वैयासिकन्यायमाला
१ परिच्छेदः
प्रारिप्सितग्रन्थस्याविघ्नेन परिसमाप्तये प्रचयगमनाय शिष्टाचारपरिपालनाय च विशिष्टेष्टदेवतातत्वं गुरुमूर्त्युपाधियुक्तं नमस्कृत्य ग्रन्थं प्रतिजानीते
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ॥
वैयासिकन्यायमाला श्लोकैः सङ्गृह्यते स्फुटम् ॥ १ ॥
प्रणम्येति । व्यासेनोक्ता वैयासिकी वेदान्तवाक्यार्थनिर्णायकान्यधिकरणानि न्यायाः, तेषामनुक्रमेण ग्रथनं माला । यद्यप्येषा सूत्रभाष्यकारादिभिः प्रपञ्चिता, तथाऽपि सूत्रादीनामतिप्राज्ञविषयत्वान्मन्दबुद्ध्यनुग्रहाय श्लोकैरेषा माला स्फुटं सङ्गृह्यते ॥
तेत्रैकैकमधिकरणं पञ्चावयवम् । विषयः, सन्देहः, सङ्गतिः, पूर्वपक्षः, सिद्धान्तश्चेति पञ्चावयवाः । तेषां सङ्ग्रहप्रकारं दर्शयति -
एको विषयसन्देहपूर्वपक्षावभासकः ॥
श्लोकोऽपरस्तु सिद्धान्तवादी सङ्गतयः स्फुटाः ॥ २ ॥
तत्रैकैकस्याधिकरणस्य सङ्ग्राहकौ द्वौ द्वौ श्लोकौ । तयोराद्यश्लोकस्य पूर्वार्धेन द्वाववयवौ सङ्गृह्येते । उत्तरार्धेनैकः । द्वितीयश्लोकेन चैकः । यद्यपि सङ्गत्याख्य एषोऽवयवः शिष्यते, तथाऽपि - प्रत्यधिकरणं न पृथक्सङ्ग्रहीतव्यो भवति । सकृद्व्युत्पन्नस्य पुरुषस्य स्वयमेवोहितुं शक्यत्वात् ॥
सङ्गतिं विभज्य व्युत्पादयति -
शास्त्रेेऽध्याये तथा पादे न्यायसङ्गतयस्त्रिधा ॥
शास्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यताम् ॥ ३ ॥
शास्त्रप्रतिपाद्यम् , अध्यायप्रतिपाद्यम् , पादप्रतिपाद्यं चार्थमवगम्य शास्त्रसङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिश्च, - इति तिस्रः सङ्गतय ऊहितुं शक्यन्ते ॥
शास्त्रप्रतिपाद्यम् , अध्यायप्रतिपाद्यं च दर्शयति -
शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः ॥
समन्वयाविरोधौ द्वौ साधनं च फलं तथा ॥ ४ ॥
सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्पर्येण पर्यवसानं प्रथमेनाध्यायेन प्रतिपाद्यते । द्वितीयेन सम्भावितविरोधः परिह्रियते । तृतीयेन विद्यासाधननिर्णयः । चतुर्थेन विद्याफलनिर्णयः । इत्येतेऽध्यायानामर्थाः ॥
तत्र प्रथमाध्यायगतपादार्थान्विभजते -
समन्वये स्पष्टलिङ्गमस्पष्टत्वेऽप्युपास्यगम् ॥
ज्ञेयगं पदमात्रं च चिन्त्यं पादेष्वनुक्रमात् ॥ ५ ॥
स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम् । तद्यथा - "अन्तस्तद्धर्मोपदेशात्" (ब्र० सू० १ । १ । २०) इत्यत्र सार्वज्ञ्य – सार्वात्म्य – सर्वपापविरहादिकं ब्रह्मणोऽसाधारणतया स्पष्टं लिङ्गम् । अस्पष्टब्रह्मलिङ्गत्वे सत्युपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम् । तद्यथा - प्रथमाधिकरणविषये शाण्डिल्योपास्तिवाक्ये मनोमयत्वप्राणशरीरत्वादिकं सोपाधिकब्रह्मणो जीवस्य च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । तृतीयपादे त्वस्पष्टब्रह्मलिङ्गत्वे सति ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम् । तद्यथा - प्रथमाधिकरणे मुण्डकगतब्रह्मात्मतत्त्ववाक्ये द्युपृथिव्यन्तरिक्षप्रोतत्वं सूत्रात्मनः परब्रह्मणश्च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । यद्यपि द्वितीयपादे कठवल्ल्यादिगतब्रह्मतत्त्ववाक्यानि विचारितानि, तृतीयपादे च दहरोपासनवाक्यं विचारितम् । तथाऽप्यवान्तरसङ्गतिलोभेन तद्विचारस्य प्रासङ्गिकत्वान्न पादार्थयोः साङ्कर्यापत्तिः । इत्थं पादत्रयेण वाक्यविचारः समापितः । चतुर्थपादेनाव्यक्तपदमजापदं चेत्येवमादि सन्दिग्धं पदं चिन्त्यम् ॥
द्वितीयाध्यायगतपादार्थान्विभजते -
द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता ॥
भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता ॥ ६ ॥
प्रथमपादे- साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः । द्वितीयपादे- साङ्ख्यादिमतानां दुष्टत्वं दर्शितम् । तृतीयपादे - पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम् । चतुर्थपादे - लिङ्गशरीरश्रुतीनां विरोधपरिहारः ॥
तृतीयाध्यायगतपादार्थान्विभजते -
तृतीये विरतिस्तत्त्वम्पदार्थपरिशोधनम् ॥
गुणोपसंहृतिर्ज्ञानबहिरङ्गादिसाधनम् ॥ ७ ॥
प्रथमपादे - जीवस्य परलोकगमनागमने विचार्य वैराग्यं निरूपितम् । द्वितीयपादे - पूर्वभागेन त्वम्पदार्थः शोधितः, उत्तरभागेन तत्पदार्थः । तृतीयपादे - सगुणविद्यासु गुणोपसंहारो निरूपितः । निर्गुणे ब्रह्मण्यपुनरुक्तपदोपसंहारश्च । चतुर्थपादे च - निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूतशमदमनिदिध्यासनादीनि च निरूपितानि ॥
चतुर्थाध्यायगतपादार्थान्विभजते -
चतुर्थे जीवतो मुक्तिरुत्क्रान्तेर्गतिरुत्तरा ॥
ब्रह्मप्राप्तिब्रह्मलोकाविति पादार्थसङ्ग्रहः ॥ ८ ॥
प्रथमपादे - श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता । द्वितीयपादे - म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः । तृतीयपादे - सगुणविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थपादे - पूर्वभागेन निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरभिहिता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्मलोके स्थितिर्निरूपिता । एवं पादार्थाः सङ्गृहीताः ॥
सन्त्वेवंं शास्त्राध्यायपादप्रतिपाद्या अर्थाः । किं तत इत्यत आह -
ऊहित्वा सङ्गतीस्तिस्रस्तथाऽवान्तरसङ्गतीः ॥
ऊहेदाक्षेपदृष्टान्तप्रत्युदाहरणादिकाः ॥ ९ ॥
तद्यथा - ईक्षत्यधिकरणे - "तदैक्षत" – इति वाक्यं प्रधानपरं, ब्रह्मपरं वा, इति विचार्यते । तस्य विचारस्य ब्रह्मसम्बन्धित्वाद्ब्रह्मविचारशास्त्रसङ्गतिः । "वाक्यं ब्रह्मणि तात्पर्यवत्" इति निर्णयात्समन्वयाध्यायसङ्गतिः । ईक्षणस्य चेतने ब्रह्मण्यसाधारणत्वेन स्पष्टब्रह्मलिङ्गत्वात्प्रथमपादसङ्गतिः । एवं सर्वेष्वप्यधिकरणेषु यथायथं सङ्गतित्रयमूहनीयम् । अवान्तरसङ्गतिस्त्वनेकधा भिद्यते - आक्षेपसङ्गतिः, दृष्टान्तसङ्गतिः, प्रत्युदाहरणसङ्गतिः, प्रासङ्गिकसङ्गतिः, इत्येवमादिः ॥
सेयमवान्तरसङ्गतिर्व्युत्पन्नेनोहितुं शक्यते । अतस्तां व्युत्पादयति -
पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये ॥
पूर्वपक्षस्य युक्तिं च तत्राऽऽक्षेपादि योजयेत् ॥ १० ॥
तद्यथा प्रथमाधिकरणे 'ब्रह्मविचारशास्त्रमारम्भणीयम्' इति सिद्धान्तः । तत्र युक्तिः - 'ब्रह्मणः सन्दिग्धत्वात्' इति । द्वितीयाधिकरणस्य 'जगज्जन्मादि ब्रह्मलक्षणं न भवति' इति पूर्वपक्षः । तत्र युक्तिः - 'जन्मादेर्जगन्निष्ठत्वात्' इति । तदुभयमवलोक्य तयोराक्षेपसङ्गतिं योजयेत् । 'सन्दिग्धत्वाद्ब्रह्म विचार्यम्' इत्येतदयुक्तम् । जन्मादेरन्यनिष्ठत्वेन ब्रह्मणो लक्षणाभावे सति ब्रह्मैव नास्ति, कुतस्तस्य सन्दिग्धत्वं विचार्यत्वं च इत्याक्षेपसङ्गतिः । दृष्टान्तप्रत्युदाहरणसङ्गती चात्र योजयितुं शक्येते । 'यथा सन्दिग्धत्वेन हेतुना ब्रह्मणो विचार्यत्वम् , तथा - जन्माद्यन्यनिष्ठत्वेन हेतुना ब्रह्मणो लक्षणं नास्ति' इति दृष्टान्तसङ्गतिः । 'यथा विचार्यत्वे हेतुरस्ति, न तथा लक्षणसद्भावे हेतुं पश्यामः' इति प्रत्युदाहरणसङ्गतिः । ते एते दृष्टान्तप्रत्युदाहरणसङ्गती सर्वत्र सुलभे । पूर्वाधिकरणसिद्धान्तवदुत्तराधिकरणपूर्वपक्षे हेतुमत्त्वसाम्यस्य, उत्तराधिकरणसिद्धान्ते हेतुशून्यत्ववैलक्षण्यस्य च मन्दैरप्युत्प्रेक्षितुं शक्यत्वात् । आक्षेपसङ्गतिर्यथायोगमुन्नेया । अथ प्रासङ्गिकसङ्गतिरुदाह्रियते - देवताधिकरणस्याधिकारविचाररूपत्वात्समन्वयाध्याये ज्ञेयब्रह्मवाक्यविषये तृतीयपादे च सङ्गत्यभावेऽपि बुद्धिस्थावान्तरसङ्गतिरस्ति । तथाहि - पूर्वाधिकरणे अङ्गुष्ठमात्रवाक्यस्य ब्रह्मपरत्वादङ्गुष्ठमात्रत्वं ब्रह्मणो मनुष्यहृदयापेक्षम् , मनुष्याधिकारत्वाच्छास्त्रस्य इत्युक्तम् । तत्प्रसङ्गेन देवताधिकारो बुद्धिस्थः । सेयं प्रासङ्गिकसङ्गतिः । तदेवं न्यायसङ्गतिर्निरूपिता ॥
अथेदानीं प्रत्यधिकरणमवयवचतुष्टयं श्लोकाभ्यां सङ्गृह्यते -
(तत्र (प्रथमे ब्रह्मणो विचार्यत्वाधिकरणे) शास्त्रस्य प्रथमं सूत्रम् ॥ )
प्रथमाधिकरणमारचयति -
अविचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात् ॥
असन्देहाफलत्वाभ्यां न विचारं तदर्हति ॥ ११ ॥
अध्यासोऽहम्बुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् ॥
सन्देहान्मुक्तिभावाच्च विचार्यं ब्रह्म वेदतः ॥ १२ ॥
"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृह० २ । ४ । ५ । ) इत्यत्राऽऽत्मदर्शनफलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि तात्पर्यं निर्णेतुमनुकूलो न्यायविचारः । तदेतद्विचारविधायकं वाक्यं विषयः । न च – अयं विषयः श्लोकयोर्न सङ्गृहीतः - इति शङ्क्यम् , सन्देहसङ्ग्रहेणैवार्थात्तत्सङ्ग्रहप्रतीतेः । 'ब्रह्मविचारात्मकं न्यायनिर्णयात्मकं शास्त्रमनारभ्यम् , आरभ्यं वा', इति सन्देहः । पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र सन्देहबीजमुन्नेयम् । तत्र 'अनारभ्यम्' इति तावत्प्राप्तम् , विषयप्रयोजनयोरभावात् । सन्दिग्धं हि विचारविषयो भवति । ब्रह्म त्वसन्दिग्धम् । तथाहि - तत्किं ब्रह्माकारेण सन्दिह्यते, आत्माकारेण वा नाऽऽद्यः, "सत्यं ज्ञानमनन्तं ब्रह्म" (तैत्ति० २ । १ । १) इति वाक्येन ब्रह्माकारस्य निश्चयात् । न द्वितीयः, अहंप्रत्ययेनाऽऽत्माकारस्यापि निश्चयात् - अध्यस्तात्मविषयत्वेन भ्रान्तोऽहंप्रत्ययः - इति चेत् । न, अध्यासानिरूपणात् । तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिकारजतवदन्योन्यतादात्म्याध्यासो न निरूपयितुं शक्यते । तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासन्दिग्धत्वाद्विचारस्य न विषयोऽस्ति । नापि प्रयोजनं पश्यामः, उक्तप्रकारेण ब्रह्मात्मनि निश्चितेऽपि मुक्त्यदर्शनात् । तस्मात् - 'ब्रह्म विचारानर्हम्' इति शास्त्रमनारम्भणीयम् - इति पूर्वपक्षः ।
