वैयासिकन्यायमाला
तदन्तरप्रतिपत्त्यधिकरणम्
(प्रथमे जीवस्य भूतसूक्ष्मवेष्टितस्यैव परलोकगमनागमनाधिकरणे सूत्राणि - )
तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति -
अवेष्टितो वेष्टितो वा भूतसूक्ष्मैः पुमान्व्रजेत् ॥
भूतानां सुलभत्वेन यात्यवेष्टित एव सः ॥ १ ॥
बीजानां दुर्लभत्वेन निराधारेन्द्रियागतेः ॥
पञ्चमाहुतितोक्तेश्च जीवस्तैर्याति वेष्टितः ॥ २ ॥
पूर्वपादप्रतिपादितप्राणोपाधिको जीवः शरीरान्तरप्राप्तिवेलायामितो निर्गच्छन्भाविशरीरबीजैः सूक्ष्मभूतैरवेष्टितो गच्छति, पञ्चभूतानां सर्वत्र सुलभत्वेनेतो नयनस्य निरर्थकत्वात् ॥
इति प्राप्ते, ब्रूमः - भूतमात्रस्य सुलभत्वेऽपि देहबीजानि न सर्वत्र सूलभानि । तस्मात् - इतो नेतव्यानि । किञ्च जीवोपाधिभूतेन्द्रियाणां भूताधारमन्तरेण परलोकगमनं न सम्भवति, जीवदशायामदर्शनात् । श्रुतिश्चैवमाह – "पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति । अस्या अयमर्थः - द्युलोकपर्जन्यपृथिवीपुरुषयोषितः पञ्च पदार्था उपासनायामग्नित्वेन परिकल्पिताः । तेष्वग्निषु स्वर्गाय गच्छन्पुनरागच्छंश्च जीव आहुतित्वेन परिकल्पितः । इष्टापूर्तकारी जीवः स्वर्गमारुह्योपभोगेन कर्मणि क्षीणे पर्जन्ये पतित्वा वृष्टिरूपेण भूमिं प्राप्य, अन्नद्वारेण पुरुषं प्राप्य, रेतोद्वारेण योषितं प्रविश्य शरीरं गृह्णाति । ततोऽपशब्दोपलक्षितानि देहबीजानि पञ्च भूतानि जीवेन सह द्युलोकादिपञ्चस्थानेषु गत्वा पञ्चमस्थाने शरीरभावं प्राप्य पुरुषशब्दवाच्यानि भवन्ति - इति । तस्मात् - बीजैर्वेष्टित एव परलोकं गच्छति ॥
(द्वितीये स्वर्गादरोहतो जीवस्य सानुशयत्वाधिकरणे सूत्राणि - )
द्वितीयाधिकरणमारचयति -
स्वर्गावरोही क्षीणानुशयः सानुशयोऽथवा ॥
यावत्सम्पातवचनात्क्षीणानुशय इष्यते ॥ ३ ॥
जातमात्रस्य भोगित्वादैकभव्ये विरोधतः ॥
चरणश्रुतितः सानुशयः कर्मान्तरैरयम् ॥ ४ ॥
स्वर्गमुपभुज्य ततोऽवरोहन्पुरुषो निरनुशय इहाऽऽगच्छति । अनुशयो नाम कर्मशेषः 'जीवमनुशेते' इति व्युत्पत्तेः । न च – स्वर्गादवरोहतोऽनुशयः सम्भवति, अनुशयफलस्य सर्वस्य तत्रैवोपभुक्तत्वात् । अत एवावरोहविषया श्रुतिः - "यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तते" इत्याह । 'सम्पतत्यनेन कर्मणा स्वर्गम्' इति सम्पातः कर्मसमूहः । सम्पातमनतिक्रम्य यावत्सम्पातं निःशेषं कर्मफलं भोक्तुं तत्रोषित्वेत्यर्थः । तस्मात् - कर्मशेषरहितोऽवरोहति ॥
इति प्राप्ते, ब्रूमः - स्वर्गार्थमनुष्ठितस्य कर्मणः साकल्येनोपभोगेऽप्यनुपभुक्तानि सञ्चितानि पुण्यपापानि बहून्यस्य विद्यन्ते । अन्यथा - सद्यःसमुत्पन्नस्य बालस्येह जन्मन्यनुष्ठितयोर्धर्माधर्मयोरभावात्सुखदुःखोपभोगो न स्यात् । यत्त्वत्र कैश्चिदुच्यते - एकस्मिञ्जन्मन्यनुष्ठितः कर्मसमूह उत्तरस्मिन्नेव जन्मन्युपभोगेन क्षीयते - इति । तदसत् , इन्द्रादिपदप्रापकाणामश्वमेधादीनाम् , विड्वराहादिदेहप्रापकाणां पापानां च युगपदुपभोगासम्भवेन 'ऐकभविकः कर्मानुशयः' इति मतस्य विरुद्धत्वात् । ततश्चैकस्मिञ्जन्मन्यनुष्ठितानां मध्ये कस्मिंश्चिज्ज्योतिष्टोमादिकर्मणि भुक्तेऽपि कुतो न कर्मान्तराण्यवशिष्येरन् । यावत्सम्पातशब्दश्च स्वर्गप्रदकर्म विषयः, नत्वितरकर्मविषयः । श्रुतिश्च स्वर्गादवरुह्य पञ्चम्यामाहुतौ शरीरं गृह्णतां नपुरुषाणां तद्धेत्वोः पुण्यपापयोः सद्भावं दर्शयति - "य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा, क्षत्रिययोनिं वा वैश्ययोनिं वा, अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा, शूकरयोनिं वा चाण्डालयोनिं" वा इति । रमणीयचरणाः सुकृतकर्माणः, कपूयचरणाः पापकर्माणः 'अभ्याशोहयत्' इत्यव्ययसमुदायस्य क्षिप्रत्वमर्थः । तदेवं - सानुशया अवरोहन्ति - इति स्थितम् ॥
(तृतीये पापिनां स्वर्गे गत्यभावाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
चन्द्रं याति न वा पापी ते सर्व इति वाक्यतः ॥
पञ्चमाहुतिलाभार्थं भोगाभावेऽपि यात्यसौ ॥ ५ ॥
भोगार्थमेव गमनमाहुतिर्व्यभिचारिणी ॥
सर्वश्रुतिः सुकृतिनां, याम्ये पापिगतिः श्रुता ॥ ६ ॥
"ये वै के चास्माल्लोकात्प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति" इति श्रवणाच्चन्द्रलोकाख्ये स्वर्गे पापिनोऽपि गतिरस्ति । यद्यपि - पापिनस्तत्र भोगो न सम्भवति । तथाऽपि पुनरागत्य शरीरग्रहणे पञ्चमाहुतिलाभाय स्वर्गगतिरभ्युपेया ॥
इति प्राप्ते, ब्रूमः - भोगार्थमेव हि स्वर्गगमनम् । न पञ्चमाहुतिलाभार्थम् , पञ्चमाहुतेर्व्यभिचारित्वात् । द्रोणादीनां योषिदाहुतेरभावात् , सीतादीनां पुरुषाहुतेरप्यभावात् । 'ते सर्वे' इति सर्व श्रुतिस्तु सुकृतिविषया । पापिनां तु यमलोके गतिः श्रुता - "वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्यत" इति । पापजनैर्गन्तव्यं यमं प्रीणयत इत्यर्थः । तस्मात् - न पापिनां स्वर्गे गतिः ॥
(चतुर्थे स्वर्गावरोहे जीवस्याऽऽकाशादितुल्यत्वाधिकरणे सूत्राणि - )
चतुर्थाधिकरणमारचयति -
वियदादिस्वरूपत्वं तत्साम्यं वाऽवरोहिणः ॥
वायुर्भूत्वेत्यादिवाक्यात्तत्तद्भावं प्रपद्यते ॥ ७ ॥
स्ववत्सूक्ष्मो वायुवशो युक्तो धूमादिभिर्भवेत् ॥
अन्यस्यान्यस्वरूपत्वं न मुख्यमुपपद्यते ॥ ८ ॥
स्वर्गादवरोहप्रकार एवं श्रूयते - "अथैतमेवाध्वानं पुनर्निवर्तते यथेतमाकाशम् , आकाशाद्वायुम् , वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽब्भ्रं भवति, अब्भ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति" इति । यथेतं यथागतं तथेत्यर्थः । अत्र स्वर्गादवरोहतो जीवस्याऽऽकाशादिस्वरूपत्वं भवति, 'वायुर्भूत्वा' इति तत्तद्भावप्रतिपत्तेः श्रुतत्वात् ॥
इति प्राप्ते, ब्रूमः - अन्यस्यान्यस्वरूपत्वासम्भवादाकाशप्रतिपत्तिर्नामाऽऽकाशवत्सौक्ष्म्यं रूपं विवक्षितम् । वायुभावो वायुवशता । धूमादिभावो धूमादिभिः सम्पर्कः - इति निर्णयः ॥
(पञ्चमे स्वर्गादवरोहतां त्वराविलम्बाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
व्रीह्यादेः प्राग्विलम्बेन त्वरया वाऽवरोहति ॥
तत्रानियम एव स्यान्नियामकविवर्जनात् ॥ ९ ॥
दुःखं व्रीह्यादिनिर्याणमिति तत्र विशेषितः ॥
विलम्बस्तेन पूर्वत्र त्वराऽर्थादवसीयते ॥ १० ॥
प्रवर्षणानन्तरं व्रीह्यादिभाव आम्नायते - "त इह व्रीहियवा औषधिवनस्पतयस्तिलमाषा इति जायन्ते" इति । प्रागेतस्माद् व्रीह्यादिभावादाकाशादौ विलम्बत्वरयोर्नियामकाभावादनियतिः ॥
इति प्राप्ते, ब्रूमः - व्रीह्यादिभावमभिधायानन्तरम् "अतो वै खलु दुर्निष्प्रपतरम्" इति 'व्रीह्यादिभावान्निर्गमनं दुःशकम्' इति ब्रुवती श्रुतिर्व्रीह्यादौ विलम्बनं विशेषयति । ततोऽर्थात् - 'पूर्वं त्वरा' इत्यवसीयते ॥
(षष्ठे स्वर्गादवरोहतां व्रीह्यादौ संश्लेषाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
व्रीह्यादौ जन्म तेषां स्यात्संश्लोषो वा जनिर्भवेत् ॥
जायन्त इति मुख्यत्वात्पशुहिंसादिपापतः ॥ ११ ॥
वैधान्न पापसंश्लेषः कर्मव्यापृत्यनुक्तितः ॥
श्वविप्रादौ मुख्यजनौ चरणव्यापृतिः श्रुता ॥ १२ ॥
आकाशादाविव व्रीह्यादौ न संश्लेषमात्रम् । किन्तु - व्रीह्यादिरूपेण मुख्यं जन्मविवक्षितम् , "जायन्ते" इति श्रवणात् । न च – स्वर्गे सुकृतफलमनुभूयावरोहतः पापफलरूपस्य स्थावरजन्मनोऽसम्भवः, तद्धेतोः पशुहिंसादेर्विद्यमानत्वात् । तस्मात् - मुख्यं जन्म ॥
इति प्राप्ते, ब्रूमः - वैधत्वान्न पशुहिंसादितः पापम् । अतः "जायन्ते" इति श्रुत्या संश्लेषमात्रं विवक्षितम् । न तु मुख्यं जन्म, कर्मव्यापारानभिधानात् । यत्र तु मुख्यं जन्म व्यवस्थितम् , तत्र कर्मव्यापारमभिधत्ते - "रमणीयचरणाः, कपूयचरणाः" इति । तस्मात् - स्वर्गादवरोहतां व्रीह्यादौ संश्लेषमात्रम् - इति स्थितम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि ६ ९३
सूत्राणि २७ ३१९
(प्रथमे स्वप्नसृष्टेर्मिथ्यात्वाधिकरणे सूत्राणि - )
द्वितीयपादे प्रथमाधिकरणमारचयति -
सत्या मिथ्याऽथवा स्वप्नसृष्टिः, सत्या श्रुतीरणात् ॥
जाग्रद्देशाविशिष्टत्वादीश्वरेणैव निर्मिता ॥ १ ॥
देशकालाद्यनौचित्याद्बाधितत्वाच्च सा मृषा ॥
अभावोक्तेर्द्वैतमात्रासाम्याज्जीवानुवादतः ॥ २ ॥
"अथ रथान् , रथयोगान् , पथः सृजते" इति श्रुत्या स्वप्ने रथादीनां सृष्टिरीरिता । अतो वियदादिसृष्टिवद्व्यवहारदशायां सत्या भवितुमर्हति । न च – जाग्रद्देशस्य स्वप्नदेशस्य च कञ्चिद्विशेषं पश्यामः । तत्काले भोजनादीनां तृप्त्याद्यर्थक्रियाकारित्वात् । अतो - विमता सृष्टिः सत्या, ईश्वरकर्तृवात् , वियदादिसृष्टिवत् ॥
इति प्राप्ते, ब्रूमः - स्वप्नसृष्टिर्मृषा । कुतः - तदुचितदेशकालाद्यसम्भवात् । न हि केशसहस्रांशपरिमितनाडीमध्ये गिरिनदीसमुद्रादीनामुचितो देशोऽस्ति, महानिशीथे शयानस्य सूर्यग्रहणोचितः कालोऽस्ति । नापि - अनुपनीतस्य बालस्य पुत्रोत्सवादिहर्षनिमित्तान्युचितानि । किञ्च - स्वप्नोपलब्धानां पदार्थानां स्वप्न एव बाधो दृश्यते - कदाचित्तरुत्वेनावसीयमानः पदार्थस्तदैव गिरित्वेनावसितो भवति । यदुक्तम् - 'स्वप्नसृष्टिं श्रुतिर्ब्रूते' इति । तत्र साऽपि श्रुतिरभावपूर्विकामेव सृष्टिमाह – "न तत्र रथाः, न रथयोगाः, न पन्थानो भवन्ति । अथ रथान् , रथयोगान् , पथः सृजते" इति । अतो 'वस्तुतोऽसन्तो रथाद्याः शुक्तिकारजतवदवभासन्ते" इति श्रुतेरभिप्रायः । यदपि - जाग्रत्साम्यमुक्तम् । तदप्यप्रयोजकम् , अनुचितदेशकालादेर्भूयसो वैषम्यस्योक्तत्वात् । यदपि - ईश्वरनिर्मितत्वमुक्तम् । तदप्यसत् , "य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः" इति जीवस्यैव स्वप्ननिर्मातृत्वेन श्रुत्याऽनूद्यमानत्वात् । तस्मात् - स्वप्नसृष्टिर्मृषा ॥
(द्वितीये सुषुप्तौ जीवस्य हृत्स्थब्रह्मणैक्याधिकरणे सूत्रे - )
द्वितीयाधिकरणमारचयति -
नाडीपुरीतद्ब्रह्माणि विकल्प्यन्ते सुषुप्तये ॥
समुच्चितानि वैकार्थ्याद्विकल्प्यन्ते यवादिवत् ॥ ३ ॥
समुच्चितानि नाडीभिरूपसृप्य पुरीतति ॥
हृत्स्थे ब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता ॥ ४ ॥
"आसु तदा नाडीषु सृप्तो भवति" इति श्रुतौ सुषुप्तिकाले नाडीप्रवेशो गम्यते "ताभिः प्रत्यवसृप्य पुरीतति शेते" इति श्रुतौ पुरीतति तदाश्रितत्वं प्रतीयते । "य एषोऽन्तर्हृदय आकशस्तस्मिञ्छेते" इति श्रुत्यन्तरादाकाशशब्दवाच्यब्रह्माश्रितत्वं प्रतीयते । तान्येतानि नाड्यादिस्थानानि विकल्पितानि भवितुमर्हन्ति, एकप्रयोजनत्वात् । यथा "व्रीहिभिर्यजेत, यवैर्यजेत" इत्यत्र पुरोडाशनिष्पादकत्वस्य प्रयोजनस्यैकत्वेन विकल्प आश्रितः । तथा - अत्रापि सुषुप्त्याख्यं प्रयोजनमेकम् । तस्मात् - 'कदाचित्पुरीतति स्वपिति, कदाचिन्नाडीषु स्वपिति, कदाचिद्ब्रह्मणि' इति नाड्यादीनां विकल्पः ॥
इति प्राप्ते, ब्रूमः - एकप्रयोजनत्वमसिद्धम् । पृथगुपयोगस्य सुवचत्वात् । तथाहि - नाड्यस्तावच्चक्षुरादिषु सञ्चरतो जीवस्य हृदयनिष्ठं ब्रह्म गन्तुं मार्गभूता भविष्यन्ति । अत एव श्रुत्यन्तरे "ताभिः प्रत्यवसृप्य" इति तृतीयया साधनत्वं नाडीनां श्रुतम् । हृदयवेष्टनरूपं तु पुरीतत्प्रासादवदावरकं भविष्यति । ब्रह्म तु मञ्चकवदाधारः । अतो यथा द्वारेण प्रविश्य प्रासादे पर्यङ्के शेते, तथा नाडीभिः प्रत्यवसृप्य पुरीतति ब्रह्मणि जीवः शयिष्यते, इत्युपकारभेदान्नाड्यादीनां समुच्चयः । सुषुप्तौ ब्रह्मणि जीवावस्थाने कुत आधाराधेयभावो न प्रतिभाति - इति चेत् । 'एकीभावात्' इति ब्रूमः । यथा - सोदककुम्भस्तडागजले प्रक्षिप्तो मग्नो न पृथग्भाति, तथा - अन्तः करणोपाधिको जीव आवरकाज्ञानसहिते ब्रह्मणि मग्नत्वान्न पृथगवभासते । अत एव श्रुत्यन्तरे सुषुप्तौ जीवस्य ब्रह्मणा सह तादात्म्यप्रतिपत्तिमाह – "सता सोम्य तदा सम्पन्नो भवति" इति । यस्तु विकल्पस्त्वयोक्तः । सोऽष्टदोषग्रस्तत्वादनुपपन्नः । तथाहि - यदा जीवो नाडीषु सुप्तो भवति, तदा पुरीतद्ब्रह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यक्तव्यं स्यात् , अप्राप्तं चाप्रामाण्यं स्वीक्रियेत । यदा - पुनः पुरीतद्बह्मणोः शेते, तदा पुरीतद्ब्रह्मवाक्ययोः पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत, पूर्वं स्वीकृतं चाप्रामाण्यं परित्यज्येत, इति प्राप्तपरित्यागः, अप्राप्तस्वीकारः, त्यक्तस्वीकारः, स्वीकृतपरित्यागश्च, इति दोषचतुष्टयं पुरीतद्ब्रह्मवाक्यकोटौ । तथा नाडीवाक्यकोट्यामपि दोषचतुष्टये योजिते सत्यष्टौ दोषाः सम्पद्यन्ते । तस्मात् - समुच्चय एव ग्राह्यः, नतु विकल्पः ॥
