वक्तव्यकाशिका (पञ्चपादिका व्याख्या)
१ परिच्छेदः
उत्तमज्ञयतिविरचिता पञ्चपादिकाव्याख्या वक्तव्यकाशिका
॥ श्रीगणाधिपतये नमः ॥
॥ श्री सरस्वत्यै नमः ॥
॥ श्री गुरुभ्यो नमः ॥
॥ हरिः ओं ॥
यदध्यासाज्जगच्चित्रमस्ति भाति प्रियं भवेत् ।
तस्मै सत्यचिदानन्दपूर्णब्रह्मात्मने नमः ॥ १ ॥
यन्नामश्रवणाद्भीताः वादिनो वनगोचराः ।
तस्मै ज्ञानोत्तमार्याय भक्त्या नित्यं नमो नमः ॥ २ ॥
ज्ञानोत्तमार्यशिष्योऽहमुत्तमज्ञसमाह्वयः ।
वक्तव्यकाशिकां पञ्चपादिकायाः करोमि वः ॥ ३ ॥
प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्तिप्रचयगमनादिदृष्टप्रयोजनाय शिष्टाचारपरिपालनाय निर्मितिनिमित्तादृष्टप्रयोजनाय च मुखतः इष्टदेवतां नमस्करोति, विषयप्रयोजने तु सङ्क्षेपतो दर्शयति -
अनाद्यानन्देति ॥
नमस्कार्यस्य ब्रह्मणः प्रमेयत्वद्योतनाय पुरुषार्थरूपानन्दत्वेन ब्रह्म विशिनष्टि -
आनन्देति ।
आनन्दस्य क्षणिकत्वादात्यन्तिकपुरुषार्थत्वाभावात् प्रसिद्धत्वादपूर्वत्वाभावाच्च श्रुतितात्पर्यविषयत्वाभावः प्राप्त इत्याशङ्क्य अनाद्यपरिच्छिन्नानन्दस्यालौकिकत्वेनापूर्वत्वात् आत्यन्तिकपुरुषार्थत्वाच्च तात्पर्यविषयत्वमित्याह
अनादीति ।
कथमानन्दस्यानादित्वादिसिद्धिरिति नाशङ्कनीयम् । आनन्दे जन्मपरिच्छेदादिप्रतिभासस्य वर्णेषु दैर्घ्यादिप्रतिभासवदौपाधिकधर्मविषयत्वेनाभासत्वात् । एवम्भूतब्रह्मानन्दो मोक्षोऽवगतोऽनवगतो वा ? अनवगतश्चेत् गृहमध्ये चिरनिहिताज्ञातघटवत् पुरुषार्थो न स्यात् । अवगतत्वेऽपि जन्यज्ञानेनापरोक्षत्वाय जनकेन्द्रियस्य तदाधारभूतदेहस्य तदाधारभूतान्नपानादिजगतोऽवस्थानप्रसङ्गात् मोक्षासम्भवः इत्याशङ्क्य, सुखापरोक्ष्यस्य पुरुषार्थत्वादेव केवलव्यतिरेकशून्यस्य जन्यापरोक्ष्यस्याप्रयोजकत्वात् ज्ञानस्य भावत्वेनापरोक्ष्यमित्याह
ज्ञानमिति ॥
ज्ञानस्य क्षणिकत्वात् परिच्छिन्नत्वादनाद्यपरिच्छिन्नानन्दस्वरूपत्वं न स्यादित्याशङ्क्य क्षणिकत्वादीनामौपाधिकत्वेनाभासत्वात् ज्ञानं कूटस्थमित्याह -
कूटस्थेति ।
ईश्वरानन्दस्यानादित्वे अपरिच्छिन्नत्वे स्वसत्तायां स्फुरणाव्यभिचारित्वेन ज्ञानरूपत्वेऽपि कदाचित् ज्ञानबाध्यत्ववत् इहापि बाध्यत्वं स्यादित्याशङ्क्य ईश्वरानन्दस्य मायोपाधौ प्रतिबिम्बितत्वेन तदैक्याध्यासादुपाधिबाधया प्रतिबिम्बितस्यापि बाधोऽस्तु मोक्षानन्दस्य तु बाध्योपाध्येकत्वाध्यासाभावादबाध्यत्वमित्याह -
सदिति ।
तत्त्वस्य प्रतिपदार्थं भिन्नत्वात् परिच्छिन्नत्वाच्चापरिच्छिन्नाद्वयानन्दं प्रति स्वरूपत्वमयुक्तमित्याशङ्क्य सति भेदादिप्रतिभासस्यौपाधिकभेदाभासविषयत्वेनान्यथासिद्धत्वात् सदनन्तमित्याह
सदनन्तेति ।
सच्चिदानन्दानां प्रत्येकमखण्डत्वेऽपि कालाकाशादिवदन्योन्यं भिन्नत्वादनित्यत्वमाशङ्क्य भेदस्याभासत्वाद्वस्तुत ऐक्यमेवेत्याह -
आत्मन इति ।
एवम्भूतस्य वस्तुनः संसारावस्थायां योग्यत्वे सत्यनुपलम्भात् अनन्तसच्चिदानन्दात्मकवस्तुविपरीत परिच्छिन्नासत्यजडहेयप्रपञ्चस्यावभासमानत्वाच्चैवम्भूतवस्तु न भवतीत्याशङ्क्य द्वैतजालस्याभूतस्यापरमार्थस्यैवम्भूते वस्तुनि कल्पितत्वात् सवितृप्रादेशस्येवावभासमानत्वे स्वस्मिन् कल्पितविरुद्धप्रपञ्चेन छन्नत्वादवभासमानस्यापि वस्तुनोऽप्रकाशमानत्वं च न विरुद्ध्यत इत्याह –
अभूतद्वैतजालायेति ।
संसारावस्थायां वस्तुनः प्रपञ्चात्मत्वेऽपि मोक्षकाले साधनेन निवर्ततामिति वाऽशङ्क्य ज्ञाननिवर्त्यत्वात् पूर्वमपि वस्तुनः प्रपञ्चात्मत्वं नास्तीत्याह –
अभूतद्वैतजालायेति ।
वस्तुनः प्रपञ्चात्मत्वाभावे प्रपञ्चसाक्षित्वं हेतुमाह -
साक्षिण इति ।
एवम्भूते वस्तुनि किं प्रमाणमित्यपेक्षायां ब्रह्मशब्दप्रयोगानुपपत्तिः प्रमाणमित्याह -
ब्रह्मण इति ।
कथं विषयप्रयोजने प्रदर्श्येते इति - श्रुणु - अनाद्यानन्दकूटस्थज्ञानानन्दं सदिति तत्पदार्थं निर्दिशति । आत्मन इति त्वम्पदार्थं निर्दिशति । अभूतद्वैतजालायेति तत्पदार्थस्य शोधितरूपं निर्दिशति । साक्षिण इति त्वम्पदार्थस्य शोधितरूपं निर्दिशति । साक्षिणे ब्रह्मण इति सामानाधिकरण्येन ब्रह्मात्मैक्यलक्षणविषयं दर्शयति | अनाद्यानन्देति प्राप्यब्रह्मणः आनन्दस्वरूपत्वकथनेन परमानन्दप्राप्तिलक्षणप्रयोजनमुपन्यस्यति । अभूतद्वैतजालाय साक्षिण इत्यंशेन सवासनस्य सकलसंसारस्य निवृत्तिलक्षणप्रयोजनं च दर्शयति इत्याचार्याल्लब्धत्वेन ज्ञानस्यापरोक्ष्यशिरस्कत्वं तथाविधज्ञानस्य चात्मत्वमाचार्यस्य ग्रन्थकरणयोग्यता योग्येन कृतस्यादरणीयतेति स्थितिः । अतः स्वग्रन्थस्यादरणीयत्वसिद्धये त्रिभिर्नमस्कारश्लोकैः स्वस्याचार्याल्लब्धविद्यत्वेन ग्रन्थकरणयोग्यता अस्तीति सूचयति - तत्र -
नमः श्रुतिशिरः पद्मेत्यादि - मार्तण्डमूर्तय इत्यन्तेन ।
श्रीवेदव्यासभगवतः श्रवणादिपौष्कल्यं दर्शयति । मार्तण्डस्य मूर्तिरिव मूर्तिर्यस्यासौ मार्तण्डमूर्तिः तस्मै इति निर्वचनम् । उपनिषदां निर्णये तच्छक्तितात्पर्यविषयविशिष्टलक्षणविकसने च गुरुतरा अस्य मूर्तिरित्यर्थः ।
कृच्छ्रचान्द्रायणादितपसां पुष्कलत्वमाह –
बादरायणसंज्ञायेति ।
बदरा यस्मिन् सन्ति स देशो बादरः, तादृशदेशोऽयनं स्थानं भवति यस्य स आचार्यो बादरायणः, सैव संज्ञा अस्येति निर्वचनम् ।
मननपौष्कल्यमाह -
मुनय इति ।
मननान्मुनिस्तन्निपुण इत्यर्थः ।
शमदमादिपूर्वकनिदिध्यासनसम्पन्न इत्याह -
शमवेश्मन इति ।
शम एवास्य वेश्मेति शमवेश्मा, शमस्य असावेव वा वेश्मेति शमवेश्मेतीति वा निर्वचनम् ।
नमामीति श्लोकः भाष्यकारस्य परमेश्वरेण विरुद्धविशेषाभिधायित्वेन योज्यः ।
अभोगिपरिवारसम्पदमिति ।
देवस्येव सम्भोगरताः सर्पा वा अस्य न परिवारसम्पदित्यर्थः ।
निरस्तभूतिमिति ।
देवस्येव भसितमणिमाद्यैश्वर्यं वा अस्य नास्तीत्यर्थः ।
अनुमार्धविग्रहमिति ।
देवस्येवास्योमार्धविग्रहत्वं न भवति । अनुमानमस्य विग्रहेऽर्धं भवति श्रुतिश्चार्धभागे भवतीति चार्थः ।
अनुग्रमिति -
नामतोऽर्थतश्च देववदुग्रो न भवतीत्यर्थः ।
उन्मृदितकाललाञ्छनमिति -
देववदस्य कण्ठे कालं (लाञ्छनं) कार्ष्ण्यं नास्ति । अनुक्तिदुरुक्त्यादिकालमस्य कण्ठे नास्तीति वार्थः ।
विना विनायकं
देववदसौ विनायकसहितो न भवति । विनाकृताः निराकृताः विनायकाः बौद्धा येनासौ विना विनायक इति वा निर्वाहो द्रष्टव्यः ।
यद्वक्त्रेति श्लोकोऽपि पञ्चपादिकाकारस्य भाष्यकारशिष्यत्वं प्रशिष्यत्वं वाङ्गीकृत्य, शिष्यत्वपक्षे भाष्यकारनमस्कारपरत्वेन, प्रशिष्यत्वपक्षे स्वगुरुनमस्कारपरत्वेन च योज्यः । भाष्यवित्तकगुरूनिति पदस्य वित्तमेव वित्तकम्, भाष्यमेव वित्तकं येषां ते भाष्यवित्तकाः तेषां भाष्यवित्तकानां गुरुः भाष्यकारो भाष्यवित्तकगुरुः तान् भाष्यवित्तकगुरूनिति शिष्यत्वपक्षे निर्वाहः । प्रशिष्यत्वपक्षे अस्य पदस्य वित्तमेव वित्तकम्, भाष्यमेव वित्तकं येषामस्मद्गुरूणां ते अस्माकं भाष्यवित्तकगुरवः, तान् भाष्यवित्तकगुरूनिति निर्वाहः । यच्छब्दोऽपि भाष्यकारपरत्वेन स्वगुरुपरत्वेन च योजयितव्यः । स्वगुरुपरत्वपक्षे भाष्यकारेण भाष्यस्योत्पत्तिरेव केवलम् , अस्मद्गुरुभ्यो जन्म भवति पुनर्जातमिव प्रवृद्धं भवतीति प्रतिलब्धजन्मेति शब्दो योजयितव्यः ।
प्रत्याशमिति ।
प्रतिदिक्षु स्थित्वेत्यर्थः । उन्मुखत्वं नाम श्रद्धाकरणम्, विनीतत्वं नाम, शास्त्रेणाप्रतिषिद्धयत्नवान् अव्याजेन श्रवणं त्वविहायोपासनादिपूर्वकं शुश्रूषां कृत्वैव श्रवणं द्रष्टव्यम् ।
पदादिवृन्तेति श्लोकेन चिकीर्षितं निर्दिशति । तत्र पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् ॥ इति व्याख्यानलक्षणमाहुः । तत्र भाष्यस्यापि पदच्छेदादि विषयत्वेन पञ्चलक्षणं व्याख्यानं कर्तुं शक्यते । अतो व्याख्येयं भाष्यमिति द्योतनाय भाष्यं विशिनष्टि -
पदादीति ।
पादत्रयेण तत्र पदच्छेदः पदार्थोक्तिः विग्रह इति त्रितयविषयत्वं भाष्यस्य दर्शयति
पदेत्यारभ्य बिभर्तीत्यन्तेन ।
अत्रादिपदेन पदार्थवृन्दसमासवृन्दे च भाष्ये विद्येते इति दर्शयति इति ?
