­रि­र­क्ष­ण­मिति ।
स्थित­प­रि­पा­ल­न­मि­त्यर्थः ।

योगक्षेम इतीति ।
प्राणे योगरूपेण अपाने क्षेमरूपेण च ब्रह्म प्रति­ष्ठि­त­मि­त्यु­पा­स्य­मिति विभागः ।

प्राणा­पा­न­यो­र्यो­ग­क्ष­म­रू­पेण ब्रह्म­दृ­ष्ट्या­ल­म्ब­नत्वे हेतुमाह –
तौ हीति ।

ननु यदि प्राणापानाधीनौ योगक्षेमौ तर्हि तावेव प्राणा­पा­न­यो­र्द्र­ष्टव्यौ न तु ब्रह्मे­त्या­श­ङ्क्याह –
तथापीति ।
प्राणा­पा­न­नि­मि­त्त­क­त्वेऽ­पी­त्यर्थः ।

ब्रह्म­नि­मि­त्ता­विति ।
ब्रह्म­नि­मि­त्ता­व­पी­त्यर्थः । ब्रह्मणः सर्व­फ­ल­दा­तृ­त्वस्य शास्त्र­सि­द्ध­त्वा­दिति भावः ।

ब्रह्म­नि­र्व­र्त्य­त्वा­दिति ।
ब्रह्मणः कारयितृत्वादिति भावः । विमु­क्ति­र्वि­सर्गः ।

मानुष्य इत्यस्य पर्यवसानमाह –
आध्यात्मिक्य इति ॥

पुत्रेणेति ।
पुत्रजन्मना पितृ­ऋ­ण­मो­क्ष­द्वा­रेण या पितु­र­मृ­त­त्व­प्राप्तिः सा अत्रामृतपदेन विव­क्षि­ते­त्यर्थः ।

उप­स्थ­नि­मि­त्त­मिति ।
यस्मा­दे­त­त्स­र्व­मु­प­स्थ­हे­तुकं तस्मादनेनैव रूपेण ब्रह्म तत्र स्थित­मि­त्यु­पा­स्य­मि­त्यर्थः । इदमुपासनम् ‘विमुक्तिरिति पायौ’ इत्यत्रैव द्रष्टव्यम् । आध्या­त्मि­क­त्वात् ।

सर्वं हीति ।
हि यस्मा­त्स­र्व­मा­काशे प्रतिष्ठितं तस्मा­द्य­त्स­र्व­मा­काशे वर्तते तत्स­र्व­रू­पे­णा­काशे ब्रह्मैव प्रति­ष्ठि­त­मि­त्यु­पा­स्य­मि­त्यर्थः ।

'तत्प्र­तिष्ठा...’ इत्यत्र ब्रह्मा­भि­न्न­मा­का­श­मु­पास्यं केव­ल­स्या­का­श­स्यो­पा­स्य­त्वा­यो­गा­दि­त्या­श­येन तस्य ब्रह्मा­भि­न्न­त्व­माह –
तच्चेति ।
सर्वाश्रयत्वेन प्रकृतमित्यर्थः ।

तस्मात्तदिति ।
व्याप­क­त्व­नि­र्ले­प­त्व­नि­र­व­य­व­त्व­सू­क्ष्म­त्व­स­र्वा­श्र­य­त्वा­दि­रू­प­ल­क्ष­ण­सा­म्ये­ना­का­शस्य ब्रह्मा­भि­न्न­त्व­स­म्भ­वा­त्त­द्ब्र­ह्म­भू­त­मा­का­श­मि­त्यर्थः ।

प्रतिष्ठावानिति ।
अन्नपानादिभिः स्थिति­मा­नि­त्यर्थः ।

ननु ‘क्षेम इति वाचि’ इत्यादौ फलाश्रवणात्कथं तदुपासनेषु प्रवृ­त्ति­रि­त्या­श­ङ्क्याह –
यद्यत्रेति ।
यत्र वागादौ यत्फलं कार्यं क्षेमादिकं श्रुतं तद्रूपेण ब्रह्मै­वो­पा­स्य­मि­त्यु­क्त­मि­त्यर्थः ।

ततः किम् ? अत आह –
तदुपासनादिति ।
क्षेमादिगुणेन ब्रह्मो­पा­स­ना­त्क्षे­मा­दि­मा­नेव भव­त्यौ­चि­त्या­दिति द्रष्ट­व्य­मि­त्यर्थः ।

अत्रार्थे श्रुतिमप्याह –
श्रुत्य­न्त­रा­च्चेति ।

तदेवेति ।
तदनुरूपमेव फलं भवतीत्यर्थः । ‘तन्महः’ इत्यादौ तत्पदं ब्रह्मपरम् ; तथा च वार्त्तिकम् - ‘तद्ब्रह्म मह इत्येवमुपासीत ततः फलम्’ इत्यादि ॥

