अद्वैतशारदा

वैयासिकन्यायमाला

स्मृत्यधिकरणम्

(प्रथमे साङ्ख्य­स्मृ­ते­र्बा­ध्य­त्वा­धि­क­रणे सूत्रे - )
प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
साङ्ख्य­स्मृ­त्याऽस्ति सङ्कोचो न वा वेदसमन्वये ॥
धर्मे वेदः सावकाशः सङ्कोचोऽनवकाशया ॥ १ ॥
प्रत्य­क्ष­श्रु­ति­मू­ला­भि­र्म­न्वा­दि­स्मृ­तिभिः स्मृतिः ॥
अमूला कापिली बाध्या न सङ्कोचोऽनया ततः ॥ २ ॥
अस्मिन्पादे सर्वे­ष्व­धि­क­र­णेषु पूर्वा­ध्या­योक्तः समन्वयो विषयः । तत्रा­स्मि­न्न­धि­क­रणे वैदिकस्य समन्वयस्य साङ्ख्या­स्मृत्या सङ्कोचोऽस्ति न वा इति सन्देहः । सङ्कोचोऽस्ति, इति तावत्प्राप्तम् । कुतः - सङ्ख्य­स्मृ­ते­र­न­व­का­श­त्वेन प्रबलत्वात् । साङ्ख्य­स्मृ­तिर्हि वस्तु­त­त्त्व­नि­रू­प­णा­यैव प्रवृत्ता, न त्वनुष्ठेयं धर्मं क्वचिदपि प्रतिपादयति । यदि तस्मिन्नपि वस्तुन्यसौ बाध्येत, तदा निरवकाशा स्यात् । वेदस्तु धर्मब्रह्मणी प्रति­पा­द­य­न्ब्र­ह्म­ण्ये­क­स्मि­न्बा­ध्य­मा­नोऽपि धर्मे सावकाशः स्यात् । तस्मात् - अनवकाशया स्मृत्या सावकाशस्य वेदस्य सङ्कोचो युक्तः ॥
इति प्राप्ते, ब्रूमः - साङ्ख्यस्मृत्या वेदस्य सङ्कोचो न युक्तः । कुतः - मन्वा­दि­स्मृ­ति­भि­र्ब्र­ह्म­का­र­ण­त्व­वा­दि­नी­भि­र्बा­धि­त­त्वात् । प्रबला हि मन्वादिस्मृतयः प्रत्य­क्ष­वे­द­मू­ल­क­त्वात् । न तथा कपिलस्मृतेः प्रधा­न­का­र­ण­वा­दिन्या मूलभूतं कञ्चन वेदमुपलभामहे दृश्य­मा­न­वे­द­वा­क्यानां ब्रह्मपरत्वस्य पूर्वमेव निर्णीतत्वात् । तस्मात् - न साङ्ख्यस्मृत्या वेदस्य सङ्कोचो युक्तः ॥

(द्वितीये योग­स्मृ­ते­र्बा­ध्य­त्वा­धि­क­रणे सूत्रम् - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
योग­स्मृ­त्याऽस्ति सङ्कोचो न वा योगो हि वैदिकः ॥
तत्त्व­ज्ञा­नो­प­यु­क्तश्च ततः सङ्कुच्यते तया ॥ ३ ॥
प्रमाऽपि योगे तात्प­र्या­द­ता­त्प­र्यान्न सा प्रमा ॥
अवैदिके प्रधा­ना­दा­व­स­ङ्को­च­स्त­याऽ­प्यतः ॥ ४ ॥
योगस्मृतिः पातञ्जलं शास्त्रम् । तत्रो­क्तोऽ­ष्टा­ङ्ग­योगः प्रत्य­क्ष­वे­देऽ­प्यु­प­ल­भ्यते । श्वेता­श्व­त­रा­दि­शा­खासु योगस्य प्रपञ्चितत्वात् । किञ्चायं योग­स्त­त्त्व­ज्ञा­नो­प­योगी "दृश्यते त्वग्र्यया बुद्ध्या" इति योगसाध्यस्य चित्तै­का­ग्र्यस्य ब्रह्म­सा­क्षा­त्का­र­हे­तु­त्व­श्र­व­णात् । ततः प्रमाणभूतं योगशास्त्रम् । तच्च प्रधानस्य जगत्कारणतां वक्ति तस्मात् - योगस्मृत्या वेदस्य सङ्कोचः ॥
इति प्राप्ते, ब्रूमः - अष्टाङ्गयोगे तात्प­र्य­व­त्त्वा­त्प्र­मा­ण­भू­ताऽपि सती योग­स्मृ­ति­र­वै­दिके प्रधानादौ न प्रमाणम् , तत्र तात्पर्याभावात् । तथा हि - "अथ योगा­नु­शा­स­नम्" इति प्रतिज्ञाय "योग­श्चि­त्त­वृ­त्ति­नि­रोधः" इति योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नशास्त्रे प्रपञ्चयामासेति तत्र योगे तात्पर्यम् । न प्रधानादीनि प्रतिपाद्यतया प्रतिजज्ञे । किन्तर्हि द्वितीयपादे यमा­दि­सा­ध­न­प्र­ति­पा­दके हेयं हेयहेतुं हानं हानहेतुं विवे­च­य­न्प्र­स­ङ्गा­त्सा­ङ्ख्य­स्मृ­ति­प्र­सि­द्धानि प्रधानादीनि व्याजहार । ततो न तत्र तात्पर्यम् । तस्मात् - न योगस्मृत्या वेदस्य सङ्कोचः ॥

(तृतीये वैल­क्ष­ण्या­भा­सस्य जग­त्का­र­ण­त्वा­बा­ध­क­त्वा­धि­क­रणे सूत्राणि - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
वैल­क्ष­ण्या­ख्य­त­र्केण बाध्यतेऽथ न बाध्यते ॥
बाध्यते साम्य­नि­य­मा­त्का­र्य­का­र­ण­व­स्तुनोः ॥ ५ ॥
मृद्धटादौ समत्वेऽपि दृष्टं वृश्चिककेशयोः ॥
स्वकारणेन वैषम्यं तर्काभासो न बाधकः ॥ ६ ॥
'अचेतनं जग­च्चे­त­ना­द्ब्र­ह्मणो न जायते विलक्षणत्वात् । यद्य­स्मा­द्वि­ल­क्षणं, तत्तस्मान्न जायते । यथा गोर्महिषः' इत्यनेन तर्केण समन्वयो बाध्यते ॥
इति प्राप्ते, ब्रूमः - 'ये ये कार्यकारणे ते ते सलक्षणे' इत्यस्या व्याप्ते­र्वृ­श्चि­कादौ व्यभिचारो दृश्यते । अचे­त­ना­द्नो­म­या­द्वृ­श्चि­कस्य चेत­न­स्यो­त्पत्तेः । चेत­ना­त्पु­रु­षा­द­चे­त­नानां केश­न­खा­दी­ना­मु­त्प­द्य­मा­न­त्वात् । अतो वेदनिरपेक्षः शुष्कतर्को न क्वापि प्रतितिष्ठति । तदुक्तमाचार्यैः -
"यत्ने­ना­नु­मि­तोऽ­प्यर्थः कुशलैरनुमातृभिः ।
अभि­यु­क्त­त­रै­र­न्यै­र­न्य­थै­वो­प­पा­द्यते" इति ।
तस्मात् - आभा­स­त्वा­द्वै­ल­क्ष­ण्य­हे­तुर्न बाधकः ॥

(चतुर्थे काणा­दा­दि­म­तै­र्बा­ध्य­त्वा­भा­वा­धि­क­रणे सूत्रम् - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
बाधोऽस्ति पर­मा­ण्वा­दि­म­तैर्नो वा यतः पटः ॥
न्यून­त­न्तु­भि­रा­रब्धो दृष्टोऽतो बाध्यते मतैः ॥ ७ ॥
शिष्टेष्टाऽपि स्मृतिस्त्यक्ता शिष्टत्यक्तमतं किमु ॥
नातो बाधो विवर्ते तु न्यूनत्वनियमो न हि ॥ ८ ॥
साङ्ख्य­यो­ग­स्मृ­तिभ्यां तदीयतर्केण बाधो मा भून्नाम, कणा­द­बु­द्धा­दि­स्मृ­ति­भि­स्त­दी­य­त­र्केण च समन्वयोऽपि बाध्यताम् । कणादो हि महर्षिः परमाणूनां जगत्कारणत्वं स्मरतिस्म, तर्कं च तस्मिन्नर्थे प्रोवाच – 'विमतं द्व्यणुकादिकं स्वस्मा­न्न्यू­न­प­रि­मा­णे­नाऽऽ­रब्धं, कार्य­द्र­व्य­त्वात् , यथा तन्तुभिः पटः' इति बुद्धश्च भगवतो विष्णो­र­व­ता­रोऽ­भावं जगद्धेतुं स्मरति स्म । तर्कं च तदनुकूलमाह – विमतं भावरूपं जगदभावपुरःसरं भावरूपत्वात् , यथा - 'सुषु­प्ति­पु­रः­सरः स्वप्न­प्र­पञ्चः' इति । तस्मात् - तैः प्रबलैः कणा­दा­दि­म­तै­र्बा­धितः ॥
इति प्राप्ते, ब्रूमः - यदा वैदिकशिरोमणिभिः पुरा­ण­क­र्तृ­भि­स्तत्र तत्र प्रस­ङ्गा­दु­दा­हृता प्रकृ­ति­पु­रु­षा­दि­प्र­ति­पा­दिका साङ्ख्य­यो­ग­स्मृ­ति­र्ज­ग­त्का­र­ण­वि­षये दौर्बल्येन परित्यक्ता । तदा निखिलैः शिष्टै­रु­पे­क्षि­तानां कणादादिमतानां दौर्बल्यम् - इति किमु वक्तव्यम् , न खलु - ब्रह्म­प­द्मा­दि­पु­रा­णेषु क्वचिदपि प्रस­ङ्गा­द्व्य­णु­का­दि­प्र­क्रि­यो­दा­हृता । प्रत्युत -
"हैतु­का­न्ब­क­वृ­त्तींश्च वाङ्मात्रेणापि नार्चयेत्" ।
इति बहुशो निन्दोपलभ्यते । यस्तु - न्यूना­र­भ्य­त्व­नि­यम उक्तः, नासौ विवर्तवादेऽस्ति दूरस्थस्य पर्व­ता­ग्र­स्थि­तै­र्म­ह­द्भि­र्वृ­क्षै­र­त्य­ल्प­दू­र्वा­ग्र­भ्र­मस्य जन्यमानत्वात् । यद­पि­अ­भा­व­पु­रः­स­र­त्वा­नु­मा­नम् , तत्रापि साध्यविकलो दृष्टान्तः । सुषु­प्ते­र­व­स्था­स्वे­वा­व­स्था­ना­दा­त्मनः सद्रू­प­स्या­ङ्गी­क­र­णी­यत्वे सति स्वप्न­स्या­प्य­भा­व­पु­रः­स­र­त्वा­भा­वात् । तस्मात् - एतै­र्म­तै­र्नास्ति बाधः ॥

(पञ्चमे द्वैतस्य भोक्तृ­भो­ग्या­का­र­भा­स­मा­न­त्वा­धि­क­रणे सूत्रम् - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
अद्वैतं बाध्यते नो वा भोक्तृ­भो­ग्य­वि­भे­दतः ॥
प्रत्य­क्षा­दि­प्र­मा­सिद्धो भेदोऽ­सा­व­न्य­बा­धकः ॥ ९ ॥
तरङ्गफेनभेदेऽपि समुद्रेऽभेद इष्यते ॥
भोक्तृ­भो­ग्य­वि­भे­देऽपि ब्रह्माद्वैतं तथाऽस्तु तत् ॥ १० ॥
सम­न्व­ये­ना­व­ग­म्य­मा­न­म­द्वैतं प्रत्य­क्षा­दि­सि­द्धेन भोक्तृ­भो­ग्य­भे­देन बाध्यते ।
इति चेत् । न । तरङ्गादिरूपेण भेदस्य, समु­द्र­रू­पे­णा­भे­दस्य च दृष्टत्वेन भेदा­भे­द­यो­र्वि­रो­धा­भा­वात् । भेदा­भे­द­वि­रो­ध­व्य­व­हा­र­स्याऽऽ­का­र­भे­दे­नापि रहि­तेऽ­त्य­न्त­मे­क­स्मि­न्नपि वस्तुनि सावकाशत्वात् । तस्मात् - ब्रह्मा­का­रे­णा­द्वै­तम् । भोक्तृ­भो­ग्या­का­रेण द्वैतम् इत्या­का­र­भे­दा­द्व्य­व­स्था­सिद्धौ न कोऽपि बाधः ॥

