वक्तव्यकाशिका (पञ्चपादिका व्याख्या)
१ परिच्छेदः
स्वव्यापाराविष्टमिति ।
इन्द्रियप्रभाव्याप्ततयाऽभिभूततमोगुणं बुद्धिप्रभाव्याप्ततयाऽभिभूतरजस्कं केवलसत्वरूपेण चैतन्याभिव्यञ्जकत्वयोग्यं भवतीत्यर्थः ।
विषये चैतन्याभिव्यक्तिसिध्यर्थं तदधिष्ठानतया विषये चैतन्यमस्तीत्याह ।
चैतन्यविवर्तत्वादिति ।
भवतु विषये चैतन्यमभिव्यक्तम् , तस्य चाहङ्कारावच्छिन्नचैतन्यमित्यहङ्कारावच्छिन्नचैतन्येन सिद्धत्वव्यपदेशो न स्यादित्याशङ्क्य विषयसाधकत्वेन विषये अभिव्यक्तचैतन्यस्याहङ्कारतद्वृत्त्यभिव्यक्तचैतन्यस्य चैकतया अभिव्यक्तिरस्ति । व्यञ्जकोपाधीनामन्योन्यविशिष्टतया उपाधित्वात् । अतो मयावगतमिति व्यपदेशोपपत्तिरित्याह –
प्रधानक्रियाहितेति ।
अवस्थाविशेषावच्छिन्नेति ।
अवस्थाविशेषमापन्नाहङ्कारावच्छिन्नेत्यर्थः ।
एकरूपामिति ।
एकामित्यर्थः ।
चैतन्यस्याहङ्कारतद्वृत्तिताद्विषयेषु अभिव्यक्तस्यैकत्वेऽपि वृत्तिकर्त्रहङ्कारावच्छिन्नोऽनुभवः प्रमाता, वृत्त्यवच्छिन्नचैतन्यं विषयानुभवः, वृत्तिविषयघटावच्छिन्नचैतन्यं फलमिति विभागमाह –
ततश्चात्मनेति ।
अवस्थाविशेष इति ।
प्रमाणक्रियाकर्तृरूप इत्यर्थः । उपाधिजनितो विशेषः । प्रमातेति वाक्यशेषः ।
विषयानुभवसंशब्दित इति ।
वृत्त्यवच्छिन्नो विषयानुभवसंशब्दित इत्यर्थः ।
बुद्धिवृत्तेरहङ्काराश्रयत्वं घटविषयत्वं चास्ति । एकतया व्यक्तचैतन्याख्यफलस्य बिम्बभूताखण्डचैतन्यरूपात्माश्रयत्वमवच्छेदकाहङ्कारविषयत्वं चास्ति । अतः क्रियाफलयोः एकाश्रयत्वैकविषयत्वनियमासिद्धिरित्याशङ्क्य फलाश्रयात्मचैतन्यस्य क्रियाश्रयाहङ्कारैक्याध्यासात् एकाश्रयत्वं फलाख्यचैतन्यस्य क्रियाविषयघटावच्छेदादेकविषयत्वं चास्तीत्याह -
इति क्रियैकविषयताफलस्येति ।
विषयेत्याश्रयस्याप्युपलक्षणम् ।
बुद्धिस्थमर्थं पुरुषश्चेतयत इति साङ्ख्यवचनविरोधात् आत्मा स्वचैतन्योपरक्तं चेतयतीत्युक्तमयुक्तमिति - तत्राह
एवंचाहङ्कर्तेति ।
प्रथमं बुद्धिव्याप्तमर्थं तत्राभिव्यक्तचिद्रूप आत्मा स्वचैतन्योपरक्तत्वात् पश्चाच्चेतयत इत्येतदभिप्रेत्य साङ्ख्यवचनमिति भावः ।
प्रदीपोत्पादकस्य पुंसः तेन प्रदीपेन सर्वो विषयः प्रकाशते, तद्वद्विषयस्य चैतन्येनैकस्य द्रष्टुः सर्वो विषयः प्रकाशेत इत्याशङ्क्य विषयान्तरे बुद्धिव्याप्त्यभावादेव तत्रानभिव्यक्तत्वात् अप्रकाशः बुद्धिव्याप्ततया अभिव्यञ्जकविषयविशेषस्यैव प्रकाश इत्याह -
तत्र च प्रमातुरिति ।
सर्वान् प्रतीति ।
सर्वविषयान् प्रतीत्यर्थः ।
येन सहेति ।
येन कर्मकारकेण सहेत्यर्थः ।
चैतन्यस्य विषये अभिव्यक्तत्वात् इतराहङ्कारावच्छिन्नचैतन्याभेदेनानभिव्यक्तत्वात् एकस्यैव प्रमातुः प्रकाशेतेत्याह –
कर्मकारकमपीति ।
येन सहेति ।
येन प्रमात्रा सहेत्यर्थः ।
अहमिति प्रतीयमानाहङ्कारावच्छिन्नचैतन्यैक्यात् विषयाभिन्नचैतन्यस्य अहमित्यवभासमानज्ञानस्य ज्ञेयेनाभेदं वदतो विज्ञानवादिनां मतमायातमिति चोदयति -
ननु नीलादिविषयोऽपि चेदिति ।
परिच्छिन्नक्षणिकसकर्मकबुद्धिज्ञानस्य तस्मात् भेदेनार्थक्रियासामर्थ्यसत्वशून्यक्षणिकविषयेण वास्तवतादात्म्यं माहायानिकैरङ्ग्यकारि । तद्विरुद्धत्वेन नित्यापरिच्छिन्नचैतन्यरूपसंवेदनस्य ततो भेदेनार्थक्रियासमर्थस्थायिप्रपञ्चेन ऐक्याभासोऽस्माभिरङ्गीक्रियते । अतः एवंविधचैतन्यस्यैवंविधप्रपञ्चेनैक्याभासोक्त्या न माहायानिकपक्षप्रसङ्ग इति मत्वा चैतन्यस्य व्यापिनित्यत्वं परस्परव्यावृत्तानित्यविषयेणाकाशघटयोरिव वास्तवैक्यतादात्म्याभावं चाह -
मैवम् , परस्परेत्यादिना ।
विच्छेदावभासेऽपीति ।
नीलापरोक्षं पीतापरोक्षमिति औपाधिकभेदावभासेपीत्यर्थः ।
न तत्स्वभावतेति ।
नीलादिस्वभावो न भवतीत्यर्थः ।
अहमिति प्रत्यग्रूपेणावभासमानं ज्ञानं पराग्रूपं नीलाद् व्यावृत्ततया परोक्षमिति बौद्धैरभ्युपगमात् गन्तृगन्तव्ययोरिव विषयसंविद्भेदः प्रत्यक्ष इत्याह -
किञ्च तैरपीति ।
नीलात्मकसंविदिति नीलमुच्यते ।
प्रत्यगवभास इति
अहमिति संवेदनमुच्यते ।
अन्य एवेत्युक्तेऽहङ्कारात् अन्यचैतन्यवत् किमहन्तया नीलस्यावभासं सहत् इति नेत्याह -
पराग्व्यावृत्त इति ।
प्रत्यगवभासस्वरूपमात्रपर्यवसितम् इत्युक्ते किं तदिति धर्म्याकाङ्क्षायामाह -
विकल्प इति ।
ज्ञानमित्यर्थः ।
प्रत्यग्व्यावृत्त इत्युक्तेऽहङ्कारस्यैव नीलसंविच्छब्दितनीलस्यापि किमहमिति प्रतीतिः स्यात् इत्याशङ्क्य गन्तव्यस्येवेदन्तयावभास इत्याह -
इदन्तया ग्राह्यरूपेति ।
अतो बौद्धैरपि ज्ञानज्ञेययोः भेदस्य प्रत्यक्षत्वाङ्गीकारात् तयोरैक्योक्तावपि न मे बौद्धमतप्रसङ्ग इत्यभिप्रायः ।
वस्तुद्वयमिति ।
ज्ञानज्ञेययोः स्वरूपभेदेन भिन्नत्वमुच्यते ।
अत्यन्तभेदमाह –
इतरेतरव्यावृत्तमिति ।
एकजातीयत्वाभावमाह –
ग्राह्यग्राहकरूपमिति ।
संविदा नीलसिद्ध्यर्थं संविन्नीलयोरभेदो वक्तव्य इति विज्ञानवादी चोदयति -
नैतद्वयोरपीति ।
स्वरूपमात्रनिष्ठयोरिति ।
अन्योन्यस्मिन् अननुप्रविष्टायः शलाकाकल्पयोरित्यर्थः ।
इदमहं जानामीति ज्ञातृज्ञानज्ञेयरूपेण भिन्नपदार्थानां संसर्गावभासात् भेदोऽस्तीत्याह सिद्धान्ती -
कथं पुनरिदं जानामीति ।
ग्राह्यग्राहकतावभास इति ।
ज्ञानादन्योन्यं च कथं व्यावृत्तरूपावभास इत्यर्थः ।
इदमित्याकारस्य अहमित्याकारस्य च न ज्ञानातिरिक्ततया ज्ञानसंसर्गवदवभासित्वम् । किन्तु तावप्यसंसृष्टौ क्रमभाविज्ञानरूपावित्याह विज्ञानवादी -
नायं तदवभास इति ।
त्वत्पक्षे क्रमवर्त्तित्वात् स्वसंवेद्यत्वाच्च अन्योन्याविषयत्वात् इदमित्यादित्रयेषु कथं युगपत् सम्बन्धावभाससम्भव इत्याह सिद्धान्ती -
कथं पुनस्तेष्विति ।
इदमहं जानामीति ज्ञानज्ञातृज्ञेयरूपेण भिन्नपदार्थसम्बन्धावभासि न भवति, इदमिति, अहमिति, जानामीति च ज्ञानत्रयजन्यं विशिष्टमेकं ज्ञानमित्याह विज्ञानवादी -
तद्वासनेति ।
अहमित्यहङ्कल्पनायुक्तं यत् ज्ञानं भवति इदमिति विषयविकल्पनायुक्तं च यत् ज्ञानं भवति, ते एव विज्ञाने वासनेत्यर्थः ।
समनन्तरप्रत्ययेति ।
अहमिदमिति ज्ञानद्वयस्य वासनासहितं जानामीति क्रियाकल्पनायुक्तं यज्ज्ञानं तदुच्यत इत्यर्थः ।
सङ्कलनात्मकमिति ।
ज्ञानत्रयाकारैर्लब्धाकाराश्रयात्मकमित्यर्थः ।
न सम्बन्धावगम इति ।
ज्ञानस्य ज्ञानातिरिक्तेदमहमित्याकारयोः यश्च सम्बन्धावगमोऽयं न भवतीत्यर्थः ।
आह सिद्धान्ती -
किं पुनरेवमिति ।
अहमित्यादिज्ञानत्रये जाते तदनन्तरमहमिदं जानामीति विशिष्टज्ञानं जायत इति नानुभूयते, किन्तु प्रथमत एवाहमिदं जानामीति ज्ञानतद्व्यतिरिक्तग्राह्यग्राहकाणां संसर्गावभासदर्शनात् ज्ञानादतिरिक्तं नीलवस्तु अभ्युपेयमिति भावः ।
प्रथमं बुभुत्सां कृत्वा पश्चात् कारकसंवेदनं कृत्वा क्रियां सम्पाद्य क्रियाद्वारेण सम्बन्धार्थावभासित्वं क्षणिकज्ञानस्यानुपपन्नम् , तस्मात् क्षणिकज्ञानस्य नीलाभेदेनावभासित्वं वक्तव्यम् , अन्यथाविज्ञाने नीलस्य प्रतिभासानुपपत्तेरिति विज्ञानवादी आह -
क्षणविध्वंसिन इति ।
प्रत्यक्षेण क्षणिकत्वसिद्धिश्चेन्न तावत् प्रत्यक्षेणाहमिति संविदः क्षणिकत्वसिद्धिरित्याह –
यद्येवमिति ।
क्षणभेदोपाधिकभेदविषयो भेदप्रतिभासः, सैवेयं संविदिति प्रत्यभिज्ञानिरूपाधिकैक्यविषयेति निरूप्य भेदो न विद्यत इत्यभिधीयतामित्याह -
स किं विद्यत इति ।
न भेदोऽवभासत इति ।
भासमानोऽपि भेदो न स्पष्टोऽवभासत इत्यर्थः ।
संविदोऽपि चेत् स्वरूपं नावभासत इति ।
संविदः स्वातिरिक्त भेदासम्भवात् स्वरूपभूतोऽपि भेदो नावभासते चेत् संविदोऽप्यनवभासात् आन्ध्यं स्यादित्यर्थः ।
तद्रूपप्रतिभास इति ।
ऐक्यार्थकप्रत्यभिज्ञायां सत्यामित्यर्थः ।
निष्प्रमाणिका चेति ।
भिन्नयोरैक्यभ्रमः, सादृश्यकल्पकः । तदधीना च सादृश्यकल्पनेत्यर्थः ।
तद्रूपप्रतीतेः व्यामोहत्वादिति ।
ऐक्यसाधकप्रत्यभिज्ञायाः भ्रान्तित्वादित्यर्थः ।
ऐक्यभ्रमस्य सादृश्याख्यकारणाभावेऽसम्भवात् , स्वहेतुसादृश्यकल्पकत्वात् नाप्रमाणकत्वं सादृश्यकल्पनाया इत्याह –
निर्बीजभ्रान्त्ययोगादिति ।
सिद्धे व्यामोह इति ।
ऐक्यज्ञानस्य भ्रमत्वे सिद्धे सतीत्यर्थः ।
प्रमाणसद्भावाच्चेति ।
ऐक्यभ्रमस्य कल्पकसद्भावाच्चेत्यर्थः ।