परिबृढतममिति ।
विरा­डा­त्म­क­मि­त्यर्थः ।

ब्रह्मवानिति ।
ब्रह्मणो विराजो यो गुणो भोगः तद्वा­न्भ­व­ती­त्यर्थः ।

परस्येति ।
परस्य मायोपाधिकस्य ब्रह्मणः स्वरूपतयोक्तं यदाकाशं तदाकाशं परि­म­र­त्व­गु­ण­क­मु­पा­सी­ते­त्यर्थः ।

आकशस्य परि­म­र­त्व­गु­णो­प­पा­द­नाय प्रथमं वायोः परिमरत्वमाह –
परिमर इत्यादिना ।

श्रुत्यन्तरेति ।
वायुं प्रकृत्य ‘तमेताः पञ्च देवता अपियन्ति’ इत्या­दि­श्रु­त्य­न्त­र­प्र­सि­द्धे­रि­त्यर्थः ।

इदानीमाकाशस्य परिमरत्वं साधयति –
स एवायमिति ।
वायुं प्रत्याकाशस्य कार­ण­त्वा­द्वा­य्व­न­न्य­त्व­मि­त्यर्थः । तं वाय्वा­त्मा­न­मा­काशं ब्रह्मणः स्वरूपभूतं परि­म­र­त्व­गु­ण­क­मु­पा­सी­ते­त्यर्थः ।

सपत्ना द्विविधाः - द्विष­न्तोऽ­द्वि­ष­न्तश्च ; ततः सपत्नानां द्विषन्त इति विशेषणमित्याह –
द्विषन्त इत्यादिना ।

अद्विषन्तोऽपि चेति ।
एन­म­द्वि­ष­न्तोऽ­पी­त्यर्थः ॥

प्राण­श­री­रा­दे­र­न्ना­न्ना­द­त्व­नि­रू­प­णस्य विवक्षितं तात्पर्यं कथयितुं व्यवहितं तदनुवदति –
प्राणो वा अन्नमित्यादिना ।
‘आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र आपः शरीरारम्भिका विवक्षिताः, ज्योतिश्च जाठरं शरीरारम्भकं वा विवक्षितम् । एवं पृथिव्याकाशावपि शरीरारम्भकावेव विवक्षितौ, प्राण­री­र­स­म­भि­व्या­हा­रे­णा­बा­दी­ना­मा­ध्या­त्मि­क­त्वा­व­ग­मात् ; ततश्च शरीरप्राणादीनां प्रत्य­गा­त्मो­पा­धि­भू­ता­ना­मेव ‘प्राणो वा अन्नम्’ इत्यादिना भोग­सा­ध­न­त्व­रू­प­म­न्नत्वं भोक्तृ­त्व­रू­प­म­न्ना­दत्वं चोक्तमित्यर्थः ।

उक्तं नाम, किं तेनेति ।
उक्तमस्तु नाम, तेनोक्तेन किं तव प्रयोजनं सिध्यति यदर्थं तदि­हा­नू­दि­त­मि­त्यर्थः ।

तदुक्तिसिद्धं प्रयोजनं कथयति –
तेनैतदिति ।
भोक्तृ­भो­ग्य­भा­वा­दि­रूपः सर्वोऽपि संसारः कार्या­त्म­को­पा­धि­धर्म एव नात्मधर्म इत्यात्मनो नित्यमुक्तत्वं सिध्यतीत्यर्थः ।

ननु यदि संसारस्य कार्यनिष्ठत्वं श्रुत्यभिमतं तदा जीवात्मापि शरी­र­प्रा­णा­दि­व­त्का­र्य­वि­शेष एवेति तस्य स्वाभाविकः संसारो न भ्रान्तिसिद्ध इति शङ्कते –
नन्वात्मापीति ।
आत्मा कार्यं विभ­क्त­त्वा­दा­का­शा­दि­व­दि­त्यर्थः ।

आग­म­बा­धि­त­म­नु­मा­न­मि­त्या­श­येन निराकरोति –
नेति ।
असंसारिणः परस्यैव जीवरूपेण प्रवे­श­श्र­व­णा­त्प­र­जी­व­यो­रे­क­त्व­म­व­ग­म्यते, ततो नात्मनः कार्य­त्व­मि­त्यर्थः ।

सङ्ग्रहं विवृणोति –
तत्सृ­ष्ट्वे­त्या­दिना ।

न केवलमसंसारिणो जीवरूपेण प्रवे­श­श्र­व­णा­ल्लि­ङ्गा­त्प­रे­त­रा­त्म­नो­रे­क­त्व­नि­श्चयः, किं तु क्त्वाश्रु­ति­ब­ला­द­पी­त्याह –
सृष्ट्वेति ।
स्रष्टा तावत्परमात्मेति निर्विवादम् ; प्रविष्टस्य च ‘पश्य­ञ्शृ­ण्व­न्म­न्वानः’ इत्यादौ संसा­रि­त्व­श्र­व­णा­त्प्र­वेशे जीवः कर्ता सिद्धः ; तथा च क्त्वाश्रुत्या तयोरेकत्वं निश्चीयते, इतरथा कर्त्रै­क्या­भा­वेन क्त्वाश्रु­ति­वि­रो­ध­प्र­स­ङ्गा­दि­त्यर्थः ।

