अद्वैतशारदा

वैयासिकन्यायमाला

आवृत्त्यधिकरणम्

(प्रथमे श्रव­ण­म­न­ना­दी­ना­मा­वृ­त्त्य­धि­क­रणे सूत्रे - )
चतुर्थाध्यायस्य प्रथमपादस्य प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
श्रवणाद्याः सकृत्कार्या आवर्त्या वा सकृद्यतः ॥
शास्त्रा­र्थ­स्ता­वता सिध्ये­त्प्र­या­जादौ सकृत्कृतेः ॥ १ ॥
आवर्त्या दर्शनान्तास्ते तण्डु­ला­न्ता­व­घा­त­वत् ॥
दृष्टेऽत्र सम्भवत्यर्थे नादृष्टं कल्प्यते बुधैः ॥ २ ॥
"सकृत्कृते कृतः शास्त्रार्थः" इति न्यायेन श्रवणादीनां प्रया­जा­दि­व­त्स­कृ­दे­वा­नु­ष्ठा­नम् ॥
इति प्राप्ते, ब्रूमः - उक्त­न्या­य­स्या­दृ­ष्ट­फ­ल­वि­ष­य­त्वात् । अत्र ब्रह्म­सा­क्षा­त्का­र­ल­क्ष­णस्य दृष्टफलस्य सम्भवात् 'दृष्टे सम्भवत्यदृष्टं न कल्पनीयम्' इति न्याये­ना­व­घा­त­व­त्फ­ल­सि­द्धि­प­र्यन्तं श्रव­णा­द्या­व­र्त­नी­यम् ॥

(द्वितीये, आत्मत्वेन ब्रह्मणो ग्रहणाधिकरणे सूत्रम् - )
द्विती­या­धि­का­र­ण­मा­र­च­यति -
ज्ञात्रा स्वान्यतया ब्रह्म ग्राह्य­मा­त्म­त­याऽथ वा ॥
अन्यत्वेन विजा­नी­या­द्दुः­ख्य­दुः­खि­वि­रो­धतः ॥ ३ ॥
औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यताम् ॥
गृह्णन्त्येवं महावाक्यैः स्वशि­ष्या­न्ग्रा­ह­यन्ति च ॥ ४ ॥
यच्छा­स्त्र­प्र­ति­पाद्यं ब्रह्म, तज्जीवेन ज्ञात्रा स्वव्य­ति­रि­क्त­तया ग्रहीतव्यम् , दुःख्य­दुः­खि­नो­र्जी­व­ब्र­ह्म­णो­रे­क­त्व­वि­रो­धात् ॥
इति प्राप्ते, ब्रूमः - 'वस्तुतो ब्रह्म­स्व­रू­प­स्यैव सतो जीव­स्या­न्तः­क­र­णो­पा­धि­कृतो दुःखि­त्वा­दि­सं­सा­र­धर्मः' इति वियत्पादे (ब्र० सू० अ० २ पा० ३) जीवविचारे प्रपञ्चितम् । अतो वास्त­व­वि­रो­धा­भा­वा­दा­त्म­त्वे­नैव ब्रह्म गृह्यताम् । अत एव "अहं ब्रह्मास्मि" "अयमात्मा ब्रह्म" इत्या­दि­म­हा­वा­क्यै­स्त­त्त्व­विद आत्मत्वेनैव ब्रह्म गृह्णन्ति । तथा "तत्त्व­मसि" इत्या­दि­म­हा­वाक्यैः स्वशि­ष्या­न्ग्रा­ह­य­न्त्यपि । तस्मात् - आत्मत्वेनैव ब्रह्म ग्रहीतव्यम् ॥

(तृतीये प्रती­केऽ­ह­न्दृ­ष्टि­नि­रा­क­र­णा­धि­क­रणे सूत्रम् - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
प्रती­केऽ­ह­न्दृ­ष्टि­रस्ति न वा, ब्रह्माविभेदतः ॥
जीव­प्र­ती­क­यो­र्ब्र­ह्म­द्वा­राऽ­ह­न्दृ­ष्टि­रि­ष्यते ॥ ५ ॥
प्रती­क­त्वो­पा­स­क­त्व­हा­नि­र्ब्र­ह्मै­क्य­वी­क्षणे ॥
अवीक्षणे तु भिन्न­त्वा­न्ना­स्त्य­ह­न्दृ­ष्टि­यो­ग्यता ॥ ६ ॥
"मनो ब्रह्मे­त्यु­पा­सीत" "आदित्यो ब्रह्म" इत्यादिषु ब्रह्मदृष्ट्या संस्कृतं मन­आ­दि­त्या­दि­प्र­ती­क­मु­पा­स्यम् । तच्च प्रतीकमुपासकेन स्वात्मतया ग्रहीतव्यम् , प्रतीकस्य ब्रह्म­का­र्य­त्वेन ब्रह्मणा सह भेदाभावात् , जीवस्य च ब्रह्मा­भि­न्न­त्वात् , ब्रह्म­द्वा­रो­पा­स्य­प्र­ती­क­स्यो­पा­स­क­जी­वस्य च भेदा­भा­वे­नै­क­त्व­स­म्भ­वात् ॥
इति प्राप्ते, ब्रूमः - यदि ब्रह्मकार्यस्य प्रतीकस्य ब्रह्मै­क्य­म­व­लो­क्यते, तदा प्रतीकस्वरूपमेव विलीयेत, घटस्य मृद्रूपेणैक्ये विलयदर्शनात् । यदि च जीवस्य ब्रह्मै­क्य­म­व­लो­क्येत, तदा जीवत्वापाये सत्युपासकत्वं हीयेत । अथ – उपा­स्यो­पा­स­क­स्व­रू­प­लो­भेन कार्यकारणैक्यं जीवब्रह्मैक्यं च न पर्यालोच्येत, तदा गोम­हि­ष­व­द­त्य­न्त­भि­न्नयोः प्रती­को­पा­स­क­यो­र्ना­स्त्ये­क­त्व­यो­ग्यता । तस्मात् - प्रतीके नास्त्य­ह­न्दृष्टिः ॥

(चतुर्थे, उपास्ये ब्रह्म­दृ­ष्ट्य­धि­क­रणे सूत्रम् - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
किम­न्य­धी­र्ब्र­ह्मणि स्याद­न्य­स्मि­न्ब्र­ह्म­धी­रुत ॥
अन्य­दृ­ष्ठ्यो­पा­स­नीयं ब्रह्मात्र फलदत्वतः ॥ ७ ॥
उत्क­र्षे­ति­प­र­त्वाभ्यां ब्रह्म­दृ­ष्ट्याऽ­न्य­चि­न्त­नम् ॥
अन्योपास्त्या फलं दत्ते ब्रह्मा­ति­थ्या­द्यु­पा­स्ति­वत् ॥ ८ ॥
"मनो ब्रह्म" – इत्यत्र ब्रह्म­स्व­रू­प­म­नो­दृष्टिं ब्रह्मणि कृत्वा ब्रह्मोपासनीयम् , ब्रह्मणः फल­म­द­त्वे­नो­पा­स्य­ता­र्ह­त्वात् ॥
इति प्राप्ते, ब्रूमः - ब्रह्मण उत्कृ­ष्ठ­त्वा­दृ­ष्टि­र्नि­कृष्टे मनसि कर्तव्या । लोके हि निकृष्टे भृत्ये राजदृष्टिं कृत्वा राजवत्तं पूजयन्ति । किञ्च "मनो ब्रह्मे­त्यु­पा­सीत" इत्यत्र ब्रह्मशब्द इतिशब्दपरत्वेन दष्टिलक्षको भविष्यति । मनः­श­ब्द­श्चा­नि­ति­प­र­त्वा­न्मु­ख्या­र्थ­वाची । यथा 'स्थाणुं चौर इति प्रत्येति' इत्यत्र स्थाणुशब्दो मुख्यार्थवाची चौरशब्दो दृष्टि­ल­क्ष­क­स्त­द्वत् | न चाब्र­ह्म­स्व­रू­पस्य मनस उपास्यत्वे स्थाणुशब्दो ब्रह्मणः फल­प्र­द­त्वा­नु­प­पत्तिः, अब्र­ह्म­स्व­रू­प­स्या­प्य­ति­थे­रु­पा­सने कर्मा­ध्य­क्ष­त्वेन यथा फलं प्रयच्छति, तद्वदत्रापि सम्भवात् । तस्मादब्रह्मणि प्रतीके ब्रह्मधीः कर्तव्या ॥

(पञ्चमे, अङ्गे­ष्वा­दि­त्य­त्वा­दि­धी­क­र­णा­धि­क­रणे सूत्रम् - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
आदि­त्या­दा­व­ङ्ग­दृ­ष्टि­रङ्गे रव्यादिधीरुत ॥
नोत्कर्षो ब्रह्मजत्वेन द्वयो­स्ते­नै­च्छिकी मतिः ॥ ९ ॥
आदि­त्या­दि­धि­याऽ­ङ्गानां संस्कारे कर्मणः फले ॥
युज्य­तेऽ­ति­श्य­स्त­स्मा­द­ङ्गे­ष्व­र्का­दि­दृ­ष्टयः ॥ १० ॥
"य एवासौ तपति, तमु­द्गी­थ­मु­पा­सीत" इत्य­त्राऽऽ­दि­त्य­दे­वतां प्रतीकं कृत्वा कर्मा­ङ्ग­भू­तो­द्गी­थ­दृष्टिः कर्तव्या, विपर्ययेण वा कर्माङ्ग आदित्यदृष्टिः । आदि­त्यो­द्गी­थ­यो­रु­भ­यो­र्ब्र­ह्म­का­र्य­त्वेन पूर्वा­धि­क­र­णो­त्क­र्ष­न्या­या­न­व­ता­रेण नियामकाभावात् ॥
इति प्राप्ते, ब्रूमः - आदित्यदृष्ट्या कर्माङ्गं संस्कर्तव्यम् ॥ तथासति दृष्टिभिः संस्कृतस्य कर्मणः फलातिशयसम्भवात् । विपर्यये तु कर्मा­ङ्गै­रा­दि­त्य­दे­व­तायां संस्कृतायां किं तव फलिष्यति । न ह्यक्रियात्मिका देवता फलस्य साधनं भवति । अन्यथा देवतायाः साधारणत्वेन यजमानायजमानयोः फल­सा­म्य­प्र­स­ङ्गात् । तस्मात् - अङ्गे­ष्वा­दि­त्या­दि­दृ­ष्टयः कर्तव्याः ॥

