अद्वैतशारदा

तैत्तिरीयोपनिषद्भाष्यवार्तिकम्

१ परिच्छेदः

तैत्ति­री­यो­प­नि­ष­द्भा­ष्य­वा­र्ति­कम्
सत्यं ज्ञान­म­न­न्त­मे­क­म­मलं ध्वस्तान्धकारं परं
निर्द्वैतं हृदि पद्ममध्यनिलयं निःशे­ष­धी­सा­क्षि­णम् ।
वेदा­न्तो­प­नि­वि­ष्ट­बो­ध­वि­षयं प्रत्यक्तया योगिनां
भक्त्या तं प्रणीपत्य वेदशिरसो वक्ष्यामि सद्वार्तिकम् ॥ १ ॥
यस्येदं सक­ला­म­ले­न्दु­कि­र­ण­प्र­ख्यै­र्य­शो­र­श्मिभि —
र्व्याप्तं यश्च कृपा­लु­ता­प­र­व­श­श्चक्रे हितं दुःखिनाम् ।
यद्वा­णी­कु­लि­शा­व­रु­ग्ण­म­तयः पेतु­र्दि­श­स्ता­र्किका
भक्त्या पूज्यतमं प्रणम्य तमहं तद्भाष्यनीतौ यते ॥ २ ॥
तैत्ति­री­य­क­सा­रस्य मयाऽऽ­चा­र्य­प्र­सा­दतः ।
विस्प­ष्टा­र्थ­रु­चीनां हि व्याख्येयं सम्प्रणीयते ॥ ३ ॥
दुरितक्षयहेतूनि नित्यानि ब्राह्मणो ययुः ।
काम्यानि चेह कर्माणि दृष्टा­दृ­ष्ट­फ­लानि तु ॥ ४ ॥
विद्या प्रस्तू­य­तेऽ­थोर्ध्वं यथा­भू­ता­र्थ­बो­धिनी ।
कर्मो­पा­दा­न­हे­तूं­स्ता­न्सै­वो­च्छे­त्तु­मलं यतः ॥ ५ ॥
स यथाकाम इत्येवं योऽकामश्चेति सादरम् ।
कामाकामैकहेतू नो बन्धमोक्षौ श्रुतिर्जगौ ॥ ६ ॥
अपविद्धद्वये तत्त्वे सर्व­दै­वा­त्म­रू­पके ।
विप­र्य­योऽ­न­भि­ज्ञा­ना­त्ततः कामः क्रियास्ततः ॥ ७ ॥
यद­ज्ञा­ना­त्प्र­वृ­त्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।
तस्मा­त्स­र्व­प्र­वृ­त्ती­ना­मलं विद्योपशान्तये ॥ ८ ॥
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्या­त्प्र­त्य­वा­य­जि­हा­सया ॥ ९ ॥
इति मीमांसकम्मन्यैः कर्मोक्तं मोक्षसाधनम् ।
प्रत्या­ख्या­याऽऽ­त्म­वि­ज्ञानं तत्र न्यायेन निर्णयः ॥ १० ॥
नैतदेवं भवेन्न्याय्यं विरु­द्ध­फ­ल­दा­यि­नाम् ।
सम्भवात्कर्मणां पुंसो भूयसां शास्त्रदर्शनात् ॥ ११ ॥
अनारब्धफलानीह सन्ति कर्माणि कोटिशः ।
तद्य इहेति वचसो गम्यतां कर्मणां स्थितिः ॥ १२ ॥
न चैकदेहे भोगोऽस्ति ब्रह्म­ह­त्या­श्व­मे­धयोः ।
विरु­द्ध­फ­ल­हे­तु­त्वा­न्मू­ढ­सा­त्त्वि­क­दे­हयोः ॥ १३ ॥
सप्तजन्मानुगं कार्यमेकस्यापीह कर्मणः ।
श्रूयते धर्मशास्त्रेषु किमु­ता­ने­क­क­र्म­णाम् ॥ १४ ॥
अना­र­ब्धे­ष्ट­का­र्याणां नित्यं चेद्ध्वस्तये मतम् ।
नैवं स्वात्मा­क्रि­या­हेतुं यतोऽनर्थं निहन्ति तत् ॥ १५ ॥
पापस्य कर्मणः कार्यं प्रत्य­वा­य­गि­रो­च्यते ।
नित्यै­र्वि­रो­धा­त्त­द्धा­निर्न त्विष्टफलदायिनः ॥ १६ ॥
कामश्च कर्मणो हेतु­स्त­स्यो­च्छि­त्तेर्न सम्भवः ।
प्रत्यग्बोधमृते यस्मा­द­स­म्य­गि­द­मु­च्यते ॥ १७ ॥
यद्ध्यनात्मफलं तस्मै कर्म सर्वं विधीयते ।
आप्तत्वादात्मनः कर्म नैव स्यादाप्तये ततः ॥ १८ ॥
नित्यानां चाक्रियाऽभावः प्रत्यवायस्ततः कुतः ।
न ह्यभा­वा­द्भ­वे­द्भावो मानं यस्मान्न विद्यते ॥ १९ ॥
पूर्वो­प­चि­त­क­र्म­भ्य­स्त­स्मा­त्क­र्ता­र­मेति या ।
प्रत्यवायक्रिया तस्या लक्षणार्थः शता भवेत् ॥ २० ॥
नित्यानामक्रिया यस्मा­ल्ल­क्ष­यि­त्वैति सत्वरा ।
प्रत्य­वा­य­क्रियां तस्मा­ल्ल­क्ष­णार्थे शता भवेत् ॥ २१ ॥
सर्वप्रमाणकोपः स्याद­भा­वा­द्भा­व­स­म्भवे ।
तस्मादयत्नतः स्थान­मा­त्म­नी­त्य­ति­पे­ल­वम् ॥ २२ ॥
निर्धूतातिशया प्रीतिः कर्महेतुरिति त्वया ।
यदभाणि तदन्याय्यं यथा तदभिधीयते ॥ २३ ॥
मुक्तेः कौट­स्थ्य­रू­प­त्वान्न तस्याः कर्म साधनम् ।
स्वर्गा­दि­व­द­नित्या स्याद्यदि स्यात्कर्मणः फलम् ॥ २४ ॥
अनि­त्य­फ­ल­दा­यित्वं ज्ञानहीनस्य कर्मणः ।
कूट­स्थ­फ­ल­दा­यित्वं विद्येतस्येति चेन्मतम् ॥ २५ ॥
नैवमारभ्यमाणस्य ह्यनि­त्य­त्व­स­म­न्व­यात् ।
न च प्राप्त­म­नि­त्यत्वं विद्या वारयितुं क्षमा ॥ २६ ॥
प्रध्वं­सा­भा­व­व­च्चे­त्स्यात् कर्मकार्यमपि ध्रुवम् ।
भावा­त्म­क­त्वा­न्मो­क्षस्य नैवमप्युपपद्यते ॥ २७ ॥
कार्यं प्रध्वं­स­तोऽ­न्य­द्य­त्त­द­नित्यं क्रियोत्थितेः ।
घटा­दि­व­त्प्र­ति­ज्ञायां विशि­ष्ट­त्वा­द­दो­षता ॥ २८ ॥
प्रध्वं­सा­च्छ­क­लादि स्यात्त­च्चा­नित्यं घटादिवत् ।
कल्प­ना­मा­त्र­तोऽ­भावो नैवारभ्यः स कर्मभिः ॥ २९ ॥
आवि­र्भा­व­ति­रो­भा­वै­र्ध­र्मिण्यां मृदि सर्वदा ।
धर्मा घटादयः सर्वे वर्तन्ते न त्वभावगाः ॥ ३० ॥
नास्त्यभावस्य सम्बन्धः क्रियया वा गुणेन वा ।
निरा­त्म­क­त्वा­न्नै­वालं सम्बद्धुं केनचित् क्वचित् ॥ ३१ ॥
तस्मा­त्स्या­त्क­ल्प­ना­मात्रो व्यव­हा­र­प्र­सि­द्धये ।
प्रध्वं­सा­दि­र­भा­वोऽयं शिला­पु­त्रा­दि­व­न्मृषा ॥ ३२ ॥
तस्मा­द­वि­द्या­व्यु­च्छित्तौ स्याद­व­स्था­न­मा­त्मनि ।
न चाविद्याप्रहाणं स्याद्ब्र­ह्म­वि­द्या­मृते क्वचित् ॥ ३३ ॥
तस्मा­द्वि­द्या­प्तये ज्ञेया प्रार­ब्धो­प­नि­ष­त्परा ।
सैवा­वि­द्या­प­नु­त्त्यर्था विद्या चैवात्मगामिनी ॥ ३४ ॥
विद्यासंशीलिनां यस्माद् गर्भ­ज­न्मा­द्य­शे­षतः ।
उपमृद्नाति विद्येयं तस्मादुपनिषद् भवेत् ॥ ३५ ॥
उपेत्य वा निषण्णं तच्छ्रेय आत्यन्तिकं यतः ।
तस्मा­दु­प­नि­ष­ज्ज्ञेया ग्रन्थस्तु स्यात्तदर्थतः ॥ ३६ ॥