यदुक्तमसंसारिण एव प्रवे­श­श्र­व­णा­त्प­रे­त­रा­त्म­नो­रे­क­त्व­मिति, तत्र शङ्कते –
प्रविष्टस्येति ।
प्रविष्टस्य बुद्ध्या­दि­का­र्ये­षू­पा­दा­न­तया सृष्टिसमय एव सिद्धस्य परस्य जीव­रू­प­भा­वा­न्त­रा­त्मना परिणतिरेव प्रवेशो विवक्षितः, अतो न प्रवे­श­लि­ङ्गा­त्त­यो­रे­क­त्व­सि­द्धि­रि­त्यर्थः ।

अस्य चोद्यस्य प्रागेव निरासपूर्वकं प्रवे­श­प­द­स्या­र्था­न्त­र­प­र­त्वेन व्याख्या­त­त्वा­न्नै­व­मिति परिहरति –
न, प्रवेशस्येति ।

ननु जीवरूपेण परिणामं विनैव परस्य बुद्धि­स­म्ब­न्धा­त्सं­सा­रि­त्वेन भानमेव प्रवेशपदार्थ इति पूर्व­व्या­ख्या­न­म­यु­क्त­मिति शङ्कते –
अनेनेति ।

धर्मान्तरेणेति ।
जीव­रू­प­वि­का­रा­न्त­रा­त्म­नैव प्रवेशो न त्वविकृतस्यैव परस्य, अन्यथा जीवेनेति विशे­ष­ण­वै­य­र्थ्या­प­त्ते­रि­त्यर्थः ।

यदि जीवेनेति विशे­ष­ण­ब­ला­ज्जी­वस्य ब्रह्मविकारत्वं तत्राभिप्रेतं स्यात्तदा वाक्यशेषविरोधः प्रसज्येतेति दूषयति –
न, तत्त्वमसीतीति ।
जीव­स्या­का­शा­दि­व­द्वि­का­रत्वे तस्य ब्रह्मै­क्यो­प­दे­श­वि­रोध इत्यर्थः ।

अभे­दो­प­दे­श­स्या­न्य­था­सि­द्धि­मा­श­ङ्कते –
भावान्तरेति ।
जीवलक्षणं भावान्तरं विका­रा­न्त­र­मा­प­न्न­स्यैव सतः परस्य संसा­रि­त्व­प्राप्तौ तदपोहार्था जीव­प­र­यो­र­भे­द­ध्या­न­ल­क्षणा सम्पत् ‘तत्त्वमसि’ इत्युपदिश्यते, न पुनर्जीवस्य ब्रह्म­वि­का­र­त्व­वि­रु­द्धम् ऐक्यमुपदिश्यते, अतो न वाक्यशेषविरोध इत्यर्थः ।

'तत्त्व­मसि’ इति वाक्यस्य सम्प­दु­पा­स­ना­प­रत्वे माना­भा­वा­ज्जी­वस्य विकारत्वे नाशापत्त्या ‘न जीवो म्रियते’ इति वाक्य­शे­ष­वि­रो­धा­द्वा­स्त­वस्य संसारस्य सम्प­दा­पो­हा­स­म्भ­वाच्च ‘तत्त्वमसि’ इत्यैक्योपदेश एव ‘सोऽयं देवदत्तः’ इतिवदिति परिहरति –
न, तत्सत्यमिति ।

ननु जीवस्य ब्रह्मत्वं संसा­रि­त्वा­नु­भ­व­वि­रु­द्धम् , अतो जीवस्य विका­र­त्वा­भा­वेऽपि ब्रह्म­भि­न्न­त्वा­त्स­म्प­त्प­र­मेव ‘तत्त्वमसि’ इति वाक्यमित्याशयेन शङ्कते –
दृष्टमिति ।
आत्मनः संसा­रो­प­ल­ब्धृ­त्वान्न संसा­र­ध­र्म­क­त्व­मु­प­ल­भ्य­मा­नस्य नील­पी­ता­दे­रु­प­ल­ब्धृ­ध­र्म­त्वा­द­र्श­ना­दि­त्यर्थः ।

संसारस्य रूपा­दि­वै­ल­क्षण्यं शङ्कते –
संसारधर्मेति ।
'अहं सुखदुःखादिमान्’ इति संसा­र­स्या­त्म­ध­र्म­त्व­म­नु­भू­यते ; स चानुभवो बाध­का­भा­वा­त्प्र­मैव ; ‘गौरोऽहम्’ ‘नीलोऽहम्’ इत्या­द्य­नु­भ­वस्तु जीवस्य देह­व्य­ति­रि­क्त­त्व­सा­ध­क­श्रु­ति­यु­क्ति­बा­धितः ; अतो न रूपादितुल्यत्वं संसा­र­स्ये­त्यर्थः ।

