तैत्तिरीयोपनिषद्भाष्यवार्तिकम्
भृगुवल्ली: प्रथमोऽनुवाकः
प्रथमोऽनुवाकः
सत्यं ज्ञानमनन्तं यद् ब्रह्मोक्तं प्रत्यगात्मनि ।
तदभिन्नं परं ज्ञानमुक्तं मोहापनोदि यत् ॥ १ ॥
अभिधित्सुरथेदानीं यथोक्तज्ञानसिद्धये ।
यत्साधकतमं तस्य प्राप्त्यै प्रववृते श्रुतिः ॥ २ ॥
गुरुद्वारैव विद्येयमाचार्याद्धेति नः श्रुतिः ।
शिष्योपाध्यायरूपेयमत आख्यायिकोच्यते ॥ ३ ॥
अधीहि भगवो ब्रह्मेत्येतन्मन्त्राभिशब्दितम् ।
अन्तर्णीतणिजर्थस्य ह्यधीहीति भवेद्यतः ॥ ४ ॥
जिज्ञासुः परमं ब्रह्म श्रद्धाभक्तिपुरःसरः ।
उपसीदेद्गरीयांसं मन्त्रेणानेन शुद्धधीः ॥ ५ ॥
मोक्षादर्वाक्षु भोगेषु व्यावृत्तकरणो भृगुः ।
अध्यापय परं ब्रह्मेत्यपृच्छद्वरुणं गुरुम् ॥ ६ ॥
अन्नं प्राणमितीत्यादि वरुणो भृगवेऽवदत् ।
देहकारणमन्नं स्यात्प्राणः प्राणादिकारणम् ।
चक्षुः श्रोत्रं मनो वाक्च करणान्युपलब्धये ॥ ७ ॥
अन्वयव्यतिरेकोक्तिर्ब्रह्मणो वोपलब्धये ॥ ८ ॥
अनिर्देश्यस्य वा भूम्नो लक्षणस्य प्रवृत्तये ।
अन्नं प्राणमितीत्यादि प्रत्यग्धर्मोपदिश्यते ॥ ९ ॥
प्राणस्य प्राणमित्येवं श्रुतिरप्याश्रिता भवेत् ।
कर्मश्रुतिश्च ब्रह्मत्वे वाचमित्यादि युज्यते ॥ १० ॥
अन्नादयः पदार्था वा अन्वयव्यतिरेकयोः ।
इहोच्यन्ते प्रवृत्त्यर्थं सौकर्यं स्यात्कथं न्विति ॥ ११ ॥
उत्पत्तिस्थितिनाशेषु ब्रह्मादिस्थावरावधि ।
नात्येति ब्रह्मरूपं यत्तद्ब्रह्मेति प्रतीयताम् ॥ १२ ॥
विजिज्ञासस्व तद्ब्रह्म यदेवंलक्षणं भवेत् ।
अनुत्पन्नमहीनं च जगदुत्पत्तिहानिभिः ॥ १३ ॥
तपश्चचार तच्छ्रुत्वा भृगुर्ब्रह्मोपलब्धये ।
प्रतिपेदे तपोऽनुक्तं सावशेषोक्तिकारणात् ॥ १४ ॥
शृङ्गग्राहिकयोक्त्वाऽपि ह्यन्नं ब्रह्मेति लक्षणम् ।
पितोवाच यतस्तस्मात्तपो भेजे स्वयं भृगुः ॥ १५ ॥
ब्रह्म साक्षान्न निर्दिष्टं लक्षणोक्तेरतो भृगुः ।
नूनमाकाङ्क्षते योग्यं साधनं ब्रह्मवित्तये ॥ १६ ॥
तपोविशेषादित्सा स्यात्तत्साधनतमत्वतः ।
यद्दुस्तरं यद्दुरापमिति स्मृत्यनुशासनात् ॥ १७ ॥
मनसश्चेन्द्रियाणां चेत्येवमाध्यात्मिकं तपः ।
इह न्याय्यं प्रसिद्धं तु ह्यारादुपकरोति नः ॥ १८ ॥
अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत् ।