(षष्ठे ब्रह्म­ण्य­द्वै­त­स्यैव तात्त्वि­क­त्वा­धि­क­रणे सूत्राणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
भेदाभेदौ तात्त्विकौ स्तो यदि वा व्यावहारिकौ ॥
समुद्रादाविव तयोर्बाधाभावेन तात्त्विकौ ॥ ११ ॥
बाधितौ श्रुति­यु­क्तिभ्यां तावतो व्यावहारिकौ ॥
कार्यस्य कार­णा­भे­दा­द­द्वैतं ब्रह्म तात्त्विकम् ॥ १२ ॥
स्पष्टौ सन्दे­ह­पू­र्व­पक्षौ । "नेह नानाऽस्ति किञ्चन" इति श्रुतिर्भेदं बाधते । युक्तिश्च पर­स्प­रो­प­म­र्दा­त्म­क­यो­र्भे­दा­भे­द­यो­रे­क­त्रा­स­म्भवः । एक­स्मि­श्च­न्द्र­मसि द्वित्वा­स­म्भ­वात् । यदुक्तं पूर्वाधिकरणे - आकारभेदाद्भेदः - इति । तदप्यसत् , अद्वै­त­व­स्तु­न्या­का­र­भे­द­स्यै­वा­प्र­ति­पत्तेः । समुद्रादौ तु दृष्ट­त्वा­द­भ्यु­प­ग­म्यते । 'न हि दृष्टेऽनुपपन्नं नाम' इति न्यायात् । अत्रापि ब्रह्मा­का­र­ज­ग­दा­कारौ दृष्टौ - इति चेत् । न । ब्रह्मणः शास्त्रै­क­स­म­धि­ग­म्य­त्वात् । तस्मात् - श्रुति­यु­क्ति­बा­धि­त­त्वा­द्व्या­व­हा­रिकौ भेदाभेदौ । किं तर्हि तत्त्वम् - इति चेत् - अद्वैतमेव तत्त्वम् - इति ब्रूमः । कार्यस्य कारणानतिरेकेण कारणमात्रस्य वस्तुत्वात् । तथाच श्रुति­र्मृ­त्ति­का­दि­दृ­ष्टान्तैः कारणस्यैव सत्यत्वं प्रतिपादयति - "यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । एवं सोम्य स आदेशः" इति । अस्यायमर्थः - प्रौढो मृत्पिण्डः कारणम् , तद्विकारो घटशरावादयः । तत्र – 'मृद्व­स्त्व­न्यत् , घटादीनि चान्यानि वस्तूनि' इति तार्किका मन्यन्ते । तत्र घटादीनां पृथ­ग्व­स्तु­त्व­नि­रा­साय विकारशब्देन श्रुति­स्ता­न्यु­दा­ह­रति । मृद्वस्तुनो विकाराः संस्थानविशेषा घटादयो न पृथग्वस्तुभूताः । यथा देवदत्तस्य बाल्य­यौ­व­न­स्था­वि­रा­दयः, तद्वत् । एवं सति घटा­द्या­का­र­प्र­ति­भा­स­द­शा­या­मपि मृन्मात्रं स्वतन्त्रं वस्तु । ततो मृद्यवगतायां घटादीनां यत्तात्त्विकं स्वरूपं तत्सर्वमवगतम् - आकारविशेषो न ज्ञायते - इति चेत् । मा ज्ञायतां नाम । तेषा­म­व­स्तु­भू­ता­ना­म­जि­ज्ञा­सा­र्ह­त्वात् । चक्षुषा प्रतिभासमाना अपि विकारा निरूपिताः सन्तो मृद्व्यतिरेकेण न स्वरूपं किञ्चिल्लभन्ते । 'घटोऽयं, शरावोऽयम्' इति वाङ्नि­ष्पा­द्य­ना­म­धे­य­मात्रं लभन्ते । अतो निर्वस्तुकत्वे सत्यु­प­ल­भ्य­मा­न­त्व­रू­पेण मिथ्यात्वलक्षणे नोपेतत्वादसत्या विकाराः । मृत्तिका तु विका­र­व्य­ति­रे­के­णापि स्वरूपं लभते, इति सत्या । तथा ब्रह्मो­प­दे­शोऽ­व­ग­न्तव्यः, ब्रह्मणि मृत्ति­का­न्या­यस्य, जगति घटादिन्यायस्य योजयितुं शक्यत्वात् । तस्मात् - जगतो ब्रह्मा­भे­दा­द­द्वैतं ब्रह्म तात्त्विकम् । एवं­वि­ध­वि­चा­र­शू­न्यानां पुरु­षा­णा­मा­पा­त­दृष्ट्या वेदे­ना­भ्यु­पे­ता­द्वि­ती­य­ब्र­ह्म­प्र­ति­पत्तेः प्रत्य­क्षा­दि­भि­र्भे­द­प्र­ति­प­त्तेश्च सद्भा­वा­त्स­मु­द्र­त­र­ङ्ग­न्या­येन भेदा­भे­दा­व­व­भा­सेते । तस्मात् - व्यावहारिकाविति स्थितिः ॥

(सप्तमे परमेश्वरस्य हिता­हि­त­भा­गि­त्वा­भा­वा­धि­क­रणे सूत्राणि - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
हिताक्रियादि स्यान्नो वा जीवाभेदं प्रपश्यतः ॥
जीवाहितक्रिया स्वार्था स्यादेषा नहि युज्यते ॥ १३ ॥
अवस्तु जीवसंसारस्तेन नास्ति मम क्षतिः ॥
इति पश्यत ईशस्य न हिताहितभागिता ॥ १४ ॥
परमेश्वरो हि केषा­ञ्चि­ज्जी­वानां संसारसक्तानां वैराग्यादिकं हितं न निर्मिमीते, अहितं च नरकहेतुमधर्मं निर्मिमीते । निर्मिमाणश्च स्वस्य जीवैरभेदं सर्वज्ञतया पश्यति । तस्मात् - स्वस्यैव हिताकरणम् , अहितकरणं च प्रसज्येयाताम् । एतच्च न युक्तम् । नहि प्रेक्षा­वा­न्क­श्चि­त्स्वस्य हितं न करोति, अहितं वा करोति । तस्मात् - हिताकरणादिदोषः ॥
इति प्राप्ते, ब्रूमः - सर्व­ज्ञ­त्वा­दी­श्वरो जीवसंसारस्य मिथ्यात्वं स्वस्य निर्लेपत्वं च पश्यति । अतो - न हिता­हि­त­भा­क्त्व­त्व­दोषः ॥

(अष्ट­मेऽ­द्वि­ती­य­ब्र­ह्मण एव नाना­वि­ध­सृ­ष्टि­क­र्तृ­त्वा­धि­क­रणे सूत्रे - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
न सम्भ­वे­त्स­म्भ­वेद्वा सृष्टि­रे­का­द्वि­ती­यतः ॥
नाना­जा­ती­य­का­र्याणां क्रमाज्जन्म न सम्भवि ॥ १५ ॥
अद्वैतं तत्त्वतो ब्रह्म तच्चा­वि­द्या­स­हा­य­वत् ॥
नानाकार्यकरं कार्य­क्र­मोऽ­वि­द्या­स्थ­श­क्तिभिः ॥ १६ ॥
"एक­मे­वा­द्वि­ती­यम्" इति ब्रह्मणः स्वग­त­स­जा­ती­य­वि­जा­ती­यै­र्भैदैः शून्य­त्व­म­व­ग­म्यते । स्रष्टव्यानि चाऽऽका­श­वा­य्वा­ग्न्या­दीनि विचित्राणि । नह्यविचित्रे कारणे कार्यवैचित्र्यं युक्तम् । अन्यथैकस्मादेव क्षीरा­द्द­धि­तै­ला­द्य­ने­क­वि­चि­त्र­का­र्य­प्र­स­ङ्गात् । क्रम­श्चाऽऽ­का­शा­दीनां श्रुत्याऽ­व­ग­म्यते । नच तस्य व्यवस्थापकं किञ्चिदस्ति । तस्मात् - अनेककार्याणां क्रमेण जन्मा­द्वि­ती­य­ब्र­ह्मणो न सम्भवति ॥
इति प्राप्ते, ब्रूमः - यद्यपि तत्त्वतो ब्रह्माद्वैतम् , तथाऽपि - अवि­द्या­स­हा­यो­पे­तम् - इति श्रुति­यु­क्त्य­नु­भ­वै­र­व­ग­म्यते,
"मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्" ।
इति श्रुतेः । मायैवाविद्या, उभ­यो­र­प्य­नि­र्व­च­नी­य­त्व­ल­क्ष­ण­स्यै­क­त्वात् । न च – मायाङ्गीकारे द्वैतापत्तिः, वास्तवस्य द्विती­य­स्या­भा­वात् । अत एकमपि ब्रह्मा­वि­द्या­स­हा­य­व­शा­न्ना­ना­का­र्य­करं भविष्यति । न च कार्यक्रमस्य व्यव­स्था­प­का­भावः, अविद्यागतानां शक्तिविशेषाणां व्यव­स्था­प­क­त्वात् । तस्मात् - अद्वि­ती­य­ब्र­ह्मणो नानाकार्याणां क्रमेण सृष्टिः सम्भवति ॥

(नवमे ब्रह्मणः परि­णा­मि­त्वा­धि­क­रणे सूत्राणि - )
नव­मा­धि­क­र­ण­मा­र­च­यति -
न य़ुक्तो युज्यते वाऽस्य परिणामो न युज्यते ॥
कार्त्स्न्या­द्ब्र­ह्मा­नि­त्य­ता­प्ते­रं­शा­त्सा­व­यवं भवेत् ॥ १७ ॥
माया­भि­र्ब­हु­रू­पत्वं न कार्त्स्न्या­न्नापि भागतः ॥
युक्तोऽ­न­व­य­व­स्यापि परिणामोऽत्र मायिकः ॥ १८ ॥
आरम्भणाधिकरणे (२ । १ । ६) कार्य­का­र­ण­यो­र­भेदः प्रतिपादितः । अतो न वैशे­षि­क­व­दा­र­म्भ­वादो ब्रह्म­वा­दि­नोऽ­भि­मतः । तस्मात् - क्षीरदधिन्यायेन परि­णा­मोऽ­भ्यु­प­ग­न्तव्यः । तत्र किं ब्रह्म कार्त्स्न्येन परिणमते, उत – एकदेशेन । नाऽऽद्यः - अशेषपरिणामे ब्रह्मणः क्षीर­व­द­नि­त्य­त्व­प्र­स­ङ्गात् । द्वितीये - साव­य­व­त्व­प्र­सङ्गः । तस्मात् - न परिणामः ॥
इति प्राप्ते, ब्रूमः - "इन्द्रो मायाभिः पुरुरूप ईयते" इति श्रुते­र्ब्र­ह्मणो माया­श­क्ति­भि­र्ज­ग­द्रू­प­प­रि­णामः । न त्वसौ वास्तवः । तेन कृत्स्नै­क­दे­श­वि­क­ल्प­यो­र्ना­त्रा­व­काशः । तस्मात् - युज्यते परिणामः ॥

(दशमे ब्रह्म­णोऽ­श­री­र­स्यैव माया­स­द्भा­वा­धि­क­रणे सूत्रे - )
दश­मा­धि­क­र­ण­मा­र­च­यति -
नाशरीरस्य मायाऽस्ति यदि वाऽस्ति, न विद्यते ॥
ये हि मायाविनो लोके ते सर्वेऽपि शरीरिणः ॥ १९ ॥
बाह्यहेतुमृते यद्वन्मायया कार्यकारिता ॥
ऋतेऽपि देहं मायैवं ब्रह्मण्यस्तु प्रमाणतः ॥ २० ॥
लोके माया­वि­ना­मै­न्द्र­जा­लि­कानां शरी­रि­त्व­द­र्श­ना­द­श­री­रस्य ब्रह्मणो माया न सम्भवति ॥
इति प्राप्ते, ब्रूमः - गृहा­दि­नि­र्मा­तृणां स्वव्य­ति­रि­क्त­मृ­द्दा­रु­तृ­णा­दि­बा­ह्म­सा­ध­न­सा­पे­क्ष­त्व­द­र्श­नेऽ­प्यै­न्द्र­जा­लि­कस्य बाह्य­सा­ध­ना­नै­र­पे­क्ष्येण यथा गृहा­दि­नि­र्मा­तृ­त्वम् , तथा लौकिकमायाविनः शरी­र­सा­पे­क्ष­त्व­द­र्श­नेऽपि ब्रह्मणो मायासिद्ध्यर्थं तदपेक्षा मा भूत् । अथोच्येत – ऐन्द्रजालिकस्य बाह्य­हे­तु­नै­र­पे­क्ष्येण निर्मातृत्वे प्रत्यक्षं प्रमणमस्ति, - तर्हि ब्रह्मणोऽपि शरी­र­नै­र­पे­क्ष्येण मायासद्भावे "मायिनं तु महेश्वरम्" इति श्रुतिः प्रमाणमस्तु ॥

(एकादशे तृप्तस्यापि ब्रह्मण एव जग­त्स्र­ष्टृ­त्वा­धि­क­रणे सूत्रे - )
एका­द­शा­धि­क­र­ण­मा­र­च­यति -
तृप्तोऽ­स्र­ष्टाऽ­थवा स्रष्टा, न स्रष्टा फलवाञ्छने ॥
अतृप्तिः स्याद­वा­ञ्छा­या­मु­न्म­त्त­न­र­तु­ल्यता ॥ २१ ॥
लीला­श्वा­स­वृ­था­चेष्टा अनुद्दिश्य फलं यतः ॥
अनु­न्म­त्तै­र्वि­र­च्यन्ते तस्मा­त्तृ­प्त­स्तथा सृजेत् ॥ २२ ॥
"आनन्दो ब्रह्म" इति श्रुते­र्नि­त्य­तृप्तः परमेश्वरः । तादृशस्य सृष्टि­वि­ष­या­या­मि­च्छा­या­म­भ्यु­प­ग­म्य­मा­नायां नित्य­तृ­प्ति­र्व्या­ह­न्येत । अन­भ्यु­प­ग­म्य­मा­नायां तु - अबु­द्धि­पू­र्विकां सृष्टिं विरचयत उन्म­त्त­न­र­तु­ल्यता प्रसज्येत ॥
इति प्राप्ते, ब्रूमः - बुद्धिमद्भिरेव राजादिभिरन्तरेण प्रयोजनं लीलया मृग­या­दि­प्र­वृत्तिः क्रियते । श्वासो­च्छ्वा­स­व्य­व­हा­रस्तु सार्वजनीनः । व्यर्थचेष्टाश्च बालकैः क्रियमाणा बहुशोदृश्यन्ते । तद्व­न्नि­त्य­तृ­प्तोऽ­पी­श्वरः प्रयो­ज­न­म­न्त­रे­णा­प्य­नु­न्मत्तः सन्नशेषं जगत्सृजते ।

