अद्वैतशारदा

तैत्तिरीयोपनिषद्भाष्यवार्तिकम्

भृगुवल्ली: प्रथमोऽनुवाकः

प्रथमोऽनुवाकः
सत्यं ज्ञानमनन्तं यद् ब्रह्मोक्तं प्रत्यगात्मनि ।
तदभिन्नं परं ज्ञानमुक्तं मोहापनोदि यत् ॥ १ ॥
अभि­धि­त्सु­र­थे­दानीं यथो­क्त­ज्ञा­न­सि­द्धये ।
यत्साधकतमं तस्य प्राप्त्यै प्रववृते श्रुतिः ॥ २ ॥
गुरुद्वारैव विद्ये­य­मा­चा­र्या­द्धेति नः श्रुतिः ।
शिष्यो­पा­ध्या­य­रू­पे­य­मत आख्यायिकोच्यते ॥ ३ ॥
अधीहि भगवो ब्रह्मे­त्ये­त­न्म­न्त्रा­भि­श­ब्दि­तम् ।
अन्त­र्णी­त­णि­ज­र्थस्य ह्यधीहीति भवेद्यतः ॥ ४ ॥
जिज्ञासुः परमं ब्रह्म श्रद्धा­भ­क्ति­पु­रः­सरः ।
उप­सी­दे­द्ग­री­यांसं मन्त्रेणानेन शुद्धधीः ॥ ५ ॥
मोक्षादर्वाक्षु भोगेषु व्यावृत्तकरणो भृगुः ।
अध्यापय परं ब्रह्मे­त्य­पृ­च्छ­द्व­रुणं गुरुम् ॥ ६ ॥
अन्नं प्राणमितीत्यादि वरुणो भृगवेऽवदत् ।
देहकारणमन्नं स्यात्प्राणः प्राणादिकारणम् ।
चक्षुः श्रोत्रं मनो वाक्च करणान्युपलब्धये ॥ ७ ॥
अन्व­य­व्य­ति­रे­को­क्ति­र्ब्र­ह्मणो वोपलब्धये ॥ ८ ॥
अनिर्देश्यस्य वा भूम्नो लक्षणस्य प्रवृत्तये ।
अन्नं प्राणमितीत्यादि प्रत्य­ग्ध­र्मो­प­दि­श्यते ॥ ९ ॥
प्राणस्य प्राणमित्येवं श्रुति­र­प्या­श्रिता भवेत् ।
कर्मश्रुतिश्च ब्रह्मत्वे वाचमित्यादि युज्यते ॥ १० ॥
अन्नादयः पदार्था वा अन्व­य­व्य­ति­रे­कयोः ।
इहोच्यन्ते प्रवृत्त्यर्थं सौकर्यं स्यात्कथं न्विति ॥ ११ ॥
उत्प­त्ति­स्थि­ति­ना­शेषु ब्रह्मा­दि­स्था­व­रा­वधि ।
नात्येति ब्रह्मरूपं यत्तद्ब्रह्मेति प्रतीयताम् ॥ १२ ॥
विजिज्ञासस्व तद्ब्रह्म यदेवंलक्षणं भवेत् ।
अनुत्पन्नमहीनं च जग­दु­त्प­त्ति­हा­निभिः ॥ १३ ॥
तपश्चचार तच्छ्रुत्वा भृगु­र्ब्र­ह्मो­प­ल­ब्धये ।
प्रतिपेदे तपोऽनुक्तं साव­शे­षो­क्ति­का­र­णात् ॥ १४ ॥
शृङ्ग­ग्रा­हि­क­यो­क्त्वाऽपि ह्यन्नं ब्रह्मेति लक्षणम् ।
पितोवाच यतस्तस्मात्तपो भेजे स्वयं भृगुः ॥ १५ ॥
ब्रह्म साक्षान्न निर्दिष्टं लक्षणोक्तेरतो भृगुः ।