अहं ब्रह्मेतिवाक्यार्थबोधायालमिदं यतः ॥ १९ ॥
कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ।
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् ।
व्यासः प्राहात एवेदं मुमुक्षोर्मुक्तये तपः ॥ २० ॥
यतो वा इति चैवं स्यादुक्तमेवं परं तपः ॥ २१ ॥
उक्तलक्षणसम्पन्नं तपस्तप्त्वा प्रयत्नवान् ।
अन्नं ब्रह्मेति भूतानामुत्पत्त्यादिसमन्वयात् ॥ २२ ॥
इति प्रथमोऽनुवाकः ॥ १ ॥
द्वितीयतृतीयचतुर्थपञ्चमानुवाकाः
उक्तान्यन्नमयादीनि यानि तेषां तु कारणम् ।
अन्नादि प्रतिपत्तव्यं न हि कार्येऽस्ति लक्षणम् ॥ २३ ॥
शुङ्गं ह्यन्नमयाद्येतदन्नादेरुपजायते ।
कार्यप्रविलयश्रुत्या कारणानन्दमेत्यतः ॥ २४ ॥
कार्याणि कारणेष्वेवं तानि चैवोत्तरोत्तरम् ।
प्रविलाप्य परानन्दं यायाद्वाचामगोचरम् ॥ २५ ॥
अन्नं ब्रह्मेति विज्ञाय कार्यत्वं तस्य वीक्ष्य सः ।
संशयोच्छित्तये भूयो गत्वाऽपृच्छद् गुरुं भृगुः ॥ २६ ॥
अन्नादेर्ब्रह्मणश्चैवं दोषं दृष्ट्वा स कार्यताम् ।
भूयो भूयः परं ब्रह्म पप्रच्छाऽऽतृण्णिवर्तनात् ॥ २७ ॥
यावत्साक्षात्परं ब्रह्म करविन्यस्तबिल्ववत् ।
न वेत्ति निर्बुभुत्सुः सन्न तावद्विनिवर्तते ॥ २८ ॥
विजिज्ञासस्व तद्ब्रह्म तपसेति पुनः पुनः ।
ब्रुवंज्ञापयतीहास्मांस्तपसैवात्मवीक्षणम् ॥ २९ ॥
इति द्वितीयतृतीयचतुर्थपञ्चमानुवाकाः ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥
षष्ठोऽनुवाकः
अन्वयव्यतिरेकाभ्यामेवं स शनकैर्भृगुः ।
तपसैव परं ब्रह्म विजज्ञौ प्रत्यगात्मनि ॥ ३० ॥
यस्मादेवमतः कार्यं संसारं प्रजिहासुभिः ।
प्रत्यग्ब्रह्मावबोधाय सदा निष्कल्मषं तपः ॥ ३१ ॥
व्युत्थायाऽऽख्यायिकारूपात्तन्निर्वृत्तमथाधुना ।
श्रुतिः स्वेनैव रूपेण व्याचष्टेऽर्थं प्रयत्नतः ॥ ३२ ॥
भृगुणा विदिता यस्माद्भार्गवीयं भवेदतः ।
वारुणी वरुणोक्त्वत्वाद्विद्या स्याद्ब्रह्मवेदनात् ॥ ३३ ॥
युष्मदस्मद्विभागोऽयं यत्र व्यावर्ततेऽञ्जसा ।
स आत्मा तत्परं व्योम तत्र विद्या प्रतिष्ठिता ॥ ३४ ॥
आत्मता ब्रह्मणो यत्र आत्मनो ब्रह्मता तथा ।
अहं ब्रह्मेत्यवाक्यार्थमेवं वाक्यात्प्रपद्यते ॥ ३५ ॥
अन्योऽपि भृगवत्तप्त्वा तप ऐकाग्र्यलक्षणम् ।
कोशान्निरस्य पञ्चापि प्रतिष्ठां लभते पराम् ॥ ३६ ॥
