वैयासिकन्यायमाला
स्मृत्यधिकरणम्
(प्रथमे साङ्ख्यस्मृतेर्बाध्यत्वाधिकरणे सूत्रे - )
प्रथमाधिकरणमारचयति -
साङ्ख्यस्मृत्याऽस्ति सङ्कोचो न वा वेदसमन्वये ॥
धर्मे वेदः सावकाशः सङ्कोचोऽनवकाशया ॥ १ ॥
प्रत्यक्षश्रुतिमूलाभिर्मन्वादिस्मृतिभिः स्मृतिः ॥
अमूला कापिली बाध्या न सङ्कोचोऽनया ततः ॥ २ ॥
अस्मिन्पादे सर्वेष्वधिकरणेषु पूर्वाध्यायोक्तः समन्वयो विषयः । तत्रास्मिन्नधिकरणे वैदिकस्य समन्वयस्य साङ्ख्यास्मृत्या सङ्कोचोऽस्ति न वा इति सन्देहः । सङ्कोचोऽस्ति, इति तावत्प्राप्तम् । कुतः - सङ्ख्यस्मृतेरनवकाशत्वेन प्रबलत्वात् । साङ्ख्यस्मृतिर्हि वस्तुतत्त्वनिरूपणायैव प्रवृत्ता, न त्वनुष्ठेयं धर्मं क्वचिदपि प्रतिपादयति । यदि तस्मिन्नपि वस्तुन्यसौ बाध्येत, तदा निरवकाशा स्यात् । वेदस्तु धर्मब्रह्मणी प्रतिपादयन्ब्रह्मण्येकस्मिन्बाध्यमानोऽपि धर्मे सावकाशः स्यात् । तस्मात् - अनवकाशया स्मृत्या सावकाशस्य वेदस्य सङ्कोचो युक्तः ॥
इति प्राप्ते, ब्रूमः - साङ्ख्यस्मृत्या वेदस्य सङ्कोचो न युक्तः । कुतः - मन्वादिस्मृतिभिर्ब्रह्मकारणत्ववादिनीभिर्बाधितत्वात् । प्रबला हि मन्वादिस्मृतयः प्रत्यक्षवेदमूलकत्वात् । न तथा कपिलस्मृतेः प्रधानकारणवादिन्या मूलभूतं कञ्चन वेदमुपलभामहे दृश्यमानवेदवाक्यानां ब्रह्मपरत्वस्य पूर्वमेव निर्णीतत्वात् । तस्मात् - न साङ्ख्यस्मृत्या वेदस्य सङ्कोचो युक्तः ॥
(द्वितीये योगस्मृतेर्बाध्यत्वाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
योगस्मृत्याऽस्ति सङ्कोचो न वा योगो हि वैदिकः ॥
तत्त्वज्ञानोपयुक्तश्च ततः सङ्कुच्यते तया ॥ ३ ॥
प्रमाऽपि योगे तात्पर्यादतात्पर्यान्न सा प्रमा ॥
अवैदिके प्रधानादावसङ्कोचस्तयाऽप्यतः ॥ ४ ॥
योगस्मृतिः पातञ्जलं शास्त्रम् । तत्रोक्तोऽष्टाङ्गयोगः प्रत्यक्षवेदेऽप्युपलभ्यते । श्वेताश्वतरादिशाखासु योगस्य प्रपञ्चितत्वात् । किञ्चायं योगस्तत्त्वज्ञानोपयोगी "दृश्यते त्वग्र्यया बुद्ध्या" इति योगसाध्यस्य चित्तैकाग्र्यस्य ब्रह्मसाक्षात्कारहेतुत्वश्रवणात् । ततः प्रमाणभूतं योगशास्त्रम् । तच्च प्रधानस्य जगत्कारणतां वक्ति तस्मात् - योगस्मृत्या वेदस्य सङ्कोचः ॥
इति प्राप्ते, ब्रूमः - अष्टाङ्गयोगे तात्पर्यवत्त्वात्प्रमाणभूताऽपि सती योगस्मृतिरवैदिके प्रधानादौ न प्रमाणम् , तत्र तात्पर्याभावात् । तथा हि - "अथ योगानुशासनम्" इति प्रतिज्ञाय "योगश्चित्तवृत्तिनिरोधः" इति योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नशास्त्रे प्रपञ्चयामासेति तत्र योगे तात्पर्यम् । न प्रधानादीनि प्रतिपाद्यतया प्रतिजज्ञे । किन्तर्हि द्वितीयपादे यमादिसाधनप्रतिपादके हेयं हेयहेतुं हानं हानहेतुं विवेचयन्प्रसङ्गात्साङ्ख्यस्मृतिप्रसिद्धानि प्रधानादीनि व्याजहार । ततो न तत्र तात्पर्यम् । तस्मात् - न योगस्मृत्या वेदस्य सङ्कोचः ॥
(तृतीये वैलक्षण्याभासस्य जगत्कारणत्वाबाधकत्वाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
वैलक्षण्याख्यतर्केण बाध्यतेऽथ न बाध्यते ॥
बाध्यते साम्यनियमात्कार्यकारणवस्तुनोः ॥ ५ ॥
मृद्धटादौ समत्वेऽपि दृष्टं वृश्चिककेशयोः ॥
स्वकारणेन वैषम्यं तर्काभासो न बाधकः ॥ ६ ॥
'अचेतनं जगच्चेतनाद्ब्रह्मणो न जायते विलक्षणत्वात् । यद्यस्माद्विलक्षणं, तत्तस्मान्न जायते । यथा गोर्महिषः' इत्यनेन तर्केण समन्वयो बाध्यते ॥
इति प्राप्ते, ब्रूमः - 'ये ये कार्यकारणे ते ते सलक्षणे' इत्यस्या व्याप्तेर्वृश्चिकादौ व्यभिचारो दृश्यते । अचेतनाद्नोमयाद्वृश्चिकस्य चेतनस्योत्पत्तेः । चेतनात्पुरुषादचेतनानां केशनखादीनामुत्पद्यमानत्वात् । अतो वेदनिरपेक्षः शुष्कतर्को न क्वापि प्रतितिष्ठति । तदुक्तमाचार्यैः -
"यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते" इति ।
तस्मात् - आभासत्वाद्वैलक्षण्यहेतुर्न बाधकः ॥
(चतुर्थे काणादादिमतैर्बाध्यत्वाभावाधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
बाधोऽस्ति परमाण्वादिमतैर्नो वा यतः पटः ॥
न्यूनतन्तुभिरारब्धो दृष्टोऽतो बाध्यते मतैः ॥ ७ ॥
शिष्टेष्टाऽपि स्मृतिस्त्यक्ता शिष्टत्यक्तमतं किमु ॥
नातो बाधो विवर्ते तु न्यूनत्वनियमो न हि ॥ ८ ॥
साङ्ख्ययोगस्मृतिभ्यां तदीयतर्केण बाधो मा भून्नाम, कणादबुद्धादिस्मृतिभिस्तदीयतर्केण च समन्वयोऽपि बाध्यताम् । कणादो हि महर्षिः परमाणूनां जगत्कारणत्वं स्मरतिस्म, तर्कं च तस्मिन्नर्थे प्रोवाच – 'विमतं द्व्यणुकादिकं स्वस्मान्न्यूनपरिमाणेनाऽऽरब्धं, कार्यद्रव्यत्वात् , यथा तन्तुभिः पटः' इति बुद्धश्च भगवतो विष्णोरवतारोऽभावं जगद्धेतुं स्मरति स्म । तर्कं च तदनुकूलमाह – विमतं भावरूपं जगदभावपुरःसरं भावरूपत्वात् , यथा - 'सुषुप्तिपुरःसरः स्वप्नप्रपञ्चः' इति । तस्मात् - तैः प्रबलैः कणादादिमतैर्बाधितः ॥
इति प्राप्ते, ब्रूमः - यदा वैदिकशिरोमणिभिः पुराणकर्तृभिस्तत्र तत्र प्रसङ्गादुदाहृता प्रकृतिपुरुषादिप्रतिपादिका साङ्ख्ययोगस्मृतिर्जगत्कारणविषये दौर्बल्येन परित्यक्ता । तदा निखिलैः शिष्टैरुपेक्षितानां कणादादिमतानां दौर्बल्यम् - इति किमु वक्तव्यम् , न खलु - ब्रह्मपद्मादिपुराणेषु क्वचिदपि प्रसङ्गाद्व्यणुकादिप्रक्रियोदाहृता । प्रत्युत -
"हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्" ।
इति बहुशो निन्दोपलभ्यते । यस्तु - न्यूनारभ्यत्वनियम उक्तः, नासौ विवर्तवादेऽस्ति दूरस्थस्य पर्वताग्रस्थितैर्महद्भिर्वृक्षैरत्यल्पदूर्वाग्रभ्रमस्य जन्यमानत्वात् । यदपिअभावपुरःसरत्वानुमानम् , तत्रापि साध्यविकलो दृष्टान्तः । सुषुप्तेरवस्थास्वेवावस्थानादात्मनः सद्रूपस्याङ्गीकरणीयत्वे सति स्वप्नस्याप्यभावपुरःसरत्वाभावात् । तस्मात् - एतैर्मतैर्नास्ति बाधः ॥
(पञ्चमे द्वैतस्य भोक्तृभोग्याकारभासमानत्वाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
अद्वैतं बाध्यते नो वा भोक्तृभोग्यविभेदतः ॥
प्रत्यक्षादिप्रमासिद्धो भेदोऽसावन्यबाधकः ॥ ९ ॥
तरङ्गफेनभेदेऽपि समुद्रेऽभेद इष्यते ॥
भोक्तृभोग्यविभेदेऽपि ब्रह्माद्वैतं तथाऽस्तु तत् ॥ १० ॥
समन्वयेनावगम्यमानमद्वैतं प्रत्यक्षादिसिद्धेन भोक्तृभोग्यभेदेन बाध्यते ।
इति चेत् । न । तरङ्गादिरूपेण भेदस्य, समुद्ररूपेणाभेदस्य च दृष्टत्वेन भेदाभेदयोर्विरोधाभावात् । भेदाभेदविरोधव्यवहारस्याऽऽकारभेदेनापि रहितेऽत्यन्तमेकस्मिन्नपि वस्तुनि सावकाशत्वात् । तस्मात् - ब्रह्माकारेणाद्वैतम् । भोक्तृभोग्याकारेण द्वैतम् इत्याकारभेदाद्व्यवस्थासिद्धौ न कोऽपि बाधः ॥
(षष्ठे ब्रह्मण्यद्वैतस्यैव तात्त्विकत्वाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
भेदाभेदौ तात्त्विकौ स्तो यदि वा व्यावहारिकौ ॥
समुद्रादाविव तयोर्बाधाभावेन तात्त्विकौ ॥ ११ ॥
बाधितौ श्रुतियुक्तिभ्यां तावतो व्यावहारिकौ ॥
कार्यस्य कारणाभेदादद्वैतं ब्रह्म तात्त्विकम् ॥ १२ ॥
