अद्वैतशारदा

वैयासिकन्यायमाला

१ परिच्छेदः

प्रारि­प्सि­त­ग्र­न्थ­स्या­वि­घ्नेन परिसमाप्तये प्रचयगमनाय शिष्टा­चा­र­प­रि­पा­ल­नाय च विशि­ष्टे­ष्ट­दे­व­ता­तत्वं गुरु­मू­र्त्यु­पा­धि­युक्तं नमस्कृत्य ग्रन्थं प्रतिजानीते
प्रणम्य परमात्मानं श्रीवि­द्या­ती­र्थ­रू­पि­णम् ॥
वैया­सि­क­न्या­य­माला श्लोकैः सङ्गृह्यते स्फुटम् ॥ १ ॥
प्रणम्येति । व्यासेनोक्ता वैयासिकी वेदा­न्त­वा­क्या­र्थ­नि­र्णा­य­का­न्य­धि­क­र­णानि न्यायाः, तेषामनुक्रमेण ग्रथनं माला । यद्यप्येषा सूत्र­भा­ष्य­का­रा­दिभिः प्रपञ्चिता, तथाऽपि सूत्रा­दी­ना­म­ति­प्रा­ज्ञ­वि­ष­य­त्वा­न्म­न्द­बु­द्ध्य­नु­ग्र­हाय श्लोकैरेषा माला स्फुटं सङ्गृह्यते ॥
तेत्रै­कै­क­म­धि­क­रणं पञ्चावयवम् । विषयः, सन्देहः, सङ्गतिः, पूर्वपक्षः, सिद्धान्तश्चेति पञ्चावयवाः । तेषां सङ्ग्रहप्रकारं दर्शयति -
एको विष­य­स­न्दे­ह­पू­र्व­प­क्षा­व­भा­सकः ॥
श्लोकोऽपरस्तु सिद्धान्तवादी सङ्गतयः स्फुटाः ॥ २ ॥
तत्रै­कै­क­स्या­धि­क­र­णस्य सङ्ग्राहकौ द्वौ द्वौ श्लोकौ । तयो­रा­द्य­श्लो­कस्य पूर्वार्धेन द्वाववयवौ सङ्गृह्येते । उत्तरार्धेनैकः । द्वितीयश्लोकेन चैकः । यद्यपि सङ्गत्याख्य एषोऽवयवः शिष्यते, तथाऽपि - प्रत्यधिकरणं न पृथ­क्स­ङ्ग्र­ही­तव्यो भवति । सकृ­द्व्यु­त्प­न्नस्य पुरुषस्य स्वयमेवोहितुं शक्यत्वात् ॥
सङ्गतिं विभज्य व्युत्पादयति -
शास्त्रेेऽ­ध्याये तथा पादे न्याय­स­ङ्ग­त­य­स्त्रिधा ॥
शास्त्रादिविषये ज्ञाते तत्त­त्स­ङ्ग­ति­रू­ह्य­ताम् ॥ ३ ॥
शास्त्र­प्र­ति­पा­द्यम् , अध्या­य­प्र­ति­पा­द्यम् , पादप्रतिपाद्यं चार्थमवगम्य शास्त्रसङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिश्च, - इति तिस्रः सङ्गतय ऊहितुं शक्यन्ते ॥
शास्त्र­प्र­ति­पा­द्यम् , अध्या­य­प्र­ति­पाद्यं च दर्शयति -
शास्त्रं ब्रह्म­वि­चा­रा­ख्य­म­ध्यायाः स्युश्च­तु­र्विधाः ॥
समन्वयाविरोधौ द्वौ साधनं च फलं तथा ॥ ४ ॥
सर्वेषां वेदा­न्त­वा­क्यानां ब्रह्मणि तात्पर्येण पर्यवसानं प्रथमेनाध्यायेन प्रतिपाद्यते । द्वितीयेन सम्भावितविरोधः परिह्रियते । तृतीयेन विद्या­सा­ध­न­नि­र्णयः । चतुर्थेन विद्याफलनिर्णयः । इत्ये­तेऽ­ध्या­या­ना­मर्थाः ॥
तत्र प्रथ­मा­ध्या­य­ग­त­पा­दा­र्था­न्वि­भ­जते -
समन्वये स्पष्ट­लि­ङ्ग­म­स्प­ष्ट­त्वेऽ­प्यु­पा­स्य­गम् ॥
ज्ञेयगं पदमात्रं च चिन्त्यं पादे­ष्व­नु­क्र­मात् ॥ ५ ॥
स्पष्ट­ब्र­ह्म­लि­ङ्ग­युक्तं वाक्यजातं प्रथमपादे चिन्त्यम् । तद्यथा - "अन्त­स्त­द्ध­र्मो­प­दे­शात्" (ब्र० सू० १ । १ । २०) इत्यत्र सार्वज्ञ्य – सार्वात्म्य – सर्व­पा­प­वि­र­हा­दिकं ब्रह्म­णोऽ­सा­धा­र­ण­तया स्पष्टं लिङ्गम् । अस्प­ष्ट­ब्र­ह्म­लि­ङ्गत्वे सत्यु­पा­स्य­वि­ष­य­वा­क्य­जातं द्वितीयपादे चिन्त्यम् । तद्यथा - प्रथ­मा­धि­क­र­ण­वि­षये शाण्डि­ल्यो­पा­स्ति­वाक्ये मनो­म­य­त्व­प्रा­ण­श­री­र­त्वा­दिकं सोपाधिकब्रह्मणो जीवस्य च साधा­र­ण­त्वा­द­स्पष्टं ब्रह्मलिङ्गम् । तृतीयपादे त्वस्प­ष्ट­ब्र­ह्म­लि­ङ्गत्वे सति ज्ञेय­ब्र­ह्म­वि­षयं वाक्यजातं चिन्त्यम् । तद्यथा - प्रथमाधिकरणे मुण्ड­क­ग­त­ब्र­ह्मा­त्म­त­त्त्व­वाक्ये द्युपृ­थि­व्य­न्त­रि­क्ष­प्रो­तत्वं सूत्रात्मनः परब्रह्मणश्च साधा­र­ण­त्वा­द­स्पष्टं ब्रह्मलिङ्गम् । यद्यपि द्वितीयपादे कठ­व­ल्ल्या­दि­ग­त­ब्र­ह्म­त­त्त्व­वा­क्यानि विचारितानि, तृतीयपादे च दहरोपासनवाक्यं विचारितम् । तथाऽ­प्य­वा­न्त­र­स­ङ्ग­ति­लो­भेन तद्विचारस्य प्रास­ङ्गि­क­त्वान्न पादार्थयोः साङ्कर्यापत्तिः । इत्थं पादत्रयेण वाक्यविचारः समापितः । चतु­र्थ­पा­दे­ना­व्य­क्त­प­द­म­जा­पदं चेत्येवमादि सन्दिग्धं पदं चिन्त्यम् ॥
द्विती­या­ध्या­य­ग­त­पा­दा­र्था­न्वि­भ­जते -
द्वितीये स्मृति­त­र्का­भ्या­म­वि­रो­धोऽ­न्य­दु­ष्टता ॥
भूत­भो­क्तृ­श्रु­ते­र्लि­ङ्ग­श्रु­ते­र­प्य­वि­रु­द्धता ॥ ६ ॥
प्रथमपादे- साङ्ख्य­यो­ग­का­णा­दा­दि­स्मृ­तिभिः साङ्ख्या­दि­प्र­यु­क्त­त­र्कैश्च विरोधो वेदा­न्त­स­म­न्व­यस्य परिहृतः । द्वितीयपादे- साङ्ख्या­दि­म­तानां दुष्टत्वं दर्शितम् । तृतीयपादे - पूर्वभागेन पञ्च­म­हा­भू­त­श्रु­तीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम् । चतुर्थपादे - लिङ्ग­श­री­र­श्रु­तीनां विरोधपरिहारः ॥
तृती­या­ध्या­य­ग­त­पा­दा­र्था­न्वि­भ­जते -
तृतीये विर­ति­स्त­त्त्व­म्प­दा­र्थ­प­रि­शो­ध­नम् ॥
गुणो­प­सं­हृ­ति­र्ज्ञा­न­ब­हि­र­ङ्गा­दि­सा­ध­नम् ॥ ७ ॥
प्रथमपादे - जीवस्य परलोकगमनागमने विचार्य वैराग्यं निरूपितम् । द्वितीयपादे - पूर्वभागेन त्वम्पदार्थः शोधितः, उत्तरभागेन तत्पदार्थः । तृतीयपादे - सगुणविद्यासु गुणोपसंहारो निरूपितः । निर्गुणे ब्रह्म­ण्य­पु­न­रु­क्त­प­दो­प­सं­हा­रश्च । चतुर्थपादे च - निर्गुणज्ञानस्य बहि­र­ङ्ग­सा­ध­न­भू­ता­न्या­श्र­म­य­ज्ञा­दीनि, अन्त­र­ङ्ग­सा­ध­न­भू­त­श­म­द­म­नि­दि­ध्या­स­ना­दीनि च निरूपितानि ॥
चतु­र्था­ध्या­य­ग­त­पा­दा­र्था­न्वि­भ­जते -
चतुर्थे जीवतो मुक्ति­रु­त्क्रा­न्ते­र्ग­ति­रु­त्तरा ॥
ब्रह्म­प्रा­प्ति­ब्र­ह्म­लो­का­विति पादार्थसङ्ग्रहः ॥ ८ ॥
प्रथमपादे - श्रव­णा­द्या­वृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पाप­पु­ण्य­ले­प­वि­ना­श­ल­क्षणा मुक्तिरभिहिता । द्वितीयपादे - म्रिय­मा­ण­स्यो­त्क्रा­न्ति­प्र­कारो निरूपितः । तृतीयपादे - सगुणविदो मृत­स्यो­त्त­र­मा­र्गोऽ­भि­हितः । चतुर्थपादे - पूर्वभागेन निर्गु­ण­ब्र­ह्म­विदो विदे­ह­कै­व­ल्य­प्रा­प्ति­र­भि­हिता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्मलोके स्थिति­र्नि­रू­पिता । एवं पादार्थाः सङ्गृहीताः ॥
सन्त्वेवंं शास्त्रा­ध्या­य­पा­द­प्र­ति­पाद्या अर्थाः । किं तत इत्यत आह -
ऊहित्वा सङ्ग­ती­स्ति­स्र­स्त­थाऽ­वा­न्त­र­स­ङ्गतीः ॥
ऊहे­दा­क्षे­प­दृ­ष्टा­न्त­प्र­त्यु­दा­ह­र­णा­दिकाः ॥ ९ ॥
तद्यथा - ईक्षत्यधिकरणे - "तदै­क्षत" – इति वाक्यं प्रधानपरं, ब्रह्मपरं वा, इति विचार्यते । तस्य विचारस्य ब्रह्म­स­म्ब­न्धि­त्वा­द्ब्र­ह्म­वि­चा­र­शा­स्त्र­स­ङ्गतिः । "वाक्यं ब्रह्मणि तात्प­र्य­वत्" इति निर्ण­या­त्स­म­न्व­या­ध्या­य­स­ङ्गतिः । ईक्षणस्य चेतने ब्रह्म­ण्य­सा­धा­र­ण­त्वेन स्पष्ट­ब्र­ह्म­लि­ङ्ग­त्वा­त्प्र­थ­म­पा­द­स­ङ्गतिः । एवं सर्वे­ष्व­प्य­धि­क­र­णेषु यथायथं सङ्ग­ति­त्र­य­मू­ह­नी­यम् । अवा­न्त­र­स­ङ्ग­ति­स्त्व­ने­कधा भिद्यते - आक्षेपसङ्गतिः, दृष्टा­न्त­स­ङ्गतिः, प्रत्यु­दा­ह­र­ण­स­ङ्गतिः, प्रास­ङ्गि­क­स­ङ्गतिः, इत्येवमादिः ॥
सेय­म­वा­न्त­र­स­ङ्ग­ति­र्व्यु­त्प­न्ने­नो­हितुं शक्यते । अतस्तां व्युत्पादयति -
पूर्वन्यायस्य सिद्धा­न्त­युक्तिं वीक्ष्य परे नये ॥
पूर्वपक्षस्य युक्तिं च तत्राऽऽक्षेपादि योजयेत् ॥ १० ॥
तद्यथा प्रथमाधिकरणे 'ब्रह्म­वि­चा­र­शा­स्त्र­मा­र­म्भ­णी­यम्' इति सिद्धान्तः । तत्र युक्तिः - 'ब्रह्मणः सन्दि­ग्ध­त्वात्' इति । द्विती­या­धि­क­र­णस्य 'जग­ज्ज­न्मादि ब्रह्मलक्षणं न भवति' इति पूर्वपक्षः । तत्र युक्तिः - 'जन्मा­दे­र्ज­ग­न्नि­ष्ठ­त्वात्' इति । तदुभयमवलोक्य तयो­रा­क्षे­प­स­ङ्गतिं योजयेत् । 'सन्दि­ग्ध­त्वा­द्ब्रह्म विचार्यम्' इत्येतदयुक्तम् । जन्मा­दे­र­न्य­नि­ष्ठ­त्वेन ब्रह्मणो लक्षणाभावे सति ब्रह्मैव नास्ति, कुतस्तस्य सन्दिग्धत्वं विचार्यत्वं च इत्या­क्षे­प­स­ङ्गतिः । दृष्टा­न्त­प्र­त्यु­दा­ह­र­ण­स­ङ्गती चात्र योजयितुं शक्येते । 'यथा सन्दिग्धत्वेन हेतुना ब्रह्मणो विचार्यत्वम् , तथा - जन्मा­द्य­न्य­नि­ष्ठ­त्वेन हेतुना ब्रह्मणो लक्षणं नास्ति' इति दृष्टा­न्त­स­ङ्गतिः । 'यथा विचार्यत्वे हेतुरस्ति, न तथा लक्षणसद्भावे हेतुं पश्यामः' इति प्रत्यु­दा­ह­र­ण­स­ङ्गतिः । ते एते दृष्टा­न्त­प्र­त्यु­दा­ह­र­ण­स­ङ्गती सर्वत्र सुलभे । पूर्वा­धि­क­र­ण­सि­द्धा­न्त­व­दु­त्त­रा­धि­क­र­ण­पू­र्व­पक्षे हेतु­म­त्त्व­सा­म्यस्य, उत्त­रा­धि­क­र­ण­सि­द्धान्ते हेतु­शू­न्य­त्व­वै­ल­क्ष­ण्यस्य च मन्दै­र­प्यु­त्प्रे­क्षितुं शक्यत्वात् । आक्षे­प­स­ङ्ग­ति­र्य­था­यो­ग­मु­न्नेया । अथ प्रास­ङ्गि­क­स­ङ्ग­ति­रु­दा­ह्रि­यते - देव­ता­धि­क­र­ण­स्या­धि­का­र­वि­चा­र­रू­प­त्वा­त्स­म­न्व­या­ध्याये ज्ञेय­ब्र­ह्म­वा­क्य­वि­षये तृतीयपादे च सङ्गत्यभावेऽपि बुद्धि­स्था­वा­न्त­र­स­ङ्ग­ति­रस्ति । तथाहि - पूर्वाधिकरणे अङ्गु­ष्ठ­मा­त्र­वा­क्यस्य ब्रह्म­प­र­त्वा­द­ङ्गु­ष्ठ­मा­त्रत्वं ब्रह्मणो मनु­ष्य­हृ­द­या­पे­क्षम् , मनु­ष्या­धि­का­र­त्वा­च्छा­स्त्रस्य इत्युक्तम् । तत्प्रसङ्गेन देवताधिकारो बुद्धिस्थः । सेयं प्रास­ङ्गि­क­स­ङ्गतिः । तदेवं न्याय­स­ङ्ग­ति­र्नि­रू­पिता ॥

अथेदानीं प्रत्य­धि­क­र­ण­म­व­य­व­च­तु­ष्टयं श्लोकाभ्यां सङ्गृह्यते -
(तत्र (प्रथमे ब्रह्मणो विचा­र्य­त्वा­धि­क­रणे) शास्त्रस्य प्रथमं सूत्रम् ॥ )
प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
अविचार्यं विचार्यं वा ब्रह्मा­ध्या­सा­नि­रू­प­णात् ॥
अस­न्दे­हा­फ­ल­त्वाभ्यां न विचारं तदर्हति ॥ ११ ॥
अध्या­सोऽ­ह­म्बु­द्धि­सि­द्धोऽ­सङ्गं ब्रह्म श्रुतीरितम् ॥
सन्दे­हा­न्मु­क्ति­भा­वाच्च विचार्यं ब्रह्म वेदतः ॥ १२ ॥
"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः" (बृह० २ । ४ । ५ । ) इत्य­त्राऽऽ­त्म­द­र्श­न­फ­ल­मु­द्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदा­न्त­वा­क्यानां ब्रह्मणि तात्पर्यं निर्णेतुमनुकूलो न्यायविचारः । तदे­त­द्वि­चा­र­वि­धा­यकं वाक्यं विषयः । न च – अयं विषयः श्लोकयोर्न सङ्गृहीतः - इति शङ्क्यम् , सन्दे­ह­स­ङ्ग्र­हे­णै­वा­र्था­त्त­त्स­ङ्ग्र­ह­प्र­तीतेः । 'ब्रह्म­वि­चा­रा­त्मकं न्याय­नि­र्ण­या­त्मकं शास्त्र­म­ना­र­भ्यम् , आरभ्यं वा', इति सन्देहः । पूर्वो­त्त­र­प­क्ष­यु­क्ति­द्वयं सर्वत्र सन्दे­ह­बी­ज­मु­न्ने­यम् । तत्र 'अना­र­भ्यम्' इति तावत्प्राप्तम् , विष­य­प्र­यो­ज­न­यो­र­भा­वात् । सन्दिग्धं हि विचारविषयो भवति । ब्रह्म त्वसन्दिग्धम् । तथाहि - तत्किं ब्रह्माकारेण सन्दिह्यते, आत्माकारेण वा नाऽऽद्यः, "सत्यं ज्ञानमनन्तं ब्रह्म" (तैत्ति० २ । १ । १) इति वाक्येन ब्रह्माकारस्य निश्चयात् । न द्वितीयः, अहं­प्र­त्य­ये­नाऽऽ­त्मा­का­र­स्यापि निश्चयात् - अध्य­स्ता­त्म­वि­ष­य­त्वेन भ्रान्तोऽ­हं­प्र­त्ययः - इति चेत् । न, अध्या­सा­नि­रू­प­णात् । तमः­प्र­का­श­व­द्वि­रु­द्ध­स्व­भा­व­यो­र्ज­डा­ज­ड­यो­र्दे­हा­त्मनोः शुक्ति­का­र­ज­त­व­द­न्यो­न्य­ता­दा­त्म्या­ध्यासो न निरूपयितुं शक्यते । तस्मा­द­भ्रा­न्ताभ्यां श्रुत्य­हं­प्र­त्य­याभ्यां निश्चि­त­स्या­स­न्दि­ग्ध­त्वा­द्वि­चा­रस्य न विषयोऽस्ति । नापि प्रयोजनं पश्यामः, उक्तप्रकारेण ब्रह्मात्मनि निश्चितेऽपि मुक्त्यदर्शनात् । तस्मात् - 'ब्रह्म विचा­रा­न­र्हम्' इति शास्त्र­म­ना­र­म्भ­णी­यम् - इति पूर्वपक्षः ।
अत्रोच्यते - शास्त्र­मा­र­म्भ­णी­यम् । कुतः - विष­य­प्र­यो­ज­न­स­द्भा­वात् । श्रुत्य­ह­म्प्र­त्य­य­यो­र्वि­प्र­ति­पत्त्या सन्दिग्धं ब्रह्माऽऽ­त्म­वस्तु । "अयमात्मा ब्रह्म" (बृह० २ । ५ । १९) इति श्रुतिरसङ्गं ब्रह्मा­त्म­त्वे­नो­प­दि­शति । 'अहं मनुष्यः' इत्या­द्य­ह­म्बु­द्धि­र्दे­ह­ता­दा­त्म्या­ध्या­से­नाऽऽ­त्मानं गृह्णाति । अध्यासस्य च दुर्नि­रू­प­ण­त्व­म­ल­ङ्का­राय । तस्मा­त्स­न्दिग्धं वस्तु विषयः । तन्निश्चयेन मुक्ति­ल­क्ष­ण­प्र­यो­जनं श्रुत्या विद्वदनुभवेन च प्रसिद्धम् । तस्मात् - वेदा­न्त­वा­क्य­वि­चा­र­मु­खेन ब्रह्मणो विचा­रा­र्ह­त्वा­च्छा­स्त्र­मा­र­म्भ­णी­यम् - इति सिद्धान्तः ॥