व्यामोहसिद्धिरिति ।
ऐक्यज्ञानस्य भ्रमत्वसिद्धिरित्यर्थः । अत्रैक्यज्ञानस्य प्रामाण्यसिद्धावपि तुल्यमितरेतराश्रयवत्वमित्यर्थः ।
स्वारसिकं हि प्रामाण्यं प्रतीतेरिति ।
ऐक्यप्रतीतेः स्वत एव प्रामाण्यमनपेक्षम् , न सादृश्याभावापेक्षमित्यर्थः ।
ऐक्यज्ञानस्य भ्रमत्वसिद्ध्यधीनासौ सादृश्यसिद्धिः, न तु स्वत इत्याह -
न तु सादृश्यकल्पना स्वतः सिद्धा इति ।
गोसदृशो गवय इत्यत्र सादृश्यस्य गोगवययोः ऐक्यभ्रमकल्पकत्वाभावेऽपि एकदेशस्थत्वेनाभेदबुद्धिगृहीतयोः सादृश्यमैक्यभ्रमकल्पकं ज्वालामालायामिवेति भावः ।
तर्हि अनुमानात् क्षणिकत्वं साधयाम इत्यभिप्रेत्य घटादौ तावत् साधयति -
अथ अन्ते क्षयदर्शनादिति ।
विनाशक्षणात् पूर्वक्षणवर्ति घटसत्वमन्त इत्युच्यते । तस्य स्वानन्तरोत्तरक्षणे सत्वादेव विनाशदर्शनादित्यर्थः ।
आदौ क्षयानुमानमिति ।
अन्त्यक्षणानवच्छिन्नघटसत्वान्यादिरित्युच्यते । तान्यपि स्वसत्त्वाक्षणादुत्तरक्षणे विनाशव्याप्तानि सत्वादन्त्यक्षणावच्छिन्नसत्ववद्वदित्यनुमानमित्यर्थः ।
भिन्नत्वात् सादृश्यकल्पनेति ।
भिन्नेषु एक्यज्ञानात् सादृश्यकल्पनेत्यर्थः ।
घटसत्तावच्छेदकक्षणाः आदिरित्युच्यन्ते । अन्त इति विनाशाख्यासत्त्वावच्छेदकक्षणा उच्यन्ते । तेऽपि घटसत्तया व्याप्ताः कालत्वात् सत्त्वावच्छेदककालवत् इति प्रत्यनुमानमाह -
आदौ सत्तादर्शनादिति ।
क्षयानुभव इति ।
अभावानुभव इत्यर्थः ।
तद्रूपसत्वादनुभवविरोध इति ।
अन्त्यक्षणात् पूर्वक्षणावच्छिन्नघटसत्त्वानामनन्तरक्षयानुमानमपि प्रत्यभिज्ञाविरुद्धमित्यर्थः । न हि उभयोः कश्चिद्विशेष इत्यस्यायमर्थः - कालद्वयलक्षणोपलक्षणप्रतिपत्तिपूर्वकं तृतीयक्षणे प्रत्यभिज्ञया सदैक्याख्यप्रमेयप्रतिपत्तिः धर्मिप्रतियोगिग्रहणानन्तरं तृतीयक्षणे अभावप्रमितिः । अतः तृतीयक्षणे प्रमेयप्रतिपत्तिः उभयोस्तुल्येति ।
सर्वे क्षणिकाः अर्थक्रियाकारित्वात् , यदक्षणिकं न तदर्थक्रियाकारि यथा शशविषाणं इत्यनुमानान्तरं दर्शयितुं स्थायिनोऽर्थक्रियानुपपत्तिमाह -
अथ मन्येतेत्यादिना ।
कर्तृत्वाकर्तृत्वे विरुद्धे, तत्र कर्तृत्वे सति कस्मादस्थायित्वमित्याशङ्क्याह –
स्थायिनोऽर्थक्रियाऽयोगादिति ।
कथमयोग इति ।
स्थायिन एव निमित्तसम्बन्धात् अन्यथाभूतस्य क्रियापूर्वकं कार्यनिष्पादनसामर्थ्यसम्भवादिति भावः ।
क्रमेण वेति ।
अनेकानि कार्याणि सातत्येन कुर्यादित्यर्थः ।
यौगपद्येन वेति ।
एकं वा अनेकं वा स्वनिष्पाद्यं कार्यं सकृदेव कृत्वा उपरमेतेत्यर्थः ।
तस्य विशेषाभाव इति ।
कुर्वदकुर्वदवस्थयोः कारणस्य सामर्थ्यमस्ति चेदकुर्वदवस्थायामपि कुर्यात् सामर्थ्यं नास्ति चेत् कुर्वदवस्थायामपि न कुर्यात् । तदा सामर्थ्यं जायत इति चेत् तर्हि सामर्थ्योत्पादनसामर्थ्यं पूर्वमस्ति चेत् पूर्वमेव सामर्थ्यं जनयेत् । नास्ति चेत् पश्चादपि न सामर्थ्यं जनयेदित्यर्थः ।
तद्बुद्धिरिति ।
तत्त्वेन बुद्धिः प्रत्यभिज्ञाबुद्धिरित्यर्थः ।
सकृदेव कार्यं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्वं न विरुध्यते । सत्वस्यार्थक्रियाकारित्वलक्षणत्वाभावादित्याह सिद्धान्ती -
अथ केयमित्यादिना ।
जननमिति ।
कर्मतया जनकत्वमित्यर्थः ।
बाह्यार्थानां स्वविषयज्ञानजनकत्वसम्भवेऽपि विज्ञानानां न सम्भवतीत्याह -
प्राप्तं तर्हीति ।
न सन्तानान्तरेऽपीति ।
जीवान्तरसन्तानेऽपि स्वविषयप्रत्यक्षज्ञानं न जनयतीत्यर्थः ।
स्वविषयानुमानमपि न जनयति, अनुमानस्य अर्थजन्यत्वाभावादित्याह –
अनुमानेऽपीति ।
संस्कारकल्पितरूपेण स्वविषयं ज्ञानं सर्वज्ञसन्ततावपि न जनयति । सर्वज्ञज्ञानस्य विषयाभेदेन, संसारित्वप्रसङ्गादित्याह –
सार्वज्ञेऽपीति ।
साक्षादिति ।
कल्पितरूपेणेत्यर्थः ।
अतद्रूपत्व इति ।
संसारसंविदां संसारविधुरशुद्धवेषेण सर्वज्ञज्ञानजनकत्वात् जनकशुद्धाकारेणाभेदात् सर्वज्ञज्ञानस्य असंसाररूपत्व इत्यर्थः ।
तद्विषयत्वायोगादिति ।
शुद्धत्वेन समत्वादिति भावः ।
क्षणान्तरोत्पाद इति ।
स्वसन्ताने क्षणान्तरोत्पाद इत्यर्थः ।
चरमक्षणस्येति ।
सर्वङ्क्षणिकं स्वलक्षणं स्वयमेव स्वस्य लक्षणम् , स्वातिरिक्तेन सङ्गि न भवतीत्यर्थः ।
दुःखं शून्यमिति ।
चतुर्विधभावनाप्रकर्षयुतत्वात् पूर्वज्ञानादुत्पद्यमानं विशुद्धविज्ञानं सन्तानस्यावसानरूपं चरमक्षण इत्युच्यते । तस्य स्वसन्ताने क्षणान्तरानुत्पादकत्वात् असत्वमित्यर्थः ।
चरमक्षणमपि सार्वज्ञज्ञानं विषयतया जनयतीत्यर्थक्रियावत्वमिति, नेत्याह -
न च सार्वज्ञेति ।
चरमत्वानुपपत्तेरिति ।
एकसन्तानोऽपि कार्ये कारणस्यान्वयानङ्गीकारात् तुल्यस्वभावयोः कार्यकारणभाव एव एकसन्तानतेति वक्तव्यम् । तथा सति चरमक्षणस्यापि सार्वज्ञेन ज्ञानेन एकसन्तानतया चरमत्वानुपपत्तेः । चरमक्षणोदयाख्यमुक्त्यभावप्रसङ्गादित्यर्थः ।
सर्वज्ञज्ञानं प्रति विषयतया जनकत्वेन तत्सन्तानैक्यमेव मुक्तिरिति तत्राह -
न च संवित् संविदो विषय इति ।
संविदात्मना भेदाभावादिति ।
चरमसंविदः सर्वज्ञसंविदा समानत्वात् संविदात्मना ऐक्यात् , संविदात्मना भेदाभावादित्यर्थः ।
अथ क्रियाकारणसत्वहेतुः कारणसत्वप्रतीतिहेतुर्वा इति विकल्प्य दूषयति -
किञ्चेति ।
स्वकारणनिष्पन्नत्वात् नार्थक्रियातो निष्पन्नत्वम् , प्रागेव निष्पन्नघटस्य स्वनिष्पाद्यार्थक्रियाख्यकार्येण न निष्पाद्यत्वमिति ।
स्वज्ञानार्थक्रियाया इति ।
स्वकार्यरूपज्ञानाख्यार्थक्रियायाः स्वयंसिद्धत्वात् नान्यतः सत्वप्रतीतिरर्थक्रियाया इत्यर्थः ।
ज्ञानाख्यार्थक्रियायाः स्वेन वेद्यत्वात् स्वस्य स्वयमेव बोधकरूपेणार्थक्रियेति नेत्याह -
न हि स्वरूपमेवेति ।
अतोऽर्थक्रियातः सत्वाभावात् युगपत् सर्वं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्वमविरुद्धमिति भावः ।
विशेषाभावादित्ययुक्तमिति ।
शक्तकारणात् कार्योत्पत्तिसमये सहकारिसम्पत्तिरूपविशेषभावात् विशेषाभावोऽसिद्ध इत्यर्थः ।
अथ कारणस्येति ।
शक्तस्येत्यर्थः ।
अकारणस्यापीति ।
अशक्तस्यापीत्यर्थः ।
अकारणं कारणोत्पत्तय इति ।
असमर्थं समर्थोत्पत्तय इत्यर्थः । असमर्थमपि कार्योदयार्थं पूर्ववर्तिसामग्रीरूपस्योत्पत्तय इति वा अर्थः ।
अथ तत् कारणस्येति ।
तदिति सहकार्यपेक्षत्वेनाभिमतवस्तूच्यत इति द्रष्टव्यम् ।
कारणस्य कारणम् अथाकारणमिति ।
सामर्थ्यं प्रति वा सामग्रीरूपं प्रति वा कारणम् अथाकारणमित्यर्थः ।
हेतोः सति कार्य इति ।
कार्यदर्शनत्वादित्यर्थः ।
सत्येव हेताविति ।
अन्वयव्यतिरेकाभ्यामित्यर्थः ।
समेतसहकारिण्येव दर्शनादिति ।
सहकारिसहितहेतौ सत्येव कार्यस्य दर्शनादित्यर्थः ।
तद्विज्ञेयमिति ।
कार्यं विज्ञेयमित्यर्थः ।
क्व तर्हि सहकार्युपयोग इत्यपेक्षायां तत्र मतान्तरमुपन्यस्य पूर्ववादिनं दूषयति -
यस्तु मन्यते सहकारिजनितविशेष इति ।
जलादिसहकारिजनितोच्छूनतादि विशेषयुक्तो हेतुरित्यर्थः ।
प्रधानहेतोरकिञ्चित्करत्वं स्यादित्याह -
तत्र केवला एवेति ।
ततश्चेति ।
विशेषादित्यर्थः ।
जनितविशेष इति ।
प्रथमविशेषातिरिक्तविशेषहीनः प्रथमविशेषमेव कथं कुर्यादित्यर्थः ।
विशेषस्य वा जनन इति ।
प्रथमविशेषातिरिक्तविशेषस्य जनन इत्यर्थः ।
न सर्वं कार्यं सहकारिजनितविशेषयुक्तहेतुजन्यम् , किञ्चित् तथाविधहेतुजन्यम् , किञ्चित्तु सहकारिजनितविशेषहीनहेतुजन्यमिति अव्यवस्थामनवस्थापरिहाराय आह -
अथ मतमिति ।
तावत्येवेति ।
उच्छूनतादिविशेषे सत्येवेत्यर्थः ।
सन्निहितसहकारीति ।
न तु सहकारिजनितविशेषयुक्तहेतुजन्यमिति भावः ।
यथा अक्षेपकारीति ।
विषयसंयोगे कृते पश्चात् स्वसंयुक्तकर्मकारकेण सहकारिणा जनितविशेषवत्वेन नोत्तरक्षणे ज्ञानजनकत्वमिन्द्रियस्येत्यर्थः ।
न हि तत्र हेतोरिति ।
प्रथमविशेषं प्रति हेतोः सहकारिजनितविशेषान्तराभावेऽपि सहकार्यपेक्षा विद्यत इत्यर्थः ।
क्षणिकवादी मतान्तरं दूषयति -
नानुपकुर्वन्निति ।
अतिप्रसङ्गादिति ।
सर्वस्य सहकारित्वप्रसङ्गादित्यर्थः ।
क्व तर्हि सहकार्युपकार इत्यपेक्षायामाह -
स्वरूपे त्विति ।
हेतावित्यर्थः ।
कार्य इति ।
कार्यं हि सहकारिणा जायमानमुपक्रियत इत्यर्थः ।
आह सिद्धान्ती
नित्योऽपीति ।
तदेव प्रपञ्चयति ।