स्पष्टौ सन्देहपूर्वपक्षौ । "नेह नानाऽस्ति किञ्चन" इति श्रुतिर्भेदं बाधते । युक्तिश्च परस्परोपमर्दात्मकयोर्भेदाभेदयोरेकत्रासम्भवः । एकस्मिश्चन्द्रमसि द्वित्वासम्भवात् । यदुक्तं पूर्वाधिकरणे - आकारभेदाद्भेदः - इति । तदप्यसत् , अद्वैतवस्तुन्याकारभेदस्यैवाप्रतिपत्तेः । समुद्रादौ तु दृष्टत्वादभ्युपगम्यते । 'न हि दृष्टेऽनुपपन्नं नाम' इति न्यायात् । अत्रापि ब्रह्माकारजगदाकारौ दृष्टौ - इति चेत् । न । ब्रह्मणः शास्त्रैकसमधिगम्यत्वात् । तस्मात् - श्रुतियुक्तिबाधितत्वाद्व्यावहारिकौ भेदाभेदौ । किं तर्हि तत्त्वम् - इति चेत् - अद्वैतमेव तत्त्वम् - इति ब्रूमः । कार्यस्य कारणानतिरेकेण कारणमात्रस्य वस्तुत्वात् । तथाच श्रुतिर्मृत्तिकादिदृष्टान्तैः कारणस्यैव सत्यत्वं प्रतिपादयति - "यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । एवं सोम्य स आदेशः" इति । अस्यायमर्थः - प्रौढो मृत्पिण्डः कारणम् , तद्विकारो घटशरावादयः । तत्र – 'मृद्वस्त्वन्यत् , घटादीनि चान्यानि वस्तूनि' इति तार्किका मन्यन्ते । तत्र घटादीनां पृथग्वस्तुत्वनिरासाय विकारशब्देन श्रुतिस्तान्युदाहरति । मृद्वस्तुनो विकाराः संस्थानविशेषा घटादयो न पृथग्वस्तुभूताः । यथा देवदत्तस्य बाल्ययौवनस्थाविरादयः, तद्वत् । एवं सति घटाद्याकारप्रतिभासदशायामपि मृन्मात्रं स्वतन्त्रं वस्तु । ततो मृद्यवगतायां घटादीनां यत्तात्त्विकं स्वरूपं तत्सर्वमवगतम् - आकारविशेषो न ज्ञायते - इति चेत् । मा ज्ञायतां नाम । तेषामवस्तुभूतानामजिज्ञासार्हत्वात् । चक्षुषा प्रतिभासमाना अपि विकारा निरूपिताः सन्तो मृद्व्यतिरेकेण न स्वरूपं किञ्चिल्लभन्ते । 'घटोऽयं, शरावोऽयम्' इति वाङ्निष्पाद्यनामधेयमात्रं लभन्ते । अतो निर्वस्तुकत्वे सत्युपलभ्यमानत्वरूपेण मिथ्यात्वलक्षणे नोपेतत्वादसत्या विकाराः । मृत्तिका तु विकारव्यतिरेकेणापि स्वरूपं लभते, इति सत्या । तथा ब्रह्मोपदेशोऽवगन्तव्यः, ब्रह्मणि मृत्तिकान्यायस्य, जगति घटादिन्यायस्य योजयितुं शक्यत्वात् । तस्मात् - जगतो ब्रह्माभेदादद्वैतं ब्रह्म तात्त्विकम् । एवंविधविचारशून्यानां पुरुषाणामापातदृष्ट्या वेदेनाभ्युपेताद्वितीयब्रह्मप्रतिपत्तेः प्रत्यक्षादिभिर्भेदप्रतिपत्तेश्च सद्भावात्समुद्रतरङ्गन्यायेन भेदाभेदाववभासेते । तस्मात् - व्यावहारिकाविति स्थितिः ॥
(सप्तमे परमेश्वरस्य हिताहितभागित्वाभावाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
हिताक्रियादि स्यान्नो वा जीवाभेदं प्रपश्यतः ॥
जीवाहितक्रिया स्वार्था स्यादेषा नहि युज्यते ॥ १३ ॥
अवस्तु जीवसंसारस्तेन नास्ति मम क्षतिः ॥
इति पश्यत ईशस्य न हिताहितभागिता ॥ १४ ॥
परमेश्वरो हि केषाञ्चिज्जीवानां संसारसक्तानां वैराग्यादिकं हितं न निर्मिमीते, अहितं च नरकहेतुमधर्मं निर्मिमीते । निर्मिमाणश्च स्वस्य जीवैरभेदं सर्वज्ञतया पश्यति । तस्मात् - स्वस्यैव हिताकरणम् , अहितकरणं च प्रसज्येयाताम् । एतच्च न युक्तम् । नहि प्रेक्षावान्कश्चित्स्वस्य हितं न करोति, अहितं वा करोति । तस्मात् - हिताकरणादिदोषः ॥
इति प्राप्ते, ब्रूमः - सर्वज्ञत्वादीश्वरो जीवसंसारस्य मिथ्यात्वं स्वस्य निर्लेपत्वं च पश्यति । अतो - न हिताहितभाक्त्वत्वदोषः ॥
(अष्टमेऽद्वितीयब्रह्मण एव नानाविधसृष्टिकर्तृत्वाधिकरणे सूत्रे - )
अष्टमाधिकरणमारचयति -
न सम्भवेत्सम्भवेद्वा सृष्टिरेकाद्वितीयतः ॥
नानाजातीयकार्याणां क्रमाज्जन्म न सम्भवि ॥ १५ ॥
अद्वैतं तत्त्वतो ब्रह्म तच्चाविद्यासहायवत् ॥
नानाकार्यकरं कार्यक्रमोऽविद्यास्थशक्तिभिः ॥ १६ ॥
"एकमेवाद्वितीयम्" इति ब्रह्मणः स्वगतसजातीयविजातीयैर्भैदैः शून्यत्वमवगम्यते । स्रष्टव्यानि चाऽऽकाशवाय्वाग्न्यादीनि विचित्राणि । नह्यविचित्रे कारणे कार्यवैचित्र्यं युक्तम् । अन्यथैकस्मादेव क्षीराद्दधितैलाद्यनेकविचित्रकार्यप्रसङ्गात् । क्रमश्चाऽऽकाशादीनां श्रुत्याऽवगम्यते । नच तस्य व्यवस्थापकं किञ्चिदस्ति । तस्मात् - अनेककार्याणां क्रमेण जन्माद्वितीयब्रह्मणो न सम्भवति ॥
इति प्राप्ते, ब्रूमः - यद्यपि तत्त्वतो ब्रह्माद्वैतम् , तथाऽपि - अविद्यासहायोपेतम् - इति श्रुतियुक्त्यनुभवैरवगम्यते,
"मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्" ।
इति श्रुतेः । मायैवाविद्या, उभयोरप्यनिर्वचनीयत्वलक्षणस्यैकत्वात् । न च – मायाङ्गीकारे द्वैतापत्तिः, वास्तवस्य द्वितीयस्याभावात् । अत एकमपि ब्रह्माविद्यासहायवशान्नानाकार्यकरं भविष्यति । न च कार्यक्रमस्य व्यवस्थापकाभावः, अविद्यागतानां शक्तिविशेषाणां व्यवस्थापकत्वात् । तस्मात् - अद्वितीयब्रह्मणो नानाकार्याणां क्रमेण सृष्टिः सम्भवति ॥
(नवमे ब्रह्मणः परिणामित्वाधिकरणे सूत्राणि - )
नवमाधिकरणमारचयति -
न य़ुक्तो युज्यते वाऽस्य परिणामो न युज्यते ॥
कार्त्स्न्याद्ब्रह्मानित्यताप्तेरंशात्सावयवं भवेत् ॥ १७ ॥
मायाभिर्बहुरूपत्वं न कार्त्स्न्यान्नापि भागतः ॥
युक्तोऽनवयवस्यापि परिणामोऽत्र मायिकः ॥ १८ ॥
आरम्भणाधिकरणे (२ । १ । ६) कार्यकारणयोरभेदः प्रतिपादितः । अतो न वैशेषिकवदारम्भवादो ब्रह्मवादिनोऽभिमतः । तस्मात् - क्षीरदधिन्यायेन परिणामोऽभ्युपगन्तव्यः । तत्र किं ब्रह्म कार्त्स्न्येन परिणमते, उत – एकदेशेन । नाऽऽद्यः - अशेषपरिणामे ब्रह्मणः क्षीरवदनित्यत्वप्रसङ्गात् । द्वितीये - सावयवत्वप्रसङ्गः । तस्मात् - न परिणामः ॥
इति प्राप्ते, ब्रूमः - "इन्द्रो मायाभिः पुरुरूप ईयते" इति श्रुतेर्ब्रह्मणो मायाशक्तिभिर्जगद्रूपपरिणामः । न त्वसौ वास्तवः । तेन कृत्स्नैकदेशविकल्पयोर्नात्रावकाशः । तस्मात् - युज्यते परिणामः ॥
(दशमे ब्रह्मणोऽशरीरस्यैव मायासद्भावाधिकरणे सूत्रे - )
दशमाधिकरणमारचयति -
नाशरीरस्य मायाऽस्ति यदि वाऽस्ति, न विद्यते ॥
ये हि मायाविनो लोके ते सर्वेऽपि शरीरिणः ॥ १९ ॥
बाह्यहेतुमृते यद्वन्मायया कार्यकारिता ॥
ऋतेऽपि देहं मायैवं ब्रह्मण्यस्तु प्रमाणतः ॥ २० ॥
लोके मायाविनामैन्द्रजालिकानां शरीरित्वदर्शनादशरीरस्य ब्रह्मणो माया न सम्भवति ॥
इति प्राप्ते, ब्रूमः - गृहादिनिर्मातृणां स्वव्यतिरिक्तमृद्दारुतृणादिबाह्मसाधनसापेक्षत्वदर्शनेऽप्यैन्द्रजालिकस्य बाह्यसाधनानैरपेक्ष्येण यथा गृहादिनिर्मातृत्वम् , तथा लौकिकमायाविनः शरीरसापेक्षत्वदर्शनेऽपि ब्रह्मणो मायासिद्ध्यर्थं तदपेक्षा मा भूत् । अथोच्येत – ऐन्द्रजालिकस्य बाह्यहेतुनैरपेक्ष्येण निर्मातृत्वे प्रत्यक्षं प्रमणमस्ति, - तर्हि ब्रह्मणोऽपि शरीरनैरपेक्ष्येण मायासद्भावे "मायिनं तु महेश्वरम्" इति श्रुतिः प्रमाणमस्तु ॥
(एकादशे तृप्तस्यापि ब्रह्मण एव जगत्स्रष्टृत्वाधिकरणे सूत्रे - )
एकादशाधिकरणमारचयति -
तृप्तोऽस्रष्टाऽथवा स्रष्टा, न स्रष्टा फलवाञ्छने ॥
अतृप्तिः स्यादवाञ्छायामुन्मत्तनरतुल्यता ॥ २१ ॥
लीलाश्वासवृथाचेष्टा अनुद्दिश्य फलं यतः ॥
अनुन्मत्तैर्विरच्यन्ते तस्मात्तृप्तस्तथा सृजेत् ॥ २२ ॥
"आनन्दो ब्रह्म" इति श्रुतेर्नित्यतृप्तः परमेश्वरः । तादृशस्य सृष्टिविषयायामिच्छायामभ्युपगम्यमानायां नित्यतृप्तिर्व्याहन्येत । अनभ्युपगम्यमानायां तु - अबुद्धिपूर्विकां सृष्टिं विरचयत उन्मत्तनरतुल्यता प्रसज्येत ॥
इति प्राप्ते, ब्रूमः - बुद्धिमद्भिरेव राजादिभिरन्तरेण प्रयोजनं लीलया मृगयादिप्रवृत्तिः क्रियते । श्वासोच्छ्वासव्यवहारस्तु सार्वजनीनः । व्यर्थचेष्टाश्च बालकैः क्रियमाणा बहुशोदृश्यन्ते । तद्वन्नित्यतृप्तोऽपीश्वरः प्रयोजनमन्तरेणाप्यनुन्मत्तः सन्नशेषं जगत्सृजते ।
(द्वादशे ब्रह्मणो वैषम्यनैर्घृण्याभावाधिकरणे सूत्राणि - )
द्वादशाधिकरणमारचयति -
वैषम्याद्यापतेन्नो वा सुखदुःखे नृभेदतः ॥
सृजन्विषम ईशः स्यान्निर्घृणश्चोपसंहरन् ॥ २३ ॥
प्राण्यनुष्ठितधर्मादिमपेक्ष्येशः प्रवर्तते ॥
नातो वैषम्यनैर्घृण्ये संसारस्तु न चाऽऽदिमान् ॥ २४ ॥
