अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

१ परिच्छेदः

उत्त­म­ज्ञ­य­ति­वि­र­चिता पञ्च­पा­दि­का­व्याख्या वक्तव्यकाशिका
॥ श्रीगणाधिपतये नमः ॥
॥ श्री सरस्वत्यै नमः ॥
॥ श्री गुरुभ्यो नमः ॥
॥ हरिः ओं ॥
यद­ध्या­सा­ज्ज­ग­च्चि­त्र­मस्ति भाति प्रियं भवेत् ।
तस्मै सत्य­चि­दा­न­न्द­पू­र्ण­ब्र­ह्मा­त्मने नमः ॥ १ ॥
यन्ना­म­श्र­व­णा­द्भीताः वादिनो वनगोचराः ।
तस्मै ज्ञानो­त्त­मा­र्याय भक्त्या नित्यं नमो नमः ॥ २ ॥
ज्ञानो­त्त­मा­र्य­शि­ष्योऽ­ह­मु­त्त­म­ज्ञ­स­मा­ह्वयः ।
वक्तव्यकाशिकां पञ्चपादिकायाः करोमि वः ॥ ३ ॥
प्रारिप्सितस्य ग्रन्थ­स्या­वि­घ्नेन परि­स­मा­प्ति­प्र­च­य­ग­म­ना­दि­दृ­ष्ट­प्र­यो­ज­नाय शिष्टा­चा­र­प­रि­पा­ल­नाय निर्मि­ति­नि­मि­त्ता­दृ­ष्ट­प्र­यो­ज­नाय च मुखतः इष्टदेवतां नमस्करोति, विषयप्रयोजने तु सङ्क्षेपतो दर्शयति -
अनाद्यानन्देति ॥

नमस्कार्यस्य ब्रह्मणः प्रमेयत्वद्योतनाय पुरु­षा­र्थ­रू­पा­न­न्द­त्वेन ब्रह्म विशिनष्टि -
आनन्देति ।

आनन्दस्य क्षणि­क­त्वा­दा­त्य­न्ति­क­पु­रु­षा­र्थ­त्वा­भा­वात् प्रसि­द्ध­त्वा­द­पू­र्व­त्वा­भा­वाच्च श्रुति­ता­त्प­र्य­वि­ष­य­त्वा­भावः प्राप्त इत्याशङ्क्य अना­द्य­प­रि­च्छि­न्ना­न­न्द­स्या­लौ­कि­क­त्वे­ना­पू­र्व­त्वात् आत्य­न्ति­क­पु­रु­षा­र्थ­त्वाच्च तात्प­र्य­वि­ष­य­त्व­मि­त्याह
अनादीति ।

कथ­मा­न­न्द­स्या­ना­दि­त्वा­दि­सि­द्धि­रिति नाशङ्कनीयम् । आनन्दे जन्म­प­रि­च्छे­दा­दि­प्र­ति­भा­सस्य वर्णेषु दैर्घ्या­दि­प्र­ति­भा­स­व­दौ­पा­धि­क­ध­र्म­वि­ष­य­त्वे­ना­भा­स­त्वात् । एव­म्भू­त­ब्र­ह्मा­नन्दो मोक्षोऽ­व­ग­तोऽ­न­व­गतो वा ? अनवगतश्चेत् गृहमध्ये चिर­नि­हि­ता­ज्ञा­त­घ­ट­वत् पुरुषार्थो न स्यात् । अवगतत्वेऽपि जन्य­ज्ञा­ने­ना­प­रो­क्ष­त्वाय जनकेन्द्रियस्य तदाधारभूतदेहस्य तदा­धा­र­भू­ता­न्न­पा­ना­दि­ज­ग­तोऽ­व­स्था­न­प्र­स­ङ्गात् मोक्षासम्भवः इत्याशङ्क्य, सुखापरोक्ष्यस्य पुरु­षा­र्थ­त्वा­देव केव­ल­व्य­ति­रे­क­शू­न्यस्य जन्या­प­रो­क्ष्य­स्या­प्र­यो­ज­क­त्वात् ज्ञानस्य भाव­त्वे­ना­प­रो­क्ष्य­मि­त्याह
ज्ञानमिति ॥

ज्ञानस्य क्षणिकत्वात् परि­च्छि­न्न­त्वा­द­ना­द्य­प­रि­च्छि­न्ना­न­न्द­स्व­रू­पत्वं न स्यादि­त्या­शङ्क्य क्षणि­क­त्वा­दी­ना­मौ­पा­धि­क­त्वे­ना­भा­स­त्वात् ज्ञानं कूटस्थमित्याह -
कूटस्थेति ।

ईश्व­रा­न­न्द­स्या­ना­दित्वे अपरिच्छिन्नत्वे स्वसत्तायां स्फुर­णा­व्य­भि­चा­रि­त्वेन ज्ञानरूपत्वेऽपि कदाचित् ज्ञान­बा­ध्य­त्व­वत् इहापि बाध्यत्वं स्यादि­त्या­शङ्क्य ईश्वरानन्दस्य मायोपाधौ प्रति­बि­म्बि­त­त्वेन तदै­क्या­ध्या­सा­दु­पा­धि­बा­धया प्रति­बि­म्बि­त­स्यापि बाधोऽस्तु मोक्षानन्दस्य तु बाध्यो­पा­ध्ये­क­त्वा­ध्या­सा­भा­वा­द­बा­ध्य­त्व­मि­त्याह -
सदिति ।

तत्त्वस्य प्रतिपदार्थं भिन्नत्वात् परि­च्छि­न्न­त्वा­च्चा­प­रि­च्छि­न्ना­द्व­या­नन्दं प्रति स्वरू­प­त्व­म­यु­क्त­मि­त्या­शङ्क्य सति भेदा­दि­प्र­ति­भा­स­स्यौ­पा­धि­क­भे­दा­भा­स­वि­ष­य­त्वे­ना­न्य­था­सि­द्ध­त्वात् सदनन्तमित्याह
सदनन्तेति

सच्चिदानन्दानां प्रत्ये­क­म­ख­ण्ड­त्वेऽपि काला­का­शा­दि­व­द­न्योन्यं भिन्न­त्वा­द­नि­त्य­त्वमाशङ्क्य भेद­स्या­भा­स­त्वा­द्व­स्तुत ऐक्यमेवेत्याह -
आत्मन इति ।

एवम्भूतस्य वस्तुनः संसारावस्थायां योग्यत्वे सत्यनुपलम्भात् अन­न्त­स­च्चि­दा­न­न्दा­त्म­क­व­स्तु­वि­प­रीत परि­च्छि­न्ना­स­त्य­ज­ड­हे­य­प्र­प­ञ्च­स्या­व­भा­स­मा­न­त्वा­च्चै­व­म्भू­त­वस्तु न भवतीत्याशङ्क्य द्वैत­जा­ल­स्या­भू­त­स्या­प­र­मा­र्थ­स्यै­व­म्भूते वस्तुनि कल्पितत्वात् सवि­तृ­प्रा­दे­श­स्ये­वा­व­भा­स­मा­नत्वे स्वस्मिन् कल्पि­त­वि­रु­द्ध­प्र­प­ञ्चेन छन्न­त्वा­द­व­भा­स­मा­न­स्यापि वस्तु­नोऽ­प्र­का­श­मा­नत्वं च न विरुद्ध्यत इत्याह –
अभू­त­द्वै­त­जा­ला­येति ।

संसारावस्थायां वस्तुनः प्रप­ञ्चा­त्म­त्वेऽपि मोक्षकाले साधनेन निवर्ततामिति वाऽशङ्क्य ज्ञान­नि­व­र्त्य­त्वात् पूर्वमपि वस्तुनः प्रपञ्चात्मत्वं नास्तीत्याह –
अभू­त­द्वै­त­जा­ला­येति ।

वस्तुनः प्रप­ञ्चा­त्म­त्वा­भावे प्रपञ्चसाक्षित्वं हेतुमाह -
साक्षिण इति ।

एवम्भूते वस्तुनि किं प्रमा­ण­मि­त्य­पे­क्षायां ब्रह्म­श­ब्द­प्र­यो­गा­नु­प­पत्तिः प्रमाणमित्याह -
ब्रह्मण इति ।

कथं विषयप्रयोजने प्रदर्श्येते इति - श्रुणु - अना­द्या­न­न्द­कू­ट­स्थ­ज्ञा­ना­नन्दं सदिति तत्पदार्थं निर्दिशति । आत्मन इति त्वम्पदार्थं निर्दिशति । अभू­त­द्वै­त­जा­ला­येति तत्पदार्थस्य शोधितरूपं निर्दिशति । साक्षिण इति त्वम्पदार्थस्य शोधितरूपं निर्दिशति । साक्षिणे ब्रह्मण इति सामानाधिकरण्येन ब्रह्मा­त्मै­क्य­ल­क्ष­ण­वि­षयं दर्शयति | अनाद्यानन्देति प्राप्यब्रह्मणः आन­न्द­स्व­रू­प­त्व­क­थ­नेन पर­मा­न­न्द­प्रा­प्ति­ल­क्ष­ण­प्र­यो­ज­न­मु­प­न्य­स्यति । अभूतद्वैतजालाय साक्षिण इत्यंशेन सवासनस्य सकलसंसारस्य निवृ­त्ति­ल­क्ष­ण­प्र­यो­जनं च दर्शयति इत्या­चा­र्या­ल्ल­ब्ध­त्वेन ज्ञान­स्या­प­रो­क्ष्य­शि­र­स्कत्वं तथाविधज्ञानस्य चात्म­त्व­मा­चा­र्यस्य ग्रन्थ­क­र­ण­यो­ग्यता योग्येन कृत­स्या­द­र­णी­य­तेति स्थितिः । अतः स्वग्र­न्थ­स्या­द­र­णी­य­त्व­सि­द्धये त्रिभि­र्न­म­स्का­र­श्लोकैः स्वस्या­चा­र्या­ल्ल­ब्ध­वि­द्य­त्वेन ग्रन्थ­क­र­ण­यो­ग्यता अस्तीति सूचयति - तत्र -
नमः श्रुतिशिरः पद्मेत्यादि - मार्तण्डमूर्तय इत्यन्तेन ।
श्रीवे­द­व्या­स­भ­ग­वतः श्रव­णा­दि­पौ­ष्कल्यं दर्शयति । मार्तण्डस्य मूर्तिरिव मूर्तिर्यस्यासौ मार्तण्डमूर्तिः तस्मै इति निर्वचनम् । उपनिषदां निर्णये तच्छ­क्ति­ता­त्प­र्य­वि­ष­य­वि­शि­ष्ट­ल­क्ष­ण­वि­क­सने च गुरुतरा अस्य मूर्तिरित्यर्थः ।

कृच्छ्र­चा­न्द्रा­य­णा­दि­त­पसां पुष्कलत्वमाह –
बाद­रा­य­ण­सं­ज्ञा­येति ।
बदरा यस्मिन् सन्ति स देशो बादरः, तादृशदेशोऽयनं स्थानं भवति यस्य स आचार्यो बादरायणः, सैव संज्ञा अस्येति निर्वचनम् ।

मननपौष्कल्यमाह -
मुनय इति ।
मन­ना­न्मु­नि­स्त­न्नि­पुण इत्यर्थः ।

शम­द­मा­दि­पू­र्व­क­नि­दि­ध्या­स­न­स­म्पन्न इत्याह -
शमवेश्मन इति ।
शम एवास्य वेश्मेति शमवेश्मा, शमस्य असावेव वा वेश्मेति शमवेश्मेतीति वा निर्वचनम् ।

नमामीति श्लोकः भाष्यकारस्य परमेश्वरेण विरु­द्ध­वि­शे­षा­भि­धा­यि­त्वेन योज्यः ।
अभो­गि­प­रि­वा­र­स­म्प­द­मिति ।
देवस्येव सम्भोगरताः सर्पा वा अस्य न परि­वा­र­स­म्प­दि­त्यर्थः ।

निरस्तभूतिमिति ।
देवस्येव भसि­त­म­णि­मा­द्यै­श्वर्यं वा अस्य नास्तीत्यर्थः ।

अनु­मा­र्ध­वि­ग्र­ह­मिति ।
देव­स्ये­वा­स्यो­मा­र्ध­वि­ग्र­हत्वं न भवति । अनुमानमस्य विग्रहेऽर्धं भवति श्रुति­श्चा­र्ध­भागे भवतीति चार्थः ।

अनुग्रमिति -
नामतोऽर्थतश्च देववदुग्रो न भवतीत्यर्थः ।

उन्मृ­दि­त­का­ल­ला­ञ्छ­न­मिति -
देववदस्य कण्ठे कालं (लाञ्छनं) कार्ष्ण्यं नास्ति । अनु­क्ति­दु­रु­क्त्या­दि­का­ल­मस्य कण्ठे नास्तीति वार्थः ।

विना विनायकं
देववदसौ विनायकसहितो न भवति । विनाकृताः निराकृताः विनायकाः बौद्धा येनासौ विना विनायक इति वा निर्वाहो द्रष्टव्यः ।

यद्वक्त्रेति श्लोकोऽपि पञ्च­पा­दि­का­का­रस्य भाष्य­का­र­शि­ष्यत्वं प्रशिष्यत्वं वाङ्गीकृत्य, शिष्यत्वपक्षे भाष्य­का­र­न­म­स्का­र­प­र­त्वेन, प्रशि­ष्य­त्व­पक्षे स्वगु­रु­न­म­स्का­र­प­र­त्वेन च योज्यः । भाष्यवित्तकगुरूनिति पदस्य वित्तमेव वित्तकम्, भाष्यमेव वित्तकं येषां ते भाष्यवित्तकाः तेषां भाष्यवित्तकानां गुरुः भाष्यकारो भाष्य­वि­त्त­क­गुरुः तान् भाष्य­वि­त्त­क­गु­रू­निति शिष्यत्वपक्षे निर्वाहः । प्रशि­ष्य­त्व­पक्षे अस्य पदस्य वित्तमेव वित्तकम्, भाष्यमेव वित्तकं येषा­म­स्म­द्गु­रूणां ते अस्माकं भाष्य­वि­त्त­क­गु­रवः, तान् भाष्य­वि­त्त­क­गु­रू­निति निर्वाहः । यच्छब्दोऽपि भाष्यकारपरत्वेन स्वगुरुपरत्वेन च योजयितव्यः । स्वगु­रु­प­र­त्व­पक्षे भाष्यकारेण भाष्य­स्यो­त्प­त्ति­रेव केवलम् , अस्मद्गुरुभ्यो जन्म भवति पुनर्जातमिव प्रवृद्धं भवतीति प्रति­ल­ब्ध­ज­न्मेति शब्दो योजयितव्यः ।
प्रत्याशमिति ।
प्रतिदिक्षु स्थित्वेत्यर्थः । उन्मुखत्वं नाम श्रद्धाकरणम्, विनीतत्वं नाम, शास्त्रे­णा­प्र­ति­षिद्धयत्नवान् अव्याजेन श्रवणं त्ववि­हा­यो­पा­स­ना­दि­पू­र्वकं शुश्रूषां कृत्वैव श्रवणं द्रष्टव्यम् ।

पदादिवृन्तेति श्लोकेन चिकीर्षितं निर्दिशति । तत्र पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् ॥ इति व्याख्या­न­ल­क्ष­ण­माहुः । तत्र भाष्यस्यापि पदच्छेदादि विषयत्वेन पञ्चलक्षणं व्याख्यानं कर्तुं शक्यते । अतो व्याख्येयं भाष्यमिति द्योतनाय भाष्यं विशिनष्टि -
पदादीति ।

पादत्रयेण तत्र पदच्छेदः पदार्थोक्तिः विग्रह इति त्रितयविषयत्वं भाष्यस्य दर्शयति
पदेत्यारभ्य बिभर्तीत्यन्तेन ।
अत्रादिपदेन पदा­र्थ­वृ­न्द­स­मा­स­वृन्दे च भाष्ये विद्येते इति दर्शयति इति ?

वाक्ययोजना विषयत्वमाह -
प्रसन्नमिति ।

आक्षे­प­स­मा­धा­न­वि­ष­य­त्व­म­स्ती­त्याह -
गम्भीरमिति ।

ननु भाष्य­व्या­ख्या­मा­रभ इत्यु­क्त­म­यु­क्तम् ; भाष्यलक्षणस्य सूत्रा­र्थ­प्र­ति­पा­द­क­त्व­स्या­भा­वा­देव भाष्यत्वाभावात् युष्म­द­स्म­दि­त्या­दे­रिति तत्राह -
युष्मदस्मदिति ।

युष्म­द­स्म­दि­त्या­दि­लो­क­व्य­व­हार इत्यन्तं कस्माद् भाष्यं भवे­दि­त्य­पे­क्षा­या­माह -
शास्त्रस्य विषयं प्रयोजनं च प्रतिपादयतीति ।
सूत्र­स­न्द­र्भ­ल­क्ष­ण­शा­स्त्रस्य यद्विषयप्रयोजनं यत् तस्य हेतुः बन्ध­स्या­ध्या­सा­त्म­कत्वं तदभिधानेन विषयप्रयोजने तात्पर्येण प्रति­पा­द­य­ती­त्यर्थः ।

बन्धस्य अध्यासात्मकत्वं हेतु­त्वे­नो­च्य­मा­न­म­सिद्धं कथं सिद्ध्य­हे­तु­वा­चकं शास्त्री­य­वि­ष­य­प्र­यो­ज­न­परं भाष्यं भवे­दि­त्या­श­ङ्क्या­स्या­न­र्थ­हे­तो­रि­त्य­ने­नै­क­वा­क्य­त्वात् मध्य­व­र्ति­ल­क्ष­णा­स­म्भा­व­ना­प्र­मा­ण­भा­ष्य­त्र­येण सिद्धमध्यासं हेतुत्वेनानूद्य विषयादिसाधकं भव­ती­त्य­भि­प्रे­त्याह -
अस्य अनर्थहेतोरिति

पर्यवस्यत्
अनेन एकवाक्यतां गच्छत् इत्यर्थः ।

विषयादिसाधकत्वं भवतु, तथापि भाष्यत्वं न सिद्ध्यति, सूत्रा­र्थ­प्र­ति­पा­द­क­त्वा­भा­वात् , इत्याशङ्कायां तन्निरासाय आह -
`प्रयोजनं च सूत्रेण सूत्रिते’ इति ।
`अथातो ब्रह्मजिज्ञासा’ इति सूत्रेण सूत्रिते इत्यर्थः ।

विषयप्रयोजने सूत्रार्थत्वेन न दृश्येते, जिज्ञा­सा­क­र्त­व्य­ताया एव प्रतीतेरिति - तत्राह -
अर्थात् सूत्रिते इति ।

किमत्र प्रमाणमिति - तत्राह –
प्रथमसूत्रेणेति ।
प्रथ­म­सू­त्र­त्वात् सूत्रे श्रोतृ­प्र­वृ­त्त्य­ङ्ग­त्वेन विषयप्रयोजने सूत्रिते इत्यर्थः ।

इति शब्दो यस्मादर्थे, यस्मात् प्रथमसूत्रेण सूत्रिते तस्मात् प्रतिपादयतीति । अर्थात् सूत्रिते चेद्वि­ष­य­प्र­यो­जने तर्हि भाष्यकारेण साक्षादेव प्रतिपादनीये, नत्व­ध्या­सा­भि­धा­न­मु­खे­ना­र्थात् प्रतिपादनीये इति - तत्राह –
एतच्चेति ।
एत­द्वि­ष­य­प्र­यो­ज­न­द्व­य­मि­त्यर्थः ।

प्रदर्शयिष्याम इति ।
भाष्य­का­रे­णो­क्त­मिति प्रदर्शयिष्याम इत्यर्थः ।

भाष्यकारेणोक्तं चेत् अस्माभिरेव द्रष्टुं शक्यम् , किमिति भवद्भिः प्रदर्श्यत इत्याशङ्क्याह –
स्पष्टमिति ।

तर्हि भाष्यकारस्य अस्प­ष्टो­क्ति­ल­क्ष­ण­दू­ष­ण­मु­द्भा­वितं स्यादि­त्या­शङ्क्य तैरपि स्पष्टं प्रदर्शितं वयं दर्शयिष्याम इत्याह
स्पष्टतरमिति ।

यद्येवमिति ।
सूत्रि­त­वि­ष­य­प्र­यो­ज­न­प्र­ति­पा­द­क­त्वात् युष्म­द­स्म­दि­त्या­दि­भाष्यं भवति चेदित्यर्थः ।

एतावच्छब्देन प्रथ­म­भा­ष्य­स्यो­पा­दानं मा भूदिति दर्शयति -
अस्यानर्थेति ।

विष­य­प्र­यो­ज­न­यो­र­ने­नापि कण्ठो­क्त­ता­भा­वात् अभाष्यत्वेन त्याज्य­त्व­प­रि­हा­रार्थं चतुर्थ्या कण्ठोक्तं प्रयोजनमिति निर्दिशति -
तत्र अनर्थहेतोः प्रहाणायेतिरिति ।

चतुर्थ्या स्वयं प्रतिपन्नत्वात् तन्निर्दिश्यत इत्या (इत्युक्तिः ? ) व्यर्थेति चेत् तदु­त्त­र­वा­क्य­स्थ­च­तु­र्थी­वत् प्रयो­ज­ना­न­भि­धा­यि­त्व­श­ङ्का­नि­रा­सा­यो­क्ते­र­र्थ­व­त्वात् । उत्त­र­च­तु­र्थ्याश्च प्रयोजनवाचित्वं प्रकरणात् प्राप्तं व्यावर्त्य, वेदान्तारम्भम्, प्रत्य­वा­न्त­र­प्र­यो­ज­न­ज्ञा­नस्य निर्देशेऽपि तात्पर्येण विषयपरत्वं दर्शयति -
विष­य­प्र­द­र्श­न­मिति ।

अभिधायकत्वं विहाय तात्पर्येण विष­य­प्र­ति­पा­द­क­मपि भाष्यं चेत् प्रथ­म­भा­ष्य­स्यापि विषयप्रयोजने तात्पर्यवत्वेन भाष्य­त्व­म­स्ती­त्या­शङ्क्य शक्ति­ता­त्प­र्य­यो­र­न्य­त­रे­णापि तद्वि­ष­य­प्र­यो­ज­न­स्पर्शि न भवतीत्याह –
किमनेनेत्यादिना ।

देहे अह­मि­त्य­भि­मा­न­रू­प­मि­न्द्रि­या­दिषु ममाभिमानरूपं चाध्या­स­म­भि­धे­या­र्थ­त्वेन दर्शयति
देहे­न्द्रि­या­दि­ष्वि­त्या­दि­लो­क­व्य­व­हा­र­स्ये­त्य­न्तेन,

