अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

१ परिच्छेदः

स्वव्यापाराविष्टमिति ।
इन्द्रि­य­प्र­भा­व्या­प्त­त­याऽ­भि­भू­त­त­मो­गुणं बुद्धि­प्र­भा­व्या­प्त­त­याऽ­भि­भू­त­र­जस्कं केवलसत्वरूपेण चैत­न्या­भि­व्य­ञ्ज­क­त्व­योग्यं भवतीत्यर्थः ।

विषये चैत­न्या­भि­व्य­क्ति­सि­ध्यर्थं तदधिष्ठानतया विषये चैत­न्य­म­स्ती­त्याह ।
चैत­न्य­वि­व­र्त­त्वा­दिति ।

भवतु विषये चैत­न्य­म­भि­व्य­क्तम् , तस्य चाह­ङ्का­रा­व­च्छि­न्न­चै­त­न्य­मि­त्य­ह­ङ्का­रा­व­च्छि­न्न­चै­त­न्येन सिद्ध­त्व­व्य­प­देशो न स्यादि­त्या­शङ्क्य विषयसाधकत्वेन विषये अभि­व्य­क्त­चै­त­न्य­स्या­ह­ङ्का­र­त­द्वृ­त्त्य­भि­व्य­क्त­चै­त­न्यस्य चैकतया अभिव्यक्तिरस्ति । व्यञ्ज­को­पा­धी­ना­म­न्यो­न्य­वि­शि­ष्ट­तया उपाधित्वात् । अतो मयावगतमिति व्यप­दे­शो­प­प­त्ति­रि­त्याह –
प्रधा­न­क्रि­या­हि­तेति ।

अव­स्था­वि­शे­षा­व­च्छि­न्नेति ।
अव­स्था­वि­शे­ष­मा­प­न्ना­ह­ङ्का­रा­व­च्छि­न्ने­त्यर्थः ।

एकरूपामिति ।
एकामित्यर्थः ।

चैत­न्य­स्या­ह­ङ्का­र­त­द्वृ­त्ति­ता­द्वि­ष­येषु अभि­व्य­क्त­स्यै­क­त्वेऽपि वृत्ति­क­र्त्र­ह­ङ्का­रा­व­च्छि­न्नोऽ­नु­भवः प्रमाता, वृत्त्य­व­च्छि­न्न­चै­तन्यं विषयानुभवः, वृत्ति­वि­ष­य­घ­टा­व­च्छि­न्न­चै­तन्यं फलमिति विभागमाह –
ततश्चात्मनेति ।

अवस्थाविशेष इति ।
प्रमा­ण­क्रि­या­क­र्तृ­रूप इत्यर्थः । उपाधिजनितो विशेषः । प्रमातेति वाक्यशेषः ।

विष­या­नु­भ­व­सं­श­ब्दित इति ।
वृत्त्य­व­च्छिन्नो विष­या­नु­भ­व­सं­श­ब्दित इत्यर्थः ।

बुद्धि­वृ­त्ते­र­ह­ङ्का­रा­श्र­यत्वं घटविषयत्वं चास्ति । एकतया व्यक्त­चै­त­न्या­ख्य­फ­लस्य बिम्ब­भू­ता­ख­ण्ड­चै­त­न्य­रू­पा­त्मा­श्र­य­त्व­म­व­च्छे­द­का­ह­ङ्का­र­वि­ष­यत्वं चास्ति । अतः क्रियाफलयोः एका­श्र­य­त्वै­क­वि­ष­य­त्व­नि­य­मा­सि­द्धि­रि­त्या­शङ्क्य फला­श्र­या­त्म­चै­त­न्यस्य क्रिया­श्र­या­ह­ङ्का­रै­क्या­ध्या­सात् एकाश्रयत्वं फलाख्यचैतन्यस्य क्रिया­वि­ष­य­घ­टा­व­च्छे­दा­दे­क­वि­ष­यत्वं चास्तीत्याह -
इति क्रियै­क­वि­ष­य­ता­फ­ल­स्येति ।
विष­ये­त्या­श्र­य­स्या­प्यु­प­ल­क्ष­णम् ।

बुद्धिस्थमर्थं पुरुषश्चेतयत इति साङ्ख्य­व­च­न­वि­रो­धात् आत्मा स्वचै­त­न्यो­प­रक्तं चेतयतीत्युक्त­म­यु­क्त­मिति - तत्राह
एवंचाहङ्कर्तेति ।
प्रथमं बुद्धि­व्या­प्त­मर्थं तत्रा­भि­व्य­क्त­चि­द्रूप आत्मा स्वचै­त­न्यो­प­र­क्त­त्वात् पश्चाच्चेतयत इत्ये­त­द­भि­प्रेत्य साङ्ख्यवचनमिति भावः ।

प्रदी­पो­त्पा­द­कस्य पुंसः तेन प्रदीपेन सर्वो विषयः प्रकाशते, तद्वद्विषयस्य चैतन्येनैकस्य द्रष्टुः सर्वो विषयः प्रकाशेत इत्याशङ्क्य विषयान्तरे बुद्धि­व्या­प्त्य­भा­वा­देव तत्रा­न­भि­व्य­क्त­त्वात् अप्रकाशः बुद्धि­व्या­प्त­तया अभि­व्य­ञ्ज­क­वि­ष­य­वि­शे­ष­स्यैव प्रकाश इत्याह -
तत्र च प्रमातुरिति ।

सर्वान् प्रतीति ।
सर्वविषयान् प्रतीत्यर्थः ।

येन सहेति ।
येन कर्मकारकेण सहेत्यर्थः ।

चैतन्यस्य विषये अभिव्यक्तत्वात् इत­रा­ह­ङ्का­रा­व­च्छि­न्न­चै­त­न्या­भे­दे­ना­न­भि­व्य­क्त­त्वात् एकस्यैव प्रमातुः प्रकाशेतेत्याह –
कर्मकारकमपीति ।

येन सहेति ।
येन प्रमात्रा सहेत्यर्थः ।

अहमिति प्रती­य­मा­ना­ह­ङ्का­रा­व­च्छि­न्न­चै­त­न्यै­क्यात् विष­या­भि­न्न­चै­त­न्यस्य अह­मि­त्य­व­भा­स­मा­न­ज्ञा­नस्य ज्ञेयेनाभेदं वदतो विज्ञानवादिनां मतमायातमिति चोदयति -
ननु नीलादिविषयोऽपि चेदिति ।

परि­च्छि­न्न­क्ष­णि­क­स­क­र्म­क­बु­द्धि­ज्ञा­नस्य तस्मात् भेदे­ना­र्थ­क्रि­या­सा­म­र्थ्य­स­त्व­शू­न्य­क्ष­णि­क­वि­ष­येण वास्त­व­ता­दात्म्यं माहा­या­नि­कै­र­ङ्ग्य­कारि । तद्विरुद्धत्वेन नित्या­प­रि­च्छि­न्न­चै­त­न्य­रू­प­सं­वे­द­नस्य ततो भेदे­ना­र्थ­क्रि­या­स­म­र्थ­स्था­यि­प्र­प­ञ्चेन ऐक्या­भा­सोऽ­स्मा­भि­र­ङ्गी­क्रि­यते । अतः एवं­वि­ध­चै­त­न्य­स्यै­वं­वि­ध­प्र­प­ञ्चे­नै­क्या­भा­सोक्त्या न माहा­या­नि­क­प­क्ष­प्र­सङ्ग इति मत्वा चैतन्यस्य व्यापिनित्यत्वं पर­स्प­र­व्या­वृ­त्ता­नि­त्य­वि­ष­ये­णा­का­श­घ­ट­यो­रिव वास्त­वै­क्य­ता­दा­त्म्या­भावं चाह -
मैवम् , परस्परेत्यादिना ।

विच्छे­दा­व­भा­सेऽ­पीति ।
नीलापरोक्षं पीतापरोक्षमिति औपा­धि­क­भे­दा­व­भा­से­पी­त्यर्थः ।

न तत्स्वभावतेति ।
नीलादिस्वभावो न भवतीत्यर्थः ।

अहमिति प्रत्य­ग्रू­पे­णा­व­भा­स­मानं ज्ञानं पराग्रूपं नीलाद् व्यावृत्ततया परोक्षमिति बौद्धै­र­भ्यु­प­ग­मात् गन्तृ­ग­न्त­व्य­यो­रिव विषयसंविद्भेदः प्रत्यक्ष इत्याह -
किञ्च तैरपीति ।
नीला­त्म­क­सं­वि­दिति नीलमुच्यते ।

प्रत्यगवभास इति
अहमिति संवेदनमुच्यते ।

अन्य एवे­त्यु­क्तेऽ­ह­ङ्का­रात् अन्यचैतन्यवत् किमहन्तया नीलस्यावभासं सहत् इति नेत्याह -
पराग्व्यावृत्त इति ।

प्रत्य­ग­व­भा­स­स्व­रू­प­मा­त्र­प­र्यवसितम् इत्युक्ते किं तदिति धर्म्या­का­ङ्क्षा­या­माह -
विकल्प इति ।
ज्ञानमित्यर्थः ।

प्रत्य­ग्व्या­वृत्त इत्यु­क्तेऽ­ह­ङ्का­र­स्यैव नील­सं­वि­च्छ­ब्दि­त­नी­ल­स्यापि किमहमिति प्रतीतिः स्यात् इत्याशङ्क्य गन्त­व्य­स्ये­वे­द­न्त­या­व­भास इत्याह -
इदन्तया ग्राह्यरूपेति ।
अतो बौद्धैरपि ज्ञानज्ञेययोः भेदस्य प्रत्य­क्ष­त्वा­ङ्गी­का­रात् तयो­रै­क्यो­क्ता­वपि न मे बौद्धमतप्रसङ्ग इत्यभिप्रायः ।

वस्तुद्वयमिति ।
ज्ञानज्ञेययोः स्वरूपभेदेन भिन्नत्वमुच्यते ।

अत्यन्तभेदमाह –
इत­रे­त­र­व्या­वृ­त्त­मिति ।

एक­जा­ती­य­त्वा­भा­व­माह –
ग्राह्य­ग्रा­ह­क­रू­प­मिति ।

संविदा नीलसिद्ध्यर्थं संवि­न्नी­ल­यो­र­भेदो वक्तव्य इति विज्ञानवादी चोदयति -
नैतद्वयोरपीति ।

स्वरूपमात्रनिष्ठयोरिति ।
अन्योन्यस्मिन् अननुप्रविष्टायः शला­का­क­ल्प­यो­रि­त्यर्थः ।

इदमहं जानामीति ज्ञातृ­ज्ञा­न­ज्ञे­य­रू­पेण भिन्नपदार्थानां संसर्गावभासात् भेदोऽस्तीत्याह सिद्धान्ती -
कथं पुनरिदं जानामीति ।

ग्राह्य­ग्रा­ह­क­तावभास इति ।
ज्ञानादन्योन्यं च कथं व्यावृत्तरूपावभास इत्यर्थः ।

इदमित्याकारस्य अहमित्याकारस्य च न ज्ञाना­ति­रि­क्त­तया ज्ञान­सं­स­र्ग­व­द­व­भा­सि­त्वम् । किन्तु तावप्यसंसृष्टौ क्रम­भा­वि­ज्ञा­न­रू­पा­वि­त्याह विज्ञानवादी -
नायं तदवभास इति ।

त्वत्पक्षे क्रम­व­र्त्ति­त्वात् स्वसं­वे­द्य­त्वाच्च अन्यो­न्या­वि­ष­य­त्वात् इद­मि­त्या­दि­त्र­येषु कथं युगपत् सम्ब­न्धा­व­भा­स­स­म्भव इत्याह सिद्धान्ती -
कथं पुनस्तेष्विति ।

इदमहं जानामीति ज्ञान­ज्ञा­तृ­ज्ञे­य­रू­पेण भिन्न­प­दा­र्थ­स­म्ब­न्धा­व­भासि न भवति, इदमिति, अहमिति, जानामीति च ज्ञानत्रयजन्यं विशिष्टमेकं ज्ञानमित्याह विज्ञानवादी -
तद्वासनेति ।
अह­मि­त्य­ह­ङ्क­ल्प­ना­युक्तं यत् ज्ञानं भवति इदमिति विष­य­वि­क­ल्प­ना­युक्तं च यत् ज्ञानं भवति, ते एव विज्ञाने वासनेत्यर्थः ।

सम­न­न्त­र­प्र­त्य­येति ।
अहमिदमिति ज्ञानद्वयस्य वासनासहितं जानामीति क्रिया­क­ल्प­ना­युक्तं यज्ज्ञानं तदुच्यत इत्यर्थः ।

सङ्कलनात्मकमिति ।
ज्ञान­त्र­या­का­रै­र्ल­ब्धा­का­रा­श्र­या­त्म­क­मि­त्यर्थः ।

न सम्बन्धावगम इति ।
ज्ञानस्य ज्ञाना­ति­रि­क्ते­द­म­ह­मि­त्या­का­रयोः यश्च सम्बन्धावगमोऽयं न भवतीत्यर्थः ।

आह सिद्धान्ती -
किं पुनरेवमिति ।
अह­मि­त्या­दि­ज्ञा­न­त्रये जाते तदनन्तरमहमिदं जानामीति विशिष्टज्ञानं जायत इति नानुभूयते, किन्तु प्रथमत एवाहमिदं जानामीति ज्ञान­त­द्व्य­ति­रि­क्त­ग्रा­ह्य­ग्रा­ह­काणां संस­र्गा­व­भा­स­द­र्श­नात् ज्ञानादतिरिक्तं नीलवस्तु अभ्युपेयमिति भावः ।

प्रथमं बुभुत्सां कृत्वा पश्चात् कारकसंवेदनं कृत्वा क्रियां सम्पाद्य क्रियाद्वारेण सम्ब­न्धा­र्था­व­भा­सित्वं क्षणि­क­ज्ञा­न­स्या­नु­प­प­न्नम् , तस्मात् क्षणिकज्ञानस्य नीला­भे­दे­ना­व­भा­सित्वं वक्तव्यम् , अन्यथाविज्ञाने नीलस्य प्रति­भा­सा­नु­प­प­त्ते­रिति विज्ञानवादी आह -
क्षणविध्वंसिन इति ।

प्रत्यक्षेण क्षणि­क­त्व­सि­द्धि­श्चेन्न तावत् प्रत्य­क्षे­णा­ह­मिति संविदः क्षणि­क­त्व­सि­द्धि­रि­त्याह –
यद्येवमिति ।

क्षण­भे­दो­पा­धि­क­भे­द­वि­षयो भेदप्रतिभासः, सैवेयं संविदिति प्रत्य­भि­ज्ञा­नि­रू­पा­धि­कै­क्य­वि­ष­येति निरूप्य भेदो न विद्यत इत्य­भि­धी­य­ता­मि­त्याह -
स किं विद्यत इति ।

न भेदोऽवभासत इति ।
भासमानोऽपि भेदो न स्पष्टोऽवभासत इत्यर्थः ।

संविदोऽपि चेत् स्वरूपं नावभासत इति ।
संविदः स्वातिरिक्त भेदासम्भवात् स्वरूपभूतोऽपि भेदो नावभासते चेत् संवि­दोऽ­प्य­न­व­भा­सात् आन्ध्यं स्यादित्यर्थः ।

तद्रूपप्रतिभास इति ।
ऐक्या­र्थ­क­प्र­त्य­भि­ज्ञायां सत्यामित्यर्थः ।

निष्प्रमाणिका चेति ।
भिन्न­यो­रै­क्य­भ्रमः, सादृश्यकल्पकः । तदधीना च सादृ­श्य­क­ल्प­ने­त्यर्थः ।

तद्रूपप्रतीतेः व्यामोहत्वादिति ।
ऐक्य­सा­ध­क­प्र­त्य­भि­ज्ञायाः भ्रान्ति­त्वा­दि­त्यर्थः ।

ऐक्यभ्रमस्य सादृ­श्या­ख्य­का­र­णा­भा­वेऽ­स­म्भ­वात् , स्वहे­तु­सा­दृ­श्य­क­ल्प­क­त्वात् नाप्रमाणकत्वं सादृश्यकल्पनाया इत्याह –
निर्बी­ज­भ्रा­न्त्य­यो­गा­दिति ।