आत्मनि संसा­र­स्या­प्य­स­ङ्ग­त्वा­दि­श्रु­ति­बा­धि­त­त्वस्य समा­न­त्वा­न्ना­त्मनः संसारित्वं परमार्थम् , अतो नाभे­द­श्रु­त्य­नु­प­प­त्ति­रि­त्या­श­येन परिहरति –
नेति ।

किं चात्म­ध­र्म­त्वे­ना­भि­म­तस्य सुख­दुः­खा­दे­रा­त्मना सहाभेदो भेदो वा ? आद्ये न संसा­र­स्या­त्म­ध­र्म­त­यो­प­ल­भ्य­मा­नता सिध्यतीत्याह –
धर्माणामिति ।

अव्यतिरेकादिति ।
अव्य­ति­रे­का­भ्यु­प­ग­मा­दि­त्यर्थः । अभेदपक्षे धर्मा­णा­मु­प­ल­ब्धि­क­र्तृ­को­टि­प्र­वि­ष्ट­त्वा­दु­प­ल­ब्धि­क­र्म­त्वा­नु­प­प­त्ति­रि­त्यर्थः । भेदपक्षे न संसा­र­स्या­त्म­ध­र्मत्वं सिध्यति । तयोः सम्ब­न्धा­नि­रु­प­णात् समवायस्य सूत्रकारेणैव निर­स्त­त्वा­दि­त्य­न्यत्र विस्तरः ।

अभेदे कर्तृ­क­र्म­भा­वा­नु­प­प­त्ति­रि­त्यत्र दृष्टान्तमाह –
उष्णेति ।

'तत्त्व­मसि’ इत्य­भे­दो­प­दे­श­स्या­त्मनि संसा­रि­त्व­ग्रा­ह­क­प्र­त्य­क्ष­वि­रोधं परिहृत्य तत्र तद्ग्रा­ह­का­नु­मा­न­वि­रो­ध­मा­शङ्क्य परिहरति –
त्रासा­दि­द­र्श­ना­दि­त्या­दिना ।

त्रासा­दे­स्त­द­नु­मे­य­दुः­खा­देश्च दृश्यत्वेन वस्तुतो द्रष्टृ­ध­र्म­त्वा­स­म्भ­वस्य प्रागे­वो­क्त­त्वा­दि­त्या­श­ये­नाह –
न, त्रासादेरिति ।

'तत्त्व­मसि’ इत्यभेदोपदेशस्य शास्त्रा­न्त­र­वि­रो­ध­मा­शङ्क्य निराकरोति –
कापिलेत्यादिना ।
कापि­ला­दि­शास्त्रे हि प्रतिशरीरं वस्तुत आत्मभेदः, तेषां च परमार्थ एव ब्रह्मभेदः, संसारित्वं च तेषां वास्त­व­मि­त्या­दि­प्र­क्रिया दृश्यते ; ततो निष्प्र­प­ञ्च­ब्र­ह्मा­त्मैक्यं प्रतिपादयत आगमस्य तर्क­शा­स्त्र­वि­रो­धा­द­प्रा­माण्यं स्यादिति शङ्कार्थः ।

कापि­ला­दि­त­र्क­शा­स्त्राणां मूल­प्र­मा­ण­शू­न्य­त्वस्य तर्कपादे प्रति­ष्ठा­पि­त­त्वा­त्पौ­रु­षे­याणां तेषां वेद­व­त्स्व­तः­प्र­मा­ण्या­यो­गा­च्चे­त्या­श­ये­नाह –
मूलाभाव इति ।

श्रुतिविरोधे स्मृत्य­प्रा­मा­ण्यस्य पूर्वतन्त्रे व्यव­स्था­पि­त­त्वाच्च न तद्वि­रो­धा­च्छ्रु­त्य­प्रा­मा­ण्य­प्र­सङ्ग इत्याशयेनाह –
वेदविरोधे चेति ।
भ्रान्त­त्व­म­प्रा­मा­ण्यम् ।

उप­पा­दि­त­म­र्थ­मु­प­सं­ह­रति –
श्रुत्यु­प­प­त्तिभ्यां चेति ।
एवमविकृतस्यैव ब्रह्मणो जीवभावेन प्रवे­शा­दि­श्रुत्या दृश्य­त्वा­द्यु­प­पत्त्या च निश्चि­त­म­सं­सा­रि­त्व­मा­त्मन इत्यर्थः ।

एकत्वाच्चेति ।
आत्मनः परे­णै­क­त्वा­च्चा­सं­सा­रित्वं पर­स्या­सं­सा­रि­त्वा­दि­त्यर्थः ।

