अद्वैतशारदा

वैयासिकन्यायमाला

तदन्तरप्रतिपत्त्यधिकरणम्

(प्रथमे जीवस्य भूत­सू­क्ष्म­वे­ष्टि­त­स्यैव पर­लो­क­ग­म­ना­ग­म­ना­धि­क­रणे सूत्राणि - )
तृतीयाध्यायस्य प्रथमपादे प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
अवेष्टितो वेष्टितो वा भूतसूक्ष्मैः पुमान्व्रजेत् ॥
भूतानां सुलभत्वेन यात्यवेष्टित एव सः ॥ १ ॥
बीजानां दुर्लभत्वेन निरा­धा­रे­न्द्रि­या­गतेः ॥
पञ्च­मा­हु­ति­तो­क्तेश्च जीवस्तैर्याति वेष्टितः ॥ २ ॥
पूर्व­पा­द­प्र­ति­पा­दि­त­प्रा­णो­पा­धिको जीवः शरी­रा­न्त­र­प्रा­प्ति­वे­ला­या­मितो निर्ग­च्छ­न्भा­वि­श­री­र­बीजैः सूक्ष्म­भू­तै­र­वे­ष्टितो गच्छति, पञ्चभूतानां सर्वत्र सुलभत्वेनेतो नयनस्य निरर्थकत्वात् ॥
इति प्राप्ते, ब्रूमः - भूतमात्रस्य सुलभत्वेऽपि देहबीजानि न सर्वत्र सूलभानि । तस्मात् - इतो नेतव्यानि । किञ्च जीवो­पा­धि­भू­ते­न्द्रि­याणां भूताधारमन्तरेण परलोकगमनं न सम्भवति, जीव­द­शा­या­म­द­र्श­नात् । श्रुतिश्चैवमाह – "पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्ति" इति । अस्या अयमर्थः - द्युलो­क­प­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षितः पञ्च पदार्था उपा­स­ना­या­म­ग्नि­त्वेन परिकल्पिताः । तेष्वग्निषु स्वर्गाय गच्छ­न्पु­न­रा­ग­च्छंश्च जीव आहुतित्वेन परिकल्पितः । इष्टापूर्तकारी जीवः स्वर्ग­मा­रु­ह्यो­प­भो­गेन कर्मणि क्षीणे पर्जन्ये पतित्वा वृष्टिरूपेण भूमिं प्राप्य, अन्नद्वारेण पुरुषं प्राप्य, रेतोद्वारेण योषितं प्रविश्य शरीरं गृह्णाति । ततोऽ­प­श­ब्दो­प­ल­क्षि­तानि देहबीजानि पञ्च भूतानि जीवेन सह द्युलो­का­दि­प­ञ्च­स्था­नेषु गत्वा पञ्चमस्थाने शरीरभावं प्राप्य पुरु­ष­श­ब्द­वा­च्यानि भवन्ति - इति । तस्मात् - बीजैर्वेष्टित एव परलोकं गच्छति ॥

(द्वितीये स्वर्गादरोहतो जीवस्य सानु­श­य­त्वा­धि­क­रणे सूत्राणि - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
स्वर्गावरोही क्षीणानुशयः सानुशयोऽथवा ॥
याव­त्स­म्पा­त­व­च­ना­त्क्षी­णा­नु­शय इष्यते ॥ ३ ॥
जातमात्रस्य भोगि­त्वा­दै­क­भव्ये विरोधतः ॥
चरणश्रुतितः सानुशयः कर्मान्तरैरयम् ॥ ४ ॥
स्वर्गमुपभुज्य ततोऽ­व­रो­ह­न्पु­रुषो निरनुशय इहाऽऽगच्छति । अनुशयो नाम कर्मशेषः 'जीव­म­नु­शेते' इति व्युत्पत्तेः । न च – स्वर्गा­द­व­रो­ह­तोऽ­नु­शयः सम्भवति, अनुशयफलस्य सर्वस्य तत्रै­वो­प­भु­क्त­त्वात् । अत एवावरोहविषया श्रुतिः - "याव­त्स­म्पा­त­मु­षि­त्वाऽ­थै­त­मे­वा­ध्वानं पुन­र्नि­व­र्तते" इत्याह । 'सम्प­त­त्य­नेन कर्मणा स्वर्गम्' इति सम्पातः कर्मसमूहः । सम्पा­त­म­न­ति­क्रम्य यावत्सम्पातं निःशेषं कर्मफलं भोक्तुं तत्रो­षि­त्वे­त्यर्थः । तस्मात् - कर्म­शे­ष­र­हि­तोऽ­व­रो­हति ॥
इति प्राप्ते, ब्रूमः - स्वर्गा­र्थ­म­नु­ष्ठि­तस्य कर्मणः साक­ल्ये­नो­प­भो­गेऽ­प्य­नु­प­भु­क्तानि सञ्चितानि पुण्यपापानि बहून्यस्य विद्यन्ते । अन्यथा - सद्यः­स­मु­त्प­न्नस्य बालस्येह जन्म­न्य­नु­ष्ठि­त­यो­र्ध­र्मा­ध­र्म­यो­र­भा­वा­त्सु­ख­दुः­खो­प­भोगो न स्यात् । यत्त्वत्र कैश्चिदुच्यते - एक­स्मि­ञ्ज­न्म­न्य­नु­ष्ठितः कर्मसमूह उत्तरस्मिन्नेव जन्मन्युपभोगेन क्षीयते - इति । तदसत् , इन्द्रा­दि­प­द­प्रा­प­का­णा­म­श्व­मे­धा­दी­नाम् , विड्व­रा­हा­दि­दे­ह­प्रा­प­काणां पापानां च युग­प­दु­प­भो­गा­स­म्भ­वेन 'ऐकभविकः कर्मा­नु­शयः' इति मतस्य विरुद्धत्वात् । तत­श्चै­क­स्मि­ञ्ज­न्म­न्य­नु­ष्ठि­तानां मध्ये कस्मिं­श्चि­ज्ज्यो­ति­ष्टो­मा­दि­क­र्मणि भुक्तेऽपि कुतो न कर्मा­न्त­रा­ण्य­व­शि­ष्ये­रन् । याव­त्स­म्पा­त­श­ब्दश्च स्वर्गप्रदकर्म विषयः, नत्वि­त­र­क­र्म­वि­षयः । श्रुतिश्च स्वर्गादवरुह्य पञ्चम्यामाहुतौ शरीरं गृह्णतां नपुरुषाणां तद्धेत्वोः पुण्यपापयोः सद्भावं दर्शयति - "य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनि­मा­प­द्ये­र­न्ब्रा­ह्म­ण­योनिं वा, क्षत्रिययोनिं वा वैश्ययोनिं वा, अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनि­मा­प­द्ये­र­ञ्श्व­योनिं वा, शूकरयोनिं वा चाण्डा­ल­योनिं" वा इति । रमणीयचरणाः सुकृतकर्माणः, कपूयचरणाः पापकर्माणः 'अभ्या­शो­ह­यत्' इत्य­व्य­य­स­मु­दा­यस्य क्षिप्रत्वमर्थः । तदेवं - सानुशया अवरोहन्ति - इति स्थितम् ॥

(तृतीये पापिनां स्वर्गे गत्यभावाधिकरणे सूत्राणि - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
चन्द्रं याति न वा पापी ते सर्व इति वाक्यतः ॥
पञ्च­मा­हु­ति­ला­भार्थं भोगाभावेऽपि यात्यसौ ॥ ५ ॥
भोगार्थमेव गम­न­मा­हु­ति­र्व्य­भि­चा­रिणी ॥
सर्वश्रुतिः सुकृतिनां, याम्ये पापिगतिः श्रुता ॥ ६ ॥
"ये वै के चास्मा­ल्लो­का­त्प्र­यन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति" इति श्रव­णा­च्च­न्द्र­लो­काख्ये स्वर्गे पापिनोऽपि गतिरस्ति । यद्यपि - पापिनस्तत्र भोगो न सम्भवति । तथाऽपि पुनरागत्य शरीरग्रहणे पञ्चमाहुतिलाभाय स्वर्ग­ग­ति­र­भ्यु­पेया ॥
इति प्राप्ते, ब्रूमः - भोगार्थमेव हि स्वर्गगमनम् । न पञ्च­मा­हु­ति­ला­भा­र्थम् , पञ्च­मा­हु­ते­र्व्य­भि­चा­रि­त्वात् । द्रोणादीनां योषि­दा­हु­ते­र­भा­वात् , सीतादीनां पुरु­षा­हु­ते­र­प्य­भा­वात् । 'ते सर्वे' इति सर्व श्रुतिस्तु सुकृतिविषया । पापिनां तु यमलोके गतिः श्रुता - "वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्यत" इति । पाप­ज­नै­र्ग­न्तव्यं यमं प्रीणयत इत्यर्थः । तस्मात् - न पापिनां स्वर्गे गतिः ॥

(चतुर्थे स्वर्गावरोहे जीव­स्याऽऽ­का­शा­दि­तु­ल्य­त्वा­धि­क­रणे सूत्राणि - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
विय­दा­दि­स्व­रू­पत्वं तत्साम्यं वाऽवरोहिणः ॥
वायु­र्भू­त्वे­त्या­दि­वा­क्या­त्त­त्त­द्भावं प्रपद्यते ॥ ७ ॥
स्ववत्सूक्ष्मो वायुवशो युक्तो धूमादिभिर्भवेत् ॥
अन्य­स्या­न्य­स्व­रू­पत्वं न मुख्यमुपपद्यते ॥ ८ ॥
स्वर्गा­द­व­रो­ह­प्र­कार एवं श्रूयते - "अथै­त­मे­वा­ध्वानं पुनर्निवर्तते यथेतमाकाशम् , आकाशाद्वायुम् , वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽब्भ्रं भवति, अब्भ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति" इति । यथेतं यथागतं तथेत्यर्थः । अत्र स्वर्गादवरोहतो जीव­स्याऽऽ­का­शा­दि­स्व­रू­पत्वं भवति, 'वायु­र्भूत्वा' इति तत्त­द्भा­व­प्र­ति­पत्तेः श्रुतत्वात् ॥
इति प्राप्ते, ब्रूमः - अन्य­स्या­न्य­स्व­रू­प­त्वा­स­म्भ­वा­दा­का­श­प्र­ति­प­त्ति­र्ना­माऽऽ­का­श­व­त्सौक्ष्म्यं रूपं विवक्षितम् । वायुभावो वायुवशता । धूमादिभावो धूमादिभिः सम्पर्कः - इति निर्णयः ॥

(पञ्चमे स्वर्गादवरोहतां त्वरा­वि­ल­म्बा­धि­क­रणे सूत्रम् - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
व्रीह्यादेः प्राग्विलम्बेन त्वरया वाऽवरोहति ॥
तत्रानियम एव स्यान्नि­या­म­क­वि­व­र्ज­नात् ॥ ९ ॥
दुःखं व्रीह्या­दि­नि­र्या­ण­मिति तत्र विशेषितः ॥
विलम्बस्तेन पूर्वत्र त्वराऽ­र्था­द­व­सी­यते ॥ १० ॥
प्रवर्षणानन्तरं व्रीह्यादिभाव आम्नायते - "त इह व्रीहियवा औष­धि­व­न­स्प­त­य­स्ति­ल­माषा इति जायन्ते" इति । प्रागेतस्माद् व्रीह्या­दि­भा­वा­दा­का­शादौ विल­म्ब­त्व­र­यो­र्नि­या­म­का­भा­वा­द­नि­यतिः ॥
इति प्राप्ते, ब्रूमः - व्रीह्या­दि­भा­व­म­भि­धा­या­न­न्त­रम् "अतो वै खलु दुर्नि­ष्प्र­प­त­रम्" इति 'व्रीह्या­दि­भा­वा­न्नि­र्ग­मनं दुःशकम्' इति ब्रुवती श्रुति­र्व्री­ह्यादौ विलम्बनं विशेषयति । ततोऽर्थात् - 'पूर्वं त्वरा' इत्यवसीयते ॥

(षष्ठे स्वर्गादवरोहतां व्रीह्यादौ संश्लेषाधिकरणे सूत्राणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
व्रीह्यादौ जन्म तेषां स्यात्संश्लोषो वा जनिर्भवेत् ॥
जायन्त इति मुख्य­त्वा­त्प­शु­हिं­सा­दि­पा­पतः ॥ ११ ॥
वैधान्न पापसंश्लेषः कर्म­व्या­पृ­त्य­नु­क्तितः ॥
श्वविप्रादौ मुख्यजनौ चरणव्यापृतिः श्रुता ॥ १२ ॥
आकाशादाविव व्रीह्यादौ न संश्लेषमात्रम् । किन्तु - व्रीह्यादिरूपेण मुख्यं जन्मविवक्षितम् , "जायन्ते" इति श्रवणात् । न च – स्वर्गे सुकृ­त­फ­ल­म­नु­भू­या­व­रो­हतः पापफलरूपस्य स्थाव­र­ज­न्म­नोऽ­स­म्भवः, तद्धेतोः पशु­हिं­सा­दे­र्वि­द्य­मा­न­त्वात् । तस्मात् - मुख्यं जन्म ॥
इति प्राप्ते, ब्रूमः - वैधत्वान्न पशुहिंसादितः पापम् । अतः "जायन्ते" इति श्रुत्या संश्लेषमात्रं विवक्षितम् । न तु मुख्यं जन्म, कर्म­व्या­पा­रा­न­भि­धा­नात् । यत्र तु मुख्यं जन्म व्यवस्थितम् , तत्र कर्म­व्या­पा­र­म­भि­धत्ते - "रम­णी­य­च­रणाः, कपूयचरणाः" इति । तस्मात् - स्वर्गादवरोहतां व्रीह्यादौ संश्लेषमात्रम् - इति स्थितम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां तृतीयाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि ६ ९३
सूत्राणि २७ ३१९

(प्रथमे स्वप्न­सृ­ष्टे­र्मि­थ्या­त्वा­धि­क­रणे सूत्राणि - )
द्वितीयपादे प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
सत्या मिथ्याऽथवा स्वप्नसृष्टिः, सत्या श्रुतीरणात् ॥
जाग्र­द्दे­शा­वि­शि­ष्ट­त्वा­दी­श्व­रे­णैव निर्मिता ॥ १ ॥
देश­का­ला­द्य­नौ­चि­त्या­द्बा­धि­त­त्वाच्च सा मृषा ॥
अभा­वो­क्ते­र्द्वै­त­मा­त्रा­सा­म्या­ज्जी­वा­नु­वा­दतः ॥ २ ॥
"अथ रथान् , रथयोगान् , पथः सृजते" इति श्रुत्या स्वप्ने रथादीनां सृष्टिरीरिता । अतो विय­दा­दि­सृ­ष्टि­व­द्व्य­व­हा­र­द­शायां सत्या भवितुमर्हति । न च – जाग्रद्देशस्य स्वप्नदेशस्य च कञ्चिद्विशेषं पश्यामः । तत्काले भोजनादीनां तृप्त्या­द्य­र्थ­क्रि­या­का­रि­त्वात् । अतो - विमता सृष्टिः सत्या, ईश्वरकर्तृवात् , विय­दा­दि­सृ­ष्टि­वत् ॥
इति प्राप्ते, ब्रूमः - स्वप्न­सृ­ष्टि­र्मृषा । कुतः - तदु­चि­त­दे­श­का­ला­द्य­स­म्भ­वात् । न हि केश­स­ह­स्रां­श­प­रि­मि­त­ना­डी­मध्ये गिरि­न­दी­स­मु­द्रा­दी­ना­मु­चितो देशोऽस्ति, महानिशीथे शयानस्य सूर्यग्रहणोचितः कालोऽस्ति । नापि - अनुपनीतस्य बालस्य पुत्रो­त्स­वा­दि­ह­र्ष­नि­मि­त्ता­न्यु­चि­तानि । किञ्च - स्वप्नो­प­ल­ब्धानां पदार्थानां स्वप्न एव बाधो दृश्यते - कदा­चि­त्त­रु­त्वे­ना­व­सी­य­मानः पदार्थस्तदैव गिरित्वेनावसितो भवति । यदुक्तम् - 'स्वप्न­सृष्टिं श्रुति­र्ब्रूते' इति । तत्र साऽपि श्रुति­र­भा­व­पू­र्वि­का­मेव सृष्टिमाह – "न तत्र रथाः, न रथयोगाः, न पन्थानो भवन्ति । अथ रथान् , रथयोगान् , पथः सृजते" इति । अतो 'वस्तु­तोऽ­सन्तो रथाद्याः शुक्ति­का­र­ज­त­व­द­व­भा­सन्ते" इति श्रुतेरभिप्रायः । यदपि - जाग्र­त्सा­म्य­मु­क्तम् । तदप्यप्रयोजकम् , अनु­चि­त­दे­श­का­ला­दे­र्भू­यसो वैष­म्य­स्यो­क्त­त्वात् । यदपि - ईश्व­र­नि­र्मि­त­त्व­मु­क्तम् । तदप्यसत् , "य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मि­माणः" इति जीवस्यैव स्वप्न­नि­र्मा­तृ­त्वेन श्रुत्याऽ­नू­द्य­मा­न­त्वात् । तस्मात् - स्वप्न­सृ­ष्टि­र्मृषा ॥

(द्वितीये सुषुप्तौ जीवस्य हृत्स्थ­ब्र­ह्म­णै­क्या­धि­क­रणे सूत्रे - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
नाडी­पु­री­त­द्ब्र­ह्माणि विकल्प्यन्ते सुषुप्तये ॥
समुच्चितानि वैका­र्थ्या­द्वि­क­ल्प्यन्ते यवादिवत् ॥ ३ ॥
समुच्चितानि नाडीभिरूपसृप्य पुरीतति ॥
हृत्स्थे ब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता ॥ ४ ॥
"आसु तदा नाडीषु सृप्तो भवति" इति श्रुतौ सुषुप्तिकाले नाडीप्रवेशो गम्यते "ताभिः प्रत्यवसृप्य पुरीतति शेते" इति श्रुतौ पुरीतति तदाश्रितत्वं प्रतीयते । "य एषोऽन्तर्हृदय आक­श­स्त­स्मि­ञ्छेते" इति श्रुत्य­न्त­रा­दा­का­श­श­ब्द­वा­च्य­ब्र­ह्मा­श्रि­तत्वं प्रतीयते । तान्येतानि नाड्या­दि­स्था­नानि विकल्पितानि भवितुमर्हन्ति, एकप्रयोजनत्वात् । यथा "व्रीहि­भि­र्य­जेत, यवैर्यजेत" इत्यत्र पुरो­डा­श­नि­ष्पा­द­क­त्वस्य प्रयो­ज­न­स्यै­क­त्वेन विकल्प आश्रितः । तथा - अत्रापि सुषुप्त्याख्यं प्रयोजनमेकम् । तस्मात् - 'कदा­चि­त्पु­री­तति स्वपिति, कदाचिन्नाडीषु स्वपिति, कदा­चि­द्ब्र­ह्मणि' इति नाड्यादीनां विकल्पः ॥
इति प्राप्ते, ब्रूमः - एक­प्र­यो­ज­न­त्व­म­सि­द्धम् । पृथगुपयोगस्य सुवचत्वात् । तथाहि - नाड्य­स्ता­व­च्च­क्षु­रा­दिषु सञ्चरतो जीवस्य हृदयनिष्ठं ब्रह्म गन्तुं मार्गभूता भविष्यन्ति । अत एव श्रुत्यन्तरे "ताभिः प्रत्य­व­सृप्य" इति तृतीयया साधनत्वं नाडीनां श्रुतम् । हृदयवेष्टनरूपं तु पुरी­त­त्प्रा­सा­द­व­दा­व­रकं भविष्यति । ब्रह्म तु मञ्चकवदाधारः । अतो यथा द्वारेण प्रविश्य प्रासादे पर्यङ्के शेते, तथा नाडीभिः प्रत्यवसृप्य पुरीतति ब्रह्मणि जीवः शयिष्यते, इत्यु­प­का­र­भे­दा­न्ना­ड्या­दीनां समुच्चयः । सुषुप्तौ ब्रह्मणि जीवावस्थाने कुत आधाराधेयभावो न प्रतिभाति - इति चेत् । 'एकी­भा­वात्' इति ब्रूमः । यथा - सोद­क­कु­म्भ­स्त­डा­ग­जले प्रक्षिप्तो मग्नो न पृथग्भाति, तथा - अन्तः करणोपाधिको जीव आवरकाज्ञानसहिते ब्रह्मणि मग्नत्वान्न पृथगवभासते । अत एव श्रुत्यन्तरे सुषुप्तौ जीवस्य ब्रह्मणा सह तादा­त्म्य­प्र­ति­प­त्ति­माह – "सता सोम्य तदा सम्पन्नो भवति" इति । यस्तु विक­ल्प­स्त्व­योक्तः । सोऽष्ट­दो­ष­ग्र­स्त­त्वा­द­नु­प­पन्नः । तथाहि - यदा जीवो नाडीषु सुप्तो भवति, तदा पुरी­त­द्ब्र­ह्म­वा­क्ययोः प्राप्तं प्रामाण्यं परित्यक्तव्यं स्यात् , अप्राप्तं चाप्रामाण्यं स्वीक्रियेत । यदा - पुनः पुरीतद्बह्मणोः शेते, तदा पुरी­त­द्ब्र­ह्म­वा­क्ययोः पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत, पूर्वं स्वीकृतं चाप्रामाण्यं परित्यज्येत, इति प्राप्त­प­रि­त्यागः, अप्रा­प्त­स्वी­कारः, त्यक्तस्वीकारः, स्वीकृ­त­प­रि­त्या­गश्च, इति दोषचतुष्टयं पुरी­त­द्ब्र­ह्म­वा­क्य­कोटौ । तथा नाडी­वा­क्य­को­ट्या­मपि दोषचतुष्टये योजिते सत्यष्टौ दोषाः सम्पद्यन्ते । तस्मात् - समुच्चय एव ग्राह्यः, नतु विकल्पः ॥