ब्रह्म पुच्छं प्रतिष्ठेति वल्ल्योक्तं पूर्वया तु यत् ।
तस्यामेव प्रतिष्ठायां विद्वान्सम्प्रतितिष्ठति ॥ ३७ ॥
अन्नाद्युपासकानां वा फलमेतदिहोच्यते ।
न्याय्यं नावाप्तकामानामन्नादिफलकीर्तनम् ॥ ३८ ॥
भूयोऽन्नवान्दीप्तवह्निर्महांश्च स्यात्प्रजादिभिः ।
शान्तिदान्त्यादिहेतुस्तिड्ब्रह्मवर्चसमुच्यते ॥ ३९ ॥
इति षष्ठोऽनुवाकः ॥ ६ ॥
सप्तमोऽनुवाकः
अन्नमेव गुरुर्न्याय्यमुत्तरज्ञानहेतुतः ।
अन्नं न निन्द्यात्तेनाऽऽदौ व्रतं स्यात्तदुपासितुः ॥ ४० ॥
अन्योन्यस्थितिहेतुत्वादन्नान्नादत्वमुच्यते ।
शरीरप्राणयोरेवमुत्तरेष्वपि निर्णयः ॥ ४१ ॥
इति सप्तमोऽनुवाकः ॥ ७ ॥
अष्टमोऽनुवाकः
प्राप्तं न परिचक्षीत त्वन्नं व्रतमिदं भवेत् ।
इति अष्टमोऽनुवाकः ॥ ८ ॥
नवमोऽनुवाकः
अन्नं सुबहु कुर्वीत तथैवेहोत्तरं व्रतम् ॥ ४२ ॥
इति नवमोऽनुवाकः ॥ ९ ॥
दशमोऽनुवाकः
वसत्यर्थं तथाऽऽयातं प्रत्याचक्षीत नैव तम् ।
वसते चान्नदानार्थं कुर्यादन्नं गृही बहु ॥ ४३ ॥
एतद्वै मुखत इति सत्कारोक्तिस्त्रिधा भवेत् ।
वयोवस्था त्रिधा वा स्यादन्नदानविवक्षया ॥ ४४ ॥
राद्धं सिद्धं भवेदन्नं पात्रेभ्यो यस्य तस्य तु ।
यथासत्कारवयसी अन्नदानफलं भवेत् ॥ ४५ ॥
गृहिणो ह्यन्नवन्तोऽपि यत आचक्षते सदा ।
अराधि सिद्धमेवान्नमतिथ्यर्थं न संशयः ।
यत एवमतः कार्यं बह्वन्नं यत्नतः सदा ॥ ४६ ॥
अपि चान्नस्य माहात्म्यमिदमन्यद्यथावयः ॥ ४७ ॥
यथाश्रद्धं यथाकालं यथासत्कारमेव च ।
अन्नं दददवाप्नोति तत्तथैव न संशयः ॥ ४८ ॥
उपात्तरक्षणं क्षेमो ब्रह्मैतद्वाचि संश्रितम् ।
क्षेमहेतुर्यतो वाक्यं तदुपासीत वाच्यतः ॥ ४९ ॥
अप्राप्तप्रापणं योगः क्षेमश्चोभयरूपभृत् ।
प्राणापानाश्रयं ब्रह्म तदुपासीत तौ ह्यतः ॥ ५० ॥
योगक्षेमात्मकं ब्रह्म प्राणापानसमाश्रयम् ।
कर्मेति हस्तयोस्तद्वदुपासीताप्रमादवान् ॥ ५१ ॥
तथा गतिरिति ध्येयं पादयोर्ब्रह्म सर्वदा ।
विमुक्तिरिति पायौ च समाज्ञा मानुषीः स्मृताः ॥ ५२ ॥
मनुष्यविषया यस्मादाज्ञा विष्णोरियं ततः ।
समाज्ञा मानुषीस्त्वेवं सदैवाऽऽचक्षते बुधाः ॥ ५३ ॥
अथ दैवीः समाज्ञास्तु उपासीत यथाक्रमम् ।
वृष्टौ तृप्तिरिति ध्येयं तृप्तेर्वृष्टिसमन्वयात् ॥ ५४ ॥
तेन तेनात्मना तद्वदुत्तरेष्वपि चिन्तयेत् ।
