वक्तव्यकाशिका (पञ्चपादिका व्याख्या)
३ परिच्छेदः
आनन्तर्यमधिकारो मङ्गलाचरणं प्रकृतादर्थान्तरं चेति अथशब्दस्य लोके चत्वारोऽर्थाः प्रसिद्धाः । इह त्वानन्तर्यमेव उपादीयत इत्यस्मिन्नर्थे भाष्यस्य तात्पर्यमाह -
तत्रार्थशब्द इत्यादिना ।
न अधिकारार्थः, नारम्भार्थ इत्यर्थः ।
अवयवार्थेन अर्थवत्व इति ।
अवयवगतशक्त्या ब्रह्मज्ञानेच्छाभिधायित्व इत्यर्थः ।
अवयवार्थेन अर्थवत्वेऽपि अनधिकार्यत्वादित्येतन्न युज्यते । ब्रह्मजिज्ञासाशब्दार्थभूतब्रह्मतज्ज्ञानयोः ज्ञानस्यानुष्ठेयत्वादेव आरभ्यत्वात् ब्रह्मणश्च प्रमितिविशिष्टरूपेण अनुष्ठेयत्वादेव अधिकार्यत्वादिति तत्राह -
अधिक्रियायोग्यस्य चेति ।
इच्छाविशेषणं ज्ञानं, ब्रह्म च ज्ञानविशेषणमित्यप्रधानत्वान्नोपसर्जनंपदं पदान्तरेण सम्बध्यत इति न्यायात् नाधिकारार्थाथशब्देन अन्वय इत्यर्थः ।
तर्हि अवयवद्वारेणार्थः स्वीक्रियतां, तथा सति अनधिकार्यत्वादिति भाष्योपपत्तेरित्याशङ्क्य अखण्डशक्त्या विचारार्थत्वात् अवयवार्थत्वाभावात् विचारस्य चारभ्यत्वात् अनधिकार्यत्वादिति भाष्यमसङ्गतमित्याक्षिपति -
अयं तु जिज्ञासाशब्द इति ।
विचारवचनत्वं कथमवसीयत इति तत्राह -
मीमांसापर्याय इति ।
क्रतुगुणकमुपासनमिति ।
उद्गीथादिक्रत्वङ्गविषयोपासनमित्यर्थः ।
सन्धातमिति ।
जिज्ञासेत्यखण्डरूपे विचाराभिधानशक्तिमाश्रित्य प्रयुङ्क्त इत्यर्थः ।
सन्धातवाच्यत्वात् विचारस्य सन्धातमेव प्रयुङ्क्त इत्यन्वयः ।
अन्यथेति ।
जिज्ञासितमित्यत्र जिज्ञासाशब्दस्यापि अवयवार्थाङ्गीकार इत्यर्थः ।
जिज्ञासाशब्दस्य अवयवार्थे अङ्गीकृते इष्यमाणस्य फलत्वं सिध्यतीति चतुर्थ्या फलस्य निर्देशापेक्षाभावात् इच्छायाः विषयापेक्षितत्वेन धर्मस्य जिज्ञासेति कर्मणि षष्ठीसमासं दर्शयित्वा विषय एव दर्शनीयः । न तथा क्रियते, किन्तु अखण्डशक्त्या विचारार्थत्वमङ्गीकृत्य दुःखरूपविचारस्य फलापेक्षत्वात् चतुर्थ्या फलमेव दर्शयतीत्यतः जिज्ञासाशब्दो विचारार्थ एवेत्याह -
अत एवेति ।
अवयवार्थत्वाभावादेवेत्यर्थः ।
धर्मायेति ।
ज्ञातधर्माख्यप्रयोजनाय इत्यर्थः ।
क्रत्वर्थ इति क्रतुस्वरूपोपकारिप्रोक्षणादिरुच्यते । पुरुषार्थ इति फलोपकारिप्रयाजाद्युच्यते । प्रथमसूत्रवाक्यार्थं दर्शयद्भिः भाष्यकृद्भिः विचारपर्यायमीमांसाशब्दः प्रयुक्त इत्याह -
पुनश्च वेदान्तेति ।