(तृतीये सुप्तस्यैव जागरणाधिकरणे सूत्रम् - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
यः कोऽप्य­नि­य­मे­नात्र बुध्यते सुप्त एव वा ॥
उद­बि­न्दु­रि­वा­श­क्ते­र्नि­यन्तुं कोऽपि बुध्यते ॥ ५ ॥
कर्मा­वि­द्या­प­रि­च्छे­दा­दु­द­बि­न्दु­वि­ल­क्षणः ॥
स एव बुध्यते शास्त्रा­त्त­दु­पाधेः पुनर्भवात् ॥ ६ ॥
यथा समुद्रे प्रक्षिप्तो (यो) जलबिन्दुः, स एव नियमेन पुन­रु­द्ध­र्तु­म­शक्यः । तथा सुषुप्तौ ब्रह्म प्राप्तो (यो) जीवः, स एव बुध्यत इति निय­न्तु­म­श­क्य­त्वात् - यः कोऽपि बुध्यते ।
इति प्राप्ते, ब्रूमः - विषम उपन्यासः । 'चिद्रूपो जीवः कर्मा­वि­द्या­वे­ष्टितो ब्रह्मणि निमज्जति । उद­बि­न्दु­स्त्व­वे­ष्टितः' इति वैषम्यम् । यथा गङ्गो­द­क­प­रि­पूर्णः पिहितद्वारः काञ्चनकुम्भः समुद्रे निक्षिप्तः पुनरुद्धियते, तत्रत्यं गङ्गाजलं तदेव पुनर्विवेक्तुं शक्यते, तथा स एव जीवः प्रतिबुध्यताम् । अत एव श्रुतिराह – "त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति" इति । 'व्याघ्रा­दयो ये जीवाः सषुप्तेः पूर्वं यच्छरीरं प्राप्य वर्तन्ते, त एव जीवाः सुषुप्तेरुपरि प्रबु­ध्य­मा­ना­स्त­देव शरीरं प्राप्नु­वन्ति' इत्यर्थः न च – सुषुप्तौ ब्रह्म प्राप्तस्य जीवस्य मुक्त­व­त्पु­न­रु­द्भ­वा­नु­प­पत्तिः, अव­च्छे­द­क­स्यो­पाधेः सत्त्वेन तदुद्भवे जीवो­द्भ­व­स­म्भ­वात् । तस्मात् - यः सुप्तः स एव प्रतिबुध्यते ॥

(चतुर्थे मूर्छाया अव­स्था­न्त­र­ता­धि­क­रणे सूत्रम् - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
किं मूर्छैका जाग्रदादौ किंवाऽ­व­स्था­न्तरं भवेत् ॥
अन्याऽवस्था न प्रसिद्धा तेनैका जाग्रदादिषु ॥ ७ ॥
न जाग्र­त्स्व­प्न­यो­रेका द्वैताभानान्न सुप्तता ॥
मुखा­दि­वि­कृ­ते­स्ते­ना­व­स्थाऽन्या लोकसंमता ॥ ८ ॥
जाग्र­त्स्व­प्न­सु­षु­प्ति­भ्योऽ­न्यस्या अवस्थाया अप्र­सि­द्ध­त्वा­न्मू­र्छाया जाग्र­दा­दा­व­न्त­र्भावः ॥
इति प्राप्ते, ब्रूमः - परि­शे­षा­द­व­स्था­न्त­र­म­भ्यु­पे­यम् । न ताव­ज्जा­ग्र­त्स्व­प्न­यो­र­न्त­र्भावः द्वैत­प्र­ती­त्य­भा­वात् । नापि सुषुप्तौ, विलक्षणत्वात् । सुप्तः पुमा­न्प्र­स­न्न­व­दनः समश्वासो निष्कम्पशरीरो भवति, मूर्छितस्तु विकृतमुखो विषमश्वासः शरी­र­क­म्पा­दि­युक्तः । यद्यपि जाग्र­दा­दि­व­द्दै­न­न्दि­न­त्वा­भा­वान्न मूर्छाया बालकादिषु प्रसिद्धिरस्ति, तथाऽपि कादाचित्कीं मूर्छावस्थां विज्ञाय वृद्धा­श्चि­कि­त्सन्ते । तस्मात् - अन्येयमवस्था ॥
तदे­व­म­धि­क­र­ण­च­तु­ष्ट­येन त्वम्पदार्थः शोधितः । तत्र स्वप्न­सृ­ष्टे­र्मि­थ्या­त्वेन सुख­दुः­ख­क­र्तृ­त्वा­द्य­व­भा­सेऽपि जीवोऽसङ्ग एवेति शोधितम् । सुषुप्तौ ब्रह्मैक्येन तदे­वा­स­ङ्ग­त्व­म­नु­भा­वि­तम् । तस्यैव पुनः प्रति­बो­धे­ना­नि­त्य­त्वा­शङ्का निराकृता । मूर्छाविचारेण श्वासा­दि­स­र्व­व्य­व­हा­र­लो­पेऽपि मरणे जीवनाशो नाऽऽशङ्कनीयः इति दर्शितम् ॥

(पञ्चमे ब्रह्मणो नीरूपत्वाधिकरणे सूत्राणि - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
ब्रह्म किं रूपि चारूपं भवेन्नीरूपमेव वा ॥
द्विवि­ध­श्रु­ति­स­द्भा­वा­द्ब्रह्म स्यादुभयात्मकम् ॥ ९ ॥
नीरूपमेव वेदान्तैः प्रति­पा­द्य­म­पू­र्वतः ॥
रूपं त्वनूद्यते भ्रान्तमुभयत्वं विरुध्यते ॥ १० ॥
"तदे­त­च्च­तु­ष्पा­द्ब्रह्म" इत्यादिश्रुतयो रूपवद्ब्रह्म प्रतिपादयन्ति । "अस्थू­ल­म­नणु" - इत्यादिश्रुतयो नीरूपम् । तस्मात् - वस्तुत उभयात्मकं ब्रह्म ॥
इति प्राप्ते, ब्रूमः - नीरूपमेव शास्त्र­प्र­ति­पा­द्यम् , माना­न्त­रा­सि­द्ध­त्वात् । जग­त्क­र्तृ­त्वा­दि­रू­प­युक्तं तु ब्रह्म 'क्षित्या­दिकं सकर्तृकं कार्य­त्वात्' इत्य­नु­मा­ने­ना­प्य­व­गन्तुं शक्यते । अत एवो­पा­स­ना­या­नू­द्यते, न तु तात्पर्येण प्रतिपाद्यते । न च - अनु­मा­न­शा­स्त्र­सि­द्ध­यो­रु­भ­यो­र्वा­स्त­व­त्वम् , एकस्मिन्वस्तुनि सरू­प­त्व­नी­रू­प­त्व­यो­र्वि­रु­द्ध­त्वात् । तस्मात् - अता­त्प­र्य­वि­ष­यस्य सरूपत्वस्य भ्रान्त­त्वा­न्नी­रू­प­मेव वस्तुतो ब्रह्म ॥

(षष्ठे ब्रह्मणो निरा­क­र­णा­वि­ष­य­त्वा­धि­क­रणे सूत्राणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
ब्रह्मापि नेति नेतीति निषिद्धमथवा न हि ॥
द्विरुक्त्या ब्रह्मजगती निषिध्येते उभे अपि ॥ ११ ॥
वीप्से­य­मि­ति­श­ब्दोक्ता सर्व­दृ­श्य­नि­षि­द्धये ॥
अनिदं सत्यसत्यं च ब्रह्मैकं शिष्यतेऽवधिः ॥ १२ ॥
"द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च" इत्ये­त­स्मि­न्ब्रा­ह्मणे महता प्रबन्धेन पृथि­व्य­प्ते­जो­ल­क्षणं र्मूतरूपम्, वाय्वा­का­श­ल­क्ष­ण­म­मू­र्त­रूपं प्रपञ्च्य तदन्ते ब्रह्मो­प­दे­ष्टु­मि­द­मु­क्तम् - "अथात आदेशो नेति नेति" इति । अस्यायमर्थः - 'अथ रूप­द्व­य­क­थ­ना­न­न्त­र­म­रू­पिणो ब्रह्मणो वक्तव्यत्वात् 'नेति, नेति' इत्ययं ब्रह्मो­प­देशः' इति । तत्र पूर्वपक्षी मन्यते - प्रथमनेतिशब्देन जगत एकस्यैव निषेध्यत्वे द्वितीयो 'नेति' शब्दो निरर्थकः स्यात् । अतो द्वितीयेन ब्रह्मापि निषिध्यते ॥
इति प्राप्ते, ब्रमः - न तावद्वितीयस्य निषेधस्य वैयर्थ्यम् , वीप्सार्थत्वात् । सत्यां च वीप्सायां यद्यद्दृृश्यते, इति शब्द­नि­र्दे­शार्हं च, तत्सर्वं ब्रह्म न भवति - इति निषिद्धं भविष्यति । विना तु वीप्सामेकेन नकारेण मूर्तामूर्तयोः प्रकृ­त­त्वे­ने­ति­श­ब्द­नि­र्दे­शा­र्ह­यो­र्नि­षेधे सति मूर्ताद्यभावस्य मूलाज्ञानस्य चानि­षि­द्ध­त्वा­त्त­यो­र्ब्र­ह्मत्वं प्रसज्येत । ननु - सत्यामपि वीप्सा­या­म­स्त्येव दोषः, वीप्साया निर­ङ्कु­श­त्वा­द्‌ब्र­ह्मापि निषिध्यते - इति । तन्न, ब्रह्मणो दृश्यत्वाभावेन निषे­ध्य­स­म­र्प­के­ति­श­ब्दा­न­र्ह­त्वात् । किञ्च – "अथात आदेशः" इति महता संभ्रमेण ब्रह्मोपदेष्टुं प्रतिज्ञाय तदेव ब्रह्म निषेधन्ती श्रुतिः कथं न व्याहन्येत । वाक्यशेषश्च न ब्रह्मनिषेधे सङ्गच्छते । वाक्यशेषे च "अथ नामधेयं सत्यस्य सत्यम्" इत्यादिना विवक्षितस्य ब्रह्मणो लौकि­क­स­त्या­द्गि­रि­न­दी­स­मु­द्रा­दे­र­धि­क­मा­त्य­न्तिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम् । सर्वनिषेधपक्षे सर्व­म­प्ये­त­त्क­द­र्थितं स्यात् । तस्मात् - न ब्रह्म निषिध्यते ॥

(सप्तमे ब्रह्मा­ति­रि­क्त­व­स्तु­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
वस्त्व­न्य­द्ब्र­ह्मणो नो वा विद्यते ब्रह्मणोऽधिकम् ॥
सेतु­त्वो­न्मा­न­व­त्त्वाच्च सम्ब­न्धा­द्भे­द­व­त्त्वतः ॥ १३ ॥
धार­णा­त्से­तु­तो­न्मा­न­मु­पास्त्यै भेदसङ्गती ॥
उपा­ध्यु­द्भ­व­ना­शाभ्यां नान्य­द­न्य­नि­षे­धतः ॥ १४ ॥
यदेतद्ब्रह्म "नेति नेति" इति दृश्यप्रतिषेधेन व्यवस्थापितम् , तस्मादपि ब्रह्म­णोऽ­न्य­द्व­स्त्वस्ति - इत्य­भ्यु­प­ग­न्त­व्यम् । कुतः - सेतु­त्वा­दि­व्य­प­दे­शेभ्यः । "अथ य आत्मा स सेतु­र्वि­धृतिः" इति सेतुत्वं व्यपदिश्यते । तत्र यथा लोके पारा­वा­र­वा­ञ्ज­लस्य विधारकः सेतुः, तं च सेतुं तीर्त्वा द्वितीयं जाङ्गलं प्रतिपद्यते । तथा - ब्रह्मणोऽपि सेतुत्वेन जग­द्वि­धा­र­क­त्वा­द्ब्रह्म तीर्त्वा गन्तव्येनान्येन केन­चि­द्भ­वि­त­व्यम् । तथा - उन्मा­न­व्य­प­दे­शोऽपि ब्रह्मणः श्रूयते - "चतु­ष्पा­द्ब्रह्म, षोडशकलं ब्रह्म" इति । तच्चोन्मानं सद्वितीये गवादौ दृष्टचरम् , न त्वद्वितीये कुत्रचित् । तथा - सम्ब­न्ध­व्य­प­दे­शोऽपि ब्रह्मणः श्रूयते - "सता सोम्य तदा सम्पन्नो भवति" इति । स च सम्बन्धः सद्रू­पा­द्ब्र­ह्म­णोऽ­न्यस्य विद्य­मा­न­ता­या­म­व­क­ल्प्यते । तथा - "आत्मा वा अरे द्रष्टव्यः" इति द्रष्टृ­द्र­ष्ट­व्य­भे­द­व्य­प­दे­शोऽपि । तस्मात् - नाद्वितीयं ब्रह्म ॥
इति प्राप्ते, ब्रूमः - न तावद्ब्रह्मणः सेतुत्वं मुख्यं सम्भवति, मृद्दा­रु­म­य­त्व­प्र­स­ङ्गात् । केन­चि­त्से­तु­सा­मा­न्येन सेतु­त्व­वि­व­क्षायां विधारकत्वमात्रं विवक्षितम् । न तु - सद्वितीयत्वम् , "सेतु­र्वि­धृतिः" इति श्रवणात् । उन्मानं तूपास्त्यै व्यपदिश्यते, तत्प्रकरणत्वात् । न तु तत्त्वा­व­बो­धा­र्थम् । भेद­व्य­प­दे­श­श्चो­पा­ध्यु­द्भ­व­म­पेक्ष्य घटा­का­श­म­हा­का­श­व­दु­प­प­द्यते । सम्ब­न्ध­व्य­प­दे­श­श्चो­पा­धि­ना­श­म­पेक्ष्य घटभङ्गे घटा­का­श­म­हा­का­श­व­दु­प­च­र्यते । तस्मात् - ब्रह्म­व्य­ति­रि­क्त­व­स्तु­सा­ध­क­हे­तू­ना­म­न्य­था­सि­द्ध­त्वात् "एक­मे­वा­द्वि­तीयं ब्रह्म" इत्य­न्य­व­स्तु­नि­षे­धा­च्चा­द्वि­ती­य­मेव ब्रह्म ॥

(अष्टमे कर्मा­रा­धि­ते­श्व­र­स्यैव फल­दा­तृ­त्वा­धि­क­रणे सूत्राणि - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
कर्मैव फलदं यद्वा कर्माराधित ईश्वरः ॥
अपू­र्वा­वा­न्त­र­द्वारा कर्मणः फलदातृता ॥ १५ ॥
अचे­त­ना­त्फ­ला­सूतेः शास्त्री­या­त्पू­जि­ते­श्व­रात् ॥
कालान्तरे फलो­त्प­त्ते­र्ना­पू­र्व­प­रि­क­ल्पना ॥ १६ ॥
अनु­क्ष­ण­वि­ना­शि­नोऽपि कर्म­णोऽ­पू­र्व­व्य­व­धा­ने­नापि काला­न्त­र­भा­वि­फ­ल­दा­तृ­त्व­स­म्भ­वा­दी­श्व­र­क­ल्पने गौरवम् ॥
इति प्राप्ते, ब्रूमः - अचेतनस्य कर्मणोऽपूर्वस्य वा तारतम्येन प्रतिनियतं फलं दातुं न सामर्थ्यमस्ति, लोके सेवा­दि­क्रि­या­या­म­चे­त­नायां तददर्शनात् । ततः सेवि­त­रा­ज­व­त्पू­जि­ते­श्व­रा­त्फ­ल­सि­द्धि­र­भ्यु­पेया । न च - कल्पनागौरवम् , शास्त्र­सि­द्ध­त्वे­ने­श्व­रस्या कल्पनीयत्वात् । "एष ह्येव साधु कर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषति । एष उ एवासाधु कर्म कारयति तम् , यमधो निनीषते" इति श्रुति­री­श्व­र­स्यैव धर्माधर्मयोः फलदातृत्वम् , तत्कारयितृत्वं चाभिदधाति । सति चेश्वरस्य प्रामाणिकत्वे तवैव प्रत्यु­ता­श्रु­त­स्या­पू­र्वस्य कल्पने गौरवं भवेत् । तस्मात् - कर्मभिराराधित ईश्वरः फलदाता ॥
तदे­व­म­धि­क­र­ण­च­तु­ष्ट­येन तत्पदार्थः शोधितः । तत्र प्रथमेन ब्रह्मणो नीरूपत्वम् , द्वितीयेन निषेधाविषयत्वम् , तृती­ये­ना­द्वि­ती­य­त्वम् , चतुर्थे न व्यवहारदशायां कर्मफलदातृत्वम् , शाखा­ग्र­च­न्द्र­न्या­ये­नो­प­ल­क्ष­ण­त्वाय प्रतिपादितम् । इत्येवं तत् - त्वम्पदार्थौ शोधितौ इति स्थितम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां
वैया­सि­क­न्या­य­मा­लायां तृतीयाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ८ १०१
सूत्राणि ४१ ३६०

(प्रथमे सर्व­वे­दा­न्त­प्र­त्य­यो­पा­स­नाया एकत्वाधिकरणे सूत्राणि - )
तृतीयपादस्य प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
सर्व­वे­दे­ष्व­ने­क­त्व­मु­पा­स्ते­र­थ­वै­कता ॥
अनेकत्वं कौथु­मा­दि­ना­म­ध­र्म­वि­भे­दतः ॥ १ ॥
विधि­रू­प­फ­लै­क­त्वा­दे­कत्वं नाम न श्रुतम् ॥
शिरो­व्र­ता­ख्य­ध­र्मस्तु स्वाध्याये स्यान्न वेदने ॥ २ ॥
छान्दो­ग्य­बृ­ह­दा­र­ण्य­कयोः - पञ्चा­ग्न्यु­पा­स­न­मा­म्ना­यते । तदेकं न भवति । नाम भेदात् । 'कौथु­मम्' इति च्छान्दो­ग्य­ग­तस्य नाम, 'वाज­स­ने­य­कम्' इति बृहदारण्यकगतस्य नाम । तथोपासनान्तरेषु योजयितव्यम् । धर्म­भे­दोऽ­प्यु­पा­स­ना­भे­द­ग­मकः शिराव्रतलक्षणो मुण्ड­क­व्र­त­शा­खायां श्रूयते - "तेषा­मे­वैतां ब्रह्मविद्यां वदेत् , शिरोव्रतं विधिवद्यैस्तु चीर्णम्" इति । शिरोव्रतं नाम वेदव्रतविशेष आथ­र्व­णि­का­न्प्रति विहितो, नेतरान्प्रति । तस्मात् - शाखा­भे­दा­दु­पा­स­ना­भेदः ॥
इति प्राप्ते, ब्रूमः - शाखाभेदेऽपि विद्या­द्य­भे­दा­दु­पा­सनं न भिद्यते । तथा च च्छान्दोग्ये - "यो ह वै ज्येष्ठं च श्रेष्ठं च वेद" इति यादृशः प्राण­वि­द्या­विधिः, तादृश एव बृह­दा­र­ण्य­केऽ­प्या­म्ना­यते । तथा - द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षि­दा­ख्य­म­ग्नि­प­ञ्चकं वेद्यतया । पञ्चा­ग्नि­वि­द्यायां यत्स्वरूपम् , तदुभयोरपि शाखयोः समानम् । फलं च "ज्येष्ठश्च ह वै श्रेष्ठश्च भवति" इत्येवंरूपं प्राणो­पा­स्ति­जन्यं शाखा­द्व­येऽ­प्ये­क­वि­धम् । यस्तु कौथुमादिनामभेद उदाहृतः, नासौ श्रुत्याऽभिहितः । किं तर्हि - अध्येतार एव केवलं तत्त­च्छा­खा­प्र­व­र्त­क­मु­नि­नाम्ना तं तं वेदं व्याहरन्ति । योऽपि शिरो­व्र­ता­ख्य­ध­र्म­भेद उक्तः, सोऽप्यध्ययनविषय एव । नतूपास्तिविषयः, "नैत­द­ची­र्ण­व्र­तोऽ­धीते" इत्य­ध्य­य­न­ध­र्म­त्वा­व­ग­मात् । तस्मात् - ऐक्य­हे­तु­स­द्भा­वात् , भेदहेत्वभावाच्च न शाखाभेदादुपासनं भिद्यते ॥

(द्वितीये शाखा­न्त­रो­क्त­स्या­प्यु­प­सं­हा­रा­धि­क­रणे सूत्रम् - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
एको­पा­स्ता­व­ना­हार्या आहार्या वा गुणाः श्रुतौ ॥
अनु­क्त­त्वा­द­ना­हार्या उपकारः श्रुतैर्गुणैः ॥ ३ ॥
श्रुत­त्वा­द­न्य­शा­खा­या­मा­हार्या अग्निहोत्रवत् ॥
विशि­ष्ट­वि­द्यो­प­कारः स्वशाखोक्तगुणैः समः ॥ ४ ॥
वाजसनेयके - प्राण­वि­द्या­या­म­धिको गुणो रेतआख्यः श्रुतः - "रेतो होच्च­क्राम" इति । नासौ छान्दोग्ये - प्राण­वि­द्या­या­मु­प­सं­ह­र्तव्यः, अत्रा­नु­क्त­त्वात् । विद्यो­प­का­र­स्त्वत्र श्रुतैरेव प्राण­वा­गा­दि­भि­र्गु­णै­र्भ­वि­ष्यति ॥
इति प्राप्ते, ब्रूमः - एत­च्छा­खा­या­म­श्र­व­णेेऽपि शाखान्तरे श्रुत­त्वा­दु­प­सं­हार्य एव । अग्नि­हो­त्रा­द्य­नु­ष्ठा­नेषु शाखा­न्त­रो­क्त­गु­ण­यु­क्त­त­यै­वा­नु­ष्ठा­न­द­र्श­नात् । न च – स्वशा­खो­क्त­गु­णै­रेव विद्यो­प­का­र­सिद्धौ गुणोपसंहारो निरर्थकः - इति वाच्यम्, 'कर्म­भू­य­स्त्वा­त्फ­ल­भू­य­स्त्वम्' इति न्यायेन स्वशा­खो­क्त­गु­ण­व­त्प­र­शा­खो­क्त­गु­णा­ना­म­प्यु­प­का­र­क­त्वात् । तस्मात् - गुणोपसंहारः कर्तव्यः ॥

