अद्वैतशारदा

तैत्तिरीयोपनिषद्भाष्यवार्तिकम्

ब्रह्मानन्दवल्ली: प्रथमोऽनुवाकः

प्रथमोऽनुवाकः
कामादयो यद­ज्ञा­ना­त्त­ज्ज्ञा­ना­त्स्या­द­का­मता ।
अतः परं तदैकात्म्यं वक्ष्य­तेऽ­ज्ञा­न­घ­स्म­रम् ॥ १ ॥
नाऽना­ग­त­म­नै­तिह्यं प्रत्य­गे­क­म­वि­क्रि­यम् ।
अनादेयमहेयं यन्नमस्तस्मै सदादृशे ॥ २ ॥

याव­न्त्यु­पा­स­ना­न्या­दा­व­वि­रु­द्धानि कर्मभिः ।
संहिताविषयादीनि स्युस्ता­न्य­भ्यु­द­याय तु ॥ ३ ॥
न चैता­व­द­व­ष्ट­म्भा­त्का­म­क­र्मो­द्भ­व­त्वतः ।
सर्वा­न­र्थे­क­बी­जस्य मोहस्यास्ति निराक्रिया ॥ ४ ॥
तस्मा­त्सं­सा­र­मू­लस्य भृश­मु­च्छि­त्त­येऽ­धुना ।
यथा­भू­ता­र्थ­बो­ध्या­त्म­ज्ञानं सम्य­क्प्र­व­क्ष्यते ॥ ५ ॥
नित्य­क­र्मा­द्य­नु­ष्ठा­ना­च्छु­द्धा­न्तः­क­रणः पुमान् ।
विर­क्त­श्चाऽऽ­ग्र­जा­ल्ला­भा­त्स्व­प्न­पु­त्रा­दि­ला­भ­वत् ॥ ६ ॥
प्रत्य­क्षा­ग­म­लि­ङ्गैर्हि यद्य­त्क­र्मो­द्भवं फलम् ।
तत्क्ष­यि­ष्ण्विति विज्ञाय विरक्तो नरकाद्यथा ॥ ७ ॥
अपास्ताशेषदोषं यत्स­र्व­का­म­नि­रा­स­कृत् ।
तदनाप्तं तमो­मा­त्रा­त्प्र­सि­द्ध्यैव हि तद्यतः ॥ ८ ॥
तद­ना­प्ति­कृ­द­ज्ञा­न­ध्व­स्त­येऽलं न कारकम् ।
प्रत्य­ग्ज्ञा­नेऽ­धि­का­र्य­स्मा­त्त्य­क्त­पू­र्वो­क्त­सा­धनः ॥ ९ ॥
त्याग एव हि सर्वेषां मोक्ष­सा­ध­न­मु­त्त­मम् ।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ॥ १० ॥
त्यज धर्ममधर्मं च तथा सत्यानृते अपि ।
न्यासो ब्रह्मेति च प्राह तैत्ति­री­य­श्रु­ति­स्तथा ॥ ११ ॥
क्षयिण्णु साध्यं विज्ञाय निःशेषं कर्मसाधनम् ।
तत्त्या­ग­सा­ध­न­स्त­स्मा­त्प्र­त्य­ज्ञाने प्रवर्तते ॥ १२ ॥
उत्पत्त्यादि स्वत­श्चे­त्स्या­त्क­र्मणा किं प्रयोजनम् ।
स्वत एव न चेत्तत्स्याद्वद स्यात्क­र्म­णाऽत्र किम् ॥ १३ ॥
उत्पत्त्यादौ तु यच्छक्तं हेतु­मा­त्र­म­पे­क्षते ।
कर्मव्यपेक्षा तस्यैव घटोत्पत्तौ मृदो यथा ॥ १४ ॥
नित्यं न भवनं यस्य यस्य वा नित्यभूतता ।
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥ १५ ॥
कर्तव्यता न साध्यस्य विदि­त­त्वा­द्वि­धी­यते ।
दुःखत्वाच्च न यागस्य ह्युपा­य­स्त्व­व­बो­ध्यते ॥ १६ ॥
विजिज्ञासस्व तदिति ब्रह्मज्ञाने प्रवर्तकम् ।
जिज्ञा­स्य­ल­क्ष­णोक्तिः स्याद्यतो वा इति च श्रुतिः ॥ १७ ॥
कोश­प्र­त्य­क्प्र­वे­शेन पूर्व­पू­र्व­प्र­हा­णतः ।
कारकादिनिषेधेन ह्युपायो ब्रह्मवेदने ॥ १८ ॥

अवि­द्यो­द्भू­त­तृ­ष्णेन पुंसा यत्कल्पितं फलम् ।
अन­न्त­फ­ल­सि­द्ध्यर्थं तदनूक्तिः प्रवृत्तये ॥ १९ ॥
कर्तुः कर्माणि कार्या­र्थ­म­ना­त्म­फ­ल­दानि हि ।
पुरोक्तानि यतो नासावन्यथाऽतः प्रवर्तते ॥ २० ॥
क्षयिष्णु साधनाधीनं फलं बुद्ध्वा वितृष्णतः ।
काम­हे­तो­र­नु­च्छि­त्ते­र­प­रा­त्प­र­मी­प्सति ॥ २१ ॥
साध्य­सा­ध­न­व­द्वाक्यं तद्वि­रु­द्धा­र्थ­सि­द्धये ।
प्राह ब्रह्म­वि­दा­प्नोति श्रुतिः प्रत्य­क्प्र­वे­शिनी ॥ २२ ॥
शिखा ते वर्धते वत्स गुडूचीं श्रद्धया पिब ।
मातेव प्रेरयेद्बालं सद­स­म्भा­व्य­सि­द्धये ॥ २३ ॥
साध्य­सा­ध­न­स­म्ब­न्धा­त्प्र­सक्ता येह दोषधीः ।
सा चैक­रू­प­वि­ज्ञा­न­शि­खि­प्लुष्टा विनङ्क्ष्यति ॥ २४ ॥
मा भूदण्वपि मे दुःखं सुख्येव स्यामहं सदा ।
इति स्वतोऽभिलाषोऽयं सत्येव विषये भवेत् ॥ २५ ॥
अज्ञा­त­मो­क्ष­रू­पोऽपि कैवल्याय प्रवर्तते ।
अलं यथो­क्त­का­मे­द्ध­धि­षणो भवभीषितः ॥ २६ ॥
प्रवृत्तिजनकं यस्मा­त्स­र्व­त्रैव प्रयोजनम् ।
श्रुति­र्ब्र­ह्म­वि­दा­प्नो­ती­त्याह पुंसः प्रलुब्धये ॥ २७ ॥
फल­श्रु­त्य­ङ्कु­शा­कृष्टः श्रवणादौ प्रवर्तते ।
तत्पूर्वकं यतो ज्ञानं श्रुति­श्चै­व­म­भा­षत ॥ २८ ॥
लौकिकी वैदिकी चाथ प्रवृत्तिर्येह काचन ।
नर्ते प्रयोजनं यस्मात्तदेवातः प्रवृत्तिकृत् ॥ २९ ॥

ब्रह्मविद् ब्रह्म वेत्तीह यः स आप्नोति तत्परम् ।
सत्यादिलक्षणं ब्रह्म वक्ष्यते तदृचा स्फुटम् ॥ ३० ॥
फलोक्तिः पर­मा­प्नो­ती­त्याप्ता ब्रह्मविदुच्यते ।
सामर्थ्याद् ब्रह्मविद्या तु पर­स्या­वा­प्ति­सा­ध­नम् ॥ ३१ ॥
स्वर्गं यथाऽग्निहोत्रेण यजमानः प्रसाधयेत् ।
परावाप्तिं तथा कुर्याद् ब्रह्मविद् ब्रह्मविद्यया ॥ ३२ ॥
ब्रह्मैवात्र परं ग्राह्यं तज्ज्ञानं नान्यसिद्धये ।
अन्यज्ज्ञानं हि नान्यस्य क्वचिदप्याप्तये यतः ॥ ३३ ॥
देश­का­ला­दि­स­म्भे­द­पू­र्वि­काऽ­वा­प्ति­रि­ष्यते ।
देश­का­ला­द्य­भि­न्नस्य कथं सेत्युच्यते यथा ।
सर्वा­त्म­नोऽ­प्य­नाप्तिः स्याद्दशमस्येव मोहजा ॥ ३४ ॥

पञ्च­स्व­न्न­म­या­द्येषु ह्यहमस्मीति विभ्रमात् ॥ ३५ ॥
दशमोऽस्मीत्यतो ज्ञाना­द­ज्ञा­न­ध्व­स्ति­व­र्त्मना ।
दश­मा­प्ति­व­दाप्तिः स्याद् ब्रह्म­णोऽ­ज्ञा­न­हा­नतः ॥ ३६ ॥
विभि­न्न­वे­त्तृ­वे­द्यादौ गौणं ब्रह्म यतस्ततः ।
अभि­न्न­वे­त्तृ­वे­द्यादि ग्राह्यं मुख्या­र्थ­सि­द्धये ॥ ३७ ॥
अन्य­दृ­ष्टा­वि­वा­तोऽत्र न नियोगो मनागपि ।
मोह­प्र­ध्वं­स­मा­त्रेण निवृत्ते रोगहानिवत् ॥ ३८ ॥
कर्तृतां प्रत्यगालिङ्ग्य योऽक­र्त्रा­त्मा­न­मी­प्सति ।
उल्कापिशाचं सोऽभ्येति शीतार्थः पावकेच्छया ॥ ३९ ॥
करोमीति धिया चेत्त­द्ब्र­ह्मा­स्मीति हि लभ्यते ।
ब्रूतालाभेऽस्य को हेतुर्न ह्यतोऽ­न्योऽ­स्त्य­द­र्श­नात् ॥ ४० ॥
तस्मा­द­वि­द्या­स­म्भू­त­कर्तृ प्रत्य­ग­वि­क्रि­यम् ।
अवि­द्या­न­र्थ­त­त्का­र्य­प्र­त्या­ख्या­नेन बोध्यते ॥ ४१ ॥
कर्तृ­र्ज्ञा­तुर्हि या दृष्टिः सामा­न्या­द्य­र्थ­सं­श्रया ।
तत्प्र­त्य­गा­त्म­दृष्ट्या तां प्रत्या­ख्या­या­श्नुते परम् ॥ ४२ ॥

अशे­षा­न­न्द­व­ल्ल्य­र्थ­सू­त्र­मा­द्य­मिदं वचः ।
यस्मा­त्त­स्मा­त्त­द­र्थस्य ह्यावि­ष्कृ­दृ­गु­दी­र्यते ॥ ४३ ॥

विशे­ष­ण­वि­शे­ष्य­त्वा­त्स­त्या­दी­न्यत एव च ।
चत्वा­र्ये­क­वि­भ­क्तीनि नील­र­क्तो­त्प­ला­दि­वत् ॥ ४४ ॥
वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षितम् ।
तस्माद्विशेष्यं विज्ञेयं ततोऽ­न्य­त्स्या­द्वि­शे­ष­णम् ॥ ४५ ॥
नीलं महत्सुगन्धीति विशिं­ष­न्त्यु­त्पलं यथा ।
एकाधिकरणान्येवं सत्यादीनि परं महत् ॥ ४६ ॥
एवं विभज्यमानं सत्स­त्य­मि­त्ये­व­मा­दिभिः ।
स्ववि­शे­ष­वि­रु­द्धेभ्यो धर्मिभ्यः स्यान्निराकृतम् ॥ ४७ ॥
एवं च सति तज्ज्ञातं यद­न्ये­भ्योऽ­व­धा­र्यते ।
नीलो­त्प­ला­दि­व­द्ब्रह्म नान्य­थाऽ­न­व­धा­र­णात् ॥ ४८ ॥

ननु व्यभिचरद्वस्तु स्याद्विशेष्यं विशेषणैः ।
ब्रह्मा­न्त­रा­दृते त्वत्र कुतो ब्रूहि विशेष्यता ॥ ४९ ॥
विशे­ष­ण­वि­शे­ष्यत्वे सति दोषः प्रसज्यते ।
लक्ष्यलक्षणतां यातु न दोषोऽत्र मनागपि ॥ ५० ॥
अने­का­त्म­वि­शे­ष्य­स्थ­मा­गृ­ही­त­वि­शे­ष्य­कम् ।
सजा­ती­या­न्नि­रा­कर्तृ विशेषणमिहोच्यते ॥ ५१ ॥
सामा­न्ये­त­र­सं­यु­क्त­म­ने­क­गु­ण­सं­यु­तम् ।
सम्भ­व्य­स­म्भ­वि­गुणं विशेष्यं तत्प्रचक्षते ॥ ५२ ॥
विशे­ष्या­न्त­र­शेषं यस्त्व­वि­शे­ष्या­न्या­न्य­बु­द्धि­कृत् ।
परि­क­ल्पि­त­स­म्बन्धं लक्षणं भावलक्षणम् ॥ ५३ ॥
निरस्यति यथैवैकं तथै­वा­न्य­द्वि­रोधि यत् ।
स्वात्म­नै­वै­क­रू­पेण लक्ष्यमत्र निगद्यते ॥ ५४ ॥

सत्यादयः परा­र्थ­त्वा­दि­त­रे­त­र­नि­स्पृहाः ।
एकैकस्त्वत एवैषां विशेष्यार्थेन बध्यते ॥ ५५ ॥

सकृ­त्प्र­मि­त­रू­पा­द्य­द्रू­प­म­न्य­त्क­दा­चन ।
नैव प्रपद्यते सत्यं तस्मा­त्का­र्य­वि­ल­क्ष­णम् ॥ ५६ ॥

यावा­न्क­श्चि­द्वि­का­रोऽत्र ब्रह्म तस्मा­न्नि­व­र्ति­तम् ।
भजते कारणत्वं तत्त­थाऽ­चै­त­न्य­ध­र्म­कम् ॥ ५७ ॥

तद्दो­ष­द्व­य­नु­त्त्यर्थं ज्ञानं ब्रह्मे­त्यु­दी­र्यते ।
अने­का­र्था­भि­स­म्ब­न्धा­त्कि­मर्थं ज्ञानमुच्यते ॥ ५८ ॥

ब्रह्मणो भेदकं यस्मादानन्त्येन च सङ्गतेः ।
ज्ञप्ति­र्ज्ञा­न­मिति न्याय्यमन्यथा दोषदर्शनात् ॥ ५९ ॥
तस्मा­त्स­त्य­म­नन्तं यज्ज्ञानं तदिह गृह्यते ।
भावसाधनमेवातः स्यादे­त­द्यु­क्ति­द­र्श­नात् ॥ ६० ॥

ज्ञानं ब्रह्मेति वच­ना­द­न्त­व­त्त्व­म­वाप तत् ।
ज्ञानस्य लोकिकस्येह ह्यन्त­व­त्त्व­स­म­न्व­यात् ॥ ६१ ॥

अत­स्त­त्प्र­ति­षे­धा­र्थ­म­न­न्त­मिति शब्द्यते ।
अन्तः सीमा तथेयत्ता तन्नि­षे­ध­स्त्व­न­न्तता ॥ ६२ ॥

अनृतादिनिषेधेन सत्या­दी­ना­मु­प­क्ष­यात् ।
ब्रह्म­ण­श्चा­प्र­सि­द्ध­त्वा­न्मि­थ्यार्थं चेद्वचो न तत् ॥ ६३ ॥
पर­मा­र्थ­म­ना­लिङ्ग्य न दृष्टं वितथं क्वचित् ।
तस्माद्वा वितथं सर्वं पर­मा­र्थै­क­नि­ष्ठि­तम् ॥ ६४ ॥
पदा­त्प­दा­र्थ­बु­द्धिर्न उत्पलादौ प्रजायते ।
तदभावधियै नालं पद­वा­क्या­र्थ­रू­पतः ॥ ६५ ॥
प्रतिपद्य पदार्थं हि विरो­धा­त्त­द्वि­रो­धिनः ।
पश्चादभावं जानाति वध्य­घा­त­क­व­त्प­दात् ॥ ६६ ॥
शब्दात्प्रतीयते ताव­त्स­ङ्ग­ति­र्ध­र्म­ध­र्मिणोः ।
माना­न्त­रा­द­पो­हस्तु न शाब्दस्तेन स स्मृतः ॥ ६७ ॥
न नीलवदनादाय नीलधीरुपजायते ।
विशे­ष्य­ज्ञा­न­म­प्येवं नान्तरेण विशेषणम् ॥ ६८ ॥
वाक्या­र्था­नु­भ­वोऽ­स्माकं नीलादेरुपजायते ।
किं नीलमिति चाकाङ्क्षा सत्येवमुपपद्यते ॥ ६९ ॥
प्रत्य­क्ष­तोऽ­व­से­य­त्वा­देवं सर्वस्य वस्तुनः ।
नैवं साधयितुं शक्यं क्षणिकत्वं कथञ्चन ॥ ७० ॥
सति कुम्भो न नाशोऽस्ति नाशोऽपि न तदाश्रयः ।
अस्ति चेत्पू­र्व­व­द्धर्मी न नष्टः पूर्ववद् घटः ॥ ७१ ॥
इष्टो नाशस्य नाशश्चेदस्तु जीव शतं समाः ।
घटोऽनाशीति मत्पक्षः स च नैवं विहन्यते ॥ ७२ ॥
न नाशो हन्ति नष्टारं गन्तारमिव तद्गतिः ।
यस्मिन्सत्येव यः सिध्ये­न्नि­रु­णाद्धि स तं कथम् ॥ ७३ ॥
लक्षणार्थमिदं वाक्यं यस्मा­त्पू­र्व­मु­दा­हृ­तम् ।
विशे­ष­णा­श्र­या­न्नातः शून्यताऽत्र प्रसज्यते ॥ ७४ ॥

विशे­ष­ण­त्वेऽ­प्ये­तेषां लक्ष­णा­र्थ­त्व­मा­त्मनि ।
लक्ष्येऽसति न तादर्थ्यं सत्यादीनां प्रसज्यते ॥ ७५ ॥
अतो लक्ष­ण­वा­चि­त्वान्न शून्यार्थमिदं वचः ।
विशेष्यत्वेऽपि नैवं स्यात्स्वा­र्था­स­न्त्या­ग­का­र­णात् ॥ ७६ ॥

स्वार्थेऽसति न सत्या­दे­र्वि­शे­ष्यार्थे नियन्तृता ।
निय­म्या­र्थ­नि­य­न्तृत्वं स्वार्थे सत्युपपद्यते ॥ ७७ ॥
स्वेना­र्थे­ना­र्थ­वां­श्चात्र ब्रह्मशब्दः सहेतरैः ।
तत्रा­न­न्तोऽ­न्त­व­द्व­स्तु­व्या­वृ­त्त्यैव विशेषणम् ॥ ७८ ॥
स्वार्था­र्प­ण­प्र­ना­ड्यैव परिशिष्टौ विशेषणम् ।
तद्वि­रो­ध्य­र्थ­स­न्त्यागः साम­र्थ्या­त्स्यान्न शब्दतः ॥ ७९ ॥

गुहायां निहितं यस्मा­दे­त­स्मा­दा­त्म­न­स्तथा ।
ब्रह्मा­त्म­श­ब्द­यो­स्त­स्मा­दै­का­र्थ्य­म­व­सी­यते ॥ ८० ॥
विज्ञा­ना­त्मा­ति­रे­केण ज्ञाप्यते ब्रह्म चेत्परम् ।
नियोगगम्यः सन्भेदो वद केन निवार्यते ॥ ८१ ॥
न चेदात्मा परं ब्रह्म स्वतः स्यादस्य दुःखिनः ।
नियोगो वाऽभियोगो वा कं विशेषं करिष्यति ॥ ८२ ॥
पश्यतः प्रत्य­गा­त्मा­न­म­प­वि­द्धा­न्य­व­स्तुनः ।
अहं ब्रह्मेति चेज्ज्ञानं शास्त्रा­द­न्य­त्परं कथम् ॥ ८३ ॥
आत्मनोऽन्यस्य चेद्धर्मा अस्थूलत्वादयो मताः ।
अनात्मत्वेऽस्य किं तैः स्यादा­त्म­त्वे­त्व­न्य­धी­ह्नुतिः ॥ ८४ ॥
यत्सा­क्षा­दि­त्यु­प­क्रम्य य आत्मे­त्यु­प­सं­हृतेः ।
अन्यो­न्या­र्थ­स­मा­प्तेश्च व्यतिरेके त्वसम्भवात् ॥ ८५ ॥
आत्मैव चेत्परं ब्रह्म भव­ताऽ­भ्यु­प­ग­म्यते ।
आत्मनो ज्ञान­क­र्तृ­त्वा­ज्ज्ञानं स्यात्क­र्तृ­सा­ध­नम् ॥ ८६ ॥
पार­त­न्त्र्य­म­नि­त्यत्वं धात्वर्थत्वे प्रसज्यते ।
तर्क­शा­स्त्र­प्र­सि­द्धेश्च कर्तृतैवात्मनो भवेत् ॥ ८७ ॥
उच्चैर्बाहुं समुद्धृत्य इत्या­हु­श्चो­द्य­चु­ञ्चवः ।
यथोदितमिदं सर्वं नैतदेवं भवेत्कुतः ॥ ८८ ॥

स्वरू­पा­व्य­ति­रे­केऽपि कार्य­त्व­मु­प­चा­रतः ।
बुद्ध्यु­पा­श्र­य­का­र्याणि कल्प्य­न्तेऽ­त्रा­वि­वे­कतः ॥ ८९ ॥
स्वरूपमात्मनो ज्ञानं न तस्मा­द्व्य­ति­रि­च्यते ।
बुद्धेः प्रत्ययकारित्वं तत्सा­क्षि­ण्यु­प­च­र्यते ॥ ९० ॥
आत्म­चै­त­न्य­सं­व्याप्ता वृत्तीर्धीः कुरुते यतः ।
चैत­न्या­लि­ङ्गिताः सर्वा­स्त­प्ता­यो­वि­स्फु­लि­ङ्ग­वत् ॥ ९१ ॥
चैत­न्य­ख­चि­ता­न्दृष्ट्वा प्रत्य­या­न्बु­द्धि­क­र्तृ­कान् ।
ज्ञानं क्रियत इत्यज्ञाः कूटस्थमपि मन्वते ॥ ९२ ॥
आवि­र्भा­व­ति­रो­भावौ बुद्धे­र्य­त्सा­क्षिकौ नृणाम् ।
ततोऽन्यं कं समाश्रित्य साक्षि­क­र्तृ­त्व­मु­च्यते ॥ ९३ ॥
बुद्धि­भा­वा­न­व­च्छिन्नं तादृग्रूपं यथा पुरा ।
बुद्ध्यु­त्प­त्ता­वपि तथाऽविक्रियं ह्यनुभूयताम् ॥ ९४ ॥
कर्तृ­का­र्या­व­भा­सि­त्वा­त्क­र्तृ­का­र्या­भि­धा­यिनः ।
लक्षयन्ति परं ब्रह्म नाञ्जसा तत्प्रचक्षते ॥ ९५ ॥