शास्त्रवचनो हीति ।
विचारशास्त्रवचनो हीत्यर्थः ।
आरम्भोऽर्थ इति पक्षे सूत्रवाक्यार्थं दर्शयति -
तेन ब्रह्मजिज्ञासेति ।
अवयवार्थाभिधानद्वारेण लक्षणया विचारं विवक्षित्वा तस्मिन्नयं जिज्ञासाशब्दः प्रयुज्यमानो दृश्यते । न त्वखण्डशक्त्या विचाराभिधायित्वमङ्गीकृत्य विचारे प्रयुज्यमानो दृश्यत इत्याह -
उच्यत इति ।
नायमिति ।
पाणिनिस्मरणं नास्तीत्याह -
नापि स्मरणमस्तीति ।
न चावयवार्थेनेत्यस्यायमर्थः - क्लृप्तावयवशक्त्यावयवार्थाभिधानद्वारेण लक्षणया विवक्षितविचारार्थत्वे सम्भवति सति समुदायस्य विचारे शक्तिर्न कल्पनीयेति ।
अवयवशक्त्या ज्ञानेच्छाभिधानद्वारेण लक्षितविचारे प्रयोगः । न तु समुदायशक्तिसिद्धावेवेत्यभिप्रेत्याह -
न अन्यथासिद्धत्वादिति ।
विचारस्यावयवार्थत्वाभावे कथमवयवशक्त्या जिज्ञासाशब्दस्य विचारे प्रयोग इति चोदयति -
कथमन्यथासिद्धत्वमिति ।
विचारस्यावयवार्थत्वाभावेऽपि अवयवार्थसंसर्गाविनाभावादपि विचारे लक्षणया प्रयोगप्रत्ययोपपत्तौ न समुदाये शक्तिकल्पना, अनन्यथासिद्धकार्याभावादिति परिहरति -
अन्तर्णीतेति ।
स्वाभिधेयज्ञानेच्छासंसर्गाविनाभूतविचारार्थत्वादित्यर्थः ।
ज्ञानेच्छयोः संसर्गेण कथं विचारस्याविनाभाव इत्याशङ्क्याह -
तथाहीति ।
विधेः प्रागर्थज्ञानं जातं चेत्तस्य प्राप्तत्वात् इच्छा न सम्भवति । न जातं चेदर्थस्याप्रतिपन्नत्वात् अर्थविषयकज्ञानस्यापि अप्रतिपत्तेः तद्विषयेच्छा न सम्भवति, अनवगतविषयेच्छाऽयोगात् । अतो वाक्यजज्ञानेन प्रतिपन्नेऽर्थे सन्दिग्धे निश्चयफलं परोक्षे अपरोक्षफलं ज्ञानमिष्यत इति वक्तव्यम् । तच्च इष्यमाणं स्वस्येच्छामात्रजन्यत्वायोगात् इच्छायाश्च स्वयमेव ज्ञानहेतुत्वायोगाच्च इच्छानन्तरभाविज्ञानपूर्वभाविप्रमाणादिविचारप्रयत्नजन्यमित्यभ्युपेयमत इष्यमाणज्ञानं प्रमाणादिविचारमविनाभावेन गमयतीति विचारसाध्यज्ञाने प्रयोगप्रत्ययाविति भावः । उपदेश इति वेद उच्यते ।
तेनेति ।
विचारविषयसमुदायशक्त्यभावादेवेत्यर्थः ।
अवयवशक्त्या प्राप्तार्थाभिधानद्वारेण लक्षणया विचारार्थत्वात् अखण्डरूपोऽपि..... विषयशक्तिकल्पनाभावेऽपि अनधिकार्यत्वात् इति भाष्यमसङ्गतम् , अवयवार्थभूतब्रह्मज्ञानयोर्लक्ष्यविचारस्य चारभ्यत्वादित्याह -
नन्वेवमपि कुत एतदिति ।