यथैव क्षणिको भाव इति ।
सामग्रीसाध्यत्वादिति ।
बहुकारकव्यापारसाध्यत्वादित्यर्थः ।
कार्यमेव सहकारिणमपेक्षते न कारणमिति शङ्कते -
अथ मतं क्षणिक इति ।
जन्यजनकस्य स्वयमित्यस्यायमर्थः कार्यजनकस्य सहकारिणः कार्यादन्यकारणेनापेक्ष्यमाणत्वानुपपत्तेरिति यदन्यसन्निधौ भवति तदित्यत्र तत्कार्यमपेक्षते, तत्सहकार्यपेक्षत इति वाक्यशेषः ।
अन्यसन्निधावेवेति ।
सहकारिसन्निधावेवेत्यर्थः ।
नित्यं कारणमिति पक्षेऽपि कार्यमेव सहकारिणमपेक्ष्य क्रमेण भविष्यतीति, नेत्याह -
नित्यस्य तु जनकस्येति ।
सहकारिणां कारणस्य च सर्वदा भावात् तेषां सम्बन्धस्य च तेभ्य एव सदा भावादिति भावः ।
क्षणिककारणस्यापि भावावच्छेदकक्षणात् इतरकाले सहकार्यपेक्षया कार्यजनकत्वे विशेषाभावात् सर्वदा कार्यजनिः स्यादिति नेत्याह -
क्षणिकस्तु यो जनक इति ।
यः क्षणिको जनकः स तु भावः तस्य सदातनत्वाभावान्न सदा कार्यजन्मेत्यर्थः ।
इदमयुक्तं वर्तत इति ।
सहकारिलाभे धूमजनकत्वम् अलाभे चाजनकत्वमित्यङ्गारावस्थाग्निक्षणे दृष्टं यत् तन्नित्ये नास्तीति नित्यवत्कार्यजन्मैवेति इदमयुक्तमित्यर्थः ।
सहकारिसन्निधावेव कार्यजन्मेति एतावन्न तु कार्यस्य तस्मिन्नपेक्षेत्याह –
किमत्रायुक्तमिति ।
सति नियम इति ।
सहकारिणा कार्यस्यान्वयव्यतिरेकनियमे सति सहकारिनिरपेक्षत्वमित्यर्थः ।
कार्यस्योपादानकारणेनान्वयव्यतिरेकनियमे सति उपादानकारणविषयापेक्षा दृष्टेति व्याप्तिमाह -
तथा हि यः कश्चिदिति ।
कस्यचिदिति ।
उपादानकारणस्येत्यर्थः ।
क्वचिदिति ।
कार्यम् इत्यर्थः ।
नियम इति ।
अन्वयव्यतिरेकनियम इत्यर्थः ।
अपेक्षेति ।
उपकारकसम्बन्ध इत्यर्थः ।
नाग्निमात्रस्य धूमकारणत्वं येनाङ्गारावस्थाने कारणत्वेऽपि सहकार्यलाभेऽनुत्पादकत्वमुच्येत इति तत्राह -
एवं हीति ।
सामान्योपहिताग्निव्यक्त्याकारे सामर्थ्यं न तु कार्यजनकत्वेन दृष्टाग्निव्यक्तेरेवेत्यभ्युपगम इत्यर्थः ।
सामान्योपाधौ सामर्थ्याङ्गीकारे हि कार्याय कारणोपादानसम्भव इत्याह –
कार्यार्थिभिश्चेति ।
तत्रेति ।
सामान्योपाधौ सामर्थ्ये सिद्धे सतीत्यर्थः ।
न सहकारिणमपेक्षत इति ।
स्वयमेव समर्थत्वादिति भावः ।
नापि तत्कार्यमिति ।
उपादानकारणेन शक्तेन प्रसह्य जननादिति भावः ।
तदेव साधयति -
तथाहि हेतुपरम्पराप्रतिबन्धादिति ।
पूर्वपूर्वक्षणादुत्तरोत्तरक्षणस्योत्पत्त्यङ्गीकारात् त्वयेत्यर्थः ।
स्वरूप इति ।
स्वरूपेऽतिशयजनकत्वेत्यर्थः ।
एकस्यापीति ।
प्रधानकारणस्यापीत्यर्थः ।
फलपतनकालीनकाकसम्बन्धस्येव कार्यनिष्पत्तिसमये सहकारिसन्निधावपि न सहकारिण्यपेक्षा इति बौद्धः चोदयति -
काकतालीयमुच्यत इति ।
तत्र काकसम्बन्धाभावे पतनाभावाख्यव्यतिरेकाभावात् , इह तु सहकारिकाष्ठाभावे धूमाख्यकार्याभावरूपव्यतिरेकादपेक्षया भवितव्यम् । अतः असम्बद्धमेतच्चोद्यमिति परिहारत्वेन च काकतालीयमुच्यत इति ग्रन्थो योज्यः ।
अन्वयव्यतिरेकनियमेऽपि सहकारिणोऽनपेक्षा चेत्कारणेऽप्यनपेक्षा स्यादित्याह -
तथा चेति ।
सामग्रीसाध्यत्वं कुतोऽवगम्यमित्याशङ्क्य तदन्वयव्यतिरेकनियमादित्याह -
तत्र नियमादिति ।
न विशेषं पश्याम इति ।
अतो नार्थक्रियाकारित्वात् क्षणिकत्वमिति भावः ।
स्थायिसर्वगतसाक्षिचैतन्याख्याहंसंवेदनस्य नीलाभेदेऽपि तस्याभासत्वात् स्थाय्यर्थक्रियाकारिनीलस्य चैतन्याद्भेदेनाङ्गीकारात् न माहायानिकपक्षप्रसङ्ग इत्युपसंहरति -
तदेवमहङ्कर्तुरिति ।
आत्मन इत्यर्थः ।
ग्राहकस्येत्युक्ते प्राप्तं व्यावर्तयति -
अहं कर्तुरिति ।
स्थूलसूक्ष्मशरीरद्वयं क्षणिकज्ञानं च व्यावर्तयति -
स्थायिनआत्मन इति ।
चैतन्यस्येत्यर्थः ।
एकरूपोऽनुभवादिति ।
अनुभवात्मैकरूपानुभवादित्यर्थः ।
विषयस्य चैतन्यव्यञ्जकत्वेनापरोक्षत्वं भवतीत्युक्तम् । तन्न सर्वत्र दृश्यत इति चोदयति -
ननु नानुमेयादिष्विति ।
व्यञ्जकत्वेनापरोक्षत्वमित्यर्थः ।
अर्थस्य कारकत्वाभावे कथमनुमानादिज्ञानस्यार्थाकारत्वमिति तत्राह –
लिङ्गादीनामेवेति ।
कुतश्चित्सम्बन्धविशेषादित्यविनाभावनिर्वाह्यनिर्वाहकत्वादिसम्बन्धविशेषादित्यर्थः ।
ज्ञानस्याकारप्रदत्वेन प्रमेयत्वे जनकत्वं व्यञ्जकत्वं च स्यादिति नेत्याह -
प्रमेयस्य चेति ।
अर्थं प्रतिपाद्य इदानीमस्मत्प्रत्ययविषयत्वादिति भाष्यं योजयति -
तदेवमिति ।
व्यञ्जकदर्पणस्य बिम्बादन्यदेशस्थत्ववच्चैतन्यव्यञ्जकान्तःकरणस्य चैतन्यादन्यदेशत्वं भवेदित्याशङ्क्य ध्वनिवद्व्यङ्ग्यसंश्लिष्टतया उपाधित्वात् न भिन्नदेशत्वमित्याह -
अनिदं चित्संवलितत्वेनेति ।
शारीरः क्षेत्रज्ञ इत्याद्यनेकोपाधियुक्तमात्मानं वर्णयति श्रुतिः । तत्र कथमहङ्कारस्यैवोपाधित्वमित्याशङ्क्याहङ्कारात्मतया तत्संस्कारात्मतया वा अवस्थिता अविद्यैवात्मोपाधिः, तदुपहितस्यैव जाग्रदादिषु बाह्यबहुविधोपाधियोगनिमित्तोऽयं व्यपदेशभेद इत्याह -
स पुनरेवंभूत इति ।
गतागतमाचरन्निति ।
अविद्योपाधिनाप्रतिबद्धप्रकश एव बाह्यबहुविधोपाध्युपरक्तः सन्नित्यर्थः ।
अद्वितीयरूपस्याच्छन्नत्वात् जीव इत्याह -
जीव इति ।
तेजोरूपान्तःकरणेन ऐक्याध्यासवन्त्वात् विज्ञानघन इत्याह -
विज्ञानघन इति ।
विज्ञानस्य आत्मा विज्ञानात्मेत्याह –
विज्ञानात्मेति ।
सुषुप्तेऽज्ञानैक्येन अध्यस्तं स्वरूपमाह -
प्राज्ञ इति ।
शरीरेण तादात्म्याध्यासवद्रूपमाह -
शारीर आत्मेति ।
सुषुप्त्यवस्थया ऐक्येनाध्यस्तं रूपमाह -
सम्प्रसाद इति ।
पूर्यां शेत इति पुरुष इत्याह -
पुरुष इति ।
सर्वान्तर इत्याह –
प्रत्यगात्मेति ।
प्राणात्मरूपमाह -
कर्ता भोक्तेति ।
पञ्चकोशेषु प्रतिबिम्बितचैतन्यप्रतिबिम्बतया कोशज्ञ इत्याह -
क्षेत्रज्ञ इति ।
किञ्च न केवलमिति ।
परिच्छिन्नतया स्फुरितत्वम् अधिष्ठानत्वायापेक्षितमित्यङ्गीकृत्य परिच्छिन्नतया स्फुरितत्वं सम्पादितम् । इदानीं परिच्छिन्नतया स्फुरितत्वमनपेक्षितमपरोक्षत्वमेवाधिष्ठानत्वायालमित्याह भाष्यकार इत्यर्थः ।
तत्साधनार्थमाहेति ।
अपरोक्षत्वसाधनार्थमाहेत्यर्थः ।
नित्यानुमेय आत्मा कथमपरोक्षतया सिद्ध इति नेत्याह -
न ह्यात्मन्यप्रसिद्ध इति ।
विषयानुभवकाले प्रमितिविशिष्टविषयसम्बन्धितया विषयप्रमित्योरिव स्वात्मनः प्रसिद्ध्यभावे आत्मान्तरसिद्धेनेव मयेदमिति सम्बन्धावभासो न स्यादित्यर्थः ।
विषयानुभवाश्रयतयानात्मनो परोक्षत्वसिद्धिरित्याह -
न च संवेद्यज्ञानेनैवेति ।
ज्ञानान्तरेणेति ।
आत्मविषयज्ञानान्तरेणेत्यर्थः ।
भिन्नकालत्व इति ।
विषयानुभवकालात् भिन्नकालत्व इत्यर्थः ।
ज्ञानद्वयोत्पाद इति ।
निरवयवस्यैकविषये भिन्नविषये वा युगपद् ज्ञानद्वयोत्पाद इति भावः ।
एकस्य युगपत् कार्त्स्न्येन परिणामद्वयं स्यादित्याशङ्क्य तदपि न युक्तमित्याह -
आह मा भूदिति ।
अविरुद्धमिति ।
गमनद्वयस्यैककरणसाध्यत्वाविरोधोऽस्ति, गतिगायत्योस्तु भिन्नेन्द्रियसाध्यत्वात् अविरोध इति भावः ।
परिणामेऽप्यविरुद्धत्वं यौगपद्ये प्रयोजकम् , विरुद्धत्वमयौगपद्ये प्रयोजकमित्याह -
परिणामात्मकमपि न भवतीति ।
यौवनस्थाविरहेतुरित्यत्र ...... इत्यध्याहारः ।
परिशेषात् स्वयम्प्रकाशत्वमेवेत्याह -
स्वयं प्रसिद्ध इति ।
अतो बाध्यत्वमारोपितत्वं च नास्तीत्याह -
स्वयमहेयोऽनुपादेय इति ।
अतः सर्वबाधावधित्वं सर्वारोपस्थानत्वं च स्यादित्याह -
सर्वस्य हानोपादानावधिरिति ।
स्वमहिम्नैवेति ।
न त्वहङ्कारेण परिच्छिन्नतया स्फुरितत्वादात्मनोऽधिष्ठानत्वमिति भावः ।
सम्प्रयोगितयेति ।
आरोप्येण समानेन्द्रियग्राह्यतयेत्यर्थः ।
अनुमेयत्वमस्तीत्यभिप्रेत्याह -
परोक्ष इत्यर्थ इति ।
अथवेति ।
साक्षिवेद्यतया मनोमात्रगम्यतया वा अपरोक्ष इत्यर्थः ।
इन्द्रनीलम्
इन्द्रनीलमिव नीलमित्यर्थः ।
भाष्यगतादिशब्दार्थमाह –
अन्यच्चेति ।
तथा दर्शयिष्याम इति ।
रूपे प्रवृत्तनयनबुद्धिवृत्त्या रूपेऽभिव्यक्तचैतन्याच्च साक्षिणा आकाशापरोक्ष्यं स्यादिति वक्ष्याम इत्यर्थः ।
प्रतिजानतेति ।
अनर्थहेतुनिवर्तकब्रह्मज्ञानाय विचारः कर्तव्य इति प्रतिजानतेत्यर्थः ।
अविद्येति मन्यन्त इति ।
अविद्यान्वयव्यतिरेकाभ्यामविद्याकार्यतया अविद्येति मन्यन्त इत्यर्थः ।
न केवलमविद्याकार्यत्वात् अविद्यात्वं विद्यानिवर्त्यत्वाच्च अविद्यात्वमध्यासस्येत्याह -