प्रथमोऽनुवाकः
प्राण­वृ­त्ते­स्तथा चाह्नो देवता याऽभिमानिनी ।
मित्रः शं नः सुखं भूयादिति ब्रह्मेह याच्यते ॥ ३७ ॥
रात्रे­र­पा­न­वृ­त्तेश्च वरु­ण­श्चा­भि­मा­न­भाक् ।
शं नो भवतु सर्वत्र चक्षु­स्थ­श्चा­र्यमा रविः ॥ ३८ ॥
बले तु भगवानिन्द्रो वाचि बुद्धौ बृहस्पतिः ।
विष्णु­श्चो­रु­क्रमः शं नो विस्तीर्णक्रमणो ह्यसौ ॥ ३९ ॥
अध्यात्मदेवताः सर्वा मित्राद्याः शं भवन्तु नः ।
सुखकृत्सु हि तासु स्याद् विघ्नोपशमनं ध्रुवम् ॥ ४० ॥
श्रवणं धारणं चैवमुपयोगश्च सिद्ध्यति ।
ज्ञान­स्या­प्र­ति­ब­न्धेन प्रार्थनीयमतो भवेत् ॥ ४१ ॥
ब्रह्म­वि­द्यो­प­स­र्गाणां शान्त्यर्थं वायुरूपिणे ।
ब्रह्म­जि­ज्ञा­सुना कार्ये नम­स्का­रो­क्ति­क­र्मणी ॥ ४२ ॥
सर्व­क्रि­या­फ­लानां हि ब्रह्मा­धी­न­त्व­हे­तुतः ।
वायवे ब्रह्मणे तस्मै प्रह्वी­भा­वोऽस्तु सर्वदा ॥ ४३ ॥
परोक्ष्येण नमस्कृत्य प्रत्यक्षेण नमस्क्रिया ।
परो­क्ष­सा­क्षा­द्रू­पाभ्यां वायुरेवाभिधीयते ॥ ४४ ॥
प्रत्यक्षं ब्रह्म हे वायो त्वमेवासीति संस्तुतिः ।
त्वामेवातो वदिष्यामि साक्षा­त्त्व­मु­प­ल­भ्यसे ॥ ४५ ॥
यथाशास्त्रं यथाकार्यं बुद्धौ सुपरिनिश्चितम् ।
ऋतं तत्त्व­द­धी­न­त्वाद् वदिष्यामीति सङ्गतिः ॥ ४६ ॥
प्रयोगस्थं तदेवर्तं सत्य­मि­त्य­भि­धी­यते ।
तदपि त्वदधीनत्वाद् वदिष्याम्येव साम्प्रतम् ॥ ४७ ॥
विद्यार्थिना स्तुतं सन्मां ब्रह्मावतु गुरुं च मे ।
विद्या­ग्र­ह­ण­व­क्तृ­त्व­श­क्तिभ्यां नौ सदाऽवतु ॥ ४८ ॥
विद्या­प्रा­प्त्यु­प­स­र्गाणां त्रिः शान्तिरभिधीयते ।
आचा­र्य­शि­ष्य­यो­स्तस्यां ब्रह्म ज्ञातुं हि शक्यते ॥ ४९ ॥
इति प्रथमोऽनुवाकः ॥ १ ॥