(द्वादशे ब्रह्मणो वैष­म्य­नै­र्घृ­ण्या­भा­वा­धि­क­रणे सूत्राणि - )
द्वाद­शा­धि­क­र­ण­मा­र­च­यति -
वैष­म्या­द्या­प­तेन्नो वा सुखदुःखे नृभेदतः ॥
सृजन्विषम ईशः स्यान्नि­र्घृ­ण­श्चो­प­सं­ह­रन् ॥ २३ ॥
प्राण्य­नु­ष्ठि­त­ध­र्मा­दि­म­पे­क्ष्येशः प्रवर्तते ॥
नातो वैष­म्य­नै­र्घृण्ये संसारस्तु न चाऽऽदिमान् ॥ २४ ॥
ईश्वरो देवा­दी­न­त्य­न्त­सु­खिनः सृजति, पश्वा­दी­न­त्य­न्त­दुः­खिनः, मनु­ष्या­न्म­ध्य­मान् , एवं तारतम्येन पुरुषविशेषेषु सुखदुःखे सृजन्नीश्वरः कथं विषमो न स्यात् । कथं नीचै­र­प्य­त्य­न्त­जु­गु­प्सितं देव­ति­र्य­ङ्म­नु­ष्या­द्य­शेषं जग­दु­प­सं­ह­र­न्नि­र्घृणो न भवेत् । तस्मात् - वैष­म्य­नै­र्घृण्ये प्रसज्येयाताम् ॥
इति प्राप्ते, ब्रूमः - न तावदीश्वरस्य वैष­म्य­प्र­स­ङ्गोऽस्ति । प्राणि­ना­मु­त्त­म­म­ध्य­मा­ध­म­ल­क्ष­ण­वै­षम्ये तत्तत्कर्मणामेव प्रयोजकत्वात् । न चैतावतेश्वरस्य स्वात­न्त्र्य­हानिः, अन्तर्यामितया कर्मा­ध्य­क्ष­त्वात् । नन्वेवं सति घट्ट­कु­टी­प्र­भा­त­न्याय आपद्यते, ईश्वरे वैषम्यं परिहर्तुं कर्मणां वैष­भ्य­हे­तु­त्व­मुक्त्वा पुनरीश्वरस्य स्वात­न्त्र्य­सि­द्धये तत्क­र्म­नि­या­म­क­त्वेऽ­भ्यु­प­ग­म्य­माने सत्यन्ततो गत्वेश्वरस्यैव वैष­म्य­प्र­स­ङ्गात् । नायं दोषः । नियामकत्वं नाम तत्त­द्व­स्तु­श­क्ती­ना­म­व्य­व­स्था­प­रि­हा­र­मा­त्रम् । शक्तयस्तु मायाशरीरभूताः । न तासामुत्पादक ईश्वरः । ततश्च स्वस्व­श­क्त­व­शा­त्क­र्मणां वैष­म्य­हे­तु­त्वेऽपि न व्यव­स्था­प­क­स्ये­श्व­रस्य वैषम्यप्रसङ्गः । संहारस्य सुषु­प्ति­व­द्दुः­खा­ज­न­क­त्वात् । प्रत्युत सर्व­क्ले­श­नि­व­र्त­क­त्वा­त्स­घृ­ण­त्व­मेव । ननु - अवान्तरसृष्टिषु पूर्व­पू­र्व­क­र्मा­पे­क्षया सृजत ईश्वरस्य वैषभ्याभावेऽपि प्रथमसृष्टौ पूर्व­क­र्मा­स­म्भ­वा­द्वै­ष­भ्य­दो­ष­स्त­द­वस्थः - इति चेत् । न । सृष्टिपरम्पराया अनादित्वात् । "नान्तो नचाऽऽदिः" - इत्या­दि­शा­स्त्रात् । तस्मात् - न कोऽपि दोषः ॥

(त्रयोदशे निर्गुणस्यापि ब्रह्मणः प्रकृ­ति­त्वा­धि­क­रणे सूत्रम् - )
त्रयो­द­शा­धि­क­र­ण­मा­र­च­यति -
नास्ति प्रकृतिता यद्वा निर्गु­ण­स्यास्ति, नास्ति सा ॥
मृदादेः सगुणस्यैव प्रकृ­ति­त्वो­प­ल­म्भ­नात् ॥ २५ ॥
श्रमा­धि­ष्ठा­न­ताऽ­स्माभिः प्रकृ­ति­त्व­मु­पे­यते ॥
निर्गु­णेऽ­प्यस्ति जात्यादौ सा ब्रह्म प्रकृतिस्ततः ॥ २६ ॥
प्रकृतित्वं नाम कार्याकारेण विक्रियमाणत्वम् । तच्च लोके सगुण एव मृदादावुपलब्धम् । ततो न निर्गुणस्य ब्रह्मणः प्रकृतिता ॥
इति प्राप्ते, ब्रूमः - यद्यपि "प्रक्रि­यते विक्रियतेऽनया - इति प्रकृतिः" इति व्युत्पत्त्या विक्रियमाणत्वं प्रतियते । तथाऽपि तद्वि­क्रि­य­मा­णत्वं द्वेधा सम्भवति - क्षीरा­दि­व­त्प­रि­णा­मि­त्वेन वा, रज्ज्वाा­दि­व­द्भ्र­मा­धि­ष्टा­न­त्वेन वा । तत्र निर्गुणस्य परि­णा­मि­त्वा­सं­भ­वेऽपि भ्रमा­धि­ष्ठा­न­त्व­मस्तु । दृश्यते तु निर्गुणे जात्यादौ भ्रमाधिष्ठानता । मलिनब्राह्मणं दृष्ट्वा 'शूद्रोऽ­यम्' इति भ्रान्त­व्य­व­हा­र­द­र्श­नात् । तस्मात् - निर्गुणमपि ब्रह्म प्रकृतिः - इति सिद्धम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां द्विती­या­ध्या­यस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि १३ ५३
सूत्राणि ३७ १७२

(प्रथमे प्रधानस्य जग­द्धे­तु­त्वा­भा­वा­धि­क­रणे सूत्राणि - )
द्वितीयपादस्य प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
प्रधानं जगतो हेतुर्न वा सर्वे घटादयः ॥
अन्विताः सुख­दुः­खा­द्यै­र्यतो हेतुरतो भवेत् ॥ १ ॥
न हेतु­र्यो­ग्य­र­च­ना­प्र­वृ­त्त्या­दे­र­स­म्भ­वात् ॥
सुखाद्या आन्तरा बाह्मा घटाद्यास्तु कुतोऽन्वयः ॥ २ ॥
सुख­दुः­ख­मो­हा­त्मकं प्रधानं जगतः प्रकृतिः, जगति सुखा­द्य­न्व­य­द­र्श­नात् । घटपटादय उपलभ्यमानाः सुखाय भवन्ति, उद­का­ह­र­ण­प्रा­व­र­णा­दि­का­रि­त्वात् । त एव घटा­द­योऽ­न्यै­र­प­ह्नि­य­मा­णा­स्त­स्यैव दुःखजनकाः । यदो­द­का­ह­र­णा­दि­कार्यं नापेक्षितम् , तदा सुखदुःखे न जनयन्ति, केव­ल­मु­पे­क्ष­णी­य­त्वे­ना­व­ति­ष्ठन्ते । तदि­द­मु­पे­क्षा­वि­ष­यत्वं मोहः, "मुह वैचित्ये" इति धातो­र्मो­ह­श­ब्द­नि­ष्प­त्ते­रु­पे­क्ष­णी­येषु चित्त­वृ­त्त्य­नु­द­यात् । अतः सुख­दुः­ख­मो­हा­न्व­य­द­र्श­नात् 'प्रधानं प्रकृतिः' इति साङ्ख्या मन्यन्ते ॥
इति प्राप्ते, ब्रूमः - न प्रधानं जगद्धेतुः, देहे­न्द्रि­य­म­ही­ध­रा­दि­रू­पस्य विचित्रस्य प्रति­नि­य­त­ना­ना­सं­नि­वे­श­वि­शे­षस्य जगतो रचनायामचेतनस्य प्रधानस्य योग्य­त्वा­स­म्भ­वात् । लोके हि प्रति­नि­य­त­का­र्यस्य विचि­त्र­ना­ना­प्रा­सा­दा­दे­र­ति­बु­द्धि­म­त्क­र्तृ­क­त्वो­प­ल­म्भात् । आस्तां तावदियं रचना, तत्सिद्ध्यर्था प्रवृत्तिरपि नाचे­त­न­स्यो­प­प­द्यते, चेतनानधिष्ठिते शकटादौ तददर्शनात् । अथ पुरुषस्य चेतनस्य प्रकृ­त्य­धि­ष्ठा­तृ­त्व­म­भ्यु­प­ग­म्येत तर्हि - असङ्गत्वं पुरुषस्य हीयेत – इत्य­प­सि­द्धा­न्ता­पत्तिः । यदुक्तम् - सुख­दुः­ख­मो­हा­न्विता घटादयः - इति । तदसत् । सुखा­दी­ना­मा­न्त­र­त्वा­द्घ­टा­दीनां बाह्यत्वात् । तस्मात् - न प्रधानं जगद्धेतुः ॥

(द्वितीये ब्रह्मणो विस­दृ­श­ज­ग­दु­त्पत्तौ काणा­दी­य­दृ­ष्टा­न्त­स­द्भा­वा­धि­क­रणे सूत्रम् - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
नास्ति काणाददृष्टान्तः किं वाऽस्त्य­स­दृ­शो­द्भवे ॥
नास्ति शुक्लापटः शुक्ला­त्त­न्तो­रेव हि जायते ॥ ३ ॥
अणु द्व्यणु­क­मु­त्प­न्न­म­नणोः परिमण्डलात् ॥
अदी­र्धा­द्व्य­णु­का­द्दीर्घं त्र्यणुकं तन्निदर्शनम् ॥ ४ ॥
पूर्व­स्मि­न्पादे् चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगज्जायते - इत्यत्र साङ्ख्यान्प्रति लोकसिद्धं गोम­य­वृ­श्चि­का­दि­नि­द­र्श­न­म­भि­हि­तम् , तावता साङ्ख्यैः क्रिय­मा­ण­स्याऽऽ­क्षे­पस्य परि­हृ­त­त्वा­त्स्व­प­क्ष­सा­ध­न­स­म्पन्नं परपक्षदूषणं चास्मिन्पादे प्रक्रम्य पूर्वाधिकरणो साङ्ख्यमतं दूषितम् । इतःपरं वैशेषिकानां मतं दूषयितव्यम् । तन्मतस्य च प्रक्रि­या­ब­हु­ल­त्वात् , तद्वासनावासितः पुरु­ष­स्त­त्प्र­क्रि­या­सि­द्ध­वि­ल­क्ष­णो­त्प­त्ति­दृ­ष्टा­न्त­म­न्त­रेण ब्रह्मकारणवादं न बहु मन्यते । अतो "विस­दृ­शो­त्पत्तौ काणादमतसिद्धो दृष्टा­न्तोऽस्ति, न वा" इति विचार्यते । 'नास्ति' इति तावत्प्राप्तम् । यतः शुक्लः पटः शुक्लेभ्य एव तन्तुभ्य़ो जायते, नतु रक्तेभ्यः । तस्मात् - नास्ति ॥
इति प्राप्ते, ब्रूमः - अस्त्येव विसदृशोत्पत्तौ दृष्टान्तः । तथाहि - परमाणवः पारि­मा­ण्ड­ल्य­प­रि­मा­ण­युक्ताः । न त्वणु­प­रि­मा­ण­युक्ताः । द्वाभ्यां च पर­मा­णु­भ्या­म­णु­प­रि­मा­ण­र­हि­ता­भ्या­म­णु­प­रि­मा­णो­पेतं द्व्यणु­क­मु­त्प­द्यते । इदमेकं निदर्शनम् । तथा - हृस्व­प­रि­मा­णो­पेतं दीर्घ­प­रि­मा­ण­र­हितं द्व्यणुकम् । तादृशेभ्यो विस­दृ­शे­भ्य­स्त्रिभ्यो द्व्यणुकेभ्यो दीर्घ­प­रि­मा­णो­पे­त­म­णु­प­रि­मा­ण­र­हितं त्र्यणु­क­मु­त्प­द्यते । इदमपरं निदर्शनम् । एवमन्यान्यपि तत्प्र­क्रि­या­सि­द्धानि निद­र्श­ना­न्यु­दा­ह­र्त­व्यानि ॥

(तृतीये पर­मा­णु­का­र­ण­वा­द­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
जनयन्ति जगन्नो वा संयुक्ताः परमाणवः ॥
आद्य­क­र्म­ज­सं­यो­गा­द्व्य­णु­का­दि­क्र­मा­ज्जनिः ॥ ५ ॥
सनि­मि­त्ता­नि­मि­त्ता­दि­वि­क­ल्पे­ष्वा­द्य­क­र्मणः ॥
असम्भवादसंयोगे जनयन्ति न ते जगत् ॥ ६ ॥
प्रलीने पूर्वसिद्धे जगति यदा महेश्वरस्य सिसृक्षा भवति तदा प्राणि­क­र्म­व­शा­न्नि­खि­लेषु परमाणुष्वाद्यं कर्मोत्पद्यते । तस्मात्कर्मण एकः परमाणुः परमाण्वन्तरेण संयुज्यते । तस्माच्च संयो­गा­द्व्य­णु­क­मा­र­भ्यते । तेभ्यस्त्रिभ्यो द्व्यणु­के­भ्य­स्त्र्य­णु­कम् - इत्यादिक्रमेण जगदुत्पत्तौ बाध­का­भा­वा­त्सं­युक्ताः परमाणवो जगज्जनयन्ति ॥
इति प्राप्ते ब्रूमः - यदेतदाद्यं कर्म तन्निर्निमित्तं सनिमित्तं वा । निर्मिमित्तत्वे निया­म­का­भा­वा­त्स­र्वदा तदुत्पत्तौ प्रलयेऽपि तत्प्रसङ्गः । सनिमित्तत्वेऽपि तन्निमित्तं दृष्टम् , अदृष्टं वा । न तावदृष्टम् , प्रय­त्न­स्या­भि­घा­तस्य वा शरीरोत्पत्तेः प्रागसम्भवात् । ईश्वरप्रयत्नस्य नित्यस्य कादा­चि­त्का­द्य­क­र्मो­त्पत्ति प्रत्य­नि­या­म­क­त्वात् । नाप्य­दृ­ष्ट­मा­द्य­क­र्म­नि­मि­त्तम् , आत्म­स­म­वे­त­स्या­दृ­ष्टस्य पर­मा­णु­भि­र­स­म्ब­न्धात् । अत एव­मा­दि­वि­क­ल्प­प्र­सरे सत्या­द्य­क­र्मा­स­म्भ­वान्न परमाणुसंयोगो जायते । ततः - 'संयु­क्तेभ्यः परमाणुभ्यो जगज्जनिः' इति मतं दूरापास्तम् ॥