यत्तु तद्ब्रह्मणो ज्ञानं सर्वा­न­न्य­द­वि­क्रि­यम् ।
ब्रह्म­णोऽ­व्य­ति­रिक्तं तत्स­र्व­प्र­त्य­क्स­मा­प्तितः ॥ ९६ ॥
प्रत्या­ख्या­ता­खि­ला­ना­त्म­भे­द­स­त्या­र्थ­वा­चिना ।
तथैव सत्यशब्देन लक्ष्यते तन्न तूच्यते ॥ ९७ ॥

एवं सत्यादयः शब्दाः स्वार्था­स­न्त्या­गिनः परम् ।
लक्षयन्ति विरु­द्धा­र्थ­नि­वृ­त्त्याऽ­ज्ञा­न­हा­नतः ॥ ९८ ॥
निव­र्त्य­भे­दा­द्भि­न्नोऽ­र्थोऽ­स­त्या­द्य­र्थ­नि­व­र्ति­नाम् ।
सत्यादीनामतः सिद्ध­वा­क्या­र्थ­त्व­मा­त्मनः ॥ ९९ ॥

यतो वाचो निवर्तन्ते नेति नेतीति चापरम् ।
एवं सत्य­र्थ­व­त्स­र्व­म­न्यथा तदनर्थकम् ॥ १०० ॥
कौटस्थ्यं सत्यमित्युक्तं तद्गुणं ज्ञानमुच्यते ।
स्वतो बोधस्य कौटस्थ्ये ज्ञातु­रा­न­न्त्य­मे­कता ॥ १०१ ॥
ज्ञात्रभेदात्तु तद्ब्रह्म ह्यनीप्सिततमं परम् ।
ज्ञातुरन्यस्य चाभावाद्यो वेदेत्युच्यते कथम् ॥ १०१ ॥

ज्ञात्रभेदात्तु तद्ब्रह्म ह्यनीप्सिततमं परम् ।
ज्ञातुरन्यस्य चाभावाद्यो वेदेत्युच्यते कथम् ॥ १०२ ॥
सत्या­दि­ल­क्ष्या­ज्ञा­नो­त्थाऽ­स­त्या­द्य­र्थ­नि­षे­धधीः ।
वर्त्म­नै­वाऽऽ­प्त­मा­प्नोति केवलाज्ञानहानतः ॥ १०३ ॥
एवं ज्ञातं विजानाति विमुक्तश्च विमुच्यते ।
निवर्तते निवृत्तं च त्रिर्वः शपथयाम्यहम् ॥ १०४ ॥
तस्मा­दा­स­न्न­क­र्तृ­त्व­ति­मि­रोऽ­य­म­वि­द्यया ।
सत्यादिलक्षणं ब्रह्म प्रत्यक्स्थमपि नेक्षते ॥ १०५ ॥
अतोऽ­वि­द्या­नि­षे­धेन सदा विस्फुरितेक्षणः ।
पिबं­ज्ञा­त्रा­दि­ना­नात्वं प्रत्य­गा­त्मा­न­मी­क्षते ॥ १०६ ॥
भूत­मा­त्रो­प­सं­श्ले­ष­स­मुत्थं यत आत्मनः ।
कर्तृ­भो­क्तृ­त्व­वि­ज्ञानं बुद्धौ तन्निहितं ततः ॥ १०७ ॥
तमो­र­जो­वि­नि­र्मु­क्त­त­द्वृत्त्या चोपलभ्यते ।
ब्रह्मातो निहितं बुद्धौ मनसैवेति च श्रुतिः ॥ १०८ ॥
निगूढमस्यां तद्ब्रह्म कामा­वि­द्या­द्यु­प­प्ल­वात् ।
प्रत्य­ग्धि­योऽ­नु­प­श्यन्ति तस्माद् बुद्धि­र्गु­हो­च्यते ॥ १०९ ॥

परमं व्योम हार्दं स्याद्बा­ह्या­त्त­त्प­रमं यतः ।
श्रुतेर्योऽयं बहिर्धेति तच्च बुद्धेः समाश्रयम् ॥ ११० ॥
गुहायां परमे व्योम­न्व­स्तु­वृ­त्त­म­पेक्ष्य वा ॥ १११ ॥
सत्या­दि­ल­क्ष­णा­न्ना­न्य­द्धियः प्रत्य­क्प्र­ती­यते ॥ १११ ॥
सत्या­द्य­र्थ­वि­रु­द्धेभ्यः सम्य­ग्व्या­वृ­त्त­धी­र्यतिः ।
धियः प्रत्य­क्प्र­वि­श्याथ सत्यात्मानं प्रपश्यति ॥ ११२ ॥
तस्मा­दु­पा­य­सि­द्ध्यर्थं बुद्धेः प्रत्य­क्प्र­वे­श­नम् ।
गुहायां परमे व्योम­ञ्श्रु­ति­र­स्मा­न­तोऽ­न्व­शात् ॥ ११३ ॥
ज्ञातुर्ज्ञेयं परं ब्रह्म भेद­बु­द्ध्य­प­नु­त्तये ।
गुहायां परमे व्योमं ज्ञेयं ज्ञातरि शिष्यते ॥ ११४ ॥
साध्य­सा­ध­न­स­म्ब­न्ध­व­र्त्म­नै­वा­नु­धा­वतः ।
साध्य­सा­ध­न­नि­र्मुक्तं स्वात्म­न्या­वि­शते परम् ॥ ११५ ॥

सोऽश्नुते निखि­ला­न्का­मा­न्क­र्तृत्वे तदसम्भवम् ।
आशङ्क्य ब्रह्मणेत्याह युग­प­त्स्या­त्स­हेति च ॥ ११६ ॥
प्रतीचि न स्यात्तद्ब्रह्म भेदार्था चेत्सहार्थता ।
सम्भाव्यते पराग्भूतं नापि सत्यादिमत्परम् ॥ ११७ ॥
नापि नोत्सहते वक्तुं निपा­त­त्वा­त्स­हा­र्थ­ताम् ।
तस्मा­द्यु­ग­प­द­र्थस्य वाचकं स्यात्सहेति यत् ॥ ११८ ॥
ज्ञाना­द­स­त्या­द्यु­च्छि­त्ते­रा­त्म­नोऽ­न्यन्न विद्यते ।
तस्मा­द्वि­प­श्चि­द्ब्र­ह्मभ्यां कामा­न्स­र्वा­न्स­हा­श्नुते ॥ ११९ ॥
ज्ञातु­र्हा­र्द­गु­हा­न्तस्थं प्रतीचोऽन्यन्न लभ्यते ।
सत्यादिमदतो ब्रह्म प्रत्यगात्मैव तद्विदः ॥ १२० ॥
विप­श्चि­द्व्य­ति­रे­केण ज्ञेय­त्वा­द्य­प­नु­त्तये ।
सामानाधिकरण्येन ब्रह्मणाह विपश्चिता ॥ १२१ ॥
एक­याऽ­क्र­म­व­र्तिन्या व्याप्नोति क्रमवर्तिनः ।
अव­ग­त्या­खि­ला­न्का­मा­न्योऽ­काम इति च श्रुतिः ॥ १२२ ॥
आदावन्ते तथा मध्ये धियोऽनेकशरीरगाः ।
निर्वि­शे­षै­क­चि­द्व्याप्ता ह्यन­न्या­नु­भ­वा­त्मना ॥ १२३ ॥
सर्व­प्र­वृ­त्ति­हे­तूंश्च यस्मा­द्ब्र­ह्म­वि­द­श्नुते ।
कामा­न्ब्र­ह्म­वि­द­स्त­स्मान्न प्रवृ­त्ति­र­हे­तुतः ॥ १२४ ॥
अविद्याहेतवः कामाः काममूलाः प्रवृत्तयः ।
धर्माधर्मौ च तन्मूलौ देहोऽ­न­र्था­श्र­य­स्ततः ॥ १२५ ॥
अतोऽ­वि­द्या­नि­रोधे स्यान्निरोधो विदुषः सदा ।
निःशे­ष­क­र्म­हे­तूनां विकाराणां तदैव तु ॥ १२६ ॥

कृत्स्नो­प­नि­ष­द­र्थस्य सूत्र­मि­त्य­भ्य­धा­त्पुरा ।
सङ्क्षे­प­त­स्त­द­र्थश्च सम्यङ्मन्त्रेण वर्णितः ॥ १२७ ॥
अनेन त्वाद्यसूत्रेण यावानर्थोऽत्र सूत्रितः ।
आसमाप्तेरियं वृत्ति­स्त­स्मा­दि­त्यु­च्य­तेऽ­धुना ॥ १२८ ॥

सत्यं ज्ञानमनन्तं च रसादेः पञ्चकात्परम् ।
स्याम­दृ­श्या­दि­शा­स्त्रो­क्त­महं ब्रह्मेति निर्भयम् ॥ १२९ ॥
ननु सत्यमनन्तं च कथं सम्यक्प्रतीयते ।
देश­का­ला­दि­हे­तु­त्वा­त्त­दि­दानीं विभाव्यते ॥ १३० ॥
वस्तुतो देशतश्चैव कालतश्च त्रिधोच्यते ।
आनन्त्यं ब्रह्मणश्चातः सत्याद्यपि च सिद्ध्यति ॥ १३१ ॥
अनन्तं देशतो व्योम देश­व­त्प्र­कृ­ति­त्वतः ।
कारणेनैकदेशं हि कार्यं नान्यत्र वर्तते ॥ १३२ ॥
कार्य­त्वा­त्का­लतो नास्य वस्तुतश्च विहायसः ।
वस्त्वन्तरस्य सद्भा­वा­दा­नन्त्यं वस्तुतोऽपि न ॥ १३३ ॥
काला­का­शा­दि­यो­नि­त्वा­त्स­र्वा­त्म­त्वा­त्त­थाऽऽ­त्मनः ।
वस्त्वन्तरस्य चास­त्त्वा­न्मु­ख्या­नन्त्यं परात्मनः ॥ १३४ ॥
कल्पितेन परिच्छेदो न ह्यक­ल्पि­त­व­स्तुनः ।
कल्पितश्चेह काला­दि­र्वा­चा­र­म्भ­ण­शा­स्त्रतः ॥ १३५ ॥

तस्मा­त्स­त्या­दि­या­थात्म्यं तस्मा­दि­त्ये­व­मा­दिना ।
वक्ष्यते ब्रह्मणः सम्य­क्सृ­ष्टि­व्या­जेन यत्नतः ॥ १३६ ॥
तस्मा­दि­त्या­दि­वा­क्योक्तं वैशब्दः स्मरणाय तु ।
एत­स्मा­दि­ति­म­न्त्रोक्तं सत्या­दि­गु­ण­ल­क्षि­तम् ॥ १३७ ॥
तद्वि­द्वि­प­श्चि­त्सा­म­र्थ्या­त्त­दे­तद्भ्यां प्रतीयते ।
आत्मश्रुतेर्न मुख्योऽर्थः प्रतीचोऽन्यत्र लभ्यते ॥ १३८ ॥
मत्तः सर्वमिदं जातं मय्येवान्ते प्रलीयते ।
अहमेको बिभ­र्मी­द­मि­त्येवं च प्रसिध्यति ॥ १३९ ॥
सर्वा­न­न्या­वि­का­र्ये­क­म­का­र्या­का­रणं परम् ।
ब्रह्म­स्व­भा­व­मा­लम्ब्य सृष्टिर्वक्तुं न शक्यते ॥ १४० ॥
ब्रह्मणोऽन्यदतः सर्वं कार्यत्वेन विवक्ष्यते ।
ब्रह्म­णोऽ­का­र­ण­त्वाच्च सृष्टौ हेतोरसम्भवः ॥ १४१ ॥
ब्रह्मस्वभावो हेतु­श्चे­त्सृ­ष्टे­स्त­त्सं­निधेः सदा ।
सर्वदा ब्रह्मवत्सर्गो न च देशाद्यसम्भवात् ॥ १४२ ॥
नाभू­त्सृ­ष्टि­र­भू­त­त्वा­द­भूतं कालहेतुतः ।
न भवि­ष्य­त्य­भा­व्य­त्वा­द­भाव्यं चाक्रियोत्थितेः ॥ १४३ ॥
नेदा­नी­म­द्वि­ती­य­त्वा­त्कौ­ट­स्थ्या­दा­त्मनः सदा ।
भवि­ष्य­त्य­स्त्य­भू­न्नातो वस्तु­वृ­त्त­म­पेक्ष्य तु ॥ १४४ ॥
भवि­ष्य­त्य­स्त्य­भू­च्चेति यतो वन्ध्यं विशेषणम् ।
उष्ट्रा­दि­व­द­णो­स्त­स्मा­द­वि­द्यै­वात्र कारणम् ॥ १४५ ॥
असतः कारणं नास्ति सतोऽनतिशयत्वतः ।
कौट­स्थ्या­ज्ज­न्म­ना­शा­ना­म­न­वस्था जनेर्जनौ ॥ १४६ ॥
काल­त्र­य­स्या­वि­द्यायाः समु­त्था­ना­द­हे­तुता ।
कर्म­दे­वे­श्व­रा­दी­ना­मत एवानिमित्तता ॥ १४७ ॥
जनिस्थित्यप्यया ह्येते जगतः स्युः प्रतिक्षणम् ।
धिया जनयते कर्ता कर्मभिश्चेति हि श्रुतिः ॥ १४८ ॥

अना­दि­म­ध्य­नि­ध­ना­वि­द्या­स­न्दू­षि­ता­त्मनः ।
ब्रह्मणो जायते व्योम तिमिरादिव चन्द्रमाः ॥ १४९ ॥
नालं क्षणमपि स्थातुं कार्यं तद्ध्रुवता कुतः ।
रज्ज्वेव भोग्यविद्योत्थं मूढ­दृ­ष्टे­र्ध्रु­वा­यते ॥ १५० ॥
तिमिरोपप्लुतो यद्वद्भिन्नमिव समीक्षते ।
चन्द्रि­का­मा­त्म­न­स्त­द्व­त्कार्यं भिन्नं समीक्षते ॥ १५१ ॥

यद्यद्भूत यथासङ्ख्यं तत्तत्तावद्गुणं स्मृतम् ।
पूर्वै­र्व्या­प्तानि कार्य­त्वा­दु­त्त­राणि यथाक्रमम् ॥ १५२ ॥
आकाशादेश्च कार्यत्वान्न वाय्वादि प्रजायते ।
विय­द्रू­पा­न्म­रु­ज्जन्म तस्मादात्मन एव तत् ॥ १५३ ॥
पञ्चैवखलु भूतानि व्योमा­दी­न्यु­प­ल­क्ष­येत् ।
कार्यकारणरूपेण भूतेभ्यो नान्यदिष्यते ॥ १५४ ॥
वाय्वादिषु तु यः शब्दः स्वस्थं तमविचक्षणाः ।
वाय्वा­दी­ना­मि­वे­क्षन्ते स्रग्गुणानिव भोगिनः ॥ १५५ ॥
चतुर्गुणात्मिका पृथ्वी न चतुर्ष्वपि सा यथा ।
ब्रह्मात्मकं जगत्सर्वं ब्रह्मैवं न जगन्मयम् ॥ १५६ ॥
सत्यं ज्ञानमनन्तं यत्प्रत्यज्ञायि पुरैकलम् ।
अनन्यानुभवं ब्रह्म तत्सिद्धं न्यायतः स्फुटम् ॥ १५७ ॥
दिगादिकरणो देवः पञ्चभूतशरीरभृत् ।
सर्वोऽ­स्मी­त्य­भि­मा­नेद्धो विराडेवमजायत ॥ १५८ ॥
अस्मात्पूर्वं भवेत्सूत्रं तस्मिन्सति विराड्यतः ।
श्रुत्य­न्त­रा­नु­रो­धाच्च विज्ञानमिति लिङ्गतः ॥ १५९ ॥
व्युत्ता­प्या­न्न­म­या­दिभ्यो ह्यन्नं प्राणमितीरणात् ।
उपासनोपदेशाच्च सूत्रमत्र विवक्षितम् ॥ १६० ॥
कार्यो­त्पा­दा­त्पुरा सूत्रं मृद्व­त्स­द­वि­भा­ग­वत् ।
कारणं कार्यमुत्पाद्य कार्यतामिव गच्छति ॥ १६१ ॥
कार्येऽसति तु तत्सूत्रं प्रज्ञा­न­घ­न­रू­प­भृत् ।
अवच्छिन्नं स्वकार्येण सम­ष्टि­व्य­ष्टितां व्रजेत् ॥ १६२ ॥

वृष्ट्या­दि­स­व्य­पे­क्षाया भुवः पञ्चगुणात्मिकाः ।
व्रीहिप्रभृतयः सर्वा भवन्त्योषधयः क्रमात् ॥ १६३ ॥