लक्ष्यार्थत्वात् विचारस्य गुणत्वमुच्यते । ब्रह्मतज्ज्ञानयोश्च इच्छाविशेषणत्वात् गुणत्वमुच्यत इति प्रयोजनवत्वात् त्रयाणामर्थरूपेण प्राधान्यमुच्यते । शब्दतो गुणत्वेऽप्यर्थ लक्षणेन प्राधान्येनान्तर्णीतं विचारमाश्रित्येति सम्बन्धः । लक्षितविचारस्य ब्रह्मतज्ज्ञानयोश्च आरम्भयोग्यत्वात् अन्यतमस्याधिक्रियमाणत्वं आरभ्यमाणत्वमङ्गीकृत्याधिकारार्थत्वमारभ्यत्वं किमिति न गृह्यत इति योजना । येनेतिऽअर्थतः प्राधान्यानङ्गीकारेणेत्यर्थः ।
अथशब्देन विचारस्यानन्तर्याभिधानमुखेन विचारं प्रति पुष्कलकारणत्वेन वेदोक्तसाधनसम्पन्नस्य वेदोक्ताधिकारिविशेषस्य न्यायतः समर्पणाभावे अथशब्दस्य विचारारम्भार्थत्व एव कर्तव्यतया विधीयमानो विचारोऽधिकार्यभावादेवाननुष्ठेयः स्यादिति परिहरति -
उच्यत इति ।
अनारम्भप्रसङ्गादिति ।
शास्त्राख्यविचारस्य अननुष्ठानप्रसङ्गादित्यर्थः ।
अप्रयोजनमिति ।
अथशब्देन समर्पिताधिकार्याभावात् तेनानुष्ठिततया प्रयोजनपर्यन्तं न भवेदित्यर्थः ।
कस्याधिकार उच्येत इति ।
शास्त्रस्यारम्भानर्हत्वे सत्यथशब्देन कस्यारम्भ उच्येत इत्यर्थः ।
अथशब्देनाधिकारिप्रतिपत्त्यभावेऽपि अर्थवादगतमोक्षं ज्ञानं वा प्रयोजनम् , रात्रिसत्रन्यायेन साध्यत्वेन परिणामस्य मोक्षकामो ब्रह्मज्ञानकामो वा विचारयेदित्यधिकारिविशिष्टविधिप्रतिपत्तेः, तेनानुष्ठेयत्वं विचारस्येति चोदयति -
ननु ब्रह्मज्ञानमिति ।
तज्ज्ञानप्रयोजनत्वात् तेन प्रेरिततया सर्वेषां विचारे अधिकारित्वेनान्वय इति विकल्प्य फलाभिलाषमात्रात् चेत् ब्रह्मज्ञानानन्दावाप्तिपरितृप्ततेत्याद्यर्थवादस्तु फलानामथशब्देन आनन्तर्याभिधानमुखेन न्यायेन उपपादनानङ्गीकारात् अनुपपन्नप्रयोजनेऽर्थित्वानुपपत्तेर्न तत् कामिनामधिकारित्वेन अन्वय इत्याह -
न ब्रह्मज्ञानेऽर्थित्वानुपपत्तेरित्यादिना ।
अनुषङ्गः सम्बन्ध इत्यर्थः ।
परितृप्तेः प्रयोजनत्वसिद्धये सकलकामनिवृत्तिरूपत्वं दर्शयति -
परितृप्तः किं कामयत इति ।
अन्यस्य कामित्वस्याभावे श्रुतिमाह -
तथा च श्रुतिरिति ।
आत्मकामः स्वरूपभूतकामित्ववानित्यर्थः ।
आत्मकामत्वादाप्तकामः, आत्मनोऽन्यस्य लभ्यस्याभावे स्मृतिमाह -
आत्मलाभादिति ।
शृगालत्वं स इच्छतीति ।
विषयत्वे लभ्यत इति भावः ।
अध्ययनविधेः त्रैवर्णिकाधिकारत्वात् अर्थज्ञानाख्यफलसिद्धये अध्ययनविधिप्रयुक्तत्वाच्च विचारस्य विधित एव सर्वाधिकारं शास्त्रमिति चोदयति -