(द्वितीये ब्रह्मणो लक्षणाधिकरणे सूत्रम् ॥ )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
लक्षणं ब्रह्मणो नास्ति किंवाऽस्ति, नहि विद्यते ॥
जन्मा­दे­र­न्य­नि­ष्ठ­त्वा­त्स­त्या­दे­श्चा­प्र­सि­द्धितः ॥ १३ ॥
ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्म स्रग्भुजङ्गवत् ॥
लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि ॥ १४ ॥
"यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्र­य­न्त्य­भि­सं­वि­शन्ति, तद्विजिज्ञासस्व तद्ब्रह्म" (तैत्ति० ३ । १ । १) इति, "सत्यं ज्ञानमनन्तं ब्रह्म" (तैत्ति० २ । १ । १) इति वाक्यद्वयं विषयः । प्रयन्ति म्रिय­मा­णा­नी­त्यर्थः । तत्र – 'श्रूयमाणं ब्रह्मलक्षणं न घटते, घटते वा' - इति संशयः । न घटते । तथाहि - किं जन्मादिकं तल्लक्षणम् , उत सत्यादिकम् । नाऽऽद्यः, तस्य जगन्निष्ठत्वेन ब्रह्म­स­म्ब­न्धा­भा­वात् । द्वितीयेऽपि लोकप्रसिद्धस्य सत्यज्ञानादेः स्वीकारे भिन्ना­र्थ­त्वा­द­खण्डं ब्रह्म न सिध्येत् , अप्रसिद्धस्य तु सत्या­दे­र्ल­क्ष­ण­त्व­म­यु­क्तम् । तस्मात् - तटस्थलक्षणं स्वरूपलक्षणं च न विद्यते ।
अत्रोच्यते - यल्लक्षणं रूपानन्तर्भूतं सत्प­दा­र्था­न्त­र­व्य­व­स्था­हेतुः, तत्तटस्थलक्षणम् । जन्मा­दे­र­न्य­नि­ष्ठ­त्वेऽपि तत्कारणत्वं ब्रह्मणि कल्पनया सम्बद्धं तटस्थलक्षणं भविष्यति । "यो भुजङ्गः सा स्रक्" इतिवत् 'यज्ज­ग­त्का­रणं तद्ब्रह्म' इति कल्पितेनापि वस्तु­नो­प­ल­क्ष­यितुं शक्यत्वात् । भिन्नार्थानामपि पितृ­सु­त­भ्रा­तृ­जा­मा­त्रा­दि­श­ब्दा­ना­मे­क­दे­व­द­त्त­प­र्य­व­सा­यित्वे यथा न विरोधः, तथा लोक­सि­द्ध­भि­न्ना­र्थ­वा­चि­स­त्या­दि­श­ब्दा­ना­म­ख­ण्ड­ब्र­ह्म­प­र्य­व­सा­यित्वे स्वरू­प­ल­क्ष­ण­सिद्धिः । इत्यु­भ­य­म­प्यु­प­प­न्नम् ॥

(तृतीये ब्रह्मणो वेद­क­र्तृ­त्व­वे­दै­क­मे­य­ता­धि­क­रणे सूत्रम् ॥ )
तृतीयाधिकरणस्य प्रथमं वर्णकमारचयति -
न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ, न कर्तृ तत् ॥
विरूप नित्यया वाचेत्येवं नित्य­त्व­व­र्ण­नात् ॥ १५ ॥
कर्तृ निःश्व­सि­ता­द्यु­क्ते­र्नि­त्यत्वं पूर्वसाम्यतः ॥
सर्वा­व­भा­सि­वे­दस्य कर्त­त्वा­त्स­र्व­वि­द्भ­वेत् ॥ १६ ॥
"अस्य महतो भूतस्य निःश्व­सि­त­मे­त­द्य­दृ­ग्वेदो यजुर्वेदः सामवेदः" (बृह० । २ । ४ । १० ) इति वाक्यं विषयः। 'यदृ­ग्वे­दा­दि­क­मस्ति तदेतस्य नित्यसिद्धस्य ब्रह्मणो निःश्वास इवायत्नेन सिद्धम्' इत्यर्थः - 'ब्रह्म वेदं करोति, नकरोति वा' - इति सन्देहः । न करोति, वेदस्य नित्यत्वात् । "वाचा विरूप नित्यया" इत्य­स्मि­न्मन्त्रे - 'विरूप' इति देवतां सम्बोध्य 'नित्यया वाचा संस्तुतिं प्रेरय' इत्येवं प्रार्थ्यते । नित्या वाग्वेद एव,
"अना­दि­नि­धना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृ­त्तयः" ।
इति स्मृतेः । अतः - न वेदकर्तृ ब्रह्म । इति प्राप्ते,
ब्रूमः - ब्रह्म वेदस्य कर्तृ भवितुमर्हति । कुतः - निःश्व­सि­त­न्या­ये­ना­प्र­य­त्नो­त्प­त्त्य­व­ग­मात् । "तस्मा­द्य­ज्ञा­त्स­र्व­हुत ऋचः सामानि जज्ञिरे" इति, सर्वै­र्य­ज्ञै­र्हू­य­मा­ना­द्य­ज्ञ­श­ब्द­वा­च्या­द्ब्र­ह्मणो विस्पष्टमेव वेदो­त्प­त्ति­श्र­व­णाच्च । अप्र­य­त्नो­त्प­त्त्यै­वा­र्थेषु बुद्ध्या रचितैः कालि­दा­सा­दि­वा­क्यै­र्वै­ल­क्ष­ण्या­द­पौ­रु­षे­य­त्वम् । प्रतिसर्गं पूर्व­सा­म्ये­नो­त्पन्नैः प्रवाहरूपेण नित्यता । सर्व­ज­ग­द्व्य­व­स्था­व­भा­सि­वे­द­क­र्तृ­त्व­नि­रू­प­णेन ब्रह्मणः सर्वज्ञत्वं निरूपितं भवति ॥
द्वितीयं वर्णकमाह -
अस्त्य­न्य­मे­य­ताऽ­प्यस्य किंवा वेदैकमेयता ॥
घट­व­त्सि­द्ध­व­स्तु­त्वा­द्ब्र­ह्मा­न्ये­नापि मीयते ॥ १७ ॥
रूप­लि­ङ्गा­दि­रा­हि­त्या­न्नास्य मान्तरयोग्यता ॥
तं त्वौप­नि­ष­दे­त्यादौ प्रोक्ता वेदैकमेयता ॥ १८ ॥
"तं त्वौपनिषदं पुरुषं पृच्छामि" (बृह० ३ । ९ । २६ ) इति शाकल्यं प्रति याज्ञ­व­ल्क्ये­नो­क्त­वाक्ये परब्रह्मरूपस्य पुरु­ष­स्यो­प­नि­ष­द्वे­द्यत्वं प्रतीयते । तद्वाक्यं विषयः । तत्र – 'ब्रह्मणः प्रत्य­क्षा­दि­ग­म्य­त्व­मस्ति, न वा' इति संशयः । पूर्वपक्षस्तु विस्पष्टः ।
रूप­र­सा­द्य­भा­वा­न्ने­न्द्रि­य­यो­ग्यता । लिङ्ग­सा­दृ­श्या­दि­रा­हि­त्याच्च नानु­मा­नो­प­मा­ना­दि­यो­ग्यता । 'उप­नि­ष­त्स्वे­वा­धि­गतः' इति व्युत्पत्त्या "नावे­द­वि­न्म­नुते तं बृहन्तम्" इत्य­न्य­नि­षे­ध­श्रुत्या च वेदैकमेयत्वम् । भाष्यकारैः "जन्मादि" सूत्रे - "श्रुत्या­द­योऽ­नु­भ­वा­द­यश्च यथासम्भवमिह प्रमाणम्" इत्य­न्य­मे­य­त्व­म­ङ्गी­कृ­तम् - इति चेत् । बाढम् । प्रथमतः श्रुत्यैव प्रमिते ब्रह्मणि पश्चा­द­नु­वा­द­रू­पे­णा­नु­मा­ना­नु­भ­व­यो­र­ङ्गी­का­रात् । अतो वेदैकमेयं ब्रह्म ॥

(चतुर्थे वेदान्तानां ब्रह्मै­क­प­र­त्वा­धि­क­रणे सूत्रम् ॥ )
चतुर्थाधिकरणस्य प्रथमवर्णकमाह -
वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत ॥
अनु­ष्ठा­नो­प­यो­गि­त्वा­त्क­र्त्रा­दि­प्र­ति­पा­दकाः ॥ १९ ॥
भिन्न­प्र­क­र­णा­ल्लि­ङ्ग­ष­ट्काच्च ब्रह्मबोधिकाः ॥
सति प्रयो­ज­नेऽ­न­र्थ­हा­नेऽ­नु­ष्ठा­न­तोऽत्र किम् ॥ २० ॥
स्पष्टौ विषयसन्देहौ । जीव­प्र­का­श­क­वा­क्यानि कर्तृपराणि । ब्रह्म­प्र­का­श­क­वा­क्यानि देवतापराणि । सृष्टि­प्र­का­श­क­वा­क्यानि साधनपराणि । तथा सति वेदा­न्ता­ना­म­नु­ष्ठा­नो­प­यो­गित्वं भविष्यति । ब्रह्मपरत्वे त्वनु­ष्ठा­ना­स­म्भ­वा­न्नि­ष्प्र­यो­ज­नत्वं स्यात् । तस्मात् - वेदान्ताः कर्तृ­दे­व­ता­सा­ध­न­प्र­ति­पा­दकाः ॥
अत्रोच्यते - ब्रह्मपरा वेदान्ताः । कुतः - भिन्न­प्र­क­र­ण­प­ठि­तानां तेषां कर्त्रा­दि­प्र­ति­पा­द­क­तया कर्म­शे­ष­त्वा­स­म्भ­वात् । तात्प­र्य­नि­श्च­य­हे­तु­लि­ङ्ग­ष­ट्केन ब्रह्म­प­र­त्व­स­म्भ­वाच्च । लिङ्गषट्कं पूर्वा­चा­र्यै­र्द­र्शि­तम् -
"उप­क्र­मो­प­सं­हा­रा­व­भ्या­सोऽ­पू­र्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्प­र्य­नि­श्चये" इति ।
"सदेव सोम्येदमग्र आसीत्" इत्युपक्रमः । "ऐत­दा­त्म्य­मिदं सर्वम् । तत्सत्यं स आत्मा तत्त्वमसि" इत्युपसंहारः । तयो­र्ब्र­ह्म­वि­ष­य­त्वे­नै­क­रू­प्य­मेकं लिङ्गम् । असकृत् "तत्त्व­मसि" इत्यु­क्ति­र­भ्यासः । माना­न्त­रा­ग­म्य­त्व­म­पू­र्व­त्वम् । एकविज्ञानेन सर्वविज्ञानं फलम् । उत्प­त्ति­स्थि­ति­प्र­ल­य­प्र­वे­श­नि­य­म­नानि पञ्चार्थवादाः । मृदा­दि­दृ­ष्टान्ता उपपत्तयः । एतै­र्लि­ङ्गै­र्ब्र­ह्म­प­रत्वं निश्चेयम् । न चानु­ष्ठा­न­म­न्त­रेण प्रयोजनाभावः, 'नायं सर्पः' इत्यादाविव बोधा­द­न­र्थ­नि­वृत्तेः सम्भवात् ॥
द्वितीयं वर्णकमाह -
प्रतिप्रत्तिं विधित्सन्ति ब्रह्मण्यवसिता उत ॥
शास्त्रत्वात्ते विधातारो मननादेश्च कीर्तनात् ॥ २१ ॥
नाकतन्त्रेऽस्ति विधिः शास्त्रत्वं शंसनादपि ॥
मननादिः पुरा­बो­धा­द्ब्र­ह्म­ण्य­व­सि­ता­स्ततः ॥ २२ ॥
एकदेशी मन्यते - ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवस्यन्ति । किं तर्हि पारोक्ष्येण ब्रह्मतत्त्वं प्रतिपाद्य पश्चा­द­प­रो­क्ष­प्र­ति­पत्तिं विदधति । तथा च सति वेदान्तानां शास­ना­च्छा­स्त्र­त्व­मु­प­प­द्यते । किञ्च 'श्रोतव्यः' इति श्रवणं शब्दज्ञानात्मकं विधायाथ "मन्तव्यो निदि­ध्या­सि­तव्यः" इत्य­नु­भ­व­ज्ञा­ना­त्मकं मननादिकं स्पष्टमेव विधीयते । तस्मात् - प्रति­प­त्ते­र्वि­धा­तारो वेदान्ताः । इति प्राप्ते, -
ब्रूमः - न प्रति­प­त्ते­र्विधिः सम्भवति, कर्तु­म­क­र्तु­म­न्यथा वा कर्तु­म­श­क्य­त्वा­द­पु­रु­ष­त­न्त्र­त्वात् । शास्त्रत्वं तु नानु­ष्ठे­य­शा­स­ना­देव नियतम् , सिद्ध­व­स्तु­शं­स­ने­नापि तदुपपत्तेः । शाब्दज्ञाने जाते पश्चा­द­नु­भ­वा­त्मकं मननादिकं विधीयते - इति वक्तुं न युक्तम् । 'दश­म­स्त्व­मसि' इति­व­च्छ­ब्द­स्यै­वा­प­रो­क्षा­नु­भ­व­ज­न­क­त्वेन शाब्द­बो­धा­त्पु­रै­वा­स­म्भा­व­ना­दि­नि­वृ­त्तये व्यापाररूपस्य कर्तृतन्त्रस्य मन­ना­दे­र्वि­धा­नात् । तस्मात् "तत्त्व­मसि" इत्यादयो वेदान्ता ब्रह्मण्यवसिताः ॥

(पञ्चमे ब्रह्मण एव सच्छ­ब्द­वा­च्य­ता­धि­क­रणे सूत्राणि ॥ )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
तदै­क्ष­ते­ति­वा­क्येन प्रधानं ब्रह्म वोच्यते ॥
ज्ञान­क्रि­या­श­क्ति­म­त्त्वा­त्प्र­धानं सर्वकारणम् ॥ २३ ॥
ईक्षणाच्चेतनं ब्रह्म क्रियाज्ञाने तु मायया ॥
आत्म­श­ब्दा­त्म­ता­दात्म्ये प्रधानस्य विरोधिनी ॥ २४ ॥
छान्दोग्ये षष्ठाध्याये - "सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्" इति प्रस्तुत्य "तदैक्षत – बहु स्यां प्रजायेय – इति तत्ते­जोऽ­सृ­जत" इति श्रूयते । तत्र साङ्ख्या मन्यन्ते - सच्छब्दवाच्यं सर्वजगत्कारणं प्रधानम् । न तु ब्रह्म, प्रधानस्य सत्त्व­गु­ण­यु­क्त­तया परिणामितया च ज्ञान­श­क्ति­क्रि­या­श­क्ति­स­म्भ­वात् । निर्गुणस्य कूटस्थस्य ब्रह्म­ण­स्त­द­स­म्भ­वात् - इति ।
अत्रोच्यते - ईक्षि­तृ­त्व­श्र­व­णा­च्चे­तनं ब्रह्म सच्छब्दवाच्यम् । अचेतनस्य प्रधा­न­स्ये­क्षि­तृ­त्वा­यो­गात् । ज्ञान­क्रि­या­शक्ती तु ब्रह्मणि मायया सम्भविष्यतः । किञ्च – "अनेन जीवे­नाऽऽ­त्म­नाऽ­नु­प्र­विश्य नामरूपे व्याक­र­वाणि" इति नाम­रू­प­व्या­कर्त्री जगत्कारणदेवता स्ववा­च­के­नाऽऽ­त्म­श­ब्देन चेतनं जीवं व्यपदिशति । तथा "तत्त्व­मसि" इति चेतनस्य श्वेत­के­तो­र्ज­ग­त्का­र­ण­ता­दात्म्यं गुरुरुपदिशति । तदु­भ­य­म­प्य­चे­त­नस्य प्रधानस्य जगत्कारणत्वे विरुध्यते । तस्मात् - चेतनं ब्रह्म सच्छब्देनोच्यते ॥