एकत्वे मानं पृच्छति –
कथमिति ।

उत्तरश्रुतिरेव मानमित्याशयेनाह –
उच्यत इति ॥

उपसङ्क्रम्येति ।
विद्यया कोशे­ष्वा­त्म­त्व­भ्र­म­म­पो­ह्येति यावत् ।

उप­स­ङ्क्र­म्ये­त्यस्य व्यवहितेन सम्बन्धमाह –
एतत्सामेति ।

'इमाँ­ल्लो­कान्’ इत्यादेः सङ्गतिकथनाय व्यवहितमनुवदति –
सत्यमित्यादिना ।
'सत्यं ज्ञानम् - - ‘ इति मन्त्रस्य पूर्वार्धार्थो विस्तरेण व्याख्यात इत्यर्थः ।

'स य एवं वित्’ इत्यादिना विदुषो वागा­द्य­गो­च­र­ब्र­ह्मा­न­न्द­प्रा­प्ते­रु­क्त­त्वा­द­र्था­द्ब्र­ह्म­व­ल्ल्या­मपि सर्वा­त्म­क­ब्र­ह्म­भा­वा­प­त्ति­प्र­युक्ता सर्वकामाप्तिः सङ्ग्र­हे­णो­क्तै­वेति मत्वाह –
विस्तरेणेति ।

इत्थं वृत्त­म­नू­द्या­का­ङ्क्षा­पू­र्व­कम् ‘इमाँल्लोकान्’ इत्या­दि­क­म­व­ता­र­यति –
के त इत्यादिना ।

तत्र कामानां स्वरूपे आकाङ्क्षां दर्शयति –
के त इति ।

कामानां कारणे तां दर्शयति –
किंविषया इति ।

साहित्ये कामानामशने च तां दर्शयति –
कथं वेति ।
इत्या­का­ङ्क्षायां सत्या­मे­त­द्वि­द्या­फलं विस्तरेण वक्त­व्य­मि­त्या­श­ये­नो­त्तरं वाक्यजातं पठ्यत इत्यर्थः ।

एव­मु­त्त­र­ग्र­न्थस्य व्यवहितया आनन्दवल्ल्या सङ्गतिमुक्त्वा अव्य­व­हि­त­भृ­गु­व­ल्ल्यापि सङ्गतिं वक्तुम् ‘भृगुर्वै वारुणिः’ इत्यादौ वृत्तं कीर्तयति –
तत्रेत्यादिना ।

अन्ना­न्ना­द­त्वे­नेति ।
अन्ना­न्ना­द­भा­वे­नो­पा­सने उपयोगश्चोक्त इत्यर्थः ।

'क्षेम इति वाचि’ इत्या­दा­वु­क्त­म­नु­व­दति –
ब्रह्मविषयेति ।

तेषूपासनेषु विव­क्षि­ता­न्फ­ल­वि­शे­षा­नपि काम­श­ब्दे­ना­नु­व­दति –
ये चेति ।

प्रतिनियता इति ।
तत्तदुपासनभेदेन व्यवस्थिता इत्यर्थः ।

तेषां मुक्ति­वै­ल­क्षण्यं सूचयति –
अनेकेति ।
नाना­वि­धो­पा­य­साध्या इत्यर्थः ।

अत एव तेषा­म­वि­द्या­का­लि­क­त्व­माह –
आकाशादीति ।
आकाशादयो ये अविद्यायाः कर्य­भे­दा­स्त­द्वि­ष­या­स्त­त्साध्या एव ते अविद्यावस्थायां दर्शिताः, न तु विद्यावस्थायाम् , विद्यावस्थायां त्वत्रापि वल्ल्याम् ‘स एकः, स य एवंवित् ‘ इत्यादौ पूर्वोक्तमेव ‘सोऽश्नुते सर्वा­न्का­मा­न्सह’ इति फलं तात्पर्यतो दर्शितमिति भावः ।

इत्थमस्यामपि वल्ल्यां वृत्तानुवादेन फलवचनानुवृत्तिं सूचयित्वा तत्रा­नु­प­प­त्ति­मु­द्भा­व­यति –
एकत्वे पुनरिति ।
स्वस्य ब्रह्मणा एकत्वे साक्षात्कृते सति काम­यि­त­व्य­स्या­का­शा­दि­भे­द­जा­तस्य तत्सा­ध्य­का­म­जा­तस्य च सर्व­स्या­त्म­व्य­ति­रे­के­णा­भा­वा­त्पू­र्वा­व­स्था­या­मिव पुनः कामान्प्रति कामि­त्वा­नु­प­प­त्ते­रि­त्यर्थः ।