द्वितीयोऽनुवाकः
अर्थ­ज्ञा­न­प्र­धा­न­त्वाद् वेदान्तानां विपश्चिताम् ।
पाठे त्वयत्नो मा प्रापदिति शिक्षाऽभिधीयते ॥ ५० ॥
शिक्ष्यते ज्ञायते साक्षाद् वर्णा­द्यु­च्चा­रणं यया ।
स्याद्वा कर्मणि शिक्षेति व्याख्या­स्या­मोऽ­धुना तु ताम् ॥ ५१ ॥
अका­रा­दि­र्भ­वे­द्वर्ण उदात्तादिः स्वरस्तथा ।
ह्रस्व­दी­र्घ­प्लुता मात्राः प्रयत्नश्च बलं स्मृतम् ॥ ५२ ॥
समता साम वर्णानां वैषम्यस्य विवर्जनम् ।
सन्तानः संहिता तु स्यादिति शिक्षोपदिश्यते ॥ ५३ ॥
इति द्वितीयोऽनुवाकः ॥ २ ॥

तृतीयोऽनुवाकः
सूक्ष्मा­र्था­नु­प्र­वे­शाय बहि­ष्प्र­व­ण­चे­त­साम् ।
संहिताविषयं ताव­त्स्थू­लो­पा­स­न­मु­च्यते ॥ ५४ ॥
संहि­ता­दि­नि­मित्तं यद्यशस्तन्नौ सहास्त्विति ।
आचा­र्य­शि­ष्य­यो­स्त­द्वद् ब्रह्म­व­र्च­स­मा­वयोः ॥ ५५ ॥
यशःख्यातिः प्रकाशः स्याद् वृत्त­स्वा­ध्या­य­हे­तु­जम् ।
ब्रह्म­व­र्च­स­मि­त्या­हु­स्तेजो यत्तन्निबन्धनम् ॥ ५६ ॥
शिष्य­स्याऽऽ­शी­रियं ज्ञेया नाऽऽचार्यस्य कृतार्थतः ।
अना­प्त­पु­रु­षा­र्था­ना­मा­शी­र्वादो हि युज्यते ॥ ५७ ॥
वेदा­ध्य­य­न­वि­ज्ञा­ना­द­न­न्त­र­मिदं यतः ।
नेदीयः संहि­ता­ज्ञा­न­म­त­स्त­द­भि­धी­यते ॥ ५८ ॥
संहिताविषयं ज्ञान­मि­हो­प­नि­ष­दु­च्यते ।
पञ्चाधिकरणां तां तु व्याख्या­स्या­मोऽ­धुना स्फुटम् ॥ ५९ ॥
अधि­लो­क­म­धि­ज्यो­ति­र­धि­वि­द्य­म­धि­प्र­जम् ।
अध्यात्मं चेति लोका­दे­र्म­ह­त्त्वा­त्त­द्विदो जगुः ।
ता महासंहिताः सर्वा इति ता य उपासते ॥ ६० ॥
दृष्ति­क्र­म­वि­धा­ना­र्था­स्त्व­थ­शब्दा अमी स्मृताः ।
लोका­दी­न­धि­कृ­त्यो­क्ते­र­धि­लो­का­द्यतो भवेत् ॥ ६१ ॥
पृथि­व्य­ग्नि­र­था­चार्यो माता या चाधरा हनुः ।
पूर्वं स्यात्सं­हि­ता­रूपं दिवा­दि­त्या­द्य­थो­त्त­रम् ॥ ६२ ॥
पूर्वो वर्णः पूर्व­रू­प­मु­त्त­र­श्चो­त्तरं स्मृतम् ॥ ६३ ॥
संहिताया इति ज्ञेयं ततोऽन्या काऽत्र संहिता ।
सन्धिः स्यान्मध्यं छिद्र­मा­का­शा­दि­स्त­थैव च ॥ ६४ ॥
सन्धत्ते येन सन्धानं वाय्वादिरिह कीर्त्यते ।
इतीमा इति वाक्येन प्रदर्श्यन्ते यथोदिताः ॥ ६५ ॥
वेदोपास्ते तु यस्त्वेताः फलं तस्येदमुच्यते ।
शास्त्रा­र्पि­त­धि­यो­पेत्य ह्याता­दा­त्म्या­भि­मा­नतः ।
चिरासनं भवेदर्थे तदुपासनमुच्यते ॥ ६६ ॥
सन्धीयतेऽसौ स्वर्गान्तैः प्रजा­दि­भि­र­सं­श­यम् ।
महतीः संहिता वेद यो यथोक्ताः समाहितः ॥ ६७ ॥
इति तृतीयोऽनुवाकः ॥ ३ ॥

