वक्तव्यकाशिका (पञ्चपादिका व्याख्या)
२ परिच्छेदः
विचारविधेः बन्धनिवृत्तिरूपफलानुबन्धो ब्रह्मात्मतारूपव्यवहितविषयानुबन्धश्चोक्तः । इदानीं विचाराख्याव्यवहितविषयानुबन्धम् अन्यत एवाप्राप्तानुष्ठानं दर्शयितुं प्रथममाक्षिपति -
सिद्धैव ननु ब्रह्मजिज्ञासेति ।
वेदान्तानामर्थनिर्णयापेक्षितो न्यायकलाप अथातो धर्मजिज्ञासेत्यादिसूत्रे सूत्रित इत्यर्थः ।
विधिवाक्यार्थनिर्णयः तत्र प्रवृत्त इत्याशङ्क्य वेदस्य कार्यमात्रपरत्वमङ्गीकृत्य परिहरति -
सकलवेदार्थेति ।
अत्र चोदितत्वादिति पदच्छेदः । विहितत्वादित्यर्थः । उदितत्वादिति च पदच्छेदः । उदितत्वात् प्रतिज्ञातत्वात् चकाराद्विचारितत्वाच्चेत्यर्थः ।
वेदान्तानां ब्रह्मविषयत्वात् सकलवेदस्य न कार्यार्थत्वमित्याशङ्क्य तेषामपि ज्ञानाख्यधर्मरूपकार्यार्थत्वमेवेत्याह -
ब्रह्मज्ञानस्य चेति ।
यथा प्रत्यध्यायमाशङ्कान्तरनिराकरणेन विध्यंशभेदो निरूपितः तथा प्रतिपत्तव्यस्य ब्रह्मणः प्रत्यक्षादिभिरसिद्धत्वात् तद्विशेषप्रतिपत्तिविध्ययोगशङ्कायां यूपाहवनीयादिवत् ब्रह्मणः सिद्धेरसिद्धौ चारोपितरूपेणापि उपासनासिद्धेः वेदान्तेषु विधिरस्तीति निर्णयाय इदमारभ्यत इति तत्राह -
अभ्यधिकाशङ्काभावादिति ।
आशङ्कानिराकरणेन सिद्धान्तैकदेशिनामारम्भप्रकारं दूषयितुमनारम्भवादी तं दर्शयति -
अत्र केचिदिति ।
(अधीतवाक्यात् अधीत)प्रामाण्यं दर्शितमिति ।
विधिरहितवाक्यमप्रमाणमित्यभिप्रायेण विधेः प्रामाण्यं दर्शितमित्यर्थः ।
विधिरहितमपि वाक्यं विधियुक्तवाक्येन एकवाक्यत्वेन सम्बध्यते । अतो न सर्वत्र विधिश्रवणापेक्षा इत्याशङ्क्य विधेरनुपपत्तिरेवेत्यभिप्रेत्याह -
यत्रापीति ।
तत्रापि विधेरनुपपत्तिरिति भावः ।
कृत्यप्रत्ययानां कृत्याश्चेति विधौ स्मरणात् तव्यप्रत्ययेन ज्ञान विधीयत इति तत्राह -
यद्यपि कृत्या इति ।
तथापि इह तु विधिर्न सम्भवतीत्यर्थः ।
अविशेषेणेति ।
भावकर्मणोः स्मरणवदिति भावः ।
गन्तव्यमिति गमनविधानवत् । ज्ञानं विधीयतामित्याशङ्क्य तव्यप्रत्ययस्य धात्वर्थविषयत्वे सति धात्वर्थस्य प्राधान्येन स्वतन्त्रफलाय विधानं युक्तं न त्वन्यत्रेत्याह -
यो भावाभिधायीति ।
क्रियासमवेतनियोगाभिधायित्वेन क्रियायां पर्यवसायी प्रत्यय इत्यर्थः ।
क्रियाप्रधानत्वादिति ।
क्रियासमवेतनियोगाभिधायित्वे प्रत्ययस्य क्रियायां कर्मण्यतिशयहेतुत्वेन तं प्रति गुणभूतत्वाभावादेव स्वतन्त्रफलसाधनत्वेन प्रधानत्वं भवतीत्यर्थः ।
नियोक्तुं शक्नोतीति ।
क्रियासमवेतनियोगं पुरुषं प्रति बोधयितुं शक्नोतीत्यर्थः ।
स्वाध्यायोऽध्येतव्य इतिवत् कर्माभिधायितव्यप्रत्ययादपि धात्वर्थविधिरवगम्यतामित्याशङ्क्य तथापि स्वतन्त्रफलाय वा धात्वर्थो विधीयताम् , किं वा कर्मकारकगतफलायेति विकल्प्य न तावत् स्वतन्त्रफलायेत्याह -
यत्र पुनः कर्म प्राधान्येनोच्यत इति ।
अत्र कर्मेति पदच्छेदः । क्रियाविषयद्रव्यमित्यर्थः ।
न कार्यान्तरसम्बन्धित्वेनेति ।
अतिशयहेतुत्वेन तं प्रति गुणभूत क्रिया स्वतन्त्रादृष्टं प्रति गुणभूतां कर्तुं न शक्नोतीत्यर्थः ।
अथ कर्मकारकसमवायिफलाय विधिस्तत्राह -
द्रव्यपरत्व इति ।
अनादित्वात् अविकारित्वात् नित्यप्राप्तत्वात् निर्गुणत्वादिति क्रमेण अनुत्पाद्यत्वादीनां हेतुर्द्रष्टव्यः ।
आत्मनि गुणप्रधानाख्यसंस्कारसम्भवे विहितक्रियासामर्थ्यात् अज्ञानाधर्मादिमलापकर्षणसंस्कारः स्यात् - नेत्याह -
संस्कृतस्य चेति ।
संस्कृतव्रीह्यादेर्यागजन्यापूर्वोपयोगवदात्मनः अपूर्वोपयोगभावादित्यर्थः ।
ईप्सिततमत्वमिति ।
क्रियाजन्यातिशयविशिष्टतया कर्मत्वमित्यर्थः ।
विपरीतो गुणप्रधानभाव इति ।
आत्मनि क्रियाजन्यातिशयासम्भवात् आत्मानमिति क्रियाजन्यातिशयविशिष्टतया क्रियां प्रति प्राधान्यं प्रतीयमानं विहाय आत्मना उपासीतेति क्रियां प्रति कारकत्वेन आत्मनो गुणभावः कल्प्यते । उपासनस्यापि आत्मनि दृष्टादृष्टातिशयहेतुत्वेन तं प्रति गुणभावं प्रतीयमानं विहाय आत्मना उपासीतेति स्वतन्त्रादृष्टहेतुत्वात् प्राधान्यं कल्प्यत इत्यर्थः ।
सक्तुन्यायेनेति ।
सक्तून् जुहोतीति क्रतुप्रकरणे श्रवणात् । सक्तुहोमस्य क्रत्वङ्गत्वे वक्तव्ये सक्तुगतातिशयहेतुत्वेन संस्कारकर्मत्वप्रतीतेः, प्रयाजादिवत् अङ्गत्वायोगात् सक्तूनां अन्यत्रोपयोगासम्भवात् संस्कारकर्मत्वस्याप्ययोगात् वैयर्थ्ययोगाच्च सक्तूनिति प्रतीयमानं प्राधान्यं विहाय सक्तुभिरिति गुणभावमङ्गीकृत्य होमस्यापि प्रतीयमानगुणभावं विहाय स्वतन्त्रादृष्टहेतुतया प्राधान्यमभ्युपगम्य प्रयाजादिवत् अङ्गता सक्तुहोमस्य निर्णीता, तद्वदित्यर्थः ।
तत्र यथाशब्दतो होमप्राधान्येऽपि सकर्मकत्वाद्धातोः सक्तव एवार्थतः कर्मकारकतया स्वीक्रियन्ते । एवमवगमस्यापि सकर्मकत्वादेवार्थतः कर्माभावेन विधानमिति परिहरति -
तत्रापि न ज्ञायत इति ।
शब्दतः करणत्वेऽपि अर्थतः कर्मता आत्मन एवेत्याशङ्कते -
अथ ज्ञायत इति ।
अर्थतः कर्मत्वे सति आत्मनि क्रियाजन्यातिशयो वक्तव्यः, तत्रोत्पाद्यत्वविकार्यत्वयोरसम्भवात् आप्यत्वं संस्कार्यत्वं वा गतिः स्यात् । तत्र तावदर्थतः (आत्मनः ? ) प्रतीतितश्चावाप्तिः अनादिसिद्धासंस्कार्यस्य चोपयोगाभाव उक्तः । अतो निष्कर्मकं विज्ञानं न विधातुं शक्यत इत्याह -
एवं तर्हीति ।
अविवक्षितार्था अप्रमाणभूता इत्यर्थः ।