एवमेकत्वे कामि­त्वा­नु­प­पत्तौ सत्यां फलितमाह –
तत्र कथमिति ।
एकत्वं कामि­त्वा­नु­प­प­त्ति­र्वि­द्या­वस्था वा तत्र-शब्दार्थः । अविद्यालेशवशेन प्रप­ञ्चा­भा­स­म­नु­भ­व­न्वि­द्वान् ‘सर्व­स्या­त्मा­हम्’ इति मन्य­मा­नोऽ­णि­मा­द्यै­श्व­र्य­भुजां योगिनां यत्कामान्नित्वं कामरूपित्वं चास्ति तन्ममैवेति पश्य­न्यु­ग­प­त्स­र्वा­न्वि­ष­या­न­न्दा­न­श्नुत इत्युपचर्यते । विवक्षितं तु विद्याफलं सर्वा­त्म­क­ब्र­ह्म­भा­व­मा­त्रम् । अत एव श्रुत्यन्तरम् - ‘ब्रह्मैव भवति’ इति ।

अतो न फलवचने त्वदु­क्ता­नु­प­प­त्ति­र्दोष इत्यु­त्त­र­ग्र­न्थ­ता­त्प­र्येण समाधत्ते –
उच्यत इति ।

तत्राहेति ।
श्रुतिरिति शेषः ।

पूर्वग्रन्थेऽपि विदुषः सार्वा­त्म्य­म­र्थ­सि­द्ध­मिति दर्शयन् ‘स यश्चायम्’ इत्यादौ वृत्तं कीर्तयति –
पुरुषेत्यादिना ।
पुरुषस्थस्य जीवात्मन आदित्यस्थस्य पर­मा­त्म­न­श्चो­त्क­र्षा­प­कर्षौ तत्प्रयोजकोपाधी च निर­स्यै­क­त्व­वि­ज्ञा­ने­ना­वि­द्या­क­ल्पि­ता­न­न्न­म­या­दी­ना­न­न्द­म­या­न्ता­न­ना­त्मनः क्रमे­णो­प­स­ङ्क्रम्य सत्य­ज्ञा­ना­दि­ल­क्षणं फल­भू­त­म­द्वै­त­मा­पन्नः सर्वात्मा सन्निति योजना ।

अद्वैतस्य ब्रह्मणः फलभूतत्वसिद्धये सुखरूपत्वमाह –
आनन्दमिति ।

तस्य तद­र्थ­मे­वा­न­र्था­स्पृ­ष्ट­त्व­माह –
अजममृतमभयमिति ।

तस्य परमार्थत्वमाह –
स्वाभाविकमिति ।

तदर्थं निर्विशेषत्वमाह –
अदृश्यादीति ।
सविशेषस्य दृश्यत्वनियमेन मिथ्यात्वादिति भावः ।

तस्य विका­र­त्व­ज­ड­त्व­प­रि­च्छे­दा­न्व्या­व­र्त­यति –
सत्यं ज्ञानमनन्तमिति ।

ननु विदुषः सर्वलोकसञ्चारो न नियत इत्याशङ्क्याह –
आत्म­त्वे­ना­नु­भ­व­न्निति ।
एतत्प्रकृतं ब्रह्म समत्वात्साम ।

समत्वमेवाह –
सर्वा­न­न्य­त्व­रू­प­मिति ।
सर्व्या­पि­स्व­रू­प­भू­त­मि­त्यर्थः ।

स्वनु­भ­व­सि­द्ध­स्या­त्मै­क­त्वस्य तज्ज्ञानफलस्य कृतार्थत्वस्य च ख्यापनं निष्फ­ल­मि­त्या­श­ङ्क्याह –
लोका­नु­ग्र­हा­र्थ­मिति ।
आत्मैकत्वज्ञानं विना न संसा­र­दा­वा­न­ल­शान्तिः, अतो यत्न­त­स्त­त्स­म्पा­द­नीयं सर्वैरिति ज्ञापनं लोकानुग्रहः ।

गानप्रकारमेव प्रश्नपूर्वकमाह –
कथमित्यादिना ।

हावुशब्दो विस्मयार्थः अभ्यासस्तु तत्रातिशयार्थ इति मत्वाह –
अत्यन्तेति ॥

क इति ।
किङ्कृत इत्यर्थः ।

सार्वा­त्म्य­प्रा­प्ति­कृतो विदुषो विस्मय इत्याह –
उच्यत इति ।

ननु नित्य­शु­द्धा­दि­रू­पस्य विदुषः कथ­म­न्ना­न्ना­द­रू­पेण सार्वा­त्म्य­मि­त्या­शङ्क्य विक्षे­प­श­क्ति­म­द­वि­द्या­ले­श­म­हि­म्ने­त्या­श­ये­नाह –
निरञ्जनोऽपि सन्निति ।
अन्नं भोग्यजातम् , अन्नादो भोक्ता, तयोः सङ्घातो नाम भोक्तृ­भो­ग्य­भा­व­ल­क्षणः सम्बन्धः, तत्कर्ता, सर्व­क­र्म­फ­ल­दा­तेति यावत् ।