(चतुर्थे वैनाशिकखण्डने समु­दा­या­सि­द्ध्य­धि­क­रणे सूत्राणि - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
समुदायावुभौ युक्तावयुक्तौ वाऽणुहेतुकः ॥
एकोऽपरः स्कन्ध­हे­तु­रि­त्येवं युज्यते द्वयम् ॥ ७ ॥
स्थिर­चे­त­न­रा­हि­त्या­त्स्वयं वाऽचेतनत्वतः ॥
न स्कन्धानामणूनां वा समुदायोऽत्र युज्यते ॥ ८ ॥
बाह्या­स्ति­त्व­वा­दिनो बौद्धा मन्यन्ते - द्वौ समुदायौ - बाह्यः, आभ्यन्तरश्चेति । तत्र बाह्यो भून­दी­स­मु­द्रा­दिकः । आन्त­र­श्चि­त्त­चै­त्या­त्मकः । तदे­त­त्स­मु­दा­य­द्व­य­मे­वा­शेषं जगत् । तत्र बाह्यसमुदाये परमाणवः कारणम् । ते च पर­मा­ण­व­श्च­तु­र्विधाः - केचि­त्क­ठि­ना­काराः पारर्थिवाख्याः, अपरे स्निग्धा आप्याः, अन्ये चोष्णा­स्तै­ज­साख्याः, अन्ये चलनात्मका वायवीयाः । तेभ्य­श्च­तु­र्वि­धेभ्यः परमाणुभ्यो युग­प­त्पु­ञ्जी­भू­तेभ्यो बाह्यसमुदायो जायते । आन्तरस्य समुदायस्य स्कन्धपञ्चकं कारणम् । रूपस्कन्धः, विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्का­र­स्क­न्ध­श्चेति पञ्चस्कन्धाः । तत्र चित्तेन निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः । तद­भि­व्य­क्ति­र्वि­ज्ञा­न­स्कन्धः । तज्जन्यं दुःखं वेदनास्कन्धः । देव­द­त्ता­दि­ना­म­धेयं संज्ञास्कन्धः । एतेषां वासना संस्कारस्कन्धः । तेभ्यः पञ्चेभ्यः पुञ्जीभूतेभ्य आन्तरसमुदायो जायते । तस्मात् - युज्यते समुदायद्वयम् ॥
इति प्राप्ते, ब्रूमः - किमणूनां स्कन्धानां च सङ्घातोत्पत्तौ निमि­त्त­भू­त­श्चे­त­नोऽ­न्योऽस्ति, किंवा - स्वयमेव संहन्यते । आद्येऽपि चेतनः स्थायी, क्षणिको वा । स्थायित्वे अपसिद्धान्तः । क्षणिकत्वे - प्रथमं स्वयंलब्धात्मकः पश्चा­त्स­ङ्घा­तो­त्पत्तिं करोति - इति वक्तुमशक्यम् ॥ द्वितीये तु - अचेतनाः स्कन्धा अणवश्च नियामकं चेतनमन्तरेण प्रतिनियताकारेण कथं संहन्यन्ताम् । तस्मात् - ऩ युक्तं समुदायद्वयम् ॥

(पञ्चमे विज्ञा­न­वा­द­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
विज्ञा­न­स्क­न्ध­मा­त्रत्वं युज्यते वा न युज्यते ॥
युज्यते स्वप्न­दृ­ष्टा­न्ता­द्बु­द्ध्यैव व्यवहारतः ॥ ९ ॥
अबा­धा­त्स्व­प्न­वै­षम्यं बाह्या­र्थ­स्तू­प­ल­भ्यते ॥
बहिर्वदिति तेऽप्यु­क्ति­र्नातो धीरर्थरूपभाक् ॥ १० ॥
केचिद्बौद्धा बाह्या­र्थ­म­प­ल­पन्तो विज्ञानमात्रं तत्त्वमाहुः । न च – तत्र व्यव­हा­रा­नु­प­पत्तिः, स्वप्ने बाह्या­र्था­न­न­पेक्ष्य केवलया बुद्ध्या व्यव­हा­र­द­र्श­ना­त्त­थैव जाग्र­द्व्य­व­हा­र­स्या­प्यु­प­पत्तेः । तस्मात् - विज्ञा­न­स्क­न्ध­मा­त्रत्वं युज्यते ॥
इति प्राप्ते, ब्रूमः - विषमो हि स्वप्न­दृ­ष्टान्तः, प्रबोधदशायां स्वप्नस्य बाध्यमानत्वात् । जाग्र­द्व्य­व­हा­रस्य च न क्वचिद्बाधं पश्यामः । न च – बाह्या­र्थ­स­द्भावे प्रमाणाभावः, उपलब्धेरेव प्रमाणत्वात् । उपलभ्यते हि घटादयो बहिष्ट्वेन । अथोच्येत - बुद्धिरेव बाह्य­घ­टा­दि­व­द­व­भा­सते । तथा चाऽऽहुः -
"यद­न्त­र्ज्ञे­य­तत्त्वं तद्ब­हि­र्व­द­व­भा­सते" । इति -
(इति ) । एवं तर्हि - त्वदुक्तिरेव बाह्यर्थसद्भावे प्रमाणम् - इति ब्रूमः । क्वचिदपि बाह्यार्थाभावे तद्व्यु­त्प­त्ति­रा­हि­त्यात् 'बहि­र्वत्' इत्यु­प­मा­नो­क्तिर्न सङ्गच्छेत । तस्मात् - बाह्या­र्थ­स­द्भा­वा­द्वि­ज्ञा­न­मा­त्रत्वं न युक्तम् ॥

(षष्ठ आर्हतानां सप्त­भ­ङ्गी­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
सिद्धिः सप्तपदार्थानां सप्तभङ्गीनयान्न वा ॥
साध­क­न्या­य­स­द्भा­वा­त्तेषां सिद्धौ किमद्भुतम् ॥ ११ ॥
एक­स्मि­न्स­द­स­त्त्वा­दि­वि­रु­द्ध­प्र­ति­पा­द­नात् ॥
अपन्यायः सप्तभङ्गी न च जीवस्य सांशता ॥ १२ ॥
आर्हता मन्यन्ते - जीवोऽजीवश्चेति द्वौ पदार्थौ । जीवश्चेतनः शरीरपरिमाणः सावयवः । अजीवः षड्विधः । तत्र महीधरादिरेकः, आस्र­व­सं­व­र­नि­र्ज­र­ब­न्ध­मो­क्षाख्याः पञ्च । 'आस्र­व­त्य­नेन जीवो विषयेषु' इत्यास्रव इन्द्रियसन्धातः । 'संवृणोति विवेकम्' इत्यविवेकादि संवरः । 'निःशेषेण जीर्यत्यनेन काम­क्रो­धादिः' इति केशो­ल्लु­ञ्च­न­त­प्त­शि­ला­रो­ह­णा­दिकं तपो निर्जरः । कर्मा­ष्ट­के­नाऽऽ­पा­दिता जन्ममरणपरम्परा बन्धः । चत्वारि घातिकर्माणि पापविशेषरूपाणि । चत्वारि चाघातिकर्माणि पुण्य­वि­शे­ष­रू­पाणि । शास्त्रो­क्तो­पा­येन तेभ्योऽष्टभ्यः कर्मभ्यो विनिर्गतस्य जीवस्य सततोर्ध्वगमनं मोक्षः । त एते सप्त पदार्थाः सप्तभङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्च, इति सप्तभङ्गीनयः । अयमर्थः - स्याच्छब्द ईषदर्थवाची निपातः । प्रतिवादिनोऽपि चतुर्विधाः - सद्वादिनः, असद्वादिनः, सदसद्वादिनः, अनि­र्व­च­नी­य­वा­दि­न­श्चेति । पुनरपि - अनिर्वचनीयमतेन मिश्रितानि सदादि मतानि, इति त्रिविधा वादिनः । ताने­ता­न्स­प्त­वि­धा­न्वा­दिनः प्रति सप्तविधा न्यायाः प्रयोक्तव्याः । तद्यथा - सद्वादी समागत्याऽऽर्हतं प्रति 'किं त्वन्मते मोक्षोऽस्ति' इति पृच्छति । तत्राऽऽर्हत उत्तरं ब्रूते - 'ईष­दस्ति' इति । एवमन्यानपि वादिनः प्रति 'स्यान्नास्ति' इत्या­दी­न्यु­दा­ह­र्त­व्यानि । तावता वादिनः सर्वे निर्विण्णाः सन्तो नोत्तरं प्रतिपद्यन्ते । अतोऽस्य सप्तभङ्गीरूपस्य साधकन्यायस्य सद्भा­वा­ज्जी­वा­दीनां सप्तपदार्थानां सिद्धौ किम­त्राऽऽ­श्च­र्यम् ॥
इति प्राप्ते, ब्रूमः - सप्त­भ­ङ्गी­रू­पोऽ­य­म­प­न्यायः । एकस्य जीवपदार्थस्य सद्वादिनं प्रति सद्रूपत्वम् , असद्वादिनं प्रत्य­स­द्रू­पत्वं च, इत्ये­व­मा­दि­वि­रु­द्ध­ध­र्म­प्र­ति­पा­द­क­त्वात् । न च – जीवस्य सावयवत्वं युज्यते, अनि­त्य­त्व­प्र­स­ङ्गात् । तदनित्यत्वे च मोक्षः कस्य पुरुषार्थः स्यात् । तस्मात् - न्यायाभासेन सप्त­भ­ङ्ग्या­ख्येन जीवा­दि­प­दा­र्थानां न सिद्धिः ॥

(सप्तमे तट­स्थे­श्व­र­वा­द­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
तट­स्थे­श्व­र­वा­दोऽयं स युक्तोऽथ न युज्यते ॥
युक्तः कुला­ल­दृ­ष्टा­न्ता­न्नि­य­न्तृ­त्वस्य सम्भवात् ॥ १२ ॥
न युक्तो विष­म­त्वा­दि­दो­षा­द्वै­दिक ईश्वरे ॥
अभ्युपेते तटस्थत्वं त्याज्यं श्रुतिविरोधतः ॥ १३ ॥
पूर्वा­ध्या­य­स्यो­पा­न्त्या­धि­क­रणे - 'जगतो निमित्तमुपादानं चेश्वरः' - इत्या­ग­म­ब­ला­द्य­दु­क्तम् , तदे­त­द­स­ह­मा­ना­स्ता­र्किकाः शैवादयः केवलं निमि­त्त­त्व­मी­श्व­रस्य मन्यन्ते । युक्तिं चाऽऽहुः - यथा कुला­लोऽ­नु­पा­दा­न­भूतो दण्ड­च­क्रा­दी­न्नि­य­च्छ­न्कर्ता भवति, तथा तटस्थ ईश्वरः ॥
इति प्राप्ते, ब्रूमः - न युक्तं केव­ल­नि­मि­त्त­त्वम् , वैष­म्य­नै­र्घृ­ण्य­दो­षस्य दुष्परिहरत्वात् । कथं तर्हि त्वया दोषः परिहृतः - इति चेत् । 'प्राणि­क­र्म­सा­पे­क्ष­त्वात्' इति ब्रूमः । तथात्वे चाऽऽगमोऽस्माकं प्रमाणम् । त्वयाऽप्यन्ततो गत्वाऽऽ­ग­म­श्चे­द­ङ्गी­क्रि­यते, तर्हि तट­स्थ­त्व­मी­श्व­रस्य परित्याज्यं स्यात् । "बहु स्यां प्रजायेय" इत्यु­पा­दा­न­श्रुत्या विरोधात् । तस्मात् - न युक्त­स्त­ट­स्थे­श्व­र­वादः ॥

(अष्टमे जीवो­त्प­त्ति­वा­द­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
जीवो­त्प­त्त्या­दिकं पञ्चरात्रोक्तं य़ुज्यते न वा ॥
युक्तं नारा­य­ण­व्यू­ह­त­त्स­मा­रा­ध­ना­दि­वत् ॥ १४ ॥
युज्य­ता­म­वि­रु­द्धांशो जीवोत्पत्तिर्न युज्यते ॥
उत्पन्नस्य विनाशित्वे कृतनाशादिदोषतः ॥ १५ ॥
पाञ्चरात्रा भागवता मन्यन्ते - 'भगवानेको वासुदेवो जगदुपादानं निमित्तं च' । तत्स­मा­रा­ध­न­ध्या­न­ज्ञा­नै­र्भ­व­ब­न्ध­च्छेदः । तस्माच्च वासु­दे­वा­त्स­ङ्क­र्ष­णाख्यो जीवो जायते । जीवाच्च प्रद्युम्नाख्यं मनः । मन­स­श्चा­नि­रु­द्धा­ख्योऽ­ह­ङ्कारः । त एते वासु­दे­वा­द­य­श्च­त्वारो व्यूहाः सर्वात्मकाः - इति ॥
तत्र वासुदेवं सत्समाराधनादिकं च श्रुते­र­वि­रो­धा­द­भ्यु­प­ग­च्छामः । यत्तु - जीवउत्पद्यते - इत्युक्तम् । तदसत् । कृत­ना­शा­कृ­ता­भ्या­ग­म­प्र­स­ङ्गात् । पूर्वसृष्टौ यो जीव­स्त­स्यो­त्प­त्ति­मत्वे प्रलयदशायां तस्मिन्विनष्टे सति तत्कृ­त­ध­र्मा­ध­र्म­यो­र­फ­ल­प्र­द­त्वेन विनाशः प्रसज्येत । अस्मिंश्च कल्प उत्प­द्य­मा­न­नू­त­न­जी­वस्य धर्माधर्मयोः पूर्व­म­न­नु­ष्ठि­तयोः सतोरिह सुख­दुः­ख­प्रा­प्ति­र्भ­व­ती­त्य­कृ­ता­भ्या­गमः प्रसज्येत । तस्मा­ज्जी­वो­त्प­त्त्या­दिकं न युक्तम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां द्विती­या­ध्या­यस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ८ ६१
सूत्राणि ४५ २१७

