अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

२ परिच्छेदः

विचारविधेः बन्ध­नि­वृ­त्ति­रू­प­फ­ला­नु­बन्धो ब्रह्मा­त्म­ता­रू­प­व्य­व­हि­त­वि­ष­या­नु­ब­न्ध­श्चोक्तः । इदानीं विचा­रा­ख्या­व्य­व­हि­त­वि­ष­या­नु­ब­न्धम् अन्यत एवा­प्रा­प्ता­नु­ष्ठानं दर्शयितुं प्रथममाक्षिपति -
सिद्धैव ननु ब्रह्म­जि­ज्ञा­सेति ।
वेदा­न्ता­ना­म­र्थ­नि­र्ण­या­पे­क्षितो न्यायकलाप अथातो धर्म­जि­ज्ञा­से­त्या­दि­सूत्रे सूत्रित इत्यर्थः ।

विधि­वा­क्या­र्थ­नि­र्णयः तत्र प्रवृत्त इत्याशङ्क्य वेदस्य कार्य­मा­त्र­प­र­त्व­म­ङ्गी­कृत्य परिहरति -
सकलवेदार्थेति ।
अत्र चोदितत्वादिति पदच्छेदः । विहि­त­त्वा­दि­त्यर्थः । उदितत्वादिति च पदच्छेदः । उदितत्वात् प्रति­ज्ञा­त­त्वात् चका­रा­द्वि­चा­रि­त­त्वा­च्चे­त्यर्थः ।

वेदान्तानां ब्रह्म­वि­ष­य­त्वात् सकलवेदस्य न कार्या­र्थ­त्व­मि­त्या­शङ्क्य तेषामपि ज्ञाना­ख्य­ध­र्म­रू­प­का­र्या­र्थ­त्व­मे­वे­त्याह -
ब्रह्मज्ञानस्य चेति ।

यथा प्रत्य­ध्या­य­मा­श­ङ्का­न्त­र­नि­रा­क­र­णेन विध्यंशभेदो निरूपितः तथा प्रतिपत्तव्यस्य ब्रह्मणः प्रत्य­क्षा­दि­भि­र­सि­द्ध­त्वात् तद्वि­शे­ष­प्र­ति­प­त्ति­वि­ध्य­यो­ग­श­ङ्कायां यूपाहवनीयादिवत् ब्रह्मणः सिद्धेरसिद्धौ चारोपितरूपेणापि उपासनासिद्धेः वेदान्तेषु विधिरस्तीति निर्णयाय इदमारभ्यत इति तत्राह -
अभ्य­धि­का­श­ङ्का­भा­वा­दिति ।

आशङ्कानिराकरणेन सिद्धा­न्तै­क­दे­शि­ना­मा­र­म्भ­प्र­कारं दूष­यि­तु­म­ना­र­म्भ­वादी तं दर्शयति -
अत्र केचिदिति ।

(अधीतवाक्यात् अधीत)प्रामाण्यं दर्शितमिति ।
विधि­र­हि­त­वा­क्य­म­प्र­मा­ण­मि­त्य­भि­प्रा­येण विधेः प्रामाण्यं दर्शितमित्यर्थः ।

विधिरहितमपि वाक्यं विधि­यु­क्त­वा­क्येन एकवाक्यत्वेन सम्बध्यते । अतो न सर्वत्र विधि­श्र­व­णा­पेक्षा इत्याशङ्क्य विधे­र­नु­प­प­त्ति­रे­वे­त्य­भि­प्रे­त्याह -
यत्रापीति ।
तत्रापि विधे­र­नु­प­प­त्ति­रिति भावः ।

कृत्य­प्र­त्य­यानां कृत्याश्चेति विधौ स्मरणात् तव्यप्रत्ययेन ज्ञान विधीयत इति तत्राह -
यद्यपि कृत्या इति ।
तथापि इह तु विधिर्न सम्भवतीत्यर्थः ।

अविशेषेणेति ।
भावकर्मणोः स्मरणवदिति भावः ।

गन्तव्यमिति गमनविधानवत् । ज्ञानं विधी­य­ता­मि­त्या­शङ्क्य तव्यप्रत्ययस्य धात्व­र्थ­वि­ष­यत्वे सति धात्वर्थस्य प्राधान्येन स्वतन्त्रफलाय विधानं युक्तं न त्वन्यत्रेत्याह -
यो भावाभिधायीति ।
क्रिया­स­म­वे­त­नि­यो­गा­भि­धा­यि­त्वेन क्रियायां पर्यवसायी प्रत्यय इत्यर्थः ।

क्रियाप्रधानत्वादिति ।
क्रिया­स­म­वे­त­नि­यो­गा­भि­धा­यित्वे प्रत्ययस्य क्रियायां कर्म­ण्य­ति­श­य­हे­तु­त्वेन तं प्रति गुण­भू­त­त्वा­भा­वा­देव स्वत­न्त्र­फ­ल­सा­ध­न­त्वेन प्रधानत्वं भवतीत्यर्थः ।

नियोक्तुं शक्नोतीति ।
क्रिया­स­म­वे­त­नि­योगं पुरुषं प्रति बोधयितुं शक्नोतीत्यर्थः ।

स्वाध्या­योऽ­ध्ये­तव्य इतिवत् कर्मा­भि­धा­यि­त­व्य­प्र­त्य­या­दपि धात्व­र्थ­वि­धि­र­व­ग­म्य­ता­मि­त्या­शङ्क्य तथापि स्वतन्त्रफलाय वा धात्वर्थो विधीयताम् , किं वा कर्म­का­र­क­ग­त­फ­ला­येति विकल्प्य न तावत् स्वत­न्त्र­फ­ला­ये­त्याह -
यत्र पुनः कर्म प्राधा­न्ये­नो­च्यत इति ।
अत्र कर्मेति पदच्छेदः । क्रिया­वि­ष­य­द्र­व्य­मि­त्यर्थः ।

न कार्या­न्त­र­स­म्ब­न्धि­त्वे­नेति ।
अतिशयहेतुत्वेन तं प्रति गुणभूत क्रिया स्वत­न्त्रा­दृष्टं प्रति गुणभूतां कर्तुं न शक्नोतीत्यर्थः ।

अथ कर्म­का­र­क­स­म­वा­यि­फ­लाय विधिस्तत्राह -
द्रव्यपरत्व इति ।
अनादित्वात् अविकारित्वात् नित्य­प्रा­प्त­त्वात् निर्गुणत्वादिति क्रमेण अनु­त्पा­द्य­त्वा­दीनां हेतु­र्द्र­ष्टव्यः ।

आत्मनि गुण­प्र­धा­ना­ख्य­सं­स्का­र­स­म्भवे विहि­त­क्रि­या­सा­म­र्थ्यात् अज्ञा­ना­ध­र्मा­दि­म­ला­प­क­र्ष­ण­सं­स्कारः स्यात् - नेत्याह -
संस्कृतस्य चेति ।
संस्कृ­त­व्री­ह्या­दे­र्या­ग­ज­न्या­पू­र्वो­प­यो­ग­व­दा­त्मनः अपू­र्वो­प­यो­ग­भा­वा­दि­त्यर्थः ।

ईप्सिततमत्वमिति ।
क्रिया­ज­न्या­ति­श­य­वि­शि­ष्ट­तया कर्म­त्व­मि­त्यर्थः ।

विपरीतो गुणप्रधानभाव इति ।
आत्मनि क्रिया­ज­न्या­ति­श­या­स­म्भ­वात् आत्मानमिति क्रिया­ज­न्या­ति­श­य­वि­शि­ष्ट­तया क्रियां प्रति प्राधान्यं प्रतीयमानं विहाय आत्मना उपासीतेति क्रियां प्रति कारकत्वेन आत्मनो गुणभावः कल्प्यते । उपासनस्यापि आत्मनि दृष्टा­दृ­ष्टा­ति­श­य­हे­तु­त्वेन तं प्रति गुणभावं प्रतीयमानं विहाय आत्मना उपासीतेति स्वत­न्त्रा­दृ­ष्ट­हे­तु­त्वात् प्राधान्यं कल्प्यत इत्यर्थः ।

सक्तुन्यायेनेति ।
सक्तून् जुहोतीति क्रतुप्रकरणे श्रवणात् । सक्तुहोमस्य क्रत्वङ्गत्वे वक्तव्ये सक्तु­ग­ता­ति­श­य­हे­तु­त्वेन संस्का­र­क­र्म­त्व­प्र­तीतेः, प्रयाजादिवत् अङ्गत्वायोगात् सक्तूनां अन्य­त्रो­प­यो­गा­स­म्भ­वात् संस्का­र­क­र्म­त्व­स्या­प्य­यो­गात् वैयर्थ्ययोगाच्च सक्तूनिति प्रतीयमानं प्राधान्यं विहाय सक्तुभिरिति गुण­भा­व­म­ङ्गी­कृत्य होमस्यापि प्रती­य­मा­न­गु­ण­भावं विहाय स्वत­न्त्रा­दृ­ष्ट­हे­तु­तया प्राधा­न्य­म­भ्यु­प­गम्य प्रयाजादिवत् अङ्गता सक्तुहोमस्य निर्णीता, तद्वदित्यर्थः ।

तत्र यथाशब्दतो होम­प्रा­धा­न्येऽपि सक­र्म­क­त्वा­द्धातोः सक्तव एवार्थतः कर्मकारकतया स्वीक्रियन्ते । एवमवगमस्यापि सक­र्म­क­त्वा­दे­वा­र्थतः कर्माभावेन विधानमिति परिहरति -
तत्रापि न ज्ञायत इति ।

शब्दतः करणत्वेऽपि अर्थतः कर्मता आत्मन एवेत्याशङ्कते -
अथ ज्ञायत इति ।

अर्थतः कर्मत्वे सति आत्मनि क्रिया­ज­न्या­ति­शयो वक्तव्यः, तत्रो­त्पा­द्य­त्व­विकार्यत्व­यो­र­स­म्भ­वात् आप्यत्वं संस्कार्यत्वं वा गतिः स्यात् । तत्र तावदर्थतः (आत्मनः ? ) प्रती­ति­त­श्चा­वाप्तिः अना­दि­सि­द्धा­सं­स्का­र्यस्य चोपयोगाभाव उक्तः । अतो निष्कर्मकं विज्ञानं न विधातुं शक्यत इत्याह -
एवं तर्हीति ।
अविवक्षितार्था अप्रमाणभूता इत्यर्थः ।

यत्र पुनः कर्मेत्यत्र कर्म­स­म­वा­य्य­दृ­ष्टा­भि­धा­नेन कर्म­प­र्य­व­सि­त­प्र­त्ययः क्रियायां नियोगं न बोधयतीत्युक्तं परिहरति -
कर्मा­भि­धा­यि­नोऽ­पीति ।

