वक्तव्यकाशिका (पञ्चपादिका व्याख्या)
१ परिच्छेदः
पुनरप्यहङ्कारविशिष्टचैतन्यमात्मानमादाय देशस्याप्यात्मस्थत्वे अहं देश इति प्रतीयादित्याह -
अयमपि तर्हीति ।
स्वप्नयुक्तार्थक्रियासमर्थजाग्रत्प्रपञ्चोऽप्येकचैतन्ये कल्पितः । किमु वक्तव्यम्, स्वप्नप्रपञ्चस्यैकचैतन्ये कल्पितत्वमस्तीति वदितुं निगूढाभिसन्धिं परित्यज्य अनवच्छिन्नचैतन्यमात्मानं स्पष्टीकुर्वन् चैतन्यैक्यं साधयति -
न दोष इत्यादिना ।
प्रमाणज्ञानादिति प्रसिद्धभेदमन्तरेण प्रमाणतो न भिद्यत इत्यर्थः ।
एकरूपेति ।
चैतन्याख्यैकरूपेत्यर्थः ।
साधितैकचैतन्ये आत्मनि जाग्रत्प्रपञ्चस्य कल्पितत्वेन सिद्धिमाह -
अतोऽन्तर इति ।
अन्यथेति ।
अहमवच्छिन्नचैतन्यात् विषयगतचैतन्यानि भिन्नानि चेदित्यर्थः ।
प्रकाशानुपपत्तेरिति ।
विषयेष्वात्मचैतन्यव्याप्त्यभावे स्वयं चैतन्यहीनत्वात् प्रकाशानुपपत्तेरित्यर्थः ।
अनुभवावगुण्ठितत्वेऽपि प्रपञ्चस्य नानुभवप्रकाश्यता आलोकसंसर्गेऽपि वाय्वादीनामप्रकाश्यत्ववत् इत्याशङ्क्य पूर्वमज्ञानतमोव्याप्तत्वात् प्रकाश्यत्वमस्तीत्यत्र दृष्टान्तमाह -
यथा तमसेति ।
वाय्वादीनां रूपहीनत्वात् तमोव्याप्तिर्नास्तीति भावः ।
सर्वस्यैकात्मचैतन्यगतत्वे घटादीनामिदमित्यनात्मतयावभासो देहादीनामहमित्यात्मतयावभासश्च कथं स्यादित्याशङ्क्यैकात्मचैतन्ये कल्पिततया सर्वस्य चिदात्मसामानाधिकरण्येऽप्यहमिति प्रतीतियोग्यपूर्वपूर्वदेहादिविनाशजन्यसंस्कारविशिष्टमायाजन्यत्वात् उत्तरोत्तरदेहादेरहमित्यात्मत्वप्रसिद्धिर्भवति । इदमित्यनात्मतया प्रतीतियोग्यपूर्वपूर्वघटादिनाशजन्यसंस्कारविशिष्टमायाजन्यत्वात् तदुत्तरोत्तरघटादेरिदमित्यनात्मत्वप्रसिद्धिर्भवेदित्येवं व्यवस्था जागरणेऽपि सिद्ध्यति, किमु स्वप्न इत्यभिप्रेत्याह -
एवं यः पुनरिति ।
चैतन्यस्यान्तर्बहिर्भावप्रतिभासो भेदप्रतिभासश्चौपाधिको न स्वतः, निरंशत्वादित्याह -
तस्य चेति ।
मनोमात्रगोचराविति ।
आत्मातिरिक्तविषये केवलमनसः प्रवृत्त्यभावान्मनोगोचरत्वं वाद्यन्तरसिद्धमुच्यत इति द्रष्टव्यम् ।
सर्वत्रेति ।
स्वप्नशोकादिभ्रमेषु सर्वत्रेत्यर्थः ।
लक्ष्याध्यासाभावेऽपि परत्र परावभासत्वाख्यस्वरूपलक्षणस्यान्वयादतिव्याप्तिरिति चोदयति -
कथं तर्हीति ।
लक्षणमस्ति चेत् लक्ष्यमप्यस्ति किमत्र चोद्यमित्याह –
किमत्र कथमिति ।
लक्ष्यमस्ति चेत् उपलक्षणेनापि भवितव्यम् , तदभावान्न लक्ष्यमस्तीत्याह -
न तत्र कारणदोष इति ।
उपलक्षणाभावमुक्त्वा लक्ष्याभावमाह -
नापि मिथ्यार्थावभास इति ।
लक्ष्यं नास्तीत्युक्तं तदप्यस्त्येव ; परत्र परावभास इत्यवभासशब्देन ज्ञानत्वं च लक्षणमुक्तम् , तदिह नास्ति क्रियात्वादित्याह –
सत्यमित्यादिना ।
अत एवेति ।
लक्ष्याभावादेवेत्यर्थः ।
ज्ञानस्य दुष्टकारणजन्यस्य विषयो मिथ्यार्थ इति ।
मिथ्यार्थविषयज्ञानमध्यास इति हि पूर्वं लक्षणमुक्तम् । परत्र अवभास इत्यत्र अवभासशब्देनेति भावः ।
क्रियायाश्चिकीर्षापूर्वकत्ववज्जिज्ञासापूर्वकत्वात् ज्ञानस्येच्छासाध्यत्वमस्त्येवेत्याशङ्क्य फलशिरस्कत्वेनैव क्रियानिष्पत्तेः फलनिष्पत्तिपर्यन्ता क्रियानिष्पत्तिः अनवसिता, क्रियानिष्पत्तेरपि कारकव्यापारसमकालत्वात् क्रियानिष्पत्तिपर्यन्तं कारकव्यापारोऽप्यनवसितः । कारकव्यापारनिष्पत्तेरपि कारकप्रेरकाचिकीर्षासमकालत्वात् कारकव्यापारनिष्पत्तिपर्यन्तमिच्छाप्यनवसिता । अतः कारकव्यापारस्य क्रियायाः फलस्य च निष्पत्तिरिच्छाधीनेति क्रियाया इच्छासाध्यत्वं स्यात् , इह तु ज्ञानकारकेन्द्रियाणां तेजोविशेषत्वादेव गत्वह्रस्वाभाव्यात् कारकप्रेरणाय नेच्छापेक्षा, इन्द्रियाणां विषयविशेषेषु नियतत्वात् । विषयविशेषे नियमनाय च नेच्छापेक्षा, किन्तु ज्ञानकारणप्रतिबन्धरूपनिमीलननिरासे इच्छाया उपयोगः, न तु ज्ञानोत्पत्ताविति मत्वाह -
न हि ज्ञानमिति ।
निवर्तयितुं न शक्यमिति ।
निवर्तयितुमशक्यत्वादित्यर्थः ।
देवतादिस्मरणं इच्छया जन्यते चण्डालादिस्मरणं च निवर्त्यत इति चोदयति -
ननु स्मृतिज्ञानमिति ।
आभोगेन इच्छयेत्यर्थः ।
स्मृत्युत्पत्तिनिरोधौ यत्र भवतः तत्र इच्छामनोनिरोधौ स्त एव, किन्तु स्मृत्युत्पत्तिस्थले मनसोऽन्यपरतालक्षणप्रतिबन्धनिरासहेतुरिच्छा न तु मनोव्यापारनिष्पादनेन ज्ञानोत्पत्तौ हेतुः, स्मृतिनिरोधस्थलेऽपि चण्डालादिविषयमनःप्रवृत्तिनिरोधे मनोनिरोधस्योपयोगः, न तु स्मृतिस्वरूपनिरोध इत्याह –
सत्यमित्यादिना ।
चक्षुष इवेति ।
यथा चक्षुषोऽभिमतार्थविषयप्रवृत्तिप्रतिबन्धक रूपगोलकनिमीलननिरासे इच्छाया उपयोगः । अनभिमतार्थेन सम्प्रयोगलक्षणप्रवृत्तौ सत्यां तत्प्रतिबन्धरूपगोलकनिमीलने मनोनिरोधस्योपयोग इत्यर्थः ।
ब्रह्मण आरोपं विना ब्रह्मदृष्टिमात्रस्यैव नामादिष्वारोप इत्याह –
तस्मादिति ।
सर्वफलप्रदातृब्रह्मणोऽध्यस्तत्वे फलसिद्धिः स्यात् , तदभावे न फलसिद्धिरिति, नेत्याह –
चोदनावशादिति ।
विधिवशादित्यर्थः ।
सर्वफलप्रदातृब्रह्मणोऽध्यस्तत्वे स्वानुरूपसर्वफलप्राप्तिः स्यात् । अत्र चोदनोक्तपरिच्छिन्नफलप्राप्तये बुद्ध्यध्यास एव स्वीकर्तव्य इति वा अर्थः । प्रकारान्तरोपन्यासे च कृते सन्देहः, स्वपक्ष एवाभ्युपेय इति निर्णयो न सम्भवति, अतः पक्षान्तरोपन्यासो भाष्यकारेण न कार्य इत्याशङ्क्य स्वेनोक्तान्यस्यान्यावभासरूपलक्षणस्य सर्वपक्षेषु तैस्तैरुच्यमानत्वे स्वपक्षशुद्धिर्भवति । तैरुक्तस्यापि लक्षणस्य शुक्लो घट इत्यादिप्रत्ययानां भ्रमत्वप्राप्तिपरिहाराय सत्यमिथ्यावस्तुसम्भेदावभासरूपानिर्वचनीयलक्ष्य एव पर्यवसानात् स्वमतलक्षणत्वं च भवति । अतः सर्वेषु पक्षेषु लक्षणान्वयप्रदर्शनाय परपक्षोपन्यासः कर्तव्य इत्याह -
स्वमतपरिशुद्धय इति ।
निरूप्यमाणे अनिर्वचनीयपक्ष एव लक्षणस्य पर्यवसाने कथं वादिभिरुच्यमानत्वं लक्षणस्येत्याह –
कथमिति ।
अन्यधर्मस्येत्युक्ते इदमिति शुक्तित्वधर्मस्यावभासोऽध्यास इति प्राप्तम् , तदपनुत्तयेऽत्यन्तभिन्नस्यार्थस्येत्याह –
अर्थान्तरस्येति ।
तं केचिदिति भाष्यमात्मख्यात्यन्यथाख्यातिविशेषयोरुपन्यासपरमित्याह -
ज्ञानाकारस्य बहिष्ठस्यैव वेति ।
अग्रहणनिबन्धनो भ्रम इत्यख्यात्युपन्यासपरभाष्ये अग्रहणस्य भ्रमहेतुत्वमभिप्रेतमिति प्रकटयति -
अग्रहणादिति ।
अग्रहणादित्युक्ते अग्रहणमस्तीत्यग्रहणादिति प्रथमैकवचनत्वशङ्कां प्राप्तां व्युदस्यति -
तन्निबन्धन इति ।
केचिद्वादिनः भ्रमरूप इति प्रतिभासं व्यावर्तयति -
वदन्तीत्यनुषङ्ग इति ।
विपरीतधर्मत्वस्येत्युक्ते शुक्तिशकलस्य साक्षाद्विपरीतशुक्त्यभावस्य स्वरूपेणारोपप्राप्तौ भावस्य भावान्तररूपेणारोप इत्याह -
रजतादिरूपत्वस्येति ।
आचक्षत इति शून्यख्यात्यन्यथाख्यातिविशेषौ आचक्षत इत्यर्थः ।
स्वमतानुसारित्वमिति ।
स्वेनोक्तलक्षणत्वमित्यर्थः ।
तात्पर्यमुक्त्वा सर्वथापित्वितिभाष्यं व्याचष्टे -
अन्यस्यान्यधर्मावभासित्वं नाम लक्षणमिति ।
यल्लक्षणमवादिष्मेत्यन्वयः ।
परत्र अवभास इत्यत्र परशब्दद्वयाभावे कथमन्यस्यान्यधर्मावभासित्वं नाम यल्लक्षणमवादिष्मेत्यनूद्यते भाष्यकारेणेत्याशङ्क्याह -
परत्रेत्युक्तेऽर्थात् परावभासः सिद्ध इतीति ।
अख्यातिवादिनाऽपि मानसं संसर्गज्ञानं संसर्गाभिमानो वा वक्तव्य इत्यभिप्रायः ।
परत्र परावभास इति लक्षणं न वादिभिरुक्तमिति शङ्कते -
कथमिति ।
अनेन शब्दरचनाप्रकारेण अनुक्तमपि शब्दान्तरेणेदं लक्षणमुक्तमित्याह -
पूर्वस्मिन् कल्प इत्यादिना ।
स्मृतिरूपशब्देनोक्तकारणत्रितयजन्यत्वाख्योपलक्षणस्य भाष्यकारेण पक्षान्तरेषु अन्वयप्रदर्शनाभावादुपलक्षणमविवक्षितमित्याशङ्क्यान्वयस्य सम्प्रतिपन्नत्वादप्रदर्शनमित्याह –
पूर्वदृष्टत्वस्मृतिरूपत्वयोरिति ।
अविद्यापूर्वभ्रमसंस्काराभ्यामेव पदार्थज्ञानरूपभ्रमपरम्परोत्पत्तेः सम्प्रयुक्ताधिष्ठानानपेक्षणात् तदभिधायिपरत्रेति पदमविवक्षितमिति शून्यवादिशङ्कायामाह -
तत्र स्मृतिरूप इति ।
शून्यवादिपक्षेऽपि पदार्थज्ञानत्वाख्यलक्षणस्य प्राप्तिरस्त्विति नेत्याह –
निरुपपत्तिकेति ।
शून्यवादिपक्षे लक्षणस्य घटपटादिज्ञानाख्यभ्रमेष्वेव व्याप्तिं विना अविभ्रमेऽपि शून्यज्ञाने पदार्थज्ञानत्वाख्यलक्षणस्य व्याप्तिः निरुपपत्तिकेति भावः ।
पूर्वभ्रमसंस्कारलक्षणनिमित्तकारणसम्भवाद्विद्यालक्षणोपादानसद्भावाच्चोत्तरोत्तरघटादिपदार्थ ज्ञानलक्षणभ्रमजन्मसिद्धिरित्येवमुपपत्तिसम्भवादस्मिन् पक्षे का अनुपपत्तिरित्याक्षिपति -
कथं निरुपपत्तिकोऽयमिति ।
हस्तेन नयनस्य मर्दनान्नयनरश्मेर्नेप्सितरूपं भवति । ससंवेष्टितनयनरश्मिरधिष्ठानं तत्राप्यस्तीत्याह -