(षष्ठे, उपासन आस­ना­व­श्य­क­ता­धि­क­रणे सूत्राणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
नास्त्यासनस्य नियम उपास्तावुत विद्यते ॥
न देह­स्थि­ति­सा­पेक्षं मनोऽतो नियमो न हि ॥ ११ ॥
शय­नो­त्था­न­ग­म­नै­र्वि­क्षे­प­स्या­नि­वा­र­णात् ॥
धीस­मा­धा­न­हे­तु­त्वा­त्प­रि­शि­ष्यत आसनम् ॥ १२ ॥
'आसी­ने­नै­वो­पा­सि­त­व्यम्' इति नास्ति नियमः, मानसव्यापारं प्रति देह­स्थि­ति­वि­शे­ष­स्या­नु­प­यु­क्त­त्वात् ॥
इति प्राप्ते, ब्रूमः - परिशेषादासनं नियम्यते । तथाहि - न ताव­च्छ­या­ने­नो­पा­सितुं शक्यम् , अक­स्मा­न्नि­द्र­याऽ­भि­भूतेः सम्भवात् । नाप्युत्थितेन गच्छता वा, देह­धा­र­ण­मा­र्ग­नि­श्च­या­दि­व्या­पा­रेण चित्तस्य विक्षिप्तत्वात् । अत आसी­ने­नै­वो­पा­सि­त­व्यम् ॥

(सप्तमे, उपासने दिगा­दि­नि­य­म­नि­रा­क­र­णा­धि­क­रणे सूत्रम् - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
दिग्देशकालनियमो विद्यते वा न विद्यते ॥
विद्यते वैदिकत्वेन कर्मस्वेतस्य दर्शनात् ॥ १३ ॥
ऐका­ग्र्य­स्या­वि­शे­षेण दिगादिर्न नियम्यते ॥
मनोनुकूल इत्यु­क्ते­दृ­ष्टार्थं देशभाषणम् ॥ १४ ॥
"ब्रह्म­य­ज्ञेन यक्ष्यमाणः प्राच्यां दिशि" इति दिग्नियमः । "प्राची­न­प्र­वणे वैश्वदेवेन यजेत" इति देशनियमः । "अथ यदपराह्ने पिण्डपितृयज्ञेन चरन्ति" इति कालनियमः । तदेतन्नियमत्रयं यथा कर्मणि दृश्यते, तथोपासनेऽपि द्रष्टव्य़म् । वौदि­क­त्व­स्या­वि­शे­षात् ।
इति प्राप्ते, ब्रूमः - ऐकाग्र्यं हि ध्यानस्य प्रधानं साधनम् । न च – तस्य दिगादिनियन्त्या कश्चिदतिशयो विद्यते । अतो नास्ति नियमः । अत एव श्रुति­र्यो­गा­भ्या­साय प्रदेशं निर्दिशन्ती "मनो­नु­कूले" इत्येवाऽऽह । "यस्मि­न्देशे सौमनस्यं, तत्रैव मनो युञ्ज्यात् , नतु शास्त्रेण नियमितः कश्चि­द्दे­शोऽस्ति" इत्यर्थः । "समे शुचौ शर्क­रा­व­ह्नि­वा­लु­का­व­र्जिते" इति योगाभ्यासाय देशविशेषः श्रूयते - इति चेत् । सत्यम् । दृष्ट­सौ­क­र्यार्थं तु तत् - इति वाक्यशेषे मनो­नु­कू­ल­त्व­वि­शे­ष­णा­न्नि­श्ची­यते । तस्मात् - नास्ति दिगादिनियमः ॥

(अष्टमे, उपा­स­ना­ना­मा­म­र­णा­व­र्त­ना­धि­क­रणे सूत्रम् - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
उपास्तीनां याव­दि­च्छ­मा­वृत्तिः स्यादुताऽऽमृति ॥
उपा­स्त्य­र्था­भि­नि­ष्प­त्ते­र्या­व­दिच्छं न तूपरि ॥ १५ ॥
अन्त्यप्रत्ययतो जन्म भाव्य­त­स्त­त्प्र­सि­द्धये ॥
आमृत्यावर्तनं न्याय्यं सदा­त­द्भा­व­वा­क्यतः ॥ १६ ॥
विजा­ती­य­प्र­त्य­ये­ना­न­न्त­रि­त­स­जा­ती­य­प्र­त्य­य­प्र­वाह उपा­स्ति­श­ब्दार्थः । स च कियताऽपि कालेन सम्पद्यते । अतो याव­दि­च्छ­मा­वृत्तिः, न त्वामरणम् ॥
इति प्राप्ते, ब्रूमः - भाविजन्मनः प्रयो­ज­कोऽ­न्त्य­प्र­त्यय आम­र­ण­मा­वृ­त्ति­म­न्त­रेण न सुलभः । अत एव स्मृतिः - "सदा तद्भा­व­भा­वितः" इत्याह । कथं तर्हि - ज्योति­ष्टो­मा­दि­क­र्मणा स्वर्गं गच्छ­तोऽ­न्त्य­प्र­त्ययः - । 'कर्म­ज­न्या­पू­र्व­व­शात्' इति ब्रूमः - उपा­स­नेऽ­प्य­पू­र्व­मस्ति - इति चेत् । बाढम् । नैतावता निर­न्त­रा­वृ­त्ति­ल­क्षणो दृष्टोपायः परित्याज्यो भवति । अन्यथा सर्वस्य सुख­दुः­खा­दे­र­पू­र्व­ज­न्य­त्वेन भोजनाद्यर्थो दृष्टः प्रथत्नः परित्यज्येत । ततो दृष्टा­र्थो­पा­य­त्वा­दा­म­र­ण­मा­व­र्तनं कर्तव्यम् ॥
यद्यपि - एता­न्य­ष्टा­व­धि­क­र­णानि साध­न­वि­चा­र­त्वा­त्पू­र्वा­ध्याये योग्यानि, तथाऽपि फल­प्र­त्या­स­न्न­सा­ध­न­त्वा­त्फ­ला­ध्याये विचारितानि ॥

(नवमे ज्ञानिनः पाप­ले­प­नि­रा­क­र­णा­धि­क­रणे सूत्रम् - )
नव­मा­धि­क­र­ण­मा­र­च­यति -
ज्ञानिनः पापलेपोऽस्ति नास्ति वाऽनुपभोगतः ॥
अनाश इति शास्त्रेषु घोषाल्लेपोऽस्य विद्यते ॥ १७ ॥
अकर्त्रात्मधिया वस्तुमहिम्नैव न लिप्यते ॥
अश्ले­षा­ना­शा­व­प्यु­क्ता­वज्ञे घोषस्तु सार्थकः ॥ १८ ॥
"नाभुक्तं क्षीयते कर्म कल्प­को­टि­श­तै­रपि" ।
इति पापाविनाशस्य सर्व­शा­स्त्र­प्र­सि­द्ध­त्वा­द्ब्र­ह्म­ज्ञा­नि­नोऽ­प्यस्ति पापलेपः ॥
इति प्राप्ते, ब्रूमः - तत्र ताव­न्नि­र्गु­ण­ब्र­ह्मा­त्म­त­त्त्व­विदः पापलेपशङ्काऽपि नोदेति 'नाकार्षम् , न करोमि' न करिष्यामि, इति काल­त्र­येऽ­प्य­क­र्तृ­ब्र­ह्म­स्व­रू­प­त्वेन निश्चितत्वात् । न ह्यकर्तुर्लेपं मन्दा अपि शङ्कन्ते । नापि सगुणब्रह्मविदो लेपोऽस्ति, अश्लेषविनाशयोः श्रुतत्वात् । ब्रह्म­सा­क्षा­त्का­रा­दूर्ध्वं देहे­न्द्रि­य­व्य­व­हा­र­व­शा­त्स­म्भा­वि­तस्य़ पापस्याश्लेषः श्रूयते । तद्यथा - "यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवमेवंविदि पापं कर्म न श्लिष्यते" इति । साक्षा­त्का­रा­त्पूर्वं त्विह जन्मनि जन्मान्तरेषु च सञ्चितस्य पापसङ्घातस्य विनाशः श्रूयते - "तद्य­थे­षी­का­तू­ल­मग्नौ प्राोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदू­यन्ते" इति । "नाभु­क्तम्" - इत्यादि शास्त्रं तु सगु­ण­नि­र्गु­ण­ब्र­ह्म­ज्ञा­न­र­हि­त­वि­ष­यम् । तस्मात् - नास्ति ज्ञानिनः पापलेपः ।

(दशमे ज्ञानिनः पुण्य­ले­प­नि­रा­क­र­णा­धि­क­रणे सूत्रम् - )
दश­मा­धि­क­र­ण­मा­र­च­यति -
पुण्येन लिप्यते नो वा, लिप्यतेऽस्य श्रुतत्वतः ॥
न हि श्रौतेन पुण्येन श्रौतं ज्ञानं विरुध्यते ॥ १९ ॥
अलेपो वस्तु­सा­म­र्थ्या­त्स­मानः पुण्यपापयोः ॥
श्रुतं पुण्यं पापतया तरणं च समं श्रुतम् ॥ २० ॥
मा भूत्पापलेपः । पुण्यलेपस्तु विद्यते, पुण्यस्य श्रौतत्वेन श्रौत­ब्र­ह्म­ज्ञा­नेन समं विरोधाभावात् ॥
इति प्राप्ते, ब्रूमः - अक­र्त्रा­त्म­व­स्तु­सा­म­र्थ्या­त्पा­प­व­त्पु­ण्ये­नापि न लिप्यते । सगु­ण­ज्ञा­नि­न­स्तू­पा­स­न­व्य­ति­रिक्तं काम्यं पुण्यं पाप­व­द­ध­म­ज­न्म­हे­तु­त्वा­त्पा­प­स­म­मे­वे­ति­मत्त्वा पापत्वेनैव दह­र­वि­द्या­वा­क्य­शेषे श्रुतिः परामृशति - "सर्वे पाप्मानोऽतो निव­र्तन्ते" इति । अस्यायमर्थः - 'सुकृतं दुष्कृतं तत्फलं च पूर्ववाक्ये यद्य­द­नु­क्रा­न्तम्, ते सर्वे पाप्मा­नोऽ­स्मा­दु­पा­स­का­न्नि­व­र्तन्ते' इति । किञ्च – "उभे उ हैवैष एते तरति" इति श्रुतिः पुण्य­पा­प­यो­रु­भ­यो­र्ज्ञा­निनां तरणं सममेव ब्रूते । तस्मात् - पाप­व­त्पु­ण्ये­नापि न लिप्यते ॥