वाक्ययोजना विषयत्वमाह -
प्रसन्नमिति ।
आक्षेपसमाधानविषयत्वमस्तीत्याह -
गम्भीरमिति ।
ननु भाष्यव्याख्यामारभ इत्युक्तमयुक्तम् ; भाष्यलक्षणस्य सूत्रार्थप्रतिपादकत्वस्याभावादेव भाष्यत्वाभावात् युष्मदस्मदित्यादेरिति तत्राह -
युष्मदस्मदिति ।
युष्मदस्मदित्यादिलोकव्यवहार इत्यन्तं कस्माद् भाष्यं भवेदित्यपेक्षायामाह -
शास्त्रस्य विषयं प्रयोजनं च प्रतिपादयतीति ।
सूत्रसन्दर्भलक्षणशास्त्रस्य यद्विषयप्रयोजनं यत् तस्य हेतुः बन्धस्याध्यासात्मकत्वं तदभिधानेन विषयप्रयोजने तात्पर्येण प्रतिपादयतीत्यर्थः ।
बन्धस्य अध्यासात्मकत्वं हेतुत्वेनोच्यमानमसिद्धं कथं सिद्ध्यहेतुवाचकं शास्त्रीयविषयप्रयोजनपरं भाष्यं भवेदित्याशङ्क्यास्यानर्थहेतोरित्यनेनैकवाक्यत्वात् मध्यवर्तिलक्षणासम्भावनाप्रमाणभाष्यत्रयेण सिद्धमध्यासं हेतुत्वेनानूद्य विषयादिसाधकं भवतीत्यभिप्रेत्याह -
अस्य अनर्थहेतोरिति ।
पर्यवस्यत्
अनेन एकवाक्यतां गच्छत् इत्यर्थः ।
विषयादिसाधकत्वं भवतु, तथापि भाष्यत्वं न सिद्ध्यति, सूत्रार्थप्रतिपादकत्वाभावात् , इत्याशङ्कायां तन्निरासाय आह -
`प्रयोजनं च सूत्रेण सूत्रिते’ इति ।
`अथातो ब्रह्मजिज्ञासा’ इति सूत्रेण सूत्रिते इत्यर्थः ।
विषयप्रयोजने सूत्रार्थत्वेन न दृश्येते, जिज्ञासाकर्तव्यताया एव प्रतीतेरिति - तत्राह -
अर्थात् सूत्रिते इति ।
किमत्र प्रमाणमिति - तत्राह –
प्रथमसूत्रेणेति ।
प्रथमसूत्रत्वात् सूत्रे श्रोतृप्रवृत्त्यङ्गत्वेन विषयप्रयोजने सूत्रिते इत्यर्थः ।
इति शब्दो यस्मादर्थे, यस्मात् प्रथमसूत्रेण सूत्रिते तस्मात् प्रतिपादयतीति । अर्थात् सूत्रिते चेद्विषयप्रयोजने तर्हि भाष्यकारेण साक्षादेव प्रतिपादनीये, नत्वध्यासाभिधानमुखेनार्थात् प्रतिपादनीये इति - तत्राह –
एतच्चेति ।
एतद्विषयप्रयोजनद्वयमित्यर्थः ।
प्रदर्शयिष्याम इति ।
भाष्यकारेणोक्तमिति प्रदर्शयिष्याम इत्यर्थः ।
भाष्यकारेणोक्तं चेत् अस्माभिरेव द्रष्टुं शक्यम् , किमिति भवद्भिः प्रदर्श्यत इत्याशङ्क्याह –
स्पष्टमिति ।
तर्हि भाष्यकारस्य अस्पष्टोक्तिलक्षणदूषणमुद्भावितं स्यादित्याशङ्क्य तैरपि स्पष्टं प्रदर्शितं वयं दर्शयिष्याम इत्याह
स्पष्टतरमिति ।
यद्येवमिति ।
सूत्रितविषयप्रयोजनप्रतिपादकत्वात् युष्मदस्मदित्यादिभाष्यं भवति चेदित्यर्थः ।
एतावच्छब्देन प्रथमभाष्यस्योपादानं मा भूदिति दर्शयति -
अस्यानर्थेति ।
विषयप्रयोजनयोरनेनापि कण्ठोक्तताभावात् अभाष्यत्वेन त्याज्यत्वपरिहारार्थं चतुर्थ्या कण्ठोक्तं प्रयोजनमिति निर्दिशति -
तत्र अनर्थहेतोः प्रहाणायेतिरिति ।
चतुर्थ्या स्वयं प्रतिपन्नत्वात् तन्निर्दिश्यत इत्या (इत्युक्तिः ? ) व्यर्थेति चेत् तदुत्तरवाक्यस्थचतुर्थीवत् प्रयोजनानभिधायित्वशङ्कानिरासायोक्तेरर्थवत्वात् । उत्तरचतुर्थ्याश्च प्रयोजनवाचित्वं प्रकरणात् प्राप्तं व्यावर्त्य, वेदान्तारम्भम्, प्रत्यवान्तरप्रयोजनज्ञानस्य निर्देशेऽपि तात्पर्येण विषयपरत्वं दर्शयति -
विषयप्रदर्शनमिति ।
अभिधायकत्वं विहाय तात्पर्येण विषयप्रतिपादकमपि भाष्यं चेत् प्रथमभाष्यस्यापि विषयप्रयोजने तात्पर्यवत्वेन भाष्यत्वमस्तीत्याशङ्क्य शक्तितात्पर्ययोरन्यतरेणापि तद्विषयप्रयोजनस्पर्शि न भवतीत्याह –
किमनेनेत्यादिना ।
देहे अहमित्यभिमानरूपमिन्द्रियादिषु ममाभिमानरूपं चाध्यासमभिधेयार्थत्वेन दर्शयति
देहेन्द्रियादिष्वित्यादिलोकव्यवहारस्येत्यन्तेन,
देहोऽहमित्यभिमानाभावात् जात्यादिविशिष्टदेहे अहमभिमान इति दर्शयति -
अहं मनुष्य इति ।
अध्यासमाक्षिप्य लोकव्यवहारः समाधीयत इत्यसङ्गतत्वेन निरर्थकत्वादर्थवत्वसिद्धवत्कारेण विषयादिभ्यो नार्थान्तरपरत्वं प्रदर्शनीयमित्याशङ्क्याध्यासलोकव्यवहारयोः सामानाधिकरण्येनैक्यं दर्शयति -
इत्यभिमानस्येति ।
तात्पर्यविषयमाह –
अविद्यानिर्मितत्वेति ।
अध्यासो वादिभिरङ्गीकृताविवेकादिरूपो न भवति, किन्त्वनिर्वचनीयाविद्यानिर्मित इत्यस्मिन्नर्थे तात्पर्यमित्यर्थः ।
विषयप्रयोजनयोरनिर्दिष्टत्वेन स्वनिर्देशकग्रन्थेन केनचिद्भवितव्यमित्यपेक्षा उत निर्दिष्टत्वान्निर्देशकापेक्षाभावात्तयोः प्रसक्त्यसिद्धशङ्कायां साधकापेक्षा, यदि निर्देशकापेक्षा तदा अस्यानर्थहेतोरित्येतावतैवालम् , तस्य निर्देशकत्वात् । न तु निर्देशकापेक्षा । वेदान्तवाक्यविचारः कर्तव्यः विषयप्रयोजनवत्वात् कृष्यादिवत् इति सूचयता सूत्रकारेण शास्त्रारम्भे हेतुतया विषयप्रयोजनयोः निर्दिष्टत्वात् । किन्तु विचाररूपशास्त्रस्य विषयप्रयोजनवत्वं यत्सूत्रकारेणोक्तं तदसिद्धमित्यसिद्धिशङ्कायां साधकापेक्षैव विद्यते । अतः साधकापेक्षविषयप्रयोजनसिद्धिहेतुभूताध्यासाभिधायित्वात् युष्मदस्मदित्यादेः सुतरां भाष्यत्वमस्तीत्यभिप्रेत्याह -
उच्यत इति ।
विषयप्रयोजनयोस्सूत्रेणानिर्दिष्टत्वात् भाष्येण साध्यतया प्राप्तत्वं तयोतेर्नभवतीत्याशङ्क्य ब्रह्मज्ञानमनर्थं तद्धेतुनिवृत्तिप्रयोजनं सूत्रितं हीत्याह -
अनर्थहेतुनिबर्हणं हीति ।
कथं विशेषितस्य सूत्रितत्वमित्याशङ्क्याह -
ब्रह्मज्ञानं हीति ।
किमिति भाष्यकारेण बन्धस्य मिथ्यात्वोपायेन विषयप्रयोजने साध्ये इत्याशङ्क्यानर्थतद्धेत्वोः ज्ञाननिवर्त्यत्वस्य सूत्रकारेण सूत्रितत्वात् । ज्ञाननिवर्त्यत्वाय मिथ्यात्वं प्रसाध्य तेन हेतुना विषयप्रयोजने साधनीये इत्याह -
ज्ञानं हीति ।
तर्हि नरकपाताद्यनर्थस्य मिथ्यात्वं प्रसाध्यतामिति तत्राह –
अनर्थश्चेति ।
अत्र भोक्तृत्वमनर्थः, तद्धेतुत्वात् कर्तृत्वप्रमातृत्वयोरप्यनर्थतेति योजना । त्रयाणामनर्थत्वाभावात् । नरकपातकूपपातादीनामेवानर्थत्वे एकप्रयोजकस्यावक्तव्यत्वात् । भोक्तृत्वादीनां तद्धेतुकोशपञ्चकस्यैव अध्यासात्मकत्वं वर्णनीयमित्यभिप्रायो द्रष्टव्यः ।
वस्तुरूपमेव प्रमातृत्वादिज्ञानेन निवर्ततामिति तत्राह -
तद्यदि वस्तुकृतमिति ।
अत्र वस्तुना कृतं वस्तुत्वेन कृतमिति च योजना ।
अज्ञानस्यैव निवर्तकं चेदहङ्कारादेरनिवर्तकं ज्ञानमित्यापततीति तत्राह -
तद्यदि कर्तृत्वमिति ।
अज्ञानकार्यत्वेनाज्ञानात्मकत्वान्निवर्त्यत्वमस्तीत्यर्थः ।
तत्प्रदर्शनद्वारेणेति ।
अविद्यात्मकत्व प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितयाऽध्यासो वर्णनीय इत्यध्याहृत्यान्वयः । तत्र अर्थशब्देन विचारकर्तव्यतोच्यते, उपपद्यते विचारकर्तव्यता याभ्यामिति व्युत्पत्त्या विषयप्रयोजने उच्येते । उपयोगितयेति विषयप्रयोजनसिद्धिहेतुतयेत्यर्थः ।
सूत्रेण मुखतः सूत्रितमर्थं विहाय आर्थिकमध्यासं भाष्यकारः प्रथमं किमिति वर्णयतीति तत्राह -
सकलतन्त्रोपोद्घातः प्रयोजनमस्य भाष्यस्येति ।
अत्रानेन भाष्येण निर्णीतो योऽध्यासः स सकलतन्त्रार्थस्योपोद्घातो हेतुरित्येका योजना, इदं भाष्यं सकलतन्त्रस्य शास्त्रस्योपोद्घात इत्यपरा ।
प्रयोजनमिति ।
भाष्यजन्यप्रमितिफलविशिष्टतया भाष्यस्य प्रयोजनमध्यास इत्यध्यास उच्यते । तन्त्रशब्देन लक्षणया तन्त्रार्थरूपब्रह्मात्मैकत्वमुच्यते, तन्त्र्यत इति तन्त्रमिति योगवृत्त्या वा तदेवोच्यत इति
अनर्थनिवृत्तिरूपप्रयोजनस्य जन्यत्वात् अध्यासस्य तद्धेतुत्वेऽपि ब्रह्मात्मताविषयरूपं प्रति हेतुत्वमयुक्तम् । तस्याजन्यत्वादित्याशङ्क्य सत्तासिद्धिहेतुत्वाभावेऽपि प्रतीतिसिद्धिहेतुत्वमस्तीति वदितुं तन्त्रार्थतात्पर्यविषयं दर्शयति -
तथा चास्य शास्त्रस्येति ।
ऐदम्पर्यं प्रतिपादितमित्युत्तरेण सम्बन्धः ।
ऐदम्पर्यमित्यत्रेदंशब्दोक्तविषयं प्रथमश्लोकोक्तप्रकारेण दर्शयति -
सुखैकतानेत्यादिना स्वरूपमित्यन्तेन ।
तत्र अनाद्यानन्देति पदोक्तार्थमाह –
सुखैकतानेति ।
कूटस्थज्ञानेति पदोक्तमर्थमाह –
कूटस्थचैतन्येति ।
अनन्तसदिति पदोक्तार्थमाह –
सदात्मेति ।
आप्नोतीत्यात्मेति निर्वचनादात्मशब्देन अनन्तसत्यत्वानन्तपदोक्तार्थः उच्यत इति द्रष्टव्यम् ।
अनन्तसदात्मन इत्यत्र आत्मशब्दार्थमाह –
एकरसतेति ।
संसारिण आत्मनो रूपमित्युक्ते विरुद्धस्वभावत्वाद् ब्रह्मणोऽसंसारिणो रूपमिति स्यात् , तद्व्यावृत्त्यर्थमाह –
संसारित्वेनाभिमतस्येति ।
तर्हि संसारित्वेन अभिमतस्याभिमन्यमानसंसारित्वमेव रूपं भवेदित्याशङ्क्य, सत्यम् , कूटस्थचैतन्यैकरसतातु पारमार्थिकी इत्याह –
पारमार्थिकमिति ।
ऐदम्पर्यमित्यत्र परशब्दार्थमाह -
वेदान्ताः पर्यवस्यन्तीति ।
प्रतिपादितं -
सूत्रभाष्याभ्यां प्रतिपादितमित्यर्थः ।
सत्यत्वेन प्रतिपन्नकर्तृत्वादि........त्पत्तिं प्रतिबध्नाति स एव अध्यासात्मकत्वेन निर्णीतो न प्रतिबध्नातीत्येवमध्यासस्य विषयप्रतीतिसिद्धिहेतुत्वात् अध्यासः प्रथमं वर्णनीय इति दर्शयति -
तच्चेत्यादिना ।
तत्र सुखैकतानेत्यादित्रयेण विरुद्धाकारत्रयप्रतिभासनमात्मन्यस्तीति दर्शयति -
अहं कर्तेत्यादिना ।
तत्रापि ब्रह्मगतानन्तसत्वाकारविरुद्धं परिच्छिन्नत्वमाह –
अहमिति ।
कूटस्थचित्वविरुद्धाकारमाह –
कर्तेति ।
कर्तृत्वादेवकर्तृत्वे प्रयोजकं परिणामिजडत्वं कार्यत्वं कल्प्यमस्तीत्यर्थः ।
सुखत्वविपरीतमाह –
सुखीति ।
एकतानत्वविपरीतकादाचित्कत्वं सुखस्य सूचयति -
दुःखीति ।
दुःखोत्पत्तिव्यवधानोऽहङ्कर्ता सुखी दुःखीत्यादिभासेन विरुद्ध्यत इत्युक्ते श्रुतिजन्यज्ञानेन बाध्यत्वात् । तत्प्रति विरोधकत्वाभाव इत्याशङ्क्याह –
प्रत्यक्षेति ।
तर्हि प्रत्यक्षत्वात् श्रौतज्ञानं प्रति विरोधकत्वंविहाय बाधकत्वमेव प्राप्तमित्याशङ्क्याह –
अभिमतेनेति ।
प्रत्यक्षाभिमतस्य रूप्यज्ञानस्येव बाध्यत्वात् अविरोधकत्वमित्याशङ्क्याह –
अबाधितेति ।
तर्हि बाधकत्वमिति नेत्याह –
कल्पेनेति ।
व्यवहारावस्थायामबाधितत्वात् । प्रत्यक्षत्वाच्च अबाधितमेवापतति इति शङ्कां व्युदस्यति -
अवभासेनेति ।
अवमतः भासोऽवभासः, वर्णह्रस्वादिवत्औपाधिककर्तृत्वविषयः किं वा स्वाभाविककर्तृत्वविषय इति सन्दिह्यमानत्वं तस्यावमतत्वं नाम । अहं कर्तेत्यादिप्रत्यक्षमौपाधिकत्वेन सन्दिग्धार्थविषयतया सत्यार्थविषयत्वेन प्रतिपन्नतया च तत्त्वज्ञानोदयप्रतिबन्धकं भवति । तदेव न्यायतो मिथ्यात्वेन निर्णीतकर्तृत्वादिविषयं तत्त्वज्ञानेन बाध्यं स्यात् । अतोऽप्रतिबन्धकतया बाध्यत्वाय मिथ्यात्वनिर्णायकन्यायैरध्यासो वर्णनीय इत्यभिप्रायः । अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपमविद्यानिर्मितमिति प्रदर्श्यत इति प्रथममन्वयः । पश्चाद्यावन्न प्रदर्श्यत इति चान्वयो द्रष्टव्यः । जरद्गवः पादुककम्बलाभ्यां द्वारि स्थितो गायति मद्रकाणि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्घः ॥ इति वाक्यमिहोदाहृतमिति द्रष्टव्यम् ।
शास्त्रार्थसिद्धिहेतुश्चेत् अध्यासः सूत्रकारेण मुखतो वर्णनीय इति तत्राह -
वक्ष्यति चैतदिति ।
अत्र वक्ष्यति चैतत्सूत्रकार इति प्रथममन्वयः ।
सूत्रकारेण अध्यासात्मकत्वस्यात्रैव किमित्यनुक्तिरित्याशङ्क्य समन्वयाध्यायेन वेदान्तानां ब्रह्मात्मैक्ये समन्वये प्रतिपादिते पश्चादात्मनो ब्रह्मत्वप्रतिपादक श्रुतीनामात्मगतादिकर्तृत्वादिसाधकप्रमाणविरोध उद्भाविते कर्तृत्वादीनामध्यासात्मकत्वेनाभासत्वात् तद्विषयप्रतिभासस्य प्रमाणत्वं नास्ति, किन्तु प्रमाणाभासत्वमेव, अतस्तद्विरोधो नास्तीत्यविरोधोक्त्युपयोगादध्यासोऽविरोधाध्याये वक्तव्य इति मत्वा आह -
अविरोधलक्षण इति ।
तत्रापि जीवगतधर्माणां मिथ्यात्ववर्णनेन जीवस्वरूपप्रतिपादकजीवपादे अध्यासवर्णनस्य सङ्गतिरित्याह -
जीवप्रक्रियायामिति ।
बन्धस्याध्यासात्मकत्वं विषयप्रयोजनसिद्धिहेतुरिति सूत्रकारोऽप्यङ्गीकृत्य तमध्यासं स्वयमेव वर्णयिष्यति चेदित्याह –
यद्येवमिति ।
एतदेवेति ।
अध्यासविषयतद्गुणसारत्वादित्यादिसूत्रमित्यर्थः ।
अर्थविशेषोपपत्तेरिति ।