तद्विवेकेन चेति ।
एतद्भाष्यं योजयति -
अध्यस्तातद्रूपेति ।
ध्यस्तत्वादेवातद्रूप इत्यर्थः ।
आहुरित्यस्यार्थमाह -
प्रसिद्धमेव लोक इति ।
केषां प्रसिद्धमित्यत आह -
ब्रह्मविदो वदन्तीति ।
विद्यानिवर्त्यत्वादध्यस्ताहङ्कारादेरविद्यात्वमाहुरिति भावः ।
अहङ्कारादीनामविद्यान्वयव्यतिरेकात् विद्यानिवर्त्यत्वाच्च अविद्यात्वं चेत् सूत्रकारेणाविद्यानिवर्तक ब्रह्मज्ञानाय विचारः कर्तव्य इत्येवमेव वक्तव्यम् । न त्वनर्थं हेत्वहङ्काराविद्याध्यासनिवर्तकज्ञानायेत्याशङ्कते -
यद्येवमिति ।
सुषुप्ते केवलाविद्यया अनर्थकरत्वाभावात् । पुरुषाकाङ्क्षायाः तन्निवृत्तिविषयत्वाभावाद्देहाद्यध्यासस्यानर्थकरत्वादेव तन्निवृत्तिविषयत्वादनर्थहेत्वध्यासनिवर्तकज्ञानायेत्युक्त्वा तस्य ज्ञाननिवर्त्यत्वसिद्धयेऽविद्यात्वं पश्चादुपपादनीयमित्याह –
नैतत्सारमित्यादिना ।
अविद्येत्येवोच्यमाने अविद्यानिवर्तकज्ञानायेति सूत्रकारेणोक्त इत्यर्थः ।
प्रकृतोपयोगितयेति ।
प्रवर्तकसूत्रत्वात् प्रवर्तकत्वोपयोगितयानर्थहेत्वध्यासनिवर्तकज्ञानायेत्युपक्षिप्येत्यर्थः ।
तदेतदाहेति ।
अध्यासस्याविद्यात्वे तस्य तज्जन्यानर्थस्य चासत्यतया अधिष्ठानस्पर्शाभावात् ज्ञानेन निवृत्तिः फलतया आगच्छति तत्फलमाहेत्यर्थः । अत्राधिष्ठानेन सम्बन्धाभाव एवोच्यते ।
असत्यत्वेन ज्ञाननिवर्त्यत्वाख्याविद्यात्वफलं नोच्यत इत्याशङ्क्य सम्बन्धाभावोक्त्या तदप्युक्तमित्याह -
अवास्तवमनर्थं दर्शयतीति ।
प्रतिज्ञा हीयेतेति ।
ज्ञाननिवर्त्यत्वं यत् सूत्रितं तत् हीयेतेत्यर्थः ।
वृत्तसङ्कीर्तनपूर्वकमुत्तरभाष्यस्य अध्याससद्भावसाधकप्रमाणकथने तात्पर्यमाह -
एवं तावदित्यादिना ।
सिद्धवदुपन्यस्तमिति ।
शास्त्रं सम्भावितविषयप्रयोजनम् , अध्यासात्मक बन्धप्रत्यनीकत्वात् जाग्रद्बोधवदिति । विषयादिसाधनाय सिद्धवद्धेतुत्वेनोपन्यस्तमध्यासमित्यर्थः ।
इतरेतरविषयमिति ।
इतरेतराधिष्ठानवन्तमित्यर्थः ।
तत्र सद्भावनिश्चयमिति ।
आत्मनि देहाद्यध्याससद्भावसाधकप्रमाणमित्यर्थः ।
अस्मिन् भाष्ये प्रमातृत्वादिव्यवहारहेतुत्वेनात्मनो देहेन्द्रियादिषु अहंममाभिमानाख्याध्यासोऽस्तीति प्रत्यक्षमिति प्रत्यक्षोपन्यासः कृतः । विधिप्रतिषेधपरत्वात् । सकलशास्त्रस्य मोक्षपरशास्त्रत्वं नास्तीति तत्राह -
मोक्षपरत्वं चेति ।
`सत्यं ज्ञानमनन्तं ब्रह्मे'त्यादिप्रतिपादकवाक्ये विधायकप्रतिषेधकपदयोरभावात् अनुष्ठेयत्याज्यार्थाभावात् स्वरूपमात्रनिष्ठत्वमस्ति, अतः तादृशवाक्यान्यभिप्रेत्य मोक्षपराणीति मोक्षपरत्वं पृथक्क्रियत इत्यर्थः ।
कथं पुनरित्यादिभाष्यस्य अध्यासोपादानं प्रमातृत्वादिव्यवहारजातमित्यत्र प्रमाणान्तरप्रश्नविषयत्वं दर्शयति -
बाढमित्यादिना ।
अविद्येति ।
अध्यास इत्यर्थः ।
निदर्शनीय इति ।
प्रमाणान्तरेण निदर्शनीय इत्यर्थः ।
कथं पुनरित्यादेराक्षेपरूपार्थं दर्शयति -
प्रमातारमाश्रयन्ति प्रमाणानीति ।
प्रमातृत्वशक्तिमन्तमाश्रयितुं योग्यानीत्यर्थः ।
अविद्याध्यासपरिनिष्पन्नाहङ्कारात्मसम्पिण्डितोपादानत्वे प्रमाणानां न प्रामाण्यमेव सिद्ध्यतीत्यस्मिन्नर्थे भाष्यं योजयति -
अथवा कथमिति ।
अविद्यावदुपादानत्वे का प्रामाण्यानुपपत्तिरिति तदाह -
अविद्यावद्विषयत्व इति ।
अत्र प्रत्यक्षादिशब्देन शास्त्रशब्देन च ज्ञानान्युच्यन्ते ।
उच्यते, देहेन्द्रियादिषु इत्यादिभाष्यमर्थापत्ति व्यतिरेकानुमानप्रदर्शनाय तयोः सामग्रीभूतव्यतिरेकव्याप्तिं दर्शयतीत्याह -
न हि देहेति ।
देहेन्द्रियादिषु एकैकस्मिन् अहंममाभिमानहीनस्य पुंसः प्रमातृत्वाभावे सदा प्रमातृत्वहीनत्वादेव न कदाचिदपि प्रमातृत्वमिति नेत्याह -
यतो देह इति ।
देहेऽहमभिमानः इन्द्रियेषु ममाभिमान इति । यतोऽतोऽभिमानभावे व्यवहारः सम्भवतीत्यर्थः ।
इन्द्रियपदेन प्रत्यक्षकरणेषु ममाभिमान उक्ते किमादिशब्देन अनुमानादिकरणेष्वपि ममाभिमान उच्यत इत्याशङ्क्य प्रत्यक्षकरणगोलकेष्वित्याह –
आदिशब्देनेति ।
उपचयाभिधायिदिहधातोः देहशब्दो निष्पन्नः, अतो देहशब्दार्थसङ्घाते न कदाजिदप्यहमभिमान इत्याशङ्क्याह -
देहशब्देनावयव्यभिमत इति ।
अङ्गुल्यादीनामेकाङ्गच्छिन्ने पूर्णावयविनाशात् न भवेत् तस्मिन्नहमभिमान इत्याशङ्क्य सशिरस्कता प्रायशस्त्वगिन्द्रियाद्याधारत्वे, प्रयोजकनिरपेक्षतया त्वगिन्द्रियाधारत्वं शरीरत्वे प्रयोजकम् , अतोऽवयवे यस्मिन् कस्मिन् छिन्नेऽपि सशिरस्के देहेऽहमभिमानः सम्भवतीत्याह - सशिरस्क इति । सशिरस्कदेहोऽहमिति प्रतीतिर्नास्तीत्याशङ्क्याह –
मनुष्यादीति ।
देहेन्द्रियादिष्वित्यत्र केवले देहे अहमभिमानो भाष्यकारैरुक्तः । युष्माभिर्जातिसम्भिन्नदेहेऽहमभिमानः कस्मादुक्त इत्याशङ्क्य तैरप्यहमभिमानयोग्यजातिविशिष्टदेहेऽहमभिमान उक्त इत्याह -
न शरीरमात्रमिति ।
केवलदेहेऽहमभिमानाभावेन जातिविशिष्टोऽभिमान इत्याशङ्क्य जातिविशिष्टदेहैक्याध्यस्तचित्स्वभावमात्मानमनुभूय पश्चात् प्रवर्तत इति स्वसाक्षिकमित्याह -
सर्वो हीति ।
एकाधिकरणचैतन्य इति ।
जातिविशेषेण तादात्म्यमापन्नचैतन्य इत्यर्थः । प्रमातृत्वादिव्यवहारकर्ता देहेन्द्रियादिषु अहंममाभिमानरूपाध्यासवान् , अध्यासाभावे व्यवहाराभावात् । यथा सुषुप्त इति व्यतिरेकानुमानमत्राभिप्रेतं द्रष्टव्यम् । प्रमातृत्वादिव्यवहार आत्मनो देहेन्द्रियादिष्वहंममाभिमानरूपाध्यासमन्तरेणानुपपन्नोऽध्यासं कल्पयति, अध्यासाभावे व्यवहाराभावात् । यथा सुषुप्त इत्यर्थापत्तिर्वात्रद्रष्टव्या ।
नन्वात्मनो देहादिभिः सम्बन्धमात्रं प्रमातृत्वादिव्यवहारेऽपेक्षते न तादात्म्याध्यासमित्याशङ्क्य सम्बन्धान्तराणां प्रमातृत्वादिव्यवहारहेतुत्वं दूषयति -
न स्वत्वेनेत्यादिना ।
सुषुप्तेऽपि स्वस्वाभिभावसम्बन्धस्य भावादित्यभ्युच्चयः । सुषुप्ते व्यवहारप्रसङ्गपरिहाराय इच्छामात्रेण विनियोज्यविनियोजकत्वाख्यसम्बन्धान्तरं कश्चिदाह –
आत्मेच्छानुविधायित्वमिति ।
यदि देहादेरात्मना सम्बन्ध आत्मेच्छानुविधायित्वं तर्हि आत्मनोऽपि देहादीच्छानुविधायित्वमिति प्राप्तमित्याशङ्क्याह –
तस्यापीति ।
तस्याप्यात्मनोऽपि तस्य स्वदेहं प्रति यथेष्टविनियोजकत्वं तेन देहादिना सम्बन्ध इत्यर्थः ।
तत इति ।
तस्मात् सम्बन्धादित्यर्थः ।
एतत्सम्बन्धमूलो व्यवहार इत्यत्र प्रमाणमाह -
तथा चोत्तिष्ठामीति ।
भृत्यादयोऽपि स्वामीच्छानुविधायिनः, अतो भृत्यादिशरीरेणापि व्यवहारः स्यादिति तत्राह -
न च भृत्यादिषु तदस्तीति ।
अव्यवधानेनेच्छानुविधायित्वं सम्बन्धः । भृत्यदेहस्य तु स्वामीच्छापूर्वकप्रेरणानिमित्तभृत्येच्छानुविधायित्वमेवेति नाव्यवधानेनेच्छानुविधायित्वमित्यर्थः ।
न मिथ्या, मुख्याभिमानाभावादिति ।
मुख्यदेहादौ अहंममाभिमानाख्याध्यासाभावात् न व्यवहाराभाव इत्यर्थः ।
अहं मनुष्य इति ज्ञानस्य गौणत्वे गौणात्मपुत्रदेहगतदाहच्छेदादिनिमित्तव्यथानुसन्धानाभाववत् स्वदेहगतदाहच्छेदादिनिमित्तवेदनानुसन्धानं न स्यात् । अनुसन्धानसद्भावादेवाहमित्यनुभवो मुख्यदेहैक्यविषय इत्याह -
भवानेवात्र प्रमाणमिति ।
इच्छाप्यध्यासमूलैवेत्याह -
अपि च इच्छापीति ।
तवाप्यपरिणामिन आत्मनः कथमिच्छारूपपरिणाम इत्याशङ्क्य परिणाम्यन्तःकरणैक्याध्यासात् ममोपपन्नस्तव तु न स्यादित्याह –
परिणाम्यन्तःकरणसंवलितेति ।
अन्तःकरणाध्यासमूलैव इच्छेति प्रत्यक्षमाह -
तथा चानुभव इति ।
प्रमाणप्रश्नोत्तरं परिसमाप्य प्रमातृत्वशक्तिमदाश्रयत्वात् नाध्यस्ताहङ्कारादिसम्पिण्डितात्माश्रयत्वं व्यवहारस्येत्याक्षेपं परिहरति -
तेन यद्यपि प्रमातृशक्तिसन्मात्रमिति ।
यद्यपि प्रमातृत्वशक्तिमदाश्रयत्वं प्रमाणानामित्यर्थः ।
तदेव तु इति ।
प्रमातृत्वशक्तिमात्रमप्यध्यस्ताहङ्कारसम्पिण्डितात्मनि निष्पद्यत इत्यविद्यावदाश्रयत्वं प्रमाणानामुच्यत इत्यर्थः ।
अध्यासपरिनिष्पन्नाहङ्कारात्मसम्पिण्डितोपादानत्वे कारणदोषादप्रामाण्यं प्रमाणानामित्युक्तमाक्षेपं परिहरति -
तथा निरपेक्षाणामिति ।
न सापेक्षत्वलक्षणाप्रामाण्यमित्यर्थः ।
शक्तिप्रतिबन्धनिमित्तमप्रामाण्यमित्याह –
न स्वसामर्थ्येनेति ।