तत्र सामर्थ्यं सूचयति –
चेतनावानिति ।
सर्वज्ञ इत्यर्थः ।

अथवेति ।
अथ वा अन्नस्यैव सङ्घातकृदिति योजना ।

नन्वनेकेषां मृत्तृ­ण­का­ष्ठा­दीनां गृह­प्रा­सा­दा­दि­रू­पेण सङ्घातकरणं दृष्टम् , तत्क­थ­मे­क­स्या­न्न­स्या­द­नी­यस्य सङ्घा­त­क­र­ण­मि­त्या­शङ्क्य विशिनष्टि –
अनेकात्मकस्येति ।
शरी­रे­न्द्रि­या­दि­रू­पेण परिणतिद्वारा अनेकात्मकस्य तस्य संह­ति­क­र­ण­मु­प­प­न्न­मि­त्यर्थः ।

शरीरप्राणादीनां मेलनरूपं सङ्घातं किमर्थमयं करोति ? तत्राह –
पारार्थ्येनेति ।
परस्य चेतनस्यार्थो भोगादिः तत्सि­द्ध्य­र्थ­त्वे­ने­त्यर्थः ।

ननु शरीरादिरूपेण परिणतस्यान्नस्य परार्थत्वे सिद्धे सति तादर्थ्येन संह­ति­क­र­ण­मि­त्यु­प­प­द्यते, तदेव कुतः सिद्धम् ? अत आह –
परार्थस्येति ।

तद्विशदयति –
अन्नादार्थस्य सत इति ।
भोक्त्रर्थस्य सत इत्यर्थः । जडस्य शरीरप्राणादेः काष्ठतृणादेरिव स्वार्थ­त्वा­यो­गा­च्चे­त­ना­र्थत्वं वक्तव्यमिति भावः । सत्त्यस्येति सच्च त्यच्च सत्त्यम् , सन्मूर्तं त्यदमूर्तमिति मूर्ता­मू­र्ता­त्म­कस्य ऋतशब्दितस्य जगत उत्पत्तेः पूर्व­मे­वो­त्पन्नो हिर­ण्य­ग­र्भ­श्चा­ह­म­स्मी­त्यर्थः ।

देवेभ्यश्च पूर्वमिति ।
हिर­ण्य­ग­र्भो­त्प­त्त्य­न­न्त­र­मि­न्द्रा­दि­दे­वेभ्यः पूर्वमुत्पन्नो विरा­ट्पु­रु­ष­श्चा­ह­म­स्मी­त्यर्थः ।

अमृतस्य नाभि­श्चा­ह­म­स्मीति श्रुतौ योजनां मत्वा विवृणोति -
अमृतत्वस्येति ।
सर्वेषां मुमुक्षूणां प्राप्तव्यं यदमृतत्वं तन्मत्संस्थं मत्स्वरूपमेव मम पर­मा­न­न्द­स्व­रू­प­त्वा­दि­त्यर्थः ।

ननु मां ददा­ती­त्य­नु­प­प­न्नम् , चिदेकरसस्य विदुषो देय­त्वा­यो­गा­दि­त्या­शङ्कां वारयति -
अन्नात्मनेति ।
‘अहमन्नम् ‘ इति प्रागु­क्त­त्वा­द­न्ना­त्मना स्थित्वा तथा­ब्र­वी­दि­त्यर्थः ।

इत्थमित्यस्य व्याख्यानम् –
यथाभूतमिति ।
अन्न­भू­त­मि­त्यर्थः । अन्नभूतं मां यो ददाति स एवं दद­त्स­न्मा­म­वि­नष्टं यथा भवति तथावतीत्यर्थः । दातुरन्नं वर्धत इत्यभिप्रायः ।

अदत्वेति ।
लोभादिनेति शेषः ।

प्रत्यद्मीति ।
भक्षयामीत्यर्थः । वैश्वदेवावसाने प्राप्ते­भ्योऽ­ति­थिभ्यो यथा­श­क्त्य­न्न­म­दत्वा भुञ्जानस्य गृहस्थस्य नरकपातो भवेदिति विवक्षितार्थः, अन्नभूतं मामदत्वा भक्षयन्तमहमपि भक्ष­या­मी­त्यु­क्त­त्वात् । मुक्तं प्रत्यदनीयतया अन्नभूतो यो नास्तिकः तस्यान्नस्यैव सतो मुक्तोऽप्यदनीयो भव­त्ये­वा­न्न­भू­त­त्वात् , तथा च नास्ति­कै­र्व्या­घ्रा­दि­भि­रि­वा­द्यस्य मुक्तस्य संसारादपि तीव्रतरं दुःखं प्रसज्येत ।

तथा च तदपेक्षया संसार एव श्रेयानिति मुमुक्षुः शङ्कते –
अत्राहेति ।

परिहरति –
मा भैषीरिति ।
सर्व­का­मा­श­न­श­ब्दि­त­स्या­न्ना­न्ना­द­भा­व­ल­क्ष­णस्य सर्वात्मभावस्य संव्य­व­हा­र­वि­ष­य­त्वा­त्क­ल्प­ना­मा­त्र­त्वान्न मुक्तस्य भय­ले­शोऽ­प्य­स्ती­त्यर्थः ।