(प्रथम आकाशस्य ब्रह्म­ज­न्य­ता­धि­क­रणे सूत्राणि - )
तृतीयपादस्य प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
व्योम नित्यं जायते वा हेतु­त्र­य­वि­व­र्ज­नात् ॥
जनिश्रुतेश्च गौणत्वान्नित्यं व्योम न जायते ॥ १ ॥
एक­ज्ञा­ना­त्स­र्व­बु­द्धे­र्वि­भ­क्त­त्वा­ज्ज­नि­श्रुतेः ॥
विवर्ते कार­णै­क­त्वा­द्ब्र­ह्मणो व्योम जायते ॥ २ ॥
तैत्तिरीयके - "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" इति श्रूयते । तत्र – आकाशं नित्यं, न तु जन्मवत् । कुतः - आकाशोत्पादकस्य सम­वा­य्य­स­म­वा­यि­नि­मि­त्ता­ख्य­का­र­ण­त्रि­त­यस्य दुःसम्पादत्वात् । 'सम्भूतः' इति जनिश्रुतिस्तु सम्प्र­ति­प­न्न­ब्र­ह्म­का­र्य­व­द्व्योम्नि सत्ता­श्र­य­त्व­गु­ण­यो­गा­त्प्र­वृत्ता । तस्मात् - अनाद्यन्तं व्योम, न जायते ॥
इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं तावदशेषेषु वेदान्तेषु डिण्डिमः । तच्च व्योम्नो ब्रह्मकार्यत्वे मृद्धटन्यायेन ब्रह्मा­व्य­ति­रे­का­दु­प­पा­द­यितुं सुशकम् , नान्यथा । किञ्च - आकाशं जायते, विभक्तत्वात् , घटवत् । नच – अयमसिद्धो हेतुः, वाय्वा­दि­वै­ल­क्ष­ण्य­स्याऽऽ­काशे प्रसिद्धत्वात् । नच - ब्रह्म­ण्य­नै­का­न्ति­क­त्वम् , सर्वात्मकस्य ब्रह्मणः कस्माच्चिदपि विभक्तत्वस्य दुर्भणत्वात् । जनि­श्रु­ति­श्चो­त्प­त्ति­वा­दि­न्य­नु­गृ­हीता भवति । यत्तु - कार­ण­त्रि­त­या­स­म्भवः - इत्युक्तम् । तदसत् । आरम्भवादे त्रित­या­पे­क्षा­या­मपि विवर्तवादे तदनपेक्षत्वात् । तस्मात् - एतेभ्यो हेतुभ्यो ब्रह्मणः कारणाद्व्योम जायते ॥

(द्वितीये वायो­र्ब्र­ह्म­ज­न्य­त्वा­धि­क­रणे सूत्रम् - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
वायुर्नित्यो जायते वा छान्दो­ग्येऽ­ज­न्म­की­र्त­नात् ॥
सैषाऽनस्तमिता देव­ते­त्यु­क्तेश्च न जायते ॥ ३ ॥
श्रुत्य­न्त­रो­प­सं­हा­रा­द्गौ­ण्य­न­स्त­म­य­श्रुतिः ॥
वियद्वज्जायते वायुः स्वरूपं ब्रह्म कारणम् ॥ ४ ॥
तैत्तिरीयक एव – "आका­शा­द्वायुः" इति श्रूयते । सेय­मु­त्प­त्ति­श्रु­ति­र्गौणी, छान्दोग्ये सृष्टिप्रकरणे - तेजो­ब­न्ना­ना­मे­वो­त्प­त्ते­र­भि­धा­नात् । ननु - 'क्वचि­द­श्र­व­ण­म­न्यत्र श्रुतं न वार­यि­तु­मु­त्स­हते' इति न्यायेन तैत्ति­री­य­श्रुतेः कुतो गौणत्वम् - इति चेत् । 'श्रुत्य­न्त­र­वि­रो­धात्' इति ब्रूमः । बृहदारण्यके - "सैषाऽ­न­स्त­मिता देवता यद्वायुः" इति वायो­र्वि­ना­श­प्र­ति­षे­धात् । उत्पत्तिमत्त्वे च तदयोगात् । तस्मात् - न जायते वायुः ।
इति प्राप्ते, ब्रूमः - छान्दोग्ये जन्माश्रवणेऽपि गुणो­प­सं­हा­र­न्या­येन तैत्ति­री­य­वा­क्य­स्ये­त­र­त्रो­प­सं­हारे सति श्रुतमेव च्छान्दोग्ये वायुजन्म । अन­स्त­म­य­श्रु­तिस्तु न मुख्या, उपा­स­ना­प्र­क­र­ण­प­ठि­त­त्वेन स्तुत्य­र्थ­त्वात् । आका­शो­त्प­त्ति­हे­त­व­श्चा­त्रा­नु­स­न्धेयाः । न च – वायो­रा­का­श­का­र्य­त्वेन ब्रह्म­ण्य­न­न्त­र्भा­वा­द्‌ब्र­ह्म­ज्ञा­नेन वायुज्ञानं न सिध्येत् - इति शङ्कनीयम् , पूर्व­पू­र्व­का­र्य­वि­शि­ष्टस्य ब्रह्मण उत्त­रो­त्त­र­का­र्य­हे­तु­त्वस्य वक्ष्यमाणतया विय­द्रू­पा­प­न्नस्य ब्रह्मण एव वायुकारणत्वात् । तस्मात् - वायुर्जायते ॥

(तृतीये सद्ब्र­ह्म­णोऽ­ज­न्य­त्वा­धि­क­रणे सूत्रम् - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
सद्ब्रह्म जायते नो वा कारणत्वेन जायते ॥
यत्कारणं जायते तद्वि­य­द्वा­य्वा­दयो यथा ॥ ५ ॥
असतोऽकारणत्वेन स्वादीनां सत उद्भवात् ॥
व्याप्ते­र­जा­दि­वा­क्येन बाधात्सन्नैव जायते ॥ ६ ॥
छान्दोग्ये - "सदेव सौम्येदमग्र आसीत्" इति श्रूयते । तत्सद्रूपं ब्रह्म जन्म­व­द्भ­वि­तु­म­र्हति, कारणत्वात् , वियद्वत् ॥
इति प्राप्ते, ब्रूमः - सद्रूपं ब्रह्म न जायते । कुतः - तज्जनकस्य कारणस्य दुर्निरूपत्वात् । तथा हि - न तावदसत्कारणम् "कथमसतः सज्जायेत" इति निषेधात् । नापि - सदेव सतः कारणम् , आत्मा­श्र­या­पत्तेः । नापि - वियदादिकं सतः कारणम् , वियदादीनां ततः सतो जायमानत्वात् । या तु व्याप्तिः - 'यद्य­त्का­रणं, तत्त­ज्जा­येत' – इति । सा "स वा एष महानज आत्मा" इति श्रुतिबाध्या । तस्मात् - सद्ब्रह्म नैव जायते ॥

(चतुर्थे तेजसो ब्रह्म­ज­न्य­त्वा­धि­क­रणे सूत्रम् - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
ब्रह्मणो जायते वह्निर्वायोर्वा ब्रह्मसंयुतात् ॥
तत्ते­जोऽ­सृ­ज­ते­त्यु­क्ते­र्ब्र­ह्मणो जायतेऽनलः ॥ ७ ॥
वायोरग्निरिति श्रुत्या पूर्व­श्रु­त्यै­क­वा­क्यतः ॥
ब्रह्मणो वायु­रू­प­त्व­मा­प­न्ना­द­ग्नि­स­म्भवः ॥ ८ ॥
छान्दोग्ये - "तत्ते­जोऽ­सृ­जत" इति तेजसो ब्रह्मजत्वं श्रूयते । तैत्तिरीयके - "वायो­रग्निः" इति वायुजत्वम् । तत्र – 'वायोः' इति पञ्चम्या आन­न्त­र्या­र्थ­स्यापि सम्भ­वा­त्के­व­ल­ब्र­ह्म­जन्यं तेजः ॥
इति प्राप्ते, ब्रूमः - अनुवर्तमानेन सम्भू­त­श­ब्दे­ना­न्वि­ताया 'वायोः' इति पञ्चम्यां उपा­दा­ना­र्थ­त्व­स्यैव मुख्यत्वात् । उभयोः श्रुत्यो­रे­क­वा­क्यत्वे सति - वायु­रू­पा­प­न्ना­द्ब्र­ह्म­ण­स्तेजो जायते - इति लभ्यते ॥

(पञ्चम अपां ब्रह्म­ज­न्य­त्वा­धि­क­रणे सूत्रम् - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
ब्रह्मणोऽपां जन्म किंवा वह्ने­र्ना­ग्ने­र्ज­लो­द्भवः ॥
विरु­द्ध­त्वा­न्नी­र­जन्म ब्रह्मणः सर्वकारणात् ॥ ९ ॥
अग्नेराप इति श्रुत्या ब्रह्मणो वह्न्युपाधिकात् ॥
अपां जनिर्विरोधस्तु सूक्ष्म­यो­र्ना­ग्नि­नी­रयोः ॥ १० ॥
यद्यपि "तद­पोऽ­सृ­जत" "अग्ने­रापः" इत्यु­भ­यो­श्छा­न्दो­ग्य­तै­त्ति­री­य­यो­स्तेजो जन्यत्वमेवापां श्रूयते । तथाऽपि न तद्युक्तम् । निव­र्त्य­नि­व­र्त­क­यो­र­ग्नि­ज­ल­यो­र्वि­रु­द्ध­योर्न हेतुहेतुमद्भावः । इति पूर्वपक्षः ॥
पञ्ची­कृ­त­यो­र्दृ­श्य­मा­न­यो­र्वि­रो­धेऽ­प्य­प­ञ्ची­कृ­तयोः श्रुत्ये­क­स­म­धि­ग­म्य­यो­र्वि­रो­ध­क­ल्प­ना­यो­गात् । सन्तापाधिक्ये स्वेद­वृ­ष्ट्यु­द्भ­व­द­र्शा­नाच्च । श्रुति­द्व­या­नु­सा­रेण तेजो­रू­पा­प­न्ना­द्ब्र­ह्म­णोऽपां जनिः । इति सिद्धान्तः ॥

(षष्ठे पृथि­वी­मा­त्र­स्या­न्न­श­ब्दा­वा­च्य­ता­धि­क­रणे सूत्रम् - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
ता अन्नमसृजन्तेति श्रुतमन्नं यवादिकम् ॥
पृथिवी वा यवाद्येव लोकेऽ­न्न­त्व­प्र­सि­द्धितः ॥ ११ ॥
भूता­धि­का­रा­त्कृ­ष्णस्य रूपस्य श्रवणादपि ॥
तथाऽद्भ्यः पृथि­वी­त्यु­क्ते­रन्नं पृथ्व्य­न्न­हे­तुतः ॥ १२ ॥
छान्दोग्ये - "ता अन्न­म­सृ­जन्त" इत्य­द्भ्योऽ­न्नस्य जन्म श्रूयते । तत्र – अन्नशब्दस्य लोकप्रसिद्ध्या व्रीहि­य­वा­दि­क­मर्थः ॥
इति प्राप्ते, ब्रूमः - पृथि­व्य­त्रा­न्न­श­ब्दार्थः । पञ्च­म­हा­भू­त­सृ­ष्टे­र­धि­कृ­त­त्वात् । किञ्च – "यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपाम् , यत्कृष्णं तदन्नस्य" इति कृष्णरूपं पृथिव्यां बहुलमुपलभ्यते, नतु व्रीहियवादौ । तथा - "अद्भ्यः पृथिवी" इति तैत्ति­री­य­क­श्रु­त्ये­क­वा­क्य­ता­ब­ला­द­त्रान्नं पृथिवी । न च – अन्नशब्दस्य तत्र प्रवृ­त्त्य­नु­प­पत्तिः, कार्य­का­र­ण­यो­र­न्न­पृ­थि­व्यो­र­भे­द­वि­व­क्षया तदुपपत्तेः । तस्मात् - अन्नं पृथिवी ॥