(तृतीये सुप्तस्यैव जागरणाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
यः कोऽप्यनियमेनात्र बुध्यते सुप्त एव वा ॥
उदबिन्दुरिवाशक्तेर्नियन्तुं कोऽपि बुध्यते ॥ ५ ॥
कर्माविद्यापरिच्छेदादुदबिन्दुविलक्षणः ॥
स एव बुध्यते शास्त्रात्तदुपाधेः पुनर्भवात् ॥ ६ ॥
यथा समुद्रे प्रक्षिप्तो (यो) जलबिन्दुः, स एव नियमेन पुनरुद्धर्तुमशक्यः । तथा सुषुप्तौ ब्रह्म प्राप्तो (यो) जीवः, स एव बुध्यत इति नियन्तुमशक्यत्वात् - यः कोऽपि बुध्यते ।
इति प्राप्ते, ब्रूमः - विषम उपन्यासः । 'चिद्रूपो जीवः कर्माविद्यावेष्टितो ब्रह्मणि निमज्जति । उदबिन्दुस्त्ववेष्टितः' इति वैषम्यम् । यथा गङ्गोदकपरिपूर्णः पिहितद्वारः काञ्चनकुम्भः समुद्रे निक्षिप्तः पुनरुद्धियते, तत्रत्यं गङ्गाजलं तदेव पुनर्विवेक्तुं शक्यते, तथा स एव जीवः प्रतिबुध्यताम् । अत एव श्रुतिराह – "त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति" इति । 'व्याघ्रादयो ये जीवाः सषुप्तेः पूर्वं यच्छरीरं प्राप्य वर्तन्ते, त एव जीवाः सुषुप्तेरुपरि प्रबुध्यमानास्तदेव शरीरं प्राप्नुवन्ति' इत्यर्थः न च – सुषुप्तौ ब्रह्म प्राप्तस्य जीवस्य मुक्तवत्पुनरुद्भवानुपपत्तिः, अवच्छेदकस्योपाधेः सत्त्वेन तदुद्भवे जीवोद्भवसम्भवात् । तस्मात् - यः सुप्तः स एव प्रतिबुध्यते ॥
(चतुर्थे मूर्छाया अवस्थान्तरताधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
किं मूर्छैका जाग्रदादौ किंवाऽवस्थान्तरं भवेत् ॥
अन्याऽवस्था न प्रसिद्धा तेनैका जाग्रदादिषु ॥ ७ ॥
न जाग्रत्स्वप्नयोरेका द्वैताभानान्न सुप्तता ॥
मुखादिविकृतेस्तेनावस्थाऽन्या लोकसंमता ॥ ८ ॥
जाग्रत्स्वप्नसुषुप्तिभ्योऽन्यस्या अवस्थाया अप्रसिद्धत्वान्मूर्छाया जाग्रदादावन्तर्भावः ॥
इति प्राप्ते, ब्रूमः - परिशेषादवस्थान्तरमभ्युपेयम् । न तावज्जाग्रत्स्वप्नयोरन्तर्भावः द्वैतप्रतीत्यभावात् । नापि सुषुप्तौ, विलक्षणत्वात् । सुप्तः पुमान्प्रसन्नवदनः समश्वासो निष्कम्पशरीरो भवति, मूर्छितस्तु विकृतमुखो विषमश्वासः शरीरकम्पादियुक्तः । यद्यपि जाग्रदादिवद्दैनन्दिनत्वाभावान्न मूर्छाया बालकादिषु प्रसिद्धिरस्ति, तथाऽपि कादाचित्कीं मूर्छावस्थां विज्ञाय वृद्धाश्चिकित्सन्ते । तस्मात् - अन्येयमवस्था ॥
तदेवमधिकरणचतुष्टयेन त्वम्पदार्थः शोधितः । तत्र स्वप्नसृष्टेर्मिथ्यात्वेन सुखदुःखकर्तृत्वाद्यवभासेऽपि जीवोऽसङ्ग एवेति शोधितम् । सुषुप्तौ ब्रह्मैक्येन तदेवासङ्गत्वमनुभावितम् । तस्यैव पुनः प्रतिबोधेनानित्यत्वाशङ्का निराकृता । मूर्छाविचारेण श्वासादिसर्वव्यवहारलोपेऽपि मरणे जीवनाशो नाऽऽशङ्कनीयः इति दर्शितम् ॥
(पञ्चमे ब्रह्मणो नीरूपत्वाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
ब्रह्म किं रूपि चारूपं भवेन्नीरूपमेव वा ॥
द्विविधश्रुतिसद्भावाद्ब्रह्म स्यादुभयात्मकम् ॥ ९ ॥
नीरूपमेव वेदान्तैः प्रतिपाद्यमपूर्वतः ॥
रूपं त्वनूद्यते भ्रान्तमुभयत्वं विरुध्यते ॥ १० ॥
"तदेतच्चतुष्पाद्ब्रह्म" इत्यादिश्रुतयो रूपवद्ब्रह्म प्रतिपादयन्ति । "अस्थूलमनणु" - इत्यादिश्रुतयो नीरूपम् । तस्मात् - वस्तुत उभयात्मकं ब्रह्म ॥
इति प्राप्ते, ब्रूमः - नीरूपमेव शास्त्रप्रतिपाद्यम् , मानान्तरासिद्धत्वात् । जगत्कर्तृत्वादिरूपयुक्तं तु ब्रह्म 'क्षित्यादिकं सकर्तृकं कार्यत्वात्' इत्यनुमानेनाप्यवगन्तुं शक्यते । अत एवोपासनायानूद्यते, न तु तात्पर्येण प्रतिपाद्यते । न च - अनुमानशास्त्रसिद्धयोरुभयोर्वास्तवत्वम् , एकस्मिन्वस्तुनि सरूपत्वनीरूपत्वयोर्विरुद्धत्वात् । तस्मात् - अतात्पर्यविषयस्य सरूपत्वस्य भ्रान्तत्वान्नीरूपमेव वस्तुतो ब्रह्म ॥
(षष्ठे ब्रह्मणो निराकरणाविषयत्वाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
ब्रह्मापि नेति नेतीति निषिद्धमथवा न हि ॥
द्विरुक्त्या ब्रह्मजगती निषिध्येते उभे अपि ॥ ११ ॥
वीप्सेयमितिशब्दोक्ता सर्वदृश्यनिषिद्धये ॥
अनिदं सत्यसत्यं च ब्रह्मैकं शिष्यतेऽवधिः ॥ १२ ॥
"द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च" इत्येतस्मिन्ब्राह्मणे महता प्रबन्धेन पृथिव्यप्तेजोलक्षणं र्मूतरूपम्, वाय्वाकाशलक्षणममूर्तरूपं प्रपञ्च्य तदन्ते ब्रह्मोपदेष्टुमिदमुक्तम् - "अथात आदेशो नेति नेति" इति । अस्यायमर्थः - 'अथ रूपद्वयकथनानन्तरमरूपिणो ब्रह्मणो वक्तव्यत्वात् 'नेति, नेति' इत्ययं ब्रह्मोपदेशः' इति । तत्र पूर्वपक्षी मन्यते - प्रथमनेतिशब्देन जगत एकस्यैव निषेध्यत्वे द्वितीयो 'नेति' शब्दो निरर्थकः स्यात् । अतो द्वितीयेन ब्रह्मापि निषिध्यते ॥
इति प्राप्ते, ब्रमः - न तावद्वितीयस्य निषेधस्य वैयर्थ्यम् , वीप्सार्थत्वात् । सत्यां च वीप्सायां यद्यद्दृृश्यते, इति शब्दनिर्देशार्हं च, तत्सर्वं ब्रह्म न भवति - इति निषिद्धं भविष्यति । विना तु वीप्सामेकेन नकारेण मूर्तामूर्तयोः प्रकृतत्वेनेतिशब्दनिर्देशार्हयोर्निषेधे सति मूर्ताद्यभावस्य मूलाज्ञानस्य चानिषिद्धत्वात्तयोर्ब्रह्मत्वं प्रसज्येत । ननु - सत्यामपि वीप्सायामस्त्येव दोषः, वीप्साया निरङ्कुशत्वाद्ब्रह्मापि निषिध्यते - इति । तन्न, ब्रह्मणो दृश्यत्वाभावेन निषेध्यसमर्पकेतिशब्दानर्हत्वात् । किञ्च – "अथात आदेशः" इति महता संभ्रमेण ब्रह्मोपदेष्टुं प्रतिज्ञाय तदेव ब्रह्म निषेधन्ती श्रुतिः कथं न व्याहन्येत । वाक्यशेषश्च न ब्रह्मनिषेधे सङ्गच्छते । वाक्यशेषे च "अथ नामधेयं सत्यस्य सत्यम्" इत्यादिना विवक्षितस्य ब्रह्मणो लौकिकसत्याद्गिरिनदीसमुद्रादेरधिकमात्यन्तिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम् । सर्वनिषेधपक्षे सर्वमप्येतत्कदर्थितं स्यात् । तस्मात् - न ब्रह्म निषिध्यते ॥
(सप्तमे ब्रह्मातिरिक्तवस्तुनिराकरणाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
वस्त्वन्यद्ब्रह्मणो नो वा विद्यते ब्रह्मणोऽधिकम् ॥
सेतुत्वोन्मानवत्त्वाच्च सम्बन्धाद्भेदवत्त्वतः ॥ १३ ॥
धारणात्सेतुतोन्मानमुपास्त्यै भेदसङ्गती ॥
उपाध्युद्भवनाशाभ्यां नान्यदन्यनिषेधतः ॥ १४ ॥
यदेतद्ब्रह्म "नेति नेति" इति दृश्यप्रतिषेधेन व्यवस्थापितम् , तस्मादपि ब्रह्मणोऽन्यद्वस्त्वस्ति - इत्यभ्युपगन्तव्यम् । कुतः - सेतुत्वादिव्यपदेशेभ्यः । "अथ य आत्मा स सेतुर्विधृतिः" इति सेतुत्वं व्यपदिश्यते । तत्र यथा लोके पारावारवाञ्जलस्य विधारकः सेतुः, तं च सेतुं तीर्त्वा द्वितीयं जाङ्गलं प्रतिपद्यते । तथा - ब्रह्मणोऽपि सेतुत्वेन जगद्विधारकत्वाद्ब्रह्म तीर्त्वा गन्तव्येनान्येन केनचिद्भवितव्यम् । तथा - उन्मानव्यपदेशोऽपि ब्रह्मणः श्रूयते - "चतुष्पाद्ब्रह्म, षोडशकलं ब्रह्म" इति । तच्चोन्मानं सद्वितीये गवादौ दृष्टचरम् , न त्वद्वितीये कुत्रचित् । तथा - सम्बन्धव्यपदेशोऽपि ब्रह्मणः श्रूयते - "सता सोम्य तदा सम्पन्नो भवति" इति । स च सम्बन्धः सद्रूपाद्ब्रह्मणोऽन्यस्य विद्यमानतायामवकल्प्यते । तथा - "आत्मा वा अरे द्रष्टव्यः" इति द्रष्टृद्रष्टव्यभेदव्यपदेशोऽपि । तस्मात् - नाद्वितीयं ब्रह्म ॥
इति प्राप्ते, ब्रूमः - न तावद्ब्रह्मणः सेतुत्वं मुख्यं सम्भवति, मृद्दारुमयत्वप्रसङ्गात् । केनचित्सेतुसामान्येन सेतुत्वविवक्षायां विधारकत्वमात्रं विवक्षितम् । न तु - सद्वितीयत्वम् , "सेतुर्विधृतिः" इति श्रवणात् । उन्मानं तूपास्त्यै व्यपदिश्यते, तत्प्रकरणत्वात् । न तु तत्त्वावबोधार्थम् । भेदव्यपदेशश्चोपाध्युद्भवमपेक्ष्य घटाकाशमहाकाशवदुपपद्यते । सम्बन्धव्यपदेशश्चोपाधिनाशमपेक्ष्य घटभङ्गे घटाकाशमहाकाशवदुपचर्यते । तस्मात् - ब्रह्मव्यतिरिक्तवस्तुसाधकहेतूनामन्यथासिद्धत्वात् "एकमेवाद्वितीयं ब्रह्म" इत्यन्यवस्तुनिषेधाच्चाद्वितीयमेव ब्रह्म ॥
(अष्टमे कर्माराधितेश्वरस्यैव फलदातृत्वाधिकरणे सूत्राणि - )
अष्टमाधिकरणमारचयति -
कर्मैव फलदं यद्वा कर्माराधित ईश्वरः ॥
अपूर्वावान्तरद्वारा कर्मणः फलदातृता ॥ १५ ॥
अचेतनात्फलासूतेः शास्त्रीयात्पूजितेश्वरात् ॥
कालान्तरे फलोत्पत्तेर्नापूर्वपरिकल्पना ॥ १६ ॥
अनुक्षणविनाशिनोऽपि कर्मणोऽपूर्वव्यवधानेनापि कालान्तरभाविफलदातृत्वसम्भवादीश्वरकल्पने गौरवम् ॥
इति प्राप्ते, ब्रूमः - अचेतनस्य कर्मणोऽपूर्वस्य वा तारतम्येन प्रतिनियतं फलं दातुं न सामर्थ्यमस्ति, लोके सेवादिक्रियायामचेतनायां तददर्शनात् । ततः सेवितराजवत्पूजितेश्वरात्फलसिद्धिरभ्युपेया । न च - कल्पनागौरवम् , शास्त्रसिद्धत्वेनेश्वरस्या कल्पनीयत्वात् । "एष ह्येव साधु कर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषति । एष उ एवासाधु कर्म कारयति तम् , यमधो निनीषते" इति श्रुतिरीश्वरस्यैव धर्माधर्मयोः फलदातृत्वम् , तत्कारयितृत्वं चाभिदधाति । सति चेश्वरस्य प्रामाणिकत्वे तवैव प्रत्युताश्रुतस्यापूर्वस्य कल्पने गौरवं भवेत् । तस्मात् - कर्मभिराराधित ईश्वरः फलदाता ॥
तदेवमधिकरणचतुष्टयेन तत्पदार्थः शोधितः । तत्र प्रथमेन ब्रह्मणो नीरूपत्वम् , द्वितीयेन निषेधाविषयत्वम् , तृतीयेनाद्वितीयत्वम् , चतुर्थे न व्यवहारदशायां कर्मफलदातृत्वम् , शाखाग्रचन्द्रन्यायेनोपलक्षणत्वाय प्रतिपादितम् । इत्येवं तत् - त्वम्पदार्थौ शोधितौ इति स्थितम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां
वैयासिकन्यायमालायां तृतीयाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ८ १०१
सूत्राणि ४१ ३६०
(प्रथमे सर्ववेदान्तप्रत्ययोपासनाया एकत्वाधिकरणे सूत्राणि - )
तृतीयपादस्य प्रथमाधिकरणमारचयति -
सर्ववेदेष्वनेकत्वमुपास्तेरथवैकता ॥
अनेकत्वं कौथुमादिनामधर्मविभेदतः ॥ १ ॥
विधिरूपफलैकत्वादेकत्वं नाम न श्रुतम् ॥
शिरोव्रताख्यधर्मस्तु स्वाध्याये स्यान्न वेदने ॥ २ ॥
छान्दोग्यबृहदारण्यकयोः - पञ्चाग्न्युपासनमाम्नायते । तदेकं न भवति । नाम भेदात् । 'कौथुमम्' इति च्छान्दोग्यगतस्य नाम, 'वाजसनेयकम्' इति बृहदारण्यकगतस्य नाम । तथोपासनान्तरेषु योजयितव्यम् । धर्मभेदोऽप्युपासनाभेदगमकः शिराव्रतलक्षणो मुण्डकव्रतशाखायां श्रूयते - "तेषामेवैतां ब्रह्मविद्यां वदेत् , शिरोव्रतं विधिवद्यैस्तु चीर्णम्" इति । शिरोव्रतं नाम वेदव्रतविशेष आथर्वणिकान्प्रति विहितो, नेतरान्प्रति । तस्मात् - शाखाभेदादुपासनाभेदः ॥
इति प्राप्ते, ब्रूमः - शाखाभेदेऽपि विद्याद्यभेदादुपासनं न भिद्यते । तथा च च्छान्दोग्ये - "यो ह वै ज्येष्ठं च श्रेष्ठं च वेद" इति यादृशः प्राणविद्याविधिः, तादृश एव बृहदारण्यकेऽप्याम्नायते । तथा - द्युपर्जन्यपृथिवीपुरुषयोषिदाख्यमग्निपञ्चकं वेद्यतया । पञ्चाग्निविद्यायां यत्स्वरूपम् , तदुभयोरपि शाखयोः समानम् । फलं च "ज्येष्ठश्च ह वै श्रेष्ठश्च भवति" इत्येवंरूपं प्राणोपास्तिजन्यं शाखाद्वयेऽप्येकविधम् । यस्तु कौथुमादिनामभेद उदाहृतः, नासौ श्रुत्याऽभिहितः । किं तर्हि - अध्येतार एव केवलं तत्तच्छाखाप्रवर्तकमुनिनाम्ना तं तं वेदं व्याहरन्ति । योऽपि शिरोव्रताख्यधर्मभेद उक्तः, सोऽप्यध्ययनविषय एव । नतूपास्तिविषयः, "नैतदचीर्णव्रतोऽधीते" इत्यध्ययनधर्मत्वावगमात् । तस्मात् - ऐक्यहेतुसद्भावात् , भेदहेत्वभावाच्च न शाखाभेदादुपासनं भिद्यते ॥
(द्वितीये शाखान्तरोक्तस्याप्युपसंहाराधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
एकोपास्तावनाहार्या आहार्या वा गुणाः श्रुतौ ॥
अनुक्तत्वादनाहार्या उपकारः श्रुतैर्गुणैः ॥ ३ ॥
श्रुतत्वादन्यशाखायामाहार्या अग्निहोत्रवत् ॥