नूनमाकाङ्क्षते योग्यं साधनं ब्रह्मवित्तये ॥ १६ ॥
तपोविशेषादित्सा स्यात्त­त्सा­ध­न­त­म­त्वतः ।
यद्दुस्तरं यद्दुरापमिति स्मृत्य­नु­शा­स­नात् ॥ १७ ॥
मन­स­श्चे­न्द्रि­याणां चेत्ये­व­मा­ध्या­त्मिकं तपः ।
इह न्याय्यं प्रसिद्धं तु ह्यारादुपकरोति नः ॥ १८ ॥
अन्व­य­व्य­ति­रे­का­दि­चि­न्तनं वा तपो भवेत् ।
अहं ब्रह्मे­ति­वा­क्या­र्थ­बो­धा­या­ल­मिदं यतः ॥ १९ ॥
कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ।
प्रयो­ज­न­म­ति­र्नि­त्य­मेवं मोक्षाश्रमी भवेत् ।
व्यासः प्राहात एवेदं मुमु­क्षो­र्मु­क्तये तपः ॥ २० ॥
यतो वा इति चैवं स्यादुक्तमेवं परं तपः ॥ २१ ॥
उक्त­ल­क्ष­ण­स­म्पन्नं तपस्तप्त्वा प्रयत्नवान् ।
अन्नं ब्रह्मेति भूता­ना­मु­त्प­त्त्या­दि­स­म­न्व­यात् ॥ २२ ॥
इति प्रथमोऽनुवाकः ॥ १ ॥

द्विती­य­तृ­ती­य­च­तु­र्थ­प­ञ्च­मा­नु­वाकाः
उक्ता­न्य­न्न­म­या­दीनि यानि तेषां तु कारणम् ।
अन्नादि प्रतिपत्तव्यं न हि कार्येऽस्ति लक्षणम् ॥ २३ ॥
शुङ्गं ह्यन्न­म­या­द्ये­त­द­न्ना­दे­रु­प­जा­यते ।
कार्य­प्र­वि­ल­य­श्रुत्या कार­णा­न­न्द­मे­त्यतः ॥ २४ ॥
कार्याणि कारणेष्वेवं तानि चैवोत्तरोत्तरम् ।
प्रविलाप्य परानन्दं याया­द्वा­चा­म­गो­च­रम् ॥ २५ ॥
अन्नं ब्रह्मेति विज्ञाय कार्यत्वं तस्य वीक्ष्य सः ।
संशयोच्छित्तये भूयो गत्वाऽपृच्छद् गुरुं भृगुः ॥ २६ ॥
अन्ना­दे­र्ब्र­ह्म­ण­श्चैवं दोषं दृष्ट्वा स कार्यताम् ।
भूयो भूयः परं ब्रह्म पप्र­च्छाऽऽ­तृ­ण्णि­व­र्त­नात् ॥ २७ ॥
याव­त्सा­क्षा­त्परं ब्रह्म कर­वि­न्य­स्त­बि­ल्व­वत् ।
न वेत्ति निर्बुभुत्सुः सन्न तावद्विनिवर्तते ॥ २८ ॥
विजिज्ञासस्व तद्ब्रह्म तपसेति पुनः पुनः ।
ब्रुवं­ज्ञा­प­य­ती­हा­स्मां­स्त­प­सै­वा­त्म­वी­क्ष­णम् ॥ २९ ॥
इति द्विती­य­तृ­ती­य­च­तु­र्थ­प­ञ्च­मा­नु­वाकाः ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥

षष्ठोऽनुवाकः
अन्व­य­व्य­ति­रे­का­भ्या­मेवं स शनकैर्भृगुः ।
तपसैव परं ब्रह्म विजज्ञौ प्रत्यगात्मनि ॥ ३० ॥