न तत्रापि तेजोऽवयवाधिष्ठानत्वादिति ।
ननु रजते संविदिति ।
भ्रमस्य साधिष्ठानत्वेऽपि न सत्यवस्तुनोऽधिष्ठानत्वमिति भावः ।
अध्यस्यमानव्यतिरेकेणाधिष्ठानस्य सिद्धिरपेक्षिता, साधनसिद्धये अन्योऽन्याधिष्ठानत्वेनान्योऽन्याधीनसिद्धित्व इति तत्राह –
बीजाङ्कुरादिवदिति ।
रजते तद्विषयसंविद्रजतं च पूर्वस्यां संविदि, सा च स्वविषये, स च पूर्वस्यां संविदीति संविद्रजतयोरपि बीजाङ्कुरयोरिव कारणपरम्परा कल्प्येत्याशङ्क्य तत्राप्यन्वितमृत्वकार्यासत्वादेरुपादानत्वम् , बीजादेस्तु निमित्तता । अतः संविद्रजतयोरपि नोपादानकारणपरम्परेत्याह -
बीजाङ्कुरादिष्वपीति ।
अभिमतवस्तुसिद्धिरिति ।
अनन्वितस्योपादानत्वेऽतिप्रसङ्गात् नोपादानकारणत्वसिद्धिरित्यर्थः ।
प्रतीतितो वस्तुतश्चेति ।
अनन्वितयोरनयोः कथं कार्यकारणतेत्युक्ते पूर्वबीजाङ्कुरयोरिवेति वक्तव्यम् , तयोर्वा कथमित्युक्ते ततः पूर्वयोरिवेति सत्तानवस्थायाः, अनयोः कार्यकारणता कथं गम्यत इत्युक्ते पूर्वपूर्वयोरिवेति प्रतीत्यनवस्थायाश्च प्रसङ्गादित्यर्थः ।
संविद्रजतयोरप्यधिष्ठानाधिष्ठेयतया निमित्तनैमित्तिकतेत्याशङ्क्यानयोर्बीजाङ्कुरयोः कथं निमित्तनैमित्तिकतेत्युक्ते अस्माद्बीजादस्याङ्कुरस्य जन्मदर्शनात् देशकालान्तरस्थबीजाङ्कुरयोरपि निमित्तनैमित्तिकताकल्पनादृष्टिपरम्परा इह तु क्वाप्यदर्शनादन्धपरम्परैवेति न निमित्तनैमित्तिकतापीत्याह -
तथा च कुत इदमेवमिति ।
इदमिति ।
निमित्त नैमित्तिकत्वमित्यर्थः ।
दृष्टिपरम्परां दर्शयति -
दृष्टत्वादेवमिति
अन्धपरम्परां दर्शयति -
नानवस्थादोषमतिवर्तत इति ।
भ्रान्तिप्रतिपन्ने योंऽशो निषेधाधिकरणत्वेनानिषेध्यो भवति तस्यांशस्याधिष्ठानत्वात् परत्रेति पदमपेक्ष्यमित्याह -
अपि चेत्यादिना ।
निरवधिक इति ।
इदमिति ।
निषेधाधिकरणांशमगृहीत्वेत्यर्थः ।
अनुमानाप्तवचनाभ्यां सर्पाभावविशिष्टमंशान्तरं न गृह्यत इति तत्राह –
यत्रापीति ।
अत्रानुमानमिति पाषाणप्रक्षेपादिनाप्यप्रचलितत्वलिङ्गजन्यज्ञानमुच्यते ।
अवधिर्विद्यत इति ।
अभावविशिष्टवस्तुमात्रं गृह्यते, विशेषाकाङ्क्षादर्शनादित्यर्थः ।
प्रधानं नास्तीत्यादौ न तदभावविशिष्टवस्त्वन्तरं गृह्यते, तेषामन्यत्रानध्यस्तत्वादिति तत्राह –
प्रधानादिष्वपीति ।
जगत्कारणं स्वतन्त्रं त्रिगुणमनेकं परिच्छिन्नं च न भवतीति बाधादवधिरस्तीत्यर्थः ।
सर्वलोकसाक्षिकमेतदिति ।
सर्वलोकस्य दृश्यस्य साक्ष्येव साक्षी यस्य तदेतत् । भ्रान्त्यादि, सर्वलोकसाक्षिचैतन्येऽध्यस्तं निषेधावस्थायां चैतन्यावधिकं चेत्यर्थः ।
चैतन्यस्याधिष्ठानत्वे अवधित्वे च स्वीकृते किं प्रयोजनमित्याशङ्क्य निरधिष्ठानत्वेन निरवधिकत्वेन च शङ्कितकेशोण्ड्रकादावप्यधिष्ठानावधिसिद्धिः प्रयोजनमित्याह –
केशोण्ड्रकादावपीति ।
रूप्याध्यक्षस्य बाध्यत्वात् तत्साधकसाक्षिचैतन्यस्यापि बाध्यत्वमिति नेत्याह -
तद्बाधे तदनुषङ्ग एवेति ।
अधिष्ठानत्वात् सम्बन्ध एव बाध्य इति भावः ।
तदेव प्रपञ्चयति -
तेन तन्मात्रस्येति ।
चिन्मात्रस्येत्यर्थः ।
रूप्यस्मरणं बाध्यं परिच्छिन्नत्वात् रूप्यवत् इत्याशङ्क्य स्वतो न भेद इत्याह –
स्वतश्चेति ।
बाध्यसम्बन्धसम्बन्धित्वात् रूप्यवत् बाध्यमित्याशङ्क्य सम्बन्धिरूपेण परिणामित्वाभावात् सम्बन्धित्वमसिद्धमित्याह –
कूटस्थेति ।
कूटस्थत्वे हेतुमाह –
अपरोक्षैकरसेति ।
रूप्यस्य शून्यत्वं निरधिष्ठानत्वं च शून्यवादी मन्यते, तत्र साधिष्ठानत्वं प्रसाध्य शून्यत्वं निराचष्टे -
नाप्यध्यस्तमप्यसदेवेत्यादिना ।
प्रतिभासायोगादित्यत्र स्पष्टावभासः प्रतिभासः, रूप्यमिति प्रविभक्तरूपेणावभासः प्रतिभास इति च निर्वचनं द्रष्टव्यम् । रूप्यमिति विभक्तरूपेणापरोक्षत्वेन च प्रतीत्ययोगादित्यर्थः ।
अध्यस्तमिदं सर्वमसदेवेति तेऽपि मतम् इति चोदयति -
नन्विति ।
सद्विलक्षणमित्युक्तत्वादर्थासत्वमुक्तमित्याशङ्क्यासद्विलक्षणत्वमप्युक्तमित्याह -
अनिर्वचनीयाविद्यात्मकमिति इति ।
प्राक् अनिर्वचनीयत्वेऽपि बाधादूर्ध्वं रूप्यादेः शून्यत्वमाशङ्क्य तदिष्टमेव घटादीनामपि समानत्वादित्याह -
अथ पुनरिति ।
सर्वस्य नाशादूर्ध्वं शून्यत्वेऽपि भ्रमगृहीतस्य बाधादूर्ध्वं शून्यताभ्युपगमो न युक्तोऽन्यत्र सत्वादित्याशङ्क्य न तावद्बाधकज्ञानादन्यत्र सत्वसिद्धिरित्याह -
तथा चेति ।
तथानवगमादिति ।
मुखं दर्पणस्थं न भवति, किन्तु ग्रीवास्थमितिवत् रजतमिदं न भवति किन्तु देशान्तरे बुद्धौवेत्यनवगमादित्यर्थः ।
प्रत्यक्षबाधस्य देशान्तरे रूप्यादिसत्वबोधकत्वशङ्कायामपि वाक्यजन्यबाधकज्ञानस्य बोधकत्वशङ्कापि नास्ति, देशान्तरीयसत्ववाचिशब्दाभावादित्याह -
तथा च दूरवर्तिनीमिति ।
मा भूद्बाधकज्ञानादन्यत्र सत्वावगमः, किन्त्विह निषेधान्यथानुपपत्त्या अन्यत्र सत्वसिद्धिरित्याशङ्क्य व्यभिचारमाह –
नार्थापत्त्येति ।
प्रतीतिसिद्ध्यर्थं पुरोदेशे अन्यत्र वा रूप्यस्य न सत्तापेक्षा, अत्रैवाविद्याविलाससद्भावमात्रेण प्रतीतिसिद्धेरित्याह -
तावन्मात्रेणापि तत्सिद्धेरिति ।
यदा नायं सर्प इत्यभावमात्रप्रतिपत्तिरपि न देशान्तरे सर्पत्वं गमयति तदा रज्जुरियमित्यधिष्ठाने पर्यवसिता प्रतिपत्तिः देशान्तरे सत्वं न बोधयतीति किमु वक्तव्यम् इत्याह –
यत्रापीति ।
पूर्वदृष्टावभास इति भाष्येण पूर्वदर्शनसम्भेदं विना पूर्वदृष्टस्य संस्कारनिर्मिततया पूर्वदृष्टसजातीयस्य रूप्यादेरवभास इत्युक्ते तस्य स्मृतिरूपत्वमुक्तं भवत्यतः स्मृतिरूप इति पृथङ् न वक्तव्यमित्याह –
तथाविधस्येति ।
अर्थलभ्यस्य स्मृतित्वमेव स्यात् इत्यर्थलभ्यस्य स्मृतिरूपस्य विकलस्मृतित्वशङ्का स्यात् । पूर्वानुभवसम्भिन्नविषयत्वाभावादित्यर्थः ।
स्मृतित्वमस्त्विति, नेत्याह -
न च स्मृतिविषयस्येति ।
परत्रेति ।
सम्प्रयुक्तस्याभिधानादर्थादागतं परस्येति पदमसम्प्रयुक्तमभिधत्त इत्याह –
असम्प्रयुक्तस्येति ।
पूर्वदृष्टत्वाभाव इति ।
पूर्वदृष्टार्थसंस्कारजन्यतया पूर्वदृष्टसजातीयार्थत्वाभाव इत्यर्थः ।
विस्पष्टार्थ इति ।
संस्कारजन्यत्वमेव स्मृतिरूपशब्दोक्तस्मृत्या सादृश्यं न पूर्वानुभवसम्भेद इति स्पष्टीकरणार्थमित्यर्थः ।
लोकसिद्धमेवेदमिति ।
यल्लक्षितं सत्यमिथ्यावस्तुसम्भेदात्मकमिदमध्यासरूपं तल्लोकसिद्धमेव सत्यमिथ्यावस्तु सम्भेदरूपमित्यत्र न युक्त्यपेक्षेत्यर्थः ।
युक्तिरिति ।
सत्यस्य वस्तुनो मिथ्यावस्तु सम्भेदावभासोऽध्यासः, अन्यथा शुक्लो घट इत्यादिज्ञानेष्वपि भ्रमत्वप्रसङ्गादित्येषोच्यते ।
तथा च लोकेत्यादि - भाष्यस्य तात्पर्यमुक्त्वा तदेकदेशमाक्षेपसमाधानायोपादत्ते -
शुक्तिका रजतवदवभासत इति ।
यः शुक्तौ रजतं भ्रमति तस्य रजतमेवेत्यवभासनात् रजतवदित्यनवभासाच्छुक्तिकानवभासनाच्च भ्रान्त्याः - शुक्तिका रजतवदत्र भासत इति नानुभवन्ति, तत्र कथं लोकानुभव इति चोदयति -
ननु न शुक्तिः प्रतिभासते इति ।
भ्रान्तस्येति भावः ।
यद्यपि भ्रान्तिसमये नानुभवति शुक्तिकाज्ञानोदये तत्सिद्धिः । शुक्तिकामुपादाय शुक्तिकारजतमवभासत इति लक्षणमनुभवति । शुक्तिज्ञानसामर्थ्येन नेदं रजतमिति ज्ञानविषयतया वा सिद्धमिथ्यारजतेन सत्यशुक्तिसम्भेदावभासाख्यलक्ष्यरजतवदित्यनुभवति । एवं लक्ष्यलक्षणसङ्गतिमनुभूतां शुक्तिका रजतवदवभासत इति वाक्येन प्रदर्शयति लोक इत्याह -
उच्यते, शुक्तिकाग्रहणमिति ।
इवशब्दश्चाभासतामभिधाय सम्भेदशब्देनावभासशब्देन च सम्बध्यते ।
मिथ्यारजतमिति विशेषणात् अन्यत्र सद्रूपरजतं वक्तव्यमित्याशङ्क्य मिथ्यात्वं प्रति जनकस्याभावात् मिथ्यात्वमुच्यते न सद्रूपरजताद्व्यावृत्त्यर्थमित्याह -
मिथ्यात्वमपि रजतस्येति ।
मिथ्यारजतधर्मत्वादिदन्ताया अपि मिथ्यात्वान्निरधिष्ठानताप्रसङ्ग इत्याशङ्क्य सम्प्रयुक्तस्य सम्प्रयुक्तधर्मत्वमयुक्तमित्याह –
तत्रासम्प्रयुक्तत्वादिति ।
सम्प्रयुक्तगत एवेति ।
शुक्तिगत एवेत्यर्थः ।
कथम् असम्प्रयुक्तरजतस्यापरोक्षतेत्यत आह –
अपरोक्षावभासस्त्विति ।
रजतोल्लेखस्येति ।
इत्युल्लेखः, अवभासमानरजतस्येत्यर्थः ।
उल्लिख्यत आपरोक्ष्यस्य दोषजन्यत्वे बाध्यत्वं प्राप्तमित्याशङ्क्येन्द्रियजन्यज्ञानेनेदमंशेऽभिव्यक्तापरोक्षचैतन्ये अध्यस्तत्वाद्रूप्यस्याप्यपरोक्षत्वमिति पक्षान्तरमाह –
इन्द्रियजज्ञानान्तर्भावाच्चेति ।
अत्र ज्ञानशब्देन ज्ञप्तिः ज्ञानमितीदमंशावच्छिन्नस्फुरणमुच्यते -
अनात्मा रजतमिति दर्शितमिति ।
अनात्मभूतरजतं सम्प्रयुक्तशुक्तावध्यस्तमिति दर्शितमित्यर्थः ।
अस्मदर्थे अनिदमंशस्येति ।