विशिष्टविद्योपकारः स्वशाखोक्तगुणैः समः ॥ ४ ॥
वाजसनेयके - प्राणविद्यायामधिको गुणो रेतआख्यः श्रुतः - "रेतो होच्चक्राम" इति । नासौ छान्दोग्ये - प्राणविद्यायामुपसंहर्तव्यः, अत्रानुक्तत्वात् । विद्योपकारस्त्वत्र श्रुतैरेव प्राणवागादिभिर्गुणैर्भविष्यति ॥
इति प्राप्ते, ब्रूमः - एतच्छाखायामश्रवणेेऽपि शाखान्तरे श्रुतत्वादुपसंहार्य एव । अग्निहोत्राद्यनुष्ठानेषु शाखान्तरोक्तगुणयुक्ततयैवानुष्ठानदर्शनात् । न च – स्वशाखोक्तगुणैरेव विद्योपकारसिद्धौ गुणोपसंहारो निरर्थकः - इति वाच्यम्, 'कर्मभूयस्त्वात्फलभूयस्त्वम्' इति न्यायेन स्वशाखोक्तगुणवत्परशाखोक्तगुणानामप्युपकारकत्वात् । तस्मात् - गुणोपसंहारः कर्तव्यः ॥
(तृतीये, उद्गीथविद्याया भिन्नताधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
एका भिन्नाऽथवोद्गीथविद्या छान्दोग्यकाण्वयोः ॥
एका स्यान्नामसामान्यात्सङ्ग्रामादिसमत्वतः ॥ ५ ॥
उद्गीथावयवोङ्कार उद्गातेत्युभयोर्भिदा ॥
वेद्यभेदेऽर्थवादादिसाम्यमत्राप्रयोजकम् ॥ ६ ॥
'उद्गीथविद्या' इति समाख्याया एकत्वाच्छान्दोग्यकाण्वशाखयोर्विद्यैक्यमुचितम् । अथ समाख्या न श्रौती, तथाऽपि - श्रौताः सङ्ग्रामादय उभयत्र समानाः । तथाहि - छान्दोग्ये देवासुरभावं क्रमेण सात्त्विकेन्द्रियवृत्तीनां तामसेन्द्रियवृत्तीनां चाङ्गीकृत्य तत्सङ्ग्रामं निरूप्य वागादिदेवानामसुरविद्धत्वमुक्त्वा प्राणस्यैव तदविद्धत्वमुक्तम् । एतत्सर्वं काण्ववेदेऽपि समानम् । तस्मात् - उभयत्र विद्यैक्यम् ॥
इति प्राप्ते, ब्रूमः - भिन्नेयमुद्गीथविद्या वेद्यस्वरूपभिन्नत्वात् । छान्दोग्ये तावत्सामभागविशेषस्योद्गीथस्यावयव ओङ्कारः । स एव प्राणदृष्ट्योपासनीयः । काण्ववेदेतु कृत्स्नोद्गीथभक्तेर्य उद्गाता वागिन्द्रयप्रेरकः प्राणः, स उद्गातृत्वेनोपास्य इति वेद्यभेदः । यत्तु - सङ्ग्रामादिसाम्यमुक्तम् । तदप्रयोजकम् , अर्थवादत्वात् । यदपि प्राणस्यासुरविद्धत्वाभावेन श्रेष्ठत्वम् । तद्यद्यप्युपास्यम् , तथाऽप्युक्तस्य वेद्यभेदस्यानिराकरणात् - भिन्नैवोद्गीथविद्या ॥
(चतुर्थे, उद्गीथस्योङ्कारविशेषणत्वाधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
किमध्यासोऽथवा बाध ऐक्यं वाऽथ विशेष्यता ॥
अक्षरस्यात्र मास्त्यैक्यं नियतं हेत्वभावतः ॥ ७ ॥
वेदेषु व्याप्त ओङ्कार उद्गीथेन विशेष्यते ॥
अध्यासादौ फलं कल्प्यं संनिकृष्टांशलक्षणा ॥ ८ ॥
"ओमित्येतदक्षरमुद्गीथमुपासीत" इत्यक्षरोद्गीथयोः सामानाधिकरण्यं श्रूयते । तत्र चतुर्धा संशयः । तथाहि - "नाम ब्रह्मेत्युपासीत" इत्यत्र नाम्नि ब्रह्मदृष्ट्यध्यासाय सामानाधिकरण्यं श्रुतम् । तथा - बाधादिष्वप्युदाह्नियते । "यश्चौरः स स्थाणुः" इति चौरत्वस्य बाधः । "यो जीवस्तद्ब्रह्म" इत्येकत्वम् । 'यन्नीलं तदुत्पलम्' इति विशेष्यता । अतोऽक्षरस्य चतुर्धा सन्देहे सति 'इदमेव' इत्यत्र नास्त्यध्यवसायः, नियामकस्य हेतोरभावात् ॥
इति प्राप्ते, ब्रूूमः - अक्षरस्योद्गीथेन विशेष्यता नियन्तुं शक्यते । ओङ्कारो हि ऋग्यजुःसामसु त्रिषु पठ्यते । तत्र 'कस्योपास्यत्वम्' इत्यपेक्षायाम् , 'उद्गीथभागस्थितस्य, न त्वितरस्य' इति सामवेदगतस्य विशेषणीयत्वात् । अध्यासबाधैक्यपक्षेषु फलमपि कल्पनीयं प्रसज्येत, स्वतन्त्रोपासनत्वेन फलस्याऽऽकाङ्क्षितत्वात् । विशेषणपक्षे तु वक्ष्यमाणरसतमत्वादिगुणोपासनाय प्रतीकत्वेनोङ्कार उद्गीथेन विशेष्यते न तु स्वतन्त्रमुपासनम् । ततो न पृथक्फलं कल्पनीयम् । ननु - उद्गीथशब्दः कृत्स्नभक्तिवाचकः । अोङ्कारस्तु तदवयवः । एवं चोङ्कारं विशेष्टुमुद्गीथशब्देन तदंशलक्षणा स्वीकरणीया स्यात् । बाढम् । तथाऽप्यध्यासपक्षात्समीचीनो विशेषणपक्षः । अध्यासपक्षे तु यथा विष्णुशब्दः स्वार्थं सर्वं परित्यज्यार्थान्तरभूतां शिलाप्रतिमां लक्षयति, तथोद्गीथशब्दोऽपीति विप्रकर्षः । अंशलक्षणायां तु स्वार्थैकदेशस्यैव परित्याग इति संनिकर्षः । अोङ्कारादितरदक्षरजातं यदस्ति सोऽयं परित्यक्तव्यस्तदेकदेशः । तस्मात् - वेदान्तरगतोङ्कारव्यावृत्त्यर्थमुद्गीथावयवत्वेनैतदक्षरं विशिष्यते ॥
(पञ्चमे वसिष्ठत्वादीनामाहार्यताधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
वसिष्ठत्वाद्यनाहार्यमाहार्यं वैवमित्यतः ॥
उक्तस्यैव परामर्शादनाहार्यमनुक्तितः ॥ ९ ॥
प्राणद्वारेण बुद्धिस्थं वसिष्ठत्वादि तेन तत् ॥
एवंशब्दपरामर्शयोग्यमाहार्यमिष्यते ॥ १० ॥
प्राणविद्यायां छन्दोगाः काण्वाश्च वसिष्ठत्वप्रतिष्ठादिकान्गुणानामनन्ति, न त्वैतरेयककौषीतक्यादयः । तत्र वसिष्ठत्वादिकं नोपसंहर्तव्यम् । कुतः - "य एवं वेद" इत्येवंशब्देन तत्तच्छाखोक्तगुणानामेव परामर्शात् ॥
इति प्राप्ते, ब्रूमः - उक्तगुणवदनुक्ता अपि गुणा एवंशब्दपरामर्शयोग्याः । कुतः - गुणिनः प्राणस्यैकत्वेन तद्द्वारा गुणाना बुद्धिस्थत्वात् । यथा - देवदत्तो मथुरायामध्यापयन्दृष्टः, पुनर्माहिष्मत्यामनध्यापयन्नप्यध्यापकत्वेनैव प्रत्यभिज्ञायते । तथा छान्दोग्यादौ वसिष्ठत्वादिगुणयुक्ततयोपलब्धः, पुनरैतरेयादौ केवल उपलभ्यमानोऽपि तद्गुणविशिष्टतयैव बुद्धिस्थो भवेत् ॥ तस्मात् - एवंशब्दपरामर्शयोग्यत्वाद्वसिष्ठत्वादिकमुपसंहर्तव्यम् ॥
(षष्ठे, आनन्दादीनामुपसंहाराधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
नाऽऽहार्या उत वाऽऽहार्या आनन्दाद्या अनाहृतिः ॥
वामनीसत्यकामादेरिवैतेषां व्यवस्थितेः ॥ ११ ॥
विधीयमानधर्माणां व्यवस्था स्याद्यथाविधि ॥
प्रतिपत्तिफलानां तु सर्वशाखासु संहृतिः ॥ १२ ॥
"आनन्दो ब्रह्म" "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यानन्दसत्यत्वादयस्तैत्तिरीयके परब्रह्मविद्यायां पठ्यन्ते । ते "प्रज्ञानं ब्रह्म" इत्याद्यैतरेयकादिप्रोक्तासु परब्रह्मविद्यासु नोपसंहर्तव्याः । वामनीत्वादिवद्व्यवस्थोपपत्तेः । "एष उ एव वामनीः, एष उ एव भामनीः" इति कामनेतृत्वभासकत्वादयो गुणा उपकोसलविद्यायामाम्नाताः । "सत्यकामः सत्यसङ्कल्पः" इति सत्यकामादयो गुणा दहरविद्यायां समाम्नाताः । तत्र यथा परस्परं गुणानुपसंहारः, एवमानन्दादीनां व्यवस्थाऽस्तु ॥
इति प्राप्ते, ब्रूमः - विषमो दृष्टान्तः । वामनीत्वादिना ध्येयत्वेन विधीयमानत्वाद्यथाविधि व्यवस्था युक्ता । आनन्दादयस्तु प्रतिपत्तिफला इति न विधीयन्ते । अतो व्यवस्थापकविध्यभावात्प्रतिपत्तिफलस्य सर्वत्र समानत्वाच्चाऽऽनन्दादय उपसंहर्तव्याः ॥
(सप्तमे पुरुषस्यैव ज्ञेयताधिकरणे सूत्रे - )
सप्तमाधिकरणमारचयति -
सर्वा परम्पराऽक्षादेर्ज्ञेया पुरुष एव वा ॥
ज्ञेया सर्वा श्रुतत्वेन वाक्यानि स्युर्बहूनि हि ॥ १३ ॥
पुमर्थः पुरुषज्ञानं तत्र यत्नः श्रुतो महान् ॥
तद्बोधाय श्रुतोऽक्षादिर्वेद्य एकः पुमांस्ततः ॥ १४ ॥
कठवल्लीषु पठ्यते -
"इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति" ।
अस्यायमर्थः - "मनसा विषयानभिलष्य पश्चादिन्द्रियैर्बाह्यन्विषयानाप्नोति" । तत्र बाह्यविषयेभ्य इन्द्रियाणामान्तरत्वात्परत्वं प्रसिद्धम् । इन्द्रियेभ्यश्चाभिलष्यमाणत्वदशापन्ना अर्था आन्तराः । तेभ्योऽप्यभिलाषात्मिका मनोवृत्तिरान्तरा । वृत्तेरपि वृत्तिमती बुद्धिरभ्यन्तरा । बुद्धेरपि बुद्ध्युपादानभूतो महच्छब्दवाच्यो हैरण्यगर्भरूपात्माऽऽभ्यन्तरः । महतोऽपि तदुपादानभूतमव्यक्ताख्यं मूलाज्ञानमाभ्यन्तरम् । अव्यक्तादपि तदधिष्ठानभूतश्चिद्रूपः पुरुषोऽभ्यन्तरः । पुरुषादभ्यन्तरं न किञ्चिदस्ति । पुरुष एवाभ्यन्तरतारतम्यस्य विश्रान्तिभूमिः, 'पुरुषार्थकामैः परमो गन्तव्यश्च' इति । तत्र यथा पुरुषः श्रुत्या तात्पर्येण प्रतिपाद्यः, एवमिन्द्रियादिपरम्पराऽपि प्रतिपाद्यैव । अन्यथा - तदुपन्यासवैयर्थ्यात् । बहूनां प्रतिपादने वाक्यभेदः स्यात् - इति चेत् । बाढम् । सन्त्येव तानि बहूनि वाक्यानि, एकवाक्यत्वासम्भवात् ॥
इति प्राप्ते, ब्रूमः - पुरुषज्ञानस्याशेषसंसारनिदानभूताज्ञाननिवर्तकत्वात्पुरुष एव ज्ञेयतया प्रतिपाद्यः । अत एव वाक्यशेषे पुरुषज्ञानायैव महता प्रयत्नेन योग उपदिष्टः -
"एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः" इति ।
अस्यायमर्थः - 'सर्वाभ्यन्तरत्वेन गूढोऽयमात्मा बहिर्मुखानां न प्रकाशते । अन्तर्मुखा ये सूक्ष्मतत्त्वदर्शनशीलास्तैर्योगाभ्यासेनैकाग्र्यमापन्नया बुद्ध्या सूक्ष्मवस्तुविषयया द्रष्टुं शक्यते' इति । न च – पुरुषस्यैव प्रतिपाद्यत्वे परम्परोपदेशवैयर्थ्यम् , बहिर्मुखस्य चित्तस्य पुरुषप्रवेशं प्रति परम्परायाः साधनत्वात् । तस्मात् - पुरुष एव ज्ञातव्यः ॥
(अष्टमे, ईश्वरस्यैवाऽऽत्मशब्दवाच्यताधिकरणे सूत्रे - )
अष्टमाधिकरणमारचयति -
आत्मा वा इदमित्यत्र विराट् स्यादथवेश्वरः ॥
भूतासृष्टेर्नेश्वरः स्याद्गवाद्यानयनाद्विराट् ॥ १५ ॥
भूतोपसंहृतेरीशः स्यादद्वैतावधारणात् ॥
अर्थवादो गवाद्युक्तिर्ब्रह्मात्मत्वं विवक्षितम् ॥ १६ ॥
"आत्मा वा इदमेक एवाग्र आसीत्" इत्यत्र विराडेवाऽऽत्मशब्दवाच्यः, नेश्वरः । कुतः - "स ऐक्षत – लोकान्नु सृजै" - इति पञ्चभूतसृष्टिमनुक्त्वा लोकमात्रसृष्टेरभिधानात् । ईश्वरप्रकरणे तैत्तिरीयच्छान्दोग्यादिषु भूतसृष्ट्यभिधानदर्शनात् । "ताभ्यो गामानयत्" इति प्रोक्तं गवाद्यानयनं शरीरिणो विराजो घटते, न त्वशरीरस्य परमेश्वरस्य ॥
इति प्राप्ते, ब्रूमः - "एक एवाग्र आसीत्" इत्यद्वैतावधारणादीश्वरोऽत्राऽऽत्मशब्दार्थः । तथाच सति शाखान्तरोक्तभूतसृष्टिरत्रोपसंहर्तुं शक्यते । यत्तु - गवाद्यानयनम् । तदर्थवादरूपम् । तद्वेदनस्य स्वातन्त्र्येण पुरुषार्थत्वाभावात् । अथ – भूतार्थवादत्वं मन्येथाः, । तर्हि विराडादिद्वारा परमेश्वर एव गवादिकमानयतु अथ – श्रूयमाणस्य गवानयनप्रपञ्चस्यार्थवादत्वे श्रुतेर्विवक्षितार्थः कोऽपि न सिध्येत् - इति चेत् । न, जीवब्रह्मैक्यस्य विवक्षितत्वात् । "आत्मा वै" - इत्युपक्रम्य "स एतमेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म" इत्युपसंहारात् । तस्मात् - ईश्वर एवाऽऽत्मशब्दवाच्यः ।
द्वितीयवर्णकमाह -
द्वयोर्वस्त्वन्यदेकं वा काण्वच्छान्दोग्यषष्ठयोः ॥
उभयत्र पृथग्वस्तु सदात्मभ्यामुपक्रमात् ॥ १७ ॥
साधारणोऽयं सच्छब्दः स आत्मा तत्त्वमित्यतः ॥
वाक्यशेषादात्मवाची तस्माद्वस्त्वेकमेतयोः ॥ १८ ॥
काण्वषष्ठाध्याये "कतम आत्मा" इत्यारभ्याऽऽत्मा प्रपञ्चितः । छान्दोग्यषष्ठे तु "सदेव सोम्येदमग्र आसीत्" इत्युपक्रम्य सद्वस्तु प्रपञ्चितम् । न हि लोके सच्छब्दात्मशब्दौ पर्यायौ । तस्मात् - वस्तुभेदः ॥
इति प्राप्ते, ब्रूमः - सच्छब्दोऽयमात्मानात्मसाधारणत्वात्सन्दिग्धः । स च वाक्यशेषे "स आत्मा, तत्त्वमसि" इति श्रवणादात्मवाची भविष्यति । तस्मात् - एकमेवोभयत्र वस्तु ॥
(नवमे प्राणविद्यायामनग्नताबुद्धेरेव विधेयत्वाधिकरणे सूत्रम् - )
नवमाधिकरणमारचयति -
अनग्नबुद्ध्याचमने विधेये बुद्धिरेव वा ॥
उभे अपि विधीयेते द्वयोरत्र श्रुतत्वतः ॥ १९ ॥
स्मृतेराचमनं प्राप्तं प्रायत्यार्थमनूद्य तत् ॥
अनग्नतामतिः प्राणविदोऽपूर्वां विधीयते ॥ २० ॥
प्राणविद्यायां वाक्यशेषे श्रूयते - "अशिष्यन्नाचामेत् , आशित्वा चाऽऽचामेत् । एवमेव तदनमनग्नं कुरुते " इति । तत्र प्राणस्यानग्नताबुद्धिः, आचमनञ्च, इत्युभयं विधेयम् । द्वयोः श्रुतत्वात् ।।
इति प्राप्ते, ब्रूमः -"अप्राप्ते शास्त्रमर्थवत्" इति न्यायेन मानान्तराप्राप्तमनग्नताचिन्तनमेव विधेयम् । 'भोजनात्प्रागूर्ध्वं चाऽऽचमनीयास्वप्सु वासोबुद्धिं कृत्वा तेन वाससा प्राणस्यानग्नत्वं ध्यायेत्' इत्यर्थः । आचमनं तु शुद्ध्यर्थतया स्मृतिबलादेव प्राप्तम् - इति न विधीयते । न च – तस्याः स्मृतेरियं श्रुतिर्मूलम् - इति शङ्कनीयम् , वर्णाश्रमधर्मप्रकरणत्वाभावेन भिन्नविषयत्वात् । मूलभूतं तु श्रुत्यन्तरमनुमेयम् । तस्मात् - आचमनस्य प्राप्तत्वादनग्नताबुद्धिरेव प्राणोपासकं प्रति विधेया ॥
(दशमे शाण्डिल्यविद्यायाः समानताधिकरणे सूत्रम् - )
दशमाधिकरणमारचयति -
शाण्डिल्यविद्या काण्वानां द्विविधैकविधाऽथवा ॥