अर्थविशेषे तस्मिन् प्रमाणे च प्रतिज्ञाते सत्यविरोधायाध्यासवर्णनस्योपपत्तेरित्यर्थः ।
अत्र अर्थविशेषस्य प्रयोजनविशेषस्योपपत्तेरित्यर्थान्तरप्रतीतिं व्यावर्त्य विवक्षितमर्थं दर्शयति -
अर्थविशेषे हि समन्वय इति ।
अस्य अयमर्थः । प्रथमसूत्रेण ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थविशेषे ब्रह्मणि विचार्यत्वेन प्रतिज्ञाने ब्रह्म किं लक्षणकमित्याकाङ्क्षायां ‘जन्माद्यस्य यत’ इति सूत्रेण ब्रह्मलक्षणे प्रतिपादिते एवंरूपे ब्रह्मणि किं प्रमाणमित्याकाङ्क्षायां ‘तत्तु समन्वयात्’ इत्यादिसूत्रैर्वेदान्तवाक्येषु प्रमाणत्वेनोपन्यस्तेषु पश्चाद्वेदान्तानां प्रत्यक्षादिविरोधाशङ्कायां तन्निरासाय सूत्रकारेण विरोधलक्षणे अध्याससूत्रं प्रणेतव्यमिति ।
भाष्यकारवत् अर्थविशेषप्रतिज्ञां तत्र प्रमाणोपन्यासं च विना विरोधशङ्कानिरासार्थं सूत्रकारेणाप्यध्याससाधनमस्त्वित्याशङ्क्य भाष्यकारस्य सूत्रकारोऽर्थविशेषं प्रतिज्ञाय तत्र प्रमाणमवादीत् । ततस्तत्रविरोधशङ्कापरिहाराय भाष्यकारस्य अध्याससाधनं सम्भवति । तद्वत् सूत्रकारस्यान्येन केनचिदर्थविशेषे प्रमाणविशेषोपन्यासाभावात् अर्थविशेषं स्वयमेव प्रतिज्ञाय तस्मिन् प्रमाणमुपन्यस्य पश्चात् प्रमाणान्तरविरोधः परिहर्तव्य इत्याह -
प्रदर्शित इति ।
प्रथमसूत्रव्याख्यानकाले भाष्यकारस्याध्यासोपपादनं निर्मूलं स्यात् । प्रथमसूत्रेणाध्यासस्यानुपात्तत्वात् उत्तरव्याख्यानमिदमिति चायुक्तम् । तस्य पश्चाद्भावित्वमित्याशङ्क्याह -
भाष्यकारस्तु तत्सिद्धमिति ।
उत्तरसूत्रसिद्धमित्यर्थः ।
सूत्रसिद्धत्वात् तद्वर्णनं समूलं भवतु, अत्र वर्णनममूलमित्याशङ्क्य प्रथमसूत्रेणापि सूचितमित्याह -
आदिसूत्रेण सूचितमिति ।
आदिसूत्रस्यार्थत्वेनाध्यासो न दृश्यत इत्याशङ्क्याह -
सामर्थ्य इति ।
सामर्थ्येनापि सूचिते विषयप्रयोजने नाध्यास इत्याशङ्क्याह –
बलेनेति ।
सूत्रकारेणाध्यासस्य सूत्रितत्ववत् तद्व्याख्यात्रा भाष्यकारेणापि सूत्रितत्वमेव भविष्यति किमनेन वर्णनेन इत्याशङ्क्य, भाष्यकारत्वाच्छ्रोतृप्रवृत्त्यर्थं वर्णनीयमेवेत्याह -
भाष्यकारस्तु वर्णयतीति ।
भाष्यमनाप्तप्रणीततया व्याख्येयं न भवतीति प्रसज्यत इत्यभिप्रेत्य चोदयति -
ननु च ग्रन्थकरणादिकार्यारम्भे इति ।
कृतमङ्गलाः शिष्टाः प्रवर्तन्त इति ग्रन्थाद्बहिरेव भेरीघोषादिसहितदेवब्राह्मणपूजादिलक्षणं मङ्गलाचरणं कृतमेवेत्याशङ्क्य चिकीर्षितवाचिककार्यस्य अनुकूलमङ्गलाचरणं कर्तव्यमित्याह –
कार्यानुरूपमिति ।
कार्यव्यक्तीनामानन्त्यादिदं प्रतीदं मङ्गलाचरणमिदं प्रतीदमिति ज्ञातुमशक्यत्वात् कार्यानुरूपमङ्गलाचरणं केनापि कर्तुं न शक्यत इत्याशङ्क्य कार्यव्यक्तीनां कायिकं वाचिकं मानसमिति च त्रिराशीकर्तुं शक्यत्वात् ।
कायिककार्यारम्भे कायिकं नमस्कारादिलक्षणं मङ्गलाचरणं वाचिककार्यारम्भे वाचिकम् अथवृद्ध्यादिशब्दप्रयोगलक्षणम्, मानसकार्यारम्भे मानसं दध्यादिदर्शनरूपं मङ्गलाचरणमिति ज्ञातुं शक्यत्वादत्र चिकीर्षितकार्यस्य वाचिकत्वात् वाचिकं मङ्गलाचरणं कर्तव्यमेवेत्याह –
इष्टदेवतेत्यादिना ।
अथवृद्ध्यादिशब्देषु नियमं वारयति -
बुद्धिसन्निधापितेति ।
शिष्टाचारश्च नः प्रमाणमिति ।
अस्यायमर्थः - आचारो धर्म इति बुद्ध्या अनुष्ठीयमानं कर्म नः प्रमाणम्, प्रमीयत इति प्रमाणम्, तच्च प्रमीयमाणं कर्तव्यमित्येव प्रमीयते । अतश्शिष्टाचारोऽस्माभिः कर्तव्यतया प्रमीयत इति ।
प्रयोजनाभावात् किं मङ्गलाचरणेनेति, नेत्याह -
प्रसिद्धं चेति ।
अल्पारम्भत्वाद्विघ्नो नास्तीति, नेत्याह -
महति चेति ।
आरम्भस्याल्पत्वेऽपि फलतो महत्वात् पद्यबन्धनस्येव विघ्नबाहुल्यं सम्भवतीति भावः ।
सम्भावनामात्रान्न प्रवृत्तिर्विघ्नोपशान्तय इति तत्राह -
प्रसिद्धं चेति ।
वटयक्षप्रसिद्धिवत् प्रसिद्धिर्निर्मूलेति, तत्राह -
विज्ञायते चेति ।
तत्कथमिति ।
अत्र शिष्टानामग्रणीर्भाष्यकारः कथं शिष्टाचारमुल्लङ्घ्य प्रववृते । अकृतमङ्गलो विघ्नैरुपहन्यमानो विस्रब्धं कथं प्रववृत इति योजना ।
भाष्यकारेण मङ्गलाचरणमात्रं कर्तव्यमित्युच्यत उत वाचिककार्यस्य वाचिकमङ्गलाचरणं कर्तव्यमित्युच्यत इति विकल्प्य विशुद्धब्रह्मतत्त्वानुस्मरणं नाम साधारणं मङ्गलाचरणं ग्रन्थकरणकार्यानुकूलवाचिकं मङ्गलाचरणं चोभयमपि कृतमित्याह -
अत्रोच्यत इति ।
कथमिह उभयं कृतमिति तत्राह - युष्मदित्यन्तमेव भाष्यं वाचिकमङ्गलाचरणं साधारणमङ्गलाचरणे प्रमाणं चेत्यध्याहृत्ययोजना -
युष्मदिति ।
विषय इति च अहङ्कारादिमात्मनो निष्कृष्य अनुसन्धाय अस्मदिति विषयीति च अनवच्छिन्नसाक्षिस्वभावत्वेन प्रत्यगात्मानं युष्मदो विभज्य अनुसन्धाय उभयस्मिन् युष्मदस्मद्विषयविषयिणोरिति शब्दं विरचयता कृतमेवोभयमपि मङ्गलाचरणमित्यर्थः । तर्हि युष्मदित्यादिविषयविषयिणोरित्यन्तस्यैव तत्त्ववाचकतया वाचिकमङ्गलाचरणत्वात् वक्तुस्तत्वानुस्मृतिकल्पकं तव असाधारणमङ्गलाचरणे प्रमाणत्वाच्चोत्तरभाष्यखण्डस्य उपादानमयुक्तम् । तन्न, युष्मदेवास्मत् , अस्मदेव युष्मदित्यैक्यं किमनुसन्धत्ते, किं वा प्रत्यगात्मानं युष्मदो विविनक्तीति संशये पूर्वमैक्यानुसन्धाने उत्तरत्रेतरेतरभावोपपत्तिरिति वक्तव्यम् , इतरेतरभावानुपपत्तेरुक्तत्वात् , पूर्वमपि विवेक एव कृत इति निर्णयार्थमुत्तरखण्डस्य उपादानमित्यविरोधात् ।
युष्मदित्यादिभाष्यस्याध्यासाभावविषयत्वात् , अध्यासाभावानुस्मृतिपूर्वकत्वं स्वस्य कल्पयति केवलम्, न तु भाष्यकारस्य तत्त्वानुस्मृतिसद्भावे प्रमाणमित्याशङ्क्य युष्मदित्यादिपदद्वयस्य तत्त्वमर्थ इति प्रदर्शयति -
अस्य चेत्यादिना ।
अस्य भाष्यस्य अध्यासाभावव्यतिरेकेणायं चार्थ इत्यन्वयः । ननु भाष्यटीकयोः व्याख्यानव्याख्येयभाव एव नोपपद्यते, कथं टीकाकारः षट्पदानि व्याख्येयत्वेनोपादाय सर्वोपप्लवरहितइत्यादिपदत्रयेण व्याख्यां चकार ? तत्रानेन पदत्रयेण व्याख्येयत्वे नोपात्तषट्पदस्य तात्पर्यार्थं कथयति, किं वा प्रतिपदमभिधेयार्थम् ? यदि तात्पर्यार्थकथनं तदा परत्र युष्मदस्मदित्यारभ्य अभिधेयार्थो वक्तव्यः, न तु विरुद्धस्वभावयोरित्यारभ्य । अथ व्याख्येयपदानामभिधेयार्थं कथयति तदपि न, व्याख्यानस्य पदत्रयत्वात् तेन व्याख्येयसर्वपदानामर्थकथनायोगात् । पदत्रये व्याख्येयषट्पदानां मध्ये पदत्रयं व्याख्यातम् । पश्चादितरपदानि व्याख्यास्यन्त इति वक्तुं न शक्यते । परत्र विषयविषयिणोरिति द्वितीयपदमारभ्य व्याख्येयत्वेनोपादानात् ।
ननु विवरणकारः पदद्वयं व्याख्यातमित्यवादीदतः पदद्वयं व्याख्यातम् , सर्वोपप्लव - इत्यादिना, पश्चादुत्तरं व्याख्यास्यत इति स्वीक्रियतामिति चेन्न, तस्याप्यसङ्गतत्वात् । कथम्, विवरणकारः ‘सुप्तिङन्तं पदम्’ इति पदलक्षणमङ्गीकृत्य पदद्वयं व्याख्यातमित्यवादीत् , अथवा पद्यते अनेनेति पदमिति व्युत्पत्त्या बोधकमात्रस्य पदत्वमङ्गीकृत्य, उभयथाप्यसङ्गतिरेव, कथम् ? प्रथमपक्षे विषयविषयिणोरिति पदस्य व्याख्येयत्वेनोपादानं न सङ्गच्छते, द्वितीयपक्षे केवलं युष्मदस्मदिति पदद्वयं मुक्त्वा प्रत्ययगोचरयोरित्येतदारभ्य व्याख्यायेत, न तथा क्रियत इति निश्चितमसङ्गतमिति चेत् - तन्न, ‘सुप्तिङन्तं पदम्’ इति पदलक्षणेन लक्षितं पदद्वयं व्याख्यातमिति विवरणकारस्योक्तिरिति निश्चयात् । कथं तर्हि टीकाकारेण विषयविषयिणोरिति द्वितीयपदस्य व्याख्येयत्वेन उत्तरत्रोपादानम् ? नैष दोषः, तमःप्रकाशवद्विरुद्धस्वभावयोरित्यत्र विरोधशब्दार्थः सहानवस्थानलक्षणः किं वा ऐक्यायोग्यतालक्षण इति विशये चिज्जडयोः विषयिविषयत्वादेककाले अवस्थानात् , सहानवस्थानलक्षणो विरोधो नास्ति । किन्त्वैक्यायोग्यतालक्षणो विरोध इति निर्णयार्थं विषयविषयिणोरिति पदस्योपादानम् ; न तु व्याख्येयत्वेनेत्यविरोधात् । तर्हि व्याख्येयत्वाभावे व्याख्येयपदार्थनिर्णायकत्वाभावेनव्याख्येयतृतीयपदेन सह चतुर्थमितरेतरभावानुपपत्तिरिति पदं किमिति परत्र उपादत्त इति चेत् विरोधशब्देनैक्याभाव उच्यते, किं वैक्ययोग्यताभाव उच्यत इति सन्देहे ऐक्याभावस्य चतुर्थपदेन उच्यमानत्वात् , पारिशेष्यात् ऐक्ययोग्यताभाव एव विरोधशब्देनोच्यत इति निर्णयार्थं चतुर्थपदोपादानं कृतम् । अतो व्याख्यानत्वं व्याख्येयत्वं च सम्भवतीति पदद्वयं प्रति त्रयाणां पदानां व्याख्यानत्वेन कथमनुप्रवेश इति चेत् सर्वोपप्लवरहितः प्रत्यगर्थः इति पदद्वयम् । प्रथमपदस्य व्याख्यानम् -
विज्ञानघन इति ।
द्वितीयपदस्य व्याख्यानप्रकारो द्विविधः, व्याख्येयपदेन फलितार्थप्रदर्शनमप्रसिद्धार्थव्याख्येयस्य प्रसिद्धार्थपर्यायशब्देनार्थकथनं च । तत्र युष्मदित्यंशेन फलितमर्थमाह -
सर्वोपप्लवरहित इति ।
युष्मदित्यहङ्काराख्यधर्मिणो विवेकात् कर्तृत्वादितद्धर्मेभ्यो विवेकाच्च आत्मा सर्वोपप्लवरहितः संवृत्त इत्यर्थः ।
अस्मत्प्रत्यय इत्यंशं व्याकरोति -
प्रत्यगर्थ इति ।
तत्राप्यस्मदिति पदस्य पर्यायपदेन अर्थमाह –
प्रत्यगिति ।
प्रत्ययशब्देन प्रतीतित्वात् प्रत्यय इति व्युत्पत्त्या व्याप्तचिद्रूपत्वेन फलितं सत्यत्वमाह -
अर्थ इति ।
विषयविषयिणोरिति द्वितीयपदं व्याचष्टे -
विज्ञानघन इति ।
विषयिशब्देन घटादिविषयेभ्यो व्यावृत्तम् आश्रयभूतजडेनाविरुद्धं विज्ञानमुच्यत इति शङ्कां व्यावर्तयति -
घन इति ।
आश्रयजडहीनमित्यर्थः । द्वितीयपदस्य युष्मदस्मद्व्याख्यानयोर्मध्ये व्याख्यानं किमिति चेत् अस्मत्प्रत्ययगोचर इत्यस्यार्थभूतप्रत्यगर्थत्वं प्रति विषयविषयिणोरिति पदोक्तविज्ञानघनत्वं हेतुरिति प्रकटनायेति न विरोधः । विज्ञानघनत्वात् प्रत्यक्त्वम् अर्थत्वं सत्यत्वं चेत्यर्थः । विषयविषयिणोरिति शब्दार्थस्य विज्ञानघनत्वस्य साक्षिरूपत्वाद्युष्मच्छब्दार्थभूतसाक्ष्यस्य अस्मत्प्रत्ययशब्दार्थभूतप्रत्यक्साक्षिणो व्यावृत्तिरस्तीति दर्शयितुं वा मध्ये व्याचष्टे ।
भाष्यकारेणाध्यासाभाव एवानुस्मर्यते । नात्मतत्त्वमध्यासभावविषयत्वाद्भाष्यस्येति न । अध्यासाभावकथनाय तत्वमप्यनुस्मर्यत इत्याह –
तत्कथंञ्चनेति ।
परमार्थत एवंभूते वस्तुनि रूपान्तरवदवभासश्च रूपान्तरं च कथं न मिथ्येति कथयितुमित्येकोऽन्वयः ।
एवंभूते वस्तुनि कथञ्चन अतीतवद्वर्तमानो रूपान्तरवदवभासः, अथ अतो मिथ्यैवेति कथयितुमिति वा । एवंभूते वस्तुनि रूपान्तरवत्तदवभासः कथञ्चन कथमपि केनापि प्रकारेण स्वरूपेण संसृष्टरूपेण च मिथ्येति कथयितुमिति वा -
तदन्यपरादिति ।
तस्मादात्मतत्त्वादन्याध्यासाभावपरादित्यर्थः ।
करिष्यमाणभाष्यवाक्यादर्थप्रतिपत्त्ययोगात् साध्यतया प्रतिपन्नवाक्यं स्वनिष्पत्त्यर्थं वक्तुः स्वार्थप्रतिपत्तिहेतुरित्यभिप्रेत्याह –
भाष्यवाक्यादिति ।
अग्रणीरिति ।
अग्रं नयतीत्यग्रणीस्तस्मात्तत्कृतं भाष्यं व्याख्येयमित्यर्थः ।
अप्रसिद्धार्थमनेकार्थाभिधायि वा पदं व्याख्येयं भवति । इह तु विरोधशब्दस्य निमित्तभूतजातिद्वयाभावात् प्रसिद्धार्थत्वाच्च व्याख्येयत्वाभावेऽपि विरोधशब्दस्य मध्यमजातिनिमित्तत्वात् तद्व्याख्यावान्तरजातिद्वयलक्षणव्यक्तिद्वयलक्षणसम्भवात् अत्रेदृग्व्यक्तिर्विवक्षितेति निर्णेतुं पृच्छति -
कोऽयं विरोध इति ।
इतरेतरभावानुपपत्तिरित्युत्तरपदार्थं प्रति यस्य विरोधस्य हेतुत्वं सम्भवति सोऽत्र विरोधशब्दार्थं इति ज्ञातुं शक्यते किमत्र पृच्छ्यते इत्याशङ्क्योत्तरपदस्याप्यर्थो न निर्णीत इति कृत्वासौ विवेक्तव्य इत्याह –
कीदृशो वेति ।
इतरस्मिन् इतरस्य भावानुपपत्तिरिति तादात्म्याभाव उच्यते, इतरस्य इतरभावानुपपत्तिरित्यैक्याभाव उच्यते । इतरस्मिन् सतीतरभावानुपपत्तिरिति सहावस्थानाभाव उच्यत इति सन्दिग्ध इत्यर्थः । तादात्म्यायोग्यत्वं वा सहावस्थानायोग्यत्वमैक्यायोग्यत्वं वा विरोधोऽस्तु । सर्वथाऽपि विरुद्धस्वभावत्वेन साध्याध्यासमिथ्यात्वं सिद्ध्यति । अतो न प्रष्टव्यमस्तीत्याशङ्क्य यथा इतरेतरायोग्यताया विरोधशब्दार्थत्वे तमःप्रकाशदृष्टान्तगतविरोधेन साम्यं भवति तथेतरेतरभावानुपपत्तिपदं निर्णेतव्यमिति मत्वाह –