निश्चयानुत्पत्तिनिमित्ताप्रामाण्यमपि नास्तीत्याह -
अर्थसिद्धिं विदधतामिति ।
न विपर्ययरूपमप्यप्रामाण्यमित्याह –
बाधानुपलब्धेरिति ।
प्रत्यक्षादिसिद्धार्थस्य स्वप्रयुक्तार्थक्रियासमर्थरूपस्य बाधानुपलब्धेरित्यर्थः ।
विधिमुखोपदर्शितमिति ।
प्रत्यक्षादीनां व्यवहारसमर्थवस्तुबोधकत्वलक्षणप्रामाण्यं विधिना प्रत्यक्षेण दर्शितम् । अविद्याविषयत्वं प्रत्यक्षतन्मुखानुमानार्थापत्त्यादिभिः प्रदर्शितमित्यर्थः ।
अहङ्कारोपादानाविद्याया अपि दोषरूपत्वात् अप्रामाण्यहेतुत्वमित्याशङ्क्य अहङ्कारात्मसम्बन्धतद्रूपोत्पादनद्वारेण प्रमाणकारणत्वात् दोषत्वं नास्ति । प्रमाणकारणे पश्चाद्भवः काचादेर्दोषत्वादित्याह -
दोषस्त्विति ।
कारणस्य अदोषत्वात् कारणगतस्यैव दोषत्वमित्युक्तं विशेषमनादृत्य आगन्तुकस्य दोषत्वं न नैसर्गिकस्येत्येतावन्मात्रे दृष्टान्तमाह -
न च सर्वसाधारण इति ।
अन्नपाननिष्यन्द इति ।
मूत्रपुरीषात्मना निष्यन्द इत्यर्थः ।
शाबरभाष्यविरोधोऽपि नास्तीत्याह -
अनैसर्गिकं च दोषमभिप्रेत्य इति ।
मिथ्येति प्रत्यय इति ।
एतदत्र नास्तीति प्रत्यय इत्यर्थः ।
अविवेकिव्यवहारस्य अध्यासमूलत्वेऽपि न विवेकिव्यवहारोऽध्यासमूल इति तत्राह -
इतश्चैतदेवम् इति ।
विप्रतिपन्नो विवेकिव्यवहारोऽध्यासमूलः, अध्यासपूर्वकव्यवहारसमानव्यवहारत्वात् , पश्वादिव्यवहारवत् इत्यनुमानम् । तत्र पश्वादिदृष्टान्ते अध्यासमूलतां व्यवहारस्य दर्शयति -
तथा चेति ।
अध्यासानुमाने हेतुभूतस्य व्यवहारस्य विवेकिष्वपि वृत्तिमाह –
तदेकरूपेति ।
विवेकिजनेषु हेतुदर्शनात् हेतुमन्तमध्यासमनुमिमते ।
अतः तदेकरूपेति ।
दृष्टान्तेऽपि अध्याससद्भावे प्रमाणं चोदयति -
ननु पश्वादीनामिति ।
अहङ्कारानुबन्धः अहमित्यभिमानसम्बन्ध इत्यर्थः ।
पश्वादीनां बाह्यप्रत्यक्षेण देहसिद्धेर्मानसप्रत्यक्षेणात्मसिद्धेः देहात्मनोः भेदस्य चोभयप्रत्यक्षासिद्धेः अनुमानागमपरिज्ञानाभावाच्च ताभ्यामपि भेदासिद्धेः शुक्तिरजतयोरिवाध्यासः परिशिष्यत इत्याह -
प्रौढमतिभ्य इति ।
बुद्धिमन्मनुष्येभ्य इत्यर्थः ।
भेदस्य स्वरूपत्वादेव पश्वादीनामात्मदेहपदार्थग्राहिबाह्यमानसप्रत्यक्षज्ञानाभ्यां भेदोऽपि सिद्ध इत्यत आह –
अन्यथेति ।
पश्वादीनां पदार्थज्ञानेन भेदस्य सिद्धत्वे मनुष्येष्वपि पदार्थज्ञाने सति भेददर्शनस्यापि विद्यमानत्वात् व्यतिरेकोपदेशानर्थक्यप्रसङ्ग इत्याह –
तदनर्थकत्वप्रसङ्गादिति ।
एवमेवेति ।
पश्वादीनां स्वाभाविकप्रत्यक्षेण भेदसिद्धिरिव इत्यर्थः ।
सर्वः सम्प्रतिपद्येत इति ।
देहादात्मनो भेदं प्रतिपद्येत इत्यर्थः ।
स्वाभाविकप्रत्यक्षेण देहादात्मनो भेदसिद्धिः गोपालादिषु विद्यते, तेषामदृष्टार्थप्रवृत्तिदर्शनादिति चोदयति -
ननु गोपालाङ्गनादय इति ।
तेषामपि न प्रत्यक्षेण विवेकग्रहः किन्तु आप्तवचनादित्याह -
न तदभिज्ञेति ।
प्रत्यक्षश्चेद्विवेकः विशेषतः प्रत्यगात्मानं प्रतिपद्येरन् इत्याह -
तथा च त इति ।
निगमनभाष्यमुपपन्नमित्याह –
तस्माद्युक्तमुक्तमिति ।
प्रत्यक्षादिव्यवहारः पश्वादिभिर्विवेकिनामपि समानो युक्त इति भाष्ये योजना ।
एवं तावत् प्रत्यक्षादीनीत्युक्तानुवादः - शास्त्रीये त्विति भाष्यस्याशङ्काप्रदर्शनपूर्वकं तात्पर्यमाह -
एवं तावदित्यादिना ।
अस्तु प्रमाणव्यवहार इन्द्रियापेक्षा । न तु देहापेक्षेत्याशङ्क्य सत्वचस्य भूमावुप्तबीजस्य कार्यकरत्ववत् गोलकप्रतिष्ठस्यैव कार्यकरत्वाद्विद्यत एव देहापेक्षेत्याह -
तानि च नाधिष्ठानशून्यानीति ।
तर्हि गोलकप्रदेशैरेव अलं, मास्तु देह इत्याशङ्क्य उत्पाटितगोलकप्रतिष्ठेन्द्रियस्य ज्ञानजनकत्वाभावात् देहांशभूते गोलक एवापेक्षेत्याह -
अधिष्ठानं च देह इति ।
देहांशभूतगोलकमधिष्ठानमित्यर्थः ।
देहापेक्षत्वेऽपि न तस्यात्मन्यध्यासापेक्षा, अध्यस्तत्वेऽपि अध्यस्तदेहविशिष्टात्मा प्रमाणादिव्यवहारोपादानं न भवति । किन्तु आत्मैवोपादनम् , अध्यासस्तु निमित्तमात्रमिति, नेत्याह -
न तेनेति ।
अनुभवारूढमिति ।
मनुष्योऽहं जानामीत्यध्यस्तदेहादिसम्पिण्डितात्माश्रयत्वं प्रत्यक्षादीनां साक्ष्यनुभवसिद्धमित्यर्थः ।
कार्यतोऽपीति ।
समानव्यवहाराख्यकार्यतोऽपि अध्याससद्भावमापद्येत्यर्थः ।
प्रतिपन्नात्मेति ।
देहव्यतिरिक्तत्वेन प्रतिपन्नात्मेत्यर्थः ।
तत्रेति ।
शास्त्राख्ययागादिकर्तव्यज्ञानतन्निमित्तयागादावित्यर्थः ।
शास्त्रीये त्विति भाष्येणादृष्टार्थप्रवृत्तावात्मनो देहाद्व्यतिरिक्तत्वज्ञानमभ्यनुजानाति । अभ्यनुज्ञामाक्षिपति -
ननु फलनैयमिकेति ।
तत्र
फलचोदनेति ।
पशुकामो यजेत, स्वर्गकामो यजेतेत्यादिचोदनेत्यर्थः ।
नैयमिकचोदनेति ।
यावज्जीवं जुहोतीत्यादिचोदनेत्यर्थः ।
नैमित्तिकचोदनेति ।
गृहदाहवान् यजेतेत्यादि चोदनेत्यर्थः । स्वर्गशब्दार्थस्य सुखत्वात् अस्मिन् जन्मनि लब्धुं शक्यत्वादितिभावः ।
यथा च एतदेवमिति ।
व्यतिरिक्तात्मा नास्तीत्येतद् ‘एक आत्मनः शरीरे भावात्’ इति पूर्वपक्षसूत्रे प्रदर्शयिष्याम इत्यर्थः ।
सत्यम् , मन्त्रार्थवादादीनां प्रामाण्यमनङ्गीकुर्वतां मीमांसकानां न विधिप्रामाण्यार्थं देहव्यतिरिक्तात्मापेक्षा । भाष्यकारस्तु मन्त्रार्थवादादीनां प्रमाणान्तरेणासिद्धेऽविरुद्धे चार्थे प्रामाण्यमङ्गीकृत्य तद्बलेन प्राप्तस्य देशान्तरे कालान्तरे देहान्तरेणोपभोग्यस्य स्वर्गाख्यफलस्य साधनयागविधीनां प्रामाण्यार्थं देहव्यतिरिक्त आत्मापेक्ष्यत इति तमभ्यनुजानातीत्याह -
सत्यमेवम् , तथापीति ।
विधिनिर्णयार्थं प्रवृत्तः शाबरभाष्यकारः व्यतिरिक्तात्मानं साधयति । अतः विधिप्रामाण्याय व्यतिरिक्तात्मापेक्षा इत्याशङ्क्य तथा सति सूत्रेणापि भवितव्यम् , तदभावात् न विधिप्रामाण्यात् तस्मिन् प्रमाणापेक्षया व्यतिरिक्तत्वासाधनमित्याह -
तथा च विधिवृत्तेति ।
विधौ प्रवृत्ता मीमांसा, विधिवृत्तविषया मीमांसा, विधिवृत्तमीमांसेति वा निर्वाहः ।
विधिप्रामाण्यानपेक्षितस्यासूत्रितस्य च भाष्यकारेण प्रतिपादनमयुक्तमित्याक्षिपति -
तत्कस्य हेतोरिति ।
कस्य हेतोः कस्माद्धेतोरित्यर्थः ।
धर्मविचारं प्रतिज्ञाय तस्मिन् प्रमाणापेक्षायां चोदनां प्रमाणत्वेनोपन्यस्य कथं चोदनायाः प्रामाण्यमित्यपेक्षायां तद्विधिवाक्यं प्रमाणं बादरायणस्य अनपेक्षत्वादिति मन्त्रादीनामपि साधारणहेतुप्रयोगात् , सूत्रकारेण मन्त्रादीनामपि प्रामण्यमनुसृतं मन्वानो भाष्यकारस्तत् प्रामाण्यनिमित्तस्वर्गादिफलभोक्तृत्वेन देहव्यतिरिक्त आत्मापि सूत्रकारेणानुमत इति कृत्वा व्यतिरिक्तात्मानं साधयति इत्यतो न निर्मूलं व्यतिरिक्तात्मसाधनमित्याह -
धर्मजिज्ञासेति कार्यार्थविचारमिति ।
विशेषाभावादिति ।
अपौरुषेयत्वेन वक्तृज्ञानाद्यनपेक्षत्वे कृत्स्नवेदवाक्यार्थानां विशेषाभावादित्यर्थः ।
स्वरूपनिष्ठानामिति ।
सिद्धार्थनिष्ठानामित्यर्थः ।
सूत्रेण मन्त्रादिप्रामाण्यस्य सूत्रितत्वात् तद्बलप्राप्तस्वर्गादिभोक्त्रात्मानं साधयति, न विधिप्रामाण्याय अपेक्षितत्वादात्मानं साधयतीति कथं निर्णय इत्याशङ्क्य भाष्यकारेणापि मन्त्रादिप्रामाण्यस्येष्टत्वात् निर्णय इत्याह -
तथा ‘चोदना ही’ति ।
चोदनाशेषत्वेनापि इति ।
चोदनासन्निधिपठितार्थवादादीनां चोदनाशेषत्वात् शेषगतभूताद्यर्थप्रतिपादकत्वं शेषिण्युपचरति भाष्यकार इति भावः ।
अवगच्छति इति ।
गम्यत इति ।
भाष्यकारोऽवगच्छतीत्यस्माभिर्गम्यत इत्यर्थः ।
मन्त्रादिप्रामाण्यसूचनद्वारेण व्यतिरिक्तात्मापि अनुमतश्चेत् तत्प्रतिपादकसमन्वयविचारोऽपि सूचनीय इति, नेत्याह -
स च स्वरूपावगम इति ।
आत्मप्रतिपादकवाक्यमित्यर्थः ।
कस्मिन्निति ।
वेदान्तानां चोदनाशेषभूतात्मनि प्रामाण्यं स्वतन्त्रात्मनि वेत्यर्थः ।
कथं वेति ।
एकरसार्थप्रतिपादकत्वं संसृष्टार्थप्रतिपादकत्वं वेत्यर्थः ।
उपयोगाभावादिति ।
धर्मस्य व्यतिरिक्तात्मनि अपेक्षाभावात् फलस्यैव तदपेक्षत्वात् । फले च जैमिनेः प्रयत्नाभावात् व्यतिरिक्तात्मा न मीमांसित इत्यर्थः ।
फलमपि व्यतिरिक्तात्मानमपेक्षते चेत् तत्रापि प्रयत्नो युक्तो जैमिनेरिति, नान्यथासिद्धत्वादित्याह -
भगवान्स्तु पुनरिति ।