अन्नादिभावस्य संव्य­व­हा­र­वि­ष­य­त्वेऽपि कथं मुक्तस्य भयाभाव इत्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति –
अती­त्या­य­मि­त्या­दिना ।
विद्वद्दृष्ट्या वस्तुतो भयहेतोरभावान्न तस्य भयमित्यर्थः । अयं विद्वा­न­वि­द्या­कृतं सर्वं विद्ययातीत्य बाधित्वा ब्रह्म­त्व­मा­पन्नो वर्तत इति योजना ।

ननु यदि मुक्तो ब्रह्मभावमापन्न एवोक्तरीत्या, तर्हीदम् ‘अहमन्नादः’ इत्यादिवचनं केनाभिप्रायेण प्रवृत्तमिति पृच्छति –
एवं तर्हि किमिति ।

ब्रह्म­भा­व­ल­क्ष­ण­मु­क्ति­स्तु­त्य­भि­प्रा­ये­णेदं वचनं प्रवृत्तमिति परिहरति –
उच्यत इति ।

प्रथ­म­म­न्ना­दि­भा­वस्य संव्य­व­हा­र­वि­ष­य­त्वा­दि­त्युक्तं मिथ्यात्वं साधयति –
योऽयमित्यादिना ।

न परमार्थेति ।
वाचा­र­म्भ­णा­दि­श्रु­ते­र्दृ­श्य­त्वा­दि­यु­क्ते­श्चेति भावः ।

इदानीं स्तुत्य­भि­प्रा­य­क­त्व­म­न्ना­दि­व­च­नस्य विवृणोति –
स एवंभूतोऽपीति ।
ब्रह्मनिमित्तः ब्रह्म­का­र­ण­कोऽ­न्ना­न्ना­द­भा­व­ल­क्षणः प्रपञ्चो व्यव­ह्रि­य­मा­णोऽपि ब्रह्म­व्य­ति­रे­केण वस्तु­ग­त्या­स­न्निति कृत्वा निश्चित्य स्थितस्य विदुषो योऽयं विद्याफलभूतो ब्रह्मभावः तस्य स्तुत्य­र्थ­म­न्ना­दि­व­च­नेन सार्वात्म्यं सर्व­का­मा­श­न­रू­प­मु­च्यते, न त्वन्ना­दि­भा­व­स्तस्य मुख्य इत्यर्थः ।

उपसंहरति –
अत इति ।
विद्या­ब­ला­द­वि­द्यो­च्छे­दा­द्ब्र­ह्म­भू­तस्य विदुषो नास्त्य­वि­द्या­नि­मित्तो भय­दुः­खा­दि­दो­ष­ले­शोऽ­पी­त्यर्थः ।

एवं मोक्ष­स्या­पु­रु­षा­र्थ­त्व­शङ्कां निराकृत्य पुनर्विदुषः स्तुत्य­र्थ­मु­प­क्षिप्तं सर्वा­त्म­भा­व­मे­वा­नु­स­र­न्नु­त्त­र­वा­क्य­मा­दत्ते –
अहं विश्वमिति ।

भुवनमिति ।
भूरा­दि­लो­क­जा­त­मि­त्यर्थः ।

ईश्वरेणेति ।
सर्व­ज­ग­त्सं­ह­र्तृ­रु­द्र­रू­पे­णा­ह­मे­वा­भि­भ­वामि संहरामीत्यर्थः ।

सुवर्न इत्यत्र नकार इवार्थ इत्याशयेनाह –
आदित्य इवेति ।

असकृदिति ।
सदेत्यर्थः । ज्योतिःपदं चैत­न्य­प्र­का­श­प­रम् ।

'इत्यु­प­नि­षत्’ इत्यस्यार्थमाह –
इतीयमिति ।
विहिता निरूपिता ।

'य एवं वेद’ इत्यत्र एवंशब्दार्थमाह –
भृगुवदिति ।
वेद, सम्पा­द­य­ती­त्यर्थः ।

यथोक्तमिति ।
ब्रह्म­भा­व­ल­क्ष­ण­मि­त्यर्थः ।

मङ्ग­ला­र्थ­मो­ङ्का­र­मु­च्चा­र­यति –
ओमितीति ॥

अन्न­प्रा­ण­म­नो­बु­द्धि­सुखैः पञ्चभिरुज्ज्वला ।
भगवत्यर्पिता जीयाद्वनमाला कृतिर्मम ॥ १ ॥
नारा­य­ण­प­द­द्वन्द्वं नार­दा­दि­भि­रा­दृ­तम् ।
नमामि शतशो नित्यं नमतां मुक्तिदायकम् ॥ २ ॥