संप्रत्ययादिति ।
प्रती­ते­रि­त्यर्थः । नियोक्तृत्वं नियो­ग­बो­ध­क­त्व­मि­त्यर्थः ।

प्रयो­ज­ना­भा­वा­दिति ।
द्रव्यपरत्वे आत्मनि क्रिया­ज­न्या­ति­श­या­भा­वा­दि­त्यर्थः ।

अवि­द्यो­च्छे­द­रू­प­सं­स्का­र­स्या­न्यत्र विनियोगो नास्ती­त्या­शङ्क्य संसा­र­हे­तू­च्छे­द­रू­प­सं­स्का­र­त्वा­देव पुरुषार्थत्वात् नान्यत्र विनियोगापेक्षा इत्याह -
अविद्या च संसारहेतुभूता इति ।

ब्रह्मणि प्रमाणाभावादेव तस्याभावात् न तद्विचाराय शास्त्र­मा­र­ब्ध­व्य­मिति । द्विती­या­र­म्भ­वा­दिनो व्याव­र्त्य­श­ङ्का­माह -
ब्रह्मणि प्रत्य­या­न्त­रा­णा­मिति ।

कार्यविषयतया सुतरामिति ।
आम्नायस्य कार्य­नि­ष्ठ­त्वात् ब्रह्म­नि­ष्ठ­त्वेऽपि तस्मिन् योग्य­प्र­मा­णा­न्त­रा­स­म्भ­वात् स्पर्श­गो­च­र­चा­क्षु­ष­चि­त्र­नि­म्नो­न्न­ता­दि­वत् ब्रह्म­व­स्त्व­भा­वात् न तत्र प्रामा­ण्य­सि­द्धि­रि­त्यर्थः । सङ्कर्षपर्यन्त इति कर्मकाण्डं देवताकाण्डं ब्रह्मकाण्डमिति काण्ड­त्र­या­त्मि­कायां मीमांसायां सङ्क­र्षा­ख्य­दे­व­ता­का­ण्डा­व­साने वेदार्थविचारस्य समाप्तिः (स्यात्)ब्र­ह्मणो अभावादिति बुद्धिः स्यादित्यर्थः ।

तन्नि­रा­सा­र्थ­मिति ।
वेदान्तेषु विधिरस्ति । स च विधिः आत्म­मा­त्र­ज्ञा­नस्य नित्य­प्रा­प्त­त्वेऽपि आत्मतया ब्रह्मणः अवबोधे सम्भवति । अतो विधौ महातात्पर्येऽपि विध्या­का­ङ्क्षि­त­ब्र­ह्म­ण्यपि अवा­न्त­र­ता­त्प­र्य­मस्ति । अतो ब्रह्मणः सद्भावात् तत्प्र­ति­प­त्ति­वि­ध्योश्च सम्भवात् विधि­शे­ष­ब्र­ह्म­वि­चा­राय पुनः प्रति­ज्ञा­त­मि­त्यर्थः ।

ब्रह्मणो नास्ति­त्व­मा­शङ्क्य समाधानं क्रियते चेत् सिद्धान्तात् को विशेष इति तत्राह -
इहापीति ।
द्विती­या­र­म्भ­वा­दि­म­तेऽ­पी­त्यर्थः ।

आत्म­ज्ञा­न­वि­धा­ने­ष्विति ।
आत्म­प्र­ति­पा­द­क­वे­दा­न्त­वा­क्ये­ष्वि­त्यर्थः ।

समामिति ।
कर्मभागेन समामित्यर्थः ।

नित्य­प्रा­प्त­म­ह­मि­त्या­त्म­मा­त्र­ज्ञानं न विधेयमिति । सत्यम् । न तस्य विधिरित्याह -
तत्वावबोधश्चेति ।

अधि­का­र­नि­यो­ग­वि­ष­य­त­येति ।
‘तरति शोकमात्मवित्’ ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिवाक्येषु ज्ञानस्य फलसम्बन्धो गम्यते । तत्फलकामिना ज्ञानमनुष्ठेयं नियो­गा­च्चा­नु­ष्ठा­न­मिति इष्ट­फ­ल­का­मि­नि­यो­ग­वि­ष­य­तया अवगमादिति भावः । तद्विचारार्थम् ; विधि­शे­ष­ब्र­ह्म­वि­चा­रा­र्थ­मि­त्यर्थः ।

सिद्धा­न्तै­क­दे­शि­ना­मा­र­म्भ­प्र­कारं पूर्ववादी निराचष्टे -
अत्रोच्यत इत्यादिना ।

वेदान्तेषु विधि­र्ना­स्ती­त्यु­क्ता­म­भ्य­धि­का­शङ्कां प्रथमं दूषयति -
यस्तावदिति ।

संप्रत्यय इति ।
प्रती­ति­रि­त्यर्थः ।

लोके कृत्यप्रत्ययो न नियोगं गमयतीति उच्यते, किं वा वेद इति विकल्प्य प्रथमं दूषयति -
तत् स्वयमेवेति ।
प्रथ­मा­र­म्भ­वा­दि­नैव कटस्त्वया कर्तव्य इत्यादिषु प्रद­र्शि­त­मि­त्यर्थः ।

वेदे कृत्यप्रत्ययस्य नियो­ग­बो­ध­क­त्वा­भावं दूषयति -
प्रसिद्धं चैतदिति ।

आशङ्काकारणमिति ।
वेदान्तेषु विधि­र्ना­स्ती­त्या­श­ङ्का­का­रणं नास्तीत्यर्थः ।

असम्भव उक्त इति ।
अतो निष्कर्मकज्ञाने विध्यसम्भव उक्त इति भावः ।

सक्तुन्यायो भविष्यतीति ।
कर्तृ­स­म­वा­यि­मो­क्ष­फ­लाय आत्मना ज्ञानं कर्तव्यमिति विधिः स्यादित्यर्थः ।

सक्तुन्यायेन ज्ञान­वि­ध्य­भ्यु­प­ग­मेऽपि अपूर्वविधिः किं वा नियमविधिः किं वा परिसङ्ख्या विधिरिति विकल्प्यापूर्वविधिर्न सम्भवति, अत्य­न्त­म­प्रा­प्त­त्वा­भा­वा­दि­त्याह -
तदपि नेति ।

कदा­चि­द­नु­ष्ठा­न­नि­वृ­त्तये सिद्धस्यैव ज्ञानस्याभ्यासे नियमविधिः स्यादिति चोदयति -
सिद्धस्यैवेति ।

अभ्युदयफल इति ।
कर्तृसमवायिनि अन्यफल इत्यर्थः ।

हिरण्यधारणवदिति ।
हिरण्यं बिभृयादित्यत्र भरणेन संस्कृ­त­हि­र­ण्य­स्या­न्यत्र विनियोगाभावात् । विनियोगाभावेऽपि संस्का­रा­श्र­य­हि­र­ण्यस्य क्रता­वे­वा­नु­प्र­वे­शात् तद्वारेण क्रत्व­नु­प्र­वे­श­नि­यम इति च न सम्भवति । आश्रयहिरण्यस्य क्रता­वे­व­अ­नु­प्र­वेश नियमाभावेन निय­त­द्वा­र­त्वा­भा­वात् , अतः सक्तुन्यायेन स्वतन्त्रविधित्वमभ्युपगम्य रागतः पक्षे प्राप्तभरणस्य निय­म­वि­धि­त्व­म­भ्यु­प­ग­म्यते, तद्व­द­त्रा­पी­त्यर्थः ।

आत्म­वि­ष­य­ज्ञा­न­स­न्ता­नस्य सर्वदा अनुवृत्तेः पक्षे प्राप्त्य­भा­वान्न नियमविधिरिति चोदयति -
ननु विधानतोऽपीति ।

तर्हि अना­त्म­प्र­ति­भा­स­नि­वृ­त्तये परिसङ्ख्याविधिः अदृष्टार्थः स्यादित्याह -
एवं तर्हीति ।

अर्था­वि­रु­द्धे­ष्विति ।
देह­या­त्रा­नि­र्वा­ह­का­ल­व्य­ति­रि­क्त­का­ले­ष्वि­त्यर्थः । अतो वेदान्तेषु विधि­र्ना­स्ती­त्य­भ्य­धि­का­श­ङ्का­न­व­काश इति भावः ।

सिद्धा­न्त्ये­क­दे­शिना विधि­र­स्ती­त्युक्तं यत् समाधानं तदप्ययुक्तम् , कर्म­स्थ­प्र­यो­ज­ना­स­म्भ­वा­देव ज्ञान­वि­ध्य­यो­गा­दि­त्याह -
यत्पु­न­रा­त्म­ज्ञा­ना­दि­त्या­दिना ।
अविहित ज्ञान­स­न्ता­न­स्या­नि­व­र्त­कत्वे सति तस्य विधा­नेऽ­प्य­नि­व­र्त­क­त्व­मे­वेति भावः ।

तर्हि अलौ­कि­का­त्म­त­त्व­ज्ञा­नम् अवि­द्या­दि­दो­ष­नि­वृ­त्ति­फलं विधी­य­ता­मि­त्या­श­ङ्कते -
अथ पुनरिति ।

ज्ञेयत्वेनेति ।
विधे­य­ज्ञा­न­वि­ष­य­त्वे­ने­त्यर्थः ।

यथा सामा­न्य­प्र­सि­द्ध­या­ग­मु­द्दि­श्या­नु­भू­त­या­ग­व्य­क्ति­स­दृशं याग­व्य­क्त्य­न्तरं बुद्धिस्थमेव विधीयते, एव­म­लौ­कि­का­त्म­ज्ञानं सामान्यतः प्रसि­द्ध­मु­द्दिश्य पूर्वा­नु­भू­त­ज्ञा­न­व्य­क्ति­स­दृशं ज्ञान­व्य­क्त्य­न्तरं बुद्धावाकलय्यत्कर्तव्यतया विधेयमिति वक्तव्यम् । तस्य तु ज्ञान­स्या­त्य­न्ता­प्र­सि­द्ध­त्वात् न विधानसम्भव इत्याह -
तदसत् ; विधिर्हीति ।

ज्ञानसामान्यस्य लोके सिद्धत्वात् तदुद्देशेन विधाने तद्व्यक्तित्वेन अलौ­कि­का­त्म­ज्ञानं कर्तव्यतया प्रमी­य­ता­मि­त्या­शङ्क्य तादृ­गा­त्म­ज्ञा­न­सा­मा­न्य­व्य­क्ति­त्वे­ना­प्र­सि­द्ध­त्वात् तादृ­श­ज्ञा­न­व्य­क्त्य­न्त­रस्य बुद्धा­वा­रो­प­यि­तु­म­श­क्य­त्वात् न विधानसम्भव इत्याह -
तद्यदि नामेति ।