(एकादशे ज्ञाना­द­ना­र­ब्ध­पु­ण्य­पा­प­यो­रेव निवृत्त्यधिकरणे सूत्रम् - )
एका­द­शा­धि­क­र­ण­मा­र­च­यति -
आरब्धे नश्यतो नो वा सञ्चिते इव नश्यतः ॥
उभ­य­त्रा­प्य­क­र्तृ­त्व­त­द्बोधौ सदृशौ खलु ॥ २१ ॥
आदे­ह­पा­त­सं­सा­र­श्रु­ते­र­नु­भ­वा­दपि ॥
इषु­च­क्रा­दि­दृ­ष्टा­न्ता­न्नै­वाऽऽ­रब्धे विनश्यतः ॥ २२ ॥
ज्ञानात्पूर्वं सञ्चिते पुण्यपापे द्विविधे - आरब्धे, अनारब्धे च । तयो­र्द्वि­वि­ध­यो­र­प्य­क­र्तृ­त्व­मा­त्मनः समानम् , तद्बोधश्च समः । ततः - अना­र­ब्ध­व­दा­र­ब्ध­यो­रपि ज्ञानोदयसमय एव विनाशः ॥
इति प्राप्ते, ब्रूमः - श्रुत्य­नु­भ­व­यु­क्तिभ्य आरब्धयोरविनाशो गम्यते । "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये" इति श्रुतिः । अस्या अयमर्थः 'तस्य तत्त्वविदो मुक्ति­र्वि­ल­म्ब­मा­नाऽपि नात्यन्तं विलम्बते । किन्तु गर्भाधानकाले क्लृप्त­स्याऽऽ­युषः क्षयाभावेन यावद्देहः प्राणैर्न विमोक्ष्यते, तावदेव विलम्बते । अथ देहप्राणवियोगे सति ब्रह्म सम्पद्यते' इति । यथाऽनया श्रुत्या तत्त्व­वि­दोऽ­प्या­दे­ह­पातं संसा­रोऽ­ङ्गी­कृतः, तथा विद्व­द­नु­भ­वोऽ­प्य­स्मि­न्नर्थे स्फुटः । युक्तिश्चोच्यते - यथा लोके तूणनिष्टेषु बाणेषु धानुष्कस्य स्वीका­र­प­रि­त्या­गयोः स्वातन्न्येऽपि मुक्ते बाणे स्वातन्त्र्यं न दृश्यते, स तु बाणो वेगे क्षीणे स्वयं पतति । एवं कुला­ल­च­क्र­भ्र­म­ण­मु­दा­ह­र्त­व्यम् । तथा दार्ष्टा­न्ति­क­ब्र­ह्म­ज्ञा­न­स्या­प्य­ना­र­ब्ध­क­र्म­ना­श­कत्वे स्वात­न्त्र्य­मस्तु, न त्वारब्धे कर्मणि, आरब्धस्य प्रवृ­त्त­फ­ल­त्वात् । यद्येतैः श्रुत्या­दि­भि­रा­र­ब्ध­स्थि­ति­र्ना­र­भ्यु­प­ग­म्यते, तदो­प­दे­ष्टु­र­भा­वा­द्वि­द्या­स­म्प्र­दाय उच्छिद्येत । न तावत् - अवि­द्वा­नु­प­देष्टा - इति वक्तुं शक्यम् । विद्वांस्तु वेदनसमय एव मुच्यत इति को नामोपदेष्टा सम्भवति । तस्मात् - नाऽऽर­ब्ध­यो­र्नाशः ॥

(द्वादशे, अग्नि­हो­त्रा­दि­नि­त्य­क­र्मणो नाश­नि­रा­क­र­णा­धि­क­रणे सूत्रे - )
द्वाद­शा­धि­क­र­ण­मा­र­च­यति -
नश्येन्नो वाऽग्निहोत्रादि नित्यं कर्म, विनश्यति ॥
यतोऽयं वस्तुमहिमा न क्वचि­त्प्र­ति­ह­न्यते ॥ २३ ॥
अनुषक्तफलांशस्य नाशेऽप्यन्यो न नश्यति ॥
विद्या­या­मु­प­यु­क्त­त्वा­द्भा­व्य­श्ले­षस्तु काम्यवत् ॥ २४ ॥
ज्ञाना­त्पू­र्व­मिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यदग्निहोत्रादि नित्यं कर्म, तस्यापि काम्य­क­र्म­व­द­क­र्त्रा­त्म­व­स्तु­बो­ध­म­हिम्ना नाशोऽभ्युपेयः ॥
इति प्राप्ते, ब्रूमः - द्वावंशौ नित्यकर्मणः - एकोंऽशः प्राधान्येन चित्त­शु­द्धि­प्रदः, अप­रोऽ­शोऽ­नु­ष­ङ्गेण स्वर्गा­दि­फ­ल­प्रदः । तस्य नाशोऽस्तु नाम । चित्त­शु­द्धि­प्र­दस्य तु विद्या­या­मु­प­यु­क्त­त्वान्न नाशो वर्णयितुं शक्यः । न हि लोके भोगेनोपक्षीणं व्रीह्यादिकं नष्टं मन्यन्ते । यत्तु ज्ञानादूर्ध्वं नित्यं कर्म तस्य काम्यवदश्लेषः ॥

(त्रयोदशे नित्य­क­र्म­णो­र्वि­द्या­सा­ध­न­ता­धि­क­रणे सूत्रम् - )
त्रयो­द­शा­धि­क­र­ण­मा­र­च­यति -
किम­ङ्गो­पा­स्ति­सं­यु­क्त­मेव विद्योपयोग्युत ॥
केवलं वा, प्रश­स्त­त्वा­त्सो­पा­स्त्ये­वो­प­यु­ज्यते ॥ २५ ॥
केवलं वीर्य­व­द्वि­द्या­सं­युक्तं वीर्यवत्तरम् ॥
इति श्रुते­स्ता­र­त­म्या­दु­भयं ज्ञानसाधनम् ॥ २६ ॥
विद्यासाधनं नित्यकर्म द्विविधं सम्भाव्यते - अङ्गा­व­ब­द्धो­पा­स्ति­स­हि­तम् , तद्रहितं च । तत्र – सोपासनस्य कर्मणः प्रश­स्त­त्वा­त्त­देव विद्यासाधनम् , न तूपास्तिरहितम् ।
इति प्राप्ते, ब्रूमः - "यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति" इति श्रुतिः "सोपासनस्य कर्मणोऽतिशयेन वीर्य­मस्ति" इति वदन्ती निरुपासनस्यापि वीर्य­मा­त्र­म­भ्य­नु­जा­नाति । अन्यथा तर­प्र­त्य­या­नु­प­पत्तेः । तस्मात् - सोपा­स­न­नि­रु­पा­स­न­यो­स्ता­र­त­म्येन विद्यासाधनत्वम् ॥

(चतुर्दशे, अधिकारिणामपि मुक्ति­स­म्भ­वा­धि­क­रणे सूत्रम् - )
चतु­र्द­शा­धि­क­र­ण­मा­र­च­यति -
बहु­ज­न्म­प्र­दा­र­ब्ध­यु­क्तानां नास्त्युतास्ति मुक् ॥
विद्यालोपे कृतं कर्म फलदं तेन नास्ति मुक् ॥ २७ ॥
आरब्धं भोजयेदेव न तु विद्यां विलोपयेत् ॥
सुप्त­बु­द्ध­व­द­श्ले­ष­ता­द­व­स्थ्या­त्कुतो न मुक् ॥ २८ ॥
अधि­का­रि­पु­रु­षाणां मुक्तिर्नास्ति, प्रारब्धभोगाय बहुषु जन्मसु स्वीकृतेषु तत्र पूर्वा­र्जि­त­वि­द्यायां यत्कर्म क्रियते तस्य फलप्रदत्वे सत्यु­त्त­रो­त्त­र­ज­न्म­प­र­म्प­राया अव­श्यं­भा­वि­त्वात् ॥
इति प्राप्ते, ब्रूमः - आरब्धं कर्म स्वफले सुखदुःखे भोजयेत् , तदर्थमेव प्रवृत्तत्वात् । न हि विद्यालोपार्थं किञ्चित्कर्म पूर्वमनुष्ठितम् , येन कर्म­व­शा­द्वि­द्या­लोप आशङ्क्येत । न च - मरण व्यवधानमात्रेण विद्यालोपः, सुषु­प्ति­व्य­व­धा­नेन तल्लोपादर्शनात् । अतो विद्या­या­म­व­स्थि­तायां बहुभिरपि क्रियमाणैः कर्मभिरश्लेषात् - अस्त्यधिकारिणां मुक्तिः ॥
यद्य­प्ये­त­द्गु­णो­प­सं­हा­र­पादे निर्णीतम् , तथाऽपि तस्यै­वाऽऽ­क्षे­प­स­मा­धाने - इत्यनवद्यम् ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां चतुर्थाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि १४ १६८
सूत्राणि १९ ४९७

(प्रथमे वागादीनां मनसि वृत्तिलयाधिकरणे सूत्रे - )
चतुर्थाध्यायस्य द्वितीयपादे प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
वागादीनां स्वरूपेण वृत्त्या वा मानसे लयः ॥
श्रुति­र्वा­ड्म­न­सी­त्याह स्वरूपविलयस्ततः ॥ १ ॥
न लीयतेऽनुपादाने कार्यं वृत्तिस्तु लीयते ॥
वह्नि­वृ­त्ते­र्जले शान्ते­र्वा­क्शब्दो वृत्तिलक्षकः ॥ २ ॥
उत्क्रा­न्ति­क्र­म­श्छा­न्दोग्ये श्रूयते - "अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यां देवतायाम्" इति तत्र – म्रियमाणस्य पुरुषस्य वागादीनि दशेन्द्रियाणि मनसि लीयन्ते । स च लयः किं स्वरूपेण, वृत्त्या वा - इति संशये सति "वाङ्म­नसि" इति श्रुतौ वृत्ति­श­ब्दा­श्र­व­णा­त्स्व­रू­प­लयः ॥
इति प्राप्ते, बूमः - मनसो वागादिकं प्रत्य­नु­पा­दा­न­त्वात् उपादान एव कार्यस्य स्वरूपलयः इति मृद्घटादौ व्याप्ति­द­र्श­नान्न वागादीनां स्वरूपेण लयः । वृत्ति­स्त्व­नु­पा­दा­नेऽपि लयमर्हति । अङ्गारेषु जलमध्ये प्रक्षिप्तेषु वह्नि­वृ­त्ते­र्दा­ह­प्र­का­शा­त्मि­काया अनुपादाने जले लयदर्शनात् । श्रुतौ तु वाक्शब्देन वृत्ति­र्ल­क्ष्यते । वृत्ति­वृ­त्ति­म­तो­र­भे­दो­प­चा­रात् - वागादीनां मनसि वृत्तिलयः ॥