यस्यानुपपत्तेरिति ।
यस्य इतरेतरभावस्यानुपपत्तेरित्यर्थः । सहानवस्थानलक्षणो विरोध इत्यत्र सहानवस्थानं लक्षणं गमकं यस्य सहावस्थानायोग्यत्वस्य तत् सहानवस्थानलक्षणमिति योजना ।
तत इति ।
सहावस्थानायोग्यत्वलक्षणात् कारणादित्यर्थः ।
भवतु सहावस्थानानुपपत्तिरिति तत्राह –
तदसदिति ।
भाष्ये विरुद्धस्वभावत्वादध्यासो मिथ्येत्यंशेनात्मानात्मानावध्यासहीनौ क्वाप्यभेदा योग्यत्वात् तमःप्रकाशवदिति अनुमिते असिद्धिशङ्कानिरासायायोग्यताकार्यतया तद्गमकाभेदाभावमितरेतरभावानुपपत्तिरिति पदेनाह भाष्यकारः । तत्साधूक्तमिति द्योतयति । ततः प्रकाशस्याभाव इत्ययोग्यतायाः कारणत्वकथनेन इतरेतरभावानुपपत्तेरध्यासो मिथ्येत्यनेनात्मानात्मानावध्यासहीनौ क्वाप्यभेदहीनत्वात् तमःप्रकाशवदित्यनुमिते अभेदायोग्यत्वं प्रयोजकमिति शङ्कायां तन्निरासाय अभेदायोग्यत्वं साधनव्यापकत्वात् अनुपाधिरित्यभिप्रेत्य विरुद्धस्वभावयोरिति पदं वदति भाष्यकारः । तदपि साधूक्तमिति द्योतयति । सहावस्थानायोग्यतायागम्यत्वकथनेन द्रष्टव्यम् । रूपदर्शनास्पाष्ट्यं स्वरूपमतो रूपदर्शनास्पाष्ट्येन तमसोऽनुवृत्तिर्वक्तुं न शक्यत इत्याशङ्क्य तथा सति सर्वत्राप्यस्पाष्ट्यं स्यान्न तथा दृश्यत इत्याह -
इतरत्र च स्पष्टमिति ।
सहावस्थानायोग्यत्वात् तमःप्रकाशयोर्दृष्टान्तत्वं मा भूत् , तमःप्रकाशशब्दाभ्यां तमोलेशभूतछायां प्रकाशैकदेशात् तथोपलक्ष्य तयोः सहावस्थानायोग्यत्वात् दृष्टान्तत्वमुच्यते भाष्यकारेणेत्याशङ्क्य तत्रापि सहावस्थानयोग्यत्वमस्तीत्याह -
तथा छायायामपीति ।
छायायामौष्ण्यमुपलभ्यमानं स्वधर्मित्वेन आतपस्यापि तत्रावस्थानं सूचयति इति, एतावदुक्तौ छायाया औष्ण्यं स्वरूपमत औष्ण्यसद्भावेनातपसद्भावकल्पना न युक्तेत्याशङ्क्य तथा सति मध्याह्नेऽपराह्णे छायानुगतौष्ण्यस्यैकरूप्यं स्यान्न तथा दृश्यते इत्याह –
तारतम्येनेति ।
तर्हि तमःप्रकाशशब्दाभ्यां छायातपावुपलक्ष्य पश्चाच्छायानुगतशैत्यमातपानुगतौष्ण्यं च लक्षितलक्षणयोपादाय तयोः सहावस्थानायोग्यत्वात् दृष्टान्तत्वमुच्यते भाष्यकारेणेत्याशङ्क्य तयोरपि सहावस्थानयोग्यत्वमस्तीत्याह -
एतेन शीतोष्णयोरपीति ।
पक्षान्तरं निराकृत्य स्वाभिमतपक्षान्तरमुपादत्ते सिद्धान्ती
उच्यते परस्परेत्यादिना ।
सर्वसाधारणत्वात् प्रमेयत्वशब्दवाच्यत्ववत् परस्परात्मत्वायोग्यत्वस्य विरोधत्वं न सम्भवतीत्याशङ्क्य जातिव्यक्त्यादौ वृत्त्यभावमितरेतरभावायोग्यत्वस्य दर्शयति -
न जातिव्यक्त्योरिति ।
परमार्थतः ।
परमार्थस्थल इत्यर्थः ।
तेनेति -
परस्परात्मत्वायोग्यत्वहेतुनेत्यर्थः ।
इतरस्मिन् सति इतरभावानुपपत्तिरिति । सहावस्थानाभाव उच्यत इति शङ्कां व्यावर्त्य ऐक्यतादात्म्ययोरभावोऽर्थ इत्याह –
इतरेतरसम्भेदात्मकत्वस्येति ।
भ्रमस्थले ऐक्यतादात्म्याभावोऽध्यासाभावहेतुक इति मत्वा सोऽध्यासाभाव एव हेतुरिति चोदयति -
कथमिति ।
प्रमाणस्थले ऐक्यतादात्म्ययोरभावोऽध्यासभावे हेतुत्वेन मयोक्त इति स्पष्टीकुर्वन् प्रमाणस्थलेऽपि द्वयोरैक्यभावः स्पष्ट इति कृत्वा अंशांशिभावेन तादात्म्याभावमुपपादयति -
स्वतस्तावदित्यादिना ।
अस्यायमर्थः, प्रपञ्चस्थले तादात्म्यं सम्भवति तत्र चिज्जडयोरुभयोर्द्रव्यत्वादेव जातिव्यक्ति गुणगुणिभावासम्भवाच्चैतन्यस्यानादित्वादपरिणामित्वाच्च कार्यकारणत्वासम्भवादेव कार्यकारणभावासम्भवात् , चैतन्यस्यासङ्गत्वादेव विशिष्टस्वरूपत्वासम्भवादेभिराकारैस्तादात्म्यासम्भवः प्रसिद्ध इत्यङ्गीकृत्य प्रमाणस्थले अंशांशिभावेन अतादात्म्यं दर्शयतीति । स्वतः स्वाभाविक इत्यर्थः ।
आगन्तुकत्वेऽपि क्षीरस्य दधिभाववत् न निर्हेतुको युष्मदंश इत्याह –
अपरिणामित्वादिति ।
चन्दनस्य जलसंसर्गात् दौर्गन्ध्यवद्धेतुतोऽपि न युष्मदंश इत्याह –
निरञ्जनत्वादिति ।
असङ्गत्वादित्यर्थः ।
न परतः ।
नागन्तुक इत्यर्थः ।
विषयस्यापीति ।
अनात्मनोऽपीत्यर्थः ।
समत्वात् ।
आत्मना चेतनत्वेन समत्वादित्यर्थः ।
विषयत्वहानेः
- प्रत्यक्षगोचरत्वहानेरित्यर्थः । ।
न परतश्चितेरिति ।
अनात्मानं प्रत्यागन्तुकांशत्वे जडत्वं स्यात् , चित्वादेव नांश इत्यर्थः ।
कषायद्रव्यगतलोहित्यं यथा पटः स्वीकरोति तथा आत्मगतमेव चैतन्यमनात्मा स्वाङ्गत्वेन स्वीकुर्यादिति तत्राह –
चितेरप्रतिसङ्क्रमत्वादिति ।
सर्वगतनिरवयवस्यात्मनः सङ्क्रमायोगादिति भावः ।
एवं स्थित इति ।
आत्मानात्मनोरभेदाभावे सतीत्यर्थः ।
इतिशब्दस्य परिसमाप्तिद्योतकत्वं व्यावर्तयति -
इतिशब्दो हेत्वर्थ इति ।
इतरेतर भावानुपपत्तेरध्यासाभावं प्रति सत्ताहेतुत्वं दर्शयति ।
यस्मादेवमिति ।
अस्मत्प्रत्यये योऽनिदमंश इति ।
अस्मत्प्रत्यये अहमिति प्रतीयमाने अहंप्रत्ययविषय इत्यर्थः ।
अहंप्रत्ययविषय इत्युक्ते अहङ्कारचेतनौ प्रतीयेते । तत्राहङ्कारं व्यावर्तयति -
अनिदमंश इति ।
एवमुक्ते प्राभाकराभिमतात्मनोऽपि कर्मत्वाभावादेव अनिदमंशत्वमस्तीति तं व्यावर्तयति -
चिदिति ।
एतावदुक्तौ आश्रयभूतजडसहत्वं प्रतीयते तद्व्यावर्तयति -
एकरस इति ।
चिदेकरसत्वेऽपि साङ्ख्याभिमतात्मनोऽनुमेयत्वमस्तीति तद्व्यावर्तयति -
अनिदमंश इति ।
व्याख्येयपदत्रयगतसप्तम्याः अर्थमाह –
तस्मिन्निति ।
अहङ्कारादिशरीरान्तस्य अहमिति प्रतीयमानत्वात् कथं युष्मत्वमित्याशङ्क्य प्रयोक्तारं प्रतीदमिति ग्राह्यत्वं स्वरूपेण अहमिति ग्राह्यत्वमपरोक्षत्वं च यस्य भवति तस्य युष्मत्वं स्यात् । तल्लक्षणं देहादेरप्यस्तीत्याह -
तद्बलेति ।
तस्यात्मचैतन्यस्य बलेन प्रतिबिम्बेन निर्भास्यत्वादपरोक्षतया वेद्यत्वात् प्रयोक्तुर्भाष्यकाराख्यात्मनः विवेकावस्थायामहमिति ग्राह्यत्वाच्च लक्षणतो युष्मदर्थत्वं देहादेरित्यर्थः ।
मनुष्याभिमानस्य ।
मनुष्याद्यभिमानस्य अभिमन्यमानस्य देहादेरित्यर्थः ।
अध्यासशब्दस्य अधि आसः अध्यासः इति निर्वचनेन प्राप्ताधाराधेयभावाभिधायित्वं व्यावर्त्याभिमतमर्थमाह -
सम्भेद इवावभास इति ।
इवशब्द आभासार्थः ।
अहमित्यभिमन्यमानस्येत्युक्त्या अध्यस्तत्वमुक्तम् । पुनरप्यभिमन्यमानस्य सम्भेद इवेति चाध्यस्तत्वमुक्तम् । अतोऽध्यस्तस्याध्यस्तत्वमसङ्गतमित्याशङ्क्य तद्विधाभिमान एव सम्भेद इवावभासस्याध्यास इत्याह -
स एवेति ।
विषयाध्यास इति -
धर्म्यध्यास इत्यर्थः ।
विना विषयाध्यासेनेति ।
श्रोत्रमहं चक्षुरहमिति श्रोत्रादिधर्म्यध्यासेनेत्यर्थः ।
अकर्मतया सिद्धं प्राभाकराभिमतजडरूपात्माख्यविषयिणं व्यावर्तयति -
चैतन्यस्य तद्धर्माणां चेत्यर्थ इति ।
ननु विषयिण इत्यत्र विषयीत्युक्ते प्राभाकराभिमतजडरूपविषयिणं प्राप्तं व्यावर्तयति -
चैतन्येति ।
परिणामिब्रह्मवादिनाङ्गीकृतचिज्जडात्मत्वं व्यावर्तयति -
एकरसस्येति ।
नित्यत्वमिति
सत्यत्वमित्यर्थः । ।
पृथगिवेति ।
अन्तःकरणवृत्त्युपाधिनिमित्ततया नानेवावभासन्त इत्यर्थः ।
अध्यासशब्दस्य पूर्वमेवार्थोऽभिहितः । किमिदानीमर्थोक्तिरित्याशङ्क्य मिथ्याज्ञाननिमित्त इत्यत्र मिथ्याशब्दस्यानिर्वचनीयत्वनिश्चयादत्रापि मिथ्याशब्देन अनिर्वचनीयत्वस्याभिधानादध्यास इति च तस्यैवाभिधानात् अध्यासो मिथ्येति पुनरुक्तिस्स्यात् । अतः पुनरुक्ततया अध्यासशब्दस्य स्वार्थप्रच्युतौ प्राप्तायां पूर्वोक्त एवार्थ इत्याह -
अध्यासो नामेति ।
अध्यासो भवितुं युक्तम् , मिथ्यात्वादित्यन्वयं व्यावर्त्य अध्यासो मिथ्येत्यन्वयमाह -
स मिथ्येति भवितुं युक्तमिति ।
तं तथा सोऽध्यास इति विधिः प्राप्त इत्याशङ्क्य मिथ्याशब्दस्य अर्थान्तरमस्तीत्याह -
मिथ्याशब्दो द्व्यर्थ इति ।
अध्यासमुद्दिश्य मिथ्यात्वं विधेयमिति दर्शयितुं पूर्वं मिथ्याशब्दस्योपादानं कृतम् । इदानीं भवितुंशब्दस्य अन्वयं वक्तुं मिथ्याशब्दमादत्ते -
मिथ्येति ।
भवितुं युक्तमिति ।
मिथ्येति कृत्वा अध्यासो भवितुं युक्तमिति व्याहतोक्तिं व्यावर्तयति -
अभाव एवेति ।
अध्यासो मिथ्येति भवितुं युक्तमिति भाष्येणाध्यासापह्नवः क्रियते, किं वा अध्याससद्भावमङ्गीकृत्य तस्य लोकसिद्धकादाचित्कशुक्तिरजताद्यध्यासे दृष्टसादृश्यादिकारणाभावादसम्भव उच्यत इति विकल्प्य कारणाभावादसम्भवं प्राप्तमङ्गीकरोति -
यद्यप्येवमिति ।
तर्हि असम्भव एव स्यादिति आशङ्क्य आत्मनि अहङ्काराद्यध्यासस्य प्रवाहरूपेणानादित्वात् इदं प्रथमरजताद्यध्यासकारणाभावेनासम्भवो नास्ति । प्रवाहरूपेणोत्पद्यमानमध्यवर्तिज्वालायां प्रथमज्वालाकारणाभावेन असम्भवाभाववदित्यभिप्रेत्याह -
तथापि नैसर्गिक इति ।
नैसर्गिक इत्यनपनोद्यत्वमुच्यत इति शङ्कां निरस्य अनादित्वं तस्यार्थ इत्याह -
प्रत्यगनुबन्धीति ।
आत्मा तावदनादिः, तस्मिन् कार्यरूपेण संस्काररूपेण वा अध्यासस्य प्रवाहव्यभिचाराभावादध्यासोऽनादिरित्यर्थः ।
प्रत्यक्सम्बन्धीत्युक्ते प्राभाकराभिमतप्रत्यग्रूपेण च सम्बन्धं प्राप्तं व्यावर्तयति -
चैतन्येति ।
चैतन्यमध्याससाक्षित्वेन अन्यथासिद्धं न त्वध्याससम्बन्धित्वेनाधिष्ठानमिति तदपनुदति -
सत्तेति ।
सत्ताया जडविशिष्टत्वान्नाध्यासं प्रत्यधिष्ठानत्वमिति शङ्काव्यावृत्त्यर्थं जडाद्विभजते -
मात्रेति ।
सत्तामनुसृत्यात्यन्ततिरोधानमकृत्वा बध्नाति । चिदानन्दाच्छादकत्वेन बध्नातीत्याह -
अनुबन्धीति ।
अध्यासापह्नवपरं भाष्यमिति पक्षेऽपि अपह्नवो न शक्य इत्याह -
अयमिति ।
प्रत्यक्षम् इत्यर्थः ।
प्रमेयापह्नवं कुर्वता मया प्रमाणस्यापह्नवः क्रियत एव इत्याशङ्क्य विलक्षणाकारवत्तया विलक्षणशब्दोल्लिखितत्वेन च प्रमाणं प्रसिद्धमित्याह -
अहमिदं ममेदमिति ।
अध्यास आक्षिप्तः, लोकव्यवहारस्समाधीयत इति असङ्गतोक्तिः प्राप्तेति, नेत्याह -
युष्मदस्मदोरितरेतराध्यासात्मको लोकव्यवहार इति ।
तेनेत्यादेरयमर्थः, कादाचित्कशुक्तिरजतादौ सिद्धकारणाभावेनानाद्यध्यासो नोपालम्भमर्हति । आगन्तुकघटादिकारणाभावेन अनाद्यात्मन उपलम्भाभाववदिति ।
लोकत इति कर्मव्युत्पत्त्या देहादिरूपार्थाध्यासे लोकशब्दो वर्तत इत्याह -
लोक इति ।
मनुष्योऽहमितीति ।
व्यवहारशब्दस्य भावव्युत्पत्त्याऽज्ञानसाध्यासवाचित्वं दर्शयति -
व्यवहरणं व्यवहार इति ।
लोकश्चासौ व्यवहारश्च इति लोकव्यवहार इति कर्मधारयं व्यावर्त्य लोकविषयो व्यवहारो लोकव्यवहार इत्याह -
लोक इतीति ।
व्यवहारशब्दस्य अभिज्ञाभिवदनोपादानार्थक्रियाभिधायित्वात् कथं ज्ञानाध्यासवाचित्वमित्याशङ्क्य इहाभिज्ञाभिवदनाख्यशब्दोल्लिखितज्ञानमात्राभिधायित्वात् ज्ञानाध्यासवाचित्वं युक्तमित्याह -
मनुष्योऽहमिति अभिमान इत्यर्थ इति ।
अहमिति प्रतिभासस्याध्यासत्वे द्व्याकारतया अवभासेत । द्व्याकारत्वाभावान्नाध्यासत्वमित्याशङ्काव्यावर्तकत्वेन इतरेतराविवेकेनेति पदमुपादेयम् । भिन्नपदार्थप्रतीतावितरेतराविवेकः कुत इत्याकाङ्क्षायां सत्यानृते मिथुनीकृत्येति पदमुपादेयम् । तदाकाङ्क्षाक्रममनादृत्योपादत्ते -
सत्यानृते मिथुनीकृत्येति ।
स्वरूपेण सत्ये संसर्गविशिष्टतया अनृते च यथा व्यवहारः तथा मिथुनीकृत्येति वा, सत्यमसत्यं च मिथुनीकृत्य इति वा निर्वाह इति सन्देहे सत्यमसत्यं चेति निर्वाह इत्याह -
सत्यमिति ।
पदच्छेदेन ।
सत्यमिति सत्यवाक्यमुच्यत इति शङ्कामपनुदति -
अनिदमिति ।
प्राभाकराभिमतात्मानं व्यावर्तयति -
चैतन्यमिति ।
तावत्युक्ते साङ्ख्याभिमतानुमेयात्मनः प्राप्तिं व्युदस्यति -
अनिदमिति ।
अनृतमित्युक्ते अनृतवाक्यप्राप्तिं व्युदस्यति -
युष्मदर्थम् इति ।
अध्यस्तस्वरूपत्वादित्युक्ते आत्मनोऽप्यनृतत्वं प्राप्तं व्युदस्यति -
