तैत्तिरीयोपनिषद्भाष्यवार्तिकम्
१ परिच्छेदः
तैत्तिरीयोपनिषद्भाष्यवार्तिकम्
सत्यं ज्ञानमनन्तमेकममलं ध्वस्तान्धकारं परं
निर्द्वैतं हृदि पद्ममध्यनिलयं निःशेषधीसाक्षिणम् ।
वेदान्तोपनिविष्टबोधविषयं प्रत्यक्तया योगिनां
भक्त्या तं प्रणीपत्य वेदशिरसो वक्ष्यामि सद्वार्तिकम् ॥ १ ॥
यस्येदं सकलामलेन्दुकिरणप्रख्यैर्यशोरश्मिभि —
र्व्याप्तं यश्च कृपालुतापरवशश्चक्रे हितं दुःखिनाम् ।
यद्वाणीकुलिशावरुग्णमतयः पेतुर्दिशस्तार्किका
भक्त्या पूज्यतमं प्रणम्य तमहं तद्भाष्यनीतौ यते ॥ २ ॥
तैत्तिरीयकसारस्य मयाऽऽचार्यप्रसादतः ।
विस्पष्टार्थरुचीनां हि व्याख्येयं सम्प्रणीयते ॥ ३ ॥
दुरितक्षयहेतूनि नित्यानि ब्राह्मणो ययुः ।
काम्यानि चेह कर्माणि दृष्टादृष्टफलानि तु ॥ ४ ॥
विद्या प्रस्तूयतेऽथोर्ध्वं यथाभूतार्थबोधिनी ।
कर्मोपादानहेतूंस्तान्सैवोच्छेत्तुमलं यतः ॥ ५ ॥
स यथाकाम इत्येवं योऽकामश्चेति सादरम् ।
कामाकामैकहेतू नो बन्धमोक्षौ श्रुतिर्जगौ ॥ ६ ॥
अपविद्धद्वये तत्त्वे सर्वदैवात्मरूपके ।
विपर्ययोऽनभिज्ञानात्ततः कामः क्रियास्ततः ॥ ७ ॥
यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।
तस्मात्सर्वप्रवृत्तीनामलं विद्योपशान्तये ॥ ८ ॥
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥ ९ ॥
इति मीमांसकम्मन्यैः कर्मोक्तं मोक्षसाधनम् ।
प्रत्याख्यायाऽऽत्मविज्ञानं तत्र न्यायेन निर्णयः ॥ १० ॥
नैतदेवं भवेन्न्याय्यं विरुद्धफलदायिनाम् ।
सम्भवात्कर्मणां पुंसो भूयसां शास्त्रदर्शनात् ॥ ११ ॥
अनारब्धफलानीह सन्ति कर्माणि कोटिशः ।
तद्य इहेति वचसो गम्यतां कर्मणां स्थितिः ॥ १२ ॥
न चैकदेहे भोगोऽस्ति ब्रह्महत्याश्वमेधयोः ।
विरुद्धफलहेतुत्वान्मूढसात्त्विकदेहयोः ॥ १३ ॥
सप्तजन्मानुगं कार्यमेकस्यापीह कर्मणः ।
श्रूयते धर्मशास्त्रेषु किमुतानेककर्मणाम् ॥ १४ ॥
अनारब्धेष्टकार्याणां नित्यं चेद्ध्वस्तये मतम् ।
नैवं स्वात्माक्रियाहेतुं यतोऽनर्थं निहन्ति तत् ॥ १५ ॥
पापस्य कर्मणः कार्यं प्रत्यवायगिरोच्यते ।
नित्यैर्विरोधात्तद्धानिर्न त्विष्टफलदायिनः ॥ १६ ॥
कामश्च कर्मणो हेतुस्तस्योच्छित्तेर्न सम्भवः ।
प्रत्यग्बोधमृते यस्मादसम्यगिदमुच्यते ॥ १७ ॥
यद्ध्यनात्मफलं तस्मै कर्म सर्वं विधीयते ।
आप्तत्वादात्मनः कर्म नैव स्यादाप्तये ततः ॥ १८ ॥
नित्यानां चाक्रियाऽभावः प्रत्यवायस्ततः कुतः ।
न ह्यभावाद्भवेद्भावो मानं यस्मान्न विद्यते ॥ १९ ॥
पूर्वोपचितकर्मभ्यस्तस्मात्कर्तारमेति या ।
प्रत्यवायक्रिया तस्या लक्षणार्थः शता भवेत् ॥ २० ॥
नित्यानामक्रिया यस्माल्लक्षयित्वैति सत्वरा ।
प्रत्यवायक्रियां तस्माल्लक्षणार्थे शता भवेत् ॥ २१ ॥
सर्वप्रमाणकोपः स्यादभावाद्भावसम्भवे ।
तस्मादयत्नतः स्थानमात्मनीत्यतिपेलवम् ॥ २२ ॥