(द्वितीये मनसः प्राणे लयाधिकरणे सूत्रम् - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
मनः प्राणे स्वयं वृत्त्या वा लीयेत, स्वयं यतः ॥
कार­णा­न्नो­द­क­द्वारा प्राणो हेतुर्मनः प्रति ॥ ३ ॥
साक्षात्स्वहेतौ लीयेत कार्यं प्राणालिके न तु ॥
गौणः प्राणालिको हेतुस्ततो वृत्तिलयो धियः ॥ ४ ॥
वागादिषु मनसि वृत्त्या प्रलीनेषु तन्मनः प्राणे स्वरूपेण लयमर्हति, मनः प्रति प्राण­स्यो­पा­दा­न­त्व­स­म्भ­वात् । तथा हि - "अन्नमयं हि सोम्य मनः" इति श्रुते­र्म­न­सोऽन्नं कारणम् , "आपोमयः प्राणः" इति श्रुतेश्च प्राणस्याऽऽपः कारणम् । तथासति मनः­प्रा­ण­श­ब्दाभ्यां तत्कारणे अन्नोदके उपलक्ष्य 'मनः प्राणे लीयते' इतिवाक्यस्य 'अन्नमप्सु लीयते' इत्यर्थो व्याख्यातव्यः । तथाच कार्यस्य स्वोपादाने लयो भविष्यति तस्मात् - मनसः स्वरूपेण लयः ॥
इति प्राप्ते, ब्रूमः - द्विवि­ध­मु­पा­दा­नम् - मुख्यम्, प्राणालिकं च । तत्र प्राण­म­न­सो­र्मृ­द्घ­ट­यो­रिव न मुख्य उपा­दा­नो­पा­दे­य­भा­वोऽस्ति । किं तर्हि - त्वदु­क्त­प्र­का­रेण सम्बन्धपरम्परया प्रणाल्या । नहि प्राणालिक उपादाने कार्यस्य लयं क्वचित्पश्यामः । तस्मात् - मनसः प्राणे साक्षादनुपादाने वृत्त्या प्रविलयो द्रष्टव्यः ॥

(तृतीये प्राणानां जीवे लयाधिकरणे सूत्राणि - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
असोर्भूतेषु जीवे वा लयो, भूतेषु तच्छ्रुतेः ॥
स प्राण­स्ते­ज­सी­त्याह न तु जीव इति क्वचित् ॥ ५ ॥
एवमेवेममात्मानं प्राणा यन्तीति च श्रुतेः ॥
जीवे लीत्वा सहैतेन पुनर्भुतेेषु लीयते ॥ ६ ॥
अन्त­र्ली­नै­का­द­शे­न्द्रि­य­यु­क्तस्य प्राणस्य तेजोबन्नेषु भूतेषु वृत्त्या प्रविलयः । न तु जीवे, "प्राण­स्ते­जसि" इति श्रुतेः ॥
इति प्राप्ते, ब्रूमः - "एव­मे­वे­म­मा­त्मा­न­म­न्त­काले सर्वे प्राणा अभि­स­मा­यन्ति" इति श्रुतिजीवे प्राणलयमाह । 'यथा राजानं प्रयियासन्तं सर्वे भृत्याः समायन्ति, तद्वत्' इति श्रुतेरर्थः । न च "प्राण­स्ते­जसि" इति श्रुत्या विरोधः जीवेन सहितः प्राणः पश्चा­त्ते­ज­आ­दि­भु­तेषु लीयते इति व्याख्यातुं शक्यत्वात् । तस्मात् - प्राणो जीवे प्रथमतो लयं प्राप्य पश्चा­त्त­द्द्वारा भूतेषु लीयते ॥

(चतुर्थे ज्ञान्य­ज्ञा­नि­नो­रु­त्क्रा­न्ति­सा­मा­न्या­धि­क­रणे सूत्रम् - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
ज्ञान्य­ज्ञो­त्क्रा­न्ति­र­समा समा वा, न हि सा समा ॥
मोक्ष­सं­सा­र­रू­पस्य फलस्य विषमत्वतः ॥ ७ ॥
आसृत्युपक्रमं जन्म वर्तमानमतः समा ॥
पश्चात्तु फल­वै­ष­म्या­द­स­मो­त्क्रा­न्ति­रे­तयोः ॥ ८ ॥
'निर्गु­ण­ब्र­ह्म­ज्ञा­नि­न­स्ता­व­दु­त्क्रा­न्ति­रेव नास्ति' - इति वक्ष्यति । या तु सगु­ण­ब्र­ह्म­ज्ञा­निन उत्कान्तिः नासा­व­ज्ञा­न्यु­त्क्रान्त्या समाना, ब्रह्मलोकरूपस्य मोक्षस्य, तद्विप रीत­सं­सा­र­स्व­रू­पस्य च फलस्य विषमत्वेन तत्प्रा­प्ति­द्वा­र­भू­ताया उत्क्रा­न्ते­र्वै­ष­म्य­स्यो­चि­त­त्वात् ॥
इति प्राप्ते, ब्रूमः - सगुणज्ञानिनो मूर्ध­न्य­ना­डी­प्र­वेशः, उत्त­र­मा­र्गो­प­क्रमः, ज्ञानरहितस्य नाड्य­न्त­र­प्र­वेशो मार्गा­न्त­रो­प­क्रमः, मार्ग­प­र्य­न्त­मि­द­मेव वर्तमानं जन्म, अत ऐहि­क­सु­ख­दुः­ख­व­दु­त्क्रा­न्ति­रपि समाना । उपक्रान्ते तु मार्गे त्वदु­क्त­फ­ल­भे­दा­द्वै­ष­म्य­मस्तु ॥

(पञ्चमे, उपासकस्य ब्रह्मणि स्वरूपेण लय­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
स्वरूपेणाथ वृत्त्या वा भूतानां विलयः परे ॥
स्वरूपेण लयो युक्तः स्वोपादाने परात्मनि ॥ ९ ॥
आत्मज्ञस्य तथात्वेऽपि वृत्त्यै­वा­न्यस्य तल्लयः ॥
न चेत्कस्यापि जीवस्य न स्याज्ज­न्मा­न्तरं क्वचित् ॥ १० ॥
"तेजः परस्यां देवतायाम्" इत्यत्र तेजःप्रभृतीनां भूतानां परमात्मनि स्वरूपेण लयो युज्यते, परमात्मनो भूतोपादानत्वात् ॥
इति प्राप्ते, ब्रूमः - आत्म­त­त्त्व­ज्ञा­नि­न­स्त्व­दु­क्त­प्र­का­रेण भूतानां स्वरूपेण लयोऽस्तु । तस्य निर्णे­ष्य­मा­ण­त्वात् । उपासकस्य कर्मिणश्च जन्मा­न्त­र­सि­द्धये वृत्तिलय एवा­भ्यु­प­ग­न्तव्यः ॥

(षष्ठे ज्ञानिनः प्राणानां देहा­द­नु­त्क्रा­न्त्य­धि­क­रणे सूत्राणि - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
किं जीवादथवा देहा­त्प्रा­णो­त­त्क्रा­न्ति­र्नि­वा­र्यते ॥
जीवान्निवारणं युक्तं जीवे­द्दे­होऽ­न्यथा सदा ॥ ११ ॥
तप्त­श्म­ज­ल­व­द्देहे प्राणानां विलयः स्मृतः ॥
उच्छ्वयत्येव देहोऽन्ते देहात्सा विनिवार्यते ॥ १२ ॥
"न तस्य प्राणा उत्क्रा­मन्ति" इति तत्त्वविदः प्राणा­ना­मु­त्क्रा­न्ति­र्नि­षि­ध्यते । तस्य निषेधस्यापादानं जीवः, न तु देहः । अन्यथा देहा­द­नु­त्क्रान्तौ मरणाभावः प्रसज्येत ॥
इति प्राप्ते, ब्रूमः - तप्ताश्मनि प्रक्षिप्तं जलं न यथाऽन्यत्र गच्छति, नापि तत्र दृश्यते, किन्तु स्वरूपेण लीयते । तद्व­त्त­त्त्व­विदः प्राणा देहा­द­नु­त्क्रान्ता अपि न देहेऽवतिष्ठन्ते किन्तु विलीयन्ते । अतो जीवनासम्भवात् 'मृतो देहः' इति व्यवहारः । अनु­त्क्रा­न्तानां प्राणानां देहावस्थानाभावे देह­स्यो­च्छू­न­त्व­मेव लिङ्गम् । ननु - इयतः प्रयासाद्वरं देहा­दु­त्क्रा­न्ति­रस्तु, प्रतिषेधस्तु जीवापादानको भविष्यति । मैवम् , देहा­दु­त्क्रा­न्तस्य जीवेन सहावस्थितेषु प्राणेषु देहा­न्त­र­ग्र­ह­ण­स्याऽऽ­व­श्य­क­त्वा­न्मु­क्ति­रेव न स्यात् । तस्मात् - उत्क्रा­न्ति­प्र­ति­षे­धस्य देह एवापादनं, न जीवः ॥

(सप्तमे तत्त्व­वि­त्प्रा­णानां परमात्मन्येव लयाधिकरणे सूत्रम् - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
ज्ञस्य वागादयः स्वस्वहेतौ लीनाः परेऽथ वा ॥
गताः कला इति श्रुत्य स्वस्वहेतुषु तल्लयः ॥ १३ ॥
नद्य­ब्धि­ल­य­सा­म्यो­क्ते­र्वे­द्व­द्दृष्ट्या लयः परे ॥
अन्यदृष्टिपरं शास्त्रं गता इत्या­द्यु­दा­हृ­तम् ॥ १४ ॥
तत्त्वज्ञानिनो वागादयः प्राणा विलीयमानाः प्राति­स्वि­के­ष्व­ग­न्न्या­द्य­धि­क­र­णेषु विलीयन्ते, न तु परमात्मनि "गताः कलाः पञ्चदश प्रतिष्ठाः" इति कला­श­ब्द­वा­च्यानां प्राणादीनां प्रति­ष्टा­श­ब्द­वा­च्य­स्व­स्व­का­र­ण­प्रा­प्ति­प्र­ति­पा­द­क­त्वात् । "यत्रास्य पुरुषस्याग्निं वागप्येति, वातं प्राणः चक्षु­रा­दि­त्यम्" इत्यादिश्रुतेः ॥
इति प्राप्ते, ब्रूमः - तत्त्वविदो दृष्ट्या परमात्मन्येव लय इति श्रुत्य­न्त­रा­न्नि­श्ची­यते । यथा "नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय, तथा विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति श्रुतौ नद्य­ब्धि­ल­य­दृ­ष्टान्त उपन्यस्यते । अथ – दार्ष्टान्तिके परमात्मानि लय इत्ययमर्थो न विशदः - तर्हि श्रुत्यन्तरे विशदो गम्यते - "यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, 'समुद्रः' इत्येवं प्रोच्यते, एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, 'पुरुष' इत्येवं प्राोच्यते" इति । भिद्येते विलीयेते । सेयं श्रुति­स्त­त्त्व­वि­दृ­ष्टि­वि­षया । "गताः कलाः" इति शास्त्रं तु तट­स्थ­पु­रु­ष­प्र­ती­ति­वि­ष­यम् । म्रियमाणे तत्त्वविदि समीपवर्तिनः पुरुषाः स्वस्व­दृ­ष्टा­न्तेन तदी­य­वा­गा­दी­ना­म­प्य­ग्न्या­दिषु लयं मन्यन्ते । अतः श्रुत्योर्न विरोधः । तस्मात् - परमात्मनि तत्त्वविदः प्राणानां लयः ॥

