अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

१ परिच्छेदः

पुन­र­प्य­ह­ङ्का­र­वि­शि­ष्ट­चै­त­न्य­मा­त्मा­न­मा­दाय देश­स्या­प्या­त्म­स्थत्वे अहं देश इति प्रतीयादित्याह -
अयमपि तर्हीति ।

स्वप्न­यु­क्ता­र्थ­क्रि­या­स­म­र्थ­जा­ग्र­त्प्र­प­ञ्चोऽ­प्ये­क­चै­तन्ये कल्पितः । किमु वक्तव्यम्, स्वप्न­प्र­प­ञ्च­स्यै­क­चै­तन्ये कल्पि­त­त्व­म­स्तीति वदितुं निगूढाभिसन्धिं परित्यज्य अन­व­च्छि­न्न­चै­त­न्य­मा­त्मानं स्पष्टीकुर्वन् चैतन्यैक्यं साधयति -
न दोष इत्यादिना ।
प्रमा­ण­ज्ञा­ना­दिति प्रसिद्धभेदमन्तरेण प्रमाणतो न भिद्यत इत्यर्थः ।

एकरूपेति ।
चैत­न्या­ख्यै­क­रू­पे­त्यर्थः ।

साधितैकचैतन्ये आत्मनि जाग्र­त्प्र­प­ञ्चस्य कल्पितत्वेन सिद्धिमाह -
अतोऽन्तर इति ।

अन्यथेति ।
अह­म­व­च्छि­न्न­चै­त­न्यात् विषयगतचैतन्यानि भिन्नानि चेदित्यर्थः ।

प्रका­शा­नु­प­प­त्ते­रिति ।
विष­ये­ष्वा­त्म­चै­त­न्य­व्या­प्त्य­भावे स्वयं चैतन्यहीनत्वात् प्रका­शा­नु­प­प­त्ते­रि­त्यर्थः ।

अनु­भ­वा­व­गु­ण्ठि­त­त्वेऽपि प्रपञ्चस्य नानु­भ­व­प्र­का­श्यता आलोकसंसर्गेऽपि वाय्वा­दी­ना­म­प्र­का­श्य­त्व­वत् इत्याशङ्क्य पूर्व­म­ज्ञा­न­त­मो­व्या­प्त­त्वात् प्रका­श्य­त्व­म­स्ती­त्यत्र दृष्टान्तमाह -
यथा तमसेति ।
वाय्वादीनां रूपहीनत्वात् तमो­व्या­प्ति­र्ना­स्तीति भावः ।

सर्व­स्यै­का­त्म­चै­त­न्य­ग­तत्वे घटा­दी­ना­मि­द­मि­त्य­ना­त्म­त­या­व­भासो देहा­दी­ना­म­ह­मि­त्या­त्म­त­या­व­भा­सश्च कथं स्यादि­त्या­श­ङ्क्यै­का­त्म­चै­तन्ये कल्पिततया सर्वस्य चिदा­त्म­सा­मा­ना­धि­क­र­ण्येऽ­प्य­ह­मिति प्रती­ति­यो­ग्य­पू­र्व­पू­र्व­दे­हा­दि­वि­ना­श­ज­न्य­सं­स्का­र­वि­शि­ष्ट­मा­या­ज­न्य­त्वात् उत्त­रो­त्त­र­दे­हा­दे­र­ह­मि­त्या­त्म­त्व­प्र­सि­द्धि­र्भ­वति । इदमित्यनात्मतया प्रती­ति­यो­ग्य­पू­र्व­पू­र्व­घ­टा­दि­ना­श­ज­न्य­सं­स्का­र­वि­शि­ष्ट­मा­या­ज­न्य­त्वात् तदु­त्त­रो­त्त­र­घ­टा­दे­रि­द­मि­त्य­ना­त्म­त्व­प्र­सि­द्धि­र्भ­वे­दि­त्येवं व्यवस्था जागरणेऽपि सिद्ध्यति, किमु स्वप्न इत्यभिप्रेत्याह -
एवं यः पुनरिति ।

चैत­न्य­स्या­न्त­र्ब­हि­र्भा­व­प्र­ति­भासो भेद­प्र­ति­भा­स­श्चौ­पा­धिको न स्वतः, निरं­श­त्वा­दि­त्याह -
तस्य चेति ।

मनो­मा­त्र­गो­च­रा­विति ।
आत्मा­ति­रि­क्त­वि­षये केवलमनसः प्रवृ­त्त्य­भा­वा­न्म­नो­गो­च­रत्वं वाद्य­न्त­र­सि­द्ध­मु­च्यत इति द्रष्टव्यम् ।

सर्वत्रेति ।
स्वप्न­शो­का­दि­भ्र­मेषु सर्वत्रेत्यर्थः ।

लक्ष्या­ध्या­सा­भा­वेऽपि परत्र परा­व­भा­स­त्वा­ख्य­स्व­रू­प­ल­क्ष­ण­स्या­न्व­या­द­ति­व्या­प्ति­रिति चोदयति -
कथं तर्हीति ।

लक्षणमस्ति चेत् लक्ष्यमप्यस्ति किमत्र चोद्यमित्याह –
किमत्र कथमिति ।

लक्ष्यमस्ति चेत् उपलक्षणेनापि भवितव्यम् , तदभावान्न लक्ष्य­म­स्ती­त्याह -
न तत्र कारणदोष इति ।

उप­ल­क्ष­णा­भा­व­मुक्त्वा लक्ष्याभावमाह -
नापि मिथ्यार्थावभास इति ।

लक्ष्यं नास्तीत्युक्तं तदप्यस्त्येव ; परत्र परावभास इत्यवभासशब्देन ज्ञानत्वं च लक्षणमुक्तम् , तदिह नास्ति क्रिया­त्वा­दि­त्याह –
सत्यमित्यादिना ।

अत एवेति ।
लक्ष्या­भा­वा­दे­वे­त्यर्थः ।

ज्ञानस्य दुष्ट­का­र­ण­ज­न्यस्य विषयो मिथ्यार्थ इति ।
मिथ्या­र्थ­वि­ष­य­ज्ञा­न­म­ध्यास इति हि पूर्वं लक्षणमुक्तम् । परत्र अवभास इत्यत्र अवभासशब्देनेति भावः ।

क्रिया­या­श्चि­की­र्षा­पू­र्व­क­त्व­व­ज्जि­ज्ञा­सा­पू­र्व­क­त्वात् ज्ञान­स्ये­च्छा­सा­ध्य­त्व­म­स्त्ये­वे­त्या­शङ्क्य फलशिरस्कत्वेनैव क्रिया­नि­ष्पत्तेः फल­नि­ष्प­त्ति­प­र्यन्ता क्रिया­नि­ष्पत्तिः अनवसिता, क्रिया­नि­ष्प­त्ते­रपि कार­क­व्या­पा­र­स­म­का­ल­त्वात् क्रिया­नि­ष्प­त्ति­प­र्यन्तं कार­क­व्या­पा­रोऽ­प्य­न­व­सितः । कार­क­व्या­पा­र­नि­ष्प­त्ते­रपि कार­क­प्रे­र­का­चि­की­र्षा­स­म­का­ल­त्वात् कार­क­व्या­पा­र­नि­ष्प­त्ति­प­र्य­न्त­मि­च्छा­प्य­न­व­सिता । अतः कारकव्यापारस्य क्रियायाः फलस्य च निष्प­त्ति­रि­च्छा­धी­नेति क्रियाया इच्छासाध्यत्वं स्यात् , इह तु ज्ञान­का­र­के­न्द्रि­याणां तेजो­वि­शे­ष­त्वा­देव गत्वह्रस्वाभाव्यात् कारकप्रेरणाय नेच्छापेक्षा, इन्द्रियाणां विषयविशेषेषु नियतत्वात् । विषयविशेषे नियमनाय च नेच्छापेक्षा, किन्तु ज्ञान­का­र­ण­प्र­ति­ब­न्ध­रू­प­नि­मी­ल­न­नि­रासे इच्छाया उपयोगः, न तु ज्ञानो­त्प­त्ता­विति मत्वाह -
न हि ज्ञानमिति ।

निवर्तयितुं न शक्यमिति ।
निव­र्त­यि­तु­म­श­क्य­त्वा­दि­त्यर्थः ।

देवतादिस्मरणं इच्छया जन्यते चण्डालादिस्मरणं च निवर्त्यत इति चोदयति -
ननु स्मृतिज्ञानमिति ।
आभोगेन इच्छयेत्यर्थः ।

स्मृत्यु­त्प­त्ति­नि­रोधौ यत्र भवतः तत्र इच्छामनोनिरोधौ स्त एव, किन्तु स्मृत्यु­त्प­त्ति­स्थले मन­सोऽ­न्य­प­र­ता­ल­क्ष­ण­प्र­ति­ब­न्ध­नि­रा­स­हे­तु­रिच्छा न तु मनो­व्या­पा­र­नि­ष्पा­द­नेन ज्ञानोत्पत्तौ हेतुः, स्मृति­नि­रो­ध­स्थ­लेऽपि चण्डा­ला­दि­वि­ष­य­म­नः­प्र­वृ­त्ति­नि­रोधे मनो­नि­रो­ध­स्यो­प­योगः, न तु स्मृति­स्व­रू­प­नि­रोध इत्याह –
सत्यमित्यादिना ।

चक्षुष इवेति ।
यथा चक्षु­षोऽ­भि­म­ता­र्थ­वि­ष­य­प्र­वृ­त्ति­प्र­ति­ब­न्धक रूप­गो­ल­क­नि­मी­ल­न­नि­रासे इच्छाया उपयोगः । अनभिमतार्थेन सम्प्र­यो­ग­ल­क्ष­ण­प्र­वृत्तौ सत्यां तत्प्र­ति­ब­न्ध­रू­प­गो­ल­क­नि­मी­लने मनो­नि­रो­ध­स्यो­प­योग इत्यर्थः ।

ब्रह्मण आरोपं विना ब्रह्म­दृ­ष्टि­मा­त्र­स्यैव नामादिष्वारोप इत्याह –
तस्मादिति ।

सर्व­फ­ल­प्र­दा­तृ­ब्र­ह्म­णोऽ­ध्य­स्तत्वे फलसिद्धिः स्यात् , तदभावे न फलसिद्धिरिति, नेत्याह –
चोदनावशादिति ।
विधि­व­शा­दि­त्यर्थः ।

सर्व­फ­ल­प्र­दा­तृ­ब्र­ह्म­णोऽ­ध्य­स्तत्वे स्वानु­रू­प­स­र्व­फ­ल­प्राप्तिः स्यात् । अत्र चोद­नो­क्त­प­रि­च्छि­न्न­फ­ल­प्रा­प्तये बुद्ध्यध्यास एव स्वीकर्तव्य इति वा अर्थः । प्रका­रा­न्त­रो­प­न्यासे च कृते सन्देहः, स्वपक्ष एवाभ्युपेय इति निर्णयो न सम्भवति, अतः पक्षा­न्त­रो­प­न्यासो भाष्यकारेण न कार्य इत्याशङ्क्य स्वेनो­क्ता­न्य­स्या­न्या­व­भा­स­रू­प­ल­क्ष­णस्य सर्वपक्षेषु तैस्तै­रु­च्य­मा­नत्वे स्वप­क्ष­शु­द्धि­र्भ­वति । तैरुक्तस्यापि लक्षणस्य शुक्लो घट इत्या­दि­प्र­त्य­यानां भ्रम­त्व­प्रा­प्ति­प­रि­हा­राय सत्य­मि­थ्या­व­स्तु­स­म्भे­दा­व­भा­स­रू­पा­नि­र्व­च­नी­य­लक्ष्य एव पर्यवसानात् स्वमतलक्षणत्वं च भवति । अतः सर्वेषु पक्षेषु लक्ष­णा­न्व­य­प्र­द­र्श­नाय परपक्षोपन्यासः कर्तव्य इत्याह -
स्वमतपरिशुद्धय इति ।

निरूप्यमाणे अनिर्वचनीयपक्ष एव लक्षणस्य पर्यवसाने कथं वादि­भि­रु­च्य­मा­नत्वं लक्षणस्येत्याह –
कथमिति ।

अन्य­ध­र्म­स्ये­त्युक्ते इदमिति शुक्ति­त्व­ध­र्म­स्या­व­भा­सोऽ­ध्यास इति प्राप्तम् , तद­प­नु­त्त­येऽ­त्य­न्त­भि­न्न­स्या­र्थ­स्ये­त्याह –
अर्थान्तरस्येति ।

तं केचिदिति भाष्य­मा­त्म­ख्या­त्य­न्य­था­ख्या­ति­वि­शे­ष­यो­रु­प­न्या­स­प­र­मि­त्याह -
ज्ञानाकारस्य बहिष्ठस्यैव वेति ।

अग्रहणनिबन्धनो भ्रम इत्य­ख्या­त्यु­प­न्या­स­प­र­भाष्ये अग्रहणस्य भ्रम­हे­तु­त्व­म­भि­प्रे­त­मिति प्रकटयति -
अग्रहणादिति ।

अग्र­ह­णा­दि­त्युक्ते अग्र­ह­ण­म­स्ती­त्य­ग्र­ह­णा­दिति प्रथ­मै­क­व­च­न­त्व­शङ्कां प्राप्तां व्युदस्यति -
तन्निबन्धन इति ।

केचिद्वादिनः भ्रमरूप इति प्रतिभासं व्यावर्तयति -
वदन्तीत्यनुषङ्ग इति ।

विप­री­त­ध­र्म­त्व­स्ये­त्युक्ते शुक्तिशकलस्य साक्षा­द्वि­प­री­त­शु­क्त्य­भा­वस्य स्वरू­पे­णा­रो­प­प्राप्तौ भावस्य भावा­न्त­र­रू­पे­णा­रोप इत्याह -
रज­ता­दि­रू­प­त्व­स्येति ।
आचक्षत इति शून्य­ख्या­त्य­न्य­था­ख्या­ति­वि­शेषौ आचक्षत इत्यर्थः ।

स्वम­ता­नु­सा­रि­त्व­मिति ।
स्वेनो­क्त­ल­क्ष­ण­त्व­मि­त्यर्थः ।

तात्प­र्य­मुक्त्वा सर्व­था­पि­त्वि­ति­भाष्यं व्याचष्टे -
अन्य­स्या­न्य­ध­र्मा­व­भा­सित्वं नाम लक्षणमिति ।
यल्ल­क्ष­ण­म­वा­दि­ष्मे­त्य­न्वयः ।

परत्र अवभास इत्यत्र परशब्दद्वयाभावे कथ­म­न्य­स्या­न्य­ध­र्मा­व­भा­सित्वं नाम यल्ल­क्ष­ण­म­वा­दि­ष्मे­त्य­नू­द्यते भाष्य­का­रे­णे­त्या­श­ङ्क्याह -
पर­त्रे­त्यु­क्तेऽ­र्थात् परावभासः सिद्ध इतीति ।
अख्या­ति­वा­दि­नाऽपि मानसं संसर्गज्ञानं संसर्गाभिमानो वा वक्तव्य इत्यभिप्रायः ।

परत्र परावभास इति लक्षणं न वादिभिरुक्तमिति शङ्कते -
कथमिति ।

अनेन शब्द­र­च­ना­प्र­का­रेण अनुक्तमपि शब्दान्तरेणेदं लक्ष­ण­मु­क्त­मि­त्याह -
पूर्वस्मिन् कल्प इत्यादिना ।

स्मृति­रू­प­श­ब्दे­नो­क्त­का­र­ण­त्रि­त­य­ज­न्य­त्वा­ख्यो­प­ल­क्ष­णस्य भाष्यकारेण पक्षान्तरेषु अन्व­य­प्र­द­र्श­ना­भा­वा­दु­प­ल­क्ष­ण­म­वि­व­क्षि­त­मि­त्या­श­ङ्क्या­न्व­यस्य सम्प्र­ति­प­न्न­त्वा­द­प्र­द­र्श­न­मि­त्याह –
पूर्व­दृ­ष्ट­त्व­स्मृ­ति­रू­प­त्व­यो­रिति ।

अवि­द्या­पू­र्व­भ्र­म­सं­स्का­रा­भ्या­मेव पदा­र्थ­ज्ञा­न­रू­प­भ्र­म­प­र­म्प­रो­त्पत्तेः सम्प्र­यु­क्ता­धि­ष्ठा­ना­न­पे­क्ष­णात् तद­भि­धा­यि­प­र­त्रेति पदमविवक्षितमिति शून्य­वा­दि­श­ङ्का­या­माह -
तत्र स्मृतिरूप इति ।

शून्य­वा­दि­प­क्षेऽपि पदा­र्थ­ज्ञा­न­त्वा­ख्य­ल­क्ष­णस्य प्राप्ति­र­स्त्विति नेत्याह –
निरुपपत्तिकेति ।
शून्यवादिपक्षे लक्षणस्य घट­प­टा­दि­ज्ञा­ना­ख्य­भ्र­मे­ष्वेव व्याप्तिं विना अविभ्रमेऽपि शून्यज्ञाने पदा­र्थ­ज्ञा­न­त्वा­ख्य­ल­क्ष­णस्य व्याप्तिः निरुपपत्तिकेति भावः ।