देहोऽ­ह­मि­त्य­भि­मा­ना­भा­वात् जात्या­दि­वि­शि­ष्ट­देहे अहमभिमान इति दर्शयति -
अहं मनुष्य इति ।

अध्यासमाक्षिप्य लोकव्यवहारः समाधीयत इत्यसङ्गतत्वेन निर­र्थ­क­त्वा­द­र्थ­व­त्व­सि­द्ध­व­त्का­रेण विषयादिभ्यो नार्था­न्त­र­प­रत्वं प्रद­र्श­नी­य­मि­त्या­श­ङ्क्या­ध्या­स­लो­क­व्य­व­हा­रयोः सामा­ना­धि­क­र­ण्ये­नैक्यं दर्शयति -
इत्यभिमानस्येति ।

तात्पर्यविषयमाह –
अवि­द्या­नि­र्मि­त­त्वेति ।
अध्यासो वादि­भि­र­ङ्गी­कृ­ता­वि­वे­का­दि­रूपो न भवति, किन्त्व­नि­र्व­च­नी­या­वि­द्या­नि­र्मित इत्यस्मिन्नर्थे तात्प­र्य­मि­त्यर्थः ।

विष­य­प्र­यो­ज­न­यो­र­नि­र्दि­ष्ट­त्वेन स्वनि­र्दे­श­क­ग्र­न्थेन केन­चि­द्भ­वि­त­व्य­मि­त्य­पेक्षा उत निर्दि­ष्ट­त्वा­न्नि­र्दे­श­का­पे­क्षा­भा­वा­त्तयोः प्रस­क्त्य­सि­द्ध­श­ङ्कायां साधकापेक्षा, यदि निर्देशकापेक्षा तदा अस्या­न­र्थ­हे­तो­रि­त्ये­ता­व­तै­वा­लम् , तस्य निर्देशकत्वात् । न तु निर्देशकापेक्षा । वेदा­न्त­वा­क्य­वि­चारः कर्तव्यः विष­य­प्र­यो­ज­न­व­त्वात् कृष्यादिवत् इति सूचयता सूत्रकारेण शास्त्रारम्भे हेतुतया विषयप्रयोजनयोः निर्दिष्टत्वात् । किन्तु विचा­र­रू­प­शा­स्त्रस्य विष­य­प्र­यो­ज­न­वत्वं यत्सू­त्र­का­रे­णोक्तं तद­सि­द्ध­मि­त्य­सि­द्धि­श­ङ्कायां साधकापेक्षैव विद्यते । अतः साध­का­पे­क्ष­वि­ष­य­प्र­यो­ज­न­सि­द्धि­हे­तु­भू­ता­ध्या­सा­भि­धा­यि­त्वात् युष्म­द­स्म­दि­त्यादेः सुतरां भाष्य­त्व­म­स्ती­त्य­भि­प्रे­त्याह -
उच्यत इति ।

विष­य­प्र­यो­ज­न­यो­स्सू­त्रे­णा­नि­र्दि­ष्ट­त्वात् भाष्येण साध्यतया प्राप्तत्वं तयो­ते­र्न­भ­व­ती­त्या­शङ्क्य ब्रह्म­ज्ञा­न­म­नर्थं तद्धे­तु­नि­वृ­त्ति­प्र­यो­जनं सूत्रितं हीत्याह -
अन­र्थ­हे­तु­नि­ब­र्हणं हीति ।

कथं विशेषितस्य सूत्रि­त­त्व­मि­त्या­श­ङ्क्याह -
ब्रह्मज्ञानं हीति ।

किमिति भाष्यकारेण बन्धस्य मिथ्यात्वोपायेन विषयप्रयोजने साध्ये इत्या­श­ङ्क्या­न­र्थ­त­द्धेत्वोः ज्ञान­नि­व­र्त्य­त्वस्य सूत्रकारेण सूत्रितत्वात् । ज्ञान­नि­व­र्त्य­त्वाय मिथ्यात्वं प्रसाध्य तेन हेतुना विषयप्रयोजने साधनीये इत्याह -
ज्ञानं हीति ।

तर्हि नर­क­पा­ता­द्य­न­र्थस्य मिथ्यात्वं प्रसाध्यतामिति तत्राह –
अनर्थश्चेति ।
अत्र भोक्तृ­त्व­म­नर्थः, तद्धेतुत्वात् कर्तृ­त्व­प्र­मा­तृ­त्व­यो­र­प्य­न­र्थ­तेति योजना । त्रया­णा­म­न­र्थ­त्वा­भा­वात् । नर­क­पा­त­कू­प­पा­ता­दी­ना­मे­वा­न­र्थत्वे एक­प्र­यो­ज­क­स्या­व­क्त­व्य­त्वात् । भोक्तृत्वादीनां तद्धे­तु­को­श­प­ञ्च­क­स्यैव अध्यासात्मकत्वं वर्ण­नी­य­मि­त्य­भि­प्रायो द्रष्टव्यः ।

वस्तुरूपमेव प्रमा­तृ­त्वा­दि­ज्ञा­नेन निवर्ततामिति तत्राह -
तद्यदि वस्तुकृतमिति ।
अत्र वस्तुना कृतं वस्तुत्वेन कृतमिति च योजना ।

अज्ञानस्यैव निवर्तकं चेद­ह­ङ्का­रा­दे­र­नि­व­र्तकं ज्ञान­मि­त्या­प­त­तीति तत्राह -
तद्यदि कर्तृत्वमिति ।
अज्ञा­न­का­र्य­त्वे­ना­ज्ञा­ना­त्म­क­त्वा­न्नि­व­र्त्य­त्व­म­स्ती­त्यर्थः ।

तत्प्र­द­र्श­न­द्वा­रे­णेति ।
अविद्यात्मकत्व प्रदर्शनद्वारेण सूत्रा­र्थो­प­प­त्त्यु­प­यो­गि­त­याऽ­ध्यासो वर्णनीय इत्य­ध्या­हृ­त्या­न्वयः । तत्र अर्थशब्देन विचा­र­क­र्त­व्य­तो­च्यते, उपपद्यते विचारकर्तव्यता याभ्यामिति व्युत्पत्त्या विषयप्रयोजने उच्येते । उपयोगितयेति विष­य­प्र­यो­ज­न­सि­द्धि­हे­तु­त­ये­त्यर्थः ।

सूत्रेण मुखतः सूत्रितमर्थं विहाय आर्थिकमध्यासं भाष्यकारः प्रथमं किमिति वर्णयतीति तत्राह -
सक­ल­त­न्त्रो­पो­द्घातः प्रयोजनमस्य भाष्यस्येति ।
अत्रानेन भाष्येण निर्णीतो योऽध्यासः स सक­ल­त­न्त्रा­र्थ­स्यो­पो­द्घातो हेतुरित्येका योजना, इदं भाष्यं सकलतन्त्रस्य शास्त्र­स्यो­पो­द्घात इत्यपरा ।

प्रयोजनमिति
भाष्य­ज­न्य­प्र­मि­ति­फ­ल­वि­शि­ष्ट­तया भाष्यस्य प्रयोजनमध्यास इत्यध्यास उच्यते । तन्त्रशब्देन लक्षणया तन्त्रा­र्थ­रू­प­ब्र­ह्मा­त्मै­क­त्व­मु­च्यते, तन्त्र्यत इति तन्त्रमिति योगवृत्त्या वा तदेवोच्यत इति

अन­र्थ­नि­वृ­त्ति­रू­प­प्र­यो­ज­नस्य जन्यत्वात् अध्यासस्य तद्धेतुत्वेऽपि ब्रह्मा­त्म­ता­वि­ष­य­रूपं प्रति हेतुत्वमयुक्तम् । तस्या­ज­न्य­त्वा­दि­त्या­शङ्क्य सत्ता­सि­द्धि­हे­तु­त्वा­भा­वेऽपि प्रती­ति­सि­द्धि­हे­तु­त्व­म­स्तीति वदितुं तन्त्रा­र्थ­ता­त्प­र्य­वि­षयं दर्शयति -
तथा चास्य शास्त्रस्येति ।
ऐदम्पर्यं प्रति­पा­दि­त­मि­त्यु­त्त­रेण सम्बन्धः ।

ऐद­म्प­र्य­मि­त्य­त्रे­दं­श­ब्दो­क्त­वि­षयं प्रथ­म­श्लो­को­क्त­प्र­का­रेण दर्शयति -
सुखै­क­ता­ने­त्या­दिना स्वरू­प­मि­त्य­न्तेन ।

तत्र अनाद्यानन्देति पदोक्तार्थमाह –
सुखैकतानेति ।

कूटस्थज्ञानेति पदोक्तमर्थमाह –
कूटस्थचैतन्येति ।

अनन्तसदिति पदोक्तार्थमाह –
सदात्मेति ।
आप्नो­ती­त्या­त्मेति निर्व­च­ना­दा­त्म­श­ब्देन अन­न्त­स­त्य­त्वा­न­न्त­प­दो­क्तार्थः उच्यत इति द्रष्टव्यम् ।

अनन्तसदात्मन इत्यत्र आत्मशब्दार्थमाह –
एकरसतेति ।

संसारिण आत्मनो रूपमित्युक्ते विरु­द्ध­स्व­भा­व­त्वाद् ब्रह्म­णोऽ­सं­सा­रिणो रूपमिति स्यात् , तद्व्या­वृ­त्त्य­र्थ­माह –
संसा­रि­त्वे­ना­भि­म­त­स्येति

तर्हि संसारित्वेन अभि­म­त­स्या­भि­म­न्य­मा­न­सं­सा­रि­त्व­मेव रूपं भवे­दि­त्या­शङ्क्य, सत्यम् , कूट­स्थ­चै­त­न्यै­क­र­सतातु पारमार्थिकी इत्याह –
पारमार्थिकमिति ।

ऐद­म्प­र्य­मि­त्यत्र परशब्दार्थमाह -
वेदान्ताः पर्यवस्यन्तीति ।

प्रतिपादितं -
सूत्र­भा­ष्याभ्यां प्रति­पा­दि­त­मि­त्यर्थः ।

सत्यत्वेन प्रति­प­न्न­क­र्तृ­त्वा­दि........त्पत्तिं प्रतिबध्नाति स एव अध्या­सा­त्म­क­त्वेन निर्णीतो न प्रति­ब­ध्ना­ती­त्ये­व­म­ध्या­सस्य विष­य­प्र­ती­ति­सि­द्धि­हे­तु­त्वात् अध्यासः प्रथमं वर्णनीय इति दर्शयति -
तच्चेत्यादिना ।

तत्र सुखै­क­ता­ने­त्या­दि­त्र­येण विरु­द्धा­का­र­त्र­य­प्र­ति­भा­स­न­मा­त्म­न्य­स्तीति दर्शयति -
अहं कर्तेत्यादिना ।

तत्रापि ब्रह्म­ग­ता­न­न्त­स­त्वा­का­र­वि­रुद्धं परि­च्छि­न्न­त्व­माह –
अहमिति ।

कूट­स्थ­चि­त्व­वि­रु­द्धा­का­र­माह –
कर्तेति ।
कर्तृत्वादेवकर्तृत्वे प्रयोजकं परिणामिजडत्वं कार्यत्वं कल्प्य­म­स्ती­त्यर्थः ।

सुखत्वविपरीतमाह –
सुखीति ।

एक­ता­न­त्व­वि­प­री­त­का­दा­चि­त्कत्वं सुखस्य सूचयति -
दुःखीति ।

दुःखो­त्प­त्ति­व्य­व­धा­नोऽ­ह­ङ्कर्ता सुखी दुःखी­त्या­दि­भा­सेन विरुद्ध्यत इत्युक्ते श्रुति­ज­न्य­ज्ञा­नेन बाध्यत्वात् । तत्प्रति विरोधकत्वाभाव इत्याशङ्क्याह –
प्रत्यक्षेति ।

तर्हि प्रत्यक्षत्वात् श्रौतज्ञानं प्रति विरोधकत्वंविहाय बाधकत्वमेव प्राप्त­मि­त्या­श­ङ्क्याह –
अभिमतेनेति ।

प्रत्य­क्षा­भि­म­तस्य रूप्यज्ञानस्येव बाध्यत्वात् अवि­रो­ध­क­त्व­मि­त्या­श­ङ्क्याह –
अबाधितेति ।

तर्हि बाधकत्वमिति नेत्याह –
कल्पेनेति ।

व्यव­हा­रा­व­स्था­या­म­बा­धि­त­त्वात् । प्रत्य­क्ष­त्वाच्च अबाधितमेवापतति इति शङ्कां व्युदस्यति -
अवभासेनेति ।
अवमतः भासोऽवभासः, वर्ण­ह्र­स्वा­दि­वत्औपा­धि­क­क­र्तृ­त्व­वि­षयः किं वा स्वाभा­वि­क­क­र्तृ­त्व­वि­षय इति सन्दिह्यमानत्वं तस्यावमतत्वं नाम । अहं कर्ते­त्या­दि­प्र­त्य­क्ष­मौ­पा­धि­क­त्वेन सन्दि­ग्धा­र्थ­वि­ष­य­तया सत्या­र्थ­वि­ष­य­त्वेन प्रतिपन्नतया च तत्त्व­ज्ञा­नो­द­य­प्र­ति­ब­न्धकं भवति । तदेव न्यायतो मिथ्यात्वेन निर्णी­त­क­र्तृ­त्वा­दि­वि­षयं तत्त्वज्ञानेन बाध्यं स्यात् । अतोऽ­प्र­ति­ब­न्ध­क­तया बाध्यत्वाय मिथ्या­त्व­नि­र्णा­य­क­न्या­यै­र­ध्यासो वर्णनीय इत्यभिप्रायः । अत­स्त­द्वि­रो­ध­प­रि­हा­रार्थं ब्रह्म­स्व­रू­प­वि­प­री­त­रू­प­म­वि­द्या­नि­र्मि­त­मिति प्रदर्श्यत इति प्रथममन्वयः । पश्चाद्यावन्न प्रदर्श्यत इति चान्वयो द्रष्टव्यः । जरद्गवः पादु­क­क­म्ब­लाभ्यां द्वारि स्थितो गायति मद्रकाणि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्घः ॥ इति वाक्य­मि­हो­दा­हृ­त­मिति द्रष्टव्यम् ।

शास्त्रा­र्थ­सि­द्धि­हे­तु­श्चेत् अध्यासः सूत्रकारेण मुखतो वर्णनीय इति तत्राह -
वक्ष्यति चैतदिति ।
अत्र वक्ष्यति चैतत्सूत्रकार इति प्रथममन्वयः ।

सूत्रकारेण अध्या­सा­त्म­क­त्व­स्या­त्रैव किमि­त्य­नु­क्ति­रि­त्या­शङ्क्य समन्वयाध्यायेन वेदान्तानां ब्रह्मात्मैक्ये समन्वये प्रतिपादिते पश्चादात्मनो ब्रह्म­त्व­प्र­ति­पा­दक श्रुती­ना­मा­त्म­ग­ता­दि­क­र्तृ­त्वा­दि­सा­ध­क­प्र­मा­ण­वि­रोध उद्भाविते कर्तृ­त्वा­दी­ना­म­ध्या­सा­त्म­क­त्वे­ना­भा­स­त्वात् तद्वि­ष­य­प्र­ति­भा­सस्य प्रमाणत्वं नास्ति, किन्तु प्रमा­णा­भा­स­त्व­मेव, अतस्तद्विरोधो नास्ती­त्य­वि­रो­धो­क्त्यु­प­यो­गा­द­ध्या­सोऽ­वि­रो­धा­ध्याये वक्तव्य इति मत्वा आह -
अविरोधलक्षण इति ।

तत्रापि जीवगतधर्माणां मिथ्या­त्व­व­र्ण­नेन जीव­स्व­रू­प­प्र­ति­पा­द­क­जी­व­पादे अध्यासवर्णनस्य सङ्गतिरित्याह -
जीव­प्र­क्रि­या­या­मिति ।

बन्ध­स्या­ध्या­सा­त्म­कत्वं विष­य­प्र­यो­ज­न­सि­द्धि­हे­तु­रिति सूत्र­का­रोऽ­प्य­ङ्गी­कृत्य तमध्यासं स्वयमेव वर्णयिष्यति चेदित्याह –
यद्येवमिति ।

एतदेवेति ।
अध्या­स­वि­ष­य­त­द्गु­ण­सा­र­त्वा­दि­त्या­दि­सू­त्र­मि­त्यर्थः ।

अर्थ­वि­शे­षो­प­प­त्ते­रिति ।
अर्थविशेषे तस्मिन् प्रमाणे च प्रतिज्ञाते सत्य­वि­रो­धा­या­ध्या­स­व­र्ण­न­स्यो­प­प­त्ते­रि­त्यर्थः ।

अत्र अर्थविशेषस्य प्रयो­ज­न­वि­शे­ष­स्यो­प­प­त्ते­रि­त्य­र्था­न्त­र­प्र­तीतिं व्यावर्त्य विवक्षितमर्थं दर्शयति -
अर्थविशेषे हि समन्वय इति ।
अस्य अयमर्थः । प्रथमसूत्रेण ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थविशेषे ब्रह्मणि विचार्यत्वेन प्रतिज्ञाने ब्रह्म किं लक्ष­ण­क­मि­त्या­का­ङ्क्षायां ‘जन्माद्यस्य यत’ इति सूत्रेण ब्रह्मलक्षणे प्रतिपादिते एवंरूपे ब्रह्मणि किं प्रमा­ण­मि­त्या­का­ङ्क्षायां ‘तत्तु समन्वयात्’ इत्या­दि­सू­त्रै­र्वे­दा­न्त­वा­क्येषु प्रमा­ण­त्वे­नो­प­न्य­स्तेषु पश्चा­द्वे­दा­न्तानां प्रत्य­क्षा­दि­वि­रो­धा­श­ङ्कायां तन्निरासाय सूत्रकारेण विरोधलक्षणे अध्याससूत्रं प्रणेतव्यमिति ।

भाष्यकारवत् अर्थ­वि­शे­ष­प्र­तिज्ञां तत्र प्रमाणोपन्यासं च विना विरो­ध­श­ङ्का­नि­रा­सार्थं सूत्र­का­रे­णा­प्य­ध्या­स­सा­ध­न­म­स्त्वि­त्या­शङ्क्य भाष्यकारस्य सूत्र­का­रोऽ­र्थ­वि­शेषं प्रतिज्ञाय तत्र प्रमाणमवादीत् । तत­स्त­त्र­वि­रो­ध­श­ङ्का­प­रि­हा­राय भाष्यकारस्य अध्याससाधनं सम्भवति । तद्वत् सूत्र­का­र­स्या­न्येन केनचिदर्थविशेषे प्रमा­ण­वि­शे­षो­प­न्या­सा­भा­वात् अर्थविशेषं स्वयमेव प्रतिज्ञाय तस्मिन् प्रमाणमुपन्यस्य पश्चात् प्रमा­णा­न्त­र­वि­रोधः परिहर्तव्य इत्याह -
प्रदर्शित इति ।

प्रथ­म­सू­त्र­व्या­ख्या­न­काले भाष्य­का­र­स्या­ध्या­सो­प­पा­दनं निर्मूलं स्यात् । प्रथ­म­सू­त्रे­णा­ध्या­स­स्या­नु­पा­त्त­त्वात् उत्त­र­व्या­ख्या­न­मि­द­मिति चायुक्तम् । तस्य पश्चा­द्भा­वि­त्व­मि­त्या­श­ङ्क्याह -
भाष्यकारस्तु तत्सिद्धमिति ।
उत्त­र­सू­त्र­सि­द्ध­मि­त्यर्थः ।

सूत्र­सि­द्ध­त्वात् तद्वर्णनं समूलं भवतु, अत्र वर्ण­न­म­मू­ल­मि­त्या­शङ्क्य प्रथमसूत्रेणापि सूचितमित्याह -
आदिसूत्रेण सूचितमिति ।

आदि­सू­त्र­स्या­र्थ­त्वे­ना­ध्यासो न दृश्यत इत्याशङ्क्याह -
सामर्थ्य इति ।

सामर्थ्येनापि सूचिते विषयप्रयोजने नाध्यास इत्याशङ्क्याह –
बलेनेति ।

सूत्र­का­रे­णा­ध्या­सस्य सूत्रितत्ववत् तद्व्याख्यात्रा भाष्यकारेणापि सूत्रितत्वमेव भविष्यति किमनेन वर्णनेन इत्याशङ्क्य, भाष्य­का­र­त्वा­च्छ्रो­तृ­प्र­वृ­त्त्यर्थं वर्ण­नी­य­मे­वे­त्याह -
भाष्यकारस्तु वर्णयतीति

भाष्य­म­ना­प्त­प्र­णी­त­तया व्याख्येयं न भवतीति प्रसज्यत इत्यभिप्रेत्य चोदयति -
ननु च ग्रन्थ­क­र­णा­दि­का­र्या­रम्भे इति ।

कृतमङ्गलाः शिष्टाः प्रवर्तन्त इति ग्रन्थाद्बहिरेव भेरी­घो­षा­दि­स­हि­त­दे­व­ब्रा­ह्म­ण­पू­जा­दि­ल­क्षणं मङ्गलाचरणं कृत­मे­वे­त्या­शङ्क्य चिकी­र्षि­त­वा­चि­क­का­र्यस्य अनु­कू­ल­म­ङ्ग­ला­च­रणं कर्तव्यमित्याह –
कार्यानुरूपमिति ।
कार्य­व्य­क्ती­ना­मा­न­न्त्या­दिदं प्रतीदं मङ्गलाचरणमिदं प्रतीदमिति ज्ञातु­म­श­क्य­त्वात् कार्या­नु­रू­प­म­ङ्ग­ला­च­रणं केनापि कर्तुं न शक्यत इत्याशङ्क्य कार्यव्यक्तीनां कायिकं वाचिकं मानसमिति च त्रिराशीकर्तुं शक्यत्वात् ।

कायि­क­का­र्या­रम्भे कायिकं नम­स्का­रा­दि­ल­क्षणं मङ्गलाचरणं वाचि­क­का­र्या­रम्भे वाचिकम् अथ­वृ­द्ध्या­दि­श­ब्द­प्र­यो­ग­ल­क्ष­णम्, मानसकार्यारम्भे मानसं दध्या­दि­द­र्श­न­रूपं मङ्गलाचरणमिति ज्ञातुं शक्यत्वादत्र चिकी­र्षि­त­का­र्यस्य वाचिकत्वात् वाचिकं मङ्गलाचरणं कर्त­व्य­मे­वे­त्याह –
इष्ट­दे­व­ते­त्या­दिना ।