यत्र पुनः कर्मेत्यत्र कर्मसमवाय्यदृष्टाभिधानेन कर्मपर्यवसितप्रत्ययः क्रियायां नियोगं न बोधयतीत्युक्तं परिहरति -
कर्माभिधायिनोऽपीति ।
संप्रत्ययादिति ।
प्रतीतेरित्यर्थः । नियोक्तृत्वं नियोगबोधकत्वमित्यर्थः ।
प्रयोजनाभावादिति ।
द्रव्यपरत्वे आत्मनि क्रियाजन्यातिशयाभावादित्यर्थः ।
अविद्योच्छेदरूपसंस्कारस्यान्यत्र विनियोगो नास्तीत्याशङ्क्य संसारहेतूच्छेदरूपसंस्कारत्वादेव पुरुषार्थत्वात् नान्यत्र विनियोगापेक्षा इत्याह -
अविद्या च संसारहेतुभूता इति ।
ब्रह्मणि प्रमाणाभावादेव तस्याभावात् न तद्विचाराय शास्त्रमारब्धव्यमिति । द्वितीयारम्भवादिनो व्यावर्त्यशङ्कामाह -
ब्रह्मणि प्रत्ययान्तराणामिति ।
कार्यविषयतया सुतरामिति ।
आम्नायस्य कार्यनिष्ठत्वात् ब्रह्मनिष्ठत्वेऽपि तस्मिन् योग्यप्रमाणान्तरासम्भवात् स्पर्शगोचरचाक्षुषचित्रनिम्नोन्नतादिवत् ब्रह्मवस्त्वभावात् न तत्र प्रामाण्यसिद्धिरित्यर्थः । सङ्कर्षपर्यन्त इति कर्मकाण्डं देवताकाण्डं ब्रह्मकाण्डमिति काण्डत्रयात्मिकायां मीमांसायां सङ्कर्षाख्यदेवताकाण्डावसाने वेदार्थविचारस्य समाप्तिः (स्यात्)ब्रह्मणो अभावादिति बुद्धिः स्यादित्यर्थः ।
तन्निरासार्थमिति ।
वेदान्तेषु विधिरस्ति । स च विधिः आत्ममात्रज्ञानस्य नित्यप्राप्तत्वेऽपि आत्मतया ब्रह्मणः अवबोधे सम्भवति । अतो विधौ महातात्पर्येऽपि विध्याकाङ्क्षितब्रह्मण्यपि अवान्तरतात्पर्यमस्ति । अतो ब्रह्मणः सद्भावात् तत्प्रतिपत्तिविध्योश्च सम्भवात् विधिशेषब्रह्मविचाराय पुनः प्रतिज्ञातमित्यर्थः ।
ब्रह्मणो नास्तित्वमाशङ्क्य समाधानं क्रियते चेत् सिद्धान्तात् को विशेष इति तत्राह -
इहापीति ।
द्वितीयारम्भवादिमतेऽपीत्यर्थः ।
आत्मज्ञानविधानेष्विति ।
आत्मप्रतिपादकवेदान्तवाक्येष्वित्यर्थः ।
समामिति ।
कर्मभागेन समामित्यर्थः ।
नित्यप्राप्तमहमित्यात्ममात्रज्ञानं न विधेयमिति । सत्यम् । न तस्य विधिरित्याह -
तत्वावबोधश्चेति ।
अधिकारनियोगविषयतयेति ।
‘तरति शोकमात्मवित्’ ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिवाक्येषु ज्ञानस्य फलसम्बन्धो गम्यते । तत्फलकामिना ज्ञानमनुष्ठेयं नियोगाच्चानुष्ठानमिति इष्टफलकामिनियोगविषयतया अवगमादिति भावः । तद्विचारार्थम् ; विधिशेषब्रह्मविचारार्थमित्यर्थः ।
सिद्धान्तैकदेशिनामारम्भप्रकारं पूर्ववादी निराचष्टे -
अत्रोच्यत इत्यादिना ।
वेदान्तेषु विधिर्नास्तीत्युक्तामभ्यधिकाशङ्कां प्रथमं दूषयति -
यस्तावदिति ।
संप्रत्यय इति ।
प्रतीतिरित्यर्थः ।
लोके कृत्यप्रत्ययो न नियोगं गमयतीति उच्यते, किं वा वेद इति विकल्प्य प्रथमं दूषयति -
तत् स्वयमेवेति ।
प्रथमारम्भवादिनैव कटस्त्वया कर्तव्य इत्यादिषु प्रदर्शितमित्यर्थः ।
वेदे कृत्यप्रत्ययस्य नियोगबोधकत्वाभावं दूषयति -
प्रसिद्धं चैतदिति ।
आशङ्काकारणमिति ।
वेदान्तेषु विधिर्नास्तीत्याशङ्काकारणं नास्तीत्यर्थः ।
असम्भव उक्त इति ।
अतो निष्कर्मकज्ञाने विध्यसम्भव उक्त इति भावः ।
सक्तुन्यायो भविष्यतीति ।
कर्तृसमवायिमोक्षफलाय आत्मना ज्ञानं कर्तव्यमिति विधिः स्यादित्यर्थः ।
सक्तुन्यायेन ज्ञानविध्यभ्युपगमेऽपि अपूर्वविधिः किं वा नियमविधिः किं वा परिसङ्ख्या विधिरिति विकल्प्यापूर्वविधिर्न सम्भवति, अत्यन्तमप्राप्तत्वाभावादित्याह -
तदपि नेति ।
कदाचिदनुष्ठाननिवृत्तये सिद्धस्यैव ज्ञानस्याभ्यासे नियमविधिः स्यादिति चोदयति -
सिद्धस्यैवेति ।
अभ्युदयफल इति ।
कर्तृसमवायिनि अन्यफल इत्यर्थः ।
हिरण्यधारणवदिति ।
हिरण्यं बिभृयादित्यत्र भरणेन संस्कृतहिरण्यस्यान्यत्र विनियोगाभावात् । विनियोगाभावेऽपि संस्काराश्रयहिरण्यस्य क्रतावेवानुप्रवेशात् तद्वारेण क्रत्वनुप्रवेशनियम इति च न सम्भवति । आश्रयहिरण्यस्य क्रतावेवअनुप्रवेश नियमाभावेन नियतद्वारत्वाभावात् , अतः सक्तुन्यायेन स्वतन्त्रविधित्वमभ्युपगम्य रागतः पक्षे प्राप्तभरणस्य नियमविधित्वमभ्युपगम्यते, तद्वदत्रापीत्यर्थः ।
आत्मविषयज्ञानसन्तानस्य सर्वदा अनुवृत्तेः पक्षे प्राप्त्यभावान्न नियमविधिरिति चोदयति -
ननु विधानतोऽपीति ।
तर्हि अनात्मप्रतिभासनिवृत्तये परिसङ्ख्याविधिः अदृष्टार्थः स्यादित्याह -
एवं तर्हीति ।
अर्थाविरुद्धेष्विति ।
देहयात्रानिर्वाहकालव्यतिरिक्तकालेष्वित्यर्थः । अतो वेदान्तेषु विधिर्नास्तीत्यभ्यधिकाशङ्कानवकाश इति भावः ।
सिद्धान्त्येकदेशिना विधिरस्तीत्युक्तं यत् समाधानं तदप्ययुक्तम् , कर्मस्थप्रयोजनासम्भवादेव ज्ञानविध्ययोगादित्याह -
यत्पुनरात्मज्ञानादित्यादिना ।
अविहित ज्ञानसन्तानस्यानिवर्तकत्वे सति तस्य विधानेऽप्यनिवर्तकत्वमेवेति भावः ।
तर्हि अलौकिकात्मतत्वज्ञानम् अविद्यादिदोषनिवृत्तिफलं विधीयतामित्याशङ्कते -
अथ पुनरिति ।
ज्ञेयत्वेनेति ।
विधेयज्ञानविषयत्वेनेत्यर्थः ।
यथा सामान्यप्रसिद्धयागमुद्दिश्यानुभूतयागव्यक्तिसदृशं यागव्यक्त्यन्तरं बुद्धिस्थमेव विधीयते, एवमलौकिकात्मज्ञानं सामान्यतः प्रसिद्धमुद्दिश्य पूर्वानुभूतज्ञानव्यक्तिसदृशं ज्ञानव्यक्त्यन्तरं बुद्धावाकलय्यत्कर्तव्यतया विधेयमिति वक्तव्यम् । तस्य तु ज्ञानस्यात्यन्ताप्रसिद्धत्वात् न विधानसम्भव इत्याह -
तदसत् ; विधिर्हीति ।
ज्ञानसामान्यस्य लोके सिद्धत्वात् तदुद्देशेन विधाने तद्व्यक्तित्वेन अलौकिकात्मज्ञानं कर्तव्यतया प्रमीयतामित्याशङ्क्य तादृगात्मज्ञानसामान्यव्यक्तित्वेनाप्रसिद्धत्वात् तादृशज्ञानव्यक्त्यन्तरस्य बुद्धावारोपयितुमशक्यत्वात् न विधानसम्भव इत्याह -