(तृतीये, उद्गीथविद्याया भिन्नताधिकरणे सूत्राणि - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
एका भिन्नाऽ­थ­वो­द्गी­थ­विद्या छान्दो­ग्य­का­ण्वयोः ॥
एका स्यान्ना­म­सा­मा­न्या­त्स­ङ्ग्रा­मा­दि­स­म­त्वतः ॥ ५ ॥
उद्गी­था­व­य­वो­ङ्कार उद्गा­ते­त्यु­भ­यो­र्भिदा ॥
वेद्य­भे­देऽ­र्थ­वा­दा­दि­सा­म्य­म­त्रा­प्र­यो­ज­कम् ॥ ६ ॥
'उद्गी­थ­विद्या' इति समाख्याया एक­त्वा­च्छा­न्दो­ग्य­का­ण्व­शा­ख­यो­र्वि­द्यै­क्य­मु­चि­तम् । अथ समाख्या न श्रौती, तथाऽपि - श्रौताः सङ्ग्रामादय उभयत्र समानाः । तथाहि - छान्दोग्ये देवासुरभावं क्रमेण सात्त्वि­के­न्द्रि­य­वृ­त्तीनां ताम­से­न्द्रि­य­वृ­त्तीनां चाङ्गीकृत्य तत्सङ्ग्रामं निरूप्य वागा­दि­दे­वा­ना­म­सु­र­वि­द्ध­त्व­मुक्त्वा प्राणस्यैव तद­वि­द्ध­त्व­मु­क्तम् । एतत्सर्वं काण्ववेदेऽपि समानम् । तस्मात् - उभयत्र विद्यैक्यम् ॥
इति प्राप्ते, ब्रूमः - भिन्ने­य­मु­द्गी­थ­विद्या वेद्य­स्व­रू­प­भि­न्न­त्वात् । छान्दोग्ये ताव­त्सा­म­भा­ग­वि­शे­ष­स्यो­द्गी­थ­स्या­व­यव ओङ्कारः । स एव प्राण­दृ­ष्ट्यो­पा­स­नीयः । काण्ववेदेतु कृत्स्नो­द्गी­थ­भ­क्तेर्य उद्गाता वागि­न्द्र­य­प्रे­रकः प्राणः, स उद्गा­तृ­त्वे­नो­पास्य इति वेद्यभेदः । यत्तु - सङ्ग्रा­मा­दि­सा­म्य­मु­क्तम् । तदप्रयोजकम् , अर्थवादत्वात् । यदपि प्राण­स्या­सु­र­वि­द्ध­त्वा­भा­वेन श्रेष्ठत्वम् । तद्य­द्य­प्यु­पा­स्यम् , तथाऽप्युक्तस्य वेद्य­भे­द­स्या­नि­रा­क­र­णात् - भिन्नै­वो­द्गी­थ­विद्या ॥

(चतुर्थे, उद्गी­थ­स्यो­ङ्का­र­वि­शे­ष­ण­त्वा­धि­क­रणे सूत्रम् - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
किमध्यासोऽथवा बाध ऐक्यं वाऽथ विशेष्यता ॥
अक्षरस्यात्र मास्त्यैक्यं नियतं हेत्वभावतः ॥ ७ ॥
वेदेषु व्याप्त ओङ्कार उद्गीथेन विशेष्यते ॥
अध्यासादौ फलं कल्प्यं संनि­कृ­ष्टां­श­ल­क्षणा ॥ ८ ॥
"ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत" इत्य­क्ष­रो­द्गी­थयोः सामानाधिकरण्यं श्रूयते । तत्र चतुर्धा संशयः । तथाहि - "नाम ब्रह्मे­त्यु­पा­सीत" इत्यत्र नाम्नि ब्रह्म­दृ­ष्ट्य­ध्या­साय सामानाधिकरण्यं श्रुतम् । तथा - बाधा­दि­ष्व­प्यु­दा­ह्नि­यते । "यश्चौरः स स्थाणुः" इति चौरत्वस्य बाधः । "यो जीव­स्त­द्ब्रह्म" इत्येकत्वम् । 'यन्नीलं तदुत्पलम्' इति विशेष्यता । अतोऽक्षरस्य चतुर्धा सन्देहे सति 'इद­मेव' इत्यत्र नास्त्य­ध्य­व­सायः, नियामकस्य हेतोरभावात् ॥
इति प्राप्ते, ब्रूूमः - अक्ष­र­स्यो­द्गी­थेन विशेष्यता नियन्तुं शक्यते । ओङ्कारो हि ऋग्यजुःसामसु त्रिषु पठ्यते । तत्र 'कस्यो­पा­स्य­त्वम्' इत्यपेक्षायाम् , 'उद्गी­थ­भा­ग­स्थि­तस्य, न त्वितरस्य' इति सामवेदगतस्य विशेषणीयत्वात् । अध्या­स­बा­धै­क्य­प­क्षेषु फलमपि कल्पनीयं प्रसज्येत, स्वत­न्त्रो­पा­स­न­त्वेन फल­स्याऽऽ­का­ङ्क्षि­त­त्वात् । विशेषणपक्षे तु वक्ष्य­मा­ण­र­स­त­म­त्वा­दि­गु­णो­पा­स­नाय प्रती­क­त्वे­नो­ङ्कार उद्गीथेन विशेष्यते न तु स्वत­न्त्र­मु­पा­स­नम् । ततो न पृथक्फलं कल्पनीयम् । ननु - उद्गीथशब्दः कृत्स्न­भ­क्ति­वा­चकः । अोङ्कारस्तु तदवयवः । एवं चोङ्कारं विशे­ष्टु­मु­द्गी­थ­श­ब्देन तदंशलक्षणा स्वीकरणीया स्यात् । बाढम् । तथाऽ­प्य­ध्या­स­प­क्षा­त्स­मी­चीनो विशेषणपक्षः । अध्यासपक्षे तु यथा विष्णुशब्दः स्वार्थं सर्वं परि­त्य­ज्या­र्था­न्त­र­भूतां शिलाप्रतिमां लक्षयति, तथो­द्गी­थ­श­ब्दोऽ­पीति विप्रकर्षः । अंशलक्षणायां तु स्वार्थै­क­दे­श­स्यैव परित्याग इति संनिकर्षः । अोङ्का­रा­दि­त­र­द­क्ष­र­जातं यदस्ति सोऽयं परि­त्य­क्त­व्य­स्त­दे­क­देशः । तस्मात् - वेदा­न्त­र­ग­तो­ङ्का­र­व्या­वृ­त्त्य­र्थ­मु­द्गी­था­व­य­व­त्वे­नै­त­द­क्षरं विशिष्यते ॥

(पञ्चमे वसि­ष्ठ­त्वा­दी­ना­मा­हा­र्य­ता­धि­क­रणे सूत्रम् - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
वसि­ष्ठ­त्वा­द्य­ना­हा­र्य­मा­हार्यं वैवमित्यतः ॥
उक्तस्यैव परा­म­र्शा­द­ना­हा­र्य­म­नु­क्तितः ॥ ९ ॥
प्राणद्वारेण बुद्धिस्थं वसिष्ठत्वादि तेन तत् ॥
एवं­श­ब्द­प­रा­म­र्श­यो­ग्य­मा­हा­र्य­मि­ष्यते ॥ १० ॥
प्राणविद्यायां छन्दोगाः काण्वाश्च वसि­ष्ठ­त्व­प्र­ति­ष्ठा­दि­का­न्गु­णा­ना­म­नन्ति, न त्वैत­रे­य­क­कौ­षी­त­क्या­दयः । तत्र वसिष्ठत्वादिकं नोपसंहर्तव्यम् । कुतः - "य एवं वेद" इत्येवंशब्देन तत्त­च्छा­खो­क्त­गु­णा­ना­मेव परामर्शात् ॥
इति प्राप्ते, ब्रूमः - उक्तगुणवदनुक्ता अपि गुणा एवं­श­ब्द­प­रा­म­र्श­योग्याः । कुतः - गुणिनः प्राणस्यैकत्वेन तद्द्वारा गुणाना बुद्धिस्थत्वात् । यथा - देवदत्तो मथु­रा­या­म­ध्या­प­य­न्दृष्टः, पुन­र्मा­हि­ष्म­त्या­म­न­ध्या­प­य­न्न­प्य­ध्या­प­क­त्वे­नैव प्रत्यभिज्ञायते । तथा छान्दोग्यादौ वसि­ष्ठ­त्वा­दि­गु­ण­यु­क्त­त­यो­प­लब्धः, पुनरैतरेयादौ केवल उपलभ्यमानोऽपि तद्गु­ण­वि­शि­ष्ट­त­यैव बुद्धिस्थो भवेत् ॥ तस्मात् - एवं­श­ब्द­प­रा­म­र्श­यो­ग्य­त्वा­द्व­सि­ष्ठ­त्वा­दि­क­मु­प­सं­ह­र्त­व्यम् ॥

(षष्ठे, आन­न्दा­दी­ना­मु­प­सं­हा­रा­धि­क­रणे सूत्राणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
नाऽऽहार्या उत वाऽऽहार्या आनन्दाद्या अनाहृतिः ॥
वाम­नी­स­त्य­का­मा­दे­रि­वै­तेषां व्यवस्थितेः ॥ ११ ॥
विधी­य­मा­न­ध­र्माणां व्यवस्था स्याद्यथाविधि ॥
प्रति­प­त्ति­फ­लानां तु सर्वशाखासु संहृतिः ॥ १२ ॥
"आनन्दो ब्रह्म" "सत्यं ज्ञानमनन्तं ब्रह्म" इत्या­न­न्द­स­त्य­त्वा­द­य­स्तै­त्ति­री­यके पर­ब्र­ह्म­वि­द्यायां पठ्यन्ते । ते "प्रज्ञानं ब्रह्म" इत्या­द्यै­त­रे­य­का­दि­प्रो­क्तासु पर­ब्र­ह्म­वि­द्यासु नोपसंहर्तव्याः । वाम­नी­त्वा­दि­व­द्व्य­व­स्थो­प­पत्तेः । "एष उ एव वामनीः, एष उ एव भामनीः" इति काम­ने­तृ­त्व­भा­स­क­त्वा­दयो गुणा उप­को­स­ल­वि­द्या­या­मा­म्नाताः । "सत्यकामः सत्य­स­ङ्कल्पः" इति सत्यकामादयो गुणा दहरविद्यायां समाम्नाताः । तत्र यथा परस्परं गुणानुपसंहारः, एवमानन्दादीनां व्यवस्थाऽस्तु ॥
इति प्राप्ते, ब्रूमः - विषमो दृष्टान्तः । वामनीत्वादिना ध्येयत्वेन विधी­य­मा­न­त्वा­द्य­था­विधि व्यवस्था युक्ता । आनन्दादयस्तु प्रतिपत्तिफला इति न विधीयन्ते । अतो व्यव­स्था­प­क­वि­ध्य­भा­वा­त्प्र­ति­प­त्ति­फ­लस्य सर्वत्र समा­न­त्वा­च्चाऽऽ­न­न्दा­दय उपसंहर्तव्याः ॥

(सप्तमे पुरुषस्यैव ज्ञेयताधिकरणे सूत्रे - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
सर्वा पर­म्प­राऽ­क्षा­दे­र्ज्ञेया पुरुष एव वा ॥
ज्ञेया सर्वा श्रुतत्वेन वाक्यानि स्युर्बहूनि हि ॥ १३ ॥
पुमर्थः पुरुषज्ञानं तत्र यत्नः श्रुतो महान् ॥
तद्बोधाय श्रुतोऽ­क्षा­दि­र्वेद्य एकः पुमांस्ततः ॥ १४ ॥
कठवल्लीषु पठ्यते -
"इन्द्रि­येभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धि­र्बु­द्धे­रात्मा महान्परः ॥
महतः पर­म­व्य­क्त­म­व्य­क्ता­त्पु­रुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति" ।
अस्यायमर्थः - "मनसा विषयानभिलष्य पश्चा­दि­न्द्रि­यै­र्बा­ह्य­न्वि­ष­या­ना­प्नोति" । तत्र बाह्यविषयेभ्य इन्द्रि­या­णा­मा­न्त­र­त्वा­त्प­रत्वं प्रसिद्धम् । इन्द्रि­ये­भ्य­श्चा­भि­ल­ष्य­मा­ण­त्व­द­शा­पन्ना अर्था आन्तराः । तेभ्योऽ­प्य­भि­ला­षा­त्मिका मनो­वृ­त्ति­रा­न्तरा । वृत्तेरपि वृत्तिमती बुद्धिरभ्यन्तरा । बुद्धेरपि बुद्ध्यु­पा­दा­न­भूतो महच्छब्दवाच्यो हैर­ण्य­ग­र्भ­रू­पा­त्माऽऽ­भ्य­न्तरः । महतोऽपि तदु­पा­दा­न­भू­त­म­व्य­क्ताख्यं मूला­ज्ञा­न­मा­भ्य­न्त­रम् । अव्यक्तादपि तद­धि­ष्ठा­न­भू­त­श्चि­द्रूपः पुरुषोऽभ्यन्तरः । पुरुषादभ्यन्तरं न किञ्चिदस्ति । पुरुष एवा­भ्य­न्त­र­ता­र­त­म्यस्य विश्रा­न्ति­भूमिः, 'पुरु­षा­र्थ­कामैः परमो गन्त­व्यश्च' इति । तत्र यथा पुरुषः श्रुत्या तात्पर्येण प्रतिपाद्यः, एव­मि­न्द्रि­या­दि­प­र­म्प­राऽपि प्रतिपाद्यैव । अन्यथा - तदु­प­न्या­स­वै­य­र्थ्यात् । बहूनां प्रतिपादने वाक्यभेदः स्यात् - इति चेत् । बाढम् । सन्त्येव तानि बहूनि वाक्यानि, एक­वा­क्य­त्वा­स­म्भ­वात् ॥
इति प्राप्ते, ब्रूमः - पुरु­ष­ज्ञा­न­स्या­शे­ष­सं­सा­र­नि­दा­न­भू­ता­ज्ञा­न­नि­व­र्त­क­त्वा­त्पु­रुष एव ज्ञेयतया प्रतिपाद्यः । अत एव वाक्यशेषे पुरुषज्ञानायैव महता प्रयत्नेन योग उपदिष्टः -
"एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म­द­र्शिभिः" इति ।
अस्यायमर्थः - 'सर्वा­भ्य­न्त­र­त्वेन गूढोऽयमात्मा बहिर्मुखानां न प्रकाशते । अन्तर्मुखा ये सूक्ष्म­त­त्त्व­द­र्श­न­शी­ला­स्तै­र्यो­गा­भ्या­से­नै­का­ग्र्य­मा­प­न्नया बुद्ध्या सूक्ष्म­व­स्तु­वि­ष­यया द्रष्टुं शक्यते' इति । न च – पुरुषस्यैव प्रतिपाद्यत्वे पर­म्प­रो­प­दे­श­वै­य­र्थ्यम् , बहिर्मुखस्य चित्तस्य पुरुषप्रवेशं प्रति परम्परायाः साधनत्वात् । तस्मात् - पुरुष एव ज्ञातव्यः ॥

(अष्टमे, ईश्व­र­स्यै­वाऽऽ­त्म­श­ब्द­वा­च्य­ता­धि­क­रणे सूत्रे - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
आत्मा वा इदमित्यत्र विराट् स्यादथवेश्वरः ॥
भूता­सृ­ष्टे­र्ने­श्वरः स्याद्ग­वा­द्या­न­य­ना­द्वि­राट् ॥ १५ ॥
भूतोपसंहृतेरीशः स्याद­द्वै­ता­व­धा­र­णात् ॥
अर्थवादो गवा­द्यु­क्ति­र्ब्र­ह्मा­त्मत्वं विवक्षितम् ॥ १६ ॥
"आत्मा वा इदमेक एवाग्र आसीत्" इत्यत्र विरा­डे­वाऽऽ­त्म­श­ब्द­वाच्यः, नेश्वरः । कुतः - "स ऐक्षत – लोकान्नु सृजै" - इति पञ्च­भू­त­सृ­ष्टि­म­नुक्त्वा लोक­मा­त्र­सृ­ष्टे­र­भि­धा­नात् । ईश्वरप्रकरणे तैत्ति­री­य­च्छा­न्दो­ग्या­दिषु भूत­सृ­ष्ट्य­भि­धा­न­द­र्श­नात् । "ताभ्यो गामानयत्" इति प्रोक्तं गवाद्यानयनं शरीरिणो विराजो घटते, न त्वशरीरस्य परमेश्वरस्य ॥
इति प्राप्ते, ब्रूमः - "एक एवाग्र आसीत्" इत्य­द्वै­ता­व­धा­र­णा­दी­श्व­रोऽ­त्राऽऽ­त्म­श­ब्दार्थः । तथाच सति शाखा­न्त­रो­क्त­भू­त­सृ­ष्टि­र­त्रो­प­सं­हर्तुं शक्यते । यत्तु - गवाद्यानयनम् । तदर्थवादरूपम् । तद्वेदनस्य स्वातन्त्र्येण पुरु­षा­र्थ­त्वा­भा­वात् । अथ – भूतार्थवादत्वं मन्येथाः, । तर्हि विराडादिद्वारा परमेश्वर एव गवादिकमानयतु अथ – श्रूयमाणस्य गवा­न­य­न­प्र­प­ञ्च­स्या­र्थ­वा­दत्वे श्रुते­र्वि­व­क्षि­तार्थः कोऽपि न सिध्येत् - इति चेत् । न, जीव­ब्र­ह्मै­क्यस्य विवक्षितत्वात् । "आत्मा वै" - इत्युपक्रम्य "स एतमेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म" इत्युपसंहारात् । तस्मात् - ईश्वर एवाऽऽ­त्म­श­ब्द­वाच्यः ।
द्वितीयवर्णकमाह -
द्वयो­र्व­स्त्व­न्य­देकं वा काण्व­च्छा­न्दो­ग्य­ष­ष्ठयोः ॥
उभयत्र पृथग्वस्तु सदा­त्म­भ्या­मु­प­क्र­मात् ॥ १७ ॥
साधारणोऽयं सच्छब्दः स आत्मा तत्त्वमित्यतः ॥
वाक्य­शे­षा­दा­त्म­वाची तस्मा­द्व­स्त्वे­क­मे­तयोः ॥ १८ ॥
काण्व­ष­ष्ठा­ध्याये "कतम आत्मा" इत्या­र­भ्याऽऽत्मा प्रपञ्चितः । छान्दोग्यषष्ठे तु "सदेव सोम्येदमग्र आसीत्" इत्युपक्रम्य सद्वस्तु प्रपञ्चितम् । न हि लोके सच्छ­ब्दा­त्म­शब्दौ पर्यायौ । तस्मात् - वस्तुभेदः ॥
इति प्राप्ते, ब्रूमः - सच्छ­ब्दोऽ­य­मा­त्मा­ना­त्म­सा­धा­र­ण­त्वा­त्स­न्दिग्धः । स च वाक्यशेषे "स आत्मा, तत्त्वमसि" इति श्रवणादात्मवाची भविष्यति । तस्मात् - एकमेवोभयत्र वस्तु ॥

(नवमे प्राण­वि­द्या­या­म­न­ग्न­ता­बु­द्धे­रेव विधेयत्वाधिकरणे सूत्रम् - )
नव­मा­धि­क­र­ण­मा­र­च­यति -
अन­ग्न­बु­द्ध्या­च­मने विधेये बुद्धिरेव वा ॥
उभे अपि विधीयेते द्वयोरत्र श्रुतत्वतः ॥ १९ ॥
स्मृतेराचमनं प्राप्तं प्राय­त्या­र्थ­म­नूद्य तत् ॥
अनग्नतामतिः प्राण­वि­दोऽ­पूर्वां विधीयते ॥ २० ॥
प्राणविद्यायां वाक्यशेषे श्रूयते - "अशि­ष्य­न्ना­चा­मेत् , आशित्वा चाऽऽचामेत् । एवमेव तदनमनग्नं कुरुते " इति । तत्र प्राण­स्या­न­ग्न­ता­बुद्धिः, आचमनञ्च, इत्युभयं विधेयम् । द्वयोः श्रुतत्वात् ।।
इति प्राप्ते, ब्रूमः -"अप्राप्ते शास्त्र­म­र्थ­वत्" इति न्यायेन माना­न्त­रा­प्रा­प्त­म­न­ग्न­ता­चि­न्त­न­मेव विधेयम् । 'भोज­ना­त्प्रा­गूर्ध्वं चाऽऽच­म­नी­या­स्वप्सु वासोबुद्धिं कृत्वा तेन वाससा प्राण­स्या­न­ग्नत्वं ध्यायेत्' इत्यर्थः । आचमनं तु शुद्ध्यर्थतया स्मृतिबलादेव प्राप्तम् - इति न विधीयते । न च – तस्याः स्मृतेरियं श्रुतिर्मूलम् - इति शङ्कनीयम् , वर्णा­श्र­म­ध­र्म­प्र­क­र­ण­त्वा­भा­वेन भिन्नविषयत्वात् । मूलभूतं तु श्रुत्य­न्त­र­म­नु­मे­यम् । तस्मात् - आचमनस्य प्राप्त­त्वा­द­न­ग्न­ता­बु­द्धि­रेव प्राणोपासकं प्रति विधेया ॥

(दशमे शाण्डि­ल्य­वि­द्यायाः समानताधिकरणे सूत्रम् - )
दश­मा­धि­क­र­ण­मा­र­च­यति -
शाण्डिल्यविद्या काण्वानां द्विवि­धै­क­वि­धाऽ­थवा ॥
द्विरु­क्ते­रे­क­शा­खायां द्वे विद्ये इति गम्यते ॥ २१ ॥
एका मनो­म­य­त्वा­दि­प्र­त्य­भि­ज्ञा­नतो भवेत् ॥
विद्याया विधिरेकत्र स्यादन्यत्र गुणे विधिः ॥ २२ ॥
काण्वा­ना­म­ग्नि­र­ह­स्य­ब्रा­ह्मणे शाण्डिल्यविद्या पठ्यते - "स आत्मानमुपासीत मनोमयं प्राण­श­री­रम्" इति । तथा - तेषामेव बृहदारण्यके सैव विद्या पठिता - "मनो­म­योऽ­य­म्पु­रुषो भाःसत्यः" इति । तत्र पौन­रु­क्त्य­भ­या­द्वि­द्या­भेदः ॥
इति प्राप्ते, ब्रूमः - मनोमयत्वादिकस्य वेद्यस्वरूपस्य प्रत्य­भि­ज्ञा­ना­दे­कैव विद्या । न च – पुनरुक्तिः, एकत्र विद्यां विधायापरत्र तदनुवादेन सत्य­त्व­स­र्वे­शा­न­त्वा­दि­गु­णानां विधातुं शक्यत्वात् । "अग्नि­होत्रं जुहोति, दध्ना जुहोति" इत्यादिवत् । तस्मात् - एकविधैव शाण्डिल्यविद्या ॥