अहमिति प्रतिभासमाने अवेद्यांशस्येत्यर्थः ।
अहमिति प्रतिभासमाने जडरूपात्मा भवेत् योऽस्तीति प्राभाकराभिमतमिति तद्व्यावृत्त्यर्थमाह –
चैतन्यस्येति ।
चिद्रूपात्मनोऽपि शक्तिमत्वं परिणामब्रह्मवाद्यभिमतं तद्व्यावृत्त्यर्थमाह –
निरञ्जनस्येति ।
असङ्गस्येत्यर्थः ।
प्रतिभासतो युष्मदर्थत्वाभावेऽपि तदवभास्यत्वं नाम युष्मदर्थलक्षणमहङ्कारस्यास्तीत्याह –
तदवभास्यत्वेनेति ।
अध्यस्त इति ।
चैतन्ये अध्यस्त इत्यर्थः ।
भेदावभास इति ।
जीवेश्वरयोर्जीवानां च भेदोऽवभासमानः तेषामस्वरूपभूत एव जीवादिषु अध्यस्त इति दर्शितमित्यर्थः । वादाधिकारसिद्ध्यर्थमुक्तार्थे स्वस्य ज्ञानापलापोऽनादराभावद्योतनाय ।
बाह्याध्यासे उक्तकारणत्रितयजन्यत्वं परत्र परावभासत्वं च सुस्थितमित्याह -
ननु बहिरर्थ इत्यादिना युज्यत इत्यन्तेन ।
तत्रापि कारणत्रितयजन्यत्वमस्तीत्याह -
उपलभ्यत इत्यन्तेन ।
कारणदोष इति प्रमातृस्थरागादिदोष उच्यते । इन्द्रियशब्देन सम्प्रयोग उच्यते । सम्प्रयोगशब्देन संस्कारोऽपि लक्ष्यते । परत्र परावभास इति स्वरूपलक्षणमप्यस्तीत्याह –
तन्निमित्तश्चेति ।
उपलक्षणं स्वरूपलक्षणं च बाह्याहङ्काराध्यासे सम्भवति । अधिष्ठानात्मग्राहक कारणतद्दोषादीनामभावात् आत्मनो निरंशत्वादगृहीतविशेषत्वेनाधिष्ठानत्वायोगाच्चेत्याह -
न त्विह कारणान्तरायत्तेत्यादिना ।
इहेति अहङ्काराद्यधिष्ठानात्मनि इत्यर्थः ।
आकाशवन्निरंशस्यापि न कार्त्स्न्येनावभास इति तत्राह -
स्वयञ्ज्योतिष इति ।
स्वयम्प्रकाशत्वेऽपि संवेदनवदगृहीतांशः स्यादिति नेत्याह –
निरंशस्येति ।
अनवभासविपर्यासौ न भवत इति ।
अनवभासो न भवत्यत एव विपर्यासोऽपि न स्यादित्यर्थः ।
ब्रह्मणः सर्वज्ञत्वादिभ्रमाधिष्ठानत्वाज्जीवस्य चाहङ्कारादिभ्रमाधिष्ठानत्वसाम्येन एकत्वात् ब्रह्मानवभासे जीवानवभास इत्याशङ्क्य आह -
न हि शुक्तेरिति ।
एवं तर्हि सुतरामिति ।
आश्रयविषयभेदाभावात् ज्ञानप्रकाशविरोधाच्चाज्ञानाभावान्नाज्ञातत्वमित्यर्थः ।
श्रुतिगतभासेति शब्देन प्रकाशमात्रस्याभिधानमिति शङ्कापनुत्यर्थं चैतन्यपरत्वेन व्याकरोति -
तच्चैतन्येनैवेति ।
भ्रमनिवर्तकज्ञानसामग्र्याः तद्गतदोषस्य च संस्कारस्य च भ्रमकारणत्वमन्यत्र दृष्टमिहापि ब्रह्मात्मवस्त्वाकारश्रुतिजन्यबुद्धिवृत्तिप्रतिबिम्बितब्रह्मात्मचैतन्यस्याहङ्कारादिभ्रमनिवर्तकज्ञानत्वात् । प्रतिबिम्बप्रदत्वेन बिम्बभूतब्रह्मात्मवस्तुनो निवर्तकज्ञानसामग्रीत्वात् । तस्यास्तद्गताविद्यादोषस्य च पूर्वाहङ्कारादिविनाशजसंस्कारस्य चोत्तराहङ्कारादिभ्रमहेतुत्वात् कारणत्रितयजन्यत्वं सिध्यति । अविद्यया ब्रह्मरूपस्यानवभासादहमित्यात्मनोऽवभासात् अगृहीतविशेषात्मन्यधिष्ठानेऽहङ्काराध्यासात् । परत्र परावभासत्वं च सिध्यतीत्यभिप्रेत्य आत्मन्याच्छादिकाविद्यास्तीत्याह -
उच्यत इत्यादिना ।
अग्रहणेति ।
आच्छादकेत्यर्थः ।
साङ्ख्याभिमताच्छादकसत्यतमोगुणं प्रसक्तं व्यावर्तयति -
अविद्यात्मक इति ।
प्रकाशजनकचक्षुरादिगतशक्तिप्रतिबन्धककाचादिषु दोषशब्दप्रयोगो दृश्यते । अत्रापि चित्प्रकाशप्रतिबन्धकत्वादविद्यायाः सुतरां दोषशब्दवाच्यत्वं भवतीति मत्वाह -
प्रकाशस्याच्छादक इति ।
’अनृतेन हि प्रत्यूढा’ इति ।
जीवाः अनृतरूपाविद्ययाछन्नतया स्वकीयपूर्णानन्दब्रह्मरूपमात्मानं सुषुप्ते न विजानन्ति नान्येनेत्यर्थः । अनीशयेत्यत्र मुह्यमानः अज्ञानलक्षणमोहेनैकतां गतः, अतोऽनीशया स्वभावसिद्धेश्वरत्वस्याप्रतिपत्त्याशोचतीत्यन्वयः ।
तदर्थापत्तिरपीति ।
’तरति शोकमात्मवित्’ इति बन्धनिवृत्तिफलश्रुत्यनुपपत्तिर्निवर्त्याविद्यामध्यासाख्यबन्धहेतुभूतां गमयतीत्यर्थः ।
अत एवार्थादिति ।
ऐक्ये सत्येव ब्रह्मरूपानवभासानुपपत्त्याच्छादिकाविद्या कल्प्यत इत्यर्थः ।
अन्यथेति ।
अयमर्थः, जीवस्य ब्रह्मरूपत्वाच्छादिकाविद्याभावे परमार्थतो ब्रह्मरूपत्वात् ब्रह्मात्मतावबोधोऽपि तत्र यदि नित्यसिद्धः स्यात् तदा तादात्म्योपदेशो व्यर्थः स्यादिति । ऐक्ये सति जीवब्रह्मविभागः कथं सिध्येदित्याशङ्क्य अविद्यालेशेषु प्रतिबिम्बितचैतन्यानि जीवा इत्युच्यन्ते ।
तेषां बिम्बभूतमखण्डचैतन्यं ब्रह्मेत्यतो बिम्बप्रतिबिम्बभावेनाविद्यया भेद इत्याह –
अतोऽनादिसिद्धेति ।
निर्भासास्पदमिति ।
प्रतिबिम्बास्पदमित्यर्थः ।
ब्रह्मव्यतिरिक्तमनादिवस्तु नासीदिति तत्राह -
तथा च स्मृतिरिति ।
साङ्ख्याभिमतप्रकृतेरनादित्वं स्मृत्योक्तं नाविद्याया इति, नेत्याह –
क्षेत्रज्ञत्वनिमित्तामिति ।
जीवत्वे हेतुभूतामित्यर्थः ।
स्वयम्प्रकाशस्य अविद्याश्रयत्वसम्भवेऽप्यविद्याविषयत्वं न सम्भवतीत्यतो नाविद्येति चोदयति -
ननु प्रमाणान्तरविरोध इति ।
निरंशस्य स्वरूपानवभासानुपपत्तिरित्युक्ते निरंशस्य आकाशस्यावभासो न दृश्यत इत्याशङ्क्याह -
स्वयञ्ज्योतिष इति ।
अतोऽनवभासासम्भवादनवभासाय नाविद्याभ्युपेयेति भावः ।
सिद्धान्ती आह -
ननु भोक्तुः इति ।
अहङ्कारो न प्रत्यय इति ।
आत्मकर्मकप्रत्ययो न भवतीति वक्ष्यत इत्यर्थः ।
भेदस्यात्ममात्रत्वात् आत्मपदार्थज्ञानमेव भेदे प्रत्यक्षमिति भेदानवभासो नास्तीति चोदयति -
कथं पुनर्भोक्तेति ।
चिज्जडयोर्विरुद्धयोः न सत्यैकताभिमानाशङ्कास्तीति मत्वाह –
मिथ्यैवैकताभिमानादिति ।
अतो भेदो नावगत इत्यर्थः ।
आह गौणवादी -
नन्वहमिति ।
यदीति ।
अयो दहतीति अयसि दहतिप्रत्ययेऽप्ययोव्यतिरिक्तदाहकसिद्धिवत् देहे मनुष्योऽहमिति प्रत्ययेऽपि देहव्यतिरिक्तात्मसिद्धिः स्यादित्याशङ्क्य अयसो निष्कृष्टवह्निदर्शनवद्देहान्निष्कृष्टात्मासिद्धेः देहस्याहंप्रत्ययविषयत्वं मुख्यमिति प्रसज्येतेति मत्वाह -
अन्यस्य तथाग्राहिण इति ।
तद्विरोध इति ।
मनुष्योऽहमिति प्रत्यक्षविरोध इत्यर्थः ।
तथा स्यादिति ।
तथा सति स्यादित्यर्थः ।
अहंप्रत्ययस्य व्यतिरेकविषयत्वे व्यतिरिक्तो व्यतिरिक्त इतिवत् अहं व्यतिरिक्त इत्युक्ते पुनरुक्तिप्रसङ्गात् । व्यक्तिरेकविषयत्वमहंप्रत्ययस्येत्याशङ्क्याह –
अन्यथेति ।
किमर्थतो व्यतिरिक्तात्मविषयोऽहंप्रत्यय उच्यते, किं वा प्रतिभासतः, अर्थतश्चेत् तदध्याससम्भवात् न गौणत्वमित्याह –
यद्यपीति ।
तथा अनध्यवसायादिति ।
अर्थतो व्यतिरिक्तविषयत्वेऽपि व्यतिरिक्त इति व्यतिरेकस्यास्फुरणादित्यर्थः ।
तद्धर्मानिति ।
कृशस्थूलादिधर्मविशिष्टदेहमित्यर्थः ।
स एवायमकार इति प्रत्यभिज्ञया सर्वगतत्वादि सिद्धेर्नस्वतोऽह्रस्वत्वादि । किन्त्वध्यास एवेत्यभिप्रेत्य आह –
यथैकस्मिन्निति ।
व्यतिरिक्त इति व्यतिरेकस्यापि स्फुरणमहंप्रत्यये नेति पक्षमाह -
अथ पुनरिति ।
अत्यन्तभेदस्फूर्तौ दृष्टान्तमाह -
रसादिव गन्ध इति ।
परिहरति -
ततस्तत्सद्भाव इति ।
विप्रतिपत्तिर्नास्त्येवेत्याशङ्क्याह -
तत्सिद्धय इति ।
युक्तिसहकृताहंप्रत्ययेन व्यतिरेकस्यापि प्रतीतेः पाश्चात्याहं मनुष्य इति ज्ञानं गौणमेव स्यात् , तथा प्राक्तनमपीत्यभिप्रेत्याह -
जिज्ञासोत्तरकालं तर्हीति ।
जिज्ञासोर्ध्वं युक्तिज्ञानसिद्धस्य भेदस्य प्रत्यक्षरूपाहंप्रत्ययसिद्धत्वाभावाज्जिज्ञासोत्तरकालीनस्य मनुष्योऽहमिति सामानाधिकरण्यव्यवहारस्य कथं गौणत्वमित्याह –
कथमिति ।
देहात्मनोः साधारणतया प्रतिपन्नाहंप्रत्ययस्य देहादिर्विषयत्वस्य योग्यो न भवति, तद्व्यतिरिक्तात्मैव विषयत्वयोग्य इति युक्त्या विवेचने पश्चाद्व्यतिरिक्त इत्यहंप्रत्ययस्य व्यतिरेकसाधकत्वमस्तीत्याह -
जिज्ञासा नामेत्यादिना ।
अकार इव ह्रस्वत्वाभिमान इत्यस्यायमर्थः । अकारविषयज्ञानस्य युक्त्यनुसन्धानादूर्ध्वमप्यकारमात्रविषयत्वादेव ह्रस्वाद्यैक्यभ्रमविरोधिभेदप्रत्यक्षत्वाभावात् युक्तिसिद्धभेदस्य परोक्षत्वाच्च यथा ऐक्यभ्रमः तद्वदिति ।
ननु तत्रापि कथमिति ।
तत्र अपिना अध्यास इति भावः ।
अनुभव एवेति ।
अनुभव एवाध्यासं साधयतीति भावः ।
अकारस्य व्यतिरेकप्रतीतावपि ह्रस्वादेस्तदभावादध्यास इति चोदयति -
ननु अनुभव इति ।
तत्र तर्कबलाद्यथावभासिन्यपि अकारे दैवगत्या पृथक्सतो ह्रस्वादेः तथानवगमादैक्याध्यासानुभवः सम्भवतीत्यन्वयः ।
एकस्य पृथक्त्व इति ।
एकस्यैव भेदस्योभयगतत्वादित्यर्थः ।
इन्द्रजालमेवैतदिति ।
मनुष्योऽहमिति ज्ञानमिन्द्रजालशब्दोदितभ्रमरूपमेव अविद्याकृतत्वादित्यर्थः ।
अहंप्रत्ययस्य देहे मुख्यवृत्त्यभावात् देहस्यानात्मत्वमाभासविषयत्वस्य विद्यमानत्वात् सामानाधिकरण्यव्यवहारस्यागौणत्वं चेत्याह –
तथाहीत्यादिना ।
अहंप्रत्ययस्य देहविषयत्वाभावात् देहस्यानात्मत्वमित्याह -
स्वविषयप्रतिष्ठस्यैव सत इति ।