अथ­वृ­द्ध्या­दि­श­ब्देषु नियमं वारयति -
बुद्धि­स­न्नि­धा­पि­तेति ।

शिष्टाचारश्च नः प्रमाणमिति ।
अस्यायमर्थः - आचारो धर्म इति बुद्ध्या अनुष्ठीयमानं कर्म नः प्रमाणम्, प्रमीयत इति प्रमाणम्, तच्च प्रमीयमाणं कर्तव्यमित्येव प्रमीयते । अत­श्शि­ष्टा­चा­रोऽ­स्माभिः कर्तव्यतया प्रमीयत इति ।

प्रयोजनाभावात् किं मङ्गलाचरणेनेति, नेत्याह -
प्रसिद्धं चेति ।

अल्पा­र­म्भ­त्वा­द्विघ्नो नास्तीति, नेत्याह -
महति चेति ।
आर­म्भ­स्या­ल्प­त्वेऽपि फलतो महत्वात् पद्यबन्धनस्येव विघ्नबाहुल्यं सम्भवतीति भावः ।

सम्भा­व­ना­मा­त्रान्न प्रवृ­त्ति­र्वि­घ्नो­प­शा­न्तय इति तत्राह -
प्रसिद्धं चेति ।

वट­य­क्ष­प्र­सि­द्धि­वत् प्रसि­द्धि­र्नि­र्मू­लेति, तत्राह -
विज्ञायते चेति ।

तत्कथमिति ।
अत्र शिष्टा­ना­म­ग्र­णी­र्भा­ष्य­कारः कथं शिष्टा­चा­र­मु­ल्लङ्घ्य प्रववृते । अकृतमङ्गलो विघ्नै­रु­प­ह­न्य­मानो विस्रब्धं कथं प्रववृत इति योजना ।

भाष्यकारेण मङ्गलाचरणमात्रं कर्त­व्य­मि­त्यु­च्यत उत वाचिककार्यस्य वाचिकमङ्गलाचरणं कर्त­व्य­मि­त्यु­च्यत इति विकल्प्य विशु­द्ध­ब्र­ह्म­त­त्त्वा­नु­स्म­रणं नाम साधारणं मङ्गलाचरणं ग्रन्थ­क­र­ण­का­र्या­नु­कू­ल­वा­चिकं मङ्गलाचरणं चोभयमपि कृतमित्याह -
अत्रोच्यत इति ।

कथमिह उभयं कृतमिति तत्राह - युष्म­दि­त्य­न्त­मेव भाष्यं वाचिकमङ्गलाचरणं साधा­र­ण­म­ङ्ग­ला­च­रणे प्रमाणं चेत्य­ध्या­हृ­त्य­यो­जना -
युष्मदिति ।
विषय इति च अह­ङ्का­रा­दि­मा­त्मनो निष्कृष्य अनुसन्धाय अस्मदिति विषयीति च अन­व­च्छि­न्न­सा­क्षि­स्व­भा­व­त्वेन प्रत्यगात्मानं युष्मदो विभज्य अनुसन्धाय उभयस्मिन् युष्म­द­स्म­द्वि­ष­य­वि­ष­यि­णो­रिति शब्दं विरचयता कृतमेवोभयमपि मङ्ग­ला­च­र­ण­मि­त्यर्थः । तर्हि युष्म­दि­त्या­दि­वि­ष­य­वि­ष­यि­णो­रि­त्य­न्त­स्यैव तत्त्ववाचकतया वाचि­क­म­ङ्ग­ला­च­र­ण­त्वात् वक्तु­स्त­त्वा­नु­स्मृ­ति­क­ल्पकं तव असा­धा­र­ण­म­ङ्ग­ला­च­रणे प्रमा­ण­त्वा­च्चो­त्त­र­भा­ष्य­ख­ण्डस्य उपादानमयुक्तम् । तन्न, युष्मदेवास्मत् , अस्मदेव युष्मदित्यैक्यं किमनुसन्धत्ते, किं वा प्रत्यगात्मानं युष्मदो विविनक्तीति संशये पूर्व­मै­क्या­नु­स­न्धाने उत्त­र­त्रे­त­रे­त­र­भा­वो­प­प­त्ति­रिति वक्तव्यम् , इत­रे­त­र­भा­वा­नु­प­प­त्ते­रु­क्त­त्वात् , पूर्वमपि विवेक एव कृत इति निर्ण­या­र्थ­मु­त्त­र­ख­ण्डस्य उपा­दा­न­मि­त्य­वि­रो­धात् ।

युष्म­दि­त्या­दि­भा­ष्य­स्या­ध्या­सा­भा­व­वि­ष­य­त्वात् , अध्या­सा­भा­वा­नु­स्मृ­ति­पू­र्व­कत्वं स्वस्य कल्पयति केवलम्, न तु भाष्यकारस्य तत्त्वा­नु­स्मृ­ति­स­द्भावे प्रमा­ण­मि­त्या­शङ्क्य युष्म­दि­त्या­दि­प­द­द्व­यस्य तत्त्वमर्थ इति प्रदर्शयति -
अस्य चेत्यादिना ।
अस्य भाष्यस्य अध्या­सा­भा­व­व्य­ति­रे­के­णायं चार्थ इत्यन्वयः । ननु भाष्यटीकयोः व्याख्या­न­व्या­ख्ये­य­भाव एव नोपपद्यते, कथं टीकाकारः षट्‍पदानि व्याख्ये­य­त्वे­नो­पा­दाय सर्वो­प­प्ल­व­र­हि­त­इ­त्या­दि­प­द­त्र­येण व्याख्यां चकार ? तत्रानेन पदत्रयेण व्याख्येयत्वे नोपा­त्त­ष­ट्‍प­दस्य तात्पर्यार्थं कथयति, किं वा प्रति­प­द­म­भि­धे­या­र्थम् ? यदि तात्प­र्या­र्थ­क­थनं तदा परत्र युष्म­द­स्म­दि­त्या­रभ्य अभिधेयार्थो वक्तव्यः, न तु विरु­द्ध­स्व­भा­व­यो­रि­त्या­रभ्य । अथ व्याख्ये­य­प­दा­ना­म­भि­धे­यार्थं कथयति तदपि न, व्याख्यानस्य पदत्रयत्वात् तेन व्याख्ये­य­स­र्व­प­दा­ना­म­र्थ­क­थ­ना­यो­गात् । पदत्रये व्याख्ये­य­ष­ट्‍प­दानां मध्ये पदत्रयं व्याख्यातम् । पश्चादितरपदानि व्याख्यास्यन्त इति वक्तुं न शक्यते । परत्र विषयविषयिणोरिति द्वितीयपदमारभ्य व्याख्ये­य­त्वे­नो­पा­दा­नात् ।

ननु विवरणकारः पदद्वयं व्याख्या­त­मि­त्य­वा­दी­दतः पदद्वयं व्याख्यातम् , सर्वोपप्लव - इत्यादिना, पश्चादुत्तरं व्याख्यास्यत इति स्वीक्रियतामिति चेन्न, तस्या­प्य­स­ङ्ग­त­त्वात् । कथम्, विवरणकारः ‘सुप्तिङन्तं पदम्’ इति पद­ल­क्ष­ण­म­ङ्गी­कृत्य पदद्वयं व्याख्या­त­मि­त्य­वा­दीत् , अथवा पद्यते अनेनेति पदमिति व्युत्पत्त्या बोधकमात्रस्य पद­त्व­म­ङ्गी­कृत्य, उभ­य­था­प्य­स­ङ्ग­ति­रेव, कथम् ? प्रथमपक्षे विषयविषयिणोरिति पदस्य व्याख्ये­य­त्वे­नो­पा­दानं न सङ्गच्छते, द्वितीयपक्षे केवलं युष्मदस्मदिति पदद्वयं मुक्त्वा प्रत्य­य­गो­च­र­यो­रि­त्ये­त­दा­रभ्य व्याख्यायेत, न तथा क्रियत इति निश्चि­त­म­स­ङ्ग­त­मिति चेत् - तन्न, ‘सुप्तिङन्तं पदम्’ इति पदलक्षणेन लक्षितं पदद्वयं व्याख्यातमिति विव­र­ण­का­र­स्यो­क्ति­रिति निश्चयात् । कथं तर्हि टीकाकारेण विषयविषयिणोरिति द्वितीयपदस्य व्याख्येयत्वेन उत्त­र­त्रो­पा­दा­नम् ? नैष दोषः, तमः­प्र­का­श­व­द्वि­रु­द्ध­स्व­भा­व­यो­रि­त्यत्र विरोधशब्दार्थः सहा­न­व­स्था­न­ल­क्षणः किं वा ऐक्या­यो­ग्य­ता­ल­क्षण इति विशये चिज्जडयोः विष­यि­वि­ष­य­त्वा­दे­क­काले अवस्थानात् , सहा­न­व­स्था­न­ल­क्षणो विरोधो नास्ति । किन्त्वै­क्या­यो­ग्य­ता­ल­क्षणो विरोध इति निर्णयार्थं विषयविषयिणोरिति पदस्योपादानम् ; न तु व्याख्ये­य­त्वे­ने­त्य­वि­रो­धात् । तर्हि व्याख्ये­य­त्वा­भावे व्याख्ये­य­प­दा­र्थ­नि­र्णा­य­क­त्वा­भा­वेनव्याख्ये­य­तृ­ती­य­प­देन सह चतु­र्थ­मि­त­रे­त­र­भा­वा­नु­प­प­त्ति­रिति पदं किमिति परत्र उपादत्त इति चेत् विरो­ध­श­ब्दे­नै­क्या­भाव उच्यते, किं वैक्ययोग्यताभाव उच्यत इति सन्देहे ऐक्याभावस्य चतुर्थपदेन उच्यमानत्वात् , पारिशेष्यात् ऐक्ययोग्यताभाव एव विरो­ध­श­ब्दे­नो­च्यत इति निर्णयार्थं चतुर्थपदोपादानं कृतम् । अतो व्याख्यानत्वं व्याख्येयत्वं च सम्भवतीति पदद्वयं प्रति त्रयाणां पदानां व्याख्यानत्वेन कथमनुप्रवेश इति चेत् सर्वोपप्लवरहितः प्रत्यगर्थः इति पदद्वयम् । प्रथमपदस्य व्याख्यानम् -
विज्ञानघन इति ।

द्वितीयपदस्य व्याख्या­न­प्र­कारो द्विविधः, व्याख्येयपदेन फलि­ता­र्थ­प्र­द­र्श­न­म­प्र­सि­द्धा­र्थ­व्या­ख्ये­यस्य प्रसि­द्धा­र्थ­प­र्या­य­श­ब्दे­ना­र्थ­क­थनं च । तत्र युष्मदित्यंशेन फलितमर्थमाह -
सर्वोपप्लवरहित इति ।
युष्म­दि­त्य­ह­ङ्का­रा­ख्य­ध­र्मिणो विवेकात् कर्तृ­त्वा­दि­त­द्ध­र्मेभ्यो विवेकाच्च आत्मा सर्वोपप्लवरहितः संवृत्त इत्यर्थः ।

अस्मत्प्रत्यय इत्यंशं व्याकरोति -
प्रत्यगर्थ इति ।

तत्राप्यस्मदिति पदस्य पर्यायपदेन अर्थमाह –
प्रत्यगिति ।

प्रत्ययशब्देन प्रतीतित्वात् प्रत्यय इति व्युत्पत्त्या व्याप्त­चि­द्रू­प­त्वेन फलितं सत्यत्वमाह -
अर्थ इति ।

विषयविषयिणोरिति द्वितीयपदं व्याचष्टे -
विज्ञानघन इति ।

विषयिशब्देन घटादिविषयेभ्यो व्यावृत्तम् आश्र­य­भू­त­ज­डे­ना­वि­रुद्धं विज्ञानमुच्यत इति शङ्कां व्यावर्तयति -
घन इति ।
आश्र­य­ज­ड­ही­न­मि­त्यर्थः । द्वितीयपदस्य युष्म­द­स्म­द्व्या­ख्या­न­यो­र्मध्ये व्याख्यानं किमिति चेत् अस्म­त्प्र­त्य­य­गो­चर इत्य­स्या­र्थ­भू­त­प्र­त्य­ग­र्थत्वं प्रति विषयविषयिणोरिति पदो­क्त­वि­ज्ञा­न­घ­नत्वं हेतुरिति प्रकटनायेति न विरोधः । विज्ञानघनत्वात् प्रत्यक्त्वम् अर्थत्वं सत्यत्वं चेत्यर्थः । विषयविषयिणोरिति शब्दार्थस्य विज्ञानघनत्वस्य साक्षि­रू­प­त्वा­द्यु­ष्म­च्छ­ब्दा­र्थ­भू­त­सा­क्ष्यस्य अस्म­त्प्र­त्य­य­श­ब्दा­र्थ­भू­त­प्र­त्य­क्सा­क्षिणो व्यावृ­त्ति­र­स्तीति दर्शयितुं वा मध्ये व्याचष्टे ।

भाष्य­का­रे­णा­ध्या­सा­भाव एवानुस्मर्यते । नात्म­त­त्त्व­म­ध्या­स­भा­व­वि­ष­य­त्वा­द्भा­ष्य­स्येति न । अध्यासाभावकथनाय तत्व­म­प्य­नु­स्म­र्यत इत्याह –
तत्कथंञ्चनेति ।
परमार्थत एवंभूते वस्तुनि रूपा­न्त­र­व­द­व­भा­सश्च रूपान्तरं च कथं न मिथ्येति कथ­यि­तु­मि­त्ये­कोऽ­न्वयः ।

एवंभूते वस्तुनि कथञ्चन अतीतवद्वर्तमानो रूपा­न्त­र­व­द­व­भासः, अथ अतो मिथ्यैवेति कथयितुमिति वा । एवंभूते वस्तुनि रूपा­न्त­र­व­त्त­द­व­भासः कथञ्चन कथमपि केनापि प्रकारेण स्वरूपेण संसृष्टरूपेण च मिथ्येति कथयितुमिति वा -
तदन्यपरादिति ।
तस्मा­दा­त्म­त­त्त्वा­द­न्या­ध्या­सा­भा­व­प­रा­दि­त्यर्थः ।

करि­ष्य­मा­ण­भा­ष्य­वा­क्या­द­र्थ­प्र­ति­प­त्त्य­यो­गात् साध्यतया प्रतिपन्नवाक्यं स्वनि­ष्प­त्त्यर्थं वक्तुः स्वार्थ­प्र­ति­प­त्ति­हे­तु­रि­त्य­भि­प्रे­त्याह –
भाष्यवाक्यादिति ।

अग्रणीरिति ।
अग्रं नय­ती­त्य­ग्र­णी­स्त­स्मा­त्त­त्कृतं भाष्यं व्याख्ये­य­मि­त्यर्थः ।

अप्र­सि­द्धा­र्थ­म­ने­का­र्था­भि­धायि वा पदं व्याख्येयं भवति । इह तु विरोधशब्दस्य निमि­त्त­भू­त­जा­ति­द्व­या­भा­वात् प्रसि­द्धा­र्थ­त्वाच्च व्याख्ये­य­त्वा­भा­वेऽपि विरोधशब्दस्य मध्य­म­जा­ति­नि­मि­त्त­त्वात् तद्व्या­ख्या­वा­न्त­र­जा­ति­द्व­य­ल­क्ष­ण­व्य­क्ति­द्व­य­ल­क्ष­ण­स­म्भ­वात् अत्रे­दृ­ग्व्य­क्ति­र्वि­व­क्षि­तेति निर्णेतुं पृच्छति -
कोऽयं विरोध इति ।

इत­रे­त­र­भा­वा­नु­प­प­त्ति­रि­त्यु­त्त­र­प­दार्थं प्रति यस्य विरोधस्य हेतुत्वं सम्भवति सोऽत्र विरोधशब्दार्थं इति ज्ञातुं शक्यते किमत्र पृच्छ्यते इत्या­श­ङ्क्यो­त्त­र­प­द­स्या­प्यर्थो न निर्णीत इति कृत्वासौ विवेक्तव्य इत्याह –
कीदृशो वेति ।

इतरस्मिन् इतरस्य भावा­नु­प­प­त्ति­रिति तादात्म्याभाव उच्यते, इतरस्य इत­र­भा­वा­नु­प­प­त्ति­रि­त्यै­क्या­भाव उच्यते । इतरस्मिन् सती­त­र­भा­वा­नु­प­प­त्ति­रिति सहावस्थानाभाव उच्यत इति सन्दिग्ध इत्यर्थः । तादा­त्म्या­यो­ग्यत्वं वा सहा­व­स्था­ना­यो­ग्य­त्व­मै­क्या­यो­ग्यत्वं वा विरोधोऽस्तु । सर्वथाऽपि विरु­द्ध­स्व­भा­व­त्वेन साध्या­ध्या­स­मि­थ्यात्वं सिद्ध्यति । अतो न प्रष्ट­व्य­म­स्ती­त्या­शङ्क्य यथा इत­रे­त­रा­यो­ग्य­ताया विरो­ध­श­ब्दा­र्थत्वे तमः­प्र­का­श­दृ­ष्टा­न्त­ग­त­वि­रो­धेन साम्यं भवति तथे­त­रे­त­र­भा­वा­नु­प­प­त्ति­पदं निर्णेतव्यमिति मत्वाह –
यस्या­नु­प­प­त्ते­रिति ।
यस्य इत­रे­त­र­भा­व­स्या­नु­प­प­त्ते­रि­त्यर्थः । सहा­न­व­स्था­न­ल­क्षणो विरोध इत्यत्र सहानवस्थानं लक्षणं गमकं यस्य सहा­व­स्था­ना­यो­ग्य­त्वस्य तत् सहा­न­व­स्था­न­ल­क्ष­ण­मिति योजना ।

तत इति ।
सहा­व­स्था­ना­यो­ग्य­त्व­ल­क्ष­णात् कारणादित्यर्थः ।

भवतु सहा­व­स्था­ना­नु­प­प­त्ति­रिति तत्राह –
तदसदिति ।

भाष्ये विरु­द्ध­स्व­भा­व­त्वा­द­ध्यासो मिथ्ये­त्यं­शे­ना­त्मा­ना­त्मा­ना­व­ध्या­स­हीनौ क्वाप्यभेदा योग्यत्वात् तमःप्रकाशवदिति अनुमिते असि­द्धि­श­ङ्का­नि­रा­सा­या­यो­ग्य­ता­का­र्य­तया तद्ग­म­का­भे­दा­भा­व­मि­त­रे­त­र­भा­वा­नु­प­प­त्ति­रिति पदेनाह भाष्यकारः । तत्साधूक्तमिति द्योतयति । ततः प्रकाशस्याभाव इत्ययोग्यतायाः कारणत्वकथनेन इत­रे­त­र­भा­वा­नु­प­प­त्ते­र­ध्यासो मिथ्ये­त्य­ने­ना­त्मा­ना­त्मा­ना­व­ध्या­स­हीनौ क्वाप्य­भे­द­ही­न­त्वात् तमः­प्र­का­श­व­दि­त्य­नु­मिते अभेदायोग्यत्वं प्रयोजकमिति शङ्कायां तन्निरासाय अभेदायोग्यत्वं साध­न­व्या­प­क­त्वात् अनु­पा­धि­रि­त्य­भि­प्रेत्य विरु­द्ध­स्व­भा­व­यो­रिति पदं वदति भाष्यकारः । तदपि साधूक्तमिति द्योतयति । सहा­व­स्था­ना­यो­ग्य­ता­या­ग­म्य­त्व­क­थ­नेन द्रष्टव्यम् । रूप­द­र्श­ना­स्पाष्ट्यं स्वरूपमतो रूप­द­र्श­ना­स्पा­ष्ट्येन तम­सोऽ­नु­वृ­त्ति­र्वक्तुं न शक्यत इत्याशङ्क्य तथा सति सर्व­त्रा­प्य­स्पाष्ट्यं स्यान्न तथा दृश्यत इत्याह -
इतरत्र च स्पष्टमिति ।

सहावस्थानायोग्यत्वात् तमः­प्र­का­श­यो­र्दृ­ष्टा­न्तत्वं मा भूत् , तमः­प्र­का­श­श­ब्दाभ्यां तमोलेशभूतछायां प्रकाशैकदेशात् तथोपलक्ष्य तयोः सहा­व­स्था­ना­यो­ग्य­त्वात् दृष्टा­न्त­त्व­मु­च्यते भाष्य­का­रे­णे­त्या­शङ्क्य तत्रापि सहा­व­स्था­न­यो­ग्य­त्व­म­स्ती­त्याह -
तथा छायायामपीति ।

छाया­या­मौ­ष्ण्य­मु­प­ल­भ्य­मानं स्वधर्मित्वेन आतपस्यापि तत्रावस्थानं सूचयति इति, एतावदुक्तौ छायाया औष्ण्यं स्वरूपमत औष्ण्य­स­द्भा­वे­ना­त­प­स­द्भा­व­क­ल्पना न युक्ते­त्या­शङ्क्य तथा सति मध्या­ह्नेऽ­प­राह्णे छायानुगतौष्ण्यस्यै­क­रूप्यं स्यान्न तथा दृश्यते इत्याह –
तारतम्येनेति ।

तर्हि तमः­प्र­का­श­श­ब्दाभ्यां छाया­त­पा­वु­प­लक्ष्य पश्चा­च्छा­या­नु­ग­त­शै­त्य­मा­त­पा­नु­ग­तौष्ण्यं च लक्षि­त­ल­क्ष­ण­यो­पा­दाय तयोः सहा­व­स्था­ना­यो­ग्य­त्वात् दृष्टा­न्त­त्व­मु­च्यते भाष्य­का­रे­णे­त्या­शङ्क्य तयोरपि सहा­व­स्था­न­यो­ग्य­त्व­म­स्ती­त्याह -
एतेन शीतोष्णयोरपीति ।

पक्षान्तरं निराकृत्य स्वाभि­म­त­प­क्षा­न्त­र­मु­पा­दत्ते सिद्धान्ती
उच्यते परस्परेत्यादिना ।

सर्व­सा­धा­र­ण­त्वात् प्रमे­य­त्व­श­ब्द­वा­च्य­त्व­वत् पर­स्प­रा­त्म­त्वा­यो­ग्य­त्वस्य विरोधत्वं न सम्भ­व­ती­त्या­शङ्क्य जातिव्यक्त्यादौ वृत्त्य­भा­व­मि­त­रे­त­र­भा­वा­यो­ग्य­त्वस्य दर्शयति -
न जाति­व्य­क्त्यो­रिति ।