पूर्व­भ्र­म­सं­स्का­र­ल­क्ष­ण­नि­मि­त्त­का­र­ण­स­म्भ­वाद्विद्या­ल­क्ष­णो­पा­दा­न­स­द्भा­वा­च्चो­त्त­रो­त्त­र­घ­टा­दि­प­दार्थ ज्ञान­ल­क्ष­ण­भ्र­म­ज­न्म­सि­द्धि­रि­त्ये­व­मु­प­प­त्ति­स­म्भ­वा­द­स्मिन् पक्षे का अनु­प­प­त्ति­रि­त्या­क्षि­पति -
कथं निरु­प­प­त्ति­कोऽ­य­मिति ।

हस्तेन नयनस्य मर्द­ना­न्न­य­न­र­श्मे­र्ने­प्सि­त­रूपं भवति । ससं­वे­ष्टि­त­न­य­न­र­श्मि­र­धि­ष्ठानं तत्रा­प्य­स्ती­त्याह -
न तत्रापि तेजोऽ­व­य­वा­धि­ष्ठा­न­त्वा­दिति ।

ननु रजते संविदिति ।
भ्रमस्य साधि­ष्ठा­न­त्वेऽपि न सत्य­व­स्तु­नोऽ­धि­ष्ठा­न­त्व­मिति भावः ।

अध्य­स्य­मा­न­व्य­ति­रे­के­णा­धि­ष्ठा­नस्य सिद्धि­र­पे­क्षिता, साधनसिद्धये अन्योऽ­न्या­धि­ष्ठा­न­त्वे­ना­न्योऽ­न्या­धी­न­सि­द्धित्व इति तत्राह –
बीजा­ङ्कु­रा­दि­व­दिति

रजते तद्वि­ष­य­सं­वि­द्र­जतं च पूर्वस्यां संविदि, सा च स्वविषये, स च पूर्वस्यां संविदीति संविद्रजतयोरपि बीजाङ्कुरयोरिव कारणपरम्परा कल्प्ये­त्या­शङ्क्य तत्रा­प्य­न्वि­त­मृ­त्व­का­र्या­स­त्वा­दे­रु­पा­दा­न­त्वम् , बीजादेस्तु निमित्तता । अतः संविद्रजतयोरपि नोपादानकारणपरम्परेत्याह -
बीजा­ङ्कु­रा­दि­ष्व­पीति

अभि­म­त­व­स्तु­सि­द्धि­रिति ।
अन­न्वि­त­स्यो­पा­दा­न­त्वेऽ­ति­प्र­स­ङ्गात् नोपा­दा­न­का­र­ण­त्व­सि­द्धि­रि­त्यर्थः ।

प्रतीतितो वस्तुतश्चेति ।
अनन्वितयोरनयोः कथं कार्य­का­र­ण­ते­त्युक्ते पूर्व­बी­जा­ङ्कु­र­यो­रि­वेति वक्तव्यम् , तयोर्वा कथमित्युक्ते ततः पूर्वयोरिवेति सत्तानवस्थायाः, अनयोः कार्यकारणता कथं गम्यत इत्युक्ते पूर्व­पू­र्व­यो­रि­वेति प्रती­त्य­न­व­स्था­याश्च प्रस­ङ्गा­दि­त्यर्थः ।

संवि­द्र­ज­त­यो­र­प्य­धि­ष्ठा­ना­धि­ष्ठे­य­तया निमि­त्त­नै­मि­त्ति­क­ते­त्या­श­ङ्क्या­न­यो­र्बी­जा­ङ्कु­रयोः कथं निमि­त्त­नै­मि­त्ति­क­ते­त्युक्ते अस्मा­द्बी­जा­द­स्या­ङ्कु­रस्य जन्मदर्शनात् देश­का­ला­न्त­र­स्थ­बी­जा­ङ्कु­र­यो­रपि निमि­त्त­नै­मि­त्ति­क­ता­क­ल्प­ना­दृ­ष्टि­प­र­म्परा इह तु क्वाप्य­द­र्श­ना­द­न्ध­प­र­म्प­रै­वेति न निमि­त्त­नै­मि­त्ति­क­ता­पी­त्याह -
तथा च कुत इदमेवमिति ।

इदमिति ।
निमित्त नैमि­त्ति­क­त्व­मि­त्यर्थः ।

दृष्टिपरम्परां दर्शयति -
दृष्ट­त्वा­दे­व­मिति

अन्धपरम्परां दर्शयति -
नान­व­स्था­दो­ष­म­ति­व­र्तत इति ।

भ्रान्ति­प्र­ति­पन्ने योंऽशो निषे­धा­धि­क­र­ण­त्वे­ना­नि­षेध्यो भवति तस्यां­श­स्या­धि­ष्ठा­न­त्वात् परत्रेति पद­म­पे­क्ष्य­मि­त्याह -
अपि चेत्यादिना ।

निरवधिक इति ।

इदमिति ।
निषे­धा­धि­क­र­णां­श­म­गृ­ही­त्वे­त्यर्थः ।

अनु­मा­ना­प्त­व­च­नाभ्यां सर्पा­भा­व­वि­शि­ष्ट­मं­शा­न्तरं न गृह्यत इति तत्राह –
यत्रापीति ।
अत्रानुमानमिति पाषा­ण­प्र­क्षे­पा­दि­ना­प्य­प्र­च­लि­त­त्व­लि­ङ्ग­ज­न्य­ज्ञा­न­मु­च्यते ।

अवधिर्विद्यत इति ।
अभा­व­वि­शि­ष्ट­व­स्तु­मात्रं गृह्यते, विशे­षा­का­ङ्क्षा­द­र्श­ना­दि­त्यर्थः ।

प्रधानं नास्तीत्यादौ न तद­भा­व­वि­शि­ष्ट­व­स्त्व­न्तरं गृह्यते, तेषा­म­न्य­त्रा­न­ध्य­स्त­त्वा­दिति तत्राह –
प्रधा­ना­दि­ष्व­पीति ।
जगत्कारणं स्वतन्त्रं त्रिगुणमनेकं परिच्छिन्नं च न भवतीति बाधा­द­व­धि­र­स्ती­त्यर्थः ।

सर्व­लो­क­सा­क्षि­क­मे­त­दिति ।
सर्वलोकस्य दृश्यस्य साक्ष्येव साक्षी यस्य तदेतत् । भ्रान्त्यादि, सर्व­लो­क­सा­क्षि­चै­त­न्येऽ­ध्यस्तं निषेधावस्थायां चैतन्यावधिकं चेत्यर्थः ।

चैत­न्य­स्या­धि­ष्ठा­नत्वे अवधित्वे च स्वीकृते किं प्रयो­ज­न­मि­त्या­शङ्क्य निरधिष्ठानत्वेन निरवधिकत्वेन च शङ्कि­त­के­शो­ण्ड्र­का­दा­व­प्य­धि­ष्ठा­ना­व­धि­सिद्धिः प्रयोजनमित्याह –
केशो­ण्ड्र­का­दा­व­पीति ।

रूप्याध्यक्षस्य बाध्यत्वात् तत्सा­ध­क­सा­क्षि­चै­त­न्य­स्यापि बाध्यत्वमिति नेत्याह -
तद्बाधे तदनुषङ्ग एवेति ।
अधिष्ठानत्वात् सम्बन्ध एव बाध्य इति भावः ।

तदेव प्रपञ्चयति -
तेन तन्मात्रस्येति ।
चिन्मा­त्र­स्ये­त्यर्थः ।

रूप्यस्मरणं बाध्यं परि­च्छि­न्न­त्वात् रूप्यवत् इत्याशङ्क्य स्वतो न भेद इत्याह –
स्वतश्चेति ।

बाध्य­स­म्ब­न्ध­स­म्ब­न्धि­त्वात् रूप्यवत् बाध्य­मि­त्या­शङ्क्य सम्बन्धिरूपेण परि­णा­मि­त्वा­भा­वात् सम्ब­न्धि­त्व­म­सि­द्ध­मि­त्याह –
कूटस्थेति ।

कूटस्थत्वे हेतुमाह –
अपरोक्षैकरसेति ।

रूप्यस्य शून्यत्वं निरधिष्ठानत्वं च शून्यवादी मन्यते, तत्र साधिष्ठानत्वं प्रसाध्य शून्यत्वं निराचष्टे -
नाप्य­ध्य­स्त­म­प्य­स­दे­वे­त्या­दिना ।
प्रति­भा­सा­यो­गा­दि­त्यत्र स्पष्टावभासः प्रतिभासः, रूप्यमिति प्रवि­भ­क्त­रू­पे­णा­व­भासः प्रतिभास इति च निर्वचनं द्रष्टव्यम् । रूप्यमिति विभ­क्त­रू­पे­णा­प­रो­क्ष­त्वेन च प्रती­त्य­यो­गा­दि­त्यर्थः ।

अध्यस्तमिदं सर्वमसदेवेति तेऽपि मतम् इति चोदयति -
नन्विति ।

सद्वि­ल­क्ष­ण­मि­त्यु­क्त­त्वा­द­र्था­स­त्व­मु­क्त­मि­त्या­श­ङ्क्या­स­द्वि­ल­क्ष­ण­त्व­म­प्यु­क्त­मि­त्याह -
अनि­र्व­च­नी­या­वि­द्या­त्म­क­मिति इति ।

प्राक् अनि­र्व­च­नी­य­त्वेऽपि बाधादूर्ध्वं रूप्यादेः शून्य­त्व­मा­शङ्क्य तदिष्टमेव घटादीनामपि समानत्वादित्याह -
अथ पुनरिति ।

सर्वस्य नाशादूर्ध्वं शून्यत्वेऽपि भ्रमगृहीतस्य बाधादूर्ध्वं शून्यताभ्युपगमो न युक्तोऽन्यत्र सत्वा­दि­त्या­शङ्क्य न ताव­द्बा­ध­क­ज्ञा­ना­द­न्यत्र सत्व­सि­द्धि­रि­त्याह -
तथा चेति ।

तथानवगमादिति ।
मुखं दर्पणस्थं न भवति, किन्तु ग्रीवा­स्थ­मि­ति­वत् रजतमिदं न भवति किन्तु देशान्तरे बुद्धौ­वे­त्य­न­व­ग­मा­दि­त्यर्थः ।

प्रत्यक्षबाधस्य देशान्तरे रूप्या­दि­स­त्व­बो­ध­क­त्व­श­ङ्का­या­मपि वाक्य­ज­न्य­बा­ध­क­ज्ञा­नस्य बोधकत्वशङ्कापि नास्ति, देशा­न्त­री­य­स­त्व­वा­चि­श­ब्दा­भा­वा­दि­त्याह -
तथा च दूरवर्तिनीमिति ।

मा भूद्बा­ध­क­ज्ञा­ना­द­न्यत्र सत्वावगमः, किन्त्विह निषे­धा­न्य­था­नु­प­पत्त्या अन्यत्र सत्व­सि­द्धि­रि­त्या­शङ्क्य व्यभिचारमाह –
नार्थापत्त्येति ।

प्रती­ति­सि­द्ध्यर्थं पुरोदेशे अन्यत्र वा रूप्यस्य न सत्तापेक्षा, अत्रै­वा­वि­द्या­वि­ला­स­स­द्भा­व­मा­त्रेण प्रती­ति­सि­द्धे­रि­त्याह -
तावन्मात्रेणापि तत्सिद्धेरिति ।

यदा नायं सर्प इत्य­भा­व­मा­त्र­प्र­ति­प­त्ति­रपि न देशान्तरे सर्पत्वं गमयति तदा रज्जु­रि­य­मि­त्य­धि­ष्ठाने पर्यवसिता प्रतिपत्तिः देशान्तरे सत्वं न बोधयतीति किमु वक्तव्यम् इत्याह –
यत्रापीति ।

पूर्वदृष्टावभास इति भाष्येण पूर्व­द­र्श­न­स­म्भेदं विना पूर्वदृष्टस्य संस्का­र­नि­र्मि­त­तया पूर्व­दृ­ष्ट­स­जा­ती­यस्य रूप्यादेरवभास इत्युक्ते तस्य स्मृति­रू­प­त्व­मुक्तं भवत्यतः स्मृतिरूप इति पृथङ् न वक्तव्यमित्याह –
तथाविधस्येति ।
अर्थलभ्यस्य स्मृतित्वमेव स्यात् इत्यर्थलभ्यस्य स्मृतिरूपस्य विक­ल­स्मृ­ति­त्व­शङ्का स्यात् । पूर्वा­नु­भ­व­स­म्भि­न्न­वि­ष­य­त्वा­भा­वा­दि­त्यर्थः ।

स्मृति­त्व­म­स्त्विति, नेत्याह -
न च स्मृति­वि­ष­य­स्येति ।

परत्रेति ।

सम्प्र­यु­क्त­स्या­भि­धा­ना­द­र्था­दा­गतं परस्येति पद­म­स­म्प्र­यु­क्त­म­भि­धत्त इत्याह –
अस­म्प्र­यु­क्त­स्येति ।

पूर्व­दृ­ष्ट­त्वा­भाव इति ।
पूर्व­दृ­ष्टा­र्थ­सं­स्का­र­ज­न्य­तया पूर्व­दृ­ष्ट­स­जा­ती­या­र्थ­त्वा­भाव इत्यर्थः ।

विस्पष्टार्थ इति ।
संस्का­र­ज­न्य­त्व­मेव स्मृति­रू­प­श­ब्दो­क्त­स्मृत्या सादृश्यं न पूर्वा­नु­भ­व­स­म्भेद इति स्पष्टी­क­र­णा­र्थ­मि­त्यर्थः ।

लोक­सि­द्ध­मे­वे­द­मिति ।
यल्लक्षितं सत्य­मि­थ्या­व­स्तु­स­म्भे­दा­त्म­क­मि­द­म­ध्या­स­रूपं तल्लोकसिद्धमेव सत्यमिथ्यावस्तु सम्भे­द­रू­प­मि­त्यत्र न युक्त्य­पे­क्षे­त्यर्थः ।

युक्तिरिति ।
सत्यस्य वस्तुनो मिथ्यावस्तु सम्भे­दा­व­भा­सोऽ­ध्यासः, अन्यथा शुक्लो घट इत्या­दि­ज्ञा­ने­ष्वपि भ्रम­त्व­प्र­स­ङ्गा­दि­त्येषोच्यते ।

तथा च लोकेत्यादि - भाष्यस्य तात्प­र्य­मुक्त्वा तदे­क­दे­श­मा­क्षे­प­स­मा­धा­ना­यो­पा­दत्ते -
शुक्तिका रजतवदवभासत इति ।

यः शुक्तौ रजतं भ्रमति तस्य रज­त­मे­वे­त्य­व­भा­स­नात् रज­त­व­दि­त्य­न­व­भा­सा­च्छु­क्ति­का­न­व­भा­स­नाच्च भ्रान्त्याः - शुक्तिका रजतवदत्र भासत इति नानुभवन्ति, तत्र कथं लोकानुभव इति चोदयति -
ननु न शुक्तिः प्रतिभासते इति ।
भ्रान्तस्येति भावः ।

यद्यपि भ्रान्तिसमये नानुभवति शुक्ति­का­ज्ञा­नो­दये तत्सिद्धिः । शुक्तिकामुपादाय शुक्ति­का­र­ज­त­म­व­भा­सत इति लक्षणमनुभवति । शुक्ति­ज्ञा­न­सा­म­र्थ्येन नेदं रजतमिति ज्ञानविषयतया वा सिद्ध­मि­थ्या­र­ज­तेन सत्य­शु­क्ति­स­म्भे­दा­व­भा­सा­ख्य­ल­क्ष्य­र­ज­त­व­दि­त्य­नु­भ­वति । एवं लक्ष्य­ल­क्ष­ण­स­ङ्ग­ति­म­नु­भूतां शुक्तिका रजतवदवभासत इति वाक्येन प्रदर्शयति लोक इत्याह -
उच्यते, शुक्ति­का­ग्र­ह­ण­मिति ।
इव­श­ब्द­श्चा­भा­स­ता­म­भि­धाय सम्भे­द­श­ब्दे­ना­व­भा­स­श­ब्देन च सम्बध्यते ।

मिथ्यारजतमिति विशेषणात् अन्यत्र सद्रूपरजतं वक्त­व्य­मि­त्या­शङ्क्य मिथ्यात्वं प्रति जनकस्याभावात् मिथ्या­त्व­मु­च्यते न सद्रू­प­र­ज­ता­द्व्या­वृ­त्त्य­र्थ­मि­त्याह -
मिथ्यात्वमपि रजतस्येति ।

मिथ्या­र­ज­त­ध­र्म­त्वा­दि­द­न्ताया अपि मिथ्या­त्वा­न्नि­र­धि­ष्ठा­न­ता­प्र­सङ्ग इत्याशङ्क्य सम्प्रयुक्तस्य सम्प्र­यु­क्त­ध­र्म­त्व­म­यु­क्त­मि­त्याह –
तत्रा­स­म्प्र­यु­क्त­त्वा­दिति ।

सम्प्रयुक्तगत एवेति ।
शुक्तिगत एवेत्यर्थः ।

कथम् अस­म्प्र­यु­क्त­र­ज­त­स्या­प­रो­क्ष­ते­त्यत आह –
अप­रो­क्षा­व­भा­स­स्त्विति ।