स्वरूपतोऽपीति ।
संसर्गस्याध्यस्तत्वात्संसर्गविशिष्टरूपेणात्मनोऽध्यस्तत्वम्, न तु स्वरूपेण । जडस्य तु स्वरूपेण संसृष्टरूपेण चाध्यस्तत्वादनृतत्वमिति भावः ।
क्त्वाप्रत्ययादेव भेदपौर्वापर्यप्रतीतेरध्यासमिथुनीकरणलोकव्यवहारशब्दानां एकार्थत्वमयुक्तमिति तत्राह -
अध्यस्य मिथुनीकृत्येति ।
क्रियान्तरानुपादानादित्युक्ते लोकव्यवहार इति व्यवहारलक्षण क्रियान्तरोपादानमस्तीत्याशङ्क्य भुक्त्त्वा व्रजतीतिवत् समानकर्तृकक्रियान्तरानुपादानादित्याह -
`भुक्त्त्वा व्रजतीतिवद्’ इति ।
`लोकव्यवहार’ इत्युक्ते स किं भवतीति साकाङ्क्षत्वात् व्यवहारस्य समानकर्तृकक्रियान्तरलाभाय ‘अनेन क्रियत’ इत्यध्याहर्तव्यमित्याशङ्क्य ‘नैसर्गिकपदेनाकाङ्क्षापूरणं’ नाध्याहर्तव्यमित्याह -
अध्यस्य नैसर्गिकोऽयमिति ।
तावन्मात्रोपसंहारादिति ।
स्वरूपकथनमात्रेणोपसंहारादित्यर्थः ।
व्यपदेशमात्रमिति ।
अध्यासस्य स्वगतविशेषभेदात् भेदं विशिष्टेषु क्रमवर्तिप्रतिपत्तितः पौर्वापर्यं चापेक्ष्य चैतन्यं पुरुषस्य इति षष्ठीवदुपचारमात्रात् , क्त्वा प्रत्यय इत्यर्थः ।
पूर्वं स्वरूपतोऽप्यध्यस्तस्वरूपत्वादित्युक्तं स्वग्रन्थे । तत्राध्यस्तस्वरूपत्वं कुतोऽवगम्यत इत्याकाङ्क्षायां तन्निवृत्तये मिथ्याज्ञानोपादानत्वेन मिथ्यात्वं भाष्यकारैरुक्तमिति परिजिहीर्षुरुपादत्ते -
मिथ्याज्ञाननिमित्त इति ।
मिथ्यारूपज्ञाननिमित्त इत्युक्ते मिथ्याज्ञानात् संस्कारः, ततो मिथ्याज्ञानमिति नैसर्गिकपदेनोक्तत्वात् तेन पौनरुक्त्यमाशङ्क्य मिथ्यारूपज्ञाननिमित्त इति पदच्छेदो न भवति । किन्तु मिथ्यारूपाज्ञाननिमित्त इतीममर्थं समासोक्त्या व्यक्तीकरोति -
मिथ्या चेति ।
मिथ्याशब्दस्य अपह्नववाचित्वेन पूर्वत्र निर्णीतत्वात् असद्रूपाज्ञानं कारणमित्यापततीति, नेत्याह -
मिथ्येतीति ।
अज्ञानं नाम ज्ञानाभावः, तत्र मिथ्याज्ञानमित्युक्ते ज्ञानाभावो भावविलक्षणोऽनिर्वचनीय इत्युक्तं स्यात् , तदपाकरोति -
अज्ञानमित्यादिना ।
तत्राज्ञानमिति जडमुच्यत इत्युक्ते साङ्ख्याभिमतस्वतन्त्रजडस्याज्ञानत्वं प्राप्तं व्युदस्यति -
शक्तिरिति ।
परिणामब्रह्मवादिना अङ्गीकृतसत्यशक्तिं व्यावर्तयति -
अविद्येति ।
अविद्येत्युक्ते शून्यवाद्यभिमतार्थात्पञ्चमाकाराविद्यां प्राप्तां व्युदस्यति -
शक्तिरिति ।
पूर्णभावरूपेत्यर्थः ।
तर्हि एवंभूतस्याज्ञानशब्दवाच्यत्वं कुत इति, ज्ञानविरोधित्वादित्याह -
ज्ञानपर्युदासेनेति ।
सदसदनिर्वचनीयेष्वेकैकस्मिन्नर्थं गृहीत्वा तेभ्यो व्यतिरिक्तमर्थं गृहीत्वा वर्तत इत्यर्थः । पञ्चमाकाराविद्या शून्यवाद्यभिमता काचिद्विद्यत इति द्रष्टव्यम् ।
अध्यासस्य कारणात्मना नैसर्गिकत्वम् , कार्यव्यक्तिरूपेण नैमित्तिकत्वमुक्तम् । अज्ञाननिमित्तककार्यव्यक्तिरूपेणैव नैसर्गिकत्वमुक्तं मत्वा चोदयति -
कथं पुनरिति ।
अध्यासस्य कारणात्मना नैसर्गिकत्वमुक्तं कारणत्वयोग्यभावरूपाज्ञानसिद्धौ सिद्ध्यतीति मत्वा आत्मनि भावरूपमज्ञानं साधयति -
अवश्यमित्यादिना ।
अत्र शक्तिशब्देन भावत्वं विवक्षति ।
अविद्याशक्तिरित्यभ्युपगन्तव्या,
भावरूपेत्यभ्युपगन्तव्येत्यर्थः ।
भावरूपत्वे अनुमानमस्तीति मत्वाह -
अवश्यमिति ।
प्रत्यक्षमस्तीत्याह -
एषेति ।
बाह्याध्यात्मिकेषु वस्तुष्विति ।
आध्यात्मिकान्तःकरणदेहाद्याश्रयत्वेन बाह्यघटादिविषयत्वेन च प्रतीयमानेत्यर्थः ।
निरूप्यमाणे देहघटाद्यवच्छिन्नसत्वमाश्रयविषयावित्याह -
तत्स्वरूपेत्यादिना ।
तत्स्वरूपानुबन्धिनीत्युक्ते अज्ञानकार्यघटदेहादीनामज्ञानं स्वरूपम् । अतोऽज्ञानानुबन्ध्यज्ञानमित्युक्तं स्यात् , तदपाकरोति -
सत्तेति ।
जडविशिष्टसत्तां व्यावर्तयति -
मात्रेति ।
प्रमाणज्ञानं कस्यचिद्भावस्य निवर्तकम् , अप्रकाशितार्थप्रकाशकत्वात् , भावरूपतमोनिवर्तकप्रदीपवदित्यनुमानमत्राभिप्रेतम् । अहमज्ञो मामन्यं च न जानामीति अपरोक्षानुभवोऽत्र प्रत्यक्षमभिप्रेतं द्रष्टव्यम् ।
भावत्वे अर्थापत्तिमाह -
अन्यथेति ।
मिथ्यार्थादवभासानुपपत्तेरित्यर्थः ।
घटादिषु नाज्ञानमावरणम्, प्रकाशप्राप्त्यभावात् । तत्र कथं बाह्यवस्तुष्विति तद्विषयत्वं भण्यत इति । शङ्कायामावरणाभावमङ्गीकरोति -
सा चेति ।
चैतन्यप्रकाशेन जडानां नित्यवदन्वयादेव प्रकाशप्राप्तौ सत्यामावरणाभावे कथमनवभास इति तत्राह -
प्रमाणवैकल्यादिति ।
जडप्रमाणस्य चैतन्यस्य आवरणाज्जडानामनवभाससिद्धेरित्यर्थः ।
अज्ञानस्य जडाख्यविषयाच्छादकत्वे प्रमाणाच्छादकत्वमेवाभ्युपेयम् अनवभासनिर्वाहायेत्याशङ्क्य बहूनां विषयाणां बह्वज्ञानैः बह्वावरणकल्पनाद्वरमेकचैतन्यलक्षणप्रमाणस्यैकाज्ञानेनैकावरणकल्पनमित्याह -
प्रमाणवैकल्यादेवेत्येवकारेण ।
किञ्च शुक्त्यज्ञाने संस्थितेऽपि शुक्तित्वावभासाद् बाह्यवस्तुष्वनावरकमित्याह -
रजतप्रतिभासादिति ।
इदानीं रजतप्रतिभासात् तत्कारणत्वेन प्राक्तस्यामविद्यायां सत्यामेव तस्य भाववदूर्ध्वं च रजतप्रतिभासात् तत्कारणत्वेन स्यात् , सत्यामप्यविद्यायां शुक्तिस्वरूपदर्शनादिति योजना ।
कं च तर्ह्यतिशयमज्ञानजन्यमाश्रित्य बाह्यवस्तुष्विति अनात्मविषयमज्ञानं दर्शितमिति तत्राह -
अतस्तत्रेति ।
शुक्त्यज्ञानस्य घटाच्छादकत्वाभावे तस्मिन् रूपान्तरावभासहेतुर्नभवति तद्वच्छुक्तावपि स्यादित्याशङ्क्य घटावच्छिन्नचैतन्यगतत्वाभावात् तत्र विपर्ययहेतुत्वाभावः, शुक्तौ तु हेतुरेवेत्येवकारेणाह ।
तर्हि विपर्ययहेतुत्वे चैतन्य इव आच्छादकत्वमपि स्यादित्यशङ्क्य सत्यम्, शुक्तीदमंशावच्छिन्नचैतन्येन रूप्यादिविपर्ययस्य मुख्यसम्बन्धः इदमंशेन सम्बन्धाभास एवेत्याह -
केवलमिति ।
आत्मन्यप्यज्ञाननिमित्तमावरणं दुर्निरूपमिति तत्राह -
प्रत्यगात्मनि त्विति ।
प्रत्यगात्मन्यनवभासोऽविद्याशक्तिप्रतिबन्धादित्युक्ते प्राभाकराद्यभिमतात्मनि सर्वगतत्वाद्यनवभासोऽविद्याशक्तिप्रतिबन्धाभावेऽपि दृश्यत इत्याशङ्कां व्यावर्तयति -
चितिस्वभावत्वादिति ।
साङ्ख्याभिमतात्मनि भावरूपाविद्याप्रतिबन्धाभावेऽपि अनवभासोऽस्तीति तद्व्यावर्तयति -
स्वयम्प्रकाशमान इति ।
प्रत्यगात्मन्यनवभासो नास्तीति, नेत्याह -
ब्रह्मस्वरूपेति ।
आत्मनोऽन्यस्मिन्नध्यस्तत्वादधिष्ठानस्यावृतत्वेन, ब्रह्मरूपानवभासः, न स्वगतेनावरणेनेत्याशङ्क्य आत्मनोऽधिष्ठानान्तराभावात् तदावरणेन आत्मनो ब्रह्मरूपानवभासासम्भव इत्याह -
अनन्यनिमित्तत्वादिति ।
तद्गतेनानवभास इत्युक्ते अहङ्कारादिविपर्यासेन अनवभास इति स्यात् , तद्व्यावर्तयति -
निसर्गसिद्धेति ।
परिणामब्रह्मवाद्यभिमतसत्यानादिशक्तिं व्यावर्तयति -
अविद्येति ।
विद्याभावं व्यावर्तयति -
शक्तीति ।
भ्रान्तिसंस्कारप्रतिबन्धात् अनवभासं व्यावर्तयति एवकारेण ।
आवरणविपर्यासकारणत्वानुपपत्त्या अज्ञानं भावरूपत्वेन कल्प्यमिति मत्वाह -
अतः सेति ।
न केवलमावरणविपर्यासहेतुत्वाय भावरूपाज्ञानकल्पना, किन्तु अग्रहण मिथ्याज्ञानतत्संस्कारकर्मणां सुषुप्तिप्रलयादौ ब्रह्मरूपानवभासहेतुत्वायोगात् सुषुप्तादावनवभासहेतुत्वाय विपर्याससंस्काराश्रयत्वाय च भावरूपाज्ञानं कल्प्यमित्याह -
सुषुप्तादौ चेति ।
अहङ्कारादेर्मिथ्याज्ञानविषयस्य मिथ्याज्ञानस्य च सुषुप्तौ स्थित्यभावात् तत्संस्कारस्य च भ्रान्तरूप्यसंस्कारवत् भ्रमाधिष्ठानतत्त्वानवभासहेतुत्वायोगात् ग्रहणस्य आत्मनः स्वरूपचैतन्यत्वादेव नित्यत्वात् अग्रहणाभावात् कादाचित्कग्रहणाभावस्य स्वयम्प्रकाशसंवेदनेऽनवभासहेतुत्वाभावात् कर्मणामपि संस्काररूपत्वात् इतरसंस्कारवत् अनवभासहेतुत्वायोगात् भावरूपाज्ञानेनैव सुषुप्तादावनवभास इति भावः ।
विक्षेपसंस्कारात्मना आत्मनि सुषुप्तादौ अज्ञानस्यावस्थाने किं प्रमाणमित्याशङ्क्य पुनर्भ्रमरूपेणोत्पत्त्या कल्पत इत्याह -
पुनरुद्भवतीति ।
अतो नैसर्गिकोऽपीत्यनेन कारणरूपेणेत्यर्थः ।
नैमित्तिककार्यरूपमाह -
अहङ्कारममकारेत्यादिना ।
न पुनरागन्तुकत्वेनेति ।
आगन्तुककार्यरूपेण नैसर्गिकत्वं नोच्यत इत्यर्थः ।
कस्यचिदिति ।
काणत्वमूकत्वादेरित्यर्थः ।
अविवेकशब्देन विवेकविरोध्यैक्यमुच्यत इति व्याकरोति ।
एकतापत्त्यैवेत्यर्थ इति ।
केवलस्यात्मनो देहादिषु सर्वेष्वारोप्यत्वमुत केवलात्मनोऽन्तःकरण एवाध्यासः । देहादिषु अन्तःकरणविशिष्टात्मन इति संशये तन्निरासाय भाष्यकारो वक्ष्यतीत्याह -
कस्य धर्मिण इति ।
आत्मनो देहादिभिः सर्वैः तादात्म्याध्यासः, उत अहङ्कारेणैक्याध्यासः, इतरेण तादात्म्याध्यास इति च सन्देहे वक्ष्यतीत्याह -
कथमिति ।
देहादीनामात्मनि वा, आत्मनि अध्यस्तान्तःकरणोपहितात्मनि वा अध्यास इति संशयनिरासाय वक्ष्यतीत्याह -
कुत्र चाध्यास इति ।
क्वाध्यास इति ।
कस्मिन्नुदाहरण इत्यर्थः ।
अहमिदमिति किमध्यासोऽस्तीति, नेत्याह -
अहमिति ।
प्रथमोऽध्यास इति ।
तावदिति ।
अनाद्यज्ञानाध्यासातिरिक्तकादाचित्काध्यासानां मध्य इत्यर्थः ।
नन्वहमित्यत्राहमिति चैतन्यमवभासत इत्युक्ते चैतन्यस्याध्यस्तत्वेनाधिष्ठानत्वेन वोपयोगः स्यात् , अतश्चैतन्यावभासो नाध्यासाभावहेतुरित्याशङ्क्य, सत्यम् , इदं रजतमित्यध्यास इवाकारान्तरानवभासो दोष इत्याह -
चैतन्यमात्रमिति ।
अहमनुभवामीत्यत्राधारत्वेनाधेयत्वेन च चैतन्यद्वयमवभासत इति, नेत्याह -
निरंशमिति ।
अहं जानामीत्यत्र बुद्धितदाश्रयत्वेनाकारद्वयमवभासत इत्याशङ्क्य तदुभयाकारस्यारोप्यत्वेन अधिष्ठानत्वेन चोपयोगः । अध्यस्तत्वेन तदनर्हत्वेन च उभयाकारो न प्रतीयत इत्याह -
नांशान्तरमिति ।
वाशब्दश्चार्थे ।
दर्शयिष्याम इति
अहङ्कारटीकायामित्यर्थः । ।
स्थूलशरीरस्य आत्मन्यध्यस्तत्वे अहमित्यधिष्ठानभूतात्मतत्वैकतयोपलभ्यत्वम् आत्मनःसकाशात् पृथक्सत्वेनानुपलभ्यत्वमात्मतत्वावबोधेनात्ममात्रतया लीनत्वं च शुक्तिरूप्यस्येव वक्तव्यम्, न तु तदस्ति, इन्द्रियैरिदन्तया पृथक्सत्वेनोपलभ्यत्वात् , केवलसाक्षिणा तु आत्मतयैव सिद्ध्यभावात् भूतेषु विलयश्रवणाच्च, अतो नाध्यस्तत्वमित्यभिप्रायेणाक्षिपति -
नन्विदमिति ।
अत्रेदमिति पृथगुपलम्भं दर्शयति -
भोगसाधनमिति ।
आत्मतया अनुपलम्भं दर्शयति । ममत्वेन गृहीतत्वात् पुत्रक्षेत्राद्यपि नाध्यस्तमित्याक्षिपति -
ममेदमिति चेति ।
अहं कर्तेति अहङ्कारेण इतरेतराध्यासेन सम्पिण्डित आत्मेत्यर्थः ।
अभिमन्यमानस्थूलदेहस्य तदन्तर्वर्त्यभिमन्तुश्च असत्यत्वे माहेन्द्रजालदृष्टान्तः । तस्यैव दृष्टान्तत्वे तद्वत् स्थूलसूक्ष्मशरीरयोरुभयोः मिथ्यात्वं विवक्षितं विहाय साक्षिचैतन्यस्यापि अविशेषाशङ्कायां प्रतीतेऽर्थे किञ्चित् कस्यचित् सत्यतया अवशेषे स्वप्नमुदाहरति । स्वप्नस्यैवोदाहरणत्वे तद्वत् साक्ष्यवशेषं विहाय सूक्ष्मशरीरमप्यबाध्यतया शिष्यत इति शङ्कायां तस्यापि बाध्यत्वे माहेन्द्रजालोदाहरणम् । पूर्वं भाष्यगतलोकशब्देन प्राणिनिकाय उच्यत इति व्याख्यातम् । इदानीं स्वीयलोकशब्देन साक्षिणा दृश्यं सर्वं स्वयमाह -
अहङ्कर्तृत्व इत्यादिना ।
जन्यफलकल्पनाधिष्ठानत्वाय आत्मनि तद्विपरीताकारं दर्शयति -
नित्येति ।
कारकल्पनाधिष्ठानत्वाय विपरीताकारं दर्शयति -
मुक्तेति ।
लोकव्यवहाराख्यप्रपञ्चतदज्ञानयोरध्यस्तत्वात् ब्रह्मात्मताख्यविषयो बन्धनिवृत्तिरूपप्रयोजनं चोपपद्यत इत्याह -
अतस्तादृगिति ।
ब्रह्मात्मानुभव इत्यनेन विषयस्योपादानं द्रष्टव्यम् ।
विषयप्रयोजनयोरुपपत्तेः शास्त्रारम्भकर्तव्यता सिद्धेत्याह -
तदर्थविषयेति ।
स एव अर्थः प्रयोजनं विषयश्च यस्य वेदान्तमीमांसरम्भस्य सः तदर्थविषयवेदान्तमीमांसारम्भ इति योजना ।
बन्धस्याध्यस्तत्वात् सूत्रिते विषयप्रयोजने सम्भवत इति अध्यासं सिद्धवद्धेतुत्वेनोपोदत्ते पूर्वभाष्यम् । उत्तरभाष्यं तु सर्वलोकप्रत्यक्ष इत्यन्तम् अध्यासं साधयतीत्याह –