अत्रोच्यते - शास्त्रमारम्भणीयम् । कुतः - विषयप्रयोजनसद्भावात् । श्रुत्यहम्प्रत्यययोर्विप्रतिपत्त्या सन्दिग्धं ब्रह्माऽऽत्मवस्तु । "अयमात्मा ब्रह्म" (बृह० २ । ५ । १९) इति श्रुतिरसङ्गं ब्रह्मात्मत्वेनोपदिशति । 'अहं मनुष्यः' इत्याद्यहम्बुद्धिर्देहतादात्म्याध्यासेनाऽऽत्मानं गृह्णाति । अध्यासस्य च दुर्निरूपणत्वमलङ्काराय । तस्मात्सन्दिग्धं वस्तु विषयः । तन्निश्चयेन मुक्तिलक्षणप्रयोजनं श्रुत्या विद्वदनुभवेन च प्रसिद्धम् । तस्मात् - वेदान्तवाक्यविचारमुखेन ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीयम् - इति सिद्धान्तः ॥
(द्वितीये ब्रह्मणो लक्षणाधिकरणे सूत्रम् ॥ )
द्वितीयाधिकरणमारचयति -
लक्षणं ब्रह्मणो नास्ति किंवाऽस्ति, नहि विद्यते ॥
जन्मादेरन्यनिष्ठत्वात्सत्यादेश्चाप्रसिद्धितः ॥ १३ ॥
ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्म स्रग्भुजङ्गवत् ॥
लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि ॥ १४ ॥
"यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्म" (तैत्ति० ३ । १ । १) इति, "सत्यं ज्ञानमनन्तं ब्रह्म" (तैत्ति० २ । १ । १) इति वाक्यद्वयं विषयः । प्रयन्ति म्रियमाणानीत्यर्थः । तत्र – 'श्रूयमाणं ब्रह्मलक्षणं न घटते, घटते वा' - इति संशयः । न घटते । तथाहि - किं जन्मादिकं तल्लक्षणम् , उत सत्यादिकम् । नाऽऽद्यः, तस्य जगन्निष्ठत्वेन ब्रह्मसम्बन्धाभावात् । द्वितीयेऽपि लोकप्रसिद्धस्य सत्यज्ञानादेः स्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म न सिध्येत् , अप्रसिद्धस्य तु सत्यादेर्लक्षणत्वमयुक्तम् । तस्मात् - तटस्थलक्षणं स्वरूपलक्षणं च न विद्यते ।
अत्रोच्यते - यल्लक्षणं रूपानन्तर्भूतं सत्पदार्थान्तरव्यवस्थाहेतुः, तत्तटस्थलक्षणम् । जन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्वं ब्रह्मणि कल्पनया सम्बद्धं तटस्थलक्षणं भविष्यति । "यो भुजङ्गः सा स्रक्" इतिवत् 'यज्जगत्कारणं तद्ब्रह्म' इति कल्पितेनापि वस्तुनोपलक्षयितुं शक्यत्वात् । भिन्नार्थानामपि पितृसुतभ्रातृजामात्रादिशब्दानामेकदेवदत्तपर्यवसायित्वे यथा न विरोधः, तथा लोकसिद्धभिन्नार्थवाचिसत्यादिशब्दानामखण्डब्रह्मपर्यवसायित्वे स्वरूपलक्षणसिद्धिः । इत्युभयमप्युपपन्नम् ॥
(तृतीये ब्रह्मणो वेदकर्तृत्ववेदैकमेयताधिकरणे सूत्रम् ॥ )
तृतीयाधिकरणस्य प्रथमं वर्णकमारचयति -
न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ, न कर्तृ तत् ॥
विरूप नित्यया वाचेत्येवं नित्यत्ववर्णनात् ॥ १५ ॥
कर्तृ निःश्वसिताद्युक्तेर्नित्यत्वं पूर्वसाम्यतः ॥
सर्वावभासिवेदस्य कर्तत्वात्सर्वविद्भवेत् ॥ १६ ॥
"अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः" (बृह० । २ । ४ । १० ) इति वाक्यं विषयः। 'यदृग्वेदादिकमस्ति तदेतस्य नित्यसिद्धस्य ब्रह्मणो निःश्वास इवायत्नेन सिद्धम्' इत्यर्थः - 'ब्रह्म वेदं करोति, नकरोति वा' - इति सन्देहः । न करोति, वेदस्य नित्यत्वात् । "वाचा विरूप नित्यया" इत्यस्मिन्मन्त्रे - 'विरूप' इति देवतां सम्बोध्य 'नित्यया वाचा संस्तुतिं प्रेरय' इत्येवं प्रार्थ्यते । नित्या वाग्वेद एव,
"अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः" ।
इति स्मृतेः । अतः - न वेदकर्तृ ब्रह्म । इति प्राप्ते,
ब्रूमः - ब्रह्म वेदस्य कर्तृ भवितुमर्हति । कुतः - निःश्वसितन्यायेनाप्रयत्नोत्पत्त्यवगमात् । "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे" इति, सर्वैर्यज्ञैर्हूयमानाद्यज्ञशब्दवाच्याद्ब्रह्मणो विस्पष्टमेव वेदोत्पत्तिश्रवणाच्च । अप्रयत्नोत्पत्त्यैवार्थेषु बुद्ध्या रचितैः कालिदासादिवाक्यैर्वैलक्षण्यादपौरुषेयत्वम् । प्रतिसर्गं पूर्वसाम्येनोत्पन्नैः प्रवाहरूपेण नित्यता । सर्वजगद्व्यवस्थावभासिवेदकर्तृत्वनिरूपणेन ब्रह्मणः सर्वज्ञत्वं निरूपितं भवति ॥
द्वितीयं वर्णकमाह -
अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता ॥
घटवत्सिद्धवस्तुत्वाद्ब्रह्मान्येनापि मीयते ॥ १७ ॥
रूपलिङ्गादिराहित्यान्नास्य मान्तरयोग्यता ॥
तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता ॥ १८ ॥
"तं त्वौपनिषदं पुरुषं पृच्छामि" (बृह० ३ । ९ । २६ ) इति शाकल्यं प्रति याज्ञवल्क्येनोक्तवाक्ये परब्रह्मरूपस्य पुरुषस्योपनिषद्वेद्यत्वं प्रतीयते । तद्वाक्यं विषयः । तत्र – 'ब्रह्मणः प्रत्यक्षादिगम्यत्वमस्ति, न वा' इति संशयः । पूर्वपक्षस्तु विस्पष्टः ।
रूपरसाद्यभावान्नेन्द्रिययोग्यता । लिङ्गसादृश्यादिराहित्याच्च नानुमानोपमानादियोग्यता । 'उपनिषत्स्वेवाधिगतः' इति व्युत्पत्त्या "नावेदविन्मनुते तं बृहन्तम्" इत्यन्यनिषेधश्रुत्या च वेदैकमेयत्वम् । भाष्यकारैः "जन्मादि" सूत्रे - "श्रुत्यादयोऽनुभवादयश्च यथासम्भवमिह प्रमाणम्" इत्यन्यमेयत्वमङ्गीकृतम् - इति चेत् । बाढम् । प्रथमतः श्रुत्यैव प्रमिते ब्रह्मणि पश्चादनुवादरूपेणानुमानानुभवयोरङ्गीकारात् । अतो वेदैकमेयं ब्रह्म ॥
(चतुर्थे वेदान्तानां ब्रह्मैकपरत्वाधिकरणे सूत्रम् ॥ )
चतुर्थाधिकरणस्य प्रथमवर्णकमाह -
वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत ॥
अनुष्ठानोपयोगित्वात्कर्त्रादिप्रतिपादकाः ॥ १९ ॥
भिन्नप्रकरणाल्लिङ्गषट्काच्च ब्रह्मबोधिकाः ॥
सति प्रयोजनेऽनर्थहानेऽनुष्ठानतोऽत्र किम् ॥ २० ॥
स्पष्टौ विषयसन्देहौ । जीवप्रकाशकवाक्यानि कर्तृपराणि । ब्रह्मप्रकाशकवाक्यानि देवतापराणि । सृष्टिप्रकाशकवाक्यानि साधनपराणि । तथा सति वेदान्तानामनुष्ठानोपयोगित्वं भविष्यति । ब्रह्मपरत्वे त्वनुष्ठानासम्भवान्निष्प्रयोजनत्वं स्यात् । तस्मात् - वेदान्ताः कर्तृदेवतासाधनप्रतिपादकाः ॥
अत्रोच्यते - ब्रह्मपरा वेदान्ताः । कुतः - भिन्नप्रकरणपठितानां तेषां कर्त्रादिप्रतिपादकतया कर्मशेषत्वासम्भवात् । तात्पर्यनिश्चयहेतुलिङ्गषट्केन ब्रह्मपरत्वसम्भवाच्च । लिङ्गषट्कं पूर्वाचार्यैर्दर्शितम् -
"उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिश्चये" इति ।
"सदेव सोम्येदमग्र आसीत्" इत्युपक्रमः । "ऐतदात्म्यमिदं सर्वम् । तत्सत्यं स आत्मा तत्त्वमसि" इत्युपसंहारः । तयोर्ब्रह्मविषयत्वेनैकरूप्यमेकं लिङ्गम् । असकृत् "तत्त्वमसि" इत्युक्तिरभ्यासः । मानान्तरागम्यत्वमपूर्वत्वम् । एकविज्ञानेन सर्वविज्ञानं फलम् । उत्पत्तिस्थितिप्रलयप्रवेशनियमनानि पञ्चार्थवादाः । मृदादिदृष्टान्ता उपपत्तयः । एतैर्लिङ्गैर्ब्रह्मपरत्वं निश्चेयम् । न चानुष्ठानमन्तरेण प्रयोजनाभावः, 'नायं सर्पः' इत्यादाविव बोधादनर्थनिवृत्तेः सम्भवात् ॥
द्वितीयं वर्णकमाह -
प्रतिप्रत्तिं विधित्सन्ति ब्रह्मण्यवसिता उत ॥
शास्त्रत्वात्ते विधातारो मननादेश्च कीर्तनात् ॥ २१ ॥
नाकतन्त्रेऽस्ति विधिः शास्त्रत्वं शंसनादपि ॥
मननादिः पुराबोधाद्ब्रह्मण्यवसितास्ततः ॥ २२ ॥
एकदेशी मन्यते - ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवस्यन्ति । किं तर्हि पारोक्ष्येण ब्रह्मतत्त्वं प्रतिपाद्य पश्चादपरोक्षप्रतिपत्तिं विदधति । तथा च सति वेदान्तानां शासनाच्छास्त्रत्वमुपपद्यते । किञ्च 'श्रोतव्यः' इति श्रवणं शब्दज्ञानात्मकं विधायाथ "मन्तव्यो निदिध्यासितव्यः" इत्यनुभवज्ञानात्मकं मननादिकं स्पष्टमेव विधीयते । तस्मात् - प्रतिपत्तेर्विधातारो वेदान्ताः । इति प्राप्ते, -
ब्रूमः - न प्रतिपत्तेर्विधिः सम्भवति, कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वादपुरुषतन्त्रत्वात् । शास्त्रत्वं तु नानुष्ठेयशासनादेव नियतम् , सिद्धवस्तुशंसनेनापि तदुपपत्तेः । शाब्दज्ञाने जाते पश्चादनुभवात्मकं मननादिकं विधीयते - इति वक्तुं न युक्तम् । 'दशमस्त्वमसि' इतिवच्छब्दस्यैवापरोक्षानुभवजनकत्वेन शाब्दबोधात्पुरैवासम्भावनादिनिवृत्तये व्यापाररूपस्य कर्तृतन्त्रस्य मननादेर्विधानात् । तस्मात् "तत्त्वमसि" इत्यादयो वेदान्ता ब्रह्मण्यवसिताः ॥
(पञ्चमे ब्रह्मण एव सच्छब्दवाच्यताधिकरणे सूत्राणि ॥ )
पञ्चमाधिकरणमारचयति -
तदैक्षतेतिवाक्येन प्रधानं ब्रह्म वोच्यते ॥
ज्ञानक्रियाशक्तिमत्त्वात्प्रधानं सर्वकारणम् ॥ २३ ॥
ईक्षणाच्चेतनं ब्रह्म क्रियाज्ञाने तु मायया ॥
आत्मशब्दात्मतादात्म्ये प्रधानस्य विरोधिनी ॥ २४ ॥
छान्दोग्ये षष्ठाध्याये - "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इति प्रस्तुत्य "तदैक्षत – बहु स्यां प्रजायेय – इति तत्तेजोऽसृजत" इति श्रूयते । तत्र साङ्ख्या मन्यन्ते - सच्छब्दवाच्यं सर्वजगत्कारणं प्रधानम् । न तु ब्रह्म, प्रधानस्य सत्त्वगुणयुक्ततया परिणामितया च ज्ञानशक्तिक्रियाशक्तिसम्भवात् । निर्गुणस्य कूटस्थस्य ब्रह्मणस्तदसम्भवात् - इति ।
अत्रोच्यते - ईक्षितृत्वश्रवणाच्चेतनं ब्रह्म सच्छब्दवाच्यम् । अचेतनस्य प्रधानस्येक्षितृत्वायोगात् । ज्ञानक्रियाशक्ती तु ब्रह्मणि मायया सम्भविष्यतः । किञ्च – "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति नामरूपव्याकर्त्री जगत्कारणदेवता स्ववाचकेनाऽऽत्मशब्देन चेतनं जीवं व्यपदिशति । तथा "तत्त्वमसि" इति चेतनस्य श्वेतकेतोर्जगत्कारणतादात्म्यं गुरुरुपदिशति । तदुभयमप्यचेतनस्य प्रधानस्य जगत्कारणत्वे विरुध्यते । तस्मात् - चेतनं ब्रह्म सच्छब्देनोच्यते ॥
( षष्ठे ब्रह्मण आनन्दमयताधिकरणे सूत्राणि ॥ )
षष्ठाधिकारणमेकदेशिमतेनाऽऽह -
संसारी ब्रह्म वाऽऽनन्दमयः, संसार्ययं भवेत् ॥
विकारार्थमयट्शब्दात्प्रियाद्यवयवोक्तितः ॥ २५ ॥
अभ्यासोपक्रमादिभ्यो ब्रह्मानन्दमयो भवेत् ॥
प्राचुर्यार्थो मयट्शब्दः प्रियाद्याः स्युरुपाधिगाः ॥ २६ ॥