अदनार्हं तथाऽन्नं च ताभ्यः समभिजायते ।
जग्धा­द­न्ना­द्र­सो­त्पत्तिः शोणितं जायते रसात् ॥ १६४ ॥
जायते रुधिरान्मांसं मेदसश्च ततो भवः ।
मेदसोऽस्थीनि जायन्ते मज्जाऽ­प्य­स्थि­स­मु­द्भवा ।
ततः शुक्रस्य निष्पत्तिर्बीजं मात्रसृजा सह ॥ १६५ ॥
निजा­वि­द्या­म­हा­जा­ल­सं­वी­त­धि­षणः पुमान् ।
मोहो­त्था­न­ल­का­मा­ख्य­ब­डि­शा­प­ह­ता­शयः ॥ १६६ ॥
तमसा कामशार्ङ्गेण सङ्कल्पाकर्षणेन सः ।
रागाख्यविषलेपेन ताडितो विषयेषुणा ॥ १६७ ॥
ग्रहाविष्ट इवानीशश्चोदितो जन्यकर्मणा ।
योषिदग्निं पतत्याशु ज्योति­र्लो­भा­त्प­त­ङ्ग­वत् ॥ १६८ ॥
आकृष्य देहात्तच्छुक्रं यथाकर्म यथाश्रुतम् ।
रेतो­व­ह­प्रा­णा­ड्याऽथ योनौ पुंसा निषिच्यते ॥ १६९ ॥
तस्य योनौ निषिक्तस्य निमि­त्त­व­श­व­र्तिनः ।
जायते कललाऽवस्था ततो बुद्बुदरूपिणी ॥ १७० ॥
बुद्बुदाज्जायते पेशी पेशीतो जायते घनम् ।
घना­द­ङ्गा­भि­नि­ष्पत्तिः केशरोमाणि चाङ्गतः ॥ १७१ ॥
पूर्वजन्मनि यान्यासन्भूतानि करणानि च ।
तन्येवेहापि देहाय तद्यथेति श्रुतेर्बलात् ॥ १७२ ॥
सर्वा­त्म­नोऽ­प्य­व­च्छेदो विराजः सूत्रजन्मनः ।
इयानस्मीति सम्मो­हा­त्का­म­क­र्म­स­म­न्व­यात् ॥ १७३ ॥
लिङ्गात्मकतया तद्व­त्स­म­ष्टि­व्य­ष्टि­रू­पिणः ।
तदवच्छेदहेतोः स्यादव्यक्तस्य सुषुप्तता ॥ १७४ ॥
परा­त्म­नोऽ­प्य­न­न्तस्य क्षेत्र­ज्ञ­त्व­म­वि­द्यया ।
क्षेत्रज्ञं चापि मां विद्धीत्येवं सत्युपपद्यते ॥ १७५ ॥
न जाना­मी­त्य­वि­द्यै­काऽ­नित्या तत्कारणं मता ।
स्वप्रसिद्ध्यैव सा सिध्ये­न्नि­शौ­लू­कीव वासरे ॥ १७६ ॥
प्रमाणोत्पन्नया दृष्ट्या योऽविद्यां द्रष्टुमिच्चति ।
दीपेनासौ ध्रुवं पश्येद् गुहाकुक्षिगतं तमः ॥ १७७ ॥
अनात्मेतीह यद्भाति तद­वि­द्या­वि­जृ­म्भि­तम् ।
तस्मादविद्या साऽप्युक्ता विद्या त्वात्मैकरूपिणी ॥ १७८ ॥
आत्मा­ग्र­हा­ति­रे­केण तस्या रूपं न विद्यते ।
अमि­त्र­व­द­वि­द्येति सत्येवं घटते सदा ॥ १७९ ॥
तस्मा­त्स­द­स­दि­त्या­दि­र्वि­कल्पो मूढचेतसाम् ।
निरूप्यमाणो निर्वाति न वेद्मी­त्य­ग्र­हा­त्मनि ॥ १८० ॥
तया संवीतचित्तोऽयं त्यक्त्वा देहं पुरातनम् ।
लिङ्गात्मा प्रविशेद्योनिं कर्मा­दि­म­रु­ते­रितः ॥ १८१ ॥
अन्नमम्भस्तथा तेजो भुक्तं प्रत्ये­क­श­स्त्रिधा ।
त्रिवृत्कृतं तथैकैकं परिणामं प्रपद्यते ॥ १८२ ॥
पुरी­ष­मां­स­बु­द्ध्यं­शै­र्मू­त्रा­सृ­क्प्रा­ण­र­श्मिभिः ।
तथाऽ­स्थि­म­ज्जा­वा­ग्भा­गै­र­न्ना­प्ते­जांसि कालतः ॥ १८३ ॥
मनो­बु­द्धी­न्द्रि­याणां स्यात्क­र्म­श­क्तेश्च भारती ।
प्राणश्च प्राण­भे­दा­ना­मु­प­ल­क्ष­ण­सि­द्धये ॥ १८४ ॥
कर्मो­त्थ­भा­व­ना­भिस्तु चोद्यते यद्यदिन्द्रियम् ।
जायते तद­ह­ङ्का­रा­द्य­था­कर्म यथाश्रुतम् ॥ १८५ ॥
श्रोताऽ­स्मी­त्य­भि­मा­नाद्धि जायते श्रवणेन्द्रियम् ।
परिशिष्टेषु चाप्ये­व­मि­न्द्रि­ये­षू­प­धा­र­येत् ॥ १८६ ॥
देहो­त्प­त्ति­म­नू­त्पन्नो व्योमवद् घटजन्मना ।
अस्त्या­द­योऽ­प्यतो न स्युः सति जन्मनि ते यतः ॥ १८७ ॥
यावद्यावदयं देहो वर्धते गर्भशायिनः ।
तव­त्ता­व­द­भि­व्य­क्ति­र्लि­ङ्ग­स्या­प्यु­प­जा­यते ॥ १८८ ॥
समग्रकरणस्याथ नवमे मासि देहिनः ।
व्यती­ता­ने­क­ज­न्मोत्था व्यज्यन्ते वासनाः क्रमात् ॥ १८९ ॥
आवि­र्भू­त­प्र­बो­धोऽसौ गर्भ­दुः­खा­दि­सं­स्कृतः ।
हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ ॥ १९० ॥
अनुभूताः पुराऽसह्या मया मर्म­च्छि­दोऽ­स­कृत् ।
कर­म्ब­वा­लु­का­स्तप्ता या दह­न्त्य­शु­भा­श­यान् ॥ १९१ ॥
जाठ­रा­न­ल­स­न्तप्ताः पित्ता­ख्य­र­स­वि­प्लुषः ।
गर्भाशये निमग्नं ता दहन्त्यतिभृशं तु माम् ॥ १९२ ॥
औद­र्य­कृ­मि­व­क्त्राणि कूट­शा­ल्म­लि­क­ण्टकैः ।
तुल्यानि वितुदन्त्यार्तं पार्श्वा­स्थि­क्र­क­चा­र्दि­तम् ॥ १९३ ॥
गर्भे दुर्ग­न्ध­भू­यिष्ठे जाठ­रा­ग्नि­प्र­दी­पिते ।
दुःखं मयाऽऽप्तं यत्तस्मात्कनीयः कुम्भिपाकजम् ॥ १९४ ॥
पूया­सृ­क्श्ले­ष्म­पा­यित्वं वान्ताशित्वं च यद्भवेत् ।
अशुचौ क्रिमिभावश्च तत्प्राप्तं गर्भशायिना ॥ १९५ ॥
गर्भशय्यां समारुह्य दुःखं यादृङ्मयाऽऽपि तत् ।
नातिशेते महद्दुःखं निःशेषनरकेषु यत् ॥ १९६ ॥
अस्थि­य­न्त्र­वि­नि­ष्पिष्टः परीतः कुक्षिवह्निना ।
क्लेदा­सृ­ग्दि­ग्ध­स­र्वाङ्गो जरायुपटसंवृतः ॥ १९७ ॥
निष्क्रा­म­न्भृ­श­दुः­खार्त्तो रुद­न्नु­च्चै­र­धो­मुखः ।
यन्त्रादिव विनिर्मुक्तः पत­त्यु­त्ता­न­शा­य्यधः ॥ १९८ ॥
अकि­ञ्चि­ज्ज्ञ­स्तदा बालो मांसपेशीसमः स्थितः ।
श्वमा­र्जा­रा­दि­दं­ष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः ॥ १९९ ॥
पितृवद्राक्षसं वेत्ति मातृ­व­ङ्डा­कि­नी­मपि ।
पूयं पयोवदश्नाति धिक्पापिष्ठं हि शैशवम् ॥ २०० ॥
दृप्तोऽथ यौवनं प्राप्य मन्म­थ­ज्व­र­वि­ह्वलः ।
गाय­त्य­क­स्मा­दुच्चैः स तथाऽकस्माच्च वल्गति ॥ २०१ ॥
आरोहति तरुं वेगा­च्छा­न्ता­नु­द्वे­ज­य­त्यपि ।
कामक्रोधमदान्धः सन्न किञ्चिदपि वीक्षते ॥ २०२ ॥
महापरिभवस्थानं जरां प्राप्याथ दुःखितः ।
श्लेष्मणा पिहितोरस्को जग्धमन्नं न जीर्यति ॥ २०३ ॥
भग्नदन्तो भग्नदृष्टिः कटु­ति­क्त­का­षा­य­भुक् ।
वात­भु­ग्न­क­टि­ग्री­वा­क­रो­रु­च­र­णोऽ­बलः ॥ २०४ ॥
गदायुतसमाविष्टः परिभूतः स्वबन्धुभिः ।
निःशौचो मलदिग्धाङ्ग आलिङ्गितधरोषितः ॥ २०५ ॥
कासाधोवायुमुरजा सित­श्म­श्रु­क­चा­म्बरा ।
श्वासो­त्थ­स्व­न­वंशा च जाठरध्वनिगेयिका ॥ २०६ ॥
वली­प­लि­त­व­च्च­र्म­व­र­क­ञ्चु­क­धा­रिणी ।
दण्डतृतीयपादेयं प्रस्खलन्ती मुहुर्मुहुः ॥ २०७ ॥
अग्नि­पा­कि­क­रु­क्माढ्या सूक्ष्म­त्व­क्प­ट­सं­वृता ।
गुल्फ­जा­न्व­स्थि­स­ङ्घ­र्ष­च­ल­न्नू­पु­र­घो­षिणी ॥ २०८ ॥
प्रज्ञां मेधां धृतिं शौर्यं यूनां जग्ध्वा बलं तथा ।
क्रुतार्थेव प्रहर्षेण जरा­यो­षि­त्प्र­नृ­त्यति ॥ २०९ ॥
ततोऽपि मृतिदुःखस्य दृष्टान्तो नोपलभ्यते ।
यस्माद्बिभ्यति भूतानि प्राप्तान्यपि परां रुजम् ॥ २१० ॥
ह्रियते मृत्युना जन्तुः परिष्वक्तोऽपि बान्धवैः ।
सागरान्तर्जलगतो गरुडेनेव पन्नगः ॥ २११ ॥
हा कान्ते हा धनं पुत्र क्रन्दमानः सुदारुणम् ।
मण्डूक इव सर्पेण गीर्यते मृत्युना नरः ॥ २१२ ॥
मर्म­सू­त्कृ­त्य­मा­नेषु मुच्यमानेषु सन्धिषु ।
यद्दुःखं म्रियमाणस्य स्मर्यतां तन्मुमुक्षुभिः ॥ २१३ ॥
दृष्टा­वा­क्षि­प्य­मा­णायां संज्ञया ह्रियमाणाया ।
मृत्युपाशेन बद्धश्च त्रातारं नोपलप्स्यसे ॥ २१४ ॥
संरु­ध्य­मा­न­स्त­मसा मह­च्छ्व­भ्र­मि­वाऽऽ­वि­शन् ।
उरो घ्नतस्तदा ज्ञाती­न्द्र­क्ष्यसे दीनचक्षुषा ॥ २१५ ॥
अयःपाशेन कालेन स्नेहपाशेन बन्धुभिः ।
आत्मानं कृष्यमाणं त्वमभितो द्रक्ष्यसे तदा ॥ २१६ ॥
हिक्कि­का­बा­ध्य­मा­नस्य श्वासेन परिशुष्यतः ।
कृष्यमाणस्य पाशेन न खल्वस्ति परायणम् ॥ २१७ ॥
संसा­र­य­न्त्र­मा­रूढो यमदूतैरधिष्ठितः ।
क्व यास्यामीति दुःखार्तः कालपाशेन योजितः ॥ २१८ ॥
माता पिता गुरुसुताः स्वजनो ममेति
मायोपमे जगति कस्य भवेत्प्रतिज्ञा ।
एको यदा व्रजति कर्मपुरःसरोऽयं
विश्रा­म­वृ­क्ष­स­दृशः खलु जीवलोकः ॥ २१९ ॥
सायं सायं वासवृक्षं समेताः
प्रातः प्रातस्तेन तेन प्रयान्ति ।
त्यक्त्वाऽ­न्योन्यं तं च वृक्षं विहङ्गा
यद्व­त्त­द्व­ज्ज्ञा­त­योऽ­ज्ञा­त­यश्च ॥ २२० ॥
मृतिबीजं भवेज्जन्म जन्मबीजं तथा मृतिः ।
घटी­य­न्त्र­व­द­श्रान्तो बम्भ्रमीत्यनिशं नरः ॥ २२१ ॥
द्युप­र्ज­न्य­ध­रा­म­र्त्य­यो­षि­द­ग्निषु देवतैः ।
श्रद्धो­डु­रा­ज­व­र्षा­न्न­रे­त­आख्यं हविर्हुतम् ॥ २२२ ॥
पञ्च­म्या­मा­हु­ता­वेवं पुंवचा जायते पुमान् ।
क्रमात्तस्य महा­न­र्थ­सं­सृ­त्यु­च्छि­त्ति­रु­च्यते ॥ २२३ ॥
इत्याद्या विक्रियाः सर्वा लिङ्ग­दे­ह­स­मा­श्रयाः ।
अतद्वानपि संमो­हा­त्त­द्वा­नि­त्य­भि­म­न्यते ॥ २२४ ॥
ज्ञाता­स्मी­त्य­भि­मा­नाद्धि चेष्टते ज्ञानकर्मणि ।
मन्ताऽस्मीति ततो मोहात्कुरुते मानसीः क्रियाः ॥ २२५ ॥
प्राणा­द्या­त्मा­भि­मा­नेन कर्मचेष्टां प्रपद्यते ।
चक्षु­रा­द्य­भि­मानी च रूपा­द्या­लो­च­ना­परः ॥ २२६ ॥
तथा देहस्य दाहादौ दग्धोऽस्मीति च मन्यते ।
श्यामोऽस्मीति च देहस्य श्यामत्वं मन्यतेऽबुधः ॥ २२७ ॥
गोधनाद्यभिमानेन तद्वा­न­स्मी­त्य­वि­द्यया ।
ब्रह्मचारी गृहस्थोऽहं तापसोऽस्मि तथा मुनिः ।
देह­लि­ङ्गा­त्म­सं­स्का­रा­न्म­न्यते सङ्गकारणात् ॥ २२८ ॥
भिन्नात्मनां तु भूतानां शरीरं कार्यमुच्यते ।
ममाहमिति सम्मोहादनर्थं प्रतिपद्यते ॥ २२९ ॥

सर्वेषां चान्नकार्यत्वे ब्रह्मजत्वे समे तथा ।
कर्म­ज्ञा­ना­धि­का­रि­त्वा­त्पु­मा­ने­वेह गृह्यते ॥ २३० ॥

अने­का­न­र्थ­नी­डेऽ­स्मि­न्नि­मग्नं ब्रह्मविद्यया ।
सङ्क्रा­म­यि­तु­मि­ष्ट­त्वाद् ब्रह्मान्तरतमं नरम् ॥ २३१ ॥
तरु­शा­खा­ग्र­दृ­ष्ट्यैव सोमं यद्व­त्प्र­द­र्श­येत् ।
निष्कोशं कोशदृष्ट्यैव प्रतीचि ब्रह्म दर्श्यते ॥ २३२ ॥
अनादाविह संसारे वासनारञ्जिता मतिः ।
प्रतीच्युपायतः कर्तुं शक्या तस्मात्स उच्यते ॥ २३३ ॥
द्वैता­स्पृ­क्प्र­त्य­गा­त्मैकः प्रतीचीव परागपि ।
युष्म­द­स्म­द्वि­भा­गाभ्यां भिद्यतेऽविद्यया मृषा ॥ २३४ ॥
अस्मद्विभागे पञ्चास्य यथैवान्नमयादयः ।
तथा तत्प्र­त्य­गा­त्मानो युष्मदन्नादयः स्मृताः ॥ २३५ ॥
आध्या­त्मि­का­न्वि­ला­प्याथ यथास्वं प्रत्यगात्मसु ।
अन्ना­दी­न्प­र्यु­पा­सीत ह्युत्त­रो­त्त­र­रू­प­गान् ॥ २३६ ॥
जग्ध्वा कार्यात्मतामेवं कारणात्मतया स्थितः ।
आत्मनाऽऽलिङ्गते ब्रह्म वाक्याज्जग्ध्वा च तामपि ॥ २३७ ॥
अन्नं विराडिति ज्ञेयं प्राणा­त्त­द­भि­व­र्धते ।
ऋग्य­जुः­सा­म­रू­पोऽतो वेदा­त्माऽ­न्त­र्म­नो­मयः ॥ २३८ ॥
वेदार्थविषया बुद्धि­र्वि­ज्ञानं निश्चयात्मकम् ।
ज्ञान­क­र्मा­भि­नि­र्वृत्त आनन्दः फललक्षणः ॥ २३९ ॥
त्रीण्ये­वा­न्नानि चैतानि प्राजापत्यानि सर्वशः ।
प्राणो मनस्तथा वाक्च विराडन्नात्मतां गतः ॥ २४० ॥
चतुर्णां प्रत्य­गा­त्मै­व­मा­न­न्द­मय उच्यते ।
प्रज्ञा­न­घ­न­रू­प­त्वा­त्स्या­द्भे­दोऽ­प्यस्य कार्यतः ॥ २४१ ॥

शिर­आ­दि­प्र­क्लृ­प्तिस्तु स्यादु­पा­स­न­क­र्मणे ।
तस्मादेवं चितीरेता मान­सी­र्व्या­च­च­क्षिरे ॥ २४२ ॥
शिरो मूर्धा भुजौ पक्षावात्मा कायश्च मध्यमः ।
शेषं पुच्छमितिज्ञेयं चितिमेवं विचिन्तयेत् ॥ २४३ ॥
उपा­सी­न­श्चि­ती­रेवं विद्वानेता यथाक्रमम् ।
पूर्व­पू­र्व­प्र­हा­णेन ह्यन्तरन्तः प्रपद्यते ॥ २४४ ॥
श्रुते­र­न­ति­श­ङ्क्य­त्वा­त्स­म्भा­व्येत यथोदितम् ।
लिङ्ग­प्र­त्य­क्ष­गम्ये हि स्यादाशङ्का नृबुद्धितः ॥ २४५ ॥
स्वभावतो वा सम्प्रा­प्त­म­नू­द्यो­पा­सनं श्रुतिः ।
नामादाविव भूमानं विधत्ते ज्ञानमात्मनि ॥ २४६ ॥
श्रुत्य­न्त­राद्वा सम्प्राप्तं मोक्षा­द­र्वा­क्फ­लाय तु ।
तदनूद्य परं श्रेयः प्राप्तये ज्ञानमुच्यते ॥ २४७ ॥
ब्रह्म­वि­द्यो­डु­पे­नैव कोशानर्थमहोदधेः ।
निनीषन्ती परं पारं स वा इत्यभ्यधादथ ॥ २४८ ॥
मूलात्मानं सशब्देन स्पृष्ट्वा तत्स्मृतयेऽथ वै ।
कोशात्मतां समापन्न एष इत्यभिधीयते ॥ २४९ ॥
अवि­द्य­याऽ­त­द­र्होऽपि रज्जुः सर्पात्मतामिव ।
कोशपञ्चकतां यात­स्त­म­नु­क्रो­श­तीव हि ॥ २५० ॥
मयडत्र विकारार्थे निषिद्धोऽसौ परात्मनः ।
युक्त्या­ग­मा­भ्या­म­न्नस्य कार्यं देहः प्रतीयते ॥ २५१ ॥

इदमेव शिरस्तस्य मा भूदध्यासलक्षणम् ।
प्राणा­को­श­व­दे­वेति तस्मा­दे­वा­व­धा­र्यते ॥ २५२ ॥
विरा­ट्पि­ण्डा­त्म­नो­रैक्यं श्रुत्य­न्त­र­व­शा­दिह ।
उपासनोपदेशाच्च जानी­या­त्पि­ण्ड­दे­व­ताम् ॥ २५३ ॥
विराडात्मकतां याते पिण्डेऽ­ध्या­त्मा­व­सा­यिनि ।
प्राणो वाय्वात्मतामेति प्रध्व­स्त­घ­ट­दी­प­वत् ॥ २५४ ॥
विद्या­द­न्न­म­ये­नैव मूषायां द्रुतताम्रवत् ।
सर्वा­न्प्रा­ण­म­या­दीं­स्ता­न्र­चि­ता­न्पु­रु­षा­कृ­तीन् ॥ २५५ ॥

यथोदितानुवादी तु श्लोकोऽप्यत्र निगद्यते ।
ब्राह्म­णो­क्ता­र्थ­वि­ज्ञा­न­द्र­ढिम्ने हितकाम्यया ॥ २५६ ॥

द्वितीयोऽनुवाकः
अन्नादेव प्रजाः सर्वा जायन्तेऽन्नेन बृंहिताः ।
वर्धन्ते त्वन्नमेवैताः प्रविलीयन्ति सर्वशः ॥ २५७ ॥
भूतेभ्यः पूर्व­नि­ष्प­त्ते­र्ज्ये­ष्ठ­मन्नं विराड् भवेत् ।
स वै शरीरी प्रथमस्तथा पौराणिकी स्मृतिः ॥ २५८ ॥
ओषणादग्निरोषः स्याद्धा­तू­नु­ष्यति येन सः ।
धाना­त्त­स्या­न्न­त­त्त्व­ज्ञै­रौ­षधं शब्द्यते सदा ॥ २५९ ॥
सर्वेषां जाठराग्न्याख्यं वत्सं चोष्यादिभिः स्तनैः ।
अन्नं गौर्धयते यस्मा­त्स­र्वौ­ष­ध­मतो भवेत् ॥ २६० ॥
उद्भू­ति­स्थि­ति­हा­निभ्यो जगतोऽन्नं हि कारणम् ॥ २६१ ॥
कार्यस्य कारणाद्ब्रह्म तद्ये नित्यमुपासते ।
आप्नुवन्त्यखिलं तेऽन्नमध्यात्मं दैवतात्मना ॥ २६२ ॥
सैषा विराडिति ह्युक्त­म­न्ना­त्तृत्वं हि ताण्डिकैः ।
कार्यं सर्वं यतो व्याप्तं कार­णे­ना­त्तृ­रू­पिणा ।
इति हेतूपदेशाय ह्यन्नं हीत्युच्यते पुनः ॥ २६३ ॥
अद्यतेऽन्नं प्रधा­न­त्वा­द­दि­ति­त्वा­त्त­थाऽत्ति च ।
अन्ना­न्ना­द­त्व­हे­तो­स्त­दन्नं हीत्युच्यते बुधैः ॥ २६४ ॥
आप्नोति सर्वकार्याणि कारणात्मतया विराट् ।
ततोऽप्यन्तः प्रवेशाय तस्मा­दि­त्य­भि­धी­यते ॥ २६५ ॥
वैशब्देनैव संस्मार्य दवी­यो­दे­श­व­र्ति­नम् ॥ २६६ ॥
तस्माच्छब्देन वैरा­ज­मा­दा­या­ध्या­त्म­रू­पिणः ।
एत­स्मा­दि­ति­श­ब्देन वैराजत्वं प्रबोध्यते ॥ २६७ ॥
कार्याणां कारणात्मत्वमेवं स्यादु­त्त­रे­ष्वपि ।
ब्रह्मानन्तं भवेदेवं साङ्ख्य­रा­द्धा­न्त­म­न्यथा ॥ २६८ ॥
पूर्व­का­र्या­ति­रे­केण स्वात्मना चान्वयोक्तितः ।
अन्व­य­व्य­ति­रे­काभ्यां यथोक्तार्थः समर्थितः ॥ २६९ ॥
यथो­क्ता­न्न­म­या­द­स्मा­दन्यः स्यात्त­द्वि­ल­क्षणः ।
अन्तरः प्रत्य­गि­त्ये­त­दात्मा चात्मसमन्वयात् ॥ २७० ॥
कोशैश्चतुर्भिः संव्याप्तो यथैवान्नमयः पुरा ।
जानी­या­दु­त्त­रा­नेवं त्रिद्व्ये­का­र्थ­स­म­न्व­यान् ॥ २७१ ॥
तेन प्राणमयेनैष पूर्णो रज्ज्वेव पन्नगः ।
कार्यतोऽन्नमयः क्लृप्तो वाचा­र­म्भ­ण­शा­स्त्रतः ॥ २७२ ॥
स वै पुरुषविधो ह्युक्तो योऽयं प्राणमयः स्मृतः ।
अमू­र्त­त्वा­त्कु­तोऽ­न्वे­त­द्धे­तु­स्त­स्येति भण्यते ॥ २७३ ॥
प्राणस्तस्य शिरः श्रैष्ठ्या­त्प्राणो यस्मान्मुखालयः ।
व्यानोऽस्य दक्षिणः पक्ष उत्तरोऽपान उच्यते ॥ २७४ ॥
सामान्यं वीर्यवत्ता स्यादि­त­र­स्या­त­था­त्मता ।
आकाश इति चात्र स्यात्स­मा­नोऽ­म्ब­र­सा­म्यतः ॥ २७५ ॥
प्राणानां तत्प्र­ति­ष्ठा­ना­दा­त्माऽसौ श्रुतितो भवेत् ।
पृथिवी देवता पुच्छं सैषेति श्रुतिदर्शनात् ॥ २७६ ॥
असो­रा­ध्या­त्मि­क­स्यैषा स्थितिहेतुः प्रकीर्तिता ।
अन्ना­त्म­नी­वे­हा­प्याह श्लोकं प्राणमयात्मनि ॥ २७७ ॥
इति द्वितीयोऽनुवाकः ॥ २ ॥