ब्रह्मोपस्थ उपासीत प्रजात्यादिगुणात्मकम् ॥ ५५ ॥
प्रजातिः पुत्रपौत्रादिरमृतत्वं ततः पितुः ।
आनन्दः पुरुषार्थोऽत्र सोप्युपस्थाश्रयो भवेत् ॥ ५६ ॥
आकाशे सर्वमित्येवं ब्रह्मोपास्यं समाहितैः ।
सर्वाश्रयं तदाकाश उपासीनस्य शिष्यते ॥ ५७ ॥
तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावानसौ भवेत् ।
उपासनानुरूपं स्यात्फलं यादृगिदं तथा ॥ ५८ ॥
तद्ब्रह्म मह इत्येवमुपासीत ततः फलम् ।
प्रजादिभिर्महान्स स्यात्तं यथेति श्रुतिस्तथा ॥ ५९ ॥
तन्मन इत्युपासीत मनस्वी मानवान्भवेत् ।
प्रह्वीभावो नमोऽर्थः स्यात्फलं तस्येदमुच्यते ।
नम्यन्तेऽस्य यथाकामं विषया भोगकारिणः ॥ ६० ॥
यस्तु ब्रह्मेति तद्ब्रह्म ह्युपासीत यथोदितम् ।
फलं तस्य तदेव स्यादिति पूर्वमवादिषम् ॥ ६१ ॥
ब्रह्मणो ब्राह्मणस्यैव परिमरं ब्रह्म तत्तदा ॥ ६२ ॥
विद्युद्वृष्टिः शशी भानुरग्निश्चेति यतः श्रुतिः ।
वायौ म्रियन्त इत्याह परिमरस्तेन कीर्त्यते ॥ ६३ ॥
अनन्यश्चायमाकाशो वायुना ब्रह्मणा च खम् ।
द्विषन्तश्चाद्विषन्तश्च म्रियन्ते तस्य शत्रवः ॥ ६४ ॥
प्राणो वा अन्नमित्यादिवियदन्तस्य पूर्वया ।
अन्नान्नादत्वं श्रुत्योक्तं कार्यत्वात्संहतस्य हि ।
अन्नान्नादत्वमस्यैव कथं नाम प्रतीयते ॥ ६५ ॥
मा भूद् ब्रह्मणि तत्सक्तिर्मनोवाचामगोचरे ॥ ६६ ॥
अविद्याविषयस्तस्माद्भोक्तृभोज्यादिलक्षणः ।
व्यवहारोऽवसेयः स्यान्न तु सत्यादिलक्षणे ॥ ६७ ।
अविद्योत्थं द्वयाभासं भोज्यभोक्तृत्वलक्षणम् ।
यत्र हि द्वैतमित्याद्या श्रुतिर्नः प्रत्यपीपदत् ॥ ६८ ॥
यत्र त्वस्येति विध्वस्तसर्वाविद्यादिलक्षणे ।
निषेधति सदाऽविद्याध्यस्तं द्वैतमिहात्मनि ॥ ६९ ॥
एकत्वाच्च न संसारः क्रियाकारकलक्षणः ।
कुतस्तदिति चेत्तत्र स यश्चायमितीर्यते ॥ ७० ॥
सह ब्रह्मणेति यच्चोक्तं निर्णयस्तस्य साम्प्रतम् ।
कथं नु सकलान्कामानश्नुते युगपद्बुधः ।
प्रतिपत्तयेऽस्यार्थस्य श्रुतिः प्रववृते परा ॥ ७१ ॥
न सहार्थे तृतीयेयं न्यायोऽत्र प्राक्समीरितः ।
यतोऽतोऽत्र तृतीयेयं ग्राह्येत्थम्भूतलक्षणा ॥ ७२ ॥
हेत्वर्था वा भवेदेषा तृतीया ब्रह्मणेति या ।
सर्वकामाशनं यस्माद् ब्रह्मणैवोपपद्यते ॥ ७३ ॥
निरात्मकस्य सर्वस्य ब्रह्माऽऽत्मा येन तत्परम् ।