सिद्धे व्यामोह इति ।
ऐक्यज्ञानस्य भ्रमत्वे सिद्धे सतीत्यर्थः ।

प्रमा­ण­स­द्भा­वा­च्चेति ।
ऐक्यभ्रमस्य कल्प­क­स­द्भा­वा­च्चे­त्यर्थः ।

व्यामो­ह­सि­द्धि­रिति ।
ऐक्यज्ञानस्य भ्रम­त्व­सि­द्धि­रि­त्यर्थः । अत्रै­क्य­ज्ञा­नस्य प्रामा­ण्य­सि­द्धा­वपि तुल्य­मि­त­रे­त­रा­श्र­य­व­त्व­मि­त्यर्थः ।

स्वारसिकं हि प्रामाण्यं प्रतीतेरिति ।
ऐक्यप्रतीतेः स्वत एव प्रामा­ण्य­म­न­पे­क्षम् , न सादृ­श्या­भा­वा­पे­क्ष­मि­त्यर्थः ।

ऐक्यज्ञानस्य भ्रम­त्व­सि­द्ध्य­धी­नासौ सादृश्यसिद्धिः, न तु स्वत इत्याह -
न तु सादृश्यकल्पना स्वतः सिद्धा इति ।
गोसदृशो गवय इत्यत्र सादृश्यस्य गोगवययोः ऐक्य­भ्र­म­क­ल्प­क­त्वा­भा­वेऽपि एक­दे­श­स्थ­त्वे­ना­भे­द­बु­द्धि­गृ­ही­तयोः सादृ­श्य­मै­क्य­भ्र­म­क­ल्पकं ज्वाला­मा­ला­या­मि­वेति भावः ।

तर्हि अनुमानात् क्षणिकत्वं साधयाम इत्यभिप्रेत्य घटादौ तावत् साधयति -
अथ अन्ते क्षयदर्शनादिति ।
विनाशक्षणात् पूर्वक्षणवर्ति घटसत्वमन्त इत्युच्यते । तस्य स्वान­न्त­रो­त्त­र­क्षणे सत्वादेव विना­श­द­र्श­ना­दि­त्यर्थः ।

आदौ क्षयानुमानमिति ।
अन्त्य­क्ष­णा­न­व­च्छि­न्न­घ­ट­स­त्वा­न्या­दि­रि­त्यु­च्यते । तान्यपि स्वस­त्त्वा­क्ष­णा­दु­त्त­र­क्षणे विनाशव्याप्तानि सत्वा­द­न्त्य­क्ष­णा­व­च्छि­न्न­स­त्व­व­द्व­दि­त्य­नु­मा­न­मि­त्यर्थः ।

भिन्नत्वात् सादृश्यकल्पनेति ।
भिन्नेषु एक्यज्ञानात् सादृ­श्य­क­ल्प­ने­त्यर्थः ।

घट­स­त्ता­व­च्छे­द­क­क्षणाः आदि­रि­त्यु­च्यन्ते । अन्त इति विना­शा­ख्या­स­त्त्वा­व­च्छे­द­क­क्षणा उच्यन्ते । तेऽपि घटसत्तया व्याप्ताः कालत्वात् सत्त्वा­व­च्छे­द­क­का­ल­वत् इति प्रत्यनुमानमाह -
आदौ सत्तादर्शनादिति ।

क्षयानुभव इति ।
अभावानुभव इत्यर्थः ।

तद्रू­प­स­त्वा­द­नु­भ­व­वि­रोध इति ।
अन्त्यक्षणात् पूर्व­क्ष­णा­व­च्छि­न्न­घ­ट­स­त्त्वा­ना­म­न­न्त­र­क्ष­या­नु­मा­न­मपि प्रत्य­भि­ज्ञा­वि­रु­द्ध­मि­त्यर्थः । न हि उभयोः कश्चिद्विशेष इत्यस्यायमर्थः - काल­द्व­य­ल­क्ष­णो­प­ल­क्ष­ण­प्र­ति­प­त्ति­पू­र्वकं तृतीयक्षणे प्रत्यभिज्ञया सदै­क्या­ख्य­प्र­मे­य­प्र­ति­पत्तिः धर्मि­प्र­ति­यो­गि­ग्र­ह­णा­न­न्तरं तृतीयक्षणे अभावप्रमितिः । अतः तृतीयक्षणे प्रमे­य­प्र­ति­पत्तिः उभयोस्तुल्येति ।

सर्वे क्षणिकाः अर्थ­क्रि­या­का­रि­त्वात् , यदक्षणिकं न तदर्थक्रियाकारि यथा शशविषाणं इत्यनुमानान्तरं दर्शयितुं स्थायि­नोऽ­र्थ­क्रि­या­नु­प­प­त्ति­माह -
अथ मन्येतेत्यादिना ।

कर्तृ­त्वा­क­र्तृत्वे विरुद्धे, तत्र कर्तृत्वे सति कस्मा­द­स्था­यि­त्व­मि­त्या­श­ङ्क्याह –
स्थायि­नोऽ­र्थ­क्रि­याऽ­यो­गा­दिति ।

कथमयोग इति ।
स्थायिन एव निमि­त्त­स­म्ब­न्धात् अन्यथाभूतस्य क्रियापूर्वकं कार्य­नि­ष्पा­द­न­सा­म­र्थ्य­स­म्भ­वा­दिति भावः ।

क्रमेण वेति ।
अनेकानि कार्याणि सातत्येन कुर्यादित्यर्थः ।

यौगपद्येन वेति ।
एकं वा अनेकं वा स्वनिष्पाद्यं कार्यं सकृदेव कृत्वा उपरमेतेत्यर्थः ।

तस्य विशेषाभाव इति ।
कुर्व­द­कु­र्व­द­व­स्थयोः कारणस्य सामर्थ्यमस्ति चेद­कु­र्व­द­व­स्था­या­मपि कुर्यात् सामर्थ्यं नास्ति चेत् कुर्व­द­व­स्था­या­मपि न कुर्यात् । तदा सामर्थ्यं जायत इति चेत् तर्हि साम­र्थ्यो­त्पा­द­न­सा­मर्थ्यं पूर्वमस्ति चेत् पूर्वमेव सामर्थ्यं जनयेत् । नास्ति चेत् पश्चादपि न सामर्थ्यं जनयेदित्यर्थः ।

तद्बुद्धिरिति ।
तत्त्वेन बुद्धिः प्रत्य­भि­ज्ञा­बु­द्धि­रि­त्यर्थः ।

सकृदेव कार्यं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्वं न विरुध्यते । सत्व­स्या­र्थ­क्रि­या­का­रि­त्व­ल­क्ष­ण­त्वा­भा­वा­दि­त्याह सिद्धान्ती -
अथ केयमित्यादिना ।

जननमिति ।
कर्मतया जनकत्वमित्यर्थः ।

बाह्यार्थानां स्वविषयज्ञानजनकत्वसम्भवेऽपि विज्ञानानां न सम्भवतीत्याह -
प्राप्तं तर्हीति ।

न सन्ता­ना­न्त­रेऽ­पीति ।
जीवा­न्त­र­स­न्ता­नेऽपि स्ववि­ष­य­प्र­त्य­क्ष­ज्ञानं न जनयतीत्यर्थः ।

स्ववि­ष­या­नु­मा­न­मपि न जनयति, अनुमानस्य अर्थ­ज­न्य­त्वा­भा­वा­दि­त्याह –
अनुमानेऽपीति ।

संस्का­र­क­ल्पि­त­रू­पेण स्वविषयं ज्ञानं सर्व­ज्ञ­स­न्त­ता­वपि न जनयति । सर्वज्ञज्ञानस्य विषयाभेदेन, संसा­रि­त्व­प्र­स­ङ्गा­दि­त्याह –
सार्वज्ञेऽपीति ।

साक्षादिति ।
कल्पि­त­रू­पे­णे­त्यर्थः ।

अतद्रूपत्व इति ।
संसारसंविदां संसा­र­वि­धु­र­शु­द्ध­वे­षेण सर्व­ज्ञ­ज्ञा­न­ज­न­क­त्वात् जन­क­शु­द्धा­का­रे­णा­भे­दात् सर्वज्ञज्ञानस्य असंसाररूपत्व इत्यर्थः ।

तद्वि­ष­य­त्वा­यो­गा­दिति ।
शुद्धत्वेन समत्वादिति भावः ।

क्षणान्तरोत्पाद इति ।
स्वसन्ताने क्षणान्तरोत्पाद इत्यर्थः ।

चरमक्षणस्येति ।
सर्वङ्क्षणिकं स्वलक्षणं स्वयमेव स्वस्य लक्षणम् , स्वातिरिक्तेन सङ्गि न भवतीत्यर्थः ।

दुःखं शून्यमिति ।
चतु­र्वि­ध­भा­व­ना­प्र­क­र्ष­यु­त­त्वात् पूर्व­ज्ञा­ना­दु­त्प­द्य­मानं विशुद्धविज्ञानं सन्ता­न­स्या­व­सा­न­रूपं चरमक्षण इत्युच्यते । तस्य स्वसन्ताने क्षणा­न्त­रा­नु­त्पा­द­क­त्वात् असत्वमित्यर्थः ।

चरमक्षणमपि सार्वज्ञज्ञानं विषयतया जन­य­ती­त्य­र्थ­क्रि­या­व­त्व­मिति, नेत्याह -
न च सार्वज्ञेति ।

चरमत्वानुपपत्तेरिति ।
एकसन्तानोऽपि कार्ये कार­ण­स्या­न्व­या­न­ङ्गी­का­रात् तुल्यस्वभावयोः कार्यकारणभाव एव एकसन्तानतेति वक्तव्यम् । तथा सति चरमक्षणस्यापि सार्वज्ञेन ज्ञानेन एकसन्तानतया चर­म­त्वा­नु­प­पत्तेः । चर­म­क्ष­णो­द­या­ख्य­मु­क्त्य­भा­व­प्र­स­ङ्गा­दि­त्यर्थः ।

सर्वज्ञज्ञानं प्रति विषयतया जनकत्वेन तत्स­न्ता­नै­क्य­मेव मुक्तिरिति तत्राह -
न च संवित् संविदो विषय इति ।

संविदात्मना भेदाभावादिति ।
चरमसंविदः सर्वज्ञसंविदा समानत्वात् संविदात्मना ऐक्यात् , संविदात्मना भेदा­भा­वा­दि­त्यर्थः ।

अथ क्रिया­का­र­ण­स­त्व­हेतुः कार­ण­स­त्व­प्र­ती­ति­हे­तुर्वा इति विकल्प्य दूषयति -
किञ्चेति ।
स्वकारणनिष्पन्नत्वात् नार्थक्रियातो निष्पन्नत्वम् , प्रागेव निष्पन्नघटस्य स्वनि­ष्पा­द्या­र्थ­क्रि­या­ख्य­का­र्येण न निष्पा­द्य­त्व­मिति ।

स्वज्ञा­ना­र्थ­क्रि­याया इति ।
स्वका­र्य­रू­प­ज्ञा­ना­ख्या­र्थ­क्रि­यायाः स्वयं­सि­द्ध­त्वात् नान्यतः सत्व­प्र­ती­ति­र­र्थ­क्रि­याया इत्यर्थः ।

ज्ञाना­ख्या­र्थ­क्रि­यायाः स्वेन वेद्यत्वात् स्वस्य स्वयमेव बोध­क­रू­पे­णा­र्थ­क्रि­येति नेत्याह -
न हि स्वरूपमेवेति ।
अतोऽर्थक्रियातः सत्वाभावात् युगपत् सर्वं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्व­म­वि­रु­द्ध­मिति भावः ।

विशे­षा­भा­वा­दि­त्य­यु­क्त­मिति ।
शक्तकारणात् कार्यो­त्प­त्ति­स­मये सह­का­रि­स­म्प­त्ति­रू­प­वि­शे­ष­भा­वात् विशे­षा­भा­वोऽ­सिद्ध इत्यर्थः ।

अथ कारणस्येति ।
शक्तस्येत्यर्थः ।

अकारणस्यापीति ।
अश­क्त­स्या­पी­त्यर्थः ।

अकारणं कारणोत्पत्तय इति ।
असमर्थं समर्थोत्पत्तय इत्यर्थः । असमर्थमपि कार्योदयार्थं पूर्व­व­र्ति­सा­म­ग्री­रू­प­स्यो­त्प­त्तय इति वा अर्थः ।

अथ तत् कारणस्येति ।
तदिति सह­का­र्य­पे­क्ष­त्वे­ना­भि­म­त­व­स्तू­च्यत इति द्रष्टव्यम् ।

कारणस्य कारणम् अथाकारणमिति ।
सामर्थ्यं प्रति वा सामग्रीरूपं प्रति वा कारणम् अथा­का­र­ण­मि­त्यर्थः ।

हेतोः सति कार्य इति ।
कार्य­द­र्श­न­त्वा­दि­त्यर्थः ।

सत्येव हेताविति ।
अन्व­य­व्य­ति­रे­का­भ्या­मि­त्यर्थः ।

समेतसहकारिण्येव दर्शनादिति ।
सहकारिसहितहेतौ सत्येव कार्यस्य दर्शनादित्यर्थः ।

तद्विज्ञेयमिति ।
कार्यं विज्ञे­य­मि­त्यर्थः ।

क्व तर्हि सहकार्युपयोग इत्यपेक्षायां तत्र मता­न्त­र­मु­प­न्यस्य पूर्ववादिनं दूषयति -
यस्तु मन्यते सहकारिजनितविशेष इति ।
जला­दि­स­ह­का­रि­ज­नि­तो­च्छू­न­तादि विशेषयुक्तो हेतुरित्यर्थः ।

प्रधा­न­हे­तो­र­कि­ञ्चि­त्क­रत्वं स्यादित्याह -
तत्र केवला एवेति ।

ततश्चेति ।
विशेषादित्यर्थः ।

जनितविशेष इति ।
प्रथ­म­वि­शे­षा­ति­रि­क्त­वि­शे­ष­हीनः प्रथमविशेषमेव कथं कुर्यादित्यर्थः ।

विशेषस्य वा जनन इति ।
प्रथ­म­वि­शे­षा­ति­रि­क्त­वि­शे­षस्य जनन इत्यर्थः ।

न सर्वं कार्यं सह­का­रि­ज­नि­त­वि­शे­ष­यु­क्त­हे­तु­ज­न्यम् , किञ्चित् तथा­वि­ध­हे­तु­ज­न्यम् , किञ्चित्तु सह­का­रि­ज­नि­त­वि­शे­ष­ही­न­हे­तु­ज­न्य­मिति अव्य­व­स्था­म­न­व­स्था­प­रि­हा­राय आह -
अथ मतमिति ।

तावत्येवेति ।
उच्छू­न­ता­दि­वि­शेषे सत्येवेत्यर्थः ।

सन्नि­हि­त­स­ह­का­रीति ।
न तु सह­का­रि­ज­नि­त­वि­शे­ष­यु­क्त­हे­तु­ज­न्य­मिति भावः ।

यथा अक्षेपकारीति ।
विषयसंयोगे कृते पश्चात् स्वसं­यु­क्त­क­र्म­का­र­केण सहकारिणा जनितविशेषवत्वेन नोत्तरक्षणे ज्ञान­ज­न­क­त्व­मि­न्द्रि­य­स्ये­त्यर्थः ।

न हि तत्र हेतोरिति ।
प्रथमविशेषं प्रति हेतोः सह­का­रि­ज­नि­त­वि­शे­षा­न्त­रा­भा­वेऽपि सहकार्यपेक्षा विद्यत इत्यर्थः ।

क्षणिकवादी मतान्तरं दूषयति -
नानु­प­कु­र्व­न्निति ।

अतिप्रसङ्गादिति ।
सर्वस्य सह­का­रि­त्व­प्र­स­ङ्गा­दि­त्यर्थः ।

क्व तर्हि सहकार्युपकार इत्यपेक्षायामाह -
स्वरूपे त्विति ।
हेतावित्यर्थः ।

कार्य इति ।
कार्यं हि सहकारिणा जायमानमुपक्रियत इत्यर्थः ।

आह सिद्धान्ती
नित्योऽपीति ।

तदेव प्रपञ्चयति ।
यथैव क्षणिको भाव इति ।

साम­ग्री­सा­ध्य­त्वा­दिति ।
बहु­का­र­क­व्या­पा­र­सा­ध्य­त्वा­दि­त्यर्थः ।

कार्यमेव सहकारिणमपेक्षते न कारणमिति शङ्कते -
अथ मतं क्षणिक इति ।
जन्यजनकस्य स्वय­मि­त्य­स्या­य­मर्थः कार्यजनकस्य सहकारिणः कार्या­द­न्य­का­र­णे­ना­पे­क्ष्य­मा­ण­त्वा­नु­प­प­त्ते­रिति यदन्यसन्निधौ भवति तदित्यत्र तत्का­र्य­म­पे­क्षते, तत्स­ह­का­र्य­पे­क्षत इति वाक्यशेषः ।