तृतीयोऽनुवाकः
प्राणं प्राणन्तमन्वेव देवाः प्राणन्ति न स्वतः ॥ २७८ ॥
वर्षसीह यदैव त्वमथेमाः प्राणते प्रजाः ।
मनुष्याः पशवोऽन्ये च प्राण­न्त्य­सु­स­मा­श्र­यात् ॥ २७९ ॥
अध्यात्ममधिदैवं च करणान्यधिदेवताः ।
प्राण­स्व­रू­प­मा­पद्य जहुर्मृत्युमिति श्रुतिः ॥ २८० ॥
घटतेऽसाविदं सर्वं सर्वस्यायुर्यतो ह्यसुः ।
तस्मात्तं तद्विदः प्राहुः सर्वायुषमनेकशः ॥ २८१ ॥
सर्वा­यु­ष­गु­णे­नासुं य आत्मानमुपासते ।
ते तं सर्वायुषं प्राणं प्राप्नु­व­न्त्य­भि­यो­गतः ॥ २८२ ॥
तस्य त्वन्नमयस्यैष योऽयं प्राणमयः स्मृतः ।
भवः शरीरे शारीर आत्मा तेनाऽऽ­त्म­वा­न्यतः ॥ २८३ ॥
सत्यादिलक्षणो वाऽऽत्मा गौणो ह्यात्माऽमुतो परः ।
सर्वा­न्त­र­त्वा­न्न्या­य्यैवं यः पूर्वस्येति हि श्रुतिः ॥ २८४ ॥
मिथ्यात्मनां हि सर्वेषां सत्या­दि­गु­ण­ल­क्ष­णम् ।
व्यावि­द्धा­शे­ष­सं­सा­र­मा­त्मानं तं प्रचक्ष्महे ॥ २८५ ॥
न ह्यात्म­वा­न्भ­वे­त्सर्पो दण्डा­द्य­ध्या­स­रू­पिणा ।
आत्मनाऽवितथेनैव सर्पो रज्ज्वा­त्म­नाऽऽ­त्म­वान् ॥ २८६ ॥
प्राणा­द्ध्ये­वे­त्यतो न्याया­द्व­क्ष्य­मा­ण­श्रु­ती­रि­तात् ।
व्युत्था­प्या­न्न­मयं तुच्छं प्राणोऽस्मीति व्यवस्थितः ।
यस्तं मनोमयात्मानं सङ्क्रा­म­यि­तु­मु­च्यते ॥ २८७ ॥
तस्मा­दि­त्या­दि­वा­क्यस्य त्वर्थं पूर्वमवादिषम् ।
प्राधान्यं यजुषो ज्ञेयं हविः­प्र­क्षे­प­का­र­णात् ॥ २८८ ॥
स्वाहा स्वधा वषट् चेति संनि­प­त्यो­प­कु­र्वते ॥ २८९ ॥
शिर­आ­दि­प्र­क्लृ­प्तिस्तु वाच­नि­क्य­थ­वाऽ­स्त्विह ।
वचनं बल­व­द्य­स्मा­त्पौ­रु­षेयी हि कल्पना ॥ २९० ॥
पद­वा­क्य­स्व­र­स्था­न­ना­द­व­र्णा­दि­सं­युता ।
यत्नोत्थमानसी वृत्ति­र्य­जुः­स­ङ्के­त­व­र्त्मना ॥ २९१ ॥
ऐश्व­र­ज्ञा­न­स­न्दृब्धा पद­वा­क्या­नु­र­ञ्जिता ।
श्रोत्रा­दि­क­र­ण­द्वास्था यजुरित्यभिधीयते ॥ २९२ ॥
ज्ञानात्मत्वे हि मन्त्राणां घटते मानसो जपः ।
ज्ञान­स्या­श­ब्द­रू­प­त्वा­दृ­गा­वृ­त्तिर्न सिध्यति ।
अशक्यत्वान्न चाऽऽवृ­त्ति­र्घ­टा­दे­रिव शक्यते ॥ २९३ ॥
आवृ­त्ति­श्चो­द्यते चर्चां श्रुतौ त्रिः प्रथमामिति ॥ २९४ ॥
अथ­र्चोऽ­वि­ष­य­त्वेऽपि स्मृते­रा­वृ­त्ति­रि­ष्यते ।
ऋग­र्थ­वि­ष­या­या­श्चे­न्मैवं गौणी हि सा भवेत् ॥ २९५ ॥
भूयोऽ­ल्पी­यः­फ­लत्वं च बाह्य­मा­न­स­यो­र्जपे ।
अतो मान­स­मु­ख्य­त्व­मि­त­र­स्यास्तु गौणता ॥ २९६ ॥
नात्मानं लभते गौणी मुख्यार्थे सति कल्पना ।
तस्मा­दै­श्व­र­वि­ज्ञानं यजु­र्बु­द्ध्या­द्यु­पा­श्र­यम् ॥ २९७ ॥
एवं च सति नित्यत्वं वेदानां घटतेऽञ्जसा ।
वाचकत्वमशब्दस्य सिद्धं न स्फोटरूपतः ॥ २९८ ॥
सर्वे वेदाश्च यत्रैकं भवन्तीति श्रुतेर्वचः ।
आदेशो ब्राह्मणं विद्या­द्य­स्मात्स विधिरूपभृत् ॥ २९९ ॥
ब्रह्मणो वा परस्येयमाज्ञा ब्राह्मणलक्षणा ।
तस्मादादेश इत्येवं ब्राह्मणं सम्प्रचक्षते ॥ ३०० ॥
अथ­र्वा­ङ्गि­र­साभ्यां ये दृष्टाः पुष्ट्या­दि­का­रिणः ।
एत एव हि मन्त्राः स्युर­थ­र्वा­ङ्गि­र­सोऽत्र तु ॥ ३०१ ॥
मनो­म­या­त्म­सा­क्ष्यत्र श्लोकः पूर्ववदुच्यते ।
यथो­क्त­वे­द­सि­द्ध्यर्थं लिङ्गं श्लोकेऽपि कीर्त्यते ॥ ३०२ ॥
अभि­धा­न­नि­वृ­त्तिर्हि ब्रह्मणो नान्यतो यतः ।
सदा­व­ग­म­रू­प­त्वा­न्मनो यस्मान्निवर्तते ॥ ३०३ ॥
इति तृतीयोऽनुवाकः ॥ ३ ॥

चतुर्थोऽनुवाकः
यद्धि­वा­चाऽ­न­भ्यु­दितं मनुते मनसा न यत् ।
ब्रह्म­णोऽ­वि­ष­यत्वं हि श्रुति­र्वा­ङ्म­न­सोऽ­व­दत् ॥ ३०४ ॥
नागोचरं ययोरस्ति ब्रह्म मुक्त्वा निरञ्जनम् ।
ते मनोमयनिर्दिष्टे विद्या­द्वा­ङ्म­नसे बुधः ।
इतीममर्थं चोद्दिश्य श्लोकं श्रुतिरुदाहरत् ॥ ३०५ ॥
ब्रह्म­णोऽ­न­व­र­त्वात्तु नेह मन्त्राभिधेयता ॥ ३०६ ॥
वृत्तिप्रधानो वेदात्मा वृत्ति­मा­न्स्या­द­थो­त्तरः ॥ ३०६ ॥
व्यवसायात्मिका बुद्धि­र्वृ­त्ति­मा­नि­त्यु­दी­र्यते ।
यज्ञं तनुत इत्ये­त­त्क­र्तृत्वे सति युज्यते ॥ ३०७ ॥
आत्मचैतन्यरूपा धीः कर्त्र्यात्मा न ध्रुवत्वतः ।
यज्ञारम्भस्य हेतु­त्वा­त्त­द­भा­वाद् वृथा यजिः ॥ ३०८ ॥
श्रद्धया उत्तमाङ्गत्वं स्मृति­र­श्र­द्ध­येति च ॥ ३०९ ॥
सत्यं हि श्रदिति प्राहुर्धत्ते धीः प्रत्यगात्मनि ।
तद्यतस्तां महात्मानः श्रद्धा­मि­त्यू­चिरे धियम् ॥ ३१० ॥
योगो युक्तिः समाधानमात्मा स्यात्त­दु­पा­श्र­यात् ।
श्रद्धादीनि यथोऽ­क्ता­र्थ­प्र­ति­प­त्ति­क्ष­माणि च ॥ ३११ ॥
महत्तत्वं महो ग्राह्यं नीडं कार्यस्य तद्यतः ।
व्याचष्टे तन्महद्यक्षं श्रुतिः प्रथमजं तु यत् ॥ ३१२ ॥
इति चतुर्थोऽनुवाकः ॥ ४ ॥

पञ्चमोऽनुवाकः
विज्ञानं तनुते यज्ञं कर्माण्यन्यानि यानि च ।
सर्वे च देवा विज्ञानं ब्रह्म ज्येष्ठमुपासते ॥ ३१३ ॥
परमेव हि तद्ब्रह्म बुद्धि­क­ञ्चु­क­भृ­त्स्व­यम् ।
घटादाविव विज्ञप्तौ धीरात्मानं ततोऽर्पयेत् ॥ ३१४ ॥
अग्रजं ब्रह्म विज्ञानं देवा अग्न्यादयः सदा ।
उपासते तदाप्त्यर्थं ते देवा इति च श्रुतिः ॥ ३१५ ॥
यथोक्तेन प्रकारेण विज्ञानं ब्रह्म वेद चेत् ।
प्रमाद्यति न चेत्त­स्मा­दु­क्त­को­शा­त्म­श­क्तितः ॥ ३१६ ॥
पाप्मनामाश्रयो यस्मा­द्रू­प­ना­म­क्रि­या­त्मकः ।
देहोऽ­त­स्त­त्प्र­हा­णेन हानिः स्यात्स­र्व­पा­प्म­नाम् ॥ ३१७ ॥
विज्ञा­न­म­ह­म­स्मीति ताव­न्मा­त्रा­भि­मा­नतः ।
शरीरे पाप्मनो हित्वा सर्वा­न्का­मा­न्स­म­श्नुते ॥ ३१८ ॥
अणि­मा­दि­गु­णै­श्वर्यो बुद्ध्यात्मा कार्यरूपिणः ।
कार्यं हि कारणव्याप्तमतः कामान्समश्नुते ॥ ३१९ ॥
ज्ञान­क­र्म­फ­लो­पा­धि­वि­ज्ञानं प्रत्यगात्मनः ।
आनन्दमय इत्यत्र भण्यते कर्तृशान्तये ॥ ३२० ॥
विज्ञानमयशब्देन कर्ता व्याख्यायि पूर्वया ।
तस्य प्रत्यक्तया चाथ श्रुत्या भोक्तो­च्य­तेऽ­धुना ॥ ३२१ ॥
शुद्धस्यापि स्वतो बुद्धौ प्रिया­द्या­का­र­तो­दये ।
जायते तदु­पा­धि­त्वा­द्भो­क्ताऽऽत्मा स्यादविद्यया ॥ ३२२ ॥
अपरे पण्डितम्मन्याः परमेतं प्रचक्षते ।
इहै­वो­प­र­मा­दूर्ध्वं भृगोश्च वरुणस्य च ॥ ३२३ ॥
अपि चाऽऽनन्दरूपस्य ब्रह्मत्वं बहुशः श्रुतम् ।
तथा चाऽऽनन्दवल्लीति व्यपदेशोऽपि युज्यते ॥ ३२४ ॥
कार्या­धि­का­र­ग­त्वात्तु नैतद्ब्रह्म परं भवेत् ।
अन्ना­दि­म­य­व­त्कार्यं स्यादा­न­न्द­म­योऽ­प्य­यम् ॥ ३२५ ॥
मयट् चात्र विकारार्थे यथैवान्नमयादिषु ।
वैरूप्यलक्षणो दोषः प्रायोऽर्थत्वे प्रसज्यते ॥ ३२६ ॥
अपि सङ्क्रमणादस्य कार्य­ताऽ­ध्य­व­सी­यते ।
कार्यात्मनां हि सङ्क्रा­न्ति­र्यु­ज्यते कारणात्मनि ॥ ३२७ ॥
अत्ययो वाऽथ सम्प्राप्तिः सङ्क्रान्तिः स्यात्परात्मनः ।
नात्म­त्वा­दा­त्मनः प्राप्तिस्तदु नात्येति कश्चन ॥ ३२८ ॥
न चात्मना स्वात्मा­न­मु­प­स­ङ्क्रा­म­ती­श्वरः ।
नालं स्वस्क­न्ध­मा­रोढुं निपुणोऽपीह साधकः ॥ ३२९ ॥
शिर­आ­द्या­कृ­ते­रत्र मूर्ता­मू­र्ता­द्य­स­म्भ­वात् ।
असम्भवः परे तत्त्वे नेति नेतीति शास्त्रतः ॥ ३३० ॥
अदृश्येऽनात्म्य इत्येवं पूर्वो­त्त­र­वि­रु­द्धता ।
न स्यादा­का­र­व­त्त्वाद्धि अस्ति नास्तीति संशयः ॥ ३३१ ॥
कार्यात्माऽयमतो ग्राह्यो यथो­क्त­न्या­य­गौ­र­वात् ।
भृगो­रु­प­र­मा­च्चेति कार्या­त्म­त्वेऽपि युज्यते ॥ ३३२ ॥
आनन्दवल्ल्यां ब्रह्मोक्तं तदुपायविधित्सया ।
अधीहि भगवो ब्रह्मे­त्य­वो­च­द्व­रुणं भृगुः ॥ ३३३ ॥
व्याख्या­त­त्वा­दु­पे­यस्य ह्युपा­योऽ­त्रा­व­शि­ष्यते ।
उपायाः कोशाः पञ्चापि यस्मात्तैस्तं प्रपद्यते ॥ ३३४ ॥
अन्व­य­व्य­ति­रे­काभ्यां कोशै­रा­त्म­स­मी­क्ष­णम् ।
क्रियते हि यत­स्ते­षा­मु­पा­यत्वं प्रतीयते ॥ ३३५ ॥
स्वातन्त्र्यं यत्र कर्तुः स्यात्तत्रैवासौ नियुज्यते ।
फलं कर्त्र­न­धी­न­त्वा­त्स­म्ब­न्धा­यैव शक्यते ॥ ३३६ ॥
पञ्च कोशानतस्तस्मै वाक्या­र्थ­प्र­ति­प­त्तये ।
स्वतः प्रसिद्धेः शेषस्य ह्युपरेमे भृगुस्ततः ॥ ३३७ ॥
ब्रह्म­ताऽऽ­न­न्द­रू­पस्य केन वा प्रतिषिध्यते ।
निर­स्ता­शे­ष­भे­दस्य रूपं तत्परमात्मनः ॥ ३३८ ॥
प्रिया­द्या­न­न्द­रू­पाणां भेदो यत्र निवर्तते ।
अम­नो­वि­ष­येऽ­त्यन्तं तमानन्दं प्रचक्ष्महे ॥ ३३९ ॥
कोशपञ्चक एत­स्मि­न्नि­षि­द्धेऽ­ज्ञा­न­हे­तुके ।
नाऽऽनन्दमयता न्याय्या धियां वाचामगोचरे ॥ ३४० ॥
परानन्दस्वभावेन पूर्णा ह्यन्नमयादयः ।
कार्यात्मानोऽपि तद्धे­तो­रा­न­न्द­म­यता भवेत् ॥ ३४१ ॥
तस्मा­ज्ज्ञा­न­क्रि­या­कार्यं प्रिया­द्या­र­क्त­बु­द्धि­गम् ।
आनन्दमयमात्मानं श्रुतिः सोपाधिकं जगौ ॥ ३४२ ॥
प्रिया­दि­वा­स­ना­रूपो ह्यानन्दमय ईक्ष्यते ।
विज्ञानमयसंस्थो यः स्वप्ने वै स्वप्नदर्शिभिः ॥ ३४३ ॥
पुत्रादिविषया प्रीतिर्वासना शिर उच्यते ।
प्रिय­ला­भ­नि­मि­त्तोत्थो हर्षो मोदः प्रकीर्तितः ॥ ३४४ ॥
प्रक­र्ष­गु­ण­सं­युक्तः प्रमोदः स्यात्स एव तु ।
सुख­सा­मा­न्य­मात्मा स्यादानन्दो भेदसंश्रयात् ॥ ३४५ ॥
उत्कृष्यमाण आनन्दो निष्ठां यत्राधिगच्छति ।
तदेकं सकलं ब्रह्म पुच्छं सर्वाश्रयत्वतः ॥ ३४६ ॥
आनन्दः पर एवात्मा भेद­सं­स­र्ग­व­र्जितः ।
स एव सुखरूपेण व्यज्यते पुण्यकर्मभिः ॥ ३४७ ॥
याव­द्या­व­त्त­मोऽ­पैति बुद्धौ धर्मसमाहतम् ।
तावत्तावद्धियः स्वास्थ्यं ताव­त्ता­व­त्सु­खो­न्नतिः ॥ ३४८ ॥
तारतम्यं सुखस्यापि वैचि­त्र्या­दु­प­प­द्यते ।
पुण्यस्य कर्म­ण­स्त­स्मा­दा­त्मै­वाऽऽ­नन्द उच्यते ॥ ३४९ ॥
तस्मा­त्का­मा­दि­हा­नेन ह्युत्त­रो­त्त­र­वृ­द्धितः ।
श्रोत्रियस्येति वाक्येन काष्ठाऽऽनन्दस्य भण्यते ॥ ३५० ॥
तत्रै­त­स्मि­न्य­थो­क्तेऽर्थे श्लोकोऽ­प्यु­च्चै­र्नि­ग­द्यते ।
मन्त्रद्वारेण वाक्यार्थं कथं नाम प्रपत्स्यते ॥ ३५१ ॥
इति पञ्चमोऽनुवाकः ॥ ५ ॥

