वैयासिकन्यायमाला
आवृत्त्यधिकरणम्
(प्रथमे श्रवणमननादीनामावृत्त्यधिकरणे सूत्रे - )
चतुर्थाध्यायस्य प्रथमपादस्य प्रथमाधिकरणमारचयति -
श्रवणाद्याः सकृत्कार्या आवर्त्या वा सकृद्यतः ॥
शास्त्रार्थस्तावता सिध्येत्प्रयाजादौ सकृत्कृतेः ॥ १ ॥
आवर्त्या दर्शनान्तास्ते तण्डुलान्तावघातवत् ॥
दृष्टेऽत्र सम्भवत्यर्थे नादृष्टं कल्प्यते बुधैः ॥ २ ॥
"सकृत्कृते कृतः शास्त्रार्थः" इति न्यायेन श्रवणादीनां प्रयाजादिवत्सकृदेवानुष्ठानम् ॥
इति प्राप्ते, ब्रूमः - उक्तन्यायस्यादृष्टफलविषयत्वात् । अत्र ब्रह्मसाक्षात्कारलक्षणस्य दृष्टफलस्य सम्भवात् 'दृष्टे सम्भवत्यदृष्टं न कल्पनीयम्' इति न्यायेनावघातवत्फलसिद्धिपर्यन्तं श्रवणाद्यावर्तनीयम् ॥
(द्वितीये, आत्मत्वेन ब्रह्मणो ग्रहणाधिकरणे सूत्रम् - )
द्वितीयाधिकारणमारचयति -
ज्ञात्रा स्वान्यतया ब्रह्म ग्राह्यमात्मतयाऽथ वा ॥
अन्यत्वेन विजानीयाद्दुःख्यदुःखिविरोधतः ॥ ३ ॥
औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यताम् ॥
गृह्णन्त्येवं महावाक्यैः स्वशिष्यान्ग्राहयन्ति च ॥ ४ ॥
यच्छास्त्रप्रतिपाद्यं ब्रह्म, तज्जीवेन ज्ञात्रा स्वव्यतिरिक्ततया ग्रहीतव्यम् , दुःख्यदुःखिनोर्जीवब्रह्मणोरेकत्वविरोधात् ॥
इति प्राप्ते, ब्रूमः - 'वस्तुतो ब्रह्मस्वरूपस्यैव सतो जीवस्यान्तःकरणोपाधिकृतो दुःखित्वादिसंसारधर्मः' इति वियत्पादे (ब्र० सू० अ० २ पा० ३) जीवविचारे प्रपञ्चितम् । अतो वास्तवविरोधाभावादात्मत्वेनैव ब्रह्म गृह्यताम् । अत एव "अहं ब्रह्मास्मि" "अयमात्मा ब्रह्म" इत्यादिमहावाक्यैस्तत्त्वविद आत्मत्वेनैव ब्रह्म गृह्णन्ति । तथा "तत्त्वमसि" इत्यादिमहावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि । तस्मात् - आत्मत्वेनैव ब्रह्म ग्रहीतव्यम् ॥
(तृतीये प्रतीकेऽहन्दृष्टिनिराकरणाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
प्रतीकेऽहन्दृष्टिरस्ति न वा, ब्रह्माविभेदतः ॥
जीवप्रतीकयोर्ब्रह्मद्वाराऽहन्दृष्टिरिष्यते ॥ ५ ॥
प्रतीकत्वोपासकत्वहानिर्ब्रह्मैक्यवीक्षणे ॥
अवीक्षणे तु भिन्नत्वान्नास्त्यहन्दृष्टियोग्यता ॥ ६ ॥
"मनो ब्रह्मेत्युपासीत" "आदित्यो ब्रह्म" इत्यादिषु ब्रह्मदृष्ट्या संस्कृतं मनआदित्यादिप्रतीकमुपास्यम् । तच्च प्रतीकमुपासकेन स्वात्मतया ग्रहीतव्यम् , प्रतीकस्य ब्रह्मकार्यत्वेन ब्रह्मणा सह भेदाभावात् , जीवस्य च ब्रह्माभिन्नत्वात् , ब्रह्मद्वारोपास्यप्रतीकस्योपासकजीवस्य च भेदाभावेनैकत्वसम्भवात् ॥
इति प्राप्ते, ब्रूमः - यदि ब्रह्मकार्यस्य प्रतीकस्य ब्रह्मैक्यमवलोक्यते, तदा प्रतीकस्वरूपमेव विलीयेत, घटस्य मृद्रूपेणैक्ये विलयदर्शनात् । यदि च जीवस्य ब्रह्मैक्यमवलोक्येत, तदा जीवत्वापाये सत्युपासकत्वं हीयेत । अथ – उपास्योपासकस्वरूपलोभेन कार्यकारणैक्यं जीवब्रह्मैक्यं च न पर्यालोच्येत, तदा गोमहिषवदत्यन्तभिन्नयोः प्रतीकोपासकयोर्नास्त्येकत्वयोग्यता । तस्मात् - प्रतीके नास्त्यहन्दृष्टिः ॥
(चतुर्थे, उपास्ये ब्रह्मदृष्ट्यधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
किमन्यधीर्ब्रह्मणि स्यादन्यस्मिन्ब्रह्मधीरुत ॥
अन्यदृष्ठ्योपासनीयं ब्रह्मात्र फलदत्वतः ॥ ७ ॥
उत्कर्षेतिपरत्वाभ्यां ब्रह्मदृष्ट्याऽन्यचिन्तनम् ॥
अन्योपास्त्या फलं दत्ते ब्रह्मातिथ्याद्युपास्तिवत् ॥ ८ ॥
"मनो ब्रह्म" – इत्यत्र ब्रह्मस्वरूपमनोदृष्टिं ब्रह्मणि कृत्वा ब्रह्मोपासनीयम् , ब्रह्मणः फलमदत्वेनोपास्यतार्हत्वात् ॥
इति प्राप्ते, ब्रूमः - ब्रह्मण उत्कृष्ठत्वादृष्टिर्निकृष्टे मनसि कर्तव्या । लोके हि निकृष्टे भृत्ये राजदृष्टिं कृत्वा राजवत्तं पूजयन्ति । किञ्च "मनो ब्रह्मेत्युपासीत" इत्यत्र ब्रह्मशब्द इतिशब्दपरत्वेन दष्टिलक्षको भविष्यति । मनःशब्दश्चानितिपरत्वान्मुख्यार्थवाची । यथा 'स्थाणुं चौर इति प्रत्येति' इत्यत्र स्थाणुशब्दो मुख्यार्थवाची चौरशब्दो दृष्टिलक्षकस्तद्वत् | न चाब्रह्मस्वरूपस्य मनस उपास्यत्वे स्थाणुशब्दो ब्रह्मणः फलप्रदत्वानुपपत्तिः, अब्रह्मस्वरूपस्याप्यतिथेरुपासने कर्माध्यक्षत्वेन यथा फलं प्रयच्छति, तद्वदत्रापि सम्भवात् । तस्मादब्रह्मणि प्रतीके ब्रह्मधीः कर्तव्या ॥
(पञ्चमे, अङ्गेष्वादित्यत्वादिधीकरणाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
आदित्यादावङ्गदृष्टिरङ्गे रव्यादिधीरुत ॥
नोत्कर्षो ब्रह्मजत्वेन द्वयोस्तेनैच्छिकी मतिः ॥ ९ ॥
आदित्यादिधियाऽङ्गानां संस्कारे कर्मणः फले ॥
युज्यतेऽतिश्यस्तस्मादङ्गेष्वर्कादिदृष्टयः ॥ १० ॥
"य एवासौ तपति, तमुद्गीथमुपासीत" इत्यत्राऽऽदित्यदेवतां प्रतीकं कृत्वा कर्माङ्गभूतोद्गीथदृष्टिः कर्तव्या, विपर्ययेण वा कर्माङ्ग आदित्यदृष्टिः । आदित्योद्गीथयोरुभयोर्ब्रह्मकार्यत्वेन पूर्वाधिकरणोत्कर्षन्यायानवतारेण नियामकाभावात् ॥
इति प्राप्ते, ब्रूमः - आदित्यदृष्ट्या कर्माङ्गं संस्कर्तव्यम् ॥ तथासति दृष्टिभिः संस्कृतस्य कर्मणः फलातिशयसम्भवात् । विपर्यये तु कर्माङ्गैरादित्यदेवतायां संस्कृतायां किं तव फलिष्यति । न ह्यक्रियात्मिका देवता फलस्य साधनं भवति । अन्यथा देवतायाः साधारणत्वेन यजमानायजमानयोः फलसाम्यप्रसङ्गात् । तस्मात् - अङ्गेष्वादित्यादिदृष्टयः कर्तव्याः ॥
(षष्ठे, उपासन आसनावश्यकताधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
नास्त्यासनस्य नियम उपास्तावुत विद्यते ॥
न देहस्थितिसापेक्षं मनोऽतो नियमो न हि ॥ ११ ॥
शयनोत्थानगमनैर्विक्षेपस्यानिवारणात् ॥
धीसमाधानहेतुत्वात्परिशिष्यत आसनम् ॥ १२ ॥
'आसीनेनैवोपासितव्यम्' इति नास्ति नियमः, मानसव्यापारं प्रति देहस्थितिविशेषस्यानुपयुक्तत्वात् ॥