मा भूदिति ।
अतो ज्ञानसाधनविचारे अध्ययनविधिः अधिकारिणः प्रेरक इति भावः । तत्र किं विचारसाध्यज्ञानमध्ययनस्यान्वयव्यतिरेकसिद्धतया दृष्टफलं किं वा अध्ययनविधेः प्रयोजनपर्यन्ततानुपपत्तिलभ्यं फलं किं वा अर्थज्ञानकामोऽध्ययनं कुर्यादित्यर्थः ।
ज्ञानमुद्धिश्य विधानात् अधिकारिविशेषणतया शास्त्रीयं फलमिति बहिर्विकल्प्य न तावद् दृष्टफलं विचारसाध्यज्ञानादर्शनात् आपातदर्शनस्य च अध्ययनानन्तरभाविनो विचारानपेक्षत्वादित्यभिप्रेत्य प्रथमविकल्पं दूषयति -
स्यादेतदेवमिति ।
द्वितीय विकल्पं दूषयति -
सा हीति ।
अवाप्तिः अक्षरग्रहणमिति च वेदस्य स्वाधीनोच्चारणक्षमत्वं नाम वेदगतो धर्म उच्यते । अध्येतव्य इति तव्यप्रत्ययेन स्वाध्यायोऽवाप्तव्यः । संस्कार्यश्चेत्यवाप्तिरूपदृष्टफलविशिष्टतया संस्काराख्यादृष्टफलतया च स्वाध्यायस्याभिधानात् शब्दफलसम्भवे सति अर्थज्ञानफलं नाभ्युपेयमिति भावः ।
अक्षरग्रहणं निष्प्रयोजनमिति ।
साध्यरूपत्वेऽपि अपुरुषार्थमित्यर्थः ।
भवतु तर्हि सक्तूनां गतिरिति ।
अवाप्तस्वाध्यायस्याफलत्वात् स्वाध्यायेनाध्ययनं स्वर्गाय कुर्यादिति निर्वाहः स्यादित्यर्थः ।
अर्थावबोधदर्शनात् इति ।
अवाप्ताक्षरेभ्यो अर्थावबोधाख्यदृष्टफलस्य दर्शनात् न सक्तुन्यायेन अदृष्टफलाय विधिरित्यर्थः ।
अर्थावबोधस्यापि सुखत्वाभावात् पारम्पर्येण सुखहेतुत्वादेव पुरुषार्थत्वे वक्तव्ये अक्षरग्रहणस्यापि तदस्त्येवेति तव्यप्रत्ययेन श्रूयमाणावाप्तस्वाध्याय एव प्रयोजनं भवतु इत्याह -
न तर्हीति ।
निष्प्रयोजनानीति ।
अक्षरग्रहणपर्यन्तविधिव्यापारे फलवदर्थावबोधस्य निमित्तत्वं स्यादिति,
तत्राह -
फलप्रयुक्त एवेति ।
अवाप्ताक्षरबलादेव अर्थावबोधो न तु विधिफलमित्यर्थः ।
फलवदर्थविषयावबोधफले अध्ययनविधौ यस्य यस्मिन् कर्मण्यधिकारः तस्य तद्वाक्याध्ययनमेव स्यात् न वाक्यान्तराध्ययनं तत्र अर्थज्ञानानन्तरप्रवृत्त्यादिफलाभावादेवार्थज्ञानान्न कृत्स्नवेदाध्ययनसिद्धिरित्याह -
अपि चेति ।
अनधिकृतकर्मवाक्यगतस्य अध्ययनजन्यापूर्वस्यार्थज्ञानक्रत्वनुष्ठानद्वारेण अपूर्वशेषत्वाभावेऽपि प्रायश्चित्तजपाद्यपूर्वोपकारित्वमस्तीति द्रष्टव्यम् । तत्रावश्यमित्यत्र तत्रेति वक्ष्यमाणसत्रादिवाक्याध्ययनमभिप्रैति । अर्थज्ञानकामोऽर्थज्ञानाय अध्ययनं कुर्यादित्यर्थः ।