षष्ठोऽनुवाकः
असत्समोऽसौ भवति योऽसद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद सन्तं तं ब्राह्मणा विदुः ॥ ३५२ ॥
सद­प्या­त्म­स्व­रू­पेण ब्रह्मासदिति वेद चेत् ।
सोऽसन्नेवेह भवति कोशा­त्म­त्वा­भि­मा­न­भाक् ॥ ३५३ ॥
न हि कोशात्मना सत्त्वमृते ब्रह्म समश्नुते ।
कुतः सर्पात्मना सत्त्वमृते रज्जुं सदात्मिकाम् ॥ ३५४ ॥
असद्भ्यः खलु कोशेभ्यः सदेकं ब्रह्म वेद चेत् ।
दृशे रूपा­न्त­रा­स­त्त्वा­त्सन्तं तं ब्राह्मणा विदुः ॥ ३५५ ॥
यस्मादेवमतो हित्वा कोशा­न­ज्ञा­न­क­ल्पि­तान् ।
निर्वि­का­र­म­ना­द्यन्तं पर­मा­त्मा­न­मा­श्र­येत् ॥ ३५६ ॥
यतः कोशातिरेकेण नासत्त्वं विद्यते परम् ।
मृत्युर्वा असदित्येवं घटते श्रुत्युदीरणम् ॥ ३५७ ॥
अस्ती­त्ये­वो­प­ल­ब्धव्यः सदेवेति च शासनम् ।
ब्रह्मा­त्म­व्य­ति­रे­केण सत्त्वमन्यत्र दुर्लभम् ॥ ३५८ ॥
तस्यैष एव शारीरो योऽशरीरः सदेकलः ।
आनन्दान्तस्य पूर्वस्य ह्यात्माऽ­ना­त्म­वतः परः ॥ ३५९ ॥
उक्तं ब्रह्म­वि­दा­प्नोति परं नाज्ञोऽसदाश्रयः ।
इत्यस्य निर्णयार्थाय परो ग्रन्थोऽ­व­ता­र्यते ॥ ३६० ॥
साधारणं परं ब्रह्म विदुषोऽविदुषश्च चेत् ।
प्राप्त्य­प्राप्ती समे स्यातां नियमे हेत्वसम्भवात् ॥ ३६१ ॥
कार्य­मा­त्रा­व­ब­द्धा­न्तः­क­र­ण­त्वा­त्त­म­स्विनः ।
न शक्याऽस्तीति धीः कर्तुं स्वतः­सि­द्धा­त्म­व­स्तुनि ॥ ३६२ ॥
अतोऽ­स्या­स्ति­त्व­सि­द्ध्यर्थं कल्पनातीतरूपिणः ।
अथात इत्यनुप्रश्ना वक्ष्यन्ते निर्णयार्थिने ॥ ३६३ ॥
अथानन्तरमस्यैव साधा­र­ण्या­प्र­मे­यतः ।
आचा­र्यो­क्ति­म­नु­प्रश्नाः शिष्यस्य गुरुसंनिधौ ॥ ३६४ ॥
अप्यविद्वानमुं लोकं प्रेत्य कश्चित्समश्नुते ।
न चेद­वि­द्वा­ना­प्नोति विद्वानेतीति का प्रमा ।
स्यान्नवेत्यपरः प्रश्न­स्त्रि­त्वाद्धि बहुवागियम् ॥ ३६५ ॥
प्लुतिश्चात्र विचारार्था विचार्यं वस्त्विदं यतः ।
एतेषां खलु चोद्या­ना­मु­त्त­रा­र्थो­त्तरा श्रुतिः ॥ ३६६ ॥
द्वयोः सद्भा­व­पू­र्व­त्वा­द­स्तित्वं तावदुच्यते ॥ ३६७ ॥
घटाङ्कुरादि यत्कार्यं दृष्टं सत्कारणं हि तत् ।
आकाशादि च नः कार्यं तदप्येवं प्रतीयताम् ॥ ३६८ ॥
असतश्चेदिदं कार्यं सर्वं स्यादसदन्वितम् ।
असतः कारणत्वं च निरात्मत्वान्न सिद्ध्यति ॥ ३६९ ॥
ध्रुवः सन्कुरुते कार्यमयस्कान्तो मणिर्यथा ।
कारणत्वं भवेदेवं कुर्वतोऽतिशयः कुतः ॥ ३७० ॥
साविद्यः प्रत्यगात्मा यो वियद्योनिः पुरोदितः ।
सोऽकामयत नाविद्यां विना कामोऽस्ति कस्यचित् ॥ ३७१ ॥
आलातस्यैकरूपस्य वैश्वरूप्यं यथान्यतः ।
रूपा­भि­धा­न­भ्रा­न्त्युत्था बहुतेयं परात्मनः ।
प्रजायेयेत्यतो वक्ति नामरूपात्मना प्रभुः ॥ ३७२ ॥
आत्मस्थे नामरूपे ये देश­का­ला­द्य­पे­क्षिणी ।
जग­त्क­र्म­व­शा­दी­शाद् व्यज्येते बहुधात्मनः ॥ ३७३ ॥
व्याकृतिर्या तयोर्विष्णोः प्रत्यहं नामरूपयोः ।
भूयो भव­न­मे­त­त्स्या­न्मा­यि­नोऽ­ने­कता यथा ॥ ३७४ ॥
न ह्यनवयवस्यास्य बहुत्वं युज्यतेऽञ्जसा ।
तस्माद्भाक्तं बहुत्वं स्याद् व्योम्नो यद्वद् घटादिभिः ॥ ३७५ ॥
श्रौतं सृष्ट्या­दि­वि­ष­य­मी­श्व­रा­लो­चनं तपः ।
कार्य­त्वा­ल्लौ­कि­क­स्येह तपसोऽसम्भवो भवेत् ॥ ३७६ ॥
यथाश्रुति समालोच्य ससर्ज जगदीश्वरः ।
यथाक्रमं यथारूपं यथाकर्म यथाकृति ॥ ३७७ ॥
मायावी जगदुत्पाद्य माय­यै­वे­श्व­रे­श्वरः ।
सर्पा­दी­न्क­ल्पि­ता­न्स्र­ग्व­त्त­दे­वा­नु­वि­वेश सः ॥ ३७८ ॥
मृद्व­च्चे­त्का­रणं ब्रह्म कार्यं सर्वं तदात्मकम् ।
तदात्मतातिरेकेण प्रवेशोऽन्यो न विद्यते ॥ ३७९ ॥
न चान्यः प्रावि­श­द्विष्णोः श्रूयते ह्येककर्तृता ।
सृष्ट्वा जग­त्त­दे­वा­नु­प्रा­वि­श­च्चेति हि श्रुतिः ॥ ३८० ॥
कपालाद्यात्मना कुम्भं मृद्व­च्चे­त्प्रा­वि­श­ज्ज­गत् ।
मृदोऽ­ने­का­त्म­क­त्वात्तु घटते नैकतो दृशेः ॥ ३८१ ॥
अना­प्त­दे­श­व­न्मृ­द्व­त्प्र­वेशो व्यापिनः कथम् ।
प्रवे­श­श्र­व­णा­त्तर्हि परिच्छिन्नं प्रकल्प्यताम् ॥ ३८२ ॥
मुखे हस्तादिवच्चायं प्रवेशोऽपि घटिष्यति ।
अमूर्तस्यापि नैवं स्यात्का­र्य­व्या­पि­त्व­हे­तुतः ॥ ३८३ ॥
व्यापि वाऽव्यापि वा कार्यं व्याप्नोत्येव हि कारणम् ।
न ह्यात्मशून्यो देशोऽस्ति यं जीवे­नाऽऽ­वि­शे­त्परः ॥ ३८४ ॥
अथ कारणरूपेण कार्यमीशः समाविशेत् ।
अहं ब्रह्मे­ति­व­ज्ज­ह्या­त्कार्यं कार्यात्मतां तथा ॥ ३८५ ॥
मतं जीवात्मकं कार्यं याति कार्यान्तरं यदि ।
विरो­धा­न्नै­व­म­प्ये­त­न्नैति कुम्भः शरावताम् ॥ ३८६ ॥
नाम­रू­पा­दि­का­र्याच्च व्यति­रे­का­नु­वा­दिनी ।
श्रुतिः कुप्येत मोक्षश्च तदापत्तौ सुदुर्लभः ॥ ३८७ ॥
जला­र्क­व­त्प्र­वे­श­श्चे­न्ना­प­रि­च्छि­न्न­रू­पतः ।
अमूर्तत्वाच्च नास्यैवं प्रवेश उपपद्यते ॥ ३८८ ॥
एवं तर्हि प्रवेशोऽस्य श्लिष्यते न कथञ्चन ।
न च गत्यन्तरं विद्मो येन वाक्यं समर्थ्यते ॥ ३८९ ॥
आनर्थक्यादिदं तर्हि त्यज्यतां शिशुवाक्यवत् ।
प्रवेशवाक्यं नैवं तद्ग­त्य­न्त­र­स­मा­श्र­यात् ॥ ३९० ॥
ब्रह्म­वि­त्प­र­मा­प्नो­ती­त्युक्त्वा सत्यादिलक्षणम् ।
प्रवेशयद् गुहां तच्च तद­ना­त्म­त्व­शा­न्तये ॥ ३९१ ॥
अब्र­ह्म­त्व­नि­वृ­त्त्यर्थं ब्रह्मात्मैति विशेषणम् ।
तन्नि­वृ­त्ता­व­वा­क्यार्थं कैवल्यं प्रतिपद्यते ॥ ३९२ ॥
यस्मादेवं फलं तस्मा­ज्ज्ञा­न­मत्र विवक्षितम् ।
गुहायामद्वयं ब्रह्म तस्मा­न्नि­हि­त­मु­च्यते ॥ ३९३ ॥
तद्रू­पा­नु­ग­म­या­न्न­म­यान्तं कार्यमाह हि ॥ ३९४ ॥
पूर्व­पू­र्वा­ति­रे­केण त्रीन्को­शा­न­ति­लङ्घ्य च ।
विज्ञा­न­म­य­रू­पायां गुहायां दर्शितः परः ॥ ३९५ ॥
तत्रानन्दमयो यस्माल्लक्ष्यते राहुचन्द्रवत् ।
मानुषादधि यत्रेदं सुखं निष्ठां प्रपद्यते ।
उत्कृष्यमाणं क्रम­श­स्त­द्ब्र­ह्मा­सीति बोधयेत् ॥ ३९६ ॥
विक­ल्प­यो­ना­वे­तस्यां निर्वि­क­ल्पोऽ­धि­ग­म्यते ।
तस्मात्तस्यां प्रवेशोऽस्य कल्प्यते नाञ्जसोच्यते ॥ ३९७ ॥
प्रकाशात्मक एत­स्मि­न्द्र­ष्टृ­श्रो­त्रा­दि­ल­क्ष­णम् ।
मोहादीक्षामहे यस्मा­त्प्र­वि­ष्ट­स्तेन कल्प्यते ॥ ३९८ ॥
तस्यैष एव शारीर आत्मेत्येवं ब्रुवाणया ।
ऐकात्म्यमुच्यते श्रुत्या हृत्प्र­वि­ष्टा­प्र­वि­ष्टयोः ॥ ३९९ ॥
प्रवे­श­हे­तु­दो­षा­णा­म­ध्य­स्तानां परात्मनि ।
यदाहीत्यादिना ध्वंस एवं सत्युपपद्यते ॥ ४०० ॥
अप्र­वि­ष्ट­स्व­भा­वस्य प्रवेशस्तेन कल्प्यते ।
क्षेत्र­ज्ञे­श्व­र­हा­नेन ह्यैकात्म्यं स्यात्कथं त्विति ॥ ४०१ ॥
मूर्ता­मू­र्ता­त्मकं कार्यं यत्सृष्ट्वा प्राविशत्प्रभुः ।
रजतं शुक्तिकैवात्मा तदा­त्मे­वा­भ­व­न्मृषा ॥ ४०२ ॥
मूर्तं भूतत्रयं सत्स्या­दि­त­र­त्त्य­दि­हो­च्यते ।
अव्या­कृ­ता­दा­श­री­रा­दे­ता­व­द्वस्तु नापरम् ॥ ४०३ ॥
समा­ने­त­र­जा­ती­या­न्नि­र्धा­र्ये­द­न्त­यो­च्यते ।
यन्निरुक्तं तदत्र स्याद­नि­रु­क्त­मि­तोऽ­न्यथा ॥ ४०४ ॥
साक्षा­त्प­रो­क्ष­रूपे तु मूर्तामूर्ते पुरोदिते ।
निरुक्तेतररूपे ये तयोरेव विशेषणे ॥ ४०५ ॥
निलयो मूर्तधर्मः स्यादु­त्त­रोऽ­मू­र्त­सं­श्रयः ।
विज्ञानं चेतनं विद्या­द­वि­ज्ञा­न­म­चे­त­नम् ॥ ४०६ ॥
व्याव­हा­रि­क­मे­वात्र सत्यं स्यादधिकारतः ।
पार­मा­र्थि­क­स­त्यस्य वाक्यान्ते समुदीरणात् ॥ ४०७ ॥
मृग­तृ­ष्णा­दि­व­न्मिथ्या तदिहानृतमुच्यते ।
इत्ये­त­द­भ­व­त्स्रष्टा ह्यवि­द्यो­त्थ­म­वि­द्यया ॥ ४०८ ॥
प्रत्याख्यानेन सर्वस्य सत्त्य­दा­द्या­त्म­कस्य हि ।
व्यावृ­त्ता­खि­ल­ना­ना­त्व­महं ब्रह्मेति बोध्यते ॥ ४०९ ॥
नैतदस्ति न नास्तीदं द्वयो­र्मो­हो­द्भ­व­त्वतः ।
न सत्त­न्ना­स­दि­त्येवं प्राह विश्वेश्वरोऽपि हि ॥ ४१० ॥
आवि­र्भा­व­ति­रो­भावौ बुद्धे­र्य­त्सा­क्षि­का­विह ।
तमे­क­म­न्त­रा­त्मानं विद्या­द­व्य­भि­चा­रि­णम् ॥ ४११ ॥
तस्मादस्ति परं ब्रह्म यस्या­वि­द्या­प्र­क­ल्पिताः ।
सन्तीव सत्तामालम्ब्य कार्य­का­र­ण­ल­क्षणाः ॥ ४१२ ॥
विवादगोचरापन्नं यत्कि­ञ्चि­द्र­च­ना­त्म­कम् ।
तत्सर्वं बुद्धिमत्पूर्वं तदात्मत्वाद् घटादिवत् ॥ ४१३ ॥
तत्रै­त­स्मि­न्य­थो­क्तेऽर्थे श्लोकः पूर्ववदुच्यते ।
श्रुत्यु­क्ता­र्था­नु­वादी तु द्रढिम्ने पुन्धियोऽधुना ॥ ४१४ ॥
इति षष्ठोऽनुवाकः ॥ ६ ॥

सप्तमोऽनुवाकः
यदि­दं­श­ब्द­धी­गम्यं प्राग­स­त्त­द­भू­ज्ज­गत् ।
असच्छब्देन चात्र स्याद्ब्र­ह्मै­वा­ना­म­रू­प­कम् ॥ ४१५ ॥
नामरूपात्मकं कार्य­म­ना­त्म­त्वा­त्स्वतो ह्यसत् ।
यत्सदेकं परं ब्रह्म ततो वै सदजायत ॥ ४१६ ॥
सत्यं ज्ञानमनन्तं यत्त­दु­पे­त­म­वि­द्यया ।
स्वात्मनैव स्वमात्मानं सत्त्य­द्रू­प­म­ची­क्लृ­पत् ॥ ४१७ ॥
यस्मात्स्वयमिदं सर्व­म­क­रो­न्नि­पुणः प्रभुः ।
सुकृतं प्रभुमेवातो महात्मानः प्रचक्षते ॥ ४१८ ॥
यदि वेश्व­र­नि­र्वृत्तं कार्यं सुकृतमुच्यते ।
निष्ठा­सं­श्र­व­णा­त्सा­क्षान्न तु कर्तेश उच्यते ॥ ४१९ ॥
लोकेऽपि स्वामिना साक्षाद्यत्कृतं कर्म यत्नतः ।
तदेव सुकृतं प्राहुर्न तु भृत्यैस्तथा कृतम् ॥ ४२० ॥
यद्वै तत्सुकृतं प्रोक्तं सत्त्य­दा­दि­स्व­भा­व­कम् ।
नीरसस्यास्य कार्यस्य रसोऽसौ परमः स्मृतः ॥ ४२१ ॥
रसः सारोऽमृतं ब्रह्म आनन्दो ह्लाद उच्यते ।
निःसारं तेन सारेण सारवल्लक्ष्यते जगत् ॥ ४२२ ॥
रस­स्या­ती­न्द्रि­य­स्यास्य त्वानन्दत्वं कुतो न्विति ।
अत­स्त­त्प्र­ति­प­त्त्यर्थं रसं हीत्युत्तरं वचः ॥ ४२३ ॥
एतस्मादपि हेतो­स्त­द­स्ती­त्य­भ्यु­प­ग­म्य­ताम् ।
इतश्चास्ति परं ब्रह्म रसत्वस्य प्रसिद्धितः ॥ ४२४ ॥
तृप्तिहेतू रसो नाम मधु­रा­म्ला­दि­ल­क्षणः ॥ ४२५ ॥
अन्नादिरसलाभेन यथा तृप्ताः समासते ।
आनन्दिनः कामहीना निरीहाः साध्यसिद्धये ॥ ४२६ ॥
अप­वि­द्धै­ष­णा­स्त­द्व­द्बा­ह्यो­पा­दा­न­व­र्जिताः ।
निःसम्बोधं परानन्दं प्राप्ताः संन्यासिनोऽमलाः ॥ ४२७ ॥
नूनं तेषां परं स्वास्थ्यं चेतां­स्या­ह्ला­द­य­त्य­लम् ।
प्रह्लादचेतसां यानि तानि लिङ्गानि तेषु हि ॥ ४२८ ॥
उपाग्नि पामनस्येव सुखसंसक्तचेतसः ।
लिङ्गं कण्डूयमानस्य लक्ष­या­म्या­त्म­वे­दिषु ॥ ४२९ ॥
अज्ञा­ता­न­न्द­त­त्त्वा­ना­म­नु­मा­न­मिदं भवेत् ।
साक्षा­त्कृ­ता­त्म­त­त्त्वानां प्रत्यक्षतममेव तत् ॥ ४३० ॥
बाह्ये­न्द्रि­या­णा­म­ध्यात्मं संहतिर्येह लक्ष्यते ।
एका­र्थ­वृ­त्ति­रू­पेण सा दृष्टाऽसंहते सति ॥ ४३१ ॥
अतः साक्षेपमोहेयं को ह्येवान्यादिति श्रुतिः ।
आकाशे परमे व्योम्नि ह्यानन्दो न भवेद्यदि ॥ ४३२ ॥
आब्र­ह्म­स्त­म्ब­लो­केऽ­स्मि­न्पु­ण्य­क­र्मा­नु­रू­पतः ।
आनन्दः परमो यस्मादानन्दयति नः सदा ॥ ४३३ ॥
सोऽयं लौकिक आनन्दो निष्ठां साधनसम्पदा ।
यत्र प्रपद्यते भूम्नि सोऽस्त्यानन्दः परो रसः ॥ ४३४ ॥
अस्तित्वे हेतवः सम्य­ग्ब्र­ह्म­णोऽ­भि­हिता यतः ।
उताविद्वानिति प्रश्नः श्रुत्याऽऽ­वि­ष्क्रि­य­तेऽ­धुना ॥ ४३५ ॥
विद्वानेवैति तद्ब्रह्म ह्यभयं भयहेतु यत् ।
तमो­मा­त्रा­व­रु­द्ध­त्वा­त्त­त्प्रा­प्ते­र्ना­न्य­दस्ति हि ॥ ४३६ ॥
व्यवधानं हि यद्य­स्मा­त्त­त्त­न्मो­है­क­हे­तु­कम् ।
यस्मा­त्त­स्मा­द­वि­द्यैव मोक्षा­प्ते­र्व्य­व­धि­र्भ­वेत् ॥ ४३७ ॥
अवि­द्या­सा­क्ष्यपि प्रत्य­क्स­दाऽ­न­स्त­मि­तो­दितः ।
अविद्यया व्यव­हि­त­स्त­द्ब­ले­नैव तद्वचः ॥ ४३८ ॥
विद्व­त्ता­व्य­ति­रे­केण यदि तत्प्रा­प्ति­रु­च्यते ।
चोद्यमेतत्तदा युक्तं न त्वेवं सति युक्तिमत् ॥ ४३९ ॥
यातु साधारणी प्राप्ति­रा­त्म­त्वा­द्ब्र­ह्मणः स्वतः ।
विदुषोऽविदुषो वाऽसावस्माभिर्न नियम्यते ॥ ४४० ॥
अतोऽ­वि­द्या­नि­षे­धेन सर्व­दाऽ­वा­प्ति­रू­पिणः ।
प्राप्तिः स्यादा­त्म­हे­तु­त्वा­दिति पूर्वमवादिषम् ॥ ४४१ ॥
अतः परीक्ष्यते श्रुत्या तदिदानीं प्रयत्नतः ।
विद्वानेवैति नाविद्वान्यदा हीत्येवमाद्यया ॥ ४४२ ॥
विषयानुपातिनी या तु ह्यशेषकरणाश्रया ।
लौकि­क­त्वा­त्प­दा­र्थस्य दृशि­र­त्रा­भि­धी­यते ॥ ४४३ ॥
विशे­ष­व­द्भ­वे­द्दृश्यं तद्धि दर्शनमर्हति ।
नित्या दृष्टिरभावो वा नैव दर्शनमर्हति ॥ ४४४ ॥
दृश्यान्वयि हि यद्वस्तु तदात्म्यमिति भण्यते ।
स्वतो ह्यस्या­त्म­दा­रि­द्र्या­द­र्हार्थे लभते च यत् ॥ ४४५ ॥
स्याद्वा जाग्रदवस्थेऽयं दृश्यत्वेन प्रसिद्धितः ।
कोश­त्र­य­मि­हात्म्यं स्यादा­त्मा­र्थ­त्व­स­म­न्व­यात् ॥ ४४६ ॥
पञ्चमोऽत्र निरुक्तः स्यात्पा­रि­शे­ष्या­त्फ­ला­त्मकः ।
अत्यानन्दमयं ब्रह्म त्वनिरुक्तं परं पदम् ॥ ४४७ ॥
निलीयते जग­द्य­स्मि­न्नि­लीनं जायते यतः ।
निलयं तत्परं ब्रूमः कोशपञ्चककारणम् ॥ ४४८ ॥
सच्च त्यच्चादि वाऽपेक्ष्य निषे­धोऽ­य­मि­हो­च्यते ।
प्राप्ति­र्ह्य­भ­व­दि­त्युक्ता चारु प्राप्तनिषेधनम् ॥ ४४९ ॥
मूर्तामूर्तौ हि राशी द्वौ सच्च त्यच्चादिनोदितौ ।
श्रुत्यन्तरेण सङ्गा­ना­त्त­यो­रे­वा­स्त्व­प­ह्नुतिः ॥ ४५० ॥
अस्मिन्पक्षे तु निलयो वासनानिलयो भवेत् ।
एवं च नेति नेतीति साक्षा­त्स्या­द्ब्र­ह्म­द­र्श­नम् ॥ ४५१ ॥
भावाभावात्मिका बुद्धिर्यत आत्मापचारिणी ।
भावाभावनिषेधेन प्रतीची स्थाप्यते ततः ॥ ४५२ ॥
दृश्या­दि­प्र­ति­षे­धोक्त्या प्रतीचि ब्रह्म बोध्यते ।
न तदन्यत्तदन्यस्य परमार्थात्मता कुतः ॥ ४५३ ॥
न नञर्थो विकल्पो वा पर­मा­र्थ­म­क­ल्पि­तम् ।
असम्प्रविश्य संसिद्धिं लभते क्वचिदन्यतः ॥ ४५४ ॥
दृश्या­दि­गु­ण­ही­नस्य स्वत आत्मत्वकारणात् ।
वेत्ति विन्दत इत्य­स्मा­दै­का­र्थ्या­दु­प­सं­हृतिः ॥ ४५५ ॥
दृश्या­दि­गु­ण­ही­नेऽ­स्मि­न्नि­र­विद्यो यदाऽभयम् ।
साक्षाद्वेत्ति तदैवायमभयं विन्दते परम् ॥ ४५६ ॥
ब्रह्मपुच्छं प्रतिष्ठेति यदभाणि पुरा सकृत् ।
तेनै­क­वा­क्य­ता­र्थाय प्रतिष्ठामिति भण्यते ॥ ४५७ ॥
अथाधुना यथाऽ­वि­द्वा­न्प्रेत्य नैति परं पदम् ।
व्याख्यायते तथा स्पष्टं यदा हीत्येवमाद्यया ॥ ४५८ ॥
सदा लब्धात्मकस्यापि यतोऽ­ज्ञा­न­म­ना­प्ति­कृत् ।
अवाद्युच्चैरतः श्रुत्या विद्वानेतीति सादरम् ॥ ४५९ ॥
यस्मादेवं ततोऽ­वि­द्वा­ल्ल­भते न तमीश्वरम् ।
अवि­द्या­व्य­व­धा­नाद्धि लब्ध एव न लभ्यते ॥ ४६० ॥
यदा ह्येवैष आत्मैको दृश्य­त्वा­दि­वि­व­र्जितः ।
एत­स्मि­न्व­र्त­मा­नोऽपि वञ्चि­तोऽ­वि­द्य­यैव हि ॥ ४६१ ॥
हस्तप्राप्तमपि द्रव्य­म­प्रा­प्त­मिव मन्यते ।
मोहादेवमनप्तिः स्यादात्मनोऽपि ममाऽऽत्मनः ॥ ४६२ ॥
अविद्यया तदोद्धृत्य रज्ज्वा रज्जुमिव स्वयम् ।
अहि­त्वे­ना­द्व­या­द्बो­धा­त्कु­रुते कर्तृभोक्तृभिः ॥ ४६३ ॥
अरं छिद्रं भिदाऽन्यत्वं वेद्य­वे­त्तृ­त्व­ल­क्ष­णम् ।
यस्मादुत्कुरुते मोहादात्मनो ब्रह्मणः स्वतः ॥ ४६४ ॥
अन्योऽसावीश्वरो मत्त­स्त­स्मा­च्चा­ह­म­नी­श्वरः ।
इति च्छिद्र­य­तोऽ­च्छिद्रं छिद्रेऽनर्थो भवेद्भयम् ॥ ४६५ ॥
निर्भयोऽपि स्वतोऽ­वि­द्वा­नेकं सन्तमनेकधा ।
प्रक­ल्प्या­वि­द्याऽऽ­त्मानं तमेव भयमाप्नुयात् ॥ ४६६ ॥
भय­हे­तो­र्द्वि­ती­यस्य हिशब्देन परिग्रहात् ।
द्वितीयाद्वै भयं हीति श्रुति­रु­च्चै­र­तोऽ­न्व­शात् ॥ ४६७ ॥
ईशि­त­व्या­द्वि­भक्तो मद्यस्मादीशो भयङ्करः ।
इति कल्प­य­त­स्त­स्मा­द­भयं जायते भयम् ॥ ४६८ ॥
अहो बलमविद्याया अतिशेते न कश्चन ।
अग्न्या­दि­भ­य­हे­तोर्या ब्रह्मणोऽपि भयङ्करी ॥ ४६६ ॥
निर्भयो भयकृद्देव ईश्व­रा­णा­म­पी­श्वरः ।
भयं तस्यापि जन­ये­न्ना­ज्ञा­न­स्या­स्त्य­गो­चरः ॥ ४७० ॥
यज्ज्ञात्वा विन्दते विद्वानभयं हीत्यवादिषम् ।
तत्त्वे­वा­भ­य­कृ­द्ब्रह्म स्यान्मो­हा­दा­त्मनो भयम् ॥ ४७१ ॥
निषि­द्ध­दृ­श्य­त्वा­द्ये­क­म­भयं मोहनिह्नवात् ।
यत्तस्यैव भयं तत्स्या­द­वि­द्या­व­श­व­र्तिनः ॥ ४७२ ॥
अपि वालाग्रमात्रेण विदुषः प्रत्यगात्मनः ।
भिन्नं ब्रह्मेति सम्मो­हा­दा­त्मै­वास्य भयं भवेत् ।
व्याख्यानं वा पुरोक्तस्य च्छिद्रस्य क्रियतेऽनया ॥ ४७३ ॥
अमन्वानस्य तद्ब्रह्म विदुषोऽपि भयङ्करम् ॥ ४७४ ॥
वेद्य­वे­त्तृ­त्व­शू­न्य­त्वा­द्वि­द्व­त्ताऽपि तमोमयी ।
रज­त­त्वा­दि­व­च्छु­क्ता­व­म­न्वनो भवेदतः ॥ ४७५ ॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
विदि­ता­वि­दि­ताभ्यां तदन्यदेवेति हि श्रुतिः ॥ ४७६ ॥
अन्यदेव हि तद्वे­द्या­द­वे­द्या­द­न्य­देव तत् ।
वेद्य­वे­त्तृ­द्व­या­च्चा­न्य­दिति श्रुत्यनुशासनम् ॥ ४७७ ॥
वेद्या­वे­द्या­त्मता यस्मा­च्छ­ब्दा­द्य­र्था­नु­पा­तिनी ।
वेद्य­वे­त्तृ­त्व­म­प्ये­व­म­न्यथा तदसङ्गतेः ॥ ४७८ ॥
व्युत्थाप्य वेद्या­द्वि­द्याया वेत्तु­श्चा­ज्ञा­न­क­ल्पि­तात् ।
तदन्येभ्यश्च जानीयादहं ब्रह्मे­ति­वा­क्यतः ॥ ४७९ ॥
इति सप्तमोऽनुवाकः ॥ ७ ॥