ईश्वरो देवादीनत्यन्तसुखिनः सृजति, पश्वादीनत्यन्तदुःखिनः, मनुष्यान्मध्यमान् , एवं तारतम्येन पुरुषविशेषेषु सुखदुःखे सृजन्नीश्वरः कथं विषमो न स्यात् । कथं नीचैरप्यत्यन्तजुगुप्सितं देवतिर्यङ्मनुष्याद्यशेषं जगदुपसंहरन्निर्घृणो न भवेत् । तस्मात् - वैषम्यनैर्घृण्ये प्रसज्येयाताम् ॥
इति प्राप्ते, ब्रूमः - न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति । प्राणिनामुत्तममध्यमाधमलक्षणवैषम्ये तत्तत्कर्मणामेव प्रयोजकत्वात् । न चैतावतेश्वरस्य स्वातन्त्र्यहानिः, अन्तर्यामितया कर्माध्यक्षत्वात् । नन्वेवं सति घट्टकुटीप्रभातन्याय आपद्यते, ईश्वरे वैषम्यं परिहर्तुं कर्मणां वैषभ्यहेतुत्वमुक्त्वा पुनरीश्वरस्य स्वातन्त्र्यसिद्धये तत्कर्मनियामकत्वेऽभ्युपगम्यमाने सत्यन्ततो गत्वेश्वरस्यैव वैषम्यप्रसङ्गात् । नायं दोषः । नियामकत्वं नाम तत्तद्वस्तुशक्तीनामव्यवस्थापरिहारमात्रम् । शक्तयस्तु मायाशरीरभूताः । न तासामुत्पादक ईश्वरः । ततश्च स्वस्वशक्तवशात्कर्मणां वैषम्यहेतुत्वेऽपि न व्यवस्थापकस्येश्वरस्य वैषम्यप्रसङ्गः । संहारस्य सुषुप्तिवद्दुःखाजनकत्वात् । प्रत्युत सर्वक्लेशनिवर्तकत्वात्सघृणत्वमेव । ननु - अवान्तरसृष्टिषु पूर्वपूर्वकर्मापेक्षया सृजत ईश्वरस्य वैषभ्याभावेऽपि प्रथमसृष्टौ पूर्वकर्मासम्भवाद्वैषभ्यदोषस्तदवस्थः - इति चेत् । न । सृष्टिपरम्पराया अनादित्वात् । "नान्तो नचाऽऽदिः" - इत्यादिशास्त्रात् । तस्मात् - न कोऽपि दोषः ॥
(त्रयोदशे निर्गुणस्यापि ब्रह्मणः प्रकृतित्वाधिकरणे सूत्रम् - )
त्रयोदशाधिकरणमारचयति -
नास्ति प्रकृतिता यद्वा निर्गुणस्यास्ति, नास्ति सा ॥
मृदादेः सगुणस्यैव प्रकृतित्वोपलम्भनात् ॥ २५ ॥
श्रमाधिष्ठानताऽस्माभिः प्रकृतित्वमुपेयते ॥
निर्गुणेऽप्यस्ति जात्यादौ सा ब्रह्म प्रकृतिस्ततः ॥ २६ ॥
प्रकृतित्वं नाम कार्याकारेण विक्रियमाणत्वम् । तच्च लोके सगुण एव मृदादावुपलब्धम् । ततो न निर्गुणस्य ब्रह्मणः प्रकृतिता ॥
इति प्राप्ते, ब्रूमः - यद्यपि "प्रक्रियते विक्रियतेऽनया - इति प्रकृतिः" इति व्युत्पत्त्या विक्रियमाणत्वं प्रतियते । तथाऽपि तद्विक्रियमाणत्वं द्वेधा सम्भवति - क्षीरादिवत्परिणामित्वेन वा, रज्ज्वाादिवद्भ्रमाधिष्टानत्वेन वा । तत्र निर्गुणस्य परिणामित्वासंभवेऽपि भ्रमाधिष्ठानत्वमस्तु । दृश्यते तु निर्गुणे जात्यादौ भ्रमाधिष्ठानता । मलिनब्राह्मणं दृष्ट्वा 'शूद्रोऽयम्' इति भ्रान्तव्यवहारदर्शनात् । तस्मात् - निर्गुणमपि ब्रह्म प्रकृतिः - इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि १३ ५३
सूत्राणि ३७ १७२
(प्रथमे प्रधानस्य जगद्धेतुत्वाभावाधिकरणे सूत्राणि - )
द्वितीयपादस्य प्रथमाधिकरणमारचयति -
प्रधानं जगतो हेतुर्न वा सर्वे घटादयः ॥
अन्विताः सुखदुःखाद्यैर्यतो हेतुरतो भवेत् ॥ १ ॥
न हेतुर्योग्यरचनाप्रवृत्त्यादेरसम्भवात् ॥
सुखाद्या आन्तरा बाह्मा घटाद्यास्तु कुतोऽन्वयः ॥ २ ॥
सुखदुःखमोहात्मकं प्रधानं जगतः प्रकृतिः, जगति सुखाद्यन्वयदर्शनात् । घटपटादय उपलभ्यमानाः सुखाय भवन्ति, उदकाहरणप्रावरणादिकारित्वात् । त एव घटादयोऽन्यैरपह्नियमाणास्तस्यैव दुःखजनकाः । यदोदकाहरणादिकार्यं नापेक्षितम् , तदा सुखदुःखे न जनयन्ति, केवलमुपेक्षणीयत्वेनावतिष्ठन्ते । तदिदमुपेक्षाविषयत्वं मोहः, "मुह वैचित्ये" इति धातोर्मोहशब्दनिष्पत्तेरुपेक्षणीयेषु चित्तवृत्त्यनुदयात् । अतः सुखदुःखमोहान्वयदर्शनात् 'प्रधानं प्रकृतिः' इति साङ्ख्या मन्यन्ते ॥
इति प्राप्ते, ब्रूमः - न प्रधानं जगद्धेतुः, देहेन्द्रियमहीधरादिरूपस्य विचित्रस्य प्रतिनियतनानासंनिवेशविशेषस्य जगतो रचनायामचेतनस्य प्रधानस्य योग्यत्वासम्भवात् । लोके हि प्रतिनियतकार्यस्य विचित्रनानाप्रासादादेरतिबुद्धिमत्कर्तृकत्वोपलम्भात् । आस्तां तावदियं रचना, तत्सिद्ध्यर्था प्रवृत्तिरपि नाचेतनस्योपपद्यते, चेतनानधिष्ठिते शकटादौ तददर्शनात् । अथ पुरुषस्य चेतनस्य प्रकृत्यधिष्ठातृत्वमभ्युपगम्येत तर्हि - असङ्गत्वं पुरुषस्य हीयेत – इत्यपसिद्धान्तापत्तिः । यदुक्तम् - सुखदुःखमोहान्विता घटादयः - इति । तदसत् । सुखादीनामान्तरत्वाद्घटादीनां बाह्यत्वात् । तस्मात् - न प्रधानं जगद्धेतुः ॥
(द्वितीये ब्रह्मणो विसदृशजगदुत्पत्तौ काणादीयदृष्टान्तसद्भावाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
नास्ति काणाददृष्टान्तः किं वाऽस्त्यसदृशोद्भवे ॥
नास्ति शुक्लापटः शुक्लात्तन्तोरेव हि जायते ॥ ३ ॥
अणु द्व्यणुकमुत्पन्नमनणोः परिमण्डलात् ॥
अदीर्धाद्व्यणुकाद्दीर्घं त्र्यणुकं तन्निदर्शनम् ॥ ४ ॥
पूर्वस्मिन्पादे् चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगज्जायते - इत्यत्र साङ्ख्यान्प्रति लोकसिद्धं गोमयवृश्चिकादिनिदर्शनमभिहितम् , तावता साङ्ख्यैः क्रियमाणस्याऽऽक्षेपस्य परिहृतत्वात्स्वपक्षसाधनसम्पन्नं परपक्षदूषणं चास्मिन्पादे प्रक्रम्य पूर्वाधिकरणो साङ्ख्यमतं दूषितम् । इतःपरं वैशेषिकानां मतं दूषयितव्यम् । तन्मतस्य च प्रक्रियाबहुलत्वात् , तद्वासनावासितः पुरुषस्तत्प्रक्रियासिद्धविलक्षणोत्पत्तिदृष्टान्तमन्तरेण ब्रह्मकारणवादं न बहु मन्यते । अतो "विसदृशोत्पत्तौ काणादमतसिद्धो दृष्टान्तोऽस्ति, न वा" इति विचार्यते । 'नास्ति' इति तावत्प्राप्तम् । यतः शुक्लः पटः शुक्लेभ्य एव तन्तुभ्य़ो जायते, नतु रक्तेभ्यः । तस्मात् - नास्ति ॥
इति प्राप्ते, ब्रूमः - अस्त्येव विसदृशोत्पत्तौ दृष्टान्तः । तथाहि - परमाणवः पारिमाण्डल्यपरिमाणयुक्ताः । न त्वणुपरिमाणयुक्ताः । द्वाभ्यां च परमाणुभ्यामणुपरिमाणरहिताभ्यामणुपरिमाणोपेतं द्व्यणुकमुत्पद्यते । इदमेकं निदर्शनम् । तथा - हृस्वपरिमाणोपेतं दीर्घपरिमाणरहितं द्व्यणुकम् । तादृशेभ्यो विसदृशेभ्यस्त्रिभ्यो द्व्यणुकेभ्यो दीर्घपरिमाणोपेतमणुपरिमाणरहितं त्र्यणुकमुत्पद्यते । इदमपरं निदर्शनम् । एवमन्यान्यपि तत्प्रक्रियासिद्धानि निदर्शनान्युदाहर्तव्यानि ॥
(तृतीये परमाणुकारणवादनिराकरणाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
जनयन्ति जगन्नो वा संयुक्ताः परमाणवः ॥
आद्यकर्मजसंयोगाद्व्यणुकादिक्रमाज्जनिः ॥ ५ ॥
सनिमित्तानिमित्तादिविकल्पेष्वाद्यकर्मणः ॥
असम्भवादसंयोगे जनयन्ति न ते जगत् ॥ ६ ॥
प्रलीने पूर्वसिद्धे जगति यदा महेश्वरस्य सिसृक्षा भवति तदा प्राणिकर्मवशान्निखिलेषु परमाणुष्वाद्यं कर्मोत्पद्यते । तस्मात्कर्मण एकः परमाणुः परमाण्वन्तरेण संयुज्यते । तस्माच्च संयोगाद्व्यणुकमारभ्यते । तेभ्यस्त्रिभ्यो द्व्यणुकेभ्यस्त्र्यणुकम् - इत्यादिक्रमेण जगदुत्पत्तौ बाधकाभावात्संयुक्ताः परमाणवो जगज्जनयन्ति ॥
इति प्राप्ते ब्रूमः - यदेतदाद्यं कर्म तन्निर्निमित्तं सनिमित्तं वा । निर्मिमित्तत्वे नियामकाभावात्सर्वदा तदुत्पत्तौ प्रलयेऽपि तत्प्रसङ्गः । सनिमित्तत्वेऽपि तन्निमित्तं दृष्टम् , अदृष्टं वा । न तावदृष्टम् , प्रयत्नस्याभिघातस्य वा शरीरोत्पत्तेः प्रागसम्भवात् । ईश्वरप्रयत्नस्य नित्यस्य कादाचित्काद्यकर्मोत्पत्ति प्रत्यनियामकत्वात् । नाप्यदृष्टमाद्यकर्मनिमित्तम् , आत्मसमवेतस्यादृष्टस्य परमाणुभिरसम्बन्धात् । अत एवमादिविकल्पप्रसरे सत्याद्यकर्मासम्भवान्न परमाणुसंयोगो जायते । ततः - 'संयुक्तेभ्यः परमाणुभ्यो जगज्जनिः' इति मतं दूरापास्तम् ॥
(चतुर्थे वैनाशिकखण्डने समुदायासिद्ध्यधिकरणे सूत्राणि - )
चतुर्थाधिकरणमारचयति -
समुदायावुभौ युक्तावयुक्तौ वाऽणुहेतुकः ॥