अन्य­स­न्नि­धा­वे­वेति ।
सह­का­रि­स­न्नि­धा­वे­वे­त्यर्थः ।

नित्यं कारणमिति पक्षेऽपि कार्यमेव सहकारिणमपेक्ष्य क्रमेण भविष्यतीति, नेत्याह -
नित्यस्य तु जनकस्येति ।
सहकारिणां कारणस्य च सर्वदा भावात् तेषां सम्बन्धस्य च तेभ्य एव सदा भावादिति भावः ।

क्षणि­क­का­र­ण­स्यापि भावा­व­च्छे­द­क­क्ष­णात् इतरकाले सहकार्यपेक्षया कार्यजनकत्वे विशेषाभावात् सर्वदा कार्यजनिः स्यादिति नेत्याह -
क्षणिकस्तु यो जनक इति ।
यः क्षणिको जनकः स तु भावः तस्य सदा­त­न­त्वा­भा­वान्न सदा कार्य­ज­न्मे­त्यर्थः ।

इदमयुक्तं वर्तत इति ।
सहकारिलाभे धूमजनकत्वम् अलाभे चाज­न­क­त्व­मि­त्य­ङ्गा­रा­व­स्था­ग्नि­क्षणे दृष्टं यत् तन्नित्ये नास्तीति नित्य­व­त्का­र्य­ज­न्मै­वेति इद­म­यु­क्त­मि­त्यर्थः ।

सह­का­रि­स­न्नि­धा­वेव कार्यजन्मेति एतावन्न तु कार्यस्य तस्मि­न्न­पे­क्षे­त्याह –
किम­त्रा­यु­क्त­मिति ।

सति नियम इति ।
सहकारिणा कार्य­स्या­न्व­य­व्य­ति­रे­क­नि­यमे सति सह­का­रि­नि­र­पे­क्ष­त्व­मि­त्यर्थः ।

कार्य­स्यो­पा­दा­न­का­र­णे­ना­न्व­य­व्य­ति­रे­क­नि­यमे सति उपा­दा­न­का­र­ण­वि­ष­या­पेक्षा दृष्टेति व्याप्तिमाह -
तथा हि यः कश्चिदिति ।

कस्यचिदिति ।
उपा­दा­न­का­र­ण­स्ये­त्यर्थः ।

क्वचिदिति ।
कार्यम् इत्यर्थः ।

नियम इति ।
अन्व­य­व्य­ति­रे­क­नि­यम इत्यर्थः ।

अपेक्षेति ।
उपकारकसम्बन्ध इत्यर्थः ।

नाग्निमात्रस्य धूमकारणत्वं येना­ङ्गा­रा­व­स्थाने कारणत्वेऽपि सह­का­र्य­ला­भेऽ­नु­त्पा­द­क­त्व­मु­च्येत इति तत्राह -
एवं हीति ।
सामा­न्यो­प­हि­ता­ग्नि­व्य­क्त्या­कारे सामर्थ्यं न तु कार्यजनकत्वेन दृष्टा­ग्नि­व्य­क्ते­रे­वे­त्य­भ्यु­प­गम इत्यर्थः ।

सामान्योपाधौ साम­र्थ्या­ङ्गी­कारे हि कार्याय कारणोपादानसम्भव इत्याह –
कार्या­र्थि­भि­श्चेति ।

तत्रेति ।
सामान्योपाधौ सामर्थ्ये सिद्धे सतीत्यर्थः ।

न सहकारिणमपेक्षत इति ।
स्वयमेव समर्थत्वादिति भावः ।

नापि तत्कार्यमिति ।
उपादानकारणेन शक्तेन प्रसह्य जननादिति भावः ।

तदेव साधयति -
तथाहि हेतु­प­र­म्प­रा­प्र­ति­ब­न्धा­दिति ।
पूर्व­पू­र्व­क्ष­णा­दु­त्त­रो­त्त­र­क्ष­ण­स्यो­त्प­त्त्य­ङ्गी­का­रात् त्वयेत्यर्थः ।

स्वरूप इति ।
स्वरू­पेऽ­ति­श­य­ज­न­क­त्वे­त्यर्थः ।

एकस्यापीति ।
प्रधा­न­का­र­ण­स्या­पी­त्यर्थः ।

फल­प­त­न­का­ली­न­का­क­स­म्ब­न्ध­स्येव कार्य­नि­ष्प­त्ति­स­मये सह­का­रि­स­न्नि­धा­वपि न सहकारिण्यपेक्षा इति बौद्धः चोदयति -
काकतालीयमुच्यत इति ।
तत्र काकसम्बन्धाभावे पत­ना­भा­वा­ख्य­व्य­ति­रे­का­भा­वात् , इह तु सह­का­रि­का­ष्ठा­भावे धूमा­ख्य­का­र्या­भा­व­रू­प­व्य­ति­रे­का­द­पे­क्षया भवितव्यम् । अतः अस­म्ब­द्ध­मे­त­च्चो­द्य­मिति परिहारत्वेन च काकतालीयमुच्यत इति ग्रन्थो योज्यः ।

अन्व­य­व्य­ति­रे­क­नि­य­मेऽपि सह­का­रि­णोऽ­न­पेक्षा चेत्का­र­णेऽ­प्य­न­पेक्षा स्यादित्याह -
तथा चेति ।

साम­ग्री­सा­ध्यत्वं कुतोऽवगम्यमित्याशङ्क्य तद­न्व­य­व्य­ति­रे­क­नि­य­मा­दि­त्याह -
तत्र नियमादिति ।

न विशेषं पश्याम इति ।
अतो नार्थ­क्रि­या­का­रि­त्वात् क्षणिकत्वमिति भावः ।

स्थायि­स­र्व­ग­त­सा­क्षि­चै­त­न्या­ख्या­हं­सं­वे­द­नस्य नीलाभेदेऽपि तस्याभासत्वात् स्थाय्य­र्थ­क्रि­या­का­रि­नी­लस्य चैत­न्या­द्भे­दे­ना­ङ्गी­का­रात् न माहा­या­नि­क­प­क्ष­प्र­सङ्ग इत्युपसंहरति -
तदे­व­म­ह­ङ्क­र्तु­रिति ।
आत्मन इत्यर्थः ।

ग्राह­क­स्ये­त्युक्ते प्राप्तं व्यावर्तयति -
अहं कर्तुरिति ।

स्थूल­सू­क्ष्म­श­री­र­द्वयं क्षणिकज्ञानं च व्यावर्तयति -
स्थायिनआत्मन इति ।
चैत­न्य­स्ये­त्यर्थः ।

एक­रू­पोऽ­नु­भ­वा­दिति ।
अनु­भ­वा­त्मै­क­रू­पा­नु­भ­वा­दि­त्यर्थः ।

विषयस्य चैत­न्य­व्य­ञ्ज­क­त्वे­ना­प­रो­क्षत्वं भवतीत्युक्तम् । तन्न सर्वत्र दृश्यत इति चोदयति -
ननु नानु­मे­या­दि­ष्विति ।
व्यञ्ज­क­त्वे­ना­प­रो­क्ष­त्व­मि­त्यर्थः ।

अर्थस्य कारकत्वाभावे कथ­म­नु­मा­ना­दि­ज्ञा­न­स्या­र्था­का­र­त्व­मिति तत्राह –
लिङ्गा­दी­ना­मे­वेति ।
कुत­श्चि­त्स­म्ब­न्ध­वि­शे­षा­दि­त्य­वि­ना­भा­व­नि­र्वा­ह्य­नि­र्वा­ह­क­त्वा­दि­स­म्ब­न्ध­वि­शे­षा­दि­त्यर्थः ।

ज्ञान­स्या­का­र­प्र­द­त्वेन प्रमेयत्वे जनकत्वं व्यञ्जकत्वं च स्यादिति नेत्याह -
प्रमेयस्य चेति ।

अर्थं प्रतिपाद्य इदा­नी­म­स्म­त्प्र­त्य­य­वि­ष­य­त्वा­दिति भाष्यं योजयति -
तदेवमिति ।

व्यञ्जकदर्पणस्य बिम्बा­द­न्य­दे­श­स्थ­त्व­व­च्चै­त­न्य­व्य­ञ्ज­का­न्तः­क­र­णस्य चैत­न्या­द­न्य­दे­शत्वं भवेदित्याशङ्क्य ध्वनि­व­द्व्य­ङ्ग्य­सं­श्लि­ष्ट­तया उपाधित्वात् न भिन्न­दे­श­त्व­मि­त्याह -
अनिदं चित्सं­व­लि­त­त्वे­नेति ।

शारीरः क्षेत्रज्ञ इत्या­द्य­ने­को­पा­धि­यु­क्त­मा­त्मानं वर्णयति श्रुतिः । तत्र कथ­म­ह­ङ्का­र­स्यै­वो­पा­धि­त्व­मि­त्या­श­ङ्क्या­ह­ङ्का­रा­त्म­तया तत्सं­स्का­रा­त्म­तया वा अवस्थिता अवि­द्यै­वा­त्मो­पाधिः, तदुपहितस्यैव जाग्रदादिषु बाह्य­ब­हु­वि­धो­पा­धि­यो­ग­नि­मि­त्तोऽयं व्यपदेशभेद इत्याह -
स पुनरेवंभूत इति ।

गतागतमाचरन्निति ।
अवि­द्यो­पा­धि­ना­प्र­ति­ब­द्ध­प्र­कश एव बाह्य­ब­हु­वि­धो­पा­ध्यु­प­रक्तः सन्नित्यर्थः ।

अद्वि­ती­य­रू­प­स्या­च्छ­न्न­त्वात् जीव इत्याह -
जीव इति ।

तेजो­रू­पा­न्तः­क­र­णेन ऐक्या­ध्या­स­व­न्त्वात् विज्ञानघन इत्याह -
विज्ञानघन इति ।

विज्ञानस्य आत्मा विज्ञा­ना­त्मे­त्याह –
विज्ञानात्मेति ।

सुषु­प्तेऽ­ज्ञा­नै­क्येन अध्यस्तं स्वरूपमाह -
प्राज्ञ इति ।

शरीरेण तादा­त्म्या­ध्या­स­व­द्रू­प­माह -
शारीर आत्मेति ।

सुषुप्त्यवस्थया ऐक्येनाध्यस्तं रूपमाह -
सम्प्रसाद इति ।

पूर्यां शेत इति पुरुष इत्याह -
पुरुष इति ।

सर्वान्तर इत्याह –
प्रत्यगात्मेति ।

प्राणात्मरूपमाह -
कर्ता भोक्तेति ।

पञ्चकोशेषु प्रति­बि­म्बि­त­चै­त­न्य­प्र­ति­बि­म्ब­तया कोशज्ञ इत्याह -
क्षेत्रज्ञ इति ।

किञ्च न केवलमिति ।
परिच्छिन्नतया स्फुरितत्वम् अधिष्ठानत्वायापे­क्षि­त­मि­त्य­ङ्गी­कृत्य परिच्छिन्नतया स्फुरितत्वं सम्पादितम् । इदानीं परिच्छिन्नतया स्फुरि­त­त्व­म­न­पे­क्षि­त­म­प­रो­क्ष­त्व­मे­वा­धि­ष्ठानत्वायालमित्याह भाष्यकार इत्यर्थः ।

तत्सा­ध­ना­र्थ­मा­हेति ।
अप­रो­क्ष­त्व­सा­ध­ना­र्थ­मा­हे­त्यर्थः ।

नित्यानुमेय आत्मा कथमपरोक्षतया सिद्ध इति नेत्याह -
न ह्यात्म­न्य­प्र­सिद्ध इति ।
विषयानुभवकाले प्रमि­ति­वि­शि­ष्ट­वि­ष­य­स­म्ब­न्धि­तया विष­य­प्र­मि­त्यो­रिव स्वात्मनः प्रसिद्ध्यभावे आत्मा­न्त­र­सि­द्धे­नेव मयेदमिति सम्बन्धावभासो न स्यादित्यर्थः ।

विष­या­नु­भ­वा­श्र­य­त­या­ना­त्मनो परोक्षत्वसि­द्धि­रि­त्याह -
न च संवे­द्य­ज्ञा­ने­नै­वेति ।

ज्ञानान्तरेणेति ।
आत्म­वि­ष­य­ज्ञा­ना­न्त­रे­णे­त्यर्थः ।

भिन्नकालत्व इति ।
विषयानुभवकालात् भिन्नकालत्व इत्यर्थः ।

ज्ञानद्वयोत्पाद इति ।
निर­व­य­व­स्यै­क­वि­षये भिन्नविषये वा युगपद् ज्ञानद्वयोत्पाद इति भावः ।

एकस्य युगपत् कार्त्स्न्येन परिणामद्वयं स्यादि­त्या­शङ्क्य तदपि न युक्तमित्याह -
आह मा भूदिति ।

अविरुद्धमिति ।
गम­न­द्व­य­स्यै­क­क­र­ण­सा­ध्य­त्वा­वि­रो­धोऽस्ति, गतिगायत्योस्तु भिन्ने­न्द्रि­य­सा­ध्य­त्वात् अविरोध इति भावः ।

परि­णा­मेऽ­प्य­वि­रु­द्धत्वं यौगपद्ये प्रयोजकम् , विरु­द्ध­त्व­म­यौ­ग­पद्ये प्रयोजकमित्याह -
परिणामात्मकमपि न भवतीति ।
यौव­न­स्था­वि­र­हे­तु­रि­त्यत्र ...... इत्यध्याहारः ।

परिशेषात् स्वय­म्प्र­का­श­त्व­मे­वे­त्याह -
स्वयं प्रसिद्ध इति ।

अतो बाध्य­त्व­मा­रो­पि­तत्वं च नास्तीत्याह -
स्वय­म­हे­योऽ­नु­पा­देय इति ।

अतः सर्वबाधावधित्वं सर्वा­रो­प­स्था­नत्वं च स्यादित्याह -
सर्वस्य हानो­पा­दा­ना­व­धि­रिति ।

स्वमहिम्नैवेति ।
न त्वहङ्कारेण परिच्छिन्नतया स्फुरि­त­त्वा­दा­त्म­नोऽ­धि­ष्ठा­न­त्व­मिति भावः ।

सम्प्रयोगितयेति ।
आरोप्येण समा­ने­न्द्रि­य­ग्रा­ह्य­त­ये­त्यर्थः ।

अनु­मे­य­त्व­म­स्ती­त्य­भि­प्रे­त्याह -
परोक्ष इत्यर्थ इति ।

अथवेति ।
साक्षिवेद्यतया मनोमात्रगम्यतया वा अपरोक्ष इत्यर्थः ।

इन्द्रनीलम्
इन्द्रनीलमिव नीलमित्यर्थः ।

भाष्य­ग­ता­दि­श­ब्दा­र्थ­माह –
अन्यच्चेति ।

तथा दर्शयिष्याम इति ।
रूपे प्रवृ­त्त­न­य­न­बु­द्धि­वृत्त्या रूपेऽ­भि­व्य­क्त­चै­त­न्याच्च साक्षिणा आकाशापरोक्ष्यं स्यादिति वक्ष्याम इत्यर्थः ।

प्रतिजानतेति ।
अन­र्थ­हे­तु­नि­व­र्त­क­ब्र­ह्म­ज्ञा­नाय विचारः कर्तव्य इति प्रति­जा­न­ते­त्यर्थः ।

अविद्येति मन्यन्त इति ।
अवि­द्या­न्व­य­व्य­ति­रे­का­भ्या­म­वि­द्या­का­र्य­तया अविद्येति मन्यन्त इत्यर्थः ।

न केव­ल­म­वि­द्या­का­र्य­त्वात् अविद्यात्वं विद्या­नि­व­र्त्य­त्वाच्च अवि­द्या­त्व­म­ध्या­स­स्ये­त्याह -
तद्विवेकेन चेति ।