(अष्टमे तत्त्व­वि­द्वा­गा­दि­ल­यस्य निःशे­ष­त्वा­धि­क­रणे सूत्रम् - )
अष्ट­मा­धि­क­र­ण­मा­र­च­यति -
तल्लयः शक्तिशेषेण निःशे­षे­णा­थ­वाऽऽ­त्मनि ॥
शक्तिशेषेण युक्तोऽ­सा­व­ज्ञा­नि­ष्वे­त­दी­क्ष­णात् ॥ १५ ॥
नाम­रू­प­वि­भे­दो­क्ते­र्निः­शे­षे­णैव तल्लयः ॥
अज्ञे जन्मान्तरार्थं तु शक्ति­शे­ष­त्व­मि­ष्यते ॥ १६ ॥
पूर्वाधिकरण उक्तो लयो न निःशेषः, किन्तु सावशेषो भवितुमर्हति, वागादिलयत्वात् , अज्ञा­नि­वा­गा­दि­ल­य­वत् ॥
इति प्राप्ते, ब्रूमः - "भिद्येते तासां नामरूपे" इत्यत्र जीवस्य याः षोडशकलाः संसारहेतवः, तासां कलानां नामरूपविभेदः श्रूयते । कलाश्च वाक्यो­प­क्र­मेऽ­नु­क्रान्ताः - "स प्राणमसृजत, प्राणा­च्छ्रद्धां खं वायु­र्ज्यो­ति­रापः पृथिवीन्द्रियं मनोऽन्नम् , अन्नाद्वीर्यं तपो मन्त्राः कर्म लोकाः, लोकेषु च नाम च" इति । यदि प्राणादीनां नामान्तानां नामरूपे शक्त्यवशेषेण लीयेते, तदा नाम­रू­प­वि­भे­द­श्रु­ति­रु­प­रु­ध्यते, शक्त्यात्मान नामरूपयोः सूक्ष्म­यो­र­व­स्था­नात् अज्ञानिनस्तु जन्मा­न्त­र­सि­द्धये शक्त्य­व­शे­ष­त्व­मि­ष्यते । तस्मात् - तत्त्वविदो वागादीनां निःशेषेण परमात्मनि लयः ॥

(नवमे, उपा­स­को­त्क्रा­न्ते­र्वि­शे­षा­धि­क­रणे सूत्रम् - )
नव­मा­धि­क­र­ण­मा­र­च­यति -
अविशेषो विशेषो वा स्यादु­त्क्रा­न्ते­रु­पा­सितुः ॥
हृत्प्र­द्यो­त­न­सा­म्यो­क्ते­र­वि­शे­षोऽ­न्य­नि­र्ग­मात् ॥ १७ ॥
मूर्धन्ययैव नाड्याऽसौ व्रजे­न्ना­डी­वि­चि­न्त­नात् ॥
विद्या­सा­म­र्थ्य­त­श्चापि विशे­षोऽ­स्त्य­न्य­नि­र्ग­मात् ॥ १८ ॥
उपासकस्य येय­मु­त्क्रान्तिः, सेय­मि­त­रो­त्क्रान्त्या मार्गो­प­क्र­म­प­र्यन्तं समा - इत्युक्तम् । अथ मार्गोपक्रमेऽपि समैव भवितुमर्हति, हृत्प्र­द्यो­त­नादेः समत्वश्रवणात् । तथा हि - "तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्रो वाऽन्येभ्यो वा शरी­र­दे­शेभ्यः" इति श्रूयते । अस्यायमर्थः - 'वाड्मनसि सम्पद्यते' इति क्रमेण सजीवं लिङ्गशरीरं शक्त्यशेषं परमात्मनि यदा लीयते, तदा पूर्वजन्म समाप्तं भवति । अथ जन्मान्तराय तल्लिङ्गं पुनर्हृदये प्रादुर्भवति, तस्मिन्नवसरे हृद­या­ग्नेऽ­व­स्थि­तस्य लिङ्गस्य गन्त­व्य­भा­वि­ज­न्मा­लो­च­का­त्म­कोऽ­न्त्य­प्र­त्य­य­त्वेन लोके प्रसिद्धः कश्चि­त्प्र­द्योतो भवति, तेन युक्तः सन्नाडीभ्यो निर्गच्छति इति । एतच्च सर्वेषां समानम् । तस्मात् - नोपा­स­क­स्ये­त­रेभ्यो विशेषः ॥
इति प्राप्ते, ब्रूमः - मूर्धन्ययैव नाड्योपासको निर्गच्छति, इतराभ्य एव नाडीभ्य इतरे । कुतः - उपासकेन मूर्ध­न्य­ना­ड्या­श्चि­न्ति­त­त्वात् । सगु­ण­ब्र­ह्म­वि­द्या­सा­म­र्थ्याच्च । श्रुत्यन्तरे चायमर्थः स्पष्टमेव गम्यते -
"शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिः सृतैका ॥
तयो­र्ध्व­मा­य­न्न­मृ­न­त­त्व­मेति विष्वङन्या उत्क्रमणे भवन्ति" इति ।
'अन्या नाड्य उत्क्र­म­णा­यो­प­यु­ज्यन्ते, न त्वमृ­त­त्व­प्रा­प्तये' इत्यर्थः । तस्मात् - अस्त्युपासकस्य विशेषः ॥

(दशमे रात्रिमृतस्यापि रश्म्य­नु­सा­रि­त्वा­धि­क­रणे सूत्रे - )
दश­मा­धि­क­र­ण­मा­र­च­यति -
अहन्यव मृतो रश्मीन्याति निश्यपि वा निशि ॥
सूर्य­र­श्मे­र­भा­वेन मृतोऽहन्येव याति तम् ॥ १९ ॥
यावद्देहं रश्मि­ना­ड्यो­र्योगो ग्रीष्म­क्ष­पा­स्वपि ॥
देह­दा­हा­च्छ्रु­त­त्वाच्च रश्मीन्निश्यपि यात्यसौ ॥ २० ॥
"अथैतैरेव रश्मि­भि­रू­र्ध्व­मा­क्र­मते" इति मूर्धन्यनाड्या निर्गतस्य रश्मिसम्बन्धः श्रूयते । स चाहन्येव मृतस्य सम्भवति । न तु रात्रौ, रश्म्यभावात् ॥
इति प्राप्ते, ब्रूमः - रश्मिनाड्योः सम्बन्धो यावद्देहभावी । अत एव ग्रीष्मनिशासु देहदाह उपलभ्यते । ऋत्वन्तरेषु तु प्रति­षि­द्ध­त्वा­द­नु­प­लम्भः । श्रुतिश्च रश्मि­ना­ड्यो­र­वि­योगं दर्शयति - "अमु­ष्मा­दा­दि­त्या­त्प्र­ता­यन्ते ता आसु नाडीषु सृप्ताः, आभ्यो नाडीभ्यः प्रतायन्ते तेऽमु­ष्मि­न्ना­दित्ये सृप्ताः" इति तस्मात् - निश्यपि मृतो रश्मीन्याति ॥

(एकादशे, अयनाधिकरणे - तत्त्वविदो दक्षिणायनेऽपि विद्याफलाधिकरणे सूत्रे - )
एका­द­शा­धि­क­र­ण­मा­र­च­यति -
अयने दक्षिणे मृत्वा धीफलं नैत्यथैति वा ॥
नैत्यु­त्त­रा­य­णा­द्यु­क्ते­र्भी­ष्म­स्यापि प्रतीक्षणात् ॥ २१ ॥
आति­वा­हि­क­दे­वो­क्ते­र्व­र­ख्यात्यै प्रतीक्षणात् ॥
फलैकान्त्याच्च विद्यायाः फलं प्राप्नो­त्यु­पा­सकः ॥ २२ ॥
दक्षिणायने मृतस्योपासकस्य न विद्याफलं ब्रह्म­लो­क­प्राप्तिः सभवति, उत्तरायणस्य ब्रह्म­लो­क­मा­र्गस्य श्रुतिस्मृत्योः पाठात् । दक्षिणायने मृतस्यापि विद्या­फ­ला­ङ्गी­कारे भीष्म­स्यो­त्त­रा­य­ण­प्र­ती­क्षणं निरर्थकं स्यात् ॥
इति प्राप्ते, ब्रूमः - 'नोत्त­रा­य­ण­श­ब्देन कालो विवक्षितः किं त्वाति­वा­हि­क­दे­वता' इति (ब्र० सू० ४ । ३ । ४) वक्ष्यति । भीष्मस्य प्रतीक्षणं तु पितृ­प्र­सा­द­ल­ब्ध­स्व­च्छ­न्द­म­र­ण­व­र­ख्या­प­नाय । यदि काल­वि­शे­ष­म­र­णा­प­रा­धेन फलं न प्राप्नुयात् , तर्हि पाक्षिकफला विद्या प्रसज्येत । तस्मात् - दक्षिणायणे मृतोऽपि विद्याफलं प्राप्नोति ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां चतुर्थाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ११ १७९
सूत्राणि २१ ५१८