एकोऽपरः स्कन्धहेतुरित्येवं युज्यते द्वयम् ॥ ७ ॥
स्थिरचेतनराहित्यात्स्वयं वाऽचेतनत्वतः ॥
न स्कन्धानामणूनां वा समुदायोऽत्र युज्यते ॥ ८ ॥
बाह्यास्तित्ववादिनो बौद्धा मन्यन्ते - द्वौ समुदायौ - बाह्यः, आभ्यन्तरश्चेति । तत्र बाह्यो भूनदीसमुद्रादिकः । आन्तरश्चित्तचैत्यात्मकः । तदेतत्समुदायद्वयमेवाशेषं जगत् । तत्र बाह्यसमुदाये परमाणवः कारणम् । ते च परमाणवश्चतुर्विधाः - केचित्कठिनाकाराः पारर्थिवाख्याः, अपरे स्निग्धा आप्याः, अन्ये चोष्णास्तैजसाख्याः, अन्ये चलनात्मका वायवीयाः । तेभ्यश्चतुर्विधेभ्यः परमाणुभ्यो युगपत्पुञ्जीभूतेभ्यो बाह्यसमुदायो जायते । आन्तरस्य समुदायस्य स्कन्धपञ्चकं कारणम् । रूपस्कन्धः, विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धश्चेति पञ्चस्कन्धाः । तत्र चित्तेन निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः । तदभिव्यक्तिर्विज्ञानस्कन्धः । तज्जन्यं दुःखं वेदनास्कन्धः । देवदत्तादिनामधेयं संज्ञास्कन्धः । एतेषां वासना संस्कारस्कन्धः । तेभ्यः पञ्चेभ्यः पुञ्जीभूतेभ्य आन्तरसमुदायो जायते । तस्मात् - युज्यते समुदायद्वयम् ॥
इति प्राप्ते, ब्रूमः - किमणूनां स्कन्धानां च सङ्घातोत्पत्तौ निमित्तभूतश्चेतनोऽन्योऽस्ति, किंवा - स्वयमेव संहन्यते । आद्येऽपि चेतनः स्थायी, क्षणिको वा । स्थायित्वे अपसिद्धान्तः । क्षणिकत्वे - प्रथमं स्वयंलब्धात्मकः पश्चात्सङ्घातोत्पत्तिं करोति - इति वक्तुमशक्यम् ॥ द्वितीये तु - अचेतनाः स्कन्धा अणवश्च नियामकं चेतनमन्तरेण प्रतिनियताकारेण कथं संहन्यन्ताम् । तस्मात् - ऩ युक्तं समुदायद्वयम् ॥
(पञ्चमे विज्ञानवादनिराकरणाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
विज्ञानस्कन्धमात्रत्वं युज्यते वा न युज्यते ॥
युज्यते स्वप्नदृष्टान्ताद्बुद्ध्यैव व्यवहारतः ॥ ९ ॥
अबाधात्स्वप्नवैषम्यं बाह्यार्थस्तूपलभ्यते ॥
बहिर्वदिति तेऽप्युक्तिर्नातो धीरर्थरूपभाक् ॥ १० ॥
केचिद्बौद्धा बाह्यार्थमपलपन्तो विज्ञानमात्रं तत्त्वमाहुः । न च – तत्र व्यवहारानुपपत्तिः, स्वप्ने बाह्यार्थाननपेक्ष्य केवलया बुद्ध्या व्यवहारदर्शनात्तथैव जाग्रद्व्यवहारस्याप्युपपत्तेः । तस्मात् - विज्ञानस्कन्धमात्रत्वं युज्यते ॥
इति प्राप्ते, ब्रूमः - विषमो हि स्वप्नदृष्टान्तः, प्रबोधदशायां स्वप्नस्य बाध्यमानत्वात् । जाग्रद्व्यवहारस्य च न क्वचिद्बाधं पश्यामः । न च – बाह्यार्थसद्भावे प्रमाणाभावः, उपलब्धेरेव प्रमाणत्वात् । उपलभ्यते हि घटादयो बहिष्ट्वेन । अथोच्येत - बुद्धिरेव बाह्यघटादिवदवभासते । तथा चाऽऽहुः -
"यदन्तर्ज्ञेयतत्त्वं तद्बहिर्वदवभासते" । इति -
(इति ) । एवं तर्हि - त्वदुक्तिरेव बाह्यर्थसद्भावे प्रमाणम् - इति ब्रूमः । क्वचिदपि बाह्यार्थाभावे तद्व्युत्पत्तिराहित्यात् 'बहिर्वत्' इत्युपमानोक्तिर्न सङ्गच्छेत । तस्मात् - बाह्यार्थसद्भावाद्विज्ञानमात्रत्वं न युक्तम् ॥
(षष्ठ आर्हतानां सप्तभङ्गीनिराकरणाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
सिद्धिः सप्तपदार्थानां सप्तभङ्गीनयान्न वा ॥
साधकन्यायसद्भावात्तेषां सिद्धौ किमद्भुतम् ॥ ११ ॥
एकस्मिन्सदसत्त्वादिविरुद्धप्रतिपादनात् ॥
अपन्यायः सप्तभङ्गी न च जीवस्य सांशता ॥ १२ ॥
आर्हता मन्यन्ते - जीवोऽजीवश्चेति द्वौ पदार्थौ । जीवश्चेतनः शरीरपरिमाणः सावयवः । अजीवः षड्विधः । तत्र महीधरादिरेकः, आस्रवसंवरनिर्जरबन्धमोक्षाख्याः पञ्च । 'आस्रवत्यनेन जीवो विषयेषु' इत्यास्रव इन्द्रियसन्धातः । 'संवृणोति विवेकम्' इत्यविवेकादि संवरः । 'निःशेषेण जीर्यत्यनेन कामक्रोधादिः' इति केशोल्लुञ्चनतप्तशिलारोहणादिकं तपो निर्जरः । कर्माष्टकेनाऽऽपादिता जन्ममरणपरम्परा बन्धः । चत्वारि घातिकर्माणि पापविशेषरूपाणि । चत्वारि चाघातिकर्माणि पुण्यविशेषरूपाणि । शास्त्रोक्तोपायेन तेभ्योऽष्टभ्यः कर्मभ्यो विनिर्गतस्य जीवस्य सततोर्ध्वगमनं मोक्षः । त एते सप्त पदार्थाः सप्तभङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्च, इति सप्तभङ्गीनयः । अयमर्थः - स्याच्छब्द ईषदर्थवाची निपातः । प्रतिवादिनोऽपि चतुर्विधाः - सद्वादिनः, असद्वादिनः, सदसद्वादिनः, अनिर्वचनीयवादिनश्चेति । पुनरपि - अनिर्वचनीयमतेन मिश्रितानि सदादि मतानि, इति त्रिविधा वादिनः । तानेतान्सप्तविधान्वादिनः प्रति सप्तविधा न्यायाः प्रयोक्तव्याः । तद्यथा - सद्वादी समागत्याऽऽर्हतं प्रति 'किं त्वन्मते मोक्षोऽस्ति' इति पृच्छति । तत्राऽऽर्हत उत्तरं ब्रूते - 'ईषदस्ति' इति । एवमन्यानपि वादिनः प्रति 'स्यान्नास्ति' इत्यादीन्युदाहर्तव्यानि । तावता वादिनः सर्वे निर्विण्णाः सन्तो नोत्तरं प्रतिपद्यन्ते । अतोऽस्य सप्तभङ्गीरूपस्य साधकन्यायस्य सद्भावाज्जीवादीनां सप्तपदार्थानां सिद्धौ किमत्राऽऽश्चर्यम् ॥
इति प्राप्ते, ब्रूमः - सप्तभङ्गीरूपोऽयमपन्यायः । एकस्य जीवपदार्थस्य सद्वादिनं प्रति सद्रूपत्वम् , असद्वादिनं प्रत्यसद्रूपत्वं च, इत्येवमादिविरुद्धधर्मप्रतिपादकत्वात् । न च – जीवस्य सावयवत्वं युज्यते, अनित्यत्वप्रसङ्गात् । तदनित्यत्वे च मोक्षः कस्य पुरुषार्थः स्यात् । तस्मात् - न्यायाभासेन सप्तभङ्ग्याख्येन जीवादिपदार्थानां न सिद्धिः ॥
(सप्तमे तटस्थेश्वरवादनिराकरणाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
तटस्थेश्वरवादोऽयं स युक्तोऽथ न युज्यते ॥
युक्तः कुलालदृष्टान्तान्नियन्तृत्वस्य सम्भवात् ॥ १२ ॥
न युक्तो विषमत्वादिदोषाद्वैदिक ईश्वरे ॥
अभ्युपेते तटस्थत्वं त्याज्यं श्रुतिविरोधतः ॥ १३ ॥
पूर्वाध्यायस्योपान्त्याधिकरणे - 'जगतो निमित्तमुपादानं चेश्वरः' - इत्यागमबलाद्यदुक्तम् , तदेतदसहमानास्तार्किकाः शैवादयः केवलं निमित्तत्वमीश्वरस्य मन्यन्ते । युक्तिं चाऽऽहुः - यथा कुलालोऽनुपादानभूतो दण्डचक्रादीन्नियच्छन्कर्ता भवति, तथा तटस्थ ईश्वरः ॥
इति प्राप्ते, ब्रूमः - न युक्तं केवलनिमित्तत्वम् , वैषम्यनैर्घृण्यदोषस्य दुष्परिहरत्वात् । कथं तर्हि त्वया दोषः परिहृतः - इति चेत् । 'प्राणिकर्मसापेक्षत्वात्' इति ब्रूमः । तथात्वे चाऽऽगमोऽस्माकं प्रमाणम् । त्वयाऽप्यन्ततो गत्वाऽऽगमश्चेदङ्गीक्रियते, तर्हि तटस्थत्वमीश्वरस्य परित्याज्यं स्यात् । "बहु स्यां प्रजायेय" इत्युपादानश्रुत्या विरोधात् । तस्मात् - न युक्तस्तटस्थेश्वरवादः ॥
(अष्टमे जीवोत्पत्तिवादनिराकरणाधिकरणे सूत्राणि - )
अष्टमाधिकरणमारचयति -
जीवोत्पत्त्यादिकं पञ्चरात्रोक्तं य़ुज्यते न वा ॥
युक्तं नारायणव्यूहतत्समाराधनादिवत् ॥ १४ ॥
युज्यतामविरुद्धांशो जीवोत्पत्तिर्न युज्यते ॥
उत्पन्नस्य विनाशित्वे कृतनाशादिदोषतः ॥ १५ ॥
पाञ्चरात्रा भागवता मन्यन्ते - 'भगवानेको वासुदेवो जगदुपादानं निमित्तं च' । तत्समाराधनध्यानज्ञानैर्भवबन्धच्छेदः । तस्माच्च वासुदेवात्सङ्कर्षणाख्यो जीवो जायते । जीवाच्च प्रद्युम्नाख्यं मनः । मनसश्चानिरुद्धाख्योऽहङ्कारः । त एते वासुदेवादयश्चत्वारो व्यूहाः सर्वात्मकाः - इति ॥
तत्र वासुदेवं सत्समाराधनादिकं च श्रुतेरविरोधादभ्युपगच्छामः । यत्तु - जीवउत्पद्यते - इत्युक्तम् । तदसत् । कृतनाशाकृताभ्यागमप्रसङ्गात् । पूर्वसृष्टौ यो जीवस्तस्योत्पत्तिमत्वे प्रलयदशायां तस्मिन्विनष्टे सति तत्कृतधर्माधर्मयोरफलप्रदत्वेन विनाशः प्रसज्येत । अस्मिंश्च कल्प उत्पद्यमाननूतनजीवस्य धर्माधर्मयोः पूर्वमननुष्ठितयोः सतोरिह सुखदुःखप्राप्तिर्भवतीत्यकृताभ्यागमः प्रसज्येत । तस्माज्जीवोत्पत्त्यादिकं न युक्तम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ८ ६१