चतुर्थोऽनुवाकः
यश्च­न्द­सा­मि­ति­ज्ञानं मेधाकामस्य भण्यते ।
आवहन्तीति तद्व­त्स्या­च्छ्री­का­म­स्येह लिङ्गतः ॥ ६८ ॥
छन्दः­श­ब्द­स्त्रयो वेदा­स्त­त्प्र­धा­न­त्व­का­र­णात् ।
ऋषभो विश्वरूपश्च सर्व­वा­ग्व्या­प्ति­का­र­णात् ॥ ६९ ॥
अमृतेभ्योऽसौ वेदेभ्यः प्रतिभातः प्रजापतेः ।
ओङ्कारस्य हि नित्य­त्वा­न्ना­ञ्ज­सो­त्प­त्ति­रु­च्यते ॥ ७० ॥
ओङ्कारः सर्वकामेशः स इन्द्रः परमेश्वरः ।
मेधया प्रज्ञया मां स स्पृणोतु प्रीणयत्विति ॥ ७१ ॥
अमृतत्वैकहेतोः स्यामा­त्म­ज्ञा­नस्य धारणः ॥ ७२ ॥
विचक्षणं च मे भूयाच्छरीरं देव सर्वदा ।
मनःप्रह्लादिनी मे स्याज्जिह्वा मधुरभाषिणी ॥ ७३ ॥
कर्णाभ्यां चैव वेदार्थं भूरि विश्रु­णु­या­म्य­हम् ।
ब्रह्मणश्चासि कोशस्त्वमसेरिव परात्मनः ॥ ७४ ॥
अपविद्धैषणा यस्मात्त्वयि पश्यन्ति तत्परम् ।
अभि­धा­न­प्र­ती­क­त्व­द्वा­रे­णा­स्यो­प­ल­ब्धये ।
त्वमेव हेतुतां यासि तस्मा­त्को­श­स्त्व­मु­च्यसे ॥ ७५ ॥
लौकिकप्रज्ञया यस्मान्मेधया पिहितस्ततः ।
नोपासते परा­क्चि­त्तास्त्वां देवममृतप्रदम् ॥ ७६ ॥
राग­द्वे­षा­दि­हे­तुभ्यः श्रुतं गोपाय मे प्रभो ।
येन श्रुतेन सम्प­न्न­स्त्वा­मेव प्रविशाम्यहम् ॥ ७७ ॥
प्राप­य­न्त्या­व­ह­न्तीति विस्ता­रा­र्थो­त्तरा क्रिया ॥ ७८ ॥
कुर्वाणामुभयं देव चिरमावह मे श्रियम् ।
ततो वेदा­र्थ­वि­ज्ञा­ना­द­न्न­पा­ना­न्त­दा­यि­नीम् ॥ ७९ ॥
लोमशां पशुभिर्युक्तां प्रत्येकं सर्वदेति च ।
मन्त्रा­न्त­ज्ञा­प­ना­र्थाय स्वाहा­का­रोऽ­य­मु­च्यते ॥ ८० ॥
तथैव चोत्तरत्रापि स्वाहा तत्स­म्भ­वा­द्भ­वेत् ।
दैवेन मानुषेणैव वित्ते­नाऽऽ­मु­त्रि­कै­हि­कम् ।
कर्म कर्तुमलं यस्मा­त्प्रा­र्थ्यते तेन तद्द्वयम् ॥ ८१ ॥
आयन्तूद्दिश्य मां सर्व अधी­ति­श्र­व­णा­र्थिनः ॥ ८२ ॥
प्रकृष्ट्यर्थं प्रमायन्तु यत्नतो ब्रह्मचारिणः ।
सम्भूय कोटिशश्चैव मामेवायन्तु सत्वराः ॥ ८३ ॥
जनेऽसानि यशश्चेति पूर्व­स्यै­त­त्प्र­यो­ज­नम् ।
वस्यसोऽहं सकाशाच्च श्रेयान्स्यां गुणतोऽधिकः ।
वसीयसो वस्यस इतीलोपश्छान्दसो भवेत् ॥ ८४ ॥
ईय­सु­न्व­सि­तु­र्वा­स्या­त्स्याद्वा वसुमतः परः ।
अभीष्टोऽतिशयो यस्मा­त्स­जा­ती­याद् गुणोन्नतेः ॥ ८५ ॥
ब्रह्मणः कोशभूतं त्वां भग­व­न्प्र­वि­शा­म्य­हम् ।
मां च सर्वात्मभावेन प्रविशेश प्रसीद मे ॥ ८६ ॥
ऐका­त्म्य­मा­व­यो­रस्तु भेदहेतुं विनाशय ।
अनन्तभेदे त्वय्येव निमृजे दुष्कृतं ततः ॥ ८७ ॥
द्रुतमापो यथा यन्ति निम्नेन मकरालयम् ।
तथैवायन्तु मां सर्वे समन्ताद् ब्रह्मचारिणः ॥ ८८ ॥
यस्मिन्नहानि जीर्यन्ते सोऽब्दोऽहर्जर उच्यते ।
अहर्जरे यथा मासा यन्ति सम्वत्सरात्मनि ॥ ८९ ॥
आसन्नगृहपर्यायः प्रतिवेश इहोच्यते ।
प्रतिवेश इवासि त्वं सर्व­दुः­खा­प­नो­द­कृत् ॥ ९० ॥
प्रति­प्रा­णि­प्र­वे­शाद्वा प्रतिवेशोऽसि कीर्त्यसे ।
मां प्रत्यतः प्रभाहि त्वं प्रमापद्यस्व चाञ्जसा ॥ ९१ ॥
इति चतुर्थोऽनुवाकः ॥ ४ ॥