इति प्राप्ते, ब्रूमः - परिशेषादासनं नियम्यते । तथाहि - न तावच्छयानेनोपासितुं शक्यम् , अकस्मान्निद्रयाऽभिभूतेः सम्भवात् । नाप्युत्थितेन गच्छता वा, देहधारणमार्गनिश्चयादिव्यापारेण चित्तस्य विक्षिप्तत्वात् । अत आसीनेनैवोपासितव्यम् ॥
(सप्तमे, उपासने दिगादिनियमनिराकरणाधिकरणे सूत्रम् - )
सप्तमाधिकरणमारचयति -
दिग्देशकालनियमो विद्यते वा न विद्यते ॥
विद्यते वैदिकत्वेन कर्मस्वेतस्य दर्शनात् ॥ १३ ॥
ऐकाग्र्यस्याविशेषेण दिगादिर्न नियम्यते ॥
मनोनुकूल इत्युक्तेदृष्टार्थं देशभाषणम् ॥ १४ ॥
"ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि" इति दिग्नियमः । "प्राचीनप्रवणे वैश्वदेवेन यजेत" इति देशनियमः । "अथ यदपराह्ने पिण्डपितृयज्ञेन चरन्ति" इति कालनियमः । तदेतन्नियमत्रयं यथा कर्मणि दृश्यते, तथोपासनेऽपि द्रष्टव्य़म् । वौदिकत्वस्याविशेषात् ।
इति प्राप्ते, ब्रूमः - ऐकाग्र्यं हि ध्यानस्य प्रधानं साधनम् । न च – तस्य दिगादिनियन्त्या कश्चिदतिशयो विद्यते । अतो नास्ति नियमः । अत एव श्रुतिर्योगाभ्यासाय प्रदेशं निर्दिशन्ती "मनोनुकूले" इत्येवाऽऽह । "यस्मिन्देशे सौमनस्यं, तत्रैव मनो युञ्ज्यात् , नतु शास्त्रेण नियमितः कश्चिद्देशोऽस्ति" इत्यर्थः । "समे शुचौ शर्करावह्निवालुकावर्जिते" इति योगाभ्यासाय देशविशेषः श्रूयते - इति चेत् । सत्यम् । दृष्टसौकर्यार्थं तु तत् - इति वाक्यशेषे मनोनुकूलत्वविशेषणान्निश्चीयते । तस्मात् - नास्ति दिगादिनियमः ॥
(अष्टमे, उपासनानामामरणावर्तनाधिकरणे सूत्रम् - )
अष्टमाधिकरणमारचयति -
उपास्तीनां यावदिच्छमावृत्तिः स्यादुताऽऽमृति ॥
उपास्त्यर्थाभिनिष्पत्तेर्यावदिच्छं न तूपरि ॥ १५ ॥
अन्त्यप्रत्ययतो जन्म भाव्यतस्तत्प्रसिद्धये ॥
आमृत्यावर्तनं न्याय्यं सदातद्भाववाक्यतः ॥ १६ ॥
विजातीयप्रत्ययेनानन्तरितसजातीयप्रत्ययप्रवाह उपास्तिशब्दार्थः । स च कियताऽपि कालेन सम्पद्यते । अतो यावदिच्छमावृत्तिः, न त्वामरणम् ॥
इति प्राप्ते, ब्रूमः - भाविजन्मनः प्रयोजकोऽन्त्यप्रत्यय आमरणमावृत्तिमन्तरेण न सुलभः । अत एव स्मृतिः - "सदा तद्भावभावितः" इत्याह । कथं तर्हि - ज्योतिष्टोमादिकर्मणा स्वर्गं गच्छतोऽन्त्यप्रत्ययः - । 'कर्मजन्यापूर्ववशात्' इति ब्रूमः - उपासनेऽप्यपूर्वमस्ति - इति चेत् । बाढम् । नैतावता निरन्तरावृत्तिलक्षणो दृष्टोपायः परित्याज्यो भवति । अन्यथा सर्वस्य सुखदुःखादेरपूर्वजन्यत्वेन भोजनाद्यर्थो दृष्टः प्रथत्नः परित्यज्येत । ततो दृष्टार्थोपायत्वादामरणमावर्तनं कर्तव्यम् ॥
यद्यपि - एतान्यष्टावधिकरणानि साधनविचारत्वात्पूर्वाध्याये योग्यानि, तथाऽपि फलप्रत्यासन्नसाधनत्वात्फलाध्याये विचारितानि ॥
(नवमे ज्ञानिनः पापलेपनिराकरणाधिकरणे सूत्रम् - )
नवमाधिकरणमारचयति -
ज्ञानिनः पापलेपोऽस्ति नास्ति वाऽनुपभोगतः ॥
अनाश इति शास्त्रेषु घोषाल्लेपोऽस्य विद्यते ॥ १७ ॥
अकर्त्रात्मधिया वस्तुमहिम्नैव न लिप्यते ॥
अश्लेषानाशावप्युक्तावज्ञे घोषस्तु सार्थकः ॥ १८ ॥
"नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" ।
इति पापाविनाशस्य सर्वशास्त्रप्रसिद्धत्वाद्ब्रह्मज्ञानिनोऽप्यस्ति पापलेपः ॥
इति प्राप्ते, ब्रूमः - तत्र तावन्निर्गुणब्रह्मात्मतत्त्वविदः पापलेपशङ्काऽपि नोदेति 'नाकार्षम् , न करोमि' न करिष्यामि, इति कालत्रयेऽप्यकर्तृब्रह्मस्वरूपत्वेन निश्चितत्वात् । न ह्यकर्तुर्लेपं मन्दा अपि शङ्कन्ते । नापि सगुणब्रह्मविदो लेपोऽस्ति, अश्लेषविनाशयोः श्रुतत्वात् । ब्रह्मसाक्षात्कारादूर्ध्वं देहेन्द्रियव्यवहारवशात्सम्भावितस्य़ पापस्याश्लेषः श्रूयते । तद्यथा - "यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवमेवंविदि पापं कर्म न श्लिष्यते" इति । साक्षात्कारात्पूर्वं त्विह जन्मनि जन्मान्तरेषु च सञ्चितस्य पापसङ्घातस्य विनाशः श्रूयते - "तद्यथेषीकातूलमग्नौ प्राोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति । "नाभुक्तम्" - इत्यादि शास्त्रं तु सगुणनिर्गुणब्रह्मज्ञानरहितविषयम् । तस्मात् - नास्ति ज्ञानिनः पापलेपः ।
(दशमे ज्ञानिनः पुण्यलेपनिराकरणाधिकरणे सूत्रम् - )
दशमाधिकरणमारचयति -
पुण्येन लिप्यते नो वा, लिप्यतेऽस्य श्रुतत्वतः ॥
न हि श्रौतेन पुण्येन श्रौतं ज्ञानं विरुध्यते ॥ १९ ॥
अलेपो वस्तुसामर्थ्यात्समानः पुण्यपापयोः ॥
श्रुतं पुण्यं पापतया तरणं च समं श्रुतम् ॥ २० ॥
मा भूत्पापलेपः । पुण्यलेपस्तु विद्यते, पुण्यस्य श्रौतत्वेन श्रौतब्रह्मज्ञानेन समं विरोधाभावात् ॥
इति प्राप्ते, ब्रूमः - अकर्त्रात्मवस्तुसामर्थ्यात्पापवत्पुण्येनापि न लिप्यते । सगुणज्ञानिनस्तूपासनव्यतिरिक्तं काम्यं पुण्यं पापवदधमजन्महेतुत्वात्पापसममेवेतिमत्त्वा पापत्वेनैव दहरविद्यावाक्यशेषे श्रुतिः परामृशति - "सर्वे पाप्मानोऽतो निवर्तन्ते" इति । अस्यायमर्थः - 'सुकृतं दुष्कृतं तत्फलं च पूर्ववाक्ये यद्यदनुक्रान्तम्, ते सर्वे पाप्मानोऽस्मादुपासकान्निवर्तन्ते' इति । किञ्च – "उभे उ हैवैष एते तरति" इति श्रुतिः पुण्यपापयोरुभयोर्ज्ञानिनां तरणं सममेव ब्रूते । तस्मात् - पापवत्पुण्येनापि न लिप्यते ॥
(एकादशे ज्ञानादनारब्धपुण्यपापयोरेव निवृत्त्यधिकरणे सूत्रम् - )
एकादशाधिकरणमारचयति -
आरब्धे नश्यतो नो वा सञ्चिते इव नश्यतः ॥
उभयत्राप्यकर्तृत्वतद्बोधौ सदृशौ खलु ॥ २१ ॥
आदेहपातसंसारश्रुतेरनुभवादपि ॥
इषुचक्रादिदृष्टान्तान्नैवाऽऽरब्धे विनश्यतः ॥ २२ ॥
ज्ञानात्पूर्वं सञ्चिते पुण्यपापे द्विविधे - आरब्धे, अनारब्धे च । तयोर्द्विविधयोरप्यकर्तृत्वमात्मनः समानम् , तद्बोधश्च समः । ततः - अनारब्धवदारब्धयोरपि ज्ञानोदयसमय एव विनाशः ॥