निर्धूतातिशया प्रीतिः कर्महेतुरिति त्वया ।
यदभाणि तदन्याय्यं यथा तदभिधीयते ॥ २३ ॥
मुक्तेः कौटस्थ्यरूपत्वान्न तस्याः कर्म साधनम् ।
स्वर्गादिवदनित्या स्याद्यदि स्यात्कर्मणः फलम् ॥ २४ ॥
अनित्यफलदायित्वं ज्ञानहीनस्य कर्मणः ।
कूटस्थफलदायित्वं विद्येतस्येति चेन्मतम् ॥ २५ ॥
नैवमारभ्यमाणस्य ह्यनित्यत्वसमन्वयात् ।
न च प्राप्तमनित्यत्वं विद्या वारयितुं क्षमा ॥ २६ ॥
प्रध्वंसाभाववच्चेत्स्यात् कर्मकार्यमपि ध्रुवम् ।
भावात्मकत्वान्मोक्षस्य नैवमप्युपपद्यते ॥ २७ ॥
कार्यं प्रध्वंसतोऽन्यद्यत्तदनित्यं क्रियोत्थितेः ।
घटादिवत्प्रतिज्ञायां विशिष्टत्वाददोषता ॥ २८ ॥
प्रध्वंसाच्छकलादि स्यात्तच्चानित्यं घटादिवत् ।
कल्पनामात्रतोऽभावो नैवारभ्यः स कर्मभिः ॥ २९ ॥
आविर्भावतिरोभावैर्धर्मिण्यां मृदि सर्वदा ।
धर्मा घटादयः सर्वे वर्तन्ते न त्वभावगाः ॥ ३० ॥
नास्त्यभावस्य सम्बन्धः क्रियया वा गुणेन वा ।
निरात्मकत्वान्नैवालं सम्बद्धुं केनचित् क्वचित् ॥ ३१ ॥
तस्मात्स्यात्कल्पनामात्रो व्यवहारप्रसिद्धये ।
प्रध्वंसादिरभावोऽयं शिलापुत्रादिवन्मृषा ॥ ३२ ॥
तस्मादविद्याव्युच्छित्तौ स्यादवस्थानमात्मनि ।
न चाविद्याप्रहाणं स्याद्ब्रह्मविद्यामृते क्वचित् ॥ ३३ ॥
तस्माद्विद्याप्तये ज्ञेया प्रारब्धोपनिषत्परा ।
सैवाविद्यापनुत्त्यर्था विद्या चैवात्मगामिनी ॥ ३४ ॥
विद्यासंशीलिनां यस्माद् गर्भजन्माद्यशेषतः ।
उपमृद्नाति विद्येयं तस्मादुपनिषद् भवेत् ॥ ३५ ॥
उपेत्य वा निषण्णं तच्छ्रेय आत्यन्तिकं यतः ।
तस्मादुपनिषज्ज्ञेया ग्रन्थस्तु स्यात्तदर्थतः ॥ ३६ ॥
प्रथमोऽनुवाकः
प्राणवृत्तेस्तथा चाह्नो देवता याऽभिमानिनी ।
मित्रः शं नः सुखं भूयादिति ब्रह्मेह याच्यते ॥ ३७ ॥
रात्रेरपानवृत्तेश्च वरुणश्चाभिमानभाक् ।
शं नो भवतु सर्वत्र चक्षुस्थश्चार्यमा रविः ॥ ३८ ॥
बले तु भगवानिन्द्रो वाचि बुद्धौ बृहस्पतिः ।
विष्णुश्चोरुक्रमः शं नो विस्तीर्णक्रमणो ह्यसौ ॥ ३९ ॥
अध्यात्मदेवताः सर्वा मित्राद्याः शं भवन्तु नः ।
सुखकृत्सु हि तासु स्याद् विघ्नोपशमनं ध्रुवम् ॥ ४० ॥
श्रवणं धारणं चैवमुपयोगश्च सिद्ध्यति ।
ज्ञानस्याप्रतिबन्धेन प्रार्थनीयमतो भवेत् ॥ ४१ ॥
ब्रह्मविद्योपसर्गाणां शान्त्यर्थं वायुरूपिणे ।
ब्रह्मजिज्ञासुना कार्ये नमस्कारोक्तिकर्मणी ॥ ४२ ॥
सर्वक्रियाफलानां हि ब्रह्माधीनत्वहेतुतः ।
वायवे ब्रह्मणे तस्मै प्रह्वीभावोऽस्तु सर्वदा ॥ ४३ ॥
परोक्ष्येण नमस्कृत्य प्रत्यक्षेण नमस्क्रिया ।
परोक्षसाक्षाद्रूपाभ्यां वायुरेवाभिधीयते ॥ ४४ ॥
प्रत्यक्षं ब्रह्म हे वायो त्वमेवासीति संस्तुतिः ।
त्वामेवातो वदिष्यामि साक्षात्त्वमुपलभ्यसे ॥ ४५ ॥
यथाशास्त्रं यथाकार्यं बुद्धौ सुपरिनिश्चितम् ।