सूत्राणि ४५ २१७
(प्रथम आकाशस्य ब्रह्मजन्यताधिकरणे सूत्राणि - )
तृतीयपादस्य प्रथमाधिकरणमारचयति -
व्योम नित्यं जायते वा हेतुत्रयविवर्जनात् ॥
जनिश्रुतेश्च गौणत्वान्नित्यं व्योम न जायते ॥ १ ॥
एकज्ञानात्सर्वबुद्धेर्विभक्तत्वाज्जनिश्रुतेः ॥
विवर्ते कारणैकत्वाद्ब्रह्मणो व्योम जायते ॥ २ ॥
तैत्तिरीयके - "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" इति श्रूयते । तत्र – आकाशं नित्यं, न तु जन्मवत् । कुतः - आकाशोत्पादकस्य समवाय्यसमवायिनिमित्ताख्यकारणत्रितयस्य दुःसम्पादत्वात् । 'सम्भूतः' इति जनिश्रुतिस्तु सम्प्रतिपन्नब्रह्मकार्यवद्व्योम्नि सत्ताश्रयत्वगुणयोगात्प्रवृत्ता । तस्मात् - अनाद्यन्तं व्योम, न जायते ॥
इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं तावदशेषेषु वेदान्तेषु डिण्डिमः । तच्च व्योम्नो ब्रह्मकार्यत्वे मृद्धटन्यायेन ब्रह्माव्यतिरेकादुपपादयितुं सुशकम् , नान्यथा । किञ्च - आकाशं जायते, विभक्तत्वात् , घटवत् । नच – अयमसिद्धो हेतुः, वाय्वादिवैलक्षण्यस्याऽऽकाशे प्रसिद्धत्वात् । नच - ब्रह्मण्यनैकान्तिकत्वम् , सर्वात्मकस्य ब्रह्मणः कस्माच्चिदपि विभक्तत्वस्य दुर्भणत्वात् । जनिश्रुतिश्चोत्पत्तिवादिन्यनुगृहीता भवति । यत्तु - कारणत्रितयासम्भवः - इत्युक्तम् । तदसत् । आरम्भवादे त्रितयापेक्षायामपि विवर्तवादे तदनपेक्षत्वात् । तस्मात् - एतेभ्यो हेतुभ्यो ब्रह्मणः कारणाद्व्योम जायते ॥
(द्वितीये वायोर्ब्रह्मजन्यत्वाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
वायुर्नित्यो जायते वा छान्दोग्येऽजन्मकीर्तनात् ॥
सैषाऽनस्तमिता देवतेत्युक्तेश्च न जायते ॥ ३ ॥
श्रुत्यन्तरोपसंहाराद्गौण्यनस्तमयश्रुतिः ॥
वियद्वज्जायते वायुः स्वरूपं ब्रह्म कारणम् ॥ ४ ॥
तैत्तिरीयक एव – "आकाशाद्वायुः" इति श्रूयते । सेयमुत्पत्तिश्रुतिर्गौणी, छान्दोग्ये सृष्टिप्रकरणे - तेजोबन्नानामेवोत्पत्तेरभिधानात् । ननु - 'क्वचिदश्रवणमन्यत्र श्रुतं न वारयितुमुत्सहते' इति न्यायेन तैत्तिरीयश्रुतेः कुतो गौणत्वम् - इति चेत् । 'श्रुत्यन्तरविरोधात्' इति ब्रूमः । बृहदारण्यके - "सैषाऽनस्तमिता देवता यद्वायुः" इति वायोर्विनाशप्रतिषेधात् । उत्पत्तिमत्त्वे च तदयोगात् । तस्मात् - न जायते वायुः ।
इति प्राप्ते, ब्रूमः - छान्दोग्ये जन्माश्रवणेऽपि गुणोपसंहारन्यायेन तैत्तिरीयवाक्यस्येतरत्रोपसंहारे सति श्रुतमेव च्छान्दोग्ये वायुजन्म । अनस्तमयश्रुतिस्तु न मुख्या, उपासनाप्रकरणपठितत्वेन स्तुत्यर्थत्वात् । आकाशोत्पत्तिहेतवश्चात्रानुसन्धेयाः । न च – वायोराकाशकार्यत्वेन ब्रह्मण्यनन्तर्भावाद्ब्रह्मज्ञानेन वायुज्ञानं न सिध्येत् - इति शङ्कनीयम् , पूर्वपूर्वकार्यविशिष्टस्य ब्रह्मण उत्तरोत्तरकार्यहेतुत्वस्य वक्ष्यमाणतया वियद्रूपापन्नस्य ब्रह्मण एव वायुकारणत्वात् । तस्मात् - वायुर्जायते ॥
(तृतीये सद्ब्रह्मणोऽजन्यत्वाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
सद्ब्रह्म जायते नो वा कारणत्वेन जायते ॥
यत्कारणं जायते तद्वियद्वाय्वादयो यथा ॥ ५ ॥
असतोऽकारणत्वेन स्वादीनां सत उद्भवात् ॥
व्याप्तेरजादिवाक्येन बाधात्सन्नैव जायते ॥ ६ ॥
छान्दोग्ये - "सदेव सौम्येदमग्र आसीत्" इति श्रूयते । तत्सद्रूपं ब्रह्म जन्मवद्भवितुमर्हति, कारणत्वात् , वियद्वत् ॥
इति प्राप्ते, ब्रूमः - सद्रूपं ब्रह्म न जायते । कुतः - तज्जनकस्य कारणस्य दुर्निरूपत्वात् । तथा हि - न तावदसत्कारणम् "कथमसतः सज्जायेत" इति निषेधात् । नापि - सदेव सतः कारणम् , आत्माश्रयापत्तेः । नापि - वियदादिकं सतः कारणम् , वियदादीनां ततः सतो जायमानत्वात् । या तु व्याप्तिः - 'यद्यत्कारणं, तत्तज्जायेत' – इति । सा "स वा एष महानज आत्मा" इति श्रुतिबाध्या । तस्मात् - सद्ब्रह्म नैव जायते ॥
(चतुर्थे तेजसो ब्रह्मजन्यत्वाधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
ब्रह्मणो जायते वह्निर्वायोर्वा ब्रह्मसंयुतात् ॥
तत्तेजोऽसृजतेत्युक्तेर्ब्रह्मणो जायतेऽनलः ॥ ७ ॥
वायोरग्निरिति श्रुत्या पूर्वश्रुत्यैकवाक्यतः ॥
ब्रह्मणो वायुरूपत्वमापन्नादग्निसम्भवः ॥ ८ ॥
छान्दोग्ये - "तत्तेजोऽसृजत" इति तेजसो ब्रह्मजत्वं श्रूयते । तैत्तिरीयके - "वायोरग्निः" इति वायुजत्वम् । तत्र – 'वायोः' इति पञ्चम्या आनन्तर्यार्थस्यापि सम्भवात्केवलब्रह्मजन्यं तेजः ॥
इति प्राप्ते, ब्रूमः - अनुवर्तमानेन सम्भूतशब्देनान्विताया 'वायोः' इति पञ्चम्यां उपादानार्थत्वस्यैव मुख्यत्वात् । उभयोः श्रुत्योरेकवाक्यत्वे सति - वायुरूपापन्नाद्ब्रह्मणस्तेजो जायते - इति लभ्यते ॥
(पञ्चम अपां ब्रह्मजन्यत्वाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
ब्रह्मणोऽपां जन्म किंवा वह्नेर्नाग्नेर्जलोद्भवः ॥
विरुद्धत्वान्नीरजन्म ब्रह्मणः सर्वकारणात् ॥ ९ ॥
अग्नेराप इति श्रुत्या ब्रह्मणो वह्न्युपाधिकात् ॥
अपां जनिर्विरोधस्तु सूक्ष्मयोर्नाग्निनीरयोः ॥ १० ॥
यद्यपि "तदपोऽसृजत" "अग्नेरापः" इत्युभयोश्छान्दोग्यतैत्तिरीययोस्तेजो जन्यत्वमेवापां श्रूयते । तथाऽपि न तद्युक्तम् । निवर्त्यनिवर्तकयोरग्निजलयोर्विरुद्धयोर्न हेतुहेतुमद्भावः । इति पूर्वपक्षः ॥
पञ्चीकृतयोर्दृश्यमानयोर्विरोधेऽप्यपञ्चीकृतयोः श्रुत्येकसमधिगम्ययोर्विरोधकल्पनायोगात् । सन्तापाधिक्ये स्वेदवृष्ट्युद्भवदर्शानाच्च । श्रुतिद्वयानुसारेण तेजोरूपापन्नाद्ब्रह्मणोऽपां जनिः । इति सिद्धान्तः ॥
(षष्ठे पृथिवीमात्रस्यान्नशब्दावाच्यताधिकरणे सूत्रम् - )
षष्ठाधिकरणमारचयति -
ता अन्नमसृजन्तेति श्रुतमन्नं यवादिकम् ॥
पृथिवी वा यवाद्येव लोकेऽन्नत्वप्रसिद्धितः ॥ ११ ॥
भूताधिकारात्कृष्णस्य रूपस्य श्रवणादपि ॥
तथाऽद्भ्यः पृथिवीत्युक्तेरन्नं पृथ्व्यन्नहेतुतः ॥ १२ ॥
छान्दोग्ये - "ता अन्नमसृजन्त" इत्यद्भ्योऽन्नस्य जन्म श्रूयते । तत्र – अन्नशब्दस्य लोकप्रसिद्ध्या व्रीहियवादिकमर्थः ॥
इति प्राप्ते, ब्रूमः - पृथिव्यत्रान्नशब्दार्थः । पञ्चमहाभूतसृष्टेरधिकृतत्वात् । किञ्च – "यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपाम् , यत्कृष्णं तदन्नस्य" इति कृष्णरूपं पृथिव्यां बहुलमुपलभ्यते, नतु व्रीहियवादौ । तथा - "अद्भ्यः पृथिवी" इति तैत्तिरीयकश्रुत्येकवाक्यताबलादत्रान्नं पृथिवी । न च – अन्नशब्दस्य तत्र प्रवृत्त्यनुपपत्तिः, कार्यकारणयोरन्नपृथिव्योरभेदविवक्षया तदुपपत्तेः । तस्मात् - अन्नं पृथिवी ॥
(सप्तमे सोपाधिकब्रह्मण एव कार्यकारणत्वाधिकरणे सूत्रम् - )
सप्तमाधिकरणमारचयति -
व्योमाद्याः कार्यकर्तारो ब्रह्म वा तदुपाधिकम् ॥
व्योम्नो वायुर्वायुतोऽग्निरित्युक्तेः स्वादिकर्तृता ॥ १३ ॥
ईश्वरोऽन्तर्यमयतीत्युक्तेर्व्योमाद्युपाधिकम् ॥
ब्रह्म वाय्वादिहेतुः स्यात्तेजआदीक्षणादपि ॥ १४ ॥
पूर्वाधिकरणेषु - पूर्वपूर्वकार्योपाधिकाद्ब्रह्मण उत्तरोत्तरकार्योत्पत्तिः - इति यदेतत्सिद्धवत्कृत्य सिद्धान्तितम् , तदयुक्तम् । "आकाशाद्वायुः", वायोरग्निः इत्यादौ ब्रह्मनिरपेक्षात्केवलाद्व्योमादेरुत्तरकार्योत्पत्तिश्रवणात् ॥