इति प्राप्ते, ब्रूमः - श्रुत्यनुभवयुक्तिभ्य आरब्धयोरविनाशो गम्यते । "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये" इति श्रुतिः । अस्या अयमर्थः 'तस्य तत्त्वविदो मुक्तिर्विलम्बमानाऽपि नात्यन्तं विलम्बते । किन्तु गर्भाधानकाले क्लृप्तस्याऽऽयुषः क्षयाभावेन यावद्देहः प्राणैर्न विमोक्ष्यते, तावदेव विलम्बते । अथ देहप्राणवियोगे सति ब्रह्म सम्पद्यते' इति । यथाऽनया श्रुत्या तत्त्वविदोऽप्यादेहपातं संसारोऽङ्गीकृतः, तथा विद्वदनुभवोऽप्यस्मिन्नर्थे स्फुटः । युक्तिश्चोच्यते - यथा लोके तूणनिष्टेषु बाणेषु धानुष्कस्य स्वीकारपरित्यागयोः स्वातन्न्येऽपि मुक्ते बाणे स्वातन्त्र्यं न दृश्यते, स तु बाणो वेगे क्षीणे स्वयं पतति । एवं कुलालचक्रभ्रमणमुदाहर्तव्यम् । तथा दार्ष्टान्तिकब्रह्मज्ञानस्याप्यनारब्धकर्मनाशकत्वे स्वातन्त्र्यमस्तु, न त्वारब्धे कर्मणि, आरब्धस्य प्रवृत्तफलत्वात् । यद्येतैः श्रुत्यादिभिरारब्धस्थितिर्नारभ्युपगम्यते, तदोपदेष्टुरभावाद्विद्यासम्प्रदाय उच्छिद्येत । न तावत् - अविद्वानुपदेष्टा - इति वक्तुं शक्यम् । विद्वांस्तु वेदनसमय एव मुच्यत इति को नामोपदेष्टा सम्भवति । तस्मात् - नाऽऽरब्धयोर्नाशः ॥
(द्वादशे, अग्निहोत्रादिनित्यकर्मणो नाशनिराकरणाधिकरणे सूत्रे - )
द्वादशाधिकरणमारचयति -
नश्येन्नो वाऽग्निहोत्रादि नित्यं कर्म, विनश्यति ॥
यतोऽयं वस्तुमहिमा न क्वचित्प्रतिहन्यते ॥ २३ ॥
अनुषक्तफलांशस्य नाशेऽप्यन्यो न नश्यति ॥
विद्यायामुपयुक्तत्वाद्भाव्यश्लेषस्तु काम्यवत् ॥ २४ ॥
ज्ञानात्पूर्वमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यदग्निहोत्रादि नित्यं कर्म, तस्यापि काम्यकर्मवदकर्त्रात्मवस्तुबोधमहिम्ना नाशोऽभ्युपेयः ॥
इति प्राप्ते, ब्रूमः - द्वावंशौ नित्यकर्मणः - एकोंऽशः प्राधान्येन चित्तशुद्धिप्रदः, अपरोऽशोऽनुषङ्गेण स्वर्गादिफलप्रदः । तस्य नाशोऽस्तु नाम । चित्तशुद्धिप्रदस्य तु विद्यायामुपयुक्तत्वान्न नाशो वर्णयितुं शक्यः । न हि लोके भोगेनोपक्षीणं व्रीह्यादिकं नष्टं मन्यन्ते । यत्तु ज्ञानादूर्ध्वं नित्यं कर्म तस्य काम्यवदश्लेषः ॥
(त्रयोदशे नित्यकर्मणोर्विद्यासाधनताधिकरणे सूत्रम् - )
त्रयोदशाधिकरणमारचयति -
किमङ्गोपास्तिसंयुक्तमेव विद्योपयोग्युत ॥
केवलं वा, प्रशस्तत्वात्सोपास्त्येवोपयुज्यते ॥ २५ ॥
केवलं वीर्यवद्विद्यासंयुक्तं वीर्यवत्तरम् ॥
इति श्रुतेस्तारतम्यादुभयं ज्ञानसाधनम् ॥ २६ ॥
विद्यासाधनं नित्यकर्म द्विविधं सम्भाव्यते - अङ्गावबद्धोपास्तिसहितम् , तद्रहितं च । तत्र – सोपासनस्य कर्मणः प्रशस्तत्वात्तदेव विद्यासाधनम् , न तूपास्तिरहितम् ।
इति प्राप्ते, ब्रूमः - "यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति" इति श्रुतिः "सोपासनस्य कर्मणोऽतिशयेन वीर्यमस्ति" इति वदन्ती निरुपासनस्यापि वीर्यमात्रमभ्यनुजानाति । अन्यथा तरप्रत्ययानुपपत्तेः । तस्मात् - सोपासननिरुपासनयोस्तारतम्येन विद्यासाधनत्वम् ॥
(चतुर्दशे, अधिकारिणामपि मुक्तिसम्भवाधिकरणे सूत्रम् - )
चतुर्दशाधिकरणमारचयति -
बहुजन्मप्रदारब्धयुक्तानां नास्त्युतास्ति मुक् ॥
विद्यालोपे कृतं कर्म फलदं तेन नास्ति मुक् ॥ २७ ॥
आरब्धं भोजयेदेव न तु विद्यां विलोपयेत् ॥
सुप्तबुद्धवदश्लेषतादवस्थ्यात्कुतो न मुक् ॥ २८ ॥
अधिकारिपुरुषाणां मुक्तिर्नास्ति, प्रारब्धभोगाय बहुषु जन्मसु स्वीकृतेषु तत्र पूर्वार्जितविद्यायां यत्कर्म क्रियते तस्य फलप्रदत्वे सत्युत्तरोत्तरजन्मपरम्पराया अवश्यंभावित्वात् ॥
इति प्राप्ते, ब्रूमः - आरब्धं कर्म स्वफले सुखदुःखे भोजयेत् , तदर्थमेव प्रवृत्तत्वात् । न हि विद्यालोपार्थं किञ्चित्कर्म पूर्वमनुष्ठितम् , येन कर्मवशाद्विद्यालोप आशङ्क्येत । न च - मरण व्यवधानमात्रेण विद्यालोपः, सुषुप्तिव्यवधानेन तल्लोपादर्शनात् । अतो विद्यायामवस्थितायां बहुभिरपि क्रियमाणैः कर्मभिरश्लेषात् - अस्त्यधिकारिणां मुक्तिः ॥
यद्यप्येतद्गुणोपसंहारपादे निर्णीतम् , तथाऽपि तस्यैवाऽऽक्षेपसमाधाने - इत्यनवद्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि १४ १६८
सूत्राणि १९ ४९७
(प्रथमे वागादीनां मनसि वृत्तिलयाधिकरणे सूत्रे - )
चतुर्थाध्यायस्य द्वितीयपादे प्रथमाधिकरणमारचयति -
वागादीनां स्वरूपेण वृत्त्या वा मानसे लयः ॥
श्रुतिर्वाड्मनसीत्याह स्वरूपविलयस्ततः ॥ १ ॥
न लीयतेऽनुपादाने कार्यं वृत्तिस्तु लीयते ॥
वह्निवृत्तेर्जले शान्तेर्वाक्शब्दो वृत्तिलक्षकः ॥ २ ॥
उत्क्रान्तिक्रमश्छान्दोग्ये श्रूयते - "अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यां देवतायाम्" इति तत्र – म्रियमाणस्य पुरुषस्य वागादीनि दशेन्द्रियाणि मनसि लीयन्ते । स च लयः किं स्वरूपेण, वृत्त्या वा - इति संशये सति "वाङ्मनसि" इति श्रुतौ वृत्तिशब्दाश्रवणात्स्वरूपलयः ॥
इति प्राप्ते, बूमः - मनसो वागादिकं प्रत्यनुपादानत्वात् उपादान एव कार्यस्य स्वरूपलयः इति मृद्घटादौ व्याप्तिदर्शनान्न वागादीनां स्वरूपेण लयः । वृत्तिस्त्वनुपादानेऽपि लयमर्हति । अङ्गारेषु जलमध्ये प्रक्षिप्तेषु वह्निवृत्तेर्दाहप्रकाशात्मिकाया अनुपादाने जले लयदर्शनात् । श्रुतौ तु वाक्शब्देन वृत्तिर्लक्ष्यते । वृत्तिवृत्तिमतोरभेदोपचारात् - वागादीनां मनसि वृत्तिलयः ॥
(द्वितीये मनसः प्राणे लयाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
मनः प्राणे स्वयं वृत्त्या वा लीयेत, स्वयं यतः ॥
कारणान्नोदकद्वारा प्राणो हेतुर्मनः प्रति ॥ ३ ॥
साक्षात्स्वहेतौ लीयेत कार्यं प्राणालिके न तु ॥