द्विरुक्तेरेकशाखायां द्वे विद्ये इति गम्यते ॥ २१ ॥
एका मनोमयत्वादिप्रत्यभिज्ञानतो भवेत् ॥
विद्याया विधिरेकत्र स्यादन्यत्र गुणे विधिः ॥ २२ ॥
काण्वानामग्निरहस्यब्राह्मणे शाण्डिल्यविद्या पठ्यते - "स आत्मानमुपासीत मनोमयं प्राणशरीरम्" इति । तथा - तेषामेव बृहदारण्यके सैव विद्या पठिता - "मनोमयोऽयम्पुरुषो भाःसत्यः" इति । तत्र पौनरुक्त्यभयाद्विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - मनोमयत्वादिकस्य वेद्यस्वरूपस्य प्रत्यभिज्ञानादेकैव विद्या । न च – पुनरुक्तिः, एकत्र विद्यां विधायापरत्र तदनुवादेन सत्यत्वसर्वेशानत्वादिगुणानां विधातुं शक्यत्वात् । "अग्निहोत्रं जुहोति, दध्ना जुहोति" इत्यादिवत् । तस्मात् - एकविधैव शाण्डिल्यविद्या ॥
(एकादशे नाम्नोर्व्यवस्थाधिकरणे सूत्राणि - )
एकादशाधिकरणमारचयति -
संहारः स्याद्व्यवस्था वा नाम्नोरहरहं त्विति ॥
विद्यैकत्वेन संहारः स्यादध्यात्माधिदैवयोः ॥ २३ ॥
तस्योपनिषदित्येवं भिन्नस्थानत्वदर्शनात् ॥
स्थितासीनगुरूपास्त्योरिव नाम्नोर्व्यवस्थितिः ॥ २४ ॥
बृहदारण्यके सत्यविद्यायामाधिदैविकस्य पुरुषस्याऽऽदित्यस्य 'अहः' इत्येतन्नाम ध्यानायोपदिश्यते । आध्यात्मिकस्य त्वक्षिपुरुषस्य 'अहम्' इत्येतन्नाम । तत्र – विद्यैकत्वेन द्वयोर्नाम्नोः पुरुषद्वय उपसंहारः ॥
इति प्राप्ते, ब्रूमः - "य एष तस्मिन्मण्डले पुरुषः" इत्युपक्रम्य "तस्योपनिषदहः" इति तच्छब्देन मण्डलस्थमेव परामृश्य तस्यैव नामविशेष उपदिष्टः । तथा - "योऽयं दक्षिणेऽक्षन्पुरुषः" इत्युपक्रम्य "तस्योपनिषदहम्" इति तच्छब्देनाक्षिनिष्ठमेव परामृश्य नामविशेष उपदिष्टः । अतो विद्यैकत्वेन वेद्यस्य सत्याख्यस्य ब्रह्मण एकत्वेऽपि स्थानविशेषे कटाक्षेण नामविधानादाध्यात्मिकाधिदैविकयोर्व्यवस्थिते नामनी । न तु तयोरुपसंहारोऽस्ति । यथा लोके गुरोरुपास्यस्यैकत्वेऽपि तिष्ठतो गुरोर्य उपचारः, नासावासीनस्य युज्यते । आसीनस्य य उपचारः पादाभ्यङ्गादिः, नासौ तिष्ठतो भवति, तद्वत् ॥ तस्मात् - नाम्नोर्व्यवस्था द्रष्टव्या ॥
(द्वादशे सम्भृत्यादीनामनुपसंहाराधिकरणे सूत्रम् - )
द्वादशाधिकरणमारचयति -
आहार्या वा न वाऽन्यत्र सम्भृत्यादिविभूतयः ॥
आहार्या ब्रह्मधर्मत्वाच्छाण्डिल्यादाववारणात् ॥ २५ ॥
असाधारणधर्माणां प्रत्यभिज्ञाऽत्र नास्त्यतः ॥
अनाहार्या ब्रह्ममान्नसम्बन्धोऽतिप्रसञ्जकः ॥ २६ ॥
राणायनीयानां खिलेषु पठ्यते - "ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माऽग्रे ज्येष्ठं दिवमाततान" इति । अस्यायमर्थः - यानि लोके वीर्याणि हरिहरकमलासनादिदेहेषु प्रसिद्धानि, तानि सर्वाणि ब्रह्मपुरः सराण्येव सम्भृतानि सम्भवन्ति । नहि सशक्तिकं ब्रह्मानपेक्ष्य वीर्याणि सम्भवन्ति । तच्च ब्रह्म ज्येष्ठं ब्रह्म पूर्वं दिवं व्याप्यावस्थितम् इति । अत्र – आधिदैविकस्य ब्रह्मणः सम्भृतिद्युव्याप्त्यादयो गुणा उपास्यत्वेनावगम्यन्ते । शाण्डिल्यादिदहरादिविद्यास्वाध्यात्मिकं हृदयान्तर्वर्ति ब्रह्मोपास्यतया श्रुतम् । तत्र – ब्रह्मण एकत्वात्सम्भृत्यादयो गुणाः शाण्डिल्यदहरादिविद्यासूपसंहर्तव्याः ॥
इति प्राप्ते, ब्रूमः - न तावत्सम्भृत्यादिगुणानामन्यतमोऽपि शाण्डिल्यादिविद्यासूपलभ्यते । अतो विद्यैकत्वप्रत्यभिज्ञानाभावाद्रुणा नोपसंहर्तव्याः । ब्रह्मैकत्वमात्रेणोपसंहृतौ न क्वाप्यनुपसंहार इति प्रसङ्गः । तस्मात् - सम्भृत्यादेर्नोपसंहारः ॥
(त्रयोदशे पुरुषविद्याया विभिन्नताधिकरणे सूत्रम् - )
त्रयोदशाधिकरणमारचयति -
पुंविद्यैका विभिन्ना वा तैत्तिरीयकताण्डिनोः ॥
मरणावभृथत्वादिसाम्यादेकेति गम्यते ॥ २७ ॥
बहुना रूपभेदेन किञ्चित्साम्यस्य बाधनात् ॥
न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात् ॥ २८ ॥
अस्ति तैत्तिरीये पुरुषविद्या - "तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः" इति । तथा - ताण्डिशाखायामपि श्रूयते - "पुरुषो वा यज्ञः" इति । सेयमेकैव पुरुषविद्या, "यन्मरणं तदवभृथः", "मरणमेवावभृथः" इत्युभयत्र समानधर्मश्रवणात् । प्रातःसवनादीनां च समानत्वात् ॥
इति प्राप्ते, ब्रूमः - वेद्यस्य रूपस्य भूयानत्र भेदः श्रूयते । तथाहि - 'विदुषो यो यज्ञः, तस्य यज्ञस्याऽऽत्मा' इति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ । अन्यथा ' आत्मा यजमानः' इति व्याघातात् 'विद्वानेव यज्ञः, स एव यजमानः' इति कथं न व्याहन्येत । ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतमित्येको रूपभेदः । आत्मयजमानादिकं च सर्वत्र श्रुतम् , ताण्डिनां नोपलभ्यते । यत्तु ताण्डिनामुपलभ्यते त्रेधाविभक्तस्याऽऽयुषः सवनत्रयत्वमित्यादि, तन्न किञ्चिदपि तैत्तिरीयके पश्यामः । अतो मरणावभृथत्वाद्यल्पसाम्यबाधाद्विद्ययोर्भेद एवोचितः । अपि च न तैत्तिरीयाणामुपासनमिदम् । किं तर्हि ब्रह्मविद्याप्रशंसा "तस्यैवं विदुषः" इति ब्रह्मविद उत्कर्षणात् - तस्मात् - न विद्यैक्यशङ्काया अप्यवकाशोऽस्ति ॥
(चतुर्दशे वेधाद्यधिकरणे सूत्रम् - )
चतुर्दशाधिकरणमारचयति -
वेधमन्त्रप्रवर्ग्यादि विद्याङ्गमर्थवा न तु ॥
विद्यासंनिधिपाठेन विद्याङ्गे मन्त्रकर्मणी ॥ २९ ॥
लिङ्गेनान्यत्र मन्त्राणां वाक्येनापि च कर्मणाम् ॥
विनियोगात्संनिधिस्तु बाध्योऽतो नाङ्गता तयोः ॥ ३० ॥
आथर्वणिकानामपुनिषदारम्भे - "सर्वं प्रविध्य हृदयं प्रविध्य" इत्यादय आभिचारिकमन्त्राः पठिताः । काण्वानामुपनिषदादौ प्रवर्ग्यब्राह्मणं पठितम् । एवमन्यत्राप्युदाहर्तव्यम् । तत्र विद्यासंनिधिवशान्मन्त्रकर्मणोर्विद्याङ्गत्वम् ॥
इति प्राप्ते, ब्रूमः - हृदयवेधादिमन्त्राणां लिङ्गादभिचारकर्मणि विनियोगः । प्रवर्ग्यस्य "पुरस्तादुपसदां प्रवृणक्ति" इत्यग्निष्टोमे विनियोगो दृश्यते । 'लिङ्गवाक्ये च संनिधेर्बलीयसी' इति पूर्वकाण्डे श्रुतिलिङ्गाधिकरणे व्यवस्थापितम् । तस्मात् - न विद्याङ्गत्वं मन्त्रकर्मणोः ॥
(पञ्चदशे ज्ञानिनः कर्मणां हान्युपायनाधिकरणे सूत्रम् - )
पञ्चदशाधिकरणमारचयति -
प्रथमवर्णकमाह -
उपायनमनाहार्यं हानायाऽऽह्नियतेऽथ वा ॥
अश्रुतत्वादनाक्षेपाद्विद्याभेदाच्च नाऽऽहृतिः ॥ ३१ ॥
विद्याभेदेऽप्यर्थवाद आहार्यः स्तुतिसाम्यतः ॥
हानस्य प्रत्यभिज्ञानादेकविंशादिवादवत् ॥ ३२ ॥
शाट्यायनिनः पठन्ति - "तस्य पुत्रा दायमुपयन्ति, सुहृदः साधुकृत्याम् , द्विषन्तः पापकृत्याम्" इति । अस्यायमर्थः - 'ज्ञानिनः पुत्रस्थानीयाः सर्वे प्राणिनस्तदीयं वित्तस्थानीयं कर्म यथायोग्यं गृह्णन्ति' - । ताण्डिनस्तु पठन्ति -
"अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरम्" इति । तथाऽऽथर्वणिकाः पठन्ति - "तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परं साम्यमुपैति" इति । निरञ्जनो भाविजन्मकारणरहितः, साम्यं ब्रह्मस्वरूपम् , इत्यर्थः । तत्र तत्त्वज्ञानिनः पापपुण्यपरित्यागप्रतिपादिकासु श्रुतिषु परित्यक्तयोः पुण्यपापयोरितरपुरुषस्वीकारो नोपसंहर्तव्यः, त्यागश्रुतिषु क्वाप्यन्यस्वीकारस्याश्रुतत्वात् । अश्रुतमप्याक्षिप्यते - इति चेत् । न । अनुपपत्तेरभावात् । इतरस्वीकारमन्तरेणापि ज्ञानिनां परित्याग उपपद्यत एव । किञ्च – इतरस्वीकारवाक्यं सगुणविद्यायां पठितम् । त्यागवाक्यं तु निर्गुणविद्यायाम् । तस्मात् - केवलायां हानौ श्रूयमाणायामुपायनं नोपसंहर्तव्यम् ॥
इति प्राप्ते, ब्रूमः - सत्यं विद्या भेदोऽस्ति । अत एव न वयमुपायनमनुष्ठेयधर्मतयोपसंहरामः । किं त्वर्थवादत्वेन । यथा श्रूयमाणेन पुण्यपापपरित्यागेन ब्रह्मविद्या स्तूयते, तथेतरस्वीकारेणापि स्तोतुं शक्यत एव । नच – अर्थवादत्वमात्रेण हानोपायनश्रुत्योः स्वार्थे तात्पर्याभावः, मानान्तरप्रसिद्धिविरोधयोरभावेन भूतार्थवादत्वात् । यत्तु - हानश्रुतिषु न काप्युपायनं श्रुतम् - इत्युक्तम् । तदसत् , कौषितकीश्रुतौ हानोपायनयोरुभयोरवगमात् । "तत्सुकृतदुष्कृते विधूनुते । तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति, अप्रिया दुष्कृतम्" इति । तत्तत्र ब्रह्मलोकप्राप्तिवेलायामित्यर्थः । एवं च सति कौषीतकीश्रुतस्य हानस्याऽऽथर्वणिकताण्डिशाखयोः प्रत्यभिज्ञानात्कौषीतकीप्रोक्तस्योपायनस्योपसंहारो युक्तः । ननु - अर्थवादान्तरापेक्षोऽर्थवादो न क्वचिदृष्टचरः - इति चेत् । न, सामोपास्तिस्तावकत्वेन श्रुतस्य "एकविंशो वा इतोऽसावादित्याः" इत्यर्थवादस्यैकविंशत्वनिर्णयाय तैत्तिरीयक गतसत्रप्रकरणस्थार्थवादापेक्षत्वात् । "द्वादश मासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंशः" इति हि तत्र सङ्ख्यानिर्वाह उक्तः । तस्मात् - अर्थवादत्वेऽप्युपायनमुपसंहर्तव्यम् ॥
द्वितीयवर्णकमाह -
विधूननं चालनं स्याद्धानं वा चालनं भवेत् ॥
दोधूयन्ते ध्वजाग्राणीत्यादौ चालनदर्शनात् ॥ ३३ ॥
हानमेव भवेद्वाक्यशेषेऽन्योपायनश्रवात् ॥
कर्त्रा न ह्यपरित्यक्तमन्यः स्वीकर्तुमर्हति ॥ ३४ ॥
"सुकृतदुष्कृते विधूनुते" इत्यत्र विधूननशब्दस्य 'दोधूयन्ते' इत्यादाविव चालनमर्थः । नतु परित्यागः ॥
इति प्राप्ते, ब्रूमः - वाक्यशेषे श्रूयमाणस्येतरस्वीकारस्य विना परित्यागमनुपपत्तेश्चालनवाचिना विधूननशब्देन परित्याग उपलक्ष्यते ॥
(षोडशे, उपासकानाङ्कर्मत्यागव्यवस्थाधिकरणे सूत्रे - )
षोडशाधिकरणमारचयति -
कर्मत्यागो मार्गमध्ये यदि वा मरणात्पुरा ॥
उत्तीर्य विरजां त्यागस्तथा कौषीतकीश्रुतेः ॥ ३५ ॥
कर्मप्राप्यफलाभावान्मध्ये साधनवर्जनात् ॥
ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकीक्रमः ॥ ३६ ॥
पूर्वाधिकरणोक्तः सुकृतदुष्कृतपरित्यागो ब्रह्मलोकमार्गस्य मध्ये भवितुमर्हति, तल्लोकसमीपवर्तिनद्युत्तरणानन्तरं तच्छ्रवणात् । "स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते" इति । तस्मात् - मार्गमध्ये परित्यागः ॥
इति प्राप्ते, ब्रूमः - ब्रह्मलोकमार्गमध्ये ब्रह्मप्राप्तिव्यतिरिक्तस्य सुकृतदुष्कृताभ्यां प्राप्तव्यफलस्याभावात्तयोर्नदीपर्यन्तनयनं निरर्थकम् । किञ्च – मरणात्प्राक्परित्यक्तयोः सुकृतदुष्कृतयोर्मार्गमध्ये परित्यागस्य साधनं न सम्भवति, देहराहित्ये साधनस्यानुष्ठातुमशक्यत्वात् । न च – मरणात्पुरा तत्त्यागे प्रमाणाभावः, "अश्व इव रोमाणी" - इति ताण्डिश्रुतौ तदवगमात् ॥ तथा च श्रुत्या 'नदीमुत्तीर्य परित्यागः' इत्ययं कौषीतकीप्रोक्तः क्रमो बाधनीयः । तस्मात् - मरणात्प्रागेवोपास्ये साक्षात्कृते तयोः परित्यागः ॥
(सप्तदशे, उपासनया ब्रह्मलोकगन्तृणामेव मार्गव्यवस्थाधिकरणे सूत्रे - )
सप्तदशाधिकरणमारचयति -
उपास्तिबोधयोर्मार्गः समो यद्वा व्यवस्थितः ॥
सम एवोत्तरो मार्ग एतयोः कर्महानवत् ॥ ३७ ॥
देशान्तरफलप्राप्त्यै युक्तो मार्ग उपास्तिषु ॥
आरोग्यवद्बोधफलं तेन मार्गो व्यवस्थितः ॥ ३८ ॥
चतुर्थाध्यायस्य तृतीयपादे वक्ष्यमाणोऽर्चिरादिमार्गः सगुणब्रह्मोपासकस्य निर्गुणब्रह्मतत्त्वविदश्च समान एव, सुकृतदुष्कृतकर्महानवत्समानत्वसम्भवात् ॥
इति प्राप्ते, ब्रूमः - उपास्तिप्राप्यस्य ब्रह्मलोकफलस्य देशान्तरवर्तित्वाद्युक्तस्तत्र मार्गः । ब्रह्मज्ञानफलं तु रोगनिवृत्तिवदविद्यानिवृत्तिमात्रमिति किं तत्र मार्गेण करणीयं स्यात् । तस्मात् - उपासकस्यैव, न तु ज्ञानिनः - इति व्यवस्थितो मार्गः ॥
(अष्टादशे सर्वास्वेवोपासनासु मार्गकल्पनाधिकरणे सूत्रम् - )
अष्टादशाधिकरणमारचयति -
मार्गः श्रुतस्थलेष्वेव सर्वोपास्तिषु वा भवेत् ॥
श्रुतेष्वेव प्रकरणाद्विःपाठोऽस्य वृथाऽन्यथा ॥ ३९ ॥
प्रोक्तो विद्यान्तरे मार्गो ये चेम इति वाक्यतः ॥
तेन बाध्यं प्रकरणं द्विःपाठश्चिन्तनाय हि ॥ ४० ॥
छान्दोग्ये पञ्चाग्निविद्यायामुपकोशलविद्यायां चोत्तरमार्गः पठितः । शाण्डिल्यवैश्वानरादिविद्यासु न पठितः । तथाच प्रकरणवशाद्यासु विद्यासु श्रुतः, तास्वेव मार्गो व्यवतिष्ठते, न त्वन्यत्रोपसंहर्तव्यः । उपसंहारे च सकृत्पठितस्यैव सर्वत्रोपसंहर्तुं शक्यतया विद्याद्वये पाठो निरर्थकः स्यात् । तस्मात् - श्रुतस्थलेष्वेव मार्गः ॥