(एकादशे नाम्नो­र्व्य­व­स्था­धि­क­रणे सूत्राणि - )
एका­द­शा­धि­क­र­ण­मा­र­च­यति -
संहारः स्याद्व्यवस्था वा नाम्नोरहरहं त्विति ॥
विद्यैकत्वेन संहारः स्याद­ध्या­त्मा­धि­दै­वयोः ॥ २३ ॥
तस्यो­प­नि­ष­दि­त्येवं भिन्न­स्था­न­त्व­द­र्श­नात् ॥
स्थिता­सी­न­गु­रू­पा­स्त्यो­रिव नाम्नो­र्व्य­व­स्थितिः ॥ २४ ॥
बृहदारण्यके सत्य­वि­द्या­या­मा­धि­दै­वि­कस्य पुरु­ष­स्याऽऽ­दि­त्यस्य 'अहः' इत्येतन्नाम ध्याना­यो­प­दि­श्यते । आध्यात्मिकस्य त्वक्षिपुरुषस्य 'अहम्' इत्येतन्नाम । तत्र – विद्यैकत्वेन द्वयोर्नाम्नोः पुरुषद्वय उपसंहारः ॥
इति प्राप्ते, ब्रूमः - "य एष तस्मिन्मण्डले पुरुषः" इत्युपक्रम्य "तस्यो­प­नि­ष­दहः" इति तच्छब्देन मण्डलस्थमेव परामृश्य तस्यैव नामविशेष उपदिष्टः । तथा - "योऽयं दक्षि­णेऽ­क्ष­न्पु­रुषः" इत्युपक्रम्य "तस्यो­प­नि­ष­द­हम्" इति तच्छ­ब्दे­ना­क्षि­नि­ष्ठ­मेव परामृश्य नामविशेष उपदिष्टः । अतो विद्यैकत्वेन वेद्यस्य सत्याख्यस्य ब्रह्मण एकत्वेऽपि स्थानविशेषे कटाक्षेण नाम­वि­धा­ना­दा­ध्या­त्मि­का­धि­दै­वि­क­यो­र्व्य­व­स्थिते नामनी । न तु तयो­रु­प­सं­हा­रोऽस्ति । यथा लोके गुरो­रु­पा­स्य­स्यै­क­त्वेऽपि तिष्ठतो गुरोर्य उपचारः, नासावासीनस्य युज्यते । आसीनस्य य उपचारः पादाभ्यङ्गादिः, नासौ तिष्ठतो भवति, तद्वत् ॥ तस्मात् - नाम्नो­र्व्य­वस्था द्रष्टव्या ॥

(द्वादशे सम्भृ­त्या­दी­ना­म­नु­प­सं­हा­रा­धि­क­रणे सूत्रम् - )
द्वाद­शा­धि­क­र­ण­मा­र­च­यति -
आहार्या वा न वाऽन्यत्र सम्भृ­त्या­दि­वि­भू­तयः ॥
आहार्या ब्रह्म­ध­र्म­त्वा­च्छा­ण्डि­ल्या­दा­व­वा­र­णात् ॥ २५ ॥
असाधारणधर्माणां प्रत्य­भि­ज्ञाऽत्र नास्त्यतः ॥
अनाहार्या ब्रह्म­मा­न्न­स­म्ब­न्धोऽ­ति­प्र­स­ञ्जकः ॥ २६ ॥
राणायनीयानां खिलेषु पठ्यते - "ब्रह्म­ज्येष्ठा वीर्या सम्भृतानि ब्रह्माऽग्रे ज्येष्ठं दिवमाततान" इति । अस्यायमर्थः - यानि लोके वीर्याणि हरि­ह­र­क­म­ला­स­ना­दि­दे­हेषु प्रसिद्धानि, तानि सर्वाणि ब्रह्मपुरः सराण्येव सम्भृतानि सम्भवन्ति । नहि सशक्तिकं ब्रह्मानपेक्ष्य वीर्याणि सम्भवन्ति । तच्च ब्रह्म ज्येष्ठं ब्रह्म पूर्वं दिवं व्याप्या­व­स्थि­तम् इति । अत्र – आधिदैविकस्य ब्रह्मणः सम्भृ­ति­द्यु­व्या­प्त्या­दयो गुणा उपा­स्य­त्वे­ना­व­ग­म्यन्ते । शाण्डि­ल्या­दि­द­ह­रा­दि­वि­द्या­स्वा­ध्या­त्मिकं हृदयान्तर्वर्ति ब्रह्मोपास्यतया श्रुतम् । तत्र – ब्रह्मण एक­त्वा­त्स­म्भृ­त्या­दयो गुणाः शाण्डि­ल्य­द­ह­रा­दि­वि­द्या­सू­प­सं­ह­र्तव्याः ॥
इति प्राप्ते, ब्रूमः - न ताव­त्स­म्भृ­त्या­दि­गु­णा­ना­म­न्य­त­मोऽपि शाण्डि­ल्या­दि­वि­द्या­सू­प­ल­भ्यते । अतो विद्यै­क­त्व­प्र­त्य­भि­ज्ञा­ना­भा­वा­द्रुणा नोपसंहर्तव्याः । ब्रह्मै­क­त्व­मा­त्रे­णो­प­सं­हृतौ न क्वाप्यनुपसंहार इति प्रसङ्गः । तस्मात् - सम्भृ­त्या­दे­र्नो­प­सं­हारः ॥

(त्रयोदशे पुरुषविद्याया विभिन्नताधिकरणे सूत्रम् - )
त्रयो­द­शा­धि­क­र­ण­मा­र­च­यति -
पुंविद्यैका विभिन्ना वा तैत्ति­री­य­क­ता­ण्डिनोः ॥
मर­णा­व­भृ­थ­त्वा­दि­सा­म्या­दे­केति गम्यते ॥ २७ ॥
बहुना रूपभेदेन किञ्चि­त्सा­म्यस्य बाधनात् ॥
न विद्यैक्यं तैत्तिरीये ब्रह्म­वि­द्या­प्र­शं­स­नात् ॥ २८ ॥
अस्ति तैत्तिरीये पुरुषविद्या - "तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः" इति । तथा - ताण्डिशाखायामपि श्रूयते - "पुरुषो वा यज्ञः" इति । सेयमेकैव पुरुषविद्या, "यन्मरणं तदवभृथः", "मर­ण­मे­वा­व­भृथः" इत्युभयत्र समा­न­ध­र्म­श्र­व­णात् । प्रातःसवनादीनां च समानत्वात् ॥
इति प्राप्ते, ब्रूमः - वेद्यस्य रूपस्य भूयानत्र भेदः श्रूयते । तथाहि - 'विदुषो यो यज्ञः, तस्य यज्ञ­स्याऽऽत्मा' इति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ । अन्यथा ' आत्मा यजमानः' इति व्याघातात् 'विद्वानेव यज्ञः, स एव यजमानः' इति कथं न व्याहन्येत । ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतमित्येको रूपभेदः । आत्मयजमानादिकं च सर्वत्र श्रुतम् , ताण्डिनां नोपलभ्यते । यत्तु ताण्डि­ना­मु­प­ल­भ्यते त्रेधा­वि­भ­क्त­स्याऽऽ­युषः सव­न­त्र­य­त्व­मि­त्यादि, तन्न किञ्चिदपि तैत्तिरीयके पश्यामः । अतो मर­णा­व­भृ­थ­त्वा­द्य­ल्प­सा­म्य­बा­धा­द्वि­द्य­यो­र्भेद एवोचितः । अपि च न तैत्ति­री­या­णा­मु­पा­स­न­मि­दम् । किं तर्हि ब्रह्म­वि­द्या­प्र­शंसा "तस्यैवं विदुषः" इति ब्रह्मविद उत्कर्षणात् - तस्मात् - न विद्यै­क्य­श­ङ्काया अप्यवकाशोऽस्ति ॥

(चतुर्दशे वेधाद्यधिकरणे सूत्रम् - )
चतु­र्द­शा­धि­क­र­ण­मा­र­च­यति -
वेध­म­न्त्र­प्र­व­र्ग्यादि विद्याङ्गमर्थवा न तु ॥
विद्या­सं­नि­धि­पा­ठेन विद्याङ्गे मन्त्रकर्मणी ॥ २९ ॥
लिङ्गेनान्यत्र मन्त्राणां वाक्येनापि च कर्मणाम् ॥
विनि­यो­गा­त्सं­नि­धिस्तु बाध्योऽतो नाङ्गता तयोः ॥ ३० ॥
आथ­र्व­णि­का­ना­म­पु­नि­ष­दा­रम्भे - "सर्वं प्रविध्य हृदयं प्रविध्य" इत्यादय आभि­चा­रि­क­मन्त्राः पठिताः । काण्वा­ना­मु­प­नि­ष­दादौ प्रव­र्ग्य­ब्रा­ह्मणं पठितम् । एव­म­न्य­त्रा­प्यु­दा­ह­र्त­व्यम् । तत्र विद्या­सं­नि­धि­व­शा­न्म­न्त्र­क­र्म­णो­र्वि­द्या­ङ्ग­त्वम् ॥
इति प्राप्ते, ब्रूमः - हृद­य­वे­धा­दि­म­न्त्राणां लिङ्गा­द­भि­चा­र­क­र्मणि विनियोगः । प्रवर्ग्यस्य "पुर­स्ता­दु­प­सदां प्रवृ­णक्ति" इत्यग्निष्टोमे विनियोगो दृश्यते । 'लिङ्ग­वाक्ये च संनि­धे­र्ब­ली­यसी' इति पूर्वकाण्डे श्रुति­लि­ङ्गा­धि­क­रणे व्यवस्थापितम् । तस्मात् - न विद्याङ्गत्वं मन्त्रकर्मणोः ॥

(पञ्चदशे ज्ञानिनः कर्मणां हान्यु­पा­य­ना­धि­क­रणे सूत्रम् - )
पञ्च­द­शा­धि­क­र­ण­मा­र­च­यति -
प्रथमवर्णकमाह -
उपायनमनाहार्यं हाना­याऽऽ­ह्नि­य­तेऽथ वा ॥
अश्रु­त­त्वा­द­ना­क्षे­पा­द्वि­द्या­भे­दाच्च नाऽऽहृतिः ॥ ३१ ॥
विद्या­भे­देऽ­प्य­र्थ­वाद आहार्यः स्तुतिसाम्यतः ॥
हानस्य प्रत्य­भि­ज्ञा­ना­दे­क­विं­शा­दि­वा­द­वत् ॥ ३२ ॥
शाट्यायनिनः पठन्ति - "तस्य पुत्रा दायमुपयन्ति, सुहृदः साधुकृत्याम् , द्विषन्तः पाप­कृ­त्याम्" इति । अस्यायमर्थः - 'ज्ञानिनः पुत्रस्थानीयाः सर्वे प्राणिनस्तदीयं वित्तस्थानीयं कर्म यथायोग्यं गृह्णन्ति' - । ताण्डिनस्तु पठन्ति -
"अश्व इव रोमाणि विधूय पापं चन्द्र इव राहो­र्मु­खा­त्प्र­मुच्य धूत्वा शरीरम्" इति । तथाऽऽथर्वणिकाः पठन्ति - "तदा विद्वा­न्पु­ण्य­पापे विधूय निरञ्जनः परं साम्य­मु­पैति" इति । निरञ्जनो भावि­ज­न्म­का­र­ण­र­हितः, साम्यं ब्रह्मस्वरूपम् , इत्यर्थः । तत्र तत्त्वज्ञानिनः पाप­पु­ण्य­प­रि­त्या­ग­प्र­ति­पा­दि­कासु श्रुतिषु परित्यक्तयोः पुण्य­पा­प­यो­रि­त­र­पु­रु­ष­स्वी­कारो नोपसंहर्तव्यः, त्यागश्रुतिषु क्वाप्य­न्य­स्वी­का­र­स्या­श्रु­त­त्वात् । अश्रु­त­म­प्या­क्षि­प्यते - इति चेत् । न । अनु­प­प­त्ते­र­भा­वात् । इत­र­स्वी­का­र­म­न्त­रे­णापि ज्ञानिनां परित्याग उपपद्यत एव । किञ्च – इत­र­स्वी­का­र­वाक्यं सगुणविद्यायां पठितम् । त्यागवाक्यं तु निर्गु­ण­वि­द्या­याम् । तस्मात् - केवलायां हानौ श्रूय­मा­णा­या­मु­पा­यनं नोपसंहर्तव्यम् ॥
इति प्राप्ते, ब्रूमः - सत्यं विद्या भेदोऽस्ति । अत एव न वय­मु­पा­य­न­म­नु­ष्ठे­य­ध­र्म­त­यो­प­सं­ह­रामः । किं त्वर्थवादत्वेन । यथा श्रूयमाणेन पुण्य­पा­प­प­रि­त्या­गेन ब्रह्मविद्या स्तूयते, तथे­त­र­स्वी­का­रे­णापि स्तोतुं शक्यत एव । नच – अर्थ­वा­द­त्व­मा­त्रेण हानो­पा­य­न­श्रुत्योः स्वार्थे तात्पर्याभावः, माना­न्त­र­प्र­सि­द्धि­वि­रो­ध­यो­र­भा­वेन भूता­र्थ­वा­द­त्वात् । यत्तु - हानश्रुतिषु न काप्युपायनं श्रुतम् - इत्युक्तम् । तदसत् , कौषितकीश्रुतौ हानो­पा­य­न­यो­रु­भ­यो­र­व­ग­मात् । "तत्सु­कृ­त­दु­ष्कृते विधूनुते । तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति, अप्रिया दुष्कृतम्" इति । तत्तत्र ब्रह्म­लो­क­प्रा­प्ति­वे­ला­या­मि­त्यर्थः । एवं च सति कौषीतकीश्रुतस्य हान­स्याऽऽ­थ­र्व­णि­क­ता­ण्डि­शा­खयोः प्रत्य­भि­ज्ञा­ना­त्कौ­षी­त­की­प्रो­क्त­स्यो­पा­य­न­स्यो­प­सं­हारो युक्तः । ननु - अर्थ­वा­दा­न्त­रा­पे­क्षोऽ­र्थ­वादो न क्वचिदृष्टचरः - इति चेत् । न, सामो­पा­स्ति­स्ता­व­क­त्वेन श्रुतस्य "एकविंशो वा इतोऽ­सा­वा­दित्याः" इत्य­र्थ­वा­द­स्यै­क­विं­श­त्व­नि­र्ण­याय तैत्तिरीयक गत­स­त्र­प्र­क­र­ण­स्था­र्थ­वा­दा­पे­क्ष­त्वात् । "द्वादश मासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंशः" इति हि तत्र सङ्ख्यानिर्वाह उक्तः । तस्मात् - अर्थ­वा­द­त्वेऽ­प्यु­पा­य­न­मु­प­सं­ह­र्त­व्यम् ॥
द्वितीयवर्णकमाह -
विधूननं चालनं स्याद्धानं वा चालनं भवेत् ॥
दोधूयन्ते ध्वजा­ग्रा­णी­त्यादौ चालनदर्शनात् ॥ ३३ ॥
हानमेव भवे­द्वा­क्य­शे­षेऽ­न्यो­पा­य­न­श्र­वात् ॥
कर्त्रा न ह्यप­रि­त्य­क्त­मन्यः स्वीकर्तुमर्हति ॥ ३४ ॥
"सुकृ­त­दु­ष्कृते विधूनुते" इत्यत्र विधूननशब्दस्य 'दोधू­यन्ते' इत्यादाविव चालनमर्थः । नतु परित्यागः ॥
इति प्राप्ते, ब्रूमः - वाक्यशेषे श्रूय­मा­ण­स्ये­त­र­स्वी­का­रस्य विना परि­त्या­ग­म­नु­प­प­त्ते­श्चा­ल­न­वा­चिना विधूननशब्देन परित्याग उपलक्ष्यते ॥

(षोडशे, उपा­स­का­ना­ङ्क­र्म­त्या­ग­व्य­व­स्था­धि­क­रणे सूत्रे - )
षोड­शा­धि­क­र­ण­मा­र­च­यति -
कर्मत्यागो मार्गमध्ये यदि वा मरणात्पुरा ॥
उत्तीर्य विरजां त्यागस्तथा कौषीतकीश्रुतेः ॥ ३५ ॥
कर्म­प्रा­प्य­फ­ला­भा­वा­न्मध्ये साधनवर्जनात् ॥
ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकीक्रमः ॥ ३६ ॥
पूर्वा­धि­क­र­णोक्तः सुकृ­त­दु­ष्कृ­त­प­रि­त्यागो ब्रह्म­लो­क­मा­र्गस्य मध्ये भवितुमर्हति, तल्लो­क­स­मी­प­व­र्ति­न­द्यु­त्त­र­णा­न­न्तरं तच्छ्रवणात् । "स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सु­कृ­त­दु­ष्कृते विधूनुते" इति । तस्मात् - मार्गमध्ये परित्यागः ॥
इति प्राप्ते, ब्रूमः - ब्रह्म­लो­क­मा­र्ग­मध्ये ब्रह्म­प्रा­प्ति­व्य­ति­रि­क्तस्य सुकृ­त­दु­ष्कृ­ताभ्यां प्राप्त­व्य­फ­ल­स्या­भा­वा­त्त­यो­र्न­दी­प­र्य­न्त­न­यनं निरर्थकम् । किञ्च – मर­णा­त्प्रा­क्प­रि­त्य­क्तयोः सुकृ­त­दु­ष्कृ­त­यो­र्मा­र्ग­मध्ये परित्यागस्य साधनं न सम्भवति, देहराहित्ये साध­न­स्या­नु­ष्ठा­तु­म­श­क्य­त्वात् । न च – मरणात्पुरा तत्त्यागे प्रमाणाभावः, "अश्व इव रोमाणी" - इति ताण्डिश्रुतौ तदवगमात् ॥ तथा च श्रुत्या 'नदी­मु­त्तीर्य परित्यागः' इत्ययं कौषीतकीप्रोक्तः क्रमो बाधनीयः । तस्मात् - मर­णा­त्प्रा­गे­वो­पास्ये साक्षात्कृते तयोः परित्यागः ॥

(सप्तदशे, उपासनया ब्रह्म­लो­क­ग­न्तृ­णा­मेव मार्ग­व्य­व­स्था­धि­क­रणे सूत्रे - )
सप्त­द­शा­धि­क­र­ण­मा­र­च­यति -
उपा­स्ति­बो­ध­यो­र्मार्गः समो यद्वा व्यवस्थितः ॥
सम एवोत्तरो मार्ग एतयोः कर्महानवत् ॥ ३७ ॥
देशा­न्त­र­फ­ल­प्राप्त्यै युक्तो मार्ग उपास्तिषु ॥
आरोग्यवद्बोधफलं तेन मार्गो व्यवस्थितः ॥ ३८ ॥
चतुर्थाध्यायस्य तृतीयपादे वक्ष्य­मा­णोऽ­र्चि­रा­दि­मार्गः सगु­ण­ब्र­ह्मो­पा­स­कस्य निर्गु­ण­ब्र­ह्म­त­त्त्व­वि­दश्च समान एव, सुकृ­त­दु­ष्कृ­त­क­र्म­हा­न­व­त्स­मा­न­त्व­स­म्भ­वात् ॥
इति प्राप्ते, ब्रूमः - उपा­स्ति­प्रा­प्यस्य ब्रह्मलोकफलस्य देशा­न्त­र­व­र्ति­त्वा­द्यु­क्त­स्तत्र मार्गः । ब्रह्मज्ञानफलं तु रोग­नि­वृ­त्ति­व­द­वि­द्या­नि­वृ­त्ति­मा­त्र­मिति किं तत्र मार्गेण करणीयं स्यात् । तस्मात् - उपासकस्यैव, न तु ज्ञानिनः - इति व्यवस्थितो मार्गः ॥

(अष्टादशे सर्वा­स्वे­वो­पा­स­नासु मार्ग­क­ल्प­ना­धि­क­रणे सूत्रम् - )
अष्टा­द­शा­धि­क­र­ण­मा­र­च­यति -
मार्गः श्रुतस्थलेष्वेव सर्वोपास्तिषु वा भवेत् ॥
श्रुतेष्वेव प्रक­र­णा­द्विः­पा­ठोऽस्य वृथाऽन्यथा ॥ ३९ ॥
प्रोक्तो विद्यान्तरे मार्गो ये चेम इति वाक्यतः ॥
तेन बाध्यं प्रकरणं द्विःपा­ठ­श्चि­न्त­नाय हि ॥ ४० ॥
छान्दोग्ये पञ्चा­ग्नि­वि­द्या­या­मु­प­को­श­ल­वि­द्यायां चोत्तरमार्गः पठितः । शाण्डि­ल्य­वै­श्वा­न­रा­दि­वि­द्यासु न पठितः । तथाच प्रकरणवशाद्यासु विद्यासु श्रुतः, तास्वेव मार्गो व्यवतिष्ठते, न त्वन्य­त्रो­प­सं­ह­र्तव्यः । उपसंहारे च सकृत्पठितस्यैव सर्व­त्रो­प­सं­हर्तुं शक्यतया विद्याद्वये पाठो निरर्थकः स्यात् । तस्मात् - श्रुतस्थलेष्वेव मार्गः ॥
इति प्राप्ते, ब्रूमः - पञ्चा­ग्नि­वि­द्या­वा­क्य­शेषे पञ्चा­ग्न्यु­पा­स­का­ना­मु­त्त­र­मार्गं ब्रुवती श्रुति­र्वि­द्या­न्त­र­शा­लिनां च मुखत एवा­र्चि­रा­दि­मा­र्ग­मु­दा­ज­हार - "तद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धातप इत्युपासते, तेऽर्चि­ष­म­भि­स­म्भ­वन्ति" इति अस्यायमर्थः - 'य उपासका इत्थं पञ्चा­ग्नी­नु­पा­सते, ये चारण्ये श्रद्धा तप इत्ये­व­मा­दि­ध­र्म­युक्ताः सन्तोऽ­प्यु­पा­स­ना­न्त­रेषु प्रवर्तन्ते, ते सर्वेऽ­प्य­र्चि­रा­दि­मार्गं प्राप्नु­वन्ति' इति । ततश्च मार्ग­प्र­ति­पा­द­क­वा­क्येन प्रकरणं बाधितव्यम् । न च – द्विःपा­ठ­वै­य­र्थ्यम् , उपा­स्य­गु­ण­चि­न्त­ना­र्थ­त्वो­प­पत्तेः । तस्मात् - सर्वो­पा­स्ति­षू­त्तरो मार्गोऽ­व­ग­न्तव्यः ॥