मोक्षफलरूपं ब्रह्म तद्भोक्तारम् असंसार्यात्मानं च प्रतिपादयत्याचार्यः । न स्वर्गफलं तदपेक्षितसंसार्यात्मानं च प्रतिपादयतीत्याशङ्क्य विधिरहितवाक्यानां सिद्धार्थे प्रामाण्ये साधिते विधिरहितमन्त्रादीनामपि प्रामाण्यं तदर्थस्वर्गादिवत्सिद्धं स्यादित्याह -
तत्र च देहान्तरोपभोगयोग्यः स्वर्गः स्थास्यतीति ।
स्थीयतां नाम स्वर्गः, स्वर्गाख्यलोक विशेषप्राप्तये देहविलक्षण आत्मापेक्षा नास्ति, वर्तमानशरीरेणैवार्जुनादीनां स्वर्गप्राप्तेः श्रुतत्वादित्याशङ्क्य, यद्यपि लोकविशेषप्राप्तये नापेक्षा तथापि तत्स्थस्यान्यस्य देहान्तरप्राप्तेरपि श्रुतत्वात् वर्तमानदेहेन सह देहान्तरप्राप्तेरसम्भवात् तदुपपत्त्यर्थं देहविलक्षण आत्मा स्वीकर्तव्य इत्याह -
तच्च सर्वमिति ।
समन्वयसामर्थ्यात् देहव्यतिरिक्तात्मसिद्धेर्बादरायणस्याध्यात्मविचारः पिष्टपेषणमिति, नेत्याह –
तत्सिद्धिश्चेति ।
व्यतिरिक्तात्मनः सिद्धवस्तुत्वादेव प्रमाणान्तरयोग्यस्य प्रमाणान्तरविषयत्वाभावे मनुष्योऽहमिति देहस्यात्मविषयप्रमाणान्तरविरोधे चाप्रामाण्यप्रसङ्गात् न केवलमागमेन व्यतिरिक्तात्मनः सिद्धिरित्यर्थः ।
तर्ह्यागमस्य व्यतिरिक्तात्मन्यप्रामाण्यमेवेति नात्मसिद्धिरिति नेत्याह –
अतस्तत्सिद्धाविति ।
तेनेति ।
विरोधपरिहारफलेन विचारेणेत्यर्थः ।
उक्तमर्थं सङ्क्षेपतो दर्शयति -
सत्यमित्यादिना ।
विनापि तेनेति ।
मन्त्रादिप्रामाण्यस्वर्गाद्यनभ्युपगच्छतां व्यतिरिक्तात्मना विनापि विधिप्रामाण्यसिद्धेरित्यर्थः ।
अस्ति तु तत् इति ।
मन्त्रादिप्रामाण्यं स्वर्गादिर्वेत्यर्थः ।
न तेन विनेति ।
व्यतिरिक्तात्मना विनेत्यर्थः ।
वेदान्तवेद्यमहंरूपमहंप्रत्ययविषयात्मरूपात् अभिन्नमुत भिन्नम् , यद्यभिन्नमहंप्रत्ययविषयत्वादेव न वेदान्तवेद्यं भवति । भिन्नं चेत् तर्हि आत्मस्वरूपत्वं न सम्भवतीत्यतः नास्तीत्याक्षिपति -
किं तदिति ।
असंसार्यात्मतत्वमिति ।
अकर्त्रात्मत्त्वमित्यर्थः ।
अशनायाद्यतीतमित्यसंसार्यात्मतत्वं दर्शयति इति ।
अशनायाद्यतीतत्वात् आत्मतत्वमसंसारीति हेत्वभिधानेन प्रतिपादयतीत्यर्थः ।
अशनायाद्यतीतत्वस्याकर्तृत्वाख्यासंसारित्वं प्रति हेतुत्वप्रकारमाह -
अशनायाद्युपप्लुतो हीति ।
स्वास्थ्यमलभमानः आत्मयाथातथ्ये स्थितिमलभमानः ।
पश्यतीति ।
अतो न कर्तृत्वं प्रतिपद्यत इति शेषः ।
संसारमिति ।
वर्णान्तरे अहमुल्लेखमहङ्कारात्मसम्पिण्डितरूपमित्यर्थः । तस्मादित्यध्यासप्रमाणोपसंहारः । तस्मात् प्रत्यक्षानुमानार्थापत्तिप्रमाणादित्यर्थः ।
विधेः बोद्धारमधिकारिणं ब्राह्मणादिशब्दैरनुवदन् आगमोऽपि चेतनाचेतनयोरैक्यावभासं दर्शयतीत्याह -
तदेव दर्शयतीति ।
स्नात्वेति ।
गृहस्थो भूत्वेत्यर्थः । ज्योगामयावी उज्ज्वलामयावानित्यर्थः ।
लक्षणभाष्ये परत्रावभास इत्येकेन परशब्देन लक्षणमुक्तम् । अत्र तु अतस्मिंस्तद्बुद्धिरित्यवोचाम इति परशब्दद्वयेन लक्षणमनूद्यत इति पूर्वापरविरोधः प्राप्त इत्याशङ्क्य लक्षणभाष्यान्ते परशब्दद्वयेनोक्तं लक्षणमनूद्यत इति दर्शयितुमन्तग्रहणं करोति ।
सर्वथापि तु इति ।
सिंहो देवदत्त इतिवत् गौणावभासं व्यावर्तयति -
निरुपचरितमिति ।
लक्षणत युष्मदर्थात् अन्तःकरणात् प्रतीतितो युष्मदर्थः पुत्रादिरिति भेदादाह -
कस्य युष्मदर्थस्येति ।
वस्तुतोऽस्मदर्थः चैतन्यम् , प्रतीतितोऽस्मदर्थः अन्तःकरणादिरिति भेदादाह -
कस्मिन्नस्मदर्थ इति ।
भाष्यं योजयति -
अतस्मिन्नित्यादिना ।
अयुष्मदर्थ इत्युक्ते युष्मदर्थाभावं प्राप्तं व्यावर्तयति -
अनिदं चिति इति ।
अनिदं चिति तद्बुद्धिरित्युक्तेऽनिदं चित्यनिदं चिद्बुद्धिरध्यास इत्युक्तिं व्यावर्तयति ।
युष्मदर्थावभास इत्यर्थः इति ।
तदाहेति ।
आत्मानात्मनोरितरेतराध्यासं पुरस्कृत्येत्यत्र सामान्येन उक्ताध्यासस्य विभागमाहेत्यर्थः ।
पुत्रादीनां हस्ताद्यङ्गेषु छिन्नेषु नास्ति छिन्नहस्तोऽहमिति प्रतीतिः । अतो न मुख्य इत्याह –
कथमिति ।
छिन्नहस्तोऽस्मीति प्रतीत्यभावेऽपि बाह्यपुत्रादिगत धर्मान्तरस्य मुख्याध्यासो भवत्येवेत्याह -
तद्यथा बालक इत्यादिना ।
मातुलादिना पुत्रे पूजिते अहमेव त्वया पूजित इति रीत्या आशङ्क्याह -
वस्त्रालङ्कारादिना इति ।
पुरुषान्तरेण पुत्रस्य उपनयनादौ कृते यथा अहमुपनीत इत्यभिमानाभावः तद्वत् न पूजितत्वाभिमानः - इत्याशङ्क्य पुरुषान्तरस्य पितरं प्रति उपनेताहमस्मीत्यभिमानाभावात् अस्याप्युपनीतोऽस्मीति अभिमानाभावः । अत्र पूजयितुरपि पितरमेवापुजमित्यभिमानात् पितुः पूजितत्वाभिमान इत्याह –
पूजयितापीति ।
अव्यक्तत्वादिति ।
चित्तपरिपाकाभावादित्यर्थः । अनन्तरः स्वराष्ट्रसमीपदेशाभिमानीत्यर्थः ।
बाह्यशब्दाभिप्रायमाह –
प्रसिद्धव्यतिरेकस्येति ।
भाष्यग्रन्थतः उत्तरोत्तराध्यासोपहितः प्रत्यगात्मा पूर्वपूर्वाध्यासाधिष्ठानमित्यभिप्रेत्य आत्मन्यध्यस्यतीत्यत्र आत्मशब्दार्थमाह –
अस्मदर्थश्चेति ।
आत्मशब्दार्थश्चेत्यर्थः विषय इत्यधिष्ठानमुच्यते । विषयभूतोऽस्मदर्थश्चाहं प्रत्ययिसम्भिन्न एवानिदं चिदंश इत्यन्वयः । अहङ्कारस्य संस्कारावच्छिन्नः प्रत्यगात्माधिष्ठानं तस्य च संस्कारस्य पूर्वाहङ्कारावच्छिन्न अधिष्ठानमतोऽहङ्कारं प्रति स्थूलकार्यरूपाध्यासान्तरानास्कन्दितस्याधिष्ठानत्वात् , शुद्धप्रत्यगात्मनोऽनधिष्ठानत्वमुच्यत इति द्रष्टव्यम् । धर्मिणोऽपीत्यत्र ग्रहणमित्यध्याहारः ।
‘ब्राह्मणो यजेत’ ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिशास्त्रेण च धर्ममूलत्वेन कर्मविधानाच्च धर्मप्राधान्यात् धर्मग्रहणमित्याह –
तन्निमित्तश्चेति ।
देहधर्मानित्यत्र धर्मशब्दस्य धर्म्युपलक्षकत्ववत् इन्द्रियधर्मानित्यत्र धर्म्युपलक्षकत्वं प्राप्तं व्यावर्तयति -
धर्ममात्रमिति ।
गृह्यत इत्यध्याहारः ।
अन्तःकरणाहंप्रत्ययिनोरेकत्वात् पुनरुक्तिः स्यादिति शङ्कां व्युदस्यति -
अन्तःकरणमित्यहंप्रत्ययिन इति ।
कामादीनामहं कामीत्यादिसम्बधित्वेनैवाध्यासः, न तु अहं काम इत्यादितादात्म्येनाध्यास इति भावः ।
स्वशब्दस्यात्मवाचित्वं व्यावर्तयति -
स्वशब्देनेति ।
प्रचारः, चरणं चारः इति व्युत्पत्त्या परिणामोऽभिधीयत इत्याह -
कामसङ्कल्पकर्तृत्वादिः परिणाम इति ।
स्वप्रचार इत्यत्र प्रेत्युपसर्गार्थमाह -
अनेकविध इति ।
प्रविभक्तेषु ब्रह्मादिस्थावरान्तेषु योनिभेदेषु यन्निमित्तं यैर्निमित्तभूतैः कामाद्यैश्चरति इति व्युत्पत्त्या प्रचारशब्दस्य कामादिरर्थ इत्याह –
यन्निमित्तमिति ।
साक्षादीक्षत इति साक्षीति साक्षिशब्दस्य अव्यवधानमर्थ इत्याह –
साक्षादव्यवधानमवभासयतीति ।
अहङ्कारस्यैव परिणामव्यवधानेन कस्मात् न साधकत्वमित्याशङ्क्य चित्वादेव परिणामहीनावस्थां विहाय परिणामावस्थाप्राप्तिर्नास्तीत्याह -
हानोपादानशून्य इति ।
हानोपादानशून्यत्वं कुत इति अयोग्यत्वादित्याह –
अविकारित्वेनेति ।
कुतोऽयोग्यत्वमिति केनापि संसर्गाभावादित्याह –
असङ्गितयेति ।
कथं पुनः सर्वान्तरस्यात्मनः प्रत्यञ्चनमित्याशङ्क्य बाह्यदेहादिषु विप्रसृतचैतन्यस्य क्रमेण देहादिभ्यो निष्कृष्य अनुसन्धानावस्थायामन्तरन्तरनुप्रवेश भ्रमापेक्षया इत्याह -
स एव देहादिष्विति ।
बहिर्भावमापद्यमानेष्विति ।
पूर्वमहन्तया प्रतिपन्नेषु पश्चाद्विवेकानुसन्धानसमये आत्मनः सकाशात् बहिर्भावमापद्यमानेष्वित्यर्थः ।
घटस्यापि स्वरूपत्वमस्तीत्याशङ्क्य स्वरूपमाभासस्तस्य, निरुपचरितस्वरूपस्त्वात्मेत्याह -
निरुपचरित इति ।
अधिष्ठानत्वादवभासमानत्वमेवेत्याशङ्क्य अधिष्ठानविशेषो न प्रकाशेत इत्याह -
न हि शुक्तौ रजताध्यास इति ।
तर्हि अत्रापि सर्वगतत्वादिविशेषाकारो न प्रकाशत एवेति ।
आत्मनः साधारणाकारः सत्वम् , चित्वं विशेषाकारः अन्तःकरणस्य साधारणरूपशून्यत्वं जडत्वं विशेषाकारः स प्रतिभासत इत्याह -
प्रकाशते चेह चैतन्यमिति ।
नाहङ्कारप्रमुख इति ।
प्रपञ्चस्य जडाख्यविशेषरूपातिरिक्तरूपाभावात् इति भावः ।
अनुभवमेव अनुसरन्निति ।
अहमनुभवामीत्यत्र अहङ्कारचैतन्ययोः विद्यमानमनुभवमेव अनुसरन्नित्यर्थः ।
पृथगवभासनादिति ।
द्वयोरपि सामान्यविशेषात्मना अवभासनात् नाध्यासः सम्भवति । सामानाधिकरण्यमस्ति चेत् गौणमित्यर्थः ।
विशेषावभासेऽध्यासविरोध उक्त इति नेत्याह -