अष्टमोऽनुवाकः
यथो­क्त­बो­ध­वि­र­हा­दी­श्व­रा­णा­म­पी­श्वराः ।
प्रतीचो ब्रह्मणो भीताः स्वकर्माणि प्रकुर्वते ॥ ४८० ॥
वातादयो महावीर्याः स्वतन्त्रा बाहुशालिनः ।
तेऽपि भीताः प्रवर्तन्ते ब्रह्मणोऽपि महत्तमाः ॥ ४८१ ॥
यस्माद्ब्रह्मण आनन्दाद्भीता वातादयोऽवशाः ।
स्वकर्मसु प्रवर्तन्ते भृत्याः स्वामिभयादिव ।
तस्यानन्दस्य मीमांसा विचारः क्रियतेऽधुना ॥ ४८२ ॥
उत्क­र्षे­त­र­ही­नोऽसौ य आनन्दोऽधिगम्यते ॥ ४८३ ॥
दृष्टः साति­श­य­स्ता­व­दा­नन्दः कर्महेतुकः ।
आब्र­ह्म­न­र­प­र्यन्ते लोकेऽस्माभिः प्रमाणतः ॥ ४८४ ॥
उत्कृष्यमाणो यत्रायं परां निष्ठां प्रपद्यते ।
अना­प­न्ना­दि­म­ध्यान्तं तद्ब्र­ह्मे­त्य­व­धा­र­येत् ॥ ४८५ ॥
ब्रह्मा­दि­न­र­प­र्यन्तं पुण्य­क­र्मा­नु­रू­पतः ।
उपजीवति लोकोऽयं यस्यानन्दस्य विप्रुषम् ॥ ४८६ ॥
उत्त­रो­त्त­र­वृ­द्ध्यैवं मनुष्यादधि तं वयम् ।
प्रतिपद्यामहे साक्षादानन्दं स्वात्मनि स्थितम् ॥ ४८७ ॥
विष­ये­न्द्रि­य­स­म्ब­न्ध­स­मुत्थो वा भवेदयम् ।
लौकि­का­न­न्द­व­त्स्याद्वा सर्व­सा­ध­न­नि­स्पृहः ॥ ४८८ ॥
तत्र लौकिक आनन्दो बाह्या­ध्या­त्मि­क­सा­धनः ।
सम्पन्निमित्तो यो दृष्टः सैषेति स इहोच्यते ॥ ४८९ ॥
उत्कृ­ष्य­मा­णे­ना­नेन ह्यस्म­द्गो­च­र­व­र्तिना ।
असाधनमसाध्यं तमानन्दं व्याचचक्ष्महे ॥ ४९० ॥
निष्ठां सातिशयं यस्मा­त्स्व­तोऽ­न­ति­श­या­त्मनि ।
गच्छदीक्षामहे यस्मादेवमानन्द ईक्ष्यताम् ॥ ४९१ ॥
येयं सातिशया सङ्ख्याऽ­स­ङ्ख्ये­या­र्था­व­सा­यिनी ।
यथैवमस्मदानन्दः स्यात्प­रा­न­न्द­नि­ष्ठितः ॥ ४९२ ॥
आवि­ष्क­रि­ष्य­न्त्या­हात इममर्थं श्रुतिः स्वयम् ।
बहि­ष्प्र­व­ण­दृ­ष्टीनां स्वतोऽ­सा­म­र्थ्य­द­र्श­नात् ॥ ४९३ ॥
युवा प्रथमवयाः स्याद्यूनः साधुयुवेति किम् ।
पञ्चविंशाब्दिकः साधुरिति साधुयुवोच्यते ॥ ४९४ ॥
मिथः सव्य­भि­चा­रि­त्वा­त्सा­धु­यौ­व­न­यो­रतः ।
विशेषणमिदं तस्मात्पुनः साधुयुवेति हि ॥ ४९५ ॥
अध्येति सर्व­म­ध्ये­य­म­तोऽ­ध्या­यक उच्यते ।
क्षिप्र­का­र्य­ति­शा­यि­त्वा­दा­शि­ष्ठोऽसौ भवेदतः ॥ ४९६ ॥
सम­ग्र­शे­ष­चा­र्वङ्गो दृढिष्ठः परिकीर्त्यते ।
अभिभूय यतः सर्वान्बलिनो वर्तते ततः ।
बलिष्ठस्तेन विद्वद्भिः कीर्त्यते पृथुकीर्तिभिः ॥ ४९७ ॥
यावदाध्यात्मिकं किञ्चि­त्पु­म्भि­रा­पे­क्ष्यते क्वचित् ।
दृष्टा­दृ­ष्टे­ष्ट­भो­गाय तेन सर्वेण संयुतः ॥ ४९८ ॥
तस्येवं पृथिवी सर्वा पूर्णा वित्तस्य चेद्भवेत् ।
इति साधनमुक्तं स्याद्दृ­ष्टा­दृ­ष्टा­र्थ­क­र्मणः ॥ ४९९ ॥
बाह्यै­रा­ध्या­त्मि­कै­श्चैव सम्पन्नः साधनैः पुमान् ।
लभते यमसौ ह्लादं नरानन्दः स उच्यते ॥ ५०० ॥
य एते शतमानन्दा मानुषाणां समाहृताः ।
नरगन्धर्वकाणां स्यात्तावानेकः प्रमाणतः ॥ ५०१ ॥
सुगन्धिनः कामरूपा अन्त­र्धा­ना­दि­श­क्तयः ।
नृत्य­गी­ता­दि­कु­शला गन्धर्वाः स्युर्नृलौकिकाः ॥ ५०२ ॥
भूयो­द्व­न्द्व­प्र­ती­घा­त­श­क्ति­सा­ध­न­स­म्पदा ।
नारगन्धर्विको भूयानानन्दो मानुषादधि ॥ ५०३ ॥
आवि­रि­ञ्चा­द्भ­वे­देवं पूर्व­स्मा­दु­त्त­रोऽ­धिकः ।
सहस्रदशभागेन ह्युत्तरोत्तरतः क्रमात् ॥ ५०४ ॥
श्रोत्रि­योऽ­धी­त­वेदः स्यात्सा­ध्वा­चारः प्रसिद्धितः ।
कामा­नु­प­ह­ता­त्माऽपि स्यादकामहतस्तथा ॥ ५०५ ॥
मार्त्या­द्भो­गा­द्वि­र­क्तस्य ह्युत्त­रा­ह्ला­द­का­मिनः ।
सहस्रदशभागेन मानुषाद् गुणितो भवेत् ॥ ५०६ ॥
इत्येतस्य प्रसि­द्ध्य­र्थ­मा­दा­व­ग्र­हणं कृतम् ।
अकामहत इत्यस्य हेतो­रा­न­न्द­वृ­द्धये ॥ ५०७ ॥
श्रोत्रि­या­वृ­जि­नत्वे द्वे सर्वत्रैव समे अपि ।
कामानुपहतत्वस्य वृद्धौ ह्लादो विवर्धते ॥ ५०८ ॥
यतोऽकामहतत्वं स्यात्स­र्वा­ति­श­यि­नोऽ­ञ्जसा ।
सुखस्य प्राप्तये तस्मा­त्त­दे­वो­त्कृ­ष्टि­कृ­द्भ­वेत् ॥ ५०९ ॥
तस्मा­द्य­थो­दि­ता­न­न्द­प्रा­प्तये साधनत्रयम् ।
श्रोत्रि­या­वृ­जि­नत्वे द्वे तथाऽकामहतात्मता ॥ ५१० ॥
तुल्ये आब्रह्मणः पूर्वे उत्क­र्ष­स्तू­त्त­रस्य च ।
अकामहततैवातः पूर्वाभ्यां साधनं परम् ॥ ५११ ॥
चिर­का­ल­स्थि­ति­र्येषु पितृलोकेषु ते स्मृताः ।
चिर­लो­क­लो­का­स्तेऽपि स्युः पितृ­श्र­द्धा­दि­का­रिणः ॥ ५१२ ॥
आजानो देवलोकः स्यात्तज्जा आजानजाः स्मृताः ।
स्मार्त­क­र्म­कृ­त­स्तत्र जायन्ते देवभूमिषु ॥ ५१३ ॥
कर्मणैव त्वविद्वांसो ये जाताः सुरसद्मसु ।
कर्मदेवांस्तु तान्वि­द्या­द्दे­वां­श्चो­त्त­र­मा­र्ग­गान् ॥ ५१४ ॥
त्रैलो­क्य­दे­ह­श्चात्र स्याद्विराडेव प्रजापतिः ।
सम­ष्टि­व्य­ष्टि­रू­पश्च ब्रह्मेह परिगृह्यते ॥ ५१५ ॥
त एते सर्व आनन्दा यत्रैकत्वं व्रजन्ति नः ।
कामश्च तन्निमित्तोत्थो ज्ञानं यच्च द्वयात्मकम् ॥ ५१६ ॥
तथाऽकामहतत्वं च निष्ठां यत्र प्रपद्यते ।
तमानन्दं विजा­नी­या­द्व­र्त्म­नाऽ­नेन वाक्यतः ॥ ५१७ ॥
आन­न्दा­न­न्दि­नो­श्चात्र न भेदः स्यान्मनागपि ।
श्रुत्यै­वा­पो­दितो यस्मच्छिद्रं कुर्वन्मनागपि ॥ ५१८ ॥
न साधनमयं किञ्चि­त्स्वा­त्म­सि­द्धा­व­पे­क्षते ।
स्वतः सिद्धेरविद्याया हान­मा­त्र­म­पे­क्षते ॥ ५१९ ॥
गुरु­भा­रा­व­स­न्नस्य भारापनयतो यथा ।
उत्कृष्यते क्रमा­त्स्वास्थ्यं स्वात्मन्येवं तमःक्षयात् ॥ ५२० ॥
अथेदानीं परीक्षाया अद्वै­ता­न­न्द­ल­क्ष­णम् ।
उपसंह्रियते साक्षात्फलं साधननिस्पृहम् ॥ ५२१ ॥
निर्धू­ता­शे­ष­सं­सारः सत्य­मि­त्या­दि­नो­दितः ।
व्युत्ता­प्या­स­त्य­ज्ञा­ना­दे­र्बुद्धौ चात्मनि दर्शितः ॥ ५२२ ॥
निष्कृ­ष्या­वि­द्यो­त्स­ङ्ग­स्था­त्त­त्सा­क्षि­ण­म­ना­त्मनः ।
साक्षात्तेनैव तं विद्मः प्रात्य­क्ष्या­त्सोऽ­य­मि­त्यतः ॥ ५२३ ॥
अकामहत इत्येवं निर­वि­द्योऽ­भि­धी­यते ।
तस्यामसत्यां तद्ब्रह्म स्वयमेवानुभूयते ॥ ५२४ ॥
अज्ञातं ज्ञायते यत्र प्रमा­तृ­त्वा­द्य­नि­ह्न­वात् ।
तत्र मानान्तरापेक्षा न स्वतोऽवगमात्मके ॥ ५२५ ॥
प्रमै­वाऽऽ­त्मा­त्मिका यत्र त्वन­न्या­नु­भ­वा­त्मिका ।
नात्र मानान्तरापेक्षा सैवा­न­स्त­मि­तो­दिता ॥ ५२६ ॥
आधे­या­र्थ­प्र­धा­नेयं सप्तमी पुरुषात्परा ।
योऽयमित्यादिना तद्व­च्छ्रु­ति­रेवं प्रवादिनी ॥ ५२७ ॥
अकामहतधीगम्यो योऽयं बुद्धेः सदेक्षकः ।
अयं पुरुष इत्यत्र स एव त्वभिधीयते ॥ ५२८॥
प्रध्व­स्ता­स्म­द्वि­भा­गश्च रोचिष्णुर्यश्च भास्करे ।
सूर्य आत्मेति मन्त्रोऽपि योऽसाविति च साक्ष्यथ ॥ ५२९ ॥
क्षेत्र­ज्ञे­श्व­र­भे­देन ह्यभिन्नं वस्त्वविद्यया ।
तस्मा­त्त­द्धा­न­त­श्चैक्यं घटेतरखयोरिव ॥ ५३० ॥
मूर्ता­मू­र्ता­त्म­क­स्यास्य ह्युत्कर्षः परमो रविः ।
स्वान्तर्गतेन तस्यैक्यं तन्नि­मि­त्त­नि­षे­धतः ॥ ५३१ । ॥
अनूद्य स य इत्येवमपकृष्टं नृबुद्धिगम् ।
उत्कृ­ष्टे­ने­श्व­रे­णाथ विशि­न­ष्ट्य­हि­र­ज्जु­वत् ॥ ५३२ ॥
उत्कृष्टो यद­पे­क्ष्ये­श­स्त­त्ता­व­द्बा­ध्यते बलात् ।
जहाति पश्चा­दु­त्क­र्ष­म­प­कृ­ष्टा­श्रयो हि सः ॥ ५३३ ॥
नाऽऽदि­त्य­स्थ­स्त­दो­त्कर्षो नाप­कृ­ष्टि­स्त­थाऽऽ­त्मनि ।
हित्वो­भ­य­म­वा­क्यार्थं नेति नेतीति विन्दते ॥ ५३४ ॥
उत्कृ­ष्टि­र्वाऽ­प­कृ­ष्टिर्वा नेह स्वात्मनि विद्यते ।
तमो­प­ह­त­दृ­ष्टी­ना­मु­त्क­र्षे­त­र­वी­क्ष­णम् ॥ ५३५ ॥
अविद्यैव यतो हेतु­रु­त्कृ­ष्ट्या­देर्न वस्त्वतः ।
जग्धायां विद्यया तस्यां नानात्वं विनिवर्तते ॥ ५३६ ॥
अतिशेते यतः सर्वा­ना­न­न्दा­ना­ग्र­जा­दधि ।
विक­ल्प­भू­मे­र्व्या­वृ­त्ते­रैक्यं स्वात्म­र­वि­स्थयोः ॥ ५३७ ॥
सत्यं ज्ञानमिति ह्यस्मा­द­स­त्या­द्य­र्थ­वा­र­णात् ।
भेदाश्रयस्य व्यावृ­त्ते­रैक्यं स्वात्म­र­वि­स्थयोः ॥ ५३८ ॥
कार्येण रसलाभेन प्राण­ना­द्यु­प­प­त्तिभिः ।
अस्ती­त्य­पा­क्रि­यै­तस्य प्राहु­र्भा­ष्य­कृतः स्वयम् ॥ ५३९ ॥
प्रश्नयोरस्ति नास्तीति व्याख्या­त­त्वा­द­था­धुना ।
आहो विद्वानमुं लोक­मि­त्य­स्या­पा­क्रि­यो­च्यते ॥ ५४० ॥
तद्वा­णी­भा­नु­स­म्प्लु­ष्ट­ब­हु­ला­ज्ञा­न­धी­र­हम् ।
यदा हीत्यादिना मन्ये उते­त्या­दे­र्वि­नि­र्ण­यम् ॥ ५४१ ॥
उताविद्वानमुं लोक­मि­ति­प्र­श्न­वि­नि­र्ण­यात् ।
अस्ति नास्तीति सिद्धः स्यात्प्र­श्न­यो­रपि निर्णयः ॥ ५४२ ॥
विद्व­त्ता­व्य­ति­रे­केण फलं भिन्नं यथा तथा ।
अकामहततायास्तु परानन्दो न भिद्यते ॥ ५४३ ॥
अने­क­ज­न्म­सं­सिद्धः स यः कश्चिद्भवेदिह ।
यथो­दि­ता­र्थ­वि­त्सा­क्षा­द­स्मा­द्रा­गे­त­रा­त्म­कात् ॥ ५४४ ॥
लोका­दा­ध्या­त्मि­का­त्प्रेत्य यश्च स्यादाधिभौतिकः ।
तदु­त्क्रा­न्ते­र्भ­वे­द्धे­तु­र­न्न­सृ­ष्टि­स्थि­ति­क्षयः ॥ ५४५ ॥
लोका­द­स्मा­त्स­मु­त्क्रम्य ह्येवं­वि­दि­ति­वा­चकः ।
सर्वशेषमिति न्याय्यं तद्व्याख्यानाय चोत्तरम् ॥ ५४६ ॥
गत्वे­हा­न्न­म­या­त्मानं तत्कार्यं यद्वदत्यगात् ।
अन्नेनान्नमयं तद्व­द्वि­द्वा­न्प्रा­ण­म­या­त्मना ॥ ५४७ ॥
तस्यापि ह्यन्त­रा­त्मा­न­मही रज्जुमिव स्वतः ।
मनोमयात्मना बाह्य­मु­प­स­ङ्क्रा­म­ती­श्वरः ।
पूर्व­पू­र्व­प्र­हाणं स्यादु­त्त­रो­त्त­र­गा­मिभिः ॥ ५४८ ॥
दृश्या­दृ­श्या­दि­ही­नेऽथ प्रतिष्ठां विन्दतेऽभयम् ॥ ५४९ ॥
योऽसा­वे­वं­वि­दि­त्युक्तः परस्मात्किमसौ भवेत् ।
स्वतो भिन्नोऽथ वाऽभिन्नो यदि वोभयलक्षणः ॥ ५५० ॥
भेदे श्रुतिविरोधः स्याद­न्योऽ­सा­विति निन्दनात् ।
कर्म­क­र्तृ­त्व­मे­कस्य दोषोऽभेदेऽपि विद्यते ॥ ५५१ ॥
परस्य दुःखिता चैवं पराभावः प्रसज्यते ।
तस्मा­न्नि­र्धा­र­णा­र्थोऽयं विचारः क्रियतेऽधुना ॥ ५५२ ॥
निश्चितं हि परिज्ञानं फल­व­त्स्या­त्प्र­सि­द्धितः ॥ ५५३ ॥
नान्य­स्या­न्या­त्मता यस्माद् ध्वंसे वाऽध्वंस एव वा ।
तस्मादनन्यो विज्ञेयः परस्मादात्मनो बुधः ॥ ५५४ ॥
अन­न्य­श्चे­द्भ­वे­द्वि­द्वा­न्भू­त­त्वा­द्भ­व­तीति किम् ।
बाढं प्राप्तं परं ब्रह्म नाना­त्माऽऽ­प्नोति येन तत् ॥ ५५५ ॥
दश­मा­प्ति­व­द­ज्ञा­ना­त्स्व­रू­पा­दिव वर्ण्यते ।
विद्यया तदवाप्नोति यदनाप्तमविद्यया ॥ ५५६ ॥
तमो­ह्नु­त्य­ति­रे­केण नेह ग्रामा­द्य­वा­प्ति­वत् ।
तत्प्रा­प्ति­सा­धनं ज्ञानं ग्राम­मा­र्ग­प्र­बो­ध­वत् ॥ ५५७ ॥
इत्येवं चेन्न वैधर्म्यान्न हि तत्रोपदिश्यते ।
गन्तव्यविषयं ज्ञानं यथा सत्यादिलक्षणम् ॥ ५५८ ॥
कर्मापेक्षं परप्राप्तौ ज्ञानं स्यादिति चेन्न तत् ।
मुक्तौ न कर्मणः कार्यं यस्मादण्वपि विद्यते ॥ ५५९ ॥
बुद्धं यस्मा­त्स्व­त­स्त­त्त्व­मतः शुद्धं स्वतो भवेत् ।
अतो मुक्तं स्वतो ब्रह्म वद स्यात्क­र्म­णाऽत्र किम् ॥ ५६० ॥
स्रष्टृ­प्र­वे­ष्ट्रो­श्चै­क­त्वा­द­भिन्नः स्यात्पराद्बुधः ।
विप­श्चि­द्व्य­ति­रे­केण यदीशोऽन्यो न विद्यते ।
ततः स्याद­भ­य­प्रा­प्ति­र्द्वि­ती­याद्वै भयश्रुतेः ॥ ५६१ ॥
द्वितीयं चेद­वि­द्यो­त्थ­मेकं वस्तु स्वतो यदि ।
न स वेदैकधैवेति विभागोक्तिस्तदा भवेत् ॥ ५६२ ॥
यदि तैमि­रि­का­द­न्यै­र्द्वि­तीयो नेक्ष्यते शशी ॥ ५६३ ॥
चन्द्र एक इति ज्ञानं तदा स्यात्पा­र­मा­र्थि­कम् ।
तद्गृह्यते द्वितीयं चेन्न सुषुप्तेऽग्रहः श्रुतेः ॥ ५६४ ॥
न चेहान्यमनस्ता स्यात्स­र्वे­षा­म­ग्रहो यतः ।
अस्त्ये­वै­त­द्द्वि­तीयं चेद् ग्रह­णा­त्स्व­प्न­बो­धयोः ॥ ५६५ ॥
अविद्योत्थानतो नैवं तदा तद्भावभावतः ।
द्वयाबोधः सुषुप्तेऽपि त्वज्ञानादिति चेन्न तत् ।
स्वाभा­वि­क­त्वा­त्त­स्यापि निमि­त्त­स्या­न­पे­क्ष­णात् ॥ ५६६ ॥
अन्यापेक्षं हि यद्रूपं न तत्तस्य स्वतो भवेत् ।
विक्रि­याऽ­वि­क्रिया त्वस्य तत्त्व­म­न्या­न­पे­क्ष­णात् ॥ ५६७ ॥
स्वप्नवन्न सुषुप्तोऽतः स्वत एवाद्वयत्वतः ।
द्रष्टु­र्दृ­ष्टेर्न लोपः स्यात्सत्यमेवं श्रुतेर्वचः ॥ ५६८ ॥
आत्मनोऽन्यो भवे­द्ये­षा­मी­श्वरः कारणात्तथा ।
कार्यं भयानिवृत्तिः स्याद­न्य­हे­तु­त्व­सं­श्र­यात् ॥ ५६९ ॥
अन्यस्य भय­हे­तु­त्व­म­ध­र्मा­पे­क्ष­येति चेत् ।
मैवं तस्यापि तुल्य­त्वा­न्नि­वृत्तेः स्यादसम्भवः ॥ ५७० ॥
निर्निमित्तं भयं चेत्स्यान्न तस्यास्ति निवारणम् ।
ध्वंसेन वा निवृत्तिः स्यादात्मनो नेष्यते तथा ॥ ५७१ ॥
एकत्वपक्षे त्वेतेषां दोषो नान्यतमो भवेत् ।
भय­स्या­ज्ञा­न­हे­तु­त्वा­त्त­न्नि­वृत्तौ निवर्तते ॥ ५७२ ॥
अन्यहेतुः स्वतो वा स्याद्भयं नोभयथाऽपि हि ।
स्वात­न्त्र्या­भा­वा­द­न्य­स्मि­न्स्वा­त्म­हानं च नेष्यते ॥ ५७३ ॥
अनिवर्त्य स्वमात्मानं न भयस्य निराक्रिया ।
निवृत्तावपि नैव स्यान्नि­वृ­त्त्यैव समाप्तितः ॥ ५७४ ॥
अवि­द्या­मा­त्र­हेतौ तु सर्व­मे­त­त्स­म­ञ्ज­सम् ।
तस्यामसत्यां तन्न स्यात्सत्यामेव हि भीर्यतः ॥ ५७५ ॥
यदज्ञानाद्भयं यत्स्या­त्त­ज्ज्ञा­ना­त्त­त्कुतो भवेत् ।
रज्जु­स­र्पा­दि­व­त्त­स्मा­द­वि­द्यैव भयोद्भवः ॥ ५७६ ॥
विद्याऽ­वि­द्या­त्मकं ब्रह्म मतं चेन्न विरोधतः ।
पृथक्च दृश्य­मा­न­त्वा­दा­त्मनो घटरूपवत् ॥ ५७७ ॥
प्रत्यक्षेण हि दृश्येते विद्याविद्ये मनोगते ।
न तयो­रा­त्म­ध­र्मत्वं तस्मात्ते नामरूपयोः ॥ ५७८ ॥
अन्तरा नामरूपे ये ब्रह्मबाह्ये तयोर्हि तत् ।
न स्तो ब्रह्मणि ते भाना­वु­द­या­स्त­म­या­विव ॥ ५७९ ॥
कर्म­क­र्तृ­क­तै­कस्य दोषः स्यादिति चेन्न तत् ।
सङ्क्रा­न्ते­र्ज्ञा­न­मा­त्र­त्वा­त्तद्धि भेदनिरासि नः ॥ ५८० ॥
सुख­दुः­खा­दि­स­म्ब­द्ध­मा­त्माऽऽ­त्मानं न वेत्ति चेत् ।
भवतो मुमुक्षुता कस्मा­द्वि­स्र­म्भा­दे­त­दु­च्य­ताम् ॥ ५८१ ॥
जाग्र­त्स्व­प्न­सु­षु­प्तेषु वस्तु­वृ­त्ता­नु­रो­धतः ।
श्यामः सुखी न वेद्मीति वेत्त्यात्मानं प्रसिद्धितः ॥ ५८२ ॥
कार्य­का­र­ण­हा­नाच्च न विभागः परात्मनि ।
अभा­वा­त्क­र्म­क­र्त्रा­दे­र्बोध एवावशिष्यते ॥ ५८३ ॥
कार­का­ण्यु­प­मृ­द्नाति विद्या बुद्धिमिवोषरे ।
कार­क­त्व­म­वि­द्योत्थं स्वत­श्चा­का­र­का­त्मता ॥ ५८४ ॥
यद्धि यस्य स्वतो रूपं न तत्प्रा­प्ता­व­पे­क्षते ।
क्रिया­म­न्य­नि­मि­त्त­त्वा­द­पेक्षा कर्त्रपह्नवे ॥ ५८५ ॥
नैवे­हा­न्न­म­या­त्मानं जलू­का­व­त्प­रोऽ­ञ्जसा ।
उप­स­ङ्क्रा­म­ती­त्य­स्मा­द्गौणी सङ्क्रा­न्ति­रि­ष्यते ॥ ५८६ ॥
बहिः प्रवृत्तेः सङ्क्रान्तिः प्रत्यावृत्येति चेन्मतम् ।
मनोमयादिवन्नैवं विरुद्धा स्वात्मनि क्रिया ॥ ५८७ ॥
स्फुरन्ती न जलूकाऽपि स्वात्मानं स्वात्मनाऽञ्जसा ।
उप­स­ङ्क्रा­म­ती­त्यत्र निर्भा­ग­त्वा­त्त­थाऽपि न ॥ ५८८ ॥
तस्मा­त्प्रा­प्तिर्न सङ्क्रान्तिर्न च कोशात्मकर्तृका ।
पञ्च­को­शा­ति­रि­क्ता­त्म­क­र्तृका परिशिष्यते ॥ ५८९ ॥
कोशा­ति­रि­क्त­रू­पस्य सर्वा­न्त­र­त­मा­त्मनः ।
अक्रियस्यैव सङ्क्रा­न्ति­र्न­भो­व­त्स्या­त्प­रा­त्मनः ॥ ५९० ॥
गुहा­श्र­या­भि­स­म्बन्धो योऽवि­द्या­वि­भ्र­मा­द्भ­वेत् ।
आत्मज्ञानाद् भ्रमध्वस्तौ सङ्क्रान्तिरिति गीरियम् ॥ ५९१ ॥
तस्मा­त्स­त्य­म­नन्तं यत्स­र्व­दाऽ­वि­क­ले­क्ष­णम् ।
तदस्मीति प्रबोधार्थं बहुस्यामिति कल्प्यते ॥ ५९२ ॥
पञ्च­को­शा­ति­व­र्त्यात्मा ज्ञान­भा­नू­द­या­त्क्र­मात् ।
जग्ध्वा पञ्चापि कोशां­स्ता­न्नि­र्वा­त्या­त्मनि दीपवत् ॥ ५९३ ॥
तदे­त­स्मि­न्य­थो­क्तेऽर्थे श्लोको मन्त्रोऽपि विद्यते ।
अशे­षा­न­न्द­व­ल्ल्य­र्थ­सा­र­स्यास्य प्रकाशकः ॥ ५९४ ॥
इत्य­ष्ट­मोऽ­नु­वाकः ॥ ७ ॥