( षष्ठे ब्रह्मण आनन्दमयताधिकरणे सूत्राणि ॥ )
षष्ठा­धि­का­र­ण­मे­क­दे­शि­म­ते­नाऽऽह -
संसारी ब्रह्म वाऽऽनन्दमयः, संसार्ययं भवेत् ॥
विका­रा­र्थ­म­य­ट्श­ब्दा­त्प्रि­या­द्य­व­य­वो­क्तितः ॥ २५ ॥
अभ्या­सो­प­क्र­मा­दिभ्यो ब्रह्मानन्दमयो भवेत् ॥
प्राचुर्यार्थो मयट्शब्दः प्रियाद्याः स्युरुपाधिगाः ॥ २६ ॥
तैत्तिरीयके देह­प्रा­ण­म­नो­बु­द्ध्या­न­न्द­रूपा अन्नमय – प्राणमय – मनोमय – विज्ञा­न­म­या­न­न्द­मय – संज्ञकाः पञ्च पदार्थाः क्रमे­णै­कै­क­स्मा­दा­न्तराः पठिताः । तत्र – 'सर्वान्तर आनन्दमयः संसारी, परमात्मा वा' - इति सन्देहः । 'संसारी' इति प्राप्तम् । कुतः - 'आनन्दस्य विकार आनन्दमयः' इति व्युत्पत्तेः संसारिणि सम्भवात् । अविकृते तु परमात्मन्यसौ न सम्भवति । किञ्च "तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा" इत्यानन्दमयस्य पञ्चावयवा उच्यन्ते । अपे­क्षि­त­वि­ष­य­द­र्श­न­जन्यं सुखं प्रियम् । तल्लाभजन्यो मोदः । तद्भोगजन्यः प्रमोदः । सुषुप्त्यादौ भास­मा­न­म­ज्ञा­नो­प­हितं सुख­सा­मा­न्य­मा­नन्दः । निरुपाधिकं सुखं ब्रह्म । प्रियादीनां पञ्चावयवानां शिरआदिरूपत्वं प्रति­प­त्ति­सौ­क­र्याय कल्प्यते । पक्षित्वेन कल्पि­त­स्याऽऽ­न­न्द­म­यस्य शिरः पक्षौ च, इत्यवयवत्रयम् , आत्मशब्देन मध्यशरीरं चतु­र्था­व­य­व­त्वे­नो­च्यते, पुच्छमपरभागः, प्रतिष्ठापादौ, अयं पञ्चमोऽवयवः । न च निरंशस्य परमात्मनोऽवयवा युक्ताः । तस्मात् - संसा­र्ये­वाऽऽ­न­न्द­मयः ॥ इत्येवं प्राप्ते, -
ब्रूमः - आनन्दमयः परमात्मा । कुतः - अभ्यासात् "सैषाऽऽ­न­न्दस्य मीमांसा भवति" "एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति" इत्या­दि­नाऽऽ­न­न्द­म­योऽ­भ्य­स्यते । अभ्यासश्च तात्पर्यलिङ्गम् - तात्पर्यं च वेदान्तानां ब्रह्मण्येव – इत्यवोचाम । किञ्च "सत्यं ज्ञानमनन्तं ब्रह्म" इति ब्रह्मोपक्रमात् "इदं सर्वमसृजत" इति सर्व­स्र­ष्टृ­त्वा­दि­भ्य­श्चाऽऽ­न­न्द­मयो ब्रह्म । न च ब्रह्मणि मय­ट्श­ब्दा­नु­प­पत्तिः, प्राचु­र्या­र्थ­त्व­स­म्भ­वात् । प्रियाद्यवयवा अपि विष­य­द­र्श­ना­द्यु­पा­धि­कृता भविष्यन्ति । तस्मात् - पर­मा­त्माऽऽ­न­न्द­मयः - इत्येकदेशिनां मतम् ॥
इदानीं स्वम­ता­नु­सा­रे­णा­धि­क­रणं रच्यते -
अन्याङ्गं स्वप्रधानं वा ब्रह्म पुच्छमिति श्रुतम् ॥
स्यादा­न­न्द­म­य­स्याङ्गं पुच्छेऽ­ङ्ग­त्व­प्र­सि­द्धितः ॥ २७ ॥
लाङ्गू­ला­स­म्भ­वा­दत्र पुच्छे­नाऽऽ­धा­र­ल­क्षणा ॥
आन­न्द­म­य­जी­वोऽ­स्मि­न्ना­श्रि­तोऽतः प्रधानता ॥ २८ ॥
"ब्रह्म पुच्छं प्रतिष्ठा" इति यच्छ्रुतं ब्रह्म, तत्कि­मा­न­न्द­म­य­स्या­ङ्ग­त्वेन निर्दिश्यते, उत स्वयं प्राधान्येन प्रतिपाद्यते - इति संशयः - आन­न्द­म­य­स्या­व­य­व­त्वेन – इति तावत्प्राप्तम् । लोके पुच्छ­श­ब्द­स्या­व­य­व­वा­चि­त्वेन प्रसिद्धत्वात् ।
उच्यते - न पुच्छ­श­ब्दोऽ­व­य­व­वाची । किन्तु लाङ्गूलवाची । न चाऽऽनन्दमयस्य लाङ्गूलं सम्भवति । लाङ्गूलस्य गवा­दि­ल­क्ष­णा­न्न­म­या­व­य­व­त्वा­दा­न­न्द­म­य­स्या­व­य­व­त्वा­यो­गात् । अतः पुच्छशब्देन मुख्या­र्था­स­म्भवे सति योग्य­ता­व­शा­द­त्राऽऽ­धारो लक्ष्यते । ब्रह्म, - आनन्दमयस्य जीवस्याऽऽधारः, तत्क­ल्प­ना­धि­ष्ठा­न­त्वात् । न च – आनन्दमयः परमात्मा, प्राचु­र्या­र्थ­स्वी­का­रेऽ­प्य­ल्प­दुः­ख­स­द्भा­व­प्र­तीतेः । तस्मात् - जीवाधारो ब्रह्म प्राधान्येन प्रतिपाद्यते । तथाच -
"असन्नेव स भवति असद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः" ।
इत्यादि ब्रह्माभ्यासः, "ब्रह्म­वि­दा­प्नोति परम्" इति ब्रह्मो­प­क्र­म­श्चा­नु­कूलो भवति ।

(सप्तमे परमेश्वरस्यैव हिर­ण्म­य­प­द­वा­च्य­ता­धि­क­रणे सूत्रे - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
हिरण्मयो देवतात्मा किं वाऽसौ परमेश्वरः ॥
मर्या­दा­धा­र­रू­पो­क्ते­र्दे­व­ता­त्मैव नेश्वरः ॥ २९ ॥
सार्वा­त्म्या­त्स­र्व­दु­रि­त­रा­हि­त्या­च्चे­श्वरो मतः ॥
मर्यादाद्या उपा­स्त्य­र्थ­मी­शेऽपि स्युरुपाधिगाः ॥ ३० ॥
छान्दोग्यस्य प्रथमाध्याये उद्गी­थो­पा­स­ना­या­मु­प­स­र्ज­ना­न्यु­पा­स्या­न्य­भि­धाय प्रधा­न­मु­पा­स्य­म­भि­धा­तु­मि­द­मा­म्ना­यते - "अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" इति । तत्र – आदित्यमण्डले विद्या­क­र्मा­ति­श­य­व­शा­त्क­श्चि­ज्जीवो देवभावमुपेत्य जगदधिकारं निष्पा­द­य­न्न­व­ति­ष्ठते, ईश्वरश्च सर्व­ग­त­त्वा­न्म­ण्ड­लेऽपि वर्तते । अतस्तयोः संशयः । तत्र 'देव­तात्मा' इति तावत्प्राप्तम् । कुतः - मर्या­दा­धा­र­रू­पा­णा­मु­च्य­मा­न­त्वात् । "ये चामु­ष्मा­त्प­राञ्चो लोकाः, तेषां चेष्टे देवकामानां च" इत्यै­श्व­र्य­म­र्या­दोक्तिः, "अन्त­रा­दित्ये" इत्याधारोक्तिः, 'हिर­ण्मयः' इति रूपोक्तिः । न हि सर्वेश्वरस्य सर्वाधारस्य नीरूपस्य पर­मे­श्व­र­स्यै­श्व­र्य­म­र्या­दा­धा­र­रू­पाणि सम्भवन्ति । तस्मात् - देवतात्मा । इति प्राप्ते, -
उच्यते - हिरण्मय ईश्वरो भवेत् । कुतः - सर्वा­त्म­त्व­श्र­व­णात् । "सैवर्क् , तत्साम, तदुक्थम् , तद्यजुः, तद्ब्रह्म" इति वाक्ये तच्छब्दैः प्रकृतं हिरण्मयं पुरुषं परामृश्य तस्य ऋक्सा­मा­द्य­शे­ष­ज­ग­दा­त्म­क­त्व­मु­प­दि­श्यते । तच्चाद्वितीये परमेश्वरे मुख्यमुपपद्यते । न तु सद्वितीयायां देवतायाम् । तथा - "स एष सर्वेभ्यः पाप्मभ्य उदितः" इति श्रूयमाणं सर्वपापराहित्यं ब्रह्म­णोऽ­सा­धा­रणं लिङ्गम् । यद्यपि देवतायाः कर्म­ण्य­न­धि­का­रा­त्क्रि­य­मा­ण­क­रि­ष्य­मा­ण­पा­प­यो­र­भावः । तथाऽ­प्य­सु­रा­दि­ज­नि­त­दुः­ख­स­द्भा­वा­त्त­द्धे­तु­भूतं जन्मा­न्त­र­स­ञ्चि­त­दु­रि­त­म­नु­व­र्तत एव । मर्या­दा­धा­र­रू­पाणि तूपाधिधर्मतया सोपाधिके पर­मा­त्म­न्यु­पास्ये वर्तितुमर्हन्ति । तस्मात् - ईश्वरो हिरण्मयः ॥

(अष्टमे ब्रह्मण एवाऽऽ­का­श­श­ब्द­वा­च्य­ता­धि­क­रणे सूत्रम् ॥ )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
आकाश इति होवाचेत्यत्र खं ब्रह्म वाऽत्र खम् ॥
शब्दस्य तत्र रूढ­त्वा­द्वा­य्वादेः सर्जनादपि ॥ ३१ ॥
साका­श­ज­ग­दु­त्प­त्ति­हे­तु­त्वा­च्छ्रौ­त­रू­ढितः ॥
एवकारादिना चात्र ब्रह्मै­वाऽऽ­का­श­श­ब्दि­तम् ॥ ३२ ॥
पूर्वो­क्ता­द्धि­र­ण्म­य­वा­क्या­दु­त्त­र­स्मि­न्वाक्ये शालावत्येन महर्षिणा सर्व­लो­का­धा­र­व­स्तुनि पृष्टे सति प्रवाहणो राजोत्तरमाह । तत्रत्यं वाक्यमेतत् - "आकाश इति होवाच, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति, आकाशो ह्येवैभ्यो ज्यायान् , आकाशः परायणम्" इति । तत्र – आकाशशब्दार्थो 'वियत्' , ब्रह्म वा - इति सन्देहः । रूढत्वात् वियत् इति प्राप्तम् । सर्व­भू­तो­त्प­त्ति­ल­य­हे­तुत्वं च वियत उपपद्यते । "आका­शा­द्वायुः, वायो­रग्निः" - इत्यादौ वाय्वादीनां सर्वभूतानां विय­त्का­र्य­त्व­श्र­व­णात् ॥
अत्रोच्यते - ब्रह्मै­वाऽऽ­का­श­श­ब्दार्थः । "सर्वाणि ह वै" - इत्य­त्रा­स­ङ्कु­चि­त­स­र्व­श­ब्देन विय­त्स­हि­त­स­र्व­भू­तो­त्प­त्ति­हे­तु­त्व­श्र­व­णात् । न च वियतो वियद्धेतुत्वं सम्भवति । रूढिस्तु लौकिकी वियत्येवास्तु । श्रौती तु ब्रह्मण्यपि । "आकाशो वै नाम­रू­प­यो­र्नि­र्व­हिता" इति प्रयोगदर्शनात् । किञ्च – "आका­शा­देव" इत्येवकारः कारणान्तरं व्युदस्यति । न चैतद्वियत्पक्षे सम्भवति, घटादिषु विय­द्व्य­ति­रि­क्तानां मृदा­दि­का­र­णा­ना­मु­प­ल­म्भात् । ब्रह्मपक्षे तु ब्रह्मणः सद्रूपस्य सर्वानन्यतया कार­णा­न्त­र­व्यु­दास उपपद्यते । ज्याय­स्त्व­प­रा­य­णत्वे च श्रुत्यन्तरे ब्रह्मणः श्रूयेते - "ज्याया­न्पृ­थिव्याः, ज्याया­न­न्त­रि­क्षात्" , "विज्ञा­न­मा­नन्दं ब्रह्म रातेर्दातुः परायणम्" इति । 'कर्मफलं दातुं समर्थम्' इत्यर्थः । तस्मात् - ब्रह्मै­वाऽऽ­का­श­श­ब्देन विवक्षितम् ॥

(नवमे ब्रह्मण एव प्राण­श­ब्द­वा­च्य­त्वा­धि­क­रणे सूत्रम् ॥ )
नव­मा­धि­क­र­ण­मा­र­च­यति -
मुखस्थो वायुरीशो वा प्राणः प्रस्तावदेवता ॥
वायुर्भवेत्तत्र सुप्तौ भूत­सा­रे­न्द्रि­य­क्ष­यात् ॥ ३३ ॥
सङ्को­चोऽ­क्ष­प­रत्वे स्यात्स­र्व­भू­त­ल­य­श्रुतेः ॥
आका­श­श­ब्द­व­त्प्र­ण­श­ब्द­स्ते­ने­श­वा­चकः ॥ ३४ ॥
आका­श­वा­क्या­दु­त्त­र­स्मि­न्वाक्ये प्रस्तावनाम्नः सामभागस्य देवतां प्रस्तोत्रा पृष्टा­या­मु­ष­स्ति­रु­त्तरं ददौ । तत्रत्यं वाक्यमेतत् - "प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राण­मे­वा­भि­सं­वि­शन्ति, प्राण­म­भ्यु­ज्जि­हते, सैषा देवता प्रस्ता­व­म­न्वा­यत्ता" इति । तत्र – 'प्राण­श­ब्दार्थो मुख­बि­ला­न्त­र्व­र्ति­वायुः, ब्रह्म वा', इति - सन्देहः । मुख­बि­ला­न्त­र्वर्ती वायुर्भवेत् , सर्वभूतलयस्य तत्र सुसम्पादत्वात् । सुषुप्तिकाले सर्व­भू­त­सा­रा­णा­मि­न्द्रि­याणां प्राणवायौ प्रविलयात् । इति प्राप्ते, -
उच्यते - इन्द्रि­य­मा­त्र­ल­य­प­रत्वे व्याख्यायमाने "सर्वाणि ह वै" - इत्यसौ सर्वशब्दः सङ्कुचितः स्यात् । आका­श­श­ब्द­व­त्प्रा­ण­श­ब्दोऽपि श्रौत­रू­ढ्ये­व­का­राभ्यां ब्रह्मवाचकः । अस्ति हि प्राणशब्दस्य ब्रह्मणि श्रौतरूढिः, "प्राणस्य प्राणम्" इत्यत्र ब्रह्मविवक्षया द्विती­य­प्रा­ण­श­ब्द­प्र­यो­गात् । तस्मात् - ईश्वरः प्राणः ॥

(दशमे ब्रह्मण एव ज्योतिः­श­ब्दा­भि­धे­य­त्वा­धि­क­रणे सूत्राणि ॥ )
दश­मा­धि­क­र­ण­मा­र­च­यति -
कार्यं ज्योतिरुत ब्रह्म ज्योतिर्दीप्यत इत्यदः ॥
ब्रह्म­णोऽ­सं­निधेः कार्यं तेजोलिङ्गबलादपि ॥ ३५ ॥
चतु­ष्पा­त्प्र­कृतं ब्रह्म यच्छ­ब्दे­ना­नु­व­र्त्यते ॥
ज्योतिः स्याद्भासकं ब्रह्म लिङ्गं तूपाधियोगतः ॥ ३६ ॥
छान्दोग्यस्य तृतीयेऽध्याये गाय­त्री­वि­द्यायां हृद­य­च्छि­द्रो­पा­स­न­म­भि­ध्या­ये­द­मा­म्ना­यते - "अथ यदतः परो दिवो ज्योति­र्दी­ष्यते" इति । तत्र – 'द्युलो­का­त्परं दीप्यमानं वस्तु किं कार्यरूपं नेत्रानुग्राहकं तेजः, उत ब्रह्म' इति संशयः । 'कार्यम्' इति तावत्प्राप्तम् । ब्रह्म­णोऽ­सं­नि­हि­त­त्वेन वाक्यस्य ब्रह्म­प­र­त्वा­यो­गात् । तेजःपरत्वं तूपपद्यते, तल्लि­ङ्ग­स­द्भा­वात् । "इदं वाव तद्य­दि­द­म­स्मि­न्नन्तः पुरुषे ज्योतिः" इति श्रूयमाणो जाठ­रा­ग्न्य­भे­द­स्ते­जो­लि­ङ्गम् । अत्रोच्यते - असि­द्धोऽ­सं­निधिः, पूर्व­स्मि­न्गा­य­त्री­खण्डे -
"पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" ।
इति चतुष्पदो ब्रह्मणः प्रकृतत्वात् । तस्य चात्र प्रकृतवाचिना यच्छ­ब्दे­ना­नु­व­र्त­नात् । 'अस्य ब्रह्मणः सर्वाणि भूतान्येकांशः, पाद­त्र­यो­प­ल­क्षि­त­म­न­न्त­स्व­रूपं द्योतनात्मके दिवि स्वस्मि­न्ने­वा­व­ति­ष्ठते' इत्यर्थः । न च ज्योतिःशब्दस्य ब्रह्मणि वृत्त्य­नु­प­पत्तिः, भास­क­त्व­त्वा­चि­त्वात् । ब्रह्मणो जगद्भासकत्वात् । तेजोलिङ्गं त्वौपाधिके ब्रह्म­ण्य­व­क­ल्प्यते । तस्मात् - ज्योतिर्ब्रह्म ॥