पञ्चमोऽनुवाकः
उपासनमथेदानीं व्याहृत्यात्मन उच्यते ।
स्वारा­ज्य­फ­ल­सि­द्ध्यर्थं महिमाऽतोऽस्य कीर्त्यते ॥ ९२ ॥
भूर्भुवः स्वरिति ज्ञेयाः प्रसिद्धा व्याहृतीर्नरैः ।
तिस्रस्तासां चतुर्थीं तु मह इत्यृषिरभ्यधात् ॥ ९३ ॥
महा­च­म­स­गो­त्र­त्वाद् गोत्रा­र्थ­स्त­द्धितो भवेत् ।
महाचमस्योऽतः साक्षान्महो वेदयते पराम् ॥ ९४ ॥
उपा­स­ना­ङ्ग­ता­र्थोऽ­य­मृ­षि­ना­म­ग्रहो भवेत् ।
आर्षे­य­स्मृ­ति­स­म्मि­श्र­मु­पा­स­न­मि­हो­च्यते ॥ ९५ ॥
चतुर्थी व्याहृतिर्येयं ब्रह्मे­त्ये­व­मु­पा­स्य­ताम् ।
महत्त्वाद् ब्रह्म सा ज्ञेया आत्मा चाप्नोति येन सा ॥ ९६ ॥
आदि­त्य­च­न्द्र­ब्र­ह्मा­न्न­भू­तेन व्यापिना यतः ॥ ९७ ॥
लोकदेवादयो व्याप्ता आत्मा तेन महो भवेत् ।
देवताग्रहणं चात्र परि­शि­ष्टो­प­ल­क्ष­णम् ॥ ९८ ॥
लोका देवास्तथा वेदाः प्राणा­श्चा­ङ्गानि सर्वशः ।
मह इत्यस्य ज्ञेयानि व्याहृत्यात्मन एव हि ॥ ९९ ॥
महीयन्ते यतः सर्व आदि­त्या­द्या­त्मना परे ।
मह इत्येवमुक्तेन तस्मादात्मा भवेन्महः ॥ १०० ॥
आत्मना हि महीयन्ते हस्ताद्यङ्गानि सर्वशः ।
यथा लोका­द­य­स्त­द्व­दा­दि­त्या­द्या­त्म­नै­धिताः ॥ १०१ ॥
अयं लोकोऽ­ग्नि­रृ­ग्वेदः प्राणश्चेति चतुर्विधा ।
भूरिति व्याहृ­ति­र्ज्ञेया तथैवान्या यथाक्रमम् ॥ १०२ ॥
अन्तरिक्षं च वायुश्च साम चापान एव च ।
चतुर्धा भुव इत्येषा द्वितीया व्याहृतिर्मता ॥ १०३ ॥
द्यौरादित्यो यजुश्चेति व्यानश्चेति चतुर्थ्यपि ।
महश्चेति पुरा प्रोक्ता चतस्रः स्युश्च­तु­र्विधाः ॥ १०४ ॥
उक्तानां पुनरुक्तिः स्यादु­पा­सा­नि­यि­यं­सया ।
यथोक्ता व्याहृ­ति­रे­ता­वे­दो­पास्ते तु यो नरः ।
स वेद सकलं ब्रह्म वक्ष्य­मा­ण­वि­शे­ष­णम् ॥ १०५ ॥
ब्रह्म वेद स इत्येवं पुनरुक्तं किमुच्यते ।
वक्ष्य­मा­णा­नु­वा­का­र्थ­वि­व­क्षु­त्वा­द­दो­षता ॥ १०६ ॥
स य एषोऽतरित्यादि वक्ष्य­मा­णा­नु­वा­क­गम् ।
वस्तू­पा­स्य­मि­है­वेति स वेदेति पुनर्वचः ॥ १०७ ॥
एक­वा­क्य­त्व­मे­त­स्माद् द्वयो­र­प्य­नु­वा­कयोः ॥ १०८ ॥
लोका देवादयश्चास्मा उपासित्रे यथाबलम् ।
बलिं भोगं प्रयच्छन्ति फलमेतदुपासितुः ॥ १०९ ॥
इति पञ्चमोऽनुवाकः ॥ ५ ॥