(सप्तमे सोपाधिकब्रह्मण एव कार्य­का­र­ण­त्वा­धि­क­रणे सूत्रम् - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
व्योमाद्याः कार्यकर्तारो ब्रह्म वा तदुपाधिकम् ॥
व्योम्नो वायु­र्वा­यु­तोऽ­ग्नि­रि­त्युक्तेः स्वादिकर्तृता ॥ १३ ॥
ईश्व­रोऽ­न्त­र्य­म­य­ती­त्यु­क्ते­र्व्यो­मा­द्यु­पा­धि­कम् ॥
ब्रह्म वाय्वादिहेतुः स्यात्ते­ज­आ­दी­क्ष­णा­दपि ॥ १४ ॥
पूर्वाधिकरणेषु - पूर्व­पू­र्व­का­र्यो­पा­धि­का­द्ब्र­ह्मण उत्त­रो­त्त­र­का­र्यो­त्पत्तिः - इति यदे­त­त्सि­द्ध­व­त्कृत्य सिद्धान्तितम् , तदयुक्तम् । "आका­शा­द्वायुः", वायोरग्निः इत्यादौ ब्रह्म­नि­र­पे­क्षा­त्के­व­ला­द्व्यो­मा­दे­रु­त्त­र­का­र्यो­त्प­त्ति­श्र­व­णात् ॥
इति प्राप्ते, ब्रूमः - "य आकाशमन्तरो यमयति, यो वायुमन्तरो यमयति" इत्या­दि­नाऽ­न्त­र्या­मि­ब्रा­ह्मणे व्योमादेः स्वातत्र्यं निवारितम् । तथा - "तत्तेज ऐक्षत ता आप ऐक्षन्त" इति तेज­आ­दे­री­क्ष­ण­पू­र्वकं स्रष्टृत्वं श्रूयते । तच्चेक्षणं चेत­न­ब्र­ह्म­नि­र­पे­क्षा­णा­म­चे­त­नानां न सम्भवति । तस्मात् - व्योमा­द्यु­पा­धि­कस्य ब्रह्मण एव कारणत्वम् ॥

(अष्टमे लय­क्र­म­नि­रू­प­णा­धि­क­रणे सूत्रम् - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
सृष्टिक्रमो लये ज्ञेयो विपरीतक्रमोऽथवा ॥
क्लृप्तं कल्प्याद्वरं तेन लये सृष्टिक्रमो भवेत् ॥ १६ ॥
हेतावसति कार्यस्य न सत्त्वं युज्यते यतः ॥
पृथिव्यप्स्विति चोक्त­त्वा­द्वि­प­री­त­क्रमो लये ॥ १७ ॥
आकाशादिक्रमः सृष्टौ क्लृप्तः । अतः प्रलयेऽपि स एव क्रमः ।
इति प्राप्ते, ब्रूमः - प्रथमतः कारणे लीने सति निरुपादानानां कार्याणां कञ्चि­त्का­ल­म­व­स्थानं प्रसज्येत । किञ्च -
"जग­त्प्र­तिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥(वायुः प्रलीयते व्योम्नि तच्चाव्यक्ते प्रलीयते" । )
इति पुराणे विप­री­त­क्र­म­स्यो­क्त­त्वा­त्क्लृप्त एवायं क्रमः । तस्मात् - सृष्टिविपरीतेन पृथि­व्या­दि­क्र­मेण प्रलीयते ॥

(नवमे प्राणादिसृष्टौ क्रम­नि­रू­प­णा­धि­क­रणे सूत्रम् - )
नव­मा­धि­क­र­ण­मा­र­च­यति -
किमु­क्त­क्र­म­भ­ङ्गोऽस्ति प्राणा­द्यै­र्नास्ति वाऽस्ति हि ॥
प्राणाक्षमनसां ब्रह्म­वि­य­तो­र्मध्य ईरणात् ॥ १८ ॥
प्राणाद्या भौतिका भूते­ष्व­न्त­र्भूताः पृथक्क्रमम् ॥
नेच्छन्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः ॥ १९ ॥
मुण्डकोपनिषदि श्रूयते -
"एत­स्मा­ज्जा­यते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायु­र्ज्यो­ति­रापः पृथिवी विश्वस्य धारिणी" इति ।
तत्र – प्राणादीनां वियदादिभ्यः पूर्वं श्रूय­मा­ण­त्वा­दा­का­शा­दिकः पूर्वो­क्त­सृ­ष्टि­क्रमो भज्येत ॥
इति प्राप्ते, ब्रूमः - "अन्नमयं हि सौम्य मनः", "आपोमयः प्राणः", "तेजोमयी वाक्" इति प्राणादीनां भौति­क­त्व­श्र­व­णा­द्भू­ते­ष्वे­वा­न्त­र्भा­वेन पृथक्क्रमो नापेक्षितः । न च – मुण्डकश्रुतिः क्रमवाचिनी, "आका­शा­द्वायुः वायो­रग्निः" इत्यादाविव क्रम­स्या­प्र­ती­य­मा­न­त्वात् , उत्पत्तिमात्रं केवलं ब्रूते । तस्मात् - नानया श्रुत्या पूर्वो­क्त­क्र­म­भ­ङ्गोऽस्ति ॥

(दशमे जीवस्य जन्म­म­र­ण­रा­हि­त्या­धि­क­रणे सूत्रम् - )
दश­मा­धि­क­र­ण­मा­र­च­यति -
जीवस्य जन्ममरणे वपुषो वाऽऽत्मनो हि ते ॥
जातो मे पुत्र इत्यु­क्ते­र्जा­त­क­र्मा­दि­त­स्तथा ॥ २० ॥
मुख्ये ते वपुषो भाक्ते जीवस्यैते अपेक्ष्य हि ॥
जातकर्म च लोको­क्ति­र्जी­वा­पे­ते­ति­शा­स्त्रतः ॥ २१ ॥
लोके – 'पुत्रो मे जातः' इति व्यव­हा­रा­च्छास्त्रे जात­क­र्मा­दि­सं­स्का­रो­क्तेश्च जन्ममरणे जीवस्य ॥
इति प्राप्ते, ब्रूमः - जीवस्य मुख्य­म­र­णा­ङ्गी­कारे कृत­ना­शा­कृ­ता­भ्या­ग­म­प्र­स­ङ्गस्य दुर्नि­वा­र­त्वा­द्दे­ह­गते एव जन्ममरणे जीवस्योपचर्येते । औपचारिके एव ते अपेक्ष्य लोक­व्य­व­हा­र­क­र्म­शा­स्त्रयोः प्रवृत्तिः । उपनिषच्छास्त्रं तु "जीवापेतं वाव किलेदं म्रियते, न जीवो म्रियते" इति जीवविमुक्तस्यैव शरीरस्य मुख्यं मरणमभिधाय जीवस्य तन्निराचष्टे । तस्मात् - वपुषो जन्ममरणे ॥

(एकादशे जीवस्य नित्यत्वाधिकरणे सूत्रम् - )
एका­द­शा­धि­क­र­ण­मा­र­च­यति -
कल्पादौ ब्रह्मणो जीवो वियद्वज्जायते न वा ॥
सृष्टेः प्राग­द्व­य­त्वो­क्ते­र्जा­यते विस्फुलिङ्गवत् ॥ २२ ॥
ब्रह्माद्वयं जातबुद्धौ जीवत्वेन विशेत्स्वयम् ॥
औपाधिकं जीवजन्म नित्यत्वं वस्तुतः श्रुतम् ॥ २३ ॥
"एक­मे­वा­द्वि­ती­यम्" इति सृष्टेः प्रागद्वयत्वं श्रूयमाणं ब्रह्म­व्य­ति­रि­क्तस्य जीव­स्या­नु­त्पत्तौ नोपपद्यते । श्रुतिश्च विस्फु­लि­ङ्ग­दृ­ष्टा­न्तेन जीवस्योत्पत्तिं प्रतिपादयति - "यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एव­मे­त­स्मा­दा­त्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एत आत्मानो व्युच्च­रन्ति" इति । तस्मात् - कल्पादौ विय­दा­दि­व­द्ब्र­ह्मणो जीवो जायते ॥
इति प्राप्ते, ब्रूमः - यदद्वयं ब्रह्म तदेव जातायां बुद्धौ जीवरूपेण प्रविशति "तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्" इति श्रुतेः । अतो जीवानुत्पत्तौ नाद्व­य­श्रु­ति­वि­रोधः विस्फु­लि­ङ्ग­श्रु­ति­स्त्वौ­पा­धि­क­ज­न्मा­भि­प्राया प्रवृत्ता । अन्यथा कृत­ना­शा­दि­दो­ष­स्यो­क्त­त्वात् । वस्तु­त्त­त्त्वा­भि­प्रा­येण तु नित्यत्वं श्रुतिर्ब्रूते - "नित्यो नित्यानां चेत­न­श्चे­त­ना­नाम्" इति तस्मात्कल्पादौ जीवो नोत्पद्यते ॥

(द्वादशे जीवस्य चिद्रू­प­त्वा­धि­क­रणे सूत्रम् - )
द्वाद­शा­धि­क­र­ण­मा­र­च­यति -
अचिद्रूपोऽथ चिद्रूपो जीवोऽचिद्रूप इष्यते ॥
चिद­भा­वा­त्सु­षु­प्त्यादौ जाग्रच्चिन्मनसा कृता ॥ २४ ॥
ब्रह्मत्वादेव चिद्रू­प­श्चि­त्सु­षुप्तौ न लुप्यते ॥
द्वैता­दृ­ष्टि­द्वै­त­लो­पा­न्नहि द्रष्टुरिति श्रुतेः ॥ २५ ॥
तार्किका मन्यन्ते - सुषु­प्ति­मू­र्छा­स­मा­धिषु चैत­न्य­भा­वा­द­चि­द्रूपो जीवः । जागरणे चाऽऽत्म­म­नः­सं­यो­गा­च्चै­त­न्याख्यो गुणो जायते - इति ।
तदसत् । चिद्रूपस्य ब्रह्मण एव जीवरूपेण प्रवेशश्रवणात् । न च – चैतन्यं सुषुप्त्यादौ लुप्यते, सुषु­प्त्या­दि­सा­क्षि­त्वे­ना­व­स्था­नात् । अन्यथा सुषु­प्ता­दि­प­रा­म­र्शा­यो­गात् । कथं तर्हि - - सुषुप्त्यादौ द्वैताप्रतीतिः - इति चेत् । 'द्वैत­लो­पात्' इति ब्रूमः । तथाच श्रुतिः - "यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति, न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्य­तेऽ­वि­ना­शि­त्वात् , न तु तद्वितीयमस्ति ततोऽ­न्य­द्वि­भक्तं यत्प­श्येत्" इति । अस्यायमर्थः - 'तत्र सुषुप्तौ जीवः किमपि न पश्यति', इति यल्लौ­कि­कै­रु­च्यते, तदसत् । पश्यन्नेव जीवस्तदानीं न पश्यति, इति भ्रान्त्या केवलं व्यपदिश्यते । कथं तद्दर्शनम् - इत्यत्र हेतुरुच्यते - द्रष्टुरात्मनः स्वरूपभूताया दृष्टेर्लोपो नहि विद्यते विना­श­र­हि­त­स्व­भा­व­त्वात् । अन्यथा लोपवादिनोऽपि निःसाक्षिकस्य लोपस्य वक्तु­म­श­क्य­त्वात् । कथं तर्हि लौकिकानां 'न पश्यति' इति भ्रमः - इत्यत्र हेतुरुच्यते - ब्रह्म­चै­त­न्या­द­न्य­त्क्रि­या­का­र­क­फ­ल­रू­पेण विभक्तं जगदाख्यं यद्द्वितीयं वस्तु, तन्नास्ति तस्य स्वकारणे लीनत्वात् । अतो जाग­र­ण­व­द्द्र­ष्टृ­दृ­श्य­द­र्श­न­व्य­व­हा­रा­णा­म­भा­वात् 'न पश्यति' इति लौकिकानां भ्रमः - इति । तस्मात् - चिद्रूपो जीवः ॥

(त्रयोदशे जीवस्य सर्व­ग­त­त्वा­धि­क­रणे सूत्राणि - )
त्रयो­द­शा­धि­क­र­ण­मा­र­च­यति -
जीवोऽणुः सर्वगो वा स्यादेषोऽणुरिति वाक्यतः ॥
उत्क्रा­न्ति­ग­त्या­ग­म­न­श्र­व­णा­च्चा­णु­रेव सः ॥ २६ ॥
साभा­स­बु­द्ध्याऽ­णु­त्वेन तदु­पा­धि­त्व­तोऽ­णुता ॥
जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतः श्रुतम् ॥ २७ ॥
"एषोऽ­णु­रात्मा चेतसा वेदितव्यः" इत्युणुत्वं श्रुतम् । "अस्मा­च्छ­री­रा­दु­त्क्रा­मति" इत्यु­त्क्रान्तिः । "चन्द्र­म­स­मेव ते सर्वे गच्छन्ति" इति गतिः । "तस्मा­ल्लो­का­त्पु­न­रैति" इत्यागमनम् । नह्यु­त्क्रा­न्त्या­दयः सर्व­ग­त­स्यो­प­प­द्यन्ते । मध्यमपरिमाणस्य तदु­प­प­त्ता­व­प्य­णु­श्रु­ति­र्वि­रु­ध्यते । अनित्यत्वं च दुर्वारम् । तस्मात् - अणुर्जीवः ॥
इति प्राप्ते, ब्रूमः - चैत­न्य­प्र­ति­बि­म्ब­स­हिता बुद्धिरसर्वगता । तदु­पा­धि­क­त्वा­ज्जी­व­स्या­णु­त्वो­त्क्रा­न्त्या­दय उपपन्नाः । स्वतस्तु जीवस्य ब्रह्म­रू­प­त्वा­त्स­र्व­ग­त­त्वम् । "स वा एष महानज आत्मा" "सर्व­व्यापी सर्व­भू­ता­न्त­रात्मा" इत्यादौ सर्वगतत्वं श्रुतम् । तस्मात् - सर्वगतो जीवः ॥