यस्मादेवमतः कार्यं संसारं प्रजिहासुभिः ।
प्रत्य­ग्ब्र­ह्मा­व­बो­धाय सदा निष्कल्मषं तपः ॥ ३१ ॥
व्युत्था­याऽऽ­ख्या­यि­का­रू­पा­त्त­न्नि­र्वृ­त्त­म­था­धुना ।
श्रुतिः स्वेनैव रूपेण व्याचष्टेऽर्थं प्रयत्नतः ॥ ३२ ॥
भृगुणा विदिता यस्मा­द्भा­र्ग­वीयं भवेदतः ।
वारुणी वरु­णो­क्त्व­त्वा­द्विद्या स्याद्ब्र­ह्म­वे­द­नात् ॥ ३३ ॥
युष्म­द­स्म­द्वि­भा­गोऽयं यत्र व्याव­र्त­तेऽ­ञ्जसा ।
स आत्मा तत्परं व्योम तत्र विद्या प्रतिष्ठिता ॥ ३४ ॥
आत्मता ब्रह्मणो यत्र आत्मनो ब्रह्मता तथा ।
अहं ब्रह्मे­त्य­वा­क्या­र्थ­मेवं वाक्या­त्प्र­प­द्यते ॥ ३५ ॥
अन्योऽपि भृगवत्तप्त्वा तप ऐकाग्र्यलक्षणम् ।
कोशान्निरस्य पञ्चापि प्रतिष्ठां लभते पराम् ॥ ३६ ॥
ब्रह्म पुच्छं प्रतिष्ठेति वल्ल्योक्तं पूर्वया तु यत् ।
तस्यामेव प्रतिष्ठायां विद्वा­न्स­म्प्र­ति­ति­ष्ठति ॥ ३७ ॥
अन्ना­द्यु­पा­स­कानां वा फलमेतदिहोच्यते ।
न्याय्यं नावा­प्त­का­मा­ना­म­न्ना­दि­फ­ल­की­र्त­नम् ॥ ३८ ॥
भूयोऽ­न्न­वा­न्दी­प्त­व­ह्नि­र्म­हांश्च स्यात्प्र­जा­दिभिः ।
शान्ति­दा­न्त्या­दि­हे­तु­स्ति­ड्ब्र­ह्म­व­र्च­स­मु­च्यते ॥ ३९ ॥
इति षष्ठोऽनुवाकः ॥ ६ ॥

सप्तमोऽनुवाकः
अन्नमेव गुरु­र्न्या­य्य­मु­त्त­र­ज्ञा­न­हे­तुतः ।
अन्नं न निन्द्या­त्ते­नाऽऽदौ व्रतं स्यात्त­दु­पा­सितुः ॥ ४० ॥
अन्यो­न्य­स्थि­ति­हे­तु­त्वा­द­न्ना­न्ना­द­त्व­मु­च्यते ।
शरी­र­प्रा­ण­यो­रे­व­मु­त्त­रे­ष्वपि निर्णयः ॥ ४१ ॥
इति सप्तमोऽनुवाकः ॥ ७ ॥

अष्टमोऽनुवाकः
प्राप्तं न परिचक्षीत त्वन्नं व्रतमिदं भवेत् ।
इति अष्टमोऽनुवाकः ॥ ८ ॥

नवमोऽनुवाकः
अन्नं सुबहु कुर्वीत तथैवेहोत्तरं व्रतम् ॥ ४२ ॥
इति नवमोऽनुवाकः ॥ ९ ॥

दशमोऽनुवाकः
वसत्यर्थं तथाऽऽयातं प्रत्याचक्षीत नैव तम् ।
वसते चान्नदानार्थं कुर्यादन्नं गृही बहु ॥ ४३ ॥
एतद्वै मुखत इति सत्का­रो­क्ति­स्त्रिधा भवेत् ।
वयोवस्था त्रिधा वा स्याद­न्न­दा­न­वि­व­क्षया ॥ ४४ ॥
राद्धं सिद्धं भवेदन्नं पात्रेभ्यो यस्य तस्य तु ।