परमार्थतः ।
परमार्थस्थल इत्यर्थः ।

तेनेति -
पर­स्प­रा­त्म­त्वा­यो­ग्य­त्व­हे­तु­ने­त्यर्थः ।

इतरस्मिन् सति इत­र­भा­वा­नु­प­प­त्ति­रिति । सहावस्थानाभाव उच्यत इति शङ्कां व्यावर्त्य ऐक्य­ता­दा­त्म्य­यो­र­भा­वोऽर्थ इत्याह –
इत­रे­त­र­स­म्भे­दा­त्म­क­त्व­स्येति ।

भ्रमस्थले ऐक्य­ता­दा­त्म्या­भा­वोऽ­ध्या­सा­भावहेतुक इति मत्वा सोऽध्यासाभाव एव हेतुरिति चोदयति -
कथमिति ।

प्रमाणस्थले ऐक्य­ता­दा­त्म्य­यो­र­भा­वोऽ­ध्यासभावे हेतुत्वेन मयोक्त इति स्पष्टीकुर्वन् प्रमाणस्थलेऽपि द्वयोरैक्यभावः स्पष्ट इति कृत्वा अंशांशिभावेन तादा­त्म्या­भा­व­मु­प­पा­द­यति -
स्वत­स्ता­व­दि­त्या­दिना ।
अस्यायमर्थः, प्रपञ्चस्थले तादात्म्यं सम्भवति तत्र चिज्ज­ड­यो­रु­भ­यो­र्द्र­व्य­त्वा­देव जातिव्यक्ति गुण­गु­णि­भा­वा­स­म्भ­वा­च्चै­त­न्य­स्या­ना­दि­त्वा­द­प­रि­णा­मि­त्वाच्च कार्य­का­र­ण­त्वा­स­म्भ­वा­देव कार्य­का­र­ण­भा­वा­स­म्भ­वात् , चैत­न्य­स्या­स­ङ्ग­त्वा­देव विशि­ष्ट­स्व­रू­प­त्वा­स­म्भ­वा­दे­भि­रा­का­रै­स्ता­दा­त्म्या­स­म्भवः प्रसिद्ध इत्यङ्गीकृत्य प्रमाणस्थले अंशांशिभावेन अतादात्म्यं दर्शयतीति । स्वतः स्वाभाविक इत्यर्थः ।

आगन्तुकत्वेऽपि क्षीरस्य दधिभाववत् न निर्हेतुको युष्मदंश इत्याह –
अप­रि­णा­मि­त्वा­दिति ।

चन्दनस्य जलसंसर्गात् दौर्ग­न्ध्य­व­द्धे­तु­तोऽपि न युष्मदंश इत्याह –
निरञ्जनत्वादिति ।
अस­ङ्ग­त्वा­दि­त्यर्थः ।

न परतः ।
नागन्तुक इत्यर्थः ।

विषयस्यापीति ।
अना­त्म­नोऽ­पी­त्यर्थः ।

समत्वात् ।
आत्मना चेतनत्वेन समत्वादित्यर्थः ।

विषयत्वहानेः
- प्रत्यक्षगोचरत्वहा­ने­रि­त्यर्थः । ।

न परतश्चितेरिति ।
अनात्मानं प्रत्या­ग­न्तु­कां­शत्वे जडत्वं स्यात् , चित्वादेव नांश इत्यर्थः ।

कषा­य­द्र­व्य­ग­त­लो­हित्यं यथा पटः स्वीकरोति तथा आत्मगतमेव चैतन्यमनात्मा स्वाङ्गत्वेन स्वीकुर्यादिति तत्राह –
चिते­र­प्र­ति­स­ङ्क्र­म­त्वा­दिति ।
सर्व­ग­त­नि­र­व­य­व­स्या­त्मनः सङ्क्र­मा­यो­गा­दिति भावः ।

एवं स्थित इति ।
आत्मा­ना­त्म­नो­र­भे­दा­भावे सतीत्यर्थः ।

इतिशब्दस्य परि­स­मा­प्ति­द्यो­त­कत्वं व्यावर्तयति -
इतिशब्दो हेत्वर्थ इति ।

इतरेतर भावा­नु­प­प­त्ते­र­ध्या­सा­भावं प्रति सत्ताहेतुत्वं दर्शयति ।
यस्मादेवमिति ।

अस्मत्प्रत्यये योऽनिदमंश इति ।
अस्मत्प्रत्यये अहमिति प्रतीयमाने अहंप्रत्ययविषय इत्यर्थः ।

अहंप्रत्ययविषय इत्युक्ते अहङ्कारचेतनौ प्रतीयेते । तत्राहङ्कारं व्यावर्तयति -
अनिदमंश इति ।

एवमुक्ते प्राभा­क­रा­भि­म­ता­त्म­नोऽपि कर्मत्वाभावादेव अनि­द­मं­श­त्व­म­स्तीति तं व्यावर्तयति -
चिदिति ।

एतावदुक्तौ आश्र­य­भू­त­ज­ड­स­हत्वं प्रतीयते तद्व्यावर्तयति -
एकरस इति ।

चिदेकरसत्वेऽपि साङ्ख्या­भि­म­ता­त्म­नोऽ­नु­मे­य­त्व­म­स्तीति तद्व्यावर्तयति -
अनिदमंश इति ।

व्याख्ये­य­प­द­त्र­य­ग­त­स­प्तम्याः अर्थमाह –
तस्मिन्निति ।

अह­ङ्का­रा­दि­श­री­रा­न्तस्य अहमिति प्रतीयमानत्वात् कथं युष्म­त्व­मि­त्या­शङ्क्य प्रयोक्तारं प्रतीदमिति ग्राह्यत्वं स्वरूपेण अहमिति ग्राह्य­त्व­म­प­रो­क्षत्वं च यस्य भवति तस्य युष्मत्वं स्यात् । तल्लक्षणं देहा­दे­र­प्य­स्ती­त्याह -
तद्बलेति ।
तस्या­त्म­चै­त­न्यस्य बलेन प्रतिबिम्बेन निर्भा­स्य­त्वा­द­प­रो­क्ष­तया वेद्यत्वात् प्रयो­क्तु­र्भा­ष्य­का­रा­ख्या­त्मनः विवेकावस्थायामहमिति ग्राह्यत्वाच्च लक्षणतो युष्मदर्थत्वं देहादेरित्यर्थः ।

मनुष्याभिमानस्य ।
मनु­ष्या­द्य­भि­मा­नस्य अभिमन्यमानस्य देहादेरित्यर्थः ।

अध्यासशब्दस्य अधि आसः अध्यासः इति निर्वचनेन प्राप्ता­धा­रा­धे­य­भा­वा­भि­धा­यित्वं व्याव­र्त्या­भि­म­त­म­र्थ­माह -
सम्भेद इवावभास इति ।
इवशब्द आभासार्थः ।

अह­मि­त्य­भि­म­न्य­मा­न­स्ये­त्युक्त्या अध्य­स्त­त्व­मु­क्तम् । पुन­र­प्य­भि­म­न्य­मा­नस्य सम्भेद इवेति चाध्य­स्त­त्व­मु­क्तम् । अतोऽ­ध्य­स्त­स्या­ध्य­स्त­त्व­म­स­ङ्ग­त­मि­त्या­शङ्क्य तद्विधाभिमान एव सम्भेद इवा­व­भा­स­स्या­ध्यास इत्याह -
स एवेति ।

विषयाध्यास इति -
धर्म्यध्यास इत्यर्थः ।

विना विषयाध्यासेनेति ।
श्रोत्रमहं चक्षुरहमिति श्रोत्रा­दि­ध­र्म्य­ध्या­से­ने­त्यर्थः ।

अकर्मतया सिद्धं प्राभा­क­रा­भि­म­त­ज­ड­रू­पा­त्मा­ख्य­वि­ष­यिणं व्यावर्तयति -
चैतन्यस्य तद्धर्माणां चेत्यर्थ इति ।

ननु विषयिण इत्यत्र विषयीत्युक्ते प्राभा­क­रा­भि­म­त­ज­ड­रू­प­वि­ष­यिणं प्राप्तं व्यावर्तयति -
चैतन्येति ।

परि­णा­मि­ब्र­ह्म­वा­दि­ना­ङ्गी­कृ­त­चि­ज्ज­डा­त्मत्वं व्यावर्तयति -
एकरसस्येति ।

नित्यत्वमिति
सत्य­त्व­मि­त्यर्थः । ।

पृथगिवेति ।
अन्तः­क­र­ण­वृ­त्त्यु­पा­धि­नि­मि­त्त­तया नानेवावभासन्त इत्यर्थः ।

अध्यासशब्दस्य पूर्व­मे­वा­र्थोऽ­भि­हितः । किमि­दा­नी­म­र्थो­क्ति­रि­त्या­शङ्क्य मिथ्या­ज्ञा­न­नि­मित्त इत्यत्र मिथ्या­श­ब्द­स्या­नि­र्व­च­नी­य­त्व­नि­श्च­या­द­त्रापि मिथ्याशब्देन अनि­र्व­च­नी­य­त्व­स्या­भि­धा­ना­द­ध्यास इति च तस्यैवाभिधानात् अध्यासो मिथ्येति पुन­रु­क्ति­स्स्यात् । अतः पुनरुक्ततया अध्यासशब्दस्य स्वार्थ­प्र­च्युतौ प्राप्तायां पूर्वोक्त एवार्थ इत्याह -
अध्यासो नामेति ।

अध्यासो भवितुं युक्तम् , मिथ्या­त्वा­दि­त्य­न्वयं व्यावर्त्य अध्यासो मिथ्ये­त्य­न्व­य­माह -
स मिथ्येति भवितुं युक्तमिति ।

तं तथा सोऽध्यास इति विधिः प्राप्त इत्याशङ्क्य मिथ्याशब्दस्य अर्था­न्त­र­म­स्ती­त्याह -
मिथ्याशब्दो द्व्यर्थ इति ।

अध्यासमुद्दिश्य मिथ्यात्वं विधेयमिति दर्शयितुं पूर्वं मिथ्या­श­ब्द­स्यो­पा­दानं कृतम् । इदानीं भवितुंशब्दस्य अन्वयं वक्तुं मिथ्या­श­ब्द­मा­दत्ते -
मिथ्येति ।

भवितुं युक्तमिति ।

मिथ्येति कृत्वा अध्यासो भवितुं युक्तमिति व्याहतोक्तिं व्यावर्तयति -
अभाव एवेति ।

अध्यासो मिथ्येति भवितुं युक्तमिति भाष्ये­णा­ध्या­सा­प­ह्नवः क्रियते, किं वा अध्या­स­स­द्भा­व­म­ङ्गी­कृत्य तस्य लोक­सि­द्ध­का­दा­चि­त्क­शु­क्ति­र­ज­ता­द्य­ध्यासे दृष्ट­सा­दृ­श्या­दि­का­र­णा­भा­वा­द­स­म्भव उच्यत इति विकल्प्य कार­णा­भा­वा­द­स­म्भवं प्राप्त­म­ङ्गी­क­रोति -
यद्यप्येवमिति ।

तर्हि असम्भव एव स्यादिति आशङ्क्य आत्मनि अह­ङ्का­रा­द्य­ध्या­सस्य प्रवा­ह­रू­पे­णा­ना­दि­त्वात् इदं प्रथ­म­र­ज­ता­द्य­ध्या­स­का­र­णा­भा­वे­ना­स­म्भवो नास्ति । प्रवा­ह­रू­पे­णो­त्प­द्य­मा­न­म­ध्य­व­र्ति­ज्वा­लायां प्रथ­म­ज्वा­ला­का­र­णा­भा­वेन अस­म्भ­वा­भा­व­व­दि­त्य­भि­प्रे­त्याह -
तथापि नैसर्गिक इति ।

नैसर्गिक इत्य­न­प­नो­द्य­त्व­मु­च्यत इति शङ्कां निरस्य अनादित्वं तस्यार्थ इत्याह -
प्रत्य­ग­नु­ब­न्धीति ।
आत्मा तावदनादिः, तस्मिन् कार्यरूपेण संस्काररूपेण वा अध्यासस्य प्रवा­ह­व्य­भि­चा­रा­भा­वा­द­ध्या­सोऽ­ना­दि­रि­त्यर्थः ।

प्रत्य­क्स­म्ब­न्धी­त्युक्ते प्राभा­क­रा­भि­म­त­प्र­त्य­ग्रू­पेण च सम्बन्धं प्राप्तं व्यावर्तयति -
चैतन्येति ।

चैत­न्य­म­ध्या­स­सा­क्षि­त्वेन अन्यथासिद्धं न त्वध्या­स­स­म्ब­न्धि­त्वे­ना­धि­ष्ठा­न­मिति तदपनुदति -
सत्तेति ।

सत्ताया जड­वि­शि­ष्ट­त्वा­न्ना­ध्यासं प्रत्य­धि­ष्ठा­न­त्व­मिति शङ्का­व्या­वृ­त्त्यर्थं जडाद्विभजते -
मात्रेति ।

सत्ता­म­नु­सृ­त्या­त्य­न्त­ति­रो­धा­न­म­कृत्वा बध्नाति । चिदा­न­न्दा­च्छा­द­क­त्वेन बध्नातीत्याह -
अनुबन्धीति ।

अध्यासापह्नवपरं भाष्यमिति पक्षेऽपि अपह्नवो न शक्य इत्याह -
अयमिति ।
प्रत्यक्षम् इत्यर्थः ।

प्रमेयापह्नवं कुर्वता मया प्रमा­ण­स्या­प­ह्नवः क्रियत एव इत्याशङ्क्य विल­क्ष­णा­का­र­व­त्तया विल­क्ष­ण­श­ब्दो­ल्लि­खि­त­त्वेन च प्रमाणं प्रसिद्धमित्याह -
अहमिदं ममेदमिति ।

अध्यास आक्षिप्तः, लोक­व्य­व­हा­र­स्स­मा­धी­यत इति असङ्गतोक्तिः प्राप्तेति, नेत्याह -
युष्म­द­स्म­दो­रि­त­रे­त­रा­ध्या­सा­त्मको लोकव्यवहार इति ।
तेने­त्या­दे­र­य­मर्थः, कादा­चि­त्क­शु­क्ति­र­ज­तादौ सिद्ध­का­र­णा­भा­वे­ना­ना­द्य­ध्यासो नोपालम्भमर्हति । आग­न्तु­क­घ­टा­दि­का­र­णा­भा­वेन अनाद्यात्मन उपलम्भाभाववदिति ।

लोकत इति कर्म­व्यु­त्पत्त्या देहा­दि­रू­पा­र्था­ध्यासे लोकशब्दो वर्तत इत्याह -
लोक इति ।

मनुष्योऽहमितीति ।

व्यवहारशब्दस्य भाव­व्यु­त्प­त्त्याऽ­ज्ञा­न­सा­ध्या­स­वा­चित्वं दर्शयति -
व्यवहरणं व्यवहार इति ।

लोकश्चासौ व्यवहारश्च इति लोकव्यवहार इति कर्मधारयं व्यावर्त्य लोकविषयो व्यवहारो लोकव्यवहार इत्याह -
लोक इतीति ।

व्यवहारशब्दस्य अभि­ज्ञा­भि­व­द­नो­पा­दा­ना­र्थ­क्रि­या­भि­धा­यि­त्वात् कथं ज्ञाना­ध्या­स­वा­चि­त्व­मि­त्या­शङ्क्य इहा­भि­ज्ञा­भि­व­द­ना­ख्य­श­ब्दो­ल्लि­खि­त­ज्ञा­न­मा­त्रा­भि­धा­यि­त्वात् ज्ञाना­ध्या­स­वा­चित्वं युक्तमित्याह -
मनुष्योऽहमिति अभिमान इत्यर्थ इति ।

अहमिति प्रति­भा­स­स्या­ध्या­सत्वे द्व्याकारतया अवभासेत । द्व्याका­र­त्वा­भा­वा­न्ना­ध्या­स­त्व­मि­त्या­श­ङ्का­व्या­व­र्त­क­त्वेन इत­रे­त­रा­वि­वे­के­नेति पदमुपादेयम् । भिन्न­प­दा­र्थ­प्र­ती­ता­वि­त­रे­त­रा­वि­वेकः कुत इत्या­का­ङ्क्षायां सत्यानृते मिथुनीकृत्येति पदमुपादेयम् । तदा­का­ङ्क्षा­क्र­म­म­ना­दृ­त्यो­पा­दत्ते -
सत्यानृते मिथुनीकृत्येति ।

स्वरूपेण सत्ये संस­र्ग­वि­शि­ष्ट­तया अनृते च यथा व्यवहारः तथा मिथुनीकृत्येति वा, सत्यमसत्यं च मिथुनीकृत्य इति वा निर्वाह इति सन्देहे सत्यमसत्यं चेति निर्वाह इत्याह -
सत्यमिति ।
पदच्छेदेन ।

सत्यमिति सत्यवाक्यमुच्यत इति शङ्कामपनुदति -
अनिदमिति ।

प्राभा­क­रा­भि­म­ता­त्मानं व्यावर्तयति -
चैतन्यमिति ।

तावत्युक्ते साङ्ख्या­भि­म­ता­नु­मे­या­त्मनः प्राप्तिं व्युदस्यति -
अनिदमिति ।

अनृतमित्युक्ते अनृ­त­वा­क्य­प्राप्तिं व्युदस्यति -
युष्मदर्थम् इति ।

अध्य­स्त­स्व­रू­प­त्वा­दि­त्युक्ते आत्म­नोऽ­प्य­नृ­तत्वं प्राप्तं व्युदस्यति -
स्वरूपतोऽपीति ।
संस­र्ग­स्या­ध्य­स्त­त्वा­त्सं­स­र्ग­वि­शि­ष्ट­रू­पे­णा­त्म­नोऽ­ध्य­स्त­त्वम्, न तु स्वरूपेण । जडस्य तु स्वरूपेण संसृष्टरूपेण चाध्य­स्त­त्वा­द­नृ­त­त्व­मिति भावः ।

क्त्वाप्र­त्य­या­देव भेद­पौ­र्वा­प­र्य­प्र­ती­ते­र­ध्या­स­मि­थु­नी­क­र­ण­लो­क­व्य­व­हा­र­श­ब्दानां एका­र्थ­त्व­म­यु­क्त­मिति तत्राह -
अध्यस्य मिथुनीकृत्येति ।

क्रिया­न्त­रा­नु­पा­दा­ना­दि­त्युक्ते लोकव्यवहार इति व्यवहारलक्षण क्रिया­न्त­रो­पा­दा­न­म­स्ती­त्या­शङ्क्य भुक्त्त्वा व्रजतीतिवत् समा­न­क­र्तृ­क­क्रि­या­न्त­रा­नु­पा­दा­ना­दि­त्याह -
`भुक्त्त्वा व्रजतीतिवद्’ इति ।

`लोकव्यवहार’ इत्युक्ते स किं भवतीति साकाङ्क्षत्वात् व्यवहारस्य समा­न­क­र्तृ­क­क्रि­या­न्त­र­ला­भाय ‘अनेन क्रियत’ इत्य­ध्या­ह­र्त­व्य­मि­त्या­शङ्क्य ‘नैस­र्गि­क­प­दे­ना­का­ङ्क्षा­पू­रणं’ नाध्या­ह­र्त­व्य­मि­त्याह -
अध्यस्य नैसर्गिकोऽयमिति ।

ताव­न्मा­त्रो­प­सं­हा­रा­दिति ।
स्वरू­प­क­थ­न­मा­त्रे­णो­प­सं­हा­रा­दि­त्यर्थः ।

व्यप­दे­श­मा­त्र­मिति ।
अध्यासस्य स्वगतविशेषभेदात् भेदं विशिष्टेषु क्रम­व­र्ति­प्र­ति­प­त्तितः पौर्वापर्यं चापेक्ष्य चैतन्यं पुरुषस्य इति षष्ठी­व­दु­प­चा­र­मा­त्रात् , क्त्वा प्रत्यय इत्यर्थः ।

पूर्वं स्वरू­प­तोऽ­प्य­ध्य­स्त­स्व­रू­प­त्वा­दि­त्युक्तं स्वग्रन्थे । तत्रा­ध्य­स्त­स्व­रू­पत्वं कुतोऽवगम्यत इत्या­का­ङ्क्षायां तन्निवृत्तये मिथ्या­ज्ञा­नो­पा­दा­न­त्वेन मिथ्यात्वं भाष्य­का­रै­रु­क्त­मिति परि­जि­ही­र्षु­रु­पा­दत्ते -
मिथ्या­ज्ञा­न­नि­मित्त इति ।

मिथ्या­रू­प­ज्ञा­न­नि­मित्त इत्युक्ते मिथ्याज्ञानात् संस्कारः, ततो मिथ्याज्ञानमिति नैस­र्गि­क­प­दे­नो­क्त­त्वात् तेन पौन­रु­क्त्य­मा­शङ्क्य मिथ्या­रू­प­ज्ञा­न­नि­मित्त इति पदच्छेदो न भवति । किन्तु मिथ्या­रू­पा­ज्ञा­न­नि­मित्त इतीममर्थं समासोक्त्या व्यक्तीकरोति -
मिथ्या चेति ।

मिथ्याशब्दस्य अपह्नववाचित्वेन पूर्वत्र निर्णीतत्वात् असद्रूपाज्ञानं कार­ण­मि­त्या­प­त­तीति, नेत्याह -
मिथ्येतीति ।

अज्ञानं नाम ज्ञानाभावः, तत्र मिथ्या­ज्ञा­न­मि­त्युक्ते ज्ञानाभावो भाव­वि­ल­क्ष­णोऽ­नि­र्व­च­नीय इत्युक्तं स्यात् , तदपाकरोति -
अज्ञा­न­मि­त्या­दिना ।

तत्राज्ञानमिति जडमुच्यत इत्युक्ते साङ्ख्या­भि­म­त­स्व­त­न्त्र­ज­ड­स्या­ज्ञा­नत्वं प्राप्तं व्युदस्यति -
शक्तिरिति ।

परि­णा­म­ब्र­ह्म­वा­दिना अङ्गी­कृ­त­स­त्य­शक्तिं व्यावर्तयति -
अविद्येति ।

अविद्येत्युक्ते शून्य­वा­द्य­भि­म­ता­र्था­त्प­ञ्च­मा­का­रा­विद्यां प्राप्तां व्युदस्यति -
शक्तिरिति ।
पूर्ण­भा­व­रू­पे­त्यर्थः ।