नवमोऽनुवाकः
यतो वाचो निवर्तन्ते तद्ब्रह्मेति प्रतीयताम् ॥ ५९५ ॥
शब्द­प्र­वृ­त्ति­हे­तूनां प्रत्य­गा­त्म­न्य­स­म्भ­वात् ।
शब्दार्थासम्भवं प्राह ह्यप्रा­प्ये­त्या­द­रा­च्छ्रुतिः ॥ ५९६ ॥
तस्मा­ल्ल­क्ष­ण­वा­चीनि सत्यादीनि पुराऽब्रवम् ।
विशे­ष­ण­वि­शे­ष्याणां निषे­धा­त्को­श­शा­यि­नाम् ।
निर्ममं निरहङ्कारं ब्रह्मै­वाऽऽ­त्मे­त्यु­पा­स्महे ॥ ५९७ ॥
द्रव्यादिविषये यानि प्रयुक्तानि प्रयोक्तृभिः ।
स्वार्थ­हे­तो­र्नि­वृ­त्त्यैव निवर्तन्ते वचांस्यतः ॥ ५९८ ॥
न मातृयायिनो यस्मात्प्रत्यया बुद्धिकर्तृकाः ।
तन्निवृत्तौ निवर्तन्ते तस्मात्ते मनसा सह ॥ ५९९ ॥
यतो वाचोऽभिधानानि प्रयु­क्ता­न्यु­प­ल­ब्धये ।
सर्वा­ण्य­न­भि­धा­यैव निव­र्त­न्तेऽ­व­बोध्य च ॥ ६०० ॥
उदपादि च यच्छ­ब्दै­र्ज्ञा­न­मा­का­र­व­द्धियः ।
स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते ॥ ६०१ ॥
माहा­त्म्य­मे­त­च्छ­ब्दस्य यदविद्यां निरस्यति ।
सुषुप्त इव निद्राया दुर्बलत्वाच्च बाध्यते ॥ ६०२ ॥
दुर्ब­ल­त्वा­द­वि­द्याया आत्म­त्वा­द्बो­ध­रू­पिणः ।
शब्द­श­क्ते­र­चि­न्त्य­त्वा­द्वि­द्मस्तं मोहहानतः ॥ ६०३ ॥
अगृहीत्वैव सम्ब­न्ध­म­भि­धा­ना­भि­धे­ययोः ।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्ते बोधिताः परैः ॥ ६०४ ॥
जाग्रद्वन्न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।
ध्वस्तेऽतो वचसाऽज्ञाने ब्रह्मास्मीति भवेन्मतिः ॥ ६०५ ॥
नाभेदः क्रिययोरत्र क्रिया­त­त्फ­ल­भे­दतः ।
किं पूर्वमिति चोद्यस्य नात्रातः सम्भवो भवेत् ॥ ६०६ ॥
अविद्याघातिनः शब्दादहं ब्रह्मेति धीर्भवेत् ।
नश्यत्यविद्यया सार्धं हत्वा रोगमिवौषधम् ॥ ६०७ ॥
अवशिष्टं स्वतो बुद्धं शुद्धं मुक्तं ततो भवेत् ।
नातः स्याद्भा­व­ना­पेक्षा नापि मानान्तरं प्रति ॥ ६०८ ॥
अलौ­कि­क­त्वा­द्बो­धस्य स्वत­श्चा­व­ग­मा­त्मनः ।
बोध्ये हि लौकिकेऽपेक्षा परतोऽवगतौ तथा ॥ ६०९ ॥
नद्यास्तीरे फलानीव प्रत्य­क्षा­द्य­न­पे­क्षतः ।
किमि­वे­हा­न्य­मा­नेषु तावा­पे­क्षाऽ­भि­धा­श्रुतेः ॥ ६१० ॥
प्रमाता च प्रमाणं च प्रमेयो निश्चितिस्तथा ।
यत्सा­न्नि­ध्या­त्प्र­सि­ध्यन्ति तत्सिद्धौ किमपेक्षते ॥ ६११ ॥
जाग्र­त्स्व­प्न­सु­षु­प्तेषु घटोऽयमिति संविदः ।
व्यवधानं न चेहास्ति तद्भा­वा­भा­व­सा­क्षितः ॥ ६१२ ॥
इदमेवमिदं नैवमिति बुद्धि­र्वि­भा­ग­भाक् ।
अना­त्मि­काऽऽ­त्म­व­त्यत्र येनासौ किमपेक्षते ॥ ६१३ ॥
कर्त्रा­दि­व्या­पृतेः पूर्वमसङ्कीर्ण उपाधिभिः ।
अविक्षिप्तो ह्यसं­सु­प्तोऽ­नु­भवः किमपेक्षते ॥ ६१४ ॥
अभिधेयं न यद्वस्तु प्रत्ययश्च न ढौकते ।
नियुक्तोऽपि नियोगेन कथं तद् द्रष्टुमर्हति ॥ ६१५ ॥
अपि माना­न्त­र­प्राप्तं वस्तुवृत्तं निवर्तयेत् ।
नियो­गा­र्था­नु­रो­धेन यदि वस्त्ववबोध्यते ॥ ६१६ ॥
भाव्य­तेऽ­स­न्न­पी­हार्थः प्रसि­द्धे­र्लो­क­व­ह्नि­वत् ।
ब्रह्म­ण­स्त्व­प्र­सि­द्ध­त्वा­त्त­थाऽ­प्यत्र सुदुर्लभम् ॥ ६१७ ॥
क्रिय­तेऽ­लौ­कि­कोऽ­प्यर्थः पदा­र्था­न्व­य­रू­पतः ।
अवा­क्या­र्था­त्मकं ब्रह्म तथाप्यत्र सुदुष्करम् ॥ ६१८ ॥
प्रमाणमप्रमाणं च प्रमाऽऽ­भा­स­स्त­थैव च ।
कुर्वन्त्येव प्रमां यत्र तदसम्भावना कुतः ॥ ६१९ ॥
प्रामा­ण्य­मे­त­त्पृ­ष्ठेन कस्मा­न्नै­त्य­भि­धा­श्रुतिः ।
नियोगस्यापि मानत्वं नानपेक्ष्य प्रमामिमाम् ॥ ६२० ॥
पश्ये­दा­त्मा­न­मि­त्यादि वाक्यं यत्स्या­द्वि­धा­य­कम् ।
ज्ञान­क­र्त­व्य­तायां तन्नि­यो­ज्य­पु­रुषं प्रति ॥ ६२१ ॥
स्वव्या­पा­रेऽ­न­पे­क्ष्यैव वस्तुवृत्तं वचो यतः ।
नियुङ्के पुरुषं तस्मा­द्व­स्तु­वृत्तं सुदुर्लभम् ॥ ६२२ ॥
स्वशकत्यननुरूपं चेत्कार्यं वाक्यशतैरपि ।
नियुक्तोऽपि न तत्सिद्धावलं शक्ये स हीश्वरः ॥ ६२३ ॥
अभि­धा­श्रु­ति­त­त्सिद्धौ व्यापृच्छेत प्रयत्नतः ।
विधि­वा­क्या­नु­गा­मि­त्वा­न्ना­र्थ­स्पृ­क्स्या­त्स्व­त­न्त्रतः ॥ ६२४ ॥
स्वमांसान्यपि खादन्ति नियो­गा­न­ति­ल­ङ्गिनः ॥ ६२५ ॥
जहत्यपि प्रिया­न्प्रा­णा­ञ्श­क्या­र्थ­त्वा­त्त­तोऽपि हि ।
अशक्ये विनियुक्तोऽपि कृष्ण­ला­ञ्श्र­प­ये­दिति ॥ ६२६ ॥
सर्वा­त्म­नाऽ­प्यसौ कुर्व­न्कु­र्या­त्त­स्क­र­क­न्दु­वत् ॥ ६२७ ॥
न चोपासान्तराधीनो ब्रह्मज्ञानोदयो भवेत् ।
तं यथा, तं तमेवेति न्याय­दृ­ब्ध­श्रुतेः स्मृतेः ॥ ६२८ ॥
नार्थ­स्पृ­ग्भा­वना चेत्स्या­द्ब्र­ह्म­धी­ज­न्मने न सा ।
स्वभ्यस्ता राजती नो धीः शुक्ति­का­ज्ञा­न­ज­न्मने ॥ ६२६ ॥
द्रष्ट­व्य­श्चे­द्भ­वे­दात्मा स्यान्नि­यो­ग­स्त­दाऽऽ­त्मनि ।
निषे­धा­द्द­र्श­न­स्येह न नियोगोऽस्त्यतः परे ॥ ६३० ॥
नियो­गा­नु­प्र­वे­शेन वस्तुतत्त्वं प्रबोध्यते ।
न हि विध्यनपेक्षस्य प्रामा­ण्य­म­नु­वा­दिनः ॥ ६३१ ॥
नैवं यतः क्रियैवेह चोद­ना­भि­र्वि­धी­यते ।
स्वव्यापारे यत­स्ता­भि­र्नि­योक्तुं शक्यते पुमान् ।
द्रव्य­स्व­रू­पेऽ­सा­ध्य­त्वा­त्कथं ताभिः प्रवर्त्यते ॥ ६३२ ॥
न चापी­हा­त्म­वि­ज्ञानं चोद­ना­भि­र्वि­धी­यते ।
स्वाध्या­योऽ­ध्ये­तव्य इति ह्येतस्मात्तस्य सिद्धितः ॥ ६३३ ॥
कर्मावबोधो न यथा नियो­गा­न्त­र­मी­क्षते ।
तथै­वा­त्मा­व­बो­धोऽपि न नियो­गा­न्त­रा­द्भ­वेत् ॥ ६३४ ॥
स्यादे­त­दा­त्म­बो­धस्य नियोगविरहाद्यदि ।
पुमर्थकारिता पुम्भिर्लभ्यते न तु लभ्यते ॥ ६३५ ॥
नियो­गै­का­धि­ग­म्य­त्वा­ज्ज्ञा­न­का­र्यस्य नान्यतः ।
प्रमान्तरादिदं सिध्येन्नापि स्यादभिधानतः ॥ ६३६ ॥
नैतदेवं यतो नेह ज्ञेया­र्थ­व्या­प्ति­मा­त्रतः ।
फलान्तरं प्रबोधस्य किञ्चि­त्स­म्भा­व्य­तेऽ­ण्वपि ॥ ६३७ ॥
अन्तरेण नियोगं च स्वात्मबोधस्य सिद्धितः ।
स्वाध्या­योऽ­ध्ये­तव्य इति ब्रूहि स्यात्किं नियोगतः ॥ ६३८ ॥
नैवं यतोऽन्यदेवेदं विज्ञा­ना­न्त­र­मा­त्मनि ।
सोपायं कार्यमित्येवं चोद्यते केवलं परम् ॥ ६३९ ॥
शब्दा­ज्ज­नि­त­वि­ज्ञा­नाद् व्यतिरिक्तं परात्मगम् ॥ ६४० ॥
न हि शब्दसमुत्थेन ब्रह्म ज्ञानेन शक्यते ।
तस्या­वा­क्या­र्थ­रू­प­त्वा­त्प­रि­च्छेत्तुं घटादिवत् ॥ ६४१ ॥
नाना­प­दा­र्थ­सं­स­र्ग­ल­क्ष­णोऽयं यतः स्मृतः ।
वाक्यार्थो वाक्यविद्भिर्हि प्रमावाक्यं च नो मतम् ।
तस्य चाविषयत्वात्तु ब्रह्मा­वा­क्या­र्थ­रू­प­भृत् ॥ ६४२ ॥
विज्ञा­ना­न्त­र­गम्यं तदभ्युपेयं बलादपि ।
न चेद्वा­क्यो­त्थ­वि­ज्ञा­न­ग्राह्यं ब्रह्मा­भ्यु­पे­यते ।
नाम्नायार्थो भवेत्तर्हि नैवं वेदार्थ एव च ॥ ६४३ ॥
कथं वेदार्थतैतस्य न चेद्वाक्यार्थ इष्यते ॥ ६४४ ॥
पुंव्या­पा­रा­धी­न­त्वान्न नियोगादयं भवेत् ।
पदा­र्था­न­न्व­या­न्नापि वाक्योत्थो बोध आत्मनि ॥ ६४५ ॥
तदन्वयेऽपि नैवायं वाक्यार्थत्वं समश्नुते ।
सामा­न्य­मा­त्र­वा­चित्वे पदानां सङ्क्षयो यतः ॥ ६४६ ॥
पदा­र्थ­व्य­ति­रे­केण न चावा­क्या­र्थ­वा­चकः ।
अतोऽ­वा­क्या­र्थ­रू­पोऽयं योऽहं ब्रह्मेति निश्चयः ॥ ६४७ ॥
नियो­गा­नु­प्र­वे­शेन वस्तु­त­त्त्व­मि­ती­रि­तम् ।
यत्तस्य परिहाराय श्लोकोऽ­स्मा­भि­र्य­थो­दितः ॥ ६४८ ॥
इदं ज्ञेयमिदं ज्ञानं ज्ञाताऽस्मीति विभागतः ।
सर्वदा दर्श­ना­त्ता­व­न्ना­वि­द्याऽ­स्यैषु विद्यते ॥ ६४९ ॥
चिन्मा­त्र­व्य­ति­रे­केण सर्व­प्र­त्य­य­सा­क्षिणः ।
रूपान्तरं न सम्भाव्यं प्रमाभासात्तथा ह्नुतिः ॥ ६५० ॥
हानो­पा­दा­न­ही­नोऽयं तत्सा­क्षि­त्वा­त्स्वतो ध्रुवः ।
द्रष्ट्रा­दि­सा­क्षि­ताऽ­प्यस्य तत्का­र­ण­स­मा­श्र­यात् ॥ ३५१ ॥
इदं वेद्मि न वेद्मीदमिति बुद्धि­र्वि­व­र्तते ।
प्रत्य­भि­ज्ञा­श्रया सा स्याद् द्रष्टै­वो­भ­य­रू­प­भाक् ॥ ६५२ ॥
निर्वि­भा­गा­त्म­क­त्वात्तु सर्व­को­शा­ति­व­र्तिनः ।
रूपं नाना­त्म­व­न्न्याय्यं प्रत्य­भि­ज्ञा­स­मा­श्र­यम् ॥ ६५३ ॥
प्रति­स्मृ­त्या­न्यतः प्राप्तं रूपं यत्पारिणामिकम् ।
ज्ञाता प्रत्यभिजानाति प्रत्य­क्षा­र्थो­प­सं­स्कृतः ॥ ६५४ ॥
बुद्धेः स्यादपराधोऽयं यद्बा­ह्या­र्था­नु­का­रिता ।
प्रत्यक्त्वं चिन्निभत्वं च कौट­स्थ्या­न्ना­य­मा­त्मनि ॥ ६५५ ॥
अन्व­य­व्य­ति­रे­काभ्यां जाग्र­त्स्व­प्न­सु­षु­प्तिसु ।
बाह्यं निरस्य धीरूपं चिन्मा­त्रा­त्मा­व­भा­सया ।
धियो­प­ल­क्ष्या­वा­क्यार्थं सर्व­दाऽ­व्य­भि­चा­रतः ॥ ६५६ ॥
व्यभिचारिणश्च बाधेन तत्त्व­म­स्या­दि­रू­पिणी ।
दह­न्त्य­खि­ल­म­ज्ञानं बोधयत्येव केवलम् ॥ ६५७ ॥
सामा­ना­धि­क­र­ण्या­दे­र्घ­टे­त­र­ख­यो­रिव ।
व्यावृत्तेः स्यादवाक्यार्थः साक्षा­न्न­स्त­त्त्व­म­र्थयोः ॥ ६५८ ॥
वाक्या­दे­व­म­वा­क्यार्थो यस्मा­त्सा­क्षा­त्प्र­सि­ध्यति ।
अन्य­दे­वे­द­मि­त्यादि सर्वं स्यात्तु­ष­क­ण्ड­नम् ॥ ६५९ ॥
अज्ञा­न­म­न्य­था­ज्ञानं संशयज्ञानमेव च ।
घटादावेव तद्दृष्टं न ज्ञातृ­ज्ञा­न­सा­क्षिषु ॥ ६६० ॥
अज्ञानादि त्रयं ताव­त्प्र­त्य­येऽपि न विद्यते ।
तस्य ह्यव्यवधानेन प्रत्य­क्षा­न्ना­न्य­मा­नता ॥ ६६१ ॥
ज्ञातु­र­व्य­व­धा­नेन संशयो निश्चयोऽपि वा ।
प्रत्ययः प्रथते यस्मान्न माना­न्त­र­का­ङ्क्ष्यतः ॥ ६६२ ॥
अज्ञानादि त्रयं तावज्ज्ञातर्यपि न विद्यते ।
किमङ्ग सर्व­दाऽ­लु­प्त­च­क्षु­ष्या­त्मनि केवले ॥ ६६३ ॥
निर्धू­ता­शे­ष­भे­दोऽ­य­म­वा­क्या­र्था­त्म­क­स्तथा ।
सुषुप्ते गम्य­तेऽ­स्मा­भि­र्ना­नृतं श्रुतिगौरवात् ॥ ६६४ ॥
सर्वदा चात्मरूपत्वाद् व्यभि­चा­रा­द­ना­त्मनः ।
ब्रह्मात्मनि स्वतः सिद्धं ज्ञानं मोहापनोदि यत् ॥ ६६५ ॥
ज्ञाता­ज्ञा­त­वि­भा­गोऽ­स्मिं­ज्ञा­ना­ज्ञा­ना­त्मता तथा ।
ज्ञात्र­ज्ञा­तृ­त्व­म­प्येवं स्वतः सिद्धेर्न साक्षिणः ॥ ६६६ ॥
स्वव्यापारे नियोगोऽपि नियुङ्क्ते पुरुषं बलात् ।
यथाभूतार्थता बुद्धेर्वास्तवी न तु पौरुषी ॥ ६६७ ॥
इदमेवमदो नेति यथैवार्थमृते विधिम् ।
वेत्ति तत्त्वमसीत्येवं किं न वेत्त्य­भि­धा­श्रुतेः ॥ ६६८ ॥
क्रियायां विधिसम्पातः कर्त्रादिषु न सिद्धितः ।
न चानेकार्थतैकस्य वाक्यस्य भवतेष्यते ॥ ६६९ ॥
प्रत्यक्षादेव भेदोऽ­य­म­भि­धा­न­नि­यो­गयोः ।
तस्य चेद् व्यभिचारित्वं व्यर्थं सर्वज्ञभाषितम् ॥ ६७० ॥
कर्तुः क्रियायां स्वातन्त्र्यं वस्तुवृत्ते ह्यनीश्वरः ।
वस्तुवृत्तं च नो मुक्तिः क्रिया­त­श्चे­द­नि­त्यता ॥ ६७१ ॥