तादृ­गा­त्म­ज्ञा­नस्य सिद्धत्वेऽपि पुरुषान्तरे सिद्धत्वे अन्याधिकारिणः तदप्रतिपत्तेः न तादृशं व्यक्त्यन्तरं कर्तव्यतया बुद्धौ रूपयितुं शक्यमिति बहिरेव दूषणमभिप्रेत्य स्वात्मनि सिद्धत्वे दूषणमाह -
किं विधिनेति ।

विचार इति ।
विचारे कृते इत्यर्थः । तद्विचाराय विधि­शे­ष­ब्र­ह्म­वि­चा­राय शास्त्रारम्भ इत्यर्थः ।

अपरं मतमिति ।
पूर्वो­क्ता­र­म्भ­प्र­का­रयोः पाश्चात्यं मतं स एव प्रति­प­त्ति­वि­धि­वादी उपपादयतीत्यर्थः ।

महातात्पर्येण कार्यपरादपि वेदा­द­वा­न्त­र­ता­त्प­र्येण ब्रह्मणोऽपि प्रति­प­त्ते­र्युक्तः प्रति­प­त्ति­वि­धि­रि­त्याह -
सत्यम् , कार्यविषय इति ।

अर्थान्तरपरात् शब्दात् अर्था­न्त­र­प्र­ति­पत्तिः अयुक्तेति तत्राह -
तस्मिन् सतीति ।
रूपस्य चाक्षुषत्वेन रूपिभेदा (आत्मादी ? ) नां चाक्षुषत्वं, न तु स्वप्रधानतयेति भावः ।

ब्रह्मणो वेदविषयत्वे वेद­ज­न्य­त­द्वि­ष­य­ज्ञा­न­श्रु­त­विधिः कथं स्यादिति चोदयति -
कथमिति ।

अस्ति शब्दज्ञानेऽपि विधानमिति समर्थयितुमाह -
तदुच्यत इति ।

इदं वाक्य­मा­त्म­नोऽ­ना­त्म­रू­प­ता­प्र­ति­पा­द­क­म­तोऽ­पु­रु­षा­र्थ­वि­ष­य­त्वे­ना­प्र­मा­ण­त्वात् तस्य विधिनिष्ठत्वं दूरनिरस्तमिति नेत्याह -
न तावत् सर्वात्मरूपतेति ।
प्रति­प­न्न­प्र­प­ञ्च­मु­द्दिश्य अप्र­ति­प­न्ना­त्म­रू­प­स्यैव विधा­न­स­म्भ­वा­दि­त्यर्थः ।

दूषणान्तरमाह -
यदि सर्वरूपतेति ।

किं तर्हि प्रतिपाद्यत इत्यत आह -
अतः सर्वस्येति ।

अना­त्म­स्व­भा­व­वि­ल­य­ने­नेति
नेति नेती­त्या­दि­वा­क्येऽपि अना­त्मो­प­म­र्दे­ना­त्मनो विधेयतया अवगतिर्दृष्टा इत्यर्थः ।

अनात्मविलयनेन आत्म­नोऽ­द्वि­ती­य­त्व­प्र­ति­पा­द­नात् प्रमाणत्वेऽपि अत्र ज्ञाने वस्तुनि वा विधिर्नावगम्यत इत्याह -
नन्वत्रेति ।

कल्प्यतां विधिरिति ।
पूषा प्रपिष्टभाग इत्यादाविवेति भावः ।

प्रतीते विध्यर्थ इति ।
काल­त्र­या­स्पृ­ष्ट­तया अनुष्ठानयोग्ये कर्मणि काल­त्र­या­स्पृ­ष्ट­तया शब्दा­व­ग­त­द्र­व्य­दे­व­ता­स­म्ब­न्ध­सा­म­र्थ्यात् प्रतिपन्ने तद­न्य­था­नु­प­पत्त्या च विधायकपदार्थे नियोगे प्रतिपन्ने पश्चाद्विधिः विधायकपदं कल्प्यत इत्यर्थः ।

विधिं कल्पयित्वेति ।
विधायकपदं कल्प­यि­त्वे­त्यर्थः ।

अपूर्वं प्रमाणकौशलमिति ।
अर्थ­वा­द­सं­स­र्गे­ष्वपि विधि­प­द­क­ल्प­ना­प्र­स­ङ्गा­दिति भावः । किं प्रती­त­इ­त्या­दि­ग­त­प्र­ती­ति­शब्दः प्रमितिवाचीति द्रष्टव्यम् ।

प्रतीते अप्रतीते वेति विकल्पस्य सर्वत्र सम्भवात् क्वापि विधिकल्पनं न स्यादिति चोदयति -
ननु अश्रूयमाण इति ।

तत्र शब्दा­व­ग­त­द्र­व्य­दे­व­ता­स­म्ब­न्धात् काल­त्र­या­स्पृ­ष्टात् विध्यर्थाविनाभूतक्रिया गम्यते । तया च नियोगो गम्यत इति श्रुत­सा­म­र्थ्यात् प्रतिपन्ने विध्यर्थे व्यवहारार्थं पूष्णः पिष्ट­द्र­व्य­त्यागः कर्तव्य इति विधिपदोपसंहारो युक्तः, इह तु श्रुत­सा­म­र्थ्यात् विध्य­र्थ­प्र­ती­त्य­भा­वात् , शब्देनैव विधि­प्र­मि­ति­म­ङ्गी­कु­र्वता विधिकल्पना न शक्या इत्याह -
सत्यं युक्तं तत्रेति ।
समासाभिहितः प्रपिष्टो भागो यस्येति बहु­व्री­हि­स­मा­सा­भि­हितः ।

प्रमाणाभावादिति ।
अभू­दि­त्या­दि­वा­च­क­श­ब्दा­भा­वा­दि­त्यर्थः । अन्य­वि­धि­शे­ष­त्वेन तत् स्तावकतया सालम्बनत्वं कथ­ञ्चि­दा­ल­म्ब­न­त्व­मिति द्रष्टव्यम् ।

कार्यपरता कल्प्यते इति ।
कर्तव्यता कल्प्यते । क्रियां परिकल्प्य क्रिया­व­च्छि­न्न­विधिः कल्प्यत इत्यर्थः ।

स चेति ।
आत्मपदेन श्रुत आत्मेत्यर्थः ।

पुरु­ष­वि­शे­ष­म­ना­श्रि­त्येति ।
नियो­ग­प्र­ति­प­त्तारं पुरु­ष­वि­शे­ष­मि­त्यर्थः ।

विश्व­जि­दा­दि­ष्विति ।
विश्वजिता यजतेति वाक्यात् प्रती­य­मा­न­नि­यो­गस्य स्वर्गं फलं कल्पयित्वा तत्का­मोऽ­धि­का­रि­त्वेन कल्प्यत इत्यर्थः ।

सर्व­स्या­त्म­स्व­भा­वताख्यसंसर्गोऽपि विधिसंसृष्टः वैदि­क­सं­स­र्ग­त्वात् वायुर्वै क्षेपि­ष्ठे­त्या­दि­सं­स­र्ग­व­दि­त्य­भि­प्रा­ये­णाह -
अथापीति ।

धातुना विनेति ।
धात्वर्थेन विनेत्यर्थः । नियोगस्य भूत­सं­स­र्ग­वि­ष­य­त्वा­यो­गा­दिति भावः ।

धातुनैव सहेति ।
नियो­ग­वि­ष­य­धा­त्व­र्थ­स्यापि वैदि­क­सं­स­र्गे­णा­वि­ना­भा­वा­दिति भावः ।

कोऽसौ धातुरिति ।
सर्व­धा­त्व­र्थ­क­ल्प­नेऽपि दोषोऽस्तीति भावः ।

यागः कर्तव्यः, दानं कर्तव्यम् , होमः कर्तव्यः इति सर्व­धा­त्व­र्था­न्व­यिनः कृति­धा­त्व­र्थ­स्या­ति­ल­ङ्घने कारणाभावात् प्रथमं कृति­धा­तु­म­प­स्था­प­यति ।
यदि ताव­त्क­र्त­व्य­मिति ।

प्रप­ञ्च­वि­ल­य­ने­नैव आत्मदर्शनं वक्तव्यम् । तत्र वास्त­व­प्र­प­ञ्चस्य आत्मविधानेऽपि अना­त्म­स्व­भा­व­नि­वृत्तिः न युज्यत इत्याह -
तत्रा­ना­त्म­स्व­भा­व­तेति ।

कर्त­व्य­मि­त्युक्ते किं केन कथ­मि­त्या­काङ्क्षा भवति । तत्र कथ­मि­ती­ति­क­र्त­व्य­ता­का­ङ्क्षा­नि­वृ­त्तये सापि न निर्दिष्टेत्याह -
इति कर्तव्यता चेति ।
शमादयस्तु ज्ञाने इतिकर्तव्यं न प्रपञ्चविलये इतिकर्तव्यमिति भावः ।

प्रपञ्चस्य सत्य­त्व­म­ङ्गी­कृत्य दूषयति -
एवमपीति ।

उभयधात्वर्थविधौ दूषणान्तरमाह -
अश­क्या­र्थो­प­दे­श­श्चेति ।

न हि वस्त्विति ।
अवस्तुत्वे तद्विलयनेन वस्त्व­न्त­रा­त्मना ज्ञातुं शक्यते । वस्तुत्वे वस्त्व­न्त­रा­त्मना उपासितुं शक्यते, न तु ज्ञातुं शक्यते, वस्तुनो लया­स­म्भ­वा­दि­त्यर्थः ।

सत्यपक्षे अना­त्म­स्व­भा­वा­नि­वृ­त्त्या­शक्यार्थोपदेशदोषो वेदे । तद्दोषपरिहाराय अना­त्म­नोऽ­स­त्य­त्व­म­ङ्गी­कृत्य तत्प्रविलयनेन सर्वमात्मेति प्रमाणज्ञानं विधि­प­द­व्य­ति­रि­क्त­प­द­स­मु­दा­या­त्म­क­वा­क्य­प्रा­प्त­म­नूद्य तस्मिन् विधि­मा­त्र­म­ध्या­ह्रि­यत इत्याह -
एवं तर्हि ज्ञातव्य इति ।
धात्वर्थोनुवादः अनूद्यमान इत्यर्थः ।

विधानमनर्थकमिति ।
विधि­नि­मि­त्त­प्र­वृ­त्ति­म­न­पेक्ष्य अभि­धा­ना­ख्य­वि­धि­प­द­र­हि­त­वा­क्येन ब्रह्मसंवेदनं निष्पन्नं चेत् विधा­न­म­न­र्थ­क­मि­त्यर्थः ।