अहंप्रत्ययस्य स्वविषयात्ममात्रप्रतिष्ठत्वे मनुष्योऽहमिति ज्ञानस्य गौणत्वं प्राप्तमिति नेत्याह -
देहादिप्रतिष्ठत्वमपि दृष्टमिति ।
तर्हि देहस्यात्मत्वमित्याशङ्क्य देहविषयत्वमाभास इत्याह -
अनाद्यविद्याकृतं देहादिप्रतिष्ठत्वमिति ।
आत्मैकनिष्ठतायां प्रतीयमानायां न देहनिष्ठताप्रतीतिसम्भव इत्याशङ्क्य आत्मैकनिष्ठताप्रतीतिं प्रतिबध्नात्यविद्येत्याह –
तदेकप्रतिष्ठाप्रतिबन्धकृदिति ।
युक्तिज्ञानसन्निधाप्याहंप्रत्ययस्यात्ममात्रनिष्ठतैव न व्यतिरेकसाधकत्वम् । अतो मनुष्योऽहमित्यपरोक्षाध्याससम्भवान्न गौणत्वमित्याह -
अतो युक्त्या विषयविवेचनेऽपीति ।
न विरुद्ध्यत इत्युक्तमिति ।
अविद्याया अहंप्रत्ययस्यात्ममात्रनिष्ठताप्रतीतेः प्रतिबध्यत्वान्न विरुध्यत इत्युक्तमित्यर्थः ।
आत्मनोऽगृहीतविशेषतयाधिष्ठानत्वसिद्धेः परत्र परावभासत्वमहङ्काराद्यध्यासस्य सिद्धं भवतीत्याह -
तदेवं स्वयञ्ज्योतिष इत्यादिना ।
पूर्वकालकोटिरहितेति ।
अनादीत्यर्थः । प्रकाशाच्छादिततमोनिमित्तमित्यन्तमर्थोपसंहारः । श्रुतितदर्थापत्तिसमर्पितमिति प्रमाणोपसंहारः ।
अधिष्ठानयाथात्म्याग्राहिप्रमाणस्य दोषसंस्काराभ्यामुपेतस्य भ्रमकारणत्वं दृष्टम् । इहाप्यधिष्ठानभूतात्मतया याथात्म्यब्रह्मरूपसाधक ब्रह्मात्मचैतन्ये अविद्याप्रसाधनात् चैतन्यमविद्या चेति कारणद्वयं सिद्धम् । इदानीं पूर्वपूर्वाहङ्कारादिनाशजन्यसंस्कारस्याविद्याश्रयस्य सम्भवात् कारणत्रितयं लभ्यत इत्याह –
अनादित्वाच्चेति ।
कारणत्रितयजन्यैकज्ञानविषयत्वमधिष्ठानारोप्ययोर्वक्तव्यम् । आत्मनि तदभावान्नाध्यास इत्याशङ्क्य तत्राप्येकस्फुरणत्वमेवाधिष्ठानारोप्यभावे प्रयोजकम् , न तु जन्यज्ञानविषयत्वमिहाप्यहङ्कारस्फुरणादन्यत्स्फुरणमात्मनो नास्तीत्याह –
पृथग्भोक्तृविषयानुभवफलाभावादिति ।
अन्तःकरणस्फुरणात् पृथक्फलत्वाभावेन चैतन्यस्याधिष्ठानत्वम् । इह त्वात्माहङ्कारयोरेकस्फुरणत्वादधिष्ठानारोप्यभावो युक्त इत्याह –
भोक्तृचैतन्यसंवलितेति ।
संवलितत्वेनेत्यर्थः ।
परत्र परावभासस्येत्युक्ते आधाराधेयत्वं प्राप्तं व्यावर्तयति -
अन्योन्यसम्भेदस्येति ।
कोऽयमध्यासो नामेति भाष्ये कृतमध्यासाक्षेपमज्ञानम् । तं प्रति स्वीयाक्षेपाभिप्रायं विवृणोति, न त्वपूर्वमाक्षेपं करोति - कथं पुनरित्यादिनेत्याह –
कोऽयमिति ।
किं वृत्तस्येति ।
किंशब्देन निष्पन्नक इति शब्दस्येत्यर्थः ।
विशेषानुपलब्धेरिति ।
अध्यासं ब्रूहीति वा अध्यासो न सम्भवतीति वा विशेषानुपलब्धेरुभयं कृतमपीत्यर्थः ।
पृष्टमनेनेति ।
मत्वेति ।
अनेन पृष्टमेवेति मत्वेत्यर्थः ।
आक्षिप्तं मयेति ।
आक्षिप्तमपि मयेत्यर्थः ।
प्रत्यगिति ।
इन्द्रियाविषय इत्यर्थः । आत्मनि अपरिच्छिन्न इत्यर्थः । अविषये आरोप्येण सहैकज्ञानाविषय इत्यर्थः ।
यदि साधितार्थे अज्ञानमपलापोऽनादरो वा स्यात् तदा वादार्हो न स्यात् । अतोऽनुवादेनाज्ञानाद्यभावं वादार्हत्वाय दर्शयति पूर्ववादी -
बाढमेवमिति ।
लोके भवत्वेवंलक्षणोऽध्यासः इत्यर्थः ।
इहेति ।
आत्मनीत्यर्थः । स चेहेति चकारात् लक्षणमपि न सम्भवतीत्युच्यत इति द्रष्टव्यम् ।
पूर्वभाष्ये आत्मन्यहङ्काराद्यध्यासे लक्षणस्य समर्थितत्वाल्लक्ष्याध्यासोऽप्यस्तीति चोदयति -
कथमिति ।
आत्मनो अधिष्ठानत्वयोग्यत्वाभावादध्यासो न सम्भवतीति वदितुं लोके अधिष्ठानत्वे प्रयोजकाकारमाह -
सर्वो हि पुरोऽवस्थित इति ।
अस्यायमर्थः, पुरोवस्थिते इन्द्रियसम्प्रयुक्तेऽवस्थिते अवच्छिद्य स्थितः अवस्थितः, परिच्छिन्नः तस्मिन् विषये आरोप्येण सहैकज्ञानविषये विषयान्तरमध्यस्यतीति आत्मनोऽन्यगतज्ञानाविषयत्वेऽपि स्वगतज्ञानविषयत्वमस्तीत्याशङ्क्य तथा सति स्वेनैव स्वं युष्मदिति ग्राह्यं स्यात् ,
तदभावान्नविषयत्वमात्रमित्याह -
युष्मत्प्रत्ययापेतस्य चेति ।
प्रत्यगिति ।
इन्द्रियप्रेरकत्वान्नेन्द्रियकर्मत्वेन पराक्त्वमित्यर्थः ।
आत्मन इति ।
आप्नोतीति व्युत्पत्त्या अपरिच्छिन्नत्वान्न परिच्छेद इत्यर्थः ।
विषये विषयान्तरस्याध्यासवदविषयात्मनि बुद्धिकर्तृत्वेन बुद्ध्यविषयाहङ्कारस्याध्यासः स्यादिति नेत्याह -
न हीति ।
न ह्यविषयेऽध्यासोऽदृष्टपूर्वत्वादेव नात्मन्यसम्भवः ? इत्याह -
सम्भवी वेति ।
अथवा ज्ञानं ज्ञानान्तरकर्मेति अविषये ज्ञाने अविषयज्ञानान्तरकर्मतया अध्यासो दृष्ट इत्याशङ्क्याह -
सम्भवी वेति ।
इन्द्रियजन्यज्ञानविषयमात्रस्य परिच्छिन्नमात्रस्य जडमात्रस्य चारोप्यत्वात् तद्विपरीताजडापरिच्छिन्नाविषयात्मनोऽधिष्ठानत्वं सम्भवतीत्यभिप्रेत्याह -
उच्यत इति ।
लोकेऽपि विषयतयाधिष्ठानशुक्तीदमंशे इन्द्रियजन्यज्ञानविषयत्वं परिच्छिन्नतया स्फुरितत्वं च विद्यते । तत्र केवलव्यतिरेकाभावात् स्फुरणजनकत्वेनान्यथासिद्धत्वाच्चेन्द्रियजन्यज्ञानविषयत्वमधिष्ठानत्वे प्रयोजकं न भवति । किन्तु परिच्छिन्नतया स्फुरितत्वमेव प्रयोजकम् । तदात्मन्यपि सम्भवति । अहङ्कारे अभिव्यक्तत्वेन परिच्छिन्नतया स्फुरितत्वादित्याह -
न तावदयमिति ।
नन्वहङ्काराध्यासे तदुपाधिकतया आत्मनः परिच्छिन्नतया स्फुरितत्वम् , परिच्छिन्नतया स्फुरितत्वे अहङ्कारस्याध्यास इतीतरेतराश्रयत्वं स्यादिति, तन्न, पूर्वकल्पनाहङ्कारसंस्कारावच्छिन्नतया स्फुरिते अद्यतनाहङ्काराध्यासः अद्यतनाहङ्कारावच्छिन्नतया स्फुरिते तत्संस्काराध्यास इत्यनादित्वात् । अस्मत्प्रत्ययशब्देनात्मविषयं ज्ञानमुक्तमिति मन्वानश्चोदयति -
ननु विषयिणश्चिदात्मनः कथं विषयभाव इति ।
विषयित्वात् विषयत्वं न सम्भवति । चित्वाच्च जडे विद्यमानविषयत्वं न सम्भवतीत्यर्थः ।
इदन्तासमुल्लेख्य इति ।
इदमिति प्रकाश्य इत्यर्थः ।
प्रकाश्यवैपरीत्यमाह -
प्रकाश इति ।
एकस्यैव कण्डूयनकर्मत्वं कण्डूयनकर्तृत्वं चेति विरुद्धरूपद्वयसन्निवेशो दृष्टः इत्याशङ्क्याह –
निरंशस्येति ।
अस्मत्प्रत्ययत्वाभिमतोऽहङ्कार इति ।
आत्मनो व्यञ्जकतया तस्य परिच्छिन्नतया स्फुरितत्वे निमित्तं स्फटिकमणिकल्पमात्मन्यध्यस्तद्रव्यमस्मत्प्रत्ययः । न त्वात्मकर्मकज्ञानमित्यर्थः ।
नन्विदं रजतमितिवत् अध्यस्तत्वे अहमित्यत्रापि द्वैरूप्यावभासो वक्तव्य इत्यत आह -
स चेदमनिदंरूपवस्तुगर्भ इति ।
स्वयम्प्रकाशचैतन्येनाहङ्कारगतजाड्यतिरस्कारात् तस्मिन्नहङ्कारो गर्भितः । अहङ्कारेण चैतन्यगतस्वयम्प्रकाशत्वतिरस्कारात् चैतन्यमहङ्कारे गर्भितमित्यर्थः ।
सर्वलोकसाक्षिक इति ।
सर्वलोकस्य प्राणिजातस्य साक्षिकः । स्वसाक्ष्यात्मना साक्षात्कृतोऽतो द्वैरूप्ये साक्षिप्रमाणमस्तीत्यर्थः ।
अहमिति प्रतीयमानं इदमनिदंरूपत्वेन न साक्षात्कुर्मः इत्याशङ्क्य अहं दुःखीति दुःखरूपेण परिणाम्येकं वस्तु तदैव जिहासितदुःखधर्मितया नित्यप्रेमास्पदसुखात्मकमपरं वस्तु च प्रतीयते । तस्माद्वस्तुद्वयमवधानेन वीक्ष्य वदन्त्वित्याह –
तमवहितचेतस्तयेति ।
अहं जानामीति ज्ञानरूपेण परिणामितया ज्ञानात् द्रष्ट्टत्वाख्यपरिणामिचिद्रूपतया च वस्तुद्वयमस्तीत्यवलोक्य वदन्त्वित्याह -
निपुणमभिवीक्ष्येति ।
अहमिदं जानामीत्यत्राहङ्कारे बुद्धौ बोध्ये च युगपत् त्रितयसाधकत्वानुभवात्मना अनुस्यूतचैतन्यमहमिति व्यावृत्तरूपं चेति वा मते तदप्यवलोक्य वदन्त्वित्याह –
निपुणतरमभिवीक्ष्येति ।
विषयसंविदाश्रय आत्मा, तत्राहमिदं जानामीति संविदाश्रयत्वेनावभासमानोऽहङ्कारः कथमिदमंशः स्यादिति चोदयति -
ननु किमत्रेति ।
अहमित्यनुभव इति ।
अहमित्यनुभूयमानाहमाकार इत्यर्थः ।
देहस्यानाश्रयवदनुभवानाश्रयोऽप्याश्रयवत् अवभासते । अतोऽहमाकारः इदमंश एवेति चोदयति -
कथमिति ।
अहङ्कारस्यैव मुख्यं विषयसंविदाश्रयत्वमतस्तस्यैवात्मत्वम् ; अयोव्यतिरेकेण दहनाश्रय वह्निदर्शनवत् अन्यस्य संविदाश्रयस्यादर्शनात् अतोऽत्र नेदं रूपमिति साधयितुं प्राभाकरस्य सिद्धान्तमुपन्यस्यति -
प्रमातृ - प्रमेय - प्रमितय इत्यादिना ।
तत्रात्मनोऽन्तःकरणगतचित्प्रतिबिम्बेनानुमेयतया सिद्धिः साङ्ख्यैरुक्ता । विषयस्य संवेदनगतविषयाकारप्रतिबिम्बेन अनुमेयतया सिद्धिः बौद्धैरुक्ता, ज्ञानस्य फलानुमेयतया सिद्धिः भाट्टैरुक्ता, तान् व्यावर्तयति -
प्रमातृ - प्रमेय - प्रमितय इति ।
विज्ञानाभेदाद्विषयस्यापरोक्षावभासं विज्ञानवाद्यभिमतं व्यावर्तयति -
प्रमेयं कर्मत्वेनेति ।
आत्मनो मानसप्रत्यक्षकर्मतया अपरोक्षत्वं वार्तिककार - न्याय - वैशेषिकाभिमतम् , प्रमितिस्त्वात्मनि गतासंयुक्तसमवायनिमित्तज्ञानान्तरादपरोक्षेति न्यायवैशेषिकौ, प्रमेयगता प्रमितिः संयुक्ततादात्म्यात् ज्ञानान्तरात् अपरोक्षेति वार्तिककारीयाः तान् व्यावर्तयति -