(चतुर्दशे जीवस्य कर्तृत्वाधिकरणे सूत्राणि - )
चतु­र्द­शा­धि­क­र­ण­मा­र­च­यति -
जीवोऽकर्ताऽथवा कर्ता धियः कर्तृ­त्व­स­म्भ­वात् ॥
जीवकर्तृतया किं स्यादित्याहुः साङ्ख्यमानिनः ॥ २८ ॥
करणत्वान्न धीः कर्त्री यागश्रवणलौकिकाः ॥
व्यापारा न विना कर्त्रा तस्माज्जीवस्य कर्तृता ॥ २९ ॥
"बुद्धेः परिणामित्वेन क्रियावेशात्मकं कर्तृत्वं सम्भवति, न त्वस­ङ्ग­स्याऽऽ­त्मनः" - इति यत्सा­ङ्ख्यै­रु­क्तम् ।
तदसङ्गतम् । करणत्वेन क्लृप्त­श­क्ति­काया बुद्धेः कर्तृशक्तिर्न कल्पयितुं शक्या, कुठा­रा­दा­व­द­र्श­नात् । बुद्धेः कर्तृत्वे करणान्तरस्य कल्पनीयत्वाच्च । न च – मा भूत्कर्ता - इति वाच्यम् , पूर्व­का­ण्डो­क्त­या­गा­दि­व्या­पा­रा­णा­मु­त्त­र­का­ण्डो­क्त­श्र­व­णा­दि­व्या­पा­राणां लौकि­क­कृ­ष्या­दि­व्या­पा­राणां च कर्तृ­सा­पे­क्ष­त्वात् । तस्मात् - जीवः कर्ता ॥

(पञ्चदशे जीव­स्या­ध्य­स्त­क­र्तृ­त्वा­धि­क­रणे सूत्रम् - )
पञ्च­द­शा­धि­क­र­ण­मा­र­च­यति -
कर्तृत्वंं वास्तवं किंवा कल्पितं वास्तवं भवेत् ॥
यजे­ते­त्या­दि­शा­स्त्रेण सिद्ध­स्या­बा­धि­त­त्वतः ॥ ३० ॥
असङ्गो हीति तद्बा­धा­त्स्फ­टिके रक्ततेव तत् ॥
अध्यस्तं धीच­क्षु­रा­दि­क­र­णो­पा­धि­सं­निधेः ॥ ३१ ॥
पूर्वाधिकरणे प्रतिपादितस्य कर्तृत्वस्य बाधा­भा­व­द्वा­स्त­वम् ॥
इति प्राप्ते, ब्रूमः - "असङ्गो ह्ययं पुरुषः" इति श्रुत्या कर्तृत्वसङ्गो बाध्यते । अतो यथा जपा­कु­सु­म­सं­नि­धि­व­शा­त्स्फ­टिके रक्त­त्व­म­ध्य­स्तम् , तथा - अन्तः­क­र­ण­सं­नि­धि­व­शा­त्क­र्तृ­त्व­मा­त्म­न्य­ध्य­स्यते ॥

(षोडश ईश्वरस्य जीव­प्र­व­र्त­क­त्वा­धि­क­रणे सूत्रे - )
षोड­शा­धि­क­र­ण­मा­र­च­यति -
प्रवर्तकोऽस्य रागादिरीशो वा, रागतः कृषौ ॥
दृष्टा प्रवृ­त्ति­र्वै­ष­म्य­मी­शस्य प्रेरणे भवेत् ॥ ३२ ॥
सस्येषु वृष्टि­व­ज्जी­वे­ष्वी­श­स्या­वि­ष­म­त्वतः ॥
रागोऽ­न्त­र्या­म्य­धी­नोऽत ईश्वरोऽस्य प्रवर्तकः ॥ ३३ ॥
लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ । तद­नु­सा­रा­द्ध­र्मा­ध­र्म­क­र्तृ­जी­व­स्यापि तावेव प्रव­र्त­का­व­भ्यु­पेयौ । ईश्वरस्य प्रवर्तकत्वे कांश्चि­ज्जी­वा­न्धर्मे प्रवर्तयति, कांश्चिदधर्मे, इति वैषम्यं दुर्वारम् । तस्मात् - नेश्वरः प्रवर्तकः ॥
इति प्राप्ते, ब्रूमः - न तावदीश्वरस्य वैष­म्य­दो­ष­प्र­सङ्गः । वृष्टि­व­त्सा­धा­र­ण­नि­मि­त्त­त्वात् । यथा वृष्टेः सस्या­भि­वृ­द्धि­हे­तु­त्वेऽपि व्रीहि­य­वा­दि­वै­षम्ये बीजानामेव निमित्तत्वम् , तथेश्वरस्य 'यथायथं जीवाः प्रव­र्त­न्ताम्' इत्यनुज्ञया साधा­र­ण­प्र­व­र्त­क­त्वात् । असा­धा­र­ण­प्र­व­र्त­क­त्वेऽपि न वैषम्यम् , पूर्वकृतकर्मणां वासनानां च वैष­म्य­हे­तु­त्वात् । - कर्मणां फलहेतुत्वमेव, न कर्मा­न्त­र­हे­तु­त्वम् - इति चेत् । सत्यम् । सुखदुःखरूपस्य स्वफलस्य प्रदानाय जीवं व्यापारयत्सु कर्म­स्व­र्था­त्क­र्मा­न्त­र­मपि निष्पद्यत इति दुर्वारं तद्धेतुत्वम् । वासनानां तु साक्षादेव कर्महेतुत्वम् । तथाचेश्वरस्य कुतो वैषम्यप्रसङ्गः । यत्तु - रागस्य प्रव­र्त­क­त्व­नि­द­र्श­न­मु­दा­हृ­तम् । तत्तथाऽस्तु । न तावतेश्वरस्य प्रव­र्त­क­त्व­हानिः, सर्वा­न्त­र्या­मि­णे­श्व­रेण रागस्यापि नियम्यमानत्वात् । तस्मात् - ईश्वरो जीवस्य प्रवर्तकः ॥

(सप्तदशे जीवे­श्व­र­व्य­व­स्था­धि­क­रणे सूत्राणि - )
सप्त­द­शा­धि­क­र­ण­मा­र­च­यति -
किं जीवे­श्व­र­सा­ङ्कर्यं व्यवस्था वा श्रुतिद्वयात् ॥ अभे­द­भे­द­वि­ष­या­त्सा­ङ्कर्यं न निवार्यते ॥ ३४ ॥ अंशोऽवच्छिन्न आभास इत्यौ­पा­धि­क­क­ल्पनैः ॥ जीवे­श­यो­र्व्य­वस्था स्याज्जीवानां च परस्परम् ॥ ३५ ॥
"तत्त्व­मसि" इत्या­दि­श्रु­ति­र्जी­वे­श­यो­र­भेदं प्रतिपादयति । "आत्मा वा अरे द्रष्टव्यः" इत्यादिना द्रष्टृ­द्र­ष्ट­व्य­रू­पेण भेदः प्रतीयते । तथाच सति भेदश्रुतिबलात् 'जीवो नास्ति' इत्य­प­ल­पि­तु­म­श­क्यम् । अभेदश्रुत्या चेश्व­रा­त्पृ­थ­क्त्वेन व्यवस्थापयितुं न शक्यते । तस्मा­द्वि­द्य­मा­नस्य जीवस्येश्वरेण साङ्कर्यं दुर्वारम् । परस्परं च जीवा­ना­मी­श्व­रा­द­भे­द­द्वारा साङ्क­र्य­मा­नु­ष­ङ्गि­कम् । तस्मात् - ब्रह्मवादिनो न जगद्व्यवस्था ॥
इति प्राप्ते, ब्रूमः - यद्यपि - गोम­हि­ष­व­ज्जी­वे­श्व­र­यो­र­त्य­न्त­भेदो वास्तवो नास्ति । तथाऽपि व्यव­हा­र­द­शा­या­मु­पा­धि­क­ल्पितं भेदमाश्रित्य शास्त्रा­णि­त्रेधा जीवं निरूपयन्ति -
"ममैवांशो जीवलोके जीवभूतः सनातनः" ।
इत्यं­श­त्व­म­व­ग­म्यते । "स समानः सन्नुभौ लोका­व­नु­स­ञ्च­रति" इति श्रुतौ विज्ञानमयस्य जीवस्य विज्ञा­न­श­ब्द­वा­च्यया बुद्ध्या समा­न­प­रि­मा­ण­नि­र्दे­शा­द्घ­टा­का­श­व­द­व­च्छि­न्नत्वं प्रतीयते -
"एक एव तु भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जल­च­न्द्र­वत्" ।
इत्या­भा­स­त्व­म­व­ग­म्यते तस्मात्सुलभैव ब्रह्मवादिनो जीवे­श्व­र­व्य­वस्था । जीवानां च पर­स्प­र­म­ने­क­ज­ल­पा­त्र­स्थ­ब­हु­सू­र्य­प्र­ति­बि­म्ब­व­द्व्य­व­हा­र­व्य­वस्था सुतरामुपपद्यते । तस्मात् - न कोऽपि दोषः - इति सिद्धम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां द्विती­या­ध्या­यस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि १७ ७८
सूत्राणि ५३ ३७०

(प्रथम इन्द्रियाणां पर­मा­त्म­ज­न्य­त्वा­धि­क­रणे सूत्राणि - )
चतुर्थपादस्य प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
किमि­न्द्र­या­ण्य­ना­दीनि सृज्यन्ते वा परात्मना ॥
सृष्टेः प्रागृ­षि­ना­म्नैषां सद्भा­वो­क्ते­र­ना­दिता ॥ १ ॥
एकबुद्ध्या सर्व­बु­द्धे­र्भौ­ति­क­त्वा­ज्ज­नि­श्रुतेः ॥
उत्पद्यन्तेऽथ सद्भावः प्राग­वा­न्त­र­सृ­ष्टितः ॥ २ ॥
"ऋषयो वाव तेऽग्रे सदासीत् । (तदाहुः) के ते ऋषयः - इति । प्राणा वा ऋषयः" इति श्रुत्या सृष्टेः पूर्व­मि­न्द्रि­याणां सद्भा­वा­व­ग­मा­द­ना­दित्वं तेषाम् ॥
इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं ताव­दि­न्द्रि­या­णा­म­नु­त्पत्तौ न घटते । तथा - "अन्नमयं हि सौम्य मनः । आपोमयः प्राणः । तेजोमयी वाक्" इति भूत­का­र्य­त्व­मि­न्द्रि­याणां श्रूयते ।
"एत­स्मा­ज्जा­यते प्राणो मनः सर्वेन्द्रियाणि च"
इति स्पष्ट­मे­वे­न्द्रि­याणां जन्मश्रवणम् । यत्तु - सृष्टेः प्राक्स­द्भा­व­वा­क्यम् । तद­वा­न्त­र­सृ­ष्टि­वि­ष­य­तया व्याख्येयम् । तस्मात् - इन्द्रियाणि परमात्मन उत्पद्यन्ते ॥

(द्वितीय इन्द्रि­या­णा­मे­का­द­श­त्वा­धि­क­रणे सूत्रे - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः ॥
सप्त स्युर्मू­र्ध­नि­ष्ठेषु च्छिद्रेषु च विशेषणात् ॥ ३ ॥
अशीर्षण्यस्य हस्तादेरपि वेदे समीरणात् ॥
ज्ञेया­न्ये­का­द­शा­क्षाणि तत्त­त्का­र्या­नु­सा­रतः ॥ ४ ॥
सप्तै­वे­न्द्रि­याणि । कुतः - "सप्त प्राणाः प्रभवन्ति" इति सामान्यश्रुतेः । "सप्त­शी­र्षण्याः प्राणाः" इति शिरो­द­त­स­प्त­च्छि­द्र­नि­ष्ठ­त्वेन विशेषितत्वाच्च ॥
इति प्राप्ते, ब्रूमः - शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेदे समीर्यन्ते । "हस्तौ चाऽऽदातव्यं च, उप­स्थ­श्चाऽ­न­न्द­यि­तव्यं च" इत्यादिना । तथाच वेदान्निश्चये सत्ये­का­द­श­व्या­पा­राणां दर्श­न­श्र­व­ण­घ्रा­णा­स्वा­द­न­स्प­र्श­ना­भि­व­द­ना­दा­न­ग­म­ना­न­न्द­वि­स­र्ग­ध्या­ना­ना­मु­प­ल­म्भा­त्त­त्सा­ध­न­त्वेन – 'इन्द्रि­या­ण्ये­का­दश' इत्य­भ्यु­प­ग­न्त­व्यम् ॥

(तृतीये, इन्द्रि­या­णा­म­णु­त्वा­धि­क­रणे सूत्रम् - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
व्यापीन्यणूनि वाऽक्षाणि साङ्ख्या व्यापित्वमूचिरे ॥
वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत् ॥ ५ ॥
देह­स्थ­वृ­त्ति­म­द्भा­गे­ष्वे­वा­क्षत्वं समाप्यताम् ॥
उत्क्रा­न्त्या­दि­श्रु­ते­स्तानि ह्यणूनि स्युरदर्शनात् ॥ ६ ॥
'सर्व­ग­ता­ना­मि­न्द्रि­याणां तत्त­च्छ­री­रा­व­च्छि­न्न­प्र­दे­शेषु तत्त­ज्जी­व­क­र्म­फ­लो­प­भो­गाय वृत्तिलाभो भवति' इति यत्सा­ङ्ख्यै­रु­क्तम् ।
तदयुक्तम् । कल्प­ना­गौ­र­व­प्र­स­ङ्गात् । देहा­व­च्छि­न्न­वृ­त्ति­म­द्भा­गै­रे­वा­शे­ष­व्य­व­हा­र­सिद्धौ किमनया वृत्तिरहितानां सर्व­ग­ता­ना­मि­न्द्रि­याणां कल्पनया । किञ्च – श्रुति­रु­त्क्रा­न्ति­ग­त्या­ग­ती­र्जी­वस्य प्रतिपादयति । ताश्च सर्वगतस्य जीवस्य न मुख्याः सम्भवन्ति - इति मुख्य­त्व­सि­द्ध्य­र्थ­मि­न्द्रि­यो­पाधिः स्वीकृतः । यदि सोऽप्युपाधिः सर्वगतः स्यात् , कुत­स्त­र्ह्यु­त्क्रा­न्त्या­दयो मुख्याः सम्भवेयुः । तस्मात् - अस­र्व­ग­ता­न्य­क्षाणि । मध्य­म­प­रि­मा­णे­ष्वे­वा­दृ­श्य­त्व­वि­व­क्षया सूत्र­का­रे­णा­णु­शब्दः प्रयुक्तः ॥