यथावस्तु हि या बुद्धिः सम्यग्ज्ञानं तदेव नः ।
पौरु­षा­या­स­मा­त्रो­त्थ­म­ज्ञानं रजतादिवत् ॥ ६७२ ॥
वस्तु­मा­त्रा­नु­रो­धि­त्वा­त्स­म्य­ग्ज्ञा­नस्य दुष्करम् ।
नियो­गा­नु­प्र­वे­शेन वस्तु­त­त्त्वा­व­बो­ध­नम् ॥ ६७३ ॥
नियोगानुप्रवेशे वा होतोर्व्याप्तिः प्रदर्श्यताम् ।
गमकत्वमृते व्याप्तिं नैव हेतोः प्रसिध्यति ॥ ६७४ ॥
विधिशून्यस्य वाक्यस्य प्रामाण्यं प्रत्यगात्मनि ।
येषां प्रकाश्यत इति न तेषां मतिरीदृशी ॥ ६७५ ॥
प्रका­श्य­त्वा­श्र­य­श्चायं व्यापारः सर्व एव च ।
तस्मिन्नसति तन्मिथ्या यदेतद्भवतेरितम् ॥ ६७६ ॥
अस्थू­ला­श­ब्द­ता­वा­दि­प्र­का­श्य­त्वादि कुप्यति ।
नियो­गा­नु­प्र­वे­शेन यदि वस्तु प्रकाश्यते ॥ ६७७ ॥
न चाप्रमाणता तस्य नियो­गो­त्स­ङ्ग­सं­श्र­यात् ।
एवमप्यप्रमाणं चेन्नि­यो­गोऽ­वि­षयो भवेत् ॥ ६७८ ॥
अदृश्यं पश्य इत्येवं नियुक्तोऽपि न शक्नुयात् ।
शक्नुयात् स नियो­गा­च्चे­त्कु­र्या­त्त­स्क­र­क­न्दु­वत् ॥ ६७६ ॥
विदि­ते­त­रा­ति­रे­कि­त्वाद् ब्रह्म­रू­पा­नु­वा­दिभिः ।
नियोगगर्भवचनैः पश्येदिति विरुध्यते ॥ ६८० ॥
विज्ञातारमरे केन विजानीयादिति श्रुतेः ।
न दृष्ठेरिति दृश्यत्वं नियोगैरेव वार्यते ॥ ६८१ ॥
सदावगतिरूपस्य ज्योति­श्च­क्रा­व­भा­सिनः ।
स्वय­ञ्ज्यो­तिः­स्व­भा­वस्य न्याय्यं तस्मान्न दर्शनम् ॥ ६८२ ॥
द्रश्ट्रा चेद् दृश्यते दृश्यं प्रत्यक्षाविषयः कथम् ।
कर्म­क­र्तृ­त्व­मे­कस्य दोषो ब्रह्मा­त्म­द­र्शने ॥ ६८३ ॥
अदृष्टं तद­क­र्म­त्वा­त्कौ­ट­स्थ्या­न्नापि दृष्टिकृत् ।
जन्या­दि­वि­क्रि­या­ष­ट्क­नि­षे­धोऽ­प्ये­व­म­र्थ­वान् ॥ ६८४ ॥
प्रमा­तृ­त्वा­दि­भे­देन यत्स्वरूपं प्रतीयते ।
तत्प्रकाश्यत इत्या­हु­र­प्र­का­श­स्व­रू­पतः ॥ ६८५ ॥
प्रमातैव प्रमेयं चेत्प्रमाणं प्रमितिस्तथा ।
स्वरू­पा­च्चै­क­रू­प­त्वान्न तदे­भि­र्नि­रु­च्यते ॥ ६८६ ॥
प्रामा­ण्य­म­नु­वा­दानां न चेत्स्वविषये मतम् ।
पयोगुणस्य सम्बन्धो न प्राप्नोति जुहोतिना ॥ ६८७ ॥
स्वर्गे­णै­वा­भि­स­म्बन्धः पय­स­श्चे­द­नु­त्त­रम् ।
स्वर्गस्य सिद्धये नालं द्रव्यमात्रं पयो यतः ॥ ६८८ ॥
प्रणयः साधनत्वं च प्राप्तं तस्मादनूद्यते ।
विशिष्टोपाश्रयं द्रव्यमतोऽलं पशुसिद्धये ॥ ६८९ ॥
गोदोहनस्य भिन्न­त्वा­द्भिन्नं चेत्साधनं मतम् ।
प्राप्ता प्रणयतीत्यस्य साध्य­भे­दा­द्वि­भि­न्नता ॥ ६९० ॥
हानो­पा­दा­न­शू­न्य­त्वा­द­प्रा­माण्यं मतं यदि ।
ब्रह्मास्मीति परि­ज्ञा­न­म­प्र­माणं प्रसज्यते ॥ ६९१ ॥
आत्म­त्वा­द­नु­पा­दे­य­म­न­न्य­त्वा­द­हे­यता ।
अभि­धा­श्रु­ते­श्चे­दे­त­त्कि­म­न्य­त्प्रा­र्थ्यते विधेः ॥ ६९२ ॥
अनूक्तेरपि मानत्वं नैव ध्वाङ्क्षै­र्वि­लु­प्यते ।
नियो­गा­नु­प्र­वि­ष्ट­त्वा­द्य­थै­वे­हा­भि­धा­श्रुतेः ॥ ६९३ ॥
एवं च सति दृष्टान्तो भवतां नोपपद्यते ।
नियोगादेव विज्ञानमित्येवं नियमः कुतः ॥ ६९४ ॥
वादा­नु­वा­द­यो­रर्थो यदि भिन्नः प्रतीयते ।
अग­ता­र्था­धि­ग­न्तृ­त्वा­द­स्त्व­नूक्तेः प्रमाणता ॥ ६९५ ॥
अन्वक्षं भिन्नरूपा धीरिह वादानुवादयोः ।
अपूर्वाधिगतिः पूर्वमिह बुद्धावबोधनम् ॥ ६९६ ॥
मृग­तो­या­दि­व­न्मिथ्या यद्य­नू­क्ते­र्भ­वे­न्मतिः ।
विधे­र्नि­र्वि­ष­यत्वं वः सर्वत्रैव प्रसज्यते ॥ ६९७ ॥
स्वाभिधेयं निराकाङ्क्षो ह्यनुवादः प्रबोधयेत् ।
तत्र चेदप्रमाणं स्यात्स्या­त्त­दु­च्चा­रणं वृथा ॥ ६९८ ॥
साका­ङ्क्ष­त्वा­नु­वा­दत्वे कुतश्चावगते त्वया ।
अप्रामाण्यान्न चेत्ताभ्यां विधे­य­प्र­क्ष­या­द्विधेः ॥ ६९९ ॥
स्वशब्दानभिधेयं यत्तदेवापेक्षते पदम् ।
स्वार्थे तदप्रमाणं चेद्वा­क्या­र्थ­स्या­न्वयः कुतः ॥ ७०० ॥
अप्रमाणमिति ज्ञानं कस्मादज्ञायि कथ्यताम् ।
विद्य­मा­नो­प­ल­म्भानि न ह्यभावं प्रमिण्वते ॥ ७०१ ॥
पर­स्व­भा­व­वि­ध्वं­स­व­र्त्म­नै­वा­त्म­व­स्तुनः ।
वक्ष्यत्यवगतिं चोर्ध्वं विधिनैवेति दुस्थितम् ॥ ७०२ ॥
व्यावृत्तिः परतोऽभावो न च तस्येन्द्रियेण हि ।
सम्बन्धोऽस्ति ततो भेदः प्रमा­णै­र्नो­प­ल­भ्यते ॥ ७०३ ॥
प्रमाऽ­भा­व­स्व­रू­प­त्वा­न्ना­प्य­भा­वा­द्भि­दे­ष्यते ।
संवित्त्यभावो नैवेह प्रकाशयति किञ्चन ॥ ७०४ ॥
इति स्वाभिमतं सर्वं तेन चास्य विरुद्धता ।
वस्तु­वृ­त्ता­नु­रो­धेन व्यापारः फलवानिह ॥ ७०५ ॥
न कुलालवशाद् व्योम शरावायाप्यलं यतः ।
आत्मज्ञानं प्रसिद्धं चेद्विधेरेव विधिः कुतः ।
अथाप्रसिद्धं नितरां विधि­र्नै­वो­प­प­द्यते ॥ ७०६ ॥
कैवल्यकारिता बुद्धे­र्नि­यो­गा­देव चेद्भवेत् ।
नियोगार्थावगतये नियोगोऽन्योऽपि मृग्यताम् ॥ ७०७ ॥
तत्त्व­म­स्या­दि­वा­क्योत्थं विज्ञानं स्वफलं स्वतः ।
अतोऽ­व­ग­म्य­तेऽ­स्मा­भि­स्तृ­प्त्या­ख्य­फ­ल­व­द्भुजेः ॥ ७०८ ॥
स्वाध्या­योऽ­ध्ये­तव्य इति विध्यन्तरमृते यथा ।
विध्य­र्था­व­ग­म­स्त­द्व­द­स्त्वि­हा­प्य­भि­धा­श्रुतेः ॥ ७०९ ॥
नियोगविरहादस्य यद्यर्थावगमो मृषा ।
इहापि तद­मा­न­त्व­म­भि­धा­न­श्रु­ते­रिव ॥ ७१० ॥
भवे­द्वि­ध्य­नु­कूला वा अभिधा यदि वा विधिः ।
अभिधावर्त्मयायी स्यात्तत्र दोषगुणाविमौ ॥ ७११ ॥
स्याद् द्युलो­का­ग्नि­व­ज्ज्ञानं यदि विध्यनुरोधिनी ।
अभि­धा­श्रु­ति­र­दृ­ष्टार्था सम्यग्ज्ञानं तु दुर्लभम् ॥ ७१२ ॥
अथाभिधानुरोधी स्यान्नियोगोऽयं तथापि च ।
अभि­धा­नु­वि­धा­यि­त्वा­द्वि­ध्य­र्थोऽत्र सुदुर्लभः ॥ ७१३ ॥
प्राक्तु वाक्या­र्थ­वि­ज्ञा­ना­त्त­न्नि­वि­ष्ट­प­दा­र्थयोः ।
अन्व­य­व्य­ति­रे­का­ख्य­वि­वे­काय विधिर्भवेत् ॥ ७१४ ॥
वाक्या­र्थ­प्र­ति­पत्तौ हि पदार्थाज्ञानमेव च ।
प्रतिबन्धो यत­स्त­स्मा­द­न्व­या­द्य­व­लो­क­नम् ॥ ७१५ ॥
वाक्या­र्थ­ज्ञा­न­काले यः पदार्थो नैव विद्यते ।
कर्तव्यः कारकापेक्षो विधेयः स न संशयः ॥ ७१६ ॥
विपरीतस्ततो यस्तु वाक्या­दे­वा­व­ग­म्यते ।
नित्योऽ­क­र्म­वि­मुक्तः सन्न विधेयः कथञ्चन ॥ ७१७ ॥
स्वसिद्धेः कारणं नान्य­ज्ज्ञा­न­म­ज्ञा­न­हा­नये ।
यस्मादपेक्षते तस्मान्न निदिध्यासनाय तत् ॥ ७१८ ॥
सिद्धि­म­प्या­त्म­का­र्यस्य कारणं सिद्धये न चेत् ।
विध्यपेक्षं तदेव स्यान्न स्वसि­द्धि­प्र­का­श­कम् ॥ ७१६ ॥
तस्मा­त्कू­ट­स्थ­वि­ज्ञानं प्रत्या­ख्या­ता­खि­ल­द्व­यम् ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ॥ ७२० ॥
ब्रह्मणो ब्राह्मणस्येति भेद­श्चा­त्रौ­प­चा­रिकः ।
राहोः शिरो­व­न्मु­ख्यस्तु नैव स्यान्नि­र्गु­ण­त्वतः ॥ ७२१ ॥
महिमा ब्राह्मणस्यैष हानि­वृ­द्धि­वि­व­र्जितः ।
स्वतः सिद्धे­र्वि­जा­नंस्तं न बिभेति कुतश्चन ॥ ७२२ ॥
विद्वान्सन्न बिभेतीति विद्याकालं भवेत्फलम् ।
न तु स्वर्गा­दि­व­त्प्राप्यं भुञ्जा­न­स्तृ­प्य­ती­ति­वत् ॥ ७२३ ॥
यतोऽ­वि­द्या­ति­रे­केण प्रतिबन्धो न विद्यते ।
तन्नाशानन्तरां मुक्तिं विद्वानिति ततोऽवदत् ॥ ७२४ ॥
भयहेतुर्द्वयं यस्मा­त्त­च्चा­वि­द्या­स­मु­द्भ­वम् ।
प्लुष्टायां विद्यया तस्यां न कुतश्चन भीर्भवेत् ॥ ७२५ ॥
पर­मा­त्म­धि­यै­त­स्मि­न्प्र­त्य­गा­त्मनि केवले ।
निर­स्ता­या­म­वि­द्यायां भयं नास्ति कुतश्चन ॥ ७२६ ॥
निर्धू­त­प­द­वा­क्या­र्थ­मि­त्येवं प्रतिपत्तये ।
यतो वाचो निवर्तन्ते इत्येवं वचनं श्रुतेः ॥ ७२७ ॥
तथा मनोविकल्पानां निषेधाय परात्मनि ।
धिया सहेत्यतो वक्ति श्रुति­र्या­था­त्म्य­बो­धिनी ॥ ७२८ ॥
निषिध्य नायमात्मेति भिन्न­मा­त्मो­प­ल­म्भ­नम् ।
अनन्यानुभवं ब्रह्म यमेवेत्याह नः श्रुतिः ॥ ७२९ ॥
प्रत्य­ग्ब्र­ह्मा­व­सा­यि­त्वा­द्भे­दानां रज्जुसर्पवत् ।
उदाहारि ततः श्रुत्या ह्ययं श्लोको मनोमये ॥ ७३० ॥
विद्वानेव परं ब्रह्म आत्म­नाऽऽ­त्मा­न­म­द्व­यम् ।
न बिभे­त्ये­क­लोऽ­द्वन्द्वो भयहेतोरसम्भवात् ॥ ७३१ ॥
ननु साध्वक्रिया हेतुः पापानुष्ठानमेव च ।
इत्येतस्य निषेधार्थमेतं हेत्यु­च्य­तेऽ­धुना ॥ ७३२ ॥
नैतमेवंविदं यस्मा­द्वा­वे­ती­हा­व­धा­रणे ।
न तपत्यन्तकाले तम­क­र्तृ­त्वा­त्म­वे­दि­नम् ॥ ७३३ ॥
क्रियाफलस्य सर्वस्य कर्तृ­गा­मि­त्व­का­र­णात् ॥ ७३४ ॥
धिङ्मां योऽहं शुभं कर्म जीवन्नाकरवं क्वचित् ।
अकार्षं च सदा पापं ह्यतो भयमुपस्थितम् ॥ ७३५ ॥
अस्म­द्धे­तो­र्म­हां­स्ता­पोऽ­वि­द्या­सं­वी­त­चे­त­साम् ।
जायते मृतिकाले हि हिक्कि­का­व­श­व­र्ति­नाम् ॥ ७३६ ॥
फलस्यायं स्वभावो हि यत्स्व­क­र्त्र­नु­गा­मिता ।
अतो न तपतो ज्ञोत्था­व­क­र्तारं शुभाशुभौ ॥ ७३७ ॥
कस्मान्न तपतस्तौ चेद्धर्माधर्मौ विपश्चितम् ।
कौट­स्थ्या­द­द्व­य­त्वाच्च प्लुष्यत्येव शुभाशुभे ॥ ७३८ ॥
स य एवं यथोक्तार्थं विद्वानेते शुभाशुभे ॥ ७३९ ॥
साधुकर्माक्रिया या च पापानुष्ठानमेव च ।
अकर्ताऽस्मीति विज्ञा­न­हु­ता­शे­ना­ञ्जसा द्रुतम् ॥ ७४० ॥
दग्ध्वा निरन्वये कृत्वा ह्यात्मानं स्पृणुते यतः ।
स्पृणो­ति­र्ब­ल­क­र्माऽ­य­मा­त्मानं बलयत्यतः ॥ ७४१ ॥
अवि­द्या­सं­श्र­या­दात्मा बलीयानपि दुर्बलः ।
अविद्या राजयक्ष्माऽस्य कार्श्यमेति तया यतः ।
ध्वस्तायां विद्यया तस्यामात्मानं बलयत्यतः ॥ ७४२ ॥
बोधेनेव निरस्तायां निद्रायां स्वप्नदर्शनम् ।
बुद्धा­त्म­शे­ष­ता­मेति तथेहैकलशेषताम् ॥ ७४३ ॥
अथवा एष एवोभे सत्या­दृ­श्या­दि­ल­क्षणः ।
शुभाशुभे यत­स्त­स्मा­दा­त्मानं बलयत्ययम् ॥ ७४४ ॥
लिङ्गदेहाश्रितं कार्श्यं तच्च कर्मनिबन्धनम् ।
कर्म कर्त्रा­दि­स­म्भूतं कर्त्रा­द्य­ज्ञा­न­हे­तु­कम् ॥ ७४५ ॥
अहं ब्रह्मेत्यतो ज्ञाना­द्ध्व­स्तायां प्रत्यगात्मनि ।
कार्श्य­हे­ता­व­वि­द्या­या­मे­क­त्वा­द्ब­ल­य­त्य­यम् ॥ ७४६ ॥
स्वतो बुद्धं स्वतः शुद्धं स्वतो मुक्तं यथोदितम् ।
वेदैवं यः स्वमात्मानं फलं तस्येदृशं स्मृतम् ॥ ७४७ ॥
इती­त्यु­क्त­प­रा­मर्शो ब्रह्म­णोऽ­द्व­य­रू­पिणः ।
साक्षा­त्त­द्बो­ध­हे­तु­त्वा­द्वल्ली ह्युपनिषद्भवेत् ॥ ७४८ ॥
विद्यै­वो­प­नि­ष­ज्ज्ञेया तयैवोपेत्य निर्द्वयम् ।
विन्दते निर्भयात्मानं तस्मा­दु­प­नि­ष­त्स्मृता ॥ ७४९ ॥
इमां वल्लीं तु ताद­र्थ्या­त्प­र­ब्र­ह्म­विदो गुणात् ।
सदो­प­नि­ष­दि­त्यू­चु­स्त्य­क्त­स­र्वै­षणाः शुभाम् ॥ ७५० ॥
इति नवमोऽनुवाकः ॥ ९ ॥
इति ब्रह्मवल्ल्या वार्तिकानि समाप्तानि ॥