गौणः प्राणालिको हेतुस्ततो वृत्तिलयो धियः ॥ ४ ॥
वागादिषु मनसि वृत्त्या प्रलीनेषु तन्मनः प्राणे स्वरूपेण लयमर्हति, मनः प्रति प्राणस्योपादानत्वसम्भवात् । तथा हि - "अन्नमयं हि सोम्य मनः" इति श्रुतेर्मनसोऽन्नं कारणम् , "आपोमयः प्राणः" इति श्रुतेश्च प्राणस्याऽऽपः कारणम् । तथासति मनःप्राणशब्दाभ्यां तत्कारणे अन्नोदके उपलक्ष्य 'मनः प्राणे लीयते' इतिवाक्यस्य 'अन्नमप्सु लीयते' इत्यर्थो व्याख्यातव्यः । तथाच कार्यस्य स्वोपादाने लयो भविष्यति तस्मात् - मनसः स्वरूपेण लयः ॥
इति प्राप्ते, ब्रूमः - द्विविधमुपादानम् - मुख्यम्, प्राणालिकं च । तत्र प्राणमनसोर्मृद्घटयोरिव न मुख्य उपादानोपादेयभावोऽस्ति । किं तर्हि - त्वदुक्तप्रकारेण सम्बन्धपरम्परया प्रणाल्या । नहि प्राणालिक उपादाने कार्यस्य लयं क्वचित्पश्यामः । तस्मात् - मनसः प्राणे साक्षादनुपादाने वृत्त्या प्रविलयो द्रष्टव्यः ॥
(तृतीये प्राणानां जीवे लयाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
असोर्भूतेषु जीवे वा लयो, भूतेषु तच्छ्रुतेः ॥
स प्राणस्तेजसीत्याह न तु जीव इति क्वचित् ॥ ५ ॥
एवमेवेममात्मानं प्राणा यन्तीति च श्रुतेः ॥
जीवे लीत्वा सहैतेन पुनर्भुतेेषु लीयते ॥ ६ ॥
अन्तर्लीनैकादशेन्द्रिययुक्तस्य प्राणस्य तेजोबन्नेषु भूतेषु वृत्त्या प्रविलयः । न तु जीवे, "प्राणस्तेजसि" इति श्रुतेः ॥
इति प्राप्ते, ब्रूमः - "एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति" इति श्रुतिजीवे प्राणलयमाह । 'यथा राजानं प्रयियासन्तं सर्वे भृत्याः समायन्ति, तद्वत्' इति श्रुतेरर्थः । न च "प्राणस्तेजसि" इति श्रुत्या विरोधः जीवेन सहितः प्राणः पश्चात्तेजआदिभुतेषु लीयते इति व्याख्यातुं शक्यत्वात् । तस्मात् - प्राणो जीवे प्रथमतो लयं प्राप्य पश्चात्तद्द्वारा भूतेषु लीयते ॥
(चतुर्थे ज्ञान्यज्ञानिनोरुत्क्रान्तिसामान्याधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
ज्ञान्यज्ञोत्क्रान्तिरसमा समा वा, न हि सा समा ॥
मोक्षसंसाररूपस्य फलस्य विषमत्वतः ॥ ७ ॥
आसृत्युपक्रमं जन्म वर्तमानमतः समा ॥
पश्चात्तु फलवैषम्यादसमोत्क्रान्तिरेतयोः ॥ ८ ॥
'निर्गुणब्रह्मज्ञानिनस्तावदुत्क्रान्तिरेव नास्ति' - इति वक्ष्यति । या तु सगुणब्रह्मज्ञानिन उत्कान्तिः नासावज्ञान्युत्क्रान्त्या समाना, ब्रह्मलोकरूपस्य मोक्षस्य, तद्विप रीतसंसारस्वरूपस्य च फलस्य विषमत्वेन तत्प्राप्तिद्वारभूताया उत्क्रान्तेर्वैषम्यस्योचितत्वात् ॥
इति प्राप्ते, ब्रूमः - सगुणज्ञानिनो मूर्धन्यनाडीप्रवेशः, उत्तरमार्गोपक्रमः, ज्ञानरहितस्य नाड्यन्तरप्रवेशो मार्गान्तरोपक्रमः, मार्गपर्यन्तमिदमेव वर्तमानं जन्म, अत ऐहिकसुखदुःखवदुत्क्रान्तिरपि समाना । उपक्रान्ते तु मार्गे त्वदुक्तफलभेदाद्वैषम्यमस्तु ॥
(पञ्चमे, उपासकस्य ब्रह्मणि स्वरूपेण लयनिराकरणाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
स्वरूपेणाथ वृत्त्या वा भूतानां विलयः परे ॥
स्वरूपेण लयो युक्तः स्वोपादाने परात्मनि ॥ ९ ॥
आत्मज्ञस्य तथात्वेऽपि वृत्त्यैवान्यस्य तल्लयः ॥
न चेत्कस्यापि जीवस्य न स्याज्जन्मान्तरं क्वचित् ॥ १० ॥
"तेजः परस्यां देवतायाम्" इत्यत्र तेजःप्रभृतीनां भूतानां परमात्मनि स्वरूपेण लयो युज्यते, परमात्मनो भूतोपादानत्वात् ॥
इति प्राप्ते, ब्रूमः - आत्मतत्त्वज्ञानिनस्त्वदुक्तप्रकारेण भूतानां स्वरूपेण लयोऽस्तु । तस्य निर्णेष्यमाणत्वात् । उपासकस्य कर्मिणश्च जन्मान्तरसिद्धये वृत्तिलय एवाभ्युपगन्तव्यः ॥
(षष्ठे ज्ञानिनः प्राणानां देहादनुत्क्रान्त्यधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
किं जीवादथवा देहात्प्राणोतत्क्रान्तिर्निवार्यते ॥
जीवान्निवारणं युक्तं जीवेद्देहोऽन्यथा सदा ॥ ११ ॥
तप्तश्मजलवद्देहे प्राणानां विलयः स्मृतः ॥
उच्छ्वयत्येव देहोऽन्ते देहात्सा विनिवार्यते ॥ १२ ॥
"न तस्य प्राणा उत्क्रामन्ति" इति तत्त्वविदः प्राणानामुत्क्रान्तिर्निषिध्यते । तस्य निषेधस्यापादानं जीवः, न तु देहः । अन्यथा देहादनुत्क्रान्तौ मरणाभावः प्रसज्येत ॥
इति प्राप्ते, ब्रूमः - तप्ताश्मनि प्रक्षिप्तं जलं न यथाऽन्यत्र गच्छति, नापि तत्र दृश्यते, किन्तु स्वरूपेण लीयते । तद्वत्तत्त्वविदः प्राणा देहादनुत्क्रान्ता अपि न देहेऽवतिष्ठन्ते किन्तु विलीयन्ते । अतो जीवनासम्भवात् 'मृतो देहः' इति व्यवहारः । अनुत्क्रान्तानां प्राणानां देहावस्थानाभावे देहस्योच्छूनत्वमेव लिङ्गम् । ननु - इयतः प्रयासाद्वरं देहादुत्क्रान्तिरस्तु, प्रतिषेधस्तु जीवापादानको भविष्यति । मैवम् , देहादुत्क्रान्तस्य जीवेन सहावस्थितेषु प्राणेषु देहान्तरग्रहणस्याऽऽवश्यकत्वान्मुक्तिरेव न स्यात् । तस्मात् - उत्क्रान्तिप्रतिषेधस्य देह एवापादनं, न जीवः ॥
(सप्तमे तत्त्ववित्प्राणानां परमात्मन्येव लयाधिकरणे सूत्रम् - )
सप्तमाधिकरणमारचयति -
ज्ञस्य वागादयः स्वस्वहेतौ लीनाः परेऽथ वा ॥
गताः कला इति श्रुत्य स्वस्वहेतुषु तल्लयः ॥ १३ ॥
नद्यब्धिलयसाम्योक्तेर्वेद्वद्दृष्ट्या लयः परे ॥
अन्यदृष्टिपरं शास्त्रं गता इत्याद्युदाहृतम् ॥ १४ ॥
तत्त्वज्ञानिनो वागादयः प्राणा विलीयमानाः प्रातिस्विकेष्वगन्न्याद्यधिकरणेषु विलीयन्ते, न तु परमात्मनि "गताः कलाः पञ्चदश प्रतिष्ठाः" इति कलाशब्दवाच्यानां प्राणादीनां प्रतिष्टाशब्दवाच्यस्वस्वकारणप्राप्तिप्रतिपादकत्वात् । "यत्रास्य पुरुषस्याग्निं वागप्येति, वातं प्राणः चक्षुरादित्यम्" इत्यादिश्रुतेः ॥