एतद्भाष्यं योजयति -
अध्य­स्ता­त­द्रू­पेति ।
ध्यस्त­त्वा­दे­वा­त­द्रूप इत्यर्थः ।

आहु­रि­त्य­स्या­र्थ­माह -
प्रसिद्धमेव लोक इति ।

केषां प्रसिद्धमित्यत आह -
ब्रह्मविदो वदन्तीति ।
विद्या­नि­व­र्त्य­त्वा­द­ध्य­स्ता­ह­ङ्का­रा­दे­र­वि­द्या­त्व­मा­हु­रिति भावः ।

अह­ङ्का­रा­दी­ना­म­वि­द्या­न्व­य­व्य­ति­रे­कात् विद्या­नि­व­र्त्य­त्वाच्च अविद्यात्वं चेत् सूत्र­का­रे­णा­वि­द्या­नि­व­र्तक ब्रह्मज्ञानाय विचारः कर्तव्य इत्येवमेव वक्तव्यम् । न त्वनर्थं हेत्व­ह­ङ्का­रा­वि­द्या­ध्या­स­नि­व­र्त­क­ज्ञा­ना­ये­त्या­श­ङ्कते -
यद्येवमिति ।

सुषुप्ते केवलाविद्यया अन­र्थ­क­र­त्वा­भा­वात् । पुरु­षा­का­ङ्क्षायाः तन्नि­वृ­त्ति­वि­ष­य­त्वा­भा­वा­द्दे­हा­द्य­ध्या­स­स्या­न­र्थ­क­र­त्वा­देव तन्नि­वृ­त्ति­वि­ष­य­त्वा­द­न­र्थ­हे­त्व­ध्या­स­नि­व­र्त­क­ज्ञा­ना­ये­त्युक्त्वा तस्य ज्ञान­नि­व­र्त्य­त्व­सि­द्ध­येऽ­वि­द्यात्वं पश्चा­दु­प­पा­द­नी­य­मि­त्याह –
नैत­त्सा­र­मि­त्या­दिना ।
अवि­द्ये­त्ये­वो­च्य­माने अवि­द्या­नि­व­र्त­क­ज्ञा­ना­येति सूत्रकारेणोक्त इत्यर्थः ।

प्रकृ­तो­प­यो­गि­त­येति ।
प्रव­र्त­क­सू­त्र­त्वात् प्रव­र्त­क­त्वो­प­यो­गि­त­या­न­र्थ­हे­त्व­ध्या­स­नि­व­र्त­क­ज्ञा­ना­येत्युपक्षि­प्ये­त्यर्थः ।

तदेतदाहेति ।
अध्या­स­स्या­वि­द्यात्वे तस्य तज्जन्यानर्थस्य चासत्यतया अधि­ष्ठा­न­स्प­र्शा­भा­वात् ज्ञानेन निवृत्तिः फलतया आगच्छति तत्फ­ल­मा­हे­त्यर्थः । अत्राधिष्ठानेन सम्बन्धाभाव एवोच्यते ।

असत्यत्वेन ज्ञान­नि­व­र्त्य­त्वा­ख्या­वि­द्या­त्व­फलं नोच्यत इत्याशङ्क्य सम्ब­न्धा­भा­वोक्त्या तद­प्यु­क्त­मि­त्याह -
अवास्तवमनर्थं दर्शयतीति ।

प्रतिज्ञा हीयेतेति ।
ज्ञान­नि­व­र्त्यत्वं यत् सूत्रितं तत् हीयेतेत्यर्थः ।

वृत्त­स­ङ्की­र्त­न­पू­र्व­क­मु­त्त­र­भा­ष्यस्य अध्या­स­स­द्भा­व­सा­ध­क­प्र­मा­ण­क­थने तात्पर्यमाह -
एवं तावदित्यादिना ।

सिद्ध­व­दु­प­न्य­स्त­मिति ।
शास्त्रं सम्भा­वि­त­वि­ष­य­प्र­यो­ज­नम् , अध्यासात्मक बन्ध­प्र­त्य­नी­क­त्वात् जाग्रद्बोधवदिति । विषयादिसाधनाय सिद्ध­व­द्धे­तु­त्वे­नो­प­न्य­स्त­म­ध्या­स­मि­त्यर्थः ।

इतरेतरविषयमिति ।
इतरेतराधिष्ठानवन्तमित्यर्थः ।

तत्र सद्भा­व­नि­श्च­य­मिति ।
आत्मनि देहा­द्य­ध्या­स­स­द्भा­व­सा­ध­क­प्र­मा­ण­मि­त्यर्थः ।

अस्मिन् भाष्ये प्रमा­तृ­त्वा­दि­व्य­व­हा­र­हे­तु­त्वे­ना­त्मनो देहे­न्द्रि­या­दिषु अहं­म­मा­भि­मा­ना­ख्या­ध्या­सोऽ­स्तीति प्रत्यक्षमिति प्रत्य­क्षो­प­न्यासः कृतः । विधि­प्र­ति­षे­ध­प­र­त्वात् । सकलशास्त्रस्य मोक्षपरशास्त्रत्वं नास्तीति तत्राह -
मोक्षपरत्वं चेति ।
`सत्यं ज्ञानमनन्तं ब्रह्मे'त्यादि­प्र­ति­पा­द­क­वाक्ये विधा­य­क­प्र­ति­षे­ध­क­प­द­यो­र­भा­वात् अनु­ष्ठे­य­त्या­ज्या­र्था­भा­वात् स्वरू­प­मा­त्र­नि­ष्ठ­त्व­मस्ति, अतः तादृ­श­वा­क्या­न्य­भि­प्रेत्य मोक्षपराणीति मोक्षपरत्वं पृथक्क्रियत इत्यर्थः ।

कथं पुन­रि­त्या­दि­भा­ष्यस्य अध्यासोपादानं प्रमा­तृ­त्वा­दि­व्य­व­हा­र­जा­त­मि­त्यत्र प्रमा­णा­न्त­र­प्र­श्न­वि­ष­यत्वं दर्शयति -
बाढमित्यादिना ।

अविद्येति ।
अध्यास इत्यर्थः ।

निदर्शनीय इति ।
प्रमाणान्तरेण निदर्शनीय इत्यर्थः ।

कथं पुन­रि­त्या­दे­रा­क्षे­प­रू­पार्थं दर्शयति -
प्रमा­ता­र­मा­श्र­यन्ति प्रमाणानीति ।
प्रमा­तृ­त्व­श­क्ति­म­न्त­मा­श्र­यितुं योग्यानीत्यर्थः ।

अवि­द्या­ध्या­स­प­रि­नि­ष्प­न्ना­ह­ङ्का­रा­त्म­स­म्पि­ण्डि­तो­पा­दा­नत्वे प्रमाणानां न प्रामाण्यमेव सिद्ध्य­ती­त्य­स्मि­न्नर्थे भाष्यं योजयति -
अथवा कथमिति ।

अवि­द्या­व­दु­पा­दा­नत्वे का प्रामा­ण्या­नु­प­प­त्ति­रिति तदाह -
अवि­द्या­व­द्वि­ष­यत्व इति ।
अत्र प्रत्य­क्षा­दि­श­ब्देन शास्त्रशब्देन च ज्ञाना­न्यु­च्यन्ते ।

उच्यते, देहे­न्द्रि­या­दिषु इत्या­दि­भा­ष्य­म­र्था­पत्ति व्यति­रे­का­नु­मा­न­प्र­द­र्श­नाय तयोः साम­ग्री­भू­त­व्य­ति­रे­क­व्याप्तिं दर्शयतीत्याह -
न हि देहेति ।

देहे­न्द्रि­या­दिषु एकैकस्मिन् अहं­म­मा­भि­मा­न­ही­नस्य पुंसः प्रमातृत्वाभावे सदा प्रमा­तृ­त्व­ही­न­त्वा­देव न कदाचिदपि प्रमातृत्वमिति नेत्याह -
यतो देह इति ।
देहेऽहमभिमानः इन्द्रियेषु ममाभिमान इति । यतोऽ­तोऽ­भि­मा­न­भावे व्यवहारः सम्भवतीत्यर्थः ।

इन्द्रियपदेन प्रत्यक्षकरणेषु ममाभिमान उक्ते किमादिशब्देन अनु­मा­ना­दि­क­र­णे­ष्वपि ममाभिमान उच्यत इत्याशङ्क्य प्रत्य­क्ष­क­र­ण­गो­ल­के­ष्वि­त्याह –
आदिशब्देनेति ।

उप­च­या­भि­धा­यि­दि­ह­धातोः देहशब्दो निष्पन्नः, अतो देह­श­ब्दा­र्थ­स­ङ्घाते न कदा­जि­द­प्य­ह­म­भि­मान इत्याशङ्क्याह -
देह­श­ब्दे­ना­व­य­व्य­भि­मत इति ।

अङ्गु­ल्या­दी­ना­मे­काङ्गच्छिन्ने पूर्णा­व­य­वि­ना­शात् न भवेत् तस्मिन्नहमभिमान इत्याशङ्क्य सशिरस्कता प्राय­श­स्त्व­गि­न्द्रि­या­द्या­धा­रत्वे, प्रयो­ज­क­नि­र­पे­क्ष­तया त्वगि­न्द्रि­या­धा­रत्वं शरीरत्वे प्रयोजकम् , अतोऽवयवे यस्मिन् कस्मिन् छिन्नेऽपि सशिरस्के देहेऽहमभिमानः सम्भवतीत्याह - सशिरस्क इति । सशि­र­स्क­दे­होऽ­ह­मिति प्रती­ति­र्ना­स्ती­त्या­श­ङ्क्याह –
मनुष्यादीति ।

देहे­न्द्रि­या­दि­ष्वि­त्यत्र केवले देहे अहमभिमानो भाष्यकारैरुक्तः । युष्मा­भि­र्जा­ति­स­म्भि­न्न­दे­हेऽ­ह­म­भि­मानः कस्मादुक्त इत्याशङ्क्य तैर­प्य­ह­म­भि­मा­न­यो­ग्य­जा­ति­वि­शि­ष्ट­दे­हेऽ­ह­म­भि­मान उक्त इत्याह -
न शरीरमात्रमिति ।

केव­ल­दे­हेऽ­ह­म­भि­मा­ना­भा­वेन जातिविशिष्टोऽभिमान इत्याशङ्क्य जाति­वि­शि­ष्ट­दे­हैक्याध्यस्त­चि­त्स्व­भा­व­मा­त्मा­न­म­नु­भूय पश्चात् प्रवर्तत इति स्वसा­क्षि­क­मि­त्याह -
सर्वो हीति ।

एकाधिकरणचैतन्य इति ।
जातिविशेषेण तादा­त्म्य­मा­प­न्न­चै­तन्य इत्यर्थः । प्रमा­तृ­त्वा­दि­व्य­व­हा­र­कर्ता देहे­न्द्रि­या­दिषु अहं­म­मा­भि­मा­न­रू­पा­ध्या­स­वान् , अध्यासाभावे व्यवहाराभावात् । यथा सुषुप्त इति व्यति­रे­का­नु­मा­न­म­त्रा­भि­प्रेतं द्रष्टव्यम् । प्रमा­तृ­त्वा­दि­व्य­व­हार आत्मनो देहे­न्द्रि­या­दि­ष्व­हं­म­मा­भि­मा­न­रू­पा­ध्या­स­म­न्त­रे­णा­नु­प­प­न्नोऽ­ध्यासं कल्पयति, अध्यासाभावे व्यवहाराभावात् । यथा सुषुप्त इत्य­र्था­प­त्ति­र्वा­त्र­द्र­ष्टव्या ।

नन्वात्मनो देहादिभिः सम्बन्धमात्रं प्रमा­तृ­त्वा­दि­व्य­व­हा­रेऽ­पे­क्षते न तादा­त्म्या­ध्या­स­मि­त्या­शङ्क्य सम्ब­न्धा­न्त­राणां प्रमा­तृ­त्वा­दि­व्य­व­हा­र­हे­तुत्वं दूषयति -
न स्वत्वे­ने­त्या­दिना ।

सुषुप्तेऽपि स्वस्वा­भि­भा­व­स­म्ब­न्धस्य भावा­दि­त्य­भ्यु­च्चयः । सुषुप्ते व्यव­हा­र­प्र­स­ङ्ग­प­रि­हा­राय इच्छामात्रेण विनि­यो­ज्य­वि­नि­यो­ज­क­त्वा­ख्य­स­म्ब­न्धा­न्तरं कश्चिदाह –
आत्मे­च्छा­नु­वि­धा­यि­त्व­मिति ।

यदि देहादेरात्मना सम्बन्ध आत्मे­च्छा­नु­वि­धा­यित्वं तर्हि आत्मनोऽपि देहा­दी­च्छा­नु­वि­धा­यि­त्व­मिति प्राप्त­मि­त्या­श­ङ्क्याह –
तस्यापीति ।
तस्या­प्या­त्म­नोऽपि तस्य स्वदेहं प्रति यथे­ष्ट­वि­नि­यो­ज­कत्वं तेन देहादिना सम्बन्ध इत्यर्थः ।

तत इति ।
तस्मात् सम्ब­न्धा­दि­त्यर्थः ।

एतत्सम्बन्धमूलो व्यवहार इत्यत्र प्रमाणमाह -
तथा चोत्तिष्ठामीति ।

भृत्यादयोऽपि स्वामी­च्छा­नु­वि­धा­यिनः, अतो भृत्या­दि­श­री­रे­णापि व्यवहारः स्यादिति तत्राह -
न च भृत्यादिषु तदस्तीति ।
अव्य­व­धा­ने­ने­च्छा­नु­वि­धा­यित्वं सम्बन्धः । भृत्यदेहस्य तु स्वामी­च्छा­पू­र्व­क­प्रे­र­णा­नि­मि­त्त­भृ­त्ये­च्छा­नु­वि­धा­यि­त्व­मे­वेति नाव्य­व­धा­ने­ने­च्छा­नु­वि­धा­यि­त्व­मि­त्यर्थः ।

न मिथ्या, मुख्या­भि­मा­ना­भा­वा­दिति ।
मुख्यदेहादौ अहं­म­मा­भि­मा­ना­ख्या­ध्या­सा­भा­वात् न व्यवहाराभाव इत्यर्थः ।

अहं मनुष्य इति ज्ञानस्य गौणत्वे गौणा­त्म­पु­त्र­दे­ह­ग­त­दा­ह­च्छे­दा­दि­नि­मि­त्त­व्य­था­नु­स­न्धा­ना­भा­व­वत् स्वदे­ह­ग­त­दा­ह­च्छे­दा­दि­नि­मि­त्त­वे­द­ना­नु­स­न्धानं न स्यात् । अनु­स­न्धा­न­स­द्भा­वा­दे­वा­ह­मि­त्य­नु­भवो मुख्य­दे­है­क्य­वि­षय इत्याह -
भवानेवात्र प्रमाणमिति ।

इच्छा­प्य­ध्या­स­मू­लै­वे­त्याह -
अपि च इच्छापीति ।

तवाप्यपरिणामिन आत्मनः कथ­मि­च्छा­रू­प­प­रि­णाम इत्याशङ्क्य परि­णा­म्य­न्तः­क­र­णै­क्या­ध्या­सात् ममोपपन्नस्तव तु न स्यादित्याह –
परि­णा­म्य­न्तः­क­र­ण­सं­व­लि­तेति ।

अन्तः­क­र­णा­ध्या­स­मू­लैव इच्छेति प्रत्यक्षमाह -
तथा चानुभव इति ।

प्रमा­ण­प्र­श्नो­त्तरं परिसमाप्य प्रमा­तृ­त्व­श­क्ति­म­दा­श्र­य­त्वात् नाध्य­स्ता­ह­ङ्का­रा­दि­स­म्पि­ण्डि­ता­त्मा­श्र­यत्वं व्यव­हा­र­स्ये­त्या­क्षेपं परिहरति -
तेन यद्यपि प्रमा­तृ­श­क्ति­स­न्मा­त्र­मिति ।
यद्यपि प्रमा­तृ­त्व­श­क्ति­म­दा­श्र­यत्वं प्रमा­णा­ना­मि­त्यर्थः ।