अध्ययनमात्रात् निष्पन्नस्य ज्ञानस्य अविधितो जन्यत्वात् न पुरुषार्थाय भवतीति पुन­र्ज्ञा­ना­न्तरं तादृशं विधीयते पुरु­षा­र्थ­प­र्य­न्त­त्वा­ये­त्याह -
पुनः कर्तव्यतयेति ।

प्रथमं चेदपुरुषार्थः, विधिस्पर्शाद्वा कथं तादृशं द्वितीयं पुमर्थाय भवेदित्यत आह -
यथा मन्त्रेष्विति ।

प्रयोगवचनस्तत्र विधायक इति ।
मन्त्र­ज­न्य­द्वि­ती­य­प्र­त्य­य­स्या­नु­ष्ठा­पकः प्रयोगवचनाख्यो विधिरस्ति । न तथा आत्मनि द्विती­य­ज्ञा­न­स्या­नु­ष्ठा­प­कोऽ­स्ती­त्यर्थः ।

आत्मन्यपि द्विती­य­ज्ञा­न­स्या­नु­ष्ठा­पकः प्रयोगवचनः सम्पाद्यत इत्याह पूर्ववादी -
इहापीति ।
अधिकारिणा साङ्गं कर्म अनुष्ठापयन् विधिः प्रयोगवचन इत्युच्यते ।

अन्यतः सिद्धत्वादिति ।
ब्राह्मणवाक्ये प्रमि­त­त्वा­दि­त्यर्थः ।

प्रत्य­य­प­र­त्व­मिति ।
द्रव्या­दि­प्र­का­श­नेन अपू­र्वो­प­का­रि­प्र­त्य­य­मात्रे मन्त्राणां तात्पर्यं नार्थतथात्व इत्यर्थः ।

स्वार्थ­वि­धि­प­रा­णा­मिति ।
प्रयो­ज­न­व­द­ज्ञा­ता­र्था­व­ग­म­प­र्य­व­सि­ता­ना­मि­त्यर्थः

प्रत्ययपरत्वं विरुध्यत इति ।
विधि­वि­ष­य­प्र­त्य­य­ज­न­क­त्वेन विधिं प्रति शेषत्वं विरुध्यत इत्यर्थः ।

विधे­य­प्र­त्य­य­स­म­र्प­णेन विधि­प्र­मि­ति­हे­तु­त्व­म­ज्ञा­ता­र्थ­प्र­मि­ति­हे­तुत्वं चोभयं नेयम् इत्याह -
अन्यार्थमपि कृतमिति ।

शब्दा­ति­रि­क्त­स्यो­भ­या­र्थ­त्वेऽपि शब्दस्य तात्पर्यात् सकृ­त्का­र्य­हे­तो­र्नो­भ­या­र्थ­त्व­मिति तत्राह -
यथा च पदार्थानामिति ।
पञ्च­प्र­या­ज­प­दा­र्था­ना­मि­त्यर्थः ।

प्रत्ययस्यापीति ।
विधि­वि­ष­य­प्र­त्य­य­ज­न­नेन विधिप्रमितये च भविष्यतीत्यर्थः ।

ब्रह्म­ण्या­भि­धा­नि­क­प्र­थ­म­प्र­त्य­येन पुरु­षा­र्थ­सिद्धेः न विधि­वि­ष­य­द्वि­ती­य­प्र­त्य­य­स­म­र्प­कत्वं वेदान्तानामिति दर्शयितुं मन्त्रेभ्यो वैलक्षण्यमाह -
तदे­त­द­नि­रू­पि­त­मि­वेति ।

मन्त्राः स्वाध्यायेति ।
सप्रयोजनत्वे हेतुमाह,

प्रमि­ति­प्र­यो­ज­नेन सप्र­यो­ज­न­त्वा­भा­व­माह -
स्वार्थस्येति ।
ब्राह्मणवाक्येन प्रमि­त­त्वा­दि­त्यर्थः ।

प्रमाणत्वे श्रुत्या­दि­प्र­मा­णा­न्त­रेण विनि­यो­ज्य­त्वा­स­म्भ­वात् विनियोज्यत्वे हेतुमाह -
प्रमेयतामापन्ना इति ।
स्मारकतया प्रयोगवचनेन गृह्ये­र­न्नि­त्यर्थः ।

न प्रमेयमवगमयितुं क्षम इति ।
विधि­वि­ष­य­यो­षि­द­ग्न्या­दि­ज्ञा­नस्य तद्धेतुवाक्यस्य च प्रमे­य­प­र­त्वा­द­र्श­ना­दिति भावः ।

एक­ता­त्प­र्य­वि­शि­ष्ट­तया सर्व­प­दा­ना­मे­क­का­र्य­क­र­त्व­मिति वक्तव्यं पदैकवाक्यतावादिना इत्यङ्गीकृत्य विधिब्रह्मणोः अलौकिकत्वात् विधिप्रमितिं तद­पे­क्षि­त­ब्र­ह्म­प्र­मितिं च करोति चेत् वाक्य­मे­क­ता­त्प­र्यस्य काला­न्त­र­व्या­पा­रा­न्त­रा­स­म्भ­वात् एक­व्या­पा­रे­णो­भ­य­प्र­मितिं युगपदेव कुर्यात् तच्चा­यु­क्त­मि­त्याह -
न युगपदुभयमिति ।

एकस्य शब्द­ज­न्य­ज्ञा­नस्य प्रमाणत्वात् तद्विषयब्रह्मणो ज्ञानात् प्राक् योग्य­त्वा­ख्या­ज्ञा­त­ज्ञा­नेन ज्ञाय­मा­न­प्र­मि­ति­वि­शि­ष्ट­तया साध्यत्वं ज्ञात­प्र­मि­ति­रू­प­फ­ल­वि­शि­ष्ट­तया प्राधान्यं चेति त्रितयं सम्भाव्यते । तस्यैव ज्ञानस्य विधेयतया क्रियात्वात् विषयेण सह यत् ब्रह्म­ज्ञा­न­मि­त्य­नूद्य तदुद्देशेन विधेयत्वं वक्तव्यम् , तथा सति अनू­द्य­मा­न­क्रि­या­वि­शे­ष­ण­तया ब्रह्म­णोऽ­नु­वा­द्य­त्वा­या­ज्ञा­त­त्व­वि­रु­द्ध­ज्ञा­तत्वं वक्तव्यम् । उद्दे­श्य­क्रि­या­वि­शे­ष­ण­ब्र­ह्मण उद्देश्यत्वाय साध्य­त्व­वि­प­री­त­सि­द्धत्वं वक्तव्यम् । विधेयक्रियां प्रति ब्रह्मणः कर्मकारकतया आश्रयतया प्राधा­न्य­वि­प­री­त­गु­णत्वं वक्त­व्य­मि­त्ये­वम् , ब्रह्मणि विरु­द्ध­रू­पा­पत्तिः स्यादित्याह -
वैरू­प्य­प्र­स­ङ्गा­दिति ।
प्रथ­म­ज्ञा­न­म­र्थ­प­रम् , द्वितीयज्ञानं विधिविषयतया तत्प­र­मि­त्य­वि­रो­धोऽपि न सम्भवति, शब्द­स्यो­भ­य­प­र­त्वा­भावे तज्जन्यज्ञानस्य सकृज्जातस्यापि उभ­य­प­र­त्वा­नु­प­प­त्ते­रिति द्रष्टव्यम् ।

व्रीहिणां तावत् प्रमा­णा­न्त­र­सि­द्ध­त्वात् अनुवाद्यत्वं सिद्धमिति विशिष्टरूपेण सिद्धतया उद्देश्यत्वं च भवति । प्रोक्षणक्रियां प्रति कारकत्वात् गुणत्वं च स्यादिति त्रितयं विद्यते प्रोक्ष­ण­ज­न्या­ति­श­य­वि­शि­ष्ट­तया साध्यत्वं प्राधान्यमतिशयजन­न­यो­ग्य­त्व­रू­प­वि­धे­य­त्वा­ख्य­प्र­मे­यत्वं चेति त्रितयं विद्यत इत्येवं विरु­द्ध­त्रि­क­द्व­य­प्र­तीतिः एकस्मिन् शब्दजन्यज्ञाने प्रसज्यते । तथापि प्रोक्ष­णा­दि­सं­स्का­र­क­र्माणि विधीयन्ते तद्वत् ब्रह्मज्ञानेऽपि विधिः स्यादिति चोदयति -
नन्वेवं सतीति ।

गुण­क­र्म­वि­धि­वा­क्य­ज­न्य­ज्ञाने अनु­वा­द्य­त्व­मु­द्दे­श्यत्वं गुणत्वं चेति त्रितयं प्रतीयते । क्रिया­ज­न्या­ति­श­य­स्या­वै­भ­क्ति­क­त्वात् साध्य­त्वा­दि­त्रि­तयं न वाक्यजन्यज्ञाने प्रतीयते, किन्तु कर्मस्थातिशयाय क्रिया­वि­धा­ना­न्य­था­नु­प­प­त्ति­रू­पा­र्था­पत्त्या प्रतीयते । अतो न वैरूप्यं गुणकर्मसु । ब्रह्मणि तु वैरू­प्य­प्र­ती­ता­वपि तत्र ज्ञाने विधिः स्यात् , न चेत् गुणकर्मणामपि विधिर्नस्यादिति चोदयति -
नन्वेवं सतीति ।

प्रमाणान्तरेण जात­प्र­मि­ति­वि­शि­ष्ट­तया सिद्ध­रू­प­व्री­ह्या­दी­नु­द्दिश्य तत्रातिशयाय गुणकर्मविधानात् विधेयक्रियया साध्या­ति­श­य­वि­शि­ष्ट­तया साध्यत्वं प्रतीयते । अतः साध्यरूपस्यैव न सिद्ध­त्व­प्र­तीतिः, नापि सिद्धरूपस्यैव साध्य­त्व­प्र­ती­ति­रिति न तत्र वैरू­प्य­प्र­तीतिः, ब्रह्मणि तु विधेयज्ञानेन जात­प्र­मि­ति­वि­शि­ष्ट­तया सिद्ध­रू­पे­णो­द्दे­श्यत्वं विधेयज्ञानेन ज्ञायमान यत्नतयैव प्रमित्या विशिष्टरूपेण साध्यत्वं च युगपत् प्रतीयत इति वैरूप्यप्रतीतिः अस्त्येव । अतो न तज्ज्ञा­न­वि­धि­स­म्भव इत्याह -
न निरा­कृ­त­मि­त्या­दिना ।
क्रत्व­ङ्ग­भू­त­का­र­क­सं­स्का­रा­र्थानि कर्माणि गुण­क­र्मा­ण्यु­च्यन्ते ।