(एकादशे ब्रह्मण एव प्राण­श­ब्द­व्यु­त्पा­द्य­त्वा­धि­क­रणे सूत्राणि ॥ )
एका­द­शा­धि­क­र­ण­मा­र­च­यति -
प्राणोऽ­स्मी­त्यत्र वाय्वि­न्द्र­जी­व­ब्र­ह्मसु संशयः ॥
चतुर्णां लिङ्ग­स­द्भा­वा­त्पू­र्व­प­क्ष­स्त्व­नि­र्णयः ॥ ३७ ॥
ब्रह्म­णोऽ­ने­क­लि­ङ्गानि तानि सिद्धान्यनन्यथा ॥
अन्ये­षा­म­न्य­था­सि­द्धे­र्व्यु­त्पाद्यं ब्रह्म नेतरत् ॥ ३८ ॥
कौषी­त­की­ना­मु­प­नि­ष­दी­न्द्र­प्र­त­र्द­ना­ख्या­यि­कायां प्रतर्दनं प्रतीन्द्रो वक्ति - "प्राणोऽस्मि प्रज्ञात्मा तं माम् - आयुरमृतम् - इत्यु­पास्स्व" इति । तत्र चतु­र्वि­ध­लि­ङ्ग­व­शा­च्च­तुर्धा संशयः । "इदं शरीरं परि­गृ­ह्यो­त्था­प­यति" इति प्राण­वा­यो­र्लि­ङ्गम् । "अस्मि" इति वक्तु­रि­न्द्र­स्या­ह­ङ्का­र­वाद इन्द्रलिङ्गम् । "वक्तारं विद्यात्" इति वक्तृत्वं जीवलिङ्गम् । "आन­न्दोऽ­ज­रोऽ­मृतः" इति ब्रह्मलिङ्गम् । तत्र – प्राब­ल्य­दौ­र्ब­ल्य­वि­वे­का­भा­वा­द­नि­र्णयः - इति पूर्वपक्षः ।
सिद्धान्तस्तु - सन्त्यत्र ब्रह्म­णोऽ­ने­क­लि­ङ्गानि । तद्यथा - "त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इति हिततमत्वमेकं लिङ्गम् । "यो मां विजानीयात् , नास्य केनचन कर्मणा लोको मीयते, न मातृवधेन, न पितृवधेन" इति ज्ञानमात्रेण महा­पा­त­का­द्य­ले­पोऽ­परं लिङ्गम् । एवमन्यान्यपि लिङ्गा­न्यु­दा­ह­र्त­व्यानि । न चैतानि प्राणे­न्द्र­जी­व­प­क्षेषु कथ­ञ्चि­द­प्यु­प­पा­द­यितुं शक्यन्ते । प्राणा­दि­लि­ङ्गानि तु ब्रह्म­ण्यु­प­प­द्यन्ते, प्राणादीनां ब्रह्म­बो­ध­द्वा­र­त्वात् । तथा सति ब्रह्म­लि­ङ्गा­ना­म­ने­क­त्वा­द­न­न्य­था­सि­द्ध­त्वाच्च प्राबल्यम् । तस्मात् - 'ब्रह्मै­वात्र व्युत्पाद्यम् , न प्राणादि' इति सिद्धम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदिते
अधिकरणानि ११ ११
सूत्राणि ३१ ३१

(प्रथमे ब्रह्मण एव मनो­म­य­त्वा­द्य­धि­क­रणे सूत्राणि ॥ )
द्वितीयपादस्य प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
मनोमयोऽयं शारीर ईशो वा प्राणमानसे ॥
हृद­य­स्थि­त्य­णी­यस्त्वे जीवे स्युस्तेन जीवगाः ॥ १ ॥
शमवाक्यगतं ब्रह्म तद्धि­ता­दि­र­पे­क्षते ॥
प्राणा­दि­यो­ग­श्चि­न्ता­र्थ­श्चिन्त्यं ब्रह्म प्रसिद्धितः ॥ २ ॥
छान्दोग्यस्य तृतीयेऽध्याये शाण्डि­ल्य­वि­द्या­या­मि­द­मा­म्ना­यते - "मनोमयः प्राणशरीरो भारूपः" इति । तत्र – 'जीवः ईशो वा' इति सन्देहः । 'जीवः' इति तावत्प्राप्तम् । मनः­स­म्ब­न्धा­दीनां जीवे सुसम्पादत्वात् । 'मनसो विकारो मनोमयः' इति मनः सम्बन्धः । 'प्राणः शरीरमस्य' इति प्राणसम्बन्धः । नचेदं द्वयमीश्वरे सुसम्पादम् । "अप्राणो ह्ममनाः शुभ्रः" इति निषेधात् । तथा - "एष म आत्माऽ­न्त­र्हृ­द­येऽ­णी­यान्" इति श्रूयमाणं हृदयेऽवस्थानम् , अणीयस्त्वं च निराधारस्य सर्वगतस्य न कथञ्चिदुपपद्यते । तस्मात् - जीवः । इति प्राप्ते, -
ब्रूमः "सर्वं स्वल्विदं ब्रह्म तज्जलान् - इति शान्त उपासीत" इत्ये­त­स्मि­ञ्श­म­वि­धि­परे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म, 'तदेव मनोमयः, प्राण­श­रीरः' इत्येताभ्यां तद्धि­त­ब­हु­व्री­हिभ्यां विशे­ष्य­त्वे­ना­पे­क्ष्यते । शम­वा­क्य­स्या­य­मर्थः - 'यस्मा­त्स­र्व­मिदं ब्रह्म तज्जत्वात् , तल्लत्वात् , तदंस्त्वाच्च, तस्मा­त्स­र्वा­त्मके ब्रह्मणि राग­द्वे­ष­वि­ष­या­स­म्भ­वा­दु­प­स्ति­काले शान्तो भवेत्' इति । एतद्वाक्यगते ब्रह्मणि विशे­ष्य­त्वे­ना­न्विते मनोमयवाक्यमपि ब्रह्मपरं भविष्यति । न च – ब्रह्मणो मनः­प्रा­ण­स­म्ब­न्धा­द्य­नु­प­पत्तिः, निरुपाधिके तदनुपपत्तावपि सोपा­धि­क­स्यो­पा­स्यस्य चिन्तनार्थतया तदुपपत्तेः । तस्मात् - सर्वेष्वपि वेदान्तवाक्येषु यद्ब्र­ह्मो­पा­स्य­त्वेन प्रसिद्धम् , तदे­वा­त्रा­प्यु­पा­स्यम् । न हि क्वचिदपि वेदान्ते जीव­स्यो­पा­स्यत्वं प्रसिद्धम् । ततो 'ब्रह्मैव' इति सिद्धान्तः ॥

(द्वितीये, ईश्व­र­स्यै­वा­त्तृ­त्वा­धि­क­रणे सूत्रे - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
जीवोऽग्निरीशो वाऽत्ता स्यादोदने जीव इष्यताम् ॥
स्वाद्वत्तीति श्रुते­र्व­ह्नि­र्वाऽ­ग्नि­र­न्नाद इत्यतः ॥ ३ ॥
ब्रह्म­क्ष­त्रा­दि­ज­गतो भोज्य­त्वा­त्स्या­दि­हे­श्वरः ॥
ईश­प्र­श्नो­त्त­र­त्वाच्च संहारस्तस्य चातृता ॥ ४ ॥
कठवल्लीषु द्विती­य­व­ल्ल्य­व­साने पठ्यते -
"यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्यु­र्य­स्यो­प­से­चनं क इत्था वेद यत्र सः" इति ।
अयमर्थः - 'ब्राह्म­ण­क्ष­त्रि­य­जाती यस्यौ­द­न­स्था­नीये, मृत्यु­श्चो­प­से­च­न­स्था­नीयः, स पुरुषो यत्र वर्तते तत्स्थानम् इदमित्थम्' इति को वेद । न कोपि जानाति, इत्यर्थः । अत्र – ओद­नो­प­से­च­न­श­ब्दाभ्यां कश्चिद्भक्षकः प्रतीयते । स जीवः, अग्निः, ईशो वा इति त्रेधा सन्दिह्यते । 'जीवः' इति तावत्प्राप्तम् । कुतः - "तयोरन्यः पिप्पलं स्वाद्वत्ति" इति जीव­स्या­त्तृ­त्व­श्र­व­णात् । अथवा वह्निर्भवेत् , "अग्नि­र­न्नादः" इत्य­त्तृ­त्वा­व­ग­मात् । इति प्राप्ते, -
उच्यते - ब्रह्म­क्ष­त्र­यो­रु­प­ल­क्ष­ण­त्वेन कृस्नं जगदिह भोज्य­त्वे­ना­व­ग­म्यते । नहि तादृशस्य भोज्य­स्ये­श्व­रा­द­न्योऽत्ता सम्भवति किञ्च -
"अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मा­द­न्य­त्रा­स्मा­त्कृ­ता­कृ­तात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद" ।
इति धर्मा­ध­र्म­का­र्य­का­र­ण­का­ल­त्र­या­तीते परमेश्वरे नचिकेतसा पृष्टे सति "यस्य ब्रह्म च" – इति वाक्येन यम उत्तरं ददौ । तस्माद् - ईश्वरोऽत्र प्रतिपाद्यः - "अन­श्न­न्न­न्योऽ­भि­चा­क­शीति" इतीश्वरे भोक्तृत्वं निषिध्यते - इति चेत् । तर्ह्य­त्रा­त्तृत्वं नाम संहर्तृत्वं भविष्यति । तच्चेश्वरस्य सर्वेषु वेदान्तेषु प्रसिद्धम् ॥

(तृतीये जीवब्रह्मणोरेव गुहा­प्र­वे­शा­धि­क­रणे सूत्रे - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
गुहां प्रविष्टौ धीजीवौ जीवेशौ वा हृदि स्थितेः ॥
छायातपाभ्यां दृष्टा­न्ता­द्धी­जीवौ स्तो विलक्षणौ ॥ ५ ॥
पिबन्ताविति चैतन्यं द्वयो­र्जी­वे­श्वरौ ततः ॥
हृत्स्था­न­मु­प­लब्ध्यै स्याद्वै­ल­क्ष­ण्य­मु­पा­धितः ॥ ६ ॥
कठवल्लीष्वेव तृतीयवल्ल्यादौ श्रूयते -
"ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणा­चि­केताः" इति ।
अयमर्थः - "सुकृतस्य फलभूतं यद्ब्रा­ह्म­णा­दि­श­रीरं तत्परस्यार्धं परब्रह्मण उपलब्धिस्थानम् । तच्च परमम् , विद्या­धि­का­र­हे­तु­श­म­द­मा­द्यु­पे­त­त्वात् । तादृशस्य शरीरस्य मध्ये स्थितं हृदयपुण्डरीकं गुहा तां प्रविष्टौ । यद्वा - ऋतशब्दवाच्यं कर्मफलं पिबन्तौ छाया­त­प­व­त्प­र­स्प­र­वि­ल­क्षणौ वेदविदो वदन्ति" इति । 'तौ द्वौ बुद्धिजीवौ, जीवेशौ वा' - इति सन्देहः । 'बुद्धि­जीवौ' इति प्राप्तम् , तयोः परि­च्छि­न्न­यो­र्गु­हा­प्र­वे­श­स­म्भ­वात् । जडाजडरूपत्वेन च्छाया­त­प­व­द्वै­ल­क्ष­ण्याच्च ॥
अत्रोच्यते - 'पिबन्तौ' इति द्विवचनेन द्वयोश्चेतनत्वं प्रतीयते । ततः - चेतनाविह जीवेश्वरौ भवतः । सर्व­ग­त­स्या­पी­श्व­रस्य हृद­येऽ­व­स्था­न­मु­प­लब्ध्यै वर्ण्यते । द्वयो­श्चे­त­न­त्व­सा­म्येऽपि सोपा­धि­क­त्व­नि­रु­पा­धि­क­त्वाभ्यां वैल­क्ष­ण्य­मु­प­प­द्यते ॥

(चतुर्थे ब्रह्मण एवा­क्षि­ग­त­त्वा­धि­क­रणे सूूत्राणि - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
छायाजीवौ देवतेशौ वाऽसौ योऽक्षणि दृश्यते ॥
आधा­र­दृ­श्य­तो­क्त्ये­शा­द­न्येषु त्रिषु कश्चन ॥ ७ ॥
कं खं ब्रह्म यदुक्तं प्राक्त­दे­वा­क्ष­ण्यु­पा­स्यते ॥
वाम­नी­त्वा­दि­नाऽ­न्येषु नामृ­त­त्वा­दि­स­म्भवः ॥ ८ ॥
छान्दोग्यस्य चतुर्थाध्याये - उप­को­स­ल­वि­द्या­या­मु­प­को­सलं शिष्यं प्रति सत्यकामो गुरुराह । तत्रत्यं वाक्यमेतत् - "य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच । एतदमृतम् , एत­द्ब्रह्म" इति । तत्र चतुर्धा संशये सति - 'अक्षणि सर्वै­र्दृ­श्य­माना छाया' इति तावत् प्राप्तम् , अक्ष्या­धा­र­त्व­दृ­श्य­त्व­यो­स्त­स्या­मपि स्पष्टत्वात् । यद्वा - जीवोऽयं भवितुमर्हति, रूपदर्शनवेलायां तस्य चक्षु­ष्य­व­स्थि­त­त्वे­ना­न्व­य­व्य­ति­रे­काभ्यां दृश्यमानत्वात् । अथवा - देवता स्यात् , "आदि­त्य­श्च­क्षु­र्भू­त्वाऽ­क्षिणी प्राविशत्" इति दर्शनात् । सर्वथा न परमात्मा, तस्याऽऽ­धा­र­त्व­दृ­श्य­त्वा­स­म्भ­वात् । तस्मात् - छायाजीवदेवेषु यः कोऽप्यस्तु ॥
इति प्राप्ते ब्रूमः - "कं ब्रह्म" "खं ब्रह्म" इति सुखरूपम् , आका­श­व­त्प­रि­पूर्णं यद्ब्रह्म पूर्व­वा­क्ये­नो­क्तम् , तदेव "य यषोऽ­क्षिणी" - इति प्रकृ­त­वा­च­के­नै­त­च्छ­ब्देन परा­मृ­श्या­क्ष­ण्यु­पा­स्य­त्वे­नो­प­दिश्य वाम­नी­त्व­भा­म­नी­त्व­सं­य­द्वा­म­त्वा­दि­गु­णा­नु­पा­स­न­यो­प­गि­शति । वामनीत्वं कामप्रापकत्वम् । भामनीत्वं जगद्भासकत्वम् । संयद्वामत्वं प्राप्तकामत्वम् । एतै­र्गु­णै­रु­पा­स्य­ब्र­ह्मणः सोपा­धि­क­त्वा­द­क्ष्या­धा­रत्वं शास्त्रदृष्ट्या दृश्यमानत्वं च न विरुध्यते । छायाजीवदैवतेषु त्वमृ­त­त्वा­भ­य­त्वा­दीनि न सम्भवन्ति । तस्मात् - ईश्व­रोऽ­त्रो­पास्यः ॥

(पञ्चमे पर­मे­श्व­र­स्यै­वा­न्त­र्या­मि­ता­धि­क­रणे सूत्राणि - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति ॥
कार­ण­त्वा­त्प्र­धानं स्याज्जीवो वा कर्मणो मुखात् ॥ ९ ॥
जीवै­क­त्वा­मृ­त­त्वा­दे­र­न्त­र्यामी परेश्वरः ॥
द्रष्टृ­त्वा­देर्न प्रधानं न जीवोऽपि नियम्यतः ॥ १० ॥
बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह – "यः पृथिवीमन्तरो यमयत्येष त आत्माऽ­न्त­र्या­म्य­मृतः" इति । तत्र – पृथि­व्या­दि­ज­ग­त्प्रति योऽन्तर्यामी, श्रूयते, तस्मिंस्त्रेधा संशये सति 'प्रधा­नम्' इति प्राप्तम् । तस्य सक­ल­ज­ग­दु­पा­दा­न­त्वेन स्वकार्यं प्रति निया­म­क­त्व­स­म्भ­वात् । अथवा - जीवोऽन्तर्यामी । स हि धर्माधर्मरूपं कर्मा­नु­ष्ठि­त­वान् । तच्च कर्म स्वफलदानाय फलभोगसाधनं जगदुत्पादयति । अतः कर्मद्वारा जग­दु­त्पा­द­क­त्वा­ज्जी­वोऽ­न्त­र्यामी ॥
इति प्राप्ते ब्रूमः - "एष त आत्माऽ­न्त­र्या­म्य­मृतः" इत्यन्तर्यामिणो जीव­ता­दा­त्म्य­म­मृ­तत्वं च श्रूयते । तथा - पृथि­व्य­न्त­रि­क्षा­दिषु सर्व­व­स्तु­ष्व­न्त­र्या­मि­त्वो­प­दे­शेन सर्वव्यापित्वं प्रतीयते । तेभ्यो हेतु­भ्योऽ­न्त­र्यामी परमेश्वरः । न च प्रधा­न­स्या­न्त­र्या­मित्वं सम्भवति, "अदृष्टो द्रष्टा, अश्रुतः श्रोता" इति द्रष्टृ­त्व­श्रो­तृ­त्वा­द्य­व­ग­मा­द­चे­त­नस्य प्रधानस्य तदसम्भवात् । नापि जीवोऽन्तर्यामी, "य आत्मानमन्तरो यमयति" इति जीवस्य निय­म्य­त्व­श्र­व­णात् । तस्माद् - अन्तर्यामी परमेश्वरः ॥