यथासत्कारवयसी अन्नदानफलं भवेत् ॥ ४५ ॥
गृहिणो ह्यन्नवन्तोऽपि यत आचक्षते सदा ।
अराधि सिद्ध­मे­वा­न्न­म­ति­थ्यर्थं न संशयः ।
यत एवमतः कार्यं बह्वन्नं यत्नतः सदा ॥ ४६ ॥
अपि चान्नस्य माहा­त्म्य­मि­द­म­न्य­द्य­था­वयः ॥ ४७ ॥
यथाश्रद्धं यथाकालं यथासत्कारमेव च ।
अन्नं दददवाप्नोति तत्तथैव न संशयः ॥ ४८ ॥
उपात्तरक्षणं क्षेमो ब्रह्मैतद्वाचि संश्रितम् ।
क्षेमहेतुर्यतो वाक्यं तदुपासीत वाच्यतः ॥ ४९ ॥
अप्राप्तप्रापणं योगः क्षेम­श्चो­भ­य­रू­प­भृत् ।
प्राणापानाश्रयं ब्रह्म तदुपासीत तौ ह्यतः ॥ ५० ॥
योगक्षेमात्मकं ब्रह्म प्राणा­पा­न­स­मा­श्र­यम् ।
कर्मेति हस्त­यो­स्त­द्व­दु­पा­सी­ता­प्र­मा­द­वान् ॥ ५१ ॥
तथा गतिरिति ध्येयं पादयोर्ब्रह्म सर्वदा ।
विमुक्तिरिति पायौ च समाज्ञा मानुषीः स्मृताः ॥ ५२ ॥
मनुष्यविषया यस्मादाज्ञा विष्णोरियं ततः ।
समाज्ञा मानुषीस्त्वेवं सदैवाऽऽचक्षते बुधाः ॥ ५३ ॥
अथ दैवीः समाज्ञास्तु उपासीत यथाक्रमम् ।
वृष्टौ तृप्तिरिति ध्येयं तृप्ते­र्वृ­ष्टि­स­म­न्व­यात् ॥ ५४ ॥
तेन तेनात्मना तद्व­दु­त्त­रे­ष्वपि चिन्तयेत् ।
ब्रह्मोपस्थ उपासीत प्रजा­त्या­दि­गु­णा­त्म­कम् ॥ ५५ ॥
प्रजातिः पुत्र­पौ­त्रा­दि­र­मृ­तत्वं ततः पितुः ।
आनन्दः पुरुषार्थोऽत्र सोप्यु­प­स्था­श्रयो भवेत् ॥ ५६ ॥
आकाशे सर्वमित्येवं ब्रह्मोपास्यं समाहितैः ।
सर्वाश्रयं तदाकाश उपासीनस्य शिष्यते ॥ ५७ ॥
तत्प्र­ति­ष्ठे­त्यु­पा­सीत प्रतिष्ठावानसौ भवेत् ।
उपासनानुरूपं स्यात्फलं यादृगिदं तथा ॥ ५८ ॥
तद्ब्रह्म मह इत्येवमुपासीत ततः फलम् ।
प्रजा­दि­भि­र्म­हान्स स्यात्तं यथेति श्रुतिस्तथा ॥ ५९ ॥
तन्मन इत्युपासीत मनस्वी मानवान्भवेत् ।
प्रह्वीभावो नमोऽर्थः स्यात्फलं तस्येदमुच्यते ।
नम्यन्तेऽस्य यथाकामं विषया भोगकारिणः ॥ ६० ॥
यस्तु ब्रह्मेति तद्ब्रह्म ह्युपासीत यथोदितम् ।
फलं तस्य तदेव स्यादिति पूर्वमवादिषम् ॥ ६१ ॥
ब्रह्मणो ब्राह्मणस्यैव परिमरं ब्रह्म तत्तदा ॥ ६२ ॥