फलं तद्विधीयते इति ।
फलाय तद्गुणकर्म विधीयत इत्यर्थः ।

उभयासम्भवादिति ।
ब्रह्म­प्र­मि­ति­हे­तुत्वं विधिविषयतया विधि­प्र­मि­ति­हे­तुत्वं च ब्रह्म­ज्ञा­न­स्या­स­म्भ­वा­दि­त्यर्थः । एकज्ञानेन प्रमितं ब्रह्मोद्दिश्य तज्ज्ञानान्तरं विधीयत इति वक्तुं न शक्यते साम­ग्री­भे­दा­भा­वा­देव ज्ञानद्वयस्यापि प्रमे­य­भे­दा­स­म्भ­वा­दै­क­रू­प्या­दिति द्रष्टव्यम् ।

अस्तु तर्हि विधा­य­क­प­द­व्य­ति­रि­क्त­प­द­स­मु­दा­यस्य पृथगेव ब्रह्मस्वरूपं प्रतिपाद्य पुन­स्त­द­नु­वा­द­ज्ञानं जनयित्वा तस्य विधि­वि­ष­य­त्व­स­म­र्प­णेन पुनर्विधायकपदेन पदैकवाक्यतेति, नेत्याह -
न स एव समन्वय इति ।

अवान्तरवाक्यस्य प्रमा­ण­त्वा­यो­गा­दिति ।
पदै­क­वा­क्य­त्वा­देव अवा­न्त­र­वा­क्या­भा­वा­देव तस्य प्रमा­ण­त्वा­यो­गा­दि­त्यर्थः ।

तर्हि विधिपदेन यानि पदैकवाक्यभूतानि तद्व्य­ति­रि­क्त­प­दानां पृथगन्वयेन ब्रह्म­प्र­ति­प­त्ति­शे­षता इत्याशङ्कते -
अथा­र्थ­वा­द­प­दा­ना­मि­वेति ।

न तथानुभव इति ।
अग्र­ह­ण­नि­वृ­त्ता­वपि मिथ्या­ज्ञा­न­त­त्सं­स्का­र­नि­रा­सि­सा­क्षा­त्क­रणं नास्ति । अतः तदर्थं ज्ञानान्तरेऽपि विधिरित्यर्थः । किं तद् ज्ञानमिति किं करणकं ज्ञानमित्यर्थः ।

प्रत्य­क्षा­गो­च­र­त्वात् तन्मू­ला­नु­मा­ना­द्य­गो­चर इत्यभिप्रेत्याह -
प्रत्य­क्षा­दी­ना­मिति ।

अस्म­दी­य­प्र­त्य­क्षा­गो­च­र­त्वेऽपि योगि­प्र­त्य­क्ष­ग­म्य­मिति तत्राह -
न चक्षुषेति ।

नेष्यत इति ।
साक्षा­त्क­र­ण­हे­तु­रिति नेष्यत इत्यर्थः ।

शब्द­सा­म­र्थ्या­दु­त्पन्नं प्राथमिकं ज्ञानं तत् सन्तानो वा साक्षात्करणाय विधीयत इति विकल्प्य न प्राथमिकज्ञाने विधिरित्याह -
तदयुक्तं यत्तावदिति ।

स्वभावत इति ।
स्वसामर्थ्येन विधिवाक्यात् विधि­वि­ष­य­ज्ञा­न­वत् विधिमन्तरेण उत्प­न्न­मि­त्यर्थः । उभयपरत्वे वैरूप्यस्य दर्शितत्वादिति वाक्यशेषः ।

प्रथ­म­ज्ञा­ना­द­व­गते ब्रह्मणि तदुद्देशेन संस्कारद्वारेण साक्षा­त्क­र­ण­हे­तु­ज्ञा­न­स­न्तानो विधीयत इति चोदयति -
अथ पुनस्तदेव ज्ञानमिति ।

उपासनाविधित्वेन अभि­म­ता­ना­मा­त्मे­त्ये­वो­पा­सी­ते­त्या­दीनां अहमिति स्वभा­व­प्र­वृ­त्त­ज्ञानं प्रत्य­लौ­कि­का­त्मा­ख्य­वि­ष­य­स­म­र्प­क­त्वा­देव विधित्वायोगात् निदिध्यासितव्य इत्यस्यापि आत्म­स्तु­ति­त्वा­देव विधित्वाभावात् उपा­स­ना­वि­धि­सा­म­र्थ्यात् सन्ता­न­वि­ध्य­व­ग­मा­यो­गा­दा­त्मानं पश्येदिति दर्श­न­वि­धा­न­सा­म­र्थ्यात् सन्ता­न­वि­धि­र्ग­म्यत इति वक्तव्यम् । तच्चा­यु­क्त­मि­त्याह -
तत्कथं लभ्यत इति ।

ज्ञानेनैवेति ।
पश्ये­दि­त्यु­क्त­ज्ञा­ने­नै­वे­त्यर्थः ।

निदिध्यासितव्य इत्यस्य उपा­स­ना­वि­धि­त्वेऽपि साक्षा­त्क­र­णा­हे­तु­त्वात् शाब्द­ज्ञा­ना­द­वि­शेष इत्याह -
नाप्यभ्यासादिति ।

अभ्यासात् किमित्याह -
तत्कथं लभ्यत इति ।
अभ्यासात् साक्षा­त्क­र­णा­स­म्भ­वेन न तदपरोक्षं कर्तुं शक्यं किन्तु, मिथ्याऽऽ­प­रो­क्ष्य­मिति भावः ।

`ततस्तुं तं पश्यते निष्कलं ध्यायमान' इत्यत्र ध्यायमानो ध्यान­नि­मि­त्त­चि­त्तै­का­ग्र्य­द्वा­र­स­हि­त­वा­क्य­ज्ञानं लब्ध्वा ज्ञान­प्र­सा­दे­न­प­श्य­ती­त्य­न्व­य­म­ङ्गी­कृत्य अभ्यासात् साक्षाद्बोधो न श्रूयते इत्याह -
नापि श्रूयत इति ।

ऐका­ग्र्या­द्वा­रेण आपरोक्ष्यहेतौ तत्कामस्य प्रवत्तिसिद्धेः न श्रवणापेक्षा । ऐकाग्र्यद्वारेण अप­रो­क्ष­हे­तु­त्व­स्या­न्व­य­व्य­ति­रे­का­भ्या­मेव ज्ञातत्वात् न हेतुत्वज्ञानाय च श्रवणापेक्षा इति चोदयति -
ननु किमत्र श्रवणेनेति ।

शास्त्र­श्र­व­णा­दा­विति ।
गान­शा­स्त्र­त­ज्ज­न्य­ज्ञा­ना­भ्या­सात् गानापरोक्ष्यं दृष्टमित्यर्थः ।

अनेकांशत्वात् कुल्याया युग­प­द­ने­का­र्थ­त्व­मु­प­प­द्यते स्थायि­त्वा­त्क्र­मेण अनेकार्थत्वं चोपपद्यते प्रत्य­क्ष­दृ­ष्ट­त्वाच्च न विरोधः । नेह उभयार्थतायां प्रत्य­क्ष­प्र­माणं विद्यते । अतो न्यायतः प्रतिपत्तव्यं तत्र तात्प­र्य­वि­शि­ष्ट­तया सकृ­त्का­र्य­हे­तु­श­ब्दस्य क्रमेण उभ­या­र्थ­त्वा­यो­गात् युग­प­दु­भ­या­र्थत्वं वक्तव्यम् । तच्च न सम्भवतीति उभयार्थत्वे न्यायाभावश्च उक्त इत्याह -
युक्तं तत्रेत्यादिना ।

ज्ञापयिष्यतीति ।
विषयसमर्पणेन विधिमपि ज्ञाप­यि­ष्य­ती­त्यर्थः ।

पदार्था एव शब्दगम्याः क्रमस्तु अने­के­षा­मे­क­पु­रु­षा­नु­ष्ठे­यत्वं क्रमं विना नोपपद्यत इत्य­र्था­प­त्ति­सिद्ध इत्याह ।
यत्तावदिति ।
ये तावदित्यर्थः ।

न तेषामेव विधानमिति ।
तेषां प्रयाजादीनां धर्मभूतक्रमस्य न विधानमर्थापत्तिगम्य­त्वा­दि­त्यर्थः ।

पदार्थमात्रस्य क्रमस्य पदार्थवत् शब्देन विधानमिति नेत्याह -
नापि त इति ।

क्रमस्य प्रयो­ग­व­च­न­प्र­यो­ज्य­त्वात् विहिततया अङ्गत्वमिति नेत्याह -
प्रयोगवचनोऽपीति ।

पदार्था एव क्रमः, तस्मात् पदार्थान् प्रयुञ्जानः सिद्धं क्रममपि प्रयुङ्क्त इति नेत्याह -
न ते क्रमा इत्युक्तमिति ।

एकैकस्मिन् पदा­र्थेऽ­द­र्श­नात् अने­क­प­दा­र्था­श्र­यत्वे पदा­र्थ­यौ­ग­प­द्यात् क्रमायोगात् अयौगपद्ये च उभ­या­श्र­य­ध­र्मा­यो­गात् क्रमो नास्त्ये­वे­त्या­शङ्क्य दुर्नि­रू­प­त्वेऽपि अनि­र्व­च­नी­य­क्र­मोऽ­स्त्ये­वे­त्याह -
न च क्रमो नामेति ।

संयो­ग­व­दु­भ­या­श्र­यत्वे पदा­र्थ­यौ­ग­प­द्य­मि­त्यु­क्तम् । तत्राह -
तत्र क्रमो नामेति ।
क्रमत्वादेव धर्मिणां न यौग­प­द्या­पे­क्षेति भावः ।

देश­का­ल­व­स्तू­पा­धि­प­रा­म­र्श­म­न्त­रेण क्रमो न दृश्यत इति तत्राह -
त एव वेति ।

वनवदिति ।
एक­दे­श­स्थ­त्वो­पा­धिना वृक्षेषु वन­बु­द्धि­श­ब्द­व­दि­त्यर्थः ।

अनु­ष्ठे­य­प­दा­र्था­ना­म­नि­ष्प­न्न­स्व­भा­व­त्वात् न देशकालवस्तुक्रम इति तत्राह -
स्मृति­वि­ज्ञा­न­मेव वेति ।
पाठक्रम एव स्मर्य­मा­णोऽ­नु­ष्ठे­य­प­दा­र्थेषु उपरज्यत इत्यर्थः ।

अनुष्ठेयपदार्थं विशेषणतया अर्थापत्त्या प्रमीयते क्रमो न तु विधीयत इत्याह -
तच्चैकत्वात् कर्तुरिति ।