(एकोनविंशे तत्त्वज्ञानिनां मुक्ति­नै­य­त्या­धि­क­रणे सूत्रम् - )
एको­न­विं­शा­धि­क­र­ण­मा­र­च­यति -
ब्रह्म­त­त्त्व­विदां मुक्तिः पाक्षिकी नियताऽथवा ॥
पाक्षि­क्य­पा­न्त­र­तमः प्रभृ­ते­र्ज­न्म­की­र्त­नात् ॥ ४१ ॥
नाना­दे­हो­प­भो­क्त­व्य­मी­शो­पा­स्ति­फलं बुधाः ॥
भुक्त्वाऽ­धि­का­रि­पु­रुषा मुच्यन्ते नियता ततः ॥ ४२ ॥
पुराणेषु - अपान्तरतमा नाम वेदप्रवर्तक आचार्यो विष्णोराज्ञया द्वापरान्ते कृष्ण­द्वै­पा­य­न­रू­पेण शरीरान्तरं जग्राह – इति स्मर्यते । तथा - सनत्कुमारः स्कन्दरूपेण पार्व­ती­प­र­मे­श्व­रा­भ्या­म­जा­यत । एवमन्येऽपि वसि­ष्ठा­द­य­स्त­त्त्व­ज्ञा­निन एव सन्तस्तत्र तत्र शापद्वारा स्वेच्छया वा शरीरान्तराणि जगृहुः - इति स्मरणात् - मुक्ति­स्त­त्त्व­विदां पाक्षिकी ॥
इति प्राप्ते, ब्रूमः - य एते त्वयोदाहृताः पुरुषाः, ते सर्वे जग­न्नि­र्वा­ह­का­रिणः, ते च पूर्व­स्मि­न्कल्पे महता तपसा पर­मे­श्व­र­मु­पा­स्या­स्मि­न्कल्पे नाना­दे­हो­प­भो­ग्य­म­धि­का­रि­पदं भेजिरे । क्षीणे प्रारब्धे कर्मणि मोक्षन्ते । तथा - अनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य निवा­र­यि­तु­म­श­क्य­त्त्वा­त्त­त्त्व­विदां मुक्तिर्नियतैव ॥

(विंशे निषे­धो­प­सं­हा­रा­धि­क­रणे सूत्रम् - )
विंशा­धि­क­र­ण­मा­र­च­यति -
निषेधानामसंहारः संहारो वा न संहृतिः ॥
आन­न्दा­दि­व­दा­त्मत्वं नैषां सम्भाव्यते यतः ॥ ४३ ॥
श्रुता­ना­मा­हृ­तानां च निषेधानां समा यतः ॥
आत्मलक्षणता तस्मा­द्दा­र्ढ्या­या­स्तू­प­सं­हृतिः ॥ ४४ ॥
"अस्थू­ल­म­न­ण्व­ह्र­स्वम्" इत्यादिना ब्रह्मावबोधनाय गार्गीब्राह्मणे केचिन्निषेधाः श्रुताः । तथा च कठवल्लीषु - "अश­ब्द­म­स्प­र्श­म­रू­प­म­व्य­यम्" इति । एव­म­न्य­त्रा­प्यु­दा­ह­र्त­व्यम् । तत्र निषेधानां परस्परमुपसंहारो नास्ति, आन­न्द­स­त्य­त्वा­दि­ध­र्म­व­दा­त्म­स्व­रू­प­त्वा­भा­वे­नो­प­सं­हारे प्रयोजनाभावात् ॥
इति प्राप्ते, ब्रूमः - यथा स्वशाखायां श्रूयमाणानां निषे­धा­ना­मा­त्म­स्व­रू­प­त्वा­भा­वेऽ­प्या­त्मो­प­ल­क्ष­क­त्वम् , तथा - शाखान्तरेभ्य उपसंहृतानां निषेधानामपि तत्समानम् । न च – स्वशा­खो­क्त­नि­षे­धै­रे­वो­प­ल­क्ष­ण­सि­द्धा­वि­त­रो­प­सं­हा­र­वै­य­र्थ्यम् , इतरोपसंहारस्य दार्ढ्या­र्थ­त्वात् । अन्यथा स्वशाखायामपि द्वित्र­प्र­ति­षे­ध­मा­त्रेण तत्सि­द्धा­वि­त­र­वै­यर्थ्यं प्रसज्येत । तस्मात् - निषेधा उपसंहर्तव्याः ॥

(एकविंशे मन्त्रद्वयस्य विद्यै­क्य­ता­धि­क­रणे सूत्रम् - )
एक­विं­शा­धि­क­र­ण­मा­र­च­यति -
पिबन्तौ द्वा सुपर्णेति द्वे विद्ये अथवैकता ॥
भोक्तारौ भोक्त्र­भो­क्ता­रा­विति विद्ये उभे इमे ॥ ४५ ॥
पिबन्तौ भोक्त्र­भो­क्ता­रा­वि­त्युक्तं हि समन्वये ॥
इय­त्ता­प्र­त्य­भि­ज्ञा­ना­द्वि­द्यैका मन्त्र­यो­र्द्वयोः ॥ ४६ ॥
"ऋतं पिबन्तौ सुकृतस्य लोके" - इत्य­स्मि­न्मन्त्रे द्विवचनेन द्वयो­र्भो­क्तृत्वं प्रतीयते । "द्वा सुपर्णा" - इत्य­स्मि­न्मन्त्रे "तयोरन्यः पिप्पलं स्वाद्वत्ति" इत्येकस्यैव कर्म­फ­ल­भो­क्तृ­त्वम्, "इतरस्य तु अन­श्न­न्न­न्योऽ­भि­चा­क­शीति" इत्यभोक्तृत्वम् । ततो वेद्य­स्व­रू­प­भे­दा­द्वि­द्या­भेदः ॥
इति प्राप्ते, ब्रूमः - प्रथमाध्यायस्य द्वितीयपादे तृतीयाधिकरणे - "पिबन्तौ" इति शब्दस्य जीव­ब्र­ह्म­प­र­त्वेन भोक्त्र­भो­क्ता­रा­वर्थः - इत्युक्तम् । अतो न वेद्यभेदः । द्वित्वसङ्ख्या चोभयत्र प्रत्यभिज्ञायते । तस्मात् - एका विद्या ॥

(द्वाविंशे, उषस्त – कहो­ल­यो­र्वि­र्द्यै­क्या­धि­क­रणे सूत्रे - )
द्वाविं­शा­धि­क­र­ण­मा­र­च­यति -
विद्याभेदोऽथ विद्यैक्यं स्यादु­ष­स्त­क­हो­लयोः ॥
समानस्य द्विरा­म्ना­ना­द्वि­द्या­भेदः प्रतीयते ॥ ४७ ॥
सर्वा­न्त­र­त्व­मु­भ­यो­रस्ति विद्यैकता ततः ॥
शङ्का­वि­शे­ष­नुत्यै द्विःपा­ठ­स्त­त्त्व­म­सी­ति­वत् ॥ ४८ ॥
"यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वा­न्तरः" इत्येकस्यां शाखा­या­मे­वो­ष­स्त­ब्रा­ह्मणे कहोलब्राह्मणे च पठितम् । 'अप­रो­क्षात्' इत्यत्र विभ­क्ति­व्य­त्य­येन 'अप­रो­क्षम्' इत्यर्थः । तयो­रु­भ­यो­र्ब्रा­ह्म­ण­यो­र­न्यू­ना­न­ति­रि­क्त­तया पठितस्य वाक्यस्य पौन­रु­क्त्य­प­रि­हा­राय विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - द्वयोरपि ब्राह्मणयोः सर्वान्तरत्वं प्रतिपाद्यते । तच्चैकस्मिन्नेव वस्तुनि सम्भवति । द्वयोस्तु वस्तुनोरेकतरस्य बहि­र्भा­वोऽ­व­श्य­म्भावी । तस्मात् - सर्वान्तरस्य वेद्य­स्यै­क­त्वान्न विद्याभेदः । न च – पुनरूक्तिः, यथा शाखान्तरे तद्वि­शे­ष­श­ङ्का­प­नु­त्त्य­र्थम् "तत्त्व­मसि" इति नवकृत्व उपन्यस्तम् , तथाऽ­त्रा­प्यु­प­पत्तेः । उषस्तब्राह्मणेन देहा­द्या­त्म­त्व­श­ङ्काऽ­पो­द्यते, कहोलब्राह्मणेन देहा­दि­व्य­ति­रि­क्तस्य ब्रह्म­त्व­मा­पा­द्यते । वाक्य­शे­ष­यो­स्त­था­द­र्श­नात् । तस्मात् - एका विद्या ॥

(त्रयोविंशे देहा­दि­त्य­म­ण्ड­ल­व­र्त्यु­पा­स­नाया विद्या­भे­दा­धि­क­रणे सूत्रम् - )
त्रयो­विं­शा­धि­क­र­ण­मा­र­च­यति -
व्यतिहारे स्वात्म­र­व्यो­रे­कधा धीरुत द्विधा ॥
वस्त्वै­क्या­दे­क­धै­क्यस्य दार्ढ्याय व्यतिहारगीः ॥ ४९ ॥
ऐक्येऽपि व्यतिहारोक्त्या धीर्द्वेधेशस्य जीवता ॥
युक्तोपास्त्यै वाचनिकी मूर्ति­व­द्दा­र्ढ्य­मा­र्थि­कम् ॥ ५० ॥
ऐतरेयके पठ्यते - "तद्योऽहं सोऽसौ, योऽसौ सोऽहम्" इति । अस्यायमर्थः - 'य यष देहे­न्द्रि­य­साक्षी जीवात्मा, स एवाऽऽ­दि­त्य­म­ण्ड­ल­वर्ती परमात्मा, यो मण्डलवर्ती, स एवा­स्म­द्दे­हा­दि­वर्ती' इति । तत्र – स्वदे­ह­र­वि­म­ण्ड­ल­यो­र­न्यो­न्य­व्य­ति­हारे श्रूयमाणेऽपि जीव­ब्र­ह्मै­क्य­ल­क्ष­णस्य वस्तुन एकत्वादेकधैव बुद्धिः कर्तव्या । न च व्यति­हा­र­पा­ठ­वै­य­र्थ्यम् , एकस्यापि वस्तुनो दार्ढ्याय तदुपपत्तेः ॥
इति प्राप्ते, ब्रूमः - न खल्विदं तत्त्वा­व­बो­ध­प्र­क­र­णम् । येनै­क­त्व­प्र­ति­प­त्ति­र्दा­र्ढ्य­म­पे­क्षते । किं तर्हि सगु­णो­पा­स्ति­प्र­क­र­णम् । उपास्तिश्च यथावचनमनुष्ठेया । ततो व्यतिहारेण द्वेधाबुद्धिः कर्तव्या । नन्वेवं सति जीवस्य ब्रह्मै­क्य­मु­त्क­र्षाय कल्पते, ब्रह्मणस्तु जीवैक्यमपकर्षाय स्यात् - इति चेत् । नायं दोषः, यथा देहा­दि­र­हि­त­स्या­प्यु­पा­स­क­चि­त्त­स्थै­र्यार्थ चतु­र्भु­जा­ष्ट­भु­जा­दि­मू­र्त्यु­प­दे­शेऽपि नापकर्षः, तथा वचनबलादीशस्य जीवत्वोपासनेन तव का हानिः । यदि - उपासनाय व्यति­हा­रेऽ­नु­ष्ठी­य­मा­नेऽ­र्था­ज्जी­व­ब्र­ह्म­णो­रे­क­त्व­प्र­ति­प­त्ति­र्दृढा भवेत् , तर्हि चरितार्थाः सम्पद्यामहे । तस्मात् - व्यतिहारेण द्विधाबुद्धिः कर्तव्या ॥

(चतुर्विंशे सत्य­वि­द्या­धि­क­रणे सूत्रम् - )
चतु­र्वि­शा­धि­क­र­ण­मा­र­च­यति -
द्वे सत्यविद्ये एका वा यक्ष­र­व्या­दि­वा­क्ययोः ॥
फलभेदादुभे लोकजयात्पापहतेः पृथक् ॥ ५१ ॥
प्रकृ­ता­क­र्ष­णा­देका पाप­घा­तोऽ­ङ्ग­धी­फ­लम् ॥
अर्थवादोऽथवा मुख्यो युक्तोऽ­धि­कृ­त­क­ल्पकः ॥ ५२ ॥
बृहदारण्यके श्रूयते - "स यो हैतन्महद्यक्षं प्रथमजं वेद - सत्यं ब्रह्म – इति, जय­ती­मा­ल्लो­कान्" इति । यक्षं पूज्यम् , प्रथमजं हिरण्यगर्भरूपेण प्रथममुत्पन्नम् - इत्यर्थः । अनेन वाक्येन सत्यविद्यां प्रतिपाद्य पश्चादिदं प्रतिपाद्यते - "तद्य­त्त­त्स­त्यम् , . असौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षि­णेऽ­क्ष­न्पु­रुषः" इति । तत्तत्रेत्यर्थः । एवं वाक्यद्वयोक्ते सत्यविद्ये द्वे भवतः । कुतः - फलभेदात् । यक्षवाक्ये - लोकजयः फलमुक्तम् । रविवाक्ये च "हन्ति पाप्मानं जहाति" च इति पापघातलक्षणं पृथक्फलं श्रूयते । तस्मात् - विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - एकैवेयं सत्यविद्या । "तद्य­त्त­त्स­त्यम्" इति प्रकृतं सत्यं ब्रह्मानूद्य "असौ स आदित्यः" इति रवि­रू­प­त्व­व­र्ण­नात् । न च – अत्र फलभेदोऽस्ति, पाप­घा­त­स्यो­पा­स्ति­फ­ल­त्वे­ना­र्थ­वा­द­त्वात् । 'अङ्गेषु फल­श्रु­ति­र­र्थ­वादः' इति­न्या­ये­ना­वि­व­क्षि­त­त्वात् । अथवा - अत्रो­पा­स­ना­या­म­धि­कार्य श्रव­णा­च्छ्रू­य­मा­ण­फ­ल­स्यैव कामो­प­ब­न्ध­म­ध्या­हृ­त्या­धि­का­रिणि कल्पयितव्ये सति 'पाप­घा­त­लो­क­ज­य­काम उपासीत', इति वक्तुं शक्य­त्वा­द्वि­शि­ष्ट­फ­लस्य विवक्षितत्वम् । तस्मात् - एकैवेयं सत्यविद्या ॥

(पञ्चविंशे दह­र­हा­र्दा­का­श­यो­रु­प­सं­हा­रा­धि­क­रणे सूत्रम् - )
पञ्च­विं­शा­धि­क­र­ण­मा­र­च­यति -
असंहृतिः संहृतिर्वा व्योम्नो­र्द­ह­र­हा­र्दयोः ॥
उपा­स्य­ज्ञे­य­भे­देन तद्गु­णा­ना­म­सं­हृतिः ॥ ५३ ॥
उपास्त्यै क्वचिदन्यत्र स्तुतये चास्तु संहृतिः ॥
दहराकाश आत्मैव हृदाकाशोऽपि नेतरः ॥ ५४ ॥
छान्दोग्ये - "दह­रोऽ­स्मि­न्न­न्त­रा­काशः" इति हृद­या­न्त­र्ग­त­त्वेन श्रुतस्य दहराकाशस्य सत्यकामत्वादयो गुणा उक्ताः । बृहदारण्यके तु "य एषोऽन्तर्हृदय आकाशः" इत्युक्तस्य हार्दाकाशस्य वशित्वादयो गुणा उक्ताः । तत्र न पर­स्प­र­गु­णो­प­सं­हारः, दह­रा­का­श­स्यो­पा­स्य­त्वेन, हार्दाकाशस्य ज्ञेयत्वेन विद्याभेदात् ॥
इति प्राप्ते, ब्रूमः - तत्र वशित्वादीनां दहराकाश उपसंहार उपास्त्यै भविष्यति । सत्य­का­म­त्वा­दीनां तु हार्दाकाश उपसंहारः स्तुत्यर्थः । न च – प्रयो­ज­न­व­त्त्वेऽपि विद्याभेदो दुष्परिहरः - इति वाच्यम् , विद्या­भे­देऽ­प्यु­भ­य­त्राऽऽ­का­श­श­ब्द­वा­च्य­स्याऽऽ­त्मन एकत्वात् । दहराकाशस्य तावदात्मत्वं दहराधिकरणे (ब्र० सू० १ । ३ । ५ ) वर्णितम् । हार्दाकाशस्यापि "महानज आत्मा" इत्यु­प­क्र­मा­दा­त्म­त्व­म­व­ग­न्त­व्यम् । तस्मात् - उभयत्रोपसंहारः ॥

(षड्विंशे, उपवासे प्राणा­हु­ति­लो­पा­धि­क­रणे सूत्रे - )
षड्विं­शा­धि­क­र­ण­मा­र­च­यति -
न लुप्यते लुप्यते वा प्राणा­हु­ति­र­भो­जने ॥
न लुप्यतेऽतिथेः पूर्वं भुञ्जी­ते­त्या­द­रो­क्तितः ॥ ५५ ॥
भुज्य­र्था­न्नो­प­जी­वि­त्वा­त्त­ल्लोपे लोप इष्यते ॥
भुक्तिपक्षे पूर्व­भु­क्ता­वा­द­रोऽ­प्यु­प­प­द्यते ॥ ५६ ॥
छान्दोग्ये वैश्वा­न­र­वि­द्या­वा­क्य­शेषे - "यां प्रथमामाहुतिं जुहुयात् , तां जुहुयात् - प्राणाय स्वाहेति" इति प्राणाहुतयः पठ्यन्ते । तत्र केन­चि­न्नि­मि­त्तेन भोज­न­लो­पेऽ­प्यु­पा­स­कस्य प्राणाहुतिर्न लुप्यते, "पूर्वोऽ­ति­थि­भ्योऽ­श्नी­यात्" इत्य­ति­थि­भो­ज­ना­त्पू­र्व­मु­पा­स­कस्य यजमानस्य भोजनं प्रति­पा­द­यन्त्याः श्रुतेः प्राणा­हु­ता­वा­द­र­द­र्श­नात् । तमादरं प्रख्या­प­यि­तु­मे­वा­ति­थि­भो­ज­नस्य प्राथम्यं निन्दति - "यथा ह वै स्वय­म­हु­त्वाऽ­ग्नि­होत्रं परस्य जुहुयात् , तादृ­क्त­त्स्यात्" इति । तस्मात् - प्राणाहुतेरलोपः ॥
इति प्राप्ते, ब्रूमः - "तद्य­द्भक्तं प्रथ­म­मा­ग­च्छे­त्त­द्धो­मी­यम्" इति भोजनार्थान्नस्य होम­द्र­व्य­त्व­श्र­व­णा­द्भो­ज­न­लोपे द्रव्या­भा­वा­दा­हु­ति­र्लु­प्यते । आदरस्तु भोजनपक्षे प्राथम्यविधानाय भविष्यति । तस्मात् - भोजनलोपे प्राणा­हु­ति­र्लु­प्यते ॥

(सप्तविंशे, अङ्गा­व­ब­द्धो­पा­स्त्य­नै­य­त्या­धि­क­रणे सूत्रम् - )
सप्त­विं­शा­धि­क­र­ण­मा­र­च­यति
नित्या अङ्गावबद्धाः स्युः कर्मस्वनियता उत ॥
पर्ण­व­त्क्र­तु­स­म्बन्धो वाक्या­न्नि­त्या­स्ततो मताः ॥ ५७ ॥
पृथ­क्फ­ल­श्रु­ते­र्नैता नित्या गोदोहनादिवत् ॥
उभौ कुरुत इत्युक्तं कर्मो­पा­स्य­नु­पा­सिनोः ॥ ५८ ॥
उद्गीथादिषु कर्माङ्गेषु प्रति­मा­दि­व­त्प्र­ती­क­भू­तेषु विधीयमाना देव­तो­पा­स्त­योऽ­ङ्गा­व­बद्धाः । ताश्च कर्म­स्व­नु­ष्ठी­य­मा­नेषु कर्मा­ङ्ग­व­न्नि­य­मे­ना­नु­ष्ठा­तव्याः । कर्म­प्र­क­र­ण­मा­र­भ्या­ध्य­य­ना­भा­वेऽपि वाक्या­त्क्र­तु­स­म्ब­न्धो­प­पत्तेः । यथा - "यस्य पर्णमयी जुहू­र्भ­वति" इत्य­ना­र­भ्या­धी­त­स्या­प्य­व्य­भि­चा­रि­जु­हू­द्वारा वाक्या­त्क्र­तु­स­म्बन्धः, तथा "य एवं विद्वा­नु­द्गा­यति, य एवं विद्वान्साम गायति" इत्या­दि­ष्व­व्य­भि­चा­रि­त­क्र­तु­स­म्ब­न्धि­सा­मो­द्गी­था­दि­द्वारा तदुपासनानां क्रतुसम्बन्धः प्रतीयते । तस्मात् - कर्मसु नियता उपास्तयः ॥
इति प्राप्ते, ब्रूमः - गोदो­ह­ना­दि­व­द­नि­यता उपास्तयः । यथा - "चमसेनापः प्रणयेत् , गोदोहनेन पशुकामस्य" इत्य­त्रा­प्प्र­ण­य­न­मा­श्रित्य विधीयमानमपि गोदो­ह­न­म­क्र­त्व­र्थ­त्वा­दै­च्छि­कम् , न तु प्रण­य­ना­दि­व­न्नि­य­तम् । तथा - कर्मा­ङ्गा­न्या­श्रित्य विधीयमाना उपास्तयो न क्रत्वर्थाः, किन्तु पुरुषार्थाः, कर्म­फ­ला­त्पृ­थ­क्फ­ल­श्र­व­णात् । "वर्षति हास्मै" इति पञ्चविधे सामनि वृष्टि­दे­व­ता­मु­पा­सी­नस्य कामवृष्टिः क्रतु­फ­ला­त्पृ­थ­क्फ­ल­त्वेन श्रूयते । किञ्च "तेनोभौ कुरुतो यस्त्वेतदेवं वेद, यश्च न वेद" इत्य­स्मि­न्न­ङ्गा­व­ब­द्धो­पा­स्ति­वा­क्य­शेष उपा­स­का­नु­पा­स­क­यो­रु­पा­स्या­धा­र­भू­तेन तेनाङ्गेन कर्मानुष्ठानं विस्प­ष्ट­मा­म्ना­यते । तस्मा­त्क­र्म­स्व­नि­यता उपास्तयः ॥