(षष्ठे परमेश्वरस्यैव भूत­यो­नि­त्वा­धि­क­रणे सूत्राणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
भूतयोनिः प्रधानं वा जीवो वा यदि वेश्वरः ॥
आद्यौ पक्षा­वु­पा­दा­न­नि­मि­त्त­त्वा­भि­धा­नतः ॥ ११ ॥
ईश्वरो भूतयोनिः स्यात्स­र्व­ज्ञ­त्वाा­दि­की­र्त­नात् ॥
दिव्या­द्यु­क्तेर्न जीवः स्यान्न प्रधानं भिदोक्तितः ॥ १२ ॥
मुण्डकोपनिषदि श्रूयते - "तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः" इति । तत्र त्रेधा संशये सति - प्रधानम् , जीवो वा, इति पक्षद्वयं तावत्प्राप्तम् । योनि­श­ब्द­स्यो­पा­दा­न­नि­मि­त्त­ल­क्ष­णा­र्थ­द्व­य­वा­चि­त्वात् । प्रधानस्य विश्वाकारेण परि­ण­म­मा­न­स्यो­पा­दा­न­त्वात्‌ । जीवस्य च धर्मा­ध­र्म­द्वा­रेण निमित्तत्त्वात् ।।
अत्रोच्यते -
"यः सर्वज्ञः सर्ववित् , यस्य ज्ञानमयं तपः" ।
इति "सामा­न्या­का­रेण सर्वज्ञत्वम् , विशेषाकारेण सर्ववित्त्वम् , पर्यालोचनात्मकं तपश्च", इत्येतादृशस्य ब्रह्मलिङ्गस्य कीर्त­ना­द्भू­त­योनिः परमेश्वरः । न च जीवस्य भूतयोनित्वं युक्तम् ,
"दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः" ।
इति बाह्या­भ्य­न्त­र­व्या­पि­त्व­ज­न्म­रा­हि­त्ययोः श्रुत­त्वा­त्प­रि­च्छि­न्नस्य जन्मादिमतो जीवस्य तदसम्भवात् । नापि प्रधानस्य भूतयोनित्वं युक्तम् , "अक्ष­रा­त्प­रतः परः" इत्य­क्ष­र­श­ब्द­वा­च्या­त्प्र­धा­ना­द्भे­देन भूतयोनेः परत्वाभिधानात् । तस्मात् - ईश्वरो भूतयोनिः ॥

(सप्तमे परमेश्वरस्यैव वैश्वा­न­र­त्वा­धि­क­रणेे सूत्राणि - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
वैश्वानरः कौक्ष­भू­त­दे­व­जी­वे­श्व­रेषु कः ॥
वैश्वा­न­रा­त्म­श­ब्दा­भ्या­मी­श्व­रा­न्येषु कश्चन ॥ १३ ॥
द्युमू­र्ध­त्वा­दितो ब्रह्म­श­ब्दा­च्चे­श्वर इष्यते ॥
वैश्वा­न­रा­त्म­शब्दौ तावीश्वरस्यापि वाचकौ ॥ १४ ॥
छान्दोग्यस्य पञ्चमाध्याये वैश्वा­न­र­वि­द्या­या­मा­म्ना­यते - "आत्मानं वैश्वा­र­न­मु­पास्ते" इति । किमयं वैश्वानरः कुक्षि­स्थि­तोऽग्निः, किंवा भूताग्निः, आहोस्वित् - आदित्यदेवता, किंवा जीवात्मा, अथवा परमात्मा, इति संशयः । तत्र वैश्वा­न­र­श­ब्द­व­शा­दाद्यं पक्षत्रयं प्राप्तम् । "अय­म­ग्नि­र्वै­श्वा­नरो योऽयमन्तः पुरुषे (येनेदमन्नं पच्यते )" इति श्रुतौ वैश्वानरशब्दो जाठराग्नौ प्रयुक्तः । "विश्वस्मा अग्निं भुवनाय देवा वैश्वा­न­रम्" इति बाह्येऽग्नौ प्रयुक्तः । "वैश्वा­न­रस्य सुमतौ स्याम" इति देवतायां प्रयुक्तः । अतः पक्ष­त्र­य­मु­प­प­द्यते । आत्मशब्दस्य जीवे रूढत्वाज्जीवो वा वैश्वानरः स्यात् । न त्वीश्वरः, तद्नमकाभावात् । इति प्राप्ते, -
ब्रूमः - वैश्वानरो ब्रह्म भवितुमर्हति, द्युमू­र्ध­त्वा­दि­श्र­व­णात् । "तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य मूर्धैव सुतेजाः" इत्यादिना द्युलो­का­द्य­शे­ष­ज­गतो वैश्वा­न­रा­व­य­वत्वं श्रूयते । न चैत­दी­श्व­रा­द­न्यत्र सम्भवति । "किञ्च को न आत्मा, किं ब्रह्म" इति ब्रह्म­श­ब्द­श्चे­श्वरे मुख्यः । वैश्वा­न­र­श­ब्दस्तु योगवृत्त्या ब्रह्मणि वर्तते । विश्वश्चासौ नरश्च विश्वानरः । सर्वात्मकपुरुष इत्यर्थः । विश्वानर एव वैश्वानरः । आत्मशब्दश्च जीव­व­द्ब्र­ह्म­ण्यपि वर्तते । तस्मात् - वैश्वानरः परमेश्वरः ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ७ १८
सूत्राणि ३३ ६४

(प्रथमे ब्रह्मण एव द्युभ्वा­द्या­य­त­न­त्वा­धि­क­रणे सूत्राणि - )
प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
सूत्रं प्रधानं भोक्तेशो द्युभ्वा­द्या­य­तनं भवेत् ॥
श्रुति­स्मृ­ति­प्र­ति­द्धिभ्यां भोक्तृ­त्वा­च्चे­श्व­रे­तरः ॥ १ ॥
नाऽऽद्यौ पक्षा­वा­त्म­श­ब्दान्न भोक्ता मुक्तगम्यतः ॥
ब्रह्म­प्र­क­र­णा­दीशः सर्व­ज्ञ­त्वा­दि­त­स्तथा ॥ २ ॥
मुण्डकोनपषदि श्रूयते -
"यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जान­थाऽऽ­त्मा­न­मन्या वाचो विमु­ञ्च­था­मृ­त­स्यैष सेतुः" इति ।
'द्युलो­क­भू­लो­का­द्य­शेषं जग­द्य­स्मि­न्ना­धारे आश्रितम् , तमा­धा­र­मे­क­मे­वाऽऽ­त्मानं जानीथ, न त्वाश्रितं द्युपृथिव्यादि । इतोऽतिरिक्ता अना­त्म­प्र­ति­पा­दि­का­स्त­र्क­शा­स्त्रा­दि­वाचो विमुञ्चथ, अपु­रु­षा­र्थ­त्वात्' इत्यर्थः । अत्र (संशयः) - किं द्युभ्वा­द्या­य­तनं सूत्रात्मा, किंवा प्रधानम् , अथवा भोक्ता, आहोस्वित् ईश्वरः - इति सन्देहः । सूत्रात्मा स्यात् , "वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः, सर्वाणि च भूतानि सन्दृब्धानि भवन्ति इति श्रुति­प्र­सिद्ध्या वायोः सूत्रात्मनो द्युभ्वा­द्या­य­त­न­त्वा­व­ग­मात् । प्रधानं वा स्यात् , तस्य साङ्ख्य­स्मृ­ति­प्र­सिद्ध्या सर्वा­धा­र­त्वा­व­ग­मात् । भोक्ता वा स्यात् , "तमेवैकं जानथाऽऽत्मानम् । इत्या­त्म­श­ब्दात्" इति प्राप्ते, -
ब्रूमः - न तावदाद्यौ पक्षौ सम्भवतः, उक्त­स्याऽऽ­त्म­श­ब्दस्य तयोरसम्भवात् । नापि भोक्ता,
"(यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । )
तदा विद्वा­न्पु­ण्य­पापे विधूय निरञ्जनः परं साम्य­मु­पैति"
इति द्युभ्वा­द्या­य­त­नस्य मुक्त­पु­रु­ष­प्रा­प्य­त्व­श्र­व­णा­द्भो­क्तु­र्जी­वस्य तत्प्रा­प्य­त्वा­स­म्भ­वात् । "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इत्येकविज्ञानेन सर्व­वि­ज्ञा­न­मु­प­क्रा­न्तम् । "ब्रह्म वेद ब्रह्मैव भवति" इत्युपसंहृतम् । ततो ब्रह्म­प्र­क­र­णा­द्भू­त­यो­न्य­धि­क­र­णो­क्त­स­र्व­ज्ञ­त्वा­दि­यु­क्ते­रपि ब्रह्मैव द्युभ्वा­द्या­य­त­नम् ॥

(द्वितीये परमात्मन एव भूमत्वाधिकरणे सूत्रे - )
द्वीती­या­धि­क­र­ण­मा­र­च­यति -
भूमा प्राणः परेशो वा प्रश्न­प्र­त्यु­क्ति­व­र्ज­नात् ॥
अनु­व­र्त्या­ति­वा­दित्वं भूमो­क्ते­श्चा­सु­रेव सः ॥ ३ ॥
विच्छिद्यैष त्विति प्राणं सत्य­स्यो­प­क्र­मा­त्तथा ॥
महोपक्रम आत्मो­क्ते­री­शोऽयं द्वैतवारणात् ॥ ४ ॥
छान्दोग्ये सप्तमाध्याये नारदं प्रात सनत्कुमारो नामा­दी­न्यु­त्त­रो­त्त­र­भू­यांसि बहूनि तत्त्वा­न्यु­प­दि­स्यान्ते निरतिशयं भूमानमुपदिशति - "यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्य­द्वि­जा­नाति, स भूमा" इति । तत्र – भूमशब्दवाच्ये द्विधा सन्दिग्धे सति, 'प्राणः' इति तावत्प्राप्तम् । प्रश्न­प्र­त्यु­क्ति­व­र्ज­नात् । पूर्वेषु नामादितत्त्वेषु "अस्ति भगवो भूयः" इति नारदः पदे पदे पृच्छति, सनत्कुमारश्च 'अस्ति' इति प्रतिवक्ति, एवं च प्रश्न­प्र­ति­व­च­न­पू­र्व­क­तया नामादीनि प्राणान्तानि तत्त्वा­न्यु­प­दिश्य प्राणस्योपरि विनैव प्रश्न­प्र­त्यु­क्तिभ्यां भूमानमवतारयति । अतः प्राण­भू­म्नो­र्मध्ये विच्छे­द­क­स्या­भा­वा­त्प्राण एव भूमा । किञ्च – प्राण­त­त्त्व­मु­प­दिश्य प्राणो­पा­स­क­त­याऽ­ति­वा­दि­त्व­ना­म­क­मु­त्क­र्ष­म­भि­धाय प्रक­र­ण­वि­च्छे­द­श­ङ्का­नि­वृ­त्तये तदे­वा­ति­वा­दि­त्व­म­नु­वर्त्य भूमा­न­मु­प­दि­श­न्प्रा­ण­भू­म्नो­र­भेदं गमयति । तस्मात् - प्राणो भूमा ॥
इति प्राप्ते, ब्रूमः - अयं भूमा परमेश्वरः । कुतः - "एष तु वा अतिवदति यः सत्ये­ना­ति­व­दति" इत्य­त्रा­ति­वा­दि­त्व­हेतुं प्राणोपासनं तुशब्देन व्यावर्त्य मुख्या­ति­वा­दि­त्व­हे­तो­र्ब्र­ह्मणः सत्यशब्देन पृथगुपक्रमात् । तथा - परमोपक्रमे "तरति शोक­मा­त्म­वित्" इति वेद्यतया परमात्मोच्यते । तथा - "यत्र नान्य­त्प­श्यति" इति द्वैतनिषेधेन भूमो लक्षणमभिधीयते । तस्मात् - अद्वैतः परमात्मैव भूमा ॥

(तृतीये ब्रह्मण एवाक्षरताधिकरणे सूत्राणि - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
अक्षरं प्रणवः किंवा ब्रह्म लोकेऽक्षराभिधा ॥
वर्णे प्रसिद्धा तेनात्र प्रणवः स्यादुपास्तये ॥ ५ ॥
अव्या­कृ­ता­धा­र­तोक्तेः सर्वधर्मनिषेधतः ॥
शास­ना­द्द्र­ष्टृ­ता­देश्च ब्रह्मै­वा­क्ष­र­मु­च्यते ॥ ६ ॥
बृहदारण्यके पञ्चमाध्याये गार्गीं प्रति याज्ञवल्क्य आह – "एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति, अस्थू­ल­म­न­ण्व­ह्र­स्वम्" इति । अत्र – 'अक्ष­र­श­ब्देन प्रणवो ब्रह्म वाऽभि­धी­यते' - इति सन्देहे, 'प्रणवः' इति प्राप्तम् । कुतः - लोके "येना­क्ष­र­स­मा­म्ना­य­म­धि­गम्य" इत्यादौ वर्णेऽ­क्ष­र­श­ब्द­प्र­सिद्धेः । प्रण­वा­क्ष­र­स्या­त्रो­पा­स्य­तया वक्तव्यत्वात् । इति प्राप्ते, -
ब्रूमः - ब्रह्मै­वा­क्ष­र­श­ब्द­वा­च्यम् । कुतः - "एत­स्मि­न्ख­ल्व­क्षरे गार्ग्याकाश ओतश्च प्रोतश्च" इत्या­का­श­श­ब्द­वा­च्य­म­व्या­कृतं प्रत्य­क्ष­र­स्याऽऽ­धा­र­तोक्तेः । प्रणवस्य तदसम्भवात् । किञ्च - "अस्थू­ल­म­न­ण्व­ह्र­स्वम्" इत्यक्षरे सर्वसंसारधर्मा निषिध्यन्ते । तथा - "एतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इति तस्यैवाक्षरस्य जग­च्छा­सि­तृ­त्व­मु­च्यते । (तथा) "तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ, अश्रुतं श्रोतृ" इत्यादिना द्रष्टृत्वादिकं प्रमा­णा­वि­ष­य­त्वम् चाऽऽम्नातम् । तदेतत्सर्वं न प्रण­व­प­क्षेऽ­व­क­ल्पते । तस्मात् - ब्रह्मैवाक्षरम् ॥

(चतुर्थे परब्रह्मण ईक्षतिकर्मता (ध्येयता) धिकरणे सूत्रम् - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
त्रिमात्रप्रणवे ध्येयमपरं ब्रह्म वा परम् ॥
ब्रह्म­लो­क­फ­लो­क्त्या­दे­र­परं ब्रह्म गम्यते ॥ ७ ॥
ईक्षितव्यो जीव­घ­ना­त्प­र­स्त­त्प्र­त्य­भि­ज्ञया ॥
भवेद्ध्येयं परं ब्रह्म क्रममुक्तिः फलिष्यति ॥ ८ ॥
प्रश्नोपनिषदि श्रूयते - "यः पुनरेतं त्रिमा­त्रे­णो­मि­त्ये­ते­नै­वा­क्ष­रेण परं पुरु­ष­म­भि­ध्या­यीत" इति । तत्र 'ध्येयं वस्तु हिर­ण्य­ग­र्भा­ख्य­म­परं ब्रह्म, उत परं ब्रह्म' – इति संशये सति, 'अप­रम्' इति तावत्प्राप्तम् । कुतः - "स सामभिरून्नीयते ब्रह्म­लो­कम्" इति कम­ला­स­न­लो­क­प्रा­प्ति­फ­ल­श्र­व­णात् । पर­ब्र­ह्म­ध्या­नस्य परमपुरुषार्थस्य ताव­न्मा­त्र­फ­ल­त्वा­नु­प­पत्तेः । "पुरं पुरुषम्" इति पर­श­ब्द­वि­शे­ष­ण­म­प­र­स्मि­न्नपि ब्रह्म­ण्यु­प­प­द्यते । तस्या­पी­त­रा­पे­क्षया परत्वात् । इति प्राप्ते -
ब्रूमः - परमेव ब्रह्मा­भि­ध्ये­यम् । कुतः - ईक्षितव्यस्य परस्य ध्येयत्वेन प्रत्य­भि­ज्ञा­नात् । "स एत­स्मा­ज्जी­व­घ­ना­त्प­रा­त्परं पुरिशयं पुरु­ष­मी­क्षते" इति वाक्यशेषे श्रूयते । तस्यायमर्थः - 'य उपासनया ब्रह्मलोकं प्राप्तः, स एत­स्मा­त्स­र्व­जी­व­स­म­ष्टि­रू­पा­दु­त्कृ­ष्टा­द्धि­र­ण्य­ग­र्भा­द­प्यु­त्कृष्टं सर्वप्राणिहृदये शयानं परमात्मानं पश्यति' इति । तत्रेक्षितव्यो यः परमात्मा स एव वाक्योपक्रमे ध्यान­वि­ष­य­त्वे­ना­भि­प्रेतः - इत्यवगम्यते । पर­पु­रु­ष­श­ब्दाभ्यां तस्य प्रत्य­भि­ज्ञा­नात् । न च ब्रह्म­लो­क­प्रा­प्ति­मात्रं फलम् , क्रम­मु­क्ति­स­म्भ­वात् । तस्मात् - ब्रह्मैव ध्येयम् ॥

(पञ्चमे ब्रह्मण एव दह­रा­का­श­त्वा­धि­क­रणे सूत्राणि - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
दहरः को वियज्जीवो ब्रह्म वाऽऽकाशशब्दतः ॥
विय­त्स्या­द­थ­वाऽ­ल्प­त्व­श्रु­ते­र्जीवो भविष्यति ॥ ९ ॥
बाह्या­का­शो­प­मा­नेन द्युभू­म्या­दि­स­मा­हितेः ॥
आत्माऽ­प­ह­त­पा­प्म­त्वा­त्से­तु­त्वाच्च परेश्वरः ॥ १० ॥
छान्दो­ग्य­स्या­ष्ट­मा­ध्याये श्रूयते - "अथ यदि­द­म­स्मि­न्ब्र­ह्म­पुरे दहरं पुण्डरीकं वेश्म, दह­रोऽ­स्मि­न्न­न्त­रा­काशः, तस्मिन्यदन्तः, तदन्वेष्टव्यम् , तद्वाव विजि­ज्ञा­सि­त­व्यम्" इति । 'ब्रह्मण उप­ल­ब्धि­स्था­न­त्वेन शरीरं ब्रह्मपुरम् , तत्राल्पं हृदयपुण्डरीकं वेश्म यदवतिष्ठते, तस्मि­न्वे­श्म­न्यल्प आकाशो वर्तते' इत्यर्थः । तत्राऽऽकाशस्य त्रेधा संशये सति, 'वियत्' इति तावत्प्राप्तम् , आकाशशब्दस्य वियति रूढत्वात् । यद्वा - दह­र­श­ब्दे­ना­ल्प­त्वोक्तेः परिच्छिन्नो जीवो भविष्यति । न तु ब्रह्म ॥
इति प्राप्ते, ब्रूमः - ब्रह्मै­वाऽऽ­का­श­श­ब्द­वा­च्यम् । "यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाशः" इति प्रसिद्धेन वियतोपमितत्वात् । न हि वियतो वियदुपमानं सम्भवति । नाप्यल्पपरिमाणो जीवो विय­त्प­रि­मा­णे­नो­प­मातुं शक्यः । लौकिकरूढिस्तु श्रौतरूढ्या परिहृता । किञ्च – "उभे अस्मि­न्द्या­वा­पृ­थिवी अन्तरेव समाहिते" इत्यादिना द्यावा­पृ­थि­व्या­द्य­शे­ष­ज­ग­दा­धा­रत्वं दहराकाशस्य श्रूयते । "अथैष आत्माऽ­प­ह­त­पाप्मा" इत्या­त्म­त्व­म­प­ह­त­पा­प्मत्वं च । "य आत्मा स सेतु­र्वि­धृतिः" इति जग­न्म­र्या­दा­ना­म­सा­ङ्क­र्याय विधा­र­क­त्व­ल­क्ष­ण­से­तुत्वं च । तस्मादेतेभ्यो हेतुभ्यः परमात्मा ॥