(प्रथमे, अर्चिरादिकस्यैव ब्रह्म­लो­क­मा­र्ग­ता­धि­क­रणे सूत्रम् - )
तृतीयपादे प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
नानाविधो ब्रह्मलोकमार्गो यद्वाऽ­र्चि­रा­दिकः ॥
नानाविधः स्याद्विद्यासु वर्ण­ना­द­न्य­थाऽ­न्यथा ॥ १ ॥
एक एवार्चिरादिः स्यान्ना­ना­श्रु­त्यु­क्त­प­र्वकः ॥
यतः पञ्चा­ग्नि­वि­द्यायां विद्यान्तरवतां श्रुतः ॥ २ ॥
ब्रह्म­लो­क­मा­र्ग­श्छा­न्दो­ग्य­बृ­ह­दा­र­ण्य­कयोः पञ्चा­ग्नि­वि­द्या­या­म­र्चि­रा­दिकः पठितः - "तेऽर्चि­ष­म­भि­स­म्भ­वन्ति", "अर्चि­षोऽहः" - इति । विद्यान्तरे तु वाय्वादिकः - "स वायु­मा­ग­च्छति" इति । कौषीतकिनः पर्य­ङ्क­वि­द्या­या­म­ग्नि­लो­का­दि­क­मा­म­नन्ति - "स एतं देवयानं पन्था­न­मा­प­द्या­ग्नि­लो­क­मा­ग­च्छति" इति । एवमन्यत्रापि द्रष्टव्यम् । तस्मात् - बहुविधो मार्गः ॥
इति प्राप्ते, ब्रूमः - अर्चिरादिक एक एव मार्गः । कुतः - पञ्चा­ग्नि­वि­द्या­वा­क्य­शेषे पञ्चा­ग्नि­वि­द्या­विदो विद्या­न्त­रो­पा­स­कां­श्चो­द्दि­श्या­र्चि­रा­दि­मा­र्ग­स्यैव पठितत्वात् । "य इत्थं विदुः, ये चेमेऽरण्ये श्रद्धां तप इत्युपासते, तेऽर्चि­ष­म­भि­स­म्भ­वन्ति" इति श्रुत्य­न्त­रो­क्तानां वाय्वादीनां गुणो­प­सं­हा­र­न्या­ये­ना­र्चि­रा­दि­मा­र्ग­प्र­वेशे सति तत्पू­र्व­त्व­स­म्भ­वात् । तस्मात् - अर्चिरादिमार्ग एक एव ॥

(द्वितीये वायोः संनिवेशाधिकरणे सूत्रम् - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
संनिवेशयितुं वायु­र­त्रा­श­क्योऽथ शक्यते ॥
न शक्यो वायुलोकस्य श्रुत­क्र­म­वि­व­र्ज­नात् ॥ ३ ॥
वायु­च्छि­द्रा­द्वि­नि­ष्क्रम्य स आदित्यं व्रजेदिति ॥
श्रुते­र­र्वा­ग्र­वे­र्वा­यु­र्दे­व­लो­क­स्त­तोऽ­प्यधः ॥ ४ ॥
"तेऽर्चि­ष­म­भि­स­म्भ­वन्ति, अर्चिषोऽहः, अन्ह आपूर्यमाणपक्षम् , आपू­र्य­मा­ण­प­क्षा­द्या­न्ष­डु­द­ङ्ङेति मासांस्तान् , मासेभ्यः संवत्सरम् , संव­त्स­रा­दा­दि­त्यम् , आदि­त्या­च्च­न्द्र­म­सम् , चन्द्रमसो विद्युतम् , तत्पु­रु­षोऽ­मा­नवः, स एतान्ब्रह्म गमयति" इति श्रूय­मा­णेऽ­र्चि­रा­दि­मार्गे शाखान्तरे श्रुतो वायुः केनापि संनि­वे­शे­ना­न्त­र्भा­व­यि­तु­म­शक्यः 'अस्योपरि वायुः' इति क्रम­स्या­श्रु­त­त्वात् , कल्पकाभावाच्च ॥
इति प्राप्ते, ब्रूमः - श्रुत्यन्तरं तत्कल्पकम् । तथाहि - "स वायुमागच्छति तस्मै स विजिहीते यथा रथचक्रस्य खम् , तेन स ऊर्ध्व आक्रमते स आदि­त्य­मा­ग­च्छति" इति । इतो निर्गत्योपासको यदा वायुमागच्छति, तदा तद्वायुमण्डलं छिद्रितं भवति, तेन रथ­च­क्र­च्छि­द्र­प्र­मा­णेन वायुच्छिद्रेण वायु­म­ण्ड­ल­मु­ल्ल­ङ्ध्याऽऽ­दि­त्य­म­ण्डलं प्राप्नोति इत्यर्थः । एवं च वायो­रा­दि­त्या­त्पू­र्व­त्व­प्र­तीतेः क्रम­वि­शे­षोऽ­व­गन्तुं शक्यते । - "मासेभ्यः संवत्सरम् , संव­त्स­रा­द्वा­युम् , वायो­रा­दि­त्यम्" इत्येवं सन्निवेशः कर्तव्यः । बृहदारण्यके तु - मासानन्तरं संवत्सरं परित्यज्य तस्य स्थाने देवलोकः पठितः । स च संवत्सरानन्तरं वायो­र­र्वा­ङ्नि­वे­श­यि­तव्यः, माससंवत्सरयोः सम्बन्धित्वेन प्रसि­द्ध­यो­रा­न­न्त­र्य­स्या­नि­वा­र­णी­य­त्वात् । तदेवं संव­त्स­रा­दि­त्य­यो­र्मध्ये देवलोकवायुलोकौ संनिवेशयितव्यौ ॥

(तृतीये, वरुणादिलोकानां व्यवस्थाधिकरणे सूत्रम् - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
वरुणादेः संनिवेशो नास्ति तत्रोत विद्यतेे ॥
नास्ति वायोरिवैतस्य व्यव­स्था­श्रु­त्य­भा­वतः ॥ ५ ॥
विद्यु­त्स­म्ब­न्धि­वृ­ष्टि­स्थ­नी­र­स्या­धि­प­ति­त्वतः ॥
वरुणो विद्यु­तोऽ­स्त्यूर्ध्वं तत इन्द्रप्रजापती ॥ ६ ॥
कौषीतकिनः पठन्ति - "स वरुणलोकम् , स इन्द्रलोकम् , स प्रजा­प­ति­लो­कम्" इति । ते वरुणादयस्त्रयो लोका अर्चिरादिमार्गे निवे­श­यि­तु­म­शक्याः, वायोरिव व्यव­स्था­प­का­भा­वात् ॥
इति प्राप्ते, ब्रूमः - विद्यु­ल्लो­क­स्यो­परि वरुणलोकः सम्ब­न्ध­व­शा­द्व्य­व­स्था­प्यते, 'विद्यु­त्पू­र्व­क­वृ­ष्टि­ग­त­नी­रस्य वरु­णोऽ­धि­पतिः' - इति विद्युद्वरुणयोः सम्बन्धः । इन्द्र­प्र­जा­प­त्योस्तु स्थाना­न्त­रा­स­म्भ­वेऽपि 'आग­न्तु­का­ना­मन्ते संनिवेशः' इति न्यायेन वरुणलोकस्योपरि संनिवेशः । तदेवं वरुणादीनां संनि­वे­शा­द­र्चि­रा­दि­मार्गो व्यवस्थितः ॥

(चतुर्थे, अर्चि­रा­दी­ना­मा­ति­वा­हि­क­त्वा­धि­क­रणे सूत्राणि - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
मार्गचिह्नं भोगभूर्वा नेतारो वाऽर्चिरादयः ॥
आद्यौ स्यातां मार्ग­चि­ह्न­सा­रू­प्या­ल्लो­क­श­ब्दतः ॥ ७ ॥
अन्ते गम­य­ती­त्यु­क्ते­र्ने­ता­र­स्तेषु चेदृशः ॥
निर्दे­शोऽ­स्त्यत्र लोकाख्या तन्नि­वा­सि­ज­ना­न्प्रति ॥ ८ ॥
य एतेऽर्चिरादयः श्रुताः, ते मार्गचिह्नानि भवितुमर्हन्ति, लौकि­क­मा­र्ग­चि­न्ह­सा­रू­ण्येण निर्दि­श्य­मा­न­त्वात् । लोका हि मार्गज्ञानायैवं निर्दिशन्ति - ग्रामा­न्नि­र्गत्य नदीं व्रज, ततः पर्वतम् , ततो घोषम् , इति । तद्वदत्रापि - "अर्चि­षोऽहः, अह्न आपू­र्य­मा­ण­प­क्षम्" इति निर्दिश्यते । तस्मात् - मार्गचिह्नानि । यद्वा - ब्रह्मलोकं जिग­मि­षो­र्वि­श्रा­म­स्थान – भोग­भू­म­योऽ­र्चि­रा­दयः । कुतः - वायुलोकम् , वरुणलोकम् , इति प्रयुक्तस्य लोकशब्दस्य भोगभूमौ प्रसिद्धत्वात् ॥
इति प्राप्ते, ब्रूमः - "तत्पु­रु­षोऽ­मा­नवः, स एतान्ब्रह्म गमयति" इत्यन्ते श्रूय­मा­ण­स्या­मा­न­वस्य विद्यु­त्पु­रु­षस्य नेतृत्वावगमात् , । तत्सा­ह­च­र्ये­णा­र्चि­रा­द­योऽ­प्या­ति­वा­हि­क­दे­वता इत्यवगम्यते । यत्तु - निर्दे­श­सा­म्य­मु­क्तम् , तदा­ति­वा­हि­क­दे­व­ता­स्वपि समानम् , 'गच्छ त्वमितो बलवर्माणम् , ततो जयगुप्तम् , ततो देवदत्तम्' , इत्या­दि­नि­र्दे­श­द­र्श­नात् । लोक­श­ब्द­स्तू­पा­स­कानां तत्र भोगा­भा­वेऽ­प्या­ति­वा­हि­क­दे­वानां योग­म­पे­क्ष्यो­प­प­द्यते । तस्मात् - आतिवाहिका अर्चिरादयः ॥

(पञ्चमे कार्यब्रह्मण एवो­त्त­र­मा­र्ग­ग­म्य­त्वा­धि­क­रणे सूत्राणि - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
परं ब्रह्माथ वा कार्य­मु­द­ङ्मा­र्गेण गम्यते ॥
मुख्य­त्वा­द­मृ­त­त्वो­क्ते­र्ग­म्यते परमेव तत् ॥ ९ ॥
कार्यं स्याद्ग­ति­यो­ग्य­त्वा­त्प­र­स्मिं­स्त­द­स­म्भ­वात् ॥
सामी­प्या­द्ब्र­ह्म­श­ब्दो­क्ति­र­मृ­तत्वं क्रमाद्भवेत् ॥ १० ॥
"स एतान्ब्रह्म गमयति" इति श्रूयमाणं य़दु­त्त­र­मा­र्ग­प्राप्यं वस्तु, तत्परं ब्रह्म भवितुमर्हति । कुतः - ब्रह्मशब्दस्य तत्र मुख्यत्वात् । "तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति" इत्य­मृ­त­त्व­क­थ­नाच्च ॥
इति प्राप्ते, ब्रूमः - सत्यलोकाख्यं कार्यं ब्रह्म, उपा­स­क­व्य­ति­रि­क्त­त्वा­त्प­रि­च्छि­न्न­त्वाच्च गति­पू­र्व­क­प्रा­प्ति­यो­ग्यम् , न तु तथा परं ब्रह्म, तस्य सर्वगत्वात् । उपा­स­क­स्व­रू­प­त्वाच्च । ब्रह्मशब्दस्तु मुख्या­र्था­स­म्भ­वेन सामी­प्य­स­म्ब­न्धा­त्स­त्य­लो­क­मा­चष्टे । समीपो हि सत्यलोकः परब्रह्मणः तल्लोकवासिनां तत्त्व­ज्ञा­नेऽ­व­श्य­म्भा­विनि सति पुन­र्ज­न्म­व्य­व­धा­न­म­न्त­रेण मोक्ष्य­मा­ण­त्वात् । अत एव स्मृतिराह -
"ब्रह्मणा सह ते सर्वे प्राप्ते च प्रतिसञ्चरे ॥
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इति ।
एवं च सत्य­मृ­त­त्व­श्रुतिः क्रम­मु­क्त्य­भि­प्राया । तस्मात् - उत्तरमार्गेण प्राप्यं कार्यं ब्रह्म ॥