ऋतं तत्त्वदधीनत्वाद् वदिष्यामीति सङ्गतिः ॥ ४६ ॥
प्रयोगस्थं तदेवर्तं सत्यमित्यभिधीयते ।
तदपि त्वदधीनत्वाद् वदिष्याम्येव साम्प्रतम् ॥ ४७ ॥
विद्यार्थिना स्तुतं सन्मां ब्रह्मावतु गुरुं च मे ।
विद्याग्रहणवक्तृत्वशक्तिभ्यां नौ सदाऽवतु ॥ ४८ ॥
विद्याप्राप्त्युपसर्गाणां त्रिः शान्तिरभिधीयते ।
आचार्यशिष्ययोस्तस्यां ब्रह्म ज्ञातुं हि शक्यते ॥ ४९ ॥
इति प्रथमोऽनुवाकः ॥ १ ॥
द्वितीयोऽनुवाकः
अर्थज्ञानप्रधानत्वाद् वेदान्तानां विपश्चिताम् ।
पाठे त्वयत्नो मा प्रापदिति शिक्षाऽभिधीयते ॥ ५० ॥
शिक्ष्यते ज्ञायते साक्षाद् वर्णाद्युच्चारणं यया ।
स्याद्वा कर्मणि शिक्षेति व्याख्यास्यामोऽधुना तु ताम् ॥ ५१ ॥
अकारादिर्भवेद्वर्ण उदात्तादिः स्वरस्तथा ।
ह्रस्वदीर्घप्लुता मात्राः प्रयत्नश्च बलं स्मृतम् ॥ ५२ ॥
समता साम वर्णानां वैषम्यस्य विवर्जनम् ।
सन्तानः संहिता तु स्यादिति शिक्षोपदिश्यते ॥ ५३ ॥
इति द्वितीयोऽनुवाकः ॥ २ ॥
तृतीयोऽनुवाकः
सूक्ष्मार्थानुप्रवेशाय बहिष्प्रवणचेतसाम् ।
संहिताविषयं तावत्स्थूलोपासनमुच्यते ॥ ५४ ॥
संहितादिनिमित्तं यद्यशस्तन्नौ सहास्त्विति ।
आचार्यशिष्ययोस्तद्वद् ब्रह्मवर्चसमावयोः ॥ ५५ ॥
यशःख्यातिः प्रकाशः स्याद् वृत्तस्वाध्यायहेतुजम् ।
ब्रह्मवर्चसमित्याहुस्तेजो यत्तन्निबन्धनम् ॥ ५६ ॥
शिष्यस्याऽऽशीरियं ज्ञेया नाऽऽचार्यस्य कृतार्थतः ।
अनाप्तपुरुषार्थानामाशीर्वादो हि युज्यते ॥ ५७ ॥
वेदाध्ययनविज्ञानादनन्तरमिदं यतः ।
नेदीयः संहिताज्ञानमतस्तदभिधीयते ॥ ५८ ॥
संहिताविषयं ज्ञानमिहोपनिषदुच्यते ।
पञ्चाधिकरणां तां तु व्याख्यास्यामोऽधुना स्फुटम् ॥ ५९ ॥
अधिलोकमधिज्योतिरधिविद्यमधिप्रजम् ।
अध्यात्मं चेति लोकादेर्महत्त्वात्तद्विदो जगुः ।
ता महासंहिताः सर्वा इति ता य उपासते ॥ ६० ॥
दृष्तिक्रमविधानार्थास्त्वथशब्दा अमी स्मृताः ।
लोकादीनधिकृत्योक्तेरधिलोकाद्यतो भवेत् ॥ ६१ ॥
पृथिव्यग्निरथाचार्यो माता या चाधरा हनुः ।
पूर्वं स्यात्संहितारूपं दिवादित्याद्यथोत्तरम् ॥ ६२ ॥
पूर्वो वर्णः पूर्वरूपमुत्तरश्चोत्तरं स्मृतम् ॥ ६३ ॥
संहिताया इति ज्ञेयं ततोऽन्या काऽत्र संहिता ।
सन्धिः स्यान्मध्यं छिद्रमाकाशादिस्तथैव च ॥ ६४ ॥
सन्धत्ते येन सन्धानं वाय्वादिरिह कीर्त्यते ।
इतीमा इति वाक्येन प्रदर्श्यन्ते यथोदिताः ॥ ६५ ॥
वेदोपास्ते तु यस्त्वेताः फलं तस्येदमुच्यते ।
शास्त्रार्पितधियोपेत्य ह्यातादात्म्याभिमानतः ।
चिरासनं भवेदर्थे तदुपासनमुच्यते ॥ ६६ ॥
सन्धीयतेऽसौ स्वर्गान्तैः प्रजादिभिरसंशयम् ।
महतीः संहिता वेद यो यथोक्ताः समाहितः ॥ ६७ ॥
इति तृतीयोऽनुवाकः ॥ ३ ॥
चतुर्थोऽनुवाकः
यश्चन्दसामितिज्ञानं मेधाकामस्य भण्यते ।
आवहन्तीति तद्वत्स्याच्छ्रीकामस्येह लिङ्गतः ॥ ६८ ॥