कोऽयमिति ।
अध्यासाख्यैकार्थसिद्धिपरत्वे भाष्यभेदप्रसिद्धिः न स्यादित्याशङ्क्य अवान्तरतात्पर्येण लक्षणसम्भावनाप्रमाणत्रयविषयत्वात् भाष्यभेद इत्याह –
तत्रापीति ।
कोऽयमिति भाष्ये तन्त्रेणोक्ताक्षेपप्रश्नपरिहारत्वेन एकराशित्वात् लक्षणसम्भावनाभाष्यद्वयस्य सहोपादानम् -
यद्येवमिति ।
अध्यासोऽस्त्येवेति सद्भावनिर्णयरूपप्रमाणमुच्यते चेदित्यर्थः ।
तद्रूपः तत्सम्भावनोपन्यासो न कर्तव्य इत्युक्ते अध्यासो नास्तीति भ्रमनिरासाय प्रमाणोक्तिवत् न सम्भवति, सङ्कीर्णमिति भ्रमद्वयनिरासाय लक्षणसम्भावने वक्तव्ये इत्याशङ्कायां सत्यां प्रमाणोक्त्या उक्तिसिद्धेः प्रमाणात् पृथङ्नवक्तव्ये इत्याह -
पृथगिति ।
प्रमाणस्यास्ति सम्भवति व्यावृत्तमिति चाकारत्रयवत्वाभावादेव तद्भ्रमनिवर्तकत्वासम्भवात् पृथग्वक्तव्य इत्याशङ्क्य आकारत्रयवत्वाभावे अभिप्रमितेऽर्थे सङ्कीर्णं न सम्भवति चेति भ्रमप्राप्त्यभावात् न वक्तव्य इत्याह -
न ह्यनिर्ज्ञातेति ।
अनुमानसिद्धे परमाण्वादौ लक्षणाद्यपेक्षास्तीत्याशङ्क्य प्रत्यक्षसिद्धे नापेक्षेत्याह –
दुःसम्पादमिति ।
विशेषत इति ।
असाधारणाकारेण व्यावृत्ततयेत्यर्थः ।
प्रदर्शनमात्रेणेति
प्रमातृत्वादिव्यवहारकाले आत्मनो देहादिष्वहंममाभिमानोऽस्त्येवेति प्रदर्शनमात्रेण तदास्याभिमानस्यानिर्वचनीयस्याध्यासत्वं न सिद्ध्यतीत्यर्थः । ।
अभिमानस्यैवाध्यासात्मकत्वादभिमानोऽस्तीति साधकेन प्रमाणेनाध्यासात्मकत्वं सिद्ध्यतीति चोदयति -
तत्कस्य हेतोरिति ।
कस्माद्धेतोरित्यर्थः
प्रमाणे सति किमिति मिथ्यात्वानुभवाभाव इति, प्रमाणान्तराधीनत्वादित्याह -
बाधे हीति ।
प्रत्यक्षादयस्त्वात्मनि अनात्मावभासे प्रमाणमिति भावः ।
अन्यस्यान्यात्मतावभासोऽस्तीति निश्चयस्य बाधनिमित्तविवेकाधीनत्वाद्बाधोऽप्यस्तीति तत्राह -
नेह स इति ।
यौक्तिकपरोक्षबाधेऽपि भ्रमनिवर्तकापरोक्षबाधो नास्तीति भावः ।
तर्हि अपरोक्षभ्रमबाधाय अपरोक्ष(भ्रम)बाधकज्ञानमेव सम्पादनीयं किमिति लक्षणोक्तिरित्याशङ्क्य प्रसिद्धाध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तमिदमित्युक्तेऽपि अध्यासात्मकत्वाख्यमिथ्यात्वं स्पष्टं भवति इति मत्वाऽऽह –
तस्मादिति ।
सद्भावः कथनीय इति
प्रमाणोक्त्या सद्भावः कथनीय इत्यर्थः । ।
निवर्त्यभ्रमसद्भावात् सम्भावना वाच्येत्याशङ्क्य भ्रमप्राप्तिरेव नास्तीत्याह -
न हि यत्र यस्येति ।
यत्र यस्य सद्भावः प्रतिपन्नः तत्र तस्यासम्भावनाशङ्का नास्तीत्युक्ते दर्पणप्रतिपन्नमुखस्य तत्रासम्भावना दृश्यत इत्याशङ्कायाम्, तद्व्यावर्तयति -
प्रमाणत इति ।
एवमुक्ते आत्मन्यनुमानादिप्रमाणसिद्धाविद्यायां व्यभिचारे तमपनुदति -
तत्रैवेति ।
अविद्याया न केवलमात्मन्येवासम्भावना, किन्तु जडे चासम्भावनेति भावः ।
काचोपाधिसन्निध्युपाधिसंश्लेषदूरत्वाख्यदोषचतुष्टयहीनं भ्रमकार्येण कल्प्यादृष्टदोषहीनं च ज्ञानं निरूप्यमाणे प्रमाणम्, तस्मिन् प्रतिपन्नस्यासम्भावना नास्ति । काचाद्यभावेऽपि कल्प्योऽदृष्टदोष इति । वृत्तिप्रतिभासतः प्रमाणज्ञाने प्रतिपन्नस्यासम्भावना स्यादित्याह –
सत्यमिति ।
रूप्यज्ञाने झटिति बाधया गम्यकाचादिवत् सुषिरज्ञानस्य कारणदोषो नास्तीत्याह -
अनुपलभ्यमानेति ।
दर्पणसंस्थं मुखमिति ज्ञाने दर्पणोपाधेरन्वयव्यतिरेकानुसन्धानेन गम्योपाधिसंनिधिदोषवत् सुषिरज्ञानस्याप्युपाधिसन्निधिदोषो नास्तीत्याह –
अन्विच्छद्भिरपीति ।
ह्रस्वो वर्ण इति भ्रमे उपाधिभूतध्वनिसम्बन्धव्यतिरेकेण केवलवर्णोपलब्ध्यभावादेवोपाधेर्वर्णाद्यतिरेकानुसन्धानायोगो ध्वन्यन्तरसम्बन्धे दीर्घो भवति, ततोऽन्यध्वनिसम्बन्धे ह्रस्वो भवति इति उपाधिव्यभिचारानुसन्धानेन गम्योपाधिसंश्लेषदोषो नास्तीत्याह –
यत्नेनान्विच्छद्भिरपीति ।
पर्वताग्रस्थवृक्षाल्पत्वभ्रमे पर्वतारोहणेन गम्यं दूरत्वादिदोषमाह –
पूर्ववृत्तेनेति ।
पूर्वरजतज्ञानस्य उत्तरशुक्तिज्ञानविषयशुक्तावसम्भावनाहेतुत्वम्, न दृश्यत इत्याशङ्क्य ततो विशिनष्टि -
प्रवृत्तेनेति ।
प्रवाहरूपेण प्रवृत्तेनेत्यर्थः
पूर्वप्रवृत्तदर्पणस्थं मुखमिति ज्ञानम् उत्तरग्रीवास्थं मुखमिति ज्ञानविषयेनासम्भावनाहेतुरित्याशङ्क्य विशिनष्टि -
सकललोकव्यापिनेति ।
ह्रस्वोऽकार इति ज्ञानेन स एवायमकार इति ज्ञानविषयसर्वगतत्वनित्यत्वयोः नासम्भावनेत्याशङ्क्य विशिनष्टि -
निश्चितेनेति ।
सवितरि सुषिरप्रतिभासः कस्यचिदेवाल्पायुषः पुरुषस्य भवतीत्यतः सर्वजनप्रसिद्धोदाहरणमाह -
यथा वा माहेन्द्रेति ।
निगरणस्य झटिति बाधात् प्रतिभासतः प्रमाणविषयत्वं नास्तीति नाशङ्का, प्रसिद्धनिगरणस्यापि क्षणिकत्वात् सद्यो नाशो भवति, तद्वदत्रापि सद्यो नाश एवेति झटिति बाधाभावात् । अविषय इति शुक्तिवदारोप्येण सहैकज्ञानाविषय इत्यर्थः ।
असङ्ग इति ।
आत्मातिरिक्तस्य कृत्स्नस्याध्यस्तत्वात् आत्मन्येव दोषानुषङ्गो वक्तव्यः, सोऽपि नास्तीत्यर्थः ।
आरोप्येण गुणावयवसादृश्यमधिष्ठानस्य वक्तव्यम् , तच्च नास्तीत्याह -
केनचिदपि गुणदिनेति ।
अध्यास विरोध्यधिष्ठानयाथात्म्यावभासोऽप्यात्मनि विद्यत इत्याह –
निष्कलङ्कचैतन्यतयेति ।
शुक्तितत्त्वविषयवृत्तेरध्यासविरोधित्वादत्र अहं ब्रह्मास्मीत्यात्मतत्वविषयबुद्धिवृत्त्यभावादध्यासोऽस्तीत्याशङ्क्य तत्रापि शुक्तिबुद्धिप्रतिबिम्बिताजडबोधस्यैव निवर्तकत्वात् बोधात्मनि नाहङ्काराद्यध्यास इत्याह -
अन्यगतस्याप्यध्यासस्येति ।
अध्यासावगम इति ।
अध्यासोऽस्तीति साधकप्रमाणमित्यर्थः ।
तदुच्यत इति ।
तत्त्रितयं लक्षणं सम्भावनाप्रमाणं क्रमेणोच्यत इत्यर्थः ।
किं वृत्तस्येति ।
हिरण्यगर्भवाचिकशब्देन निष्पन्नं क इति पदं न, किन्तु किं शब्दनिष्पन्नमित्यर्थः ।
अनेकस्मिन्नर्थे प्रयोगदर्शनादेव यद्यपि तत्र शक्तिरस्ति, तथाप्येकस्मिन् प्रयोग एक एवार्थः स्यादित्याशङ्क्य उभयमप्यत्र विवक्षितमित्याह -
उभयस्य चेति ।
पूर्वभाष्ये अध्यास इत्युक्ते सामान्यज्ञानात् प्रश्नः सम्भवति । आत्मानात्मनोरध्यास इत्युक्ते विशेषज्ञानादाक्षेपः सम्भवतीत्यर्थः ।
उभयमत्र विवक्षितं भवतु, तथाप्येकस्य वाक्यस्यार्थद्वये तात्पर्यं नास्तीत्याशङ्क्यात्र वाक्यद्वयमर्थद्वयपरतया तन्त्रेणोच्चरितमित्याह –
तन्त्रेणेति ।
परिहारोऽपि किं तन्त्रेण क्रियत इति, नेत्याह –
तत्रापीति ।
यद्यपि आक्षेपस्याध्यासस्वरूपापहारकत्वेन प्रबलत्वात् प्रथममाक्षेपः परिहार्यः । तथापि स्वरूपापरिज्ञाने आक्षेपस्यानुदयात् स्वरूपं प्रथममाख्येयमित्याह –
स्वरूपमाख्यायेति ।
इहेति ।
आत्मनीत्यर्थः ।
आहेति परोक्तिः किमर्थेत्याशङ्क्यापरोक्ष्यपर्यन्तत्वेन च प्रतिपादनीये ब्रह्मात्मविषये सुखप्रतिबोधनार्थं वादकथा प्रवर्त्यत इति प्रदर्शयितुमित्याह –
तत्रैवमिति ।
तेन कृतमभिप्रायमाक्षेपरूपमपि प्रश्नरूपमेवेति मत्वा प्रत्युक्तम्, पुनः पूर्ववाद्येवाक्षेपरूपेण विवृणोति इति पूर्ववादिमुखेनाक्षेपं कथं पुनरित्यादिनावतार्य प्रतिविधानं प्रतिपद्यन्त इति योजना ।
स्वरूपज्ञानाभावादनवसरदुःस्थोऽयमाक्षेप इत्युक्ते पूर्ववादी स्वात्मनोऽप्राप्तकारित्वं बुद्ध्वा कुण्ठितमतिः प्रश्नपरिहारमप्यवगन्तुं न शक्नोतीति तथा नोक्तमिति मत्वा आह -
तेनेत्यारभ्य प्रत्युक्तमित्यन्तेन ।
आह कोऽयमित्यस्मिन् भाष्ये आक्षेपस्य कृतत्वादुत्तरस्मिन्नाक्षेपो न कार्य इत्याशङ्क्य - ‘सत्यम्, पूर्वभाष्ये कृत आक्षेपः सम्भावनाभाष्येणावतार्यते केवलमित्याह –
आक्षेपमवतार्येति ।
यदुक्तमित्यनुवादरूपेण किमिति नावतार्यत इत्याशङ्क्य आक्षेपमनूद्य परिहारोक्तौ मया प्रश्नाक्षेपौ सह कृतौ तद्विदित्वैव दुर्बलप्रश्नपरिहारं पूर्वं कृत्वा प्रबलमेवाक्षेपं पश्चात् परिहरति । अत आक्षेपस्य प्रथमप्राप्त्यभावेऽपि अज्ञानिना मया कृतोऽप्राप्त इति पूर्ववादी बुद्ध्वा वक्तुं कृतमतिराक्षेपपरिहारमवगन्तुं न शक्नोतीति नानुवादः कृतः इत्यभिप्रायेणाह –
पुनरसाविति ।
यद्यपि जल्पादिषु परोक्तिर्विद्यते तथाप्यर्थनिर्णयाय प्रवृत्ते ग्रन्थसन्निवेशे परोक्तिर्वादकथात्वसूचिकेति व्याख्येयमित्याह -
सर्वत्रैवंविध इति ।
लक्षणभाष्ये लक्ष्याभिधायिपदाभावात् साकाङ्क्षत्वेनानर्थक्यमाशङ्क्य वाक्यं पूरयति -
प्रश्नवाक्यस्थितमिति ।
सर्वथापि त्विति भाष्ये परस्य परात्मतावभासोऽध्यास इति वक्ष्यति, तत्र कथमेकेनैव परशब्देन लक्षणं पूर्यत इति तत्राह -
तत्र परत्रेति ।
ज्ञानाध्यासस्य लक्षणकथनपरत्वं स्वयमेव भाष्यस्य प्रतीयत इति मत्वा अर्थाध्यासस्य लक्षणकथनपरत्वं दर्शयति -
अवभासमानतेति कर्मव्युत्पत्तिप्रदर्शनेन ।
तस्येति ।
अवभासमानपरस्येत्यर्थः ।
विशेषणत्वेनान्वयसिद्धये स्मृतिशब्दस्यापि कर्मव्युत्पत्तिमाह -
स्मर्यत इति ।
`अकर्तरि च कारके संज्ञायाम्' इति सूत्रेण कर्तृव्यतिरिक्तकारके संज्ञायां घञादेर्विधानात् अत्र संज्ञायामगम्यमानायां क्तिन्प्रत्ययान्तस्मृतिशब्दस्य कथं कर्मपरतया व्युत्पादनमित्याशङ्क्य चकारादसंज्ञायामपि प्रयोगो भवेदित्युक्तमिति मत्वा आह –
असंज्ञायामपीति ।
रूपशब्दः किमर्थमित्याशङ्क्य स्मर्यमाणे वस्तुनि उपमासमासार्थ इत्याह -
स्मर्यमाणरूपमिवेति ।
ननु स्मर्यत एव रजतं न स्मर्यमाणसदृशमिति, नेत्याह -
न पुनः स्मर्यत एवेति ।
स्पष्टमवभासनादिति ।
अपरोक्षतया संसर्गज्ञानाधीनप्रवृत्तिहेतुतया चावभासनादित्यर्थः ।
पुरोऽवस्थितत्वावभासनादिति ।
इन्द्रियसम्प्रयोगजन्यज्ञानेन पुरोवर्तीदमंशसंसृष्टतयावभासनादित्यर्थः ।
ज्ञानमिति ।
पूर्वानुभवविशिष्टत्वेनाप्रतीतेः न स्मर्यमाणरूप्यमित्यनुभूतार्थस्यैव प्रतीतेः स्मर्यमाणसदृशमेवेत्युपपत्तिपरं भाष्यमित्याह –
पूर्वदृष्टेति ।
पूर्वदृष्टस्यैवावभासः, न तु दर्शनस्येत्यर्थः ।
पूर्वदृष्टरजतस्य भ्रान्तौ प्रतीतिरन्यथाख्यातिपक्षे नानिर्वचनीयपक्षे, तत्र पूर्वदृष्टावभास इति कथमुच्यते इत्याशङ्क्य पूर्वदृष्टस्य रजतस्यैव न भ्रान्तौ प्रतीतिरुच्यते, किन्तु पूर्वं रजतद्रष्टुस्तत्संस्कारजन्यतया भ्रान्तौ रजतप्रतीतिर्नेतरस्येति विवक्षितमित्याह -
न हि पूर्वमिति ।
ज्ञानस्य स्मृतित्वात् , पूर्वानुभवविशिष्टतया बोधकत्वे वक्तव्ये अर्थस्यापि तद्विशिष्टतया बोध्यत्वेन स्मर्यमाणत्वमेव स्यादित्याशङ्क्याह -
यत इति ।
ज्ञानस्यापि संस्कारजन्यतया स्मृतिसदृशत्वमेव लक्षणमिति यतोऽतः पूर्वानुभवविशिष्टतया बोधकत्वाभावादर्थस्यापि तद्विशिष्टतया बोध्यत्वाभावात् संस्कारजत्वेन स्मर्यमाणसदृशत्वमेव लक्षणमित्यर्थः ।
अर्थादिति ।
भाष्यवाक्यसामर्थ्यादित्यर्थः ।
परत्रावभास्यमानः परः स्मर्यमाणसदृश इति स्मृतिरूपशब्दस्य पूर्वमर्थाध्यासलक्षणपरतया व्युत्पत्तिः कृता, अतो न ज्ञानाध्यासलक्षणपरत्वमिति चोदयति -
कथमिति ।
संस्कारजन्यत्वात् स्मृतिरेवेति तत्राह -
न पुनरिति ।
पूर्वप्रमाणविषयविशेष इति रूप्यव्यक्तिरुच्यते, व्यक्तेरनवभासकत्वात् रूप्यज्ञानं न स्मृतिरित्यर्थः ।
तथानवभासकत्वादिति ।
परोक्षदेशकालविशिष्टत्वेन साक्षात् स्मृतिवत् अनवभासकत्वादित्यर्थः ।
कथं पुनः स्मृतिरूपत्वमिति ।
स्मृतिसदृशत्वं पुनः कथमित्यर्थः । पूर्वप्रमाणमेव स्मृतिरूपत्वमास्थायार्थप्रकाशकं, तस्य स्मृतिरूपत्वप्राप्तौ द्वारतयावतिष्ठते संस्कारः, तस्मात् पूर्वप्रमाणद्वारमिति संस्कार उच्यते, संस्कारजन्यत्वात् स्मृतिसदृशत्वमित्यर्थः ।
स्मृतित्वाभावे संस्कारजन्यत्वमपि न स्यादित्याशङ्क्य सम्प्रयोगजज्ञानादन्येषां संस्कारजन्यत्वमस्तीत्याह -
न ह्यसम्प्रयुक्तावभासिन इति ।
पूर्वप्रमाणद्वारसमुत्थत्वमन्तरेणावभासिनो न सम्भव इत्येतावदुक्तौ निर्विकल्पकज्ञानसंस्कारस्य ज्ञानजनकत्वं नास्ति, कथमनुद्भवसंस्कारेण विना ज्ञानानामिति शङ्का स्यात् , तद्व्यावर्तयति -