रजतोल्लेखस्येति ।
इत्युल्लेखः, अव­भा­स­मा­न­र­ज­त­स्ये­त्यर्थः ।

उल्लिख्यत आपरोक्ष्यस्य दोषजन्यत्वे बाध्यत्वं प्राप्त­मि­त्या­श­ङ्क्ये­न्द्रि­य­ज­न्य­ज्ञा­ने­ने­द­मं­शेऽ­भि­व्य­क्ता­प­रो­क्ष­चै­तन्ये अध्य­स्त­त्वा­द्रू­प्य­स्या­प्य­प­रो­क्ष­त्व­मिति पक्षान्तरमाह –
इन्द्रि­य­ज­ज्ञा­ना­न्त­र्भा­वा­च्चेति ।
अत्र ज्ञानशब्देन ज्ञप्तिः ज्ञान­मि­ती­द­मं­शा­व­च्छि­न्न­स्फु­र­ण­मु­च्यते -

अनात्मा रजतमिति दर्शितमिति ।
अनात्मभूतरजतं सम्प्र­यु­क्त­शु­क्ता­व­ध्य­स्त­मिति दर्शितमित्यर्थः ।

अस्मदर्थे अनिदमंशस्येति ।
अहमिति प्रतिभासमाने अवे­द्यां­श­स्ये­त्यर्थः ।

अहमिति प्रतिभासमाने जडरूपात्मा भवेत् योऽस्तीति प्राभा­क­रा­भि­म­त­मिति तद्व्या­वृ­त्त्य­र्थ­माह –
चैतन्यस्येति ।

चिद्रू­पा­त्म­नोऽपि शक्तिमत्वं परि­णा­म­ब्र­ह्म­वा­द्य­भि­मतं तद्व्या­वृ­त्त्य­र्थ­माह –
निरञ्जनस्येति ।
अस­ङ्ग­स्ये­त्यर्थः ।

प्रतिभासतो युष्म­द­र्थ­त्वा­भा­वेऽपि तदवभास्यत्वं नाम युष्म­द­र्थ­ल­क्ष­ण­म­ह­ङ्का­र­स्या­स्ती­त्याह –
तद­व­भा­स्य­त्वे­नेति ।

अध्यस्त इति ।
चैतन्ये अध्यस्त इत्यर्थः ।

भेदावभास इति ।
जीवे­श्व­र­यो­र्जी­वानां च भेदोऽवभासमानः तेषामस्वरूपभूत एव जीवादिषु अध्यस्त इति दर्शितमित्यर्थः । वादा­धि­का­र­सि­द्ध्य­र्थ­मु­क्तार्थे स्वस्य ज्ञाना­प­ला­पोऽ­ना­द­रा­भा­व­द्यो­त­नाय ।

बाह्याध्यासे उक्त­का­र­ण­त्रि­त­य­ज­न्यत्वं परत्र परावभासत्वं च सुस्थितमित्याह -
ननु बहिरर्थ इत्यादिना युज्यत इत्यन्तेन ।

तत्रापि कार­ण­त्रि­त­य­ज­न्य­त्व­म­स्ती­त्याह -
उपलभ्यत इत्यन्तेन ।

कारणदोष इति प्रमा­तृ­स्थ­रा­गा­दि­दोष उच्यते । इन्द्रियशब्देन सम्प्रयोग उच्यते । सम्प्रयोगशब्देन संस्कारोऽपि लक्ष्यते । परत्र परावभास इति स्वरू­प­ल­क्ष­ण­म­प्य­स्ती­त्याह –
तन्नि­मि­त्त­श्चेति ।

उपलक्षणं स्वरूपलक्षणं च बाह्या­ह­ङ्का­रा­ध्यासे सम्भवति । अधि­ष्ठा­ना­त्म­ग्रा­हक कार­ण­त­द्दो­षा­दी­ना­म­भा­वात् आत्मनो निरं­श­त्वा­द­गृ­ही­त­वि­शे­ष­त्वे­ना­धि­ष्ठा­न­त्वा­यो­गा­च्चे­त्याह -
न त्विह कार­णा­न्त­रा­य­त्ते­त्या­दिना ।
इहेति अह­ङ्का­रा­द्य­धि­ष्ठा­ना­त्मनि इत्यर्थः ।

आका­श­व­न्नि­रं­श­स्यापि न कार्त्स्न्ये­ना­व­भास इति तत्राह -
स्वयञ्ज्योतिष इति ।

स्वय­म्प्र­का­श­त्वेऽपि संवे­द­न­व­द­गृ­ही­तांशः स्यादिति नेत्याह –
निरंशस्येति ।

अनवभासविपर्यासौ न भवत इति ।
अनवभासो न भवत्यत एव विपर्यासोऽपि न स्यादित्यर्थः ।

ब्रह्मणः सर्व­ज्ञ­त्वा­दि­भ्र­मा­धि­ष्ठा­न­त्वा­ज्जी­वस्य चाह­ङ्का­रा­दि­भ्र­मा­धि­ष्ठा­न­त्व­सा­म्येन एकत्वात् ब्रह्मानवभासे जीवानवभास इत्याशङ्क्य आह -
न हि शुक्तेरिति ।

एवं तर्हि सुतरामिति ।
आश्र­य­वि­ष­य­भे­दा­भा­वात् ज्ञान­प्र­का­श­वि­रो­धा­च्चा­ज्ञा­ना­भा­वा­न्ना­ज्ञा­त­त्व­मि­त्यर्थः ।

श्रुतिगतभासेति शब्देन प्रका­श­मा­त्र­स्या­भि­धा­न­मिति शङ्कापनुत्यर्थं चैतन्यपरत्वेन व्याकरोति -
तच्चै­त­न्ये­नै­वेति ।

भ्रम­नि­व­र्त­क­ज्ञा­न­सा­मग्र्याः तद्गतदोषस्य च संस्कारस्य च भ्रम­का­र­ण­त्व­म­न्यत्र दृष्टमिहापि ब्रह्मा­त्म­व­स्त्वा­का­र­श्रु­ति­ज­न्य­बु­द्धि­वृ­त्ति­प्र­ति­बि­म्बि­त­ब्र­ह्मा­त्म­चै­त­न्य­स्या­ह­ङ्का­रा­दि­भ्र­म­नि­व­र्त­क­ज्ञा­न­त्वात् । प्रति­बि­म्ब­प्र­द­त्वेन बिम्ब­भू­त­ब्र­ह्मा­त्म­व­स्तुनो निव­र्त­क­ज्ञा­न­सा­म­ग्री­त्वात् । तस्या­स्त­द्ग­ता­वि­द्या­दो­षस्य च पूर्वा­ह­ङ्का­रा­दि­वि­ना­श­ज­सं­स्का­रस्य चोत्त­रा­ह­ङ्का­रा­दि­भ्र­म­हे­तु­त्वात् कार­ण­त्रि­त­य­ज­न्यत्वं सिध्यति । अविद्यया ब्रह्म­रू­प­स्या­न­व­भा­सा­द­ह­मि­त्या­त्म­नोऽ­व­भा­सात् अगृ­ही­त­वि­शे­षा­त्म­न्य­धि­ष्ठा­नेऽ­ह­ङ्का­रा­ध्या­सात् । परत्र परावभासत्वं च सिध्य­ती­त्य­भि­प्रेत्य आत्म­न्या­च्छा­दि­का­वि­द्या­स्ती­त्याह -
उच्यत इत्यादिना ।

अग्रहणेति ।
आच्छादकेत्यर्थः ।

साङ्ख्या­भि­म­ता­च्छा­द­क­स­त्य­त­मो­गुणं प्रसक्तं व्यावर्तयति -
अविद्यात्मक इति ।

प्रका­श­ज­न­क­च­क्षु­रा­दि­ग­त­श­क्ति­प्र­ति­ब­न्ध­क­का­चा­दिषु दोषशब्दप्रयोगो दृश्यते । अत्रापि चित्प्र­का­श­प्र­ति­ब­न्ध­क­त्वा­द­वि­द्यायाः सुतरां दोष­श­ब्द­वा­च्यत्वं भवतीति मत्वाह -
प्रका­श­स्या­च्छा­दक इति ।

’अनृतेन हि प्रत्यूढा’ इति ।
जीवाः अनृ­त­रू­पा­वि­द्य­या­छ­न्न­तया स्वकी­य­पू­र्णा­न­न्द­ब्र­ह्म­रू­प­मा­त्मानं सुषुप्ते न विजानन्ति नान्येनेत्यर्थः । अनीशयेत्यत्र मुह्यमानः अज्ञा­न­ल­क्ष­ण­मो­हे­नै­कतां गतः, अतो‍ऽनीशया स्वभा­व­सि­द्धे­श्व­र­त्व­स्या­प्र­ति­पत्त्याशोचतीत्यन्वयः ।

तद­र्था­प­त्ति­र­पीति ।
’तरति शोकमात्मवित्’ इति बन्ध­नि­वृ­त्ति­फ­ल­श्रु­त्य­नु­प­प­त्ति­र्नि­व­र्त्या­वि­द्या­म­ध्या­सा­ख्य­ब­न्ध­हे­तु­भूतां गमयतीत्यर्थः ।

अत एवार्थादिति ।
ऐक्ये सत्येव ब्रह्म­रू­पा­न­व­भा­सा­नु­प­प­त्त्या­च्छा­दि­का­विद्या कल्प्यत इत्यर्थः ।

अन्यथेति ।
अयमर्थः, जीवस्य ब्रह्म­रू­प­त्वा­च्छा­दि­का­वि­द्या­भावे परमार्थतो ब्रह्मरूपत्वात् ब्रह्मा­त्म­ता­व­बो­धोऽपि तत्र यदि नित्यसिद्धः स्यात् तदा तादात्म्योपदेशो व्यर्थः स्यादिति । ऐक्ये सति जीवब्रह्मविभागः कथं सिध्ये­दि­त्या­शङ्क्य अविद्यालेशेषु प्रति­बि­म्बि­त­चै­त­न्यानि जीवा इत्युच्यन्ते ।

तेषां बिम्ब­भू­त­म­ख­ण्ड­चै­तन्यं ब्रह्मेत्यतो बिम्ब­प्र­ति­बि­म्ब­भा­वे­ना­वि­द्यया भेद इत्याह –
अतोऽ­ना­दि­सि­द्धेति ।

निर्भा­सा­स्प­द­मिति ।
प्रति­बि­म्बा­स्प­द­मि­त्यर्थः ।

ब्रह्म­व्य­ति­रि­क्त­म­ना­दि­वस्तु नासीदिति तत्राह -
तथा च स्मृतिरिति ।

साङ्ख्या­भि­म­त­प्र­कृ­ते­र­ना­दित्वं स्मृत्योक्तं नाविद्याया इति, नेत्याह –
क्षेत्र­ज्ञ­त्व­नि­मि­त्ता­मिति ।
जीवत्वे हेतु­भू­ता­मि­त्यर्थः ।

स्वयम्प्रकाशस्य अवि­द्या­श्र­य­त्व­स­म्भ­वेऽ­प्य­वि­द्या­वि­ष­यत्वं न सम्भवतीत्यतो नाविद्येति चोदयति -
ननु प्रमा­णा­न्त­र­वि­रोध इति ।

निरंशस्य स्वरू­पा­न­व­भा­सा­नु­प­प­त्ति­रि­त्युक्ते निरंशस्य आकाशस्यावभासो न दृश्यत इत्याशङ्क्याह -
स्वयञ्ज्योतिष इति ।
अतोऽनवभासासम्भवादनवभासाय नावि­द्या­भ्यु­पे­येति भावः ।

सिद्धान्ती आह -
ननु भोक्तुः इति ।

अहङ्कारो न प्रत्यय इति ।
आत्म­क­र्म­क­प्र­त्ययो न भवतीति वक्ष्यत इत्यर्थः ।

भेद­स्या­त्म­मा­त्र­त्वात् आत्म­प­दा­र्थ­ज्ञा­न­मेव भेदे प्रत्यक्षमिति भेदानवभासो नास्तीति चोदयति -
कथं पुनर्भोक्तेति ।

चिज्ज­ड­यो­र्वि­रु­द्धयोः न सत्यै­क­ता­भि­मा­ना­श­ङ्का­स्तीति मत्वाह –
मिथ्यै­वै­क­ता­भि­मा­ना­दिति ।
अतो भेदो नावगत इत्यर्थः ।

आह गौणवादी -
नन्वहमिति ।

यदीति ।

अयो दहतीति अयसि दह­ति­प्र­त्य­येऽ­प्य­यो­व्य­ति­रि­क्त­दा­ह­क­सि­द्धि­वत् देहे मनुष्योऽहमिति प्रत्ययेऽपि देह­व्य­ति­रि­क्ता­त्म­सिद्धिः स्यादि­त्या­शङ्क्य अयसो निष्कृ­ष्ट­व­ह्नि­द­र्श­न­व­द्दे­हा­न्नि­ष्कृ­ष्टा­त्मा­सिद्धेः देह­स्या­हं­प्र­त्य­य­वि­ष­यत्वं मुख्यमिति प्रसज्येतेति मत्वाह -
अन्यस्य तथाग्राहिण इति ।

तद्विरोध इति ।
मनुष्योऽहमिति प्रत्यक्षविरोध इत्यर्थः ।

तथा स्यादिति ।
तथा सति स्यादित्यर्थः ।

अहंप्रत्ययस्य व्यति­रे­क­वि­ष­यत्वे व्यतिरिक्तो व्यतिरिक्त इतिवत् अहं व्यतिरिक्त इत्युक्ते पुन­रु­क्ति­प्र­स­ङ्गात् । व्यक्ति­रे­क­वि­ष­य­त्व­म­हं­प्र­त्य­य­स्ये­त्या­श­ङ्क्याह –
अन्यथेति ।

किमर्थतो व्यति­रि­क्ता­त्म­वि­ष­योऽ­हं­प्र­त्यय उच्यते, किं वा प्रतिभासतः, अर्थतश्चेत् तदध्याससम्भवात् न गौणत्वमित्याह –
यद्यपीति ।

तथा अनध्यवसायादिति ।
अर्थतो व्यति­रि­क्त­वि­ष­य­त्वेऽपि व्यतिरिक्त इति व्यति­रे­क­स्या­स्फु­र­णा­दि­त्यर्थः ।

तद्धर्मानिति ।
कृश­स्थू­ला­दि­ध­र्म­वि­शि­ष्ट­दे­ह­मि­त्यर्थः ।

स एवायमकार इति प्रत्यभिज्ञया सर्वगतत्वादि सिद्धे­र्न­स्व­तोऽ­ह्र­स्व­त्वादि । किन्त्वध्यास एवेत्यभिप्रेत्य आह –
यथैकस्मिन्निति ।

व्यतिरिक्त इति व्यतिरेकस्यापि स्फुर­ण­म­हं­प्र­त्यये नेति पक्षमाह -
अथ पुनरिति ।

अत्य­न्त­भे­द­स्फूर्तौ दृष्टान्तमाह -
रसादिव गन्ध इति ।

परिहरति -
ततस्तत्सद्भाव इति ।

विप्र­ति­प­त्ति­र्ना­स्त्ये­वे­त्या­श­ङ्क्याह -
तत्सिद्धय इति ।

युक्ति­स­ह­कृ­ता­हं­प्र­त्य­येन व्यतिरेकस्यापि प्रतीतेः पाश्चात्याहं मनुष्य इति ज्ञानं गौणमेव स्यात् , तथा प्राक्त­न­म­पी­त्य­भि­प्रे­त्याह -
जिज्ञा­सो­त्त­र­कालं तर्हीति ।

जिज्ञासोर्ध्वं युक्ति­ज्ञा­न­सि­द्धस्य भेदस्य प्रत्य­क्ष­रू­पा­हं­प्र­त्य­य­सि­द्ध­त्वा­भा­वा­ज्जि­ज्ञा­सो­त्त­र­का­ली­नस्य मनुष्योऽहमिति सामा­ना­धि­क­र­ण्य­व्य­व­हा­रस्य कथं गौणत्वमित्याह –
कथमिति ।

देहात्मनोः साधारणतया प्रति­प­न्ना­हं­प्र­त्य­यस्य देहा­दि­र्वि­ष­य­त्वस्य योग्यो न भवति, तद्व्य­ति­रि­क्ता­त्मैव विषयत्वयोग्य इति युक्त्या विवेचने पश्चा­द्व्य­ति­रिक्त इत्य­हं­प्र­त्य­यस्य व्यति­रे­क­सा­ध­क­त्व­म­स्ती­त्याह -
जिज्ञासा नामेत्यादिना ।
अकार इव ह्रस्वत्वाभिमान इत्यस्यायमर्थः । अका­र­वि­ष­य­ज्ञा­नस्य युक्त्य­नु­स­न्धा­ना­दू­र्ध्व­म­प्य­का­र­मा­त्र­वि­ष­य­त्वा­देव ह्रस्वा­द्यै­क्य­भ्र­म­वि­रो­धि­भे­द­प्र­त्य­क्ष­त्वा­भा­वात् युक्ति­सि­द्ध­भे­दस्य परोक्षत्वाच्च यथा ऐक्यभ्रमः तद्वदिति ।

ननु तत्रापि कथमिति ।
तत्र अपिना अध्यास इति भावः ।

अनुभव एवेति ।
अनुभव एवाध्यासं साधयतीति भावः ।

अकारस्य व्यति­रे­क­प्र­ती­ता­वपि ह्रस्वा­दे­स्त­द­भा­वा­द­ध्यास इति चोदयति -
ननु अनुभव इति ।
तत्र तर्क­ब­ला­द्य­था­व­भा­सि­न्यपि अकारे दैवगत्या पृथक्सतो ह्रस्वादेः तथा­न­व­ग­मा­दै­क्या­ध्या­सा­नु­भवः सम्भवतीत्यन्वयः ।