छन्दःशब्दस्त्रयो वेदास्तत्प्रधानत्वकारणात् ।
ऋषभो विश्वरूपश्च सर्ववाग्व्याप्तिकारणात् ॥ ६९ ॥
अमृतेभ्योऽसौ वेदेभ्यः प्रतिभातः प्रजापतेः ।
ओङ्कारस्य हि नित्यत्वान्नाञ्जसोत्पत्तिरुच्यते ॥ ७० ॥
ओङ्कारः सर्वकामेशः स इन्द्रः परमेश्वरः ।
मेधया प्रज्ञया मां स स्पृणोतु प्रीणयत्विति ॥ ७१ ॥
अमृतत्वैकहेतोः स्यामात्मज्ञानस्य धारणः ॥ ७२ ॥
विचक्षणं च मे भूयाच्छरीरं देव सर्वदा ।
मनःप्रह्लादिनी मे स्याज्जिह्वा मधुरभाषिणी ॥ ७३ ॥
कर्णाभ्यां चैव वेदार्थं भूरि विश्रुणुयाम्यहम् ।
ब्रह्मणश्चासि कोशस्त्वमसेरिव परात्मनः ॥ ७४ ॥
अपविद्धैषणा यस्मात्त्वयि पश्यन्ति तत्परम् ।
अभिधानप्रतीकत्वद्वारेणास्योपलब्धये ।
त्वमेव हेतुतां यासि तस्मात्कोशस्त्वमुच्यसे ॥ ७५ ॥
लौकिकप्रज्ञया यस्मान्मेधया पिहितस्ततः ।
नोपासते पराक्चित्तास्त्वां देवममृतप्रदम् ॥ ७६ ॥
रागद्वेषादिहेतुभ्यः श्रुतं गोपाय मे प्रभो ।
येन श्रुतेन सम्पन्नस्त्वामेव प्रविशाम्यहम् ॥ ७७ ॥
प्रापयन्त्यावहन्तीति विस्तारार्थोत्तरा क्रिया ॥ ७८ ॥
कुर्वाणामुभयं देव चिरमावह मे श्रियम् ।
ततो वेदार्थविज्ञानादन्नपानान्तदायिनीम् ॥ ७९ ॥
लोमशां पशुभिर्युक्तां प्रत्येकं सर्वदेति च ।
मन्त्रान्तज्ञापनार्थाय स्वाहाकारोऽयमुच्यते ॥ ८० ॥
तथैव चोत्तरत्रापि स्वाहा तत्सम्भवाद्भवेत् ।
दैवेन मानुषेणैव वित्तेनाऽऽमुत्रिकैहिकम् ।
कर्म कर्तुमलं यस्मात्प्रार्थ्यते तेन तद्द्वयम् ॥ ८१ ॥
आयन्तूद्दिश्य मां सर्व अधीतिश्रवणार्थिनः ॥ ८२ ॥
प्रकृष्ट्यर्थं प्रमायन्तु यत्नतो ब्रह्मचारिणः ।
सम्भूय कोटिशश्चैव मामेवायन्तु सत्वराः ॥ ८३ ॥
जनेऽसानि यशश्चेति पूर्वस्यैतत्प्रयोजनम् ।
वस्यसोऽहं सकाशाच्च श्रेयान्स्यां गुणतोऽधिकः ।
वसीयसो वस्यस इतीलोपश्छान्दसो भवेत् ॥ ८४ ॥
ईयसुन्वसितुर्वास्यात्स्याद्वा वसुमतः परः ।
अभीष्टोऽतिशयो यस्मात्सजातीयाद् गुणोन्नतेः ॥ ८५ ॥
ब्रह्मणः कोशभूतं त्वां भगवन्प्रविशाम्यहम् ।
मां च सर्वात्मभावेन प्रविशेश प्रसीद मे ॥ ८६ ॥
ऐकात्म्यमावयोरस्तु भेदहेतुं विनाशय ।
अनन्तभेदे त्वय्येव निमृजे दुष्कृतं ततः ॥ ८७ ॥
द्रुतमापो यथा यन्ति निम्नेन मकरालयम् ।
तथैवायन्तु मां सर्वे समन्ताद् ब्रह्मचारिणः ॥ ८८ ॥
यस्मिन्नहानि जीर्यन्ते सोऽब्दोऽहर्जर उच्यते ।
अहर्जरे यथा मासा यन्ति सम्वत्सरात्मनि ॥ ८९ ॥
आसन्नगृहपर्यायः प्रतिवेश इहोच्यते ।
प्रतिवेश इवासि त्वं सर्वदुःखापनोदकृत् ॥ ९० ॥
प्रतिप्राणिप्रवेशाद्वा प्रतिवेशोऽसि कीर्त्यसे ।
मां प्रत्यतः प्रभाहि त्वं प्रमापद्यस्व चाञ्जसा ॥ ९१ ॥
इति चतुर्थोऽनुवाकः ॥ ४ ॥
पञ्चमोऽनुवाकः
उपासनमथेदानीं व्याहृत्यात्मन उच्यते ।
स्वाराज्यफलसिद्ध्यर्थं महिमाऽतोऽस्य कीर्त्यते ॥ ९२ ॥