इति प्राप्ते, ब्रूमः - पञ्चाग्निविद्यावाक्यशेषे पञ्चाग्न्युपासकानामुत्तरमार्गं ब्रुवती श्रुतिर्विद्यान्तरशालिनां च मुखत एवार्चिरादिमार्गमुदाजहार - "तद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धातप इत्युपासते, तेऽर्चिषमभिसम्भवन्ति" इति अस्यायमर्थः - 'य उपासका इत्थं पञ्चाग्नीनुपासते, ये चारण्ये श्रद्धा तप इत्येवमादिधर्मयुक्ताः सन्तोऽप्युपासनान्तरेषु प्रवर्तन्ते, ते सर्वेऽप्यर्चिरादिमार्गं प्राप्नुवन्ति' इति । ततश्च मार्गप्रतिपादकवाक्येन प्रकरणं बाधितव्यम् । न च – द्विःपाठवैयर्थ्यम् , उपास्यगुणचिन्तनार्थत्वोपपत्तेः । तस्मात् - सर्वोपास्तिषूत्तरो मार्गोऽवगन्तव्यः ॥
(एकोनविंशे तत्त्वज्ञानिनां मुक्तिनैयत्याधिकरणे सूत्रम् - )
एकोनविंशाधिकरणमारचयति -
ब्रह्मतत्त्वविदां मुक्तिः पाक्षिकी नियताऽथवा ॥
पाक्षिक्यपान्तरतमः प्रभृतेर्जन्मकीर्तनात् ॥ ४१ ॥
नानादेहोपभोक्तव्यमीशोपास्तिफलं बुधाः ॥
भुक्त्वाऽधिकारिपुरुषा मुच्यन्ते नियता ततः ॥ ४२ ॥
पुराणेषु - अपान्तरतमा नाम वेदप्रवर्तक आचार्यो विष्णोराज्ञया द्वापरान्ते कृष्णद्वैपायनरूपेण शरीरान्तरं जग्राह – इति स्मर्यते । तथा - सनत्कुमारः स्कन्दरूपेण पार्वतीपरमेश्वराभ्यामजायत । एवमन्येऽपि वसिष्ठादयस्तत्त्वज्ञानिन एव सन्तस्तत्र तत्र शापद्वारा स्वेच्छया वा शरीरान्तराणि जगृहुः - इति स्मरणात् - मुक्तिस्तत्त्वविदां पाक्षिकी ॥
इति प्राप्ते, ब्रूमः - य एते त्वयोदाहृताः पुरुषाः, ते सर्वे जगन्निर्वाहकारिणः, ते च पूर्वस्मिन्कल्पे महता तपसा परमेश्वरमुपास्यास्मिन्कल्पे नानादेहोपभोग्यमधिकारिपदं भेजिरे । क्षीणे प्रारब्धे कर्मणि मोक्षन्ते । तथा - अनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य निवारयितुमशक्यत्त्वात्तत्त्वविदां मुक्तिर्नियतैव ॥
(विंशे निषेधोपसंहाराधिकरणे सूत्रम् - )
विंशाधिकरणमारचयति -
निषेधानामसंहारः संहारो वा न संहृतिः ॥
आनन्दादिवदात्मत्वं नैषां सम्भाव्यते यतः ॥ ४३ ॥
श्रुतानामाहृतानां च निषेधानां समा यतः ॥
आत्मलक्षणता तस्माद्दार्ढ्यायास्तूपसंहृतिः ॥ ४४ ॥
"अस्थूलमनण्वह्रस्वम्" इत्यादिना ब्रह्मावबोधनाय गार्गीब्राह्मणे केचिन्निषेधाः श्रुताः । तथा च कठवल्लीषु - "अशब्दमस्पर्शमरूपमव्ययम्" इति । एवमन्यत्राप्युदाहर्तव्यम् । तत्र निषेधानां परस्परमुपसंहारो नास्ति, आनन्दसत्यत्वादिधर्मवदात्मस्वरूपत्वाभावेनोपसंहारे प्रयोजनाभावात् ॥
इति प्राप्ते, ब्रूमः - यथा स्वशाखायां श्रूयमाणानां निषेधानामात्मस्वरूपत्वाभावेऽप्यात्मोपलक्षकत्वम् , तथा - शाखान्तरेभ्य उपसंहृतानां निषेधानामपि तत्समानम् । न च – स्वशाखोक्तनिषेधैरेवोपलक्षणसिद्धावितरोपसंहारवैयर्थ्यम् , इतरोपसंहारस्य दार्ढ्यार्थत्वात् । अन्यथा स्वशाखायामपि द्वित्रप्रतिषेधमात्रेण तत्सिद्धावितरवैयर्थ्यं प्रसज्येत । तस्मात् - निषेधा उपसंहर्तव्याः ॥
(एकविंशे मन्त्रद्वयस्य विद्यैक्यताधिकरणे सूत्रम् - )
एकविंशाधिकरणमारचयति -
पिबन्तौ द्वा सुपर्णेति द्वे विद्ये अथवैकता ॥
भोक्तारौ भोक्त्रभोक्ताराविति विद्ये उभे इमे ॥ ४५ ॥
पिबन्तौ भोक्त्रभोक्तारावित्युक्तं हि समन्वये ॥
इयत्ताप्रत्यभिज्ञानाद्विद्यैका मन्त्रयोर्द्वयोः ॥ ४६ ॥
"ऋतं पिबन्तौ सुकृतस्य लोके" - इत्यस्मिन्मन्त्रे द्विवचनेन द्वयोर्भोक्तृत्वं प्रतीयते । "द्वा सुपर्णा" - इत्यस्मिन्मन्त्रे "तयोरन्यः पिप्पलं स्वाद्वत्ति" इत्येकस्यैव कर्मफलभोक्तृत्वम्, "इतरस्य तु अनश्नन्नन्योऽभिचाकशीति" इत्यभोक्तृत्वम् । ततो वेद्यस्वरूपभेदाद्विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - प्रथमाध्यायस्य द्वितीयपादे तृतीयाधिकरणे - "पिबन्तौ" इति शब्दस्य जीवब्रह्मपरत्वेन भोक्त्रभोक्तारावर्थः - इत्युक्तम् । अतो न वेद्यभेदः । द्वित्वसङ्ख्या चोभयत्र प्रत्यभिज्ञायते । तस्मात् - एका विद्या ॥
(द्वाविंशे, उषस्त – कहोलयोर्विर्द्यैक्याधिकरणे सूत्रे - )
द्वाविंशाधिकरणमारचयति -
विद्याभेदोऽथ विद्यैक्यं स्यादुषस्तकहोलयोः ॥
समानस्य द्विराम्नानाद्विद्याभेदः प्रतीयते ॥ ४७ ॥
सर्वान्तरत्वमुभयोरस्ति विद्यैकता ततः ॥
शङ्काविशेषनुत्यै द्विःपाठस्तत्त्वमसीतिवत् ॥ ४८ ॥
"यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः" इत्येकस्यां शाखायामेवोषस्तब्राह्मणे कहोलब्राह्मणे च पठितम् । 'अपरोक्षात्' इत्यत्र विभक्तिव्यत्ययेन 'अपरोक्षम्' इत्यर्थः । तयोरुभयोर्ब्राह्मणयोरन्यूनानतिरिक्ततया पठितस्य वाक्यस्य पौनरुक्त्यपरिहाराय विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - द्वयोरपि ब्राह्मणयोः सर्वान्तरत्वं प्रतिपाद्यते । तच्चैकस्मिन्नेव वस्तुनि सम्भवति । द्वयोस्तु वस्तुनोरेकतरस्य बहिर्भावोऽवश्यम्भावी । तस्मात् - सर्वान्तरस्य वेद्यस्यैकत्वान्न विद्याभेदः । न च – पुनरूक्तिः, यथा शाखान्तरे तद्विशेषशङ्कापनुत्त्यर्थम् "तत्त्वमसि" इति नवकृत्व उपन्यस्तम् , तथाऽत्राप्युपपत्तेः । उषस्तब्राह्मणेन देहाद्यात्मत्वशङ्काऽपोद्यते, कहोलब्राह्मणेन देहादिव्यतिरिक्तस्य ब्रह्मत्वमापाद्यते । वाक्यशेषयोस्तथादर्शनात् । तस्मात् - एका विद्या ॥
(त्रयोविंशे देहादित्यमण्डलवर्त्युपासनाया विद्याभेदाधिकरणे सूत्रम् - )
त्रयोविंशाधिकरणमारचयति -
व्यतिहारे स्वात्मरव्योरेकधा धीरुत द्विधा ॥
वस्त्वैक्यादेकधैक्यस्य दार्ढ्याय व्यतिहारगीः ॥ ४९ ॥
ऐक्येऽपि व्यतिहारोक्त्या धीर्द्वेधेशस्य जीवता ॥
युक्तोपास्त्यै वाचनिकी मूर्तिवद्दार्ढ्यमार्थिकम् ॥ ५० ॥
ऐतरेयके पठ्यते - "तद्योऽहं सोऽसौ, योऽसौ सोऽहम्" इति । अस्यायमर्थः - 'य यष देहेन्द्रियसाक्षी जीवात्मा, स एवाऽऽदित्यमण्डलवर्ती परमात्मा, यो मण्डलवर्ती, स एवास्मद्देहादिवर्ती' इति । तत्र – स्वदेहरविमण्डलयोरन्योन्यव्यतिहारे श्रूयमाणेऽपि जीवब्रह्मैक्यलक्षणस्य वस्तुन एकत्वादेकधैव बुद्धिः कर्तव्या । न च व्यतिहारपाठवैयर्थ्यम् , एकस्यापि वस्तुनो दार्ढ्याय तदुपपत्तेः ॥
इति प्राप्ते, ब्रूमः - न खल्विदं तत्त्वावबोधप्रकरणम् । येनैकत्वप्रतिपत्तिर्दार्ढ्यमपेक्षते । किं तर्हि सगुणोपास्तिप्रकरणम् । उपास्तिश्च यथावचनमनुष्ठेया । ततो व्यतिहारेण द्वेधाबुद्धिः कर्तव्या । नन्वेवं सति जीवस्य ब्रह्मैक्यमुत्कर्षाय कल्पते, ब्रह्मणस्तु जीवैक्यमपकर्षाय स्यात् - इति चेत् । नायं दोषः, यथा देहादिरहितस्याप्युपासकचित्तस्थैर्यार्थ चतुर्भुजाष्टभुजादिमूर्त्युपदेशेऽपि नापकर्षः, तथा वचनबलादीशस्य जीवत्वोपासनेन तव का हानिः । यदि - उपासनाय व्यतिहारेऽनुष्ठीयमानेऽर्थाज्जीवब्रह्मणोरेकत्वप्रतिपत्तिर्दृढा भवेत् , तर्हि चरितार्थाः सम्पद्यामहे । तस्मात् - व्यतिहारेण द्विधाबुद्धिः कर्तव्या ॥
(चतुर्विंशे सत्यविद्याधिकरणे सूत्रम् - )
चतुर्विशाधिकरणमारचयति -
द्वे सत्यविद्ये एका वा यक्षरव्यादिवाक्ययोः ॥
फलभेदादुभे लोकजयात्पापहतेः पृथक् ॥ ५१ ॥
प्रकृताकर्षणादेका पापघातोऽङ्गधीफलम् ॥
अर्थवादोऽथवा मुख्यो युक्तोऽधिकृतकल्पकः ॥ ५२ ॥
बृहदारण्यके श्रूयते - "स यो हैतन्महद्यक्षं प्रथमजं वेद - सत्यं ब्रह्म – इति, जयतीमाल्लोकान्" इति । यक्षं पूज्यम् , प्रथमजं हिरण्यगर्भरूपेण प्रथममुत्पन्नम् - इत्यर्थः । अनेन वाक्येन सत्यविद्यां प्रतिपाद्य पश्चादिदं प्रतिपाद्यते - "तद्यत्तत्सत्यम् , . असौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः" इति । तत्तत्रेत्यर्थः । एवं वाक्यद्वयोक्ते सत्यविद्ये द्वे भवतः । कुतः - फलभेदात् । यक्षवाक्ये - लोकजयः फलमुक्तम् । रविवाक्ये च "हन्ति पाप्मानं जहाति" च इति पापघातलक्षणं पृथक्फलं श्रूयते । तस्मात् - विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - एकैवेयं सत्यविद्या । "तद्यत्तत्सत्यम्" इति प्रकृतं सत्यं ब्रह्मानूद्य "असौ स आदित्यः" इति रविरूपत्ववर्णनात् । न च – अत्र फलभेदोऽस्ति, पापघातस्योपास्तिफलत्वेनार्थवादत्वात् । 'अङ्गेषु फलश्रुतिरर्थवादः' इतिन्यायेनाविवक्षितत्वात् । अथवा - अत्रोपासनायामधिकार्य श्रवणाच्छ्रूयमाणफलस्यैव कामोपबन्धमध्याहृत्याधिकारिणि कल्पयितव्ये सति 'पापघातलोकजयकाम उपासीत', इति वक्तुं शक्यत्वाद्विशिष्टफलस्य विवक्षितत्वम् । तस्मात् - एकैवेयं सत्यविद्या ॥
(पञ्चविंशे दहरहार्दाकाशयोरुपसंहाराधिकरणे सूत्रम् - )
पञ्चविंशाधिकरणमारचयति -
असंहृतिः संहृतिर्वा व्योम्नोर्दहरहार्दयोः ॥
उपास्यज्ञेयभेदेन तद्गुणानामसंहृतिः ॥ ५३ ॥
उपास्त्यै क्वचिदन्यत्र स्तुतये चास्तु संहृतिः ॥
दहराकाश आत्मैव हृदाकाशोऽपि नेतरः ॥ ५४ ॥
छान्दोग्ये - "दहरोऽस्मिन्नन्तराकाशः" इति हृदयान्तर्गतत्वेन श्रुतस्य दहराकाशस्य सत्यकामत्वादयो गुणा उक्ताः । बृहदारण्यके तु "य एषोऽन्तर्हृदय आकाशः" इत्युक्तस्य हार्दाकाशस्य वशित्वादयो गुणा उक्ताः । तत्र न परस्परगुणोपसंहारः, दहराकाशस्योपास्यत्वेन, हार्दाकाशस्य ज्ञेयत्वेन विद्याभेदात् ॥
इति प्राप्ते, ब्रूमः - तत्र वशित्वादीनां दहराकाश उपसंहार उपास्त्यै भविष्यति । सत्यकामत्वादीनां तु हार्दाकाश उपसंहारः स्तुत्यर्थः । न च – प्रयोजनवत्त्वेऽपि विद्याभेदो दुष्परिहरः - इति वाच्यम् , विद्याभेदेऽप्युभयत्राऽऽकाशशब्दवाच्यस्याऽऽत्मन एकत्वात् । दहराकाशस्य तावदात्मत्वं दहराधिकरणे (ब्र० सू० १ । ३ । ५ ) वर्णितम् । हार्दाकाशस्यापि "महानज आत्मा" इत्युपक्रमादात्मत्वमवगन्तव्यम् । तस्मात् - उभयत्रोपसंहारः ॥
(षड्विंशे, उपवासे प्राणाहुतिलोपाधिकरणे सूत्रे - )
षड्विंशाधिकरणमारचयति -
न लुप्यते लुप्यते वा प्राणाहुतिरभोजने ॥
न लुप्यतेऽतिथेः पूर्वं भुञ्जीतेत्यादरोक्तितः ॥ ५५ ॥
भुज्यर्थान्नोपजीवित्वात्तल्लोपे लोप इष्यते ॥
भुक्तिपक्षे पूर्वभुक्तावादरोऽप्युपपद्यते ॥ ५६ ॥
छान्दोग्ये वैश्वानरविद्यावाक्यशेषे - "यां प्रथमामाहुतिं जुहुयात् , तां जुहुयात् - प्राणाय स्वाहेति" इति प्राणाहुतयः पठ्यन्ते । तत्र केनचिन्निमित्तेन भोजनलोपेऽप्युपासकस्य प्राणाहुतिर्न लुप्यते, "पूर्वोऽतिथिभ्योऽश्नीयात्" इत्यतिथिभोजनात्पूर्वमुपासकस्य यजमानस्य भोजनं प्रतिपादयन्त्याः श्रुतेः प्राणाहुतावादरदर्शनात् । तमादरं प्रख्यापयितुमेवातिथिभोजनस्य प्राथम्यं निन्दति - "यथा ह वै स्वयमहुत्वाऽग्निहोत्रं परस्य जुहुयात् , तादृक्तत्स्यात्" इति । तस्मात् - प्राणाहुतेरलोपः ॥
इति प्राप्ते, ब्रूमः - "तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्" इति भोजनार्थान्नस्य होमद्रव्यत्वश्रवणाद्भोजनलोपे द्रव्याभावादाहुतिर्लुप्यते । आदरस्तु भोजनपक्षे प्राथम्यविधानाय भविष्यति । तस्मात् - भोजनलोपे प्राणाहुतिर्लुप्यते ॥
(सप्तविंशे, अङ्गावबद्धोपास्त्यनैयत्याधिकरणे सूत्रम् - )
सप्तविंशाधिकरणमारचयति
नित्या अङ्गावबद्धाः स्युः कर्मस्वनियता उत ॥
पर्णवत्क्रतुसम्बन्धो वाक्यान्नित्यास्ततो मताः ॥ ५७ ॥
पृथक्फलश्रुतेर्नैता नित्या गोदोहनादिवत् ॥
उभौ कुरुत इत्युक्तं कर्मोपास्यनुपासिनोः ॥ ५८ ॥
उद्गीथादिषु कर्माङ्गेषु प्रतिमादिवत्प्रतीकभूतेषु विधीयमाना देवतोपास्तयोऽङ्गावबद्धाः । ताश्च कर्मस्वनुष्ठीयमानेषु कर्माङ्गवन्नियमेनानुष्ठातव्याः । कर्मप्रकरणमारभ्याध्ययनाभावेऽपि वाक्यात्क्रतुसम्बन्धोपपत्तेः । यथा - "यस्य पर्णमयी जुहूर्भवति" इत्यनारभ्याधीतस्याप्यव्यभिचारिजुहूद्वारा वाक्यात्क्रतुसम्बन्धः, तथा "य एवं विद्वानुद्गायति, य एवं विद्वान्साम गायति" इत्यादिष्वव्यभिचारितक्रतुसम्बन्धिसामोद्गीथादिद्वारा तदुपासनानां क्रतुसम्बन्धः प्रतीयते । तस्मात् - कर्मसु नियता उपास्तयः ॥
इति प्राप्ते, ब्रूमः - गोदोहनादिवदनियता उपास्तयः । यथा - "चमसेनापः प्रणयेत् , गोदोहनेन पशुकामस्य" इत्यत्राप्प्रणयनमाश्रित्य विधीयमानमपि गोदोहनमक्रत्वर्थत्वादैच्छिकम् , न तु प्रणयनादिवन्नियतम् । तथा - कर्माङ्गान्याश्रित्य विधीयमाना उपास्तयो न क्रत्वर्थाः, किन्तु पुरुषार्थाः, कर्मफलात्पृथक्फलश्रवणात् । "वर्षति हास्मै" इति पञ्चविधे सामनि वृष्टिदेवतामुपासीनस्य कामवृष्टिः क्रतुफलात्पृथक्फलत्वेन श्रूयते । किञ्च "तेनोभौ कुरुतो यस्त्वेतदेवं वेद, यश्च न वेद" इत्यस्मिन्नङ्गावबद्धोपास्तिवाक्यशेष उपासकानुपासकयोरुपास्याधारभूतेन तेनाङ्गेन कर्मानुष्ठानं विस्पष्टमाम्नायते । तस्मात्कर्मस्वनियता उपास्तयः ॥