षष्ठोऽनुवाकः
तिस्रो व्याहृतयो यस्य ब्रह्म­णोऽ­ङ्गा­न्य­वा­दि­षम् ।
स्थानादिसिद्धये तस्य परः सन्दर्भ उच्यते ॥ ११० ॥
स यः परो­क्ष­नि­र्दिष्टः प्रत्यक्षेण स दर्श्यते ।
अन्तर्हृदय आकाशे पश्यात्मानं त्वमात्मना ॥ १११ ॥
पद्माकारो हि मांसस्य खण्डो हृदयमुच्यते ।
आकाशस्तस्य मध्ये यो बुद्धेरायतनं सदा ।
तस्मिन्स पुरुषो ज्ञेयो मनोमय इहाञ्जसा ॥ ११२ ॥
शशि­स्थ­रा­हु­व­त्सा­क्षा­न्म­स्ये­वो­प­ल­भ्यते ॥ ११३ ॥
मनुते मनसा यस्मात्तेनायं स्यान्मनोमयः ।
स्याद्वा तद­भि­मा­नि­त्वा­त्त­ल्लि­ङ्गा­त्त­न्मयः स्मृतः ॥ ११४ ॥
अमृतोऽमरणधर्मा स्याद्धिरण्यं ज्योतिरुच्यते ।
तन्मयोऽयं पुमा­न्ध्ये­य­स्त­त्प्राप्तौ द्वारथोच्यते ॥ ११५ ॥
ऊर्ध्वं प्रवृत्ता नाड्येका सुषुम्ना हृदयादधि ।
गत्वा तालु­क­यो­र्वि­द्वान् मध्ये­नो­दा­न­ग­र्भया ॥ ११६ ॥
स्तनवल्लम्बते कण्ठे मांस­ख­ण्ड­स्त्व­धो­मुखः ।
इन्द्रस्यासौ सृतिर्ज्ञेया रेचकेन तया व्रजेत् ॥ ११७ ॥
तया गत्वाऽथ यायात्स यत्केशान्तो विवर्तते ।
भित्त्वा शिरःकपाले द्वे भूरित्यग्निं प्रपद्यते ॥ ११८ ॥
द्वितीययाऽथ व्याहृत्या वायौ सम्प्रतितिष्ठति ।
आदित्ये सुवरित्येवं लोकेशे प्रतितिष्ठिति ॥ ११९ ॥
स्थित्वै­व­म­ङ्ग­भू­तेषु प्रति­ति­ष्ठ­त्य­था­ङ्गिनि ।
मह इत्यात्मनि स्थित्वा स्वाराज्यं प्रतिपद्यते ॥ १२० ॥
नान्यो राजाऽस्ति यस्येह राजा यः स्वयमेव तु ।
स स्वराट् तस्य भावश्च स्वाराज्यमिह कीर्त्यते ॥ १२१ ॥
मनोगीश्चक्षुषां चैव श्रोत्र­वि­ज्ञा­न­यो­रपि ।
आप्नोति पर्युपासीनः स्वाराज्यं नात्र संशयः ।
तत एतत्फलं दिव्यं यथो­क्तो­पा­स­ना­द्भ­वेत् ॥ १२२ ॥
व्याहृत्यात्मन एतस्य रूप­स­ङ्क्लृ­प्त­येऽ­धुना ।
उपासनविधित्सायै परो ग्रन्थोऽ­व­ता­र्यते ॥ १२३ ॥
वियद्देहमिदं ब्रह्म वियत्सदृशमेव वा ।
मूर्ता­मू­र्त­स्व­भावं च त्रैलो­क्या­द्या­त्मतो भवेत् ॥ १२४ ॥
इन्द्रियारमणं चैव मन आनन्दमेव च ।
शान्त्या समृद्धमत्यर्थं ब्रह्मैतदमृतं परम् ॥ १२५ ॥
प्राची­न­यो­ग्यो­पा­स्स्वै­तद् यथा­व्या­ख्या­त­ल­क्ष­णम् ।
माहाचमस्य आचार्य अन्ते­वा­सि­न­मु­क्त­वान् ॥ १२६ ॥
इति षष्ठोऽनुवाकः ॥ ६ ॥

सप्तमोऽनुवाकः
पाङ्क्त­स्व­रू­पे­णै­तस्य भूयोऽ­प्य­न्य­दु­पा­स­नम् ।
उदा­र­फ­ल­सि­द्ध्यर्थं पृथि­वी­त्यु­च्य­तेऽ­धुना ॥ १२७ ॥
पञ्चभिर्यत आरब्धं जगत्पाङ्क्तमतो भवेत् ।
यज्ञः क्लृप्तो भवेदेवं पाङ्क्तो यज्ञ इति श्रुतिः ॥ १२८ ॥
यज्ञेन परिक्लृप्तेन त्रैलो­क्या­त्मा­न­म­श्नुते ।
पाङ्क्त­त्व­सि­द्धये तस्मादारब्धैषा परा श्रुतिः ॥ १२९ ॥
दिगन्तं लोकपाङ्क्तं स्यान्न­क्ष­त्रान्तं च दैवतम् ।
आत्मान्तं भूतपाङ्क्तं च विरा­डा­त्मा­धि­का­रतः ॥ १३० ॥
उप­ल­क्ष­ण­मे­त­त्स्या­द्दे­व­ता­लो­क­पा­ङ्क्तयोः ।
अधिभूतमिति वक्ष्या­मोऽ­था­ध्या­त्म­मतः परम् ॥ १३१ ॥
वायुपाङ्क्तं समानान्तं त्वगन्तं चैन्द्रियं तथा ।
चर्मादि धातुपाङ्क्तं च विश्व­मे­ता­व­दु­च्यते ॥ १३२ ॥
पाङ्क्तमेव जगत्सर्वमिति दृष्ट्वाऽ­भ्य­धा­दृषिः ।
पाङ्क्तं वा इद­मा­ब्र­ह्म­स्तम्बं नान्यदिति स्म ह ॥ १३३ ॥
आध्यात्मिकेन पाङ्क्तेन सङ्ख्या­सा­मा­न्य­का­र­णात् ।
बलयत्यात्मभावेन पाङ्क्तं बाह्यमशेषतः ॥ १३४ ॥
इति सप्तमोऽनुवाकः ॥ ७ ॥

अष्टमोऽनुवाकः
सर्वोपासनशेषस्य प्रण­व­स्या­धु­नो­च्यते ।
उपासनमलं यस्माद् ब्रह्मणोः प्राप्तये द्वयोः ॥ १३५ ॥
परस्य ब्रह्मणो यस्मादपरस्य च चोद्यते ।
आलम्बनतया तस्मात्स एवात्राभिधीयते ॥ १३६ ॥
ओमि­त्ये­त­च्छ­ब्द­रूपं ब्रह्मेति मनसा सदा ।
धारयेत्स्तुतये तस्य परो ग्रन्थोऽ­व­ता­र्यते ॥ १३७ ॥
तद्यथा शङ्कुनेत्येवं सर्वमोमिति युज्यते ।
अभिधानादृते यस्मादभिधेयं न विद्यते ॥ १३८ ॥
अनु­ज्ञा­नु­कृ­ति­स्त­द्व­त्स­र्व­त्रो­मिति कीर्त्यते ।
ओश्रा­व­ये­त्य­नु­ज्ञाता यत आश्रावयन्ति च ॥ १३९ ॥
प्रसौति ह्यनुजानाति ब्रह्मोमित्येव चर्त्विजम् ।
प्रव­क्ष्य­न्ब्रा­ह्मणो वेदमोमित्येवं प्रयुज्यते ॥ १४० ॥
उपाप्नवानि ब्रह्मेति स च वेदमवाप्नुयात् ॥ १४१ ॥
परात्मा वा भवेद्ब्रह्म स तदोकारपूर्वकम् ।
प्राप्नोत्येव न सन्देह उपासीतात ओमिति ॥ १४२ ॥
इति अष्टमोऽनुवाकः ॥ ८ ॥