ज्ञानमुद्दिश्याध्ययनविधानात् अधिकारिविशेषणतया शास्त्रीयं फलमर्थज्ञानमध्ययनस्येति तृतीयमुत्थापयति -
ननु चेति ।
अधिक्रियते अस्मिन् कर्मण्यनेनेत्याधिकार इति विधिपुरुषसम्बन्धनिमित्तजीवनफलकामादिरुच्यते । विश्वजिन्न्यायेन स्वर्गफलं परिकल्प्य स्वर्गकामोऽधिकारी कल्प्यत इत्याशङ्क्य दृष्टफलसम्भवे तथा न कल्प्यमित्याह -
दृष्टश्चेति ।
कल्पनामधिकारस्येति ।
कामितया विधि पुरुषसम्बन्धनिमित्तफलस्य कल्पनां निरुन्धन्नित्यर्थः ।
स्वयमधिकारहेतुरिति ।
कामिततया विधिपुरुषसम्बन्धहेतुरित्यर्थः ।
अर्थावबोधायाध्ययने विहितेऽपि अध्ययनविधिना विचारो न विधीयत इति तत्राह -
दृष्टाधिकारेष्विति ।
दृष्टफलेषु विधिरित्यर्थः । अधिकारसिद्धिः नियोगसिद्धिः फलं दृष्ट्वैव भवतीत्यर्थः ।
किं विहिताध्ययनस्य फलभूतावाप्तस्वाध्यायसामर्थ्यात् विचारव्यवधानेन वा अर्थज्ञानोत्पत्तेः अर्थज्ञानमध्ययनस्य फलमित्युच्यते, किं वा अर्थावबोधकामोऽर्थावबोधायाध्ययनं कुर्यात् इति विधानात् अध्ययनफलमित्युच्यत इति बहिः विकल्प्य प्रथमविकल्पोऽङ्गीकृत इत्याह -
अत्रोच्यत इति ।
अध्ययनात् प्राक् प्रतिपन्नतया कामितत्वेन तदुद्देशेन विधानं स्यात् , वेदार्थस्य तु प्रागप्रतिपन्नतया तद्विशेषितज्ञानस्यापि अप्रतिपन्नत्वादेव कामितत्वायोगात् नार्थज्ञानमुद्दिश्याध्ययनविधानमिति नाध्ययनफलमर्थज्ञानमिति द्वितीयविकल्पं दूषयति -
नाधिकारहेतुतेति ।
अर्थज्ञानस्य कामिततया पुरुषस्य विधौ नियोज्यत्वेन सम्बन्धहेतुता नास्तीत्यर्थः ।
प्राक् चाधिकारज्ञानेन प्रयोजनमिति ।
प्राक्तनेनाधिकाराख्यफलविषयज्ञानेन हि तदुद्देशेन विधानाख्यप्रयोजनं स्यादित्यर्थः ।
अध्ययनात् प्राक् अर्थज्ञानाख्यफलविषयज्ञानमस्तीत्याशङ्क्याह -
प्राक्चेति ।
प्राक्चाधिकारज्ञाने प्राक् फलरूपार्थज्ञानविषयज्ञाने सिद्धे न प्रयोजनं फलरूपार्थविज्ञानविशेषणतया अर्थस्य ज्ञातत्वात् अर्थज्ञानार्थं न विधिना प्रयोजनमित्यर्थः । दृष्टाधिकारत्वेन दृष्टप्रयोजनत्वेनेति यावत् ।
इदानीमध्ययनविधेर्नित्याधिकारिणा सह साधिकारितां प्रतिपादयितुं अधिकारिविशेषणाभावात् अधिकार्यभावात् अनध्ययनमेवेति अध्ययनप्रवृत्तिमाक्षिपति -
यद्येवमिति ।
अधिकाराश्रवणात् अधिकारिविशेषणाश्रवणादेव अधिकार्यभावादित्यर्थः ।
तस्य चाधिकारहेतुत्वानभ्युपगमात् इति ।