तद्यदि नामेति ।
तादृगात्मज्ञानस्य सिद्धत्वेऽपि पुरुषान्तरे सिद्धत्वे अन्याधिकारिणः तदप्रतिपत्तेः न तादृशं व्यक्त्यन्तरं कर्तव्यतया बुद्धौ रूपयितुं शक्यमिति बहिरेव दूषणमभिप्रेत्य स्वात्मनि सिद्धत्वे दूषणमाह -
किं विधिनेति ।
विचार इति ।
विचारे कृते इत्यर्थः । तद्विचाराय विधिशेषब्रह्मविचाराय शास्त्रारम्भ इत्यर्थः ।
अपरं मतमिति ।
पूर्वोक्तारम्भप्रकारयोः पाश्चात्यं मतं स एव प्रतिपत्तिविधिवादी उपपादयतीत्यर्थः ।
महातात्पर्येण कार्यपरादपि वेदादवान्तरतात्पर्येण ब्रह्मणोऽपि प्रतिपत्तेर्युक्तः प्रतिपत्तिविधिरित्याह -
सत्यम् , कार्यविषय इति ।
अर्थान्तरपरात् शब्दात् अर्थान्तरप्रतिपत्तिः अयुक्तेति तत्राह -
तस्मिन् सतीति ।
रूपस्य चाक्षुषत्वेन रूपिभेदा (आत्मादी ? ) नां चाक्षुषत्वं, न तु स्वप्रधानतयेति भावः ।
ब्रह्मणो वेदविषयत्वे वेदजन्यतद्विषयज्ञानश्रुतविधिः कथं स्यादिति चोदयति -
कथमिति ।
अस्ति शब्दज्ञानेऽपि विधानमिति समर्थयितुमाह -
तदुच्यत इति ।
इदं वाक्यमात्मनोऽनात्मरूपताप्रतिपादकमतोऽपुरुषार्थविषयत्वेनाप्रमाणत्वात् तस्य विधिनिष्ठत्वं दूरनिरस्तमिति नेत्याह -
न तावत् सर्वात्मरूपतेति ।
प्रतिपन्नप्रपञ्चमुद्दिश्य अप्रतिपन्नात्मरूपस्यैव विधानसम्भवादित्यर्थः ।
दूषणान्तरमाह -
यदि सर्वरूपतेति ।
किं तर्हि प्रतिपाद्यत इत्यत आह -
अतः सर्वस्येति ।
अनात्मस्वभावविलयनेनेति ।
नेति नेतीत्यादिवाक्येऽपि अनात्मोपमर्देनात्मनो विधेयतया अवगतिर्दृष्टा इत्यर्थः ।
अनात्मविलयनेन आत्मनोऽद्वितीयत्वप्रतिपादनात् प्रमाणत्वेऽपि अत्र ज्ञाने वस्तुनि वा विधिर्नावगम्यत इत्याह -
नन्वत्रेति ।
कल्प्यतां विधिरिति ।
पूषा प्रपिष्टभाग इत्यादाविवेति भावः ।
प्रतीते विध्यर्थ इति ।
कालत्रयास्पृष्टतया अनुष्ठानयोग्ये कर्मणि कालत्रयास्पृष्टतया शब्दावगतद्रव्यदेवतासम्बन्धसामर्थ्यात् प्रतिपन्ने तदन्यथानुपपत्त्या च विधायकपदार्थे नियोगे प्रतिपन्ने पश्चाद्विधिः विधायकपदं कल्प्यत इत्यर्थः ।
विधिं कल्पयित्वेति ।
विधायकपदं कल्पयित्वेत्यर्थः ।
अपूर्वं प्रमाणकौशलमिति ।
अर्थवादसंसर्गेष्वपि विधिपदकल्पनाप्रसङ्गादिति भावः । किं प्रतीतइत्यादिगतप्रतीतिशब्दः प्रमितिवाचीति द्रष्टव्यम् ।
प्रतीते अप्रतीते वेति विकल्पस्य सर्वत्र सम्भवात् क्वापि विधिकल्पनं न स्यादिति चोदयति -
ननु अश्रूयमाण इति ।
तत्र शब्दावगतद्रव्यदेवतासम्बन्धात् कालत्रयास्पृष्टात् विध्यर्थाविनाभूतक्रिया गम्यते । तया च नियोगो गम्यत इति श्रुतसामर्थ्यात् प्रतिपन्ने विध्यर्थे व्यवहारार्थं पूष्णः पिष्टद्रव्यत्यागः कर्तव्य इति विधिपदोपसंहारो युक्तः, इह तु श्रुतसामर्थ्यात् विध्यर्थप्रतीत्यभावात् , शब्देनैव विधिप्रमितिमङ्गीकुर्वता विधिकल्पना न शक्या इत्याह -
सत्यं युक्तं तत्रेति ।
समासाभिहितः प्रपिष्टो भागो यस्येति बहुव्रीहिसमासाभिहितः ।
प्रमाणाभावादिति ।
अभूदित्यादिवाचकशब्दाभावादित्यर्थः । अन्यविधिशेषत्वेन तत् स्तावकतया सालम्बनत्वं कथञ्चिदालम्बनत्वमिति द्रष्टव्यम् ।
कार्यपरता कल्प्यते इति ।
कर्तव्यता कल्प्यते । क्रियां परिकल्प्य क्रियावच्छिन्नविधिः कल्प्यत इत्यर्थः ।
स चेति ।
आत्मपदेन श्रुत आत्मेत्यर्थः ।
पुरुषविशेषमनाश्रित्येति ।
नियोगप्रतिपत्तारं पुरुषविशेषमित्यर्थः ।
विश्वजिदादिष्विति ।
विश्वजिता यजतेति वाक्यात् प्रतीयमाननियोगस्य स्वर्गं फलं कल्पयित्वा तत्कामोऽधिकारित्वेन कल्प्यत इत्यर्थः ।
सर्वस्यात्मस्वभावताख्यसंसर्गोऽपि विधिसंसृष्टः वैदिकसंसर्गत्वात् वायुर्वै क्षेपिष्ठेत्यादिसंसर्गवदित्यभिप्रायेणाह -
अथापीति ।
धातुना विनेति ।
धात्वर्थेन विनेत्यर्थः । नियोगस्य भूतसंसर्गविषयत्वायोगादिति भावः ।
धातुनैव सहेति ।
नियोगविषयधात्वर्थस्यापि वैदिकसंसर्गेणाविनाभावादिति भावः ।
कोऽसौ धातुरिति ।
सर्वधात्वर्थकल्पनेऽपि दोषोऽस्तीति भावः ।
यागः कर्तव्यः, दानं कर्तव्यम् , होमः कर्तव्यः इति सर्वधात्वर्थान्वयिनः कृतिधात्वर्थस्यातिलङ्घने कारणाभावात् प्रथमं कृतिधातुमपस्थापयति ।
यदि तावत्कर्तव्यमिति ।
प्रपञ्चविलयनेनैव आत्मदर्शनं वक्तव्यम् । तत्र वास्तवप्रपञ्चस्य आत्मविधानेऽपि अनात्मस्वभावनिवृत्तिः न युज्यत इत्याह -
तत्रानात्मस्वभावतेति ।
कर्तव्यमित्युक्ते किं केन कथमित्याकाङ्क्षा भवति । तत्र कथमितीतिकर्तव्यताकाङ्क्षानिवृत्तये सापि न निर्दिष्टेत्याह -
इति कर्तव्यता चेति ।
शमादयस्तु ज्ञाने इतिकर्तव्यं न प्रपञ्चविलये इतिकर्तव्यमिति भावः ।
प्रपञ्चस्य सत्यत्वमङ्गीकृत्य दूषयति -
एवमपीति ।
उभयधात्वर्थविधौ दूषणान्तरमाह -
अशक्यार्थोपदेशश्चेति ।
न हि वस्त्विति ।
अवस्तुत्वे तद्विलयनेन वस्त्वन्तरात्मना ज्ञातुं शक्यते । वस्तुत्वे वस्त्वन्तरात्मना उपासितुं शक्यते, न तु ज्ञातुं शक्यते, वस्तुनो लयासम्भवादित्यर्थः ।
सत्यपक्षे अनात्मस्वभावानिवृत्त्याशक्यार्थोपदेशदोषो वेदे । तद्दोषपरिहाराय अनात्मनोऽसत्यत्वमङ्गीकृत्य तत्प्रविलयनेन सर्वमात्मेति प्रमाणज्ञानं विधिपदव्यतिरिक्तपदसमुदायात्मकवाक्यप्राप्तमनूद्य तस्मिन् विधिमात्रमध्याह्रियत इत्याह -
एवं तर्हि ज्ञातव्य इति ।
धात्वर्थोनुवादः अनूद्यमान इत्यर्थः ।
विधानमनर्थकमिति ।