तैत्तिरीयके देहप्राणमनोबुद्ध्यानन्दरूपा अन्नमय – प्राणमय – मनोमय – विज्ञानमयानन्दमय – संज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः । तत्र – 'सर्वान्तर आनन्दमयः संसारी, परमात्मा वा' - इति सन्देहः । 'संसारी' इति प्राप्तम् । कुतः - 'आनन्दस्य विकार आनन्दमयः' इति व्युत्पत्तेः संसारिणि सम्भवात् । अविकृते तु परमात्मन्यसौ न सम्भवति । किञ्च "तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा" इत्यानन्दमयस्य पञ्चावयवा उच्यन्ते । अपेक्षितविषयदर्शनजन्यं सुखं प्रियम् । तल्लाभजन्यो मोदः । तद्भोगजन्यः प्रमोदः । सुषुप्त्यादौ भासमानमज्ञानोपहितं सुखसामान्यमानन्दः । निरुपाधिकं सुखं ब्रह्म । प्रियादीनां पञ्चावयवानां शिरआदिरूपत्वं प्रतिपत्तिसौकर्याय कल्प्यते । पक्षित्वेन कल्पितस्याऽऽनन्दमयस्य शिरः पक्षौ च, इत्यवयवत्रयम् , आत्मशब्देन मध्यशरीरं चतुर्थावयवत्वेनोच्यते, पुच्छमपरभागः, प्रतिष्ठापादौ, अयं पञ्चमोऽवयवः । न च निरंशस्य परमात्मनोऽवयवा युक्ताः । तस्मात् - संसार्येवाऽऽनन्दमयः ॥ इत्येवं प्राप्ते, -
ब्रूमः - आनन्दमयः परमात्मा । कुतः - अभ्यासात् "सैषाऽऽनन्दस्य मीमांसा भवति" "एतमानन्दमयमात्मानमुपसङ्क्रामति" इत्यादिनाऽऽनन्दमयोऽभ्यस्यते । अभ्यासश्च तात्पर्यलिङ्गम् - तात्पर्यं च वेदान्तानां ब्रह्मण्येव – इत्यवोचाम । किञ्च "सत्यं ज्ञानमनन्तं ब्रह्म" इति ब्रह्मोपक्रमात् "इदं सर्वमसृजत" इति सर्वस्रष्टृत्वादिभ्यश्चाऽऽनन्दमयो ब्रह्म । न च ब्रह्मणि मयट्शब्दानुपपत्तिः, प्राचुर्यार्थत्वसम्भवात् । प्रियाद्यवयवा अपि विषयदर्शनाद्युपाधिकृता भविष्यन्ति । तस्मात् - परमात्माऽऽनन्दमयः - इत्येकदेशिनां मतम् ॥
इदानीं स्वमतानुसारेणाधिकरणं रच्यते -
अन्याङ्गं स्वप्रधानं वा ब्रह्म पुच्छमिति श्रुतम् ॥
स्यादानन्दमयस्याङ्गं पुच्छेऽङ्गत्वप्रसिद्धितः ॥ २७ ॥
लाङ्गूलासम्भवादत्र पुच्छेनाऽऽधारलक्षणा ॥
आनन्दमयजीवोऽस्मिन्नाश्रितोऽतः प्रधानता ॥ २८ ॥
"ब्रह्म पुच्छं प्रतिष्ठा" इति यच्छ्रुतं ब्रह्म, तत्किमानन्दमयस्याङ्गत्वेन निर्दिश्यते, उत स्वयं प्राधान्येन प्रतिपाद्यते - इति संशयः - आनन्दमयस्यावयवत्वेन – इति तावत्प्राप्तम् । लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्धत्वात् ।
उच्यते - न पुच्छशब्दोऽवयववाची । किन्तु लाङ्गूलवाची । न चाऽऽनन्दमयस्य लाङ्गूलं सम्भवति । लाङ्गूलस्य गवादिलक्षणान्नमयावयवत्वादानन्दमयस्यावयवत्वायोगात् । अतः पुच्छशब्देन मुख्यार्थासम्भवे सति योग्यतावशादत्राऽऽधारो लक्ष्यते । ब्रह्म, - आनन्दमयस्य जीवस्याऽऽधारः, तत्कल्पनाधिष्ठानत्वात् । न च – आनन्दमयः परमात्मा, प्राचुर्यार्थस्वीकारेऽप्यल्पदुःखसद्भावप्रतीतेः । तस्मात् - जीवाधारो ब्रह्म प्राधान्येन प्रतिपाद्यते । तथाच -
"असन्नेव स भवति असद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः" ।
इत्यादि ब्रह्माभ्यासः, "ब्रह्मविदाप्नोति परम्" इति ब्रह्मोपक्रमश्चानुकूलो भवति ।
(सप्तमे परमेश्वरस्यैव हिरण्मयपदवाच्यताधिकरणे सूत्रे - )
सप्तमाधिकरणमारचयति -
हिरण्मयो देवतात्मा किं वाऽसौ परमेश्वरः ॥
मर्यादाधाररूपोक्तेर्देवतात्मैव नेश्वरः ॥ २९ ॥
सार्वात्म्यात्सर्वदुरितराहित्याच्चेश्वरो मतः ॥
मर्यादाद्या उपास्त्यर्थमीशेऽपि स्युरुपाधिगाः ॥ ३० ॥
छान्दोग्यस्य प्रथमाध्याये उद्गीथोपासनायामुपसर्जनान्युपास्यान्यभिधाय प्रधानमुपास्यमभिधातुमिदमाम्नायते - "अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" इति । तत्र – आदित्यमण्डले विद्याकर्मातिशयवशात्कश्चिज्जीवो देवभावमुपेत्य जगदधिकारं निष्पादयन्नवतिष्ठते, ईश्वरश्च सर्वगतत्वान्मण्डलेऽपि वर्तते । अतस्तयोः संशयः । तत्र 'देवतात्मा' इति तावत्प्राप्तम् । कुतः - मर्यादाधाररूपाणामुच्यमानत्वात् । "ये चामुष्मात्पराञ्चो लोकाः, तेषां चेष्टे देवकामानां च" इत्यैश्वर्यमर्यादोक्तिः, "अन्तरादित्ये" इत्याधारोक्तिः, 'हिरण्मयः' इति रूपोक्तिः । न हि सर्वेश्वरस्य सर्वाधारस्य नीरूपस्य परमेश्वरस्यैश्वर्यमर्यादाधाररूपाणि सम्भवन्ति । तस्मात् - देवतात्मा । इति प्राप्ते, -
उच्यते - हिरण्मय ईश्वरो भवेत् । कुतः - सर्वात्मत्वश्रवणात् । "सैवर्क् , तत्साम, तदुक्थम् , तद्यजुः, तद्ब्रह्म" इति वाक्ये तच्छब्दैः प्रकृतं हिरण्मयं पुरुषं परामृश्य तस्य ऋक्सामाद्यशेषजगदात्मकत्वमुपदिश्यते । तच्चाद्वितीये परमेश्वरे मुख्यमुपपद्यते । न तु सद्वितीयायां देवतायाम् । तथा - "स एष सर्वेभ्यः पाप्मभ्य उदितः" इति श्रूयमाणं सर्वपापराहित्यं ब्रह्मणोऽसाधारणं लिङ्गम् । यद्यपि देवतायाः कर्मण्यनधिकारात्क्रियमाणकरिष्यमाणपापयोरभावः । तथाऽप्यसुरादिजनितदुःखसद्भावात्तद्धेतुभूतं जन्मान्तरसञ्चितदुरितमनुवर्तत एव । मर्यादाधाररूपाणि तूपाधिधर्मतया सोपाधिके परमात्मन्युपास्ये वर्तितुमर्हन्ति । तस्मात् - ईश्वरो हिरण्मयः ॥
(अष्टमे ब्रह्मण एवाऽऽकाशशब्दवाच्यताधिकरणे सूत्रम् ॥ )
अष्टमाधिकरणमारचयति -
आकाश इति होवाचेत्यत्र खं ब्रह्म वाऽत्र खम् ॥
शब्दस्य तत्र रूढत्वाद्वाय्वादेः सर्जनादपि ॥ ३१ ॥
साकाशजगदुत्पत्तिहेतुत्वाच्छ्रौतरूढितः ॥
एवकारादिना चात्र ब्रह्मैवाऽऽकाशशब्दितम् ॥ ३२ ॥
पूर्वोक्ताद्धिरण्मयवाक्यादुत्तरस्मिन्वाक्ये शालावत्येन महर्षिणा सर्वलोकाधारवस्तुनि पृष्टे सति प्रवाहणो राजोत्तरमाह । तत्रत्यं वाक्यमेतत् - "आकाश इति होवाच, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति, आकाशो ह्येवैभ्यो ज्यायान् , आकाशः परायणम्" इति । तत्र – आकाशशब्दार्थो 'वियत्' , ब्रह्म वा - इति सन्देहः । रूढत्वात् वियत् इति प्राप्तम् । सर्वभूतोत्पत्तिलयहेतुत्वं च वियत उपपद्यते । "आकाशाद्वायुः, वायोरग्निः" - इत्यादौ वाय्वादीनां सर्वभूतानां वियत्कार्यत्वश्रवणात् ॥
अत्रोच्यते - ब्रह्मैवाऽऽकाशशब्दार्थः । "सर्वाणि ह वै" - इत्यत्रासङ्कुचितसर्वशब्देन वियत्सहितसर्वभूतोत्पत्तिहेतुत्वश्रवणात् । न च वियतो वियद्धेतुत्वं सम्भवति । रूढिस्तु लौकिकी वियत्येवास्तु । श्रौती तु ब्रह्मण्यपि । "आकाशो वै नामरूपयोर्निर्वहिता" इति प्रयोगदर्शनात् । किञ्च – "आकाशादेव" इत्येवकारः कारणान्तरं व्युदस्यति । न चैतद्वियत्पक्षे सम्भवति, घटादिषु वियद्व्यतिरिक्तानां मृदादिकारणानामुपलम्भात् । ब्रह्मपक्षे तु ब्रह्मणः सद्रूपस्य सर्वानन्यतया कारणान्तरव्युदास उपपद्यते । ज्यायस्त्वपरायणत्वे च श्रुत्यन्तरे ब्रह्मणः श्रूयेते - "ज्यायान्पृथिव्याः, ज्यायानन्तरिक्षात्" , "विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम्" इति । 'कर्मफलं दातुं समर्थम्' इत्यर्थः । तस्मात् - ब्रह्मैवाऽऽकाशशब्देन विवक्षितम् ॥
(नवमे ब्रह्मण एव प्राणशब्दवाच्यत्वाधिकरणे सूत्रम् ॥ )
नवमाधिकरणमारचयति -
मुखस्थो वायुरीशो वा प्राणः प्रस्तावदेवता ॥
वायुर्भवेत्तत्र सुप्तौ भूतसारेन्द्रियक्षयात् ॥ ३३ ॥
सङ्कोचोऽक्षपरत्वे स्यात्सर्वभूतलयश्रुतेः ॥
आकाशशब्दवत्प्रणशब्दस्तेनेशवाचकः ॥ ३४ ॥
आकाशवाक्यादुत्तरस्मिन्वाक्ये प्रस्तावनाम्नः सामभागस्य देवतां प्रस्तोत्रा पृष्टायामुषस्तिरुत्तरं ददौ । तत्रत्यं वाक्यमेतत् - "प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता" इति । तत्र – 'प्राणशब्दार्थो मुखबिलान्तर्वर्तिवायुः, ब्रह्म वा', इति - सन्देहः । मुखबिलान्तर्वर्ती वायुर्भवेत् , सर्वभूतलयस्य तत्र सुसम्पादत्वात् । सुषुप्तिकाले सर्वभूतसाराणामिन्द्रियाणां प्राणवायौ प्रविलयात् । इति प्राप्ते, -
उच्यते - इन्द्रियमात्रलयपरत्वे व्याख्यायमाने "सर्वाणि ह वै" - इत्यसौ सर्वशब्दः सङ्कुचितः स्यात् । आकाशशब्दवत्प्राणशब्दोऽपि श्रौतरूढ्येवकाराभ्यां ब्रह्मवाचकः । अस्ति हि प्राणशब्दस्य ब्रह्मणि श्रौतरूढिः, "प्राणस्य प्राणम्" इत्यत्र ब्रह्मविवक्षया द्वितीयप्राणशब्दप्रयोगात् । तस्मात् - ईश्वरः प्राणः ॥
(दशमे ब्रह्मण एव ज्योतिःशब्दाभिधेयत्वाधिकरणे सूत्राणि ॥ )
दशमाधिकरणमारचयति -
कार्यं ज्योतिरुत ब्रह्म ज्योतिर्दीप्यत इत्यदः ॥
ब्रह्मणोऽसंनिधेः कार्यं तेजोलिङ्गबलादपि ॥ ३५ ॥
चतुष्पात्प्रकृतं ब्रह्म यच्छब्देनानुवर्त्यते ॥
ज्योतिः स्याद्भासकं ब्रह्म लिङ्गं तूपाधियोगतः ॥ ३६ ॥
छान्दोग्यस्य तृतीयेऽध्याये गायत्रीविद्यायां हृदयच्छिद्रोपासनमभिध्यायेदमाम्नायते - "अथ यदतः परो दिवो ज्योतिर्दीष्यते" इति । तत्र – 'द्युलोकात्परं दीप्यमानं वस्तु किं कार्यरूपं नेत्रानुग्राहकं तेजः, उत ब्रह्म' इति संशयः । 'कार्यम्' इति तावत्प्राप्तम् । ब्रह्मणोऽसंनिहितत्वेन वाक्यस्य ब्रह्मपरत्वायोगात् । तेजःपरत्वं तूपपद्यते, तल्लिङ्गसद्भावात् । "इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः" इति श्रूयमाणो जाठराग्न्यभेदस्तेजोलिङ्गम् । अत्रोच्यते - असिद्धोऽसंनिधिः, पूर्वस्मिन्गायत्रीखण्डे -
"पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" ।
इति चतुष्पदो ब्रह्मणः प्रकृतत्वात् । तस्य चात्र प्रकृतवाचिना यच्छब्देनानुवर्तनात् । 'अस्य ब्रह्मणः सर्वाणि भूतान्येकांशः, पादत्रयोपलक्षितमनन्तस्वरूपं द्योतनात्मके दिवि स्वस्मिन्नेवावतिष्ठते' इत्यर्थः । न च ज्योतिःशब्दस्य ब्रह्मणि वृत्त्यनुपपत्तिः, भासकत्वत्वाचित्वात् । ब्रह्मणो जगद्भासकत्वात् । तेजोलिङ्गं त्वौपाधिके ब्रह्मण्यवकल्प्यते । तस्मात् - ज्योतिर्ब्रह्म ॥
(एकादशे ब्रह्मण एव प्राणशब्दव्युत्पाद्यत्वाधिकरणे सूत्राणि ॥ )
एकादशाधिकरणमारचयति -
प्राणोऽस्मीत्यत्र वाय्विन्द्रजीवब्रह्मसु संशयः ॥
चतुर्णां लिङ्गसद्भावात्पूर्वपक्षस्त्वनिर्णयः ॥ ३७ ॥
ब्रह्मणोऽनेकलिङ्गानि तानि सिद्धान्यनन्यथा ॥
अन्येषामन्यथासिद्धेर्व्युत्पाद्यं ब्रह्म नेतरत् ॥ ३८ ॥
कौषीतकीनामुपनिषदीन्द्रप्रतर्दनाख्यायिकायां प्रतर्दनं प्रतीन्द्रो वक्ति - "प्राणोऽस्मि प्रज्ञात्मा तं माम् - आयुरमृतम् - इत्युपास्स्व" इति । तत्र चतुर्विधलिङ्गवशाच्चतुर्धा संशयः । "इदं शरीरं परिगृह्योत्थापयति" इति प्राणवायोर्लिङ्गम् । "अस्मि" इति वक्तुरिन्द्रस्याहङ्कारवाद इन्द्रलिङ्गम् । "वक्तारं विद्यात्" इति वक्तृत्वं जीवलिङ्गम् । "आनन्दोऽजरोऽमृतः" इति ब्रह्मलिङ्गम् । तत्र – प्राबल्यदौर्बल्यविवेकाभावादनिर्णयः - इति पूर्वपक्षः ।