प्रमातृप्रमिती पुनरिति ।
आत्मप्रमित्योः स्वयम्प्रकाशत्वे गौरवादात्मैव स्वयम्प्रकाश इति नेत्याह -
प्रमितिः, स्वयम्प्रकाश इति ।
स्वयम्प्रकाशत्वे हेतुमाह –
प्रमाणफलमिति ।
प्रमाणफलत्वादित्यर्थः ।
प्रमितेर्विषयस्थत्वादेव जडत्वान्न स्वप्रकाशत्वमित्याशङ्क्य आत्मस्थानुभव एव प्रमितिरित्याह -
प्रमितिरनुभव इति ।
आत्मस्थरूपेण अनुभव इति ।
विषयस्य स्पष्टरूपेण प्रमितिरिति अनुभव एव द्विधोच्यत इत्यभिप्रायः ।
अतः हानोपादानोपेक्षाः प्रमाणफलमिति पक्षं व्यावर्त्य फलस्वरूपमाह -
प्रमितिरनुभव इति ।
इतरत्प्रकाशत इति ।
प्रमातानुभवाश्रयत्वेन प्रकाशत इत्यर्थः ।
संवेदनमेवार्थाकारमिति रूपेण प्रमाणमर्थोपलब्धिरिति रूपेण तदेवफलमिति सौगतमतं व्यावर्तयति -
प्रमाणं तु प्रमातृव्यापार इति ।
अर्थेन्द्रियमन - आत्मनां संयोगाख्यचतुष्टयसन्निकर्ष इत्यर्थः ।
प्रमितिहेतोः (प्रमाख्य) प्रमातृव्यापारस्य प्रमातृप्रमितिप्रमेयकोटिषु निवेशाभावादसिद्धिः स्यादित्याशङ्क्य प्रमितिलिङ्गेनानुमेयतया सिद्धिरित्याह -
फललिङ्गो नित्यानुमेय इति ।
अहमिदं जानामीत्यत्र अनात्मविषयानुभवातिरिक्तमात्मविषयमपि ज्ञानमस्तीति नेत्याह -
तत्राहं इदं जानामीति ।
आत्मा त्विति ।
अहमिदमनुभवामीति विषयफलसम्बन्धित्वेन आत्मनोऽवभासमानत्वं विषयानुभवाश्रयत्वबलान्नात्मविषयज्ञानव्यापारादित्यर्थः ।
आत्मा कर्मत्वेनावभासते अवभासमानत्वादनात्मवदिति भाट्टश्चोदयति -
ननु नायमिति ।
अहमुल्लेखः, अहमवभासः । आत्मावभास इत्यर्थः ।
एकस्यानात्मनः एकस्यां क्रियायां कर्तृत्वेन गुणभावः, कर्मत्वेन प्राधान्यं च अनुक्तमिति तत्राह –
तस्मिंश्चेति ।
ज्ञातृत्वेन प्रमातृत्वमिति ।
ज्ञानक्रियाशक्तिमदिति विशेषरूपेण प्रमातृत्वमित्यर्थः ।
कर्मतया आत्मावभासकत्वात् आत्मविषयज्ञानमपि घटज्ञानवदिदं प्रत्ययः स्यादित्याशङ्क्य प्रथमं जडाकारमवलम्ब्य तदवच्छिन्नसद्रूपात्मनि पर्यवसानात् घटादिज्ञानस्यैव इदंप्रत्ययत्वम् , अहमिति प्रत्ययस्य तु आत्मा साधारणं ज्ञात्राकारं विषयीकृत्य पश्चाद्घटादिसाधारणद्रव्याकारे पर्यवसानादहंप्रत्ययत्वमित्याह –
प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्येति ।
अनंशत्वादिति ।
द्रव्यरूपस्य आत्मानात्मसाधारण्यात् आत्मत्वायोगात् , आत्मासाधारणस्य ज्ञानरूपस्य निरंशत्वात् तत्र न कर्तृकर्मव्यवस्थेत्यर्थः ।
अपरिणामित्वादिति ।
ज्ञानरूपस्य निरवयवस्य युगपत् ज्ञानद्वयपरिणामायोगादित्यर्थः ।
प्रमेयस्य चेति ।
ग्राहकरूपस्य संविदाश्रयत्वेन स्वयम्प्रकाशत्वेन च सिद्ध्यनभ्युपगमादसिद्धत्वायोगाच्च कर्मतया सिद्धिर्वक्तव्या, तथा सत्यनात्मत्वमित्यर्थः । नीलादिज्ञानफलमित्यत्र ज्ञानशब्देन ज्ञायतेऽनेनेति व्युत्पत्त्या चतुष्टयसन्निकर्षाख्यसामग्र्यभिधानमिति द्रष्टव्यम् ।
अहङ्कारस्य अनात्मत्वं साधयितुमात्मनः स्वयम्प्रकाशत्वसाधनाय विकल्पयति -
अत्रेदमिति ।
उभयस्यपि स्वयम्प्रकाशत्वे कल्पनागौरवं प्रसज्येत, तत्परिहारार्थं एकः स्वयम्प्रकाश इति पक्षमाह -
किमात्मा चैतन्यप्रकाश इति ।
अनुभवस्य जडत्वे जगतः आन्ध्यप्रसङ्गपरहारार्थं पक्षान्तरमाह -
उत सोऽपि इति ।
पुनरिति ।
कल्पनागौरवं प्राप्तं परिहर्तुं अन्यं पक्षमाह -
अथवा स एव चैतन्यप्रकाश इति ।
ज्ञापनव्यवधानेन विषये प्रकाशादिव्यवहारनिमित्तचक्षुषो जडत्वमस्तु, अव्यवधानेन विषये प्रकाशादिव्यवहारनिमित्तत्वात् प्रमाणफलस्य स्वयं प्रकाशत्वं वक्तव्यमन्यथा विश्वस्यानवभासः स्यादित्याह -
जडरूपे प्रमाणफल इति ।
तद्बलेनेति ।
जडानुभवबलेनेत्यर्थः ।
चित्स्वभावस्यात्मनो जडरूपानुभवापेक्षया चेतयितृत्वे दृष्टान्तमाह –
प्रदीपेनेवेति ।
तन्न, स्वयं चैतन्येत्यादेरयमर्थः, चित्स्वभावस्यान्याधीनतया प्रकाशमानत्वं न सम्भवति । विषयप्रमा(लक्षणाय)प्रवणेनात्मनः प्रकाशमानत्वं च न सम्भवति । चैतन्यस्याचेतनेन प्रकाशमानत्वमपि न सम्भवति । चिद्रूपात्मनो जडानुभवनिमित्ततया विषयोपरागे सति आत्मचैतन्येन विषयस्यावभासमानत्वं विना जडानुभवादेव अवभासमानत्वं च न सम्भवति इति प्रमाणफलस्य प्रदीपवज्जडत्वाङ्गीकारात् , तस्याव्यवधानेन विषये प्रकाशत इति व्यवहारहेतुत्वाभावात् , तेन चेतयत इति जन्यानुभवान्तरं वक्तव्यम् । तस्यापि जडत्वात् तेन चेतयत इत्यनुभवान्तरमित्यनवस्थेत्याह -
किञ्च प्रमाणफलेन चेदिति ।
विशेषहेतुर्वाच्य इति ।
आत्मानुभवयोः चिद्रूपत्वाविशेषेऽपि आत्मनः स्वयम्प्रकाशत्वे विशेषहेतुर्वाच्य एव, न कदाचिदप्युक्तो भवतीत्यर्थः ।
घटापरोक्ष्यवदात्मापरोक्ष्यमपि ज्ञानाधीनमिति, नेत्याह -
न हि चैतन्यस्वभावः सन्निति ।
प्रदीपस्य स्वोत्पत्त्यर्थं प्रदीपान्तरापेक्षा विद्यत इत्याशङ्क्य विशिनष्टि -
प्रकाशन इति ।
अनुभवस्य क्रियात्वद्रव्यत्वयोरसम्भवात् गुणत्वे वक्तव्ये सवितृप्रकाशवत्तस्य स्वधर्म्यात्मत्वं सत्तायामव्यभिचारात् आत्मस्वरूपतैवेत्यात्मैव चिद्रूपप्रकाशः स्यादित्याह –
अनिच्छतोऽपीति ।
आत्मनोऽन्यत् कादाचित्कद्रव्यमनुभव इति नेत्याह -
न तदतिरिक्तेति ।
जन्यानुभवस्याजन्यात्मातिरिक्तत्वमस्तीति शङ्कते -
कथमिति ।
अनुभवस्य स्वतो भेदाभावेन देशकालानवच्छेदादात्मस्वरूपतैव न जन्यत्वमित्युपपादयति -
प्रमाणजन्यश्चेदित्यादिना ।
अनुभवभेदे सति तेष्वनुभव इत्येकशब्दप्रयोगहेतुत्वेन अनुभवत्वं नाम सामान्यं वक्तव्यम् । तच्च सामान्यं किं जडं चित्स्वभावं वा, जडं चेन्नानुभवगतं स्यात् चैतन्यं चेत् अनुभवस्वरूपत्वादेव नानुभवगतत्वम् । अतः सामान्याभावाच्च नानुभवभेद इत्येकात्मैकानुभव इत्याह -
सर्वानुभवानुगतं चेति ।
विनष्टपीतसंविदपेक्षया स्थितनीलसंविदो भेदोऽस्तीत्याशङ्क्य स्थिताभेदाद्विनष्टत्वमसिद्धमित्याह -
ननु विनष्टाविनष्टत्वेनेति ।
नीलसंविदो जन्यत्वात् पीतसंविदो विनष्टतेत्याशङ्क्याह -
सा च जन्यत्व इति ।
भेदाभावसाधनेन सुगतभाषापि निरस्तेत्याह –
एतेनेति ।
चित्प्रकाशस्य स्वरूपभेदोऽस्ति चेत् भेदस्य प्रकाशाभेदात् प्रकाशेन भवितव्यम् , अप्रकाशनं तु भेदाभावादेव न सादृश्यादित्याह -
न हि चित्प्रकाशस्येति विभ्रमः स्यादिति ।
अभेदभ्रमः स्यादित्यर्थः ।
अभिहितं तत्राप्रकाशने प्रमाणमिति ।
अप्रकाशनहेत्वविद्यायां प्रमाणमुक्तमित्यर्थः ।
संविदः सादृश्या प्रतिबद्धभेदावभासाः, स्थायिप्रकाश इति बुद्धिवेद्यत्वात् ज्वालावदित्याशङ्क्याह -
न हि सामान्यतो दृष्टमिति ।
पूर्वापरसंविदेकरूपानुभवो भेदस्य च भावे प्रकाशेन भवितव्यमित्यनुभवयुक्ती दर्शित इत्याह -
दर्शिते चेति ।
आत्मचैतन्यस्य नित्यस्य कथं विषयानुभवत्वमिति तदाह -
तस्माच्चित्स्वभाव इति ।
उपधीयमान इति ।
घटाद्युपाधिना ज्ञायमानो गम्यमानो व्याप्यमान उपाधिना अवच्छिद्यमान इत्यर्थः ।
सर्वगतात्मचैतन्यस्य आकाशादिप्रमेयैरवच्छिन्नतया कार्त्स्न्येनानुभवरूपेणैव उपयुक्तत्वात् आकारान्तराभावात् आत्मशब्दार्थत्वं न सम्भवतीत्याशङ्क्य कृत्स्नोपाधिविनिर्मुक्तं तदेवात्मादिशब्दवाच्यं भवतीत्याह –
अविवक्षितोयाधिरिति ।
आत्मस्वरूपचैतन्येन विषयोपरागात् विषयानुभवशब्दितेन आत्मा प्रकाशत इत्युक्त्या विषयानुभवाश्रयकोटितया आत्मा सिध्यतीति त्वयोक्तं तत्तथैवेत्याह पूर्ववादी -
बाढमिति ।
अत एवेति ।
विषयानुभवाश्रयतया सिद्धस्यात्मत्वादेवेत्यर्थः ।
अहमनुभवामीत्यहङ्कारस्य विषयानुभवाश्रयत्वप्रतीतेः अहङ्कार एवात्मतयाऽनिदंरूपो नान्य इत्याह -
विषयानुभवनिमित्त इति ।
योऽहङ्कारः सोऽनिदमात्मको वर्णित इत्युद्देश्यविधेयभावोऽत्र द्रष्टव्यः ।
विषयानुभवशब्दितेन आत्मस्वरूपचैतन्येनाहङ्कारस्य सिद्धिरस्त्येव, न तु चैतन्याख्यानुभवाश्रयत्वमनिदंरूपत्वं चास्ति । चैतन्याख्यानुभवस्य आत्मस्वरूपतया तन्निष्ठत्वात् अहङ्कारनिष्ठत्वाभावात् इत्याह –
सत्यमेवमिति ।
अहङ्कारस्यानुभवाश्रयत्वप्रतीतेः अनुभवस्तन्निष्ठ एवेत्याशङ्क्य अयो दहतीत्यत्रायस इवानाश्रयत्वेऽपि प्रतिभासः स्यादित्याह –
किन्त्विति ।
अनयोः व्यतिरेकेण दहनाश्रयवह्निदर्शनवत् अहङ्कारव्यतिरिक्तात्मादर्शनात् , अहङ्कारस्यैवानुभवाश्रयत्वमात्मत्वं चेत्याशङ्क्य, सुषुप्तावात्मनि सत्येवाहङ्कारस्याभावात् न तस्यात्मत्वमित्याह -
तथा सति अहमुल्लेखः स्यादिति ।
अहङ्कारः स्यादिति च भासः स्यादित्यर्थः ।
विषयानुभवाभावादहङ्कारस्य सुषुप्तावनवभासः न त्वहङ्काराभावादिति चोदयति -
कथमिति ।