विधिनिमित्तप्रवृत्तिमनपेक्ष्य अभिधानाख्यविधिपदरहितवाक्येन ब्रह्मसंवेदनं निष्पन्नं चेत् विधानमनर्थकमित्यर्थः ।
अध्ययनमात्रात् निष्पन्नस्य ज्ञानस्य अविधितो जन्यत्वात् न पुरुषार्थाय भवतीति पुनर्ज्ञानान्तरं तादृशं विधीयते पुरुषार्थपर्यन्तत्वायेत्याह -
पुनः कर्तव्यतयेति ।
प्रथमं चेदपुरुषार्थः, विधिस्पर्शाद्वा कथं तादृशं द्वितीयं पुमर्थाय भवेदित्यत आह -
यथा मन्त्रेष्विति ।
प्रयोगवचनस्तत्र विधायक इति ।
मन्त्रजन्यद्वितीयप्रत्ययस्यानुष्ठापकः प्रयोगवचनाख्यो विधिरस्ति । न तथा आत्मनि द्वितीयज्ञानस्यानुष्ठापकोऽस्तीत्यर्थः ।
आत्मन्यपि द्वितीयज्ञानस्यानुष्ठापकः प्रयोगवचनः सम्पाद्यत इत्याह पूर्ववादी -
इहापीति ।
अधिकारिणा साङ्गं कर्म अनुष्ठापयन् विधिः प्रयोगवचन इत्युच्यते ।
अन्यतः सिद्धत्वादिति ।
ब्राह्मणवाक्ये प्रमितत्वादित्यर्थः ।
प्रत्ययपरत्वमिति ।
द्रव्यादिप्रकाशनेन अपूर्वोपकारिप्रत्ययमात्रे मन्त्राणां तात्पर्यं नार्थतथात्व इत्यर्थः ।
स्वार्थविधिपराणामिति ।
प्रयोजनवदज्ञातार्थावगमपर्यवसितानामित्यर्थः ।
प्रत्ययपरत्वं विरुध्यत इति ।
विधिविषयप्रत्ययजनकत्वेन विधिं प्रति शेषत्वं विरुध्यत इत्यर्थः ।
विधेयप्रत्ययसमर्पणेन विधिप्रमितिहेतुत्वमज्ञातार्थप्रमितिहेतुत्वं चोभयं नेयम् इत्याह -
अन्यार्थमपि कृतमिति ।
शब्दातिरिक्तस्योभयार्थत्वेऽपि शब्दस्य तात्पर्यात् सकृत्कार्यहेतोर्नोभयार्थत्वमिति तत्राह -
यथा च पदार्थानामिति ।
पञ्चप्रयाजपदार्थानामित्यर्थः ।
प्रत्ययस्यापीति ।
विधिविषयप्रत्ययजननेन विधिप्रमितये च भविष्यतीत्यर्थः ।
ब्रह्मण्याभिधानिकप्रथमप्रत्ययेन पुरुषार्थसिद्धेः न विधिविषयद्वितीयप्रत्ययसमर्पकत्वं वेदान्तानामिति दर्शयितुं मन्त्रेभ्यो वैलक्षण्यमाह -
तदेतदनिरूपितमिवेति ।
मन्त्राः स्वाध्यायेति ।
सप्रयोजनत्वे हेतुमाह,
प्रमितिप्रयोजनेन सप्रयोजनत्वाभावमाह -
स्वार्थस्येति ।
ब्राह्मणवाक्येन प्रमितत्वादित्यर्थः ।
प्रमाणत्वे श्रुत्यादिप्रमाणान्तरेण विनियोज्यत्वासम्भवात् विनियोज्यत्वे हेतुमाह -
प्रमेयतामापन्ना इति ।
स्मारकतया प्रयोगवचनेन गृह्येरन्नित्यर्थः ।
न प्रमेयमवगमयितुं क्षम इति ।
विधिविषययोषिदग्न्यादिज्ञानस्य तद्धेतुवाक्यस्य च प्रमेयपरत्वादर्शनादिति भावः ।
एकतात्पर्यविशिष्टतया सर्वपदानामेककार्यकरत्वमिति वक्तव्यं पदैकवाक्यतावादिना इत्यङ्गीकृत्य विधिब्रह्मणोः अलौकिकत्वात् विधिप्रमितिं तदपेक्षितब्रह्मप्रमितिं च करोति चेत् वाक्यमेकतात्पर्यस्य कालान्तरव्यापारान्तरासम्भवात् एकव्यापारेणोभयप्रमितिं युगपदेव कुर्यात् तच्चायुक्तमित्याह -
न युगपदुभयमिति ।
एकस्य शब्दजन्यज्ञानस्य प्रमाणत्वात् तद्विषयब्रह्मणो ज्ञानात् प्राक् योग्यत्वाख्याज्ञातज्ञानेन ज्ञायमानप्रमितिविशिष्टतया साध्यत्वं ज्ञातप्रमितिरूपफलविशिष्टतया प्राधान्यं चेति त्रितयं सम्भाव्यते । तस्यैव ज्ञानस्य विधेयतया क्रियात्वात् विषयेण सह यत् ब्रह्मज्ञानमित्यनूद्य तदुद्देशेन विधेयत्वं वक्तव्यम् , तथा सति अनूद्यमानक्रियाविशेषणतया ब्रह्मणोऽनुवाद्यत्वायाज्ञातत्वविरुद्धज्ञातत्वं वक्तव्यम् । उद्देश्यक्रियाविशेषणब्रह्मण उद्देश्यत्वाय साध्यत्वविपरीतसिद्धत्वं वक्तव्यम् । विधेयक्रियां प्रति ब्रह्मणः कर्मकारकतया आश्रयतया प्राधान्यविपरीतगुणत्वं वक्तव्यमित्येवम् , ब्रह्मणि विरुद्धरूपापत्तिः स्यादित्याह -
वैरूप्यप्रसङ्गादिति ।
प्रथमज्ञानमर्थपरम् , द्वितीयज्ञानं विधिविषयतया तत्परमित्यविरोधोऽपि न सम्भवति, शब्दस्योभयपरत्वाभावे तज्जन्यज्ञानस्य सकृज्जातस्यापि उभयपरत्वानुपपत्तेरिति द्रष्टव्यम् ।
व्रीहिणां तावत् प्रमाणान्तरसिद्धत्वात् अनुवाद्यत्वं सिद्धमिति विशिष्टरूपेण सिद्धतया उद्देश्यत्वं च भवति । प्रोक्षणक्रियां प्रति कारकत्वात् गुणत्वं च स्यादिति त्रितयं विद्यते प्रोक्षणजन्यातिशयविशिष्टतया साध्यत्वं प्राधान्यमतिशयजननयोग्यत्वरूपविधेयत्वाख्यप्रमेयत्वं चेति त्रितयं विद्यत इत्येवं विरुद्धत्रिकद्वयप्रतीतिः एकस्मिन् शब्दजन्यज्ञाने प्रसज्यते । तथापि प्रोक्षणादिसंस्कारकर्माणि विधीयन्ते तद्वत् ब्रह्मज्ञानेऽपि विधिः स्यादिति चोदयति -
नन्वेवं सतीति ।
गुणकर्मविधिवाक्यजन्यज्ञाने अनुवाद्यत्वमुद्देश्यत्वं गुणत्वं चेति त्रितयं प्रतीयते । क्रियाजन्यातिशयस्यावैभक्तिकत्वात् साध्यत्वादित्रितयं न वाक्यजन्यज्ञाने प्रतीयते, किन्तु कर्मस्थातिशयाय क्रियाविधानान्यथानुपपत्तिरूपार्थापत्त्या प्रतीयते । अतो न वैरूप्यं गुणकर्मसु । ब्रह्मणि तु वैरूप्यप्रतीतावपि तत्र ज्ञाने विधिः स्यात् , न चेत् गुणकर्मणामपि विधिर्नस्यादिति चोदयति -
नन्वेवं सतीति ।
प्रमाणान्तरेण जातप्रमितिविशिष्टतया सिद्धरूपव्रीह्यादीनुद्दिश्य तत्रातिशयाय गुणकर्मविधानात् विधेयक्रियया साध्यातिशयविशिष्टतया साध्यत्वं प्रतीयते । अतः साध्यरूपस्यैव न सिद्धत्वप्रतीतिः, नापि सिद्धरूपस्यैव साध्यत्वप्रतीतिरिति न तत्र वैरूप्यप्रतीतिः, ब्रह्मणि तु विधेयज्ञानेन जातप्रमितिविशिष्टतया सिद्धरूपेणोद्देश्यत्वं विधेयज्ञानेन ज्ञायमान यत्नतयैव प्रमित्या विशिष्टरूपेण साध्यत्वं च युगपत् प्रतीयत इति वैरूप्यप्रतीतिः अस्त्येव । अतो न तज्ज्ञानविधिसम्भव इत्याह -
न निराकृतमित्यादिना ।
क्रत्वङ्गभूतकारकसंस्कारार्थानि कर्माणि गुणकर्माण्युच्यन्ते ।