प्रवृत्तेति ।
प्रवाहरूपेणानृतेनेत्यर्थः
एवमुक्ते शुक्तिज्ञानस्य पूर्वप्रवृत्तरजतज्ञानसंस्कारजन्यत्वं प्राप्तं व्युदस्यति -
तद्विषयेति ।
एवमुक्तौ धारावाहिकोत्तरज्ञाने अनैकान्तिकमिति, नेत्याह -
असम्प्रयुक्तावभासिन इति ।
अपर इति
अख्यातिवादीत्यर्थः ।
विप्रतिपन्नं रूप्यज्ञानं स्मृतिर्भवितुमर्हति, अन्यसम्प्रयुक्ते चक्षुषि समनन्तरमेव संस्कारजन्यान्यविषयज्ञानत्वात् प्रसिद्धगवादिस्मृतिवदित्यनुमानमाह –
नन्वन्यसम्प्रयुक्तेति ।
रूप्यज्ञानं स्मृतिर्न भवति, स्मरणाभिमानशून्यत्वात् ग्रहणवदित्यनुमिते हेत्वसिद्धिपरिहाराय रजतज्ञानं स्मरणाभिमानशून्यं स्मरणाभिमानवत्वे गृह्यमाणात् , स्वार्थविवेचकत्वप्रसङ्गात् , सम्प्रतिपन्नस्मृतिवदिति चानुमिते अप्रमुषितस्मरणाभिमानत्वं विवेचकत्वे प्रयोजकं न तु स्मरणाभिमानवत्वम् । इह तु प्रमोषादविवेचकत्वमित्याह –
प्रमोषस्त्विति ।
संस्कारात् भ्रमोत्पत्तिश्चेत् सदा सर्वसंस्कारसद्भावात् सदा सर्वभ्रमः स्यादित्याशङ्क्य उद्बुद्धसंस्कारः कारणम्, उद्बोधश्च संस्कारविशेषस्यैवेत्याह –
इन्द्रियादीनामिति ।
स्मर्यत अनेनेति व्युत्पत्त्या स्मृतिरिति संस्कार उच्यते । शुक्तीदमंशरूप्ययोः अविनाभावादिसम्बन्धाभावात् इदमंशदर्शनेन संस्कारोद्बोधो न सम्भवतीत्याशङ्क्य दोषः संस्कारोद्बोधक इत्याह -
इन्द्रियदोषेणार्थस्य स्मृतिसमुद्बोधः क्रियत इति ।
इन्द्रियत्वगतदोषस्य अन्तःकरणगतसंस्कारेण सम्बन्धाभावान्नोद्बोधकत्वमित्याशङ्क्य इन्द्रियादीनामित्यत्र आदिशब्दोपात्तविषयगतसादृश्यदोषविशेषेण रूप्यप्रतियोगिकत्वेन रूप्यसंस्कारसम्बन्धिना सहितेन्द्रियदोष उद्बोधक इत्याह -
आदिगतदोषविशेषणार्थविशेषस्य स्मृतिसमुद्बोधः क्रियत इति ।
सादृश्यदोषसहितेन्द्रियदोषः संस्कारोद्बोधकश्चेत् शुक्तिसदृशशुक्त्यन्तरसंस्कारोद्बोधकः स्यात् , इत्याशङ्क्य इन्द्रियादीनामित्यत्र बहुवचनेन निर्दिष्टप्रमातृगतरागदोषोऽपि नियामक इत्याह -
इन्द्रियादीनां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषणस्य स्मृतिसमुद्बोधः क्रियत इति ।
रागदोषस्य सुवर्णसंस्कारोद्बोधकत्वं स्यादित्याशङ्क्य सादृश्यदोषसाहित्यात् रजतसंस्कारमेवोद्बोधयतीत्याह –
कस्यचिदेवेत्यवधारणेन ।
ज्ञानकारणगतदोषवत् ज्ञानं संस्कारस्यापि उद्बोधकं भवति इति मत्वाह –
ज्ञानकारणानामिति ।
इदमंशविषयग्रहणस्य स्वार्थविवेचकत्वे कारणमाह -
सम्प्रयुक्तस्य चेति ।
विहन्यत इति ।
चक्षुषो विशेषबोधनशक्तिः प्रतिबध्यत इत्यर्थः ।
संसर्गव्यवहारहेतुत्वेन संसर्गज्ञानापेक्षेत्याशङ्क्य निरन्तरोत्पत्तिरेव हेतुरित्याह –
तेनेति ।
घटपटज्ञानयोर्निरन्तरोत्पन्नयोर्घटे एव पट इति सामानाधिकरण्यव्यवहारहेतुत्वाभाववदिहापि न स्यादित्याशङ्क्य विशेषमाह -
करणदोषादेव विवेकानवधारणादिति ।
इदं रजतमित्यभादिति संसर्गप्रत्ययः प्रत्यभिज्ञायत इति, नेत्याह –
दूरस्थयोरिवेति ।
उत्पन्नभ्रम इति ।
व्यवहारमात्रमित्यर्थः ।
बालकस्य तिक्तावभासो नास्तीत्याशङ्क्य थूत्कारादिप्रवृत्तिभिर्निश्चितपित्तदोषादवभासः कल्प्यत इत्याह –
पित्तदोषादिति ।
जन्ममरणवेदनया संस्कारस्य नष्टत्वात् जन्मान्तरीयसंस्कारात् स्मृतिर्न सम्भवतीत्यत्राह –
अन्यथेति ।
जन्मान्तरानुभूतं सर्वं किमिति न स्मर्यत इति, दोषबलादित्याह -
तस्मात् पित्तमेव हेतुरिति ।
इतरस्मृतिं विहाय तिक्तस्यैव स्मरणहेतुरित्यर्थः
पित्तसद्भावे गमकमाह -
मधुराग्रहण इति ।
मधुराग्रहणेऽपि प्रमाणं थूत्कार एवेति बहिरेव द्रष्टव्यम् ।
दोषस्य किमिति सर्वास्मारकत्वमिति तत्राह –
कार्यगम्यत्वादिति ।
अतत्वे तत्त्वज्ञानमित्यख्यातिवादिनापि संसर्गज्ञानं भ्रमत्वेनोक्तमिति, नेत्याह –
एतेनेति ।
कोऽयं स्मरणाभिमानो नाम, स्मृतेरन्योऽनन्यो वेति विकल्प्य केनापि प्रकारेण न सम्भवतीति आक्षिपति, अथवा किं स्मरणेनाभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मार्यगतः कश्चित् स्मरणाभिमान इत्युच्यते । किं वा स्मरणेऽभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मृतिगतविशेषः कश्चित् , उत स्मरामीत्यभिमननं स्मरणाभिमान इति स्मृतेर्ज्ञानान्तरसम्भेद इति पृच्छति । स्मार्यगतविशेषः स्मरणाभिमान इति पक्षमनूद्य निषेधति -
न तावत् ज्ञानानुविद्धतयेति ।
अयमर्थः, ज्ञानानुविद्धतया ग्रहणमित्यनेन स्मार्यगतविशेषं वदता ज्ञाप्तिर्ज्ञा(प ? )नमिति व्युत्पत्त्या स्मर्यमाणे पूर्वानुभवसम्भेद उच्यते, किं वा ज्ञायत इति व्युत्पत्त्या पूर्वानुभूतव्यक्तिसम्भेद उच्यते, अथवा ज्ञायते अस्मिन्निति व्युत्पत्त्या पूर्वानुभवविषयावच्छेदकदेशकालान्तरसम्भेद इति विकल्प्य न तावत् देशकालव्यक्तिसम्भेदः स्मरणाभिमानतया विवेचकः, सोऽयमिति भ्रमविवेचकत्वाभावात् । पूर्वानुभवसम्भेदस्तु स्वयमेव स्मार्ये नास्तीति ।
न ह्यतिवृत्तस्येति ।
स्मृतिहेतुसंस्काराधायकपूर्वज्ञानस्य स्वविषयेण सह स्वात्मानं प्रति विषयत्वं नास्ति, अतो न स्मृतिविषयत्वमित्यर्थः ।
शुद्धमेवेति ।
स्वहेतुपूर्वानुभवसम्भेदरहितमेवेत्यर्थः ।
पूर्वानुभवनिमित्तव्यवहृतत्वं स्मृतिविषयत्वे प्रयोजकं न तु पूर्वज्ञानकर्मत्वम् । अतः पूर्वज्ञानज्ञेययोः सह पूर्वज्ञानेनैव व्यवहृतत्वात् पूर्वज्ञानस्यापि अर्थात् स्मृतिविषयत्वं स्यादित्याशङ्क्य, पूर्वज्ञाननिमित्तव्यवहृतत्वं न स्मृतिविषयत्वे प्रयोजकम् , आत्मनि व्यभिचारात् । आत्मा हि स्मृत्याश्रयतया अपरोक्षोऽवभासते, अतः पूर्वानुभवकर्मत्वमेव स्मृतिविषयत्वे प्रयोजकमिति मत्वा आह -
न ज्ञानानुविद्धमिति ।
अर्थज्ञानसमनन्तरम् अर्थनिष्ठप्राकट्यलिङ्गेन ज्ञातोऽर्थ इति अनुमानज्ञानं ज्ञानसम्भिन्नार्थविषयं जायते । तज्जन्या स्मृतिरपि ज्ञानसम्भिन्नार्थविषया जायते, नार्थमात्रविषयेत्याशङ्क्य स्मृतिः न ज्ञानसम्भिन्नार्थविषया, किन्तु केवलार्थविषयेति निर्णयसिद्ध्यर्थं केवलार्थविषयस्मृतिमुदाहरति -
तथा च पदादिति ।
उत्तमवृद्धेन क्रमेण उच्चार्यमाणपदादित्यर्थः ।
गवा यजेतेत्युक्ते पूर्वानुभवविशिष्टगोरेव शब्दशक्तिविषयतया सम्बन्धित्वेन प्रतिसम्बन्धिगोपदोपलब्धिजन्यस्मृतिविषयत्वमस्ति, अन्विताभिधानवादिनामित्यर्थः । स्मृतिर्नित्यानुमेयत्वात् प्रत्यक्षसिद्धविशेषाभावेऽपि स्मृत्यनुमापकलिङ्गगतविशेषात् स्मृतिगतविशेषोऽनुमेयः स्यात् इत्याशङ्क्य लिङ्गगतविशेषासम्भवमाह -
नापि ग्राह्यविशेषनिमित्त इति ।
प्रमाणग्राह्यात् स्मृतिग्राह्यगतो यो विशेषः न तन्निमित्तस्मरणाभिमानानुमेय इत्यर्थः ।
प्रमाणग्राह्यस्यैव गृह्यमाणत्वादित्युक्ते ‘स घट’ इति स्मृतौ, ‘अयं घट’ इति प्रत्यक्षे प्रतीतायंशब्दार्थो विकलः, स इति शब्दार्थोऽधिक इति न प्रमाणग्राह्यस्यैव स्मृतिविषयत्वमित्याशङ्क्य अयंशब्दार्थो नाम देशकालौ, प्राकट्य स्वदेशकालयोरुपरि स्थितेरयंशब्दप्रयोगतच्छब्दार्थावपि तावेव प्राकट्योपरि देशकालयोः स्थितेः परोक्षत्वेन तच्छब्दप्रयोग इत्यर्थैक्यमेवेति मत्वाह -
अविकलानधिकस्येति ।
फलनिमित्त इति ।
ग्रहणफलात् स्मृतिफले विशेषभावात् तन्निमित्तस्मरणाभिमानोऽनुमेय इति च वक्तुं न शक्यमित्यर्थः ।
विषयभेदाद्धि फलभेदः । अत्र स्मृतिप्रमाणयोर्विषयघटाद्यर्थस्यैकत्वात् तदवच्छिन्नफलस्याप्येकत्वमित्याह –
प्रमाणफलेति ।
फलविषयेति फलावच्छेदकेत्यर्थः ।
’स्मृतेः तत् स्मरामि’ इति ज्ञानान्तरसम्भेदः स्मरणाभिमान इति पक्षे तस्य क्वचित् कदाचित् भावादेव सर्वस्मृतिष्वनन्वयात् न स्मरणाभिमानतया विवेचकत्वमित्याह -
यः पुनरिति ।
क्वचिदिति
अत्यन्तप्रिये अत्यन्तविस्मापके अत्यन्तद्वेष्ये चेत्यर्थः । ।
कदाचिदिति ।
विस्मापकत्वाद्युद्बोधकसद्भावे इत्यर्थः ।
अन्योन्यं गृहीतग्रहणग्राह्याच्च व्यावृत्ततया प्रतिपन्नस्मृतिस्मार्यस्मर्तृभिः स्ववाचकतत्स्मरामीति शब्दत्रयस्मृतौ स्मृतशब्दोल्लिखिततया ‘तत् स्मरामि’ इति ज्ञानस्य पश्चादुत्पत्तेः न तस्य स्मरणाभिमानतया विवेचकत्वमित्याह -
यः पुनरिति ।
क्वचिदिति अतिदूषणान्तरमाह -
स वाचकशब्दसंयोजनानिमित्त इति ।
उपलब्धवाच्यस्वरूपस्यैव स्वशब्दस्मारकत्वम्, न तु व्यावृत्ततयोपलब्धस्येत्याशङ्क्य विशेषशब्दस्मारकत्वाय भेदोपलब्धिरपि अपेक्षितेत्याह -
यथा सास्नादीति ।
आकृतौ प्रतीतायामिति भावः ।
ग्रहणात् स्मरणस्य भेदको विशेषः संस्कारजन्यत्वं परोक्षतयावभासित्वं चेति त्वया वक्तुं न शक्यते, तस्य संस्कारजन्यत्वस्य स्मृतिप्रतिपत्तिसमकालं प्रतिपन्नतया विवेचकत्वायोगात् न स्मरणाभिमानत्वम्, परोक्षतयावभासित्वस्याप्यनुमानेऽपि भावान्न स्मरणाभिमानत्वमित्यभिप्रेत्याह -
अन्यथाख्यातिवादी तस्मादिति ।
अवभासः ।
अवमतभासः परोक्षावभास इत्यर्थः ।
अधिकोंऽशः ।
ग्रहणाधिकोंऽश इत्यर्थः ।
यदुक्तं - विशेषवत्तया रूप्यज्ञानस्य स्मृतित्वमस्त्वित्यख्याति शङ्कायामाह -
न चेहेति ।
किं मायेति ।
अन्यथाख्यातिरित्याह -
किन्त्वध्यास इति ।
अन्याकारज्ञानमन्यालम्बनं वा वस्तुनो वस्त्वन्तरात्मनावभासो वा अन्यथाख्यातिरिति विकल्प्य प्रथमं दूषयति -
नन्वेवं सति वैपरीत्यमिति ।
रजतज्ञानगतरजताकारस्य शुक्तिका बिम्बभूतेत्यालम्बनशब्दस्यैकोऽर्थः । रजतजात्याकारज्ञानस्य शुक्तिव्यक्तेः पर्यवसानभूमित्वमन्योऽर्थः । तदुभयं यथाज्ञानमर्थमभ्युपगच्छतां वैपरीत्यमापद्यत इति भावः ।
ज्ञानगताकारं प्रति बिम्बत्वं पर्यवसानभूमित्वं वा नालम्बनत्वम्, किन्तु ज्ञानप्रयुक्तव्यवहारविषयत्वं तदालम्बनत्वमिति चोदयति -
ननु शुक्तेः स्वरूपेणापीति ।
अत्र शुक्तिधर्मिणो रजतज्ञानालम्बनं भवितुमर्हति, तज्ज्ञानप्रयुक्तव्यवहारविषयत्वात् , सम्प्रतिपन्नवदित्यनुमानमुक्तं द्रष्टव्यम् ।
द्रव्यज्ञानाद् द्रव्ये आदीयमाने गुणोऽप्यादीयते, तथापि न द्रव्यज्ञानस्य गुणालम्बनत्वं दृष्टमित्यभिप्रायेण चोद्यमानो दृश्यवस्तुनो वस्त्वन्तरात्मनावभासोऽन्यथाख्यातिरिति पक्षं विकल्प्य दूषयति -
अथ तथारूपावभासनमिति ।
रूप्याख्यवस्त्वन्तरात्मनावभासनमित्यर्थः । तथारूपावभासनं शुक्तेः पारमार्थिकमुत नेत्यन्वयः ।
असतः ख्यात्ययोगात् सत्संवित्तिविरोधतोऽनाश्वासाच्च द्वितीयविकल्पोऽनुपपन्न इति मत्वा आह -
आहो इति ।
विरोधिशुक्त्यात्मत्वज्ञानाद्बाध इत्याशङ्क्य इदं रजतमिति रजतात्मत्वज्ञाने शुक्त्यात्मत्वस्य यथा न बाधः तद्वदबाध इत्याह -
नेयं शुक्तिरिति ।
यथेति ।
अन्यथा परिणते वस्तुनि ज्ञानमन्यथाख्यातिरिति विकल्पमनूद्य दूषयति -
अथ शुक्तेरेवेति ।
विरोधिशुक्त्यात्मत्वज्ञाने नेदं रजतमिति बाधः स्यादित्याशङ्क्य क्षीरस्य दधिरूपपरिणामे पुनर्विरोधिक्षीरात्मत्वज्ञानं यथा न भवति तथा विरोधिशुक्त्यात्मत्वज्ञानमपि न भवेदित्याह -
नापि क्षीरमिदमितीति ।
रजतस्य शुक्तिपरिणामत्वं मायावादिना त्वया अङ्गीकृतमित्याशङ्क्य अविद्याविशिष्टशुक्तिपरिणामत्वाभ्युपगमात् अविद्यापाये रूप्यं मत्पक्षेऽपगच्छति, त्वत्पक्षे तु शुक्तिपरिणामत्वमेवेति नापगच्छेदिति मत्वा आह –
क्षीरमिवेति ।
नालद्वारेण पद्मदलं प्रविष्टा जलबिन्दवः पद्मानां मुकुलीभावं जनयन्ति, आदित्यकिरणेन पीतत्वात् विरलभूतत्वात् बिन्दुभिर्दलानां गाढतालक्षणविकासो भवति । पुनरपि दले अब्बिन्दूनामनुप्रवेशात् दलानां पीनत्वसत्वेन मुकुलता भवति । अतो विरोधिमुकुलपरिणामाद्विकासविच्छेदः, नत्वादित्यकिरणापायादिति परिहारं हृदिस्थमनुक्त्वा परिणामे दूषणान्तरमाह -
तथा सतीति ।
मुकुलमेव विकसितं भवतीति प्रतीतिवत् शुक्ती रूप्यं भवतीति प्रतीतिः स्यादित्यर्थः ।
रजतस्य शुक्तिपरिणामत्वं मा भूत् बुद्धिपरिणामत्वं स्यादित्यन्यथाख्यातिवादिविशेषः आत्मख्यातिवादी वा शङ्कते -
अथ पुनरिति ।
भिन्नकालत्वादिति ।
एककालत्वाभावादित्यर्थः ।