विषयानुभवाभावोक्त्या चैतन्याभावो वक्तुं न शक्यते चैतन्यस्यात्मस्वरूपतया नित्यत्वोक्तेः चैतन्यस्य नीलादिविषयसम्बन्धाभावोक्तौ न तेनात्मत्वाभिमताहङ्कारस्य अप्रतीतिः ।
नीलसम्बन्धस्यात्मसिद्धिहेतुत्वाभावादित्याह -
नीलानुषङ्ग इति ।
नीलाभोग इति नीलसिद्धिरित्यर्थः ।
अहमित्यात्मावभासत इति ।
आत्मा त्वहमित्यवभासते । अतः इदमित्यवभास्यनीलसिद्धिहेतुः नीलानुषङ्गो नात्मसिद्धिहेतुरित्यर्थः ।
दर्शनक्रियाव्याप्तद्रष्ट्राकारस्य अहमित्यवभास्यत्वात् तदभावादहमित्यनवभासः सुषुप्त इत्याशङ्क्य तस्य सप्रतियोगिकत्वेन अनात्मत्वान्नाहमित्यवभास्यत्वम् । अतोऽहङ्कारस्य केवलस्याहमित्यवभास्यत्वात् तस्य सुषुप्तेऽवस्थानेऽहमित्यवभासेन भवितव्यमित्याह -
तत्र यदि नामेति ।
विषयानुषङ्गो नाम आत्मस्वरूपचैतन्यस्य विषयसम्बन्धः । स एव विषयानुभव इति द्रष्टव्यम् ।
जाग्रदवस्थायामहमिति प्रतीयमानं चिन्मात्रमेव । तत्सुषुप्तावप्यनुभूयत एव । अतोऽहमिति प्रतिपन्ने किञ्चित्सुप्तावननुभूतं नास्तीति चोदयति -
न त्वहमिति ।
भोक्तृत्वमिति ।
भोक्तृत्वशब्देन चिन्मात्रमुच्यते,
जाग्रत्यहमिति प्रतिपन्नचिन्मात्रस्य सुषुप्ताववभासेऽहमित्यवभासः स्यात् इत्याशङ्क्य नीलादिसम्बन्धाख्यविषयानुभवाभावान्नाहमिति प्रतिभासप्रसङ्गः सुषुप्त इत्याह -
तदभावे कथमिति ।
जाग्रत्यहमिति प्रतीतं चिन्मात्रं चेत् सुषुप्तावपि प्रतीयमानमहमिति प्रतीयादित्याह -
नैतत् सारमिति ।
उपाधिपरामर्श इति ।
चैतन्यस्य नीलादिविषयोपरागे सतीत्यर्थः ।
तत्परामर्शो हि तत्सिद्धिनिमित्त इति ।
नीलाद्युपरागो नीलादिसिद्धिहेतुरित्यर्थः ।
न स्वरूपसिद्धये हेतुरिति ।
सिद्धिहेतुरित्यर्थः ।
स्वमाहात्म्येनैव तु स्वरूपसिद्धिरिति ।
स्वयम्प्रकाशतया चिद्रूपात्मसिद्धिरित्यर्थः ।
दृशिस्वरूपत्वाविशेषादिति ।
सुषुप्तौ प्रतीतचिद्रूपस्य जाग्रत्यहमिति प्रतीतचिद्रूपस्य चेत्यर्थः ।
उत्त्थितस्याहमित्युत्पन्ना प्रतीतिः सुषुप्तावनुभूताहङ्कारस्य स्मरणमिति नेत्याह -
ह्यस्तन इवेति ।
पूर्वस्मिन् दिने अहमित्यभिमन्यमान एवासमिति स्मर्यमाणवदित्यर्थः ।
अविनाशिनः संस्काराभावादिति ।
संस्कारसाधकात्मचैतन्यस्याविनाशान्न संस्कारजन्मेत्यर्थः ।
विषयानुभवाश्रयतया सुषुप्तावहङ्कारस्य सिध्यसम्भवेऽपि उत्त्थितस्य परामर्शसिद्ध्यै सौषुप्तिकसुखानुभवाश्रयतया अहङ्कारः सिद्ध इति चोदयति -
नन्वस्त्येवेति ।
सुषुप्तौ सुखानुभवाय सुखहेतुविषयानुभवोऽपि वक्तव्य इति नेत्याह –
नात्मनोऽन्यस्येति ।
अस्तीति ।
उत्थितस्य परामर्शाख्यस्मरणरूपसुखावमर्शः दुःखाभावनिमित्त इति । ।
उत्थितस्य दुःखास्मरणेन अनुमितदुःखाभावे सुखमहमस्वाप्समिति व्यपदेश इत्यर्थः ।
सुखशब्दस्य मुख्यसुखविषयत्वमभ्युपेयमिति शङ्कते ।
कथमिति ।
स्वप्ने दुःखानुभवे सति उत्थितस्य दुःखस्मृतिर्यथा जायते तद्वत् सुषुप्तेऽपि दुःखानुभवे सति उत्थितस्य दुःखस्मरणेन भवितव्यम् । अतः स्मरणाभावेन दुःखाभावमनुमाय तस्मिन् सुखव्यपदेश इति मत्वाह -
स्वप्ने तावदिति ।
तदभावादिति ।
दुःखस्य तदनुभवस्य चाभावादित्यर्थः ।
सुप्तः सुखमिति ।
सुखं सुप्त इत्यन्वयः ।
विशेषत इति ।
गानसुखं पानसुखमिति विशेषतः स्मर्येतेत्यर्थः ।
सुषुप्तौ न किञ्चिन्मया चेतितमित्युत्थितस्य व्यपदेशात् सुखस्यानुभूतत्वं नास्तीत्याह –
व्यपदेशोऽपीति ।
सुषुप्तौ सुखानुभवसद्भावे लिङ्गमस्ति, उत्थितस्य प्रसन्नेन्द्रियत्वादीति तत्राह -
यत्पुनः सुप्तोत्थितस्येति । ।
अनुभूतं चेत् सुखं स्मर्येतेति ।
भोजनसमनन्तरं पीनत्वाद् भुक्तं मयेत्यनुमानं विहाय सुखं भुक्तमिति स्मरणमेव यथा तथात्रापि स्मरणेनैव भवितव्यमिति भावः ।
सुषुप्ते भावरूपसुखानुभवश्चेत् सुखस्य भूयस्त्वाल्पत्ववैषम्यादङ्गलाघवतदभावावनुपपद्येते । दुःखाभावमात्रेत्वभावस्य स्वरूपवैषम्याभावात् कथं कस्यचिदङ्गलाघवं कस्यचिन्नेति एतदुपपद्यत इति चोदयति -
यद्येवमिति ।
व्यापारोपरम इति ।
व्यापारस्य पुनरपि झटिति व्यापारोत्पादकसंस्कारस्य चोपरम इत्यर्थः । अनुमितदुःखाभावे उत्थितस्य सुखमहमस्वाप्सम्’ इति व्यपदेश इत्येतत् परमतमाश्रित्योक्तमिति द्रष्टव्यम् ।
मतमागमयितव्यमिति ।
आत्मा स्वयम्प्रकाशोऽहङ्कारश्चात्मव्यतिरिक्त इति मतमागममूलं कर्तव्यमित्यर्थः ।
तर्ह्यहङ्कारस्योपादाननिमित्तस्वरूपप्रमाणकार्यादि सर्वं वक्तव्यमिति तत्राह -
तदुच्यत इत्यादिना ।
तत्रापि ‘येय’मित्यादिना उपादानमविद्येति निर्दिशति ।
वाच्यवाचकरूपेण परिणामसमर्थमित्याह -
नामरूपमिति ।
पत्रपुष्पादिरूपेण परिणामशक्तीः स्वात्मन्यन्तर्भाव्य यथा बीजमवतिष्ठते, तद्वद् विविधप्रपञ्चरूपेण परिणामशक्तीः पूर्वप्रपञ्चविनाशजन्यसंस्कारांश्च स्वात्मन्यतर्भाव्य अवस्थितबीजावस्थामाह –
अव्याकृतमिति ।
विद्यानिवर्त्येत्याह –
अविद्येति ।
अनुपपन्ननिर्वाहिकेत्याह –
मायेति ।
उपादानकारणमित्याह –
प्रकृतिरिति ।
आच्छादनरूपमित्याह –
अग्रहणमिति ।
शब्दादिहीनतया इन्द्रियाद्यविषयमित्याह –
अव्यक्तमिति ।
स्वाश्रयमेव विषयीकरोतीत्याह -
तम इति ।
स्वातिरिक्तनिमित्तानपेक्षमित्याह –
कारणमिति ।
स्वस्मादीषद्विभक्तस्वकार्यं स्वतावन्मात्रं करोतीत्याह -
लय इति ।
लीयतेऽस्मिन् इति लय इति विग्रहः ।
आत्मपरतन्त्रेत्याह –
शक्तिरिति ।
स्वाश्रयात्मनः स्वस्वभावे प्रबुद्धे निवर्त्यत इत्याह –
महासुप्तिरिति ।
स्वाश्रयात्मानमेकमनेकमिव करोतीत्याह –
निद्रेति ।
ज्ञानातिरेकेण स्वतोऽन्यतो वा न नश्यतीत्याह –
अक्षरमिति ।
व्यापीत्याह –
आकाशमिति ।
निवृत्तेः पुमर्थत्वाय निवर्त्याविधायाः अनर्थहेतुत्वमाह -
चैतन्यस्य स्वत एवेति ।
अविद्याकर्मपूर्वप्रज्ञेति ।
भ्रान्तिः, कर्म, पूर्वानुभवसंस्कार इत्यर्थः ।
एवंरूपमज्ञान किमर्थमित्याशङ्क्य, सुषुप्ते आत्मनोऽद्वयरूपाच्छादकत्वाय प्रपञ्चसंस्काराश्रयत्वाय चेत्याह -
सुषुप्ते प्रकाशाच्छादनेति ।
परमेश्वराधिष्ठितत्वलब्ध इति ।
अविद्यायां चैतन्यैक्याध्यासः अहङ्कारस्य निमित्तकारणमित्यर्थः । विज्ञानक्रियाशक्तिद्वयाश्रय इति स्वरूपं दर्शयति ।
कार्यं दर्शयति -
कर्तृत्वभोक्तृत्वैकाधार इति ।
प्रमाणं दर्शयति -
कूटस्थचैतन्यसंवलनसञ्जातज्योतिरिति ।
चैतन्ये अध्यासः संवलनमुच्यते । अध्यस्ताहङ्कारेऽभिव्यक्तं चैतन्यं यत् तज्ज्योतिरित्युच्यते । तेन ज्योतिषा सिद्ध्यतीत्यर्थः ।
स्वयं प्रकाशमान इति ।
स्वसत्तायां प्रकाशाव्यभिचारीत्यर्थः ।
अहङ्कारस्यानुमेयत्वं नैयायिकाद्यनुमतं व्यावर्तयति -
अपरोक्ष इति ।
यत्सम्भेदादिति ।
आत्मनि सर्वातदारोपनिमित्तं कार्यान्तरमाह -
कूटस्थचैतन्य इति ।
अविकारिचैतन्य इत्यर्थः ।
आत्मधातुरिति ।
आत्मतत्त्वमित्यर्थः ।
क्रमुकताम्बूलादिशबलेन सत्यलौहित्योत्पत्तिवत् अहङ्कारचैतन्ययोः शबलेन सत्यकर्तृत्वाद्युत्पत्तिः कस्मान्न स्यात् ? इत्याशङ्कां व्यावर्तयति -
मिथ्यैवेत्येवकारेण ।
किमिति तर्हि सुषुप्ते न स्यादिति अत आह -
स च सुषुप्त इति ।
संस्कारनिर्मितह्यस्तनप्रपञ्चो विलीन इत्याह -
समुत्खातेति विशेषणेन ।
कुतस्त्यः कुत्र भवः ? क्वापि नास्तीत्यर्थः ।
तर्हि अविद्या स्वस्मिन्नाश्रितधर्मलक्षणावस्थापरिणामत्रयवत्तया अहङ्कारनिर्भासरूपात् साक्ष्यात्मनोऽन्यतया प्रधानाख्यप्रकृतिरूपेणाहङ्कारस्य कारणम् , नात्मन्यध्यस्ततयाऽविद्यात्वेनेति साङ्ख्यचोद्यमनूद्यपरिहरति -
न चैवं मन्तव्यमिति ।
तत्र महदादिकार्यरूपेणावस्थानं धर्मपरिणामः तस्यैव धर्मस्य क्रमेणानागतवर्तमानातीतरूपापत्तिलक्षणपरिणामः, अवस्थापरिणामस्त्वतीतमतीतरतरमतीततमम् ,
अनागतमनागततरमनागततममिति ।
तत्रैवाद्यतनचिरन्तनाद्यवस्थापत्तिरिति द्रष्टव्यम् ।
आत्मनोऽन्यस्वतन्त्रप्रकृतिकार्यत्वे सति अहङ्कारादेरिदमिति पृथक्त्वेनावभासः स्यात् , अहमित्यात्मतयावभासो न स्यादित्याह -
तथा सतीति ।
अहङ्कृतिरित्यहंप्रत्ययविषयभूतात्मोच्यते । भोक्तृत्वादिः, अहङ्कारादिरित्यर्थः । तद्विशेषः स्वतन्त्रप्रकृतेर्विशेषः कार्यमित्यर्थः ।
बुद्धिसुखदुःखेच्छादिधर्म्यहङ्कारस्य चात्मनैक्यावभासाभ्युपगमे तस्यैवात्मत्वमस्तु, नात्मनः पृथग्भूतो नैयायिकाद्यभिमतमनोव्यतिरिक्तोऽहङ्कारो नामास्तीत्याशङ्क्याह -
स च परिणामविशेष इति ।
नन्वात्मन एव विज्ञानरूपेण क्रियारूपेण च परिणामशक्तिद्वयं किं न स्यादित्याशङ्क्य निरवयवसर्वगतासङ्गस्य परिणामासम्भवात् मिथ्यैव परिणामतच्छक्तिरित्याह –
तेनान्तःकरणोपरागनिमित्तमिति ।
कुसुमगतमेव सत्यलौहित्यं स्फटिकादविविक्तं भातीत्यख्यातिवादी चोदयति -
कथं पुनरिति ।
प्रतिस्फालिता इति ।