एकस्य पृथक्त्व इति ।
एकस्यैव भेद­स्यो­भ­य­ग­त­त्वा­दि­त्यर्थः ।

इन्द्र­जा­ल­मे­वै­त­दिति ।
मनुष्योऽहमिति ज्ञान­मि­न्द्र­जा­ल­श­ब्दो­दि­त­भ्र­म­रू­प­मेव अवि­द्या­कृ­त­त्वा­दि­त्यर्थः ।

अहंप्रत्ययस्य देहे मुख्य­वृ­त्त्य­भा­वात् देह­स्या­ना­त्म­त्व­मा­भा­स­वि­ष­य­त्वस्य विद्यमानत्वात् सामा­ना­धि­क­र­ण्य­व्य­व­हा­र­स्या­गौ­णत्वं चेत्याह –
तथाहीत्यादिना ।

अहंप्रत्ययस्य देह­वि­ष­य­त्वा­भा­वात् देह­स्या­ना­त्म­त्व­मि­त्याह -
स्ववि­ष­य­प्र­ति­ष्ठ­स्यैव सत इति ।

अहंप्रत्ययस्य स्ववि­ष­या­त्म­मा­त्र­प्र­ति­ष्ठत्वे मनुष्योऽहमिति ज्ञानस्य गौणत्वं प्राप्तमिति नेत्याह -
देहा­दि­प्र­ति­ष्ठ­त्व­मपि दृष्टमिति ।

तर्हि देह­स्या­त्म­त्व­मि­त्या­शङ्क्य देहविषयत्वमाभास इत्याह -
अना­द्य­वि­द्या­कृतं देहा­दि­प्र­ति­ष्ठ­त्व­मिति

आत्मै­क­नि­ष्ठ­तायां प्रतीयमानायां न देह­नि­ष्ठ­ता­प्र­ती­ति­स­म्भव इत्याशङ्क्य आत्मै­क­नि­ष्ठ­ता­प्र­तीतिं प्रति­ब­ध्ना­त्य­वि­द्ये­त्याह –
तदेकप्रतिष्ठाप्रतिबन्धकृदिति ।

युक्ति­ज्ञा­न­स­न्नि­धा­प्या­हं­प्र­त्य­य­स्या­त्म­मा­त्र­नि­ष्ठ­तैव न व्यति­रे­क­सा­ध­क­त्वम् । अतो मनु­ष्योऽ­ह­मि­त्य­प­रो­क्षा­ध्या­स­स­म्भ­वान्न गौणत्वमित्याह -
अतो युक्त्या विष­य­वि­वे­च­नेऽ­पीति ।

न विरुद्ध्यत इत्युक्तमिति ।
अविद्याया अहं­प्र­त्य­य­स्या­त्म­मा­त्र­नि­ष्ठ­ता­प्र­तीतेः प्रति­ब­ध्य­त्वान्न विरुध्यत इत्यु­क्त­मि­त्यर्थः ।

आत्म­नोऽ­गृ­ही­त­वि­शे­ष­त­या­धि­ष्ठा­न­त्व­सिद्धेः परत्र परा­व­भा­स­त्व­म­ह­ङ्का­रा­द्य­ध्या­सस्य सिद्धं भवतीत्याह -
तदेवं स्वयञ्ज्योतिष इत्यादिना ।

पूर्व­का­ल­को­टि­र­हि­तेति ।
अनादीत्यर्थः । प्रका­शा­च्छा­दि­त­त­मो­नि­मि­त्त­मि­त्य­न्त­म­र्थो­प­सं­हारः । श्रुति­त­द­र्था­प­त्ति­स­म­र्पि­त­मिति प्रमाणोपसंहारः ।

अधि­ष्ठा­न­या­था­त्म्या­ग्रा­हि­प्र­मा­णस्य दोष­सं­स्का­रा­भ्या­मु­पे­तस्य भ्रमकारणत्वं दृष्टम् । इहा­प्य­धि­ष्ठा­न­भू­ता­त्म­तया याथा­त्म्य­ब्र­ह्म­रू­प­सा­धक ब्रह्मा­त्म­चै­तन्ये अवि­द्या­प्र­सा­ध­नात् चैतन्यमविद्या चेति कारणद्वयं सिद्धम् । इदानीं पूर्व­पू­र्वा­ह­ङ्का­रा­दि­ना­श­ज­न्य­सं­स्का­र­स्या­वि­द्या­श्र­यस्य सम्भवात् कारणत्रितयं लभ्यत इत्याह –
अनादित्वाच्चेति ।

कार­ण­त्रि­त­य­ज­न्यै­क­ज्ञा­न­वि­ष­य­त्व­म­धि­ष्ठा­ना­रो­प्य­यो­र्व­क्त­व्यम् । आत्मनि तदभावान्नाध्यास इत्याशङ्क्य तत्रा­प्ये­क­स्फु­र­ण­त्व­मे­वा­धि­ष्ठा­ना­रो­प्य­भावे प्रयोजकम् , न तु जन्य­ज्ञा­न­वि­ष­य­त्व­मि­हा­प्य­ह­ङ्का­र­स्फु­र­णा­द­न्य­त्स्फु­र­ण­मा­त्मनो नास्तीत्याह –
पृथ­ग्भो­क्तृ­वि­ष­या­नु­भ­व­फ­ला­भा­वा­दिति ।

अन्तः­क­र­ण­स्फु­र­णात् पृथ­क्फ­ल­त्वा­भा­वेन चैत­न्य­स्या­धि­ष्ठा­न­त्वम् । इह त्वात्मा­ह­ङ्का­र­यो­रे­क­स्फु­र­ण­त्वा­द­धि­ष्ठा­ना­रो­प्य­भावो युक्त इत्याह –
भोक्तृ­चै­त­न्य­सं­व­लि­तेति ।
संव­लि­त­त्वे­ने­त्यर्थः ।

परत्र परा­व­भा­स­स्ये­त्युक्ते आधाराधेयत्वं प्राप्तं व्यावर्तयति -
अन्यो­न्य­स­म्भे­द­स्येति ।

कोऽयमध्यासो नामेति भाष्ये कृत­म­ध्या­सा­क्षे­प­म­ज्ञा­नम् । तं प्रति स्वीया­क्षे­पा­भि­प्रायं विवृणोति, न त्वपू­र्व­मा­क्षेपं करोति - कथं पुन­रि­त्या­दि­ने­त्याह –
कोऽयमिति ।

किं वृत्तस्येति ।
किंशब्देन निष्पन्नक इति शब्दस्येत्यर्थः ।

विशे­षा­नु­प­ल­ब्धे­रिति ।
अध्यासं ब्रूहीति वा अध्यासो न सम्भवतीति वा विशे­षा­नु­प­ल­ब्धे­रु­भयं कृतमपीत्यर्थः ।

पृष्टमनेनेति ।

मत्वेति ।
अनेन पृष्टमेवेति मत्वेत्यर्थः ।

आक्षिप्तं मयेति ।
आक्षिप्तमपि मयेत्यर्थः ।

प्रत्यगिति ।
इन्द्रियाविषय इत्यर्थः । आत्मनि अपरिच्छिन्न इत्यर्थः । अविषये आरोप्येण सहैकज्ञानाविषय इत्यर्थः ।

यदि साधितार्थे अज्ञा­न­म­प­ला­पोऽ­ना­दरो वा स्यात् तदा वादार्हो न स्यात् । अतोऽ­नु­वा­दे­ना­ज्ञा­ना­द्य­भावं वादार्हत्वाय दर्शयति पूर्ववादी -
बाढमेवमिति ।
लोके भव­त्वे­वं­ल­क्ष­णोऽ­ध्यासः इत्यर्थः ।

इहेति ।
आत्मनीत्यर्थः । स चेहेति चकारात् लक्षणमपि न सम्भवतीत्युच्यत इति द्रष्टव्यम् ।

पूर्वभाष्ये आत्म­न्य­ह­ङ्का­रा­द्य­ध्यासे लक्षणस्य सम­र्थि­त­त्वा­ल्ल­क्ष्या­ध्या­सोऽ­प्य­स्तीति चोदयति -
कथमिति ।

आत्मनो अधि­ष्ठा­न­त्व­यो­ग्य­त्वा­भा­वा­द­ध्यासो न सम्भवतीति वदितुं लोके अधिष्ठानत्वे प्रयोजकाकारमाह -
सर्वो हि पुरोऽवस्थित इति ।
अस्यायमर्थः, पुरोवस्थिते इन्द्रि­य­स­म्प्र­यु­क्तेऽ­व­स्थिते अवच्छिद्य स्थितः अवस्थितः, परिच्छिन्नः तस्मिन् विषये आरोप्येण सहैकज्ञानविषये विष­या­न्त­र­म­ध्य­स्य­तीति आत्म­नोऽ­न्य­ग­त­ज्ञा­ना­वि­ष­य­त्वेऽपि स्वगतज्ञानविषयत्वम­स्ती­त्या­शङ्क्य तथा सति स्वेनैव स्वं युष्मदिति ग्राह्यं स्यात् ,

तद­भा­वा­न्न­वि­ष­य­त्व­मा­त्र­मि­त्याह -
युष्म­त्प्र­त्य­या­पे­तस्य चेति ।

प्रत्यगिति ।
इन्द्रि­य­प्रे­र­क­त्वा­न्ने­न्द्रि­य­क­र्म­त्वेन परा­क्त्व­मि­त्यर्थः ।

आत्मन इति ।
आप्नोतीति व्युत्पत्त्या अप­रि­च्छि­न्न­त्वान्न परिच्छेद इत्यर्थः ।

विषये विष­या­न्त­र­स्या­ध्या­स­व­द­वि­ष­या­त्मनि बुद्धि­क­र्तृ­त्वेन बुद्ध्य­वि­ष­या­ह­ङ्का­र­स्या­ध्यासः स्यादिति नेत्याह -
न हीति ।

न ह्यवि­ष­येऽ­ध्या­सोऽ­दृ­ष्ट­पू­र्व­त्वा­देव नात्मन्यसम्भवः ? इत्याह -
सम्भवी वेति ।

अथवा ज्ञानं ज्ञाना­न्त­र­क­र्मेति अविषये ज्ञाने अवि­ष­य­ज्ञा­ना­न्त­र­क­र्म­तया अध्यासो दृष्ट इत्याशङ्क्याह -
सम्भवी वेति ।

इन्द्रि­य­ज­न्य­ज्ञा­न­वि­ष­य­मा­त्रस्य परि­च्छि­न्न­मा­त्रस्य जडमात्रस्य चारोप्यत्वात् तद्वि­प­री­ता­ज­डा­प­रि­च्छि­न्ना­वि­ष­या­त्म­नोऽ­धि­ष्ठा­नत्वं सम्भ­व­ती­त्य­भि­प्रे­त्याह -
उच्यत इति ।

लोकेऽपि विष­य­त­या­धि­ष्ठा­न­शु­क्ती­द­मंशे इन्द्रि­य­ज­न्य­ज्ञा­न­वि­ष­यत्वं परिच्छिन्नतया स्फुरितत्वं च विद्यते । तत्र केव­ल­व्य­ति­रे­का­भा­वात् स्फुर­ण­ज­न­क­त्वे­ना­न्य­था­सि­द्ध­त्वा­च्चे­न्द्रि­य­ज­न्य­ज्ञा­न­वि­ष­य­त्व­म­धि­ष्ठा­नत्वे प्रयोजकं न भवति । किन्तु परिच्छिन्नतया स्फुरितत्वमेव प्रयोजकम् । तदात्मन्यपि सम्भवति । अहङ्कारे अभिव्यक्तत्वेन परिच्छिन्नतया स्फुरि­त­त्वा­दि­त्याह -
न तावदयमिति ।

नन्व­ह­ङ्का­रा­ध्यासे तदुपाधिकतया आत्मनः परिच्छिन्नतया स्फुरितत्वम् , परिच्छिन्नतया स्फुरितत्वे अह­ङ्का­र­स्या­ध्यास इती­त­रे­त­रा­श्र­यत्वं स्यादिति, तन्न, पूर्व­क­ल्प­ना­ह­ङ्का­र­सं­स्का­रा­व­च्छि­न्न­तया स्फुरिते अद्य­त­ना­ह­ङ्का­रा­ध्यासः अद्य­त­ना­ह­ङ्का­रा­व­च्छि­न्न­तया स्फुरिते तत्सं­स्का­रा­ध्यास इत्यनादित्वात् । अस्म­त्प्र­त्य­य­श­ब्दे­ना­त्म­वि­षयं ज्ञानमुक्तमिति मन्वानश्चोदयति -
ननु विष­यि­ण­श्चि­दा­त्मनः कथं विषयभाव इति ।
विषयित्वात् विषयत्वं न सम्भवति । चित्वाच्च जडे विद्य­मा­न­वि­ष­यत्वं न सम्भवतीत्यर्थः ।

इद­न्ता­स­मु­ल्लेख्य इति ।
इदमिति प्रकाश्य इत्यर्थः ।

प्रका­श्य­वै­प­री­त्य­माह -
प्रकाश इति ।

एकस्यैव कण्डूयनकर्मत्वं कण्डू­य­न­क­र्तृत्वं चेति विरु­द्ध­रू­प­द्व­य­स­न्नि­वेशो दृष्टः इत्याशङ्क्याह –
निरंशस्येति ।

अस्म­त्प्र­त्य­य­त्वा­भि­म­तोऽ­ह­ङ्कार इति ।
आत्मनो व्यञ्जकतया तस्य परिच्छिन्नतया स्फुरितत्वे निमित्तं स्फटि­क­म­णि­क­ल्प­मा­त्म­न्य­ध्य­स्त­द्र­व्य­म­स्म­त्प्र­त्ययः । न त्वात्म­क­र्म­क­ज्ञा­न­मि­त्यर्थः ।

नन्विदं रजतमितिवत् अध्यस्तत्वे अहमित्यत्रापि द्वैरूप्यावभासो वक्तव्य इत्यत आह -
स चेद­म­नि­दं­रू­प­व­स्तु­गर्भ इति ।
स्वय­म्प्र­का­श­चै­त­न्ये­ना­ह­ङ्का­र­ग­त­जा­ड्य­ति­र­स्का­रात् तस्मिन्नहङ्कारो गर्भितः । अहङ्कारेण चैत­न्य­ग­त­स्व­य­म्प्र­का­श­त्व­ति­र­स्का­रात् चैतन्यमहङ्कारे गर्भितमित्यर्थः ।

सर्वलोकसाक्षिक इति ।
सर्वलोकस्य प्राणिजातस्य साक्षिकः । स्वसा­क्ष्या­त्मना साक्षात्कृतोऽतो द्वैरूप्ये साक्षि­प्र­मा­ण­म­स्ती­त्यर्थः ।

अहमिति प्रतीयमानं इदमनिदंरूपत्वेन न साक्षात्कुर्मः इत्याशङ्क्य अहं दुःखीति दुःखरूपेण परिणाम्येकं वस्तु तदैव जिहा­सि­त­दुः­ख­ध­र्मि­तया नित्य­प्रे­मा­स्प­द­सु­खा­त्म­क­म­परं वस्तु च प्रतीयते । तस्मा­द्व­स्तु­द्व­य­म­व­धा­नेन वीक्ष्य वदन्त्वित्याह –
तम­व­हि­त­चे­त­स्त­येति ।

अहं जानामीति ज्ञानरूपेण परिणामितया ज्ञानात् द्रष्ट्टत्वाख्यपरि­णा­मि­चि­द्रू­प­तया च वस्तु­द्व­य­म­स्ती­त्य­व­लोक्य वदन्त्वित्याह -
निपुणमभिवीक्ष्येति ।

अहमिदं जाना­मी­त्य­त्रा­ह­ङ्कारे बुद्धौ बोध्ये च युगपत् त्रित­य­सा­ध­क­त्वा­नु­भ­वा­त्मना अनु­स्यू­त­चै­त­न्य­म­ह­मिति व्यावृत्तरूपं चेति वा मते तदप्यवलोक्य वदन्त्वित्याह –
निपु­ण­त­र­म­भि­वी­क्ष्येति ।

विषयसंविदाश्रय आत्मा, तत्राहमिदं जानामीति संवि­दा­श्र­य­त्वे­ना­व­भा­स­मा­नोऽ­ह­ङ्कारः कथमिदमंशः स्यादिति चोदयति -
ननु किमत्रेति ।

अहमित्यनुभव इति ।
अह­मि­त्य­नु­भू­य­मा­ना­ह­मा­कार इत्यर्थः ।

देहस्यानाश्रयवद­नु­भ­वा­ना­श्र­योऽ­प्या­श्र­य­वत् अवभासते । अतोऽहमाकारः इदमंश एवेति चोदयति -
कथमिति ।

अहङ्कारस्यैव मुख्यं विष­य­सं­वि­दा­श्र­य­त्व­म­त­स्त­स्यै­वा­त्म­त्वम् ; अयोव्यतिरेकेण दहनाश्रय वह्निदर्शनवत् अन्यस्य संवि­दा­श्र­य­स्या­द­र्श­नात् अतोऽत्र नेदं रूपमिति साधयितुं प्राभाकरस्य सिद्धा­न्त­मु­प­न्य­स्यति -
प्रमातृ - प्रमेय - प्रमितय इत्यादिना ।