भूर्भुवः स्वरिति ज्ञेयाः प्रसिद्धा व्याहृतीर्नरैः ।
तिस्रस्तासां चतुर्थीं तु मह इत्यृषिरभ्यधात् ॥ ९३ ॥
महाचमसगोत्रत्वाद् गोत्रार्थस्तद्धितो भवेत् ।
महाचमस्योऽतः साक्षान्महो वेदयते पराम् ॥ ९४ ॥
उपासनाङ्गतार्थोऽयमृषिनामग्रहो भवेत् ।
आर्षेयस्मृतिसम्मिश्रमुपासनमिहोच्यते ॥ ९५ ॥
चतुर्थी व्याहृतिर्येयं ब्रह्मेत्येवमुपास्यताम् ।
महत्त्वाद् ब्रह्म सा ज्ञेया आत्मा चाप्नोति येन सा ॥ ९६ ॥
आदित्यचन्द्रब्रह्मान्नभूतेन व्यापिना यतः ॥ ९७ ॥
लोकदेवादयो व्याप्ता आत्मा तेन महो भवेत् ।
देवताग्रहणं चात्र परिशिष्टोपलक्षणम् ॥ ९८ ॥
लोका देवास्तथा वेदाः प्राणाश्चाङ्गानि सर्वशः ।
मह इत्यस्य ज्ञेयानि व्याहृत्यात्मन एव हि ॥ ९९ ॥
महीयन्ते यतः सर्व आदित्याद्यात्मना परे ।
मह इत्येवमुक्तेन तस्मादात्मा भवेन्महः ॥ १०० ॥
आत्मना हि महीयन्ते हस्ताद्यङ्गानि सर्वशः ।
यथा लोकादयस्तद्वदादित्याद्यात्मनैधिताः ॥ १०१ ॥
अयं लोकोऽग्निरृग्वेदः प्राणश्चेति चतुर्विधा ।
भूरिति व्याहृतिर्ज्ञेया तथैवान्या यथाक्रमम् ॥ १०२ ॥
अन्तरिक्षं च वायुश्च साम चापान एव च ।
चतुर्धा भुव इत्येषा द्वितीया व्याहृतिर्मता ॥ १०३ ॥
द्यौरादित्यो यजुश्चेति व्यानश्चेति चतुर्थ्यपि ।
महश्चेति पुरा प्रोक्ता चतस्रः स्युश्चतुर्विधाः ॥ १०४ ॥
उक्तानां पुनरुक्तिः स्यादुपासानियियंसया ।
यथोक्ता व्याहृतिरेतावेदोपास्ते तु यो नरः ।
स वेद सकलं ब्रह्म वक्ष्यमाणविशेषणम् ॥ १०५ ॥
ब्रह्म वेद स इत्येवं पुनरुक्तं किमुच्यते ।
वक्ष्यमाणानुवाकार्थविवक्षुत्वाददोषता ॥ १०६ ॥
स य एषोऽतरित्यादि वक्ष्यमाणानुवाकगम् ।
वस्तूपास्यमिहैवेति स वेदेति पुनर्वचः ॥ १०७ ॥
एकवाक्यत्वमेतस्माद् द्वयोरप्यनुवाकयोः ॥ १०८ ॥
लोका देवादयश्चास्मा उपासित्रे यथाबलम् ।
बलिं भोगं प्रयच्छन्ति फलमेतदुपासितुः ॥ १०९ ॥
इति पञ्चमोऽनुवाकः ॥ ५ ॥
षष्ठोऽनुवाकः
तिस्रो व्याहृतयो यस्य ब्रह्मणोऽङ्गान्यवादिषम् ।
स्थानादिसिद्धये तस्य परः सन्दर्भ उच्यते ॥ ११० ॥
स यः परोक्षनिर्दिष्टः प्रत्यक्षेण स दर्श्यते ।
अन्तर्हृदय आकाशे पश्यात्मानं त्वमात्मना ॥ १११ ॥
पद्माकारो हि मांसस्य खण्डो हृदयमुच्यते ।
आकाशस्तस्य मध्ये यो बुद्धेरायतनं सदा ।
तस्मिन्स पुरुषो ज्ञेयो मनोमय इहाञ्जसा ॥ ११२ ॥
शशिस्थराहुवत्साक्षान्मस्येवोपलभ्यते ॥ ११३ ॥
मनुते मनसा यस्मात्तेनायं स्यान्मनोमयः ।
स्याद्वा तदभिमानित्वात्तल्लिङ्गात्तन्मयः स्मृतः ॥ ११४ ॥
अमृतोऽमरणधर्मा स्याद्धिरण्यं ज्योतिरुच्यते ।
तन्मयोऽयं पुमान्ध्येयस्तत्प्राप्तौ द्वारथोच्यते ॥ ११५ ॥
ऊर्ध्वं प्रवृत्ता नाड्येका सुषुम्ना हृदयादधि ।
गत्वा तालुकयोर्विद्वान् मध्येनोदानगर्भया ॥ ११६ ॥
स्तनवल्लम्बते कण्ठे मांसखण्डस्त्वधोमुखः ।