सत्यज्ञानादिरूपत्वात्तदेतदधुनोच्यते ॥ ७४ ॥
स यश्चायमिति ह्युक्तिरन्नान्नादादिकस्य हि ।
ग्रन्थस्य ग्रसनार्थाय ब्रह्मविद्यापरस्य तु ॥ ७५ ॥
सङ्क्रम्य विद्यया सर्वानविद्योत्थाननात्मनः ।
आत्मनाऽऽत्मानमापन्नः सत्यादृश्यादिलक्षणम् ॥ ७६ ॥
उत्कृष्टीतरहीनः सन्निमाँल्लोकान्क्रियोद्भवान् ।
कामान्नी कामरूपी सन्नुपाधीननुसञ्चरन् ॥ ७७ ॥
न हि सञ्चरणं साक्षाद्ब्रह्मणोऽस्त्यविकारिणः ।
यत्र हि ध्यायतीवेति तथा च श्रुतिशासनम् ॥ ७८ ॥
सर्वात्मत्वादिमाँल्लोकान्पश्यन्नात्मतया बुधः ।
एतद्ब्रह्म समं साम गायन्नास्ते कृतार्थतः ॥ ७९ ॥
द्वेधा भिन्नमिदं सर्वमन्नमन्नाद एव च ।
सत्यादृश्यादिरूपात्मा अहमेवैतदीक्ष्यताम् ॥ ८० ॥
तयोः श्लोकश्च सम्बन्धो भोज्यभोक्तृत्वलक्षणः ।
अहमेव यथोक्तात्मा न मत्तोऽन्यस्ततोऽस्ति हि ॥ ८१ ॥
क्रियाकारकनिर्मुक्तं पश्यन्नात्मानमात्मनि ।
त्रिरहो इति भवेत्स्तोभो विस्मयार्थश्च स स्मृतः ॥ ८२ ॥
त्रिरुक्तिश्चादरार्थेयमहमन्नमितीष्यते ।
अश्रद्दधानलोकस्य प्रतिपत्त्यर्थमुच्यते ॥ ८३ ॥
मूर्तामूर्तात्मकस्यास्य ह्यन्नान्नादत्वरूपिणः ।
अतद्वानग्रजोऽहं वै न तदश्नाति हि श्रुतिः ॥ ८४ ॥
देवेभ्यः पूर्वमेवाहं नाभिरस्म्यमृतस्य च ।
कारणत्वाद्भवेन्नाभिर्मन्निष्ठा वाऽमृतात्मता ॥ ८५ ॥
अदत्त्वान्नं तु पात्रेभ्यो यो मामश्नाति घस्मरः ।
अहमन्नमदन्तं तं प्रत्यद्मीहान्नवन्नरम् ॥ ५६ ॥
यो मां ददाति पात्रेभ्यो देशकालसमन्वितम् ।
दददित्थमसावन्नं मामवत्येव सर्वदा ॥ ८७ ॥
सत्यज्ञानादिरूपोऽहमविद्योत्थमशेषतः ।
अहं ह्यभिभवाम्येको दिनकृच्छार्वरं यथा ॥ ८८ ॥
इति दशमोऽनुवाकः ॥ १० ॥
ध्यानैकताननिबिडाहितचेतसोऽजं
प्रध्वस्तकृत्स्ननिजमोहसमस्तदोषम् ।
प्रत्यक्तया शुभधियो यतयोऽभ्युपेत्य
यं देवमेकममलं प्रविशन्ति सोऽव्यात् ॥ ८९ ॥
तैत्तिरीयकसारस्य वार्तिकामृतामुत्तमम् ।
मस्करीन्द्रप्रणीतस्य भाष्यस्यैतद्विवेचनम् ॥ ९० ॥
मुमुक्षुसार्थवाहस्य भवनामभृतो यतेः ।
शिष्यश्चकार तद्भक्त्या सुरेशाख्यो महार्थवित् ॥ ९१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादशिष्यस्य श्रीमत्सुरेश्वराचार्यस्य कृतिषु तैत्तिरीयकोपनिषद्भाष्यवार्तिकं सम्पूर्णम् ॥