इति प्राप्ते, ब्रूमः - तत्त्वविदो दृष्ट्या परमात्मन्येव लय इति श्रुत्यन्तरान्निश्चीयते । यथा "नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय, तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति श्रुतौ नद्यब्धिलयदृष्टान्त उपन्यस्यते । अथ – दार्ष्टान्तिके परमात्मानि लय इत्ययमर्थो न विशदः - तर्हि श्रुत्यन्तरे विशदो गम्यते - "यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, 'समुद्रः' इत्येवं प्रोच्यते, एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, 'पुरुष' इत्येवं प्राोच्यते" इति । भिद्येते विलीयेते । सेयं श्रुतिस्तत्त्वविदृष्टिविषया । "गताः कलाः" इति शास्त्रं तु तटस्थपुरुषप्रतीतिविषयम् । म्रियमाणे तत्त्वविदि समीपवर्तिनः पुरुषाः स्वस्वदृष्टान्तेन तदीयवागादीनामप्यग्न्यादिषु लयं मन्यन्ते । अतः श्रुत्योर्न विरोधः । तस्मात् - परमात्मनि तत्त्वविदः प्राणानां लयः ॥
(अष्टमे तत्त्वविद्वागादिलयस्य निःशेषत्वाधिकरणे सूत्रम् - )
अष्टमाधिकरणमारचयति -
तल्लयः शक्तिशेषेण निःशेषेणाथवाऽऽत्मनि ॥
शक्तिशेषेण युक्तोऽसावज्ञानिष्वेतदीक्षणात् ॥ १५ ॥
नामरूपविभेदोक्तेर्निःशेषेणैव तल्लयः ॥
अज्ञे जन्मान्तरार्थं तु शक्तिशेषत्वमिष्यते ॥ १६ ॥
पूर्वाधिकरण उक्तो लयो न निःशेषः, किन्तु सावशेषो भवितुमर्हति, वागादिलयत्वात् , अज्ञानिवागादिलयवत् ॥
इति प्राप्ते, ब्रूमः - "भिद्येते तासां नामरूपे" इत्यत्र जीवस्य याः षोडशकलाः संसारहेतवः, तासां कलानां नामरूपविभेदः श्रूयते । कलाश्च वाक्योपक्रमेऽनुक्रान्ताः - "स प्राणमसृजत, प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम् , अन्नाद्वीर्यं तपो मन्त्राः कर्म लोकाः, लोकेषु च नाम च" इति । यदि प्राणादीनां नामान्तानां नामरूपे शक्त्यवशेषेण लीयेते, तदा नामरूपविभेदश्रुतिरुपरुध्यते, शक्त्यात्मान नामरूपयोः सूक्ष्मयोरवस्थानात् अज्ञानिनस्तु जन्मान्तरसिद्धये शक्त्यवशेषत्वमिष्यते । तस्मात् - तत्त्वविदो वागादीनां निःशेषेण परमात्मनि लयः ॥
(नवमे, उपासकोत्क्रान्तेर्विशेषाधिकरणे सूत्रम् - )
नवमाधिकरणमारचयति -
अविशेषो विशेषो वा स्यादुत्क्रान्तेरुपासितुः ॥
हृत्प्रद्योतनसाम्योक्तेरविशेषोऽन्यनिर्गमात् ॥ १७ ॥
मूर्धन्ययैव नाड्याऽसौ व्रजेन्नाडीविचिन्तनात् ॥
विद्यासामर्थ्यतश्चापि विशेषोऽस्त्यन्यनिर्गमात् ॥ १८ ॥
उपासकस्य येयमुत्क्रान्तिः, सेयमितरोत्क्रान्त्या मार्गोपक्रमपर्यन्तं समा - इत्युक्तम् । अथ मार्गोपक्रमेऽपि समैव भवितुमर्हति, हृत्प्रद्योतनादेः समत्वश्रवणात् । तथा हि - "तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्रो वाऽन्येभ्यो वा शरीरदेशेभ्यः" इति श्रूयते । अस्यायमर्थः - 'वाड्मनसि सम्पद्यते' इति क्रमेण सजीवं लिङ्गशरीरं शक्त्यशेषं परमात्मनि यदा लीयते, तदा पूर्वजन्म समाप्तं भवति । अथ जन्मान्तराय तल्लिङ्गं पुनर्हृदये प्रादुर्भवति, तस्मिन्नवसरे हृदयाग्नेऽवस्थितस्य लिङ्गस्य गन्तव्यभाविजन्मालोचकात्मकोऽन्त्यप्रत्ययत्वेन लोके प्रसिद्धः कश्चित्प्रद्योतो भवति, तेन युक्तः सन्नाडीभ्यो निर्गच्छति इति । एतच्च सर्वेषां समानम् । तस्मात् - नोपासकस्येतरेभ्यो विशेषः ॥
इति प्राप्ते, ब्रूमः - मूर्धन्ययैव नाड्योपासको निर्गच्छति, इतराभ्य एव नाडीभ्य इतरे । कुतः - उपासकेन मूर्धन्यनाड्याश्चिन्तितत्वात् । सगुणब्रह्मविद्यासामर्थ्याच्च । श्रुत्यन्तरे चायमर्थः स्पष्टमेव गम्यते -
"शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिः सृतैका ॥
तयोर्ध्वमायन्नमृनतत्वमेति विष्वङन्या उत्क्रमणे भवन्ति" इति ।
'अन्या नाड्य उत्क्रमणायोपयुज्यन्ते, न त्वमृतत्वप्राप्तये' इत्यर्थः । तस्मात् - अस्त्युपासकस्य विशेषः ॥
(दशमे रात्रिमृतस्यापि रश्म्यनुसारित्वाधिकरणे सूत्रे - )
दशमाधिकरणमारचयति -
अहन्यव मृतो रश्मीन्याति निश्यपि वा निशि ॥
सूर्यरश्मेरभावेन मृतोऽहन्येव याति तम् ॥ १९ ॥
यावद्देहं रश्मिनाड्योर्योगो ग्रीष्मक्षपास्वपि ॥
देहदाहाच्छ्रुतत्वाच्च रश्मीन्निश्यपि यात्यसौ ॥ २० ॥
"अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते" इति मूर्धन्यनाड्या निर्गतस्य रश्मिसम्बन्धः श्रूयते । स चाहन्येव मृतस्य सम्भवति । न तु रात्रौ, रश्म्यभावात् ॥
इति प्राप्ते, ब्रूमः - रश्मिनाड्योः सम्बन्धो यावद्देहभावी । अत एव ग्रीष्मनिशासु देहदाह उपलभ्यते । ऋत्वन्तरेषु तु प्रतिषिद्धत्वादनुपलम्भः । श्रुतिश्च रश्मिनाड्योरवियोगं दर्शयति - "अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ताः, आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः" इति तस्मात् - निश्यपि मृतो रश्मीन्याति ॥
(एकादशे, अयनाधिकरणे - तत्त्वविदो दक्षिणायनेऽपि विद्याफलाधिकरणे सूत्रे - )
एकादशाधिकरणमारचयति -
अयने दक्षिणे मृत्वा धीफलं नैत्यथैति वा ॥
नैत्युत्तरायणाद्युक्तेर्भीष्मस्यापि प्रतीक्षणात् ॥ २१ ॥
आतिवाहिकदेवोक्तेर्वरख्यात्यै प्रतीक्षणात् ॥
फलैकान्त्याच्च विद्यायाः फलं प्राप्नोत्युपासकः ॥ २२ ॥
दक्षिणायने मृतस्योपासकस्य न विद्याफलं ब्रह्मलोकप्राप्तिः सभवति, उत्तरायणस्य ब्रह्मलोकमार्गस्य श्रुतिस्मृत्योः पाठात् । दक्षिणायने मृतस्यापि विद्याफलाङ्गीकारे भीष्मस्योत्तरायणप्रतीक्षणं निरर्थकं स्यात् ॥
इति प्राप्ते, ब्रूमः - 'नोत्तरायणशब्देन कालो विवक्षितः किं त्वातिवाहिकदेवता' इति (ब्र० सू० ४ । ३ । ४) वक्ष्यति । भीष्मस्य प्रतीक्षणं तु पितृप्रसादलब्धस्वच्छन्दमरणवरख्यापनाय । यदि कालविशेषमरणापराधेन फलं न प्राप्नुयात् , तर्हि पाक्षिकफला विद्या प्रसज्येत । तस्मात् - दक्षिणायणे मृतोऽपि विद्याफलं प्राप्नोति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ११ १७९
सूत्राणि २१ ५१८