इति प्राप्ते, ब्रूमः - "य आकाशमन्तरो यमयति, यो वायुमन्तरो यमयति" इत्यादिनाऽन्तर्यामिब्राह्मणे व्योमादेः स्वातत्र्यं निवारितम् । तथा - "तत्तेज ऐक्षत ता आप ऐक्षन्त" इति तेजआदेरीक्षणपूर्वकं स्रष्टृत्वं श्रूयते । तच्चेक्षणं चेतनब्रह्मनिरपेक्षाणामचेतनानां न सम्भवति । तस्मात् - व्योमाद्युपाधिकस्य ब्रह्मण एव कारणत्वम् ॥
(अष्टमे लयक्रमनिरूपणाधिकरणे सूत्रम् - )
अष्टमाधिकरणमारचयति -
सृष्टिक्रमो लये ज्ञेयो विपरीतक्रमोऽथवा ॥
क्लृप्तं कल्प्याद्वरं तेन लये सृष्टिक्रमो भवेत् ॥ १६ ॥
हेतावसति कार्यस्य न सत्त्वं युज्यते यतः ॥
पृथिव्यप्स्विति चोक्तत्वाद्विपरीतक्रमो लये ॥ १७ ॥
आकाशादिक्रमः सृष्टौ क्लृप्तः । अतः प्रलयेऽपि स एव क्रमः ।
इति प्राप्ते, ब्रूमः - प्रथमतः कारणे लीने सति निरुपादानानां कार्याणां कञ्चित्कालमवस्थानं प्रसज्येत । किञ्च -
"जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥(वायुः प्रलीयते व्योम्नि तच्चाव्यक्ते प्रलीयते" । )
इति पुराणे विपरीतक्रमस्योक्तत्वात्क्लृप्त एवायं क्रमः । तस्मात् - सृष्टिविपरीतेन पृथिव्यादिक्रमेण प्रलीयते ॥
(नवमे प्राणादिसृष्टौ क्रमनिरूपणाधिकरणे सूत्रम् - )
नवमाधिकरणमारचयति -
किमुक्तक्रमभङ्गोऽस्ति प्राणाद्यैर्नास्ति वाऽस्ति हि ॥
प्राणाक्षमनसां ब्रह्मवियतोर्मध्य ईरणात् ॥ १८ ॥
प्राणाद्या भौतिका भूतेष्वन्तर्भूताः पृथक्क्रमम् ॥
नेच्छन्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः ॥ १९ ॥
मुण्डकोपनिषदि श्रूयते -
"एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी" इति ।
तत्र – प्राणादीनां वियदादिभ्यः पूर्वं श्रूयमाणत्वादाकाशादिकः पूर्वोक्तसृष्टिक्रमो भज्येत ॥
इति प्राप्ते, ब्रूमः - "अन्नमयं हि सौम्य मनः", "आपोमयः प्राणः", "तेजोमयी वाक्" इति प्राणादीनां भौतिकत्वश्रवणाद्भूतेष्वेवान्तर्भावेन पृथक्क्रमो नापेक्षितः । न च – मुण्डकश्रुतिः क्रमवाचिनी, "आकाशाद्वायुः वायोरग्निः" इत्यादाविव क्रमस्याप्रतीयमानत्वात् , उत्पत्तिमात्रं केवलं ब्रूते । तस्मात् - नानया श्रुत्या पूर्वोक्तक्रमभङ्गोऽस्ति ॥
(दशमे जीवस्य जन्ममरणराहित्याधिकरणे सूत्रम् - )
दशमाधिकरणमारचयति -
जीवस्य जन्ममरणे वपुषो वाऽऽत्मनो हि ते ॥
जातो मे पुत्र इत्युक्तेर्जातकर्मादितस्तथा ॥ २० ॥
मुख्ये ते वपुषो भाक्ते जीवस्यैते अपेक्ष्य हि ॥
जातकर्म च लोकोक्तिर्जीवापेतेतिशास्त्रतः ॥ २१ ॥
लोके – 'पुत्रो मे जातः' इति व्यवहाराच्छास्त्रे जातकर्मादिसंस्कारोक्तेश्च जन्ममरणे जीवस्य ॥
इति प्राप्ते, ब्रूमः - जीवस्य मुख्यमरणाङ्गीकारे कृतनाशाकृताभ्यागमप्रसङ्गस्य दुर्निवारत्वाद्देहगते एव जन्ममरणे जीवस्योपचर्येते । औपचारिके एव ते अपेक्ष्य लोकव्यवहारकर्मशास्त्रयोः प्रवृत्तिः । उपनिषच्छास्त्रं तु "जीवापेतं वाव किलेदं म्रियते, न जीवो म्रियते" इति जीवविमुक्तस्यैव शरीरस्य मुख्यं मरणमभिधाय जीवस्य तन्निराचष्टे । तस्मात् - वपुषो जन्ममरणे ॥
(एकादशे जीवस्य नित्यत्वाधिकरणे सूत्रम् - )
एकादशाधिकरणमारचयति -
कल्पादौ ब्रह्मणो जीवो वियद्वज्जायते न वा ॥
सृष्टेः प्रागद्वयत्वोक्तेर्जायते विस्फुलिङ्गवत् ॥ २२ ॥
ब्रह्माद्वयं जातबुद्धौ जीवत्वेन विशेत्स्वयम् ॥
औपाधिकं जीवजन्म नित्यत्वं वस्तुतः श्रुतम् ॥ २३ ॥
"एकमेवाद्वितीयम्" इति सृष्टेः प्रागद्वयत्वं श्रूयमाणं ब्रह्मव्यतिरिक्तस्य जीवस्यानुत्पत्तौ नोपपद्यते । श्रुतिश्च विस्फुलिङ्गदृष्टान्तेन जीवस्योत्पत्तिं प्रतिपादयति - "यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एवमेतस्मादात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एत आत्मानो व्युच्चरन्ति" इति । तस्मात् - कल्पादौ वियदादिवद्ब्रह्मणो जीवो जायते ॥
इति प्राप्ते, ब्रूमः - यदद्वयं ब्रह्म तदेव जातायां बुद्धौ जीवरूपेण प्रविशति "तत्सृष्ट्वा तदेवानुप्राविशत्" इति श्रुतेः । अतो जीवानुत्पत्तौ नाद्वयश्रुतिविरोधः विस्फुलिङ्गश्रुतिस्त्वौपाधिकजन्माभिप्राया प्रवृत्ता । अन्यथा कृतनाशादिदोषस्योक्तत्वात् । वस्तुत्तत्त्वाभिप्रायेण तु नित्यत्वं श्रुतिर्ब्रूते - "नित्यो नित्यानां चेतनश्चेतनानाम्" इति तस्मात्कल्पादौ जीवो नोत्पद्यते ॥
(द्वादशे जीवस्य चिद्रूपत्वाधिकरणे सूत्रम् - )
द्वादशाधिकरणमारचयति -
अचिद्रूपोऽथ चिद्रूपो जीवोऽचिद्रूप इष्यते ॥
चिदभावात्सुषुप्त्यादौ जाग्रच्चिन्मनसा कृता ॥ २४ ॥
ब्रह्मत्वादेव चिद्रूपश्चित्सुषुप्तौ न लुप्यते ॥
द्वैतादृष्टिद्वैतलोपान्नहि द्रष्टुरिति श्रुतेः ॥ २५ ॥
तार्किका मन्यन्ते - सुषुप्तिमूर्छासमाधिषु चैतन्यभावादचिद्रूपो जीवः । जागरणे चाऽऽत्ममनःसंयोगाच्चैतन्याख्यो गुणो जायते - इति ।
तदसत् । चिद्रूपस्य ब्रह्मण एव जीवरूपेण प्रवेशश्रवणात् । न च – चैतन्यं सुषुप्त्यादौ लुप्यते, सुषुप्त्यादिसाक्षित्वेनावस्थानात् । अन्यथा सुषुप्तादिपरामर्शायोगात् । कथं तर्हि - - सुषुप्त्यादौ द्वैताप्रतीतिः - इति चेत् । 'द्वैतलोपात्' इति ब्रूमः । तथाच श्रुतिः - "यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् , न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्" इति । अस्यायमर्थः - 'तत्र सुषुप्तौ जीवः किमपि न पश्यति', इति यल्लौकिकैरुच्यते, तदसत् । पश्यन्नेव जीवस्तदानीं न पश्यति, इति भ्रान्त्या केवलं व्यपदिश्यते । कथं तद्दर्शनम् - इत्यत्र हेतुरुच्यते - द्रष्टुरात्मनः स्वरूपभूताया दृष्टेर्लोपो नहि विद्यते विनाशरहितस्वभावत्वात् । अन्यथा लोपवादिनोऽपि निःसाक्षिकस्य लोपस्य वक्तुमशक्यत्वात् । कथं तर्हि लौकिकानां 'न पश्यति' इति भ्रमः - इत्यत्र हेतुरुच्यते - ब्रह्मचैतन्यादन्यत्क्रियाकारकफलरूपेण विभक्तं जगदाख्यं यद्द्वितीयं वस्तु, तन्नास्ति तस्य स्वकारणे लीनत्वात् । अतो जागरणवद्द्रष्टृदृश्यदर्शनव्यवहाराणामभावात् 'न पश्यति' इति लौकिकानां भ्रमः - इति । तस्मात् - चिद्रूपो जीवः ॥
(त्रयोदशे जीवस्य सर्वगतत्वाधिकरणे सूत्राणि - )
त्रयोदशाधिकरणमारचयति -
जीवोऽणुः सर्वगो वा स्यादेषोऽणुरिति वाक्यतः ॥
उत्क्रान्तिगत्यागमनश्रवणाच्चाणुरेव सः ॥ २६ ॥
साभासबुद्ध्याऽणुत्वेन तदुपाधित्वतोऽणुता ॥
जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतः श्रुतम् ॥ २७ ॥
"एषोऽणुरात्मा चेतसा वेदितव्यः" इत्युणुत्वं श्रुतम् । "अस्माच्छरीरादुत्क्रामति" इत्युत्क्रान्तिः । "चन्द्रमसमेव ते सर्वे गच्छन्ति" इति गतिः । "तस्माल्लोकात्पुनरैति" इत्यागमनम् । नह्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते । मध्यमपरिमाणस्य तदुपपत्तावप्यणुश्रुतिर्विरुध्यते । अनित्यत्वं च दुर्वारम् । तस्मात् - अणुर्जीवः ॥
इति प्राप्ते, ब्रूमः - चैतन्यप्रतिबिम्बसहिता बुद्धिरसर्वगता । तदुपाधिकत्वाज्जीवस्याणुत्वोत्क्रान्त्यादय उपपन्नाः । स्वतस्तु जीवस्य ब्रह्मरूपत्वात्सर्वगतत्वम् । "स वा एष महानज आत्मा" "सर्वव्यापी सर्वभूतान्तरात्मा" इत्यादौ सर्वगतत्वं श्रुतम् । तस्मात् - सर्वगतो जीवः ॥
(चतुर्दशे जीवस्य कर्तृत्वाधिकरणे सूत्राणि - )
चतुर्दशाधिकरणमारचयति -
जीवोऽकर्ताऽथवा कर्ता धियः कर्तृत्वसम्भवात् ॥
जीवकर्तृतया किं स्यादित्याहुः साङ्ख्यमानिनः ॥ २८ ॥
करणत्वान्न धीः कर्त्री यागश्रवणलौकिकाः ॥
व्यापारा न विना कर्त्रा तस्माज्जीवस्य कर्तृता ॥ २९ ॥
"बुद्धेः परिणामित्वेन क्रियावेशात्मकं कर्तृत्वं सम्भवति, न त्वसङ्गस्याऽऽत्मनः" - इति यत्साङ्ख्यैरुक्तम् ।