तत्रा­त्म­नोऽ­न्तः­क­र­ण­ग­त­चि­त्प्र­ति­बि­म्बे­ना­नु­मे­य­तया सिद्धिः साङ्ख्यैरुक्ता । विषयस्य संवे­द­न­ग­त­वि­ष­या­का­र­प्र­ति­बि­म्बेन अनुमेयतया सिद्धिः बौद्धैरुक्ता, ज्ञानस्य फलानुमेयतया सिद्धिः भाट्टैरुक्ता, तान् व्यावर्तयति -
प्रमातृ - प्रमेय - प्रमितय इति ।

विज्ञा­ना­भे­दा­द्वि­ष­य­स्या­प­रो­क्षा­व­भासं विज्ञा­न­वा­द्य­भि­मतं व्यावर्तयति -
प्रमेयं कर्मत्वेनेति ।

आत्मनो मान­स­प्र­त्य­क्ष­क­र्म­तया अपरोक्षत्वं वार्तिककार - न्याय - वैशेषिकाभिमतम् , प्रमि­ति­स्त्वा­त्मनि गता­सं­यु­क्त­स­म­वा­य­नि­मि­त्त­ज्ञा­ना­न्त­रा­द­प­रो­क्षेति न्यायवैशेषिकौ, प्रमेयगता प्रमितिः संयु­क्त­ता­दा­त्म्यात् ज्ञानान्तरात् अपरोक्षेति वार्तिककारीयाः तान् व्यावर्तयति -
प्रमातृप्रमिती पुनरिति ।

आत्मप्रमित्योः स्वय­म्प्र­का­शत्वे गौरवादात्मैव स्वयम्प्रकाश इति नेत्याह -
प्रमितिः, स्वयम्प्रकाश इति ।

स्वय­म्प्र­का­शत्वे हेतुमाह –
प्रमाणफलमिति ।
प्रमा­ण­फ­ल­त्वा­दि­त्यर्थः ।

प्रमि­ते­र्वि­ष­य­स्थ­त्वा­देव जडत्वान्न स्वप्र­का­श­त्व­मि­त्या­शङ्क्य आत्मस्थानुभव एव प्रमितिरित्याह -
प्रमितिरनुभव इति ।

आत्मस्थरूपेण अनुभव इति ।
विषयस्य स्पष्टरूपेण प्रमितिरिति अनुभव एव द्विधोच्यत इत्यभिप्रायः ।

अतः हानो­पा­दा­नो­पेक्षाः प्रमाणफलमिति पक्षं व्यावर्त्य फलस्वरूपमाह -
प्रमितिरनुभव इति ।

इतरत्प्रकाशत इति ।
प्रमा­ता­नु­भ­वा­श्र­य­त्वेन प्रकाशत इत्यर्थः ।

संवे­द­न­मे­वा­र्था­का­र­मिति रूपेण प्रमा­ण­म­र्थो­प­ल­ब्धि­रिति रूपेण तदेवफलमिति सौगतमतं व्यावर्तयति -
प्रमाणं तु प्रमातृव्यापार इति ।
अर्थेन्द्रियमन - आत्मनां संयो­गा­ख्य­च­तु­ष्ट­य­स­न्नि­कर्ष इत्यर्थः ।

प्रमितिहेतोः (प्रमाख्य) प्रमा­तृ­व्या­पा­रस्य प्रमा­तृ­प्र­मि­ति­प्र­मे­य­को­टिषु निवे­शा­भा­वा­द­सिद्धिः स्यादि­त्या­शङ्क्य प्रमि­ति­लि­ङ्गे­ना­नु­मे­य­तया सिद्धिरित्याह -
फललिङ्गो नित्यानुमेय इति ।

अहमिदं जानामीत्यत्र अना­त्म­वि­ष­या­नु­भ­वा­ति­रि­क्त­मा­त्म­वि­ष­य­मपि ज्ञानमस्तीति नेत्याह -
तत्राहं इदं जानामीति ।

आत्मा त्विति ।
अहमिदमनुभवामीति विष­य­फ­ल­स­म्ब­न्धि­त्वेन आत्म­नोऽ­व­भा­स­मा­नत्वं विष­या­नु­भ­वा­श्र­य­त्व­ब­ला­न्ना­त्म­वि­ष­य­ज्ञा­न­व्या­पा­रा­दि­त्यर्थः ।

आत्मा कर्म­त्वे­ना­व­भा­सते अव­भा­स­मा­न­त्वा­द­ना­त्म­व­दिति भाट्टश्चोदयति -
ननु नायमिति ।
अहमुल्लेखः, अहमवभासः । आत्मावभास इत्यर्थः ।

एकस्यानात्मनः एकस्यां क्रियायां कर्तृत्वेन गुणभावः, कर्मत्वेन प्राधान्यं च अनुक्तमिति तत्राह –
तस्मिंश्चेति ।

ज्ञातृत्वेन प्रमातृत्वमिति ।
ज्ञान­क्रि­या­श­क्ति­म­दिति विशेषरूपेण प्रमा­तृ­त्व­मि­त्यर्थः ।

कर्मतया आत्मा­व­भा­स­क­त्वात् आत्म­वि­ष­य­ज्ञा­न­मपि घटज्ञानवदिदं प्रत्ययः स्यादि­त्या­शङ्क्य प्रथमं जडाकारमवलम्ब्य तद­व­च्छि­न्न­स­द्रू­पा­त्मनि पर्यवसानात् घटादिज्ञानस्यैव इदंप्रत्ययत्वम् , अहमिति प्रत्ययस्य तु आत्मा साधारणं ज्ञात्राकारं विषयीकृत्य पश्चा­द्घ­टा­दि­सा­धा­र­ण­द्र­व्या­कारे पर्य­व­सा­ना­द­हं­प्र­त्य­य­त्व­मि­त्याह –
प्रमा­तृ­प्र­मे­य­नि­र्भा­स­रू­प­त्वा­द­हं­प्र­त्य­य­स्येति ।

अनंशत्वादिति ।
द्रव्यरूपस्य आत्मा­ना­त्म­सा­धा­र­ण्यात् आत्मत्वायोगात् , आत्मासाधारणस्य ज्ञानरूपस्य निरंशत्वात् तत्र न कर्तृ­क­र्म­व्य­व­स्थे­त्यर्थः ।

अप­रि­णा­मि­त्वा­दिति ।
ज्ञानरूपस्य निरवयवस्य युगपत् ज्ञान­द्व­य­प­रि­णा­मा­यो­गा­दि­त्यर्थः ।

प्रमेयस्य चेति ।
ग्राहकरूपस्य संविदाश्रयत्वेन स्वय­म्प्र­का­श­त्वेन च सिद्ध्य­न­भ्यु­प­ग­मा­द­सि­द्ध­त्वा­यो­गाच्च कर्मतया सिद्धि­र्व­क्तव्या, तथा सत्य­ना­त्म­त्व­मि­त्यर्थः । नीला­दि­ज्ञा­न­फ­ल­मि­त्यत्र ज्ञानशब्देन ज्ञायतेऽनेनेति व्युत्पत्त्या चतु­ष्ट­य­स­न्नि­क­र्षा­ख्य­सा­म­ग्र्य­भि­धा­न­मिति द्रष्टव्यम् ।

अहङ्कारस्य अनात्मत्वं साधयितुमात्मनः स्वय­म्प्र­का­श­त्व­सा­ध­नाय विकल्पयति -
अत्रेदमिति ।

उभयस्यपि स्वय­म्प्र­का­शत्वे कल्पनागौरवं प्रसज्येत, तत्परिहारार्थं एकः स्वयम्प्रकाश इति पक्षमाह -
किमात्मा चैतन्यप्रकाश इति ।

अनुभवस्य जडत्वे जगतः आन्ध्य­प्र­स­ङ्ग­प­र­हा­रार्थं पक्षान्तरमाह -
उत सोऽपि इति ।

पुनरिति ।

कल्पनागौरवं प्राप्तं परिहर्तुं अन्यं पक्षमाह -
अथवा स एव चैतन्यप्रकाश इति ।

ज्ञापनव्यवधानेन विषये प्रका­शा­दि­व्य­व­हा­र­नि­मि­त्त­च­क्षुषो जडत्वमस्तु, अव्यवधानेन विषये प्रका­शा­दि­व्य­व­हा­र­नि­मि­त्त­त्वात् प्रमाणफलस्य स्वयं प्रकाशत्वं वक्तव्यमन्यथा विश्वस्यानवभासः स्यादित्याह -
जडरूपे प्रमाणफल इति ।

तद्बलेनेति ।
जडा­नु­भ­व­ब­ले­ने­त्यर्थः ।

चित्स्व­भा­व­स्या­त्मनो जड­रू­पा­नु­भ­वा­पे­क्षया चेतयितृत्वे दृष्टान्तमाह –
प्रदीपेनेवेति ।

तन्न, स्वयं चैत­न्ये­त्या­दे­र­य­मर्थः, चित्स्व­भा­व­स्या­न्या­धी­न­तया प्रकाशमानत्वं न सम्भवति । विष­य­प्र­मा(ल­क्ष­णा­य)प्र­व­णे­ना­त्मनः प्रकाशमानत्वं च न सम्भवति । चैत­न्य­स्या­चे­त­नेन प्रकाशमानत्वमपि न सम्भवति । चिद्रूपात्मनो जडा­नु­भ­व­नि­मि­त्त­तया विषयोपरागे सति आत्मचैतन्येन विष­य­स्या­व­भा­स­मा­नत्वं विना जडानुभवादेव अवभासमानत्वं च न सम्भवति इति प्रमाणफलस्य प्रदी­प­व­ज्ज­ड­त्वा­ङ्गी­का­रात् , तस्याव्यवधानेन विषये प्रकाशत इति व्यव­हा­र­हे­तु­त्वा­भा­वात् , तेन चेतयत इति जन्यानुभवान्तरं वक्तव्यम् । तस्यापि जडत्वात् तेन चेतयत इत्य­नु­भ­वा­न्त­र­मि­त्य­न­व­स्थे­त्याह -
किञ्च प्रमाणफलेन चेदिति ।

विशे­ष­हे­तु­र्वाच्य इति ।
आत्मानुभवयोः चिद्रू­प­त्वा­वि­शे­षेऽपि आत्मनः स्वय­म्प्र­का­शत्वे विशे­ष­हे­तु­र्वाच्य एव, न कदाचिदप्युक्तो भवतीत्यर्थः ।

घटा­प­रो­क्ष्य­व­दा­त्मा­प­रो­क्ष्य­मपि ज्ञानाधीनमिति, नेत्याह -
न हि चैतन्यस्वभावः सन्निति ।

प्रदीपस्य स्वोत्प­त्त्यर्थं प्रदी­पा­न्त­रा­पेक्षा विद्यत इत्याशङ्क्य विशिनष्टि -
प्रकाशन इति ।

अनुभवस्य क्रिया­त्व­द्र­व्य­त्व­यो­र­स­म्भ­वात् गुणत्वे वक्तव्ये सवि­तृ­प्र­का­श­व­त्तस्य स्वध­र्म्या­त्मत्वं सत्ता­या­म­व्य­भि­चा­रात् आत्म­स्व­रू­प­तै­वे­त्या­त्मैव चिद्रूपप्रकाशः स्यादित्याह –
अनिच्छतोऽपीति ।

आत्मनोऽन्यत् कादा­चि­त्क­द्र­व्य­म­नु­भव इति नेत्याह -
न तदतिरिक्तेति ।

जन्या­नु­भ­व­स्या­ज­न्या­त्मा­ति­रि­क्त­त्व­म­स्तीति शङ्कते -
कथमिति ।

अनुभवस्य स्वतो भेदाभावेन देश­का­ला­न­व­च्छे­दा­दा­त्म­स्व­रू­प­तैव न जन्य­त्व­मि­त्यु­प­पा­द­यति -
प्रमा­ण­ज­न्य­श्चे­दि­त्या­दिना ।

अनुभवभेदे सति तेष्वनुभव इत्ये­क­श­ब्द­प्र­यो­ग­हे­तु­त्वेन अनुभवत्वं नाम सामान्यं वक्तव्यम् । तच्च सामान्यं किं जडं चित्स्वभावं वा, जडं चेन्नानुभवगतं स्यात् चैतन्यं चेत् अनु­भ­व­स्व­रू­प­त्वा­देव नानुभवगतत्वम् । अतः सामान्याभावाच्च नानुभवभेद इत्ये­का­त्मै­का­नु­भव इत्याह -
सर्वानुभवानुगतं चेति ।

विन­ष्ट­पी­त­सं­वि­द­पे­क्षया स्थितनीलसंविदो भेदोऽ­स्ती­त्या­शङ्क्य स्थिता­भे­दा­द्वि­न­ष्ट­त्व­म­सि­द्ध­मि­त्याह -
ननु विन­ष्टा­वि­न­ष्ट­त्वे­नेति ।

नीलसंविदो जन्यत्वात् पीतसंविदो विन­ष्ट­ते­त्या­श­ङ्क्याह -
सा च जन्यत्व इति ।

भेदाभावसाधनेन सुगतभाषापि निरस्तेत्याह –
एतेनेति ।

चित्प्रकाशस्य स्वरूपभेदोऽस्ति चेत् भेदस्य प्रकाशाभेदात् प्रकाशेन भवितव्यम् , अप्रकाशनं तु भेदाभावादेव न सादृश्यादित्याह -
न हि चित्प्र­का­श­स्येति विभ्रमः स्यादिति ।
अभेदभ्रमः स्यादित्यर्थः ।

अभिहितं तत्राप्रकाशने प्रमाणमिति ।
अप्र­का­श­न­हे­त्व­वि­द्यायां प्रमा­ण­मु­क्त­मि­त्यर्थः ।

संविदः सादृश्या प्रति­ब­द्ध­भे­दा­व­भासाः, स्थायिप्रकाश इति बुद्धि­वे­द्य­त्वात् ज्वाला­व­दि­त्या­श­ङ्क्याह -
न हि सामान्यतो दृष्टमिति ।

पूर्वा­प­र­सं­वि­दे­क­रू­पा­नु­भवो भेदस्य च भावे प्रकाशेन भवि­त­व्य­मि­त्य­नु­भ­व­युक्ती दर्शित इत्याह -
दर्शिते चेति ।

आत्मचैतन्यस्य नित्यस्य कथं विष­या­नु­भ­व­त्व­मिति तदाह -
तस्मा­च्चि­त्स्व­भाव इति ।

उपधीयमान इति ।
घटाद्युपाधिना ज्ञायमानो गम्यमानो व्याप्यमान उपाधिना अवच्छिद्यमान इत्यर्थः ।

सर्व­ग­ता­त्म­चै­त­न्यस्य आका­शा­दि­प्र­मे­यै­र­व­च्छि­न्न­तया कार्‌त्स्न्ये­ना­नु­भ­व­रू­पे­णैव उपयुक्तत्वात् आका­रा­न्त­रा­भा­वात् आत्म­श­ब्दा­र्थत्वं न सम्भ­व­ती­त्या­शङ्क्य कृत्स्नो­पा­धि­वि­नि­र्मुक्तं तदे­वा­त्मा­दि­श­ब्द­वाच्यं भवतीत्याह –
अवि­व­क्षि­तो­या­धि­रिति ।

आत्म­स्व­रू­प­चै­त­न्येन विषयोपरागात् विष­या­नु­भ­व­श­ब्दि­तेन आत्मा प्रकाशत इत्युक्त्या विष­या­नु­भ­वा­श्र­य­को­टि­तया आत्मा सिध्यतीति त्वयोक्तं तत्तथैवेत्याह पूर्ववादी -
बाढमिति ।

अत एवेति ।
विष­या­नु­भ­वा­श्र­य­तया सिद्ध­स्या­त्म­त्वा­दे­वे­त्यर्थः ।

अह­म­नु­भ­वा­मी­त्य­ह­ङ्का­रस्य विष­या­नु­भ­वा­श्र­य­त्व­प्र­तीतेः अहङ्कार एवा­त्म­त­याऽ­नि­दं­रूपो नान्य इत्याह -
विष­या­नु­भ­व­नि­मित्त इति ।
योऽहङ्कारः सोऽनिदमात्मको वर्णित इत्यु­द्दे­श्य­वि­धे­य­भा­वोऽत्र द्रष्टव्यः ।

विष­या­नु­भ­व­श­ब्दि­तेन आत्म­स्व­रू­प­चै­त­न्ये­ना­ह­ङ्का­रस्य सिद्धिरस्त्येव, न तु चैत­न्या­ख्या­नु­भ­वा­श्र­य­त्व­म­नि­दं­रू­पत्वं चास्ति । चैत­न्या­ख्या­नु­भ­वस्य आत्मस्वरूपतया तन्निष्ठत्वात् अह­ङ्का­र­नि­ष्ठ­त्वा­भा­वात् इत्याह –
सत्यमेवमिति ।

अह­ङ्का­र­स्या­नु­भ­वा­श्र­य­त्व­प्र­तीतेः अनुभवस्तन्निष्ठ एवेत्याशङ्क्य अयो दहतीत्यत्रायस इवा­ना­श्र­य­त्वेऽपि प्रतिभासः स्यादित्याह –
किन्त्विति ।