प्रतीत्यन्तरगतोत्पादनव्यापारस्य रजतान्तरोत्पत्तावुपयुक्तत्वेऽपि बोधनव्यापारेण पूर्वरजतं प्रति बोधकमस्त्विति - नेत्याह –
प्रथमप्रत्ययवदिति ।
पक्षान्तरं निराकृत्य अख्यातिवादी स्वपक्षमुपसंहरति -
तदेवमिति ।
दूषणमप्युक्तमनुस्मारयत्यन्यथाख्यातिवादी -
ननु स्मृतेरपीति ।
तन्त्रान्तरीयाः साङ्ख्या इत्यर्थः ।
का पुनर्गतिरिति वदता गत्यन्तराभावादख्यातिरेव समाश्रयणीयेति स्वपक्षे पर्यवसानं क्रियते उत सर्वतो निरुद्धः सद्गतिमेव पृच्छसीति विकल्प्य स्वपक्षे पर्यवसानं न कार्यमित्याह सिद्धान्ती -
उच्यत इत्यादिनासमुत्पन्नमित्यन्तेन ।
प्रश्नपक्षेऽपि गमनं गतिरिति व्युत्पत्त्या ज्ञानमुक्त्वा तदेकं किं वा द्वयमिति पृच्छ्यते । गम्यत इति गतिरिति व्युत्पत्त्या ज्ञानविषयस्य सत्यत्वमसत्यत्वं वेति पृच्छ्यते । गम्यत अनयेति गतिरिति व्युत्पत्त्या सामग्रीमुक्त्वा किं दोषः सामग्री उत सम्प्रयोगः यदि वा संस्कार इति पृच्छ्यत इति विकल्प्य सामग्रीप्रश्नस्य परिहारमाह -
किन्त्वेकमेव संस्कारसहितादिन्द्रियादिति ।
एकमेवेति ज्ञानस्यैक्यं सामग्र्यैक्ये हेतुत्वेनोच्यत इति द्रष्टव्यम् ।
संस्कारजन्यत्वे इन्द्रियजन्यत्वे द्वयजन्यत्वे च स्मृतिवद्ग्रहणवत् प्रत्यभिज्ञावत् सम्यग्ज्ञानत्वमेव स्यात् , कथं भ्रान्तित्वमिति चोदयति -
कथमेतदिति ।
दोषोपेतेन्द्रियसंस्कारजातत्वात् भ्रान्तित्वमित्याह -
उच्यते, कारणदोष इति ।
दोषसद्भावे किं प्रमाणमित्याशङ्क्य शुक्तित्वादि विशेषज्ञानलक्षणकार्यविशेषजनक शक्तिप्रतिबन्धः कल्पक इत्याह -
कार्यविशेषे शक्तिं निरुन्धन्नेवेति ।
संस्कारविशेषोद्बोधश्च स्वहेतुत्वेन दोषकल्पक इत्याह –
संस्कारविशेषमप्युद्बोधयतीति ।
दोषः प्राप्तकार्यस्य प्रतिबन्धकः स्यात् , कथं संस्कारोद्बोधकः स्यादिति तत्राह –
कार्यगम्यत्वादिति ।
संवलितेति ।
संवलनरूपेत्यर्थः ।
ज्ञानस्य एकत्वानेकत्वविषयप्रश्नस्य परिहारमाह -
सा चेति ।
कथम् एकत्वं ज्ञानस्येति तत्राह –
एकफलमिति ।
एकफलत्वादित्यर्थः ।
विषयस्यैकत्वानेकत्वसत्यत्वमिथ्यात्वविषयप्रश्नस्य परिहारमाह -
तस्य चेति ।
अत्र घटपटाविति ज्ञानस्यैकत्वेऽप्यर्थस्य भिन्नत्ववत् ज्ञानैक्येऽप्यर्थभेदः स्यादिति शङ्काव्यावृत्त्यर्थमर्थैक्यं पृथगुच्यते अथवा अर्थैक्ये तात्पर्यं नास्ति किन्तु रजतस्य मिथ्यात्वमुच्यते । अयमर्थः सम्प्रयोगजन्यत्वाच्छुक्तिकालम्बनत्वमुचितं संस्कारविशेषजन्यत्वाद्रजतालम्बनत्वमुचितम्, दोषजन्यत्वान्मिथ्यालम्बनत्वमुचितम्, सम्प्रयोगादित्रयसन्घातेन जन्यत्वात् शुक्तिकागतालम्बनत्वमुचितम् ।
अवभासत इति ।
अत्र सामग्रीशब्देन सम्प्रयोग उच्यत इति द्रष्टव्यम् ।
ज्ञानस्य मिथ्यात्वप्रसिद्धिनिर्वाहाय च मिथ्यालम्बनत्वमभ्युपेयमित्याह -
तेन मिथ्यालम्बनमिति ।
तेन मिथ्यार्थस्योचितालम्बनत्वेनेत्यर्थः ।
बाधाभावादिति ।
नेदं ज्ञानमिति बाधाभावादित्यर्थः ।
स्मृतिज्ञानं प्रति निरपेक्षकारणसंस्कारस्य, ग्रहणज्ञानं प्रति निरपेक्षकारणसम्प्रयोगस्य च कथं सम्भूयैकज्ञानहेतुत्वमिति चोदयति ज्ञानद्वयवादी -
भिन्नजातीयेति ।
निरपेक्षसंस्कारसम्प्रयोगाभ्यां सह सापेक्षदोषस्य एकज्ञानकारणत्वं न सम्भवतीति पृच्छ्यते किं वा निरपेक्षसंस्कारसम्प्रयोगयोः सम्भूयैकज्ञानकारणत्वं न सम्भवतीति पृच्छ्यत इति विकल्प्य उभयत्रापि दृष्टान्तं दर्शयति -
दृश्यते हीत्यादिना ।
लिङ्गं व्याप्तिज्ञानसापेक्षं व्याप्तिसंस्कारो निरपेक्षः, तदुभयं सम्भूय लिङ्गिज्ञानकारणं दृष्टमित्यर्थः ।
तत्रापि ज्ञानकारणभेदात् ज्ञानभेद इति, नेत्याह –
उभयत्रापीति ।
स्मृतिः स्मर्यमाणं व्यक्तिरूपं गर्भो यस्याग्नित्वादिसामान्यस्य तत् स्मृतिगर्भम्, स्मृतिः स्मरणं गर्भो यस्य सामान्यज्ञानस्य तत् स्मृतिगर्भमेकमेव प्रमाणज्ञानमिति चानुमाने योजना । प्रत्यभिज्ञायां स्मृतेर्गर्भं यत्तं स्मृतिगर्भमिति निर्वचनम् । पूर्वकालोपलक्षिततया स्मर्यमाणे गृह्यमाणतया अयमित्यपरोक्षाकारस्य स्वरूपतया गर्भरूपेणावस्थानमैक्यज्ञानोदयकाले अस्ति । पश्चादयमेव स इति स्मर्यमाणस्य परोक्षस्य अपरोक्षोऽयमित्याकारमात्रत्वविधानादैक्यप्रमित्युदयनान्तरीयकतया परोक्षस्यापरोक्ष्यविरोधादेव अपगतत्वात् पारोक्ष्यहेतुस्मृतेरप्यपगतत्वात् प्रत्यभिज्ञाज्ञानं केवलमपरोक्षज्ञानं भवति । तत्रापि पारोक्ष्यस्यानिवृत्तिमङ्गीकृत्य स्मृतिगर्भमित्युक्तमिति वेदितव्यम् ।
ज्ञानलिङ्गेन सह व्याप्तिस्मृतिः लिङ्गिज्ञानकारणम् । न तु व्याप्तिज्ञानसंस्कार इति तत्राह -
संस्कारानुद्बोधे तदभावादिति ।
उद्बुद्धसंस्काराभावे तस्याः स्मृतेरभावात् उद्बुद्धसंस्कारः स्मृत्यङ्गीकारेऽपि वक्तव्यः । तदा केवलव्यतिरेकाभावात् कल्पनागौरवाच्चोद्बुद्धसंस्कारेण न स्मृत्यपेक्षेति भावः । अथवा तदभावादिति तयोर्लिङ्गिज्ञानव्याप्तिस्मृत्योर्युगपत् ज्ञानानुत्पत्तिरिति न्यायात् युगपदसम्भवादित्यर्थः ।
प्रत्यभिज्ञायां सम्प्रयोगः पूर्वानुभूतस्मृतिश्च कारणम् । ज्ञानद्वययौगपद्यप्रसङ्गाभावान्न संस्कार इति, तत्राह -
अयमेव च न्याय इति ।
संस्कारानुद्बोधे स्मृत्यभावात् केवलव्यतिरेकाभावात् कल्पनागौरवाच्चोद्बुद्धसंस्कारेणैव पर्याप्तमिति न्यायः प्रत्याभिज्ञायामपि समान इत्यर्थः ।
न पुनर्ज्ञानद्वये प्रमाणमस्तीति ।
अयमर्थः, उद्बुद्धसंस्कारे सति अनन्तरं प्रत्यभिज्ञाज्ञानोत्पत्तिव्यतिरेकेण मध्ये द्वितीयस्मृतिसद्भावे प्रमाणं नास्तीति ।
भवतु प्रत्यभिज्ञाप्रत्यक्षे निरपेक्षकारणसमाहारः । अभिज्ञानप्रत्यक्षे तु रजतज्ञाने न स्यादिति तत्राह -
तथा भिन्नजातीयेति ।
अत्र सम्प्रयोगादेः प्रत्येकं कारणत्वं धर्मि, बहूनां सम्भूय कारणत्वेन अविनाभूतं भवितुमर्हति, ज्ञानकारणस्थत्वात् । सम्भूय विचित्रज्ञानकारणीभूतनीलादीनां प्रत्येकं कर्मत्ववदित्यनुमानमभिप्रेतं द्रष्यव्यम् ।
संस्कारसहितप्रमाणकारणजन्यत्वात् लैङ्गिकज्ञानादिवदिदं रजतमिति ज्ञानं प्रमाणं स्यादिति तत्राह -
तत्र लैङ्गिकेति ।
संस्कारसहितप्रमाणकारणजन्यत्वाख्यप्रयोजकाभावेऽप्यदुष्टकारणजन्यत्वाख्यप्रयोजकेन प्रामाण्यं दृष्टमिति प्रदर्शनाय चित्रज्ञानमुदाहृतमिति द्रष्टव्यम् ।
एवं च सतीति ।
शुक्तिगतमिथ्यारजते सति अपरोक्षस्य स्मर्यमाणत्वानङ्गीकारात् संसर्गस्य प्रतिपन्नस्य शून्यत्वानङ्गीकारात् बाह्यशुक्तीदमात्मतया प्रतिपन्नरजतस्यान्तर्बुद्धिगतत्वानभ्युपगमादितरपक्ष इव नानुभवविरोध इत्यर्थः ।
अतो मायामयमिति ।
यस्माद्ज्ञानस्य भ्रान्तत्वं रूप्यस्यासत्वे सत्वे वा अनुपपन्नमतो मायामयमित्यर्थः ।
सदिदं रजतमिति रजतस्य प्रतिपन्नसत्तासंसर्गः, शुक्तिकासत्तासंसर्गो न स्वीयसत्तासंसर्गः, इदन्तासंसर्गवत् । तथाप्येतदज्ञात्वा सदिति प्रतिभासानुसारेण परमार्थत्वं शङ्कते -
अथ पुनरिति ।
शुक्तित्वतिरोधानसमर्थकारणदोषवता पुरुषेण रजतं दृश्यम् , न तु सर्वैरिति, नेत्याह -
यतो नहीति ।
यद्यपेक्षेतेति ।
शुक्तिरजतं यद्यपेक्षेतेत्यर्थः ।
तदभावे न तत्रेति ।
(हट्टादिस्थ ? ) पट्टणादिस्थसर्वपरमार्थरजत इत्यर्थः ।
मायात्मकरजतं शुक्तीदमात्मना अपरोक्षमवभासत इति पक्षेऽपि सर्वैदृश्येत इत्याशङ्क्य रजतस्य बिम्बेदमंशस्थत्वे हि तद्गतशौक्ल्यादिवत् सर्वैर्गृह्येत, तद्वैपरीत्येन इदमाकारबुद्धिवृत्त्यग्रे प्रतिबिम्बितेदमि रजतस्याध्यस्तत्वात् बुद्धेरन्यवेद्यात्वाभावात् तत्प्रति बिम्बितेदमंशगतरजतस्यान्यवेद्यत्वाभाव इत्यभिप्रेत्याह -
मायामात्रत्वे त्विति ।
बाधोऽपीति ।
न केवलं भ्रान्तित्वप्रसिद्ध्यनुपपत्तिः, स्वविषयरजतस्य मिथ्यात्वं साधयति । किन्तु बाधकप्रत्यक्षमपि इत्यर्थः ।
रजतस्य प्रतिपन्नोपाधावभावं बाधो बोधयति न तस्य मिथ्यात्वममिथ्यात्वमिति चोदयति -
कथमिति ।
पूर्वमिदमात्मना प्रतिपन्नरजतस्येदमात्मना प्रतिपत्त्ययोग्यतापादनपूर्वकमभावप्रतियोगितया भावविलक्षणत्वेन प्रतिपन्नोपाधावभावप्रतियोगितया सद्विलक्षणत्वेन च रजतम् , नेदं रजतमिति ज्ञानेन ज्ञाप्यते । अतः प्रतिपन्नोपाधावभावप्रतियोगित्वं नाम मिथ्यात्वं बाधकज्ञानेन सिद्ध्यति । तस्मिन् अभावप्रतियोगितयावभासनादित्याह -
तेन हि तस्येति ।
बाधकज्ञानसिद्धस्य प्रतिपन्नोपाधावभावप्रतियोगित्वाख्यमिथ्यात्वस्य पुनः स्वशब्देन परामर्शाच्च बाधविषयो मिथ्यात्वमित्याह –
मिथ्यैवाभासिष्टेति ।
तद्रजतं बुद्धिर्वेति परामर्शं विना मिथ्यैवाभासिष्टेति परामृष्टं प्रतिपन्नोपाधावभावप्रतियोगित्वाख्यं मिथ्यात्वं रूप्यस्यान्यत्र सत्वे नावकल्पत इत्याह -
न च तदिति ।
बौद्धव्यतिरिक्तानां प्रतिपन्नोपाधावभावप्रतियोगित्वहीनत्व दृष्टान्त उच्यते -
सम्प्रयुक्तशुक्तिकावदिति ।
बौद्धस्य दृष्टान्त उच्यते -
निरस्यमानेति ।
स्मृतिरूपशब्दोक्तकारणत्रितयजन्यत्वाख्योपलक्षणं परत्र परावभास इति स्वरूपलक्षणं चाव्याप्तमिति चोदयति -
ननु न व्यापकमिति ।
शोक इति ।
शोकादिनिमित्तनष्टपुत्रादिभ्रम इत्यर्थः ।
परत्रेत्युक्तसम्प्रयुक्ताधिष्ठानस्य सम्प्रयोगाख्यकारणांशस्य चाभावमाह -
न हीति ।
अत एवेति ।
दोषाश्रयभूतसम्प्रयुक्तेन्द्रियाभावादित्यर्थः ।
अतिरिक्तकारणाभावादिति ।
दोषाख्यकारणाभावादित्यर्थः । मात्रजन्यत्वाभावादिति भावः ।
उक्तमेतदिति ।
पूर्वप्रमाणविषयावभासित्वं नाम परोक्षतया अर्थप्रत्यायकत्वं स्मृतेः स्वरूपमित्युक्तम् । अत्रापि स्मृतित्वे परोक्षतया अवभासकत्वं स्यादयं त्वपरोक्षावभासित्वान्न स्मृतिरिति भावः ।
स्मृतित्वं माभूत् , कथं कारणत्रितयजन्यत्वाभावे स्मृतिरूपत्वमित्याशङ्क्य रूप्यभ्रमनिवर्तक शुक्तिज्ञानसाधनचक्षुस्तद्गतदोषः संस्कारश्च निवर्त्यरूप्यभ्रमकारणं दृष्टम् । तथेहापि स्वप्नभ्रमनिवर्तकजाग्रद्देहावच्छिन्नात्मग्राहिज्ञानसाधनं मनस्तद्गतनिद्रादिदोषः संस्कारश्चेत्येतत्कारणत्रितयजन्यत्वात् स्मतिरूपत्वं स्वप्नभ्रमस्येत्याह –
तदिहेति ।
तदिति निवर्तज्ञानसाधनभूतं मनो निर्दिशति ।
निद्रादिदोषस्य संस्कारविशेषेणासाधारणसम्बन्धाभावात् अदृष्टादेरुद्बोधकत्वमाह –
अदृष्टादिसमुद्बोधितेति ।
दोषं विना अदृष्टादिनोद्बुद्धत्वात् सत्यार्थस्मृतिजनकत्वे प्राप्तेऽपि दोषसहकारिबलान्मिथ्यार्थविषयं ज्ञानमुत्पादयतीत्याह –
सहकार्यनुरूपमिति ।
भवतु कारणत्रितयजन्यतया स्मृतिरूपत्वम् , कथं परत्र परावभास इति तत्राह -
तस्य चेति ।
तदवच्छिन्नेति ।
तेन मनसा संयुक्तमित्यर्थः ।
अपरोक्षभ्रमाधिष्ठानत्वे अपरोक्षत्वं प्रयोजकम् , न तु सम्प्रयोगतज्जन्यज्ञानकर्मतया अपरोक्षत्वं केवलव्यतिरेकाभावात् । अतः कर्मत्वाभावेऽपि स्वप्रकाशत्वादात्मनोऽपरोक्षतया अपरोक्षस्वप्नभ्रमं प्रत्यधिष्ठानत्वं सम्भवतीति मत्वा आह –
अपरोक्षचैतन्येति ।
अतः सत्यचैतन्यस्य मिथ्या विवर्तस्य च सम्भेदावभासरूपः परत्र परावभासो विद्यत इति भावः ।
घटः स्फुरतीति सर्वसमानाधिकृतस्फुरणस्यानवच्छिन्नसर्वात्मकचैतन्यमात्मानमनादृत्याहमिति प्रतीयमानाहङ्कारविशिष्टचैतन्यमात्मेत्युपादाय आत्मैवाधिष्ठानं चेदिदं रजतमितिवदहं नीलमित्येव स्वप्न प्रपञ्चो भायादिति चोदयति -
नन्वेवमिति ।
अहङ्कारान्निष्कृष्टसर्वात्मकचैतन्यम् आत्मेत्युपादाय चेत्यस्य चित्सामानाधिकरण्यावभासं सर्वत्राङ्गीकृत्य परिहरति -
को वा ब्रूत इति ।
पुनरप्यहङ्कारविशष्टचैतन्यमात्मानमुपादाय चोदयति -
ननु विच्छिन्नदेश इति ।
इदमिति भिन्नदेशस्थ इत्यर्थः ।
खःस्थादित्यस्य विच्छिन्नजलस्थताप्रतिभासवदन्तःस्थस्यैव बहिष्ठतया भानं न भवति । तत्र खःस्थताया अपि प्रतिभासात् । इहान्तःस्थताया अप्रतिभासात् बहिष्ठ एवेति मत्वा आह -
जागरण इवेति ।
देशः स्फुरतीति देशोऽप्यनवच्छिन्नचैतन्यात्मस्थतयावभासत इत्याह सिद्धान्ती -
ननु देशोऽपीति ।
अत्र ननुः प्रसिद्धौ वर्तते ।