(अष्टाविंशे वायुप्राणोपासनयोः प्रयोगभेदाधिकरणे सूत्रम् - )
अष्टाविंशाधिकरणमारचयति -
एकीकृत्य पृथग्वा स्याद्वायुप्राणानुचिन्तनम् ॥
तत्त्वाभेदात्तयोरेकीकरणेनानुचिन्तनम् ॥ ५९ ॥
अवस्थाभेदतोऽध्यात्ममधिदैवं पृथक् श्रुतेः ॥
प्रयोगभेदो राजादिगुणकेन्द्रप्रदानवत् ॥ ६० ॥
संवर्गविद्यायाम् - अधिदैवं वायुरुपास्यत्वेन श्रुतः, अध्यात्मं च प्राणः । तत्र – प्राणस्य वायुकार्यत्वेन तत्त्वभेदाभावादुभयोरेकीकरणेन चिन्तनम् ॥
इति प्राप्ते, ब्रूमः - तत्त्वभेदाभावेऽपि कार्यत्वेन कारणत्वेन चावस्थाभेदस्य सद्भावात् "इत्यधिदैवम् । अथाध्यात्मम्" इति विविच्य पृथगनुचिन्तनाय श्रुतिर्विविनक्ति । तस्मात् - इन्द्रप्रदानवत्प्रयोगभेदो द्रष्टव्यः । यथा - "इन्द्राय राज्ञे पुरोडाशमेकादशकपालम् , इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे" इतीन्द्रस्यैकत्वेऽपि राजादिगुणभेदात्पृथक्पुरोडाशप्रदानं कृतम् , तथा - एकस्यापि वायुतत्त्वस्य स्थानभेदात्पृथक्चिन्तनं भविष्यति ॥
(एकोनत्रिंशे मनश्चिदादीनां स्वतन्त्रताधिकरणे सूत्राणि - )
एकोनत्रिंशाधिकरणमारचयति -
कर्मशेषाः स्वतन्त्रा वा मनश्चित्प्रमुखाग्नयः ॥
कर्मशेषाः प्रकरणाल्लिङ्गं त्वन्यार्थदर्शनम् ॥ ६१ ॥
उन्नेयविधिगाल्लिङ्गादेव श्रुत्या च वाक्यतः ॥
बाध्यं प्रकरणं तस्मात्स्वतन्त्रं वह्निचिन्तनम् ॥ ६२ ॥
अग्निरहस्ये कस्मिश्चिद्ब्राह्मणे श्रूयते - "षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः" इति । अस्यायमर्थः - 'पुरुषस्य शतसंवत्सरपरिमित आयुषि षट्त्रिंशत्सहस्राणि दिनानि भवन्ति । तत्रैकैकस्मिन्दिवसे या मनोवृत्तिः, तस्या एकैकाग्नित्वेन ध्याने सति ध्यातव्या अग्नयः षट्त्रिंशत्सहस्राणि सम्पद्यन्ते । ते च प्रत्यगात्मस्वरूपत्वेन ध्येयाः । एत एवार्चनीयाः । मनसा चीयन्ते सम्पद्यन्त इति मनश्चितः । एवं - वाक्चितः, प्राणचितः, चक्षुश्चितः' - इति ते चाग्नयोऽग्निचयनप्रकरणपठितत्वात्कर्मशेषाः, न तु स्वतन्त्रविद्यात्मकाः । ननु - लिङ्गबलात्स्वतन्त्रविद्यात्मका भविष्यन्ति । तथाहि - "तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते" इति वाक्यशेषः पठ्यते । तस्यायमर्थः - 'उपासकस्य स्वपतोऽप्यग्नयो' न च्छिन्नाः । स्वकीयमनोवागादिवृत्त्युपरमेऽपि प्रबुद्धपुरुषमनोवागादिवृत्तीनां सर्वदा प्रवर्तमानत्वात् , अविशेषेण पुरुषमनआदिवृत्तीनामग्नित्वेन वर्णनात् । तस्मात् - एवंविदे स्वपतेऽपि तानेतानग्नीन्सर्वदा सर्वाणि भूतानि चिन्वन्ति, - इति । अत्र यावज्जीवमग्नीनामविच्छेदेन नैरन्तर्यं प्रतीयते । तच्च विद्यास्वातन्त्र्ये लिङ्गम् । कर्मशेषत्वे हि - कर्मणो यावज्जीवं नैरन्तर्याभावात्तच्छेषाणां मनश्चिदादीनां कथं नैरन्तर्यं स्यात् । तच्च लिङ्गं प्रकरणाद्बलीयः । तस्मात् - स्वतन्त्राः - इति चेत् । नायं दोषः, अन्यार्थदर्शनरूपत्वेन लिङ्गस्यैतस्य दुर्बलत्वात् । तथाहि - द्विविधं लिङ्गम् - सामर्थ्यम् , अन्यार्थदर्शनं च, इति । तत्र – विध्युद्देशगतं लिङ्गं सामर्थ्यम् । तच्च स्वातत्र्येण प्रमाणम् । अर्थवादगतं त्वन्यशेषवाक्ये दृश्यमानत्वादन्यार्थदर्शनम् । तच्च तात्पर्यरहितत्वान्न स्वातन्त्र्येण प्रमाणम् । किन्तु प्रमेयस्तावकप्रमाणान्तरे केवलमुपोद्बलकं भवति । एवं च सत्यत्रोदाहृतलिङ्गस्य दुर्बलत्वात्प्रकरणात्कर्मशेषा मनश्चिदादयः ॥
इति प्राप्ते, ब्रूमः - न तावदत्र शाब्दो विधिरुपलभ्यते, लिङ्गादेरश्रवणात् । किं तर्हि - अर्थवादसामर्थ्यादुन्नेयो विधिः । तथा च – फलप्रतिपादकस्तावकवाक्यानां रात्रिसत्रन्यायेनाधिकारिसमर्पणपर्यवसानादशेषमप्येतद्ब्राह्मणं विधिरूपं भविष्यति । ततो विध्युद्देशगतत्वेन लिङ्गस्य प्राबल्यम् । किञ्च "ते हैते विद्याचित एव" इत्येव श्रुत्या कर्माङ्गत्वं व्यावर्तते तथा "विद्यया हैवैत एवंविदश्चिता भवन्ति" इति वाक्यमपि स्वातन्त्र्यगमकम् । तस्मात् - श्रुतिलिङ्गवाक्यैः प्रकरणं बाधित्वा स्वतन्त्रविद्यात्मकत्वं मनश्चिदादीनामभ्युपगन्तव्यम् ॥
(त्रिंशे, आत्मनो देहातिरिक्तत्वाधिकरणे सूत्रे - )
त्रिंशाधिकरणमारचयति -
आत्मा देहस्तदन्यो वा चैतन्यं मदशक्तिवत् ॥
भूतमेलनजं देहे नान्यत्राऽऽत्मा वपुस्ततः ॥ ६३ ॥
भूतोपलब्धिर्भूतेभ्यो विभिन्ना विषयित्वतः ॥
सैवाऽऽत्मा भौतिकाद्देहादन्योऽसौ परलोकभाक् ॥ ६४ ॥
'मनश्चिदादीनां क्रत्वर्थता नास्ति, किन्तु पुरुषार्थत्वम्' इत्युक्ते सति 'कोऽसौ पुरुषः' इति प्रसङ्गाद्विचार्यते । तदेतदधिकरणं पूर्वोत्तरयोरुभयोर्मीमांसयोः शेषभूतम् , स्वर्गमोक्षभागिन आत्मनः प्रतिपाद्यत्वात् । तत्र – बौद्धा लौकायतिकाः - देह एवाऽऽत्मा - इति मन्यन्ते । अन्वयव्यतिरेकाभ्यां चैतन्यस्य देह एवोपलम्भात् । सति हि देहे चैतन्यमुपलभ्यते, न त्वसति । न च – चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्त आत्मत्वं शङ्कनीयम् , क्रमुकनागवल्लीचूर्णानां संयोगान्मदशक्तिरिव देहाकारपरिणतेभ्यो भूतेभ्यो जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात् । तस्मात् - चेतनो देह आत्मा ॥
इति प्राप्ते, ब्रूमः - पृथिव्यादीनां भूतानामुपलब्धिर्भूतेभ्यो व्यतिरिक्ता भवितुमर्हति, विषयित्वात् , 'यद्यद्विषयि, तत्तद्विषयाद्व्यतिरिक्तं, यथा रूपाच्चक्षुः । तथासति तादृशचैतन्यमात्मतत्त्वं वदन्तं प्रति कथं भौतिकदेहरूपत्वमापद्येत । सत्येव देहेचैतन्यमुपलभ्यते, नासति' इति यावन्वयव्यतिरेकावुक्तौ, तत्र व्यतिरेकोऽसिद्धः, असत्यपि देेहे परलोकगामिनश्चिदात्मनः शास्त्रेणोपलम्भात् । शास्त्रस्य च प्रामाण्यं समर्थनीयम् । सत्यपि मृते देहे चैतन्यानुपलब्धेश्चान्वयासिद्धिः ॥
(एकत्रिंशे, उक्थादिधियोः शाखान्तरेऽनुवृत्त्यधिकरणे सूत्रे - )
एकत्रिंशाधिकरणमारचयति -
उक्थादिधीः स्वशाखाङ्गेष्वेवान्यत्रापि वा भवेत् ॥
सांनिध्यात्स्वस्वशाखाङ्गेष्वेवासौ व्यवतिष्टते ॥ ६५ ॥
उक्थोद्गीथादिसामान्यं तत्तच्छब्दैः प्रतीयते ॥
श्रुत्या च संनिधेर्बाधस्ततोऽन्यत्रापि यात्यसौ ॥ ६६ ॥
अङ्गावबद्धोपासनेषु - उक्थशास्त्राख्ये कर्माङ्गपृथिव्यादिदृष्टिरैतरेयोपनिषदि श्रूयते । उक्थं तु कौषीतक्यादिशाखान्तरेष्वपि विहितम् । तत्र – 'पृथिव्यादिदृष्टिरैतरेयगतोक्थ एव व्यवतिष्ठते, उत – कौषीतक्यादिष्वनुवर्तते' इति सन्देहे सति संनिहितत्वात्स्वशाखायामेव व्यवतिष्ठते ॥
इति प्राप्ते, ब्रूमः - उक्थशब्दस्तावन्मुख्यया वृत्त्या सर्वशाखागतमुक्थसामान्यमाचष्टे । तत उक्थश्रुतिवशात्सर्वशाखागतोक्थशास्त्रेष्वनुवृत्तिः प्राप्ता । श्रुतिश्च संनिधेर्बलीयसी । तस्मात् - क्वचिद्विहिता धीः शाखान्तरेष्वनुगच्छति ॥
(द्वात्रिंशे वैश्वानरविद्यायां समस्तोपासनाधिकरणे सूत्रम् - )
द्वात्रिंशाधिकरणमारचयति -
ध्येयो वैश्वानराशोऽपि ध्यातव्यः कृत्स्न एव वा ॥
अंशेषूपास्तिफलयोरुक्तेरस्त्यंशधीरपि ॥ ६७ ॥
उपक्रमावसानाभ्यां समस्तस्यैव चिन्तनम् ॥
अंशोपास्तिफले स्तुत्यै प्रत्येकोपास्तिनिन्दनात् ॥ ६८ ॥
वैश्वानरविद्यायां विराड्रूपवैश्वानरस्य द्युलोकसूर्यवाय्वाकाशोदकपृथिव्यो मूर्धचक्षुप्राणमध्यशरीरमूत्रस्थानपादरूपेण ध्यातव्यांशा निरूपिताः । तेषामंशानामपि प्रत्येकं स्वातन्त्र्येणोपासनं विद्यते, उपास्तिशब्दस्य फलकथनस्य च प्रत्येकमुपलभ्यमानत्वात् । तथाहि - "औपमन्यव कं त्वमात्मानमुपास्से" इति, "दिवमेव भगवो राजन्निति होवाच" इति प्रश्नोत्तराभ्यां द्युलोकमात्रोपास्तिरवगम्यते । तस्मात् - "तव सुतं प्रसुतमासुतं कुले दृश्यते" इति सुतादिशब्दवाच्यानां सोमयागविशेषाणां सम्पत्तिः फलत्वेनावगम्यते । एवमंशान्तरेषूदाहर्तव्यम् । सर्वावयवसमष्ट्युपासनं "तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य" इति वाक्यशेषे विस्पष्टं प्रतीयते । तस्मात् - व्यस्तोपासनं समस्तोपासनं चोभयं विवक्षितम् ॥
इति प्राप्ते, ब्रूमः - समस्तोपासनमेव विवक्षितम् , न तु व्यस्तोपासनम् । कुतः - उपक्रमोपसंहाराभ्यामेकवाक्यत्वावगमात् । उपक्रमे तावत् "को न आत्मा किं ब्रह्म" इति कृत्स्नमेव ब्रह्मोपास्यत्वेन विचारयितुं प्रक्रान्तम् । उपसंहारेऽपि "तस्य ह वै" - इत्यादिना समस्तोपासनं विस्पष्टमभिधीयते । तथा च सति - अंशोपास्तिषु पृथगभ्युपगम्यमानासु वाक्यभेदः प्रसज्यते । पृथगुपास्तिफलकथनं तु कैमुतिकन्यायेन स्तुत्यै भविष्यति । अथ – बहूपास्तिलाभाय वाक्यभेदोऽप्यभ्युपगम्यते, तदा प्रत्येकोपास्तिनिन्दावचनानि कथं समर्थयेथाः । निन्द्यन्ते हि प्रत्येकोपास्तयः । "मूर्धा ते व्यपतिष्यत्" इति शिरोमात्रोपासनं निन्द्यते । तस्मात् - समस्तोपासनमेव विवक्षितम् ॥
(त्रयस्त्रिंशे शाण्डिल्यादिविद्यानां भिन्नताधिकरणे सूत्रम् - )
त्रयस्त्रिंशाधिकरणमारचयति -
न भिन्ना उत भिद्यन्ते शाण्डिल्यदहरादयः ॥
समस्तोपासनश्रैष्ठ्याद्ब्रह्मैक्यादप्यभिन्नता ॥ ६९ ॥
कृत्स्नोपास्तेरशक्यत्वाद्गुणैर्ब्रह्म पृथक्लृतम् ॥
दहरादीनि भिद्यन्ते पृथक्पृथगुपक्रमात् ॥ ७० ॥
छान्दोग्ये शाण्डिल्यविद्यायां मधुविद्येत्यादयः पठिताः । तथा - शाखान्तरेष्वपि । तत्र पूर्वाधिकरणन्यायेन समस्तोपासनस्य श्रेष्ठत्वात् , वेद्यस्य ब्रह्मण एकत्वाच्च सर्वासामेकविद्यात्वम् ॥
इति प्राप्ते, ब्रूमः - अनन्तासु विद्यास्वेकीकरणेनानुष्ठानं तावदशक्यमिति विद्याभेदोऽभ्युपगन्तव्यः । न च – वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयम् , गुणभेेदेन भेदोपपत्तेः । नच – एकैकस्या विद्याया इयत्ता निश्चेतुमशक्या । प्रत्येकमुपक्रमोपसंहारयोस्तन्निश्चायकत्वात् । तस्मात् - विद्यानां नानात्वमिति ॥
(चतुस्त्रिंशे, अहङ्ग्रहविद्यायां विकल्पनियमाधिकरणे सूत्रम् - )
चतुस्त्रिंशाधिकरणमारचयति -
अहङ्ग्रहेष्वनियमो विकल्पनियमोऽथवा ॥
नियामकस्याभावेन याथाकाम्यं प्रतीयताम् ॥ ७१ ॥
ईशसाक्षात्कृतेस्त्वेकविद्ययैव प्रसिद्धितः ॥
अन्यानर्थक्यविक्षेपौ विकल्पस्य नियामकौ ॥ ७२ ॥
द्विविधान्युपासनानि - अहङ्ग्रहाणि, प्रतीकानि चेति । आत्मनः सगुणत्वोपासनेष्वहङ्ग्रहस्य चतुर्थाध्याये वक्ष्यमाणत्वात्तान्यहङ्ग्रहाणि । अनात्मवस्तुनि देवतादृष्ट्या संस्कृत्योपास्यमानानि प्रतीकानि । तत्र – अहङ्ग्रहेषु शाण्डिल्यविद्याद्युपासनेषु, एकं द्वे वहूनि चोपासनानि याथाकाम्येनानुष्ठेयानि, विकल्पस्य नियामकाभावात् । न हि 'शाण्डिल्योपासनं दहरोपासनमन्यद्वा, एकमेवानुष्ठेयं नेतरत्' इति विकल्पनियमे किञ्चित्कारणमस्ति । तस्मात् - याथाकाम्यम् ॥
इति प्राप्ते, ब्रूमः - अन्यानर्थक्यं तावदेकं नियामकम् । तथा हि - ईश्वरसाक्षात्कार उपासनस्य प्रयोजनम् । तच्चैकेनैवोपासनेन सिध्यति, तत्रान्योपासनवैयर्थ्यम् । किञ्च – उपासनेषु न प्रमाणजन्यः साक्षात्कारः । किं तर्हि निरन्तरभावनया ध्येयतादात्म्याभिमानः । स चाभिमान एकमुपासनमनुष्ठाय तत्परित्यज्यान्यत्र प्रवर्तमानस्य पुरुषस्य चित्तविक्षेपात्कथं नाम दृढीभवेत् । तस्मात् - आनर्थक्यविक्षोपयोर्नियामकत्वाद्विकल्पो नियम्यते ॥
(पञ्चत्रिंशे लौकिकप्रतीकेषु याथाकाम्याधिकरणे सूत्रम् - )
पञ्चत्रिंशाधिकरणमारचयति -
प्रतीकेषु विकल्पः स्याद्याथाकाम्येन वा मतिः ॥
अहङ्ग्रहेष्विवैतेषु साक्षात्कृत्यै विकल्पनम् ॥ ७३ ॥
देवो भूत्वेतिवन्नात्र काचित्साक्षात्कृतौ मितिः ॥
याथाकाम्यमतोऽमीषां समुच्चयविकल्पयोः ॥ ७४ ॥
प्रतीकोपासनेषु पूर्वाधिकरणन्यायः ॥