(षष्ठे प्रतीकोपासकानां ब्रह्म­लो­क­ग­ति­नि­रा­क­र­णा­धि­क­रणे सूत्रे - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
प्रती­को­पा­स­का­न्ब्र­ह्म­लोकं नयति वा नवा ॥
अवि­शे­ष­श्रु­ते­रे­ता­न्ब्र­ह्मो­पा­स­क­व­न्न­येत् ॥ ११ ॥
ब्रह्म­क्र­तो­र­भा­वेन प्रती­का­र्ह­फ­ल­श्र­वात् ॥
न तान्नयति पञ्चग्निविदो नयति तच्छ्रुतेः ॥ १२ ॥
"स एतान् ब्रह्म गमयति" इति श्रूयमाणोऽमानवः षुरुषो ब्रह्मो­पा­स­क­व­त्प्र­ती­को­पा­स­का­नपि सत्यलोकं प्रापयति, अविशेषश्रवणात् ॥
इति प्राप्ते, ब्रूमः - "तं यथा यथोपासते तदेव भवति" इति श्रुतौ ब्रह्मभावनारूपः ऋतु­र्ब्र­ह्म­प्रा­प्ति­हे­तु­रि­त्य­व­ग­म्यते । न हि प्रतीकोपासकानां ब्रह्म­क्र­तु­रस्ति, येन ते सत्यलोकं गच्छेयुः । किञ्च यथा­प्र­ती­क­म­र्वा­ची­नानि फलानि तेषु श्रूयन्ते - "याव­न्नाम्नो गतं तत्रास्य यथाकामचारो भवति" इति । 'नाम­ब्र­ह्मो­पा­सितुः शब्द­शा­स्त्रा­दि­ल­क्षणे नामविशेषे स्वातन्त्र्यं भवति' इत्यर्थः । कथं तर्हि पञ्चाग्निविदां प्रतीकोपासकानां सत्य­लो­क­प्राप्तिः - 'वच­न­ब­लात्' इति ब्रूमः । तस्मात् - प्रायतो न प्रती­को­पा­स­का­न्स­त्य­लोकं प्रापयति ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां चतुर्थाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि ६ १८५
सूत्राणि १६ ५३४

(प्रथमे मुक्ते­र्न­वी­न­त्व­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
चतुर्थाध्यायस्य चतुर्थपादे प्रथ­मा­धि­क­र­ण­मा­र­च­यति -
नाकवन्नूतनं मुक्तिरूपं यद्वा पुरातनम् ॥
अभि­नि­ष्प­त्ति­व­च­ना­त्फ­ल­त्वा­दपि नूतनम् ॥ १ ॥
स्वेन रूपेणेति वाक्ये स्वश­ब्दा­त्त­त्पु­रा­त­नम् ॥
आवि­र्भा­वोऽ­भि­नि­ष्पत्तिः फलं चाज्ञानहानितः ॥ २ ॥
"एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते" इति श्रूयते । "अस्या­य­मर्थः सम्य­क्प्र­सी­द­त्यु­पा­ध्यु­प­शान्तौ", इति सम्प्रसादो जीवः । स च शरीरत्रयाभिमानं परित्यज्य परं ब्रह्म प्राप्य मुक्ति­रू­पे­णा­व­ति­ष्ठते, - इति । तत्र – एतन्मुक्तिरूपं न जीवस्य पूर्वसिद्धम् , किन्तु स्वर्ग­व­दा­ग­न्तु­कम् । कुतः - "अभि­नि­ष्प­द्यत" इत्यु­त्पा­द्य­त्व­श्र­व­णात् । पूर्वसिद्धत्वे संसारदशायामपि सद्भावेन फलत्वं न स्यात् । तस्मात् - स्वर्गवदिदं नूतनं मुक्तिरूपम् ॥
इति प्राप्ते, ब्रूमः - "स्वेन रूपे­णा­भि­नि­ष्प­द्यते" इति स्वशब्देन विशे­षि­त­त्वा­त्पू­र्व­मपि विद्यत एवेदं मुक्तिरूपम् । नच – अत्र स्वशब्दः स्वकीयमभिधत्ते, विशे­ष­ण­वै­य­र्थ्य­प्र­स­ङ्गात् – यद्यद्रूपं मुक्ता­वु­पा­दत्ते, तत्तत्स्वकीयमेव – इति कस्य व्यावृत्तये विशेष्येत । आत्मवाचित्वे तु स्वशब्दस्य स्वकी­य­त्व­व्या­वृत्तिः प्रयोजनम् । नच – अभि­नि­ष्प­त्ति­रु­त्पत्तिः, पूर्व­सि­द्ध­स्यो­त्प­त्ते­र­स­म्भ­वात् । किं तर्हि­त­त्त्व­ज्ञा­नेन ब्रह्म­त्वा­वि­र्भा­वोऽ­भि­नि­ष्पत्तिः । नच – एवंसति 'उप­स­म्पद्य, अभि­नि­ष्प­द्यते' इत्यनयोः पुनरुक्तिः - इति शङ्कनीयम् , उप­स­म्प­त्ति­श­ब्देन तत्प­दा­र्थ­शो­ध­नस्य विवक्षितत्वात् । अभि­नि­ष्प­त्तिस्तु वाक्यार्थावबोधः । नच – पूर्वसिद्धत्वे मुक्तिरूपस्य फलत्वविरोधः, निवृ­त्ता­ज्ञा­न­त्वा­का­रेण पूर्व­सि­द्ध­त्वा­भा­वात् । तस्मात् - पुरातनं वस्त्वेव मुक्तिरूपम् ॥

(द्वितीये मुक्ते­र्ब्र­ह्म­भि­न्न­ता­नि­रा­क­र­णा­धि­क­रणे सूत्रम् - )
द्विती­या­धि­क­र­ण­मा­र­च­यति -
मुक्त­रू­पा­द्ब्रह्म भिन्नमभिन्नं वा, विभिद्यते ॥
सम्पद्य ज्योतिरित्येवं कर्म­क­र्तृ­भि­दो­क्तितः ॥ ३ ॥
अभि­नि­ष्प­न्न­रू­पस्य स उत्तमपुमानिति ॥
ब्रह्म­त्वो­क्ते­र­भिन्नं तद्भे­दो­क्ति­रु­प­चा­रतः ॥ ४ ॥
पूर्वाधिकरणे निर्णीतं यदे­त­न्मु­क्त­स्व­रू­पम् , तत्प­र­स्मा­द्ब्र­ह्मणो भिन्नं भवितुमर्हति । कुतः - कर्म­क­र्तृ­भे­द­व्य­प­दे­शात् । "एष सम्प्रसादः परं ज्योति­रु­प­स­म्पद्य" इत्यत्र सम्प्र­सा­द­श­ब्दो­दितो जीव उपसम्पत्तौ कर्तृत्वेन व्यपदिश्यते । ज्योतिः­श­ब्द­वाच्यं च ब्रह्म कर्मत्वेन । तस्मात् - मुक्तस्य जीवस्य स्वरूपं ब्रह्मणो भिन्नम् ॥
इति प्राप्ते, ब्रूमः - "ज्योति­रु­प­स­म्पद्य" इति वाक्यं तत्प­दा­र्थ­शु­द्धि­वि­ष­य­मु­क्तम् । अतस्तदानीं भेदोऽस्तु नाम । तत उपरि "स्वेन रूपे­णा­भि­नि­ष्प­द्यते" इति वाक्यं वाक्या­र्थ­द­शा­पन्नं मुक्तिस्वरूपं प्रतिपादय़ति । न च – तस्य ब्रह्मणा भेदोऽस्ति, "स उत्तमः" पुरुषः इति वाक्ये तच्छ­ब्दे­ना­भि­नि­ष्प­न्न­रू­प­मु­क्त­स्व­रूपं परामृश्य तस्यो­त्त­म­पु­रु­ष­श­ब्द­वा­च्य­ब्र­ह्म­स्व­रू­प­त्वा­भि­धा­नात् । तस्मात् - मुक्तस्वरूपं ब्रह्माभिन्नम् ॥

(तृतीये सवि­शे­ष­त्वा­दि­व्य­व­स्था­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
तृती­या­धि­क­र­ण­मा­र­च­यति -
क्रमेण युगपद्वाऽस्य सविशेषाविशेषते ॥
विरु­द्ध­त्वा­त्का­ल­भे­दा­द्व्य­वस्था श्रुतयोस्तयोः ॥ ५ ॥
मुक्ता­मु­क्ता­दृ­शो­र्भे­दा­द्व्य­व­स्था­स­म्भवे सति ॥
अविरूद्धं योगपद्यमश्रुतं क्रमकल्पनम् ॥ ६ ॥
मुक्तस्य स्वरूपभूतं ब्रह्म श्रुतिषु द्विधा प्रतिपाद्यते - क्वचित्सविशेषम् । क्वचि­न्नि­र्वि­शे­षम् । तथाहि - "य आत्माऽपहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः सत्यकामः सत्य­स­ङ्कल्पः" इति सवि­शे­ष­त्व­श्रुतिः । "स यथा सैन्ध­व­घ­नोऽ­न­न्त­रोऽ­बाह्यः कृत्स्नो रसघन एव" एवं वा अरेऽ­य­मा­त्माऽ­न­न्त­रोऽ­बाह्यः कृत्स्नः प्रज्ञानघन एव इति निर्वि­शे­ष­त्व­श्रुतिः । ते एते सवि­शे­ष­त्व­नि­र्वि­शे­षत्वे मुक्तिदशायां ब्रह्मणो न युगपत्सम्भवतः, पर­स्प­र­वि­रु­द्ध­त्वात् । अतः कालभेदेनोभे व्यवस्थापनीये ॥
इति प्राप्ते, ब्रूमः - प्रति­प­त्तृ­भे­दा­द्यु­ग­प­देव सवि­शे­ष­त्व­नि­र्वि­शे­षत्वे उपपद्येते । मुक्त­प्र­ति­पत्त्या निर्वि­शे­ष­त्व­मेव, बद्ध­प्र­ति­पत्त्या तु सविशेषं मुक्तस्वरूपं ब्रह्म सर्व­ज्ञ­त्वा­दि­गु­ण­वि­शिष्ट सज्ज­ग­त्का­र­ण­त्वे­ना­व­भा­सते । न हि मुक्ताः पुरुषाः कदाचिदपि 'सर्व­ज्ञ­त्व­स­त्य­स­ङ्क­ल्प­त्वा­दि­गु­ण­युक्ता वयम्' इति प्रतिपद्यन्ते, तत्प्र­ति­प­त्ति­हे­तु­भू­ताया अविद्याया विनाशितत्वात् । बद्ध­स्व­रू­पा­स्त्व­वि­द्या­युक्ताः सन्तो निर्विशेषमेव ब्रह्म "सर्व­ज्ञ­त्वा­दि­वि­शि­ष्टम्" इति कल्पयन्ति । अतः प्रति­प­त्तृ­भे­दा­द्व्य­व­स्था­सिद्धौ किमनेन कालभेदकल्पनेन । तस्मात् - युगपदेव सवि­शे­ष­त्व­नि­र्वि­शे­षत्वे ॥