(अष्टाविंशे वायु­प्रा­णो­पा­स­नयोः प्रयो­ग­भे­दा­धि­क­रणे सूत्रम् - )
अष्टा­विं­शा­धि­क­र­ण­मा­र­च­यति -
एकीकृत्य पृथग्वा स्याद्वा­यु­प्रा­णा­नु­चि­न्त­नम् ॥
तत्त्वा­भे­दा­त्त­यो­रे­की­क­र­णे­ना­नु­चि­न्त­नम् ॥ ५९ ॥
अव­स्था­भे­द­तोऽ­ध्या­त्म­म­धि­दैवं पृथक् श्रुतेः ॥
प्रयोगभेदो राजा­दि­गु­ण­के­न्द्र­प्र­दा­न­वत् ॥ ६० ॥
संव­र्ग­वि­द्या­याम् - अधिदैवं वायु­रु­पा­स्य­त्वेन श्रुतः, अध्यात्मं च प्राणः । तत्र – प्राणस्य वायुकार्यत्वेन तत्त्व­भे­दा­भा­वा­दु­भ­यो­रे­की­क­र­णेन चिन्तनम् ॥
इति प्राप्ते, ब्रूमः - तत्त्व­भे­दा­भा­वेऽपि कार्यत्वेन कारणत्वेन चावस्थाभेदस्य सद्भावात् "इत्य­धि­दै­वम् । अथा­ध्या­त्मम्" इति विविच्य पृथगनुचिन्तनाय श्रुति­र्वि­वि­नक्ति । तस्मात् - इन्द्र­प्र­दा­न­व­त्प्र­यो­ग­भेदो द्रष्टव्यः । यथा - "इन्द्राय राज्ञे पुरो­डा­श­मे­का­द­श­क­पा­लम् , इन्द्रा­या­धि­रा­जाय, इन्द्राय स्वराज्ञे" इती­न्द्र­स्यै­क­त्वेऽपि राजा­दि­गु­ण­भे­दा­त्पृ­थ­क्पु­रो­डा­श­प्र­दानं कृतम् , तथा - एकस्यापि वायुतत्त्वस्य स्थान­भे­दा­त्पृ­थ­क्चि­न्तनं भविष्यति ॥

(एकोनत्रिंशे मनश्चिदादीनां स्वत­न्त्र­ता­धि­क­रणे सूत्राणि - )
एको­न­त्रिं­शा­धि­क­र­ण­मा­र­च­यति -
कर्मशेषाः स्वतन्त्रा वा मन­श्चि­त्प्र­मु­खा­ग्नयः ॥
कर्मशेषाः प्रकरणाल्लिङ्गं त्वन्या­र्थ­द­र्श­नम् ॥ ६१ ॥
उन्ने­य­वि­धि­गा­ल्लि­ङ्गा­देव श्रुत्या च वाक्यतः ॥
बाध्यं प्रकरणं तस्मा­त्स्व­तन्त्रं वह्निचिन्तनम् ॥ ६२ ॥
अग्निरहस्ये कस्मि­श्चि­द्ब्रा­ह्मणे श्रूयते - "षट्त्रिं­शतं सह­स्रा­ण्य­प­श्य­दा­त्म­नोऽ­ग्नी­न­र्का­न्म­नो­म­या­न्म­न­श्चितः" इति । अस्यायमर्थः - 'पुरुषस्य शतसंवत्सरपरिमित आयुषि षट्त्रिं­श­त्स­ह­स्राणि दिनानि भवन्ति । तत्रै­कै­क­स्मि­न्दि­वसे या मनोवृत्तिः, तस्या एकैकाग्नित्वेन ध्याने सति ध्यातव्या अग्नयः षट्त्रिं­श­त्स­ह­स्राणि सम्पद्यन्ते । ते च प्रत्य­गा­त्म­स्व­रू­प­त्वेन ध्येयाः । एत एवार्चनीयाः । मनसा चीयन्ते सम्पद्यन्त इति मनश्चितः । एवं - वाक्चितः, प्राणचितः, चक्षु­श्चितः' - इति ते चाग्न­योऽ­ग्नि­च­य­न­प्र­क­र­ण­प­ठि­त­त्वा­त्क­र्म­शेषाः, न तु स्वत­न्त्र­वि­द्या­त्मकाः । ननु - लिङ्ग­ब­ला­त्स्व­त­न्त्र­वि­द्या­त्मका भविष्यन्ति । तथाहि - "तान्है­ता­ने­वं­विदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते" इति वाक्यशेषः पठ्यते । तस्यायमर्थः - 'उपासकस्य स्वप­तोऽ­प्य­ग्नयो' न च्छिन्नाः । स्वकी­य­म­नो­वा­गा­दि­वृ­त्त्यु­प­र­मेऽपि प्रबु­द्ध­पु­रु­ष­म­नो­वा­गा­दि­वृ­त्तीनां सर्वदा प्रव­र्त­मा­न­त्वात् , अविशेषेण पुरु­ष­म­न­आ­दि­वृ­त्ती­ना­म­ग्नि­त्वेन वर्णनात् । तस्मात् - एवंविदे स्वपतेऽपि ताने­ता­न­ग्नी­न्स­र्वदा सर्वाणि भूतानि चिन्वन्ति, - इति । अत्र याव­ज्जी­व­म­ग्नी­ना­म­वि­च्छे­देन नैरन्तर्यं प्रतीयते । तच्च विद्या­स्वा­तन्त्र्ये लिङ्गम् । कर्मशेषत्वे हि - कर्मणो यावज्जीवं नैर­न्त­र्या­भा­वा­त्त­च्छे­षाणां मनश्चिदादीनां कथं नैरन्तर्यं स्यात् । तच्च लिङ्गं प्रकरणाद्बलीयः । तस्मात् - स्वतन्त्राः - इति चेत् । नायं दोषः, अन्या­र्थ­द­र्श­न­रू­प­त्वेन लिङ्गस्यैतस्य दुर्बलत्वात् । तथाहि - द्विविधं लिङ्गम् - सामर्थ्यम् , अन्यार्थदर्शनं च, इति । तत्र – विध्युद्देशगतं लिङ्गं सामर्थ्यम् । तच्च स्वातत्र्येण प्रमाणम् । अर्थवादगतं त्वन्यशेषवाक्ये दृश्य­मा­न­त्वा­द­न्या­र्थ­द­र्श­नम् । तच्च तात्प­र्य­र­हि­त­त्वान्न स्वातन्त्र्येण प्रमाणम् । किन्तु प्रमे­य­स्ता­व­क­प्र­मा­णा­न्तरे केवलमुपोद्बलकं भवति । एवं च सत्य­त्रो­दा­हृ­त­लि­ङ्गस्य दुर्ब­ल­त्वा­त्प्र­क­र­णा­त्क­र्म­शेषा मनश्चिदादयः ॥
इति प्राप्ते, ब्रूमः - न तावदत्र शाब्दो विधिरुपलभ्यते, लिङ्गा­दे­र­श्र­व­णात् । किं तर्हि - अर्थ­वा­द­सा­म­र्थ्या­दु­न्नेयो विधिः । तथा च – फल­प्र­ति­पा­द­क­स्ता­व­क­वा­क्यानां रात्रि­स­त्र­न्या­ये­ना­धि­का­रि­स­म­र्प­ण­प­र्य­व­सा­ना­द­शे­ष­म­प्ये­त­द्ब्रा­ह्मणं विधिरूपं भविष्यति । ततो विध्यु­द्दे­श­ग­त­त्वेन लिङ्गस्य प्राबल्यम् । किञ्च "ते हैते विद्याचित एव" इत्येव श्रुत्या कर्माङ्गत्वं व्यावर्तते तथा "विद्यया हैवैत एवंविदश्चिता भवन्ति" इति वाक्यमपि स्वात­न्त्र्य­ग­म­कम् । तस्मात् - श्रुति­लि­ङ्ग­वाक्यैः प्रकरणं बाधित्वा स्वत­न्त्र­वि­द्या­त्म­कत्वं मन­श्चि­दा­दी­ना­म­भ्यु­प­ग­न्त­व्यम् ॥

(त्रिंशे, आत्मनो देहा­ति­रि­क्त­त्वा­धि­क­रणे सूत्रे - )
त्रिंशा­धि­क­र­ण­मा­र­च­यति -
आत्मा देहस्तदन्यो वा चैतन्यं मदशक्तिवत् ॥
भूतमेलनजं देहे नान्यत्राऽऽत्मा वपुस्ततः ॥ ६३ ॥
भूतो­प­ल­ब्धि­र्भू­तेभ्यो विभिन्ना विषयित्वतः ॥
सैवाऽऽत्मा भौति­का­द्दे­हा­द­न्योऽसौ परलोकभाक् ॥ ६४ ॥
'मन­श्चि­दा­दीनां क्रत्वर्थता नास्ति, किन्तु पुरु­षा­र्थ­त्वम्' इत्युक्ते सति 'कोऽसौ पुरुषः' इति प्रस­ङ्गा­द्वि­चा­र्यते । तदेतदधिकरणं पूर्वो­त्त­र­यो­रु­भ­यो­र्मी­मां­सयोः शेषभूतम् , स्वर्ग­मो­क्ष­भा­गिन आत्मनः प्रति­पा­द्य­त्वात् । तत्र – बौद्धा लौकायतिकाः - देह एवाऽऽत्मा - इति मन्यन्ते । अन्व­य­व्य­ति­रे­काभ्यां चैतन्यस्य देह एवोपलम्भात् । सति हि देहे चैत­न्य­मु­प­ल­भ्यते, न त्वसति । न च – चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्त आत्मत्वं शङ्कनीयम् , क्रमु­क­ना­ग­व­ल्ली­चू­र्णानां संयो­गा­न्म­द­श­क्ति­रिव देहा­का­र­प­रि­ण­तेभ्यो भूतेभ्यो जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात् । तस्मात् - चेतनो देह आत्मा ॥
इति प्राप्ते, ब्रूमः - पृथिव्यादीनां भूता­ना­मु­प­ल­ब्धि­र्भू­तेभ्यो व्यतिरिक्ता भवितुमर्हति, विषयित्वात् , 'यद्य­द्वि­षयि, तत्त­द्वि­ष­या­द्व्य­ति­रिक्तं, यथा रूपाच्चक्षुः । तथासति तादृ­श­चै­त­न्य­मा­त्म­तत्त्वं वदन्तं प्रति कथं भौति­क­दे­ह­रू­प­त्व­मा­प­द्येत । सत्येव देहे­चै­त­न्य­मु­प­ल­भ्यते, नासति' इति याव­न्व­य­व्य­ति­रे­का­वुक्तौ, तत्र व्यति­रे­कोऽ­सिद्धः, असत्यपि देेहे पर­लो­क­गा­मि­न­श्चि­दा­त्मनः शास्त्रे­णो­प­ल­म्भात् । शास्त्रस्य च प्रामाण्यं समर्थनीयम् । सत्यपि मृते देहे चैत­न्या­नु­प­ल­ब्धे­श्चा­न्व­या­सिद्धिः ॥

(एकत्रिंशे, उक्थादिधियोः शाखा­न्त­रेऽ­नु­वृ­त्त्य­धि­क­रणे सूत्रे - )
एक­त्रिं­शा­धि­क­र­ण­मा­र­च­यति -
उक्थादिधीः स्वशा­खा­ङ्गे­ष्वे­वा­न्य­त्रापि वा भवेत् ॥
सांनि­ध्या­त्स्व­स्व­शा­खा­ङ्गे­ष्वे­वासौ व्यवतिष्टते ॥ ६५ ॥
उक्थो­द्गी­था­दि­सा­मान्यं तत्तच्छब्दैः प्रतीयते ॥
श्रुत्या च संनि­धे­र्बा­ध­स्त­तोऽ­न्य­त्रापि यात्यसौ ॥ ६६ ॥
अङ्गा­व­ब­द्धो­पा­स­नेषु - उक्थ­शा­स्त्राख्ये कर्मा­ङ्ग­पृ­थि­व्या­दि­दृ­ष्टि­रै­त­रे­यो­प­नि­षदि श्रूयते । उक्थं तु कौषी­त­क्या­दि­शा­खा­न्त­रे­ष्वपि विहितम् । तत्र – 'पृथि­व्या­दि­दृ­ष्टि­रै­त­रे­य­ग­तोक्थ एव व्यवतिष्ठते, उत – कौषी­त­क्या­दि­ष्व­नु­व­र्तते' इति सन्देहे सति संनि­हि­त­त्वा­त्स्व­शा­खा­या­मेव व्यवतिष्ठते ॥
इति प्राप्ते, ब्रूमः - उक्थ­श­ब्द­स्ता­व­न्मु­ख्यया वृत्त्या सर्व­शा­खा­ग­त­मु­क्थ­सा­मा­न्य­मा­चष्टे । तत उक्थ­श्रु­ति­व­शा­त्स­र्व­शा­खा­ग­तो­क्थ­शा­स्त्रे­ष्व­नु­वृत्तिः प्राप्ता । श्रुतिश्च संनिधेर्बलीयसी । तस्मात् - क्वचिद्विहिता धीः शाखा­न्त­रे­ष्व­नु­ग­च्छति ॥

(द्वात्रिंशे वैश्वा­न­र­वि­द्यायां सम­स्तो­पा­स­ना­धि­क­रणे सूत्रम् - )
द्वात्रिं­शा­धि­क­र­ण­मा­र­च­यति -
ध्येयो वैश्वानराशोऽपि ध्यातव्यः कृत्स्न एव वा ॥
अंशे­षू­पा­स्ति­फ­ल­यो­रु­क्ते­र­स्त्यं­श­धी­रपि ॥ ६७ ॥
उप­क्र­मा­व­सा­नाभ्यां समस्तस्यैव चिन्तनम् ॥
अंशोपास्तिफले स्तुत्यै प्रत्ये­को­पा­स्ति­नि­न्द­नात् ॥ ६८ ॥
वैश्वा­न­र­वि­द्यायां विरा­ड्रू­प­वै­श्वा­न­रस्य द्युलो­क­सू­र्य­वा­य्वा­का­शो­द­क­पृ­थिव्यो मूर्ध­च­क्षु­प्रा­ण­म­ध्य­श­री­र­मू­त्र­स्था­न­पा­द­रू­पेण ध्यातव्यांशा निरूपिताः । तेषामंशानामपि प्रत्येकं स्वात­न्त्र्ये­णो­पा­सनं विद्यते, उपास्तिशब्दस्य फलकथनस्य च प्रत्ये­क­मु­प­ल­भ्य­मा­न­त्वात् । तथाहि - "औपमन्यव कं त्वमा­त्मा­न­मु­पास्से" इति, "दिवमेव भगवो राजन्निति होवाच" इति प्रश्नो­त्त­राभ्यां द्युलो­क­मा­त्रो­पा­स्ति­र­व­ग­म्यते । तस्मात् - "तव सुतं प्रसुतमासुतं कुले दृश्यते" इति सुता­दि­श­ब्द­वा­च्यानां सोमयागविशेषाणां सम्पत्तिः फलत्वेनावगम्यते । एव­मं­शा­न्त­रे­षू­दा­ह­र्त­व्यम् । सर्वा­व­य­व­स­म­ष्ट्यु­पा­सनं "तस्य ह वा एतस्याऽऽत्मनो वैश्वा­न­रस्य" इति वाक्यशेषे विस्पष्टं प्रतीयते । तस्मात् - व्यस्तोपासनं समस्तोपासनं चोभयं विवक्षितम् ॥
इति प्राप्ते, ब्रूमः - समस्तोपासनमेव विवक्षितम् , न तु व्यस्तोपासनम् । कुतः - उप­क्र­मो­प­सं­हा­रा­भ्या­मे­क­वा­क्य­त्वा­व­ग­मात् । उपक्रमे तावत् "को न आत्मा किं ब्रह्म" इति कृत्स्नमेव ब्रह्मो­पा­स्य­त्वेन विचारयितुं प्रक्रान्तम् । उपसंहारेऽपि "तस्य ह वै" - इत्यादिना समस्तोपासनं विस्प­ष्ट­म­भि­धी­यते । तथा च सति - अंशोपास्तिषु पृथ­ग­भ्यु­प­ग­म्य­मा­नासु वाक्यभेदः प्रसज्यते । पृथ­गु­पा­स्ति­फ­ल­क­थनं तु कैमुतिकन्यायेन स्तुत्यै भविष्यति । अथ – बहूपास्तिलाभाय वाक्य­भे­दोऽ­प्य­भ्यु­प­ग­म्यते, तदा प्रत्ये­को­पा­स्ति­नि­न्दा­व­च­नानि कथं समर्थयेथाः । निन्द्यन्ते हि प्रत्ये­को­पा­स्तयः । "मूर्धा ते व्यप­ति­ष्यत्" इति शिरोमात्रोपासनं निन्द्यते । तस्मात् - समस्तोपासनमेव विवक्षितम् ॥

(त्रयस्त्रिंशे शाण्डि­ल्या­दि­वि­द्यानां भिन्नताधिकरणे सूत्रम् - )
त्रय­स्त्रिं­शा­धि­क­र­ण­मा­र­च­यति -
न भिन्ना उत भिद्यन्ते शाण्डि­ल्य­द­ह­रा­दयः ॥
सम­स्तो­पा­स­न­श्रै­ष्ठ्या­द्ब्र­ह्मै­क्या­द­प्य­भि­न्नता ॥ ६९ ॥
कृत्स्नो­पा­स्ते­र­श­क्य­त्वा­द्गु­णै­र्ब्रह्म पृथक्लृतम् ॥
दहरादीनि भिद्यन्ते पृथ­क्पृ­थ­गु­प­क्र­मात् ॥ ७० ॥
छान्दोग्ये शाण्डि­ल्य­वि­द्यायां मधु­वि­द्ये­त्या­दयः पठिताः । तथा - शाखान्तरेष्वपि । तत्र पूर्वा­धि­क­र­ण­न्या­येन समस्तोपासनस्य श्रेष्ठत्वात् , वेद्यस्य ब्रह्मण एकत्वाच्च सर्वा­सा­मे­क­वि­द्या­त्वम् ॥
इति प्राप्ते, ब्रूमः - अनन्तासु विद्या­स्वे­की­क­र­णे­ना­नु­ष्ठानं तावदशक्यमिति विद्या­भे­दोऽ­भ्यु­प­ग­न्तव्यः । न च – वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयम् , गुणभेेदेन भेदोपपत्तेः । नच – एकैकस्या विद्याया इयत्ता निश्चेतुमशक्या । प्रत्ये­क­मु­प­क्र­मो­प­सं­हा­र­यो­स्त­न्नि­श्चा­य­क­त्वात् । तस्मात् - विद्यानां नानात्वमिति ॥

(चतुस्त्रिंशे, अह­ङ्ग्र­ह­वि­द्यायां विक­ल्प­नि­य­मा­धि­क­रणे सूत्रम् - )
चतु­स्त्रिं­शा­धि­क­र­ण­मा­र­च­यति -
अह­ङ्ग्र­हे­ष्व­नि­यमो विकल्पनियमोऽथवा ॥
नियामकस्याभावेन याथाकाम्यं प्रतीयताम् ॥ ७१ ॥
ईश­सा­क्षा­त्कृ­ते­स्त्वे­क­वि­द्य­यैव प्रसिद्धितः ॥
अन्या­न­र्थ­क्य­वि­क्षेपौ विकल्पस्य नियामकौ ॥ ७२ ॥
द्विवि­धा­न्यु­पा­स­नानि - अहङ्ग्रहाणि, प्रतीकानि चेति । आत्मनः सगु­ण­त्वो­पा­स­ने­ष्व­ह­ङ्ग्र­हस्य चतुर्थाध्याये वक्ष्य­मा­ण­त्वा­त्ता­न्य­ह­ङ्ग्र­हाणि । अनात्मवस्तुनि देवतादृष्ट्या संस्कृ­त्यो­पा­स्य­मा­नानि प्रतीकानि । तत्र – अहङ्ग्रहेषु शाण्डि­ल्य­वि­द्या­द्यु­पा­स­नेषु, एकं द्वे वहूनि चोपासनानि याथा­का­म्ये­ना­नु­ष्ठे­यानि, विकल्पस्य नियामकाभावात् । न हि 'शाण्डि­ल्यो­पा­सनं दह­रो­पा­स­न­म­न्यद्वा, एकमेवानुष्ठेयं नेतरत्' इति विकल्पनियमे किञ्चि­त्का­र­ण­मस्ति । तस्मात् - याथाकाम्यम् ॥
इति प्राप्ते, ब्रूमः - अन्यानर्थक्यं तावदेकं नियामकम् । तथा हि - ईश्व­र­सा­क्षा­त्कार उपासनस्य प्रयोजनम् । तच्चै­के­नै­वो­पा­स­नेन सिध्यति, तत्रा­न्यो­पा­स­न­वै­य­र्थ्यम् । किञ्च – उपासनेषु न प्रमाणजन्यः साक्षात्कारः । किं तर्हि निरन्तरभावनया ध्येय­ता­दा­त्म्या­भि­मानः । स चाभिमान एक­मु­पा­स­न­म­नु­ष्ठाय तत्प­रि­त्य­ज्या­न्यत्र प्रवर्तमानस्य पुरुषस्य चित्त­वि­क्षे­पा­त्कथं नाम दृढीभवेत् । तस्मात् - आन­र्थ­क्य­वि­क्षो­प­यो­र्नि­या­म­क­त्वा­द्वि­कल्पो नियम्यते ॥