तर्हि एवं­भू­त­स्या­ज्ञा­न­श­ब्द­वा­च्यत्वं कुत इति, ज्ञान­वि­रो­धि­त्वा­दि­त्याह -
ज्ञान­प­र्यु­दा­से­नेति ।
सद­स­द­नि­र्व­च­नी­ये­ष्वे­कै­क­स्मि­न्नर्थं गृहीत्वा तेभ्यो व्यतिरिक्तमर्थं गृहीत्वा वर्तत इत्यर्थः । पञ्च­मा­का­रा­विद्या शून्यवाद्यभिमता काचिद्विद्यत इति द्रष्टव्यम् ।

अध्यासस्य कारणात्मना नैसर्गिकत्वम् , कार्य­व्य­क्ति­रू­पेण नैमि­त्ति­क­त्व­मु­क्तम् । अज्ञाननिमि­त्त­क­का­र्य­व्य­क्ति­रू­पे­णैव नैस­र्गि­क­त्व­मुक्तं मत्वा चोदयति -
कथं पुनरिति ।

अध्यासस्य कारणात्मना नैस­र्गि­क­त्व­मुक्तं कार­ण­त्व­यो­ग्य­भा­व­रू­पा­ज्ञा­न­सिद्धौ सिद्ध्यतीति मत्वा आत्मनि भावरूपमज्ञानं साधयति -
अवश्यमित्यादिना ।

अत्र शक्तिशब्देन भावत्वं विवक्षति ।
अवि­द्या­श­क्ति­रि­त्य­भ्यु­प­ग­न्तव्या,
भाव­रू­पे­त्य­भ्यु­प­ग­न्त­व्ये­त्यर्थः ।

भावरूपत्वे अनुमानमस्तीति मत्वाह -
अवश्यमिति ।

प्रत्य­क्ष­म­स्ती­त्याह -
एषेति ।

बाह्या­ध्या­त्मि­केषु वस्तुष्विति ।
आध्या­त्मि­का­न्तः­क­र­ण­दे­हा­द्या­श्र­य­त्वेन बाह्य­घ­टा­दि­वि­ष­य­त्वेन च प्रती­य­मा­ने­त्यर्थः ।

निरूप्यमाणे देह­घ­टा­द्य­व­च्छि­न्न­स­त्व­मा­श्र­य­वि­ष­या­वि­त्याह -
तत्स्व­रू­पे­त्या­दिना ।

तत्स्व­रू­पा­नु­ब­न्धि­नी­त्युक्ते अज्ञा­न­का­र्य­घ­ट­दे­हा­दी­ना­म­ज्ञानं स्वरूपम् । अतोऽ­ज्ञा­ना­नु­ब­न्ध्य­ज्ञा­न­मि­त्युक्तं स्यात् , तदपाकरोति -
सत्तेति ।

जडविशिष्टसत्तां व्यावर्तयति -
मात्रेति ।
प्रमाणज्ञानं कस्यचिद्भावस्य निवर्तकम् , अप्र­का­शि­ता­र्थ­प्र­का­श­क­त्वात् , भाव­रू­प­त­मो­नि­व­र्त­क­प्र­दी­प­व­दि­त्य­नु­मा­न­म­त्रा­भि­प्रे­तम् । अहमज्ञो मामन्यं च न जानामीति अप­रो­क्षा­नु­भ­वोऽत्र प्रत्य­क्ष­म­भि­प्रेतं द्रष्टव्यम् ।

भावत्वे अर्थापत्तिमाह -
अन्यथेति ।
मिथ्या­र्था­द­व­भा­सा­नु­प­प­त्ते­रि­त्यर्थः ।

घटादिषु नाज्ञानमावरणम्, प्रका­श­प्रा­प्त्य­भा­वात् । तत्र कथं बाह्य­व­स्तु­ष्विति तद्विषयत्वं भण्यत इति । शङ्का­या­मा­व­र­णा­भा­व­म­ङ्गी­क­रोति -
सा चेति ।

चैतन्यप्रकाशेन जडानां नित्यवदन्वयादेव प्रकाशप्राप्तौ सत्यामावरणाभावे कथमनवभास इति तत्राह -
प्रमा­ण­वै­क­ल्या­दिति ।
जडप्रमाणस्य चैतन्यस्य आव­र­णा­ज्ज­डा­ना­म­न­व­भा­स­सि­द्धे­रि­त्यर्थः ।

अज्ञानस्य जडा­ख्य­वि­ष­या­च्छा­द­कत्वे प्रमा­णा­च्छा­द­क­त्व­मे­वा­भ्यु­पे­यम् अन­व­भा­स­नि­र्वा­हा­ये­त्या­शङ्क्य बहूनां विषयाणां बह्वज्ञानैः बह्वा­व­र­ण­क­ल्प­ना­द्व­र­मे­क­चै­त­न्य­ल­क्ष­ण­प्र­मा­ण­स्यै­का­ज्ञा­ने­नै­का­व­र­ण­क­ल्प­न­मि­त्याह -
प्रमा­ण­वै­क­ल्या­दे­वे­त्ये­व­का­रेण ।

किञ्च शुक्त्यज्ञाने संस्थितेऽपि शुक्ति­त्वा­व­भा­साद् बाह्य­व­स्तु­ष्व­ना­व­र­क­मि­त्याह -
रज­त­प्र­ति­भा­सा­दिति ।
इदानीं रजतप्रतिभासात् तत्कारणत्वेन प्राक्त­स्या­म­वि­द्यायां सत्यामेव तस्य भाववदूर्ध्वं च रजतप्रतिभासात् तत्कारणत्वेन स्यात् , सत्या­म­प्य­वि­द्यायां शुक्ति­स्व­रू­प­द­र्श­ना­दिति योजना ।

कं च तर्ह्य­ति­श­य­म­ज्ञा­न­ज­न्य­मा­श्रित्य बाह्य­व­स्तु­ष्विति अना­त्म­वि­ष­य­म­ज्ञानं दर्शितमिति तत्राह -
अतस्तत्रेति ।
शुक्त्यज्ञानस्य घटा­च्छा­द­क­त्वा­भावे तस्मिन् रूपा­न्त­रा­व­भा­स­हे­तु­र्न­भ­वति तद्वच्छुक्तावपि स्यादि­त्या­शङ्क्य घटा­व­च्छि­न्न­चै­त­न्य­ग­त­त्वा­भा­वात् तत्र विप­र्य­य­हे­तु­त्वा­भावः, शुक्तौ तु हेतु­रे­वे­त्ये­व­का­रे­णाह ।

तर्हि विपर्ययहेतुत्वे चैतन्य इव आच्छादकत्वमपि स्यादित्यशङ्क्य सत्यम्, शुक्ती­द­मं­शा­व­च्छि­न्न­चै­त­न्येन रूप्या­दि­वि­प­र्य­यस्य मुख्यसम्बन्धः इदमंशेन सम्बन्धाभास एवेत्याह -
केवलमिति ।

आत्म­न्य­प्य­ज्ञा­न­नि­मि­त्त­मा­व­रणं दुर्निरूपमिति तत्राह -
प्रत्यगात्मनि त्विति ।

प्रत्य­गा­त्म­न्य­न­व­भा­सोऽ­वि­द्या­श­क्ति­प्र­ति­ब­न्धा­दि­त्युक्ते प्राभा­क­रा­द्य­भि­म­ता­त्मनि सर्व­ग­त­त्वा­द्य­न­व­भा­सोऽ­वि­द्या­श­क्ति­प्र­ति­ब­न्धा­भा­वेऽपि दृश्यत इत्याशङ्कां व्यावर्तयति -
चिति­स्व­भा­व­त्वा­दिति ।

साङ्ख्या­भि­म­ता­त्मनि भाव­रू­पा­वि­द्या­प्र­ति­ब­न्धा­भा­वेऽपि अनवभासोऽस्तीति तद्व्यावर्तयति -
स्वयम्प्रकाशमान इति ।

प्रत्य­गा­त्म­न्य­न­व­भासो नास्तीति, नेत्याह -
ब्रह्मस्वरूपेति ।

आत्म­नोऽ­न्य­स्मि­न्न­ध्य­स्त­त्वा­द­धि­ष्ठा­न­स्या­वृ­त­त्वेन, ब्रह्म­रू­पा­न­व­भासः, न स्वग­ते­ना­व­र­णे­ने­त्या­शङ्क्य आत्म­नोऽ­धि­ष्ठा­ना­न्त­रा­भा­वात् तदावरणेन आत्मनो ब्रह्म­रू­पा­न­व­भा­सा­स­म्भव इत्याह -
अन­न्य­नि­मि­त्त­त्वा­दिति ।

तद्गतेनानवभास इत्युक्ते अह­ङ्का­रा­दि­वि­प­र्या­सेन अनवभास इति स्यात् , तद्व्यावर्तयति -
निसर्गसिद्धेति ।

परि­णा­म­ब्र­ह्म­वा­द्य­भि­म­त­स­त्या­ना­दि­शक्तिं व्यावर्तयति -
अविद्येति ।

विद्याभावं व्यावर्तयति -
शक्तीति ।
भ्रान्ति­सं­स्का­र­प्र­ति­ब­न्धात् अनवभासं व्यावर्तयति एवकारेण ।

आव­र­ण­वि­प­र्या­स­का­र­ण­त्वा­नु­प­पत्त्या अज्ञानं भावरूपत्वेन कल्प्यमिति मत्वाह -
अतः सेति ।

न केव­ल­मा­व­र­ण­वि­प­र्या­स­हे­तु­त्वाय भाव­रू­पा­ज्ञा­न­क­ल्पना, किन्तु अग्रहण मिथ्या­ज्ञा­न­त­त्सं­स्का­र­क­र्मणां सुषु­प्ति­प्र­ल­यादौ ब्रह्म­रू­पा­न­व­भा­स­हे­तु­त्वा­यो­गात् सुषुप्तादावनवभासहेतुत्वाय विप­र्या­स­सं­स्का­रा­श्र­य­त्वाय च भावरूपाज्ञानं कल्प्यमित्याह -
सुषुप्तादौ चेति ।
अह­ङ्का­रा­दे­र्मि­थ्या­ज्ञा­न­वि­ष­यस्य मिथ्याज्ञानस्य च सुषुप्तौ स्थित्यभावात् तत्संस्कारस्य च भ्रान्त­रू­प्य­सं­स्का­र­वत् भ्रमा­धि­ष्ठा­न­तत्त्वानव­भा­स­हे­तु­त्वा­यो­गात् ग्रहणस्य आत्मनः स्वरू­प­चै­त­न्य­त्वा­देव नित्यत्वात् अग्रहणाभावात् कादा­चि­त्क­ग्र­ह­णा­भा­वस्य स्वय­म्प्र­का­श­सं­वे­द­नेऽ­न­व­भा­स­हे­तु­त्वा­भा­वात् कर्मणामपि संस्का­र­रू­प­त्वात् इतरसंस्कारवत् अन­व­भा­स­हे­तु­त्वा­यो­गात् भाव­रू­पा­ज्ञा­ने­नैव सुषु­प्ता­दा­व­न­व­भास इति भावः ।

विक्षे­प­सं­स्का­रा­त्मना आत्मनि सुषुप्तादौ अज्ञा­न­स्या­व­स्थाने किं प्रमा­ण­मि­त्या­शङ्क्य पुन­र्भ्र­म­रू­पे­णो­त्पत्त्या कल्पत इत्याह -
पुनरुद्भवतीति ।
अतो नैस­र्गि­कोऽ­पी­त्य­नेन कार­ण­रू­पे­णे­त्यर्थः ।

नैमि­त्ति­क­का­र्य­रू­प­माह -
अह­ङ्का­र­म­म­का­रे­त्या­दिना ।

न पुन­रा­ग­न्तु­क­त्वे­नेति ।
आग­न्तु­क­का­र्य­रू­पेण नैसर्गिकत्वं नोच्यत इत्यर्थः ।

कस्यचिदिति ।
काण­त्व­मू­क­त्वा­दे­रि­त्यर्थः ।

अविवेकशब्देन विवे­क­वि­रो­ध्यै­क्य­मु­च्यत इति व्याकरोति ।
एक­ता­प­त्त्यै­वे­त्यर्थ इति ।

केवलस्यात्मनो देहादिषु सर्वे­ष्वा­रो­प्य­त्व­मुत केव­ला­त्म­नोऽ­न्तः­क­रण एवाध्यासः । देहादिषु अन्तः­क­र­ण­वि­शि­ष्टा­त्मन इति संशये तन्निरासाय भाष्यकारो वक्ष्यतीत्याह -
कस्य धर्मिण इति ।

आत्मनो देहादिभिः सर्वैः तादा­त्म्या­ध्यासः, उत अह­ङ्का­रे­णै­क्या­ध्यासः, इतरेण तादात्म्याध्यास इति च सन्देहे वक्ष्यतीत्याह -
कथमिति ।

देहादीनामात्मनि वा, आत्मनि अध्य­स्ता­न्तः­क­र­णो­प­हि­ता­त्मनि वा अध्यास इति संशयनिरासाय वक्ष्यतीत्याह -
कुत्र चाध्यास इति ।

क्वाध्यास इति ।
कस्मिन्नुदाहरण इत्यर्थः ।

अहमिदमिति किम­ध्या­सोऽ­स्तीति, नेत्याह -
अहमिति ।

प्रथमोऽध्यास इति ।

तावदिति ।
अना­द्य­ज्ञा­ना­ध्या­सा­ति­रि­क्त­का­दा­चि­त्का­ध्या­सानां मध्य इत्यर्थः ।

नन्व­ह­मि­त्य­त्रा­ह­मिति चैतन्यमवभासत इत्युक्ते चैत­न्य­स्या­ध्य­स्त­त्वे­ना­धि­ष्ठा­न­त्वेन वोपयोगः स्यात् , अत­श्चै­त­न्या­व­भासो नाध्या­सा­भा­व­हे­तु­रि­त्या­शङ्क्य, सत्यम् , इदं रजतमित्यध्यास इवा­का­रा­न्त­रा­न­व­भासो दोष इत्याह -
चैतन्यमात्रमिति ।

अह­म­नु­भ­वा­मी­त्य­त्रा­धा­र­त्वे­ना­धे­य­त्वेन च चैत­न्य­द्व­य­म­व­भा­सत इति, नेत्याह -
निरंशमिति ।

अहं जानामीत्यत्र बुद्धि­त­दा­श्र­य­त्वे­ना­का­र­द्व­य­म­व­भा­सत इत्याशङ्क्य तदु­भ­या­का­र­स्या­रो­प्य­त्वेन अधिष्ठानत्वेन चोपयोगः । अध्यस्तत्वेन तदनर्हत्वेन च उभयाकारो न प्रतीयत इत्याह -
नांशान्तरमिति
वाशब्दश्चार्थे ।

दर्शयिष्याम इति
अह­ङ्का­र­टी­का­या­मि­त्यर्थः । ।

स्थूलशरीरस्य आत्म­न्य­ध्य­स्तत्वे अहमित्य­धि­ष्ठा­न­भू­ता­त्म­त­त्वै­क­तयोपलभ्यत्वम् आत्मनःसकाशात् पृथ­क्स­त्वे­ना­नु­प­ल­भ्य­त्व­मा­त्म­त­त्वा­व­बो­धे­ना­त्म­मा­त्र­तया लीनत्वं च शुक्ति­रू­प्य­स्येव वक्तव्यम्, न तु तदस्ति, इन्द्रि­यै­रि­द­न्तया पृथ­क्स­त्वे­नो­प­ल­भ्य­त्वात् , केवलसाक्षिणा तु आत्मतयैव सिद्ध्यभावात् भूतेषु विलयश्रवणाच्च, अतो नाध्य­स्त­त्व­मि­त्य­भि­प्रा­ये­णा­क्षि­पति -
नन्विदमिति ।

अत्रेदमिति पृथगुपलम्भं दर्शयति -
भोगसाधनमिति ।

आत्मतया अनुपलम्भं दर्शयति । ममत्वेन गृहीतत्वात् पुत्र­क्षे­त्रा­द्यपि नाध्य­स्त­मि­त्या­क्षि­पति -
ममेदमिति चेति ।
अहं कर्तेति अहङ्कारेण इतरेतराध्यासेन सम्पिण्डित आत्मेत्यर्थः ।

अभि­म­न्य­मा­न­स्थू­ल­दे­हस्य तद­न्त­र्व­र्त्य­भि­म­न्तुश्च असत्यत्वे माहे­न्द्र­जा­ल­दृ­ष्टान्तः । तस्यैव दृष्टान्तत्वे तद्वत् स्थूल­सू­क्ष्म­श­री­र­यो­रु­भयोः मिथ्यात्वं विवक्षितं विहाय साक्षि­चै­त­न्य­स्यापि अविशेषाशङ्कायां प्रतीतेऽर्थे किञ्चित् कस्यचित् सत्यतया अवशेषे स्वप्नमुदाहरति । स्वप्न­स्यै­वो­दा­ह­र­णत्वे तद्वत् साक्ष्यवशेषं विहाय सूक्ष्म­श­री­र­म­प्य­बा­ध्य­तया शिष्यत इति शङ्कायां तस्यापि बाध्यत्वे माहे­न्द्र­जा­लो­दा­ह­र­णम् । पूर्वं भाष्य­ग­त­लो­क­श­ब्देन प्राणिनिकाय उच्यत इति व्याख्यातम् । इदानीं स्वीयलोकशब्देन साक्षिणा दृश्यं सर्वं स्वयमाह -
अहङ्कर्तृत्व इत्यादिना ।

जन्य­फ­ल­क­ल्प­ना­धि­ष्ठा­न­त्वाय आत्मनि तद्विपरीताकारं दर्शयति -
नित्येति ।

कार­क­ल्प­ना­धि­ष्ठा­न­त्वाय विपरीताकारं दर्शयति -
मुक्तेति ।

लोक­व्य­व­हा­रा­ख्य­प्र­प­ञ्च­त­द­ज्ञा­न­यो­र­ध्य­स्त­त्वात् ब्रह्मा­त्म­ता­ख्य­वि­षयो बन्ध­नि­वृ­त्ति­रू­प­प्र­यो­जनं चोपपद्यत इत्याह -
अतस्तादृगिति ।
ब्रह्मात्मानुभव इत्यनेन विषयस्योपादानं द्रष्टव्यम् ।

विष­य­प्र­यो­ज­न­यो­रु­प­पत्तेः शास्त्रा­र­म्भ­क­र्त­व्यता सिद्धेत्याह -
तदर्थविषयेति ।
स एव अर्थः प्रयोजनं विषयश्च यस्य वेदा­न्त­मी­मां­स­र­म्भस्य सः तद­र्थ­वि­ष­य­वे­दा­न्त­मी­मां­सा­रम्भ इति योजना ।

बन्ध­स्या­ध्य­स्त­त्वात् सूत्रिते विषयप्रयोजने सम्भवत इति अध्यासं सिद्ध­व­द्धे­तु­त्वे­नो­पो­दत्ते पूर्वभाष्यम् । उत्तरभाष्यं तु सर्व­लो­क­प्र­त्यक्ष इत्यन्तम् अध्यासं साधयतीत्याह –
कोऽयमिति ।

अध्यासाख्यै­का­र्थ­सि­द्धि­प­रत्वे भाष्य­भे­द­प्र­सिद्धिः न स्यादि­त्या­शङ्क्य अवा­न्त­र­ता­त्प­र्येण लक्ष­ण­स­म्भा­व­ना­प्र­मा­ण­त्र­य­वि­ष­य­त्वात् भाष्यभेद इत्याह –
तत्रापीति ।

कोऽयमिति भाष्ये तन्त्रे­णो­क्ता­क्षे­प­प्र­श्न­प­रि­हा­र­त्वेन एकराशित्वात् लक्ष­ण­स­म्भा­व­ना­भा­ष्य­द्व­यस्य सहोपादानम् -
यद्येवमिति ।
अध्या­सोऽ­स्त्ये­वेति सद्भा­व­नि­र्ण­य­रू­प­प्र­मा­ण­मु­च्यते चेदित्यर्थः ।

तद्रूपः तत्स­म्भा­व­नो­प­न्यासो न कर्तव्य इत्युक्ते अध्यासो नास्तीति भ्रमनिरासाय प्रमाणोक्तिवत् न सम्भवति, सङ्कीर्णमिति भ्रमद्वयनिरासाय लक्षणसम्भावने वक्तव्ये इत्याशङ्कायां सत्यां प्रमाणोक्त्या उक्तिसिद्धेः प्रमाणात् पृथङ्नवक्तव्ये इत्याह -
पृथगिति ।

प्रमाणस्यास्ति सम्भवति व्यावृत्तमिति चाका­र­त्र­य­व­त्वा­भा­वा­देव तद्भ्र­म­नि­व­र्त­क­त्वा­स­म्भ­वात् पृथग्वक्तव्य इत्याशङ्क्य आका­र­त्र­य­व­त्वा­भावे अभिप्रमितेऽर्थे सङ्कीर्णं न सम्भवति चेति भ्रम­प्रा­प्त्य­भा­वात् न वक्तव्य इत्याह -
न ह्यनिर्ज्ञातेति ।

अनुमानसिद्धे परमाण्वादौ लक्ष­णा­द्य­पे­क्षा­स्ती­त्या­शङ्क्य प्रत्यक्षसिद्धे नापेक्षेत्याह –
दुःसम्पादमिति ।

विशेषत इति ।
असाधारणाकारेण व्यावृ­त्त­त­ये­त्यर्थः ।

प्रद­र्श­न­मा­त्रे­णेति
प्रमा­तृ­त्वा­दि­व्य­व­हा­र­काले आत्मनो देहा­दि­ष्व­हं­म­मा­भि­मा­नोऽ­स्त्ये­वेति प्रदर्शनमात्रेण तदा­स्या­भि­मा­न­स्या­नि­र्व­च­नी­य­स्या­ध्या­सत्वं न सिद्ध्य­ती­त्यर्थः । ।

अभि­मा­न­स्यै­वा­ध्या­सा­त्म­क­त्वा­द­भि­मा­नोऽ­स्तीति साधकेन प्रमा­णे­ना­ध्या­सा­त्म­कत्वं सिद्ध्यतीति चोदयति -
तत्कस्य हेतोरिति ।
कस्मा­द्धे­तो­रि­त्यर्थः

प्रमाणे सति किमिति मिथ्या­त्वा­नु­भ­वा­भाव इति, प्रमा­णा­न्त­रा­धी­न­त्वा­दि­त्याह -
बाधे हीति ।
प्रत्य­क्षा­द­य­स्त्वा­त्मनि अनात्मावभासे प्रमाणमिति भावः ।