सिद्धान्तस्तु - सन्त्यत्र ब्रह्मणोऽनेकलिङ्गानि । तद्यथा - "त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इति हिततमत्वमेकं लिङ्गम् । "यो मां विजानीयात् , नास्य केनचन कर्मणा लोको मीयते, न मातृवधेन, न पितृवधेन" इति ज्ञानमात्रेण महापातकाद्यलेपोऽपरं लिङ्गम् । एवमन्यान्यपि लिङ्गान्युदाहर्तव्यानि । न चैतानि प्राणेन्द्रजीवपक्षेषु कथञ्चिदप्युपपादयितुं शक्यन्ते । प्राणादिलिङ्गानि तु ब्रह्मण्युपपद्यन्ते, प्राणादीनां ब्रह्मबोधद्वारत्वात् । तथा सति ब्रह्मलिङ्गानामनेकत्वादनन्यथासिद्धत्वाच्च प्राबल्यम् । तस्मात् - 'ब्रह्मैवात्र व्युत्पाद्यम् , न प्राणादि' इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदिते
अधिकरणानि ११ ११
सूत्राणि ३१ ३१
(प्रथमे ब्रह्मण एव मनोमयत्वाद्यधिकरणे सूत्राणि ॥ )
द्वितीयपादस्य प्रथमाधिकरणमारचयति -
मनोमयोऽयं शारीर ईशो वा प्राणमानसे ॥
हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगाः ॥ १ ॥
शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते ॥
प्राणादियोगश्चिन्तार्थश्चिन्त्यं ब्रह्म प्रसिद्धितः ॥ २ ॥
छान्दोग्यस्य तृतीयेऽध्याये शाण्डिल्यविद्यायामिदमाम्नायते - "मनोमयः प्राणशरीरो भारूपः" इति । तत्र – 'जीवः ईशो वा' इति सन्देहः । 'जीवः' इति तावत्प्राप्तम् । मनःसम्बन्धादीनां जीवे सुसम्पादत्वात् । 'मनसो विकारो मनोमयः' इति मनः सम्बन्धः । 'प्राणः शरीरमस्य' इति प्राणसम्बन्धः । नचेदं द्वयमीश्वरे सुसम्पादम् । "अप्राणो ह्ममनाः शुभ्रः" इति निषेधात् । तथा - "एष म आत्माऽन्तर्हृदयेऽणीयान्" इति श्रूयमाणं हृदयेऽवस्थानम् , अणीयस्त्वं च निराधारस्य सर्वगतस्य न कथञ्चिदुपपद्यते । तस्मात् - जीवः । इति प्राप्ते, -
ब्रूमः "सर्वं स्वल्विदं ब्रह्म तज्जलान् - इति शान्त उपासीत" इत्येतस्मिञ्शमविधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म, 'तदेव मनोमयः, प्राणशरीरः' इत्येताभ्यां तद्धितबहुव्रीहिभ्यां विशेष्यत्वेनापेक्ष्यते । शमवाक्यस्यायमर्थः - 'यस्मात्सर्वमिदं ब्रह्म तज्जत्वात् , तल्लत्वात् , तदंस्त्वाच्च, तस्मात्सर्वात्मके ब्रह्मणि रागद्वेषविषयासम्भवादुपस्तिकाले शान्तो भवेत्' इति । एतद्वाक्यगते ब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यमपि ब्रह्मपरं भविष्यति । न च – ब्रह्मणो मनःप्राणसम्बन्धाद्यनुपपत्तिः, निरुपाधिके तदनुपपत्तावपि सोपाधिकस्योपास्यस्य चिन्तनार्थतया तदुपपत्तेः । तस्मात् - सर्वेष्वपि वेदान्तवाक्येषु यद्ब्रह्मोपास्यत्वेन प्रसिद्धम् , तदेवात्राप्युपास्यम् । न हि क्वचिदपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धम् । ततो 'ब्रह्मैव' इति सिद्धान्तः ॥
(द्वितीये, ईश्वरस्यैवात्तृत्वाधिकरणे सूत्रे - )
द्वितीयाधिकरणमारचयति -
जीवोऽग्निरीशो वाऽत्ता स्यादोदने जीव इष्यताम् ॥
स्वाद्वत्तीति श्रुतेर्वह्निर्वाऽग्निरन्नाद इत्यतः ॥ ३ ॥
ब्रह्मक्षत्रादिजगतो भोज्यत्वात्स्यादिहेश्वरः ॥
ईशप्रश्नोत्तरत्वाच्च संहारस्तस्य चातृता ॥ ४ ॥
कठवल्लीषु द्वितीयवल्ल्यवसाने पठ्यते -
"यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति ।
अयमर्थः - 'ब्राह्मणक्षत्रियजाती यस्यौदनस्थानीये, मृत्युश्चोपसेचनस्थानीयः, स पुरुषो यत्र वर्तते तत्स्थानम् इदमित्थम्' इति को वेद । न कोपि जानाति, इत्यर्थः । अत्र – ओदनोपसेचनशब्दाभ्यां कश्चिद्भक्षकः प्रतीयते । स जीवः, अग्निः, ईशो वा इति त्रेधा सन्दिह्यते । 'जीवः' इति तावत्प्राप्तम् । कुतः - "तयोरन्यः पिप्पलं स्वाद्वत्ति" इति जीवस्यात्तृत्वश्रवणात् । अथवा वह्निर्भवेत् , "अग्निरन्नादः" इत्यत्तृत्वावगमात् । इति प्राप्ते, -
उच्यते - ब्रह्मक्षत्रयोरुपलक्षणत्वेन कृस्नं जगदिह भोज्यत्वेनावगम्यते । नहि तादृशस्य भोज्यस्येश्वरादन्योऽत्ता सम्भवति किञ्च -
"अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद" ।
इति धर्माधर्मकार्यकारणकालत्रयातीते परमेश्वरे नचिकेतसा पृष्टे सति "यस्य ब्रह्म च" – इति वाक्येन यम उत्तरं ददौ । तस्माद् - ईश्वरोऽत्र प्रतिपाद्यः - "अनश्नन्नन्योऽभिचाकशीति" इतीश्वरे भोक्तृत्वं निषिध्यते - इति चेत् । तर्ह्यत्रात्तृत्वं नाम संहर्तृत्वं भविष्यति । तच्चेश्वरस्य सर्वेषु वेदान्तेषु प्रसिद्धम् ॥
(तृतीये जीवब्रह्मणोरेव गुहाप्रवेशाधिकरणे सूत्रे - )
तृतीयाधिकरणमारचयति -
गुहां प्रविष्टौ धीजीवौ जीवेशौ वा हृदि स्थितेः ॥
छायातपाभ्यां दृष्टान्ताद्धीजीवौ स्तो विलक्षणौ ॥ ५ ॥
पिबन्ताविति चैतन्यं द्वयोर्जीवेश्वरौ ततः ॥
हृत्स्थानमुपलब्ध्यै स्याद्वैलक्षण्यमुपाधितः ॥ ६ ॥
कठवल्लीष्वेव तृतीयवल्ल्यादौ श्रूयते -
"ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः" इति ।
अयमर्थः - "सुकृतस्य फलभूतं यद्ब्राह्मणादिशरीरं तत्परस्यार्धं परब्रह्मण उपलब्धिस्थानम् । तच्च परमम् , विद्याधिकारहेतुशमदमाद्युपेतत्वात् । तादृशस्य शरीरस्य मध्ये स्थितं हृदयपुण्डरीकं गुहा तां प्रविष्टौ । यद्वा - ऋतशब्दवाच्यं कर्मफलं पिबन्तौ छायातपवत्परस्परविलक्षणौ वेदविदो वदन्ति" इति । 'तौ द्वौ बुद्धिजीवौ, जीवेशौ वा' - इति सन्देहः । 'बुद्धिजीवौ' इति प्राप्तम् , तयोः परिच्छिन्नयोर्गुहाप्रवेशसम्भवात् । जडाजडरूपत्वेन च्छायातपवद्वैलक्षण्याच्च ॥
अत्रोच्यते - 'पिबन्तौ' इति द्विवचनेन द्वयोश्चेतनत्वं प्रतीयते । ततः - चेतनाविह जीवेश्वरौ भवतः । सर्वगतस्यापीश्वरस्य हृदयेऽवस्थानमुपलब्ध्यै वर्ण्यते । द्वयोश्चेतनत्वसाम्येऽपि सोपाधिकत्वनिरुपाधिकत्वाभ्यां वैलक्षण्यमुपपद्यते ॥
(चतुर्थे ब्रह्मण एवाक्षिगतत्वाधिकरणे सूूत्राणि - )
चतुर्थाधिकरणमारचयति -
छायाजीवौ देवतेशौ वाऽसौ योऽक्षणि दृश्यते ॥
आधारदृश्यतोक्त्येशादन्येषु त्रिषु कश्चन ॥ ७ ॥
कं खं ब्रह्म यदुक्तं प्राक्तदेवाक्षण्युपास्यते ॥
वामनीत्वादिनाऽन्येषु नामृतत्वादिसम्भवः ॥ ८ ॥
छान्दोग्यस्य चतुर्थाध्याये - उपकोसलविद्यायामुपकोसलं शिष्यं प्रति सत्यकामो गुरुराह । तत्रत्यं वाक्यमेतत् - "य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच । एतदमृतम् , एतद्ब्रह्म" इति । तत्र चतुर्धा संशये सति - 'अक्षणि सर्वैर्दृश्यमाना छाया' इति तावत् प्राप्तम् , अक्ष्याधारत्वदृश्यत्वयोस्तस्यामपि स्पष्टत्वात् । यद्वा - जीवोऽयं भवितुमर्हति, रूपदर्शनवेलायां तस्य चक्षुष्यवस्थितत्वेनान्वयव्यतिरेकाभ्यां दृश्यमानत्वात् । अथवा - देवता स्यात् , "आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्" इति दर्शनात् । सर्वथा न परमात्मा, तस्याऽऽधारत्वदृश्यत्वासम्भवात् । तस्मात् - छायाजीवदेवेषु यः कोऽप्यस्तु ॥
इति प्राप्ते ब्रूमः - "कं ब्रह्म" "खं ब्रह्म" इति सुखरूपम् , आकाशवत्परिपूर्णं यद्ब्रह्म पूर्ववाक्येनोक्तम् , तदेव "य यषोऽक्षिणी" - इति प्रकृतवाचकेनैतच्छब्देन परामृश्याक्षण्युपास्यत्वेनोपदिश्य वामनीत्वभामनीत्वसंयद्वामत्वादिगुणानुपासनयोपगिशति । वामनीत्वं कामप्रापकत्वम् । भामनीत्वं जगद्भासकत्वम् । संयद्वामत्वं प्राप्तकामत्वम् । एतैर्गुणैरुपास्यब्रह्मणः सोपाधिकत्वादक्ष्याधारत्वं शास्त्रदृष्ट्या दृश्यमानत्वं च न विरुध्यते । छायाजीवदैवतेषु त्वमृतत्वाभयत्वादीनि न सम्भवन्ति । तस्मात् - ईश्वरोऽत्रोपास्यः ॥
(पञ्चमे परमेश्वरस्यैवान्तर्यामिताधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति ॥
कारणत्वात्प्रधानं स्याज्जीवो वा कर्मणो मुखात् ॥ ९ ॥
जीवैकत्वामृतत्वादेरन्तर्यामी परेश्वरः ॥
द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः ॥ १० ॥
बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह – "यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" इति । तत्र – पृथिव्यादिजगत्प्रति योऽन्तर्यामी, श्रूयते, तस्मिंस्त्रेधा संशये सति 'प्रधानम्' इति प्राप्तम् । तस्य सकलजगदुपादानत्वेन स्वकार्यं प्रति नियामकत्वसम्भवात् । अथवा - जीवोऽन्तर्यामी । स हि धर्माधर्मरूपं कर्मानुष्ठितवान् । तच्च कर्म स्वफलदानाय फलभोगसाधनं जगदुत्पादयति । अतः कर्मद्वारा जगदुत्पादकत्वाज्जीवोऽन्तर्यामी ॥
इति प्राप्ते ब्रूमः - "एष त आत्माऽन्तर्याम्यमृतः" इत्यन्तर्यामिणो जीवतादात्म्यममृतत्वं च श्रूयते । तथा - पृथिव्यन्तरिक्षादिषु सर्ववस्तुष्वन्तर्यामित्वोपदेशेन सर्वव्यापित्वं प्रतीयते । तेभ्यो हेतुभ्योऽन्तर्यामी परमेश्वरः । न च प्रधानस्यान्तर्यामित्वं सम्भवति, "अदृष्टो द्रष्टा, अश्रुतः श्रोता" इति द्रष्टृत्वश्रोतृत्वाद्यवगमादचेतनस्य प्रधानस्य तदसम्भवात् । नापि जीवोऽन्तर्यामी, "य आत्मानमन्तरो यमयति" इति जीवस्य नियम्यत्वश्रवणात् । तस्माद् - अन्तर्यामी परमेश्वरः ॥
(षष्ठे परमेश्वरस्यैव भूतयोनित्वाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
भूतयोनिः प्रधानं वा जीवो वा यदि वेश्वरः ॥
आद्यौ पक्षावुपादाननिमित्तत्वाभिधानतः ॥ ११ ॥
ईश्वरो भूतयोनिः स्यात्सर्वज्ञत्वाादिकीर्तनात् ॥
दिव्याद्युक्तेर्न जीवः स्यान्न प्रधानं भिदोक्तितः ॥ १२ ॥
मुण्डकोपनिषदि श्रूयते - "तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः" इति । तत्र त्रेधा संशये सति - प्रधानम् , जीवो वा, इति पक्षद्वयं तावत्प्राप्तम् । योनिशब्दस्योपादाननिमित्तलक्षणार्थद्वयवाचित्वात् । प्रधानस्य विश्वाकारेण परिणममानस्योपादानत्वात् । जीवस्य च धर्माधर्मद्वारेण निमित्तत्त्वात् ।।
अत्रोच्यते -
"यः सर्वज्ञः सर्ववित् , यस्य ज्ञानमयं तपः" ।
इति "सामान्याकारेण सर्वज्ञत्वम् , विशेषाकारेण सर्ववित्त्वम् , पर्यालोचनात्मकं तपश्च", इत्येतादृशस्य ब्रह्मलिङ्गस्य कीर्तनाद्भूतयोनिः परमेश्वरः । न च जीवस्य भूतयोनित्वं युक्तम् ,
"दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः" ।
इति बाह्याभ्यन्तरव्यापित्वजन्मराहित्ययोः श्रुतत्वात्परिच्छिन्नस्य जन्मादिमतो जीवस्य तदसम्भवात् । नापि प्रधानस्य भूतयोनित्वं युक्तम् , "अक्षरात्परतः परः" इत्यक्षरशब्दवाच्यात्प्रधानाद्भेदेन भूतयोनेः परत्वाभिधानात् । तस्मात् - ईश्वरो भूतयोनिः ॥