विद्युद्वृष्टिः शशी भानुरग्निश्चेति यतः श्रुतिः ।
वायौ म्रियन्त इत्याह परिमरस्तेन कीर्त्यते ॥ ६३ ॥
अन­न्य­श्चा­य­मा­काशो वायुना ब्रह्मणा च खम् ।
द्विष­न्त­श्चा­द्वि­ष­न्तश्च म्रियन्ते तस्य शत्रवः ॥ ६४ ॥
प्राणो वा अन्न­मि­त्या­दि­वि­य­द­न्तस्य पूर्वया ।
अन्नान्नादत्वं श्रुत्योक्तं कार्य­त्वा­त्सं­ह­तस्य हि ।
अन्ना­न्ना­द­त्व­म­स्यैव कथं नाम प्रतीयते ॥ ६५ ॥
मा भूद् ब्रह्मणि तत्स­क्ति­र्म­नो­वा­चा­म­गो­चरे ॥ ६६ ॥
अवि­द्या­वि­ष­य­स्त­स्मा­द्भो­क्तृ­भो­ज्या­दि­ल­क्षणः ।
व्यवहारोऽवसेयः स्यान्न तु सत्यादिलक्षणे ॥ ६७ ।
अविद्योत्थं द्वयाभासं भोज्य­भो­क्तृ­त्व­ल­क्ष­णम् ।
यत्र हि द्वैतमित्याद्या श्रुतिर्नः प्रत्यपीपदत् ॥ ६८ ॥
यत्र त्वस्येति विध्व­स्त­स­र्वा­वि­द्या­दि­ल­क्षणे ।
निषेधति सदाऽ­वि­द्या­ध्यस्तं द्वैतमिहात्मनि ॥ ६९ ॥
एकत्वाच्च न संसारः क्रिया­का­र­क­ल­क्षणः ।
कुतस्तदिति चेत्तत्र स यश्चायमितीर्यते ॥ ७० ॥
सह ब्रह्मणेति यच्चोक्तं निर्णयस्तस्य साम्प्रतम् ।
कथं नु सक­ला­न्का­मा­न­श्नुते युगपद्बुधः ।
प्रति­प­त्त­येऽ­स्या­र्थस्य श्रुतिः प्रववृते परा ॥ ७१ ॥
न सहार्थे तृतीयेयं न्यायोऽत्र प्राक्समीरितः ।
यतोऽतोऽत्र तृतीयेयं ग्राह्ये­त्थ­म्भू­त­ल­क्षणा ॥ ७२ ॥
हेत्वर्था वा भवेदेषा तृतीया ब्रह्मणेति या ।
सर्वकामाशनं यस्माद् ब्रह्म­णै­वो­प­प­द्यते ॥ ७३ ॥
निरात्मकस्य सर्वस्य ब्रह्माऽऽत्मा येन तत्परम् ।
सत्य­ज्ञा­ना­दि­रू­प­त्वा­त्त­दे­त­द­धु­नो­च्यते ॥ ७४ ॥
स यश्चायमिति ह्युक्ति­र­न्ना­न्ना­दा­दि­कस्य हि ।
ग्रन्थस्य ग्रसनार्थाय ब्रह्म­वि­द्या­प­रस्य तु ॥ ७५ ॥
सङ्क्रम्य विद्यया सर्वा­न­वि­द्यो­त्था­न­ना­त्मनः ।
आत्म­नाऽऽ­त्मा­न­मा­पन्नः सत्या­दृ­श्या­दि­ल­क्ष­णम् ॥ ७६ ॥
उत्कृष्टीतरहीनः सन्नि­माँ­ल्लो­का­न्क्रि­यो­द्भ­वान् ।
कामान्नी कामरूपी सन्नु­पा­धी­न­नु­स­ञ्च­रन् ॥ ७७ ॥
न हि सञ्चरणं साक्षा­द्ब्र­ह्म­णोऽ­स्त्य­वि­का­रिणः ।