अर्थज्ञानस्य कामिततया पुरुषविशेषणत्वेन पुरुषस्य नियोज्यतया विधिसम्बन्धहेतुत्वानभ्युपगमादित्यर्थः ।
अन्यतः प्राप्तानुष्ठानाध्ययनविषयत्वादधिकारिणः परिकल्प्य न प्रवर्तयति अध्ययनविधिरिति प्राभाकराणां मतमाह -
अत्र केचिदाहुरिति ।
‘अष्टवर्षं ब्राह्मणमुपनयीत’, ‘तमध्यापयीत’, इति विधिः आचार्यकरणविधिरित्युच्यते । अध्यापनविधिविषयतदङ्गताभावेऽध्ययनस्य स्वतन्त्रविध्यन्तरविहितस्य कथं स्वतन्त्रविध्यन्तरप्रयुक्तानुष्ठानतेति तत्राह -
आधानस्येवेति ।
कामनैव दर्शपूर्णमासादिविधिसहकारितया यथा आधानमनुष्ठापयति तथा आचार्यकरणकामनैव आचार्यप्रेरणद्वारेणाध्ययनं माणवकेन निर्वर्तयति अध्यापनसिद्ध्यर्थमित्यर्थः ।
नित्याधिकारेण साधिकारतया अध्ययनानुष्ठापकत्वमध्ययनविधेर्वदितुमाह -
तदयुक्तमिति ।
स्वनियोगं प्रतिपद्यानुष्ठातुमसमर्थमाणवकस्य नित्याधिकारित्वकल्पनमयुक्तमित्याह -
कथमिति ।
आचार्यकरणविधिस्तावत् नाविहितमध्ययनं प्रयुङ्क्ते, अध्ययनानधिकारिणं शूद्रादीनां तत्र प्रयोजनशून्यतया आचार्यगुणभावेन प्रवृत्त्ययोगात् । अथ विहितमेवाध्ययनं प्रयोजयति । तर्हि अस्यायं विधिरिति विधिस्वरूपनिर्णयाय अधिकारित्वेन माणवकस्यान्वयो वक्तव्यः, अन्यथा अध्येतृविशेषापरिज्ञानात् यं कञ्चिदध्यापयेदित्याह -
अष्टवर्षमिति ।
यद्ययमाचार्यस्य नियोग इति ।
यद्ययमाचार्यकरणकामस्याध्यापने नियोग इत्यर्थः, माणवको न नियुक्तो भवतीति अध्ययनविधेः साधिकारत्वेन अनुष्ठापकत्वाभावे माणवकस्याव्यापारे अध्ययनविधिना प्रवर्तितो न भवतीत्यर्थः ।
अनियुक्तस्येति ।
अध्ययनविधिना अप्रवर्तितस्येत्यर्थः । तस्माद्यं कञ्चिदध्यापयेदिति भावः ।
किं च द्रव्यार्जनफलतया काम्यविधित्वादनित्येन अध्यापनविधिना नित्यस्याध्ययनस्य अनुष्ठानाङ्गीकारे कामनोपरमे अध्यापनोपरमान्नित्याध्ययनं सम्पादयितुं न शक्यमित्याह -
किं चान्यदिति ।
वृत्त्यर्थोऽधिकार इति ।
जीवनार्थमधिकारोऽपीत्यर्थः ।
अध्ययनस्य नित्यत्वसिद्धये तदङ्गभूतोपगमनस्य नित्यत्वमाह -
उपनयनाख्यस्त्विति ।
उपगमनाख्य इत्यर्थः ।
अत ऊर्ध्वमिति ।
उपनयनस्योक्तकालादूर्ध्वमित्यर्थः । त्रयोऽपि ब्राह्मणक्षत्रियवैश्या इत्यर्थः । व्रात्या संस्कारहीना इत्यर्थः । कर्हिचित् कदाचिदपीत्यर्थः । ब्राह्मान् वेदाध्ययनाध्यापनादीनित्यर्थः ।
एवं चेति ।