अन्य­स्या­न्या­त्म­ता­व­भा­सोऽ­स्तीति निश्चयस्य बाध­नि­मि­त्त­वि­वे­का­धी­न­त्वा­द्बा­धोऽ­प्य­स्तीति तत्राह -
नेह स इति ।
यौक्ति­क­प­रो­क्ष­बा­धेऽपि भ्रम­नि­व­र्त­का­प­रो­क्ष­बाधो नास्तीति भावः ।

तर्हि अप­रो­क्ष­भ्र­म­बा­धाय अप­रो­क्ष(भ्र­म)बा­ध­क­ज्ञा­न­मेव सम्पादनीयं किमिति लक्ष­णो­क्ति­रि­त्या­शङ्क्य प्रसि­द्धा­ध्या­सस्य लक्षणमभिधाय तल्ल­क्ष­ण­व्या­प्त­मि­द­मि­त्यु­क्तेऽपि अध्या­सा­त्म­क­त्वा­ख्य­मि­थ्यात्वं स्पष्टं भवति इति मत्वाऽऽह –
तस्मादिति ।

सद्भावः कथनीय इति
प्रमाणोक्त्या सद्भावः कथनीय इत्यर्थः । ।

निव­र्त्य­भ्र­म­स­द्भा­वात् सम्भावना वाच्ये­त्या­शङ्क्य भ्रमप्राप्तिरेव नास्तीत्याह -
न हि यत्र यस्येति ।

यत्र यस्य सद्भावः प्रतिपन्नः तत्र तस्यासम्भावनाशङ्का नास्तीत्युक्ते दर्प­ण­प्र­ति­प­न्न­मु­खस्य तत्रासम्भावना दृश्यत इत्याशङ्कायाम्, तद्व्यावर्तयति -
प्रमाणत इति ।

एवमुक्ते आत्म­न्य­नु­मा­ना­दि­प्र­मा­ण­सि­द्धा­वि­द्यायां व्यभिचारे तमपनुदति -
तत्रैवेति ।
अविद्याया न केव­ल­मा­त्म­न्ये­वा­स­म्भा­वना, किन्तु जडे चासम्भावनेति भावः ।

काचो­पा­धि­स­न्नि­ध्यु­पा­धि­सं­श्ले­ष­दू­र­त्वा­ख्य­दो­ष­च­तु­ष्ट­य­हीनं भ्रमकार्येण कल्प्या­दृ­ष्ट­दो­ष­हीनं च ज्ञानं निरूप्यमाणे प्रमाणम्, तस्मिन् प्रति­प­न्न­स्या­स­म्भा­वना नास्ति । काचाद्यभावेऽपि कल्प्योऽ­दृ­ष्ट­दोष इति । वृत्ति­प्र­ति­भा­सतः प्रमाणज्ञाने प्रति­प­न्न­स्या­स­म्भा­वना स्यादित्याह –
सत्यमिति ।

रूप्यज्ञाने झटिति बाधया गम्यकाचादिवत् सुषिरज्ञानस्य कारणदोषो नास्तीत्याह -
अनुपलभ्यमानेति ।

दर्पणसंस्थं मुखमिति ज्ञाने दर्प­णो­पा­धे­र­न्व­य­व्य­ति­रे­का­नु­स­न्धा­नेन गम्यो­पा­धि­सं­नि­धि­दो­ष­वत् सुषि­र­ज्ञा­न­स्या­प्यु­पा­धि­स­न्नि­धि­दोषो नास्तीत्याह –
अन्वि­च्छ­द्भि­र­पीति ।

ह्रस्वो वर्ण इति भ्रमे उपा­धि­भू­त­ध्व­नि­स­म्ब­न्ध­व्य­ति­रे­केण केव­ल­व­र्णो­प­ल­ब्ध्य­भा­वा­दे­वो­पा­धे­र्व­र्णा­द्य­ति­रे­का­नु­स­न्धा­ना­योगो ध्वन्य­न्त­र­स­म्बन्धे दीर्घो भवति, ततोऽ­न्य­ध्व­नि­स­म्बन्धे ह्रस्वो भवति इति उपा­धि­व्य­भि­चा­रा­नु­स­न्धा­नेन गम्यो­पा­धि­सं­श्ले­ष­दोषो नास्तीत्याह –
यत्ने­ना­न्वि­च्छ­द्भि­र­पीति ।

पर्व­ता­ग्र­स्थ­वृ­क्षा­ल्प­त्व­भ्रमे पर्वतारोहणेन गम्यं दूरत्वादिदोषमाह –
पूर्ववृत्तेनेति ।

पूर्व­र­ज­त­ज्ञा­नस्य उत्त­र­शु­क्ति­ज्ञा­न­वि­ष­य­शु­क्ता­व­स­म्भा­व­ना­हे­तु­त्वम्, न दृश्यत इत्याशङ्क्य ततो विशिनष्टि -
प्रवृत्तेनेति ।
प्रवाहरूपेण प्रवृ­त्ते­ने­त्यर्थः

पूर्व­प्र­वृ­त्त­द­र्प­णस्थं मुखमिति ज्ञानम् उत्तरग्रीवास्थं मुखमिति ज्ञान­वि­ष­ये­ना­स­म्भा­व­ना­हे­तु­रि­त्या­शङ्क्य विशिनष्टि -
सक­ल­लो­क­व्या­पि­नेति ।

ह्रस्वोऽकार इति ज्ञानेन स एवायमकार इति ज्ञान­वि­ष­य­स­र्व­ग­त­त्व­नि­त्य­त्वयोः नास­म्भा­व­ने­त्या­शङ्क्य विशिनष्टि -
निश्चितेनेति ।

सवितरि सुषिरप्रतिभासः कस्य­चि­दे­वा­ल्पा­युषः पुरुषस्य भवतीत्यतः सर्व­ज­न­प्र­सि­द्धो­दा­ह­र­ण­माह -
यथा वा माहेन्द्रेति ।
निगरणस्य झटिति बाधात् प्रतिभासतः प्रमाणविषयत्वं नास्तीति नाशङ्का, प्रसि­द्ध­नि­ग­र­ण­स्यापि क्षणिकत्वात् सद्यो नाशो भवति, तद्वदत्रापि सद्यो नाश एवेति झटिति बाधाभावात् । अविषय इति शुक्ति­व­दा­रो­प्येण सहैकज्ञानाविषय इत्यर्थः ।

असङ्ग इति ।
आत्मातिरिक्तस्य कृत्स्न­स्या­ध्य­स्त­त्वात् आत्मन्येव दोषानुषङ्गो वक्तव्यः, सोऽपि नास्तीत्यर्थः ।

आरोप्येण गुणा­व­य­व­सा­दृ­श्य­म­धि­ष्ठा­नस्य वक्तव्यम् , तच्च नास्तीत्याह -
केनचिदपि गुणदिनेति ।

अध्यास विरो­ध्य­धि­ष्ठा­न­या­था­त्म्या­व­भा­सोऽ­प्या­त्मनि विद्यत इत्याह –
निष्क­ल­ङ्क­चै­त­न्य­त­येति ।

शुक्ति­त­त्त्व­वि­ष­य­वृ­त्ते­र­ध्या­स­वि­रो­धि­त्वा­दत्र अहं ब्रह्मा­स्मी­त्या­त्म­त­त्व­वि­ष­य­बु­द्धि­वृ­त्त्य­भा­वा­द­ध्या­सोऽ­स्ती­त्या­शङ्क्य तत्रापि शुक्ति­बु­द्धि­प्र­ति­बि­म्बि­ता­ज­ड­बो­ध­स्यैव निवर्तकत्वात् बोधात्मनि नाह­ङ्का­रा­द्य­ध्यास इत्याह -
अन्य­ग­त­स्या­प्य­ध्या­स­स्येति ।

अध्यासावगम इति ।
अध्यासोऽस्तीति साध­क­प्र­मा­ण­मि­त्यर्थः ।

तदुच्यत इति ।
तत्त्रितयं लक्षणं सम्भावनाप्रमाणं क्रमेणोच्यत इत्यर्थः ।

किं वृत्तस्येति ।
हिर­ण्य­ग­र्भ­वा­चि­क­श­ब्देन निष्पन्नं क इति पदं न, किन्तु किं शब्द­नि­ष्प­न्न­मि­त्यर्थः ।

अनेकस्मिन्नर्थे प्रयोगदर्शनादेव यद्यपि तत्र शक्तिरस्ति, तथाप्येकस्मिन् प्रयोग एक एवार्थः स्यादि­त्या­शङ्क्य उभयमप्यत्र विवक्षितमित्याह -
उभयस्य चेति ।
पूर्वभाष्ये अध्यास इत्युक्ते सामान्यज्ञानात् प्रश्नः सम्भवति । आत्मा­ना­त्म­नो­र­ध्यास इत्युक्ते विशे­ष­ज्ञा­ना­दा­क्षेपः सम्भवतीत्यर्थः ।

उभयमत्र विवक्षितं भवतु, तथाप्येकस्य वाक्य­स्या­र्थ­द्वये तात्पर्यं नास्ती­त्या­श­ङ्क्यात्र वाक्य­द्व­य­म­र्थ­द्व­य­प­र­तया तन्त्रे­णो­च्च­रि­त­मि­त्याह –
तन्त्रेणेति ।

परिहारोऽपि किं तन्त्रेण क्रियत इति, नेत्याह –
तत्रापीति ।

यद्यपि आक्षे­प­स्या­ध्या­स­स्व­रू­पा­प­हा­र­क­त्वेन प्रबलत्वात् प्रथममाक्षेपः परिहार्यः । तथापि स्वरू­पा­प­रि­ज्ञाने आक्षे­प­स्या­नु­द­यात् स्वरूपं प्रथ­म­मा­ख्ये­य­मि­त्याह –
स्वरू­प­मा­ख्या­येति ।

इहेति ।
आत्मनीत्यर्थः ।

आहेति परोक्तिः किम­र्थे­त्या­श­ङ्क्या­प­रो­क्ष्य­प­र्य­न्त­त्वेन च प्रतिपादनीये ब्रह्मात्मविषये सुख­प्र­ति­बो­ध­नार्थं वादकथा प्रवर्त्यत इति प्रद­र्श­यि­तु­मि­त्याह –
तत्रैवमिति ।
तेन कृत­म­भि­प्रा­य­मा­क्षे­प­रू­प­मपि प्रश्नरूपमेवेति मत्वा प्रत्युक्तम्, पुनः पूर्व­वा­द्ये­वा­क्षे­प­रू­पेण विवृणोति इति पूर्व­वा­दि­मु­खे­ना­क्षेपं कथं पुन­रि­त्या­दि­ना­व­तार्य प्रतिविधानं प्रतिपद्यन्त इति योजना ।

स्वरू­प­ज्ञा­ना­भा­वा­द­न­व­स­र­दुःस्थोऽयमाक्षेप इत्युक्ते पूर्ववादी स्वात्म­नोऽ­प्रा­प्त­का­रित्वं बुद्ध्‍वा कुण्ठितमतिः प्रश्न­प­रि­हा­र­म­प्य­व­गन्तुं न शक्नोतीति तथा नोक्तमिति मत्वा आह -
तेनेत्यारभ्य प्रत्यु­क्त­मि­त्य­न्तेन ।

आह कोऽयमित्यस्मिन् भाष्ये आक्षेपस्य कृत­त्वा­दु­त्त­र­स्मि­न्ना­क्षेपो न कार्य इत्याशङ्क्य - ‘सत्यम्, पूर्वभाष्ये कृत आक्षेपः सम्भा­व­ना­भा­ष्ये­णा­व­ता­र्यते केवलमित्याह –
आक्षे­प­म­व­ता­र्येति ।

यदु­क्त­मि­त्य­नु­वा­द­रू­पेण किमिति नावतार्यत इत्याशङ्क्य आक्षेपमनूद्य परिहारोक्तौ मया प्रश्नाक्षेपौ सह कृतौ तद्विदित्वैव दुर्ब­ल­प्र­श्न­प­रि­हारं पूर्वं कृत्वा प्रबलमेवाक्षेपं पश्चात् परिहरति । अत आक्षेपस्य प्रथ­म­प्रा­प्त्य­भा­वेऽपि अज्ञानिना मया कृतोऽप्राप्त इति पूर्ववादी बुद्ध्‍वा वक्तुं कृत­म­ति­रा­क्षे­प­प­रि­हा­र­म­व­गन्तुं न शक्नोतीति नानुवादः कृतः इत्यभिप्रायेणाह –
पुनरसाविति ।

यद्यपि जल्पादिषु परो­क्ति­र्वि­द्यते तथा­प्य­र्थ­नि­र्ण­याय प्रवृत्ते ग्रन्थसन्निवेशे परो­क्ति­र्वा­द­क­था­त्व­सू­चि­केति व्याख्ये­य­मि­त्याह -
सर्वत्रैवंविध इति ।

लक्षणभाष्ये लक्ष्या­भि­धा­यि­प­दा­भा­वात् साका­ङ्क्ष­त्वे­ना­न­र्थ­क्य­मा­शङ्क्य वाक्यं पूरयति -
प्रश्न­वा­क्य­स्थि­त­मिति ।

सर्वथापि त्विति भाष्ये परस्य परा­त्म­ता­व­भा­सोऽ­ध्यास इति वक्ष्यति, तत्र कथमेकेनैव परशब्देन लक्षणं पूर्यत इति तत्राह -
तत्र परत्रेति ।

ज्ञानाध्यासस्य लक्षणकथनपरत्वं स्वयमेव भाष्यस्य प्रतीयत इति मत्वा अर्थाध्यासस्य लक्षणकथनपरत्वं दर्शयति -
अवभासमानतेति कर्म­व्यु­त्प­त्ति­प्र­द­र्श­नेन ।

तस्येति ।
अव­भा­स­मा­न­प­र­स्ये­त्यर्थः ।

विशे­ष­ण­त्वे­ना­न्व­य­सि­द्धये स्मृति­श­ब्द­स्यापि कर्म­व्यु­त्प­त्ति­माह -
स्मर्यत इति ।

`अकर्तरि च कारके संज्ञायाम्' इति सूत्रेण कर्तृ­व्य­ति­रि­क्त­का­रके संज्ञायां घञादेर्विधानात् अत्र संज्ञा­या­म­ग­म्य­मा­नायां क्तिन्प्र­त्य­या­न्त­स्मृ­ति­श­ब्दस्य कथं कर्मपरतया व्युत्पा­द­न­मि­त्या­शङ्क्य चका­रा­द­सं­ज्ञा­या­मपि प्रयोगो भवे­दि­त्यु­क्त­मिति मत्वा आह –
असंज्ञायामपीति ।

रूपशब्दः किम­र्थ­मि­त्या­शङ्क्य स्मर्यमाणे वस्तुनि उपमासमासार्थ इत्याह -
स्मर्य­मा­ण­रू­प­मि­वेति ।

ननु स्मर्यत एव रजतं न स्मर्य­मा­ण­स­दृ­श­मिति, नेत्याह -
न पुनः स्मर्यत एवेति ।

स्पष्ट­म­व­भा­स­ना­दिति ।
अपरोक्षतया संस­र्ग­ज्ञा­ना­धी­न­प्र­वृ­त्ति­हे­तु­तया चाव­भा­स­ना­दि­त्यर्थः ।

पुरोऽ­व­स्थि­त­त्वा­व­भा­स­ना­दिति ।
इन्द्रि­य­स­म्प्र­यो­ग­ज­न्य­ज्ञा­नेन पुरो­व­र्ती­द­मं­श­सं­सृ­ष्ट­त­या­व­भा­स­ना­दि­त्यर्थः ।

ज्ञानमिति ।

पूर्वा­नु­भ­व­वि­शि­ष्ट­त्वे­ना­प्र­तीतेः न स्मर्यमाणरूप्य­मि­त्य­नु­भू­ता­र्थ­स्यैव प्रतीतेः स्मर्य­मा­ण­स­दृ­श­मे­वे­त्यु­प­प­त्ति­परं भाष्यमित्याह –
पूर्वदृष्टेति ।
पूर्व­दृ­ष्ट­स्यै­वा­व­भासः, न तु दर्श­न­स्ये­त्यर्थः ।

पूर्व­दृ­ष्ट­र­ज­तस्य भ्रान्तौ प्रती­ति­र­न्य­था­ख्या­ति­पक्षे नानि­र्व­च­नी­य­पक्षे, तत्र पूर्वदृष्टावभास इति कथमुच्यते इत्याशङ्क्य पूर्वदृष्टस्य रजतस्यैव न भ्रान्तौ प्रतीतिरुच्यते, किन्तु पूर्वं रज­त­द्र­ष्टु­स्त­त्सं­स्का­र­ज­न्य­तया भ्रान्तौ रज­त­प्र­ती­ति­र्ने­त­र­स्येति विवक्षितमित्याह -
न हि पूर्वमिति ।

ज्ञानस्य स्मृतित्वात् , पूर्वा­नु­भ­व­वि­शि­ष्ट­तया बोधकत्वे वक्तव्ये अर्थस्यापि तद्विशिष्टतया बोध्यत्वेन स्मर्यमाणत्वमेव स्यादि­त्या­श­ङ्क्याह -
यत इति ।
ज्ञानस्यापि संस्कारजन्यतया स्मृति­स­दृ­श­त्व­मेव लक्षणमिति यतोऽतः पूर्वा­नु­भ­व­वि­शि­ष्ट­तया बोध­क­त्वा­भा­वा­द­र्थ­स्यापि तद्विशिष्टतया बोध्यत्वाभावात् संस्कारजत्वेन स्मर्य­मा­ण­स­दृ­श­त्व­मेव लक्षणमित्यर्थः ।

अर्थादिति ।
भाष्य­वा­क्य­सा­म­र्थ्या­दि­त्यर्थः ।

पर­त्रा­व­भा­स्य­मानः परः स्मर्यमाणसदृश इति स्मृति­रू­प­श­ब्दस्य पूर्व­म­र्था­ध्या­स­ल­क्ष­ण­प­र­तया व्युत्पत्तिः कृता, अतो न ज्ञाना­ध्या­स­ल­क्ष­ण­प­र­त्व­मिति चोदयति -
कथमिति ।

संस्का­र­ज­न्य­त्वात् स्मृतिरेवेति तत्राह -
न पुनरिति ।
पूर्व­प्र­मा­ण­वि­ष­य­वि­शेष इति रूप्य­व्य­क्ति­रु­च्यते, व्यक्ते­र­न­व­भा­स­क­त्वात् रूप्यज्ञानं न स्मृतिरित्यर्थः ।

तथा­न­व­भा­स­क­त्वा­दिति ।
परो­क्ष­दे­श­का­ल­वि­शि­ष्ट­त्वेन साक्षात् स्मृतिवत् अन­व­भा­स­क­त्वा­दि­त्यर्थः ।

कथं पुनः स्मृति­रू­प­त्व­मिति ।
स्मृतिसदृशत्वं पुनः कथमित्यर्थः । पूर्वप्रमाणमेव स्मृति­रू­प­त्व­मा­स्था­या­र्थ­प्र­का­शकं, तस्य स्मृति­रू­प­त्व­प्राप्तौ द्वार­त­या­व­ति­ष्ठते संस्कारः, तस्मात् पूर्व­प्र­मा­ण­द्वा­र­मिति संस्कार उच्यते, संस्का­र­ज­न्य­त्वात् स्मृति­स­दृ­श­त्व­मि­त्यर्थः ।

स्मृतित्वाभावे संस्का­र­ज­न्य­त्व­मपि न स्यादि­त्या­शङ्क्य सम्प्र­यो­ग­ज­ज्ञा­ना­द­न्येषां संस्का­र­ज­न्य­त्व­म­स्ती­त्याह -
न ह्यस­म्प्र­यु­क्ता­व­भा­सिन इति ।

पूर्व­प्र­मा­ण­द्वा­र­स­मु­त्थ­त्व­म­न्त­रे­णा­व­भा­सिनो न सम्भव इत्येतावदुक्तौ निर्वि­क­ल्प­क­ज्ञा­न­सं­स्का­रस्य ज्ञानजनकत्वं नास्ति, कथ­म­नु­द्भ­व­सं­स्का­रेण विना ज्ञानानामिति शङ्का स्यात् , तद्व्यावर्तयति -
प्रवृत्तेति ।
प्रवा­ह­रू­पे­णा­नृ­ते­ने­त्यर्थः

एवमुक्ते शुक्तिज्ञानस्य पूर्व­प्र­वृ­त्त­र­ज­त­ज्ञा­न­सं­स्का­र­ज­न्यत्वं प्राप्तं व्युदस्यति -
तद्विषयेति ।

एवमुक्तौ धारा­वा­हि­को­त्त­र­ज्ञाने अनैकान्तिकमिति, नेत्याह -
अस­म्प्र­यु­क्ता­व­भा­सिन इति ।

अपर इति
अख्या­ति­वा­दी­त्यर्थः

विप्रतिपन्नं रूप्यज्ञानं स्मृति­र्भ­वि­तु­म­र्हति, अन्य­स­म्प्र­युक्ते चक्षुषि समनन्तरमेव संस्का­र­ज­न्या­न्य­वि­ष­य­ज्ञा­न­त्वात् प्रसि­द्ध­ग­वा­दि­स्मृ­ति­व­दि­त्य­नु­मा­न­माह –
नन्व­न्य­स­म्प्र­यु­क्तेति ।

रूप्यज्ञानं स्मृतिर्न भवति, स्मर­णा­भि­मा­न­शू­न्य­त्वात् ग्रह­ण­व­दि­त्य­नु­मिते हेत्व­सि­द्धि­प­रि­हा­राय रजतज्ञानं स्मर­णा­भि­मा­न­शून्यं स्मरणाभिमानवत्वे गृह्यमाणात् , स्वार्थ­वि­वे­च­क­त्व­प्र­स­ङ्गात् , सम्प्र­ति­प­न्न­स्मृ­ति­व­दिति चानुमिते अप्र­मु­षि­त­स्म­र­णा­भि­मा­नत्वं विवेचकत्वे प्रयोजकं न तु स्मर­णा­भि­मा­न­व­त्वम् । इह तु प्रमो­षा­द­वि­वे­च­क­त्व­मि­त्याह –
प्रमोषस्त्विति ।

संस्कारात् भ्रमो­त्प­त्ति­श्चेत् सदा सर्व­सं­स्का­र­स­द्भा­वात् सदा सर्वभ्रमः स्यादि­त्या­शङ्क्य उद्बु­द्ध­सं­स्कारः कारणम्, उद्बोधश्च संस्का­र­वि­शे­ष­स्यै­वे­त्याह –
इन्द्रि­या­दी­ना­मिति ।