फलं तद्विधीयते इति ।
फलाय तद्गुणकर्म विधीयत इत्यर्थः ।
उभयासम्भवादिति ।
ब्रह्मप्रमितिहेतुत्वं विधिविषयतया विधिप्रमितिहेतुत्वं च ब्रह्मज्ञानस्यासम्भवादित्यर्थः । एकज्ञानेन प्रमितं ब्रह्मोद्दिश्य तज्ज्ञानान्तरं विधीयत इति वक्तुं न शक्यते सामग्रीभेदाभावादेव ज्ञानद्वयस्यापि प्रमेयभेदासम्भवादैकरूप्यादिति द्रष्टव्यम् ।
अस्तु तर्हि विधायकपदव्यतिरिक्तपदसमुदायस्य पृथगेव ब्रह्मस्वरूपं प्रतिपाद्य पुनस्तदनुवादज्ञानं जनयित्वा तस्य विधिविषयत्वसमर्पणेन पुनर्विधायकपदेन पदैकवाक्यतेति, नेत्याह -
न स एव समन्वय इति ।
अवान्तरवाक्यस्य प्रमाणत्वायोगादिति ।
पदैकवाक्यत्वादेव अवान्तरवाक्याभावादेव तस्य प्रमाणत्वायोगादित्यर्थः ।
तर्हि विधिपदेन यानि पदैकवाक्यभूतानि तद्व्यतिरिक्तपदानां पृथगन्वयेन ब्रह्मप्रतिपत्तिशेषता इत्याशङ्कते -
अथार्थवादपदानामिवेति ।
न तथानुभव इति ।
अग्रहणनिवृत्तावपि मिथ्याज्ञानतत्संस्कारनिरासिसाक्षात्करणं नास्ति । अतः तदर्थं ज्ञानान्तरेऽपि विधिरित्यर्थः । किं तद् ज्ञानमिति किं करणकं ज्ञानमित्यर्थः ।
प्रत्यक्षागोचरत्वात् तन्मूलानुमानाद्यगोचर इत्यभिप्रेत्याह -
प्रत्यक्षादीनामिति ।
अस्मदीयप्रत्यक्षागोचरत्वेऽपि योगिप्रत्यक्षगम्यमिति तत्राह -
न चक्षुषेति ।
नेष्यत इति ।
साक्षात्करणहेतुरिति नेष्यत इत्यर्थः ।
शब्दसामर्थ्यादुत्पन्नं प्राथमिकं ज्ञानं तत् सन्तानो वा साक्षात्करणाय विधीयत इति विकल्प्य न प्राथमिकज्ञाने विधिरित्याह -
तदयुक्तं यत्तावदिति ।
स्वभावत इति ।
स्वसामर्थ्येन विधिवाक्यात् विधिविषयज्ञानवत् विधिमन्तरेण उत्पन्नमित्यर्थः । उभयपरत्वे वैरूप्यस्य दर्शितत्वादिति वाक्यशेषः ।
प्रथमज्ञानादवगते ब्रह्मणि तदुद्देशेन संस्कारद्वारेण साक्षात्करणहेतुज्ञानसन्तानो विधीयत इति चोदयति -
अथ पुनस्तदेव ज्ञानमिति ।
उपासनाविधित्वेन अभिमतानामात्मेत्येवोपासीतेत्यादीनां अहमिति स्वभावप्रवृत्तज्ञानं प्रत्यलौकिकात्माख्यविषयसमर्पकत्वादेव विधित्वायोगात् निदिध्यासितव्य इत्यस्यापि आत्मस्तुतित्वादेव विधित्वाभावात् उपासनाविधिसामर्थ्यात् सन्तानविध्यवगमायोगादात्मानं पश्येदिति दर्शनविधानसामर्थ्यात् सन्तानविधिर्गम्यत इति वक्तव्यम् । तच्चायुक्तमित्याह -
तत्कथं लभ्यत इति ।
ज्ञानेनैवेति ।
पश्येदित्युक्तज्ञानेनैवेत्यर्थः ।
निदिध्यासितव्य इत्यस्य उपासनाविधित्वेऽपि साक्षात्करणाहेतुत्वात् शाब्दज्ञानादविशेष इत्याह -
नाप्यभ्यासादिति ।
अभ्यासात् किमित्याह -
तत्कथं लभ्यत इति ।
अभ्यासात् साक्षात्करणासम्भवेन न तदपरोक्षं कर्तुं शक्यं किन्तु, मिथ्याऽऽपरोक्ष्यमिति भावः ।
`ततस्तुं तं पश्यते निष्कलं ध्यायमान' इत्यत्र ध्यायमानो ध्याननिमित्तचित्तैकाग्र्यद्वारसहितवाक्यज्ञानं लब्ध्वा ज्ञानप्रसादेनपश्यतीत्यन्वयमङ्गीकृत्य अभ्यासात् साक्षाद्बोधो न श्रूयते इत्याह -
नापि श्रूयत इति ।
ऐकाग्र्याद्वारेण आपरोक्ष्यहेतौ तत्कामस्य प्रवत्तिसिद्धेः न श्रवणापेक्षा । ऐकाग्र्यद्वारेण अपरोक्षहेतुत्वस्यान्वयव्यतिरेकाभ्यामेव ज्ञातत्वात् न हेतुत्वज्ञानाय च श्रवणापेक्षा इति चोदयति -
ननु किमत्र श्रवणेनेति ।
शास्त्रश्रवणादाविति ।
गानशास्त्रतज्जन्यज्ञानाभ्यासात् गानापरोक्ष्यं दृष्टमित्यर्थः ।
अनेकांशत्वात् कुल्याया युगपदनेकार्थत्वमुपपद्यते स्थायित्वात्क्रमेण अनेकार्थत्वं चोपपद्यते प्रत्यक्षदृष्टत्वाच्च न विरोधः । नेह उभयार्थतायां प्रत्यक्षप्रमाणं विद्यते । अतो न्यायतः प्रतिपत्तव्यं तत्र तात्पर्यविशिष्टतया सकृत्कार्यहेतुशब्दस्य क्रमेण उभयार्थत्वायोगात् युगपदुभयार्थत्वं वक्तव्यम् । तच्च न सम्भवतीति उभयार्थत्वे न्यायाभावश्च उक्त इत्याह -
युक्तं तत्रेत्यादिना ।
ज्ञापयिष्यतीति ।
विषयसमर्पणेन विधिमपि ज्ञापयिष्यतीत्यर्थः ।
पदार्था एव शब्दगम्याः क्रमस्तु अनेकेषामेकपुरुषानुष्ठेयत्वं क्रमं विना नोपपद्यत इत्यर्थापत्तिसिद्ध इत्याह ।
यत्तावदिति ।
ये तावदित्यर्थः ।
न तेषामेव विधानमिति ।
तेषां प्रयाजादीनां धर्मभूतक्रमस्य न विधानमर्थापत्तिगम्यत्वादित्यर्थः ।
पदार्थमात्रस्य क्रमस्य पदार्थवत् शब्देन विधानमिति नेत्याह -
नापि त इति ।
क्रमस्य प्रयोगवचनप्रयोज्यत्वात् विहिततया अङ्गत्वमिति नेत्याह -
प्रयोगवचनोऽपीति ।
पदार्था एव क्रमः, तस्मात् पदार्थान् प्रयुञ्जानः सिद्धं क्रममपि प्रयुङ्क्त इति नेत्याह -
न ते क्रमा इत्युक्तमिति ।
एकैकस्मिन् पदार्थेऽदर्शनात् अनेकपदार्थाश्रयत्वे पदार्थयौगपद्यात् क्रमायोगात् अयौगपद्ये च उभयाश्रयधर्मायोगात् क्रमो नास्त्येवेत्याशङ्क्य दुर्निरूपत्वेऽपि अनिर्वचनीयक्रमोऽस्त्येवेत्याह -
न च क्रमो नामेति ।
संयोगवदुभयाश्रयत्वे पदार्थयौगपद्यमित्युक्तम् । तत्राह -
तत्र क्रमो नामेति ।
क्रमत्वादेव धर्मिणां न यौगपद्यापेक्षेति भावः ।
देशकालवस्तूपाधिपरामर्शमन्तरेण क्रमो न दृश्यत इति तत्राह -
त एव वेति ।
वनवदिति ।
एकदेशस्थत्वोपाधिना वृक्षेषु वनबुद्धिशब्दवदित्यर्थः ।
अनुष्ठेयपदार्थानामनिष्पन्नस्वभावत्वात् न देशकालवस्तुक्रम इति तत्राह -
स्मृतिविज्ञानमेव वेति ।
पाठक्रम एव स्मर्यमाणोऽनुष्ठेयपदार्थेषु उपरज्यत इत्यर्थः ।
अनुष्ठेयपदार्थं विशेषणतया अर्थापत्त्या प्रमीयते क्रमो न तु विधीयत इत्याह -
तच्चैकत्वात् कर्तुरिति ।
तदिति ज्ञानान्तरालम्बनभूतं क्रमवस्तु उच्यते -