(प्रथमे, अर्चिरादिकस्यैव ब्रह्मलोकमार्गताधिकरणे सूत्रम् - )
तृतीयपादे प्रथमाधिकरणमारचयति -
नानाविधो ब्रह्मलोकमार्गो यद्वाऽर्चिरादिकः ॥
नानाविधः स्याद्विद्यासु वर्णनादन्यथाऽन्यथा ॥ १ ॥
एक एवार्चिरादिः स्यान्नानाश्रुत्युक्तपर्वकः ॥
यतः पञ्चाग्निविद्यायां विद्यान्तरवतां श्रुतः ॥ २ ॥
ब्रह्मलोकमार्गश्छान्दोग्यबृहदारण्यकयोः पञ्चाग्निविद्यायामर्चिरादिकः पठितः - "तेऽर्चिषमभिसम्भवन्ति", "अर्चिषोऽहः" - इति । विद्यान्तरे तु वाय्वादिकः - "स वायुमागच्छति" इति । कौषीतकिनः पर्यङ्कविद्यायामग्निलोकादिकमामनन्ति - "स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति" इति । एवमन्यत्रापि द्रष्टव्यम् । तस्मात् - बहुविधो मार्गः ॥
इति प्राप्ते, ब्रूमः - अर्चिरादिक एक एव मार्गः । कुतः - पञ्चाग्निविद्यावाक्यशेषे पञ्चाग्निविद्याविदो विद्यान्तरोपासकांश्चोद्दिश्यार्चिरादिमार्गस्यैव पठितत्वात् । "य इत्थं विदुः, ये चेमेऽरण्ये श्रद्धां तप इत्युपासते, तेऽर्चिषमभिसम्भवन्ति" इति श्रुत्यन्तरोक्तानां वाय्वादीनां गुणोपसंहारन्यायेनार्चिरादिमार्गप्रवेशे सति तत्पूर्वत्वसम्भवात् । तस्मात् - अर्चिरादिमार्ग एक एव ॥
(द्वितीये वायोः संनिवेशाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
संनिवेशयितुं वायुरत्राशक्योऽथ शक्यते ॥
न शक्यो वायुलोकस्य श्रुतक्रमविवर्जनात् ॥ ३ ॥
वायुच्छिद्राद्विनिष्क्रम्य स आदित्यं व्रजेदिति ॥
श्रुतेरर्वाग्रवेर्वायुर्देवलोकस्ततोऽप्यधः ॥ ४ ॥
"तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहः, अन्ह आपूर्यमाणपक्षम् , आपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान् , मासेभ्यः संवत्सरम् , संवत्सरादादित्यम् , आदित्याच्चन्द्रमसम् , चन्द्रमसो विद्युतम् , तत्पुरुषोऽमानवः, स एतान्ब्रह्म गमयति" इति श्रूयमाणेऽर्चिरादिमार्गे शाखान्तरे श्रुतो वायुः केनापि संनिवेशेनान्तर्भावयितुमशक्यः 'अस्योपरि वायुः' इति क्रमस्याश्रुतत्वात् , कल्पकाभावाच्च ॥
इति प्राप्ते, ब्रूमः - श्रुत्यन्तरं तत्कल्पकम् । तथाहि - "स वायुमागच्छति तस्मै स विजिहीते यथा रथचक्रस्य खम् , तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति" इति । इतो निर्गत्योपासको यदा वायुमागच्छति, तदा तद्वायुमण्डलं छिद्रितं भवति, तेन रथचक्रच्छिद्रप्रमाणेन वायुच्छिद्रेण वायुमण्डलमुल्लङ्ध्याऽऽदित्यमण्डलं प्राप्नोति इत्यर्थः । एवं च वायोरादित्यात्पूर्वत्वप्रतीतेः क्रमविशेषोऽवगन्तुं शक्यते । - "मासेभ्यः संवत्सरम् , संवत्सराद्वायुम् , वायोरादित्यम्" इत्येवं सन्निवेशः कर्तव्यः । बृहदारण्यके तु - मासानन्तरं संवत्सरं परित्यज्य तस्य स्थाने देवलोकः पठितः । स च संवत्सरानन्तरं वायोरर्वाङ्निवेशयितव्यः, माससंवत्सरयोः सम्बन्धित्वेन प्रसिद्धयोरानन्तर्यस्यानिवारणीयत्वात् । तदेवं संवत्सरादित्ययोर्मध्ये देवलोकवायुलोकौ संनिवेशयितव्यौ ॥
(तृतीये, वरुणादिलोकानां व्यवस्थाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
वरुणादेः संनिवेशो नास्ति तत्रोत विद्यतेे ॥
नास्ति वायोरिवैतस्य व्यवस्थाश्रुत्यभावतः ॥ ५ ॥
विद्युत्सम्बन्धिवृष्टिस्थनीरस्याधिपतित्वतः ॥
वरुणो विद्युतोऽस्त्यूर्ध्वं तत इन्द्रप्रजापती ॥ ६ ॥
कौषीतकिनः पठन्ति - "स वरुणलोकम् , स इन्द्रलोकम् , स प्रजापतिलोकम्" इति । ते वरुणादयस्त्रयो लोका अर्चिरादिमार्गे निवेशयितुमशक्याः, वायोरिव व्यवस्थापकाभावात् ॥
इति प्राप्ते, ब्रूमः - विद्युल्लोकस्योपरि वरुणलोकः सम्बन्धवशाद्व्यवस्थाप्यते, 'विद्युत्पूर्वकवृष्टिगतनीरस्य वरुणोऽधिपतिः' - इति विद्युद्वरुणयोः सम्बन्धः । इन्द्रप्रजापत्योस्तु स्थानान्तरासम्भवेऽपि 'आगन्तुकानामन्ते संनिवेशः' इति न्यायेन वरुणलोकस्योपरि संनिवेशः । तदेवं वरुणादीनां संनिवेशादर्चिरादिमार्गो व्यवस्थितः ॥
(चतुर्थे, अर्चिरादीनामातिवाहिकत्वाधिकरणे सूत्राणि - )
चतुर्थाधिकरणमारचयति -
मार्गचिह्नं भोगभूर्वा नेतारो वाऽर्चिरादयः ॥
आद्यौ स्यातां मार्गचिह्नसारूप्याल्लोकशब्दतः ॥ ७ ॥
अन्ते गमयतीत्युक्तेर्नेतारस्तेषु चेदृशः ॥
निर्देशोऽस्त्यत्र लोकाख्या तन्निवासिजनान्प्रति ॥ ८ ॥
य एतेऽर्चिरादयः श्रुताः, ते मार्गचिह्नानि भवितुमर्हन्ति, लौकिकमार्गचिन्हसारूण्येण निर्दिश्यमानत्वात् । लोका हि मार्गज्ञानायैवं निर्दिशन्ति - ग्रामान्निर्गत्य नदीं व्रज, ततः पर्वतम् , ततो घोषम् , इति । तद्वदत्रापि - "अर्चिषोऽहः, अह्न आपूर्यमाणपक्षम्" इति निर्दिश्यते । तस्मात् - मार्गचिह्नानि । यद्वा - ब्रह्मलोकं जिगमिषोर्विश्रामस्थान – भोगभूमयोऽर्चिरादयः । कुतः - वायुलोकम् , वरुणलोकम् , इति प्रयुक्तस्य लोकशब्दस्य भोगभूमौ प्रसिद्धत्वात् ॥
इति प्राप्ते, ब्रूमः - "तत्पुरुषोऽमानवः, स एतान्ब्रह्म गमयति" इत्यन्ते श्रूयमाणस्यामानवस्य विद्युत्पुरुषस्य नेतृत्वावगमात् , । तत्साहचर्येणार्चिरादयोऽप्यातिवाहिकदेवता इत्यवगम्यते । यत्तु - निर्देशसाम्यमुक्तम् , तदातिवाहिकदेवतास्वपि समानम् , 'गच्छ त्वमितो बलवर्माणम् , ततो जयगुप्तम् , ततो देवदत्तम्' , इत्यादिनिर्देशदर्शनात् । लोकशब्दस्तूपासकानां तत्र भोगाभावेऽप्यातिवाहिकदेवानां योगमपेक्ष्योपपद्यते । तस्मात् - आतिवाहिका अर्चिरादयः ॥
(पञ्चमे कार्यब्रह्मण एवोत्तरमार्गगम्यत्वाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
परं ब्रह्माथ वा कार्यमुदङ्मार्गेण गम्यते ॥
मुख्यत्वादमृतत्वोक्तेर्गम्यते परमेव तत् ॥ ९ ॥
कार्यं स्याद्गतियोग्यत्वात्परस्मिंस्तदसम्भवात् ॥
सामीप्याद्ब्रह्मशब्दोक्तिरमृतत्वं क्रमाद्भवेत् ॥ १० ॥