तदसङ्गतम् । करणत्वेन क्लृप्तशक्तिकाया बुद्धेः कर्तृशक्तिर्न कल्पयितुं शक्या, कुठारादावदर्शनात् । बुद्धेः कर्तृत्वे करणान्तरस्य कल्पनीयत्वाच्च । न च – मा भूत्कर्ता - इति वाच्यम् , पूर्वकाण्डोक्तयागादिव्यापाराणामुत्तरकाण्डोक्तश्रवणादिव्यापाराणां लौकिककृष्यादिव्यापाराणां च कर्तृसापेक्षत्वात् । तस्मात् - जीवः कर्ता ॥
(पञ्चदशे जीवस्याध्यस्तकर्तृत्वाधिकरणे सूत्रम् - )
पञ्चदशाधिकरणमारचयति -
कर्तृत्वंं वास्तवं किंवा कल्पितं वास्तवं भवेत् ॥
यजेतेत्यादिशास्त्रेण सिद्धस्याबाधितत्वतः ॥ ३० ॥
असङ्गो हीति तद्बाधात्स्फटिके रक्ततेव तत् ॥
अध्यस्तं धीचक्षुरादिकरणोपाधिसंनिधेः ॥ ३१ ॥
पूर्वाधिकरणे प्रतिपादितस्य कर्तृत्वस्य बाधाभावद्वास्तवम् ॥
इति प्राप्ते, ब्रूमः - "असङ्गो ह्ययं पुरुषः" इति श्रुत्या कर्तृत्वसङ्गो बाध्यते । अतो यथा जपाकुसुमसंनिधिवशात्स्फटिके रक्तत्वमध्यस्तम् , तथा - अन्तःकरणसंनिधिवशात्कर्तृत्वमात्मन्यध्यस्यते ॥
(षोडश ईश्वरस्य जीवप्रवर्तकत्वाधिकरणे सूत्रे - )
षोडशाधिकरणमारचयति -
प्रवर्तकोऽस्य रागादिरीशो वा, रागतः कृषौ ॥
दृष्टा प्रवृत्तिर्वैषम्यमीशस्य प्रेरणे भवेत् ॥ ३२ ॥
सस्येषु वृष्टिवज्जीवेष्वीशस्याविषमत्वतः ॥
रागोऽन्तर्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः ॥ ३३ ॥
लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ । तदनुसाराद्धर्माधर्मकर्तृजीवस्यापि तावेव प्रवर्तकावभ्युपेयौ । ईश्वरस्य प्रवर्तकत्वे कांश्चिज्जीवान्धर्मे प्रवर्तयति, कांश्चिदधर्मे, इति वैषम्यं दुर्वारम् । तस्मात् - नेश्वरः प्रवर्तकः ॥
इति प्राप्ते, ब्रूमः - न तावदीश्वरस्य वैषम्यदोषप्रसङ्गः । वृष्टिवत्साधारणनिमित्तत्वात् । यथा वृष्टेः सस्याभिवृद्धिहेतुत्वेऽपि व्रीहियवादिवैषम्ये बीजानामेव निमित्तत्वम् , तथेश्वरस्य 'यथायथं जीवाः प्रवर्तन्ताम्' इत्यनुज्ञया साधारणप्रवर्तकत्वात् । असाधारणप्रवर्तकत्वेऽपि न वैषम्यम् , पूर्वकृतकर्मणां वासनानां च वैषम्यहेतुत्वात् । - कर्मणां फलहेतुत्वमेव, न कर्मान्तरहेतुत्वम् - इति चेत् । सत्यम् । सुखदुःखरूपस्य स्वफलस्य प्रदानाय जीवं व्यापारयत्सु कर्मस्वर्थात्कर्मान्तरमपि निष्पद्यत इति दुर्वारं तद्धेतुत्वम् । वासनानां तु साक्षादेव कर्महेतुत्वम् । तथाचेश्वरस्य कुतो वैषम्यप्रसङ्गः । यत्तु - रागस्य प्रवर्तकत्वनिदर्शनमुदाहृतम् । तत्तथाऽस्तु । न तावतेश्वरस्य प्रवर्तकत्वहानिः, सर्वान्तर्यामिणेश्वरेण रागस्यापि नियम्यमानत्वात् । तस्मात् - ईश्वरो जीवस्य प्रवर्तकः ॥
(सप्तदशे जीवेश्वरव्यवस्थाधिकरणे सूत्राणि - )
सप्तदशाधिकरणमारचयति -
किं जीवेश्वरसाङ्कर्यं व्यवस्था वा श्रुतिद्वयात् ॥ अभेदभेदविषयात्साङ्कर्यं न निवार्यते ॥ ३४ ॥ अंशोऽवच्छिन्न आभास इत्यौपाधिककल्पनैः ॥ जीवेशयोर्व्यवस्था स्याज्जीवानां च परस्परम् ॥ ३५ ॥
"तत्त्वमसि" इत्यादिश्रुतिर्जीवेशयोरभेदं प्रतिपादयति । "आत्मा वा अरे द्रष्टव्यः" इत्यादिना द्रष्टृद्रष्टव्यरूपेण भेदः प्रतीयते । तथाच सति भेदश्रुतिबलात् 'जीवो नास्ति' इत्यपलपितुमशक्यम् । अभेदश्रुत्या चेश्वरात्पृथक्त्वेन व्यवस्थापयितुं न शक्यते । तस्माद्विद्यमानस्य जीवस्येश्वरेण साङ्कर्यं दुर्वारम् । परस्परं च जीवानामीश्वरादभेदद्वारा साङ्कर्यमानुषङ्गिकम् । तस्मात् - ब्रह्मवादिनो न जगद्व्यवस्था ॥
इति प्राप्ते, ब्रूमः - यद्यपि - गोमहिषवज्जीवेश्वरयोरत्यन्तभेदो वास्तवो नास्ति । तथाऽपि व्यवहारदशायामुपाधिकल्पितं भेदमाश्रित्य शास्त्राणित्रेधा जीवं निरूपयन्ति -
"ममैवांशो जीवलोके जीवभूतः सनातनः" ।
इत्यंशत्वमवगम्यते । "स समानः सन्नुभौ लोकावनुसञ्चरति" इति श्रुतौ विज्ञानमयस्य जीवस्य विज्ञानशब्दवाच्यया बुद्ध्या समानपरिमाणनिर्देशाद्घटाकाशवदवच्छिन्नत्वं प्रतीयते -
"एक एव तु भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" ।
इत्याभासत्वमवगम्यते तस्मात्सुलभैव ब्रह्मवादिनो जीवेश्वरव्यवस्था । जीवानां च परस्परमनेकजलपात्रस्थबहुसूर्यप्रतिबिम्बवद्व्यवहारव्यवस्था सुतरामुपपद्यते । तस्मात् - न कोऽपि दोषः - इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि १७ ७८
सूत्राणि ५३ ३७०
(प्रथम इन्द्रियाणां परमात्मजन्यत्वाधिकरणे सूत्राणि - )
चतुर्थपादस्य प्रथमाधिकरणमारचयति -
किमिन्द्रयाण्यनादीनि सृज्यन्ते वा परात्मना ॥
सृष्टेः प्रागृषिनाम्नैषां सद्भावोक्तेरनादिता ॥ १ ॥
एकबुद्ध्या सर्वबुद्धेर्भौतिकत्वाज्जनिश्रुतेः ॥
उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः ॥ २ ॥
"ऋषयो वाव तेऽग्रे सदासीत् । (तदाहुः) के ते ऋषयः - इति । प्राणा वा ऋषयः" इति श्रुत्या सृष्टेः पूर्वमिन्द्रियाणां सद्भावावगमादनादित्वं तेषाम् ॥
इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं तावदिन्द्रियाणामनुत्पत्तौ न घटते । तथा - "अन्नमयं हि सौम्य मनः । आपोमयः प्राणः । तेजोमयी वाक्" इति भूतकार्यत्वमिन्द्रियाणां श्रूयते ।
"एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च"
इति स्पष्टमेवेन्द्रियाणां जन्मश्रवणम् । यत्तु - सृष्टेः प्राक्सद्भाववाक्यम् । तदवान्तरसृष्टिविषयतया व्याख्येयम् । तस्मात् - इन्द्रियाणि परमात्मन उत्पद्यन्ते ॥
(द्वितीय इन्द्रियाणामेकादशत्वाधिकरणे सूत्रे - )
द्वितीयाधिकरणमारचयति -
सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः ॥
सप्त स्युर्मूर्धनिष्ठेषु च्छिद्रेषु च विशेषणात् ॥ ३ ॥
अशीर्षण्यस्य हस्तादेरपि वेदे समीरणात् ॥
ज्ञेयान्येकादशाक्षाणि तत्तत्कार्यानुसारतः ॥ ४ ॥
सप्तैवेन्द्रियाणि । कुतः - "सप्त प्राणाः प्रभवन्ति" इति सामान्यश्रुतेः । "सप्तशीर्षण्याः प्राणाः" इति शिरोदतसप्तच्छिद्रनिष्ठत्वेन विशेषितत्वाच्च ॥
इति प्राप्ते, ब्रूमः - शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेदे समीर्यन्ते । "हस्तौ चाऽऽदातव्यं च, उपस्थश्चाऽनन्दयितव्यं च" इत्यादिना । तथाच वेदान्निश्चये सत्येकादशव्यापाराणां दर्शनश्रवणघ्राणास्वादनस्पर्शनाभिवदनादानगमनानन्दविसर्गध्यानानामुपलम्भात्तत्साधनत्वेन – 'इन्द्रियाण्येकादश' इत्यभ्युपगन्तव्यम् ॥
(तृतीये, इन्द्रियाणामणुत्वाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
व्यापीन्यणूनि वाऽक्षाणि साङ्ख्या व्यापित्वमूचिरे ॥
वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत् ॥ ५ ॥
देहस्थवृत्तिमद्भागेष्वेवाक्षत्वं समाप्यताम् ॥
उत्क्रान्त्यादिश्रुतेस्तानि ह्यणूनि स्युरदर्शनात् ॥ ६ ॥
'सर्वगतानामिन्द्रियाणां तत्तच्छरीरावच्छिन्नप्रदेशेषु तत्तज्जीवकर्मफलोपभोगाय वृत्तिलाभो भवति' इति यत्साङ्ख्यैरुक्तम् ।
तदयुक्तम् । कल्पनागौरवप्रसङ्गात् । देहावच्छिन्नवृत्तिमद्भागैरेवाशेषव्यवहारसिद्धौ किमनया वृत्तिरहितानां सर्वगतानामिन्द्रियाणां कल्पनया । किञ्च – श्रुतिरुत्क्रान्तिगत्यागतीर्जीवस्य प्रतिपादयति । ताश्च सर्वगतस्य जीवस्य न मुख्याः सम्भवन्ति - इति मुख्यत्वसिद्ध्यर्थमिन्द्रियोपाधिः स्वीकृतः । यदि सोऽप्युपाधिः सर्वगतः स्यात् , कुतस्तर्ह्युत्क्रान्त्यादयो मुख्याः सम्भवेयुः । तस्मात् - असर्वगतान्यक्षाणि । मध्यमपरिमाणेष्वेवादृश्यत्वविवक्षया सूत्रकारेणाणुशब्दः प्रयुक्तः ॥
(चतुर्थे प्राणस्य जन्यताधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
मुख्यः प्राणः स्यादनादिर्जायते वा न जायते ॥