स्मर्यत अनेनेति व्युत्पत्त्या स्मृतिरिति संस्कार उच्यते । शुक्ती­द­मं­श­रू­प्ययोः अवि­ना­भा­वा­दि­स­म्ब­न्धा­भा­वात् इदमंशदर्शनेन संस्कारोद्बोधो न सम्भ­व­ती­त्या­शङ्क्य दोषः संस्कारोद्बोधक इत्याह -
इन्द्रि­य­दो­षे­णा­र्थस्य स्मृतिसमुद्बोधः क्रियत इति ।

इन्द्रि­य­त्व­ग­त­दो­षस्य अन्तः­क­र­ण­ग­त­सं­स्का­रेण सम्ब­न्धा­भा­वा­न्नो­द्बो­ध­क­त्व­मि­त्या­शङ्क्य इन्द्रि­या­दी­ना­मि­त्यत्र आदि­श­ब्दो­पा­त्त­वि­ष­य­ग­त­सा­दृ­श्य­दो­ष­वि­शे­षेण रूप्य­प्र­ति­यो­गि­क­त्वेन रूप्य­सं­स्का­र­स­म्ब­न्धिना सहितेन्द्रियदोष उद्बोधक इत्याह -
आदि­ग­त­दो­ष­वि­शे­ष­णा­र्थ­वि­शे­षस्य स्मृतिसमुद्बोधः क्रियत इति ।

सादृ­श्य­दो­ष­स­हि­ते­न्द्रि­य­दोषः संस्का­रो­द्बो­ध­क­श्चेत् शुक्ति­स­दृ­श­शु­क्त्य­न्त­र­सं­स्का­रो­द्बो­धकः स्यात् , इत्याशङ्क्य इन्द्रि­या­दी­ना­मि­त्यत्र बहुवचनेन निर्दि­ष्ट­प्र­मा­तृ­ग­त­रा­ग­दो­षोऽपि नियामक इत्याह -
इन्द्रियादीनां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषणस्य स्मृतिसमुद्बोधः क्रियत इति ।

रागदोषस्य सुव­र्ण­सं­स्का­रो­द्बो­ध­कत्वं स्यादि­त्या­शङ्क्य सादृ­श्य­दो­ष­सा­हि­त्यात् रज­त­सं­स्का­र­मे­वो­द्बो­ध­य­ती­त्याह –
कस्य­चि­दे­वे­त्य­व­धा­र­णेन ।

ज्ञान­का­र­ण­ग­त­दो­ष­वत् ज्ञानं संस्कारस्यापि उद्बोधकं भवति इति मत्वाह –
ज्ञान­का­र­णा­ना­मिति ।

इद­मं­श­वि­ष­य­ग्र­ह­णस्य स्वार्थ­वि­वे­च­कत्वे कारणमाह -
सम्प्रयुक्तस्य चेति ।

विहन्यत इति ।
चक्षुषो विशेषबोधनशक्तिः प्रतिबध्यत इत्यर्थः ।

संस­र्ग­व्य­व­हा­र­हे­तु­त्वेन संस­र्ग­ज्ञा­ना­पे­क्षे­त्या­शङ्क्य निर­न्त­रो­त्प­त्ति­रेव हेतुरित्याह –
तेनेति ।

घट­प­ट­ज्ञा­न­यो­र्नि­र­न्त­रो­त्प­न्न­यो­र्घटे एव पट इति सामा­ना­धि­क­र­ण्य­व्य­व­हा­र­हे­तु­त्वा­भा­व­व­दि­हापि न स्यादि­त्या­शङ्क्य विशेषमाह -
करणदोषादेव विवे­का­न­व­धा­र­णा­दिति ।

इदं रजतमित्यभादिति संसर्गप्रत्ययः प्रत्यभिज्ञायत इति, नेत्याह –
दूरस्थयोरिवेति ।

उत्पन्नभ्रम इति ।
व्यव­हा­र­मा­त्र­मि­त्यर्थः ।

बालकस्य तिक्तावभासो नास्ती­त्या­शङ्क्य थूत्का­रा­दि­प्र­वृ­त्ति­भि­र्नि­श्चि­त­पि­त्त­दो­षा­द­व­भासः कल्प्यत इत्याह –
पित्तदोषादिति ।

जन्ममरणवेदनया संस्कारस्य नष्टत्वात् जन्मा­न्त­री­य­सं­स्का­रात् स्मृतिर्न सम्भवतीत्यत्राह –
अन्यथेति ।

जन्मा­न्त­रा­नु­भूतं सर्वं किमिति न स्मर्यत इति, दोषबलादित्याह -
तस्मात् पित्तमेव हेतुरिति ।
इतरस्मृतिं विहाय तिक्तस्यैव स्मर­ण­हे­तु­रि­त्यर्थः

पित्तसद्भावे गमकमाह -
मधुराग्रहण इति ।
मधुराग्रहणेऽपि प्रमाणं थूत्कार एवेति बहिरेव द्रष्टव्यम् ।

दोषस्य किमिति सर्वा­स्मा­र­क­त्व­मिति तत्राह –
कार्य­ग­म्य­त्वा­दिति ।

अतत्वे तत्त्व­ज्ञा­न­मि­त्य­ख्या­ति­वा­दि­नापि संसर्गज्ञानं भ्रम­त्वे­नो­क्त­मिति, नेत्याह –
एतेनेति ।

कोऽयं स्मरणाभिमानो नाम, स्मृतेरन्योऽनन्यो वेति विकल्प्य केनापि प्रकारेण न सम्भवतीति आक्षिपति, अथवा किं स्मरणेनाभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मार्यगतः कश्चित् स्मरणाभिमान इत्युच्यते । किं वा स्मरणेऽभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मृतिगतविशेषः कश्चित् , उत स्मरा­मी­त्य­भि­म­ननं स्मरणाभिमान इति स्मृते­र्ज्ञा­ना­न्त­र­स­म्भेद इति पृच्छति । स्मार्यगतविशेषः स्मरणाभिमान इति पक्षमनूद्य निषेधति -
न तावत् ज्ञाना­नु­वि­द्ध­त­येति ।
अयमर्थः, ज्ञाना­नु­वि­द्ध­तया ग्रहणमित्यनेन स्मार्यगतविशेषं वदता ज्ञाप्तिर्ज्ञा(प ? )नमिति व्युत्पत्त्या स्मर्यमाणे पूर्वा­नु­भ­व­स­म्भेद उच्यते, किं वा ज्ञायत इति व्युत्पत्त्या पूर्वा­नु­भू­त­व्य­क्ति­स­म्भेद उच्यते, अथवा ज्ञायते अस्मिन्निति व्युत्पत्त्या पूर्वा­नु­भ­व­वि­ष­या­व­च्छे­द­क­दे­श­का­ला­न्त­र­स­म्भेद इति विकल्प्य न तावत् देश­का­ल­व्य­क्ति­स­म्भेदः स्मरणाभिमानतया विवेचकः, सोऽयमिति भ्रम­वि­वे­च­क­त्वा­भा­वात् । पूर्वा­नु­भ­व­स­म्भे­दस्तु स्वयमेव स्मार्ये नास्तीति ।

न ह्यति­वृ­त्त­स्येति ।
स्मृति­हे­तु­सं­स्का­रा­धा­य­क­पू­र्व­ज्ञा­नस्य स्वविषयेण सह स्वात्मानं प्रति विषयत्वं नास्ति, अतो न स्मृति­वि­ष­य­त्व­मि­त्यर्थः ।

शुद्धमेवेति ।
स्वहे­तु­पू­र्वा­नु­भ­व­स­म्भे­द­र­हि­त­मे­वे­त्यर्थः ।

पूर्वा­नु­भ­व­नि­मि­त्त­व्य­व­हृ­तत्वं स्मृतिविषयत्वे प्रयोजकं न तु पूर्व­ज्ञा­न­क­र्म­त्वम् । अतः पूर्व­ज्ञा­न­ज्ञे­ययोः सह पूर्वज्ञानेनैव व्यवहृतत्वात् पूर्व­ज्ञा­न­स्यापि अर्थात् स्मृतिविषयत्वं स्यादि­त्या­शङ्क्य, पूर्व­ज्ञा­न­नि­मि­त्त­व्य­व­हृ­तत्वं न स्मृतिविषयत्वे प्रयोजकम् , आत्मनि व्यभिचारात् । आत्मा हि स्मृत्याश्रयतया अप­रो­क्षोऽ­व­भा­सते, अतः पूर्वा­नु­भ­व­क­र्म­त्व­मेव स्मृतिविषयत्वे प्रयोजकमिति मत्वा आह -
न ज्ञाना­नु­वि­द्ध­मिति ।

अर्थ­ज्ञा­न­स­म­न­न्त­रम् अर्थ­नि­ष्ठ­प्रा­क­ट्य­लि­ङ्गेन ज्ञातोऽर्थ इति अनुमानज्ञानं ज्ञान­स­म्भि­न्ना­र्थ­वि­षयं जायते । तज्जन्या स्मृतिरपि ज्ञान­स­म्भि­न्ना­र्थ­वि­षया जायते, नार्थ­मा­त्र­वि­ष­ये­त्या­शङ्क्य स्मृतिः न ज्ञान­स­म्भि­न्ना­र्थ­वि­षया, किन्तु केवलार्थविषयेति निर्ण­य­सि­द्ध्यर्थं केव­ला­र्थ­वि­ष­य­स्मृ­ति­मु­दा­ह­रति -
तथा च पदादिति ।
उत्तमवृद्धेन क्रमेण उच्चा­र्य­मा­ण­प­दा­दि­त्यर्थः ।

गवा यजेतेत्युक्ते पूर्वा­नु­भ­व­वि­शि­ष्ट­गो­रेव शब्द­श­क्ति­वि­ष­य­तया सम्बन्धित्वेन प्रतिसम्बन्धिगोप­दो­प­ल­ब्धि­ज­न्य­स्मृ­ति­वि­ष­य­त्व­मस्ति, अन्वि­ता­भि­धा­न­वा­दि­ना­मि­त्यर्थः । स्मृति­र्नि­त्या­नु­मे­य­त्वात् प्रत्य­क्ष­सि­द्ध­वि­शे­षा­भा­वेऽपि स्मृत्य­नु­मा­प­क­लि­ङ्ग­ग­त­वि­शे­षात् स्मृति­ग­त­वि­शे­षोऽ­नु­मेयः स्यात् इत्याशङ्क्य लिङ्ग­ग­त­वि­शे­षा­स­म्भ­व­माह -
नापि ग्राह्य­वि­शे­ष­नि­मित्त इति ।
प्रमा­ण­ग्रा­ह्यात् स्मृति­ग्रा­ह्य­गतो यो विशेषः न तन्नि­मि­त्त­स्म­र­णा­भि­मा­ना­नु­मेय इत्यर्थः ।

प्रमा­ण­ग्रा­ह्य­स्यैव गृह्य­मा­ण­त्वा­दि­त्युक्ते ‘स घट’ इति स्मृतौ, ‘अयं घट’ इति प्रत्यक्षे प्रती­ता­यं­श­ब्दार्थो विकलः, स इति शब्दार्थोऽधिक इति न प्रमा­ण­ग्रा­ह्य­स्यैव स्मृति­वि­ष­य­त्व­मि­त्या­शङ्क्य अयंशब्दार्थो नाम देशकालौ, प्राकट्य स्वदे­श­का­ल­यो­रु­परि स्थिते­र­यं­श­ब्द­प्र­यो­ग­त­च्छ­ब्दा­र्था­वपि तावेव प्राकट्योपरि देशकालयोः स्थितेः परोक्षत्वेन तच्छब्दप्रयोग इत्य­र्थै­क्य­मे­वेति मत्वाह -
अवि­क­ला­न­धि­क­स्येति ।

फलनिमित्त इति ।
ग्रहणफलात् स्मृतिफले विशेषभावात् तन्नि­मि­त्त­स्म­र­णा­भि­मा­नोऽ­नु­मेय इति च वक्तुं न शक्यमित्यर्थः ।

विषयभेदाद्धि फलभेदः । अत्र स्मृति­प्र­मा­ण­यो­र्वि­ष­य­घ­टा­द्य­र्थ­स्यै­क­त्वात् तद­व­च्छि­न्न­फ­ल­स्या­प्ये­क­त्व­मि­त्याह –
प्रमाणफलेति ।
फलविषयेति फला­व­च्छे­द­के­त्यर्थः ।

’स्मृतेः तत् स्मरामि’ इति ज्ञाना­न्त­र­स­म्भेदः स्मरणाभिमान इति पक्षे तस्य क्वचित् कदाचित् भावादेव सर्व­स्मृ­ति­ष्व­न­न्व­यात् न स्मरणाभिमानतया विवे­च­क­त्व­मि­त्याह -
यः पुनरिति ।

क्वचिदिति
अत्यन्तप्रिये अत्य­न्त­वि­स्मा­पके अत्यन्तद्वेष्ये चेत्यर्थः । ।

कदाचिदिति ।
विस्मा­प­क­त्वा­द्यु­द्बो­ध­क­स­द्भावे इत्यर्थः ।

अन्योन्यं गृही­त­ग्र­ह­ण­ग्रा­ह्याच्च व्यावृत्ततया प्रति­प­न्न­स्मृ­ति­स्मा­र्य­स्म­र्तृभिः स्ववा­च­क­त­त्स्म­रा­मीति शब्दत्रयस्मृतौ स्मृत­श­ब्दो­ल्लि­खि­त­तया ‘तत् स्मरामि’ इति ज्ञानस्य पश्चादुत्पत्तेः न तस्य स्मरणाभिमानतया विवे­च­क­त्व­मि­त्याह -
यः पुनरिति ।

क्वचिदिति अतिदूषणान्तरमाह -
स वाच­क­श­ब्द­सं­यो­ज­ना­नि­मित्त इति ।

उप­ल­ब्ध­वा­च्य­स्व­रू­प­स्यैव स्वश­ब्द­स्मा­र­क­त्वम्, न तु व्यावृ­त्त­त­यो­प­ल­ब्ध­स्ये­त्या­शङ्क्य विशे­ष­श­ब्द­स्मा­र­क­त्वाय भेदोपलब्धिरपि अपेक्षितेत्याह -
यथा सास्नादीति ।
आकृतौ प्रतीतायामिति भावः ।

ग्रहणात् स्मरणस्य भेदको विशेषः संस्कारजन्यत्वं परो­क्ष­त­या­व­भा­सित्वं चेति त्वया वक्तुं न शक्यते, तस्य संस्का­र­ज­न्य­त्वस्य स्मृति­प्र­ति­प­त्ति­स­म­कालं प्रतिपन्नतया विवे­च­क­त्वा­यो­गात् न स्मर­णा­भि­मा­न­त्वम्, परो­क्ष­त­या­व­भा­सि­त्व­स्या­प्य­नु­मा­नेऽपि भावान्न स्मर­णा­भि­मा­न­त्व­मि­त्य­भि­प्रे­त्याह -
अन्य­था­ख्या­ति­वादी तस्मादिति ।

अवभासः ।
अवमतभासः परोक्षावभास इत्यर्थः ।

अधिकोंऽशः ।
ग्रहणाधिकोंऽश इत्यर्थः ।

यदुक्तं - विशेषवत्तया रूप्यज्ञानस्य स्मृति­त्व­म­स्त्वि­त्य­ख्याति शङ्कायामाह -
न चेहेति ।

किं मायेति ।

अन्य­था­ख्या­ति­रि­त्याह -
किन्त्वध्यास इति ।

अन्या­का­र­ज्ञा­न­म­न्या­ल­म्बनं वा वस्तुनो वस्त्व­न्त­रा­त्म­ना­व­भासो वा अन्य­था­ख्या­ति­रिति विकल्प्य प्रथमं दूषयति -
नन्वेवं सति वैपरीत्यमिति ।
रज­त­ज्ञा­न­ग­त­र­ज­ता­का­रस्य शुक्तिका बिम्ब­भू­ते­त्या­ल­म्ब­न­श­ब्द­स्यै­कोऽर्थः । रज­त­जा­त्या­का­र­ज्ञा­नस्य शुक्तिव्यक्तेः पर्य­व­सा­न­भू­मि­त्व­म­न्योऽर्थः । तदुभयं यथा­ज्ञा­न­म­र्थ­म­भ्यु­प­ग­च्छतां वैपरीत्यमापद्यत इति भावः ।

ज्ञानगताकारं प्रति बिम्बत्वं पर्य­व­सा­न­भू­मित्वं वा नालम्बनत्वम्, किन्तु ज्ञान­प्र­यु­क्त­व्य­व­हा­र­वि­ष­यत्वं तदालम्बनत्वमिति चोदयति -
ननु शुक्तेः स्वरूपेणापीति ।
अत्र शुक्तिधर्मिणो रजतज्ञानालम्बनं भवितुमर्हति, तज्ज्ञा­न­प्र­यु­क्त­व्य­व­हा­र­वि­ष­य­त्वात् , सम्प्र­ति­प­न्न­व­दि­त्य­नु­मा­न­मुक्तं द्रष्टव्यम् ।

द्रव्यज्ञानाद् द्रव्ये आदीयमाने गुणोऽप्यादीयते, तथापि न द्रव्यज्ञानस्य गुणालम्बनत्वं दृष्ट­मि­त्य­भि­प्रा­येण चोद्यमानो दृश्यवस्तुनो वस्त्व­न्त­रा­त्म­ना­व­भा­सोऽ­न्य­था­ख्या­ति­रिति पक्षं विकल्प्य दूषयति -
अथ तथा­रू­पा­व­भा­स­न­मिति ।
रूप्या­ख्य­व­स्त्व­न्त­रा­त्म­ना­व­भा­स­न­मि­त्यर्थः । तथारूपावभासनं शुक्तेः पारमार्थिकमुत नेत्यन्वयः ।

असतः ख्यात्ययोगात् सत्सं­वि­त्ति­वि­रो­ध­तोऽ­ना­श्वा­साच्च द्विती­य­वि­क­ल्पोऽ­नु­प­पन्न इति मत्वा आह -
आहो इति ।

विरो­धि­शु­क्त्या­त्म­त्व­ज्ञा­ना­द्बाध इत्याशङ्क्य इदं रजतमिति रज­ता­त्म­त्व­ज्ञाने शुक्त्या­त्म­त्वस्य यथा न बाधः तद्वदबाध इत्याह -
नेयं शुक्तिरिति ।

यथेति ।

अन्यथा परिणते वस्तुनि ज्ञान­म­न्य­था­ख्या­ति­रिति विकल्पमनूद्य दूषयति -
अथ शुक्तेरेवेति ।

विरो­धि­शु­क्त्या­त्म­त्व­ज्ञाने नेदं रजतमिति बाधः स्यादि­त्या­शङ्क्य क्षीरस्य दधिरूपपरिणामे पुन­र्वि­रो­धि­क्षी­रा­त्म­त्व­ज्ञानं यथा न भवति तथा विरो­धि­शु­क्त्या­त्म­त्व­ज्ञा­न­मपि न भवेदित्याह -
नापि क्षीरमिदमितीति ।

रजतस्य शुक्ति­प­रि­णा­मत्वं मायावादिना त्वया अङ्गी­कृ­त­मि­त्या­शङ्क्य अवि­द्या­वि­शि­ष्ट­शु­क्ति­प­रि­णा­म­त्वा­भ्यु­प­ग­मात् अविद्यापाये रूप्यं मत्प­क्षेऽ­प­ग­च्छति, त्वत्पक्षे तु शुक्ति­प­रि­णा­म­त्व­मे­वेति नापगच्छेदिति मत्वा आह –
क्षीरमिवेति ।

नालद्वारेण पद्मदलं प्रविष्टा जलबिन्दवः पद्मानां मुकुलीभावं जनयन्ति, आदित्यकिरणेन पीतत्वात् विरलभूतत्वात् बिन्दु­भि­र्द­लानां गाढ­ता­ल­क्ष­ण­वि­कासो भवति । पुनरपि दले अब्बि­न्दू­ना­म­नु­प्र­वे­शात् दलानां पीनत्वसत्वेन मुकुलता भवति । अतो विरो­धि­मु­कु­ल­प­रि­णा­मा­द्वि­का­स­वि­च्छेदः, नत्वा­दि­त्य­कि­र­णा­पा­या­दिति परिहारं हृदि­स्थ­म­नुक्त्वा परिणामे दूषणान्तरमाह -
तथा सतीति ।
मुकुलमेव विकसितं भवतीति प्रतीतिवत् शुक्ती रूप्यं भवतीति प्रतीतिः स्यादित्यर्थः ।

रजतस्य शुक्ति­प­रि­णा­मत्वं मा भूत् बुद्धिपरिणामत्वं स्यादि­त्य­न्य­था­ख्या­ति­वा­दि­वि­शेषः आत्मख्यातिवादी वा शङ्कते -
अथ पुनरिति ।

भिन्न­का­ल­त्वा­दिति ।
एक­का­ल­त्वा­भा­वा­दि­त्यर्थः ।

प्रती­त्य­न्त­र­ग­तो­त्पा­द­न­व्या­पा­रस्य रज­ता­न्त­रो­त्प­त्ता­वु­प­यु­क्त­त्वेऽपि बोधनव्यापारेण पूर्वरजतं प्रति बोधकमस्त्विति - नेत्याह –
प्रथ­म­प्र­त्य­य­व­दिति ।

पक्षान्तरं निराकृत्य अख्यातिवादी स्वप­क्ष­मु­प­सं­ह­रति -
तदेवमिति ।

दूष­ण­म­प्यु­क्त­म­नु­स्मा­र­य­त्य­न्य­था­ख्या­ति­वादी -
ननु स्मृतेरपीति ।
तन्त्रान्तरीयाः साङ्ख्या इत्यर्थः ।

का पुनर्गतिरिति वदता गत्य­न्त­रा­भा­वा­द­ख्या­ति­रेव समाश्रयणीयेति स्वपक्षे पर्यवसानं क्रियते उत सर्वतो निरुद्धः सद्गतिमेव पृच्छसीति विकल्प्य स्वपक्षे पर्यवसानं न कार्यमित्याह सिद्धान्ती -
उच्यत इत्यादिनासमु­त्प­न्न­मि­त्य­न्तेन ।