नवमोऽनुवाकः
यथोक्तोपासनादेव स्वारा­ज्य­फ­ल­सं­श्र­यात् ।
नैष्फल्ये कर्मणां प्राप्ते तत्साफल्यार्थ उत्तरः ॥ १४३ ॥
स्वाध्या­योऽ­ध्य­यनं ज्ञेयं तथा चाध्यापनं परम् ।
आधातव्या यथा­शा­स्त्र­म­ग्नयः श्रेयसे तथा ।
होतव्यमगिहोत्रं च कुर्या­च्चा­ति­थि­पू­ज­नम् ॥ १४४ ॥
तथा संव्यवहारश्च मानुषं स्यादसंशयम् ॥ १४५ ॥
उत्पाद्या च प्रजा योग्या प्रजनं चर्तुसेवनम् ।
निवेशनं सुतस्येह प्रजातिरिति गम्यताम् ॥ १४६ ॥
उक्तेषु व्यापृतेनापि कार्ये एव प्रयत्नतः ।
स्वाध्यायवचने तेन प्रत्येकं च ग्रहस्तयोः ॥ १४७ ॥
वेदार्थबोधनं नास्ति स्वाध्यायेन विना यतः ।
तथा प्रवचनेनातो धर्मार्थं च ग्रहस्तयोः ॥ १४८ ॥
सत्यमेव तु वक्तव्यमिति सत्यवचा जगौ ।
राथीतरो मुनिस्तद्वत्तप एवेत्युवाच ह ॥ १४९ ॥
पुरुशिष्टस्य तनयः कर्तव्यं तु महातपाः ।
मुद्ग­ल­स्या­त्म­ज­श्चाह कर्तव्ये यत्नमास्थितैः ।
स्वाध्या­य­प्र­व­चने एव ते एव तु तपो यतः ॥ १५० ॥
इति नवमोऽनुवाकः ॥ ९ ॥

दशमोऽनुवाकः
स्वाध्या­या­र्थश्च विज्ञेयः अहं वृक्षस्य रेरिवा ।
इत्यादिरुत्तरो ग्रन्थो विशुद्धिर्हि ततो धियः ॥ १५१ ॥
विशुद्धमनसो यस्मा­त्स­म्य­ग्ज्ञा­नो­दयो भवेत् ।
मन्त्रा­म्ना­योऽ­य­मा­रब्ध एत­स्मा­त्का­र­णा­त्परः ॥ १५२ ॥
उच्छि­त्ति­ल­क्ष­ण­स्याहं विश्वस्य जगतः सदा ।
अस्य संसारवृक्षस्य रेरिवा जनकोऽस्म्यहम् ॥ १५३ ॥
कीर्तिः ख्याति­र्म­म­ज्ञेया गिरेः पृष्ठ­मि­वो­च्छ्रिता ।
ऊर्ध्वं तत्कारणं ब्रह्म पवित्रं भवहानतः ॥ १५४ ॥
यस्य सोऽयं भवेदूर्ध्वं पवित्रं पावनं परम् ॥ १५५ ॥
वाजमन्नमिति ज्ञेयं तद्वतीव दिवाकरे ।
स्वमृतं परमं ब्रह्म बुद्धावस्यामहं सदा ॥ १५६ ॥
द्रविणं धनमित्याहुरिह त्वात्मावबोधनम् ।
सवर्चसं सुदीप्तं स्यान्मो­क्षा­मृ­त­फ­ल­प्र­दम् ॥ १५७ ॥
अक्षि­तोऽ­क्षी­णा­रू­प­त्वाद् वेदानुवचनं त्विदम् ।
त्रिश­ङ्को­र्ब्र­ह्म­भू­तस्य ह्यार्षं सन्दर्शनं परम् ॥ १५८ ॥
पावनोऽस्य जपः श्रेयान् ब्रह्मज्ञानस्य जन्मने ।
मुमुक्षुः प्रय­त­स्त­स्मा­ज्ज­पे­दे­त­त्स­मा­हितः ॥ १५९ ॥
कर्मप्रसङ्ग उक्त­त्वा­द­य­म­र्थोऽ­व­सी­यते ।
मुमु­क्षो­स्त­त्प­र­स्यैवं श्रौतस्मार्तेषु कर्मसु ।
आर्षं च प्रातिभं ज्ञानमाविर्भवति मोक्षदम् ॥ १६० ॥
इति दशमोऽनुवाकः ॥ १० ॥