स्फाटिकस्य तेजोद्रव्यत्वात् ततः प्रतिहता यदि जपाकुसुमं गच्छेयुरित्यर्थः ।
तदेव जपाकुसुममेव लोहितं गृह्णातीत्याशङ्क्य, तर्हि सन्निवेशविशिष्टं पुष्पं लोहितमिति ग्राह्येयुरित्याह –
विशिष्टसन्निवेशमिति ।
दोषबलादिन्द्रियस्य कुसुमसंयोगाभावात् न सन्निवेशग्रहणमिति, नेत्याह -
न हि रूपमात्रनिष्ठ इति ।
रूपमात्रं स्फटिके प्रतिबिम्बितं स्फटिकात्मना भातीत्यन्यथाख्यातिवादी वदति, तन्नेत्याह -
नापि स्वाश्रयमिति ।
लौहित्यगुणाश्रयद्रव्यप्रभावद्द्रव्यस्य स्फटिके व्याप्त्यङ्गीकारात् तद्द्वारेणागतं रूपं स्फटिकात्मना भातीति चोदयति -
नन्वभिजातस्येवेति ।
कुलीनस्यासङ्करस्येत्यर्थः ।
स्फटिकसंसृष्टं लौहित्यं संसर्गस्य मिथ्यात्वात् तद्विशिष्टरूपेण मिथ्येत्याह -
तथापि स्वयमलोहित इति ।
लौहित्यस्य न स्फटिकसंसर्गावभास इत्यख्यातिवादिनो मतं ददाति -
अथ प्रभैवेति ।
शौक्ल्यमपि तर्हीति ।
संयुक्तसमवायस्य संयोगस्य वा विद्यमानत्वादिति भावः ।
प्रभयापसारितमिति ।
लौहित्याख्यविरोधिगुणया प्रभयेत्यर्थः ।
न रूपिसंयोगादिति ।
रूपिप्रभासंयोगानां न चाक्षुषत्वमित्यर्थः ।
'जपाकुसुमं प्रभावत् रक्तत्वात् पद्मरागादिवत्’ इत्याशङ्क्याह -
यथा पद्मरागादिप्रभेति ।
निराश्रयपीतिमाश्रयमण्यवच्छेदकदेशाद्देशान्तरं व्याप्य मां प्रति समागच्छतीति प्रतीयत इत्यर्थः ।
अहङ्कारोपराग इत्यत्र आत्मनि कर्तृत्वाद्यनर्थारोपहेतुरित्यध्याहारः । नाहङ्कारस्यानर्थहेतुत्वं ‘भिद्यते हृदयग्रन्थि’ रिति हृदयग्रन्थेरनर्थहेतुत्वस्य श्रुत्यवगतत्वादिति तत्राह -
ततः सम्भिन्न इति ।
आत्मा स्वात्मन्यारोपिताहङ्कारं तद्धर्मादिनावभासयेत् , उपरक्तत्वात् स्फटिकादिवत् इति तत्राह -
जडरूपत्वादिति ।
आत्मनो विज्ञानव्यापारशून्यत्वाज्जाड्यादिविशेष इति तत्राह –
व्यापारविरहिणोऽपीति ।
तद्बलात् प्रकाशत इति ।
चित्संसर्गबलादहङ्कारादिः प्रकाशत इत्यर्थः ।
तेन लक्षणत इति ।
ज्ञानक्रियाव्यवधानमन्तरेण चैतन्यकर्मत्वादेवाहङ्कारस्यार्थस्वभावतः इदंरूपता कथ्यते, न प्रतिभासत इत्यर्थः ।
ज्ञानक्रियाव्यवधानेन सिद्धः प्रतिभासत इदंरूपो विषय इत्याह -
व्यवहारतः पुनरिति ।
अत्र व्यापारपूर्वको यस्य परिच्छेदः स एव व्यवहारतः पुनरिदमात्मको विषय इति पूर्वमन्वयः ।
आत्मनो देहघटादिविषयज्ञानव्यापारो नास्तीत्याशङ्क्याह -
तद्व्यापारेण व्याप्रियमाणस्यैवेति ।
देवदत्तव्यापारेण यज्ञदत्तो व्याप्रियमाण इव यथा न भवति, तद्वत् अहङ्कारव्यापारेणात्मनो व्यापारवत्ता न युक्तेत्याशङ्क्याह -
तदात्मन इति ।
परिणाम्यहङ्कारैक्ये आत्मनोऽपि परिणामित्वं प्राप्तमिति ; नेत्याह –
मिथ्येति ।
व्यापारशक्तिमत्वाभावे व्यापाराश्रयत्वं न सम्भवतीत्यशङ्क्य शक्तिमदहङ्कारोपाधिकत्वेनात्मन्यपि शक्तिरध्यस्तेत्याह –
यदुपरागादिति ।
अहङ्कर्तृत्वमिति ।
व्यापारजनक शक्तिमत्वमित्यर्थः ।
अहङ्कारस्य शक्तिमत्वं यथा स्वत एव स्यात् तद्वदात्मनोऽपि शक्तिः स्वत एवास्त्वित्याशङ्क्य चित्स्वरूपस्य वास्तवशक्तिमत्वं न सम्भवतीत्याह –
अनिदमात्मन इति ।
अहङ्कारसाक्षिणोर्मध्ये अज्ञानव्यवधानात् प्रतिभासत इदं रूपं स्यादिति तत्राह -
अत एवाहमिति ।
अज्ञानमात्रव्यवधानातिरिक्तज्ञानक्रियाव्यवधानाभावादेवेत्यर्थः ।
अर्थत इदंरूपत्वेऽपि तथा प्रतिभासाभावे दृष्टान्तमाह –
दृष्टश्चेति ।
ननु तत्त्वविमर्शेऽपि मृण्मयव्यवहारो न जायते । इह तु विमर्शेऽपि युष्मदर्थता व्यवह्रियते, अतो नायं दृष्टान्त इत्यत आह –
व्युत्पन्नमतयस्त्विति ।
विमर्शेऽहङ्कारस्य युष्मदिति व्यवहारमपि सुलभं न मन्यन्त इत्यर्थः ।
अत एवेति ।
विमर्शेऽपि युष्मदिति व्यवहारस्य दुर्लभत्वादेव, गुरुतरयत्नवता लभ्यत ...... - मुक्तमित्यर्थः ।
यदि स्फटिकोदाहरणेन आत्मन्यनात्माध्याससिद्धिः तर्हि श्रुतिषु दर्पणजलाद्युदाहरणं किमर्थमिति तत्राह –
यत्पुनरिति ।
ब्रह्मणो वस्त्वन्तरभावे किं ब्रह्मणः कल्पितत्वमिति, नेत्याह –
किन्त्विति ।
विपर्ययस्वरूपतेति ।
संसारिरूपतेत्यर्थः ।
प्रत्यङ्मुखताभेदावभासाभ्यां प्रतिबिम्बस्य बिम्बाद्वस्त्वन्तरत्वमिति चोदयति -
कथं पुनस्तदेव तदिति ।
एकस्वलक्षणत्वावगमादिति ।
एकस्वरूपलक्षणत्वेन मदीयमिदं मुखमिति दर्पणगतमुखव्यक्तेः स्वग्रीवास्थमुखव्यक्त्यैक्यप्रत्यभिज्ञानादित्यर्थः ।
ययोरेकस्वलक्षणत्वं तयोरैक्यं दृष्टमिति व्याप्तिमाह -
यथा बहिःस्थितो देवदत्त इति ।
छायातद्वतोरेक स्वलक्षणत्वाभावान्नानैकान्तिकतेति भावः ।
अर्थादिति ।
वस्त्वन्तरत्वानुपपत्त्येत्यर्थः ।
दर्पणस्य मुखाकारेण परिणामे स्पर्शेन्द्रियेण निम्नोन्नततया गृह्येत, न तथा गृह्यते, इत्याशङ्क्याह -
गर्भित इति ।
विरुद्धपरिणामित्वादिति ।
मुद्रायामुन्नतं प्रतिमुद्रायां निम्नं भवति । मुद्रायां निम्नं प्रतिमुद्रायामुन्नतं भवति,
न तथा बिम्बप्रतिबिम्बयोरिति ।
प्रतिमुद्रायां विरुद्धपरिणामित्वमित्यर्थः ।
संश्लेषाभावादिति ।
ग्रीवास्थमुखेन दर्पणस्य संश्लेषाभावादित्यर्थः ।
तदपायेऽपीति ।
बिम्बासान्निध्याख्यनिमित्तापायेऽपीत्यर्थः ।
हस्तसंयोगाख्यनिमित्तापाये प्रसरणाख्यकार्याभावो दृष्टः पुनः संवेष्टनदर्शनादिति । नेत्याह -
न खलु संवेष्टित इति ।
तत्क्षणमेव संवेष्टत इति, अतः प्रसारणमपगच्छतीति भावः ।
संस्काराद्विरुद्धसंवेष्टनकार्योदयात् पूर्वप्रसारणकार्यविनाशः, न निमित्तापायादित्याह –
यतश्चिरकालसंवेष्टनेति ।
वेष्टनसंस्कारक्षयपर्यन्तमनुवृत्तप्रसारणनिमित्तापगमेऽपि विरोधिसंवेष्टनानुदये प्रसारणं नापगच्छति । अतो विरोधिकार्योदयादेव प्रसारणनाश इति निर्णय इत्याह -
तथा च यावत्संस्कारक्षयमिति ।
तर्हीहापि समतलत्वसंस्कारात् समतलत्वाख्यविरोधिकार्योदये प्रतिबिम्बापायः स्यात् इत्याशङ्क्य उत्पन्नमात्रे दर्पणे उत्पत्तेरूर्ध्वं सदा मुखसन्निधेः समतलत्वसंस्काराभावादेव समतलत्वपरिणामायोगात् तत्र प्रतिबिम्बापायो बिम्बापायादेव स्यात् , तन्न युक्तं परिणामपक्ष इत्याह -
एवं चिरकालेति ।
ग्रीष्मकाले विकासावच्छेदकाहरपेक्षया मुकुलावच्छेदकरात्रेरल्पत्वात् विकाससंस्कारस्य प्राचुर्यात् तदभिभवेनाल्पतर संस्कारात्मुकुलसंस्कारात् मुकुलोत्पत्तियोगात् मुकुलोदयात् विकासनाशायोगात् निमित्तापायादेव विनाश इत्याशङ्क्य, सत्यम् , संस्कारान्मुकुलानुदयेऽपि नालद्वारेण पद्मदलानुप्रवेशिजलबिन्दुभिः पार्थिवावयवसङ्करैः मुकुलोदयात् विकासनाशः न निमित्तापायादित्याह -
यः पुनरित्यादिना ।
निमित्तापाय एव विकासापायस्य मुकुलस्य च निमित्तमिति तत्राह -
तदुपरम इति ।
पार्थिवावयवस्य व्यापारोपरमे सति निमित्तापाये मुकुलतानुपलब्धेरित्यर्थः ।
तर्हि संस्कारातिरिक्तहेत्वन्तरेण समतलत्वोत्पत्त्या प्रतिबिम्बापगमः न बिम्बापायादिति नेत्याह -
नादर्शे पुनरिति ।
कारुकर्मादि नास्तीत्यर्थः ।
मदीयमुखमिति प्रत्यभिज्ञयैकत्वमवगतमिति नेत्याह –
शुक्तिरजतस्येति ।
मदीयं रजतमिति दर्शनादित्यर्थः ।
बाधदर्शनादिति ।
नेदं रजतमिति रजतस्वरूपबाधदर्शनात् नात्र रजतं किन्तु तदिदं रजतमिति सत्यरजतेन एकत्वप्रत्यक्षिज्ञाऽभावाच्च मिथ्यात्वमित्यर्थः ।
नेह बाधो दृश्यत इति ।
नेदं मुखमिति स्वरूपेण न बाध्यते । किन्तु नात्र मुखं मदीयमेवेति प्रत्यभिज्ञायत इत्यर्थः ।
दर्पणापगमे मुखस्यापगमात् मुखं नास्तीति मुखस्य स्वरूपेण बाधो दृश्यत इत्याशङ्क्य तदसन्निधौ तन्नास्तीति ज्ञानेन तस्य बाध्यत्वे दर्पणस्यापि बाध्यत्वं स्यादित्याह –
पुनरिति ।
तत्त्वमसिवाक्यादिति
स्थाणुः पुरुष इति वाक्यात् पुरुषस्येव संसारिणो बाधो दृश्यत इत्यर्थः ।
सोऽयमिति वाक्यादिवैक्यमुपदिश्यत इत्याह –
मैवमिति ।
अन्यथा न तत्त्ववमसीति स्यात् इति, त्वमसीति न स्यादित्यन्वयः ।
उपरक्तमिति ।
राहुग्रस्तमित्यर्थः ।
न वारिस्थमिति ।
वारिस्थप्रतिबिम्बस्य बिम्बादित्यैक्ये सति हि वारिस्थमादित्यं नेक्षेतेति निषेधसम्भव इति भावः ।
ग्रीवास्थमुखस्य दर्पणस्थत्वाख्यदर्पणसम्बन्धो न गृह्यते । किन्तु तदेव मुखं दर्पणादविविक्तं प्रकाशत इति अख्यातिमतमनूद्य दूषयति -
यस्तु मन्यत इति ।
अनुभव एव निराकरोतीति ।
स्वात्मानं निरीक्ष्यमाणं पुरुषान्तरं दर्पणानुप्रविष्टमिव प्रतिबिम्बस्यानुभवः, तन्निराकरोतीत्यर्थः ।
उभयत्र पारमार्थिकत्वमाकाशस्य दृष्टमिति तद्व्यावर्तयति -
परिच्छिन्नमिति ।
परिच्छिन्नपरमाण्वोः देशद्वये सत्यत्वं विद्यत इति आशङ्क्य द्वयोः देशद्वये सत्यत्वमस्तु, एकस्य परिच्छिन्नस्य उभयत्र सत्यत्वं न सम्भवतीत्याह –
एकमिति ।