प्रश्नपक्षेऽपि गमनं गतिरिति व्युत्पत्त्या ज्ञानमुक्त्वा तदेकं किं वा द्वयमिति पृच्छ्यते । गम्यत इति गतिरिति व्युत्पत्त्या ज्ञानविषयस्य सत्य­त्व­म­स­त्यत्वं वेति पृच्छ्यते । गम्यत अनयेति गतिरिति व्युत्पत्त्या सामग्रीमुक्त्वा किं दोषः सामग्री उत सम्प्रयोगः यदि वा संस्कार इति पृच्छ्यत इति विकल्प्य साम­ग्री­प्र­श्नस्य परिहारमाह -
किन्त्वेकमेव संस्कारसहि­ता­दि­न्द्रि­या­दिति ।
एकमेवेति ज्ञानस्यैक्यं सामग्र्यैक्ये हेतुत्वेनोच्यत इति द्रष्टव्यम् ।

संस्कारजन्यत्वे इन्द्रि­य­ज­न्यत्वे द्वयजन्यत्वे च स्मृति­व­द्ग्र­ह­ण­वत् प्रत्यभिज्ञावत् सम्य­ग्ज्ञा­न­त्व­मेव स्यात् , कथं भ्रान्तित्वमिति चोदयति -
कथमेतदिति ।

दोषो­पे­ते­न्द्रि­य­सं­स्का­र­जा­त­त्वात् भ्रान्ति­त्व­मि­त्याह -
उच्यते, कारणदोष इति ।

दोषसद्भावे किं प्रमा­ण­मि­त्या­शङ्क्य शुक्तित्वादि विशे­ष­ज्ञा­न­ल­क्ष­ण­का­र्य­वि­शे­ष­ज­नक शक्तिप्रतिबन्धः कल्पक इत्याह -
कार्यविशेषे शक्तिं निरुन्धन्नेवेति ।

संस्का­र­वि­शे­षो­द्बो­धश्च स्वहेतुत्वेन दोषकल्पक इत्याह –
संस्का­र­वि­शे­ष­म­प्यु­द्बो­ध­य­तीति ।

दोषः प्राप्तकार्यस्य प्रतिबन्धकः स्यात् , कथं संस्कारोद्बोधकः स्यादिति तत्राह –
कार्य­ग­म्य­त्वा­दिति ।

संवलितेति ।
संव­ल­न­रू­पे­त्यर्थः ।

ज्ञानस्य एक­त्वा­ने­क­त्व­वि­ष­य­प्र­श्नस्य परिहारमाह -
सा चेति ।

कथम् एकत्वं ज्ञानस्येति तत्राह –
एकफलमिति ।
एक­फ­ल­त्वा­दि­त्यर्थः ।

विष­य­स्यै­क­त्वा­ने­क­त्व­स­त्य­त्व­मि­थ्या­त्व­वि­ष­य­प्र­श्नस्य परिहारमाह -
तस्य चेति ।
अत्र घटपटाविति ज्ञान­स्यै­क­त्वेऽ­प्य­र्थस्य भिन्नत्ववत् ज्ञानै­क्येऽ­प्य­र्थ­भेदः स्यादिति शङ्का­व्या­वृ­त्त्य­र्थ­म­र्थैक्यं पृथगुच्यते अथवा अर्थैक्ये तात्पर्यं नास्ति किन्तु रजतस्य मिथ्या­त्व­मु­च्यते । अयमर्थः सम्प्र­यो­ग­ज­न्य­त्वा­च्छु­क्ति­का­ल­म्ब­न­त्व­मु­चितं संस्का­र­वि­शे­ष­ज­न्य­त्वा­द्र­ज­ता­ल­म्ब­न­त्व­मु­चि­तम्, दोष­ज­न्य­त्वा­न्मि­थ्या­ल­म्ब­न­त्व­मु­चि­तम्, सम्प्र­यो­गा­दि­त्र­य­स­न्घा­तेन जन्यत्वात् शुक्ति­का­ग­ता­ल­म्ब­न­त्व­मु­चि­तम् ।

अवभासत इति ।
अत्र सामग्रीशब्देन सम्प्रयोग उच्यत इति द्रष्टव्यम् ।

ज्ञानस्य मिथ्या­त्व­प्र­सि­द्धि­नि­र्वा­हाय च मिथ्या­ल­म्ब­न­त्व­म­भ्यु­पे­य­मि­त्याह -
तेन मिथ्यालम्बनमिति ।
तेन मिथ्या­र्थ­स्यो­चि­ता­ल­म्ब­न­त्वे­ने­त्यर्थः ।

बाधाभावादिति ।
नेदं ज्ञानमिति बाधा­भा­वा­दि­त्यर्थः ।

स्मृतिज्ञानं प्रति निर­पे­क्ष­का­र­ण­सं­स्का­रस्य, ग्रहणज्ञानं प्रति निर­पे­क्ष­का­र­ण­स­म्प्र­यो­गस्य च कथं सम्भू­यै­क­ज्ञा­न­हे­तु­त्व­मिति चोदयति ज्ञानद्वयवादी -
भिन्नजातीयेति ।

निर­पे­क्ष­सं­स्का­र­स­म्प्र­यो­गाभ्यां सह सापेक्षदोषस्य एकज्ञानकारणत्वं न सम्भवतीति पृच्छ्यते किं वा निर­पे­क्ष­सं­स्का­र­स­म्प्र­यो­गयोः सम्भू­यै­क­ज्ञा­न­का­र­णत्वं न सम्भवतीति पृच्छ्यत इति विकल्प्य उभयत्रापि दृष्टान्तं दर्शयति -
दृश्यते हीत्यादिना ।
लिङ्गं व्याप्ति­ज्ञा­न­सा­पेक्षं व्याप्ति­सं­स्कारो निरपेक्षः, तदुभयं सम्भूय लिङ्गि­ज्ञा­न­का­रणं दृष्टमित्यर्थः ।

तत्रापि ज्ञानकारणभेदात् ज्ञानभेद इति, नेत्याह –
उभयत्रापीति ।
स्मृतिः स्मर्यमाणं व्यक्तिरूपं गर्भो यस्या­ग्नि­त्वा­दि­सा­मा­न्यस्य तत् स्मृतिगर्भम्, स्मृतिः स्मरणं गर्भो यस्य सामान्यज्ञानस्य तत् स्मृति­ग­र्भ­मे­क­मेव प्रमाणज्ञानमिति चानुमाने योजना । प्रत्यभिज्ञायां स्मृतेर्गर्भं यत्तं स्मृतिगर्भमिति निर्वचनम् । पूर्व­का­लो­प­ल­क्षि­त­तया स्मर्यमाणे गृह्यमाणतया अय­मि­त्य­प­रो­क्षा­का­रस्य स्वरूपतया गर्भ­रू­पे­णा­व­स्था­न­मै­क्य­ज्ञा­नो­द­य­काले अस्ति । पश्चादयमेव स इति स्मर्यमाणस्य परोक्षस्य अप­रो­क्षोऽ­य­मि­त्या­का­र­मा­त्र­त्व­वि­धा­ना­दै­क्य­प्र­मि­त्यु­द­य­ना­न्त­री­य­क­तया परो­क्ष­स्या­प­रो­क्ष्य­वि­रो­धा­देव अपगतत्वात् पारो­क्ष्य­हे­तु­स्मृ­ते­र­प्य­प­ग­त­त्वात् प्रत्य­भि­ज्ञा­ज्ञानं केव­ल­म­प­रो­क्ष­ज्ञानं भवति । तत्रापि पारो­क्ष्य­स्या­नि­वृ­त्ति­म­ङ्गी­कृत्य स्मृति­ग­र्भ­मि­त्यु­क्त­मिति वेदितव्यम् ।

ज्ञानलिङ्गेन सह व्याप्तिस्मृतिः लिङ्गि­ज्ञा­न­का­र­णम् । न तु व्याप्ति­ज्ञा­न­सं­स्कार इति तत्राह -
संस्का­रा­नु­द्बोधे तदभावादिति ।
उद्बु­द्ध­सं­स्का­रा­भावे तस्याः स्मृतेरभावात् उद्बु­द्ध­सं­स्कारः स्मृत्य­ङ्गी­का­रेऽपि वक्तव्यः । तदा केव­ल­व्य­ति­रे­का­भा­वात् कल्प­ना­गौ­र­वा­च्चो­द्बु­द्ध­सं­स्का­रेण न स्मृत्यपेक्षेति भावः । अथवा तदभावादिति तयो­र्लि­ङ्गि­ज्ञा­न­व्या­प्ति­स्मृ­त्यो­र्यु­ग­पत् ज्ञाना­नु­त्प­त्ति­रिति न्यायात् युग­प­द­स­म्भ­वा­दि­त्यर्थः ।

प्रत्यभिज्ञायां सम्प्रयोगः पूर्वा­नु­भू­त­स्मृ­तिश्च कारणम् । ज्ञान­द्व­य­यौ­ग­प­द्य­प्र­स­ङ्गा­भा­वान्न संस्कार इति, तत्राह -
अयमेव च न्याय इति ।
संस्का­रा­नु­द्बोधे स्मृत्यभावात् केव­ल­व्य­ति­रे­का­भा­वात् कल्प­ना­गौ­र­वा­च्चो­द्बु­द्ध­सं­स्का­रे­णैव पर्याप्तमिति न्यायः प्रत्या­भि­ज्ञा­या­मपि समान इत्यर्थः ।

न पुनर्ज्ञानद्वये प्रमाणमस्तीति ।
अयमर्थः, उद्बु­द्ध­सं­स्कारे सति अनन्तरं प्रत्य­भि­ज्ञा­ज्ञा­नो­त्प­त्ति­व्य­ति­रे­केण मध्ये द्विती­य­स्मृ­ति­स­द्भावे प्रमाणं नास्तीति ।

भवतु प्रत्य­भि­ज्ञा­प्र­त्यक्षे निर­पे­क्ष­का­र­ण­स­मा­हारः । अभि­ज्ञा­न­प्र­त्यक्षे तु रजतज्ञाने न स्यादिति तत्राह -
तथा भिन्नजातीयेति ।
अत्र सम्प्रयोगादेः प्रत्येकं कारणत्वं धर्मि, बहूनां सम्भूय कारणत्वेन अविनाभूतं भवितुमर्हति, ज्ञान­का­र­ण­स्थ­त्वात् । सम्भूय विचि­त्र­ज्ञा­न­का­र­णी­भू­त­नी­ला­दीनां प्रत्येकं कर्म­त्व­व­दि­त्य­नु­मा­न­म­भि­प्रेतं द्रष्यव्यम् ।

संस्का­र­स­हि­त­प्र­मा­ण­का­र­ण­ज­न्य­त्वात् लैङ्गि­क­ज्ञा­ना­दि­व­दिदं रजतमिति ज्ञानं प्रमाणं स्यादिति तत्राह -
तत्र लैङ्गिकेति ।
संस्का­र­स­हि­त­प्र­मा­ण­का­र­ण­ज­न्य­त्वा­ख्य­प्र­यो­ज­का­भा­वेऽ­प्य­दु­ष्ट­का­र­ण­ज­न्य­त्वा­ख्य­प्र­यो­ज­केन प्रामाण्यं दृष्टमिति प्रदर्शनाय चित्र­ज्ञा­न­मु­दा­हृ­त­मिति द्रष्टव्यम् ।

एवं च सतीति ।
शुक्ति­ग­त­मि­थ्या­र­जते सति अपरोक्षस्य स्मर्य­मा­ण­त्वा­न­ङ्गी­का­रात् संसर्गस्य प्रतिपन्नस्य शून्य­त्वा­न­ङ्गी­का­रात् बाह्य­शु­क्ती­द­मा­त्म­तया प्रति­प­न्न­र­ज­त­स्या­न्त­र्बु­द्धि­ग­त­त्वा­न­भ्यु­प­ग­मा­दि­त­र­पक्ष इव नानुभवविरोध इत्यर्थः ।

अतो मायामयमिति ।
यस्माद्ज्ञानस्य भ्रान्तत्वं रूप्यस्यासत्वे सत्वे वा अनुपपन्नमतो मायामयमित्यर्थः ।

सदिदं रजतमिति रजतस्य प्रति­प­न्न­स­त्ता­सं­सर्गः, शुक्ति­का­स­त्ता­सं­सर्गो न स्वीय­स­त्ता­सं­सर्गः, इदन्तासंसर्गवत् । तथा­प्ये­त­द­ज्ञात्वा सदिति प्रति­भा­सा­नु­सा­रेण परमार्थत्वं शङ्कते -
अथ पुनरिति ।

शुक्ति­त्व­ति­रो­धा­न­स­म­र्थ­का­र­ण­दो­ष­वता पुरुषेण रजतं दृश्यम् , न तु सर्वैरिति, नेत्याह -
यतो नहीति ।

यद्यपेक्षेतेति ।
शुक्तिरजतं यद्य­पे­क्षे­ते­त्यर्थः ।

तदभावे न तत्रेति ।
(हट्टादिस्थ ? ) पट्ट­णा­दि­स्थ­स­र्व­प­र­मा­र्थ­र­जत इत्यर्थः ।

मायात्मकरजतं शुक्तीदमात्मना अपरोक्षमवभासत इति पक्षेऽपि सर्वैदृश्येत इत्याशङ्क्य रजतस्य बिम्बे­द­मं­श­स्थत्वे हि तद्ग­त­शौ­क्ल्या­दि­वत् सर्वैर्गृह्येत, तद्वैपरीत्येन इद­मा­का­र­बु­द्धि­वृ­त्त्यग्रे प्रति­बि­म्बि­ते­दमि रज­त­स्या­ध्य­स्त­त्वात् बुद्धे­र­न्य­वे­द्या­त्वा­भा­वात् तत्प्रति बिम्बि­ते­द­मं­श­ग­त­र­ज­त­स्या­न्य­वे­द्य­त्वा­भाव इत्यभिप्रेत्याह -
मायामात्रत्वे त्विति ।

बाधोऽपीति ।
न केवलं भ्रान्ति­त्व­प्र­सि­द्ध्य­नु­प­पत्तिः, स्वविषयरजतस्य मिथ्यात्वं साधयति । किन्तु बाध­क­प्र­त्य­क्ष­मपि इत्यर्थः ।

रजतस्य प्रति­प­न्नो­पा­धा­व­भावं बाधो बोधयति न तस्य मिथ्या­त्व­म­मि­थ्या­त्व­मिति चोदयति -
कथमिति ।

पूर्वमिदमात्मना प्रति­प­न्न­र­ज­त­स्ये­द­मा­त्मना प्रति­प­त्त्य­यो­ग्य­ता­पा­दनपूर्व­क­म­भा­व­प्र­ति­यो­गि­तया भावविलक्षणत्वेन प्रति­प­न्नो­पा­धा­व­भा­व­प्र­ति­यो­गि­तया सद्विलक्षणत्वेन च रजतम् , नेदं रजतमिति ज्ञानेन ज्ञाप्यते । अतः प्रति­प­न्नो­पा­धा­व­भा­व­प्र­ति­यो­गित्वं नाम मिथ्यात्वं बाधकज्ञानेन सिद्ध्यति । तस्मिन् अभा­व­प्र­ति­यो­गि­त­या­व­भा­स­ना­दि­त्याह -
तेन हि तस्येति ।

बाध­क­ज्ञा­न­सि­द्धस्य प्रति­प­न्नो­पा­धा­व­भा­व­प्र­ति­यो­गि­त्वा­ख्य­मि­थ्या­त्वस्य पुनः स्वशब्देन परामर्शाच्च बाधविषयो मिथ्या­त्व­मि­त्याह –
मिथ्यै­वा­भा­सि­ष्टेति ।

तद्रजतं बुद्धिर्वेति परामर्शं विना मिथ्यै­वा­भा­सि­ष्टेति परामृष्टं प्रति­प­न्नो­पा­धा­व­भा­व­प्र­ति­यो­गि­त्वाख्यं मिथ्यात्वं रूप्यस्यान्यत्र सत्वे नावकल्पत इत्याह -
न च तदिति ।

बौद्ध­व्य­ति­रि­क्तानां प्रति­प­न्नो­पा­धा­व­भा­व­प्र­ति­यो­गि­त्व­ही­नत्व दृष्टान्त उच्यते -
सम्प्र­यु­क्त­शु­क्ति­का­व­दिति ।

बौद्धस्य दृष्टान्त उच्यते -
निरस्यमानेति ।

स्मृति­रू­प­श­ब्दो­क्त­का­र­ण­त्रि­त­य­ज­न्य­त्वा­ख्यो­प­ल­क्षणं परत्र परावभास इति स्वरूपलक्षणं चाव्याप्तमिति चोदयति -
ननु न व्यापकमिति ।

शोक इति ।
शोका­दि­नि­मि­त्त­न­ष्ट­पु­त्रा­दि­भ्रम इत्यर्थः ।

पर­त्रे­त्यु­क्त­स­म्प्र­यु­क्ता­धि­ष्ठा­नस्य सम्प्र­यो­गा­ख्य­का­र­णां­शस्य चाभावमाह -
न हीति ।

अत एवेति ।
दोषा­श्र­य­भू­त­स­म्प्र­यु­क्ते­न्द्रि­या­भा­वा­दि­त्यर्थः ।

अति­रि­क्त­का­र­णा­भा­वा­दिति ।
दोषा­ख्य­का­र­णा­भा­वा­दि­त्यर्थः । मात्र­ज­न्य­त्वा­भा­वा­दिति भावः ।

उक्तमेतदिति ।
पूर्व­प्र­मा­ण­वि­ष­या­व­भा­सित्वं नाम परोक्षतया अर्थ­प्र­त्या­य­कत्वं स्मृतेः स्वरू­प­मि­त्यु­क्तम् । अत्रापि स्मृतित्वे परोक्षतया अवभासकत्वं स्यादयं त्वप­रो­क्षा­व­भा­सि­त्वान्न स्मृतिरिति भावः ।

स्मृतित्वं माभूत् , कथं कार­ण­त्रि­त­य­ज­न्य­त्वा­भावे स्मृति­रू­प­त्व­मि­त्या­शङ्क्य रूप्य­भ्र­म­नि­व­र्तक शुक्ति­ज्ञा­न­सा­ध­न­च­क्षु­स्त­द्ग­त­दोषः संस्कारश्च निव­र्त्य­रू­प्य­भ्र­म­का­रणं दृष्टम् । तथेहापि स्वप्न­भ्र­म­नि­व­र्त­क­जा­ग्र­द्दे­हा­व­च्छि­न्ना­त्म­ग्रा­हि­ज्ञा­न­सा­धनं मन­स्त­द्ग­त­नि­द्रा­दि­दोषः संस्का­र­श्चे­त्ये­त­त्का­र­ण­त्रि­त­य­ज­न्य­त्वात् स्मतिरूपत्वं स्वप्न­भ्र­म­स्ये­त्याह –
तदिहेति ।
तदिति निव­र्त­ज्ञा­न­सा­ध­न­भूतं मनो निर्दिशति ।

निद्रादिदोषस्य संस्का­र­वि­शे­षे­णा­सा­धा­र­ण­स­म्ब­न्धा­भा­वात् अदृ­ष्टा­दे­रु­द्बो­ध­क­त्व­माह –
अदृ­ष्टा­दि­स­मु­द्बो­धि­तेति ।

दोषं विना अदृ­ष्टा­दि­नो­द्बु­द्ध­त्वात् सत्या­र्थ­स्मृ­ति­ज­न­कत्वे प्राप्तेऽपि दोष­स­ह­का­रि­ब­ला­न्मि­थ्या­र्थ­वि­षयं ज्ञान­मु­त्पा­द­य­ती­त्याह –
सह­का­र्य­नु­रू­प­मिति ।

भवतु कार­ण­त्रि­त­य­ज­न्य­तया स्मृतिरूपत्वम् , कथं परत्र परावभास इति तत्राह -
तस्य चेति ।

तदवच्छिन्नेति ।
तेन मनसा संयु­क्त­मि­त्यर्थः ।

अप­रो­क्ष­भ्र­मा­धि­ष्ठा­नत्वे अपरोक्षत्वं प्रयोजकम् , न तु सम्प्र­यो­ग­त­ज्ज­न्य­ज्ञा­न­क­र्म­तया अपरोक्षत्वं केव­ल­व्य­ति­रे­का­भा­वात् । अतः कर्मत्वाभावेऽपि स्वप्र­का­श­त्वा­दा­त्म­नोऽ­प­रो­क्ष­तया अप­रो­क्ष­स्व­प्न­भ्रमं प्रत्य­धि­ष्ठा­नत्वं सम्भवतीति मत्वा आह –
अप­रो­क्ष­चै­त­न्येति ।
अतः सत्यचैतन्यस्य मिथ्या विवर्तस्य च सम्भेदावभासरूपः परत्र परावभासो विद्यत इति भावः ।

घटः स्फुरतीति सर्व­स­मा­ना­धि­कृ­त­स्फु­र­ण­स्या­न­व­च्छि­न्न­स­र्वा­त्म­क­चै­त­न्य­मा­त्मा­न­म­ना­दृ­त्या­ह­मिति प्रती­य­मा­ना­ह­ङ्का­र­वि­शि­ष्ट­चै­त­न्य­मा­त्मे­त्यु­पा­दाय आत्मैवाधिष्ठानं चेदिदं रजतमितिवदहं नीलमित्येव स्वप्न प्रपञ्चो भायादिति चोदयति -
नन्वेवमिति ।

अह­ङ्का­रा­न्नि­ष्कृ­ष्ट­स­र्वा­त्म­क­चै­त­न्यम् आत्मेत्युपादाय चेत्यस्य चित्सा­मा­ना­धि­क­र­ण्या­व­भासं सर्व­त्रा­ङ्गी­कृत्य परिहरति -
को वा ब्रूत इति ।

पुन­र­प्य­ह­ङ्का­र­वि­श­ष्ट­चै­त­न्य­मा­त्मा­न­मु­पा­दाय चोदयति -
ननु विच्छिन्नदेश इति ।
इदमिति भिन्नदेशस्थ इत्यर्थः ।

खःस्थादित्यस्य विच्छि­न्न­ज­ल­स्थ­ता­प्र­ति­भा­स­व­द­न्तः­स्थ­स्यैव बहिष्ठतया भानं न भवति । तत्र खःस्थताया अपि प्रतिभासात् । इहान्तःस्थताया अप्रतिभासात् बहिष्ठ एवेति मत्वा आह -
जागरण इवेति ।

देशः स्फुरतीति देशोऽ­प्य­न­व­च्छि­न्न­चै­त­न्या­त्म­स्थ­त­या­व­भा­सत इत्याह सिद्धान्ती -
ननु देशोऽपीति ।
अत्र ननुः प्रसिद्धौ वर्तते ।