अनयोः व्यतिरेकेण दह­ना­श्र­य­व­ह्नि­द­र्श­न­वत् अह­ङ्का­र­व्य­ति­रि­क्ता­त्मा­द­र्श­नात् , अह­ङ्का­र­स्यै­वा­नु­भ­वा­श्र­य­त्व­मा­त्मत्वं चेत्याशङ्क्य, सुषुप्तावात्मनि सत्ये­वा­ह­ङ्का­र­स्या­भा­वात् न तस्या­त्म­त्व­मि­त्याह -
तथा सति अहमुल्लेखः स्यादिति ।
अहङ्कारः स्यादिति च भासः स्यादित्यर्थः ।

विष­या­नु­भ­वा­भा­वा­द­ह­ङ्का­रस्य सुषुप्तावनवभासः न त्वह­ङ्का­रा­भा­वा­दिति चोदयति -
कथमिति ।
विष­या­नु­भ­वा­भा­वोक्त्या चैतन्याभावो वक्तुं न शक्यते चैत­न्य­स्या­त्म­स्व­रू­प­तया नित्यत्वोक्तेः चैतन्यस्य नीला­दि­वि­ष­य­स­म्ब­न्धा­भा­वोक्तौ न तेना­त्म­त्वा­भि­म­ता­ह­ङ्का­रस्य अप्रतीतिः ।

नील­स­म्ब­न्ध­स्या­त्म­सि­द्धि­हे­तु­त्वा­भा­वा­दि­त्याह -
नीलानुषङ्ग इति ।
नीलाभोग इति नील­सि­द्धि­रि­त्यर्थः ।

अह­मि­त्या­त्मा­व­भा­सत इति ।
आत्मा त्वहमित्यवभासते । अतः इद­मि­त्य­व­भा­स्य­नी­ल­सि­द्धि­हेतुः नीलानुषङ्गो नात्म­सि­द्धि­हे­तु­रि­त्यर्थः ।

दर्श­न­क्रि­या­व्या­प्त­द्र­ष्ट्रा­का­रस्य अह­मि­त्य­व­भा­स्य­त्वात् तद­भा­वा­द­ह­मि­त्य­न­व­भासः सुषुप्त इत्याशङ्क्य तस्य सप्र­ति­यो­गि­क­त्वेन अना­त्म­त्वा­न्ना­ह­मि­त्य­व­भा­स्य­त्वम् । अतोऽहङ्कारस्य केव­ल­स्या­ह­मि­त्य­व­भा­स्य­त्वात् तस्य सुषु­प्तेऽ­व­स्था­नेऽ­ह­मि­त्य­व­भा­सेन भवितव्यमित्याह -
तत्र यदि नामेति ।
विषयानुषङ्गो नाम आत्म­स्व­रू­प­चै­त­न्यस्य विषयसम्बन्धः । स एव विषयानुभव इति द्रष्टव्यम् ।

जाग्र­द­व­स्था­या­म­ह­मिति प्रतीयमानं चिन्मात्रमेव । तत्सु­षु­प्ता­व­प्य­नु­भू­यत एव । अतोऽहमिति प्रतिपन्ने किञ्चि­त्सु­प्ता­व­न­नु­भूतं नास्तीति चोदयति -
न त्वहमिति ।

भोक्तृत्वमिति ।
भोक्तृत्वशब्देन चिन्मा­त्र­मु­च्यते,

जाग्रत्यहमिति प्रति­प­न्न­चि­न्मा­त्रस्य सुषु­प्ता­व­व­भा­सेऽ­ह­मि­त्य­व­भासः स्यात् इत्याशङ्क्य नीला­दि­स­म्ब­न्धा­ख्य­वि­ष­या­नु­भ­वा­भा­वा­न्ना­ह­मिति प्रति­भा­स­प्र­सङ्गः सुषुप्त इत्याह -
तदभावे कथमिति ।

जाग्रत्यहमिति प्रतीतं चिन्मात्रं चेत् सुषुप्तावपि प्रतीयमानमहमिति प्रतीयादित्याह -
नैतत् सारमिति ।

उपाधिपरामर्श इति ।
चैतन्यस्य नीला­दि­वि­ष­यो­प­रागे सतीत्यर्थः ।

तत्परामर्शो हि तत्सि­द्धि­नि­मित्त इति ।
नीलाद्युपरागो नीला­दि­सि­द्धि­हे­तु­रि­त्यर्थः ।

न स्वरूपसिद्धये हेतुरिति ।
सिद्धि­हे­तु­रि­त्यर्थः ।

स्वमा­हा­त्म्ये­नैव तु स्वरू­प­सि­द्धि­रिति ।
स्वयम्प्रकाशतया चिद्रू­पा­त्म­सि­द्धि­रि­त्यर्थः ।

दृशि­स्व­रू­प­त्वा­वि­शे­षा­दिति ।
सुषुप्तौ प्रती­त­चि­द्रू­पस्य जाग्रत्यहमिति प्रती­त­चि­द्रू­पस्य चेत्यर्थः ।

उत्त्थितस्याहमित्युत्पन्ना प्रतीतिः सुषु­प्ता­व­नु­भू­ता­ह­ङ्का­रस्य स्मरणमिति नेत्याह -
ह्यस्तन इवेति ।
पूर्वस्मिन् दिने अह­मि­त्य­भि­म­न्य­मान एवासमिति स्मर्य­मा­ण­व­दि­त्यर्थः ।

अविनाशिनः संस्का­रा­भा­वा­दिति ।
संस्का­र­सा­ध­का­त्म­चै­त­न्य­स्या­वि­ना­शान्न संस्का­र­ज­न्मे­त्यर्थः ।

विष­या­नु­भ­वा­श्र­य­तया सुषु­प्ता­व­ह­ङ्का­रस्य सिध्यसम्भवेऽपि उत्त्थितस्य परामर्शसिद्ध्यै सौषु­प्ति­क­सु­खा­नु­भ­वा­श्र­य­तया अहङ्कारः सिद्ध इति चोदयति -
नन्वस्त्येवेति ।

सुषुप्तौ सुखानुभवाय सुख­हे­तु­वि­ष­या­नु­भ­वोऽपि वक्तव्य इति नेत्याह –
नात्म­नोऽ­न्य­स्येति ।

अस्तीति ।

उत्थितस्य परा­म­र्शा­ख्य­स्म­र­ण­रू­प­सु­खा­व­मर्शः दुःखाभावनिमित्त इति । ।
उत्थितस्य दुःखास्मरणेन अनुमितदुःखाभावे सुख­म­ह­म­स्वा­प्स­मिति व्यपदेश इत्यर्थः ।

सुखशब्दस्य मुख्य­सु­ख­वि­ष­य­त्व­म­भ्यु­पे­य­मिति शङ्कते ।
कथमिति ।

स्वप्ने दुःखानुभवे सति उत्थितस्य दुःखस्मृतिर्यथा जायते तद्वत् सुषुप्तेऽपि दुःखानुभवे सति उत्थितस्य दुःखस्मरणेन भवितव्यम् । अतः स्मरणाभावेन दुःखाभावमनुमाय तस्मिन् सुखव्यपदेश इति मत्वाह -
स्वप्ने तावदिति ।

तदभावादिति ।
दुःखस्य तदनुभवस्य चाभावादित्यर्थः ।

सुप्तः सुखमिति ।
सुखं सुप्त इत्यन्वयः ।

विशेषत इति ।
गानसुखं पानसुखमिति विशेषतः स्मर्ये­ते­त्यर्थः ।

सुषुप्तौ न किञ्चिन्मया चेति­त­मि­त्यु­त्थि­तस्य व्यपदेशात् सुख­स्या­नु­भू­तत्वं नास्तीत्याह –
व्यपदेशोऽपीति ।

सुषुप्तौ सुखानुभवसद्भावे लिङ्गमस्ति, उत्थितस्य प्रस­न्ने­न्द्रि­य­त्वा­दीति तत्राह -
यत्पुनः सुप्तो­त्थि­त­स्येति । ।

अनुभूतं चेत् सुखं स्मर्येतेति ।
भोजनसमनन्तरं पीनत्वाद् भुक्तं मयेत्यनुमानं विहाय सुखं भुक्तमिति स्मरणमेव यथा तथात्रापि स्मरणेनैव भवितव्यमिति भावः ।

सुषुप्ते भाव­रू­प­सु­खा­नु­भ­व­श्चेत् सुखस्य भूय­स्त्वा­ल्प­त्व­वै­ष­म्या­द­ङ्ग­ला­घ­व­त­द­भा­वा­व­नु­प­प­द्येते । दुःखा­भा­व­मा­त्रे­त्व­भा­वस्य स्वरू­प­वै­ष­म्या­भा­वात् कथं कस्यचिदङ्गलाघवं कस्यचिन्नेति एतदुपपद्यत इति चोदयति -
यद्येवमिति ।

व्यापारोपरम इति ।
व्यापारस्य पुनरपि झटिति व्यापा­रो­त्पा­द­क­सं­स्का­रस्य चोपरम इत्यर्थः । अनुमितदुःखाभावे उत्थितस्य सुख­म­ह­म­स्वा­प्सम्’ इति व्यपदेश इत्येतत् परमतमाश्रित्योक्तमिति द्रष्टव्यम् ।

मत­मा­ग­म­यि­त­व्य­मिति ।
आत्मा स्वय­म्प्र­का­शोऽ­ह­ङ्का­र­श्चा­त्म­व्य­ति­रिक्त इति मतमागममूलं कर्त­व्य­मि­त्यर्थः ।

तर्ह्य­ह­ङ्का­र­स्यो­पा­दा­न­नि­मि­त्त­स्व­रू­प­प्र­मा­ण­का­र्यादि सर्वं वक्तव्यमिति तत्राह -
तदुच्यत इत्यादिना ।
तत्रापि ‘येय’मित्यादिना उपादानमविद्येति निर्दिशति ।

वाच्यवाचकरूपेण परि­णा­म­स­म­र्थ­मि­त्याह -
नामरूपमिति ।

पत्र­पु­ष्पा­दि­रू­पेण परिणामशक्तीः स्वात्म­न्य­न्त­र्भाव्य यथा बीजमवतिष्ठते, तद्वद् विवि­ध­प्र­प­ञ्च­रू­पेण परिणामशक्तीः पूर्व­प्र­प­ञ्च­वि­ना­श­ज­न्य­सं­स्का­रांश्च स्वात्म­न्य­त­र्भाव्य अव­स्थि­त­बी­जा­व­स्था­माह –
अव्याकृतमिति ।

विद्या­नि­व­र्त्ये­त्याह –
अविद्येति ।

अनु­प­प­न्न­नि­र्वा­हि­के­त्याह –
मायेति ।

उपा­दा­न­का­र­ण­मि­त्याह –
प्रकृतिरिति ।

आच्छा­द­न­रू­प­मि­त्याह –
अग्रहणमिति ।

शब्दादिहीनतया इन्द्रि­या­द्य­वि­ष­य­मि­त्याह –
अव्यक्तमिति ।

स्वाश्रयमेव विषयीकरोतीत्याह -
तम इति ।

स्वाति­रि­क्त­नि­मि­त्ता­न­पे­क्ष­मि­त्याह –
कारणमिति ।

स्वस्मा­दी­ष­द्वि­भ­क्त­स्व­कार्यं स्वतावन्मात्रं करोतीत्याह -
लय इति ।
लीयतेऽस्मिन् इति लय इति विग्रहः ।

आत्म­प­र­त­न्त्रे­त्याह –
शक्तिरिति ।

स्वाश्रयात्मनः स्वस्वभावे प्रबुद्धे निवर्त्यत इत्याह –
महासुप्तिरिति ।

स्वाश्र­या­त्मा­न­मे­क­म­ने­क­मिव करोतीत्याह –
निद्रेति ।

ज्ञानातिरेकेण स्वतोऽन्यतो वा न नश्यतीत्याह –
अक्षरमिति ।

व्यापीत्याह –
आकाशमिति ।

निवृत्तेः पुमर्थत्वाय निव­र्त्या­वि­धायाः अनर्थहेतुत्वमाह -
चैतन्यस्य स्वत एवेति ।

अवि­द्या­क­र्म­पू­र्व­प्र­ज्ञेति ।
भ्रान्तिः, कर्म, पूर्वा­नु­भ­व­सं­स्कार इत्यर्थः ।

एवंरूपमज्ञान किम­र्थ­मि­त्या­शङ्क्य, सुषुप्ते आत्म­नोऽ­द्व­य­रू­पा­च्छा­द­क­त्वाय प्रप­ञ्च­सं­स्का­रा­श्र­य­त्वाय चेत्याह -
सुषुप्ते प्रका­शा­च्छा­द­नेति ।

पर­मे­श्व­रा­धि­ष्ठि­त­त्व­लब्ध इति ।
अविद्यायां चैत­न्यै­क्या­ध्यासः अहङ्कारस्य निमि­त्त­का­र­ण­मि­त्यर्थः । विज्ञा­न­क्रि­या­श­क्ति­द्व­या­श्रय इति स्वरूपं दर्शयति ।

कार्यं दर्शयति -
कर्तृ­त्व­भो­क्तृ­त्वै­का­धार इति ।

प्रमाणं दर्शयति -
कूट­स्थ­चै­त­न्य­सं­व­ल­न­स­ञ्जा­त­ज्यो­ति­रिति ।
चैतन्ये अध्यासः संवलनमुच्यते । अध्य­स्ता­ह­ङ्का­रेऽ­भि­व्यक्तं चैतन्यं यत् तज्ज्यो­ति­रि­त्यु­च्यते । तेन ज्योतिषा सिद्ध्य­ती­त्यर्थः ।

स्वयं प्रकाशमान इति ।
स्वसत्तायां प्रका­शा­व्य­भि­चा­री­त्यर्थः ।

अह­ङ्का­र­स्या­नु­मे­यत्वं नैया­यि­का­द्य­नु­मतं व्यावर्तयति -
अपरोक्ष इति ।

यत्सम्भेदादिति ।

आत्मनि सर्वा­त­दा­रो­प­नि­मित्तं कार्यान्तरमाह -
कूटस्थचैतन्य इति ।
अविकारिचैतन्य इत्यर्थः ।

आत्मधातुरिति ।
आत्म­त­त्त्व­मि­त्यर्थः ।

क्रमु­क­ता­म्बू­ला­दि­श­ब­लेन सत्य­लौ­हि­त्यो­त्प­त्ति­वत् अह­ङ्का­र­चै­त­न्ययोः शबलेन सत्य­क­र्तृ­त्वा­द्यु­त्पत्तिः कस्मान्न स्यात् ? इत्याशङ्कां व्यावर्तयति -
मिथ्यै­वे­त्ये­व­का­रेण ।

किमिति तर्हि सुषुप्ते न स्यादिति अत आह -
स च सुषुप्त इति ।

संस्का­र­नि­र्मि­त­ह्य­स्त­न­प्र­पञ्चो विलीन इत्याह -
समुत्खातेति विशेषणेन ।
कुतस्त्यः कुत्र भवः ? क्वापि नास्तीत्यर्थः ।

तर्हि अविद्या स्वस्मि­न्ना­श्रि­त­ध­र्म­ल­क्ष­णा­व­स्था­प­रि­णा­म­त्र­य­व­त्तया अह­ङ्का­र­नि­र्भा­स­रू­पात् साक्ष्या­त्म­नोऽ­न्य­तया प्रधा­ना­ख्य­प्र­कृ­ति­रू­पे­णा­ह­ङ्का­रस्य कारणम् , नात्म­न्य­ध्य­स्त­त­याऽ­वि­द्या­त्वे­नेति साङ्ख्य­चो­द्य­म­नू­द्य­प­रि­ह­रति -
न चैवं मन्तव्यमिति ।
तत्र मह­दा­दि­का­र्य­रू­पे­णा­व­स्थानं धर्मपरिणामः तस्यैव धर्मस्य क्रमे­णा­ना­ग­त­व­र्त­मा­ना­ती­त­रू­पा­प­त्ति­ल­क्ष­ण­प­रि­णामः, अव­स्था­प­रि­णा­म­स्त्व­ती­त­म­ती­त­र­त­र­म­ती­त­त­मम् ,

अना­ग­त­म­ना­ग­त­त­र­म­ना­ग­त­त­म­मिति ।
तत्रै­वा­द्य­त­न­चि­र­न्त­ना­द्य­व­स्था­प­त्ति­रिति द्रष्टव्यम् ।

आत्म­नोऽ­न्य­स्व­त­न्त्र­प्र­कृ­ति­का­र्यत्वे सति अह­ङ्का­रा­दे­रि­द­मिति पृथक्त्वेनावभासः स्यात् , अह­मि­त्या­त्म­त­या­व­भासो न स्यादित्याह -
तथा सतीति ।
अह­ङ्कृ­ति­रि­त्य­हं­प्र­त्य­य­वि­ष­य­भू­ता­त्मो­च्यते । भोक्तृत्वादिः, अह­ङ्का­रा­दि­रि­त्यर्थः । तद्विशेषः स्वत­न्त्र­प्र­कृ­ते­र्वि­शेषः कार्यमित्यर्थः ।

बुद्धि­सु­ख­दुः­खे­च्छा­दि­ध­र्म्य­ह­ङ्का­रस्य चात्म­नै­क्या­व­भा­सा­भ्यु­प­गमे तस्यै­वा­त्म­त्व­मस्तु, नात्मनः पृथग्भूतो नैया­यि­का­द्य­भि­म­त­म­नो­व्य­ति­रि­क्तोऽ­ह­ङ्कारो नामा­स्ती­त्या­श­ङ्क्याह -
स च परिणामविशेष इति ।