(सप्तमे परमेश्वरस्यैव वैश्वानरत्वाधिकरणेे सूत्राणि - )
सप्तमाधिकरणमारचयति -
वैश्वानरः कौक्षभूतदेवजीवेश्वरेषु कः ॥
वैश्वानरात्मशब्दाभ्यामीश्वरान्येषु कश्चन ॥ १३ ॥
द्युमूर्धत्वादितो ब्रह्मशब्दाच्चेश्वर इष्यते ॥
वैश्वानरात्मशब्दौ तावीश्वरस्यापि वाचकौ ॥ १४ ॥
छान्दोग्यस्य पञ्चमाध्याये वैश्वानरविद्यायामाम्नायते - "आत्मानं वैश्वारनमुपास्ते" इति । किमयं वैश्वानरः कुक्षिस्थितोऽग्निः, किंवा भूताग्निः, आहोस्वित् - आदित्यदेवता, किंवा जीवात्मा, अथवा परमात्मा, इति संशयः । तत्र वैश्वानरशब्दवशादाद्यं पक्षत्रयं प्राप्तम् । "अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे (येनेदमन्नं पच्यते )" इति श्रुतौ वैश्वानरशब्दो जाठराग्नौ प्रयुक्तः । "विश्वस्मा अग्निं भुवनाय देवा वैश्वानरम्" इति बाह्येऽग्नौ प्रयुक्तः । "वैश्वानरस्य सुमतौ स्याम" इति देवतायां प्रयुक्तः । अतः पक्षत्रयमुपपद्यते । आत्मशब्दस्य जीवे रूढत्वाज्जीवो वा वैश्वानरः स्यात् । न त्वीश्वरः, तद्नमकाभावात् । इति प्राप्ते, -
ब्रूमः - वैश्वानरो ब्रह्म भवितुमर्हति, द्युमूर्धत्वादिश्रवणात् । "तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य मूर्धैव सुतेजाः" इत्यादिना द्युलोकाद्यशेषजगतो वैश्वानरावयवत्वं श्रूयते । न चैतदीश्वरादन्यत्र सम्भवति । "किञ्च को न आत्मा, किं ब्रह्म" इति ब्रह्मशब्दश्चेश्वरे मुख्यः । वैश्वानरशब्दस्तु योगवृत्त्या ब्रह्मणि वर्तते । विश्वश्चासौ नरश्च विश्वानरः । सर्वात्मकपुरुष इत्यर्थः । विश्वानर एव वैश्वानरः । आत्मशब्दश्च जीववद्ब्रह्मण्यपि वर्तते । तस्मात् - वैश्वानरः परमेश्वरः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ७ १८
सूत्राणि ३३ ६४
(प्रथमे ब्रह्मण एव द्युभ्वाद्यायतनत्वाधिकरणे सूत्राणि - )
प्रथमाधिकरणमारचयति -
सूत्रं प्रधानं भोक्तेशो द्युभ्वाद्यायतनं भवेत् ॥
श्रुतिस्मृतिप्रतिद्धिभ्यां भोक्तृत्वाच्चेश्वरेतरः ॥ १ ॥
नाऽऽद्यौ पक्षावात्मशब्दान्न भोक्ता मुक्तगम्यतः ॥
ब्रह्मप्रकरणादीशः सर्वज्ञत्वादितस्तथा ॥ २ ॥
मुण्डकोनपषदि श्रूयते -
"यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथाऽऽत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः" इति ।
'द्युलोकभूलोकाद्यशेषं जगद्यस्मिन्नाधारे आश्रितम् , तमाधारमेकमेवाऽऽत्मानं जानीथ, न त्वाश्रितं द्युपृथिव्यादि । इतोऽतिरिक्ता अनात्मप्रतिपादिकास्तर्कशास्त्रादिवाचो विमुञ्चथ, अपुरुषार्थत्वात्' इत्यर्थः । अत्र (संशयः) - किं द्युभ्वाद्यायतनं सूत्रात्मा, किंवा प्रधानम् , अथवा भोक्ता, आहोस्वित् ईश्वरः - इति सन्देहः । सूत्रात्मा स्यात् , "वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः, सर्वाणि च भूतानि सन्दृब्धानि भवन्ति इति श्रुतिप्रसिद्ध्या वायोः सूत्रात्मनो द्युभ्वाद्यायतनत्वावगमात् । प्रधानं वा स्यात् , तस्य साङ्ख्यस्मृतिप्रसिद्ध्या सर्वाधारत्वावगमात् । भोक्ता वा स्यात् , "तमेवैकं जानथाऽऽत्मानम् । इत्यात्मशब्दात्" इति प्राप्ते, -
ब्रूमः - न तावदाद्यौ पक्षौ सम्भवतः, उक्तस्याऽऽत्मशब्दस्य तयोरसम्भवात् । नापि भोक्ता,
"(यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । )
तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परं साम्यमुपैति"
इति द्युभ्वाद्यायतनस्य मुक्तपुरुषप्राप्यत्वश्रवणाद्भोक्तुर्जीवस्य तत्प्राप्यत्वासम्भवात् । "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इत्येकविज्ञानेन सर्वविज्ञानमुपक्रान्तम् । "ब्रह्म वेद ब्रह्मैव भवति" इत्युपसंहृतम् । ततो ब्रह्मप्रकरणाद्भूतयोन्यधिकरणोक्तसर्वज्ञत्वादियुक्तेरपि ब्रह्मैव द्युभ्वाद्यायतनम् ॥
(द्वितीये परमात्मन एव भूमत्वाधिकरणे सूत्रे - )
द्वीतीयाधिकरणमारचयति -
भूमा प्राणः परेशो वा प्रश्नप्रत्युक्तिवर्जनात् ॥
अनुवर्त्यातिवादित्वं भूमोक्तेश्चासुरेव सः ॥ ३ ॥
विच्छिद्यैष त्विति प्राणं सत्यस्योपक्रमात्तथा ॥
महोपक्रम आत्मोक्तेरीशोऽयं द्वैतवारणात् ॥ ४ ॥
छान्दोग्ये सप्तमाध्याये नारदं प्रात सनत्कुमारो नामादीन्युत्तरोत्तरभूयांसि बहूनि तत्त्वान्युपदिस्यान्ते निरतिशयं भूमानमुपदिशति - "यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, स भूमा" इति । तत्र – भूमशब्दवाच्ये द्विधा सन्दिग्धे सति, 'प्राणः' इति तावत्प्राप्तम् । प्रश्नप्रत्युक्तिवर्जनात् । पूर्वेषु नामादितत्त्वेषु "अस्ति भगवो भूयः" इति नारदः पदे पदे पृच्छति, सनत्कुमारश्च 'अस्ति' इति प्रतिवक्ति, एवं च प्रश्नप्रतिवचनपूर्वकतया नामादीनि प्राणान्तानि तत्त्वान्युपदिश्य प्राणस्योपरि विनैव प्रश्नप्रत्युक्तिभ्यां भूमानमवतारयति । अतः प्राणभूम्नोर्मध्ये विच्छेदकस्याभावात्प्राण एव भूमा । किञ्च – प्राणतत्त्वमुपदिश्य प्राणोपासकतयाऽतिवादित्वनामकमुत्कर्षमभिधाय प्रकरणविच्छेदशङ्कानिवृत्तये तदेवातिवादित्वमनुवर्त्य भूमानमुपदिशन्प्राणभूम्नोरभेदं गमयति । तस्मात् - प्राणो भूमा ॥
इति प्राप्ते, ब्रूमः - अयं भूमा परमेश्वरः । कुतः - "एष तु वा अतिवदति यः सत्येनातिवदति" इत्यत्रातिवादित्वहेतुं प्राणोपासनं तुशब्देन व्यावर्त्य मुख्यातिवादित्वहेतोर्ब्रह्मणः सत्यशब्देन पृथगुपक्रमात् । तथा - परमोपक्रमे "तरति शोकमात्मवित्" इति वेद्यतया परमात्मोच्यते । तथा - "यत्र नान्यत्पश्यति" इति द्वैतनिषेधेन भूमो लक्षणमभिधीयते । तस्मात् - अद्वैतः परमात्मैव भूमा ॥
(तृतीये ब्रह्मण एवाक्षरताधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
अक्षरं प्रणवः किंवा ब्रह्म लोकेऽक्षराभिधा ॥
वर्णे प्रसिद्धा तेनात्र प्रणवः स्यादुपास्तये ॥ ५ ॥
अव्याकृताधारतोक्तेः सर्वधर्मनिषेधतः ॥
शासनाद्द्रष्टृतादेश्च ब्रह्मैवाक्षरमुच्यते ॥ ६ ॥
बृहदारण्यके पञ्चमाध्याये गार्गीं प्रति याज्ञवल्क्य आह – "एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनण्वह्रस्वम्" इति । अत्र – 'अक्षरशब्देन प्रणवो ब्रह्म वाऽभिधीयते' - इति सन्देहे, 'प्रणवः' इति प्राप्तम् । कुतः - लोके "येनाक्षरसमाम्नायमधिगम्य" इत्यादौ वर्णेऽक्षरशब्दप्रसिद्धेः । प्रणवाक्षरस्यात्रोपास्यतया वक्तव्यत्वात् । इति प्राप्ते, -
ब्रूमः - ब्रह्मैवाक्षरशब्दवाच्यम् । कुतः - "एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च" इत्याकाशशब्दवाच्यमव्याकृतं प्रत्यक्षरस्याऽऽधारतोक्तेः । प्रणवस्य तदसम्भवात् । किञ्च - "अस्थूलमनण्वह्रस्वम्" इत्यक्षरे सर्वसंसारधर्मा निषिध्यन्ते । तथा - "एतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इति तस्यैवाक्षरस्य जगच्छासितृत्वमुच्यते । (तथा) "तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ, अश्रुतं श्रोतृ" इत्यादिना द्रष्टृत्वादिकं प्रमाणाविषयत्वम् चाऽऽम्नातम् । तदेतत्सर्वं न प्रणवपक्षेऽवकल्पते । तस्मात् - ब्रह्मैवाक्षरम् ॥
(चतुर्थे परब्रह्मण ईक्षतिकर्मता (ध्येयता) धिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
त्रिमात्रप्रणवे ध्येयमपरं ब्रह्म वा परम् ॥
ब्रह्मलोकफलोक्त्यादेरपरं ब्रह्म गम्यते ॥ ७ ॥
ईक्षितव्यो जीवघनात्परस्तत्प्रत्यभिज्ञया ॥
भवेद्ध्येयं परं ब्रह्म क्रममुक्तिः फलिष्यति ॥ ८ ॥
प्रश्नोपनिषदि श्रूयते - "यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत" इति । तत्र 'ध्येयं वस्तु हिरण्यगर्भाख्यमपरं ब्रह्म, उत परं ब्रह्म' – इति संशये सति, 'अपरम्' इति तावत्प्राप्तम् । कुतः - "स सामभिरून्नीयते ब्रह्मलोकम्" इति कमलासनलोकप्राप्तिफलश्रवणात् । परब्रह्मध्यानस्य परमपुरुषार्थस्य तावन्मात्रफलत्वानुपपत्तेः । "पुरं पुरुषम्" इति परशब्दविशेषणमपरस्मिन्नपि ब्रह्मण्युपपद्यते । तस्यापीतरापेक्षया परत्वात् । इति प्राप्ते -
ब्रूमः - परमेव ब्रह्माभिध्येयम् । कुतः - ईक्षितव्यस्य परस्य ध्येयत्वेन प्रत्यभिज्ञानात् । "स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इति वाक्यशेषे श्रूयते । तस्यायमर्थः - 'य उपासनया ब्रह्मलोकं प्राप्तः, स एतस्मात्सर्वजीवसमष्टिरूपादुत्कृष्टाद्धिरण्यगर्भादप्युत्कृष्टं सर्वप्राणिहृदये शयानं परमात्मानं पश्यति' इति । तत्रेक्षितव्यो यः परमात्मा स एव वाक्योपक्रमे ध्यानविषयत्वेनाभिप्रेतः - इत्यवगम्यते । परपुरुषशब्दाभ्यां तस्य प्रत्यभिज्ञानात् । न च ब्रह्मलोकप्राप्तिमात्रं फलम् , क्रममुक्तिसम्भवात् । तस्मात् - ब्रह्मैव ध्येयम् ॥
(पञ्चमे ब्रह्मण एव दहराकाशत्वाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
दहरः को वियज्जीवो ब्रह्म वाऽऽकाशशब्दतः ॥
वियत्स्यादथवाऽल्पत्वश्रुतेर्जीवो भविष्यति ॥ ९ ॥
बाह्याकाशोपमानेन द्युभूम्यादिसमाहितेः ॥
आत्माऽपहतपाप्मत्वात्सेतुत्वाच्च परेश्वरः ॥ १० ॥
छान्दोग्यस्याष्टमाध्याये श्रूयते - "अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दहरोऽस्मिन्नन्तराकाशः, तस्मिन्यदन्तः, तदन्वेष्टव्यम् , तद्वाव विजिज्ञासितव्यम्" इति । 'ब्रह्मण उपलब्धिस्थानत्वेन शरीरं ब्रह्मपुरम् , तत्राल्पं हृदयपुण्डरीकं वेश्म यदवतिष्ठते, तस्मिन्वेश्मन्यल्प आकाशो वर्तते' इत्यर्थः । तत्राऽऽकाशस्य त्रेधा संशये सति, 'वियत्' इति तावत्प्राप्तम् , आकाशशब्दस्य वियति रूढत्वात् । यद्वा - दहरशब्देनाल्पत्वोक्तेः परिच्छिन्नो जीवो भविष्यति । न तु ब्रह्म ॥
इति प्राप्ते, ब्रूमः - ब्रह्मैवाऽऽकाशशब्दवाच्यम् । "यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः" इति प्रसिद्धेन वियतोपमितत्वात् । न हि वियतो वियदुपमानं सम्भवति । नाप्यल्पपरिमाणो जीवो वियत्परिमाणेनोपमातुं शक्यः । लौकिकरूढिस्तु श्रौतरूढ्या परिहृता । किञ्च – "उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते" इत्यादिना द्यावापृथिव्याद्यशेषजगदाधारत्वं दहराकाशस्य श्रूयते । "अथैष आत्माऽपहतपाप्मा" इत्यात्मत्वमपहतपाप्मत्वं च । "य आत्मा स सेतुर्विधृतिः" इति जगन्मर्यादानामसाङ्कर्याय विधारकत्वलक्षणसेतुत्वं च । तस्मादेतेभ्यो हेतुभ्यः परमात्मा ॥