(पञ्चत्रिंशे लौकिकप्रतीकेषु याथा­का­म्या­धि­क­रणे सूत्रम् - )
पञ्च­त्रिं­शा­धि­क­र­ण­मा­र­च­यति -
प्रतीकेषु विकल्पः स्याद्या­था­का­म्येन वा मतिः ॥
अह­ङ्ग्र­हे­ष्वि­वै­तेषु साक्षात्कृत्यै विकल्पनम् ॥ ७३ ॥
देवो भूत्वे­ति­व­न्नात्र काचि­त्सा­क्षा­त्कृतौ मितिः ॥
याथा­का­म्य­म­तोऽ­मीषां समु­च्च­य­वि­क­ल्पयोः ॥ ७४ ॥
प्रतीकोपासनेषु पूर्वा­धि­क­र­ण­न्यायः ॥
इति प्राप्ते, ब्रूमः - अस्त्यत्र महद्वैषम्यम् । "देवो भूत्वा देवा­न­प्येति" इति 'जीवन्नेव भाव­ना­प्र­क­र्ष­व­शा­द्दे­व­सा­क्षा­त्कारं प्राप्य मृतो देव­त्व­मु­पैति' इति यथाऽ­ह­ङ्ग्र­हे­ष्व­व­ग­म्यते, न तथा प्रतीकेषु साक्षा­त्का­र­फ­लत्वे किञ्चि­न्मा­न­मस्ति । साक्षा­त्क­र­फ­ल­त्व­भावे च तत्र तत्र प्रोक्ता भोग्य­व­स्तु­प्रा­प्तयः फल­त्वे­ना­भ्यु­प­ग­न्तव्याः । तथा च सति भिन्न­फ­ल­त्वा­न्ना­न्या­न­र्थ­क­त्वम् । विक्षेपशङ्का तु दूरापेता, एकं प्रतीकं केषु­चि­त्क्ष­णे­षू­पास्य क्षणान्तरे प्रती­का­न्त­रो­पा­सने पूर्वो­पा­स्ति­ज­न्य­स्या­पू­र्व­स्या­वि­ना­शात् । तस्मात् - विकल्पेनैकमेव वा, बहूनि समुच्चित्य वा, याथाकाम्येन प्रती­क­मु­पा­सि­त­व्यम् ॥

(षट्त्रिंशे कर्मा­ङ्ग­प्र­ती­केषु याथा­का­म्या­धि­क­रणे सूत्राणि - )
षट्त्रिं­शा­धि­क­र­ण­मा­र­च­यति -
समु­च्च­योऽ­ङ्ग­ब­द्धेषु याथाकाम्येन वा मतिः ॥
समु­च्चि­त­त्वा­द­ङ्गानां तद्बद्धेषु समुच्चयः ॥ ७५ ॥
ग्नहं गृहीत्वा स्तोत्र­स्याऽऽ­रम्भ इत्यादिवन्नहि ॥
श्रूयते सहभावोऽत्र याथाकाम्यं ततो भवेत् ॥ ७६ ॥
द्विविधानि प्रतीकानि - लौकिकानि, कर्माङ्गानि च । तत्र लौकिकेषु प्रतीकेषु निर्णयः पूर्वत्रोक्तः । अत्र कर्माङ्गेषु समु­च्च­य­या­था­काम्ये विचार्येते । तत्र कर्माणि कर्माङ्गानि समु­च्चि­त्यै­वा­नु­ष्ठे­य­तया प्रयो­ग­वि­धि­प्रा­पि­तानि । तथा चाङ्ग­त­न्त्र­त्वा­द­ङ्गा­व­ब­द्धो­पा­स­ना­ना­मपि समुच्चयनियमः ॥
इति प्राप्ते, ब्रूमः - "ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्र­मु­पा­कु­र्या­त्स्तु­त­म­नु­शं­सति" इत्यादौ यथा ग्रह­स्तो­त्र­शं­स­ना­दीनां नियतः पौर्वापर्येण सहभावः श्रुतः । न तथोपासनेषु श्रूयते । तस्मात् - विक­ल्प­स­मु­च्च­य­यो­र्या­था­का­म्यम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि ३६ १३७
सूत्राणि ६६ ४२६

(प्रथमे पुरु­षा­र्था­धि­क­रणे - आत्मज्ञानस्य स्वत­न्त्र­ता­धि­क­रणे सूत्राणि - )
तृतीयाध्यायस्य चतुर्थपादे प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
क्रत्व­र्थ­मा­त्म­वि­ज्ञानं स्वतन्त्रं वाऽऽत्मनो यतः ॥
देहा­ति­रे­क­म­ज्ञात्वा न कुर्यात्क्रतुगं ततः ॥ १ ॥
नाद्वैतधीः कर्महेतुर्हन्ति प्रत्युत कर्म सा ॥
आचारो लोकसङ्ग्राही स्वतन्त्रा ब्रह्मधीस्ततः ॥ २ ॥
आत्मनो देहा­दि­व्य­ति­रे­क­ज्ञा­न­म­न्त­रेण पर­लो­क­गा­मि­त्वा­नि­श्च­या­ज्ज्यो­ति­ष्टो­मा­दि­प्र­वृ­त्ति­रेव न स्यादिति क्रतुषु प्रव­र्त­क­त्वे­नौ­प­नि­ष­द­मा­त्म­त­त्त्व­ज्ञानं कर्माङ्गम् ॥
इति प्राप्ते, ब्रूमः - द्विविधं देह­व्य­ति­रि­क्ता­त्म­ज्ञा­नम् - पर­लो­क­गा­मि­क­र्त्रा­त्म­वि­ज्ञ­न­मे­कम् , द्वितीयं ब्रह्मा­त्म­त­त्त्व­ज्ञानं चेति । तत्र – कर्त्रा­त्म­ज्ञा­नस्य प्रवर्तकत्वेऽपि नाद्वै­त­ब्र­ह्म­त­त्त्व­ज्ञानं प्रवर्तकम् । प्रत्युत – क्रिया­का­र­क­फ­ल­नि­षे­धेन निवर्तकमेव । ननु तत्त्वविदामपि जनकादीनां कर्म­प्र­वृ­त्ति­ल­क्षण आचारो दृश्यते । बाढम् । लोक­स­ङ्ग्र­हा­र्थ­म­य­मा­चारः स्यात् । यदि तत्त्वविदामपि मुक्तये कर्मा­ण्य­नु­ष्ठे­यानि स्युः, कथं तर्हि प्रजा­दि­वै­य­र्थ्य­श्रु­ति­रु­प­प­द्यते । "किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः" इति - आत्म­त­त्त्व­स्व­रू­पस्य लोक­स्या­प­रो­क्षत्वे सत्य­ना­त्म­लो­क­सा­ध­न­भू­तायाः प्रजाया वैयर्थ्यं श्रूयते । एवं "किमर्था वयमध्येष्यामहे, किमर्था वयं यक्ष्या­महे" इत्या­द्यु­दा­ह­र­णी­यम् । तस्मात् - आत्म­त­त्त्व­ज्ञानं स्वतन्त्रं पुरुषार्थसाधनम् , न तु कर्माङ्गम् ॥

(द्वितीये परामर्शाधिकरणे - संन्यासिन एव ब्रह्म­नि­ष्ठ­ता­धि­क­रणे सूत्राणि - )
द्विती­या­धि­क­र­णस्य प्रथ­म­व­र्ण­क­मा­र­च­यति -
नास्त्यू­र्ध्व­रेताः किंवाऽस्ति नास्त्य­सा­व­वि­धा­नतः ॥
वीरघातो विधेः क्लृप्ता­व­न्ध­प­ङ्ग्वा­दिगा स्मृतिः ॥ ३ ॥
अस्त्य­पू­र्व­विधेः क्लृप्ते­र्वी­र­हाऽ­न­ग्निको गृही ॥
अन्धादेः पृथ­गु­क्त­त्वा­त्स्व­स्थानां श्रूयते विधिः ॥ ४ ॥
पूर्वाधिकरणे - स्वत­न्त्र­मा­त्म­वि­ज्ञा­नम् - इत्युक्तम् । तस्य चाऽऽत्म­वि­ज्ञा­न­स्यो­र्ध्व­रे­तः­स्वा­श्र­मेषु सुल­भ­त्वा­दा­श्र­म­स­द्भा­व­श्चि­न्त्यते । तत्र – नास्त्यू­र्ध्व­रेताः - इति प्राप्तम् । कुतः - विध्यभावात् । छान्दोग्ये - "त्रयो धर्मस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्म­चा­र्या­चा­र्य­कु­ल­वासी तृतीयः" इत्यत्र यज्ञा­द्यु­प­ल­क्षि­त­गा­र्ह­स्थ्यस्य, तपः­श­ब्द­ल­क्षि­त­वा­न­प्र­स्थ­त्वस्य, नैष्ठि­क­ब्र­ह्म­च­र्यस्य परामर्शमात्रं गम्यते, न तु विधिरुपलभ्यते । न च – अपूर्वार्थत्वेन विधिः कल्पयितुं शक्यः, "वीरहा वा एष देवानां योऽग्नि­मु­द्धा­स­यते" इत्य­ग्न्यु­द्वा­स­न­ल­क्षि­तस्य गार्ह­स्थ्य­प­रि­त्या­गस्य निन्दितत्वात् । "चत्वार आश्रमाः" - इति स्मृतिस्तु गार्ह­स्थ्य­ध­र्मा­न­धि­कृ­ता­न्ध­प­ङ्ग्वा­दि­वि­षया भविष्यति । न ह्यन्ध­स्याऽऽ­ज्या­वे­क्ष­णो­पेते कर्म­ण्य­धि­का­रोऽस्ति । नापि पङ्गो­र्वि­ष्णु­क्र­मा­द्यु­पेते कर्मण्यधिकारः । तस्मात् - चक्षु­रा­दि­पा­ट­व­यु­क्त­स्याऽऽ­त्म­ज्ञा­नो­प­युक्त ऊर्ध्वरेता आश्रमो नास्ति ॥
इति प्राप्ते, ब्रूमः - अस्त्यू­र्ध्व­रेता आश्रमः । विध्य­श्र­व­णेऽ­प्य­पू­र्वा­र्थ­त्वेन विधेः कल्पयितुं शक्यत्वात् । न च – वीरघातदोषः उत्स­न्ना­ग्नि­गृ­ह­स्थ­वि­ष­य­त्वा­द्वी­र­ह­त्यायाः । यत्तु - अन्धादिविषयत्वं स्मृतेरुक्तम् । तदसत् , "अथ पुनरव्रती व्रती वा, स्नातकोऽस्रातको वा उत्स­न्ना­ग्नि­र­न­ग्निको वा, यदहरेव विरजेत् , तदहरेव प्रव्र­जेत्" इति गार्ह­स्थ्या­न­धि­कृ­तानां पृथ­क्सं­न्या­स­वि­धा­नात् । न च – चक्षु­रा­दि­पा­ट­व­व­ता­मा­श्र­मा­न्त­र­विधिः कल्पनीयः, जाबालश्रुतौ प्रत्य­क्ष­वि­ध्यु­प­ल­म्भात् । "ब्रह्म­चर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्र­जेत्" इति । तस्मात् - अस्त्या­श्र­मा­न्त­रम् ॥
द्विती­य­व­र्ण­क­मा­र­च­यति -
लोककाम्याश्रमी ब्रह्म­नि­ष्ठा­म­र्हति वा न वा ॥
यथावकाशं ब्रह्मैष ज्ञातु­म­र्ह­त्य­वा­र­णात् ॥ ५ ॥
अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम् ॥
कर्मत्यागी ततो ब्रह्म­नि­ष्ठा­म­र्हति नेतरः ॥ ६ ॥
"त्रयो धर्म­स्कन्धाः" इत्य­त्राऽऽ­श्र­मा­न­धि­कृत्य "सर्व एते पुण्यलोका भवन्ति" इत्या­श्र­मा­नु­ष्ठा­यिनां पुण्यलोकमभिधाय "ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति" इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि सम्भाव्यते । आश्र­म­क­र्मा­ण्य­नु­ष्ठाय यथावकाशं ब्रह्मनिष्ठायाः सुकरत्वात् । नहि 'लोककामी ब्रह्म न जानीयात्' इति निषेधोऽस्ति । तस्मात् - अस्ति सर्व­स्याऽऽ­श्र­मिणो ब्रह्मानिष्ठा ॥
इति प्राप्ते, ब्रूमः - ब्रह्मनिष्ठा नाम सर्व­व्या­पा­र­प­रि­त्या­गे­ना­न­न्य­चि­त्त­तया ब्रह्मणि समाप्तिः । न चासौ कर्मशूरे सम्भवति, कर्मा­नु­ष्ठा­न­त्या­गयोः परस्परं विरोधात् । तस्मात् - कर्मत्यागिन एव ब्रह्मनिष्ठा ॥

(तृतीये रसतमत्वादीनां ध्येयत्वाधिकरणे सूत्रे - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
स्तोत्रंं रसतमत्वादि ध्येयं वा गुणवर्णनात् ॥
जुहूरादित्य इत्यादाविव कर्मा­ङ्ग­सं­स्तुतिः ॥ ७ ॥
भिन्न­प्र­क­र­ण­स्थ­त्वा­न्ना­ङ्ग­वि­ध्ये­क­वा­क्यता ॥
उपा­सी­ते­ति­वि­ध्यु­क्ते­र्ध्येयं रसतमादिकम् ॥ ८ ॥
उद्गी­था­व­य­व­स्यो­का­रस्य रसतमत्वादयो गुणाः श्रूयन्ते - "स एष रसानां रसतमः परमः" इत्यादिना । तद्र­स­त­म­त्वा­दि­क­मो­ङ्का­रस्य स्तुतिः, न तु ध्यातव्यम् । यथा "इयमेव जूहूरादित्यः कूर्मः स्वर्लोकः", इत्यादौ कर्माङ्गभूतानां जुह्वा­दी­ना­म­दि­त्या­दि­रू­पेण स्तुतिः, तथा रस­त­म­त्वा­दि­गु­णै­रो­ङ्का­रस्य स्तुतिः ॥
इति प्राप्ते, ब्रूमः - विषमो दृष्टान्तः । 'जुहू­रा­दित्यः' इत्यादिकं जुहूविधिप्रकरणे पठि­त­त्वा­त्स्तो­त्र­मस्तु, रसतमत्वादिकं तूपनिषदि षठितत्वेन कर्म­प्र­क­र­ण­प­ठि­तो­द्गी­थ­वि­धि­वा­क्ये­नै­क­वा­क्य­त्वा­भा­वान्न स्तावकम् । किन्तु "ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत" इति संनिहितेन विधि­नै­क­वा­क्य­त्वा­द्र­स­त­म­त्वा­दिकं ध्यातव्यम् ॥

(चतुर्थे, आख्यानस्य विद्या­स्तु­त्य­र्थ­ता­धि­क­रणे सूत्रे - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
पारि­प्ल­वा­र्थ­मा­ख्यानं किंवा विद्या­स्तु­ति­स्तुतेः ॥
ज्यायोऽ­नु­ष्ठा­न­शे­षत्वं तेन पारिप्लवार्थता ॥ ९ ॥
मनुर्वैवस्वतो राजेत्येवं तत्र विशेषणात् ॥
अत्र विद्यै­क­वा­क्य­त्व­भा­वा­द्वि­द्या­स्तु­ति­र्भ­वेत् ॥ १० ॥
"अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः" - "जनको ह वैदेह आसा­ञ्चक्रे" इत्या­दि­क­मु­प­नि­षदि श्रूय­मा­ण­मा­ख्यानं पारिप्लवार्यं भवितुमर्हति । अश्वमेधयागे रात्रिषु राजानं सकु­टु­म्ब­मु­प­वेश्य तस्याग्रे वैदि­का­न्यु­पा­ख्या­ना­न्य­ध्व­र्युणा वक्तव्यानि । तदिदं पारिप्लवाख्यं कर्म "पारि­प्ल­व­मा­च­क्षीत" इति वाक्येन विहितम् । तदर्थत्वे सत्यौ­प­नि­ष­दा­ख्या­ना­न्य­नु­ष्ठा­ना­यो­प­यु­ज्ये­रन् । ज्यायोऽनुष्ठानं विद्यास्तुतेः । तस्मा­त्पा­रि­प्ल­वा­र्थम् ॥
इति प्राप्ते, ब्रूमः - प्रथमेऽहनि - 'मनु­र्वै­व­स्वतो राजा', द्वितीयेऽहनि - 'यमो वैवस्वतो राजा', इत्या­द्या­ख्या­नानां पारि­प्ल­वा­र्थानां विशे­षि­त­त्वा­दौ­प­नि­ष­दा­ना­मा­ख्या­नानां तच्छेषत्वं न सम्भवति । संनि­हि­त­वि­द्या­स्ता­व­कत्वे तु विद्या­वा­क्यै­रे­क­वा­क्यता लक्ष्यते । तस्मात् - विद्या­स्ता­व­क­मा­ख्या­नम् ॥

(पञ्चमे, आत्मज्ञानस्य कर्मा­न­पे­क्ष­त्वा­धि­क­रणे सूत्रम् - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
आत्मबोधः फले कर्मापेक्षो नो वा, ह्यपेक्षते ॥
अङ्गि­नोऽ­ङ्गे­ष्व­पे­क्षायाः प्रयाजादिषु दर्शनात् ॥ ११ ॥
अवि­द्या­त­म­सो­र्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः ॥
नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी ॥ १२ ॥
विमतो ब्रह्म­त­त्त्वा­व­बोधः स्वफलप्रदाने स्वाङ्ग­भू­त­क­र्मा­पेक्षः, अङ्गित्वात् , प्रया­जा­पे­क्ष­द­र्श­पू­र्ण­मा­स­वत् । यद्यपि प्रथमाधिकरणे विद्यायाः स्वत­न्त्र­पु­रु­षा­र्थ­त्व­प्र­ति­पा­द­नेन कर्माङ्गत्वं निवारितम् । तथाऽप्यङ्गित्वं न निवारितम् । अतो नासिद्धो हेतुः । अतः कर्माङ्गापेक्षो बोधः ॥
इति प्राप्ते, ब्रूमः - विमतं ब्रह्मज्ञानं स्ववि­रो­धि­नि­व­र्त्य­नि­व­र्त­नेऽ­न्या­पेक्षं न भवति, प्रकाशत्वात् , दीपवत् , घटज्ञानवच्च । यत्तु - अङ्गित्वमुक्तम् । तत्र कर्मणः कीदृ­श­म­ङ्ग­त्व­म­भि­प्रे­तम् - किं प्रया­जा­दि­व­त्फ­लो­प­का­र्य­ङ्ग­त्वम् , उत - अव­घा­ता­दि­व­त्स्व­रू­पो­प­का­र्य­ङ्ग­त्वम् । नाऽऽद्यः, मुक्तेः कर्म­ज­न्य­त्वे­ना­नि­त्य­त्व­प्र­सक्तेः । द्वितीये - साध्यविकलो दृष्टान्तः, अवघातादौ प्रयाजादीनां स्वरू­पो­प­का­र्य­ङ्ग­त्वा­भा­वात् । तस्मात् - उत्पन्ना विद्या स्वफलदाने कर्माणि नापेक्षते ॥

(षष्ठे ज्ञानोत्पत्तौ यज्ञ­श­म­द­मा­द्य­पे­क्षा­धि­क­रणे सूत्रे - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
उत्प­त्ता­व­न­पे­क्षे­य­मुत कर्माण्यपेक्षते ॥
फले यथाऽ­न­पे­क्षै­व­मु­त्प­त्ता­व­न­पे­क्षता ॥ १३ ॥
यज्ञ­शा­न्त्या­दि­सा­पेक्षं विद्याजन्म श्रुतिद्वयात् ॥
हलेऽ­न­पे­क्षि­तोऽ­प्यश्वो रथे यद्वदपेक्ष्यते ॥ १४ ॥
ब्रह्मविद्या स्वफले यथा कर्माणि नापेक्षते, तथा स्वोत्पत्तावपि । अन्यथा - क्वचिदपेक्षते, क्वचि­न्ना­पे­क्षते - इत्य­र्ध­ज­र­ती­य­न्यायः प्रसज्येत ॥
इति प्राप्ते, ब्रूमः - नार्ध­ज­र­ती­य­त्व­दो­षोऽ­त्रास्ति, योग्य­ता­व­शे­नै­क­स्यैव कार्य­वि­शे­षे­ष्व­पे­क्षा­न­पे­क्ष­यो­रु­प­पत्तेः । यथा लाङ्ग­ल­व­ह­नेऽ­न­पे­क्षि­तोऽ­प्यश्वो रथ­व­ह­नेऽ­पे­क्ष्यते, तद्वत् । न च विद्यायाः स्वोत्पत्तौ कर्मापेक्षायां प्रमाणाभावः, "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तप­साऽ­ना­श­केन" इति प्रवृ­त्ति­रू­पाणां वेदानुवचनादीनां विवि­दि­षो­त्पा­द­न­द्वारा बहि­र­ङ्ग­सा­ध­न­त्वा­व­ग­मात् । "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽ­त्म­न्ये­वाऽऽ­त्मानं पश्यति" इति निवृत्तिरूपाणां शमदमादीनां विद्यो­त्प­त्ति­का­लेऽ­प्य­नु­व­र्त­मा­न­त­याऽ­न्त­र­ङ्ग­सा­ध­न­त्वा­व­ग­मात् । तस्मात् - यज्ञादीनि शमादीनि च विद्या स्वोत्प­त्ता­व­पे­क्षते ॥

(सप्तमे, आपदि सर्वा­न्न­भो­ज­ना­नु­ज्ञा­धि­क­रणे सूत्राणि - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
सर्वाशनविधिः प्राण­वि­दोऽ­नु­ज्ञाऽ­थ­वाऽऽ­पदि ॥
अपूर्वत्वेन सर्वा­न्न­भु­क्ति­र्ध्या­तु­र्वि­धी­यते ॥ १५ ॥
श्वाद्य­न्न­भो­ज­ना­शक्तेः शास्त्रा­च्चा­भो­ज्य­वा­र­णात् ॥
आपदि प्राण­र­क्षा­र्थ­मे­वा­नु­ज्ञा­य­तेऽ­खि­लम् ॥ १६ ॥
प्राणविद्यायां श्रूयते - "न ह वा एवंविदि किञ्चनानन्नं भवति" इति । 'प्राणो­पा­स­केन भोक्तुमयोग्यं न किञ्चि­दस्ति' इत्यर्थः । तत्र सर्वान्नभोजनस्य माना­न्त­रे­णा­प्रा­प्त­त्वा­त्प्रा­णो­पा­स­कस्य तद्विधीयते ॥
इति प्राप्ते, ब्रूमः - "यदिदं किञ्चाऽऽश्वभ्य आकृमिभ्य आकीटपतङ्गेभ्यः, तत्तेऽ­न्नम्" इति श्वादि भोज्य­म­न्न­मु­पा­स­कस्य भोज्यतया विधेयम् , न च तद्विधातुं शक्यम् , यतो भक्ष्या­भ­क्ष्य­वि­भा­ग­शास्त्रं सर्वान्नाशनविधौ बाध्येत । तस्मात् - आपदि यावता प्राणरक्षा भवति तावन्मात्रं निषि­द्धा­न्न­म­प्य­नु­ज्ञा­यते । अत एव चाक्रायणो मुनिः प्राणात्यये प्राप्ते पर्यु­षि­ता­न्ग­ज­त­त्पा­ल­को­च्छि­ष्टा­न्कु­ल्मा­षा­न्भ­क्ष­यित्वा शूद्र­भा­ण्ड­स्थ­मु­दकं न पपौ, तत्रोभयत्र कारणं चावोचत् - "न वा अजी­वि­ष्य­मि­मा­न­खा­दन्" इति, "कामो म उदपानम्" इति च । तस्मात् - आपदि सर्वा­न्न­भ­क्ष­ण­म­भ्य­नु­ज्ञा­तम् ॥