नन्वात्मन एव विज्ञानरूपेण क्रियारूपेण च परि­णा­म­श­क्ति­द्वयं किं न स्यादि­त्या­शङ्क्य निरवयवसर्वगतासङ्गस्य परिणामासम्भवात् मिथ्यैव परि­णा­म­त­च्छ­क्ति­रि­त्याह –
तेना­न्तः­क­र­णो­प­रा­ग­नि­मि­त्त­मिति ।

कुसुमगतमेव सत्यलौहित्यं स्फटि­का­द­वि­विक्तं भाती­त्य­ख्या­ति­वादी चोदयति -
कथं पुनरिति ।

प्रतिस्फालिता इति ।
स्फाटिकस्य तेजो­द्र­व्य­त्वात् ततः प्रतिहता यदि जपाकुसुमं गच्छे­यु­रि­त्यर्थः ।

तदेव जपाकुसुममेव लोहितं गृह्णातीत्याशङ्क्य, तर्हि सन्नि­वे­श­वि­शिष्टं पुष्पं लोहितमिति ग्राह्ये­यु­रि­त्याह –
विशि­ष्ट­स­न्नि­वे­श­मिति ।

दोष­ब­ला­दि­न्द्रि­यस्य कुसु­म­सं­यो­गा­भा­वात् न सन्नि­वे­श­ग्र­ह­ण­मिति, नेत्याह -
न हि रूपमात्रनिष्ठ इति ।

रूपमात्रं स्फटिके प्रतिबिम्बितं स्फटिकात्मना भाती­त्य­न्य­था­ख्या­ति­वादी वदति, तन्नेत्याह -
नापि स्वाश्रयमिति ।

लौहि­त्य­गु­णा­श्र­य­द्र­व्य­प्र­भा­व­द्द्र­व्यस्य स्फटिके व्याप्त्य­ङ्गी­का­रात् तद्द्वारेणागतं रूपं स्फटिकात्मना भातीति चोदयति -
नन्व­भि­जा­त­स्ये­वेति ।
कुली­न­स्या­स­ङ्क­र­स्ये­त्यर्थः ।

स्फटिकसंसृष्टं लौहित्यं संसर्गस्य मिथ्यात्वात् तद्विशिष्टरूपेण मिथ्येत्याह -
तथापि स्वयमलोहित इति ।

लौहित्यस्य न स्फटि­क­सं­स­र्गा­व­भास इत्य­ख्या­ति­वा­दिनो मतं ददाति -
अथ प्रभैवेति ।

शौक्ल्यमपि तर्हीति ।
संयुक्तसमवायस्य संयोगस्य वा विद्य­मा­न­त्वा­दिति भावः ।

प्रभ­या­प­सा­रि­त­मिति ।
लौहि­त्या­ख्य­वि­रो­धि­गु­णया प्रभयेत्यर्थः ।

न रूपिसंयोगादिति ।
रूपि­प्र­भा­सं­यो­गानां न चाक्षु­ष­त्व­मि­त्यर्थः ।

'जपाकुसुमं प्रभावत् रक्तत्वात् पद्मरागादिवत्’ इत्याशङ्क्याह -
यथा पद्म­रा­गा­दि­प्र­भेति ।
निरा­श्र­य­पी­ति­मा­श्र­य­म­ण्य­व­च्छे­द­क­दे­शा­द्दे­शा­न्तरं व्याप्य मां प्रति समागच्छतीति प्रतीयत इत्यर्थः ।

अहङ्कारोपराग इत्यत्र आत्मनि कर्तृ­त्वा­द्य­न­र्था­रो­प­हे­तु­रि­त्य­ध्या­हारः । नाह­ङ्का­र­स्या­न­र्थ­हे­तुत्वं ‘भिद्यते हृदयग्रन्थि’ रिति हृद­य­ग्र­न्थे­र­न­र्थ­हे­तु­त्वस्य श्रुत्य­व­ग­त­त्वा­दिति तत्राह -
ततः सम्भिन्न इति ।

आत्मा स्वात्म­न्या­रो­पि­ता­ह­ङ्कारं तद्ध­र्मा­दि­ना­व­भा­स­येत् , उपरक्तत्वात् स्फटिकादिवत् इति तत्राह -
जडरूपत्वादिति ।

आत्मनो विज्ञा­न­व्या­पा­र­शू­न्य­त्वा­ज्जा­ड्या­दि­वि­शेष इति तत्राह –
व्यापा­र­वि­र­हि­णोऽ­पीति ।

तद्बलात् प्रकाशत इति ।
चित्सं­स­र्ग­ब­ला­द­ह­ङ्का­रादिः प्रकाशत इत्यर्थः ।

तेन लक्षणत इति ।
ज्ञान­क्रि­या­व्य­व­धा­न­म­न्त­रेण चैत­न्य­क­र्म­त्वा­दे­वा­ह­ङ्का­र­स्या­र्थ­स्व­भा­वतः इदंरूपता कथ्यते, न प्रतिभासत इत्यर्थः ।

ज्ञान­क्रि­या­व्य­व­धा­नेन सिद्धः प्रतिभासत इदंरूपो विषय इत्याह -
व्यवहारतः पुनरिति ।
अत्र व्यापारपूर्वको यस्य परिच्छेदः स एव व्यवहारतः पुनरिदमात्मको विषय इति पूर्वमन्वयः ।

आत्मनो देह­घ­टा­दि­वि­ष­य­ज्ञा­न­व्या­पारो नास्ती­त्या­श­ङ्क्याह -
तद्व्यापारेण व्याप्रि­य­मा­ण­स्यै­वेति ।

देव­द­त्त­व्या­पा­रेण यज्ञदत्तो व्याप्रियमाण इव यथा न भवति, तद्वत् अह­ङ्का­र­व्या­पा­रे­णा­त्मनो व्यापारवत्ता न युक्ते­त्या­श­ङ्क्याह -
तदात्मन इति ।

परि­णा­म्य­ह­ङ्का­रैक्ये आत्मनोऽपि परिणामित्वं प्राप्तमिति ; नेत्याह –
मिथ्येति ।

व्यापा­र­श­क्ति­म­त्वा­भावे व्यापा­रा­श्र­यत्वं न सम्भ­व­ती­त्य­शङ्क्य शक्ति­म­द­ह­ङ्का­रो­पा­धि­क­त्वे­ना­त्म­न्यपि शक्ति­र­ध्य­स्ते­त्याह –
यदुपरागादिति ।

अह­ङ्क­र्तृ­त्व­मिति ।
व्यापारजनक शक्ति­म­त्व­मि­त्यर्थः ।

अहङ्कारस्य शक्तिमत्वं यथा स्वत एव स्यात् तद्वदात्मनोऽपि शक्तिः स्वत एवा­स्त्वि­त्या­शङ्क्य चित्स्वरूपस्य वास्त­व­श­क्ति­मत्वं न सम्भवतीत्याह –
अनिदमात्मन इति ।

अह­ङ्का­र­सा­क्षि­णो­र्मध्ये अज्ञा­न­व्य­व­धा­नात् प्रतिभासत इदं रूपं स्यादिति तत्राह -
अत एवाहमिति ।
अज्ञा­न­मा­त्र­व्य­व­धा­ना­ति­रि­क्त­ज्ञा­न­क्रि­या­व्य­व­धा­ना­भा­वा­दे­वे­त्यर्थः ।

अर्थत इदंरूपत्वेऽपि तथा प्रतिभासाभावे दृष्टान्तमाह –
दृष्टश्चेति ।

ननु तत्त्व­वि­म­र्शेऽपि मृण्मयव्यवहारो न जायते । इह तु विमर्शेऽपि युष्मदर्थता व्यवह्रियते, अतो नायं दृष्टान्त इत्यत आह –
व्युत्प­न्न­म­त­य­स्त्विति ।
विम­र्शेऽ­ह­ङ्का­रस्य युष्मदिति व्यवहारमपि सुलभं न मन्यन्त इत्यर्थः ।

अत एवेति ।
विमर्शेऽपि युष्मदिति व्यवहारस्य दुर्लभत्वादेव, गुरुतरयत्नवता लभ्यत ...... - मुक्तमित्यर्थः ।

यदि स्फटिकोदाहरणेन आत्मन्यनात्माध्याससिद्धिः तर्हि श्रुतिषु दर्प­ण­ज­ला­द्यु­दा­ह­रणं किमर्थमिति तत्राह –
यत्पुनरिति ।

ब्रह्मणो वस्त्वन्तरभावे किं ब्रह्मणः कल्पितत्वमिति, नेत्याह –
किन्त्विति ।

विपर्ययस्वरूपतेति ।
संसा­रि­रू­प­ते­त्यर्थः ।

प्रत्य­ङ्मु­ख­ता­भे­दा­व­भा­साभ्यां प्रतिबिम्बस्य बिम्बा­द्व­स्त्व­न्त­र­त्व­मिति चोदयति -
कथं पुनस्तदेव तदिति ।

एक­स्व­ल­क्ष­ण­त्वा­व­ग­मा­दिति ।
एक­स्व­रू­प­ल­क्ष­ण­त्वेन मदीयमिदं मुखमिति दर्प­ण­ग­त­मु­ख­व्यक्तेः स्वग्री­वा­स्थ­मु­ख­व्य­क्त्यै­क्य­प्र­त्य­भि­ज्ञा­ना­दि­त्यर्थः ।

ययो­रे­क­स्व­ल­क्ष­णत्वं तयोरैक्यं दृष्टमिति व्याप्तिमाह -
यथा बहिःस्थितो देवदत्त इति ।
छायातद्वतोरेक स्वल­क्ष­ण­त्वा­भा­वा­न्ना­नै­का­न्ति­क­तेति भावः ।

अर्थादिति ।
वस्त्व­न्त­र­त्वा­नु­प­प­त्त्ये­त्यर्थः ।

दर्पणस्य मुखाकारेण परिणामे स्पर्शे­न्द्रि­येण निम्नोन्नततया गृह्येत, न तथा गृह्यते, इत्याशङ्क्याह -
गर्भित इति ।

विरु­द्ध­प­रि­णा­मि­त्वा­दिति ।

मुद्रायामुन्नतं प्रतिमुद्रायां निम्नं भवति । मुद्रायां निम्नं प्रति­मु­द्रा­या­मु­न्नतं भवति,
न तथा बिम्ब­प्र­ति­बि­म्ब­यो­रिति ।
प्रतिमुद्रायां विरु­द्ध­प­रि­णा­मि­त्व­मि­त्यर्थः ।

संश्ले­षा­भा­वा­दिति ।
ग्रीवास्थमुखेन दर्पणस्य संश्ले­षा­भा­वा­दि­त्यर्थः ।

तदपायेऽपीति ।
बिम्बा­सा­न्नि­ध्या­ख्य­नि­मि­त्ता­पा­येऽ­पी­त्यर्थः ।

हस्त­सं­यो­गा­ख्य­नि­मि­त्ता­पाये प्रस­र­णा­ख्य­का­र्या­भावो दृष्टः पुनः संवे­ष्ट­न­द­र्श­ना­दिति । नेत्याह -
न खलु संवेष्टित इति ।
तत्क्षणमेव संवेष्टत इति, अतः प्रसा­र­ण­म­प­ग­च्छ­तीति भावः ।

संस्का­रा­द्वि­रु­द्ध­सं­वे­ष्ट­न­का­र्यो­द­यात् पूर्व­प्र­सा­र­ण­का­र्य­वि­नाशः, न निमि­त्ता­पा­या­दि­त्याह –
यत­श्चि­र­का­ल­सं­वे­ष्ट­नेति ।

वेष्ट­न­सं­स्का­र­क्ष­य­प­र्य­न्त­म­नु­वृ­त्त­प्र­सा­र­ण­नि­मि­त्ता­प­ग­मेऽपि विरो­धि­सं­वे­ष्ट­ना­नु­दये प्रसारणं नापगच्छति । अतो विरो­धि­का­र्यो­द­या­देव प्रसारणनाश इति निर्णय इत्याह -
तथा च याव­त्सं­स्का­र­क्ष­य­मिति ।

तर्हीहापि सम­त­ल­त्व­सं­स्का­रात् सम­त­ल­त्वा­ख्य­वि­रो­धि­का­र्यो­दये प्रतिबिम्बापायः स्यात् इत्याशङ्क्य उत्पन्नमात्रे दर्पणे उत्प­त्ते­रूर्ध्वं सदा मुखसन्निधेः सम­त­ल­त्व­सं­स्का­रा­भा­वा­देव सम­त­ल­त्व­प­रि­णा­मा­यो­गात् तत्र प्रतिबिम्बापायो बिम्बापायादेव स्यात् , तन्न युक्तं परिणामपक्ष इत्याह -
एवं चिरकालेति ।

ग्रीष्मकाले विका­सा­व­च्छे­द­का­ह­र­पे­क्षया मुकु­ला­व­च्छे­द­क­रा­त्रे­र­ल्प­त्वात् विकाससंस्कारस्य प्राचुर्यात् तदभिभवेनाल्पतर संस्कारात्मुकुलसंस्कारात् मुकु­लो­त्प­त्ति­यो­गात् मुकुलोदयात् विकासनाशायोगात् निमित्तापायादेव विनाश इत्याशङ्क्य, सत्यम् , संस्का­रा­न्मु­कु­ला­नु­द­येऽपि नालद्वारेण पद्म­द­ला­नु­प्र­वे­शि­ज­ल­बि­न्दुभिः पार्थि­वा­व­य­व­स­ङ्करैः मुकुलोदयात् विकासनाशः न निमि­त्ता­पा­या­दि­त्याह -
यः पुनरित्यादिना ।

निमित्तापाय एव विकासापायस्य मुकुलस्य च निमित्तमिति तत्राह -
तदुपरम इति ।
पार्थिवावयवस्य व्यापारोपरमे सति निमित्तापाये मुकु­ल­ता­नु­प­ल­ब्धे­रि­त्यर्थः ।

तर्हि संस्का­रा­ति­रि­क्त­हे­त्व­न्त­रेण सम­त­ल­त्वो­त्पत्त्या प्रतिबिम्बापगमः न बिम्बापायादिति नेत्याह -
नादर्शे पुनरिति ।
कारुकर्मादि नास्तीत्यर्थः ।

मदीयमुखमिति प्रत्य­भि­ज्ञ­यै­क­त्व­म­व­ग­त­मिति नेत्याह –
शुक्तिरजतस्येति ।
मदीयं रजतमिति दर्शनादित्यर्थः ।

बाधदर्शनादिति ।
नेदं रजतमिति रज­त­स्व­रू­प­बा­ध­द­र्श­नात् नात्र रजतं किन्तु तदिदं रजतमिति सत्यरजतेन एक­त्व­प्र­त्य­क्षि­ज्ञाऽ­भा­वाच्च मिथ्या­त्व­मि­त्यर्थः ।

नेह बाधो दृश्यत इति ।
नेदं मुखमिति स्वरूपेण न बाध्यते । किन्तु नात्र मुखं मदीयमेवेति प्रत्यभिज्ञायत इत्यर्थः ।

दर्पणापगमे मुखस्यापगमात् मुखं नास्तीति मुखस्य स्वरूपेण बाधो दृश्यत इत्याशङ्क्य तदसन्निधौ तन्नास्तीति ज्ञानेन तस्य बाध्यत्वे दर्पणस्यापि बाध्यत्वं स्यादित्याह –
पुनरिति ।

तत्त्व­म­सि­वा­क्या­दिति
स्थाणुः पुरुष इति वाक्यात् पुरुषस्येव संसारिणो बाधो दृश्यत इत्यर्थः ।

सोऽयमिति वाक्या­दि­वै­क्य­मु­प­दि­श्यत इत्याह –
मैवमिति ।
अन्यथा न तत्त्ववमसीति स्यात् इति, त्वमसीति न स्यादित्यन्वयः ।

उपरक्तमिति ।
राहु­ग्र­स्त­मि­त्यर्थः ।

न वारिस्थमिति ।
वारि­स्थ­प्र­ति­बि­म्बस्य बिम्बा­दि­त्यैक्ये सति हि वारिस्थमादित्यं नेक्षेतेति निषेधसम्भव इति भावः ।

ग्रीवास्थमुखस्य दर्प­ण­स्थ­त्वा­ख्य­द­र्प­ण­स­म्बन्धो न गृह्यते । किन्तु तदेव मुखं दर्पणादविविक्तं प्रकाशत इति अख्यातिमतमनूद्य दूषयति -
यस्तु मन्यत इति ।

अनुभव एव निराकरोतीति ।
स्वात्मानं निरीक्ष्यमाणं पुरुषान्तरं दर्प­णा­नु­प्र­वि­ष्ट­मिव प्रति­बि­म्ब­स्या­नु­भवः, तन्नि­रा­क­रो­ती­त्यर्थः ।

उभयत्र पार­मा­र्थि­क­त्व­मा­का­शस्य दृष्टमिति तद्व्यावर्तयति -
परिच्छिन्नमिति ।

परि­च्छि­न्न­प­र­माण्वोः देशद्वये सत्यत्वं विद्यत इति आशङ्क्य द्वयोः देशद्वये सत्यत्वमस्तु, एकस्य परिच्छिन्नस्य उभयत्र सत्यत्वं न सम्भवतीत्याह –
एकमिति ।