सन्निहितं चेति ।
अर्थक्रमाभावे पाठक्रममित्यर्थः । गृह्यत इति प्रयोगवचनेन अनुस्मर्यत इत्यर्थः ।
अत्र प्रमाणद्वयेनैव प्रमेयद्वयसिद्धिरिति प्रकरणार्थः । यथा चक्षुः संसृष्टेऽर्थे प्रमाणं भवति न तथा शब्दः शक्तिप्रतियोगितया सम्बन्धिन्यर्थे प्रमाणम् । किन्तु यत्र तात्पर्यं तत्र सम्भूयैव शब्दाः प्रमाणमित्याह -
युक्तं तत्रेति ।
प्रतीयत इति ।
शक्त्या प्रतीयत इत्यर्थः ।
शोभतेतरामिति ।
ब्रह्मण्यप्रमाणं श्रुतिः श्रुत्यर्थापत्तिः प्रमाणमित्युक्तिर्न युक्तेत्यर्थः ।
अवगमविधानानुपपत्तिः नावगम्यवस्तुतत्त्वं गमयतीत्याह -
न च नियोगत इति ।
नियोगतः नियमेन इत्यर्थः ।
आरोपित विषयत्वे फलासम्भवात् वास्तवसंसर्गविषयत्वं विधेयज्ञानस्येति तत्राह -
भवन्ति हीति ।
विधेयज्ञानस्यारोपितविषयत्वे प्रमितिरूपदृष्टप्रयोजनासम्भवात् अदृष्टफलकल्पना स्यादित्याशङ्क्य प्रमाणविरोधादेव दृष्टासम्भवात् अदृष्टकल्पनैव युक्तेत्याह -
एतदेवात्रेति ।
अतत्परस्येति ।
विधौ तात्पर्यादेव अद्वितीयब्रह्मणि तात्पर्यहीनस्येत्यर्थः ।
अलौकिकब्रह्मप्रतिपादनेन तज्ज्ञानविधिनिष्ठताऽयोगाल्लौकिकात्मनि आरोपितविषयोपासनविधिपरा वेदान्ता विचारिताश्चेत्याह -
तस्मात् कार्यनिष्ठ इत्यादिना ॥
शब्दानां कार्यान्वितस्वार्थबोधने सामर्थ्यात् सर्वो वेदः कार्यपरतया विचारित इत्युच्यते, किं वा सूत्रकाराद्यभियुक्तवचनसामर्थ्यात् कार्यपरतया विचारित इत्युच्यते इति विकल्प्य प्रथमकल्पस्य समन्वयसूत्रे निराकरणमभिप्रेत्य द्वितीयकल्पं निराकरोति -
स्यादेतदेवमिति ।
धर्मस्यैव विचार्यत्वेन उपक्रान्तत्वेऽपि धर्मवत् प्रासङ्गिकत्वेन ब्रह्मापि विचारितमिति, नेत्याह -
विचारितश्च स्यादिति ।
प्रारभ्यमाणविचारो धर्मविषयो न वेदार्थमात्रविषय इत्युपपादयति -
तथाहि शास्त्रारम्भ इति ।
अत्र शास्त्रारम्भशब्देन प्रथमसूत्रमुच्यते ।
एवं निरूपित इति ।
धर्ममात्रविचारारम्भविषयत्वेन निरूपितो न वेदार्थविचारारम्भविषयत्वेनेत्यर्थः ।
वेदवाक्यानि विचारयेदित्यादिभाष्यलिङ्गात् वेदार्थमात्रविचारारम्भो गम्यत इति शङ्कते -
कथामिति ।
सामान्यप्रसिद्धिविशेषविप्रतिपत्त्योः भाष्यकारेण धर्म एव प्रदर्शितत्वात् धर्म एव विचार्यत इत्याह -
धर्मो नाम इति ।
धर्मस्य सामान्यतः प्रसिद्धं रूपमाह -
साधयितुः कर्तुः कालान्तरे श्रेयःसाधन इति ।
लोकाख्यप्रमाणस्य प्रत्यक्षाद्यन्तर्भावे प्रमाणत्वमनन्तर्भावपक्षे आभासत्वं चास्तीति मत्वा आभासत्वमुच्यत इति द्रष्टव्यम् । विशेषविप्रतिपत्तिश्च धर्म एव दर्शितेत्याह -
तद्विशेषं प्रतीति ।
धर्म एव पूर्वपक्षप्राप्तिश्च दर्शितेत्याह -
तत्र अग्निहोत्रेति ।
अभिप्रेतो धर्मोऽग्निहोत्रादिनैवेत्यन्वयः । न तत्प्रतिपादकानामिति नकारस्योत्तरेणाप्यन्वयः ।
लोकायत आह -
न वा तदपीति ।
तेन विवक्षित इति ।
अस्यास्मिन्नर्थे विवक्षास्तीति बोधयति शब्द इत्यर्थः ।
धर्मायेति ।
धर्मनिर्णयायेत्यर्थः । विचारयिष्यन् उत्तरसूत्रैः विचारयिष्यन्नित्यर्थः । तदर्थविवक्षाविचारावसर इति अथशब्दार्थमाह । तस्याम्नायस्यार्थे विवक्षास्ति तस्यैव विचारावसरश्चास्तीति अथशब्देन प्रदर्शनार्थमित्यर्थः ।
विवक्षाविचारावसरे, धर्मविचारान् सूत्रार्थान् सूत्रयोजनया दर्शयन्नाह -
वेदमधीत्येति ।
वेदस्यार्थविवक्षाप्रदर्शने सति वेदार्थविचारः कर्तव्य इति वक्तव्ये धर्मग्रहणात् तदतिरिक्तोऽपि वेदार्थोऽस्ति । तस्योपादानं मा भूदिति मन्यते सूत्रकार इति गम्यत इत्याह -
एवं स्थिते इति ।
शास्त्रारम्भ इति ।
प्रथमसूत्र इत्यर्थः ।
न्यायान्तरविषयत्वादिति ।
साध्यैकरूपोत्त्पत्यादिविधिनिर्णायकतर्काविषयत्वात् न्यायान्तरविषयत्वं सिद्धरूपब्रह्मण इत्यर्थः ।
स्वाध्यायस्य अर्थविवक्षाविचारहेतुत्वप्रतिपादकाथातःशब्दविरोधः स्याद्वेदार्थविचारप्रतिज्ञाभाव इति चोदयति -
कथं यत्तावदिदमिति ।
धर्मस्यैव सामान्यप्रसिद्धिविशेषविप्रतिपत्त्योर्भावात् तस्यैव पुरुषार्थसाधनत्वावगमाच्च जिज्ञासार्हत्वात् धर्म एव विचार्यते न वेदार्थः, तस्य सामान्यप्रसिद्ध्यादेरभावादित्याह -
उच्यत इत्यादिना ।
वेदहेतुप्रयुक्त्यापि धर्मविचारः सम्भवति, तस्यापि वेदार्थत्वादित्याह -
अग्निहोत्रादिरपीति ।
दैवगत्या पुरुषार्थस्य साधनत्वात् विप्रतिपत्तावन्यतरकोटित्वाच्च धर्मस्यैव विचारयोग्यत्वमित्याह -
धर्मतया विचारपदवीमुपारोहतीति ।
धर्मतयेति ।
दैवगत्या पुरुषार्थसाधनतयेत्यर्थः ।
यतस्तस्येति ।
विप्रतिपत्तिस्कन्धत्वात् विचारयोग्यता विद्यत इत्यर्थः । अत्रावसरशब्देन योग्यताऽभिधीयते । विवक्षितोऽसौ स्वाध्याय इत्यथशब्देन प्रदर्शनं युज्यत इत्यध्याहारः ।
अध्ययनादेव पुरुषार्थसिद्धेर्न धर्मविचारः कर्तव्य इति तत्राह -
न चाध्ययनमात्रादिति ।
वेदस्यार्थविवक्षास्ति, अत एव विचारस्यानुग्राह्यप्रमाणमपि भवति । अतो निरर्थकत्वं मत्वा न स्नातव्यं किन्तु त्वदिष्टो धर्मः, किं वेदार्थः किं वा अन्य इति जिज्ञासस्वेति वदतः सूत्रकारस्य धर्मग्रहणं युक्तमित्याह -
अतोऽध्ययनानन्तरमित्यादिना ।
सूत्रे धर्म इति वेदार्थं उच्यत इत्याशङ्क्य अधीतवेदस्य मम वेदार्थेऽनुभवितव्यमिति नापेक्षा, अपि तु पुरुषार्थसाधन धर्म एव अपेक्षा इति उक्तावेव ज्ञानार्थविचारे प्रवृत्तिरित्याह -
यतो न वेदार्थतयेति ।