एकादशोऽनुवाकः
आरम्भो नियमार्थः स्यादा­त्म­ज्ञा­नो­द­या­त्पुरा ।
श्रुते­र्वे­द­म­नू­च्येति श्रुति­श्चै­वा­नु­शास्ति हि ॥ १६१ ॥
विद्यो­त्प­त्त्य­र्थ­मे­तानि कर्तव्यानि मुमुक्षुणा ।
वक्ष्यमाणानि कर्माणि याव­दा­त्मा­व­बो­ध­नम् ॥ १६२ ॥
आत्म­ज्ञा­नो­द­या­दूर्ध्वं पुरु­षा­र्था­व­सा­नतः ।
स्वतः सिद्धेश्च मोक्षस्य कर्म­का­ण्ड­म­न­र्थ­कम् ॥ १६३ ॥
तस्मा­त्स­त्त्व­वि­शु­द्ध्यर्थं कार्यं कर्म मुमुक्षुभिः ।
प्रागेव ब्रह्म­वि­ज्ञा­ना­न्नि­य­मे­नेति ह श्रुतिः ॥ १६४ ॥
आन­र्थ­क्या­प­नु­त्त्य­र्थ­मृ­ता­दीनां पुरा श्रुतिः ।
निय­मा­र्थ­मि­होक्तिः स्यादा­त्म­ज्ञा­नो­द­या­र्थिनः ॥ १६५ ॥
अध्याप्य निखिलं वेद­म­न्ते­वा­सि­न­मा­द­रात् ।
सत्यं वदेत्येवमादि गरीयाननुशास्ति हि ॥ १६६ ॥
यथोपलब्धं यद्वाक्यं हिंसा­क­ल्क­वि­व­र्जि­तम् ।
सर्वधर्मविदः प्राज्ञा­स्त­त्सत्यं प्रतिजानते ॥ १६७ ॥
अग्नि­हो­त्रा­द्य­नु­ष्ठानं धर्म­मा­हु­र्वि­प­श्चितः ।
प्रमादं मा कृथा­स्त­द्व­त्स्वा­ध्यायं प्रति सर्वदा ॥ १६८ ॥
तथाभिलषितां न्याय्या­मा­चा­र्या­याथ दक्षिणाम् ।
दत्त्वा दारां­स्त्व­मा­हृत्य माच्छेत्सीः सुतसन्ततिम् ॥ १६९ ॥
विस्मृ­त्या­प्य­नृतं नित्यं न च वक्तव्यमण्वपि ।
इत्यस्य प्रतिपत्त्यर्थं सत्यादीति पुनर्वचः ॥ १७० ॥
एवं शिष्टेष्वपि ज्ञेयं प्रसि­द्धा­र्थ­त्व­का­र­णात् ।
स्पष्टार्थ उत्तरो ग्रन्थः स्वय­मे­वा­व­ग­म्य­ताम् ॥ १७१ ॥
उक्ते­भ्योऽ­न्यानि कर्माणि शिष्टाचारोपगानि तु ।
अनाशङ्कितदोषाणि त्वया कार्याणि यत्नतः ॥ १७२ ॥
समाशङ्कितदोषाणि शिष्टै­रा­च­रि­ता­न्यपि ।
सावद्यानि न कार्याणि कर्माणीह कदाचन ॥ १७३ ॥
श्रुति­स्मृ­त्य­वि­रु­द्धानि शिष्टाचारोपगानि च ।
अस्मत्कर्माणि कार्याणि न विरोधीनि कर्हिचित् ॥ १७४ ॥
अस्मत्तो ब्राह्मणा ये स्युः श्रेयांसः शास्त्रवेदिनः ।
तेषामासनदानेन श्रमापनयनं कुरु ॥ १७५ ॥
तेषा­मा­ख्या­यि­कायां वा न वाच्यं सम्भ्रमात्त्वया ।
तदुक्तसारं त्वादाय नापकार्यं यथाबलम् ॥ १७६ ॥
श्रद्धयैव हि दात­व्य­म­श्र­द्धा­भा­ज­ने­ष्वपि ॥ १७७ ॥
श्रीर्वि­भू­ति­स्तया देयं देयं चापि सदा ह्रिया ।
भिया भयेन दातव्यं संविन्मैत्री तयाऽपि च ॥ १७८ ॥
एवं चेद्वर्तमानस्य श्रौतस्मार्तेषु कर्मसु ।
वृत्ते वा विचिकित्सा स्यात्संशयो मतिविभ्रमात् ।
तस्मिन्कर्मणि वृत्ते वा विप्रा ये सूक्ष्मदर्शिनः ॥ १७८ ॥
स्वतन्त्रा अभियुक्ताश्च ऋजवः कामवर्जिताः ।
यथा ते तत्र वर्तन्ते वर्तेथास्त्वं तथैव च ॥ १८० ॥
तथा शङ्कितदोषेषु यथो­क्त­मु­प­पा­द­येत् ।
आदेशोऽत्र विधिर्ज्ञेय उपदेशः सुताय च ॥ १८१ ॥
रहस्यं सर्ववेदानां वेदोपनिषदुच्यते ।
अनुशासनमीशस्य ज्ञेय­मे­त­त्प­रा­त्मनः ॥ १८२ ॥
यस्मादेवमतः सद्भिर्यथोक्तं यत्नमास्थितैः ।
उपासितव्यं कर्तव्यमेवं चैतत्समाचरेत् ॥ १८३ ॥
इति एकादशोऽनुवाकः ॥ ११ ॥

द्वादशोऽनुवाकः
प्रमा­दो­त्था­द­प­न्या­याद् गुरु­शि­ष्या­भि­स­ङ्गतेः ।
प्रसक्तो यस्त­यो­र्द्वे­ष­स्त­च्छान्त्यै शान्तिरुच्यते ॥ १८४ ॥
स्याज्ज्ञानं फल­व­द्य­स्मा­च्छा­न्ता­न्तः­क­रणो गुरौ ।
तस्ये­श्व­रे­णा­न­न्त्य­त्वाद् भूयः शान्तिरियं ततः ॥ १८५ ॥
भाव्यं तु परिहाराय तन्मा­मा­वी­दि­ती­र­णम् ।
आत्मनो ब्रह्मतां यस्मात्स्वतः सिद्धां प्रवक्ष्यति ॥ १८६ ॥
॥ इति शिक्षाया वार्तिकानि समाप्तानि ॥