(षष्ठ ईश्व­र­स्यै­वा­क्षि­पु­रु­ष­त्वा­धि­क­रणे सूत्राणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
यः प्रजा­प­ति­वि­द्यायां स किं जीवोऽथवेश्वरः ॥
जाग्र­त्स्व­प्न­सु­षु­प्तो­क्ते­स्त­द्वा­ञ्जीव इहोचितः ॥ ११ ॥
आत्माऽ­प­ह­त­पा­प्मेति प्रकम्यान्ते स उत्तमः ॥
पुमानित्युक्त ईशोऽत्र जाग्र­दा­द्य­व­बु­द्धये ॥ १२ ॥
दहरविद्याया उपरि प्रजा­प­ति­वि­द्या­या­मि­न्द्र­वि­रो­च­न­प्र­जा­प­ति­सं­वादे श्रूयते - "य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच" इति । तत्र – 'जीवात्मा' इति प्राप्तम् । कुतः - अव­स्था­त्र­यो­प­न्या­सात् । "अक्षिणि पुरुषः" इति जागरणोपन्यासः ।
"य एष स्वप्ने मही­य­मा­न­श्च­रति" इति स्वप्नोपन्यासः । "सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति" इति सुषुप्तोपन्यासः । एवमवस्थात्रय उपन्यस्ते सत्य­व­स्था­वा­ञ्जीवो ग्रहीतुमुचितः, ईश्व­र­स्या­व­स्था­रा­हि­त्यात् ॥
इति प्राप्ते, ब्रूमः - ईश्वरोऽत्र ग्रहीतव्यः । कुतः - "य आत्माऽपहतपाप्मा विजरो विमृत्युः" इति पर­मा­त्मा­न­मु­प­क्रम्य "स उत्तमः पुरुषः" इत्यनेन परमात्मन एवोपसंहारात् । नच - एवंसति जाग­र­णा­द्यु­प­न्या­स­वै­य­र्थ्यम् , शाखा­च­न्द्र­न्या­येन पर­मा­त्म­बो­धो­प­यु­क्त­त्वात् । तस्मात् - ईश्व­रोऽ­क्षि­पु­रुषः ॥

(सप्तमे चैतन्यस्य सर्व­ज­ग­द्भा­स­क­त्वा­धि­क­रणे सूत्रे - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
न तत्र सूर्यो भातीति तेजोन्तरमुतात्र चित् ॥
तेजोभिभावकत्वेन तेजोन्तरमिदं महत् ॥ १३ ॥
चित्स्या­त्सू­र्या­द्य­भा­स्य­त्वा­त्ता­दृ­क्ते­जो­प्र­सि­द्धितः ॥
सर्वस्मात्पुरतो भानात्तद्भासा चान्यभासनात् ॥ १४ ॥
मुण्डकोपनिषदि श्रूयते -
"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति ।
अयमर्थः - 'तत्र पूर्वप्रकृते ज्योतिषां ज्योतिषि चन्द्रसूर्यादयो न भान्ति, किं तु तमेव ज्योतिषां भासकं पुरतो भासमानं पदार्थमनु सर्वं जगद्भाति । भासनदशायां न स्वतन्त्रेण भानेन जगद्भाति । किं तर्हि तस्य भासकपदार्थस्य भासा सर्वमिदं विभाति' इति । 'अस्मि­न्वाक्ये श्रूयमाणं जगद्भासकं किं सूर्यादिसदृशं चाक्षुषं तेजो­न्त­रम्' , उत चैतन्यम् इति संशये - 'तेजो­न्त­रम्' इति प्राप्तम् । कुतः - सूर्या­दि­ते­जो­भि­भा­व­क­त्वात् । महतस्तेजसः संनिधौ स्वल्पं तेजोऽभिभूयते यथा सूर्यसंनिधौ दीपः । तथाच सूर्यादीनां यदभिभावकं, तत्सू­र्या­दि­भ्योऽ­प्य­धिकं तेजोन्तरमेव ॥
इति प्राप्ते, उच्यते - सूर्या­दि­भि­र­भा­स्य­तया श्रूयमाणं वस्तु चैतन्यम् । कुतः - सूर्या­द्य­भि­भा­व­कस्य मह­त­स्ते­जो­न्त­र­स्या­प्र­सि­द्ध­त्वात् । किञ्च "तमेव भान्तमनुभाति सर्वम्" इति सर्व­स्मा­त्पु­रो­भा­स­मा­नत्वं चैतन्यधर्मः । तथा - "तस्य भासा सर्वमिदं विभाति" इति प्रका­शा­प्र­का­श­रू­प­स­र्व­ज­ग­द्भा­स­कत्वं चैतन्यधर्म एव । तस्माच्चैतन्यं वाक्य­प्र­ति­पा­द्यम् ॥

(अष्टमे पर­मे­श्व­र­स्या­ङ्गु­ष्ठ­मा­त्र­त्वा­धि­क­रणे सूत्रे - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
अङ्गुष्ठमात्रो जीवः स्यादीशो वाऽल्पप्रमाणतः ॥
देहमध्ये स्थितेश्चैव जीवो भवितुमर्हति ॥ १५ ॥
भूतभव्येशता जीवे नास्त्य­तोऽ­सा­वि­हे­श्वरः ॥
स्थितिप्रमाणे ईशेऽपि स्तो हृद्य­स्यो­प­ल­ब्धितः ॥ १६ ॥
कठवल्लीषु चतु­र्थ­व­ल्ल्या­मा­म्ना­यते -
"अङ्गु­ष्ठ­मात्र पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते " इति ।
तत्र – अङ्गुष्ठमात्रो जीवः । कुतः - "अङ्गु­ष्ठ­मात्रः" इत्य­ल्प­प्र­मा­ण­त्वात् । "मध्य आत्मनि तिष्ठति" इति देह­म­ध्य­दे­शा­व­स्था­नाच्च ॥
इति प्राप्ते, ब्रूमः - परमात्मा अङ्गुष्ठमात्रः । कुतः - "ईशानो भूत­भ­व्यस्य" इत्य­ती­ता­ना­ग­त­ज­ग­दी­शि­तृ­त्व­श्र­व­णात् । न च – ईशितृत्वं जीवेऽस्ति, जीव­स्ये­शि­त­व्य­त्वात् । अल्पप्रमाणत्वं, देह­म­ध्येऽ­व­स्थानं चेश्वरस्यापि सम्भवतः, हृदयपुण्डरीके ब्रह्मण उप­ल­म्भा­त्त­द­पे­क्षया तदु­भ­य­स­ङ्की­र्त­नात् । तस्मात् - अङ्गुष्ठमात्रः परमेश्वरः ॥

(नवमे देवा­दी­ना­म­प्य­धि­का­रि­त्वा­धि­क­रणे सूत्राणि - )
नव­मा­धि­क­र­ण­मा­र­च­यति -
नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः ॥
विदेहत्वेन साम­र्थ्य­हा­ने­र्नै­षा­म­धि­क्रिया ॥ १७ ॥
अवि­रु­द्ध­ज्ञा­त­वा­दि­म­न्त्रा­दे­र्दे­ह­स­त्त्वतः ॥
अर्थित्वादेश्च सौल­भ्या­द्दे­वाद्या अधिकारिणः ॥ १८ ॥
बृहदारण्यके तृतीयाध्याये श्रूयते - "तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् , तथ­र्षी­णाम्" इति । 'देवानां मध्ये यो ब्रह्म बुबुधे स एव ब्रह्मा­भ­वत्' इत्यर्थः । तत्र 'देवर्षयो विद्यायां नाधि­क्रि­यन्ते' इति प्राप्तम् । कुतः - 'अर्थी समर्थो विद्वा­ञ्शा­स्त्रे­णा­प­र्यु­द­स्तोऽ­धि­क्रि­यते' इत्यु­क्ता­ना­म­धि­का­र­हे­तू­ना­म­श­री­रेषु देवेष्वसम्भवात् । न च – मन्त्रा­र्थ­वा­दा­दिभ्यो देवानां विग्रहवत्त्वम् , विध्ये­क­वा­क्य­ता­प­न्नानां मन्त्रादीनां स्वार्थे तात्पर्याभावात् ॥
इति प्राप्ते ब्रूमः - त्रिविधो ह्यर्थवादः - गुणवादः, अनुवादः, भूता­र्थ­वा­द­श्चेति । तथा चाऽऽह -
"विरोधे गुणवादः स्याद­नु­वा­दोऽ­व­धा­रिते ।
भूता­र्थ­वा­द­स्त­द्धा­ना­द­र्थ­वा­द­स्त्रिधा मतः" इति ।
"आदित्यो यूपः" "यजमानः प्रस्तरः" इत्यादिषु प्रत्यक्षविरोधे सत्या­दि­त्या­दि­व­द्या­ग­नि­र्वा­ह­क­त्व­गुण आदि­त्या­दि­श­ब्दै­रु­प­ल­क्ष्यत इति गुणवादः । "अग्नि­र्हि­मस्य भेषजम्" "वायुर्वै क्षेपिष्ठा देवता" इत्यादिषु माना­न्त­र­सि­द्धा­र्था­नु­वा­दि­त्वा­द­नु­वा­द­त्वम् । तयोरुभयोः स्वार्थे तात्पर्यं मा भूत् । "इन्द्रो वृत्राय वज्र­मु­द­य­च्छत्" इत्या­दि­ष्व­वि­रु­द्धे­ष्व­न­नु­वा­देषु च भूतार्थवादेषु स्वतः प्रामाण्यवादे स्वार्थे तात्पर्यस्य निवा­र­यि­तु­म­श­क्य­त्वा­त्प­दै­क­वा­क्य­तया स्वार्थेऽ­वा­न्त­र­ता­त्पर्यं प्रतिपाद्य पश्चा­द्वा­क्यै­क­वा­क्य­तया विधिषु महातात्पर्यं भूतार्थवादाः प्रतिपद्यन्ते । मन्त्रेष्वप्ययं न्यायोयोज्यः । तथाच – मन्त्रा­र्थ­वा­दा­दि­ब­ला­द्दे­वा­दीनां विग्रहवत्त्वे सति श्रवणादिषु सामर्थ्यं सुलभम् । अर्थित्वं चैश्वर्यस्य क्षयि­त्व­सा­ति­श­य­त्व­द­र्श­ना­न्मो­क्ष­सा­ध­न­ब्र­ह्म­वि­द्या­वि­ष­य­मु­प­प­द्यते । विद्वत्ता चोप­न­य­ना­ध्य­य­न­र­हि­ता­ना­मपि स्वय­म्भा­त­वे­द­त्वा­त्सु­ल­भैव । तस्मात् - देवानां विद्याधिकारो न निवारयितुं शक्यः । यद्यपि - आदि­त्या­दि­दे­व­ता­ना­मा­दि­त्या­ध्या­न­मि­श्रासु सगु­ण­ब्र­ह्म­वि­द्यासु ध्येया­ना­म­न्ये­षा­मा­दि­त्या­दी­ना­म­स­म्भ­वात् , आदि­त्य­त्वा­दि­प्रा­प्ति­ल­क्ष­णस्य विद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः, तथाऽपि निर्गु­ण­वि­द्या­या­म­धि­कारे को दोषः । तस्मा­द­स्त्ये­वा­धि­कारः ॥

(दशमे शूद्रस्य ब्रह्म­वि­द्या­या­म­न­धि­का­रा­धि­क­रणे सूत्राणि - )
दश­मा­धि­क­र­ण­मा­र­च­यति -
शूद्रोऽ­धि­क्रि­यते वेदविद्यायामथवा न हि ॥
अत्रै­व­र्णि­क­दे­वाद्या इव शूद्रोऽ­धि­का­र­वान् ॥ १९ ॥
देवाः स्वयम्भातवेदाः शूद्रोऽ­ध्य­य­न­व­र्ज­नात् ॥
नाधिकारी श्रुतौ स्मार्ते त्वधिकारो न वार्यते ॥ २० ॥
छान्दोग्यस्य चतुर्थाध्याये संव­र्ग­वि­द्या­या­मा­म्ना­यते - "आजहारेमाः शूद्र, अनेनैव मुखे­नाऽऽ­ला­प­यि­ष्यथाः" इति । जानश्रुतिर्नाम कश्चिच्छिष्यो गोसहस्रं दुहितरं मुक्ताहारं रथं कांश्चि­द्ग्रा­मां­श्चो­पा­य­न­त्वे­नाऽऽ­नीय रैक्वनामानं गुरुमुपससाद । तत्र रैक्ववचनमेतत् - 'हे शूद्र जानश्रुते, इमागोसहस्राद्या आहृतवानसि, अनेनैव दुहि­त्रा­द्यु­पा­य­न­मु­खेन मच्चित्तं प्रसा­द्यो­प­दे­श­यि­ष्यसि' इति । तत्र 'शूद्रोऽपि वेद­वि­द्या­या­म­धि­का­र­वान्' इति प्राप्तम् । अत्रै­व­र्णि­क­दे­व­दृ­ष्टा­न्ता­च्छू­द्र­स्या­प्य­त्रै­व­र्णि­कस्य तत्सम्भवात् ॥
इति प्राप्ते ब्रूमः - अस्ति देव­शू­द्र­यो­वै­ष­म्यम् । उप­न­य­ना­ध्य­य­ना­भा­वेऽपि स्वयम्भातवेदा देवाः, तादृशस्य सुकृतस्य पूर्व­मु­पा­र्जि­त­त्वात् । शूद्रस्तु तादृ­श­सु­कृ­त­रा­हि­त्यान्न स्वयम्भातवेदः । नापि तस्य वेदाध्ययनमस्ति, उपनयनाभावात् । अतो विद्व­त्ता­ख्य­स्या­धि­का­र­हे­तो­र­भा­वान्न श्रौताविद्यायां शूद्रोऽधिकारी । कथं तर्हि - उदाहृते वाक्ये जानश्रुतिविषयः शूद्रशब्दः, 'यौगि­कोऽयं, न रूढः' इति ब्रूमः । 'विद्या­रा­हि­त्य­ज­नि­तया शुचा गुरुं दुद्राव' इति शूद्रः । न च – रूढ्या योगापहारः, रूढे­र­त्रा­स­म्भ­वात् । अस्मि­न्नु­पा­ख्याने क्षत्तृ­प्रे­र­णा­द्यै­श्व­र्यो­प­न्या­सेन जानश्रुतेः क्षत्रि­य­त्वा­व­ग­मात् । ननु - शूद्रस्य वेद­वि­द्या­या­म­न­धि­कारे सति मुमुक्षायां सत्यामपि मुक्ति­र्न­सि­ध्येत् - इति चेत् । न । स्मृति­पु­रा­णा­दि­मु­खेन ब्रह्मविद्योदये सति मुक्तिसिद्धेः । तस्मात् - न शूद्रो वेद­वि­द्या­या­म­धि­क्रि­यते ॥

(एकादश ईश्वरस्यैव कम्प­न­हे­तु­ता­धि­क­रणे सूत्रम् - )
एका­द­शा­धि­क­र­ण­मा­र­च­यति -
जग­त्क­म्प­न­कृ­त्प्रा­णोऽ­श­नि­र्वा­यु­रु­ते­श्वरः ॥
अश­नि­र्भ­य­हे­तु­त्वा­द्वा­युर्वा देहचालनात् ॥ २१ ॥
वेद­ना­द­मृ­त­त्वो­क्ते­री­शोऽ­न्त­र्या­मि­रू­पतः ॥
भयहेतुश्चालनं तु सर्व­श­क्ति­यु­त­त्वतः ॥ २२ ॥
कठवल्लीषु षष्ठ­व­ल्ल्या­मा­म्ना­यते -
"यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एत­द्वि­दु­र­मृ­तास्ते भवन्ति॥" इति ।
अयमर्थः - "निःसृ­त­मु­त्पन्नं यदिदं जगत्सर्वं प्राणे निमित्तभूते सति कम्पते । तच्च प्राणशब्दवाच्यं वस्तूद्यतं वज्रमिव महाभयहेतुः । एत­त्प्रा­ण­श­ब्द­वाच्यं ये विदुः, ते मरणरहिता भवन्ति" इति । तत्र – जगत्कम्पनकारिणि प्राणे त्रेधा सन्दिग्धे सति - 'अशनिः' इति तावत्प्राप्तम् । कुतः - "मह­द्भ­यम्" इति भय­हे­तु­त्व­श्र­व­णात् । वायुर्वा भविष्यति "प्राण एजति" इति शब्द­प्रा­ण­वा­च्यस्य देहा­दि­चा­ल­न­क­र्तृ­त्वा­व­ग­मात् ॥
इति प्राप्ते, ब्रूमः - ईश्वरः प्राणशब्दवाच्यो भवितुमर्हति, "य एत­द्वि­दु­र­मृ­तास्ते भवन्ति" इति तद्वे­द­ना­द­मृ­त­त्वोक्तेः । भय­हे­तु­ताऽ­प्य­न्त­र्या­मि­रू­पे­णे­श्व­रस्य भविष्यति "भीषाऽ­स्मा­द्वातः पवते" इति श्रुत्यन्तरात् । देहादिकम्पनत्वं च सर्व­श­क्ति­त्वा­दी­श्व­र­स्यो­प­प­द्यते । तस्मात् - ईश्वरः प्राणशब्दवाच्यः ॥