इन्द्रस्यासौ सृतिर्ज्ञेया रेचकेन तया व्रजेत् ॥ ११७ ॥
तया गत्वाऽथ यायात्स यत्केशान्तो विवर्तते ।
भित्त्वा शिरःकपाले द्वे भूरित्यग्निं प्रपद्यते ॥ ११८ ॥
द्वितीययाऽथ व्याहृत्या वायौ सम्प्रतितिष्ठति ।
आदित्ये सुवरित्येवं लोकेशे प्रतितिष्ठिति ॥ ११९ ॥
स्थित्वैवमङ्गभूतेषु प्रतितिष्ठत्यथाङ्गिनि ।
मह इत्यात्मनि स्थित्वा स्वाराज्यं प्रतिपद्यते ॥ १२० ॥
नान्यो राजाऽस्ति यस्येह राजा यः स्वयमेव तु ।
स स्वराट् तस्य भावश्च स्वाराज्यमिह कीर्त्यते ॥ १२१ ॥
मनोगीश्चक्षुषां चैव श्रोत्रविज्ञानयोरपि ।
आप्नोति पर्युपासीनः स्वाराज्यं नात्र संशयः ।
तत एतत्फलं दिव्यं यथोक्तोपासनाद्भवेत् ॥ १२२ ॥
व्याहृत्यात्मन एतस्य रूपसङ्क्लृप्तयेऽधुना ।
उपासनविधित्सायै परो ग्रन्थोऽवतार्यते ॥ १२३ ॥
वियद्देहमिदं ब्रह्म वियत्सदृशमेव वा ।
मूर्तामूर्तस्वभावं च त्रैलोक्याद्यात्मतो भवेत् ॥ १२४ ॥
इन्द्रियारमणं चैव मन आनन्दमेव च ।
शान्त्या समृद्धमत्यर्थं ब्रह्मैतदमृतं परम् ॥ १२५ ॥
प्राचीनयोग्योपास्स्वैतद् यथाव्याख्यातलक्षणम् ।
माहाचमस्य आचार्य अन्तेवासिनमुक्तवान् ॥ १२६ ॥
इति षष्ठोऽनुवाकः ॥ ६ ॥
सप्तमोऽनुवाकः
पाङ्क्तस्वरूपेणैतस्य भूयोऽप्यन्यदुपासनम् ।
उदारफलसिद्ध्यर्थं पृथिवीत्युच्यतेऽधुना ॥ १२७ ॥
पञ्चभिर्यत आरब्धं जगत्पाङ्क्तमतो भवेत् ।
यज्ञः क्लृप्तो भवेदेवं पाङ्क्तो यज्ञ इति श्रुतिः ॥ १२८ ॥
यज्ञेन परिक्लृप्तेन त्रैलोक्यात्मानमश्नुते ।
पाङ्क्तत्वसिद्धये तस्मादारब्धैषा परा श्रुतिः ॥ १२९ ॥
दिगन्तं लोकपाङ्क्तं स्यान्नक्षत्रान्तं च दैवतम् ।
आत्मान्तं भूतपाङ्क्तं च विराडात्माधिकारतः ॥ १३० ॥
उपलक्षणमेतत्स्याद्देवतालोकपाङ्क्तयोः ।
अधिभूतमिति वक्ष्यामोऽथाध्यात्ममतः परम् ॥ १३१ ॥
वायुपाङ्क्तं समानान्तं त्वगन्तं चैन्द्रियं तथा ।
चर्मादि धातुपाङ्क्तं च विश्वमेतावदुच्यते ॥ १३२ ॥
पाङ्क्तमेव जगत्सर्वमिति दृष्ट्वाऽभ्यधादृषिः ।
पाङ्क्तं वा इदमाब्रह्मस्तम्बं नान्यदिति स्म ह ॥ १३३ ॥
आध्यात्मिकेन पाङ्क्तेन सङ्ख्यासामान्यकारणात् ।
बलयत्यात्मभावेन पाङ्क्तं बाह्यमशेषतः ॥ १३४ ॥
इति सप्तमोऽनुवाकः ॥ ७ ॥
अष्टमोऽनुवाकः
सर्वोपासनशेषस्य प्रणवस्याधुनोच्यते ।
उपासनमलं यस्माद् ब्रह्मणोः प्राप्तये द्वयोः ॥ १३५ ॥
परस्य ब्रह्मणो यस्मादपरस्य च चोद्यते ।
आलम्बनतया तस्मात्स एवात्राभिधीयते ॥ १३६ ॥
ओमित्येतच्छब्दरूपं ब्रह्मेति मनसा सदा ।
धारयेत्स्तुतये तस्य परो ग्रन्थोऽवतार्यते ॥ १३७ ॥
तद्यथा शङ्कुनेत्येवं सर्वमोमिति युज्यते ।
अभिधानादृते यस्मादभिधेयं न विद्यते ॥ १३८ ॥
अनुज्ञानुकृतिस्तद्वत्सर्वत्रोमिति कीर्त्यते ।
ओश्रावयेत्यनुज्ञाता यत आश्रावयन्ति च ॥ १३९ ॥
प्रसौति ह्यनुजानाति ब्रह्मोमित्येव चर्त्विजम् ।