अङ्गस्य नित्यत्वे सिद्धे सतीत्यर्थः ।
अङ्गभूतसंस्कारनित्यताख्यहेतुं विना अङ्गिनोऽध्ययनस्यैव नित्यत्वे हेत्वन्तरमुच्यते -
तथा च निन्दाश्रवणमिति ।
अश्रोत्रियाः एकशाखाध्ययनेनापि हीना इत्यर्थः ।
काम्यत्वेऽपि आचार्यकरणविधेः नित्यसमीहितफलत्वात् स विधिः नित्य एव ततश्च न नित्यानित्यविरोध इति चोदयति -
ननु कथमिति ।
जीवनाख्यफलस्य च नित्यसमीहितत्वमङ्गीकृत्य परिहरति -
भवेदेवं नित्यतेति ।
अवश्यकर्तव्यताभावे इत्यर्थः ।
न शब्दादिति ।
शब्दादवश्यकर्तव्यता प्रतिपत्तिर्नास्तीत्यर्थः ।
जीवने नित्यकामनया तत्साधनधनेऽपि कामना नित्या स्यात् तदर्थमाचार्यत्वकामना तदर्थमुपनेतृत्वाध्यापयितृत्वकामनेत्येवं फलकामनाया नित्यत्वात् तन्निमित्ताध्यापनेऽवश्यकर्तव्यताप्रतीतिः न शब्दादित्याह -
तथाहि, फलस्येति ।
वास्तवी फलवस्तुसामर्थ्यनिबन्धनेत्यर्थः ।
असति शब्दव्यापार इति ।
शब्दस्याध्यापने अवश्यकर्तव्यता बोधनव्यापारे असति फलेच्छानिमित्तसाधनेच्छया अध्यापनेऽवश्यकर्तव्यताप्रतिपत्तिः स्यादित्यर्थः ।
न कर्तव्यताप्रतिपत्तेरिच्छेति ।
शाब्दावश्यकर्तव्यताप्रतिपत्त्या साधनेच्छा न भवतीति स्यादित्यर्थः ।
अध्यापने फलसाधनकामनाधीना कर्तव्यताप्रतिपत्तिरित्येकः पक्षः । पक्षान्तरे तु अध्यापने शाब्दकर्तव्यताप्रतिपत्त्यधीना फलसाधनेच्छेति वैषम्येऽपि अध्यापने नित्यकर्तव्यताप्रतिपत्तिर्न विशिष्यत इत्याशङ्क्य विशेषमाह -
शाब्द्यां हीति ।
तथैव स्यादिति ।
इच्छाप्यवश्यं भवत्येवेति स्यादित्यर्थः ।
शाब्दनित्यकर्तव्यताधीनापि इच्छा क्वचिद्देशे काले वस्तुनि च कारकसामर्थ्याभावादिवशेनौचित्यात् प्रतिहन्यते, तत्र कथं नित्यकर्तव्यताधीननित्येच्छाद्वारेण नित्यवदनुष्ठानमिति तत्राह -
औचित्यादिभावेऽपीति ।
प्रमाणतस्तावन्नित्योऽध्यापनविधिः प्रत्यवायभयादिव यावच्छक्यमिच्छादिद्वारेणाधिकारिणमनुष्ठापयतीत्यर्थः । फलवशात्तु तत्कर्तव्यताप्रतिपत्तावित्यत्रानित्यैव सा स्यादित्यध्याहारः ।
फलस्य नित्यसमीहितत्वात् अध्यापने कर्तव्यताप्रतिपत्तिनिमित्तकामोऽपि नित्य एवेत्यतः कर्तव्यताप्रतिपत्तिरपि नित्यैव स्यादित्यत आह -
यद्यपीति ।
उपायान्तरादपीति ।
वाणिज्यकृषिसेवादिनापि द्रव्यसिद्धेरध्यापनकर्तव्यताप्यनित्यैव स्यादित्यर्थः ।
कस्यचिदुपायान्तरासमर्थस्य तदेकोपायत्वात् अध्यापने नित्यकर्तव्यता स्यादित्यत आह -