(षष्ठ ईश्वरस्यैवाक्षिपुरुषत्वाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
यः प्रजापतिविद्यायां स किं जीवोऽथवेश्वरः ॥
जाग्रत्स्वप्नसुषुप्तोक्तेस्तद्वाञ्जीव इहोचितः ॥ ११ ॥
आत्माऽपहतपाप्मेति प्रकम्यान्ते स उत्तमः ॥
पुमानित्युक्त ईशोऽत्र जाग्रदाद्यवबुद्धये ॥ १२ ॥
दहरविद्याया उपरि प्रजापतिविद्यायामिन्द्रविरोचनप्रजापतिसंवादे श्रूयते - "य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच" इति । तत्र – 'जीवात्मा' इति प्राप्तम् । कुतः - अवस्थात्रयोपन्यासात् । "अक्षिणि पुरुषः" इति जागरणोपन्यासः ।
"य एष स्वप्ने महीयमानश्चरति" इति स्वप्नोपन्यासः । "सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति" इति सुषुप्तोपन्यासः । एवमवस्थात्रय उपन्यस्ते सत्यवस्थावाञ्जीवो ग्रहीतुमुचितः, ईश्वरस्यावस्थाराहित्यात् ॥
इति प्राप्ते, ब्रूमः - ईश्वरोऽत्र ग्रहीतव्यः । कुतः - "य आत्माऽपहतपाप्मा विजरो विमृत्युः" इति परमात्मानमुपक्रम्य "स उत्तमः पुरुषः" इत्यनेन परमात्मन एवोपसंहारात् । नच - एवंसति जागरणाद्युपन्यासवैयर्थ्यम् , शाखाचन्द्रन्यायेन परमात्मबोधोपयुक्तत्वात् । तस्मात् - ईश्वरोऽक्षिपुरुषः ॥
(सप्तमे चैतन्यस्य सर्वजगद्भासकत्वाधिकरणे सूत्रे - )
सप्तमाधिकरणमारचयति -
न तत्र सूर्यो भातीति तेजोन्तरमुतात्र चित् ॥
तेजोभिभावकत्वेन तेजोन्तरमिदं महत् ॥ १३ ॥
चित्स्यात्सूर्याद्यभास्यत्वात्तादृक्तेजोप्रसिद्धितः ॥
सर्वस्मात्पुरतो भानात्तद्भासा चान्यभासनात् ॥ १४ ॥
मुण्डकोपनिषदि श्रूयते -
"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति ।
अयमर्थः - 'तत्र पूर्वप्रकृते ज्योतिषां ज्योतिषि चन्द्रसूर्यादयो न भान्ति, किं तु तमेव ज्योतिषां भासकं पुरतो भासमानं पदार्थमनु सर्वं जगद्भाति । भासनदशायां न स्वतन्त्रेण भानेन जगद्भाति । किं तर्हि तस्य भासकपदार्थस्य भासा सर्वमिदं विभाति' इति । 'अस्मिन्वाक्ये श्रूयमाणं जगद्भासकं किं सूर्यादिसदृशं चाक्षुषं तेजोन्तरम्' , उत चैतन्यम् इति संशये - 'तेजोन्तरम्' इति प्राप्तम् । कुतः - सूर्यादितेजोभिभावकत्वात् । महतस्तेजसः संनिधौ स्वल्पं तेजोऽभिभूयते यथा सूर्यसंनिधौ दीपः । तथाच सूर्यादीनां यदभिभावकं, तत्सूर्यादिभ्योऽप्यधिकं तेजोन्तरमेव ॥
इति प्राप्ते, उच्यते - सूर्यादिभिरभास्यतया श्रूयमाणं वस्तु चैतन्यम् । कुतः - सूर्याद्यभिभावकस्य महतस्तेजोन्तरस्याप्रसिद्धत्वात् । किञ्च "तमेव भान्तमनुभाति सर्वम्" इति सर्वस्मात्पुरोभासमानत्वं चैतन्यधर्मः । तथा - "तस्य भासा सर्वमिदं विभाति" इति प्रकाशाप्रकाशरूपसर्वजगद्भासकत्वं चैतन्यधर्म एव । तस्माच्चैतन्यं वाक्यप्रतिपाद्यम् ॥
(अष्टमे परमेश्वरस्याङ्गुष्ठमात्रत्वाधिकरणे सूत्रे - )
अष्टमाधिकरणमारचयति -
अङ्गुष्ठमात्रो जीवः स्यादीशो वाऽल्पप्रमाणतः ॥
देहमध्ये स्थितेश्चैव जीवो भवितुमर्हति ॥ १५ ॥
भूतभव्येशता जीवे नास्त्यतोऽसाविहेश्वरः ॥
स्थितिप्रमाणे ईशेऽपि स्तो हृद्यस्योपलब्धितः ॥ १६ ॥
कठवल्लीषु चतुर्थवल्ल्यामाम्नायते -
"अङ्गुष्ठमात्र पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते " इति ।
तत्र – अङ्गुष्ठमात्रो जीवः । कुतः - "अङ्गुष्ठमात्रः" इत्यल्पप्रमाणत्वात् । "मध्य आत्मनि तिष्ठति" इति देहमध्यदेशावस्थानाच्च ॥
इति प्राप्ते, ब्रूमः - परमात्मा अङ्गुष्ठमात्रः । कुतः - "ईशानो भूतभव्यस्य" इत्यतीतानागतजगदीशितृत्वश्रवणात् । न च – ईशितृत्वं जीवेऽस्ति, जीवस्येशितव्यत्वात् । अल्पप्रमाणत्वं, देहमध्येऽवस्थानं चेश्वरस्यापि सम्भवतः, हृदयपुण्डरीके ब्रह्मण उपलम्भात्तदपेक्षया तदुभयसङ्कीर्तनात् । तस्मात् - अङ्गुष्ठमात्रः परमेश्वरः ॥
(नवमे देवादीनामप्यधिकारित्वाधिकरणे सूत्राणि - )
नवमाधिकरणमारचयति -
नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः ॥
विदेहत्वेन सामर्थ्यहानेर्नैषामधिक्रिया ॥ १७ ॥
अविरुद्धज्ञातवादिमन्त्रादेर्देहसत्त्वतः ॥
अर्थित्वादेश्च सौलभ्याद्देवाद्या अधिकारिणः ॥ १८ ॥
बृहदारण्यके तृतीयाध्याये श्रूयते - "तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् , तथर्षीणाम्" इति । 'देवानां मध्ये यो ब्रह्म बुबुधे स एव ब्रह्माभवत्' इत्यर्थः । तत्र 'देवर्षयो विद्यायां नाधिक्रियन्ते' इति प्राप्तम् । कुतः - 'अर्थी समर्थो विद्वाञ्शास्त्रेणापर्युदस्तोऽधिक्रियते' इत्युक्तानामधिकारहेतूनामशरीरेषु देवेष्वसम्भवात् । न च – मन्त्रार्थवादादिभ्यो देवानां विग्रहवत्त्वम् , विध्येकवाक्यतापन्नानां मन्त्रादीनां स्वार्थे तात्पर्याभावात् ॥
इति प्राप्ते ब्रूमः - त्रिविधो ह्यर्थवादः - गुणवादः, अनुवादः, भूतार्थवादश्चेति । तथा चाऽऽह -
"विरोधे गुणवादः स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः" इति ।
"आदित्यो यूपः" "यजमानः प्रस्तरः" इत्यादिषु प्रत्यक्षविरोधे सत्यादित्यादिवद्यागनिर्वाहकत्वगुण आदित्यादिशब्दैरुपलक्ष्यत इति गुणवादः । "अग्निर्हिमस्य भेषजम्" "वायुर्वै क्षेपिष्ठा देवता" इत्यादिषु मानान्तरसिद्धार्थानुवादित्वादनुवादत्वम् । तयोरुभयोः स्वार्थे तात्पर्यं मा भूत् । "इन्द्रो वृत्राय वज्रमुदयच्छत्" इत्यादिष्वविरुद्धेष्वननुवादेषु च भूतार्थवादेषु स्वतः प्रामाण्यवादे स्वार्थे तात्पर्यस्य निवारयितुमशक्यत्वात्पदैकवाक्यतया स्वार्थेऽवान्तरतात्पर्यं प्रतिपाद्य पश्चाद्वाक्यैकवाक्यतया विधिषु महातात्पर्यं भूतार्थवादाः प्रतिपद्यन्ते । मन्त्रेष्वप्ययं न्यायोयोज्यः । तथाच – मन्त्रार्थवादादिबलाद्देवादीनां विग्रहवत्त्वे सति श्रवणादिषु सामर्थ्यं सुलभम् । अर्थित्वं चैश्वर्यस्य क्षयित्वसातिशयत्वदर्शनान्मोक्षसाधनब्रह्मविद्याविषयमुपपद्यते । विद्वत्ता चोपनयनाध्ययनरहितानामपि स्वयम्भातवेदत्वात्सुलभैव । तस्मात् - देवानां विद्याधिकारो न निवारयितुं शक्यः । यद्यपि - आदित्यादिदेवतानामादित्याध्यानमिश्रासु सगुणब्रह्मविद्यासु ध्येयानामन्येषामादित्यादीनामसम्भवात् , आदित्यत्वादिप्राप्तिलक्षणस्य विद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः, तथाऽपि निर्गुणविद्यायामधिकारे को दोषः । तस्मादस्त्येवाधिकारः ॥
(दशमे शूद्रस्य ब्रह्मविद्यायामनधिकाराधिकरणे सूत्राणि - )
दशमाधिकरणमारचयति -
शूद्रोऽधिक्रियते वेदविद्यायामथवा न हि ॥
अत्रैवर्णिकदेवाद्या इव शूद्रोऽधिकारवान् ॥ १९ ॥
देवाः स्वयम्भातवेदाः शूद्रोऽध्ययनवर्जनात् ॥
नाधिकारी श्रुतौ स्मार्ते त्वधिकारो न वार्यते ॥ २० ॥
छान्दोग्यस्य चतुर्थाध्याये संवर्गविद्यायामाम्नायते - "आजहारेमाः शूद्र, अनेनैव मुखेनाऽऽलापयिष्यथाः" इति । जानश्रुतिर्नाम कश्चिच्छिष्यो गोसहस्रं दुहितरं मुक्ताहारं रथं कांश्चिद्ग्रामांश्चोपायनत्वेनाऽऽनीय रैक्वनामानं गुरुमुपससाद । तत्र रैक्ववचनमेतत् - 'हे शूद्र जानश्रुते, इमागोसहस्राद्या आहृतवानसि, अनेनैव दुहित्राद्युपायनमुखेन मच्चित्तं प्रसाद्योपदेशयिष्यसि' इति । तत्र 'शूद्रोऽपि वेदविद्यायामधिकारवान्' इति प्राप्तम् । अत्रैवर्णिकदेवदृष्टान्ताच्छूद्रस्याप्यत्रैवर्णिकस्य तत्सम्भवात् ॥
इति प्राप्ते ब्रूमः - अस्ति देवशूद्रयोवैषम्यम् । उपनयनाध्ययनाभावेऽपि स्वयम्भातवेदा देवाः, तादृशस्य सुकृतस्य पूर्वमुपार्जितत्वात् । शूद्रस्तु तादृशसुकृतराहित्यान्न स्वयम्भातवेदः । नापि तस्य वेदाध्ययनमस्ति, उपनयनाभावात् । अतो विद्वत्ताख्यस्याधिकारहेतोरभावान्न श्रौताविद्यायां शूद्रोऽधिकारी । कथं तर्हि - उदाहृते वाक्ये जानश्रुतिविषयः शूद्रशब्दः, 'यौगिकोऽयं, न रूढः' इति ब्रूमः । 'विद्याराहित्यजनितया शुचा गुरुं दुद्राव' इति शूद्रः । न च – रूढ्या योगापहारः, रूढेरत्रासम्भवात् । अस्मिन्नुपाख्याने क्षत्तृप्रेरणाद्यैश्वर्योपन्यासेन जानश्रुतेः क्षत्रियत्वावगमात् । ननु - शूद्रस्य वेदविद्यायामनधिकारे सति मुमुक्षायां सत्यामपि मुक्तिर्नसिध्येत् - इति चेत् । न । स्मृतिपुराणादिमुखेन ब्रह्मविद्योदये सति मुक्तिसिद्धेः । तस्मात् - न शूद्रो वेदविद्यायामधिक्रियते ॥
(एकादश ईश्वरस्यैव कम्पनहेतुताधिकरणे सूत्रम् - )
एकादशाधिकरणमारचयति -
जगत्कम्पनकृत्प्राणोऽशनिर्वायुरुतेश्वरः ॥
अशनिर्भयहेतुत्वाद्वायुर्वा देहचालनात् ॥ २१ ॥
वेदनादमृतत्वोक्तेरीशोऽन्तर्यामिरूपतः ॥
भयहेतुश्चालनं तु सर्वशक्तियुतत्वतः ॥ २२ ॥
कठवल्लीषु षष्ठवल्ल्यामाम्नायते -
"यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति॥" इति ।
अयमर्थः - "निःसृतमुत्पन्नं यदिदं जगत्सर्वं प्राणे निमित्तभूते सति कम्पते । तच्च प्राणशब्दवाच्यं वस्तूद्यतं वज्रमिव महाभयहेतुः । एतत्प्राणशब्दवाच्यं ये विदुः, ते मरणरहिता भवन्ति" इति । तत्र – जगत्कम्पनकारिणि प्राणे त्रेधा सन्दिग्धे सति - 'अशनिः' इति तावत्प्राप्तम् । कुतः - "महद्भयम्" इति भयहेतुत्वश्रवणात् । वायुर्वा भविष्यति "प्राण एजति" इति शब्दप्राणवाच्यस्य देहादिचालनकर्तृत्वावगमात् ॥
इति प्राप्ते, ब्रूमः - ईश्वरः प्राणशब्दवाच्यो भवितुमर्हति, "य एतद्विदुरमृतास्ते भवन्ति" इति तद्वेदनादमृतत्वोक्तेः । भयहेतुताऽप्यन्तर्यामिरूपेणेश्वरस्य भविष्यति "भीषाऽस्माद्वातः पवते" इति श्रुत्यन्तरात् । देहादिकम्पनत्वं च सर्वशक्तित्वादीश्वरस्योपपद्यते । तस्मात् - ईश्वरः प्राणशब्दवाच्यः ॥
(द्वादशे ब्रह्मण एव ज्योतिष्ट्वाधिकरणे सूत्रम् - )
द्वादशाधिकरणमारचयति -
परं ज्योतिस्तु सूर्यस्य मण्डलं ब्रह्म वा भवेत् ॥
समुत्थायोपसम्पद्येत्युक्त्या स्याद्रविमण्डलम् ॥ २३ ॥
समुत्थानं त्वम्पदार्थशुद्धिर्वाक्यार्थबोधनम् ॥
सम्पत्तिरुत्तमत्वोक्तेर्ब्रह्म स्यादस्य साक्ष्यतः ॥ २४ ॥