(चतुर्थे परलोकगोपासकस्य भोग्य­व­स्तु­सृष्टौ सङ्क­ल्प­हे­तु­ता­धि­क­रणे सूत्रे - )
चतु­र्था­धि­क­र­ण­मा­र­च­यति -
भोग्य­सृ­ष्टा­वस्ति बाह्यो हेतुः सङ्कल्प एव वा ॥
आशा­मो­द­क­वै­ष­म्या­द्धे­तु­र्बा­ह्योऽस्ति लोकवत् ॥ ७ ॥
सङ्कल्पादेव पितर इति श्रुत्याऽ­व­धा­र­णात् ॥
सङ्कल्प एव हेतुः स्याद्वैषम्यं चानुचिन्तनात् ॥ ८ ॥
पूर्वा­धि­क­र­ण­त्र­येण विदेहमुक्तौ विचारितायां ब्रह्म­लो­क­ल­क्ष­णाया मुक्ते­र­व­शि­ष्ट­त्वा­त्त­द्वि­चार आपादसमाप्तेः प्रवर्तते । तत्र – अर्चि­रा­दि­मा­र्गेण ब्रह्मलोकं प्राप्त­स्यो­पा­स­कस्य भोग्यवस्तूनां सृष्टौ बाह्य­हे­तु­र­पे­क्षितः, न तु मान­स­स­ङ्क­ल्प­मात्रं तद्धेतुः, तथात्वे सत्या­शा­मो­द­क­स­म­त्वेन पुष्क­ल­भो­गा­भा­व­प्र­स­ङ्गात् ॥
इति प्राप्ते, ब्रूमः - "स यदि पितृलोककामो भवति, सङ्कल्पादेवास्य पितरः समु­त्ति­ष्ठन्ति" इत्यादिना पितृ­मा­तृ­भ्रा­तृ­ग­न्ध­मा­ल्या­दि­भो­ग्य­सृष्टौ सङ्कल्पस्य साध­न­त्व­म­भि­धा­यै­व­का­रेण बाह्यहेतुं निराचष्टे । न च – सङ्क­ल्प­का­र्या­णा­मा­शा­मो­द­क­स­मा­नत्वं शङ्कनीयम् , उपा­र्जि­त­मो­द­क­स­मा­न­त्व­स्यापि सङ्कल्पयितुं शक्यत्वात् । सङ्क­ल्प­श­क्ते­रु­पा­स­ना­प्र­सा­देन निरङ्कुशत्वात् । तस्मात् - सङ्कल्प एव भोग्यसृष्टौ हेतुः ॥

(पञ्चमे देह­भा­वा­भा­व­यो­रै­च्छि­क­ता­धि­क­रणे सूत्राणि - )
पञ्च­मा­धि­क­र­ण­मा­र­च­यति -
व्यव­स्थि­ता­वै­च्छिकौ वा भावाभावौ तनोर्यतः ॥
विरुद्धौ तेन पुम्भेदादुभौ स्यातां व्यवस्थितौ ॥ ९ ॥
एकस्मिन्नपि पुंस्ये­ता­वै­च्छिकौ कालभेदतः ॥
अवि­रो­धा­त्स्व­प्न­जा­ग्र­द्भो­ग­व­द्यु­ज्यते द्विधा ॥ १० ॥
"मन­सै­ता­न्का­मा­न्प­श्य­न्र­मते, य एते ब्रह्म­लोके" इति मानसं भोगमुपपादयन्ती श्रुति­र्बा­ह्य­दे­हस्य सेन्द्रि­य­स्या­भा­व­माह । "स एकधा भवति त्रिधा भवति" इति श्रुति­र्दे­ह­स­द्भावं ब्रूते । तावेतौ देह­भा­वा­भा­वा­वे­क­स्मि­न्पु­रुषे विरुद्धौ । तयोः पुरुषभेदेन व्यवस्थितिः ॥
इति प्राप्ते, ब्रूमः - एकस्यापि पुरुषस्य कालभेदेन तौ व्यवस्थितौ । यदा देहमिच्छति, तदा सङ्कल्पेन देहं सृष्ट्वा तत्रावस्थितो जाग्रद्दशायामिव भोगान्भुङ्क्ते, यदा देहं नेच्छति, तदा सङ्कल्पेन तमेव देहमुपसंहृत्य स्वप्नदशायामिव मनसैव भोगान्भुङ्क्ते । तस्मात् - एकस्यापि पुरुषस्यैच्छिकौ देहभावाभावौ ॥

(षष्ठे ज्ञानि­नोऽ­ने­क­दे­हेषु सात्म­क­त्वा­धि­क­रणे सूत्रे - )
षष्ठा­धि­क­र­ण­मा­र­च­यति -
निरा­त्मा­नोऽ­ने­क­देहाः सात्मका वा, निरात्मकाः ॥
अभे­दा­दा­त्म­म­न­सो­रे­क­स्मि­न्नेव वर्तनात् ॥ ११ ॥
एक­स्मा­न्म­न­सोऽ­न्यानि मनांसि स्युः प्रदीपवत् ॥
आत्म­भि­स्त­द­व­च्छिन्नैः सात्मकाः स्युस्त्रि­धे­त्यतः ॥ १२ ॥
"स एकधा भवति, त्रिधा भवति, पञ्चधा, सप्तधा, नवधा" इति युग­प­द­ने­क­श­री­र­स्वी­कार ऐच्छिक आम्नायते ॥ तत्र – एको देहः सात्मकः, इतरे निरात्मकाः, आत्म­म­न­सो­र्ब­हु­भा­व­स्या­श्रु­त­त्वात् । कल्पकाभावाच्च ॥
इति प्राप्ते, ब्रूमः - अस्ति कल्पकं युग­प­द­ने­क­दे­ह­भो­गा­नु­प­प­त्ति­रू­पम् । भोगाय हि वहवो देहा निर्मिताः । न च – एकेनैवाऽऽत्मना मनसा च युग­प­द्ब­हु­दे­हानां भोगो दृष्टचरः । तस्मात् - आत्म­म­न­सो­र्ब­हुत्वं कल्पयितव्यम् ॥ यद्यपि नाऽऽत्मान उत्पाद्याः, तथाऽप्येकेन मनसा सङ्कल्प्य बहुषु मनःसूत्पादितेषु तैर्म­नो­भि­र­व­च्छिन्ना आत्मानो बहवः स्युः । एतदेवाभिप्रेत्य "स एकधा भवति, त्रिधा भवति" इत्यादि श्रुतम् । तस्मात् - सात्मकाः सर्वे देहाः ॥

(सप्तमे ज्ञानिनो जग­त्स्र­ष्टृ­त्व­नि­रा­क­र­णा­धि­क­रणे सूत्राणि - )
सप्त­मा­धि­क­र­ण­मा­र­च­यति -
जग­त्स्र­ष्टृ­त्व­म­स्त्येषां योगिनामथ नास्ति वा ॥
अस्ति स्वारा­ज्य­मा­प्नो­ती­त्यु­क्तै­श्व­र्या­न­व­ग्र­हात् ॥ १३ ॥
सृष्टा­व­प्र­कृ­त­त्वेन स्रष्टृता नास्ति योगिनाम् ॥
स्वाराज्यमीशो भोगाय ददौ मुक्तिं च विद्यया ॥ १४ ॥
ब्रह्मलोकं प्राप्ता­ना­मु­पा­स­कानां यथा भोग­यो­ग्य­दे­हे­न्द्रि­य­स्र­ष्टृ­त्व­मस्ति, तथा विय­दा­दि­ज­ग­त्स्र­ष्टृ­त्व­मस्ति "आप्नोति स्वारा­ज्यम्" इति श्रुत्या निर­व­ग्र­है­श्व­र्या­व­ग­मात् ॥
इति प्राप्ते, ब्रूमः - विय­दा­दि­ज­ग­त्सृ­ष्टि­प्र­ति­पा­द­केषु प्रकरणेषु सर्वत्र परमात्मैव स्रष्टृ­त्वे­ना­व­ग­म्यते, न क्वापि योगि­न­स्त­थाऽ­व­ग­म्यन्ते । अतो न तेषां जग­त्स्र­ष्टृ­त्वम् । अन्य­थाऽ­ने­के­श्व­रत्वे सति कश्चि­त्सि­सृ­क्षति, कश्चि­त्स­ञ्जि­ही­र्षति, इति जगद्व्यवस्था न सिध्येत् । कथं तर्हि - स्वारा­ज्य­श्रुतिः 'ईश्व­रा­धी­न­स्वा­रा­ज्या­भि­प्रा­येण' इति ब्रूमः । ईश्वरो ह्युपासनया तोषितस्तेषां भोगमात्रसिद्धये स्वाराज्यं ददौ, मुक्तिं च तत्त्व­वि­द्यो­त्पा­द­नेन दत्तवान् । तस्मात् - जगत्सृष्टौ स्वात­न्त्र्या­भा­वेऽपि भोग­मो­क्ष­यो­स्तेषां स्वात­न्त्र्य­मस्ति ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीभा­र­ती­ती­र्थ­मु­नि­प्र­णी­तायां वैया­सि­क­न्या­य­मा­लायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ समा­प्त­श्वा­य­म­ध्यायो ग्रन्थश्च ॥
अत्र पादे आदितः
अधिकरणानि ७ १९२
सूत्राणि २२ ५५६