न हि दृष्टेऽनुपपन्नमिति ।
अन्तःकरणादिषु अध्यस्यतीति भाष्यगतादिशब्दो विरुद्ध इति चोदयति -
नन्विति ।
अन्तःकरणस्यैव अध्यासादेव भाष्ये धर्मशब्द उक्त इत्यर्थः ।
अन्यथेति ।
शुद्धचैतन्यस्याध्यासे सतीत्यर्थः ।
अन्तःकरणस्य देहादिषु आत्माध्यासोपाधितया अनुप्रवेशमात्रमेव । न तु तस्याध्यस्तत्वमित्याह -
सत्यमाह भवानिति ।
अन्तःकरणं सचितिकमन्यत्र देहादिषु अध्यस्यमानं यत्र देहादिष्वध्यस्यते तस्यैव देहादेरात्मनः आत्मानं प्रति कार्यकरत्वम् आपाद्य अन्तःकरणं स्वसंश्लेषात् चैतन्यच्छायाभाजनयोग्यतां देहादेरापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठतीति योजना ।
स्वतः परतो वेति ।
अन्तःकरणे स्वतोऽध्यस्यते देहादिष्वन्तःकरणोपाधिमपेक्ष्य अध्यस्यत इति चैतन्यस्यैव सर्वत्राध्यास इत्यत्र स विशेष इत्यर्थः ।
तेनोच्यत इति ।
आदिशब्द उच्यत इत्यर्थः ।
अत एवेति ।
सर्वत्र चैतन्यस्यैव अध्यासादेवेत्यर्थः ।
अहङ्कर्तृत्वं योजयन्त इति ।
अहंप्रत्ययविषयत्वम् आत्मत्वं च योजयन्त इत्यर्थः । निगमयतीति लक्षणादिभिः साधितमध्यासं निगमयतीत्यर्थः ।
तत्रापीति ।
प्रत्यगात्मनि नैसर्गिकत्वेन प्रथमभाष्ये यो लोकव्यवहार उक्तः, स इहोक्तप्रत्यगात्मनि अहङ्काराद्यध्यास एवेत्यर्थः ।
नैसर्गिकस्येति ।
आत्मभावे यो न बुध्यते एव ? स नैसर्गिकः, तस्येत्यर्थः ।
अनन्तः कथमिति ।
ज्ञाननिवर्त्यत्वादिति भावः ।
यदि स्यादिति ।
अभावविलक्षणत्वे सति अनादित्वादात्मवदनन्तश्चेदित्यर्थः ।
मिथ्याप्रत्ययरूप इत्यत्र मिथ्याप्रत्ययसदृशः, न तु मिथ्येत्युच्यत इति शङ्कानिरासार्थमाह –
रूपग्रहणमिति ।
तेनेति कर्तृत्वभोक्तृत्वशक्तेरप्यध्यासहेतुकत्वेनेत्यर्थः ।
कर्तुर्भोक्तुश्च सत इति ।
स्वत एव कर्तृत्वादिशक्तिमत इत्यर्थः ।
दोषप्रवर्तनमिति ।
रागद्वेषजननेन प्रवृत्तिकारणमित्यर्थः ।
येषामिति ।
साङ्ख्यव्यतिरिक्तानामित्यर्थः ।
मिथ्यात्वसिद्धय इति ।
अहंममाभिमानाख्याध्याससिद्धय इत्यर्थः ।
अनर्थस्य प्रहाणाय इति वक्तव्यम् इत्यत आह -
हेतोः प्रहाण्या हीति ।
शास्त्रप्रामाण्यात् निवर्ततामिति न, व्यरिरिक्तात्मज्ञानेऽपि अध्यासानुवृत्तिदर्शनादित्याह -
तथाहि मनुष्यादीति ।
विविक्तोऽपि विविक्तात्मविषयोऽपीत्यर्थः ।
सादित्वानादित्वयोर्विनाशाविनाशप्रयोजकत्वायोगात् विरोधिसन्निपातासन्निपातयोरेव प्रयोजकत्वादनादिरपि विरोधिसन्निपाते नश्यतीत्याह -
नायं दोष इति ।
व्यतिरेकब्रह्मात्मज्ञानयोरध्यासनिवृत्तौ को विशेष इति तत्राह -
तद्धि ब्रह्मणोऽवच्छिद्येति ।
ब्रह्मणः सकाशात् प्रतिबिम्बरूपेण भोक्तृत्व इत्यर्थः ।
चैतन्यस्येति ।
प्रतिबिम्बरूपेण चैतन्यस्य इत्यर्थः ।
बीजनाशेऽपि कार्यावस्थानवदविद्यानाशेऽपि प्रवाहाकारस्यावस्थानं स्यादिति नेत्याह -
ततः कारणनिवृत्ताविति ।
भोक्तृरूपता इति ।
अहङ्कार इत्यर्थः ।
सपरिकरेति ।
प्रमातृत्वादिसहितेत्यर्थः ।
विविक्त इति ग्रहणाभावेऽपि दैवगत्या स्वरूपेण विविक्तब्रह्मरूपात्मग्राहित्वात् अहंप्रत्ययः किमित्यध्यासं न निवर्तयतीत्याशङ्क्य ब्रह्मात्मतानवभासकत्वात् न तेन निवृत्तिरित्याह -
अहंप्रत्ययः पुनरिति ।
कार्यकरणमात्रेण सहभावादिति ।
जाग्रत्स्वाप्नदेहयोरन्योन्यव्यभिचारेऽपि कार्यकरणमात्रेण सहभावादित्यर्थः ।
विचाराद्विवेकज्ञानान्तरमुत्पन्नं निवर्तयेत् इति, नाप्रमाणज्ञानत्वादित्यादित्याह -
नापि ज्ञानान्तरमिति ।
शास्त्रजन्यब्रह्मविद्यायाः फलं आनन्दावाप्तिः, नानर्थनिवृत्तिः अतोऽनर्थहेतोः प्रहाणायेत्युक्तमयुक्तमित्याक्षिपति -
ननु निरतिशयानन्दमिति ।
अन्यं अन्यत्वेन प्रसिद्धमस्य प्रत्यगात्मनो महिमानं महद्रूपमिति यदा पश्यतीति योजना ।
न वक्तव्यमिति ।
वक्तव्यं न भवति । आत्मैकत्वविद्याप्रतिपत्तय इति शास्त्रजन्यविद्याविषयोक्त्या निरतिशयसुखावाप्तिफलमुक्तमित्यर्थः ।
आनन्दस्य पुरुषार्थत्वे कथं फलत्वेन वक्तुमयोग्यत्वमित्ययोग्यत्वमुक्तं मत्वा चोदयति -
कथमिति ।
आत्मैकत्वविद्यायाः प्रागेवंभूतब्रह्मप्राप्तिर्भवितव्येत्यधिकारी स्वयमेव प्रयोजनत्वेन स्वीकरोत्यतो विषयनिर्देशात् पृथक् न वक्तव्यमित्याह –
आत्मैकत्वविद्येति ।
शास्त्रस्य विषय इत्यत्र उक्त इत्यध्याहारः ।
अग्निसंयुक्तनवनीतपिण्डस्य पश्चाद्यथा घृतत्वं जन्यते तद्वन्निरतिशयानन्दाद्वयचित्स्वभावं ब्रह्म, आत्मनस्तेनैक्यमनादिसिद्धं विषयत्वेन निर्दिष्टम् , अतो ज्ञानाग्निसंसर्गानन्तरमानन्दरूपेण जायते ब्रह्म, अतो ज्ञानसंसर्गादुत्तरकालीनमानन्दत्वं ततः प्राक्तनविषयोक्त्या नोक्तमिति आशङ्क्य आनन्दस्य जन्यत्वाभावात् विषयोक्त्या उक्तमेवेत्याह -
न सा विषयाद् बहिरिति ।
समस्तप्रपञ्चशून्यं ब्रह्मेति श्रुत्या निर्दिष्टं तदैक्यलक्षणविषयोक्तौ बन्धनिवृत्तिलक्षणप्रयोजनमपि निर्दिष्टं भवति । अतोऽनर्थतद्धेतुनिवृत्तिलक्षणप्रयोजनमपि निर्दिष्टं भवति । अतोऽनर्थतद्धेतुनिवृत्तिलक्षणप्रयोजनमपि न पृथग्वक्तव्यमित्याशङ्क्य सत्यबन्धनिवृत्तित्वं ब्रह्मणः स्वरूपम् , अतस्तदैक्यरूपविषयोक्तौ सत्यबन्धनिवृत्तिः प्रयोजनत्वेनोक्ता स्यात् । प्रातिभासिकबन्धनिवृत्तिस्तु ज्ञानोदयनान्तरीयकसिद्धाप्रयोजनत्वेन इदानीमुच्यत इत्याह -
समूलानर्थहानिस्त्विति ।
पूर्वग्रन्थोक्तमनर्थहेतुनिवृत्तेः बहिष्ट्वं प्रातिभासिकबन्धनिवृत्तेः उक्तमित्यजानन् परमार्थबन्धनिवृत्तेः उक्तमिति मत्वा चोदयति -
अनर्थहेतुप्रहाणमपि तर्हीति ।
प्रतिपादनपूर्वकमेवेति निष्प्रपञ्चरूपेण ब्रह्मप्रतिपादनपूर्वकमेवेत्यर्थः ।
पदार्थप्रतिपादकवाक्यं नास्तीति तत्राह –
तद्यथेति ।
प्रपञ्चस्य ब्रह्मरूपेणैकरूपवत्वाभिधानात् जगद् ब्रह्मणि निर्दिश्य ब्रह्मण एव सत्यत्वाभिधानाच्च निरस्तप्रपञ्चं ब्रह्म प्रतिपाद्यत इति भावः ।
एकं वाक्यमिति ।
तत्त्वमसीति तादात्म्यवाक्येन एकवाक्यमित्यर्थः ।
ब्रह्मगतप्रपञ्चनिवृत्तेः ब्रह्मात्मैक्यरूपविषयमात्रत्वेऽपि जीवस्यानर्थयोगित्वादेव अनर्थनिवृत्त्यभावात् न तस्याविषयान्तर्भाव इति तत्राह -
तथा सति तादृशेनेति ।
निष्प्रपञ्चब्रह्मणा एकतां गच्छन् जीवः स्वगतानर्थहेतुभूताग्रहणरूपाविद्यामहं मनुष्य इत्याद्यन्यथाग्रहणं च निर्लेपं निश्शेषं पराकृत्यैव पश्चात् ब्रह्मैक्येन महावाक्यरूपशास्त्रेण प्रमीयत इत्यर्थः ।
यद्येवमिति ।
पारमार्थिकबन्धनिरासस्तु प्रतिपाद्यविषयान्तर्भूतोऽपि प्रातिभासिकाविद्यातत्कार्यनिरासो ज्ञाननान्तरीयक इति विषयोक्त्या न तस्योक्तिरित्यर्थः ।
न शब्दस्येति ।
ब्रह्मप्रतिपादकशब्दस्य एकत्वप्रतिपादकशब्दस्य चेत्यर्थः ।
युक्तञ्चैतदिति ।
नान्तरीयकतयाविद्यादिप्रहाणनिष्पत्तिर्युक्ता तत्त्वावभासविरोधित्वात् अविद्यातत्कार्यत्वाच्चेत्यर्थः ।
आरोप्याभावज्ञानम् अधिष्ठानस्यारोप्यविरोधिभावान्तरात्मताज्ञानं चेति बाधकज्ञाने द्वैविध्यमजानन् अभावज्ञानमेव बाधकं मत्वा ब्रह्मज्ञानसामग्रीभूतवाक्ये नञाद्यभावात् अभावज्ञानत्वं नास्ति, अतो न बाधकत्वं ब्रह्मज्ञानस्येति चोदयति -
ननु नञादेरिति ।
ब्रह्मज्ञानं निषेधज्ञानतया बाधकं न भवति, अधिष्ठानस्यारोप्यविरोधिभावान्तरात्मत्वज्ञानतया बाधकं मत्वा नञाद्यभावो न दोषायेत्याह -
उच्यत इति ।
अन्यविषयव्यापारादन्यस्य नान्तरीयकनिष्पत्तौ दृष्टान्तमाह -
तुलोन्नमनव्यापार इवेति ।
अधोदेशसम्बन्धोऽप्युन्नमनव्यापारस्य विषयतया सिध्यति, न नान्तरीयकतयेति, तत्राह -
न चोन्नमनकारकस्येति ।
प्रसिद्ध्यभावादिति ।
आनमनं करोतीति प्रसिद्ध्यभावादित्यर्थः ।
अनुभवविरोधाच्चेति ।
उन्नमनं करोति इत्यनुभवविरोधाच्चेत्यर्थः ।
भवतु ब्रह्मात्मैक्यज्ञानोदयनान्तरीयकतया बन्धनिरासनिष्पत्तिः । निरासप्रतीतिः कथं स्यादित्याशङ्क्य साप्यैक्यप्रतीतिनान्तरीयकेत्याह –
तदेवमिति ।
यथा निरासः तथा तत्प्रतिपत्तिरपीत्येवंशब्दार्थः । नाहं कर्ता ब्रह्माहमित्यत्र ब्रह्माहं नाहं कर्तेत्यन्वयः । तत्र ब्रह्माहमिति वाक्यार्थबोधः, नाहङ्कर्तेति नान्तरीयकबोध इति विभागो द्रष्टव्यः । नेदं रजतमित्यत्रापि एषैव योजना ।
शुक्तिकेयमिति वाक्यजन्यज्ञानं निरासं विषयीकृत्य साधयति -
न नान्तरीयकत्वेनेति ?