तदेव तु इति ।
प्रमा­तृ­त्व­श­क्ति­मा­त्र­मप्यध्यस्ता­ह­ङ्का­र­स­म्पि­ण्डि­ता­त्मनि निष्पद्यत इत्य­वि­द्या­व­दा­श्र­यत्वं प्रमाणानामुच्यत इत्यर्थः ।

अध्या­स­प­रि­नि­ष्प­न्ना­ह­ङ्का­रा­त्म­स­म्पि­ण्डि­तो­पा­दा­नत्वे कार­ण­दो­षा­द­प्रा­माण्यं प्रमा­णा­ना­मि­त्यु­क्त­मा­क्षेपं परिहरति -
तथा निरपेक्षाणामिति ।
न सापे­क्ष­त्व­ल­क्ष­णा­प्रा­मा­ण्य­मि­त्यर्थः ।

शक्ति­प्र­ति­ब­न्ध­नि­मि­त्त­म­प्रा­मा­ण्य­मि­त्याह –
न स्वसा­म­र्थ्ये­नेति ।

निश्च­या­नु­त्प­त्ति­नि­मि­त्ता­प्रा­मा­ण्य­मपि नास्तीत्याह -
अर्थसिद्धिं विदधतामिति ।

न विप­र्य­य­रू­प­म­प्य­प्रा­मा­ण्य­मि­त्याह –
बाधा­नु­प­ल­ब्धे­रिति ।
प्रत्य­क्षा­दि­सि­द्धा­र्थस्य स्वप्र­यु­क्ता­र्थ­क्रि­या­स­म­र्थ­रू­पस्य बाधा­नु­प­ल­ब्धे­रि­त्यर्थः ।

विधि­मु­खो­प­द­र्शि­त­मिति ।
प्रत्यक्षादीनां व्यव­हा­र­स­म­र्थ­व­स्तु­बो­ध­क­त्व­ल­क्षणप्रामाण्यं विधिना प्रत्यक्षेण दर्शितम् । अविद्याविषयत्वं प्रत्य­क्ष­त­न्मु­खा­नु­मा­ना­र्था­प­त्त्या­दिभिः प्रद­र्शि­त­मि­त्यर्थः ।

अह­ङ्का­रो­पा­दा­ना­वि­द्याया अपि दोषरूपत्वात् अप्रा­मा­ण्य­हे­तु­त्व­मि­त्या­शङ्क्य अह­ङ्का­रा­त्म­स­म्ब­न्ध­त­द्रू­पो­त्पा­द­न­द्वा­रेण प्रमा­ण­का­र­ण­त्वात् दोषत्वं नास्ति । प्रमाणकारणे पश्चाद्भवः काचा­दे­र्दो­ष­त्वा­दि­त्याह -
दोषस्त्विति ।

कारणस्य अदोषत्वात् कारणगतस्यैव दोष­त्व­मि­त्युक्तं विशेषमनादृत्य आगन्तुकस्य दोषत्वं न नैस­र्गि­क­स्ये­त्ये­ता­व­न्मात्रे दृष्टान्तमाह -
न च सर्वसाधारण इति ।

अन्नपाननिष्यन्द इति ।
मूत्र­पु­री­षा­त्मना निष्यन्द इत्यर्थः ।

शाब­र­भा­ष्य­वि­रो­धोऽपि नास्तीत्याह -
अनैसर्गिकं च दोषमभिप्रेत्य इति ।

मिथ्येति प्रत्यय इति ।
एतदत्र नास्तीति प्रत्यय इत्यर्थः ।

अवि­वे­कि­व्य­व­हा­रस्य अध्या­स­मू­ल­त्वेऽपि न विवे­कि­व्य­व­हा­रोऽ­ध्या­स­मूल इति तत्राह -
इतश्चैतदेवम् इति ।

विप्रतिपन्नो विवे­कि­व्य­व­हा­रोऽ­ध्या­स­मूलः, अध्या­स­पू­र्व­क­व्य­व­हा­र­स­मा­न­व्य­व­हा­र­त्वात् , पश्वा­दि­व्य­व­हा­र­वत् इत्यनुमानम् । तत्र पश्वा­दि­दृ­ष्टान्ते अध्यासमूलतां व्यवहारस्य दर्शयति -
तथा चेति ।

अध्यासानुमाने हेतुभूतस्य व्यवहारस्य विवेकिष्वपि वृत्तिमाह –
तदेकरूपेति ।

विवेकिजनेषु हेतुदर्शनात् हेतु­म­न्त­म­ध्या­स­म­नु­मि­मते ।
अतः तदेकरूपेति ।

दृष्टान्तेऽपि अध्याससद्भावे प्रमाणं चोदयति -
ननु पश्वादीनामिति ।
अहङ्कारानुबन्धः अह­मि­त्य­भि­मा­न­स­म्बन्ध इत्यर्थः ।

पश्वादीनां बाह्य­प्र­त्य­क्षेण देह­सि­द्धे­र्मा­न­स­प्र­त्य­क्षे­णा­त्म­सिद्धेः देहात्मनोः भेदस्य चोभ­य­प्र­त्य­क्षा­सिद्धेः अनु­मा­ना­ग­म­प­रि­ज्ञा­ना­भा­वाच्च ताभ्यामपि भेदासिद्धेः शुक्ति­र­ज­त­यो­रि­वा­ध्यासः परिशिष्यत इत्याह -
प्रौढमतिभ्य इति ।
बुद्धि­म­न्म­नु­ष्येभ्य इत्यर्थः ।

भेदस्य स्वरूपत्वादेव पश्वा­दी­ना­मा­त्म­दे­ह­प­दा­र्थ­ग्रा­हि­बा­ह्य­मा­न­स­प्र­त्य­क्ष­ज्ञा­नाभ्यां भेदोऽपि सिद्ध इत्यत आह –
अन्यथेति ।

पश्वादीनां पदार्थज्ञानेन भेदस्य सिद्धत्वे मनुष्येष्वपि पदार्थज्ञाने सति भेददर्शनस्यापि विद्यमानत्वात् व्यति­रे­को­प­दे­शा­न­र्थ­क्य­प्र­सङ्ग इत्याह –
तद­न­र्थ­क­त्व­प्र­स­ङ्गा­दिति ।

एवमेवेति ।
पश्वादीनां स्वाभा­वि­क­प्र­त्य­क्षेण भेदसिद्धिरिव इत्यर्थः ।

सर्वः सम्प्रतिपद्येत इति ।
देहादात्मनो भेदं प्रतिपद्येत इत्यर्थः ।

स्वाभा­वि­क­प्र­त्य­क्षेण देहादात्मनो भेदसिद्धिः गोपालादिषु विद्यते, तेषा­म­दृ­ष्टा­र्थ­प्र­वृ­त्ति­द­र्श­ना­दिति चोदयति -
ननु गोपालाङ्गनादय इति ।

तेषामपि न प्रत्यक्षेण विवेकग्रहः किन्तु आप्तवचनादित्याह -
न तदभिज्ञेति ।

प्रत्य­क्ष­श्चे­द्वि­वेकः विशेषतः प्रत्यगात्मानं प्रतिपद्येरन् इत्याह -
तथा च त इति ।

निग­म­न­भा­ष्य­मु­प­प­न्न­मि­त्याह –
तस्माद्युक्तमुक्तमिति ।
प्रत्य­क्षा­दि­व्य­व­हारः पश्वा­दि­भि­र्वि­वे­कि­ना­मपि समानो युक्त इति भाष्ये योजना ।

एवं तावत् प्रत्य­क्षा­दी­नी­त्यु­क्ता­नु­वादः - शास्त्रीये त्विति भाष्य­स्या­श­ङ्का­प्र­द­र्श­न­पू­र्वकं तात्पर्यमाह -
एवं तावदित्यादिना ।

अस्तु प्रमाणव्यवहार इन्द्रियापेक्षा । न तु देहा­पे­क्षे­त्या­शङ्क्य सत्वचस्य भूमावुप्तबीजस्य कार्यकरत्ववत् गोल­क­प्र­ति­ष्ठ­स्यैव कार्य­क­र­त्वा­द्वि­द्यत एव देहापेक्षेत्याह -
तानि च नाधि­ष्ठा­न­शू­न्या­नीति ।

तर्हि गोलकप्रदेशैरेव अलं, मास्तु देह इत्याशङ्क्य उत्पा­टि­त­गो­ल­क­प्र­ति­ष्ठे­न्द्रि­यस्य ज्ञान­ज­न­क­त्वा­भा­वात् देहांशभूते गोलक एवापेक्षेत्याह -
अधिष्ठानं च देह इति ।
देहां­श­भू­त­गो­ल­क­म­धि­ष्ठा­न­मि­त्यर्थः ।

देहा­पे­क्ष­त्वेऽपि न तस्या­त्म­न्य­ध्या­सा­पेक्षा, अध्यस्तत्वेऽपि अध्य­स्त­दे­ह­वि­शि­ष्टात्मा प्रमा­णा­दि­व्य­व­हा­रो­पा­दानं न भवति । किन्तु आत्मैवोपादनम् , अध्यासस्तु निमि­त्त­मा­त्र­मिति, नेत्याह -
न तेनेति ।

अनुभवारूढमिति ।
मनुष्योऽहं जाना­मी­त्य­ध्य­स्त­दे­हा­दि­स­म्पि­ण्डि­ता­त्मा­श्र­यत्वं प्रत्यक्षादीनां साक्ष्य­नु­भ­व­सि­द्ध­मि­त्यर्थः ।

कार्यतोऽपीति ।
समा­न­व्य­व­हा­रा­ख्य­का­र्य­तोऽपि अध्या­स­स­द्भा­व­मा­प­द्ये­त्यर्थः ।

प्रति­प­न्ना­त्मेति ।
देह­व्य­ति­रि­क्त­त्वेन प्रति­प­न्ना­त्मे­त्यर्थः ।

तत्रेति ।
शास्त्रा­ख्य­या­गा­दि­क­र्त­व्य­ज्ञा­न­त­न्नि­मि­त्त­या­गा­दा­वि­त्यर्थः ।

शास्त्रीये त्विति भाष्ये­णा­दृ­ष्टा­र्थ­प्र­वृत्तावात्मनो देहा­द्व्य­ति­रि­क्त­त्व­ज्ञा­न­म­भ्य­नु­जा­नाति । अभ्य­नु­ज्ञा­मा­क्षि­पति -
ननु फलनैयमिकेति ।

तत्र
फलचोदनेति ।
पशुकामो यजेत, स्वर्गकामो यजे­ते­त्या­दि­चो­द­ने­त्यर्थः ।

नैयमिकचोदनेति ।
यावज्जीवं जुहो­ती­त्या­दि­चो­द­ने­त्यर्थः ।

नैमि­त्ति­क­चो­द­नेति ।
गृहदाहवान् यजेतेत्यादि चोदनेत्यर्थः । स्वर्ग­श­ब्दा­र्थस्य सुखत्वात् अस्मिन् जन्मनि लब्धुं शक्य­त्वा­दि­ति­भावः ।

यथा च एतदेवमिति ।
व्यतिरिक्तात्मा नास्तीत्येतद् ‘एक आत्मनः शरीरे भावात्’ इति पूर्वपक्षसूत्रे प्रदर्शयिष्याम इत्यर्थः ।

सत्यम् , मन्त्रा­र्थ­वा­दा­दीनां प्रामा­ण्य­म­न­ङ्गी­कु­र्वतां मीमांसकानां न विधि­प्रा­मा­ण्यार्थं देह­व्य­ति­रि­क्ता­त्मा­पेक्षा । भाष्यकारस्तु मन्त्रा­र्थ­वा­दा­दीनां प्रमा­णा­न्त­रे­णा­सि­द्धेऽ­वि­रुद्धे चार्थे प्रामा­ण्य­म­ङ्गी­कृत्य तद्बलेन प्राप्तस्य देशान्तरे कालान्तरे देहा­न्त­रे­णो­प­भो­ग्यस्य स्वर्गाख्यफलस्य साधनयागविधीनां प्रामाण्यार्थं देहव्यतिरिक्त आत्मापेक्ष्यत इति तम­भ्य­नु­जा­ना­ती­त्याह -
सत्यमेवम् , तथापीति ।

विधिनिर्णयार्थं प्रवृत्तः शाबरभाष्यकारः व्यति­रि­क्ता­त्मानं साधयति । अतः विधिप्रामाण्याय व्यति­रि­क्ता­त्मा­पेक्षा इत्याशङ्क्य तथा सति सूत्रेणापि भवितव्यम् , तदभावात् न विधि­प्रा­मा­ण्यात् तस्मिन् प्रमाणापेक्षया व्यति­रि­क्त­त्वा­सा­ध­न­मि­त्याह -
तथा च विधिवृत्तेति ।
विधौ प्रवृत्ता मीमांसा, विधिवृत्तविषया मीमांसा, विधि­वृ­त्त­मी­मां­सेति वा निर्वाहः ।

विधि­प्रा­मा­ण्या­न­पे­क्षि­त­स्या­सू­त्रि­तस्य च भाष्यकारेण प्रति­पा­द­न­म­यु­क्त­मि­त्या­क्षि­पति -
तत्कस्य हेतोरिति ।
कस्य हेतोः कस्मा­द्धे­तो­रि­त्यर्थः ।

धर्मविचारं प्रतिज्ञाय तस्मिन् प्रमा­णा­पे­क्षायां चोदनां प्रमाणत्वेनोपन्यस्य कथं चोदनायाः प्रामा­ण्य­मि­त्य­पे­क्षायां तद्विधिवाक्यं प्रमाणं बादरायणस्य अनपेक्षत्वादिति मन्त्रादीनामपि साधा­र­ण­हे­तु­प्र­यो­गात् , सूत्रकारेण मन्त्रादीनामपि प्रामण्यमनुसृतं मन्वानो भाष्यकारस्तत् प्रामा­ण्य­नि­मि­त्त­स्व­र्गा­दि­फ­ल­भो­क्तृ­त्वेन देहव्यतिरिक्त आत्मापि सूत्रकारेणानुमत इति कृत्वा व्यति­रि­क्ता­त्मानं साधयति इत्यतो न निर्मूलं व्यति­रि­क्ता­त्म­सा­ध­न­मि­त्याह -
धर्मजिज्ञासेति कार्या­र्थ­वि­चा­र­मिति ।

विशेषाभावादिति ।
अपौरुषेयत्वेन वक्तृ­ज्ञा­ना­द्य­न­पे­क्षत्वे कृत्स्न­वे­द­वा­क्या­र्थानां विशे­षा­भा­वा­दि­त्यर्थः ।

स्वरू­प­नि­ष्ठा­ना­मिति ।
सिद्धा­र्थ­नि­ष्ठा­ना­मि­त्यर्थः ।

सूत्रेण मन्त्रा­दि­प्रा­मा­ण्यस्य सूत्रितत्वात् तद्ब­ल­प्रा­प्त­स्व­र्गा­दि­भो­क्त्रा­त्मानं साधयति, न विधिप्रामाण्याय अपे­क्षि­त­त्वा­दा­त्मानं साधयतीति कथं निर्णय इत्याशङ्क्य भाष्यकारेणापि मन्त्रा­दि­प्रा­मा­ण्य­स्ये­ष्ट­त्वात् निर्णय इत्याह -
तथा ‘चोदना ही’ति ।

चोद­ना­शे­ष­त्वे­नापि इति ।
चोद­ना­स­न्नि­धि­प­ठि­ता­र्थ­वा­दा­दीनां चोदनाशेषत्वात् शेष­ग­त­भू­ता­द्य­र्थ­प्र­ति­पा­द­कत्वं शेषिण्युपचरति भाष्यकार इति भावः ।

अवगच्छति इति ।

गम्यत इति ।
भाष्य­का­रोऽ­व­ग­च्छ­ती­त्य­स्मा­भि­र्ग­म्यत इत्यर्थः ।

मन्त्रा­दि­प्रा­मा­ण्य­सू­च­न­द्वा­रेण व्यति­रि­क्ता­त्मापि अनुमतश्चेत् तत्प्र­ति­पा­द­क­स­म­न्व­य­वि­चा­रोऽपि सूचनीय इति, नेत्याह -
स च स्वरूपावगम इति ।
आत्म­प्र­ति­पा­द­क­वा­क्य­मि­त्यर्थः ।

कस्मिन्निति ।
वेदान्तानां चोद­ना­शे­ष­भू­ता­त्मनि प्रामाण्यं स्वतन्त्रात्मनि वेत्यर्थः ।