छान्दोग्येऽष्टमाध्याये प्रजापतिविद्यायामाम्नायते - "एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः" इति । अस्यायमर्थः - 'सम्यक्प्रसीदत्यस्यामवस्थायाम्' इति सम्प्रसादः सुषुप्तिः तस्यामवस्थायां तद्वाञ्जीव उपलक्ष्यते । 'एष जीवोऽस्माच्छरीरात्समुत्थाय' इति । शेषं सुगमम् । तत्र ज्योतिःशब्दवाच्ये द्वेधा सन्दिग्धे सति, 'रविमण्डलम्' इति तावत्प्राप्तम् । कुतः - "शरीरात्समुत्थाय ज्योतिरुपसम्पद्य" इति 'देहान्निर्गत्य ज्योतिः प्राप्नोति' इत्युच्यमानत्वात् । ब्रह्मप्राप्तौ निर्गमाभावात्प्राप्तृप्राप्तव्यभेदानुपपत्तेश्च ॥
इति प्राप्ते, ब्रूमः - ज्योतिःशब्दवाच्यं ब्रह्म स्यात् । कुतः - "स उत्तमः पुरुषः" इत्युत्तमपुरुषकीर्तनाद्रविमण्डलस्य तदयोगात् । "यो वेद – इदं जिघ्राणि - इति, स आत्मा । यो वेद – इदं शृण्वानि - इति, स आत्मा" इत्यादिना घ्रातृ - घ्राण – घ्रेय – श्रोतृ - श्रवण – श्रोतव्यादिसाक्षित्वमात्मनः श्रूयते । तदेकवाक्यतया ज्योतिःशब्दवाच्यं ब्रह्म । यदुक्तम् - 'शरीरात्समुत्थाय, ज्योतीरूपं सम्पाद्य' इत्येतद्द्वयं ब्रह्मपक्षे न सम्भवति - इति । तदसत् । न ह्यत्र समुत्थानं निर्गमनम् , किं तर्हि त्वम्पदार्थस्य जीवस्य शरीरत्रयाद्विवेकः । नाप्युपसम्पत्तिः प्राप्तिः, किं तर्हि तस्य शोधितत्वं पदार्थस्य ब्रह्मत्वेनावबोधनम् । तस्मात् - ज्योतिर्ब्रह्म ॥
(त्रयोदशे ब्रह्मण एव नामरूपनिर्वाहकताधिकरणे सूत्रम् - )
त्रयोदशाधिकरणमारचयति -
वियद्वा ब्रह्म वाऽऽकाशो वै नामेति श्रुतं, वियत् ॥
अवकाशप्रदानेन सर्वनिर्वाहकत्वतः ॥ २५ ॥
निर्वोढृत्वं नियन्तृत्वं चैतन्यस्यैव तत्त्वतः ॥
ब्रह्म स्याद्वाक्यशेषे च ब्रह्मात्मेत्यादिशब्दतः ॥ २६ ॥
छान्दोग्यस्याष्टमाध्यायस्यान्ते श्रूयते - "आकाशो ह वै नामरूपयोर्निर्वहिता, ते यदन्तरा तद्ब्रह्य, तदमृतम् , स आत्मा" इति । "अस्यायमर्थः - आकाशाख्यः कश्चित्पदार्थः स च जगद्रूपयोर्नामरूपयोर्निर्वहिता निर्वाहकः । ते च नामरूपे यस्मादाकाशाद्भिन्ने, अथवा - यस्याऽऽकाशस्यान्तराले वर्तेते । तदाकाशं मरणरहितं ब्रह्म, तदेव प्रत्यगात्मा" इति । तत्र "आकाशो ह वै नाम" – इति यच्छ्रुतं, तद्वियत् स्यात् , "नामरूपयोर्निर्वहिता" इत्युक्तस्य निर्वाहकत्वस्यावकाशप्रदातरि वियति सम्भवात् ॥
इति प्राप्ते, ब्रूमः - अत्र निर्वाहकत्वं नाम नावकाशप्रदानमात्रम् । किन्तु नियामकत्वम् । सर्वप्रकारनिर्वाहकत्वस्य नियन्तृत्वान्तर्भावात् । तच्च नियन्तृत्वं चेतनस्य ब्रह्मणो युज्यते । श्रुत्यन्तरे च श्रूयते - "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति । न हि वियतोऽचेतनस्य नियम्यविशेषानजानतो नियन्तृत्वं सम्भवति । तत आकाशं ब्रह्म स्यात् । किञ्च वाक्यशेषे "तद्ब्रह्म, तदमृतं, स आत्मा" इति ब्रह्मत्वामृतत्वात्मत्वानि श्रूयन्ते । ततोऽपि ब्रह्मैवाऽऽकाशम् ॥
(चतुर्दशे ब्रह्मण एव विज्ञानमयत्वाधिकरणे सूत्रे - )
चतुर्दशाधिकरणमारचयति -
स्याद्विज्ञानमयो जीवो ब्रह्म वा जीव इष्यते ॥
आदिमध्यावसानेषु संसारप्रतिपादनात् ॥ २७ ॥
विविच्य लोकसंसिद्धं जीवं प्राणाद्युपाधितः ॥
ब्रह्मत्वमन्यतोऽप्राप्तं बोध्यते ब्रह्म नेतरत् ॥ २८ ॥
बृहदारण्यके षष्ठाध्याये श्रूयते - "योऽयं विज्ञानमयः प्राणिषु हृद्यन्तर्ज्योतिः पुरुषः समानः सन्नुभौ लोकावनुसञ्चरति" इति । अस्यायमर्थः - 'विज्ञानमयो लिङ्गशरीरमयः । तेन स्थूलदेहव्यतिरेकः सिद्धः । प्राणेषु चक्षुरादीन्द्रियेषु, प्राणादिवायुषु च, हृद्यन्तःकरणे, सप्तमीविभक्त्याधारत्वनिर्देशादाधेयस्य पुरुषस्येन्द्रियवायुमनोतिरिक्तत्वं सिद्धम् । अन्तःशब्देन धीवृत्तिभ्यः कामसङ्कल्पादिभ्यो व्यतिरेकः सिद्धः । बुद्धिपरिणामरूपाणां तासां वृत्तीनां बहिर्भावात् । एवं च सति - स्थूलदेहेन्द्रियेभ्यः प्राणवायुभ्योऽन्तःकरणात्तद्वृत्तिभ्यश्च व्यतिरिक्तः, तेषां साक्षित्वेन चिज्ज्योतिःस्वरूपः पुरुषः - इत्युक्तं भवति । स च पुरुषो लिङ्गशरीरतादात्म्याध्यासेन लिङ्गशरीरेण समानः सन्निहलोकपरलोकावनुसञ्चरति' इति । तत्र विज्ञानमयो जीवो भवितुमर्हति, ज्योतिर्ब्राह्मण – शारीरब्राह्मणयोरादिमध्यावसानेषु संसारस्यैव प्रपञ्च्यमानत्वात् । आदौ तावत् - "उभौ लोकावनुसञ्चरति" इति संसारोक्तिः स्पष्टा । मध्ये च – सम्प्रसादस्वप्नान्तबुद्धान्तकण्डिकाभिरवस्थात्रयं प्रपञ्च्यते । अन्तेऽपि "स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयः" इत्यादिना सोपाधिकस्वरूपवर्णनेन संसार एवोच्यते । तस्मात् - जीवः ॥
इति प्राप्ते, ब्रूमः - न तावज्जीवोऽत्र प्रतिपाद्यः, लौकिकादहंप्रत्ययादेव सिद्धत्वात् । किमर्थं तर्हि जीवाद्यभिधानम् - इति चेत् । प्राणाद्युपाधिभ्यो विवेक्तुमादावभिधानम् । मध्येऽप्यवस्थात्रयसङ्गराहित्यं दर्शयितुमभिधीयते । अन्ते तूक्तजीवस्वरूपमनूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते । ब्रह्मत्वस्य मानान्तरेणाप्राप्तत्वात् । तस्मात् - ब्रह्मात्र प्रतिपाद्यम् , न तु जीवः । इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्रजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि १४ ३२
सूत्राणि ४३ १०७
(प्रथमे कारणशरीरस्यैवाव्यक्तशब्दवाच्यताधिकरणे सूत्राणि - )
चतुर्थपादस्य प्रथमाधिकरणमारचयति -
महतः परमव्यक्तं प्रधानमथवा वपुः ॥
प्रधानं साङ्ख्यशास्त्रोक्ततत्त्वानां प्रत्यभिज्ञया ॥ १ ॥
श्रुतार्थप्रत्यभिज्ञानात्परिशेषाच्च तद्वपुः ॥
सूक्ष्मत्वात्कारणावस्थमव्यक्ताख्यां तदर्हति ॥ २ ॥
कठवल्लीषु तृतीयवल्ल्यामाम्नायते -
"महतः परमव्यक्तमव्यक्तात्पुरुषः परः" इति ।
अत्र – अव्यक्तशब्देन साङ्ख्याभिमतं प्रधानमभिधीयते । कुतः - प्रत्यभिज्ञानात् । महदव्यक्तपुरुषाः साङ्ख्यशास्त्रे परापरभावेन यथा प्रसिद्धाः, तथैव श्रुतौ प्रत्यभिज्ञायन्ते । तस्मात् - अव्यक्तशब्दवाच्यं प्रधानम् ॥
इति प्राप्ते, ब्रूमः - अव्यक्तशब्दवाच्यं वपुर्भवितुमर्हति । पूर्ववाक्योक्तशरीरस्यात्र प्रत्यभिज्ञानात् । पूर्वस्मिन्वाक्ये शरीरादीनि रथादित्वेनोक्तानि -
"आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्" इति ।
तानि पूर्ववाक्योक्तानि वस्तून्यस्मिन्वाक्ये प्रत्यभिज्ञायन्ते ।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
इति स्मार्तप्रत्यभिज्ञानादपि श्रौतं प्रत्यभिज्ञानं प्रत्यासन्नत्वात्प्रबलम् । नन्वेवमपि बहूनां प्रत्यभिज्ञायमानत्वाच्छारीरमेवाव्यक्तशब्दवाच्यम् - इति कुतो विनिगमः । 'परिशेषात्' इति ब्रूमः । तथाहि - पूर्वस्मिन्वाक्ये इन्द्रियार्थमनोबुद्धिशब्दैर्निर्दिष्टाः पदार्थाः, उत्तरस्मिन्वाक्ये तैरेव शब्दैर्निर्दिश्यन्ते । पूर्वत्राऽऽत्मशब्देन निर्दिष्टं वस्तूत्तरत्र पुरुषशब्देनोपदिष्टम् । उत्तरवाक्ये महच्छब्देन यदुक्तम् , तत्पूर्ववाक्ये बुद्धिशब्देन सङ्गृहीतम् । बुद्धिर्हि द्विधा - अस्मदादीनां बुद्धिरेका, तत्कारणभूता हिरण्यगर्भबूद्धिरपरा महच्छब्दवाच्या । तयोः पूर्वत्रैकत्वेन निर्दिष्टयोरुत्तरत्र भेदेन निर्देशः । एवं सति पूर्ववाक्ये शरीरमेकं परिशिष्टम् , उत्तरवाक्ये चाव्यक्तशब्दः परिशिष्यते । न च – एवं परिशेषेऽपि शरीरस्य स्पष्टत्वादव्यक्तशब्दवाच्यत्वमनुपपन्नम् - इति शङ्कनीयम् , कारणावस्थापन्नस्य शरीरस्य सूक्ष्मत्वेनास्पष्टतयाऽव्यक्तशब्दार्हत्वात् । तस्मात् - अव्यक्तशब्दवाच्यं वपुः ॥
(द्वितीये तेजोबन्नात्मकप्रकृतेरेवाजात्वाधिकरणे सूत्राणि - )
द्वितीयाधिकरणमारचयति -
अजेह साङ्ख्यप्रकृतिस्तेजोबन्नात्मिकाऽथवा ॥
रजआदौ लोहितादिलक्ष्येऽसौ साङ्ख्यशास्त्रगा ॥ ३ ॥
लोहितादिप्रत्यभिज्ञा तेजोबन्नादिलक्षणाम् ॥
प्रकृतिं गमयेच्छ्रौतीमजाक्लृप्तिर्मधुत्ववत् ॥ ४ ॥
श्वेताश्वतरोपनिषदि चतुर्थाध्याये श्रूयते - "अजामेकां लोहितशुक्लकृष्णाम्" इति । अत्र – अजाशब्देन साङ्ख्यशास्त्रोक्ता प्रधानशब्दवाच्या प्रकृतिर्विवक्षिता । अथवा - छान्दोग्य श्रुतावुक्ता तेजोबन्नात्मिका प्रकृतिः, इति सन्देहे 'प्रधानम्' इति तावत्प्राप्तम् । कुतः - सत्त्वरजस्तमोगुणात्मत्वप्रतीतेः । यद्यपि लोहितशुक्लकृष्णवर्णा एव श्रूयन्ते, न तु गुणाः । तथाऽपि लोहितादिशब्दैर्गुणा लक्ष्यन्ते । तत्र लोहितशब्देन रञ्जकत्वसाम्याद्रजोगुण उपलक्षितः, शुक्लशब्देन स्वच्छत्वसाम्यात्सत्त्वगुणः, कृष्णशब्देनाऽऽवरकत्वसाम्यात्तमोगुणः । एवंसति शास्त्रान्तरप्रतीतिरनुगृहीता भवति । तस्मात् - प्रधानम् ॥
इति प्राप्ते, ब्रूमः - "यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपाम् , यत्कृष्णं तदन्नस्य" इति छान्दोग्ये तेजोबन्नात्मिकायाः प्रकृतेर्लोहितशुक्लकृष्णरूपाणि श्रुतान्येवात्र प्रत्यभिज्ञायन्ते । तत्र श्रौतप्रत्यभिज्ञायाः प्राबल्यात् , लोहितादिशब्दानां मुख्यार्थसम्भवाच्च तेजोबन्नात्मिका प्रकृतिरजेति गम्यते । यद्यपि - अजाशब्दश्छगवाचित्वान्नोक्तप्रकृतौ रूढः । नापि 'न जायते' इति योगः सम्भवति, तेजोबन्नानां ब्रह्मणो जातत्वात् । तथाऽपि च्छागत्वमुक्तप्रकृतौ सुखावबोधाय परिकल्प्यते । यथा - आदित्यस्यामधुनो मधुत्वम् "असौ वा आदित्यो देवमधु" इत्यादिवाक्येन परिकल्पितम् , तद्वत् । तस्मात् - तेजोबन्नात्मिका प्रकृतिरजा, न साङ्ख्योपसङ्ग्रहादपि ॥
(तृतीये प्राणादीनामेव पञ्चजनत्वाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
पञ्च पञ्चजनाः साङ्ख्यतत्त्वान्याहो श्रुतीरिताः ॥
प्राणाद्याः साङ्ख्यतत्त्वानि पञ्चविंशतिभासनात् ॥ ५ ॥
न पञ्चविंशतेर्भानमात्माकाशातिरेकतः ॥
संज्ञा पञ्चजनेत्येषा प्राणाद्याः संज्ञिनः श्रुताः ॥ ६ ॥
बृहदारण्यके षष्ठाध्याये श्रूयते -
"यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्" ॥