स्वरूपप्रमाणकथनायेति मुखतो धर्मलक्षणपरं सूत्रमर्थात् प्रमाणप्रतिज्ञेति प्राभाकराः मुखतः प्रमाणप्रतिज्ञा अर्थात् धर्मलक्षणपरमिति वार्तिककारीयाः । सर्वथाप्युभयकथनपरत्वमस्तीति भावः । वेदप्रमाणको धर्म इति स्यात् । धर्मस्यैव सकलवेदार्थतया विचार्यत्वे वेदप्रमाणको धर्म इति स्यादित्यर्थः ।
कार्यशून्यवस्तुविषयवेदभागमङ्गीकृत्य तस्यापि धर्मविषयत्वप्रसङ्गव्यावृत्तये चोदनामग्रहीत् सूत्रकार इत्याह -
तन्नूनमिति ।
चोदनाग्रहणं सर्वस्य वेदस्य धर्मे प्रामाण्यपरिहाराय न भवति, किन्तु धर्मविषयप्रामाण्यादिप्रवर्तकत्वद्योतनाय तदपि चोदनानिष्पाद्यधर्माख्यार्थभावनायाः स्वर्गादिभाव्यनिष्ठतया पुरुषार्थत्वद्योतनायेत्याह -
ननु चोदनाग्रहणस्येति ।
प्रेरणाकर्मणः प्रेरणाभिधायकस्य चुदप्रेरण इति धातोर्निष्पन्नरूपं चोदनेति पदमिति योजना । प्रेरणात्मकोविधिरिति शब्देन भावनोच्यते ।
अपुरुषार्थ इति ।
पुरुषार्थभावशून्यां स्वयमपि प्रयत्नत्वेन क्लेशार्थत्वात् अपुरुषार्थामर्थभावनां पुरुषेण निष्पादयितुमशक्नुवन् इत्यर्थः ।
कर्मतामिति ।
भाव्यतां साध्यतामित्यर्थः ।
एकपदोपादानादिति ।
यजेतेत्येकपदोपादानात् प्रत्ययार्थभावनायाः सन्निहिततरमित्यर्थः ।
अध्ययनविधिरिति ।
अध्येतव्य इति तव्यप्रत्ययगतशब्दभावनेत्यर्थः ।
अध्ययने माणवकं प्रेरयन्निति ।
अध्ययनार्थभावनामवाप्तस्वाध्यायभाव्यनिष्ठां माणवकेन निष्पादयन्नित्यर्थः ।
अध्ययनस्य वेदस्य अध्ययनार्थभावनाभाव्यस्य पुरुषार्थत्वाभावे भाव्यविशिष्टरूपेण स्वरूपेण चापुरुषार्थार्थभावनां भावयितुमशक्नुवन्ती शब्दभावना स्वभाव्याध्ययनार्थभावनायाः पुरुषार्थत्वायैव स्वर्गादिकमेव यागाद्यर्थभावनाभाव्यं कल्पयित्वा तस्याः पुमर्थत्वसम्पादनेन तद्भाव्यत्वात् । यजेतेत्यादिशब्दभावनायाश्च पुरुषार्थत्वमापाद्य तद्बोधकत्वेन अवाप्तस्वाध्यायस्य च पुमर्थतासम्पादनेन तद्भाव्यत्वाय स्वभाव्याध्ययनार्थभावनायाश्च पुरुषार्थत्वमापादयति । अतः क्रतुभावनायाः पुरुषार्थत्वसिद्धये न चोदनाग्रहणमित्याह -
नाध्ययनस्य पुरुषार्थरूपेति ।
असन्देहादिति ।
वेदान्तानामर्थान्तरपरत्वसन्देहनिवृत्तेरित्यर्थः ।
सन्देहः स्यादिति ।
सन्देहान्तरमपि स्यादित्यर्थः ।
वेदांश्चैके सन्निकर्षमिति ।
वेदांश्च प्रति एके पुरुषाः सन्निकर्षं पौरुषेयत्वं वदन्तीति यावत् ।
लक्षणसूत्रे प्राप्तं वेदग्रहणं विहाय अन्यत्र कुर्वन् न बुद्धिपूर्वकारी स्यादिति परिहरति -
सोऽयमिति ।
आभाणक इति ।
ऐतिह्यमित्यर्थः ।
अतः सर्ववेदस्य धर्मपरत्वव्यावृत्तये चोदनाग्रहणमित्याह -
ततश्चोदनेति ।
कृत्स्नस्य वेदस्य धर्मविषयत्वेऽपि वचनमस्तीत्याह -
ननु दृष्टो हीति ।
तस्याम्नायस्य दृष्टप्रयोजनं कर्मावबोध इत्यर्थः । तद्भूतानामित्यत्र तेषु सिद्धेषु रूपादिष्वर्थेषु भूतानां वर्तमानानां क्रियार्थेन क्रियाशेषत्वेन समाम्नायः समुच्चारणमिति योजना ।
दर्शितं कार्यनिष्ठत्वं सत्यं तदित्यत्र तच्छब्देन परामृशति ।
प्रक्रमबलादिति ।
प्रथमद्वितीयसूत्रप्रक्रमसामर्थ्यात् उत्तरं सामान्यवचनं प्रकृतविशेषे क्रियाप्रकरणस्थवाक्ये उपसंह्रियत इत्यर्थः ।
वचनत्रयस्य साधारणं परिहारमुक्त्वा एकैकस्यासाधारणं परिहारमाह -
अपि च दृष्टो हीत्यादिना ।
तस्यार्थः, कर्मावबोधनमित्याम्नायमात्रस्य धर्मावबोधे विनियोगः स्पष्ट इति चोदयति -
कथमिति ।
आम्नायस्य अर्थसद्भावपरं भाष्यं न धर्मातिरिक्तार्थाभावपरमित्याह -
वेदाध्ययनानन्तरमित्यादिना ।
स्नानविधायकमाम्नायमिति ।
वेदमधीत्य स्नायादित्याम्नायमित्यर्थः ।
अतिक्रमिष्यामः इममाम्नायमिति ।
वेदमधीत्य अर्थं विचार्य स्नायादित्यर्थं स्वीकुर्म इत्यर्थः ।
अनतिक्रामन्त इति ।
यथाश्रुतार्थं गृह्णन्त इत्यर्थः ।
अयोगव्यवच्छेद इति ।
वेदस्य कर्मावबोधनासम्बन्धं व्यावर्त्य सम्बन्धः प्रतिपाद्यत इत्यर्थः ।
नान्ययोगव्यवच्छेद इति ।
वेदस्यार्थान्तरसम्बन्धो नास्तीति नाभिधीयत इत्यर्थः ।
कर्मशब्दस्य प्रमेयवाचित्वात् तेन धर्मब्रह्मणोरभिधानं स्यादित्याशङ्क्य धर्मनिर्णयार्थं प्रवृत्तप्रकरणबलाद्धर्मस्यैवाभिधानमित्याह -
कर्मशब्देन चेति ।
कार्यत्वादिति ।
कर्मव्युत्पत्तिसम्भवादिति भावः ।
अक्रियार्थानां निष्प्रयोजनत्वप्रसङ्गो न दोषायेति तत्राह -
स्वाध्यायाध्ययनविधिरिति ।
स्वार्थप्रयोजनहीनानाम् अक्रियार्थत्वे निष्प्रयोजनत्वं स्यादिति परिहरति -
भवत्विति ।
तेषामपि पूषाप्रपिष्टभागइत्यादिसंसर्गेष्विव प्रयोजनं कल्प्यतामिति, नेत्याह -
एकवाक्यत्वादिति ।
`अधस्तात् समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्य’ इत्युपरिधारणस्य पूर्वेण एकवाक्यस्य विधानवत् सप्रयोजनो विधिः कल्प्यतामिति नेत्याह -
कल्पयितुं चाशक्यत्वादिति ।
अतः सूत्रं क्रियाप्रकरणपठितनिष्प्रयोजनवाक्यविषयमित्याह -
अतःस्वयमिति ।
तद्विधान्येवेति ।
अर्थवादाधिकरणे क्रियाप्रकरणस्थनिष्प्रयोजनवाक्यान्येवोदाहृतानि, न वेदान्तवाक्यानीत्यर्थः ।
केचिदिति ।
प्राभाकरा इत्यर्थः ।
अन्यथा वर्णयन्तीति ।
अधीतवेदस्यार्थज्ञानाख्यप्रयोजनपर्यन्तत्वाय अध्ययनविधिप्रयुक्तः कृत्स्नवेदार्थविचारः प्रवृत्त इति वर्णयन्तीत्यर्थः ।
सामान्यप्रतिपत्तिविशेषविप्रतिपत्तिभ्यां जिज्ञासितत्वादेव धर्मस्य विचारार्हत्वात् धर्मविचारात्मकं शास्त्रं प्रस्थितमिति पक्षो न भवतीत्याह -
न हि किलैवमिति ।