(द्वादशे ब्रह्मण एव ज्योति­ष्ट्वा­धि­क­रणे सूत्रम् - )
द्वाद­शा­धि­क­र­ण­मा­र­च­यति -
परं ज्योतिस्तु सूर्यस्य मण्डलं ब्रह्म वा भवेत् ॥
समु­त्था­यो­प­स­म्प­द्ये­त्युक्त्या स्याद्र­वि­म­ण्ड­लम् ॥ २३ ॥
समुत्थानं त्वम्प­दा­र्थ­शु­द्धि­र्वा­क्या­र्थ­बो­ध­नम् ॥
सम्प­त्ति­रु­त्त­म­त्वो­क्ते­र्ब्रह्म स्यादस्य साक्ष्यतः ॥ २४ ॥
छान्दो­ग्येऽ­ष्ट­मा­ध्याये प्रजा­प­ति­वि­द्या­या­मा­म्ना­यते - "एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रू­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते स उत्तमः पुरुषः" इति । अस्यायमर्थः - 'सम्य­क्प्र­सी­द­त्य­स्या­म­व­स्था­याम्' इति सम्प्रसादः सुषुप्तिः तस्यामवस्थायां तद्वाञ्जीव उपलक्ष्यते । 'एष जीवोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय' इति । शेषं सुगमम् । तत्र ज्योतिः­श­ब्द­वाच्ये द्वेधा सन्दिग्धे सति, 'रवि­म­ण्ड­लम्' इति तावत्प्राप्तम् । कुतः - "शरी­रा­त्स­मु­त्थाय ज्योति­रु­प­स­म्पद्य" इति 'देहा­न्नि­र्गत्य ज्योतिः प्राप्नोति' इत्यु­च्य­मा­न­त्वात् । ब्रह्मप्राप्तौ निर्ग­मा­भा­वा­त्प्रा­प्तृ­प्रा­प्त­व्य­भे­दा­नु­प­प­त्तेश्च ॥
इति प्राप्ते, ब्रूमः - ज्योतिः­श­ब्द­वाच्यं ब्रह्म स्यात् । कुतः - "स उत्तमः पुरुषः" इत्यु­त्त­म­पु­रु­ष­की­र्त­ना­द्र­वि­म­ण्ड­लस्य तदयोगात् । "यो वेद – इदं जिघ्राणि - इति, स आत्मा । यो वेद – इदं शृण्वानि - इति, स आत्मा" इत्यादिना घ्रातृ - घ्राण – घ्रेय – श्रोतृ - श्रवण – श्रोत­व्या­दि­सा­क्षि­त्व­मा­त्मनः श्रूयते । तदेकवाक्यतया ज्योतिः­श­ब्द­वाच्यं ब्रह्म । यदुक्तम् - 'शरी­रा­त्स­मु­त्थाय, ज्योतीरूपं सम्पाद्य' इत्येतद्द्वयं ब्रह्मपक्षे न सम्भवति - इति । तदसत् । न ह्यत्र समुत्थानं निर्गमनम् , किं तर्हि त्वम्पदार्थस्य जीवस्य शरी­र­त्र­या­द्वि­वेकः । नाप्यु­प­स­म्पत्तिः प्राप्तिः, किं तर्हि तस्य शोधितत्वं पदार्थस्य ब्रह्म­त्वे­ना­व­बो­ध­नम् । तस्मात् - ज्योतिर्ब्रह्म ॥

(त्रयोदशे ब्रह्मण एव नाम­रू­प­नि­र्वा­ह­क­ता­धि­क­रणे सूत्रम् - )
त्रयो­द­शा­धि­क­र­ण­मा­र­च­यति -
वियद्वा ब्रह्म वाऽऽकाशो वै नामेति श्रुतं, वियत् ॥
अवकाशप्रदानेन सर्व­नि­र्वा­ह­क­त्वतः ॥ २५ ॥
निर्वोढृत्वं नियन्तृत्वं चैतन्यस्यैव तत्त्वतः ॥
ब्रह्म स्याद्वाक्यशेषे च ब्रह्मा­त्मे­त्या­दि­श­ब्दतः ॥ २६ ॥
छान्दो­ग्य­स्या­ष्ट­मा­ध्या­य­स्यान्ते श्रूयते - "आकाशो ह वै नाम­रू­प­यो­र्नि­र्व­हिता, ते यदन्तरा तद्ब्रह्य, तदमृतम् , स आत्मा" इति । "अस्या­य­मर्थः - आकाशाख्यः कश्चित्पदार्थः स च जग­द्रू­प­यो­र्ना­म­रू­प­यो­र्नि­र्व­हिता निर्वाहकः । ते च नामरूपे यस्मा­दा­का­शा­द्भिन्ने, अथवा - यस्याऽऽ­का­श­स्या­न्त­राले वर्तेते । तदाकाशं मरणरहितं ब्रह्म, तदेव प्रत्य­गात्मा" इति । तत्र "आकाशो ह वै नाम" – इति यच्छ्रुतं, तद्वियत् स्यात् , "नाम­रू­प­यो­र्नि­र्व­हिता" इत्युक्तस्य निर्वा­ह­क­त्व­स्या­व­का­श­प्र­दा­तरि वियति सम्भवात् ॥
इति प्राप्ते, ब्रूमः - अत्र निर्वाहकत्वं नाम नाव­का­श­प्र­दा­न­मा­त्रम् । किन्तु नियामकत्वम् । सर्व­प्र­का­र­नि­र्वा­ह­क­त्वस्य निय­न्तृ­त्वा­न्त­र्भा­वात् । तच्च नियन्तृत्वं चेतनस्य ब्रह्मणो युज्यते । श्रुत्यन्तरे च श्रूयते - "अनेन जीवे­नाऽऽ­त्म­नाऽ­नु­प्र­विश्य नामरूपे व्याक­र­वाणि" इति । न हि वियतोऽचेतनस्य निय­म्य­वि­शे­षा­न­जा­नतो नियन्तृत्वं सम्भवति । तत आकाशं ब्रह्म स्यात् । किञ्च वाक्यशेषे "तद्ब्रह्म, तदमृतं, स आत्मा" इति ब्रह्म­त्वा­मृ­त­त्वा­त्म­त्वानि श्रूयन्ते । ततोऽपि ब्रह्मै­वाऽऽ­का­शम् ॥

(चतुर्दशे ब्रह्मण एव विज्ञा­न­म­य­त्वा­धि­क­रणे सूत्रे - )
चतु­र्द­शा­धि­क­र­ण­मा­र­च­यति -
स्याद्वि­ज्ञा­न­मयो जीवो ब्रह्म वा जीव इष्यते ॥
आदिमध्यावसानेषु संसा­र­प्र­ति­पा­द­नात् ॥ २७ ॥
विविच्य लोकसंसिद्धं जीवं प्राणा­द्यु­पा­धितः ॥
ब्रह्म­त्व­म­न्य­तोऽ­प्राप्तं बोध्यते ब्रह्म नेतरत् ॥ २८ ॥
बृहदारण्यके षष्ठाध्याये श्रूयते - "योऽयं विज्ञानमयः प्राणिषु हृद्य­न्त­र्ज्योतिः पुरुषः समानः सन्नुभौ लोका­व­नु­स­ञ्च­रति" इति । अस्यायमर्थः - 'विज्ञा­न­मयो लिङ्गशरीरमयः । तेन स्थूल­दे­ह­व्य­ति­रेकः सिद्धः । प्राणेषु चक्षु­रा­दी­न्द्रि­येषु, प्राणादिवायुषु च, हृद्यन्तःकरणे, सप्त­मी­वि­भ­क्त्या­धा­र­त्व­नि­र्दे­शा­दा­धे­यस्य पुरु­ष­स्ये­न्द्रि­य­वा­यु­म­नो­ति­रि­क्तत्वं सिद्धम् । अन्तःशब्देन धीवृत्तिभ्यः काम­स­ङ्क­ल्पा­दिभ्यो व्यतिरेकः सिद्धः । बुद्धि­प­रि­णा­म­रू­पाणां तासां वृत्तीनां बहिर्भावात् । एवं च सति - स्थूल­दे­हे­न्द्रि­येभ्यः प्राण­वा­यु­भ्योऽ­न्तः­क­र­णा­त्त­द्वृ­त्ति­भ्यश्च व्यतिरिक्तः, तेषां साक्षित्वेन चिज्ज्यो­तिः­स्व­रूपः पुरुषः - इत्युक्तं भवति । स च पुरुषो लिङ्ग­श­री­र­ता­दा­त्म्या­ध्या­सेन लिङ्गशरीरेण समानः सन्नि­ह­लो­क­प­र­लो­का­व­नु­स­ञ्च­रति' इति । तत्र विज्ञानमयो जीवो भवितुमर्हति, ज्योति­र्ब्रा­ह्मण – शारी­र­ब्रा­ह्म­ण­यो­रा­दि­म­ध्या­व­सा­नेषु संसारस्यैव प्रप­ञ्च्य­मा­न­त्वात् । आदौ तावत् - "उभौ लोका­व­नु­स­ञ्च­रति" इति संसारोक्तिः स्पष्टा । मध्ये च – सम्प्र­सा­द­स्व­प्ना­न्त­बु­द्धा­न्त­क­ण्डि­का­भि­र­व­स्था­त्रयं प्रपञ्च्यते । अन्तेऽपि "स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयः" इत्यादिना सोपा­धि­क­स्व­रू­प­व­र्ण­नेन संसार एवोच्यते । तस्मात् - जीवः ॥
इति प्राप्ते, ब्रूमः - न तावज्जीवोऽत्र प्रतिपाद्यः, लौकि­का­द­हं­प्र­त्य­या­देव सिद्धत्वात् । किमर्थं तर्हि जीवाद्यभिधानम् - इति चेत् । प्राणा­द्यु­पा­धिभ्यो विवे­क्तु­मा­दा­व­भि­धा­नम् । मध्येऽ­प्य­व­स्था­त्र­य­स­ङ्ग­रा­हित्यं दर्श­यि­तु­म­भि­धी­यते । अन्ते तूक्त­जी­व­स्व­रू­प­म­नूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते । ब्रह्मत्वस्य माना­न्त­रे­णा­प्रा­प्त­त्वात् । तस्मात् - ब्रह्मात्र प्रतिपाद्यम् , न तु जीवः । इति सिद्धम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्र­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि १४ ३२
सूत्राणि ४३ १०७

(प्रथमे कार­ण­श­री­र­स्यै­वा­व्य­क्त­श­ब्द­वा­च्य­ता­धि­क­रणे सूत्राणि - )
चतुर्थपादस्य प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
महतः परमव्यक्तं प्रधानमथवा वपुः ॥
प्रधानं साङ्ख्य­शा­स्त्रो­क्त­त­त्त्वानां प्रत्यभिज्ञया ॥ १ ॥
श्रुता­र्थ­प्र­त्य­भि­ज्ञा­ना­त्प­रि­शे­षाच्च तद्वपुः ॥
सूक्ष्म­त्वा­त्का­र­णा­व­स्थ­म­व्य­क्ताख्यां तदर्हति ॥ २ ॥
कठवल्लीषु तृती­य­व­ल्ल्या­मा­म्ना­यते -
"महतः पर­म­व्य­क्त­म­व्य­क्ता­त्पु­रुषः परः" इति ।
अत्र – अव्यक्तशब्देन साङ्ख्याभिमतं प्रधानमभिधीयते । कुतः - प्रत्य­भि­ज्ञा­नात् । मह­द­व्य­क्त­पु­रुषाः साङ्ख्यशास्त्रे परापरभावेन यथा प्रसिद्धाः, तथैव श्रुतौ प्रत्य­भि­ज्ञा­यन्ते । तस्मात् - अव्य­क्त­श­ब्द­वाच्यं प्रधानम् ॥
इति प्राप्ते, ब्रूमः - अव्य­क्त­श­ब्द­वाच्यं वपु­र्भ­वि­तु­म­र्हति । पूर्व­वा­क्यो­क्त­श­री­र­स्यात्र प्रत्य­भि­ज्ञा­नात् । पूर्व­स्मि­न्वाक्ये शरीरादीनि रथा­दि­त्वे­नो­क्तानि -
"आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
इन्द्रियाणि हया­ना­हु­र्वि­ष­यां­स्तेषु गोचरान्" इति ।
तानि पूर्व­वा­क्यो­क्तानि वस्तू­न्य­स्मि­न्वाक्ये प्रत्य­भि­ज्ञा­यन्ते ।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धि­र्बु­द्धे­रात्मा महान्परः ॥
महतः पर­म­व्य­क्त­म­व्य­क्ता­त्पु­रुषः परः ।
इति स्मार्त­प्र­त्य­भि­ज्ञा­ना­दपि श्रौतं प्रत्यभिज्ञानं प्रत्या­स­न्न­त्वा­त्प्र­ब­लम् । नन्वेवमपि बहूनां प्रत्य­भि­ज्ञा­य­मा­न­त्वा­च्छा­री­र­मे­वा­व्य­क्त­श­ब्द­वा­च्यम् - इति कुतो विनिगमः । 'परि­शे­षात्' इति ब्रूमः । तथाहि - पूर्व­स्मि­न्वाक्ये इन्द्रि­या­र्थ­म­नो­बु­द्धि­श­ब्दै­र्नि­र्दिष्टाः पदार्थाः, उत्त­र­स्मि­न्वाक्ये तैरेव शब्दै­र्नि­र्दि­श्यन्ते । पूर्व­त्राऽऽ­त्म­श­ब्देन निर्दिष्टं वस्तूत्तरत्र पुरु­ष­श­ब्दे­नो­प­दि­ष्टम् । उत्तरवाक्ये महच्छब्देन यदुक्तम् , तत्पूर्ववाक्ये बुद्धिशब्देन सङ्गृहीतम् । बुद्धिर्हि द्विधा - अस्मदादीनां बुद्धिरेका, तत्कारणभूता हिर­ण्य­ग­र्भ­बू­द्धि­र­परा महच्छब्दवाच्या । तयोः पूर्वत्रैकत्वेन निर्दि­ष्ट­यो­रु­त्त­रत्र भेदेन निर्देशः । एवं सति पूर्ववाक्ये शरीरमेकं परिशिष्टम् , उत्तरवाक्ये चाव्यक्तशब्दः परिशिष्यते । न च – एवं परिशेषेऽपि शरीरस्य स्पष्ट­त्वा­द­व्य­क्त­श­ब्द­वा­च्य­त्व­म­नु­प­प­न्नम् - इति शङ्कनीयम् , कार­णा­व­स्था­प­न्नस्य शरीरस्य सूक्ष्म­त्वे­ना­स्प­ष्ट­त­याऽ­व्य­क्त­श­ब्दा­र्ह­त्वात् । तस्मात् - अव्य­क्त­श­ब्द­वाच्यं वपुः ॥

(द्वितीये तेजो­ब­न्ना­त्म­क­प्र­कृ­ते­रे­वा­जा­त्वा­धि­क­रणे सूत्राणि - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
अजेह साङ्ख्य­प्र­कृ­ति­स्ते­जो­ब­न्ना­त्मि­काऽ­थवा ॥
रजआदौ लोहि­ता­दि­ल­क्ष्येऽसौ साङ्ख्य­शा­स्त्रगा ॥ ३ ॥
लोहि­ता­दि­प्र­त्य­भिज्ञा तेजो­ब­न्ना­दि­ल­क्ष­णाम् ॥
प्रकृतिं गम­ये­च्छ्रौ­ती­म­जा­क्लृ­प्ति­र्म­धु­त्व­वत् ॥ ४ ॥
श्वेता­श्व­त­रो­प­नि­षदि चतुर्थाध्याये श्रूयते - "अजामेकां लोहि­त­शु­क्ल­कृ­ष्णाम्" इति । अत्र – अजाशब्देन साङ्ख्य­शा­स्त्रोक्ता प्रधा­न­श­ब्द­वाच्या प्रकृ­ति­र्वि­व­क्षिता । अथवा - छान्दोग्य श्रुतावुक्ता तेजोबन्नात्मिका प्रकृतिः, इति सन्देहे 'प्रधा­नम्' इति तावत्प्राप्तम् । कुतः - सत्त्व­र­ज­स्त­मो­गु­णा­त्म­त्व­प्र­तीतेः । यद्यपि लोहि­त­शु­क्ल­कृ­ष्ण­वर्णा एव श्रूयन्ते, न तु गुणाः । तथाऽपि लोहि­ता­दि­श­ब्दै­र्गुणा लक्ष्यन्ते । तत्र लोहितशब्देन रञ्ज­क­त्व­सा­म्या­द्र­जो­गुण उपलक्षितः, शुक्लशब्देन स्वच्छ­त्व­सा­म्या­त्स­त्त्व­गुणः, कृष्ण­श­ब्दे­नाऽऽ­व­र­क­त्व­सा­म्या­त्त­मो­गुणः । एवंसति शास्त्रा­न्त­र­प्र­ती­ति­र­नु­गृ­हीता भवति । तस्मात् - प्रधानम् ॥
इति प्राप्ते, ब्रूमः - "यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपाम् , यत्कृष्णं तदन्नस्य" इति छान्दोग्ये तेजो­ब­न्ना­त्मि­कायाः प्रकृ­ते­र्लो­हि­त­शु­क्ल­कृ­ष्ण­रू­पाणि श्रुतान्येवात्र प्रत्य­भि­ज्ञा­यन्ते । तत्र श्रौत­प्र­त्य­भि­ज्ञायाः प्राबल्यात् , लोहि­ता­दि­श­ब्दानां मुख्या­र्थ­स­म्भ­वाच्च तेजोबन्नात्मिका प्रकृतिरजेति गम्यते । यद्यपि - अजा­श­ब्द­श्छ­ग­वा­चि­त्वा­न्नो­क्त­प्र­कृतौ रूढः । नापि 'न जायते' इति योगः सम्भवति, तेजोबन्नानां ब्रह्मणो जातत्वात् । तथाऽपि च्छाग­त्व­मु­क्त­प्र­कृतौ सुखावबोधाय परिकल्प्यते । यथा - आदित्यस्यामधुनो मधुत्वम् "असौ वा आदित्यो देवमधु" इत्यादिवाक्येन परिकल्पितम् , तद्वत् । तस्मात् - तेजोबन्नात्मिका प्रकृतिरजा, न साङ्ख्यो­प­स­ङ्ग्र­हा­दपि ॥