तदिति ज्ञाना­न्त­रा­ल­म्ब­न­भूतं क्रमवस्तु उच्यते -
सन्निहितं चेति ।
अर्थक्रमाभावे पाठ­क्र­म­मि­त्यर्थः । गृह्यत इति प्रयोगवचनेन अनुस्मर्यत इत्यर्थः ।

अत्र प्रमाणद्वयेनैव प्रमे­य­द्व­य­सि­द्धि­रिति प्रकरणार्थः । यथा चक्षुः संसृष्टेऽर्थे प्रमाणं भवति न तथा शब्दः शक्ति­प्र­ति­यो­गि­तया सम्बन्धिन्यर्थे प्रमाणम् । किन्तु यत्र तात्पर्यं तत्र सम्भूयैव शब्दाः प्रमाणमित्याह -
युक्तं तत्रेति ।

प्रतीयत इति ।
शक्त्या प्रतीयत इत्यर्थः ।

शोभतेतरामिति ।
ब्रह्म­ण्य­प्र­माणं श्रुतिः श्रुत्य­र्था­पत्तिः प्रमा­ण­मि­त्यु­क्तिर्न युक्तेत्यर्थः ।

अव­ग­म­वि­धा­ना­नु­प­पत्तिः नाव­ग­म्य­व­स्तु­तत्त्वं गमयतीत्याह -
न च नियोगत इति ।
नियोगतः नियमेन इत्यर्थः ।

आरोपित विषयत्वे फलासम्भवात् वास्त­व­सं­स­र्ग­वि­ष­यत्वं विधे­य­ज्ञा­न­स्येति तत्राह -
भवन्ति हीति ।

विधे­य­ज्ञा­न­स्या­रो­पि­त­वि­ष­यत्वे प्रमि­ति­रू­प­दृ­ष्ट­प्र­यो­ज­ना­स­म्भ­वात् अदृष्टफलकल्पना स्यादि­त्या­शङ्क्य प्रमाणविरोधादेव दृष्टासम्भवात् अदृष्टकल्पनैव युक्तेत्याह -
एतदेवात्रेति ।

अतत्परस्येति ।
विधौ तात्पर्यादेव अद्वि­ती­य­ब्र­ह्मणि तात्प­र्य­ही­न­स्ये­त्यर्थः ।

अलौ­कि­क­ब्र­ह्म­प्र­ति­पा­द­नेन तज्ज्ञा­न­वि­धि­नि­ष्ठ­ताऽ­यो­गा­ल्लौ­कि­का­त्मनि आरो­पि­त­वि­ष­यो­पा­स­न­वि­धि­परा वेदान्ता विचा­रि­ता­श्चे­त्याह -
तस्मात् कार्यनिष्ठ इत्यादिना ॥

शब्दानां कार्या­न्वि­त­स्वा­र्थ­बो­धने सामर्थ्यात् सर्वो वेदः कार्यपरतया विचारित इत्युच्यते, किं वा सूत्र­का­रा­द्य­भि­यु­क्त­व­च­न­सा­म­र्थ्यात् कार्यपरतया विचारित इत्युच्यते इति विकल्प्य प्रथमकल्पस्य समन्वयसूत्रे निरा­क­र­ण­म­भि­प्रेत्य द्वितीयकल्पं निराकरोति -
स्यादेतदेवमिति ।

धर्मस्यैव विचार्यत्वेन उप­क्रा­न्त­त्वेऽपि धर्मवत् प्रासङ्गिकत्वेन ब्रह्मापि विचारितमिति, नेत्याह -
विचारितश्च स्यादिति ।

प्रार­भ्य­मा­ण­वि­चारो धर्मविषयो न वेदा­र्थ­मा­त्र­वि­षय इत्युपपादयति -
तथाहि शास्त्रारम्भ इति ।
अत्र शास्त्रा­र­म्भ­श­ब्देन प्रथ­म­सू­त्र­मु­च्यते ।

एवं निरूपित इति ।
धर्म­मा­त्र­वि­चा­रा­र­म्भ­वि­ष­य­त्वेन निरूपितो न वेदा­र्थ­वि­चा­रा­र­म्भ­वि­ष­य­त्वे­ने­त्यर्थः ।

वेदवाक्यानि विचा­र­ये­दि­त्या­दि­भा­ष्य­लि­ङ्गात् वेदा­र्थ­मा­त्र­वि­चा­रा­रम्भो गम्यत इति शङ्कते -
कथामिति ।

सामा­न्य­प्र­सि­द्धि­वि­शे­ष­वि­प्र­ति­पत्त्योः भाष्यकारेण धर्म एव प्रदर्शितत्वात् धर्म एव विचार्यत इत्याह -
धर्मो नाम इति ।

धर्मस्य सामान्यतः प्रसिद्धं रूपमाह -
साधयितुः कर्तुः कालान्तरे श्रेयःसाधन इति ।

लोका­ख्य­प्र­मा­णस्य प्रत्य­क्षा­द्य­न्त­र्भावे प्रमा­ण­त्व­म­न­न्त­र्भा­व­पक्षे आभासत्वं चास्तीति मत्वा आभासत्वमुच्यत इति द्रष्टव्यम् । विशे­ष­वि­प्र­ति­प­त्तिश्च धर्म एव दर्शितेत्याह -
तद्विशेषं प्रतीति ।

धर्म एव पूर्व­प­क्ष­प्रा­प्तिश्च दर्शितेत्याह -
तत्र अग्निहोत्रेति ।
अभिप्रेतो धर्मोऽ­ग्नि­हो­त्रा­दि­नै­वे­त्य­न्वयः । न तत्प्र­ति­पा­द­का­ना­मिति नका­र­स्यो­त्त­रे­णा­प्य­न्वयः ।

लोकायत आह -
न वा तदपीति ।

तेन विवक्षित इति ।
अस्या­स्मि­न्नर्थे विवक्षास्तीति बोधयति शब्द इत्यर्थः ।

धर्मायेति ।
धर्म­नि­र्ण­या­ये­त्यर्थः । विचारयिष्यन् उत्तरसूत्रैः विचा­र­यि­ष्य­न्नि­त्यर्थः । तद­र्थ­वि­व­क्षा­वि­चा­रा­व­सर इति अथशब्दार्थमाह । तस्या­म्ना­य­स्यार्थे विवक्षास्ति तस्यैव विचा­रा­व­स­र­श्चा­स्तीति अथशब्देन प्रद­र्श­ना­र्थ­मि­त्यर्थः ।

विव­क्षा­वि­चा­रा­व­सरे, धर्मविचारान् सूत्रार्थान् सूत्रयोजनया दर्शयन्नाह -
वेदमधीत्येति ।

वेद­स्या­र्थ­वि­व­क्षा­प्र­द­र्शने सति वेदार्थविचारः कर्तव्य इति वक्तव्ये धर्मग्रहणात् तदतिरिक्तोऽपि वेदार्थोऽस्ति । तस्योपादानं मा भूदिति मन्यते सूत्रकार इति गम्यत इत्याह -
एवं स्थिते इति ।

शास्त्रारम्भ इति ।
प्रथमसूत्र इत्यर्थः ।

न्याया­न्त­र­वि­ष­य­त्वा­दिति ।
साध्यै­क­रू­पो­त्त्प­त्या­दि­वि­धि­नि­र्णा­य­क­त­र्का­वि­ष­य­त्वात् न्याया­न्त­र­वि­ष­यत्वं सिद्धरूपब्रह्मण इत्यर्थः ।

स्वाध्यायस्य अर्थ­वि­व­क्षा­वि­चा­र­हे­तु­त्व­प्र­ति­पा­द­का­था­तः­श­ब्द­वि­रोधः स्याद्वे­दा­र्थ­वि­चा­र­प्र­ति­ज्ञा­भाव इति चोदयति -
कथं यत्तावदिदमिति ।

धर्मस्यैव सामा­न्य­प्र­सि­द्धि­वि­शे­ष­वि­प्र­ति­प­त्त्यो­र्भा­वात् तस्यैव पुरु­षा­र्थ­सा­ध­न­त्वा­व­ग­माच्च जिज्ञा­सा­र्ह­त्वात् धर्म एव विचार्यते न वेदार्थः, तस्य सामा­न्य­प्र­सि­द्ध्या­दे­र­भा­वा­दि­त्याह -
उच्यत इत्यादिना ।

वेद­हे­तु­प्र­यु­क्त्यापि धर्मविचारः सम्भवति, तस्यापि वेदा­र्थ­त्वा­दि­त्याह -
अग्नि­हो­त्रा­दि­र­पीति ।

दैवगत्या पुरुषार्थस्य साधनत्वात् विप्र­ति­प­त्ता­व­न्य­त­र­को­टि­त्वाच्च धर्मस्यैव विचा­र­यो­ग्य­त्व­मि­त्याह -
धर्मतया विचा­र­प­द­वी­मु­पा­रो­ह­तीति ।

धर्मतयेति ।
दैवगत्या पुरु­षा­र्थ­सा­ध­न­त­ये­त्यर्थः ।

यतस्तस्येति ।
विप्र­ति­प­त्ति­स्क­न्ध­त्वात् विचारयोग्यता विद्यत इत्यर्थः । अत्रावसरशब्देन योग्यताऽभिधीयते । विवक्षितोऽसौ स्वाध्याय इत्यथशब्देन प्रदर्शनं युज्यत इत्यध्याहारः ।

अध्ययनादेव पुरु­षा­र्थ­सि­द्धेर्न धर्मविचारः कर्तव्य इति तत्राह -
न चाध्य­य­न­मा­त्रा­दिति ।

वेद­स्या­र्थ­वि­व­क्षास्ति, अत एव विचा­र­स्या­नु­ग्रा­ह्य­प्र­मा­ण­मपि भवति । अतो निरर्थकत्वं मत्वा न स्नातव्यं किन्तु त्वदिष्टो धर्मः, किं वेदार्थः किं वा अन्य इति जिज्ञासस्वेति वदतः सूत्रकारस्य धर्मग्रहणं युक्तमित्याह -
अतोऽ­ध्य­य­ना­न­न्त­र­मि­त्या­दिना ।

सूत्रे धर्म इति वेदार्थं उच्यत इत्याशङ्क्य अधीतवेदस्य मम वेदा­र्थेऽ­नु­भ­वि­त­व्य­मिति नापेक्षा, अपि तु पुरुषार्थसाधन धर्म एव अपेक्षा इति उक्तावेव ज्ञानार्थविचारे प्रवृ­त्ति­रि­त्याह -
यतो न वेदार्थतयेति ।
स्वरू­प­प्र­मा­ण­क­थ­ना­येति मुखतो धर्मलक्षणपरं सूत्रमर्थात् प्रमा­ण­प्र­ति­ज्ञेति प्राभाकराः मुखतः प्रमाणप्रतिज्ञा अर्थात् धर्मलक्षणपरमिति वार्तिककारीयाः । सर्व­था­प्यु­भ­य­क­थ­न­प­र­त्व­म­स्तीति भावः । वेदप्रमाणको धर्म इति स्यात् । धर्मस्यैव सकलवेदार्थतया विचार्यत्वे वेदप्रमाणको धर्म इति स्यादित्यर्थः ।