इति प्राप्ते, ब्रूमः - अस्त्यत्र महद्वैषम्यम् । "देवो भूत्वा देवानप्येति" इति 'जीवन्नेव भावनाप्रकर्षवशाद्देवसाक्षात्कारं प्राप्य मृतो देवत्वमुपैति' इति यथाऽहङ्ग्रहेष्ववगम्यते, न तथा प्रतीकेषु साक्षात्कारफलत्वे किञ्चिन्मानमस्ति । साक्षात्करफलत्वभावे च तत्र तत्र प्रोक्ता भोग्यवस्तुप्राप्तयः फलत्वेनाभ्युपगन्तव्याः । तथा च सति भिन्नफलत्वान्नान्यानर्थकत्वम् । विक्षेपशङ्का तु दूरापेता, एकं प्रतीकं केषुचित्क्षणेषूपास्य क्षणान्तरे प्रतीकान्तरोपासने पूर्वोपास्तिजन्यस्यापूर्वस्याविनाशात् । तस्मात् - विकल्पेनैकमेव वा, बहूनि समुच्चित्य वा, याथाकाम्येन प्रतीकमुपासितव्यम् ॥
(षट्त्रिंशे कर्माङ्गप्रतीकेषु याथाकाम्याधिकरणे सूत्राणि - )
षट्त्रिंशाधिकरणमारचयति -
समुच्चयोऽङ्गबद्धेषु याथाकाम्येन वा मतिः ॥
समुच्चितत्वादङ्गानां तद्बद्धेषु समुच्चयः ॥ ७५ ॥
ग्नहं गृहीत्वा स्तोत्रस्याऽऽरम्भ इत्यादिवन्नहि ॥
श्रूयते सहभावोऽत्र याथाकाम्यं ततो भवेत् ॥ ७६ ॥
द्विविधानि प्रतीकानि - लौकिकानि, कर्माङ्गानि च । तत्र लौकिकेषु प्रतीकेषु निर्णयः पूर्वत्रोक्तः । अत्र कर्माङ्गेषु समुच्चययाथाकाम्ये विचार्येते । तत्र कर्माणि कर्माङ्गानि समुच्चित्यैवानुष्ठेयतया प्रयोगविधिप्रापितानि । तथा चाङ्गतन्त्रत्वादङ्गावबद्धोपासनानामपि समुच्चयनियमः ॥
इति प्राप्ते, ब्रूमः - "ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यात्स्तुतमनुशंसति" इत्यादौ यथा ग्रहस्तोत्रशंसनादीनां नियतः पौर्वापर्येण सहभावः श्रुतः । न तथोपासनेषु श्रूयते । तस्मात् - विकल्पसमुच्चययोर्याथाकाम्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि ३६ १३७
सूत्राणि ६६ ४२६
(प्रथमे पुरुषार्थाधिकरणे - आत्मज्ञानस्य स्वतन्त्रताधिकरणे सूत्राणि - )
तृतीयाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति -
क्रत्वर्थमात्मविज्ञानं स्वतन्त्रं वाऽऽत्मनो यतः ॥
देहातिरेकमज्ञात्वा न कुर्यात्क्रतुगं ततः ॥ १ ॥
नाद्वैतधीः कर्महेतुर्हन्ति प्रत्युत कर्म सा ॥
आचारो लोकसङ्ग्राही स्वतन्त्रा ब्रह्मधीस्ततः ॥ २ ॥
आत्मनो देहादिव्यतिरेकज्ञानमन्तरेण परलोकगामित्वानिश्चयाज्ज्योतिष्टोमादिप्रवृत्तिरेव न स्यादिति क्रतुषु प्रवर्तकत्वेनौपनिषदमात्मतत्त्वज्ञानं कर्माङ्गम् ॥
इति प्राप्ते, ब्रूमः - द्विविधं देहव्यतिरिक्तात्मज्ञानम् - परलोकगामिकर्त्रात्मविज्ञनमेकम् , द्वितीयं ब्रह्मात्मतत्त्वज्ञानं चेति । तत्र – कर्त्रात्मज्ञानस्य प्रवर्तकत्वेऽपि नाद्वैतब्रह्मतत्त्वज्ञानं प्रवर्तकम् । प्रत्युत – क्रियाकारकफलनिषेधेन निवर्तकमेव । ननु तत्त्वविदामपि जनकादीनां कर्मप्रवृत्तिलक्षण आचारो दृश्यते । बाढम् । लोकसङ्ग्रहार्थमयमाचारः स्यात् । यदि तत्त्वविदामपि मुक्तये कर्माण्यनुष्ठेयानि स्युः, कथं तर्हि प्रजादिवैयर्थ्यश्रुतिरुपपद्यते । "किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः" इति - आत्मतत्त्वस्वरूपस्य लोकस्यापरोक्षत्वे सत्यनात्मलोकसाधनभूतायाः प्रजाया वैयर्थ्यं श्रूयते । एवं "किमर्था वयमध्येष्यामहे, किमर्था वयं यक्ष्यामहे" इत्याद्युदाहरणीयम् । तस्मात् - आत्मतत्त्वज्ञानं स्वतन्त्रं पुरुषार्थसाधनम् , न तु कर्माङ्गम् ॥
(द्वितीये परामर्शाधिकरणे - संन्यासिन एव ब्रह्मनिष्ठताधिकरणे सूत्राणि - )
द्वितीयाधिकरणस्य प्रथमवर्णकमारचयति -
नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः ॥
वीरघातो विधेः क्लृप्तावन्धपङ्ग्वादिगा स्मृतिः ॥ ३ ॥
अस्त्यपूर्वविधेः क्लृप्तेर्वीरहाऽनग्निको गृही ॥
अन्धादेः पृथगुक्तत्वात्स्वस्थानां श्रूयते विधिः ॥ ४ ॥
पूर्वाधिकरणे - स्वतन्त्रमात्मविज्ञानम् - इत्युक्तम् । तस्य चाऽऽत्मविज्ञानस्योर्ध्वरेतःस्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते । तत्र – नास्त्यूर्ध्वरेताः - इति प्राप्तम् । कुतः - विध्यभावात् । छान्दोग्ये - "त्रयो धर्मस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयः" इत्यत्र यज्ञाद्युपलक्षितगार्हस्थ्यस्य, तपःशब्दलक्षितवानप्रस्थत्वस्य, नैष्ठिकब्रह्मचर्यस्य परामर्शमात्रं गम्यते, न तु विधिरुपलभ्यते । न च – अपूर्वार्थत्वेन विधिः कल्पयितुं शक्यः, "वीरहा वा एष देवानां योऽग्निमुद्धासयते" इत्यग्न्युद्वासनलक्षितस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात् । "चत्वार आश्रमाः" - इति स्मृतिस्तु गार्हस्थ्यधर्मानधिकृतान्धपङ्ग्वादिविषया भविष्यति । न ह्यन्धस्याऽऽज्यावेक्षणोपेते कर्मण्यधिकारोऽस्ति । नापि पङ्गोर्विष्णुक्रमाद्युपेते कर्मण्यधिकारः । तस्मात् - चक्षुरादिपाटवयुक्तस्याऽऽत्मज्ञानोपयुक्त ऊर्ध्वरेता आश्रमो नास्ति ॥
इति प्राप्ते, ब्रूमः - अस्त्यूर्ध्वरेता आश्रमः । विध्यश्रवणेऽप्यपूर्वार्थत्वेन विधेः कल्पयितुं शक्यत्वात् । न च – वीरघातदोषः उत्सन्नाग्निगृहस्थविषयत्वाद्वीरहत्यायाः । यत्तु - अन्धादिविषयत्वं स्मृतेरुक्तम् । तदसत् , "अथ पुनरव्रती व्रती वा, स्नातकोऽस्रातको वा उत्सन्नाग्निरनग्निको वा, यदहरेव विरजेत् , तदहरेव प्रव्रजेत्" इति गार्हस्थ्यानधिकृतानां पृथक्संन्यासविधानात् । न च – चक्षुरादिपाटववतामाश्रमान्तरविधिः कल्पनीयः, जाबालश्रुतौ प्रत्यक्षविध्युपलम्भात् । "ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्" इति । तस्मात् - अस्त्याश्रमान्तरम् ॥
द्वितीयवर्णकमारचयति -
लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा न वा ॥
यथावकाशं ब्रह्मैष ज्ञातुमर्हत्यवारणात् ॥ ५ ॥
अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम् ॥
कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः ॥ ६ ॥
"त्रयो धर्मस्कन्धाः" इत्यत्राऽऽश्रमानधिकृत्य "सर्व एते पुण्यलोका भवन्ति" इत्याश्रमानुष्ठायिनां पुण्यलोकमभिधाय "ब्रह्मसंस्थोऽमृतत्वमेति" इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि सम्भाव्यते । आश्रमकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः सुकरत्वात् । नहि 'लोककामी ब्रह्म न जानीयात्' इति निषेधोऽस्ति । तस्मात् - अस्ति सर्वस्याऽऽश्रमिणो ब्रह्मानिष्ठा ॥
इति प्राप्ते, ब्रूमः - ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनानन्यचित्ततया ब्रह्मणि समाप्तिः । न चासौ कर्मशूरे सम्भवति, कर्मानुष्ठानत्यागयोः परस्परं विरोधात् । तस्मात् - कर्मत्यागिन एव ब्रह्मनिष्ठा ॥
(तृतीये रसतमत्वादीनां ध्येयत्वाधिकरणे सूत्रे - )
तृतीयाधिकरणमारचयति -
स्तोत्रंं रसतमत्वादि ध्येयं वा गुणवर्णनात् ॥
जुहूरादित्य इत्यादाविव कर्माङ्गसंस्तुतिः ॥ ७ ॥
भिन्नप्रकरणस्थत्वान्नाङ्गविध्येकवाक्यता ॥
उपासीतेतिविध्युक्तेर्ध्येयं रसतमादिकम् ॥ ८ ॥
उद्गीथावयवस्योकारस्य रसतमत्वादयो गुणाः श्रूयन्ते - "स एष रसानां रसतमः परमः" इत्यादिना । तद्रसतमत्वादिकमोङ्कारस्य स्तुतिः, न तु ध्यातव्यम् । यथा "इयमेव जूहूरादित्यः कूर्मः स्वर्लोकः", इत्यादौ कर्माङ्गभूतानां जुह्वादीनामदित्यादिरूपेण स्तुतिः, तथा रसतमत्वादिगुणैरोङ्कारस्य स्तुतिः ॥
इति प्राप्ते, ब्रूमः - विषमो दृष्टान्तः । 'जुहूरादित्यः' इत्यादिकं जुहूविधिप्रकरणे पठितत्वात्स्तोत्रमस्तु, रसतमत्वादिकं तूपनिषदि षठितत्वेन कर्मप्रकरणपठितोद्गीथविधिवाक्येनैकवाक्यत्वाभावान्न स्तावकम् । किन्तु "ओमित्येतदक्षरमुद्गीथमुपासीत" इति संनिहितेन विधिनैकवाक्यत्वाद्रसतमत्वादिकं ध्यातव्यम् ॥
(चतुर्थे, आख्यानस्य विद्यास्तुत्यर्थताधिकरणे सूत्रे - )
चतुर्थाधिकरणमारचयति -
पारिप्लवार्थमाख्यानं किंवा विद्यास्तुतिस्तुतेः ॥
ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता ॥ ९ ॥
मनुर्वैवस्वतो राजेत्येवं तत्र विशेषणात् ॥
अत्र विद्यैकवाक्यत्वभावाद्विद्यास्तुतिर्भवेत् ॥ १० ॥
"अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः" - "जनको ह वैदेह आसाञ्चक्रे" इत्यादिकमुपनिषदि श्रूयमाणमाख्यानं पारिप्लवार्यं भवितुमर्हति । अश्वमेधयागे रात्रिषु राजानं सकुटुम्बमुपवेश्य तस्याग्रे वैदिकान्युपाख्यानान्यध्वर्युणा वक्तव्यानि । तदिदं पारिप्लवाख्यं कर्म "पारिप्लवमाचक्षीत" इति वाक्येन विहितम् । तदर्थत्वे सत्यौपनिषदाख्यानान्यनुष्ठानायोपयुज्येरन् । ज्यायोऽनुष्ठानं विद्यास्तुतेः । तस्मात्पारिप्लवार्थम् ॥
इति प्राप्ते, ब्रूमः - प्रथमेऽहनि - 'मनुर्वैवस्वतो राजा', द्वितीयेऽहनि - 'यमो वैवस्वतो राजा', इत्याद्याख्यानानां पारिप्लवार्थानां विशेषितत्वादौपनिषदानामाख्यानानां तच्छेषत्वं न सम्भवति । संनिहितविद्यास्तावकत्वे तु विद्यावाक्यैरेकवाक्यता लक्ष्यते । तस्मात् - विद्यास्तावकमाख्यानम् ॥
(पञ्चमे, आत्मज्ञानस्य कर्मानपेक्षत्वाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
आत्मबोधः फले कर्मापेक्षो नो वा, ह्यपेक्षते ॥
अङ्गिनोऽङ्गेष्वपेक्षायाः प्रयाजादिषु दर्शनात् ॥ ११ ॥
अविद्यातमसोर्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः ॥
नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी ॥ १२ ॥
विमतो ब्रह्मतत्त्वावबोधः स्वफलप्रदाने स्वाङ्गभूतकर्मापेक्षः, अङ्गित्वात् , प्रयाजापेक्षदर्शपूर्णमासवत् । यद्यपि प्रथमाधिकरणे विद्यायाः स्वतन्त्रपुरुषार्थत्वप्रतिपादनेन कर्माङ्गत्वं निवारितम् । तथाऽप्यङ्गित्वं न निवारितम् । अतो नासिद्धो हेतुः । अतः कर्माङ्गापेक्षो बोधः ॥
इति प्राप्ते, ब्रूमः - विमतं ब्रह्मज्ञानं स्वविरोधिनिवर्त्यनिवर्तनेऽन्यापेक्षं न भवति, प्रकाशत्वात् , दीपवत् , घटज्ञानवच्च । यत्तु - अङ्गित्वमुक्तम् । तत्र कर्मणः कीदृशमङ्गत्वमभिप्रेतम् - किं प्रयाजादिवत्फलोपकार्यङ्गत्वम् , उत - अवघातादिवत्स्वरूपोपकार्यङ्गत्वम् । नाऽऽद्यः, मुक्तेः कर्मजन्यत्वेनानित्यत्वप्रसक्तेः । द्वितीये - साध्यविकलो दृष्टान्तः, अवघातादौ प्रयाजादीनां स्वरूपोपकार्यङ्गत्वाभावात् । तस्मात् - उत्पन्ना विद्या स्वफलदाने कर्माणि नापेक्षते ॥
(षष्ठे ज्ञानोत्पत्तौ यज्ञशमदमाद्यपेक्षाधिकरणे सूत्रे - )
षष्ठाधिकरणमारचयति -
उत्पत्तावनपेक्षेयमुत कर्माण्यपेक्षते ॥
फले यथाऽनपेक्षैवमुत्पत्तावनपेक्षता ॥ १३ ॥
यज्ञशान्त्यादिसापेक्षं विद्याजन्म श्रुतिद्वयात् ॥
हलेऽनपेक्षितोऽप्यश्वो रथे यद्वदपेक्ष्यते ॥ १४ ॥
ब्रह्मविद्या स्वफले यथा कर्माणि नापेक्षते, तथा स्वोत्पत्तावपि । अन्यथा - क्वचिदपेक्षते, क्वचिन्नापेक्षते - इत्यर्धजरतीयन्यायः प्रसज्येत ॥
इति प्राप्ते, ब्रूमः - नार्धजरतीयत्वदोषोऽत्रास्ति, योग्यतावशेनैकस्यैव कार्यविशेषेष्वपेक्षानपेक्षयोरुपपत्तेः । यथा लाङ्गलवहनेऽनपेक्षितोऽप्यश्वो रथवहनेऽपेक्ष्यते, तद्वत् । न च विद्यायाः स्वोत्पत्तौ कर्मापेक्षायां प्रमाणाभावः, "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति प्रवृत्तिरूपाणां वेदानुवचनादीनां विविदिषोत्पादनद्वारा बहिरङ्गसाधनत्वावगमात् । "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति" इति निवृत्तिरूपाणां शमदमादीनां विद्योत्पत्तिकालेऽप्यनुवर्तमानतयाऽन्तरङ्गसाधनत्वावगमात् । तस्मात् - यज्ञादीनि शमादीनि च विद्या स्वोत्पत्तावपेक्षते ॥
(सप्तमे, आपदि सर्वान्नभोजनानुज्ञाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
सर्वाशनविधिः प्राणविदोऽनुज्ञाऽथवाऽऽपदि ॥
अपूर्वत्वेन सर्वान्नभुक्तिर्ध्यातुर्विधीयते ॥ १५ ॥
श्वाद्यन्नभोजनाशक्तेः शास्त्राच्चाभोज्यवारणात् ॥
आपदि प्राणरक्षार्थमेवानुज्ञायतेऽखिलम् ॥ १६ ॥
प्राणविद्यायां श्रूयते - "न ह वा एवंविदि किञ्चनानन्नं भवति" इति । 'प्राणोपासकेन भोक्तुमयोग्यं न किञ्चिदस्ति' इत्यर्थः । तत्र सर्वान्नभोजनस्य मानान्तरेणाप्राप्तत्वात्प्राणोपासकस्य तद्विधीयते ॥
इति प्राप्ते, ब्रूमः - "यदिदं किञ्चाऽऽश्वभ्य आकृमिभ्य आकीटपतङ्गेभ्यः, तत्तेऽन्नम्" इति श्वादि भोज्यमन्नमुपासकस्य भोज्यतया विधेयम् , न च तद्विधातुं शक्यम् , यतो भक्ष्याभक्ष्यविभागशास्त्रं सर्वान्नाशनविधौ बाध्येत । तस्मात् - आपदि यावता प्राणरक्षा भवति तावन्मात्रं निषिद्धान्नमप्यनुज्ञायते । अत एव चाक्रायणो मुनिः प्राणात्यये प्राप्ते पर्युषितान्गजतत्पालकोच्छिष्टान्कुल्माषान्भक्षयित्वा शूद्रभाण्डस्थमुदकं न पपौ, तत्रोभयत्र कारणं चावोचत् - "न वा अजीविष्यमिमानखादन्" इति, "कामो म उदपानम्" इति च । तस्मात् - आपदि सर्वान्नभक्षणमभ्यनुज्ञातम् ॥