अस्यायमर्थः - 'पञ्च पञ्चजना आकाशश्च यस्मिन्नाश्रिताः, तमेवाऽऽश्रयभूतमात्मानममृतं ब्रह्म मन्ये । इत्थं विद्वानहममृतो भवामि' इति । तत्र – "पञ्च पञ्चजनाः" इति प्रोक्ताः पदार्थाः किं साङ्ख्यशास्त्रोक्ततत्त्वानि, आहोस्वित् - श्रुतिप्रोक्ताः प्राणचक्षुःश्रोत्रमनोन्नसंज्ञकाः, - इति सन्देहे, 'साङ्ख्यतत्त्वानि' इति तावत्प्राप्तम् । कुतः - पञ्चविंशतिसङ्ख्यायाः साङ्ख्यशास्त्रप्रसिद्धाया अत्रावभासनात् । तथाहि - 'पञ्च पञ्च' इति शब्दद्वयं श्रूयते । तत्रैकेन पञ्चशब्देन तत्त्वगता पञ्चसङ्ख्या विवक्षिता, द्वितीयेन पञ्चसङ्ख्याविषयाऽपरा पञ्चसङ्ख्या विवक्षिता । तथाच 'पञ्चसङ्ख्याविशिष्टानि तत्त्वपञ्चकानि' इत्युक्तं भवति । ततश्च पञ्चभिः पञ्चकैः पञ्चविंशत्यवभासनात् ॥
साङ्ख्यतत्त्वानां प्राप्तौ ब्रूमः - यद्यपि पञ्चसङ्ख्याविषयाऽपरा पञ्चसङ्ख्या श्रूयते, तथाऽपि न पञ्चविंशतिरियं भवितुं शक्नोति, पञ्चविंशतिसङ्ख्यानां तत्त्वानामाश्रयत्वेनाऽऽत्मनोऽवभासनात् । नह्ययमात्मा पञ्चविंशत्यन्तःपाती । तथाच सति 'एकस्यैवाऽऽधेयत्वमाधारत्वं च' इति विरोधप्रसङ्गात् । आकाशोऽप्यपरः श्रूयते । न च तस्यापि पञ्चविंशत्यन्तःपातित्वम् , "आकाशश्च" इति पृथग्निर्देशसमुच्चययोर्विधानात् । तत आत्माकाशाभ्यां सह सप्तविंशतिसम्पत्तेर्न साङ्ख्यतत्त्वानामत्रावकाशः । कस्तर्हि वाक्यार्थः - उच्यते - पञ्चजनशब्दोऽयं समस्तः संज्ञावाची, "दिक्सङ्ख्ये संज्ञायाम्" (पा० सू० २ । १ । ५०) इति समासविधानात् । ततः 'पञ्चजनसंज्ञकाः पदार्थाः पञ्चसङ्ख्याकाः' इत्युक्तं भवति । संज्ञिनस्तु वाक्यशेषात्प्राणादयोऽवगन्तव्याः । "प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नम् , मनसो ये मनो विदुः" इति वाक्य़शेषः । प्राणादीनां पञ्चानां साक्षी चिदात्मा द्वितीयैः प्राणादिशब्दैरभिधीयते । तस्माद्वाक्यशेषात्प्राणादयः पञ्चजना भवेयुः ॥
(चतुर्थे जगद्योनौ ब्रह्मण्येव वेदान्तवाक्यसमन्वयाधिकरणे सूत्रे - )
चतुर्थाधिकरणमारचयति -
समन्वयो जगद्योनौ न युक्तो युज्यतेऽथवा ॥
न युक्तो वेदवाक्येषु परस्परविरोधतः ॥ ७ ॥
सर्गक्रमविवादेऽपि नासौ स्रष्टरि विद्यते ॥
अव्याकृतमसत्प्रोक्तं युक्तोऽसौ कारणे ततः ॥ ८ ॥
योऽयं वेदान्तसमन्वयो जगत्कारणविषयः सार्धैस्त्रिभिः पादैः प्रतिपादितः, तमाक्षिप्य समाधातुमयमारम्भः - 'न युक्तोऽयं समन्वयः' इति तावत्प्राप्तम् । कुतः - वेदान्तेषु बहुशो विरोधप्रतीतेः प्रामाण्यस्यैव दुःसम्पादत्वात् । तथाहि - "आत्मन आकाशः सम्भूतः" इति तैत्तिरीयके वियदादीन्प्रति स्रष्टृत्वं श्रूयते, छान्दोग्ये - "तत्तेजोऽसृजत" इति तेज आदीन्प्रति । ऐतरेयके- "स इमाल्लोकानसृजत" इति लोकान्प्रति । मुण्डके - "एतस्माज्जायते प्राणः" इति प्राणादीन्प्रति । न केवलं कार्यद्वारेणैव विरोधः, किन्तु कारणस्वरूपोपन्यासेऽपि - "सदेव सौम्येदमग्र आसीत्" इति च्छान्दोग्ये सद्रूपत्वं कारणस्यावगम्यते । तैत्तिरीयके - "असद्वा इदमग्र आसीत्" इत्यसद्रूपत्वम् । ऐतरेयके तु - "आत्मा वा इदमेक एवाग्र आसीत्" इत्यात्मरूपत्वम् । अतो विरोधान्न समन्वयः ॥
इति प्राप्ते, ब्रूमः - भवतु नाम सृष्टेषु वियदादिषु तत्क्रमे च विवादः । वियदादीनामतात्पर्यविषयत्वादद्वितीयब्रह्मबोधायैव तदुपन्यासः । तात्पर्यविषये तु जगत्स्रष्टरि ब्रह्मणि न क्वापि विरोधोऽस्ति । क्वचित्सच्छब्देनोक्तस्य ब्रह्मणोऽन्यत्र सर्वजीवस्वरूपविवक्षयाऽऽत्मशब्देनाभिधानात् । यत्तु - असच्छब्देनाभिधानम् , तदव्यकृतत्वाभिधानाभिप्रायम् । न त्वत्यन्ताभावाभिप्रायम् , "कथमसतः सज्जायेत" इति श्रुत्यन्तरेणाभावस्य कारणत्वनिषेधात् । तस्मात् - एकवाक्यतायाः सुसम्पादत्वाद्युक्तो जगत्कारणे समन्वयः ॥
(पञ्चमे परमात्मन एव जगत्कर्तृत्वाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
पुरुषाणां तु कः कर्ता प्राणजीवपरात्मसु ॥
कर्मेति चलने प्राणो जीवोऽपूर्वे विवक्षिते ॥ ९ ॥
जगद्वाची कर्मशब्दः पुंमात्रविनिवृत्तये ॥
तत्कर्ता परमात्मैव न मृषावादिता ततः ॥ १० ॥
कौषीतकिब्राह्मणोपनिषदि बालाकिनाम्ना ब्राह्मणेनाऽऽदित्यादिषु षोडशसु पुरुषेषु ब्रह्मत्वेनोक्तेषु राजा तान्निराकृत्य स्वयमाह – "यो वै बालाके, एतेषां पुरुषाणां कर्ता, यस्य वै तत्कर्म, स वै वेदितव्यः" इति । अत्र त्रेधा संशये सति 'प्राणः' इति तावत्प्राप्तम् । कुतः - कर्मशब्दस्य चलनवाचित्वात् । देहादिचालनस्य प्राणासम्बन्धित्वात् । अथवा - पुरुषाणां कर्ता जीवो भवेत् । कुतः - कर्मशब्दस्यापूर्ववाचित्वात् । जीवस्य चापूर्वस्वामित्वात् सर्वथा न परमात्मा ॥
इति प्राप्ते, ब्रूमः - नात्र कर्मशब्दश्चलने वर्तते, नाप्यपूर्वे । किन्त्वयं जगद्वाची, 'क्रियत इति कर्म' इति व्युत्पत्तेः । सति जगद्वाचित्वे कर्मशब्दः सप्रयोजनो भविष्यति, पुरुषमात्रकर्तृत्वशङ्कानिवृत्त्यर्थत्वात् । तथाच श्रुतिवाक्याक्षराण्येवं योजयितव्यानि - 'हे बालाके त्वदुक्तानां पुरुषाणां षोडशानां यः कर्ता स एव वेदितव्यः' । न तु ते पुरुषाः । अथवा किमनेन 'षोडशानां कर्ता' इति सङ्कोचेन – एतत्कृत्स्नं जगद्यस्य कार्यम् , 'स एव वेदितव्यः' इति । कृत्स्नजगत्कर्तृत्वं च परमात्मन एव । न जीवप्राणयोः । एवं सति राज्ञो मृषावादित्वदोषो न भवति, "ब्रह्म ते ब्रवाणि" इति प्रतिज्ञाय षोडश पुरुषान्ब्रुवतो बालाकेः "मृषा वै किल" – इत्यनेन मृषावादित्वमापाद्य राजा स्वयं ब्रह्म विवक्षुर्यदि प्राणजीवौ ब्रूयात् , तदा बालाकेरिव राज्ञो मृषावादित्वं स्यात् । तच्चायुक्तम् । तस्माद् - वाक्योक्तो जगत्कर्ता परमात्मैव ॥
(षष्ठे परमात्मन एव दर्शनयोग्यात्मत्वाधिकरणे सूत्रिाणि - )
षष्ठाधिकरणमारचयति -
आत्मा द्रष्टव्य इत्युक्तः संसारी वा परेश्वरः ॥
संसारी पतिजायादिभोगप्रीत्याऽस्य सूचनात् ॥ ११ ॥
अमृतत्वमुपक्रम्य तदन्तेऽप्युपसंहृतम् ॥
संसारिणमनूद्यातः परेशत्वं विधीयते ॥ १२ ॥
बृहदारण्यके चतुर्थाध्याये मैत्रेयीं भार्यां प्रति याज्ञवल्क्यः पतिरुपदिशति - "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इति । अत्र – आत्मनि द्वेधा सन्दिग्धे सति 'संसारी' इति तावत्प्राप्तम् । कुतः - "न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति" इत्यादिवाक्यैर्भोगप्रीतियुक्तस्याऽऽत्मनः संसारित्वसूचनात् । अयमत्र वाक्यार्थः - 'पत्यौ प्रीतिं कुर्वती जाया न पत्युः सुखाय प्रीतिं करोति । किन्तु स्वसुखायैव' । एवं पतिपुत्रादयोऽपि स्वस्वभोगायैवेतरत्र प्रीतिं कुर्वन्ति, इति भोगश्च नासङ्गस्येश्वरस्यावकल्प्यते । तस्मात् - संसारी ।
इति प्राप्ते, ब्रूमः - एतद्वाक्योपक्रमे मैत्रेयी 'वित्तसाध्येन कर्मणा किं ममामृतत्वं स्यात्' इति पप्रच्छ । याज्ञवल्क्यस्तु "अमृतस्य तु नाऽऽशाऽस्ति वित्तेन" इति 'अमृत्वं प्रत्याशाऽपि कर्मणा नास्ति' इत्युत्तरमाह । ब्राह्मणावसानेऽपि "एतावदरे खल्वमृतत्वम्" इत्युपसंहृतम् । अत उपक्रमोपसंहारवशादमृतत्वसाधनमात्मज्ञानमत्र प्रतिपाद्यम् । जीवात्मज्ञानं च नामृतत्वसाधनम् । तस्मात् - भोगप्रीतिसूचितं जीवमनूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते ॥
(सप्तमे ब्रह्मण एवोपादाननिमित्तकारणत्वाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
निमित्तमेव ब्रह्म स्यादुपादानं च वीक्षणात् ॥
कुलालवन्निमित्तं तन्नोपादानं मृदादिवत् ॥ १३ ॥
बहु स्यामित्युपादानभावोऽपि श्रुत ईक्षितुः ॥
एकबुद्ध्या सर्वधीश्च तस्माद्ब्रह्मोभयात्मकम् ॥ १४ ॥
जगत्कारणत्वप्रतिपादकानि सर्वाणि वाक्यानि विषयः । तत्र – 'किं ब्रह्म निमित्तकारणमेव, उत – उपादानकारणमपि' इति सन्देहे 'निमित्तिकारणमेव' इति तावत्प्राप्तम् । कुतः - "तदैक्षत" – इति सृज्यकार्यविषयपर्यालोचनश्रवणात् । पर्यालोचनं च निमित्तभूते कुलालादावेव दृष्टम् । नोपादानभूतमृदादौ । तस्मात् - निमित्तकारणमेव ॥
इति प्राप्ते, ब्रूमः - "तदैक्षत बहु स्यां प्रजायेय" इतीक्षितुरेव प्रकर्षेणोत्पत्त्या बहुभावः श्रूयते । तत उपादानत्वमस्ति । किञ्च "येनाश्रुतं श्रुतं भवति" इत्यादिना ब्रह्मण्येकस्मिञ्छ्रुते सति, अश्रुतमपि जगच्छ्रुतमेव भवति इति प्रतिपाद्यते । तदेकविज्ञानेन सर्वविज्ञानं च । तच्च ब्रह्मणः सर्वोपादानत्वे सति ब्रह्मव्यतिरेकेण कार्याणामभावादुपपादयितु सुशकम् । केवलनिमित्तत्वे तु सर्वेषु कार्येषु ब्रह्मव्यतिरिक्तेषु सत्सु कथं नामैकविज्ञानेन सर्वविज्ञानं प्रतिपाद्यते । तस्मात् - उभयविधकारणं ब्रह्म ॥
(अष्टमे ब्रह्मण एव जगत्कारणत्वाधिकरणे सूत्रम् - )
अष्टमाधिकरणमारचयति -
अण्वादेरपि हेतुत्वं श्रुतं ब्रह्मण एव वा ॥
वटधानादिदृष्टान्तादण्वादेरपि तच्छ्रुतम् ॥ १५ ॥
शून्याण्वादिष्वेकबुद्ध्या सर्वबुद्धिर्न युज्यते ॥
स्युर्ब्रह्मण्यपि धानाद्यास्ततो ब्रह्मैव कारणम् ॥ १६ ॥
वेदान्ता विषयः । तत्र किं ब्रह्मण इव परमाणुशून्यादीनामपि श्रौतं कारणत्वमस्ति, अथवा - सर्वत्र ब्रह्मण एव कारणत्वं प्रतिनियतम् , इति संश्यः । अण्वादेरपि कारणत्वं श्रौतम् । वटधानादिदृष्टान्तश्रवणात् । तथा हि - छान्दोग्ये षष्ठाध्याये श्वेतकेतुं प्रत्युपदिशन्नुद्दालकः सूक्ष्मतत्त्वे स्थूलस्य जगतोऽन्तर्भावं प्रतिपादयितुं महावृक्षगर्भितानि वटबीजानि दृष्टान्तत्वेनोदाजहार । अतस्तादृशाः परमाणवो दार्ष्टान्तिके श्रुता भवन्ति । शून्यस्य तु "असद्वा इदमग्र आसीत्" इति साक्षादेव कारणत्वं श्रुतं ।"स्वभावमेके कवयो वदन्ति, कालं तथाऽन्ये" इति स्वभावकालपक्षौ श्रुतौ । तस्मात् - परमाण्वादीनामपि श्रौतं कारणत्वम् ॥
इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं शून्यादिमतेषु नोपपद्यते । शून्यादिभिरजन्यस्य ब्रह्मणः शून्यादिज्ञानेनाज्ञातत्वात् । धानादृष्टान्तस्तु ब्रह्मण्यपीन्द्रियागम्यतया सूक्ष्मत्वादुपपद्यते । असच्छब्दस्य नामरूपराहित्याभिप्रायश्चतुर्थाधिकरणे वर्णितः । स्वभावकालपक्षौ तु पूर्वपक्षत्वेन श्रुत्योपन्यस्तौ । तस्मात् - ब्रह्मैव श्रुत्यभिहितं जगत्कारणं, न परमाण्वादीनि, इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ ४ ॥
॥ समाप्तश्च प्रथमोऽध्यायः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि ८ ४०
सूत्राणि २८ १३५