प्रवक्ष्यन्ब्राह्मणो वेदमोमित्येवं प्रयुज्यते ॥ १४० ॥
उपाप्नवानि ब्रह्मेति स च वेदमवाप्नुयात् ॥ १४१ ॥
परात्मा वा भवेद्ब्रह्म स तदोकारपूर्वकम् ।
प्राप्नोत्येव न सन्देह उपासीतात ओमिति ॥ १४२ ॥
इति अष्टमोऽनुवाकः ॥ ८ ॥
नवमोऽनुवाकः
यथोक्तोपासनादेव स्वाराज्यफलसंश्रयात् ।
नैष्फल्ये कर्मणां प्राप्ते तत्साफल्यार्थ उत्तरः ॥ १४३ ॥
स्वाध्यायोऽध्ययनं ज्ञेयं तथा चाध्यापनं परम् ।
आधातव्या यथाशास्त्रमग्नयः श्रेयसे तथा ।
होतव्यमगिहोत्रं च कुर्याच्चातिथिपूजनम् ॥ १४४ ॥
तथा संव्यवहारश्च मानुषं स्यादसंशयम् ॥ १४५ ॥
उत्पाद्या च प्रजा योग्या प्रजनं चर्तुसेवनम् ।
निवेशनं सुतस्येह प्रजातिरिति गम्यताम् ॥ १४६ ॥
उक्तेषु व्यापृतेनापि कार्ये एव प्रयत्नतः ।
स्वाध्यायवचने तेन प्रत्येकं च ग्रहस्तयोः ॥ १४७ ॥
वेदार्थबोधनं नास्ति स्वाध्यायेन विना यतः ।
तथा प्रवचनेनातो धर्मार्थं च ग्रहस्तयोः ॥ १४८ ॥
सत्यमेव तु वक्तव्यमिति सत्यवचा जगौ ।
राथीतरो मुनिस्तद्वत्तप एवेत्युवाच ह ॥ १४९ ॥
पुरुशिष्टस्य तनयः कर्तव्यं तु महातपाः ।
मुद्गलस्यात्मजश्चाह कर्तव्ये यत्नमास्थितैः ।
स्वाध्यायप्रवचने एव ते एव तु तपो यतः ॥ १५० ॥
इति नवमोऽनुवाकः ॥ ९ ॥
दशमोऽनुवाकः
स्वाध्यायार्थश्च विज्ञेयः अहं वृक्षस्य रेरिवा ।
इत्यादिरुत्तरो ग्रन्थो विशुद्धिर्हि ततो धियः ॥ १५१ ॥
विशुद्धमनसो यस्मात्सम्यग्ज्ञानोदयो भवेत् ।
मन्त्राम्नायोऽयमारब्ध एतस्मात्कारणात्परः ॥ १५२ ॥
उच्छित्तिलक्षणस्याहं विश्वस्य जगतः सदा ।
अस्य संसारवृक्षस्य रेरिवा जनकोऽस्म्यहम् ॥ १५३ ॥
कीर्तिः ख्यातिर्ममज्ञेया गिरेः पृष्ठमिवोच्छ्रिता ।
ऊर्ध्वं तत्कारणं ब्रह्म पवित्रं भवहानतः ॥ १५४ ॥
यस्य सोऽयं भवेदूर्ध्वं पवित्रं पावनं परम् ॥ १५५ ॥
वाजमन्नमिति ज्ञेयं तद्वतीव दिवाकरे ।
स्वमृतं परमं ब्रह्म बुद्धावस्यामहं सदा ॥ १५६ ॥
द्रविणं धनमित्याहुरिह त्वात्मावबोधनम् ।
सवर्चसं सुदीप्तं स्यान्मोक्षामृतफलप्रदम् ॥ १५७ ॥
अक्षितोऽक्षीणारूपत्वाद् वेदानुवचनं त्विदम् ।
त्रिशङ्कोर्ब्रह्मभूतस्य ह्यार्षं सन्दर्शनं परम् ॥ १५८ ॥
पावनोऽस्य जपः श्रेयान् ब्रह्मज्ञानस्य जन्मने ।
मुमुक्षुः प्रयतस्तस्माज्जपेदेतत्समाहितः ॥ १५९ ॥
कर्मप्रसङ्ग उक्तत्वादयमर्थोऽवसीयते ।
मुमुक्षोस्तत्परस्यैवं श्रौतस्मार्तेषु कर्मसु ।
आर्षं च प्रातिभं ज्ञानमाविर्भवति मोक्षदम् ॥ १६० ॥
इति दशमोऽनुवाकः ॥ १० ॥
एकादशोऽनुवाकः
आरम्भो नियमार्थः स्यादात्मज्ञानोदयात्पुरा ।
श्रुतेर्वेदमनूच्येति श्रुतिश्चैवानुशास्ति हि ॥ १६१ ॥
विद्योत्पत्त्यर्थमेतानि कर्तव्यानि मुमुक्षुणा ।
वक्ष्यमाणानि कर्माणि यावदात्मावबोधनम् ॥ १६२ ॥
आत्मज्ञानोदयादूर्ध्वं पुरुषार्थावसानतः ।
स्वतः सिद्धेश्च मोक्षस्य कर्मकाण्डमनर्थकम् ॥ १६३ ॥