कथं वेति ।
एक­र­सा­र्थ­प्र­ति­पा­द­कत्वं संसृ­ष्टा­र्थ­प्र­ति­पा­द­कत्वं वेत्यर्थः ।

उपयोगाभावादिति ।
धर्मस्य व्यति­रि­क्ता­त्मनि अपेक्षाभावात् फलस्यैव तदपेक्षत्वात् । फले च जैमिनेः प्रयत्नाभावात् व्यतिरिक्तात्मा न मीमांसित इत्यर्थः ।

फलमपि व्यति­रि­क्ता­त्मा­न­म­पे­क्षते चेत् तत्रापि प्रयत्नो युक्तो जैमिनेरिति, नान्य­था­सि­द्ध­त्वा­दि­त्याह -
भगवान्स्तु पुनरिति ।

मोक्षफलरूपं ब्रह्म तद्भोक्तारम् असंसार्यात्मानं च प्रतिपादयत्याचार्यः । न स्वर्गफलं तद­पे­क्षि­त­सं­सा­र्या­त्मानं च प्रति­पा­द­य­ती­त्या­शङ्क्य विधि­र­हि­त­वा­क्यानां सिद्धार्थे प्रामाण्ये साधिते विधि­र­हि­त­म­न्त्रा­दी­ना­मपि प्रामाण्यं तद­र्थ­स्व­र्गा­दि­व­त्सिद्धं स्यादित्याह -
तत्र च देहा­न्त­रो­प­भो­ग­योग्यः स्वर्गः स्थास्यतीति ।

स्थीयतां नाम स्वर्गः, स्वर्गाख्यलोक विशेषप्राप्तये देहविलक्षण आत्मापेक्षा नास्ति, वर्त­मा­न­श­री­रे­णै­वा­र्जु­ना­दीनां स्वर्गप्राप्तेः श्रुत­त्वा­दि­त्या­शङ्क्य, यद्यपि लोक­वि­शे­ष­प्रा­प्तये नापेक्षा तथापि तत्स्थ­स्या­न्यस्य देहा­न्त­र­प्रा­प्ते­रपि श्रुतत्वात् वर्तमानदेहेन सह देहा­न्त­र­प्रा­प्ते­र­स­म्भ­वात् तदुपपत्त्यर्थं देहविलक्षण आत्मा स्वीकर्तव्य इत्याह -
तच्च सर्वमिति ।

सम­न्व­य­सा­म­र्थ्यात् देह­व्य­ति­रि­क्ता­त्म­सि­द्धे­र्बा­द­रा­य­ण­स्या­ध्या­त्म­वि­चारः पिष्टपेषणमिति, नेत्याह –
तत्सिद्धिश्चेति ।
व्यति­रि­क्ता­त्मनः सिद्ध­व­स्तु­त्वा­देव प्रमा­णा­न्त­र­यो­ग्यस्य प्रमा­णा­न्त­र­वि­ष­य­त्वा­भावे मनुष्योऽहमिति देह­स्या­त्म­वि­ष­य­प्र­मा­णा­न्त­र­वि­रोधे चाप्रा­मा­ण्य­प्र­स­ङ्गात् न केवलमागमेन व्यति­रि­क्ता­त्मनः सिद्धिरित्यर्थः ।

तर्ह्यागमस्य व्यति­रि­क्ता­त्म­न्य­प्रा­मा­ण्य­मे­वेति नात्मसिद्धिरिति नेत्याह –
अत­स्त­त्सि­द्धा­विति ।

तेनेति ।
विरोधपरिहारफलेन विचारेणेत्यर्थः ।

उक्तमर्थं सङ्क्षेपतो दर्शयति -
सत्यमित्यादिना ।

विनापि तेनेति ।
मन्त्रा­दि­प्रा­मा­ण्य­स्वर्गाद्यन­भ्यु­प­ग­च्छतां व्यति­रि­क्ता­त्मना विनापि विधि­प्रा­मा­ण्य­सि­द्धे­रि­त्यर्थः ।

अस्ति तु तत् इति
मन्त्रा­दि­प्रा­माण्यं स्वर्गा­दि­र्वे­त्यर्थः ।

न तेन विनेति ।
व्यति­रि­क्ता­त्मना विनेत्यर्थः ।

वेदा­न्त­वे­द्य­म­हं­रू­प­म­हं­प्र­त्य­य­वि­ष­या­त्म­रू­पात् अभिन्नमुत भिन्नम् , यद्य­भि­न्न­म­हं­प्र­त्य­य­वि­ष­य­त्वा­देव न वेदान्तवेद्यं भवति । भिन्नं चेत् तर्हि आत्मस्वरूपत्वं न सम्भवतीत्यतः नास्ती­त्या­क्षि­पति -
किं तदिति ।

असं­सा­र्या­त्म­त­त्व­मिति ।
अक­र्त्रा­त्म­त्त्व­मि­त्यर्थः ।

अश­ना­या­द्य­ती­त­मि­त्य­सं­सा­र्या­त्म­तत्वं दर्शयति इति ।
अश­ना­या­द्य­ती­त­त्वात् आत्म­त­त्व­म­सं­सा­रीति हेत्वभिधानेन प्रति­पा­द­य­ती­त्यर्थः ।

अश­ना­या­द्य­ती­त­त्वस्याकर्तृ­त्वा­ख्या­सं­सा­रित्वं प्रति हेतु­त्व­प्र­का­र­माह -
अश­ना­या­द्यु­प­प्लुतो हीति ।
स्वास्थ्य­म­ल­भ­मानः आत्मयाथातथ्ये स्थितिमलभमानः ।

पश्यतीति ।
अतो न कर्तृत्वं प्रतिपद्यत इति शेषः ।

संसारमिति
वर्णान्तरे अह­मु­ल्ले­ख­म­ह­ङ्का­रा­त्म­स­म्पि­ण्डि­त­रू­प­मि­त्यर्थः । तस्मा­दि­त्य­ध्या­स­प्र­मा­णो­प­सं­हारः । तस्मात् प्रत्य­क्षा­नु­मा­ना­र्था­पत्तिप्रमा­णा­दि­त्यर्थः ।

विधेः बोद्धा­र­म­धि­का­रिणं ब्राह्म­णा­दि­श­ब्दै­र­नु­व­दन् आगमोऽपि चेत­ना­चे­त­न­यो­रै­क्या­व­भासं दर्शयतीत्याह -
तदेव दर्शयतीति ।

स्नात्वेति ।
गृहस्थो भूत्वेत्यर्थः । ज्योगामयावी उज्ज्व­ला­म­या­वा­नि­त्यर्थः ।

लक्षणभाष्ये परत्रावभास इत्येकेन परशब्देन लक्षणमुक्तम् । अत्र तु अत­स्मिं­स्त­द्बु­द्धि­रि­त्य­वो­चाम इति परशब्दद्वयेन लक्षणमनूद्यत इति पूर्वापरविरोधः प्राप्त इत्याशङ्क्य लक्षणभाष्यान्ते पर­श­ब्द­द्व­ये­नोक्तं लक्षणमनूद्यत इति दर्श­यि­तु­म­न्त­ग्र­हणं करोति ।
सर्वथापि तु इति ।

सिंहो देवदत्त इतिवत् गौणावभासं व्यावर्तयति -
निरुपचरितमिति ।

लक्षणत युष्मदर्थात् अन्तःकरणात् प्रतीतितो युष्मदर्थः पुत्रादिरिति भेदादाह -
कस्य युष्मदर्थस्येति ।

वस्तु­तोऽ­स्म­दर्थः चैतन्यम् , प्रती­ति­तोऽ­स्म­दर्थः अन्तःकरणादिरिति भेदादाह -
कस्मिन्नस्मदर्थ इति ।

भाष्यं योजयति -
अत­स्मि­न्नि­त्या­दिना ।

अयुष्मदर्थ इत्युक्ते युष्मदर्थाभावं प्राप्तं व्यावर्तयति -
अनिदं चिति इति ।

अनिदं चिति तद्बु­द्धि­रि­त्यु­क्तेऽ­निदं चित्यनिदं चिद्बु­द्धि­र­ध्यास इत्युक्तिं व्यावर्तयति ।
युष्मदर्थावभास इत्यर्थः इति ।

तदाहेति ।
आत्मा­ना­त्म­नो­रि­त­रे­त­रा­ध्यासं पुर­स्कृ­त्ये­त्यत्र सामान्येन उक्ताध्यासस्य विभा­ग­मा­हे­त्यर्थः ।

पुत्रादीनां हस्ताद्यङ्गेषु छिन्नेषु नास्ति छिन्न­ह­स्तोऽ­ह­मिति प्रतीतिः । अतो न मुख्य इत्याह –
कथमिति ।

छिन्न­ह­स्तोऽ­स्मीति प्रतीत्यभावेऽपि बाह्यपुत्रादिगत धर्मान्तरस्य मुख्याध्यासो भवत्येवेत्याह -
तद्यथा बालक इत्यादिना ।

मातुलादिना पुत्रे पूजिते अहमेव त्वया पूजित इति रीत्या आशङ्क्याह -
वस्त्रा­ल­ङ्का­रा­दिना इति ।

पुरुषान्तरेण पुत्रस्य उपनयनादौ कृते यथा अहमुपनीत इत्यभिमानाभावः तद्वत् न पूजितत्वाभिमानः - इत्याशङ्क्य पुरुषान्तरस्य पितरं प्रति उप­ने­ता­ह­म­स्मी­त्य­भि­मा­ना­भा­वात् अस्या­प्यु­प­नी­तोऽ­स्मीति अभिमानाभावः । अत्र पूजयितुरपि पित­र­मे­वा­पु­ज­मि­त्य­भि­मा­नात् पितुः पूजितत्वाभिमान इत्याह –
पूजयितापीति ।

अव्यक्तत्वादिति ।
चित्तपरिपाकाभावादित्यर्थः । अनन्तरः स्वरा­ष्ट्र­स­मी­प­दे­शा­भि­मा­नी­त्यर्थः ।

बाह्य­श­ब्दा­भि­प्रा­य­माह –
प्रसि­द्ध­व्य­ति­रे­क­स्येति ।

भाष्यग्रन्थतः उत्त­रो­त्त­रा­ध्या­सो­प­हितः प्रत्यगात्मा पूर्व­पू­र्वा­ध्या­सा­धि­ष्ठा­न­मि­त्य­भि­प्रेत्य आत्म­न्य­ध्य­स्य­ती­त्यत्र आत्मशब्दार्थमाह –
अस्मदर्थश्चेति ।
आत्म­श­ब्दा­र्थ­श्चे­त्यर्थः विषय इत्य­धि­ष्ठा­न­मु­च्यते । विष­य­भू­तोऽ­स्म­द­र्थ­श्चाहं प्रत्य­यि­स­म्भिन्न एवानिदं चिदंश इत्यन्वयः । अहङ्कारस्य संस्का­रा­व­च्छिन्नः प्रत्य­गा­त्मा­धि­ष्ठानं तस्य च संस्कारस्य पूर्वा­ह­ङ्का­रा­व­च्छिन्न अधि­ष्ठा­न­म­तोऽ­ह­ङ्कारं प्रति स्थूल­का­र्य­रू­पा­ध्या­सा­न्त­रा­ना­स्क­न्दि­त­स्या­धि­ष्ठा­न­त्वात् , शुद्ध­प्र­त्य­गा­त्म­नोऽ­न­धि­ष्ठा­न­त्व­मु­च्यत इति द्रष्टव्यम् । धर्मि­णोऽ­पी­त्यत्र ग्रह­ण­मि­त्य­ध्या­हारः ।

‘ब्राह्मणो यजेत’ ‘कृष्ण­के­शोऽ­ग्नी­ना­द­धीत’ इत्या­दि­शा­स्त्रेण च धर्ममूलत्वेन कर्मविधानाच्च धर्म­प्रा­धा­न्यात् धर्म­ग्र­ह­ण­मि­त्याह –
तन्नि­मि­त्त­श्चेति ।

देह­ध­र्मा­नि­त्यत्र धर्मशब्दस्य धर्म्यु­प­ल­क्ष­क­त्व­वत् इन्द्रि­य­ध­र्मा­नि­त्यत्र धर्म्यु­प­ल­क्ष­कत्वं प्राप्तं व्यावर्तयति -
धर्ममात्रमिति ।
गृह्यत इत्यध्याहारः ।

अन्तः­क­र­णा­हं­प्र­त्य­यि­नो­रे­क­त्वात् पुनरुक्तिः स्यादिति शङ्कां व्युदस्यति -
अन्तः­क­र­ण­मि­त्य­हं­प्र­त्य­यिन इति ।
कामादीनामहं कामी­त्या­दि­स­म्ब­धि­त्वे­नै­वा­ध्यासः, न तु अहं काम इत्या­दि­ता­दा­त्म्ये­ना­ध्यास इति भावः ।

स्वश­ब्द­स्या­त्म­वा­चित्वं व्यावर्तयति -
स्वशब्देनेति ।

प्रचारः, चरणं चारः इति व्युत्पत्त्या परिणामोऽभिधीयत इत्याह -
काम­स­ङ्क­ल्प­क­र्तृ­त्वादिः परिणाम इति ।

स्वप्रचार इत्यत्र प्रेत्यु­प­स­र्गा­र्थ­माह -
अनेकविध इति ।

प्रविभक्तेषु ब्रह्मा­दि­स्था­व­रा­न्तेषु योनिभेदेषु यन्निमित्तं यैर्नि­मि­त्त­भूतैः कामाद्यैश्चरति इति व्युत्पत्त्या प्रचारशब्दस्य कामादिरर्थ इत्याह –
यन्निमित्तमिति ।

साक्षादीक्षत इति साक्षीति साक्षिशब्दस्य अव्यवधानमर्थ इत्याह –
साक्षा­द­व्य­व­धा­न­म­व­भा­स­य­तीति ।

अहङ्कारस्यैव परिणामव्यवधानेन कस्मात् न साध­क­त्व­मि­त्या­शङ्क्य चित्वादेव परि­णा­म­ही­ना­वस्थां विहाय परि­णा­मा­व­स्था­प्रा­प्ति­र्ना­स्ती­त्याह -
हानोपादानशून्य इति ।

हानो­पा­दा­न­शू­न्यत्वं कुत इति अयो­ग्य­त्वा­दि­त्याह –
अविकारित्वेनेति ।

कुतोऽ­यो­ग्य­त्व­मिति केनापि संस­र्गा­भा­वा­दि­त्याह –
असङ्गितयेति ।

कथं पुनः सर्वा­न्त­र­स्या­त्मनः प्रत्यञ्चनमित्याशङ्क्य बाह्यदेहादिषु विप्र­सृ­त­चै­त­न्यस्य क्रमेण देहादिभ्यो निष्कृष्य अनु­स­न्धा­ना­व­स्था­या­म­न्त­र­न्त­र­नु­प्र­वेश भ्रमापेक्षया इत्याह -
स एव देहादिष्विति ।

बहि­र्भा­व­मा­प­द्य­मा­ने­ष्विति ।
पूर्वमहन्तया प्रतिपन्नेषु पश्चा­द्वि­वे­का­नु­स­न्धा­न­स­मये आत्मनः सकाशात् बहि­र्भा­व­मा­प­द्य­मा­ने­ष्वि­त्यर्थः ।

घटस्यापि स्वरू­प­त्व­म­स्ती­त्या­शङ्क्य स्वरू­प­मा­भा­स­स्तस्य, निरु­प­च­रि­त­स्व­रू­प­स्त्वा­त्मे­त्याह -
निरुपचरित इति ।

अधि­ष्ठा­न­त्वा­द­व­भा­स­मा­न­त्व­मे­वे­त्या­शङ्क्य अधिष्ठानविशेषो न प्रकाशेत इत्याह -
न हि शुक्तौ रजताध्यास इति ।
तर्हि अत्रापि सर्व­ग­त­त्वा­दि­वि­शे­षा­कारो न प्रकाशत एवेति ।

आत्मनः साधारणाकारः सत्वम् , चित्वं विशेषाकारः अन्तःकरणस्य साधा­र­ण­रू­प­शू­न्यत्वं जडत्वं विशेषाकारः स प्रतिभासत इत्याह -
प्रकाशते चेह चैतन्यमिति ।