(तृतीये प्राणादीनामेव पञ्च­ज­न­त्वा­धि­क­रणे सूत्राणि - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
पञ्च पञ्चजनाः साङ्ख्य­त­त्त्वा­न्याहो श्रुतीरिताः ॥
प्राणाद्याः साङ्ख्य­त­त्त्वानि पञ्च­विं­श­ति­भा­स­नात् ॥ ५ ॥
न पञ्च­विं­श­ते­र्भा­न­मा­त्मा­का­शा­ति­रे­कतः ॥
संज्ञा पञ्चजनेत्येषा प्राणाद्याः संज्ञिनः श्रुताः ॥ ६ ॥
बृहदारण्यके षष्ठाध्याये श्रूयते -
"यस्मि­न्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वा­न्ब्र­ह्मा­मृ­तोऽ­मृ­तम्" ॥
अस्यायमर्थः - 'पञ्च पञ्चजना आकाशश्च यस्मि­न्ना­श्रिताः, तमे­वाऽऽ­श्र­य­भू­त­मा­त्मा­न­म­मृतं ब्रह्म मन्ये । इत्थं विद्वानहममृतो भवामि' इति । तत्र – "पञ्च पञ्चजनाः" इति प्रोक्ताः पदार्थाः किं साङ्ख्य­शा­स्त्रो­क्त­त­त्त्वानि, आहोस्वित् - श्रुतिप्रोक्ताः प्राण­च­क्षुः­श्रो­त्र­म­नो­न्न­सं­ज्ञकाः, - इति सन्देहे, 'साङ्ख्य­त­त्त्वानि' इति तावत्प्राप्तम् । कुतः - पञ्च­विं­श­ति­स­ङ्ख्यायाः साङ्ख्य­शा­स्त्र­प्र­सि­द्धाया अत्रावभासनात् । तथाहि - 'पञ्च पञ्च' इति शब्दद्वयं श्रूयते । तत्रैकेन पञ्चशब्देन तत्त्वगता पञ्चसङ्ख्या विवक्षिता, द्वितीयेन पञ्च­स­ङ्ख्या­वि­ष­याऽ­परा पञ्चसङ्ख्या विवक्षिता । तथाच 'पञ्च­स­ङ्ख्या­वि­शि­ष्टानि तत्त्व­प­ञ्च­कानि' इत्युक्तं भवति । ततश्च पञ्चभिः पञ्चकैः पञ्च­विं­श­त्य­व­भा­स­नात् ॥
साङ्ख्य­त­त्त्वानां प्राप्तौ ब्रूमः - यद्यपि पञ्च­स­ङ्ख्या­वि­ष­याऽ­परा पञ्चसङ्ख्या श्रूयते, तथाऽपि न पञ्चविंशतिरियं भवितुं शक्नोति, पञ्च­विं­श­ति­स­ङ्ख्यानां तत्त्वा­ना­मा­श्र­य­त्वे­नाऽऽ­त्म­नोऽ­व­भा­स­नात् । नह्ययमात्मा पञ्च­विं­श­त्य­न्तः­पाती । तथाच सति 'एक­स्यै­वाऽऽ­धे­य­त्व­मा­धा­रत्वं च' इति विरोधप्रसङ्गात् । आकाशोऽप्यपरः श्रूयते । न च तस्यापि पञ्च­विं­श­त्य­न्तः­पा­ति­त्वम् , "आका­शश्च" इति पृथ­ग्नि­र्दे­श­स­मु­च्च­य­यो­र्वि­धा­नात् । तत आत्माकाशाभ्यां सह सप्त­विं­श­ति­स­म्प­त्तेर्न साङ्ख्य­त­त्त्वा­ना­म­त्रा­व­काशः । कस्तर्हि वाक्यार्थः - उच्यते - पञ्चजनशब्दोऽयं समस्तः संज्ञावाची, "दिक्सङ्ख्ये संज्ञा­याम्" (पा० सू० २ । १ । ५०) इति समासविधानात् । ततः 'पञ्च­ज­न­सं­ज्ञकाः पदार्थाः पञ्च­स­ङ्ख्याकाः' इत्युक्तं भवति । संज्ञिनस्तु वाक्य­शे­षा­त्प्रा­णा­द­योऽ­व­ग­न्तव्याः । "प्राणस्य प्राणमुत चक्षु­ष­श्च­क्षु­रुत श्रोत्रस्य श्रोत्र­मु­ता­न्न­स्या­न्नम् , मनसो ये मनो विदुः" इति वाक्य़शेषः । प्राणादीनां पञ्चानां साक्षी चिदात्मा द्वितीयैः प्राणा­दि­श­ब्दै­र­भि­धी­यते । तस्मा­द्वा­क्य­शे­षा­त्प्रा­णा­दयः पञ्चजना भवेयुः ॥

(चतुर्थे जगद्योनौ ब्रह्मण्येव वेदा­न्त­वा­क्य­स­म­न्व­या­धि­क­रणे सूत्रे - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
समन्वयो जगद्योनौ न युक्तो युज्यतेऽथवा ॥
न युक्तो वेदवाक्येषु परस्परविरोधतः ॥ ७ ॥
सर्ग­क्र­म­वि­वा­देऽपि नासौ स्रष्टरि विद्यते ॥
अव्या­कृ­त­म­स­त्प्रोक्तं युक्तोऽसौ कारणे ततः ॥ ८ ॥
योऽयं वेदान्तसमन्वयो जगत्कारणविषयः सार्धैस्त्रिभिः पादैः प्रतिपादितः, तमाक्षिप्य समा­धा­तु­म­य­मा­रम्भः - 'न युक्तोऽयं समन्वयः' इति तावत्प्राप्तम् । कुतः - वेदान्तेषु बहुशो विरोधप्रतीतेः प्रामाण्यस्यैव दुःसम्पादत्वात् । तथाहि - "आत्मन आकाशः सम्भूतः" इति तैत्तिरीयके वियदादीन्प्रति स्रष्टृत्वं श्रूयते, छान्दोग्ये - "तत्ते­जोऽ­सृ­जत" इति तेज आदीन्प्रति । ऐतरेयके- "स इमा­ल्लो­का­न­सृ­जत" इति लोकान्प्रति । मुण्डके - "एत­स्मा­ज्जा­यते प्राणः" इति प्राणादीन्प्रति । न केवलं कार्यद्वारेणैव विरोधः, किन्तु कार­ण­स्व­रू­पो­प­न्या­सेऽपि - "सदेव सौम्येदमग्र आसीत्" इति च्छान्दोग्ये सद्रूपत्वं कारणस्यावगम्यते । तैत्तिरीयके - "असद्वा इदमग्र आसीत्" इत्यसद्रूपत्वम् । ऐतरेयके तु - "आत्मा वा इदमेक एवाग्र आसीत्" इत्या­त्म­रू­प­त्वम् । अतो विरोधान्न समन्वयः ॥
इति प्राप्ते, ब्रूमः - भवतु नाम सृष्टेषु वियदादिषु तत्क्रमे च विवादः । विय­दा­दी­ना­म­ता­त्प­र्य­वि­ष­य­त्वा­द­द्वि­ती­य­ब्र­ह्म­बो­धा­यैव तदुपन्यासः । तात्पर्यविषये तु जगत्स्रष्टरि ब्रह्मणि न क्वापि विरोधोऽस्ति । क्वचि­त्स­च्छ­ब्दे­नो­क्तस्य ब्रह्मणोऽन्यत्र सर्व­जी­व­स्व­रू­प­वि­व­क्ष­याऽऽ­त्म­श­ब्दे­ना­भि­धा­नात् । यत्तु - अस­च्छ­ब्दे­ना­भि­धा­नम् , तद­व्य­कृ­त­त्वा­भि­धा­ना­भि­प्रा­यम् । न त्वत्य­न्ता­भा­वा­भि­प्रा­यम् , "कथमसतः सज्जायेत" इति श्रुत्य­न्त­रे­णा­भा­वस्य कारणत्वनिषेधात् । तस्मात् - एकवाक्यतायाः सुस­म्पा­द­त्वा­द्युक्तो जगत्कारणे समन्वयः ॥

(पञ्चमे परमात्मन एव जग­त्क­र्तृ­त्वा­धि­क­रणे सूत्राणि - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
पुरुषाणां तु कः कर्ता प्राण­जी­व­प­रा­त्मसु ॥
कर्मेति चलने प्राणो जीवोऽपूर्वे विवक्षिते ॥ ९ ॥
जगद्वाची कर्मशब्दः पुंमा­त्र­वि­नि­वृ­त्तये ॥
तत्कर्ता परमात्मैव न मृषावादिता ततः ॥ १० ॥
कौषी­त­कि­ब्रा­ह्म­णो­प­नि­षदि बालाकिनाम्ना ब्राह्म­णे­नाऽऽ­दि­त्या­दिषु षोडशसु पुरुषेषु ब्रह्म­त्वे­नो­क्तेषु राजा तान्निराकृत्य स्वयमाह – "यो वै बालाके, एतेषां पुरुषाणां कर्ता, यस्य वै तत्कर्म, स वै वेदितव्यः" इति । अत्र त्रेधा संशये सति 'प्राणः' इति तावत्प्राप्तम् । कुतः - कर्मशब्दस्य चलनवाचित्वात् । देहादिचालनस्य प्राणा­स­म्ब­न्धि­त्वात् । अथवा - पुरुषाणां कर्ता जीवो भवेत् । कुतः - कर्म­श­ब्द­स्या­पू­र्व­वा­चि­त्वात् । जीवस्य चापू­र्व­स्वा­मि­त्वात् सर्वथा न परमात्मा ॥
इति प्राप्ते, ब्रूमः - नात्र कर्मशब्दश्चलने वर्तते, नाप्यपूर्वे । किन्त्वयं जगद्वाची, 'क्रियत इति कर्म' इति व्युत्पत्तेः । सति जगद्वाचित्वे कर्मशब्दः सप्रयोजनो भविष्यति, पुरु­ष­मा­त्र­क­र्तृ­त्व­श­ङ्का­नि­वृ­त्त्य­र्थ­त्वात् । तथाच श्रुति­वा­क्या­क्ष­रा­ण्येवं योजयितव्यानि - 'हे बालाके त्वदुक्तानां पुरुषाणां षोडशानां यः कर्ता स एव वेदितव्यः' । न तु ते पुरुषाः । अथवा किमनेन 'षोडशानां कर्ता' इति सङ्कोचेन – एतत्कृत्स्नं जगद्यस्य कार्यम् , 'स एव वेदितव्यः' इति । कृत्स्न­ज­ग­त्क­र्तृत्वं च परमात्मन एव । न जीवप्राणयोः । एवं सति राज्ञो मृषावादित्वदोषो न भवति, "ब्रह्म ते ब्रवाणि" इति प्रतिज्ञाय षोडश पुरुषान्ब्रुवतो बालाकेः "मृषा वै किल" – इत्यनेन मृषा­वा­दि­त्व­मा­पाद्य राजा स्वयं ब्रह्म विवक्षुर्यदि प्राणजीवौ ब्रूयात् , तदा बालाकेरिव राज्ञो मृषावादित्वं स्यात् । तच्चायुक्तम् । तस्माद् - वाक्योक्तो जगत्कर्ता परमात्मैव ॥

(षष्ठे परमात्मन एव दर्श­न­यो­ग्या­त्म­त्वा­धि­क­रणे सूत्रिाणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
आत्मा द्रष्टव्य इत्युक्तः संसारी वा परेश्वरः ॥
संसारी पति­जा­या­दि­भो­ग­प्री­त्याऽस्य सूचनात् ॥ ११ ॥
अमृ­त­त्व­मु­प­क्रम्य तद­न्तेऽ­प्यु­प­सं­हृ­तम् ॥
संसा­रि­ण­म­नू­द्यातः परेशत्वं विधीयते ॥ १२ ॥
बृहदारण्यके चतुर्थाध्याये मैत्रेयीं भार्यां प्रति याज्ञवल्क्यः पतिरुपदिशति - "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः" इति । अत्र – आत्मनि द्वेधा सन्दिग्धे सति 'संसारी' इति तावत्प्राप्तम् । कुतः - "न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति" इत्या­दि­वा­क्यै­र्भो­ग­प्री­ति­यु­क्त­स्याऽऽ­त्मनः संसा­रि­त्व­सू­च­नात् । अयमत्र वाक्यार्थः - 'पत्यौ प्रीतिं कुर्वती जाया न पत्युः सुखाय प्रीतिं करोति । किन्तु स्वसु­खा­यैव' । एवं पतिपुत्रादयोऽपि स्वस्व­भो­गा­यै­वे­त­रत्र प्रीतिं कुर्वन्ति, इति भोगश्च नास­ङ्ग­स्ये­श्व­र­स्या­व­क­ल्प्यते । तस्मात् - संसारी ।
इति प्राप्ते, ब्रूमः - एत­द्वा­क्यो­प­क्रमे मैत्रेयी 'वित्त­सा­ध्येन कर्मणा किं ममामृतत्वं स्यात्' इति पप्रच्छ । याज्ञवल्क्यस्तु "अमृतस्य तु नाऽऽशाऽस्ति वित्तेन" इति 'अमृत्वं प्रत्याशाऽपि कर्मणा नास्ति' इत्युत्तरमाह । ब्राह्म­णा­व­सा­नेऽपि "एतावदरे खल्व­मृ­त­त्वम्" इत्युपसंहृतम् । अत उप­क्र­मो­प­सं­हा­र­व­शा­द­मृ­त­त्व­सा­ध­न­मा­त्म­ज्ञा­न­मत्र प्रतिपाद्यम् । जीवात्मज्ञानं च नामृतत्वसाधनम् । तस्मात् - भोगप्रीतिसूचितं जीवमनूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते ॥

(सप्तमे ब्रह्मण एवो­पा­दा­न­नि­मि­त्त­का­र­ण­त्वा­धि­क­रणे सूत्राणि - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
निमित्तमेव ब्रह्म स्यादुपादानं च वीक्षणात् ॥
कुला­ल­व­न्नि­मित्तं तन्नोपादानं मृदादिवत् ॥ १३ ॥
बहु स्यामि­त्यु­पा­दा­न­भा­वोऽपि श्रुत ईक्षितुः ॥
एकबुद्ध्या सर्वधीश्च तस्मा­द्ब्र­ह्मो­भ­या­त्म­कम् ॥ १४ ॥
जग­त्का­र­ण­त्व­प्र­ति­पा­द­कानि सर्वाणि वाक्यानि विषयः । तत्र – 'किं ब्रह्म निमित्तकारणमेव, उत – उपा­दा­न­का­र­ण­मपि' इति सन्देहे 'निमि­त्ति­का­र­ण­मेव' इति तावत्प्राप्तम् । कुतः - "तदै­क्षत" – इति सृज्य­का­र्य­वि­ष­य­प­र्या­लो­च­न­श्र­व­णात् । पर्यालोचनं च निमित्तभूते कुलालादावेव दृष्टम् । नोपा­दा­न­भू­त­मृ­दादौ । तस्मात् - निमित्तकारणमेव ॥
इति प्राप्ते, ब्रूमः - "तदैक्षत बहु स्यां प्रजायेय" इतीक्षितुरेव प्रक­र्षे­णो­त्पत्त्या बहुभावः श्रूयते । तत उपादानत्वमस्ति । किञ्च "येना­श्रुतं श्रुतं भवति" इत्यादिना ब्रह्म­ण्ये­क­स्मि­ञ्छ्रुते सति, अश्रुतमपि जगच्छ्रुतमेव भवति इति प्रतिपाद्यते । तदेकविज्ञानेन सर्वविज्ञानं च । तच्च ब्रह्मणः सर्वोपादानत्वे सति ब्रह्म­व्य­ति­रे­केण कार्या­णा­म­भा­वा­दु­प­पा­द­यितु सुशकम् । केवलनिमित्तत्वे तु सर्वेषु कार्येषु ब्रह्म­व्य­ति­रि­क्तेषु सत्सु कथं नामैकविज्ञानेन सर्वविज्ञानं प्रतिपाद्यते । तस्मात् - उभयविधकारणं ब्रह्म ॥

(अष्टमे ब्रह्मण एव जग­त्का­र­ण­त्वा­धि­क­रणे सूत्रम् - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
अण्वादेरपि हेतुत्वं श्रुतं ब्रह्मण एव वा ॥
वट­धा­ना­दि­दृ­ष्टा­न्ता­द­ण्वा­दे­रपि तच्छ्रुतम् ॥ १५ ॥
शून्या­ण्वा­दि­ष्वे­क­बुद्ध्या सर्वबुद्धिर्न युज्यते ॥
स्युर्ब्र­ह्म­ण्यपि धानाद्यास्ततो ब्रह्मैव कारणम् ॥ १६ ॥
वेदान्ता विषयः । तत्र किं ब्रह्मण इव पर­मा­णु­शू­न्या­दी­ना­मपि श्रौतं कारणत्वमस्ति, अथवा - सर्वत्र ब्रह्मण एव कारणत्वं प्रतिनियतम् , इति संश्यः । अण्वादेरपि कारणत्वं श्रौतम् । वट­धा­ना­दि­दृ­ष्टा­न्त­श्र­व­णात् । तथा हि - छान्दोग्ये षष्ठाध्याये श्वेतकेतुं प्रत्यु­प­दि­श­न्नु­द्दा­लकः सूक्ष्मतत्त्वे स्थूलस्य जगतोऽन्तर्भावं प्रतिपादयितुं महा­वृ­क्ष­ग­र्भि­तानि वटबीजानि दृष्टा­न्त­त्वे­नो­दा­ज­हार । अतस्तादृशाः परमाणवो दार्ष्टान्तिके श्रुता भवन्ति । शून्यस्य तु "असद्वा इदमग्र आसीत्" इति साक्षादेव कारणत्वं श्रुतं ।"स्वभा­व­मेके कवयो वदन्ति, कालं तथाऽन्ये" इति स्वभावकालपक्षौ श्रुतौ । तस्मात् - परमाण्वादीनामपि श्रौतं कारणत्वम् ॥
इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं शून्यादिमतेषु नोपपद्यते । शून्या­दि­भि­र­ज­न्यस्य ब्रह्मणः शून्या­दि­ज्ञा­ने­ना­ज्ञा­त­त्वात् । धाना­दृ­ष्टा­न्तस्तु ब्रह्म­ण्य­पी­न्द्रि­या­ग­म्य­तया सूक्ष्म­त्वा­दु­प­प­द्यते । असच्छब्दस्य नाम­रू­प­रा­हि­त्या­भि­प्रा­य­श्च­तु­र्था­धि­क­रणे वर्णितः । स्वभावकालपक्षौ तु पूर्वपक्षत्वेन श्रुत्यो­प­न्यस्तौ । तस्मात् - ब्रह्मैव श्रुत्यभिहितं जगत्कारणं, न परमाण्वादीनि, इति सिद्धम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ ४ ॥
॥ समाप्तश्च प्रथमोऽध्यायः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि ८ ४०
सूत्राणि २८ १३५