परि­च्छि­न्न­स्यै­कस्य पितृ­पु­त्र­स­म्ब­न्ध­स्यो­भ­यत्र सत्यत्वं दृश्यत इत्याशङ्क्य एकत्र पितृत्वमन्यत्र पुत्रत्वमिति उभ­या­त्म­क­त्वा­त्तस्य तथात्वमस्तु, एकस्वभावस्य मुखस्य न तथात्वमित्याह –
एकस्वभावमिति ।

एवंरूपस्य अव­य­वि­द्र­व्या­ख्या­व­य­व­द्वये सत्यत्वं विद्यत इत्याशङ्क्य संश्लि­ष्टा­व­य­व­द्वये सत्यत्वमस्तु, विच्छि­न्न­दे­श­द्वये सत्यत्वं न सम्भवतीत्याह -
विच्छि­न्न­दे­श­द्वय इति ।

पूर्वो­क्त­स्व­भा­वस्य वंशस्य विच्छि­न्न­भि­त्ति­द्वये सत्यत्वं दृश्यत इत्याशङ्क्य तत्रां­श­द्व­ये­नो­भ­यत्रसत्यत्वं सम्भवति, इह तु न सर्वात्मना उभयत्र सत्यत्वं सम्भवतीत्याह -
सर्वात्मना अवभासमानमिति ।

विच्छे­दा­व­भा­स­मिति ।
बिम्बात् भिन्नत्वावभासं भिन्न­दे­श­स्थ­त्वा­व­भासं चेत्यर्थः ।

भेदस्य सत्यत्वाभावे किं भेद­वि­रो­धि­ता­दात्म्यं सत्य­मि­त्यु­क्त­मिति, नेत्याह –
किन्त्वे­क­त्व­मिति ।

माया­ल­क्ष­ण­का­र­ण­वि­शे­षोक्त्या कथमेकस्य उभयत्र युगपत् स्थितिरिति ? तत्राह -
न हि मायायामिति ।

औपा­धि­क­ध­र्मा­ध्या­सस्य तत्त्वज्ञानादनिवृत्तेः एकत्वज्ञानेन निवर्तत इति परिहर्तुं जीवो ब्रह्मात्मतां न जानाति, प्रति­बि­म्ब­त्वा­द्दे­व­द­त्त­प्र­ति­बि­म्ब­व­दिति शङ्कां प्रथमं परिहरति -
उच्यत इति ।

शरीरमेव चेतनमिति लोकायतः, तत्राह -
सचेतनांशस्यैव वेति ।

प्रति­बि­म्ब­हे­तो­रिति ।
दर्प­ण­स्ये­त्यर्थः ।

जाड्ये­ना­प्या­स्क­न्दि­त­त्वा­दिति ।
शरी­र­स्या­चे­त­न­त्व­पक्षे स्वीयजाड्येन, चेतनत्वपक्षे दर्प­ण­जा­ड्ये­ना­स्क­न्दि­त­त्वा­दि­त्यर्थः । अचे­त­न­त्वा­दि­त्यत्र लोकायतपक्षे अचेतनसमत्वादिति योज्यम् ।

तथा चानुभव इति ।
प्रति­बि­म्ब­स्यापि चेतनत्वे बिम्बचेष्टां विनापि कदाचित् बिम्बवच्चेष्टेत तदभावात् प्रति­बि­म्ब­स्या­चे­त­न­त्व­म­नु­भू­यत इत्यर्थः ।

बिम्ब­दे­व­द­त्त­स्येव बिम्बभूतब्रह्मण एव भ्रम­नि­रा­सि­त­त्त्व­ज्ञा­ना­श्र­यत्वं स्यादिति शङ्कायां जीव­त्वा­ज्ञ­त्व­भ्रा­न्त­त्वा­भा­वान्न ज्ञाना­श्र­य­त्व­मि­त्याह -
यस्य हि भ्रान्तिरिति ।

आत्मनीति विषयसप्तमी ; देवदत्ते बिम्ब­त्व­भ्रा­न्त­त्वयोः सतोः कस्मात् भ्रान्तत्वस्यैव सम्य­ग्ज्ञा­ना­श्र­यत्वे प्रयोजकत्वम् उच्यत इत्याशङ्क्य भ्रान्तरूप्यं प्रति देवदत्तस्य बिम्बत्वाभावात् तत्र भ्रान्तत्वमेव सम्य­ग्ज्ञा­ना­श्र­यत्वे प्रयोजकं दृष्टं, तद्वदिहापि स्यादिति मत्वाह -
परत्र वेति ।
वाशब्द इवार्थः । अत्रापि विषयसप्तमी ।

स्वस्य जीवैक्यं ब्रह्म न जानाति चेत् सर्वज्ञताहानिः, जानाति चेत् स्वात्मन्येव संसारं पश्येदिति, नेत्याह -
यस्तु जानीत इति ।

कर्तृ­त्वा­दे­रु­पा­धि­भू­ता­ह­ङ्का­रा­दे­रा­वि­द्य­त्वा­त्क­र्मा­न­पे­क्षया एकत्वज्ञानेनैव निराससिद्धिः । अन्यत्रोपाधेः सत्वा­द­नि­वृ­त्ति­रिति व्यवहितचोद्यं परिहरति -
नापि ज्ञानमात्रादिति ।

प्रति­बि­म्ब­स्येति ।
प्रति­बि­म्ब­भा­वस्य औपा­धि­क­ध­र्म­स्ये­त्यर्थः ।

जीवः प्रतिबिम्बं न भवति । प्रतिबिम्बत्वे सम्प्र­ति­प­न्न­व­द­चे­त­न­त्व­प्र­स­ङ्गात् इत्याशङ्क्य जीवस्य चित्त्व­म­भ्यु­प­गम्य प्रति­बि­म्ब­त्वा­भावः साध्यते ? उत प्रति­बि­म्ब­त्व­म­भ्यु­प­गम्य चित्त्वाभावः साध्यते इति विकल्प्य प्रति­बि­म्ब­त्वा­भा­व­श्चेत् साध्यते तदा ‘रूपं रूपं प्रतिरूपो बभूव’ इत्या­दि­श्रु­ति­वि­रु­द्ध­म­नु­मा­न­मि­त्याह -
जीवः पुनरिति ।

तर्हि जीवोऽचेतनः प्रति­बि­म्ब­त्वात् सम्प्र­ति­प­न्न­व­दिति जडत्वं साध्यते इत्याशङ्क्य प्रत्य­क्ष­वि­रु­द्धम् इत्याह -
सर्वेषां न इति ।

उपा­धि­जा­ड्ये­ना­ति­र­स्कृ­त­चै­त­न्य­त्वेन प्रत्यक्ष इत्याह –
नान्तः­क­र­ण­जा­ड्ये­नेति ।

चिन्मात्रत्वं ब्रह्मत्वं नाम तद्रूपत्वं प्रत्यक्षं चेत् श्रव­णा­दि­वै­य­र्थ्य­मि­त्या­श­ङ्क्याह -
स चाहमिति ।

आत्मातिरिक्तस्य कृत्स्नस्य कल्पि­त­त्व­म­ङ्गी­कु­र्व­ता­ह­ङ्का­रा­द्यु­पा­धे­र­वि­क­ल्पि­तत्वं वक्तव्यम् । तन्न सम्भवति, उपा­ध्य­न्त­रा­भा­वात् इत्या­श­ङ्का­या­मु­पा­ध्य­न­पे­क्षया अध्यासोऽस्तीति दर्शयन्ति श्रुतय इत्याह -
ननु तत्र विभ्राम्यत इति ।

इहेति ।
अह­ङ्का­रा­द्यु­पा­ध्य­ध्यास इत्यर्थः ।

रज्जु­स­र्प­भ्रा­न्ता­वपि पूर्व­म­नु­भू­त­स­त्य­स­र्पो­पाधिरस्तीति चोदयति -
ननु तत्रापीति ।

अहङ्कार भ्रमस्य दर्पणादिवत् स्वतन्त्रतया भ्रम­का­ली­नो­पा­धिना भवि­त­व्य­मि­त्यु­च्यते, किं वा पूर्वमनुभूततया स्वसं­स्का­र­द्वा­रेण भ्रम­हे­तू­पा­धि­र­पे­क्षि­तव्य इत्युच्यत इति विकल्प्य स्वत­न्त्रो­पा­धि­श्चेत् सः सर्पभ्रमेऽपि नास्ति । इतरश्चेत् सोऽत्राप्यस्ति । पूर्व­भ्र­म­सि­द्धा­ह­ङ्का­र­सं­स्का­रात् अद्य­त­ना­ह­ङ्का­रा­ध्या­सो­त्प­त्ते­रि­त्याह –
बाढमित्यादिना ।

अहङ्कर्तृतेति ।
अहङ्कार इत्यर्थः ।

श्रुतिषु घटाकाशोदाहरणेन किं प्रयो­ज­न­मि­त्या­शङ्क्य आत्म­नोऽ­स­ङ्ग­त्व­सिद्धिः प्रयोजनमित्याह -
तदर्थं घटा­का­शो­दा­ह­र­ण­मिति ।

आत्म­नोऽ­स­ङ्ग­त्वा­भा­वात् नोदा­ह­र­णा­पे­क्षे­त्या­शङ्क्य अस­ङ्ग­त्व­प्र­मा­ण­माह -
‘असङ्गो न ही’ति ।

स्फटि­को­दा­ह­र­णे­ना­स­ङ्गत्वं सिद्ध्य­ती­त्या­शङ्क्य नेत्याह -
तत्र यद्यपीति ।
स्फटिकादेः सावयवत्वेन अरुणादिना सम्भे­द­यो­ग्य­स्या­प्य­रू­णादेः अनिर्वचनीयतया असम्भेदावगमो यद्यपि सिद्ध इत्यन्वयः ।

तदसङ्गीवेति ।
द्रव्य­गु­ण­रू­प­त्वात् तेनारूणादिना सम्बन्धीव स्फटिको लक्षित इत्यर्थः ।

रज्जु­स­र्पो­दा­ह­र­णे­ना­स­ङ्गत्वं सिद्ध्य­ती­त्या­शङ्क्य तत्र सर्पेण ऐक्य­बु­द्धि­त्वा­देव संसर्गित्वेन प्रतीत्यभावात् संसर्गित्वेन प्रतीततया निरूप्यमाणे अस­ङ्गि­त्वे­नो­दा­ह­र­णत्वं रज्जो­र्ना­स्ती­त्याह -
रज्ज्वां पुनरिति ।

असम्भिन्नत्वं वेति ।
असं­सृ­ष्ट­त्व­मि­वे­त्यर्थः ।

रूप इति ।
घट­प­रि­मि­ता­का­श­रू­प­त्व­मि­त्यर्थः ।

कार्येति ।
जला­दि­धा­र­ण­का­र्य­मि­त्यर्थः ।

समाख्येति ।
घटाकाशः करकाकाश इत्या­दि­श­ब्द­वि­ष­य­त्व­मि­त्यर्थः ।

उदा­ह­र­णै­रे­वा­वि­का­रि­त्वै­क­त्वा­स­ङ्ग­त्व­सिद्धे ; नागमोपयोग इति, नेत्याह -
एतच्च सर्वमिति ।

बुद्धिसामर्थ्यं चेति ।
तद्वदिदमपि सम्भवतीति दृष्टान्तेन सम­त्व­ग्र­ह­ण­ल­क्ष­ण­स­म्भा­व­ना­बु­द्ध्यु­त्प­त्तय इत्यर्थः ।

अस्म­त्प्र­त्य­य­वि­ष­य­त्वा­दिति भाष्य­ग­त­वि­ष­य­श­ब्दा­र्थ­माह -
तदेवं यद्यपीति ।

अनि­द­मा­त्म­क­त्वा­द­वि­षय इति ।
शुक्ति­व­द­नि­न्द्रि­य­वि­ष­य­त्वात् जन्यज्ञानाविषय इत्यर्थः ।

तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति ।
यादृ­ग्ज्ञा­ना­धी­न­त्वेन परिच्छिन्नतया स्फुरति यः पदार्थः स तस्य ज्ञानस्य विषयत्वेन दृष्टः, तद्व­दा­त्मा­प्य­ह­ङ्का­रेऽ­भि­व्य­क्त­त्वेन परिच्छिन्नतया स्फुरतीति तं प्रत्यात्मा विषय इत्युच्यते । स्फुर­ण­स्व­भा­व­त्वेऽपि परिच्छेदस्य अह­ङ्का­रा­धी­न­त्वा­दि­त्यर्थः ।

प्रमेयस्य व्यव­हा­र­यो­ग्य­त्वा­व्य­भि­चा­रा­दिति ।
प्रसि­द्ध­प्र­मे­यस्य परिच्छिन्नतया स्फुरि­त­त्वा­व्य­भि­चा­रा­दि­त्यर्थः ।

व्यव­हा­र­यो­ग्यत्वे अध्यास इति ।
आत्मनः परिच्छिन्नतया स्फुरतीति व्यव­हा­र­यो­ग्यत्वे सति तस्मि­न्न­ह­ङ्का­रा­ध्यासः अध्य­स्ता­ह­ङ्का­र­व­शात् परिच्छिन्नतया स्फुरि­त­त्व­मि­त्य­न्यो­न्या­श्र­य­त्व­मि­त्यर्थः ।

अनादित्वेनेति ।
अह­ङ्का­रा­व­च्छि­न्न­तया स्फुरिते संस्काराध्यासः संस्का­रा­व­च्छि­न्न­तया स्फुरि­तेऽ­ह­ङ्का­रा­ध्यास इति अना­दि­त्वे­ने­त्यर्थः ।

अविकारित्वात् सर्वगतत्वात् चिद्रू­प­त्वा­च्चा­त्मनो युगपत् सर्वावभासकत्वं कस्या­प्य­न­व­भा­स­कत्वं वा स्यात् , न क्रमेण विष­य­वि­शे­ष­प्र­मा­तृ­त्व­मि­त्या­शङ्क्य क्रमेण इन्द्रि­य­बु­द्धि­वृ­त्ति­व्या­प्त्य­पे­क्षया क्रमेण विष­य­वि­शे­ष­प्र­मा­तृ­त्व­मु­प­पा­द­यति -
तत्रै­व­म्भू­त­स्येति ।
परमार्थतोऽपि कार्य­प­रि­च्छि­न्न­चि­त्स्व­भा­व­स्ये­त्यर्थः ।

अहङ्कर्तुरिति ।
परि­णा­म्य­ह­ङ्का­रै­क्या­ध्या­स­मा­प­न्न­स्ये­त्यर्थः ।

इदमंशस्येति ।
परि­णा­म्य­ह­ङ्का­र­स्ये­त्यर्थः ।

ज्ञानसंशब्दित इति ।
ज्ञानमिति शब्दयते केवलं न तु मुख्य­ज्ञा­न­मि­त्यर्थः ।

रजः­प्र­धा­ना­न्तः­क­र­ण­प­रि­णा­म­रा­गा­दीन् यावर्त्त्यम् ईष­द्र­ज­स्पृ­ष्ट­स­त्व­प्र­धा­ना­न्तः­क­र­ण­प­रि­णाम इत्याह -
व्यापारविशेष इति ।

कर्मकारकाभिमुखं स्वाश्रय इति ।
कर्म­का­र­के­णा­ह­ङ्का­रस्य सम्बन्धं जनयतीत्यर्थः ।

विका­र­हे­तु­त्वा­दिति ।
फल­हे­तु­त्वा­दि­त्यर्थः ।

क्रियात्वात् स्वाश्र­येऽ­ति­श­य­ज­न­क­त्व­मस्तु । तस्मादतिशयस्य न विष­य­व्या­पि­ते­त्या­शङ्क्य सक­र्म­क­क्रि­या­ज­न्य­त्वात् गम­न­क्रि­या­ज­न्य­प्रा­प्ति­वत् विष­य­व्या­पि­त्व­मि­त्याह -
स च प्राप्नोति क्रियेति ।
प्राप्ति­फ­ल­हे­तु­ग­म­न­क्रि­ये­त्यर्थः ।

स्यादन्तःकरणस्य विषयसम्बन्धः आत्मनस्तु विषयविशेषावभासः कथमिति तदाह -
तेन विष­य­वि­शे­ष­स­म्बद्धमिति ।
स्ववृ­त्ति­व्या­प्त­वि­ष­येण सम्ब­द्धा­न्तः­क­र­णस्य च चैत­न्या­व­च्छे­द­क­त्वात् त्रिको­ण­ता­द्य­व­स्था­वि­शे­षा­प­न्ना­यः­पि­ण्डा­नु­ग­ता­ग्ने­रिव उपा­ध्य­नु­ग­त­रू­पे­णा­ह­ङ्का­रा­व­च्छि­न्न­चै­त­न्यस्य विषयाकारता स्यात् । अत­स्त­दा­का­र­त्वा­देव तदवभास इति भावः ।

अह­ङ्का­रा­व­च्छि­न्न­चै­त­न्य­स्यैवं विष­या­का­र­ता­ख्य­वि­ष­य­स­म्ब­न्धोऽस्तु । कथं विषयस्थत्वेन व्यक्ततया तत्साधकत्वमिति, तत्राह –
कर्मकारकमपीति ।
कर्मकारकमपि अप­रो­क्ष­ता­म­भि­व्य­नक्ति इत्यन्वयः ।

प्रधा­न­क्रि­या­सि­द्धा­विति ।
बुद्धि­वृ­त्त्यु­त्प­त्ता­वि­त्यर्थः ।