"स एतान्ब्रह्म गमयति" इति श्रूयमाणं य़दुत्तरमार्गप्राप्यं वस्तु, तत्परं ब्रह्म भवितुमर्हति । कुतः - ब्रह्मशब्दस्य तत्र मुख्यत्वात् । "तयोर्ध्वमायन्नमृतत्वमेति" इत्यमृतत्वकथनाच्च ॥
इति प्राप्ते, ब्रूमः - सत्यलोकाख्यं कार्यं ब्रह्म, उपासकव्यतिरिक्तत्वात्परिच्छिन्नत्वाच्च गतिपूर्वकप्राप्तियोग्यम् , न तु तथा परं ब्रह्म, तस्य सर्वगत्वात् । उपासकस्वरूपत्वाच्च । ब्रह्मशब्दस्तु मुख्यार्थासम्भवेन सामीप्यसम्बन्धात्सत्यलोकमाचष्टे । समीपो हि सत्यलोकः परब्रह्मणः तल्लोकवासिनां तत्त्वज्ञानेऽवश्यम्भाविनि सति पुनर्जन्मव्यवधानमन्तरेण मोक्ष्यमाणत्वात् । अत एव स्मृतिराह -
"ब्रह्मणा सह ते सर्वे प्राप्ते च प्रतिसञ्चरे ॥
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इति ।
एवं च सत्यमृतत्वश्रुतिः क्रममुक्त्यभिप्राया । तस्मात् - उत्तरमार्गेण प्राप्यं कार्यं ब्रह्म ॥
(षष्ठे प्रतीकोपासकानां ब्रह्मलोकगतिनिराकरणाधिकरणे सूत्रे - )
षष्ठाधिकरणमारचयति -
प्रतीकोपासकान्ब्रह्मलोकं नयति वा नवा ॥
अविशेषश्रुतेरेतान्ब्रह्मोपासकवन्नयेत् ॥ ११ ॥
ब्रह्मक्रतोरभावेन प्रतीकार्हफलश्रवात् ॥
न तान्नयति पञ्चग्निविदो नयति तच्छ्रुतेः ॥ १२ ॥
"स एतान् ब्रह्म गमयति" इति श्रूयमाणोऽमानवः षुरुषो ब्रह्मोपासकवत्प्रतीकोपासकानपि सत्यलोकं प्रापयति, अविशेषश्रवणात् ॥
इति प्राप्ते, ब्रूमः - "तं यथा यथोपासते तदेव भवति" इति श्रुतौ ब्रह्मभावनारूपः ऋतुर्ब्रह्मप्राप्तिहेतुरित्यवगम्यते । न हि प्रतीकोपासकानां ब्रह्मक्रतुरस्ति, येन ते सत्यलोकं गच्छेयुः । किञ्च यथाप्रतीकमर्वाचीनानि फलानि तेषु श्रूयन्ते - "यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति" इति । 'नामब्रह्मोपासितुः शब्दशास्त्रादिलक्षणे नामविशेषे स्वातन्त्र्यं भवति' इत्यर्थः । कथं तर्हि पञ्चाग्निविदां प्रतीकोपासकानां सत्यलोकप्राप्तिः - 'वचनबलात्' इति ब्रूमः । तस्मात् - प्रायतो न प्रतीकोपासकान्सत्यलोकं प्रापयति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि ६ १८५
सूत्राणि १६ ५३४
(प्रथमे मुक्तेर्नवीनत्वनिराकरणाधिकरणे सूत्राणि - )
चतुर्थाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति -
नाकवन्नूतनं मुक्तिरूपं यद्वा पुरातनम् ॥
अभिनिष्पत्तिवचनात्फलत्वादपि नूतनम् ॥ १ ॥
स्वेन रूपेणेति वाक्ये स्वशब्दात्तत्पुरातनम् ॥
आविर्भावोऽभिनिष्पत्तिः फलं चाज्ञानहानितः ॥ २ ॥
"एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति श्रूयते । "अस्यायमर्थः सम्यक्प्रसीदत्युपाध्युपशान्तौ", इति सम्प्रसादो जीवः । स च शरीरत्रयाभिमानं परित्यज्य परं ब्रह्म प्राप्य मुक्तिरूपेणावतिष्ठते, - इति । तत्र – एतन्मुक्तिरूपं न जीवस्य पूर्वसिद्धम् , किन्तु स्वर्गवदागन्तुकम् । कुतः - "अभिनिष्पद्यत" इत्युत्पाद्यत्वश्रवणात् । पूर्वसिद्धत्वे संसारदशायामपि सद्भावेन फलत्वं न स्यात् । तस्मात् - स्वर्गवदिदं नूतनं मुक्तिरूपम् ॥
इति प्राप्ते, ब्रूमः - "स्वेन रूपेणाभिनिष्पद्यते" इति स्वशब्देन विशेषितत्वात्पूर्वमपि विद्यत एवेदं मुक्तिरूपम् । नच – अत्र स्वशब्दः स्वकीयमभिधत्ते, विशेषणवैयर्थ्यप्रसङ्गात् – यद्यद्रूपं मुक्तावुपादत्ते, तत्तत्स्वकीयमेव – इति कस्य व्यावृत्तये विशेष्येत । आत्मवाचित्वे तु स्वशब्दस्य स्वकीयत्वव्यावृत्तिः प्रयोजनम् । नच – अभिनिष्पत्तिरुत्पत्तिः, पूर्वसिद्धस्योत्पत्तेरसम्भवात् । किं तर्हितत्त्वज्ञानेन ब्रह्मत्वाविर्भावोऽभिनिष्पत्तिः । नच – एवंसति 'उपसम्पद्य, अभिनिष्पद्यते' इत्यनयोः पुनरुक्तिः - इति शङ्कनीयम् , उपसम्पत्तिशब्देन तत्पदार्थशोधनस्य विवक्षितत्वात् । अभिनिष्पत्तिस्तु वाक्यार्थावबोधः । नच – पूर्वसिद्धत्वे मुक्तिरूपस्य फलत्वविरोधः, निवृत्ताज्ञानत्वाकारेण पूर्वसिद्धत्वाभावात् । तस्मात् - पुरातनं वस्त्वेव मुक्तिरूपम् ॥
(द्वितीये मुक्तेर्ब्रह्मभिन्नतानिराकरणाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
मुक्तरूपाद्ब्रह्म भिन्नमभिन्नं वा, विभिद्यते ॥
सम्पद्य ज्योतिरित्येवं कर्मकर्तृभिदोक्तितः ॥ ३ ॥
अभिनिष्पन्नरूपस्य स उत्तमपुमानिति ॥
ब्रह्मत्वोक्तेरभिन्नं तद्भेदोक्तिरुपचारतः ॥ ४ ॥
पूर्वाधिकरणे निर्णीतं यदेतन्मुक्तस्वरूपम् , तत्परस्माद्ब्रह्मणो भिन्नं भवितुमर्हति । कुतः - कर्मकर्तृभेदव्यपदेशात् । "एष सम्प्रसादः परं ज्योतिरुपसम्पद्य" इत्यत्र सम्प्रसादशब्दोदितो जीव उपसम्पत्तौ कर्तृत्वेन व्यपदिश्यते । ज्योतिःशब्दवाच्यं च ब्रह्म कर्मत्वेन । तस्मात् - मुक्तस्य जीवस्य स्वरूपं ब्रह्मणो भिन्नम् ॥
इति प्राप्ते, ब्रूमः - "ज्योतिरुपसम्पद्य" इति वाक्यं तत्पदार्थशुद्धिविषयमुक्तम् । अतस्तदानीं भेदोऽस्तु नाम । तत उपरि "स्वेन रूपेणाभिनिष्पद्यते" इति वाक्यं वाक्यार्थदशापन्नं मुक्तिस्वरूपं प्रतिपादय़ति । न च – तस्य ब्रह्मणा भेदोऽस्ति, "स उत्तमः" पुरुषः इति वाक्ये तच्छब्देनाभिनिष्पन्नरूपमुक्तस्वरूपं परामृश्य तस्योत्तमपुरुषशब्दवाच्यब्रह्मस्वरूपत्वाभिधानात् । तस्मात् - मुक्तस्वरूपं ब्रह्माभिन्नम् ॥
(तृतीये सविशेषत्वादिव्यवस्थानिराकरणाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
क्रमेण युगपद्वाऽस्य सविशेषाविशेषते ॥
विरुद्धत्वात्कालभेदाद्व्यवस्था श्रुतयोस्तयोः ॥ ५ ॥
मुक्तामुक्तादृशोर्भेदाद्व्यवस्थासम्भवे सति ॥
अविरूद्धं योगपद्यमश्रुतं क्रमकल्पनम् ॥ ६ ॥