तस्मात्सत्त्वविशुद्ध्यर्थं कार्यं कर्म मुमुक्षुभिः ।
प्रागेव ब्रह्मविज्ञानान्नियमेनेति ह श्रुतिः ॥ १६४ ॥
आनर्थक्यापनुत्त्यर्थमृतादीनां पुरा श्रुतिः ।
नियमार्थमिहोक्तिः स्यादात्मज्ञानोदयार्थिनः ॥ १६५ ॥
अध्याप्य निखिलं वेदमन्तेवासिनमादरात् ।
सत्यं वदेत्येवमादि गरीयाननुशास्ति हि ॥ १६६ ॥
यथोपलब्धं यद्वाक्यं हिंसाकल्कविवर्जितम् ।
सर्वधर्मविदः प्राज्ञास्तत्सत्यं प्रतिजानते ॥ १६७ ॥
अग्निहोत्राद्यनुष्ठानं धर्ममाहुर्विपश्चितः ।
प्रमादं मा कृथास्तद्वत्स्वाध्यायं प्रति सर्वदा ॥ १६८ ॥
तथाभिलषितां न्याय्यामाचार्यायाथ दक्षिणाम् ।
दत्त्वा दारांस्त्वमाहृत्य माच्छेत्सीः सुतसन्ततिम् ॥ १६९ ॥
विस्मृत्याप्यनृतं नित्यं न च वक्तव्यमण्वपि ।
इत्यस्य प्रतिपत्त्यर्थं सत्यादीति पुनर्वचः ॥ १७० ॥
एवं शिष्टेष्वपि ज्ञेयं प्रसिद्धार्थत्वकारणात् ।
स्पष्टार्थ उत्तरो ग्रन्थः स्वयमेवावगम्यताम् ॥ १७१ ॥
उक्तेभ्योऽन्यानि कर्माणि शिष्टाचारोपगानि तु ।
अनाशङ्कितदोषाणि त्वया कार्याणि यत्नतः ॥ १७२ ॥
समाशङ्कितदोषाणि शिष्टैराचरितान्यपि ।
सावद्यानि न कार्याणि कर्माणीह कदाचन ॥ १७३ ॥
श्रुतिस्मृत्यविरुद्धानि शिष्टाचारोपगानि च ।
अस्मत्कर्माणि कार्याणि न विरोधीनि कर्हिचित् ॥ १७४ ॥
अस्मत्तो ब्राह्मणा ये स्युः श्रेयांसः शास्त्रवेदिनः ।
तेषामासनदानेन श्रमापनयनं कुरु ॥ १७५ ॥
तेषामाख्यायिकायां वा न वाच्यं सम्भ्रमात्त्वया ।
तदुक्तसारं त्वादाय नापकार्यं यथाबलम् ॥ १७६ ॥
श्रद्धयैव हि दातव्यमश्रद्धाभाजनेष्वपि ॥ १७७ ॥
श्रीर्विभूतिस्तया देयं देयं चापि सदा ह्रिया ।
भिया भयेन दातव्यं संविन्मैत्री तयाऽपि च ॥ १७८ ॥
एवं चेद्वर्तमानस्य श्रौतस्मार्तेषु कर्मसु ।
वृत्ते वा विचिकित्सा स्यात्संशयो मतिविभ्रमात् ।
तस्मिन्कर्मणि वृत्ते वा विप्रा ये सूक्ष्मदर्शिनः ॥ १७८ ॥
स्वतन्त्रा अभियुक्ताश्च ऋजवः कामवर्जिताः ।
यथा ते तत्र वर्तन्ते वर्तेथास्त्वं तथैव च ॥ १८० ॥
तथा शङ्कितदोषेषु यथोक्तमुपपादयेत् ।
आदेशोऽत्र विधिर्ज्ञेय उपदेशः सुताय च ॥ १८१ ॥
रहस्यं सर्ववेदानां वेदोपनिषदुच्यते ।
अनुशासनमीशस्य ज्ञेयमेतत्परात्मनः ॥ १८२ ॥
यस्मादेवमतः सद्भिर्यथोक्तं यत्नमास्थितैः ।
उपासितव्यं कर्तव्यमेवं चैतत्समाचरेत् ॥ १८३ ॥
इति एकादशोऽनुवाकः ॥ ११ ॥
द्वादशोऽनुवाकः
प्रमादोत्थादपन्यायाद् गुरुशिष्याभिसङ्गतेः ।
प्रसक्तो यस्तयोर्द्वेषस्तच्छान्त्यै शान्तिरुच्यते ॥ १८४ ॥
स्याज्ज्ञानं फलवद्यस्माच्छान्तान्तःकरणो गुरौ ।
तस्येश्वरेणानन्त्यत्वाद् भूयः शान्तिरियं ततः ॥ १८५ ॥
भाव्यं तु परिहाराय तन्मामावीदितीरणम् ।
आत्मनो ब्रह्मतां यस्मात्स्वतः सिद्धां प्रवक्ष्यति ॥ १८६ ॥
॥ इति शिक्षाया वार्तिकानि समाप्तानि ॥