यत्र हि ध्यायतीवेति तथा च श्रुतिशासनम् ॥ ७८ ॥
सर्वा­त्म­त्वा­दि­माँ­ल्लो­का­न्प­श्य­न्ना­त्म­तया बुधः ।
एतद्ब्रह्म समं साम गायन्नास्ते कृतार्थतः ॥ ७९ ॥
द्वेधा भिन्नमिदं सर्वमन्नमन्नाद एव च ।
सत्या­दृ­श्या­दि­रू­पात्मा अह­मे­वै­त­दी­क्ष्य­ताम् ॥ ८० ॥
तयोः श्लोकश्च सम्बन्धो भोज्य­भो­क्तृ­त्व­ल­क्षणः ।
अहमेव यथोक्तात्मा न मत्तोऽ­न्य­स्त­तोऽस्ति हि ॥ ८१ ॥
क्रिया­का­र­क­नि­र्मुक्तं पश्य­न्ना­त्मा­न­मा­त्मनि ।
त्रिरहो इति भवेत्स्तोभो विस्मयार्थश्च स स्मृतः ॥ ८२ ॥
त्रिरु­क्ति­श्चा­द­रा­र्थे­य­म­ह­म­न्न­मि­ती­ष्यते ।
अश्र­द्द­धा­न­लो­कस्य प्रति­प­त्त्य­र्थ­मु­च्यते ॥ ८३ ॥
मूर्ता­मू­र्ता­त्म­क­स्यास्य ह्यन्ना­न्ना­द­त्व­रू­पिणः ।
अतद्वानग्रजोऽहं वै न तदश्नाति हि श्रुतिः ॥ ८४ ॥
देवेभ्यः पूर्वमेवाहं नाभि­र­स्म्य­मृ­तस्य च ।
कार­ण­त्वा­द्भ­वे­न्ना­भि­र्म­न्निष्ठा वाऽमृतात्मता ॥ ८५ ॥
अदत्त्वान्नं तु पात्रेभ्यो यो मामश्नाति घस्मरः ।
अहमन्नमदन्तं तं प्रत्य­द्मी­हा­न्न­व­न्न­रम् ॥ ५६ ॥
यो मां ददाति पात्रेभ्यो देशकालसमन्वितम् ।
दददित्थमसावन्नं मामवत्येव सर्वदा ॥ ८७ ॥
सत्य­ज्ञा­ना­दि­रू­पोऽ­ह­म­वि­द्यो­त्थ­म­शे­षतः ।
अहं ह्यभिभवाम्येको दिनकृच्छार्वरं यथा ॥ ८८ ॥
इति दशमोऽनुवाकः ॥ १० ॥
ध्यानै­क­ता­न­नि­बि­डा­हि­त­चे­त­सोऽजं
प्रध्व­स्त­कृ­त्स्न­नि­ज­मो­ह­स­म­स्त­दो­षम् ।
प्रत्यक्तया शुभधियो यतयोऽभ्युपेत्य
यं देवमेकममलं प्रविशन्ति सोऽव्यात् ॥ ८९ ॥
तैत्ति­री­य­क­सा­रस्य वार्ति­का­मृ­ता­मु­त्त­मम् ।
मस्क­री­न्द्र­प्र­णी­तस्य भाष्य­स्यै­त­द्वि­वे­च­नम् ॥ ९० ॥
मुमु­क्षु­सा­र्थ­वा­हस्य भवनामभृतो यतेः ।
शिष्यश्चकार तद्भक्त्या सुरेशाख्यो महार्थवित् ॥ ९१ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छ­ङ्क­र­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­त्सु­रे­श्व­रा­चा­र्यस्य कृतिषु तैत्ति­री­य­को­प­नि­ष­द्भा­ष्य­वा­र्तिकं सम्पूर्णम् ॥