(चतुर्थे प्राणस्य जन्यताधिकरणे सूत्रम् - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
मुख्यः प्राणः स्याद­ना­दि­र्जा­यते वा न जायते ॥
आनीदिति प्राणचेष्टा प्राक्सृष्टेः श्रूयते यतः ॥ ७ ॥
आनीदिति ब्रह्मसत्त्वं प्रोक्तं वातनिषेधनात् ॥
एतस्माज्जायते प्राण इत्युक्तेरेष जायते ॥ ८ ॥
मुखबिले सञ्च­र­न्नु­च्छ्वा­स­कारी यो वायुः स प्राणः । सोऽनादिः । कुतः - "नास­दा­सीत्" - इति सूक्ते - "आनी­द­वा­तम्" इति 'आनीत्' शब्देन सृष्टेः प्राक्प्रा­ण­चे­ष्टा­श्र­व­णात् ॥
इति प्राप्तेः, ब्रूमः - 'आनीत्' शब्दो न प्राणव्यापारं वक्ति, "अवा­तम्" इति तन्निषेधात् । किं तर्हि - ब्रह्मसत्त्वं ब्रूते, "सदेव सौम्येदमग्र आसीत्" इत्यादिभिः सृष्टि­प्रा­ग­व­स्था­प्र­ति­पा­द­क­श्रु­त्य­न्तरैः समानार्थत्वात् । "एत­स्मा­ज्जा­यते प्राणः" इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रतिपादयति । तस्मात् - इन्द्रि­य­व­त्प्राणो जायते ॥

(पञ्चमे प्राणस्य तत्त्वा­न्त­र­ता­धि­क­रणे सूत्राणि - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
वायु­र्वाऽ­क्ष­क्रिया वाऽन्यो वा प्राणः श्रुतितोऽनिलः ॥
सामा­न्ये­न्द्रि­य­वृ­त्तिर्वा साङ्ख्यै­रे­व­मु­दी­र­णात् ॥ ९ ॥
भाति प्राणो वायुनेति भेदो­क्ते­रे­क­ता­श्रुतिः ॥
वायुजत्वेन साम­न्य­वृ­त्ति­र्ना­क्षे­ष्व­तोऽ­न्यता ॥ १० ॥
बाह्यवायुरेव वेणु­र­न्ध्र­व­न्मु­ख­च्छिद्रे प्रवि­श्या­व­स्थितः प्राणनाम्ना व्यपदिश्यते । न तु प्राणो नाम किञ्चि­त्त­त्त्वा­न्त­र­मस्ति । कुतः - "यः प्राणः स वायुः" इति श्रुतेः । अथवा - पञ्जरस्था यथा बहवः पक्षिणः स्वयं चलन्तः पञ्जरमपि चालयन्ति, एवमेकादशाक्षाणि स्वस्व­व्या­पा­र­द्वारा देहं चेष्टयन्ते । तत्र देहचालनाख्यो योऽयं सर्वे­न्द्रि­य­सा­धा­रणो व्यापारः, स प्राणो भविष्यति । तथाच साङ्ख्यैरुक्तम् -
"सामा­न्य­क­र­ण­वृत्तिः प्राणाद्या वायवः पञ्च" इति ।
तस्मात् - न तत्त्वान्तरं प्राणः ॥
इति प्राप्ते, ब्रूमः - "प्राण एव ब्रह्म­ण­श्च­तुर्थः पादः, स वायुना ज्योतिषा भाति (च तपति च ) इति" श्रुत्यन्तरे चतु­ष्पा­द्ब्र­ह्मो­पा­स­न­प्र­स­ङ्गे­नाऽऽ­ध्या­त्मि­क­प्रा­ण­स्याऽऽ­धि­दै­वि­क­वा­यो­श्चा­नु­ग्रा­ह्या­नु­ग्रा­ह­क­रू­पेण भेदः स्पष्टमेव निर्दिष्टः । अतः - "यः प्राणः स वायुः" इत्ये­क­त्व­श्रुतिः कार्य­क­र­ण­यो­र­भे­द­वृत्त्या नेतव्या । यत्तु - साङ्ख्यैरुक्तम् । तदसत् , इन्द्रियाणां सामा­न्य­वृ­त्त्य­स­म्भ­वात् । पक्षिणां तु चाल­ना­न्ये­क­वि­धानि पञ्ज­र­चा­ल­न­स्या­नु­कू­लानि, न तु तथेन्द्रियाणां दर्श­न­श्र­व­ण­ग­म­ना­दि­व्या­पारा एकविधाः । नापि देहचालनानुकूलाः । तस्मात् - तत्त्वान्तरं प्राणः - इति परिशिष्यते ॥

(षष्ठे प्राण­स्या­णु­त्वा­धि­क­रणे सूत्रम् - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
प्राणोऽयं विभुरल्पो वा विभुः स्यात्प्लु­ष्यु­प­क्रमे ॥
हिर­ण्य­ग­र्भ­प­र्यन्ते सर्वदेहे समोक्तितः ॥ ११ ॥
सम­ष्टि­व्य­ष्टि­रू­पेण विभु­रे­वाऽऽ­धि­दै­विकः ॥
आध्या­त्मि­कोऽल्पः प्राणः स्याददृश्यश्च यथेन्द्रियम् ॥ १२ ॥
प्लुषिर्नाम मशकादपि न्यूनकायः पुत्तिकाख्यो जीवः । तमारभ्य सर्वा­त्म­क­हि­र­ण्य­ग­र्भ­प­र्य­न्तेषु देहेषु तैस्तैर्देहैः समत्वं प्राणस्य श्रूयते - "समः प्लुषिणा, समो मशकेन समो नागेन, सम एभि­स्त्रि­भि­र्लोकैः समोऽनेन सर्वेण" इति । तस्मात् - व्यापी प्राणः ।
इति प्राप्ते, ब्रूमः - आधिदैविकस्य हिर­ण्य­ग­र्भ­प्रा­णस्य समष्टिरूपेण व्यष्टिरूपेण चाव­स्था­ना­द्वि­भु­त्व­मस्तु - "वायुरेव व्यष्टिः, वायुरेव समष्टिः" इति श्रुतेः । तदेव विभुत्वं "समः प्लुषिणा" इत्या­दि­श्रु­ता­वु­पा­स­नार्थं प्रपञ्चितम् । आध्यात्मिकस्तु प्राण इन्द्रि­य­व­द­दृश्यः परिच्छिन्नश्च ॥

(सप्तमे, इन्द्रियाणां देव­प­र­त­न्त्र­ता­धि­क­रणे सूत्राणि - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
स्वतन्त्रा देवतन्त्रा वा वागाद्याः स्युः स्वतन्त्रता ॥
नो चेद्वागादिजो भोगो देवानां स्यान्न चाऽऽत्मनः ॥ १३ ॥
श्रुत­म­ग्न्या­दि­त­न्त्रत्वं भोगोऽ­ग्न्या­देस्तु नोचितः ॥
देवदेहेषु सिद्धत्वाज्जीवो भुङ्क्ते स्वकर्मणा ॥ १४ ॥
वागादीन्यक्षाणि स्वस्व­वि­ष­य­स्वा­त­न्त्र्येण प्रवर्तन्ते, न तु देव­ता­प­र­त­न्त्राणि । अन्यथा वागादिजन्यस्य भोगस्य देवानां भोक्तृत्वान्न जीवात्मनो भोगः स्यात् ॥
इति प्राप्ते, ब्रूमः - "अग्नि­र्वा­ग्भूत्वा मुखं प्राविशत्" इत्यादौ वागा­दी­ना­म­ग्न्या­द्य­नु­गृ­ही­तत्वं श्रूयते । ततो देव­ता­प­र­त­न्त्रै­वे­न्द्रि­य­वृत्तिः । न च – एतावता देवतानामत्र भोक्तृत्वम् , महापुण्यफलं देवत्वं प्राप्ता­ना­म­ध­म­भो­ग­स्या­नु­चि­त­त्वात् । देवतादेहेषु परमभोगस्य सिद्धत्वाच्च । मनु­ष्या­दि­जी­वस्तु देव­प्रे­रि­तै­र­प्य­क्षै­रा­पा­दितं भोगं स्वकर्मफलतया भुङ्क्ते - इत्युपपद्यते । तस्मात् - देव­ता­प­र­त­न्त्रा­णी­न्द्रि­याणि ॥

(अष्टमे, इन्द्रियाणां प्राणा­त्त­त्त्वा­न्त­र­त्वा­धि­क­रणे सूत्राणि - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
प्राणस्य वृत्तयोऽक्षाणि प्राणा­त्त­त्त्वा­न्त­राणि वा ॥
तद्रू­प­त्व­श्रुतेः प्राण­ना­म्नो­क्त­त्वाच्च वृत्तयः ॥ १५ ॥
श्रमा­श्र­मा­दि­भे­दो­क्ते­र्गोणे तद्रूपनामनी ॥
आलो­च­क­त्वे­ना­न्यानि प्राणो नेताऽक्षदेहयोः ॥ १६ ॥
वागादीन्यक्षाणि मुख्य­प्रा­ण­वृ­त्तयो भवितुमर्हन्ति । कुतः - तेषां प्राण­रू­प­त्व­श्र­व­णात् । "हन्ता­स्यैव सर्वे रूपमसामेति, त एतस्यैव सर्वे रूपमभवन्" इति श्रुतेः । किञ्च – प्राणशब्देनैव तानि लोके व्यवह्नियन्ते - 'म्रिय­मा­णस्य नाद्यापि प्राणा­नि­र्ग­च्छन्ति' इत्यादौ । श्रुतिश्च वागादीनां प्राणनामकतामाह – "न वै वाचः, न चक्षूंषि, न श्रोत्राणि, न मनांसि, इत्याचक्षते । प्राणा इत्ये­वाऽऽ­च­क्षते" इति तस्मात् - न प्राणादन्यानि तत्त्वानि ॥
इति प्राप्ते, ब्रूमः - "तानि मृत्युः श्रमो भूत्वोपयेमे । तस्मा­च्छ्रा­म्य­त्येव वाक्" इत्यादिना वागादीनां स्वस्वविषयेषु श्रान्तिमभिधाय "अथेममेव नाऽऽप्नोत् , योऽयं मध्यमः प्राणः, यः सञ्च­रं­श्चा­स­ञ्च­रंश्च न व्यथते" इति प्राणस्य स्वव्यापारे श्रान्त्यभावमाह । अयमेको भेदः । तथा - प्राणसंवादे वागा­दि­नि­र्ग­म­न­प्र­वे­श­यो­र्दे­हस्य मर­णो­त्था­ना­भा­व­म­भि­धाय प्राण­नि­र्ग­म­न­प्र­वे­श­यो­र्म­र­णो­त्थाने दर्शयति । अत एव­मा­दि­भे­दो­क्ते­र्वा­गा­दीनां प्राणरूपत्वं प्राणनामत्वं च गौणम् । भृत्यन्यायेन प्राणा­नु­व­र्ति­त्वात् । व्यवहारभेदश्च भूयानुपलभ्यते । स्वं स्वं विषयं परि­च्छि­द्याऽऽ­लो­च­का­नी­न्द्रि­याणि, प्राण­स्त्व­क्षाणां देहस्य च नेता । तस्मात् - बहु­वै­ल­क्ष­ण्या­त्प्रा­णा­त्त­त्त्वा­न्त­रा­णी­न्द्रि­याणि ॥

(नवमे, ईश्वरस्यैव नाम­रू­प­व्या­क­र्तृ­त्वा­धि­क­रणे सूत्राणि - )
नव­मा­धि­क­र­ण­मा­र­च­यति -
नामरूपव्याकरणे जीवः कर्ताऽथवेश्वरः ॥
अनेन जीवे­ने­त्यु­क्ते­र्व्या­कर्ता जीव इष्यते ॥ १७ ॥
जीवान्वयः प्रवेशेन संनिधेः सर्वसर्जने ॥
जीवोऽशक्तः शक्त ईश उत्त­मो­क्ति­स्त­थे­क्षितुः ॥ १८ ॥
ईश्वरेण पञ्चभूतेषु सृष्टेषु भौति­क­यो­र्दृ­श्य­मा­न­यो­र्म­ही­ध­रा­दि­ना­म­रू­प­यो­र्जीव एव स्रष्टा स्यात् । कुतः - "अनेन जीवे­नाऽऽ­त्म­नाऽ­नु­प्र­विश्य नामरूपे व्याक­र­वाणि" इति जीवरूपस्यैव सृष्टा­व­न्व­य­श्र­व­णात् ॥
इति प्राप्ते, ब्रूमः - "जीवे­ना­नु­प्र­विश्य" इति प्रवेशेनैव जीवोऽन्वेति संनिहितत्वात् । 'जीवेन व्याक­र­वाणि' इत्युक्तौ व्यवहितान्वयः स्यात् । नहि जीवस्य गिरिनदीनिर्माणे शक्तिरस्ति । ईश्वरस्तु सर्वशक्तियुक्तः "पराऽस्य शक्तिर्विविधैव श्रूयते" इति श्रवणात् । किञ्च – "व्याक­र­वाणि" इत्यु­त्त­म­पु­रु­षोऽ­पी­श्व­र­पक्षे समञ्जसः । तस्मात् - ईश्वर एव नामरूपयोः स्रष्टा । कथं तर्हि - घटपटादौ कुला­ला­दे­र्नि­र्मा­तृ­त्वम् । 'ईश्व­र­प्रे­र­णात्' इति ब्रूमः । तस्मात् - ईश्वर एव सर्वकर्ता - इति सिद्धम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां द्विती­या­ध्या­यस्य चतुर्थः पादः ॥ ४ ॥
॥ इति द्वितीयोऽध्यायः समाप्तः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ९ ८७
सूत्राणि २२ ३९२