`उद्भिदा यजेत पशुकाम’ इत्यत्र यः पशुकाम इति पशुकाममुद्दिश्य यागो विधीयते, यो यागः कर्तव्यः इति यागविधानं चोद्दिश्य पशुकामाधिकारः किं वा उभयमिति । तथा सत्रे ये यजमानास्त एव ऋत्विज इति यजमानानुद्दिश्य क्रत्वङ्गभावो विधीयते, किं वा ये ऋत्विज इति ऋत्विज उद्दिश्य यजमानभावो विधीयत इत्यादिवचनव्यक्तिसंशयात् विचार इत्याह -
अधीतवेदस्येति ।
विप्रतिपत्तयः सन्तीति ।
उद्देश्यविधेयभावे विप्रतिपत्तयः सन्तीत्यर्थः ।
तत्रापीति ।
अध्ययनविधिप्रयुक्तत्वात् वेदार्थोपाधौ विचारप्रवृत्तावपि धर्मशब्दसामर्थ्यान्न कृत्स्नवेदार्थविचार इति भावः ।
कृत्स्नवेदाध्ययनप्रयुक्तो विचारः कथमेकदेशविषयः स्यादिति चोदयति -
कथमिति ।
अधीतवेदस्य कस्यचित् श्रेयःसाधनकामित्वादेव मुमुक्षुत्वाभावात् तमधिकृत्य अध्ययनविधेः धर्मविचारप्रयोजकत्वमपरं मुमुक्षुं प्रति ब्रह्मविचारप्रयोजकत्वमिति विभागे सिद्धेऽपि कृत्स्नविचाराभ्युपगमे वेदार्थ इति वक्तव्यमिति ।
तथा सतीति ।
वेदार्थविचारकर्तव्यतोक्तौ श्रेयःसाधनकामी विचार्य निश्चित्यानुष्ठायापूर्वं न निष्पादयति । ततश्च न प्रयोजनं प्राप्नुयात् । श्रेयःसाधनवाचिधर्मशब्देन वेदार्थस्योपादाने प्राप्नुयादिति शङ्कते -
सत्यम् , तथापीति ।
पुरुषार्थरूपेति ।
पुरुषार्थसाधनरूपेत्यर्थः ।
वेदार्थस्यापि श्रेयः साधनरूपधर्मत्वोक्तावेवाधिकारिणः प्रवृत्तिश्चेद्धर्मशब्दस्य वेदार्थे रूढिर्न सम्भवति । चैत्यवन्दनादावपि प्रयोगाविप्रतिपत्तेर्जहल्लक्षणापि न सम्भवति । वेदार्थे धर्माभावप्रसङ्गात् श्रेयःसाधनवाचिधर्मशब्दस्य श्रेयोरूपब्रह्माभिधायित्वायोगाच्च वेदार्थे वृत्त्यसम्भवात् धर्म इत्येव कृत्वा विचारो युक्त इति परिहरति -
एवं तर्हीति ।
किञ्चेत्याह ।
तस्य पुरुषार्थत्वादिति ।
पुरुषार्थसाधनत्वादित्यर्थः । सन्दिग्धत्वाच्च इत्यत्र जिज्ञासितत्वादिति शेषः ।
लक्षणसूत्रमपि धर्मविषयं न वेदार्थविषयमित्याह -
तथा च उत्तरमपीति ।
लक्षणं हि लक्ष्यस्यान्यत्र प्रसङ्गविभ्रमनिरासपरम् । तत्र धर्म एव चैत्यवन्दनादौ प्रसक्ततया विप्रतिपन्नो न वेदार्थः । अतो लक्षणस्य कृतार्थत्वाय धर्म एव लक्ष्यत इत्याह -
धर्मस्वरूपविप्रतिपत्तिनिरासपरमिति ।
किमर्थवादादिलक्षणो वेदार्थः, किं वा चोदनालक्षण इति वेदार्थविप्रतिपत्तिनिरासाय वेदार्थलक्षणपरं किं न स्यादित्याशङ्क्य आह -
इतरथेति ।
धर्मग्रहणे हि अर्थवादलक्षणत्वं निराकृत्य चोदनालक्षणत्वं वेदार्थस्य किं न सिध्यतीत्याशङ्क्य, वेदार्थविप्रतिपत्तिनिरासस्य अप्रतिपन्नत्वात् धर्मविप्रतिपत्तिनिरासस्यैव प्रतिपन्नत्वात् न तथा सिद्ध्यतीत्याह -
यतो न धर्मग्रहणे सतीति ।
अत्र धर्मशब्दस्य वेदार्थे प्रयोगात् वेदार्थविप्रतिपत्तिनिरास एव विवक्ष्यतामिति चोदयति -
कथमिति ।
वेदार्थे धर्मशब्दस्य किमजहल्लक्षणया वृत्तिः किं वा संज्ञात्वेन वृत्तिः, न तावदजहल्लक्षणयेत्याह -
यत्तावदिति ।
चोदनालक्षणो योऽर्थ इति वेदार्थमुद्दिश्य असौ धर्म इति तत्र धर्मशब्दो यदि अजहल्लक्षणया वर्तते तदा वेदार्थे धर्मोऽस्तीति लक्ष्यते न धर्म एव वेदार्थ इति लभ्यत इत्यर्थः ।
चोदनालक्षणशब्दोक्तवेदार्थे स धर्म इति धर्मसंज्ञाविधिपरत्वं सूत्रस्य निराकरोति -
अथ पुनरिति ।
विचार्यत्वेन प्रतिज्ञातधर्मस्य स्वरूपप्रमाणादिकथनं विहायान्यथा न कथनीयमित्याह -
तदप्रक्रान्तमिति ।
किं चाचार्याय गां दद्यादिति कार्यान्तरे विनियोगार्थमाचार्य इति नाम विधीयते, तद्वदत्र नाम विधानं चेत् कार्यान्तरेऽपि नियागाख्यप्रयोजनं स्यात् , तच्च नास्तीत्याह -
निष्प्रयोजनमिति ।
उत्तरसूत्राणामपि नामविधायकत्वं स्यादित्याह -
अतिप्रसङ्ग इति ।
अथ शब्दवैयर्थ्यं चोदनाशब्दस्य वेदे लक्षणावृत्तिपरिग्रहणप्रसङ्गदूषणं चाभिप्रेत्य अङ्गीकरोति -
अथापि कथञ्चिदिति ।
सिद्धप्रामाण्येति ।
वेदस्य प्रामाण्यात् अर्थवत्वनिश्चये विचारात् प्रागेव सञ्जाते किं वेदार्थश्चोदनालक्षणः, किं वा अर्थवादादिलक्षण इति विशये न अर्थवादादिलक्षणः, किन्तु चोदनालक्षणो वेदार्थ इति निर्णयपरं सूत्रं स्यात् , तच्चानुपपन्नमनिश्चितत्वादर्थवत्वस्येत्यर्थः ।
उत्तरलक्षणवत् इति ।
उत्तराध्यायवदित्यर्थः ।
प्रथमसूत्रे अध्ययनापूर्वशेषत्वेन प्राप्तमप्रामाण्यं निराकृत्य वेदस्यार्थविवक्षा दर्शिता, न तु तत्र पौरुषेयापौरुषेयत्वप्रमाणान्तरयोग्यविषयत्वादिनिमित्तमप्रामाण्यं निराकृत्य प्रामाण्यं प्रतिपादितमतः अर्थविवक्षाया अपि असिद्धेः, अर्थवत्वसिद्धवत्कारेण वेदार्थमुद्दिश्य लक्षणविधानं न सम्भवति तथापि प्रथमसूत्रसामर्थ्यादेव अर्थवत्वमङ्गीकृत्य लक्षणविधानमिति चेत् तत्राह -
तत्रानन्तरमिति ।
प्रथमसूत्रेण अर्थवत्वे सिद्धे सति वेदार्थत्वेन उत्तरत्र प्रामाण्यप्रतिपादनमिति वक्तुमयुक्तम् , प्रामाण्यस्य सिद्धवस्तुत्वेन वेदार्थत्वायोगात् , अतोऽर्थवत्वनिश्चयाय प्रामाण्यविचारः, भाष्यकारेणापि अर्थवत्वनिश्चयाय प्रामाण्यं विचारितमित्युक्तत्वादित्याह -
वृत्तमिति ।
अर्थवत्वनिश्चयाय प्रमाणलक्षणं वृत्तम् , न त्वर्थवत्वे निश्चिते वेदार्थत्वेन प्रामाण्यप्रतिपादनं वृत्तमित्यर्थः ।
द्वितीयसूत्रेण नार्थवादादिलक्षणो वेदार्थ इति सिद्धत्वात् अर्थवादाधिकरणे मन्त्रादेः वेदार्थरूपधर्मप्रतिपादकत्वमस्तीति शङ्कायाः नोद्भवः सम्भवतीति । तन्निरासाय अधिकरणमनपेक्षितं स्यादित्याह -
मन्त्रेति ।
|| इति द्वितीयवर्णककाशिका ||