आनीदिति प्राणचेष्टा प्राक्सृष्टेः श्रूयते यतः ॥ ७ ॥
आनीदिति ब्रह्मसत्त्वं प्रोक्तं वातनिषेधनात् ॥
एतस्माज्जायते प्राण इत्युक्तेरेष जायते ॥ ८ ॥
मुखबिले सञ्चरन्नुच्छ्वासकारी यो वायुः स प्राणः । सोऽनादिः । कुतः - "नासदासीत्" - इति सूक्ते - "आनीदवातम्" इति 'आनीत्' शब्देन सृष्टेः प्राक्प्राणचेष्टाश्रवणात् ॥
इति प्राप्तेः, ब्रूमः - 'आनीत्' शब्दो न प्राणव्यापारं वक्ति, "अवातम्" इति तन्निषेधात् । किं तर्हि - ब्रह्मसत्त्वं ब्रूते, "सदेव सौम्येदमग्र आसीत्" इत्यादिभिः सृष्टिप्रागवस्थाप्रतिपादकश्रुत्यन्तरैः समानार्थत्वात् । "एतस्माज्जायते प्राणः" इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रतिपादयति । तस्मात् - इन्द्रियवत्प्राणो जायते ॥
(पञ्चमे प्राणस्य तत्त्वान्तरताधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राणः श्रुतितोऽनिलः ॥
सामान्येन्द्रियवृत्तिर्वा साङ्ख्यैरेवमुदीरणात् ॥ ९ ॥
भाति प्राणो वायुनेति भेदोक्तेरेकताश्रुतिः ॥
वायुजत्वेन सामन्यवृत्तिर्नाक्षेष्वतोऽन्यता ॥ १० ॥
बाह्यवायुरेव वेणुरन्ध्रवन्मुखच्छिद्रे प्रविश्यावस्थितः प्राणनाम्ना व्यपदिश्यते । न तु प्राणो नाम किञ्चित्तत्त्वान्तरमस्ति । कुतः - "यः प्राणः स वायुः" इति श्रुतेः । अथवा - पञ्जरस्था यथा बहवः पक्षिणः स्वयं चलन्तः पञ्जरमपि चालयन्ति, एवमेकादशाक्षाणि स्वस्वव्यापारद्वारा देहं चेष्टयन्ते । तत्र देहचालनाख्यो योऽयं सर्वेन्द्रियसाधारणो व्यापारः, स प्राणो भविष्यति । तथाच साङ्ख्यैरुक्तम् -
"सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च" इति ।
तस्मात् - न तत्त्वान्तरं प्राणः ॥
इति प्राप्ते, ब्रूमः - "प्राण एव ब्रह्मणश्चतुर्थः पादः, स वायुना ज्योतिषा भाति (च तपति च ) इति" श्रुत्यन्तरे चतुष्पाद्ब्रह्मोपासनप्रसङ्गेनाऽऽध्यात्मिकप्राणस्याऽऽधिदैविकवायोश्चानुग्राह्यानुग्राहकरूपेण भेदः स्पष्टमेव निर्दिष्टः । अतः - "यः प्राणः स वायुः" इत्येकत्वश्रुतिः कार्यकरणयोरभेदवृत्त्या नेतव्या । यत्तु - साङ्ख्यैरुक्तम् । तदसत् , इन्द्रियाणां सामान्यवृत्त्यसम्भवात् । पक्षिणां तु चालनान्येकविधानि पञ्जरचालनस्यानुकूलानि, न तु तथेन्द्रियाणां दर्शनश्रवणगमनादिव्यापारा एकविधाः । नापि देहचालनानुकूलाः । तस्मात् - तत्त्वान्तरं प्राणः - इति परिशिष्यते ॥
(षष्ठे प्राणस्याणुत्वाधिकरणे सूत्रम् - )
षष्ठाधिकरणमारचयति -
प्राणोऽयं विभुरल्पो वा विभुः स्यात्प्लुष्युपक्रमे ॥
हिरण्यगर्भपर्यन्ते सर्वदेहे समोक्तितः ॥ ११ ॥
समष्टिव्यष्टिरूपेण विभुरेवाऽऽधिदैविकः ॥
आध्यात्मिकोऽल्पः प्राणः स्याददृश्यश्च यथेन्द्रियम् ॥ १२ ॥
प्लुषिर्नाम मशकादपि न्यूनकायः पुत्तिकाख्यो जीवः । तमारभ्य सर्वात्मकहिरण्यगर्भपर्यन्तेषु देहेषु तैस्तैर्देहैः समत्वं प्राणस्य श्रूयते - "समः प्लुषिणा, समो मशकेन समो नागेन, सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण" इति । तस्मात् - व्यापी प्राणः ।
इति प्राप्ते, ब्रूमः - आधिदैविकस्य हिरण्यगर्भप्राणस्य समष्टिरूपेण व्यष्टिरूपेण चावस्थानाद्विभुत्वमस्तु - "वायुरेव व्यष्टिः, वायुरेव समष्टिः" इति श्रुतेः । तदेव विभुत्वं "समः प्लुषिणा" इत्यादिश्रुतावुपासनार्थं प्रपञ्चितम् । आध्यात्मिकस्तु प्राण इन्द्रियवददृश्यः परिच्छिन्नश्च ॥
(सप्तमे, इन्द्रियाणां देवपरतन्त्रताधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
स्वतन्त्रा देवतन्त्रा वा वागाद्याः स्युः स्वतन्त्रता ॥
नो चेद्वागादिजो भोगो देवानां स्यान्न चाऽऽत्मनः ॥ १३ ॥
श्रुतमग्न्यादितन्त्रत्वं भोगोऽग्न्यादेस्तु नोचितः ॥
देवदेहेषु सिद्धत्वाज्जीवो भुङ्क्ते स्वकर्मणा ॥ १४ ॥
वागादीन्यक्षाणि स्वस्वविषयस्वातन्त्र्येण प्रवर्तन्ते, न तु देवतापरतन्त्राणि । अन्यथा वागादिजन्यस्य भोगस्य देवानां भोक्तृत्वान्न जीवात्मनो भोगः स्यात् ॥
इति प्राप्ते, ब्रूमः - "अग्निर्वाग्भूत्वा मुखं प्राविशत्" इत्यादौ वागादीनामग्न्याद्यनुगृहीतत्वं श्रूयते । ततो देवतापरतन्त्रैवेन्द्रियवृत्तिः । न च – एतावता देवतानामत्र भोक्तृत्वम् , महापुण्यफलं देवत्वं प्राप्तानामधमभोगस्यानुचितत्वात् । देवतादेहेषु परमभोगस्य सिद्धत्वाच्च । मनुष्यादिजीवस्तु देवप्रेरितैरप्यक्षैरापादितं भोगं स्वकर्मफलतया भुङ्क्ते - इत्युपपद्यते । तस्मात् - देवतापरतन्त्राणीन्द्रियाणि ॥
(अष्टमे, इन्द्रियाणां प्राणात्तत्त्वान्तरत्वाधिकरणे सूत्राणि - )
अष्टमाधिकरणमारचयति -
प्राणस्य वृत्तयोऽक्षाणि प्राणात्तत्त्वान्तराणि वा ॥
तद्रूपत्वश्रुतेः प्राणनाम्नोक्तत्वाच्च वृत्तयः ॥ १५ ॥
श्रमाश्रमादिभेदोक्तेर्गोणे तद्रूपनामनी ॥
आलोचकत्वेनान्यानि प्राणो नेताऽक्षदेहयोः ॥ १६ ॥
वागादीन्यक्षाणि मुख्यप्राणवृत्तयो भवितुमर्हन्ति । कुतः - तेषां प्राणरूपत्वश्रवणात् । "हन्तास्यैव सर्वे रूपमसामेति, त एतस्यैव सर्वे रूपमभवन्" इति श्रुतेः । किञ्च – प्राणशब्देनैव तानि लोके व्यवह्नियन्ते - 'म्रियमाणस्य नाद्यापि प्राणानिर्गच्छन्ति' इत्यादौ । श्रुतिश्च वागादीनां प्राणनामकतामाह – "न वै वाचः, न चक्षूंषि, न श्रोत्राणि, न मनांसि, इत्याचक्षते । प्राणा इत्येवाऽऽचक्षते" इति तस्मात् - न प्राणादन्यानि तत्त्वानि ॥
इति प्राप्ते, ब्रूमः - "तानि मृत्युः श्रमो भूत्वोपयेमे । तस्माच्छ्राम्यत्येव वाक्" इत्यादिना वागादीनां स्वस्वविषयेषु श्रान्तिमभिधाय "अथेममेव नाऽऽप्नोत् , योऽयं मध्यमः प्राणः, यः सञ्चरंश्चासञ्चरंश्च न व्यथते" इति प्राणस्य स्वव्यापारे श्रान्त्यभावमाह । अयमेको भेदः । तथा - प्राणसंवादे वागादिनिर्गमनप्रवेशयोर्देहस्य मरणोत्थानाभावमभिधाय प्राणनिर्गमनप्रवेशयोर्मरणोत्थाने दर्शयति । अत एवमादिभेदोक्तेर्वागादीनां प्राणरूपत्वं प्राणनामत्वं च गौणम् । भृत्यन्यायेन प्राणानुवर्तित्वात् । व्यवहारभेदश्च भूयानुपलभ्यते । स्वं स्वं विषयं परिच्छिद्याऽऽलोचकानीन्द्रियाणि, प्राणस्त्वक्षाणां देहस्य च नेता । तस्मात् - बहुवैलक्षण्यात्प्राणात्तत्त्वान्तराणीन्द्रियाणि ॥
(नवमे, ईश्वरस्यैव नामरूपव्याकर्तृत्वाधिकरणे सूत्राणि - )
नवमाधिकरणमारचयति -
नामरूपव्याकरणे जीवः कर्ताऽथवेश्वरः ॥
अनेन जीवेनेत्युक्तेर्व्याकर्ता जीव इष्यते ॥ १७ ॥
जीवान्वयः प्रवेशेन संनिधेः सर्वसर्जने ॥
जीवोऽशक्तः शक्त ईश उत्तमोक्तिस्तथेक्षितुः ॥ १८ ॥
ईश्वरेण पञ्चभूतेषु सृष्टेषु भौतिकयोर्दृश्यमानयोर्महीधरादिनामरूपयोर्जीव एव स्रष्टा स्यात् । कुतः - "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति जीवरूपस्यैव सृष्टावन्वयश्रवणात् ॥
इति प्राप्ते, ब्रूमः - "जीवेनानुप्रविश्य" इति प्रवेशेनैव जीवोऽन्वेति संनिहितत्वात् । 'जीवेन व्याकरवाणि' इत्युक्तौ व्यवहितान्वयः स्यात् । नहि जीवस्य गिरिनदीनिर्माणे शक्तिरस्ति । ईश्वरस्तु सर्वशक्तियुक्तः "पराऽस्य शक्तिर्विविधैव श्रूयते" इति श्रवणात् । किञ्च – "व्याकरवाणि" इत्युत्तमपुरुषोऽपीश्वरपक्षे समञ्जसः । तस्मात् - ईश्वर एव नामरूपयोः स्रष्टा । कथं तर्हि - घटपटादौ कुलालादेर्निर्मातृत्वम् । 'ईश्वरप्रेरणात्' इति ब्रूमः । तस्मात् - ईश्वर एव सर्वकर्ता - इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ इति द्वितीयोऽध्यायः समाप्तः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ९ ८७
सूत्राणि २२ ३९२