कार्य­शू­न्य­व­स्तु­वि­ष­य­वे­द­भा­ग­म­ङ्गी­कृत्य तस्यापि धर्म­वि­ष­य­त्व­प्र­स­ङ्ग­व्या­वृ­त्तये चोदनामग्रहीत् सूत्रकार इत्याह -
तन्नूनमिति ।

चोदनाग्रहणं सर्वस्य वेदस्य धर्मे प्रामा­ण्य­प­रि­हा­राय न भवति, किन्तु धर्म­वि­ष­य­प्रा­मा­ण्या­दि­प्र­व­र्त­क­त्व­द्यो­त­नाय तदपि चोद­ना­नि­ष्पा­द्य­ध­र्मा­ख्या­र्थ­भा­व­नायाः स्वर्गा­दि­भा­व्य­नि­ष्ठ­तया पुरु­षा­र्थ­त्व­द्यो­त­ना­ये­त्याह -
ननु चोद­ना­ग्र­ह­ण­स्येति ।
प्रेरणाकर्मणः प्रेर­णा­भि­धा­य­कस्य चुदप्रेरण इति धातो­र्नि­ष्प­न्न­रूपं चोदनेति पदमिति योजना । प्रेर­णा­त्म­को­वि­धि­रिति शब्देन भावनोच्यते ।

अपुरुषार्थ इति ।
पुरु­षा­र्थ­भा­व­शून्यां स्वयमपि प्रयत्नत्वेन क्लेशार्थत्वात् अपु­रु­षा­र्था­म­र्थ­भा­वनां पुरुषेण निष्पा­द­यि­तु­म­श­क्नु­वन् इत्यर्थः ।

कर्मतामिति ।
भाव्यतां साध्य­ता­मि­त्यर्थः ।

एकपदोपादानादिति ।
यजे­ते­त्ये­क­प­दो­पा­दा­नात् प्रत्य­या­र्थ­भा­व­नायाः सन्नि­हि­त­त­र­मि­त्यर्थः ।

अध्ययनविधिरिति ।
अध्येतव्य इति तव्य­प्र­त्य­य­ग­त­श­ब्द­भा­व­ने­त्यर्थः ।

अध्ययने माणवकं प्रेरयन्निति ।
अध्य­य­ना­र्थ­भा­व­ना­म­वा­प्त­स्वा­ध्या­य­भा­व्य­निष्ठां माणवकेन निष्पा­द­य­न्नि­त्यर्थः ।

अध्ययनस्य वेदस्य अध्य­य­ना­र्थ­भा­व­ना­भा­व्यस्य पुरु­षा­र्थ­त्वा­भावे भाव्य­वि­शि­ष्ट­रू­पेण स्वरूपेण चापु­रु­षा­र्था­र्थ­भा­वनां भाव­यि­तु­म­श­क्नु­वन्ती शब्दभावना स्वभाव्याध्ययनार्थभावनायाः पुरु­षा­र्थ­त्वा­यैव स्वर्गादिकमेव यागा­द्य­र्थ­भा­व­ना­भाव्यं कल्पयित्वा तस्याः पुम­र्थ­त्व­स­म्पा­द­नेन तद्भाव्यत्वात् । यजे­ते­त्या­दि­श­ब्द­भा­व­ना­याश्च पुरु­षा­र्थ­त्व­मा­पाद्य तद्बोधकत्वेन अवा­प्त­स्वा­ध्या­यस्य च पुम­र्थ­ता­स­म्पा­द­नेन तद्भाव्यत्वाय स्वभा­व्या­ध्य­य­ना­र्थ­भा­व­ना­याश्च पुरु­षा­र्थ­त्व­मा­पा­द­यति । अतः क्रतुभावनायाः पुरु­षा­र्थ­त्व­सि­द्धये न चोद­ना­ग्र­ह­ण­मि­त्याह -
नाध्ययनस्य पुरुषार्थरूपेति ।

असन्देहादिति ।
वेदा­न्ता­ना­म­र्था­न्त­र­प­र­त्व­स­न्दे­ह­नि­वृ­त्ते­रि­त्यर्थः ।

सन्देहः स्यादिति ।
सन्देहान्तरमपि स्यादित्यर्थः ।

वेदांश्चैके सन्निकर्षमिति ।
वेदांश्च प्रति एके पुरुषाः सन्निकर्षं पौरुषेयत्वं वदन्तीति यावत् ।

लक्षणसूत्रे प्राप्तं वेदग्रहणं विहाय अन्यत्र कुर्वन् न बुद्धिपूर्वकारी स्यादिति परिहरति -
सोऽयमिति ।

आभाणक इति ।
ऐतिह्यमित्यर्थः ।

अतः सर्ववेदस्य धर्म­प­र­त्व­व्या­वृ­त्तये चोद­ना­ग्र­ह­ण­मि­त्याह -
ततश्चोदनेति ।

कृत्स्नस्य वेदस्य धर्मविषयत्वेऽपि वचनमस्तीत्याह -
ननु दृष्टो हीति ।
तस्याम्नायस्य दृष्टप्रयोजनं कर्मावबोध इत्यर्थः । तद्भू­ता­ना­मि­त्यत्र तेषु सिद्धेषु रूपादिष्वर्थेषु भूतानां वर्तमानानां क्रियार्थेन क्रियाशेषत्वेन समाम्नायः समुच्चारणमिति योजना ।

दर्शितं कार्यनिष्ठत्वं सत्यं तदित्यत्र तच्छब्देन परामृशति ।
प्रक्रमबलादिति ।
प्रथ­म­द्वि­ती­य­सू­त्र­प्र­क्र­म­सा­म­र्थ्यात् उत्तरं सामान्यवचनं प्रकृतविशेषे क्रिया­प्र­क­र­ण­स्थ­वाक्ये उपसंह्रियत इत्यर्थः ।

वचनत्रयस्य साधारणं परिहारमुक्त्वा एकैकस्यासाधारणं परिहारमाह -
अपि च दृष्टो हीत्यादिना ।

तस्यार्थः, कर्मा­व­बो­ध­न­मि­त्या­म्ना­य­मा­त्रस्य धर्मावबोधे विनियोगः स्पष्ट इति चोदयति -
कथमिति ।

आम्नायस्य अर्थसद्भावपरं भाष्यं न धर्मा­ति­रि­क्ता­र्था­भा­व­प­र­मि­त्याह -
वेदा­ध्य­य­ना­न­न्त­र­मि­त्या­दिना ।

स्नान­वि­धा­य­क­मा­म्ना­य­मिति ।
वेदमधीत्य स्नाया­दि­त्या­म्ना­य­मि­त्यर्थः ।

अतिक्रमिष्यामः इममाम्नायमिति ।
वेदमधीत्य अर्थं विचार्य स्नायादित्यर्थं स्वीकुर्म इत्यर्थः ।

अनतिक्रामन्त इति ।
यथाश्रुतार्थं गृह्णन्त इत्यर्थः ।

अयोगव्यवच्छेद इति ।
वेदस्य कर्मा­व­बो­ध­ना­स­म्बन्धं व्यावर्त्य सम्बन्धः प्रतिपाद्यत इत्यर्थः ।

नान्य­यो­ग­व्य­व­च्छेद इति ।
वेद­स्या­र्था­न्त­र­स­म्बन्धो नास्तीति नाभिधीयत इत्यर्थः ।

कर्मशब्दस्य प्रमे­य­वा­चि­त्वात् तेन धर्म­ब्र­ह्म­णो­र­भि­धानं स्यादि­त्या­शङ्क्य धर्मनिर्णयार्थं प्रवृ­त्त­प्र­क­र­ण­ब­ला­द्ध­र्म­स्यै­वा­भि­धा­न­मि­त्याह -
कर्मशब्देन चेति ।

कार्यत्वादिति ।
कर्म­व्यु­त्प­त्ति­स­म्भ­वा­दिति भावः ।

अक्रियार्थानां निष्प्र­यो­ज­न­त्व­प्र­सङ्गो न दोषायेति तत्राह -
स्वाध्या­या­ध्य­य­न­वि­धि­रिति ।

स्वार्थ­प्र­यो­ज­न­ही­ना­नाम् अक्रियार्थत्वे निष्प्रयोजनत्वं स्यादिति परिहरति -
भवत्विति ।

तेषामपि पूषा­प्र­पि­ष्ट­भा­ग­इ­त्या­दि­सं­स­र्गे­ष्विव प्रयोजनं कल्प्यतामिति, नेत्याह -
एकवाक्यत्वादिति ।

`अधस्तात् समिधं धार­य­न्न­नु­द्र­वे­दु­परि हि देवेभ्य’ इत्युपरिधारणस्य पूर्वेण एकवाक्यस्य विधानवत् सप्रयोजनो विधिः कल्प्यतामिति नेत्याह -
कल्पयितुं चाशक्यत्वादिति ।

अतः सूत्रं क्रिया­प्र­क­र­ण­प­ठि­त­नि­ष्प्र­यो­ज­न­वा­क्य­वि­ष­य­मि­त्याह -
अतःस्वयमिति ।

तद्विधान्येवेति ।
अर्थवादाधिकरणे क्रियाप्रकरणस्थनिष्प्र­यो­ज­न­वा­क्या­न्ये­वो­दा­हृ­तानि, न वेदा­न्त­वा­क्या­नी­त्यर्थः ।

केचिदिति ।
प्राभाकरा इत्यर्थः ।

अन्यथा वर्णयन्तीति ।
अधी­त­वे­द­स्या­र्थ­ज्ञा­ना­ख्य­प्र­यो­ज­न­प­र्य­न्त­त्वाय अध्य­य­न­वि­धि­प्र­युक्तः कृत्स्न­वे­दा­र्थ­वि­चारः प्रवृत्त इति वर्ण­य­न्ती­त्यर्थः ।

सामा­न्य­प्र­ति­प­त्ति­वि­शे­ष­वि­प्र­ति­प­त्तिभ्यां जिज्ञा­सि­त­त्वा­देव धर्मस्य विचारार्हत्वात् धर्मविचारात्मकं शास्त्रं प्रस्थितमिति पक्षो न भवतीत्याह -
न हि किलैवमिति ।