नाहङ्कारप्रमुख इति ।
प्रपञ्चस्य जडा­ख्य­वि­शे­ष­रू­पा­ति­रि­क्त­रू­पा­भा­वात् इति भावः ।

अनुभवमेव अनुसरन्निति ।
अह­म­नु­भ­वा­मी­त्यत्र अह­ङ्का­र­चै­त­न्ययोः विद्य­मा­न­म­नु­भ­व­मेव अनु­स­र­न्नि­त्यर्थः ।

पृथगवभासनादिति ।
द्वयोरपि सामा­न्य­वि­शे­षा­त्मना अवभासनात् नाध्यासः सम्भवति । सामा­ना­धि­क­र­ण्य­मस्ति चेत् गौणमित्यर्थः ।

विशेषावभासेऽध्यासविरोध उक्त इति नेत्याह -
न हि दृष्टेऽ­नु­प­प­न्न­मिति ।

अन्तःकरणादिषु अध्यस्यतीति भाष्यगतादिशब्दो विरुद्ध इति चोदयति -
नन्विति ।
अन्तःकरणस्यैव अध्यासादेव भाष्ये धर्मशब्द उक्त इत्यर्थः ।

अन्यथेति ।
शुद्ध­चै­त­न्य­स्या­ध्यासे सतीत्यर्थः ।

अन्तःकरणस्य देहादिषु आत्मा­ध्या­सो­पा­धि­तया अनु­प्र­वे­श­मा­त्र­मेव । न तु तस्या­ध्य­स्त­त्व­मि­त्याह -
सत्यमाह भवानिति ।
अन्तःकरणं सचितिकमन्यत्र देहादिषु अध्यस्यमानं यत्र देहा­दि­ष्व­ध्य­स्यते तस्यैव देहादेरात्मनः आत्मानं प्रति कार्यकरत्वम् आपाद्य अन्तःकरणं स्वसंश्लेषात् चैत­न्य­च्छा­या­भा­ज­न­यो­ग्यतां देहादेरापाद्य स्वय­म­वि­द्य­मा­न­मिव तिरस्कृतं तिष्ठतीति योजना ।

स्वतः परतो वेति ।
अन्तःकरणे स्वतोऽध्यस्यते देहा­दि­ष्व­न्तः­क­र­णो­पा­धि­म­पेक्ष्य अध्यस्यत इति चैतन्यस्यैव सर्वत्राध्यास इत्यत्र स विशेष इत्यर्थः ।

तेनोच्यत इति ।
आदिशब्द उच्यत इत्यर्थः ।

अत एवेति ।
सर्वत्र चैतन्यस्यैव अध्या­सा­दे­वे­त्यर्थः ।

अहङ्कर्तृत्वं योजयन्त इति ।
अहं­प्र­त्य­य­वि­ष­य­त्वम् आत्मत्वं च योजयन्त इत्यर्थः । निगमयतीति लक्षणादिभिः साधितमध्यासं निगमयतीत्यर्थः ।

तत्रापीति ।
प्रत्यगात्मनि नैसर्गिकत्वेन प्रथमभाष्ये यो लोकव्यवहार उक्तः, स इहो­क्त­प्र­त्य­गा­त्मनि अह­ङ्का­रा­द्य­ध्यास एवेत्यर्थः ।

नैसर्गिकस्येति ।
आत्मभावे यो न बुध्यते एव ? स नैसर्गिकः, तस्येत्यर्थः ।

अनन्तः कथमिति ।
ज्ञान­नि­व­र्त्य­त्वा­दिति भावः ।

यदि स्यादिति ।
अभावविलक्षणत्वे सति अना­दि­त्वा­दा­त्म­व­द­न­न्त­श्चे­दि­त्यर्थः ।

मिथ्या­प्र­त्य­य­रूप इत्यत्र मिथ्या­प्र­त्य­य­स­दृशः, न तु मिथ्येत्युच्यत इति शङ्का­नि­रा­सा­र्थ­माह –
रूपग्रहणमिति ।
तेनेति कर्तृ­त्व­भो­क्तृ­त्व­श­क्ते­र­प्य­ध्या­स­हे­तु­क­त्वे­ने­त्यर्थः ।

कर्तु­र्भो­क्तुश्च सत इति ।
स्वत एव कर्तृ­त्वा­दि­श­क्ति­मत इत्यर्थः ।

दोषप्रवर्तनमिति ।
रागद्वेषजननेन प्रवृ­त्ति­का­र­ण­मि­त्यर्थः ।

येषामिति ।
साङ्ख्य­व्य­ति­रि­क्ता­ना­मि­त्यर्थः ।

मिथ्यात्वसिद्धय इति ।
अहं­म­मा­भि­मा­ना­ख्या­ध्या­स­सि­द्धय इत्यर्थः ।

अनर्थस्य प्रहाणाय इति वक्तव्यम् इत्यत आह -
हेतोः प्रहाण्या हीति ।

शास्त्र­प्रा­मा­ण्यात् निवर्ततामिति न, व्यरि­रि­क्ता­त्म­ज्ञा­नेऽपि अध्या­सा­नु­वृ­त्ति­द­र्श­ना­दि­त्याह -
तथाहि मनुष्यादीति ।
विविक्तोऽपि विवि­क्ता­त्म­वि­ष­योऽ­पी­त्यर्थः ।

सादि­त्वा­ना­दि­त्व­यो­र्वि­ना­शा­वि­ना­श­प्र­यो­ज­क­त्वा­यो­गात् विरो­धि­स­न्नि­पा­ता­स­न्नि­पा­त­यो­रेव प्रयो­ज­क­त्वा­द­ना­दि­रपि विरोधिसन्निपाते नश्यतीत्याह -
नायं दोष इति ।

व्यति­रे­क­ब्र­ह्मा­त्म­ज्ञा­न­यो­र­ध्या­स­नि­वृत्तौ को विशेष इति तत्राह -
तद्धि ब्रह्म­णोऽ­व­च्छि­द्येति ।
ब्रह्मणः सकाशात् प्रतिबिम्बरूपेण भोक्तृत्व इत्यर्थः ।

चैतन्यस्येति ।
प्रतिबिम्बरूपेण चैतन्यस्य इत्यर्थः ।

बीजनाशेऽपि कार्या­व­स्था­न­व­द­वि­द्या­ना­शेऽपि प्रवा­हा­का­र­स्या­व­स्थानं स्यादिति नेत्याह -
ततः कार­ण­नि­वृ­त्ता­विति ।

भोक्तृरूपता इति ।
अहङ्कार इत्यर्थः ।

सपरिकरेति ।
प्रमा­तृ­त्वा­दि­स­हि­ते­त्यर्थः ।

विविक्त इति ग्रहणाभावेऽपि दैवगत्या स्वरूपेण विवि­क्त­ब्र­ह्म­रू­पा­त्म­ग्रा­हि­त्वात् अहंप्रत्ययः किमित्यध्यासं न निव­र्त­य­ती­त्या­शङ्क्य ब्रह्मा­त्म­ता­न­व­भा­स­क­त्वात् न तेन निवृत्तिरित्याह -
अहंप्रत्ययः पुनरिति ।

कार्यकरणमात्रेण सहभावादिति ।
जाग्रत्स्वाप्नदेह­यो­र­न्यो­न्य­व्य­भि­चा­रेऽपि कार्यकरणमात्रेण सहभावादित्यर्थः ।

विचा­रा­द्वि­वे­क­ज्ञा­ना­न्त­र­मु­त्पन्नं निवर्तयेत् इति, नाप्र­मा­ण­ज्ञा­न­त्वा­दि­त्या­दि­त्याह -
नापि ज्ञानान्तरमिति ।

शास्त्र­ज­न्य­ब्र­ह्म­वि­द्यायाः फलं आनन्दावाप्तिः, नानर्थनिवृत्तिः अतोऽनर्थहेतोः प्रहा­णा­ये­त्यु­क्त­म­यु­क्त­मि­त्या­क्षि­पति -
ननु निर­ति­श­या­न­न्द­मिति ।
अन्यं अन्यत्वेन प्रसिद्धमस्य प्रत्यगात्मनो महिमानं महद्रूपमिति यदा पश्यतीति योजना ।

न वक्तव्यमिति ।
वक्तव्यं न भवति । आत्मै­क­त्व­वि­द्या­प्र­ति­प­त्तय इति शास्त्र­ज­न्य­वि­द्या­वि­ष­योक्त्या निर­ति­श­य­सु­खा­वा­प्ति­फ­ल­मु­क्त­मि­त्यर्थः ।

आनन्दस्य पुरुषार्थत्वे कथं फलत्वेन वक्तु­म­यो­ग्य­त्व­मि­त्य­यो­ग्य­त्व­मुक्तं मत्वा चोदयति -
कथमिति ।

आत्मै­क­त्व­वि­द्यायाः प्रागे­वं­भू­त­ब्र­ह्म­प्रा­प्ति­र्भ­वि­त­व्ये­त्य­धि­कारी स्वयमेव प्रयोजनत्वेन स्वीकरोत्यतो विषयनिर्देशात् पृथक् न वक्तव्यमित्याह –
आत्मै­क­त्व­वि­द्येति ।
शास्त्रस्य विषय इत्यत्र उक्त इत्यध्याहारः ।

अग्नि­सं­यु­क्त­न­व­नी­त­पि­ण्डस्य पश्चाद्यथा घृतत्वं जन्यते तद्व­न्नि­र­ति­श­या­न­न्दा­द्व­य­चि­त्स्व­भावं ब्रह्म, आत्म­न­स्ते­नै­क्य­म­ना­दि­सिद्धं विषयत्वेन निर्दिष्टम् , अतो ज्ञाना­ग्नि­सं­स­र्गा­न­न्त­र­मा­न­न्द­रू­पेण जायते ब्रह्म, अतो ज्ञान­सं­स­र्गा­दु­त्त­र­का­ली­न­मा­न­न्दत्वं ततः प्राक्त­न­वि­ष­योक्त्या नोक्तमिति आशङ्क्य आनन्दस्य जन्यत्वाभावात् विषयोक्त्या उक्तमेवेत्याह -
न सा विषयाद् बहिरिति ।

सम­स्त­प्र­प­ञ्च­शून्यं ब्रह्मेति श्रुत्या निर्दिष्टं तदै­क्य­ल­क्ष­ण­वि­ष­योक्तौ बन्ध­नि­वृ­त्ति­ल­क्ष­ण­प्र­यो­ज­न­मपि निर्दिष्टं भवति । अतोऽ­न­र्थ­त­द्धे­तु­नि­वृ­त्ति­ल­क्ष­ण­प्र­यो­ज­न­मपि निर्दिष्टं भवति । अतोऽ­न­र्थ­त­द्धे­तु­नि­वृ­त्ति­ल­क्ष­ण­प्र­यो­ज­न­मपि न पृथ­ग्व­क्त­व्य­मि­त्या­शङ्क्य सत्य­ब­न्ध­नि­वृ­त्तित्वं ब्रह्मणः स्वरूपम् , अत­स्त­दै­क्य­रू­प­वि­ष­योक्तौ सत्य­ब­न्ध­नि­वृत्तिः प्रयो­ज­न­त्वे­नोक्ता स्यात् । प्राति­भा­सि­क­ब­न्ध­नि­वृ­त्तिस्तु ज्ञानो­द­य­ना­न्त­री­य­क­सि­द्धा­प्र­यो­ज­न­त्वेन इदानीमुच्यत इत्याह -
समू­ला­न­र्थ­हा­नि­स्त्विति ।

पूर्व­ग्र­न्थो­क्त­म­न­र्थ­हे­तु­नि­वृत्तेः बहिष्ट्वं प्राति­भा­सि­क­ब­न्ध­नि­वृत्तेः उक्तमित्यजानन् पर­मा­र्थ­ब­न्ध­नि­वृत्तेः उक्तमिति मत्वा चोदयति -
अनर्थहेतुप्रहाणमपि तर्हीति ।
प्रति­पा­द­न­पू­र्व­क­मे­वेति निष्प्र­प­ञ्च­रू­पेण ब्रह्म­प्र­ति­पा­द­न­पू­र्व­क­मे­वे­त्यर्थः ।

पदा­र्थ­प्र­ति­पा­द­क­वाक्यं नास्तीति तत्राह –
तद्यथेति ।
प्रपञ्चस्य ब्रह्मरूपेणैकरूप­व­त्वा­भि­धा­नात् जगद् ब्रह्मणि निर्दिश्य ब्रह्मण एव सत्य­त्वा­भि­धा­नाच्च निरस्तप्रपञ्चं ब्रह्म प्रतिपाद्यत इति भावः ।

एकं वाक्यमिति ।
तत्त्वमसीति तादा­त्म्य­वा­क्येन एक­वा­क्य­मि­त्यर्थः ।

ब्रह्म­ग­त­प्र­प­ञ्च­नि­वृत्तेः ब्रह्मा­त्मै­क्य­रू­प­वि­ष­य­मा­त्र­त्वेऽपि जीव­स्या­न­र्थ­यो­गि­त्वा­देव अन­र्थ­नि­वृ­त्त्य­भा­वात् न तस्या­वि­ष­या­न्त­र्भाव इति तत्राह -
तथा सति तादृशेनेति ।
निष्प्र­प­ञ्च­ब्र­ह्मणा एकतां गच्छन् जीवः स्वग­ता­न­र्थ­हे­तु­भू­ता­ग्र­ह­ण­रू­पा­वि­द्या­महं मनुष्य इत्या­द्य­न्य­था­ग्र­हणं च निर्लेपं निश्शेषं पराकृत्यैव पश्चात् ब्रह्मैक्येन महा­वा­क्य­रू­प­शा­स्त्रेण प्रमीयत इत्यर्थः ।

यद्येवमिति ।
पार­मा­र्थि­क­ब­न्ध­नि­रा­सस्तु प्रति­पा­द्य­वि­ष­या­न्त­र्भू­तोऽपि प्राति­भा­सि­का­वि­द्या­त­त्का­र्य­नि­रासो ज्ञाननान्तरीयक इति विषयोक्त्या न तस्यो­क्ति­रि­त्यर्थः ।

न शब्दस्येति ।
ब्रह्म­प्र­ति­पा­द­क­श­ब्दस्य एक­त्व­प्र­ति­पा­द­क­श­ब्दस्य चेत्यर्थः ।

युक्तञ्चैतदिति ।
नान्त­री­य­क­त­या­वि­द्या­दि­प्र­हा­ण­नि­ष्प­त्ति­र्युक्ता तत्त्वा­व­भा­स­वि­रो­धि­त्वात् अवि­द्या­त­त्का­र्य­त्वा­च्चे­त्यर्थः ।

आरो­प्या­भा­व­ज्ञा­नम् अधि­ष्ठा­न­स्या­रो­प्य­वि­रो­धि­भा­वा­न्त­रा­त्म­ता­ज्ञानं चेति बाधकज्ञाने द्वैविध्यमजानन् अभावज्ञानमेव बाधकं मत्वा ब्रह्म­ज्ञा­न­सा­म­ग्री­भू­त­वाक्ये नञाद्यभावात् अभावज्ञानत्वं नास्ति, अतो न बाधकत्वं ब्रह्म­ज्ञा­न­स्येति चोदयति -
ननु नञादेरिति ।

ब्रह्मज्ञानं निषेधज्ञानतया बाधकं न भवति, अधि­ष्ठा­न­स्या­रो­प्य­वि­रो­धि­भा­वा­न्त­रा­त्म­त्व­ज्ञा­न­तया बाधकं मत्वा नञाद्यभावो न दोषायेत्याह -
उच्यत इति ।

अन्य­वि­ष­य­व्या­पा­रा­द­न्यस्य नान्त­री­य­क­नि­ष्पत्तौ दृष्टान्तमाह -
तुलो­न्न­म­न­व्या­पार इवेति ।

अधो­दे­श­स­म्ब­न्धोऽ­प्यु­न्न­म­न­व्या­पा­रस्य विषयतया सिध्यति, न नान्तरीयकतयेति, तत्राह -
न चोन्न­म­न­का­र­क­स्येति ।

प्रसि­द्ध्य­भा­वा­दिति ।
आनमनं करोतीति प्रसि­द्ध्य­भा­वा­दि­त्यर्थः ।

अनु­भ­व­वि­रो­धा­च्चेति ।
उन्नमनं करोति इत्य­नु­भ­व­वि­रो­धा­च्चे­त्यर्थः ।

भवतु ब्रह्मा­त्मै­क्य­ज्ञा­नो­द­य­ना­न्त­री­य­क­तया बन्ध­नि­रा­स­नि­ष्पत्तिः । निरासप्रतीतिः कथं स्यादि­त्या­शङ्क्य साप्यै­क्य­प्र­ती­ति­ना­न्त­री­य­के­त्याह –
तदेवमिति ।
यथा निरासः तथा तत्प्र­ति­प­त्ति­र­पी­त्ये­वं­श­ब्दार्थः । नाहं कर्ता ब्रह्मा­ह­मि­त्यत्र ब्रह्माहं नाहं कर्तेत्यन्वयः । तत्र ब्रह्माहमिति वाक्यार्थबोधः, नाहङ्कर्तेति नान्तरीयकबोध इति विभागो द्रष्टव्यः । नेदं रजतमित्यत्रापि एषैव योजना ।

शुक्तिकेयमिति वाक्यजन्यज्ञानं निरासं विषयीकृत्य साधयति -
न नान्त­री­य­क­त्वे­नेति ?