(अष्टमे यज्ञा­दी­ना­मा­श्र­म­वि­द्यो­भ­य­हे­तु­त्वा­धि­क­रणे सूत्राणि - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
विद्या­र्थ­मा­श्र­मार्थं च द्विः प्रयोगोऽथवा सकृत् ॥
प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते ॥ १७ ॥
श्राद्धा­र्थ­भुक्त्या तृप्तिः स्याद्वि­द्या­र्थे­नाऽऽ­श्र­म­स्तथा ॥
अनि­त्य­नि­त्य­सं­योग उक्तिभ्यां खादिरे मतः ॥ १८ ॥
यानि यज्ञादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहितानि, तान्ये­वाऽऽ­श्र­म­ध­र्म­त्वेन पूर्वकाण्डे विहितानि । तेषां प्रयो­ज­न­द्वै­वि­ध्या­द्द्वि­र­नु­ष्ठा­नम् ॥
इति प्राप्ते, ब्रूमः - यथा श्राद्धा­र्थ­भो­ज­नेन तृप्ति­र्ना­न्त­री­य­क­तया सिध्यति, तथा विद्या­र्थ­म­नु­ष्ठितैः कर्म­भि­रा­श्र­म­धर्मः सिध्यतु । न च – विद्याहेतूनां काम्यत्वात् , आश्रमधर्माणां च नित्य­त्वा­त्स­कृ­त्प्र­योगे नित्या­नि­त्य­सं­यो­ग­वि­रोधः - इति वाच्यम् । वच­न­द्व­य­ब­ले­नै­कस्य कर्मण आका­र­द्व­यो­प­पत्तेः । यथा - "खादिरो यूपो भवति, खादिरं वीर्यकामस्य यूपं कुर्वीत" इत्यत्र वच­न­द्व­य­ब­ले­नै­कस्य नित्यत्वं काम्यत्वं च तद्वत् । तस्मात् - उभयविधानां यज्ञादीनां सकृदेव प्रयोगः ॥

(नवमे, अनाश्रमिणोऽपि ब्रह्म­ज्ञा­ना­धि­क­रणे सूत्राणि - )
नव­मा­धि­क­र­ण­मा­र­च­यति -
नास्त्य­ना­श्र­मिणो ज्ञानमस्ति वा नैव विद्यते ॥
धीशु­द्ध्य­र्था­श्र­मि­त्वस्य ज्ञानहेतोरभावतः ॥ १९ ॥
अस्त्येव सर्व­स­म्ब­न्धि­ज­पा­दे­श्चि­त्त­शु­द्धितः ॥
श्रुता हि विद्या रैक्वादेराश्रमे त्वतिशुद्धता ॥ २० ॥
पूर्वमाश्रमं परिसमाप्य केनापि कार­णे­नो­त्त­र­मा­श्र­म­म­प्र­ति­प­न्नोऽ­ना­श्रमी । स्नातकविधुरादिः । तस्य तत्त्वज्ञानं न सम्भाव्यते, बुद्धि­शु­द्धि­हे­तो­रा­श्र­मि­त्व­स्या­भा­वात् ॥
इति प्राप्ते, ब्रूमः - सम्भ­व­त्य­ना­श्र­मि­णोऽपि ज्ञानम् । आश्र­म­नि­र­पे­क्षस्य जपा­दे­र्बु­द्धि­शु­द्धि­हे­तु­त्वात् ।
"जप्येनैव तु संसि­ध्ये­द्ब्रा­ह्मणो नात्र संशयः" इति स्मृतेः ।
श्रुतश्च संव­र्ग­वि­द्या­या­म­धि­का­रोऽ­ना­श्र­मिणो विवाहार्थिनो रैक्वस्य । एवमाश्रमरहिता गार्ग्यादय उदाहार्याः । न च – एवं सत्या­श्र­म­वै­य­र्थ्यम् , शुद्ध्य­ति­श­य­हे­तु­त्वात् । तस्मात् - अनाश्रमिणोऽपि सम्भवत्येव ज्ञानम् ॥

(दशमे, आश्र­मा­णा­म­व­रो­ह­नि­रा­क­र­णा­धि­क­रणे सूत्रम् - )
दश­मा­धि­क­र­ण­मा­र­च­यति -
अव­रो­होऽ­स्त्या­श्र­माणां न वा, रागात्स विद्यते ॥
पूर्व­ध­र्म­श्र­द्धया वा यथाऽऽ­रो­ह­स्त­थै­च्छिकः ॥ २१ ॥
राग­स्या­ति­नि­षि­द्ध­त्वा­द्वि­हि­त­स्यैव धर्मतः ॥
आरो­ह­नि­य­मो­क्त्या­दे­र्ना­व­रो­होऽ­स्त्य­शा­स्त्रतः ॥ २२ ॥
"ब्रह्म­चर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्र­जेत्" इत्या­श्र­मा­णा­मा­रोहो यथेच्छाधीनो भवति, तथा 'पारि­व्रा­ज्या­द्व­नस्थः' इत्या­द्य­व­रो­होऽपि क्वचिद्रागवशात् , क्वचि­त्पू­र्वा­श्र­म­ध­र्म­श्र­द्धा­व­शाच्च युक्तः ॥
इति प्राप्ते, ब्रूमः - राग­स्ता­व­न्मि­थ्या­ज्ञा­न­मू­ल­त्वा­द­ति­नि­षिद्धः । न च पूर्वाश्रमधर्मे श्रद्धा युज्यते, उत्तराश्रमिणं प्रत्य­वि­हि­त­त्वेन धर्मत्वाभावात् । न हि - यो येनानुष्ठातुं शक्यते श्रद्धीयते च, स तस्य धर्मो भवति । किं तर्हि - यो यं प्रति विहितः, स तस्य धर्मः । किञ्च "ततो न पुनरेयात्" इत्य­व­रो­ह­नि­षे­धे­नाऽऽ­रोहो नियम्यते । न चाऽऽरो­ह­व­द­व­रो­हेऽपि शिष्टाचारो विद्यते । तस्मात् - नास्त्यवरोहः ॥

(एकादशे, ऊर्ध्वरेतसः पातित्ये प्राय­श्चि­त्ता­धि­क­रणे सूत्रे - )
एका­द­शा­धि­क­र­ण­मा­र­च­यति -
भ्रष्टो­र्ध्व­रे­तसो नास्ति प्राय­श्चि­त्त­म­थास्ति वा ॥
अद­र्श­नो­क्ते­र्ना­स्त्येव व्रतिनो गर्दभः पशुः ॥ २३ ॥
उपपातकमेवैतद् व्रतिनो मधुमांसवत् ॥
प्राय­श्चि­त्ताच्च संस्का­रा­च्छु­द्धि­र्य­त्न­परं वचः ॥ २४ ॥
नैष्ठि­क­ब्र­ह्म­च­र्या­दू­र्ध्व­रे­तस्त्वं प्राप्तस्य पुनः स्त्रीसङ्गेन भ्रष्टस्य प्रायश्चितं नास्ति ।
"आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा"
इति प्राय­श्चि­त्ता­द­र्श­न­व­च­नात् । "अथ यो ब्रह्मचारी स्त्रीमुपेयात् , स गर्दभं पशुमालभेत" इत्यस्ति प्रायश्चितम् - इत्युच्यते । तन्न, तस्य व्रतिविषयत्वात् । उपकुर्वाणकाख्यो यो वेदा­ध्य­य­ना­ङ्ग­त्वेन ब्रह्म­च­र्य­व्र­त­म­नु­ति­ष्ठति, तद्विषयमिदं प्राय­श्चि­त्त­व­च­नम् । तस्मात् - ऊर्ध्व­रे­त­स्त्वा­द्भ्र­ष्टस्य नास्ति प्रायश्चितम् ॥
इति प्राप्ते, ब्रूमः - यथोपकुर्वाणकस्य मधु­मां­स­भ­क्ष­ण­मु­प­पा­त­क­मिति प्रायश्चितं पुनःसंस्कारो विद्यते, तद्व­दू­र्ध्व­रे­त­सोऽपि गुरु­दा­रा­दि­भ्योऽ­न्यत्र प्रवृ­त्ति­रु­प­पा­त­क­मेव न तु महापातकम् । ततः प्राय­श्चि­त्ता­त्पुनः संस्काराच्च शुद्धिर्भवति । यदि महा­पा­त­के­ष्व­प­रि­ग­णि­त­त्वे­नो­प­पा­त­क­त्व­मा­श्रित्य प्राय­श्चि­त्त­मु­च्येत, तर्ह्य­द­र्श­न­वा­क्यस्य का गतिः - इति चेत् । "यत्नपरं तद्वा­क्यम्" इति ब्रूमः । 'अत एव प्रायश्चित्तं न पश्यामि' इत्याह, न तु 'नास्ति' इति । प्रायश्चित्तं तु गर्दभपशुरेव, ब्रह्म­चा­रि­त्वस्य समानत्वात् । तथा - वन­स्थ­प­रि­व्रा­ज­क­यो­रपि भ्रंशे प्रायश्चित्तं स्मर्यते - "वान­प्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्" । 'भिक्षु­र्व­न­स्थ­व­त्सो­म­वृ­द्धि­व­र्जम्' - इति । कक्ष­वृ­द्धि­र्व­न­वासः । सोमवृद्धिरपि स एव ॥

(द्वादशे भ्रष्टस्य कृत­प्रा­य­श्चि­त्त­स्या­प्य­व्य­व­हा­र्य­ता­धि­क­रणे सूत्रम् - )
द्वाद­शा­धि­क­र­ण­मा­र­च­यति -
शुद्धः शिष्टै­रु­पा­दे­य­स्त्याज्यो वा दोषहानितः ॥
उपादेयोऽन्यथा शुद्धिः प्राय­श्चि­त्त­कृता वृथा ॥ २५ ॥
आमुष्मिक्येव शुद्धिः स्यात्ततः शिष्टा­स्त्य­जन्ति तम् ॥
प्राय­श्चि­त्ता­दृ­ष्टि­वा­क्या­द­शु­द्धि­स्त्वै­हि­की­ष्यते ॥ २६ ॥
पूर्वो­क्त­प्रा­य­श्चि­त्ता­पा­दि­त­शु­द्ध्य­न्य­था­नु­प­पत्त्या कृत­प्रा­य­श्चि­त्तस्य शिष्टैः सह व्यवहारोऽस्ति ॥
इति प्राप्ते, ब्रूमः - आमु­ष्मि­क­शु­द्धि­स­द्भा­वेऽपि प्राय­श्चि­त्ता­द­र्श­न­व­च­ना­दै­हि­क­शु­द्ध्य­भा­वा­च्छि­ष्टै­रेष न व्यवहार्यः ॥

(त्रयोदशे, ऋत्वि­क्कृ­ता­ङ्ग­ध्या­नस्य स्वामि­गा­मि­त्वा­धि­क­रणे सूत्राणि - )
त्रयो­द­शा­धि­क­र­ण­मा­र­च­यति -
अङ्गध्यानं याज­मा­न­मा­र्त्विजं वा यतः फलम् ॥
ध्यातुरेव श्रुतं तस्मा­द्या­ज­मा­न­मु­पा­स­नम् ॥ २७ ॥
ब्रूया­दे­वं­वि­दु­द्गा­ते­त्या­र्त्वि­जत्वं स्फुटं श्रुतम् ॥
क्रीत­त्वा­दृ­त्वि­ज­स्तेन कृतं स्वामिकृतं भवेत् ॥ २८ ॥
अङ्गा­व­ब­द्धे­षू­पा­स­नेषु यजमान एवानुष्ठाता, नार्त्विजः ध्यातुः फलश्रवणात् । फलं तु यज­मा­न­स्यै­वो­चितं, स्वामित्वात् । तस्मात् - फलिनो यजमानस्यैव ध्यातृत्वम् ॥
इति प्राप्ते, ब्रूमः - "एवं­वि­दु­द्गाता ब्रूयात्" । इति वाक्यशेष उद्ना­तु­रु­पा­स­कत्वं स्पष्टं श्रूयते । युक्तं चैतत् - ऋत्वि­जा­म­शे­ष­क­र्मा­नु­ष्ठा­नाय यजमानेन क्रीतत्वात् । तस्मात् - ऋत्विग्भिः कृतं यजमानेनेव कृतमिति फलि­त्वो­प­प­त्ते­रु­पा­स­न­मृ­त्विजां कर्म ॥

(चतुर्दशे मौनस्य विधेयत्वाधिकरणे सूत्राणि - )
चतु­र्द­शा­धि­क­र­ण­मा­र­च­यति -
अविधेयं विधेयं वा मौनं तन्न विधीयते ॥
प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः ॥ २९ ॥
निर­न्त­र­ज्ञा­न­निष्ठा मौनं पाण्डित्यतः पृथक् ॥
विधेयं तद्भे­द­दृ­ष्टि­प्रा­बल्ये तन्निवृत्तये ॥ ३० ॥
कहोलब्राह्मणे श्रूयते - "तस्मा­द्ब्रा­ह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् , बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इति । अस्यायमर्थः - यस्मा­द्ब्र­ह्म­भावः परमपुरुषार्थः, तस्माद्ब्रह्म बुभू­षु­रु­प­नि­ष­त्ता­त्प­र्य­नि­र्ण­य­रूपं पाण्डित्यं निःशेषेण सम्पाद्य बाल­व­न्नी­रा­ग­द्वे­ष­त्वेन युक्तोऽ­स­म्भा­व­ना­नि­रा­क­र­णाय युक्ती­र­नु­चि­न्त­य­न्न­व­स्था­तु­मि­च्छेत् , ततः पाण्डित्यबाल्ये निःशेषेण सम्पाद्य, अथ मुनिः - इति । तत्र - 'भवेत्' इति विध्य­श्र­व­णा­न्मु­नित्वं न विधेयम् । नच – विधिः कल्पयितुं शक्यः, पाण्डित्यशब्देन प्राप्तस्य मौन­स्या­पू­र्वा­र्थ­त्वा­भा­वात् । पण्डितस्य विदुषो भावः पाण्डित्यम् - इति ज्ञानवाचकोऽयं शब्दः । तथा मुनिशब्दोऽपि, 'मन ज्ञाने' इत्य­स्मा­द्धा­तो­स्त­न्नि­ष्पत्तेः । तस्मात् - प्राप्तस्य मौनस्य नैव विधिकल्पनम् ॥
इति प्राप्ते, ब्रूमः - पूर्वोक्तस्य पाण्डित्यस्य पुन­र्मु­नि­श­ब्दे­ना­भि­धाने प्रयो­ज­ना­भा­वा­न्नि­र­न्त­र­ज्ञा­न­नि­ष्ठाऽ­पू­र्वार्थो मुनिशब्देन विवक्षितः । ततः 'तिष्ठा­सेत्' इति पदानुवृत्त्या विधिर्लभ्यते । अस्ति च ज्ञान­नै­र­न्त­र्येण प्रयोजनम् , प्रब­ल­भे­द­वा­स­ना­वा­सि­तस्य तन्नि­वृ­त्त्य­र्थ­त्वात् । तस्मात् - निदि­ध्या­स­ना­त्मकं मौनं विधेयम् ॥

(पञ्चदशे भावशुद्धेरेव बाल्य­श­ब्दा­भि­धे­य­ता­धि­क­रणे सूत्रम् - )
पञ्च­द­शा­धि­क­र­ण­मा­र­च­यति -
बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः ॥
वय­स्त­स्या­वि­धे­यत्वे कामचारोऽस्तु नेतरा ॥ ३१ ॥
मन­न­स्यो­प­यु­क्त­त्वा­द्भा­व­शु­द्धि­र्वि­व­क्षिता ॥
अत्य­न्ता­नु­प­यो­गि­त्वा­द्वि­रु­द्ध­त्वाच्च न द्वयम् ॥ ३२ ॥
"बाल्येन तिष्ठा­सेत्" इत्यत्र – बालस्य भावो बाल्यम् - इति प्रसिद्ध्या वयो भवेत् । अथ – तस्य विध्यनर्हत्वम् , - तर्हि - बालस्य कर्म – इति व्युत्पत्त्या कामचारादिकमस्तु । सर्वथा धीशुद्धिर्न बाल्यम् ॥
इति प्राप्ते, ब्रूमः - पाण्डि­त्य­मौ­ना­ख्ययोः श्रव­ण­नि­दि­ध्या­स­न­यो­र्मध्ये मननं विधेयत्वेन श्रुत्या विवक्षितम् । तस्य च भाव­शु­द्धि­रु­प­युक्ता, राग­द्वे­ष­मा­ना­प­मा­ना­दि­दो­ष­ग्र­स्त­त्वेन बहिः प्रवृ­त्ति­म­प­रि­त्यज्य मन्तु­म­श­क्य­त्वात् । - बालस्य कर्म - इति व्युत्पत्तिस्तु यथेच्छाचारे, भावशुद्धौ च समाना । वयःकामचारौ तु मन­न­स्या­त्य­न्त­म­नु­प­युक्तौ । प्रत्युत विरोधिनौ, मूढस्य बहिःप्रवृत्तस्य वा मनसो मननविनाशकत्वात् । तस्मात् - भावशुद्धिरेव बाल्यम् , नेतरदुभयम् ॥

(षोडशे, आत्म­ज्ञा­न­स्यै­हि­का­मु­ष्मि­का­त्व­व्य­व­स्था­धि­क­रणे सूत्रम् - )
षोड­शा­धि­क­र­ण­मा­र­च­यति -
इहैव नियतं ज्ञानं पाक्षिकं वा, नियम्यते ॥
तथाऽ­भि­स­न्धे­र्य­ज्ञादिः क्षीणां विविदिषाजनौ ॥ ३३ ॥
असति प्रतिबन्धेऽत्र ज्ञानं जन्मा­न्त­रेऽ­न्यथा ॥
श्रव­णा­ये­त्या­दि­शा­स्त्रा­द्वा­म­दे­वो­द्भ­वा­दपि ॥ ३४ ॥
श्रव­ण­म­न­न­नि­दि­ध्या­स­ने­ष्व­नु­ष्ठी­य­मा­नेषु - अस्मिन्नेव जन्मनि ज्ञानं जायते - इति नियम्यते । न तु - इह वा, जन्मान्तरे वा इति कालविकल्पः । कुतः - श्रवणादिषु प्रवर्तमानस्य पुरुषस्य ज्ञानेच्छाया ऐहि­क­ज्ञा­नो­त्प­त्ति­वि­ष­य­त्वात् । 'इहैव मे विद्या जायताम्' इत्यभिसन्धाय पुरुषः प्रवर्तते । न च – अदृष्टफलानां यज्ञादीनां तत्साधकत्वेन स्वर्ग­व­ज्ज­न्मा­न्तरे ज्ञानोत्पत्तिः शङ्कनीया, श्रव­णा­दि­प्र­वृत्तेः प्रागेव विवि­दि­षा­मु­त्पाद्य यज्ञादीनां चरितार्थत्वात् । तस्मात् - ऐहिकत्वेन ज्ञानो­त्प­त्ति­र्नि­य­म्यते ।
इति प्राप्ते, ब्रूमः - असति प्रतिबन्धे ज्ञानमिहैव सम्भवति, सति तु प्रति­ब­न्धेऽ­त्रा­नु­ष्ठितैः श्रव­णा­दि­भि­र्ज­न्मा­न्तरे ज्ञानमुत्पद्यते । प्रतिबन्धश्च बहुविधः श्रूयते -
"श्रव­णा­यापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुश­ला­नु­शिष्टः"
इति । न च – पूर्व­ज­न्मा­नु­ष्ठितैः श्रव­णा­दि­भि­र्ज­न्मा­न्तरे ज्ञानो­त्प­त्तिर्न दृष्टचरी, वामदेवस्य गर्भ एवावस्थितस्य ज्ञानो­त्प­त्ति­श्र­व­णात् । "गर्भ एवैतच्छयानो वामदेव एवमुवाच" इति श्रुतेः । तस्मात् - इह वा, जन्मान्तरे वा ज्ञानोत्पत्तिः ॥

(सप्तदशे मुक्ते­रे­क­वि­ध­त्वा­धि­क­रणे सूत्रम् - )
सप्त­द­शा­धि­क­र­ण­मा­र­च­यति -
मुक्तिः सातिशया नो वा फल­त्वा­द्ब्र­ह्म­लो­क­वत् ॥
स्वर्गवच्च नृभेदेन मुक्तिः सातिशयैव हि ॥ ३५ ॥
ब्रह्मैव मुक्तिर्न ब्रह्म क्वचित्सातिशयं श्रुतम् ॥
अत एकविधा मुक्तिर्वेधसो मनुजस्य च ॥ ३६ ॥
यथा ब्रह्मलोकाख्यं फलं सालो­क्य­सा­रू­प्य­सा­मी­प्य­सा­र्ष्टि­भे­देन चतुर्विधम् । तत्र सार्ष्टिर्नाम चतुर्मुखेन समा­नै­श्व­र्य­त्वम् । यथा वा - "कर्म­भू­य­स्त्वा­त्फ­ल­भू­य­स्त्वम्" इति न्यायेन स्वर्गो बहुविधः । तथा मुक्तिरपि फल­त्वा­वि­शे­षा­त्सा­ति­शया ॥
इति प्राप्ते, ब्रूमः - मुक्तिर्नाम निज­सि­द्ध­ब्र­ह्म­स्व­रू­प­मेव, न तु स्वर्ग­व­दा­ग­न्तुकं किञ्चिद्रूपम् - इति वक्ष्यते । ब्रह्म चैकविधत्वेन श्रुतं निर्णीतं च । तस्मात् - चतुर्मुखस्य मनुजस्य वा मुक्तिरेकविधैव । सालो­क्या­दि­वि­शे­षस्तु जन्य­रू­प­त्वा­दु­पा­स­ना­ता­र­त­म्येन सातिशयो भविष्यति । मुक्तिस्तु न तादृशी, इति सिद्धम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां तृतीयाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ तृतीयोऽध्यायश्च समाप्तः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि १७ १५४
सूत्राणि ५२ ४७८