मुक्तस्य स्वरूपभूतं ब्रह्म श्रुतिषु द्विधा प्रतिपाद्यते - क्वचित्सविशेषम् । क्वचिन्निर्विशेषम् । तथाहि - "य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः" इति सविशेषत्वश्रुतिः । "स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव" एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव इति निर्विशेषत्वश्रुतिः । ते एते सविशेषत्वनिर्विशेषत्वे मुक्तिदशायां ब्रह्मणो न युगपत्सम्भवतः, परस्परविरुद्धत्वात् । अतः कालभेदेनोभे व्यवस्थापनीये ॥
इति प्राप्ते, ब्रूमः - प्रतिपत्तृभेदाद्युगपदेव सविशेषत्वनिर्विशेषत्वे उपपद्येते । मुक्तप्रतिपत्त्या निर्विशेषत्वमेव, बद्धप्रतिपत्त्या तु सविशेषं मुक्तस्वरूपं ब्रह्म सर्वज्ञत्वादिगुणविशिष्ट सज्जगत्कारणत्वेनावभासते । न हि मुक्ताः पुरुषाः कदाचिदपि 'सर्वज्ञत्वसत्यसङ्कल्पत्वादिगुणयुक्ता वयम्' इति प्रतिपद्यन्ते, तत्प्रतिपत्तिहेतुभूताया अविद्याया विनाशितत्वात् । बद्धस्वरूपास्त्वविद्यायुक्ताः सन्तो निर्विशेषमेव ब्रह्म "सर्वज्ञत्वादिविशिष्टम्" इति कल्पयन्ति । अतः प्रतिपत्तृभेदाद्व्यवस्थासिद्धौ किमनेन कालभेदकल्पनेन । तस्मात् - युगपदेव सविशेषत्वनिर्विशेषत्वे ॥
(चतुर्थे परलोकगोपासकस्य भोग्यवस्तुसृष्टौ सङ्कल्पहेतुताधिकरणे सूत्रे - )
चतुर्थाधिकरणमारचयति -
भोग्यसृष्टावस्ति बाह्यो हेतुः सङ्कल्प एव वा ॥
आशामोदकवैषम्याद्धेतुर्बाह्योऽस्ति लोकवत् ॥ ७ ॥
सङ्कल्पादेव पितर इति श्रुत्याऽवधारणात् ॥
सङ्कल्प एव हेतुः स्याद्वैषम्यं चानुचिन्तनात् ॥ ८ ॥
पूर्वाधिकरणत्रयेण विदेहमुक्तौ विचारितायां ब्रह्मलोकलक्षणाया मुक्तेरवशिष्टत्वात्तद्विचार आपादसमाप्तेः प्रवर्तते । तत्र – अर्चिरादिमार्गेण ब्रह्मलोकं प्राप्तस्योपासकस्य भोग्यवस्तूनां सृष्टौ बाह्यहेतुरपेक्षितः, न तु मानससङ्कल्पमात्रं तद्धेतुः, तथात्वे सत्याशामोदकसमत्वेन पुष्कलभोगाभावप्रसङ्गात् ॥
इति प्राप्ते, ब्रूमः - "स यदि पितृलोककामो भवति, सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति" इत्यादिना पितृमातृभ्रातृगन्धमाल्यादिभोग्यसृष्टौ सङ्कल्पस्य साधनत्वमभिधायैवकारेण बाह्यहेतुं निराचष्टे । न च – सङ्कल्पकार्याणामाशामोदकसमानत्वं शङ्कनीयम् , उपार्जितमोदकसमानत्वस्यापि सङ्कल्पयितुं शक्यत्वात् । सङ्कल्पशक्तेरुपासनाप्रसादेन निरङ्कुशत्वात् । तस्मात् - सङ्कल्प एव भोग्यसृष्टौ हेतुः ॥
(पञ्चमे देहभावाभावयोरैच्छिकताधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
व्यवस्थितावैच्छिकौ वा भावाभावौ तनोर्यतः ॥
विरुद्धौ तेन पुम्भेदादुभौ स्यातां व्यवस्थितौ ॥ ९ ॥
एकस्मिन्नपि पुंस्येतावैच्छिकौ कालभेदतः ॥
अविरोधात्स्वप्नजाग्रद्भोगवद्युज्यते द्विधा ॥ १० ॥
"मनसैतान्कामान्पश्यन्रमते, य एते ब्रह्मलोके" इति मानसं भोगमुपपादयन्ती श्रुतिर्बाह्यदेहस्य सेन्द्रियस्याभावमाह । "स एकधा भवति त्रिधा भवति" इति श्रुतिर्देहसद्भावं ब्रूते । तावेतौ देहभावाभावावेकस्मिन्पुरुषे विरुद्धौ । तयोः पुरुषभेदेन व्यवस्थितिः ॥
इति प्राप्ते, ब्रूमः - एकस्यापि पुरुषस्य कालभेदेन तौ व्यवस्थितौ । यदा देहमिच्छति, तदा सङ्कल्पेन देहं सृष्ट्वा तत्रावस्थितो जाग्रद्दशायामिव भोगान्भुङ्क्ते, यदा देहं नेच्छति, तदा सङ्कल्पेन तमेव देहमुपसंहृत्य स्वप्नदशायामिव मनसैव भोगान्भुङ्क्ते । तस्मात् - एकस्यापि पुरुषस्यैच्छिकौ देहभावाभावौ ॥
(षष्ठे ज्ञानिनोऽनेकदेहेषु सात्मकत्वाधिकरणे सूत्रे - )
षष्ठाधिकरणमारचयति -
निरात्मानोऽनेकदेहाः सात्मका वा, निरात्मकाः ॥
अभेदादात्ममनसोरेकस्मिन्नेव वर्तनात् ॥ ११ ॥
एकस्मान्मनसोऽन्यानि मनांसि स्युः प्रदीपवत् ॥
आत्मभिस्तदवच्छिन्नैः सात्मकाः स्युस्त्रिधेत्यतः ॥ १२ ॥
"स एकधा भवति, त्रिधा भवति, पञ्चधा, सप्तधा, नवधा" इति युगपदनेकशरीरस्वीकार ऐच्छिक आम्नायते ॥ तत्र – एको देहः सात्मकः, इतरे निरात्मकाः, आत्ममनसोर्बहुभावस्याश्रुतत्वात् । कल्पकाभावाच्च ॥
इति प्राप्ते, ब्रूमः - अस्ति कल्पकं युगपदनेकदेहभोगानुपपत्तिरूपम् । भोगाय हि वहवो देहा निर्मिताः । न च – एकेनैवाऽऽत्मना मनसा च युगपद्बहुदेहानां भोगो दृष्टचरः । तस्मात् - आत्ममनसोर्बहुत्वं कल्पयितव्यम् ॥ यद्यपि नाऽऽत्मान उत्पाद्याः, तथाऽप्येकेन मनसा सङ्कल्प्य बहुषु मनःसूत्पादितेषु तैर्मनोभिरवच्छिन्ना आत्मानो बहवः स्युः । एतदेवाभिप्रेत्य "स एकधा भवति, त्रिधा भवति" इत्यादि श्रुतम् । तस्मात् - सात्मकाः सर्वे देहाः ॥
(सप्तमे ज्ञानिनो जगत्स्रष्टृत्वनिराकरणाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
जगत्स्रष्टृत्वमस्त्येषां योगिनामथ नास्ति वा ॥
अस्ति स्वाराज्यमाप्नोतीत्युक्तैश्वर्यानवग्रहात् ॥ १३ ॥
सृष्टावप्रकृतत्वेन स्रष्टृता नास्ति योगिनाम् ॥
स्वाराज्यमीशो भोगाय ददौ मुक्तिं च विद्यया ॥ १४ ॥
ब्रह्मलोकं प्राप्तानामुपासकानां यथा भोगयोग्यदेहेन्द्रियस्रष्टृत्वमस्ति, तथा वियदादिजगत्स्रष्टृत्वमस्ति "आप्नोति स्वाराज्यम्" इति श्रुत्या निरवग्रहैश्वर्यावगमात् ॥
इति प्राप्ते, ब्रूमः - वियदादिजगत्सृष्टिप्रतिपादकेषु प्रकरणेषु सर्वत्र परमात्मैव स्रष्टृत्वेनावगम्यते, न क्वापि योगिनस्तथाऽवगम्यन्ते । अतो न तेषां जगत्स्रष्टृत्वम् । अन्यथाऽनेकेश्वरत्वे सति कश्चित्सिसृक्षति, कश्चित्सञ्जिहीर्षति, इति जगद्व्यवस्था न सिध्येत् । कथं तर्हि - स्वाराज्यश्रुतिः 'ईश्वराधीनस्वाराज्याभिप्रायेण' इति ब्रूमः । ईश्वरो ह्युपासनया तोषितस्तेषां भोगमात्रसिद्धये स्वाराज्यं ददौ, मुक्तिं च तत्त्वविद्योत्पादनेन दत्तवान् । तस्मात् - जगत्सृष्टौ स्वातन्त्र्याभावेऽपि भोगमोक्षयोस्तेषां स्वातन्त्र्यमस्ति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ समाप्तश्वायमध्यायो ग्रन्थश्च ॥
अत्र पादे आदितः
अधिकरणानि ७ १९२
सूत्राणि २२ ५५६