तस्मा­च्छु­क्ति­के­य­मि­त्य­नु­वाद इति ।
वाक्या­र्थ­ज्ञा­नेन वाक्यार्थे स्फुरति सति तेन स्फुरणेन न स्वग­ता­वि­द्या­त­त्का­र्य­नि­वृ­त्ते­रपि नान्तरीयकतया स्फुरितत्वात् , एवं स्फुरि­त­नि­वृ­त्ते­र्नेदं रजतमित्यनुवाद इत्यर्थः ।

अर्था­न्त­र­ज्ञा­ने­ना­र्था­न्त­रस्य नान्त­री­य­क­प्र­ति­भासे दृष्टान्तमाह -
अत एवा­ख्या­त­प­द­स्येति ।

वाक्यत्व इति ।
वाक्या­र्थ­भू­त­क्रि­या­भि­धा­यि­तया वाक्यत्व इत्यर्थः ।

तत्सा­ध­न­मा­त्रेऽपि प्रती­ति­सि­द्धे­रिति ।
व्रीहि­य­व­प­श्वा­ज्य­प­य­आ­दि­सा­ध­नेषु प्रतीति सिद्धेरित्यर्थः ।

तत्रापि प्रती­य­मा­न­सा­ध­ना­ना­म­नेन वा अनेन वा इति विकल्पेन क्रिया­न्व­य­प्र­ति­पत्तौ व्रीहि­भि­रि­त्या­दि­प­दा­न्त­राणि साध­न­वि­शे­ष­नि­य­मा­र्थानि सर्वसाधनानां नित्यवत् क्रिया­न्व­य­प्र­ति­पत्तौ एक­सा­ध­ना­नु­वा­द­मु­खे­ना­न्य­नि­वृ­त्त्य­र्थानि भवन्तीत्याह -
पदान्तराणि नियमायानुवादाय वेति ।

उदाहरणान्तरमाह -
तथा चाहुः - यजतीति ।
द्रव्यदेवता क्रिया­स­मु­दा­य­म­भि­द­धाति यजति चोदना, तद्विषयत्वे सति निरा­का­ङ्क्ष­त्वा­दि­त्यर्थः ।

क्रियावाचिपदं द्रव्या­दि­क­म­भि­द­धा­ती­त्यु­क्त­त्वात् न नान्तरीयकतया द्रव्यादिकं न साधयतीति तत्राह -
कथं हीति ।

अयमेव प्रकार इति ।
निरा­स­वि­शि­ष्ट­शु­क्ति­वि­ष­य­तया न निरासबोधकत्वम् , शुक्ति­बो­ध­न­ना­न्त­री­य­क­त­यैव निरा­स­बो­ध­क­त्व­मि­त्यर्थः ।

अस­म्प्र­यु­क्त­वि­ष­य­त्वा­दिति ।
प्रत्य­क्ष­त्व­म­भा­व­स्येति वदतामपि प्रत्य­क्ष­प्र­तियोगिकाभावस्य प्रत्य­क्ष­त्व­मि­त्य­भ्यु­प­ग­मात् शुक्तिकेयमिति प्रत्य­क्ष­वि­ष­य­तया अप्र­त्य­क्ष­रू­प्य­नि­रा­स­सि­द्धिर्न सम्भवतीत्यर्थः ।

अन­र्थ­हे­तु­प्र­हा­णस्य ब्रह्म­वि­द्या­फ­ल­त्वात् वेदा­न्ता­र­म्भ­फ­ल­त्वेन चतुर्थ्या कथं निर्देश इत्याशङ्क्य न साक्षात् फलत्वविवक्षया चतुर्थीप्रयोग इत्याह –
चतु­र्थी­प्र­यो­गोऽ­पीति ।
उपादानं वेदान्तारम्भ इत्यर्थः ।

अन­र्थ­हे­तु­नि­रा­सस्य साध्या­ति­श­य­त्वेऽपि प्रयोजनतया न प्रवर्तकत्वम् , प्रयोजनत्वं विज्ञानस्य भवतु न वाक्यस्येति तत्राह -
प्रयोजनत्वं चेति ।

आकाङ्क्षाया इति ।
आकाङ्क्ष्यत इत्याकाङ्क्षा, आका­ङ्क्ष्य­मा­ण­स्यैव व्यवहितत्वेऽपि वेदान्तारम्भं प्रति प्रयो­ज­न­त्व­म­स्ती­त्यर्थः ।

विद्या­प्र­ति­प­त्तय इति प्राप्ति­वा­चि­प्र­ति­प­त्ति­श­ब्द­मा­क्षि­पति -
न हि विद्येति ।

तटस्थेति ।
भिन्नदेशे सत्वं न लक्षत इत्यर्थः ।

स्वरूपतः प्राक् अथ, फलशिरस्कवेषेण च ज्ञातु­रु­त्प­त्त्यैव प्राप्तैवेत्याह -
सा हीति ।

विद्याया विषयेण सह अप­रो­क्षा­व­भा­सत्वं प्राप्ति­रि­त्यु­च्यते । तत् स्थूल­घ­टा­दा­वु­त्प­त्त्यैव भवति, सूक्ष्म­ब्र­ह्मा­त्मनि तु न सम्भवतीत्याह –
सत्यमेवमिति ।
अत्र विद्येति विचा­रि­त­श­क्ति­ता­त्प­र्यो­प­हि­तात् शब्दात् उत्पन्नोच्यते ।

प्रतिष्ठामिति ।
विषयेण सह अप­रो­क्ष­मि­त्यर्थः ।

असम्भावनेति ।
चित्तस्य ब्रह्मा­त्म­प­रि­भा­व­ना­प्र­च­य­नि­मि­त्त­त­दे­का­ग्र­वृ­त्त्य­यो­ग्य­तो­च्यते ।

विपरीतभावनेति ।
शरी­रा­द्य­ध्या­स­सं­स्कारप्रचयः ।

अप­रो­क्ष­ज्ञा­न­का­र­ण­ज­न्य­ज्ञाने सत्यपि अस­म्भा­व­ना­दि­चि­त्त­दो­षात् अप­रो­क्ष­नि­श्च­या­भावे दृष्टान्तमाह -
तथा च लोक इति ।

इदं वस्तु इत्या­दि­म­री­च­फ­ला­दि­रु­च्यते ।
कथञ्चिदिति ।
नौया­ना­दि­ने­त्यर्थः ।

दैववशादिति ।
नदी­वे­गा­दि­ने­त्यर्थः ।

नाध्यवस्यतीति ।
अस­म्भा­वि­म­री­च­फ­ल­त्वा­दि­वि­शे­षांशं नाध्य­व­स्य­ती­त्यर्थः । तत् स्वप्रतिष्ठायै तस्य ज्ञानस्य स्वविषयेण सहापरोक्षाय इत्यर्थः । प्रमा­ण­श­क्ति­वि­ष­य­त­दि­त्यत्र तदिति तत्त्वमुच्यते । प्रमा­णा­दि­तत्त्वे सम्भ­वा­स­म्भ­व­प्र­त्ययः तर्को न नियामक इत्यर्थः ।

तथा अनु­भ­व­फ­ला­नु­त्प­त्ता­विति ।
अस­म्भा­व­ना­भि­भू­त­वि­षये आप­रो­क्ष्य­फ­ला­नु­त्प­त्ता­वि­त्यर्थः ।

अनात्मनि सम्भ­वेऽ­प्या­त्मनि स्वयम्प्रकाशे अस­म्भा­व­ना­दि­रू­प­प्र­ति­बन्धो न सम्भवतीति तत्राह -
तथा च तत्त्वमसीति ।

असम्भावयन्निति ।
चित्तस्य ब्रह्मा­त्म­प­रि­भा­व­ना­सं­स्का­र­नि­मि­त्तै­का­ग्र्य­वृ­त्त्य­यो­ग्य­तया आपरोक्ष्याभावं मन्यमान इत्यर्थः ।

विपरीतं च रूपमिति ।
शरी­रा­द्य­भि­मा­न­सं­स्का­र­प्र­च­य­नि­मि­त्ता­ने­का­ग्र­ता­दो­षेण परोक्षमिति मन्यमान इत्यर्थः । यावत्तर्केण इत्यत्र तर्कशब्देन कर्मा­ग­मा­दि­म­न­न­नि­दि­ध्या­स­न­श­मा­दयो वेदान्तेषु शब्दसहकारित्वेन निर्दिष्टा इत्यर्थः ।

अविकलमनु­व­र्त­मा­न­त्वा­दिति ।
व्यति­रे­क­ज्ञा­ना­दू­र्ध्व­मिव ब्रह्मा­त्म­ज्ञा­ना­दू­र्ध्व­मपि अनु­व­र्त­मा­न­त्वात् अनुवर्तकत्वं तुल्यमित्यर्थः ।

अज्ञा­न­नि­व­र्त­क­त्व­मपि ब्रह्मज्ञानस्य व्यति­रे­क­ज्ञा­न­वन्न सिध्यतीति तत्राह -
न हि जीवस्येति ।
ब्रह्मा­त्म­ज्ञा­नेन समानविषयत्वात् निवर्तकमिति भावः । ऐश्वर्याय पश्वा­द्य­र्थ­म­भ्यु­द­याय स्वर्गाद्यर्थम् , कर्मसमृद्धय इति कर्म­फ­ला­ति­रि­क्त­फ­ल­शू­न्य­तया कर्म­फ­ल­स­मृ­द्ध्य­र्थानि अङ्गा­श्रि­तो­पा­स­ना­नी­त्यर्थः ।

निष्प्र­प­ञ्च­ब्र­ह्म­प्र­ति­प­त्त्यु­पा­य­तया तद­ङ्ग­भू­त­स­प्र­प­ञ्च­ब्र­ह्म­वि­ष­य­त्वात् उपासनावाक्यस्य पर­मा­ङ्गि­नि­ष्प्र­प­ञ्च­ब्र­ह्म­शे­ष­त्व­म­स्ती­त्याह -
सत्यम् , उपासनाकर्मत्विति ।

निष्प्र­प­ञ्च­ब्रह्म प्रति कथं सप्र­प­ञ्च­स्या­ङ्ग­त्व­मिति आशङ्क्य अध्या­रो­पा­प­वा­द­न्या­ये­नो­प­यो­गात् अङ्गत्वमित्याह –
तच्चापाकृतेति ।

निरा­सा­र्थ­मु­प­दि­ष्ट­स­प्र­प­ञ्च­रू­प­मा­श्रित्य कथमुपासनं विधीयत इत्याशङ्क्य फलविशेषसिद्धेः तदर्थिनं मन्दाधिकारिणं प्रति विधानमित्याह -
अस्यां चेति ।
उपधीयमानं उपा­धि­ना­श्रि­य­माणं गम्यमानं व्याप्त­मि­त्यर्थः ।

अन्या­ङ्ग­स्यो­पा­सि­तस्य कथं पृथ­क्फ­ल­हे­तु­त्व­मिति तत्राह –
दर्शपूर्णमासेति ।

अतो वेदान्तानां महातात्पर्यं परब्रह्मण्येव इत्युपसंहरति -
तस्मा­त्त­द­र्थो­प­जी­वि­त्वा­दिति ।

मुक्तिफलान्येव इति ।
परम्परया ब्रह्मा­त्मै­क­त्वा­व­गति हेतुतया मुक्ति­फ­ला­न्ये­वे­त्यर्थः ।

ब्रह्मा­त्मै­क­त्व­ब­न्ध­नि­वृत्त्योः वेदान्तं प्रति विष­य­प्र­यो­ज­न­त्व­मस्तु विचारशास्त्रस्य विषयादि न लभ्यत इत्याशङ्क्य तस्यापि त एव विषयप्रयोजने इति मत्वा आह -
यथा चायमिति ।

भाष्यस्य तात्पर्यमाह -
प्रतिज्ञातेऽर्थ इति ।
प्रथ­म­सू­त्रे­णा­र्थात् सूत्रिते ब्रह्मात्मैकत्व इत्यर्थः ।

उपदर्शयितुमिति ।
उपदर्शयितुं समर्थन्यायो ग्रथित इति दर्शयतीत्यर्थः ।

कृतो ग्रन्थ इति
वेदान्ता उच्यन्ते ।

वेदान्तान्तं शरीरकत्वेऽपि विचारशास्त्रस्य कथं शारीरकत्वमिति तदाह –
तदिहेति ।

प्रणीतानामिति ।
सूत्रा­णा­मि­त्यर्थः । विचा­र­क­र्त­व्य­ता­मात्रं सूत्रार्थः ।

तत्र विष­य­प्र­यो­ज­न­यो­र­सू­त्रि­तयोः वेदा­न्त­त­द्वि­चा­र­स­म्ब­न्धि­तया उप­पा­द­न­म­यु­क्त­मि­त्या­शङ्क्य सूत्रितत्वं दर्शयति -
मुमुक्षत्वे सत्यनन्तरमिति ।

यत्र प्रवृत्तिरिति ।
यस्मिन् धात्वर्थे हितसाधनता लिङा­दि­प­दै­रु­प­दि­श्यत इत्यर्थः ।

यत्र प्रवृत्तिरिति ।
प्रवृ­त्ति­वि­ष­य­हि­त­सा­ध­न­तो­च्यते ।

तस्येति ।
धात्व­र्थ­स्ये­त्यर्थः । तत्साधनत्वं कामि­त­सा­ध­न­त्व­मि­त्यर्थः ।

कथं विष­या­दि­सू­त्रि­त­मिति तदाह -
तथा सतीति ।
ब्रह्मज्ञानं विषयो निर्दिष्ट इति ज्ञायमानं ब्रह्म ज्ञान­हे­तु­शास्त्रं प्रति विषयत्वेन निर्दि­ष्ट­मि­त्यर्थः ।

वृत्तं सङ्कीर्तयति -
तदेवमित्यादिना ।

प्रति­ज्ञा­ता­र्थ­सि­द्धय इति ।
वेदान्तानां बन्धनिवृत्तिः ब्रह्मात्मैक्यं च विषयप्रयोजन इति प्रति­ज्ञा­ता­र्थ­सि­द्धय इत्यर्थः ।

व्याख्ये­य­त्व­मु­प­क्षिप्य इति ।
शास्त्रे प्रदर्शयिष्याम इत्युक्त्या शास्त्रस्यापि वेदा­न्त­वि­ष­या­दिना विष­या­दि­म­त्व­द्यो­त­नेन विषयादिमत्वादेव व्याख्ये­य­त्व­मु­प­क्षि­प्ये­त्यर्थः ।

वेदा­न्त­मी­मां­से­त्या­दि­भा­ष्यस्य तात्पर्यमाह -
प्रथमं तावदिति ।
प्रथ­म­सू­त्रे­णो­प­पा­दन इत्यर्थः । महिमेति महा­ता­त्प­र्य­मु­च्यते ।

तत्रा­द्य­श­ब्द­इ­त्या­दि­प­द­व्या­ख्या­न­भा­ष्यस्य वृत्त­स­ङ्की­र्त­न­पू्र्वकं तात्पर्यमाह -
एवं सूत्रस्येति ।
तत्सा­म­र्थ्या­व­गतं सूत्र­सा­म­र्थ्या­व­ग­त­मि­त्यर्थः । || इति प्रथ­म­व­र्ण­क­का­शिका ||