`उद्भिदा यजेत पशुकाम’ इत्यत्र यः पशुकाम इति पशुकाममुद्दिश्य यागो विधीयते, यो यागः कर्तव्यः इति यागविधानं चोद्दिश्य पशुकामाधिकारः किं वा उभयमिति । तथा सत्रे ये यजमानास्त एव ऋत्विज इति यजमानानुद्दिश्य क्रत्वङ्गभावो विधीयते, किं वा ये ऋत्विज इति ऋत्विज उद्दिश्य यजमानभावो विधीयत इत्या­दि­व­च­न­व्य­क्ति­सं­श­यात् विचार इत्याह -
अधीतवेदस्येति ।

विप्रतिपत्तयः सन्तीति ।
उद्दे­श्य­वि­धे­य­भावे विप्रतिपत्तयः सन्तीत्यर्थः ।

तत्रापीति ।
अध्य­य­न­वि­धि­प्र­यु­क्त­त्वात् वेदार्थोपाधौ विचा­र­प्र­वृ­त्ता­वपि धर्म­श­ब्द­सा­म­र्थ्यान्न कृत्स्न­वे­दा­र्थ­वि­चार इति भावः ।

कृत्स्न­वे­दा­ध्य­य­न­प्र­युक्तो विचारः कथमेकदेशविषयः स्यादिति चोदयति -
कथमिति ।

अधीतवेदस्य कस्यचित् श्रेयः­सा­ध­न­का­मि­त्वा­देव मुमु­क्षु­त्वा­भा­वात् तमधिकृत्य अध्ययनविधेः धर्म­वि­चा­र­प्र­यो­ज­क­त्व­म­परं मुमुक्षुं प्रति ब्रह्म­वि­चा­र­प्र­यो­ज­क­त्व­मिति विभागे सिद्धेऽपि कृत्स्न­वि­चा­रा­भ्यु­प­गमे वेदार्थ इति वक्तव्यमिति ।
तथा सतीति ।

वेदा­र्थ­वि­चा­र­क­र्त­व्य­तोक्तौ श्रेयःसाधनकामी विचार्य निश्चि­त्या­नु­ष्ठा­या­पूर्वं न निष्पादयति । ततश्च न प्रयोजनं प्राप्नुयात् । श्रेयः­सा­ध­न­वा­चि­ध­र्म­श­ब्देन वेदा­र्थ­स्यो­पा­दाने प्राप्नुयादिति शङ्कते -
सत्यम् , तथापीति ।

पुरुषार्थरूपेति
पुरु­षा­र्थ­सा­ध­न­रू­पे­त्यर्थः ।

वेदार्थस्यापि श्रेयः साध­न­रू­प­ध­र्म­त्वो­क्ता­वे­वा­धि­का­रिणः प्रवृ­त्ति­श्चे­द्ध­र्म­श­ब्दस्य वेदार्थे रूढिर्न सम्भवति । चैत्य­व­न्द­ना­दा­वपि प्रयो­गा­वि­प्र­ति­प­त्ते­र्ज­ह­ल्ल­क्ष­णापि न सम्भवति । वेदार्थे धर्मा­भा­व­प्र­स­ङ्गात् श्रेयः­सा­ध­न­वा­चि­ध­र्म­श­ब्दस्य श्रेयो­रू­प­ब्र­ह्मा­भि­धा­यि­त्वा­यो­गाच्च वेदार्थे वृत्त्यसम्भवात् धर्म इत्येव कृत्वा विचारो युक्त इति परिहरति -
एवं तर्हीति ।

किञ्चेत्याह ।
तस्य पुरु­षा­र्थ­त्वा­दिति ।
पुरु­षा­र्थ­सा­ध­न­त्वा­दि­त्यर्थः । सन्दिग्धत्वाच्च इत्यत्र जिज्ञा­सि­त­त्वा­दिति शेषः ।

लक्षणसूत्रमपि धर्मविषयं न वेदा­र्थ­वि­ष­य­मि­त्याह -
तथा च उत्तरमपीति ।

लक्षणं हि लक्ष्य­स्या­न्यत्र प्रस­ङ्ग­वि­भ्र­म­नि­रा­स­प­रम् । तत्र धर्म एव चैत्यवन्दनादौ प्रसक्ततया विप्रतिपन्नो न वेदार्थः । अतो लक्षणस्य कृतार्थत्वाय धर्म एव लक्ष्यत इत्याह -
धर्म­स्व­रू­प­वि­प्र­ति­प­त्ति­नि­रा­स­प­र­मिति ।

किम­र्थ­वा­दा­दि­ल­क्षणो वेदार्थः, किं वा चोदनालक्षण इति वेदा­र्थ­वि­प्र­ति­प­त्ति­नि­रा­साय वेदार्थलक्षणपरं किं न स्यादि­त्या­शङ्क्य आह -
इतरथेति ।

धर्मग्रहणे हि अर्थ­वा­द­ल­क्ष­णत्वं निराकृत्य चोदनालक्षणत्वं वेदार्थस्य किं न सिध्य­ती­त्या­शङ्क्य, वेदा­र्थ­वि­प्र­ति­प­त्ति­नि­रा­सस्य अप्र­ति­प­न्न­त्वात् धर्म­वि­प्र­ति­प­त्ति­नि­रा­स­स्यैव प्रतिपन्नत्वात् न तथा सिद्ध्यतीत्याह -
यतो न धर्मग्रहणे सतीति ।

अत्र धर्मशब्दस्य वेदार्थे प्रयोगात् वेदा­र्थ­वि­प्र­ति­प­त्ति­नि­रास एव विवक्ष्यतामिति चोदयति -
कथमिति ।

वेदार्थे धर्मशब्दस्य किमजहल्लक्षणया वृत्तिः किं वा संज्ञात्वेन वृत्तिः, न ताव­द­ज­ह­ल्ल­क्ष­ण­ये­त्याह -
यत्तावदिति ।
चोदनालक्षणो योऽर्थ इति वेदा­र्थ­मु­द्दिश्य असौ धर्म इति तत्र धर्मशब्दो यदि अजहल्लक्षणया वर्तते तदा वेदार्थे धर्मोऽस्तीति लक्ष्यते न धर्म एव वेदार्थ इति लभ्यत इत्यर्थः ।

चोद­ना­ल­क्ष­ण­श­ब्दो­क्त­वे­दार्थे स धर्म इति धर्म­सं­ज्ञा­वि­धि­प­रत्वं सूत्रस्य निराकरोति -
अथ पुनरिति ।

विचार्यत्वेन प्रति­ज्ञा­त­ध­र्मस्य स्वरू­प­प्र­मा­णा­दि­क­थनं विहायान्यथा न कथनीयमित्याह -
तद­प्र­क्रा­न्त­मिति

किं चाचार्याय गां दद्यादिति कार्यान्तरे विनि­यो­गा­र्थ­मा­चार्य इति नाम विधीयते, तद्वदत्र नाम विधानं चेत् कार्यान्तरेऽपि निया­गा­ख्य­प्र­यो­जनं स्यात् , तच्च नास्तीत्याह -
निष्प्रयोजनमिति ।

उत्त­र­सू­त्रा­णा­मपि नामविधायकत्वं स्यादित्याह -
अतिप्रसङ्ग इति ।

अथ शब्दवैयर्थ्यं चोदनाशब्दस्य वेदे लक्ष­णा­वृ­त्ति­प­रि­ग्र­ह­ण­प्र­स­ङ्ग­दू­षणं चाभिप्रेत्य अङ्गीकरोति -
अथापि कथञ्चिदिति ।

सिद्ध­प्रा­मा­ण्येति ।
वेदस्य प्रामाण्यात् अर्थवत्वनिश्चये विचारात् प्रागेव सञ्जाते किं वेदा­र्थ­श्चो­द­ना­ल­क्षणः, किं वा अर्थवादादिलक्षण इति विशये न अर्थ­वा­दा­दि­ल­क्षणः, किन्तु चोदनालक्षणो वेदार्थ इति निर्णयपरं सूत्रं स्यात् , तच्चा­नु­प­प­न्न­म­नि­श्चि­त­त्वा­द­र्थ­व­त्व­स्ये­त्यर्थः ।

उत्तरलक्षणवत् इति ।
उत्त­रा­ध्या­य­व­दि­त्यर्थः ।

प्रथमसूत्रे अध्य­य­ना­पू­र्व­शे­ष­त्वेन प्राप्त­म­प्रा­माण्यं निराकृत्य वेद­स्या­र्थ­वि­वक्षा दर्शिता, न तु तत्र पौरु­षे­या­पौ­रु­षे­य­त्व­प्र­मा­णा­न्त­र­यो­ग्य­वि­षयत्वादि­नि­मि­त्त­म­प्रा­माण्यं निराकृत्य प्रामाण्यं प्रतिपादितमतः अर्थविवक्षाया अपि असिद्धेः, अर्थ­व­त्व­सि­द्ध­व­त्का­रेण वेदा­र्थ­मु­द्दिश्य लक्षणविधानं न सम्भवति तथापि प्रथ­म­सू­त्र­सा­म­र्थ्या­देव अर्थ­व­त्व­म­ङ्गी­कृत्य लक्षणविधानमिति चेत् तत्राह -
तत्रानन्तरमिति ।

प्रथमसूत्रेण अर्थवत्वे सिद्धे सति वेदार्थत्वेन उत्तरत्र प्रामा­ण्य­प्र­ति­पा­द­न­मिति वक्तुमयुक्तम् , प्रामाण्यस्य सिद्धवस्तुत्वेन वेदा­र्थ­त्वा­यो­गात् , अतोऽ­र्थ­व­त्व­नि­श्च­याय प्रामा­ण्य­वि­चारः, भाष्यकारेणापि अर्थ­व­त्व­नि­श्च­याय प्रामाण्यं विचा­रि­त­मि­त्यु­क्त­त्वा­दि­त्याह -
वृत्तमिति ।
अर्थ­व­त्व­नि­श्च­याय प्रमाणलक्षणं वृत्तम् , न त्वर्थवत्वे निश्चिते वेदार्थत्वेन प्रामा­ण्य­प्र­ति­पा­दनं वृत्तमित्यर्थः ।

द्वितीयसूत्रेण नार्थ­वा­दा­दि­ल­क्षणो वेदार्थ इति सिद्धत्वात् अर्थवादाधिकरणे मन्त्रादेः वेदा­र्थ­रू­प­ध­र्म­प्र­ति­पा­द­क­त्व­म­स्तीति शङ्कायाः नोद्भवः सम्भवतीति । तन्निरासाय अधि­क­र­ण­म­न­पे­क्षितं स्यादित्याह -
मन्त्रेति ।
|| इति द्विती­य­व­र्ण­क­का­शिका ||