तस्माच्छुक्तिकेयमित्यनुवाद इति ।
वाक्यार्थज्ञानेन वाक्यार्थे स्फुरति सति तेन स्फुरणेन न स्वगताविद्यातत्कार्यनिवृत्तेरपि नान्तरीयकतया स्फुरितत्वात् , एवं स्फुरितनिवृत्तेर्नेदं रजतमित्यनुवाद इत्यर्थः ।
अर्थान्तरज्ञानेनार्थान्तरस्य नान्तरीयकप्रतिभासे दृष्टान्तमाह -
अत एवाख्यातपदस्येति ।
वाक्यत्व इति ।
वाक्यार्थभूतक्रियाभिधायितया वाक्यत्व इत्यर्थः ।
तत्साधनमात्रेऽपि प्रतीतिसिद्धेरिति ।
व्रीहियवपश्वाज्यपयआदिसाधनेषु प्रतीति सिद्धेरित्यर्थः ।
तत्रापि प्रतीयमानसाधनानामनेन वा अनेन वा इति विकल्पेन क्रियान्वयप्रतिपत्तौ व्रीहिभिरित्यादिपदान्तराणि साधनविशेषनियमार्थानि सर्वसाधनानां नित्यवत् क्रियान्वयप्रतिपत्तौ एकसाधनानुवादमुखेनान्यनिवृत्त्यर्थानि भवन्तीत्याह -
पदान्तराणि नियमायानुवादाय वेति ।
उदाहरणान्तरमाह -
तथा चाहुः - यजतीति ।
द्रव्यदेवता क्रियासमुदायमभिदधाति यजति चोदना, तद्विषयत्वे सति निराकाङ्क्षत्वादित्यर्थः ।
क्रियावाचिपदं द्रव्यादिकमभिदधातीत्युक्तत्वात् न नान्तरीयकतया द्रव्यादिकं न साधयतीति तत्राह -
कथं हीति ।
अयमेव प्रकार इति ।
निरासविशिष्टशुक्तिविषयतया न निरासबोधकत्वम् , शुक्तिबोधननान्तरीयकतयैव निरासबोधकत्वमित्यर्थः ।
असम्प्रयुक्तविषयत्वादिति ।
प्रत्यक्षत्वमभावस्येति वदतामपि प्रत्यक्षप्रतियोगिकाभावस्य प्रत्यक्षत्वमित्यभ्युपगमात् शुक्तिकेयमिति प्रत्यक्षविषयतया अप्रत्यक्षरूप्यनिराससिद्धिर्न सम्भवतीत्यर्थः ।
अनर्थहेतुप्रहाणस्य ब्रह्मविद्याफलत्वात् वेदान्तारम्भफलत्वेन चतुर्थ्या कथं निर्देश इत्याशङ्क्य न साक्षात् फलत्वविवक्षया चतुर्थीप्रयोग इत्याह –
चतुर्थीप्रयोगोऽपीति ।
उपादानं वेदान्तारम्भ इत्यर्थः ।
अनर्थहेतुनिरासस्य साध्यातिशयत्वेऽपि प्रयोजनतया न प्रवर्तकत्वम् , प्रयोजनत्वं विज्ञानस्य भवतु न वाक्यस्येति तत्राह -
प्रयोजनत्वं चेति ।
आकाङ्क्षाया इति ।
आकाङ्क्ष्यत इत्याकाङ्क्षा, आकाङ्क्ष्यमाणस्यैव व्यवहितत्वेऽपि वेदान्तारम्भं प्रति प्रयोजनत्वमस्तीत्यर्थः ।
विद्याप्रतिपत्तय इति प्राप्तिवाचिप्रतिपत्तिशब्दमाक्षिपति -
न हि विद्येति ।
तटस्थेति ।
भिन्नदेशे सत्वं न लक्षत इत्यर्थः ।
स्वरूपतः प्राक् अथ, फलशिरस्कवेषेण च ज्ञातुरुत्पत्त्यैव प्राप्तैवेत्याह -
सा हीति ।
विद्याया विषयेण सह अपरोक्षावभासत्वं प्राप्तिरित्युच्यते । तत् स्थूलघटादावुत्पत्त्यैव भवति, सूक्ष्मब्रह्मात्मनि तु न सम्भवतीत्याह –
सत्यमेवमिति ।
अत्र विद्येति विचारितशक्तितात्पर्योपहितात् शब्दात् उत्पन्नोच्यते ।
प्रतिष्ठामिति ।
विषयेण सह अपरोक्षमित्यर्थः ।
असम्भावनेति ।
चित्तस्य ब्रह्मात्मपरिभावनाप्रचयनिमित्ततदेकाग्रवृत्त्ययोग्यतोच्यते ।
विपरीतभावनेति ।
शरीराद्यध्याससंस्कारप्रचयः ।
अपरोक्षज्ञानकारणजन्यज्ञाने सत्यपि असम्भावनादिचित्तदोषात् अपरोक्षनिश्चयाभावे दृष्टान्तमाह -
तथा च लोक इति ।
इदं वस्तु इत्यादिमरीचफलादिरुच्यते ।
कथञ्चिदिति ।
नौयानादिनेत्यर्थः ।
दैववशादिति ।
नदीवेगादिनेत्यर्थः ।
नाध्यवस्यतीति ।
असम्भाविमरीचफलत्वादिविशेषांशं नाध्यवस्यतीत्यर्थः । तत् स्वप्रतिष्ठायै तस्य ज्ञानस्य स्वविषयेण सहापरोक्षाय इत्यर्थः । प्रमाणशक्तिविषयतदित्यत्र तदिति तत्त्वमुच्यते । प्रमाणादितत्त्वे सम्भवासम्भवप्रत्ययः तर्को न नियामक इत्यर्थः ।
तथा अनुभवफलानुत्पत्ताविति ।
असम्भावनाभिभूतविषये आपरोक्ष्यफलानुत्पत्तावित्यर्थः ।
अनात्मनि सम्भवेऽप्यात्मनि स्वयम्प्रकाशे असम्भावनादिरूपप्रतिबन्धो न सम्भवतीति तत्राह -
तथा च तत्त्वमसीति ।
असम्भावयन्निति ।
चित्तस्य ब्रह्मात्मपरिभावनासंस्कारनिमित्तैकाग्र्यवृत्त्ययोग्यतया आपरोक्ष्याभावं मन्यमान इत्यर्थः ।
विपरीतं च रूपमिति ।
शरीराद्यभिमानसंस्कारप्रचयनिमित्तानेकाग्रतादोषेण परोक्षमिति मन्यमान इत्यर्थः । यावत्तर्केण इत्यत्र तर्कशब्देन कर्मागमादिमनननिदिध्यासनशमादयो वेदान्तेषु शब्दसहकारित्वेन निर्दिष्टा इत्यर्थः ।
अविकलमनुवर्तमानत्वादिति ।
व्यतिरेकज्ञानादूर्ध्वमिव ब्रह्मात्मज्ञानादूर्ध्वमपि अनुवर्तमानत्वात् अनुवर्तकत्वं तुल्यमित्यर्थः ।
अज्ञाननिवर्तकत्वमपि ब्रह्मज्ञानस्य व्यतिरेकज्ञानवन्न सिध्यतीति तत्राह -
न हि जीवस्येति ।
ब्रह्मात्मज्ञानेन समानविषयत्वात् निवर्तकमिति भावः । ऐश्वर्याय पश्वाद्यर्थमभ्युदयाय स्वर्गाद्यर्थम् , कर्मसमृद्धय इति कर्मफलातिरिक्तफलशून्यतया कर्मफलसमृद्ध्यर्थानि अङ्गाश्रितोपासनानीत्यर्थः ।
निष्प्रपञ्चब्रह्मप्रतिपत्त्युपायतया तदङ्गभूतसप्रपञ्चब्रह्मविषयत्वात् उपासनावाक्यस्य परमाङ्गिनिष्प्रपञ्चब्रह्मशेषत्वमस्तीत्याह -
सत्यम् , उपासनाकर्मत्विति ।
निष्प्रपञ्चब्रह्म प्रति कथं सप्रपञ्चस्याङ्गत्वमिति आशङ्क्य अध्यारोपापवादन्यायेनोपयोगात् अङ्गत्वमित्याह –
तच्चापाकृतेति ।
निरासार्थमुपदिष्टसप्रपञ्चरूपमाश्रित्य कथमुपासनं विधीयत इत्याशङ्क्य फलविशेषसिद्धेः तदर्थिनं मन्दाधिकारिणं प्रति विधानमित्याह -
अस्यां चेति ।
उपधीयमानं उपाधिनाश्रियमाणं गम्यमानं व्याप्तमित्यर्थः ।
अन्याङ्गस्योपासितस्य कथं पृथक्फलहेतुत्वमिति तत्राह –
दर्शपूर्णमासेति ।
अतो वेदान्तानां महातात्पर्यं परब्रह्मण्येव इत्युपसंहरति -
तस्मात्तदर्थोपजीवित्वादिति ।
मुक्तिफलान्येव इति ।
परम्परया ब्रह्मात्मैकत्वावगति हेतुतया मुक्तिफलान्येवेत्यर्थः ।
ब्रह्मात्मैकत्वबन्धनिवृत्त्योः वेदान्तं प्रति विषयप्रयोजनत्वमस्तु विचारशास्त्रस्य विषयादि न लभ्यत इत्याशङ्क्य तस्यापि त एव विषयप्रयोजने इति मत्वा आह -
यथा चायमिति ।
भाष्यस्य तात्पर्यमाह -
प्रतिज्ञातेऽर्थ इति ।
प्रथमसूत्रेणार्थात् सूत्रिते ब्रह्मात्मैकत्व इत्यर्थः ।
उपदर्शयितुमिति ।
उपदर्शयितुं समर्थन्यायो ग्रथित इति दर्शयतीत्यर्थः ।
कृतो ग्रन्थ इति
वेदान्ता उच्यन्ते ।
वेदान्तान्तं शरीरकत्वेऽपि विचारशास्त्रस्य कथं शारीरकत्वमिति तदाह –
तदिहेति ।
प्रणीतानामिति ।
सूत्राणामित्यर्थः । विचारकर्तव्यतामात्रं सूत्रार्थः ।
तत्र विषयप्रयोजनयोरसूत्रितयोः वेदान्ततद्विचारसम्बन्धितया उपपादनमयुक्तमित्याशङ्क्य सूत्रितत्वं दर्शयति -
मुमुक्षत्वे सत्यनन्तरमिति ।
यत्र प्रवृत्तिरिति ।
यस्मिन् धात्वर्थे हितसाधनता लिङादिपदैरुपदिश्यत इत्यर्थः ।
यत्र प्रवृत्तिरिति ।
प्रवृत्तिविषयहितसाधनतोच्यते ।
तस्येति ।
धात्वर्थस्येत्यर्थः । तत्साधनत्वं कामितसाधनत्वमित्यर्थः ।
कथं विषयादिसूत्रितमिति तदाह -
तथा सतीति ।
ब्रह्मज्ञानं विषयो निर्दिष्ट इति ज्ञायमानं ब्रह्म ज्ञानहेतुशास्त्रं प्रति विषयत्वेन निर्दिष्टमित्यर्थः ।
वृत्तं सङ्कीर्तयति -
तदेवमित्यादिना ।
प्रतिज्ञातार्थसिद्धय इति ।
वेदान्तानां बन्धनिवृत्तिः ब्रह्मात्मैक्यं च विषयप्रयोजन इति प्रतिज्ञातार्थसिद्धय इत्यर्थः ।
व्याख्येयत्वमुपक्षिप्य इति ।
शास्त्रे प्रदर्शयिष्याम इत्युक्त्या शास्त्रस्यापि वेदान्तविषयादिना विषयादिमत्वद्योतनेन विषयादिमत्वादेव व्याख्येयत्वमुपक्षिप्येत्यर्थः ।
वेदान्तमीमांसेत्यादिभाष्यस्य तात्पर्यमाह -
प्रथमं तावदिति ।
प्रथमसूत्रेणोपपादन इत्यर्थः । महिमेति महातात्पर्यमुच्यते ।
तत्राद्यशब्दइत्यादिपदव्याख्यानभाष्यस्य वृत्तसङ्कीर्तनपू्र्वकं तात्पर्यमाह -
एवं सूत्रस्येति ।
तत्सामर्थ्यावगतं सूत्रसामर्थ्यावगतमित्यर्थः । || इति प्रथमवर्णककाशिका ||