परिच्छिन्नस्यैकस्य पितृपुत्रसम्बन्धस्योभयत्र सत्यत्वं दृश्यत इत्याशङ्क्य एकत्र पितृत्वमन्यत्र पुत्रत्वमिति उभयात्मकत्वात्तस्य तथात्वमस्तु, एकस्वभावस्य मुखस्य न तथात्वमित्याह –
एकस्वभावमिति ।
एवंरूपस्य अवयविद्रव्याख्यावयवद्वये सत्यत्वं विद्यत इत्याशङ्क्य संश्लिष्टावयवद्वये सत्यत्वमस्तु, विच्छिन्नदेशद्वये सत्यत्वं न सम्भवतीत्याह -
विच्छिन्नदेशद्वय इति ।
पूर्वोक्तस्वभावस्य वंशस्य विच्छिन्नभित्तिद्वये सत्यत्वं दृश्यत इत्याशङ्क्य तत्रांशद्वयेनोभयत्रसत्यत्वं सम्भवति, इह तु न सर्वात्मना उभयत्र सत्यत्वं सम्भवतीत्याह -
सर्वात्मना अवभासमानमिति ।
विच्छेदावभासमिति ।
बिम्बात् भिन्नत्वावभासं भिन्नदेशस्थत्वावभासं चेत्यर्थः ।
भेदस्य सत्यत्वाभावे किं भेदविरोधितादात्म्यं सत्यमित्युक्तमिति, नेत्याह –
किन्त्वेकत्वमिति ।
मायालक्षणकारणविशेषोक्त्या कथमेकस्य उभयत्र युगपत् स्थितिरिति ? तत्राह -
न हि मायायामिति ।
औपाधिकधर्माध्यासस्य तत्त्वज्ञानादनिवृत्तेः एकत्वज्ञानेन निवर्तत इति परिहर्तुं जीवो ब्रह्मात्मतां न जानाति, प्रतिबिम्बत्वाद्देवदत्तप्रतिबिम्बवदिति शङ्कां प्रथमं परिहरति -
उच्यत इति ।
शरीरमेव चेतनमिति लोकायतः, तत्राह -
सचेतनांशस्यैव वेति ।
प्रतिबिम्बहेतोरिति ।
दर्पणस्येत्यर्थः ।
जाड्येनाप्यास्कन्दितत्वादिति ।
शरीरस्याचेतनत्वपक्षे स्वीयजाड्येन, चेतनत्वपक्षे दर्पणजाड्येनास्कन्दितत्वादित्यर्थः । अचेतनत्वादित्यत्र लोकायतपक्षे अचेतनसमत्वादिति योज्यम् ।
तथा चानुभव इति ।
प्रतिबिम्बस्यापि चेतनत्वे बिम्बचेष्टां विनापि कदाचित् बिम्बवच्चेष्टेत तदभावात् प्रतिबिम्बस्याचेतनत्वमनुभूयत इत्यर्थः ।
बिम्बदेवदत्तस्येव बिम्बभूतब्रह्मण एव भ्रमनिरासितत्त्वज्ञानाश्रयत्वं स्यादिति शङ्कायां जीवत्वाज्ञत्वभ्रान्तत्वाभावान्न ज्ञानाश्रयत्वमित्याह -
यस्य हि भ्रान्तिरिति ।
आत्मनीति विषयसप्तमी ; देवदत्ते बिम्बत्वभ्रान्तत्वयोः सतोः कस्मात् भ्रान्तत्वस्यैव सम्यग्ज्ञानाश्रयत्वे प्रयोजकत्वम् उच्यत इत्याशङ्क्य भ्रान्तरूप्यं प्रति देवदत्तस्य बिम्बत्वाभावात् तत्र भ्रान्तत्वमेव सम्यग्ज्ञानाश्रयत्वे प्रयोजकं दृष्टं, तद्वदिहापि स्यादिति मत्वाह -
परत्र वेति ।
वाशब्द इवार्थः । अत्रापि विषयसप्तमी ।
स्वस्य जीवैक्यं ब्रह्म न जानाति चेत् सर्वज्ञताहानिः, जानाति चेत् स्वात्मन्येव संसारं पश्येदिति, नेत्याह -
यस्तु जानीत इति ।
कर्तृत्वादेरुपाधिभूताहङ्कारादेराविद्यत्वात्कर्मानपेक्षया एकत्वज्ञानेनैव निराससिद्धिः । अन्यत्रोपाधेः सत्वादनिवृत्तिरिति व्यवहितचोद्यं परिहरति -
नापि ज्ञानमात्रादिति ।
प्रतिबिम्बस्येति ।
प्रतिबिम्बभावस्य औपाधिकधर्मस्येत्यर्थः ।
जीवः प्रतिबिम्बं न भवति । प्रतिबिम्बत्वे सम्प्रतिपन्नवदचेतनत्वप्रसङ्गात् इत्याशङ्क्य जीवस्य चित्त्वमभ्युपगम्य प्रतिबिम्बत्वाभावः साध्यते ? उत प्रतिबिम्बत्वमभ्युपगम्य चित्त्वाभावः साध्यते इति विकल्प्य प्रतिबिम्बत्वाभावश्चेत् साध्यते तदा ‘रूपं रूपं प्रतिरूपो बभूव’ इत्यादिश्रुतिविरुद्धमनुमानमित्याह -
जीवः पुनरिति ।
तर्हि जीवोऽचेतनः प्रतिबिम्बत्वात् सम्प्रतिपन्नवदिति जडत्वं साध्यते इत्याशङ्क्य प्रत्यक्षविरुद्धम् इत्याह -
सर्वेषां न इति ।
उपाधिजाड्येनातिरस्कृतचैतन्यत्वेन प्रत्यक्ष इत्याह –
नान्तःकरणजाड्येनेति ।
चिन्मात्रत्वं ब्रह्मत्वं नाम तद्रूपत्वं प्रत्यक्षं चेत् श्रवणादिवैयर्थ्यमित्याशङ्क्याह -
स चाहमिति ।
आत्मातिरिक्तस्य कृत्स्नस्य कल्पितत्वमङ्गीकुर्वताहङ्काराद्युपाधेरविकल्पितत्वं वक्तव्यम् । तन्न सम्भवति, उपाध्यन्तराभावात् इत्याशङ्कायामुपाध्यनपेक्षया अध्यासोऽस्तीति दर्शयन्ति श्रुतय इत्याह -
ननु तत्र विभ्राम्यत इति ।
इहेति ।
अहङ्काराद्युपाध्यध्यास इत्यर्थः ।
रज्जुसर्पभ्रान्तावपि पूर्वमनुभूतसत्यसर्पोपाधिरस्तीति चोदयति -
ननु तत्रापीति ।
अहङ्कार भ्रमस्य दर्पणादिवत् स्वतन्त्रतया भ्रमकालीनोपाधिना भवितव्यमित्युच्यते, किं वा पूर्वमनुभूततया स्वसंस्कारद्वारेण भ्रमहेतूपाधिरपेक्षितव्य इत्युच्यत इति विकल्प्य स्वतन्त्रोपाधिश्चेत् सः सर्पभ्रमेऽपि नास्ति । इतरश्चेत् सोऽत्राप्यस्ति । पूर्वभ्रमसिद्धाहङ्कारसंस्कारात् अद्यतनाहङ्काराध्यासोत्पत्तेरित्याह –
बाढमित्यादिना ।
अहङ्कर्तृतेति ।
अहङ्कार इत्यर्थः ।
श्रुतिषु घटाकाशोदाहरणेन किं प्रयोजनमित्याशङ्क्य आत्मनोऽसङ्गत्वसिद्धिः प्रयोजनमित्याह -
तदर्थं घटाकाशोदाहरणमिति ।
आत्मनोऽसङ्गत्वाभावात् नोदाहरणापेक्षेत्याशङ्क्य असङ्गत्वप्रमाणमाह -
‘असङ्गो न ही’ति ।
स्फटिकोदाहरणेनासङ्गत्वं सिद्ध्यतीत्याशङ्क्य नेत्याह -
तत्र यद्यपीति ।
स्फटिकादेः सावयवत्वेन अरुणादिना सम्भेदयोग्यस्याप्यरूणादेः अनिर्वचनीयतया असम्भेदावगमो यद्यपि सिद्ध इत्यन्वयः ।
तदसङ्गीवेति ।
द्रव्यगुणरूपत्वात् तेनारूणादिना सम्बन्धीव स्फटिको लक्षित इत्यर्थः ।
रज्जुसर्पोदाहरणेनासङ्गत्वं सिद्ध्यतीत्याशङ्क्य तत्र सर्पेण ऐक्यबुद्धित्वादेव संसर्गित्वेन प्रतीत्यभावात् संसर्गित्वेन प्रतीततया निरूप्यमाणे असङ्गित्वेनोदाहरणत्वं रज्जोर्नास्तीत्याह -
रज्ज्वां पुनरिति ।
असम्भिन्नत्वं वेति ।
असंसृष्टत्वमिवेत्यर्थः ।
रूप इति ।
घटपरिमिताकाशरूपत्वमित्यर्थः ।
कार्येति ।
जलादिधारणकार्यमित्यर्थः ।
समाख्येति ।
घटाकाशः करकाकाश इत्यादिशब्दविषयत्वमित्यर्थः ।
उदाहरणैरेवाविकारित्वैकत्वासङ्गत्वसिद्धे ; नागमोपयोग इति, नेत्याह -
एतच्च सर्वमिति ।
बुद्धिसामर्थ्यं चेति ।
तद्वदिदमपि सम्भवतीति दृष्टान्तेन समत्वग्रहणलक्षणसम्भावनाबुद्ध्युत्पत्तय इत्यर्थः ।
अस्मत्प्रत्ययविषयत्वादिति भाष्यगतविषयशब्दार्थमाह -
तदेवं यद्यपीति ।
अनिदमात्मकत्वादविषय इति ।
शुक्तिवदनिन्द्रियविषयत्वात् जन्यज्ञानाविषय इत्यर्थः ।
तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति ।
यादृग्ज्ञानाधीनत्वेन परिच्छिन्नतया स्फुरति यः पदार्थः स तस्य ज्ञानस्य विषयत्वेन दृष्टः, तद्वदात्माप्यहङ्कारेऽभिव्यक्तत्वेन परिच्छिन्नतया स्फुरतीति तं प्रत्यात्मा विषय इत्युच्यते । स्फुरणस्वभावत्वेऽपि परिच्छेदस्य अहङ्काराधीनत्वादित्यर्थः ।
प्रमेयस्य व्यवहारयोग्यत्वाव्यभिचारादिति ।
प्रसिद्धप्रमेयस्य परिच्छिन्नतया स्फुरितत्वाव्यभिचारादित्यर्थः ।
व्यवहारयोग्यत्वे अध्यास इति ।
आत्मनः परिच्छिन्नतया स्फुरतीति व्यवहारयोग्यत्वे सति तस्मिन्नहङ्काराध्यासः अध्यस्ताहङ्कारवशात् परिच्छिन्नतया स्फुरितत्वमित्यन्योन्याश्रयत्वमित्यर्थः ।
अनादित्वेनेति ।
अहङ्कारावच्छिन्नतया स्फुरिते संस्काराध्यासः संस्कारावच्छिन्नतया स्फुरितेऽहङ्काराध्यास इति अनादित्वेनेत्यर्थः ।
अविकारित्वात् सर्वगतत्वात् चिद्रूपत्वाच्चात्मनो युगपत् सर्वावभासकत्वं कस्याप्यनवभासकत्वं वा स्यात् , न क्रमेण विषयविशेषप्रमातृत्वमित्याशङ्क्य क्रमेण इन्द्रियबुद्धिवृत्तिव्याप्त्यपेक्षया क्रमेण विषयविशेषप्रमातृत्वमुपपादयति -
तत्रैवम्भूतस्येति ।
परमार्थतोऽपि कार्यपरिच्छिन्नचित्स्वभावस्येत्यर्थः ।
अहङ्कर्तुरिति ।
परिणाम्यहङ्कारैक्याध्यासमापन्नस्येत्यर्थः ।
इदमंशस्येति ।
परिणाम्यहङ्कारस्येत्यर्थः ।
ज्ञानसंशब्दित इति ।
ज्ञानमिति शब्दयते केवलं न तु मुख्यज्ञानमित्यर्थः ।
रजःप्रधानान्तःकरणपरिणामरागादीन् यावर्त्त्यम् ईषद्रजस्पृष्टसत्वप्रधानान्तःकरणपरिणाम इत्याह -
व्यापारविशेष इति ।
कर्मकारकाभिमुखं स्वाश्रय इति ।
कर्मकारकेणाहङ्कारस्य सम्बन्धं जनयतीत्यर्थः ।
विकारहेतुत्वादिति ।
फलहेतुत्वादित्यर्थः ।
क्रियात्वात् स्वाश्रयेऽतिशयजनकत्वमस्तु । तस्मादतिशयस्य न विषयव्यापितेत्याशङ्क्य सकर्मकक्रियाजन्यत्वात् गमनक्रियाजन्यप्राप्तिवत् विषयव्यापित्वमित्याह -
स च प्राप्नोति क्रियेति ।
प्राप्तिफलहेतुगमनक्रियेत्यर्थः ।
स्यादन्तःकरणस्य विषयसम्बन्धः आत्मनस्तु विषयविशेषावभासः कथमिति तदाह -
तेन विषयविशेषसम्बद्धमिति ।
स्ववृत्तिव्याप्तविषयेण सम्बद्धान्तःकरणस्य च चैतन्यावच्छेदकत्वात् त्रिकोणताद्यवस्थाविशेषापन्नायःपिण्डानुगताग्नेरिव उपाध्यनुगतरूपेणाहङ्कारावच्छिन्नचैतन्यस्य विषयाकारता स्यात् । अतस्तदाकारत्वादेव तदवभास इति भावः ।
अहङ्कारावच्छिन्नचैतन्यस्यैवं विषयाकारताख्यविषयसम्बन्धोऽस्तु । कथं विषयस्थत्वेन व्यक्ततया तत्साधकत्वमिति, तत्राह –
कर्मकारकमपीति ।
कर्मकारकमपि अपरोक्षतामभिव्यनक्ति इत्यन्वयः ।
प्रधानक्रियासिद्धाविति ।
बुद्धिवृत्त्युत्पत्तावित्यर्थः ।