(अष्टमे यज्ञादीनामाश्रमविद्योभयहेतुत्वाधिकरणे सूत्राणि - )
अष्टमाधिकरणमारचयति -
विद्यार्थमाश्रमार्थं च द्विः प्रयोगोऽथवा सकृत् ॥
प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते ॥ १७ ॥
श्राद्धार्थभुक्त्या तृप्तिः स्याद्विद्यार्थेनाऽऽश्रमस्तथा ॥
अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः ॥ १८ ॥
यानि यज्ञादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहितानि, तान्येवाऽऽश्रमधर्मत्वेन पूर्वकाण्डे विहितानि । तेषां प्रयोजनद्वैविध्याद्द्विरनुष्ठानम् ॥
इति प्राप्ते, ब्रूमः - यथा श्राद्धार्थभोजनेन तृप्तिर्नान्तरीयकतया सिध्यति, तथा विद्यार्थमनुष्ठितैः कर्मभिराश्रमधर्मः सिध्यतु । न च – विद्याहेतूनां काम्यत्वात् , आश्रमधर्माणां च नित्यत्वात्सकृत्प्रयोगे नित्यानित्यसंयोगविरोधः - इति वाच्यम् । वचनद्वयबलेनैकस्य कर्मण आकारद्वयोपपत्तेः । यथा - "खादिरो यूपो भवति, खादिरं वीर्यकामस्य यूपं कुर्वीत" इत्यत्र वचनद्वयबलेनैकस्य नित्यत्वं काम्यत्वं च तद्वत् । तस्मात् - उभयविधानां यज्ञादीनां सकृदेव प्रयोगः ॥
(नवमे, अनाश्रमिणोऽपि ब्रह्मज्ञानाधिकरणे सूत्राणि - )
नवमाधिकरणमारचयति -
नास्त्यनाश्रमिणो ज्ञानमस्ति वा नैव विद्यते ॥
धीशुद्ध्यर्थाश्रमित्वस्य ज्ञानहेतोरभावतः ॥ १९ ॥
अस्त्येव सर्वसम्बन्धिजपादेश्चित्तशुद्धितः ॥
श्रुता हि विद्या रैक्वादेराश्रमे त्वतिशुद्धता ॥ २० ॥
पूर्वमाश्रमं परिसमाप्य केनापि कारणेनोत्तरमाश्रममप्रतिपन्नोऽनाश्रमी । स्नातकविधुरादिः । तस्य तत्त्वज्ञानं न सम्भाव्यते, बुद्धिशुद्धिहेतोराश्रमित्वस्याभावात् ॥
इति प्राप्ते, ब्रूमः - सम्भवत्यनाश्रमिणोऽपि ज्ञानम् । आश्रमनिरपेक्षस्य जपादेर्बुद्धिशुद्धिहेतुत्वात् ।
"जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः" इति स्मृतेः ।
श्रुतश्च संवर्गविद्यायामधिकारोऽनाश्रमिणो विवाहार्थिनो रैक्वस्य । एवमाश्रमरहिता गार्ग्यादय उदाहार्याः । न च – एवं सत्याश्रमवैयर्थ्यम् , शुद्ध्यतिशयहेतुत्वात् । तस्मात् - अनाश्रमिणोऽपि सम्भवत्येव ज्ञानम् ॥
(दशमे, आश्रमाणामवरोहनिराकरणाधिकरणे सूत्रम् - )
दशमाधिकरणमारचयति -
अवरोहोऽस्त्याश्रमाणां न वा, रागात्स विद्यते ॥
पूर्वधर्मश्रद्धया वा यथाऽऽरोहस्तथैच्छिकः ॥ २१ ॥
रागस्यातिनिषिद्धत्वाद्विहितस्यैव धर्मतः ॥
आरोहनियमोक्त्यादेर्नावरोहोऽस्त्यशास्त्रतः ॥ २२ ॥
"ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्" इत्याश्रमाणामारोहो यथेच्छाधीनो भवति, तथा 'पारिव्राज्याद्वनस्थः' इत्याद्यवरोहोऽपि क्वचिद्रागवशात् , क्वचित्पूर्वाश्रमधर्मश्रद्धावशाच्च युक्तः ॥
इति प्राप्ते, ब्रूमः - रागस्तावन्मिथ्याज्ञानमूलत्वादतिनिषिद्धः । न च पूर्वाश्रमधर्मे श्रद्धा युज्यते, उत्तराश्रमिणं प्रत्यविहितत्वेन धर्मत्वाभावात् । न हि - यो येनानुष्ठातुं शक्यते श्रद्धीयते च, स तस्य धर्मो भवति । किं तर्हि - यो यं प्रति विहितः, स तस्य धर्मः । किञ्च "ततो न पुनरेयात्" इत्यवरोहनिषेधेनाऽऽरोहो नियम्यते । न चाऽऽरोहवदवरोहेऽपि शिष्टाचारो विद्यते । तस्मात् - नास्त्यवरोहः ॥
(एकादशे, ऊर्ध्वरेतसः पातित्ये प्रायश्चित्ताधिकरणे सूत्रे - )
एकादशाधिकरणमारचयति -
भ्रष्टोर्ध्वरेतसो नास्ति प्रायश्चित्तमथास्ति वा ॥
अदर्शनोक्तेर्नास्त्येव व्रतिनो गर्दभः पशुः ॥ २३ ॥
उपपातकमेवैतद् व्रतिनो मधुमांसवत् ॥
प्रायश्चित्ताच्च संस्काराच्छुद्धिर्यत्नपरं वचः ॥ २४ ॥
नैष्ठिकब्रह्मचर्यादूर्ध्वरेतस्त्वं प्राप्तस्य पुनः स्त्रीसङ्गेन भ्रष्टस्य प्रायश्चितं नास्ति ।
"आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा"
इति प्रायश्चित्तादर्शनवचनात् । "अथ यो ब्रह्मचारी स्त्रीमुपेयात् , स गर्दभं पशुमालभेत" इत्यस्ति प्रायश्चितम् - इत्युच्यते । तन्न, तस्य व्रतिविषयत्वात् । उपकुर्वाणकाख्यो यो वेदाध्ययनाङ्गत्वेन ब्रह्मचर्यव्रतमनुतिष्ठति, तद्विषयमिदं प्रायश्चित्तवचनम् । तस्मात् - ऊर्ध्वरेतस्त्वाद्भ्रष्टस्य नास्ति प्रायश्चितम् ॥
इति प्राप्ते, ब्रूमः - यथोपकुर्वाणकस्य मधुमांसभक्षणमुपपातकमिति प्रायश्चितं पुनःसंस्कारो विद्यते, तद्वदूर्ध्वरेतसोऽपि गुरुदारादिभ्योऽन्यत्र प्रवृत्तिरुपपातकमेव न तु महापातकम् । ततः प्रायश्चित्तात्पुनः संस्काराच्च शुद्धिर्भवति । यदि महापातकेष्वपरिगणितत्वेनोपपातकत्वमाश्रित्य प्रायश्चित्तमुच्येत, तर्ह्यदर्शनवाक्यस्य का गतिः - इति चेत् । "यत्नपरं तद्वाक्यम्" इति ब्रूमः । 'अत एव प्रायश्चित्तं न पश्यामि' इत्याह, न तु 'नास्ति' इति । प्रायश्चित्तं तु गर्दभपशुरेव, ब्रह्मचारित्वस्य समानत्वात् । तथा - वनस्थपरिव्राजकयोरपि भ्रंशे प्रायश्चित्तं स्मर्यते - "वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्" । 'भिक्षुर्वनस्थवत्सोमवृद्धिवर्जम्' - इति । कक्षवृद्धिर्वनवासः । सोमवृद्धिरपि स एव ॥
(द्वादशे भ्रष्टस्य कृतप्रायश्चित्तस्याप्यव्यवहार्यताधिकरणे सूत्रम् - )
द्वादशाधिकरणमारचयति -
शुद्धः शिष्टैरुपादेयस्त्याज्यो वा दोषहानितः ॥
उपादेयोऽन्यथा शुद्धिः प्रायश्चित्तकृता वृथा ॥ २५ ॥
आमुष्मिक्येव शुद्धिः स्यात्ततः शिष्टास्त्यजन्ति तम् ॥
प्रायश्चित्तादृष्टिवाक्यादशुद्धिस्त्वैहिकीष्यते ॥ २६ ॥
पूर्वोक्तप्रायश्चित्तापादितशुद्ध्यन्यथानुपपत्त्या कृतप्रायश्चित्तस्य शिष्टैः सह व्यवहारोऽस्ति ॥
इति प्राप्ते, ब्रूमः - आमुष्मिकशुद्धिसद्भावेऽपि प्रायश्चित्तादर्शनवचनादैहिकशुद्ध्यभावाच्छिष्टैरेष न व्यवहार्यः ॥
(त्रयोदशे, ऋत्विक्कृताङ्गध्यानस्य स्वामिगामित्वाधिकरणे सूत्राणि - )
त्रयोदशाधिकरणमारचयति -
अङ्गध्यानं याजमानमार्त्विजं वा यतः फलम् ॥
ध्यातुरेव श्रुतं तस्माद्याजमानमुपासनम् ॥ २७ ॥
ब्रूयादेवंविदुद्गातेत्यार्त्विजत्वं स्फुटं श्रुतम् ॥
क्रीतत्वादृत्विजस्तेन कृतं स्वामिकृतं भवेत् ॥ २८ ॥
अङ्गावबद्धेषूपासनेषु यजमान एवानुष्ठाता, नार्त्विजः ध्यातुः फलश्रवणात् । फलं तु यजमानस्यैवोचितं, स्वामित्वात् । तस्मात् - फलिनो यजमानस्यैव ध्यातृत्वम् ॥
इति प्राप्ते, ब्रूमः - "एवंविदुद्गाता ब्रूयात्" । इति वाक्यशेष उद्नातुरुपासकत्वं स्पष्टं श्रूयते । युक्तं चैतत् - ऋत्विजामशेषकर्मानुष्ठानाय यजमानेन क्रीतत्वात् । तस्मात् - ऋत्विग्भिः कृतं यजमानेनेव कृतमिति फलित्वोपपत्तेरुपासनमृत्विजां कर्म ॥
(चतुर्दशे मौनस्य विधेयत्वाधिकरणे सूत्राणि - )
चतुर्दशाधिकरणमारचयति -
अविधेयं विधेयं वा मौनं तन्न विधीयते ॥
प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः ॥ २९ ॥
निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक् ॥
विधेयं तद्भेददृष्टिप्राबल्ये तन्निवृत्तये ॥ ३० ॥
कहोलब्राह्मणे श्रूयते - "तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् , बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इति । अस्यायमर्थः - यस्माद्ब्रह्मभावः परमपुरुषार्थः, तस्माद्ब्रह्म बुभूषुरुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण सम्पाद्य बालवन्नीरागद्वेषत्वेन युक्तोऽसम्भावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत् , ततः पाण्डित्यबाल्ये निःशेषेण सम्पाद्य, अथ मुनिः - इति । तत्र - 'भवेत्' इति विध्यश्रवणान्मुनित्वं न विधेयम् । नच – विधिः कल्पयितुं शक्यः, पाण्डित्यशब्देन प्राप्तस्य मौनस्यापूर्वार्थत्वाभावात् । पण्डितस्य विदुषो भावः पाण्डित्यम् - इति ज्ञानवाचकोऽयं शब्दः । तथा मुनिशब्दोऽपि, 'मन ज्ञाने' इत्यस्माद्धातोस्तन्निष्पत्तेः । तस्मात् - प्राप्तस्य मौनस्य नैव विधिकल्पनम् ॥
इति प्राप्ते, ब्रूमः - पूर्वोक्तस्य पाण्डित्यस्य पुनर्मुनिशब्देनाभिधाने प्रयोजनाभावान्निरन्तरज्ञाननिष्ठाऽपूर्वार्थो मुनिशब्देन विवक्षितः । ततः 'तिष्ठासेत्' इति पदानुवृत्त्या विधिर्लभ्यते । अस्ति च ज्ञाननैरन्तर्येण प्रयोजनम् , प्रबलभेदवासनावासितस्य तन्निवृत्त्यर्थत्वात् । तस्मात् - निदिध्यासनात्मकं मौनं विधेयम् ॥
(पञ्चदशे भावशुद्धेरेव बाल्यशब्दाभिधेयताधिकरणे सूत्रम् - )
पञ्चदशाधिकरणमारचयति -
बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः ॥
वयस्तस्याविधेयत्वे कामचारोऽस्तु नेतरा ॥ ३१ ॥
मननस्योपयुक्तत्वाद्भावशुद्धिर्विवक्षिता ॥
अत्यन्तानुपयोगित्वाद्विरुद्धत्वाच्च न द्वयम् ॥ ३२ ॥
"बाल्येन तिष्ठासेत्" इत्यत्र – बालस्य भावो बाल्यम् - इति प्रसिद्ध्या वयो भवेत् । अथ – तस्य विध्यनर्हत्वम् , - तर्हि - बालस्य कर्म – इति व्युत्पत्त्या कामचारादिकमस्तु । सर्वथा धीशुद्धिर्न बाल्यम् ॥
इति प्राप्ते, ब्रूमः - पाण्डित्यमौनाख्ययोः श्रवणनिदिध्यासनयोर्मध्ये मननं विधेयत्वेन श्रुत्या विवक्षितम् । तस्य च भावशुद्धिरुपयुक्ता, रागद्वेषमानापमानादिदोषग्रस्तत्वेन बहिः प्रवृत्तिमपरित्यज्य मन्तुमशक्यत्वात् । - बालस्य कर्म - इति व्युत्पत्तिस्तु यथेच्छाचारे, भावशुद्धौ च समाना । वयःकामचारौ तु मननस्यात्यन्तमनुपयुक्तौ । प्रत्युत विरोधिनौ, मूढस्य बहिःप्रवृत्तस्य वा मनसो मननविनाशकत्वात् । तस्मात् - भावशुद्धिरेव बाल्यम् , नेतरदुभयम् ॥
(षोडशे, आत्मज्ञानस्यैहिकामुष्मिकात्वव्यवस्थाधिकरणे सूत्रम् - )
षोडशाधिकरणमारचयति -
इहैव नियतं ज्ञानं पाक्षिकं वा, नियम्यते ॥
तथाऽभिसन्धेर्यज्ञादिः क्षीणां विविदिषाजनौ ॥ ३३ ॥
असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरेऽन्यथा ॥
श्रवणायेत्यादिशास्त्राद्वामदेवोद्भवादपि ॥ ३४ ॥
श्रवणमनननिदिध्यासनेष्वनुष्ठीयमानेषु - अस्मिन्नेव जन्मनि ज्ञानं जायते - इति नियम्यते । न तु - इह वा, जन्मान्तरे वा इति कालविकल्पः । कुतः - श्रवणादिषु प्रवर्तमानस्य पुरुषस्य ज्ञानेच्छाया ऐहिकज्ञानोत्पत्तिविषयत्वात् । 'इहैव मे विद्या जायताम्' इत्यभिसन्धाय पुरुषः प्रवर्तते । न च – अदृष्टफलानां यज्ञादीनां तत्साधकत्वेन स्वर्गवज्जन्मान्तरे ज्ञानोत्पत्तिः शङ्कनीया, श्रवणादिप्रवृत्तेः प्रागेव विविदिषामुत्पाद्य यज्ञादीनां चरितार्थत्वात् । तस्मात् - ऐहिकत्वेन ज्ञानोत्पत्तिर्नियम्यते ।
इति प्राप्ते, ब्रूमः - असति प्रतिबन्धे ज्ञानमिहैव सम्भवति, सति तु प्रतिबन्धेऽत्रानुष्ठितैः श्रवणादिभिर्जन्मान्तरे ज्ञानमुत्पद्यते । प्रतिबन्धश्च बहुविधः श्रूयते -
"श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः"
इति । न च – पूर्वजन्मानुष्ठितैः श्रवणादिभिर्जन्मान्तरे ज्ञानोत्पत्तिर्न दृष्टचरी, वामदेवस्य गर्भ एवावस्थितस्य ज्ञानोत्पत्तिश्रवणात् । "गर्भ एवैतच्छयानो वामदेव एवमुवाच" इति श्रुतेः । तस्मात् - इह वा, जन्मान्तरे वा ज्ञानोत्पत्तिः ॥
(सप्तदशे मुक्तेरेकविधत्वाधिकरणे सूत्रम् - )
सप्तदशाधिकरणमारचयति -
मुक्तिः सातिशया नो वा फलत्वाद्ब्रह्मलोकवत् ॥
स्वर्गवच्च नृभेदेन मुक्तिः सातिशयैव हि ॥ ३५ ॥
ब्रह्मैव मुक्तिर्न ब्रह्म क्वचित्सातिशयं श्रुतम् ॥
अत एकविधा मुक्तिर्वेधसो मनुजस्य च ॥ ३६ ॥
यथा ब्रह्मलोकाख्यं फलं सालोक्यसारूप्यसामीप्यसार्ष्टिभेदेन चतुर्विधम् । तत्र सार्ष्टिर्नाम चतुर्मुखेन समानैश्वर्यत्वम् । यथा वा - "कर्मभूयस्त्वात्फलभूयस्त्वम्" इति न्यायेन स्वर्गो बहुविधः । तथा मुक्तिरपि फलत्वाविशेषात्सातिशया ॥
इति प्राप्ते, ब्रूमः - मुक्तिर्नाम निजसिद्धब्रह्मस्वरूपमेव, न तु स्वर्गवदागन्तुकं किञ्चिद्रूपम् - इति वक्ष्यते । ब्रह्म चैकविधत्वेन श्रुतं निर्णीतं च । तस्मात् - चतुर्मुखस्य मनुजस्य वा मुक्तिरेकविधैव । सालोक्यादिविशेषस्तु जन्यरूपत्वादुपासनातारतम्येन सातिशयो भविष्यति । मुक्तिस्तु न तादृशी, इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ तृतीयोऽध्यायश्च समाप्तः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि १७ १५४
सूत्राणि ५२ ४७८