तदेकोपायत्वेऽपीति ।
अनुशासनस्य उपनयनाध्यापनार्थज्ञानसम्पादनार्थानुष्ठापनरूपत्वं तस्मादिति वाक्यस्य पुत्रोत्पादनविधिशेषत्वमनुशासनविधायकत्वं च मन्वानः स्वतो नित्यत्वाभावेऽपि नित्यपुत्रोत्पादनविधिशेषानुशासनतया उपनयनाध्यापनयोः नित्यत्वात् नित्याध्ययनप्रयोजकत्वमुपपद्यत इति चोदयति -
ननु पितुरिति ।
पुत्रोत्पादनविधिशेषतया अनुशासनविधायकत्वेनाभिमतं वाक्यमाह -
तस्मात्पुत्रमिति ।
लोक्यमिति ।
जनकस्य लोकप्राप्तिं प्रति हेतुमित्यर्थः ।
कथं वा अध्ययनस्येति ।
अर्थज्ञानसम्पादनस्याप्यनुशासनान्तर्भूतत्वादिति भावः ।
पुत्रोत्पादनविधेः पुत्रकृतकर्मणा पितॄणां तृप्तिरूपफलपर्यन्तत्वानुपपत्त्या पूर्वमेव प्राप्तानुशासनानुवादेन सम्प्रतिकर्मविधेरर्थवादत्वमस्य वाक्यस्येत्याह -
उच्यत इति ।
अथातः सम्प्रत्तिर्यदा प्रैष्यान् मन्यते, अथ पुत्रमाह त्वं ब्रह्म, त्वं यज्ञस्त्वं लोक इत्यहं ब्रह्माहं यज्ञोऽहं लोक इत्यनेन सम्प्रत्तिकर्मविधिवाक्येनोक्तं वेदतदर्थतत्फलानां पितुरनुष्ठेयानां पित्रा पुत्रे समर्प्यमाणानां पुत्रेणानुष्ठेयतया स्वीकरणं सम्प्रत्तिकर्मेत्युच्यते ।
पितॄणामिति ।
परलोकं गतानामिति भावः ।
अनुष्ठानेनेति ।
त्राणमिति ।
त्राणमनेन तृप्तिसम्पादनमित्यर्थः ।
तदनुष्ठानं सम्भवतीति ।
पुत्रस्येति भावः ।
अधिकारं परिसमापयितुमिति ।
नियोगं निष्पादयितुं प्राप्तमनुशासनमित्यर्थः । उपनयनाध्यापनात् व्यतिरिक्तं पुत्रस्यावश्यकर्तव्यार्थोपदेशनमिति अनुशासनस्य स्वरूपमाह ।
पुत्रस्यावश्यकर्तव्यार्थोपदेशनमेवानुशासनं नोपनयनाद्यनुष्ठापनमिति कथमवगम्यत इति तदाह -
तथा च लिङ्गमिति ।
अननूच्य अध्ययनमकृत्वेत्यर्थः ।
ब्रह्मबन्धुरिवेति ।
द्विजाधम इवेत्यर्थः ।
माणवकस्याध्ययनानुष्ठापननियोगानङ्गीकरणात् स्वनियोगेनैव प्रेर्यमाणः स्वनियोगं निष्पादयितुमाचार्ये प्रेते आचार्यान्तरं सम्पादयतीति न वक्तुम् , शक्यं नाप्याचार्यनियोगं सम्पादयितुं आचार्यान्तरं सम्पादयति । नियोगप्रतिपत्तुराचार्यस्य मृतत्वात् । स्वस्य च कर्तव्यतया अप्रतिपन्नत्वात् अकर्तव्यनियोगनिष्पादनाय आचार्यान्तरसम्पादनायोगात् अध्यापनविधिप्रयुक्तानुष्ठानमध्ययनस्य न सम्भवतीत्याह -
किं चाचार्ये प्रेत इति ।
न च अधिकारी प्रतिनिधीयत इति ।
अधिकारिणि स्थिते अस्यावश्यकर्तव्यनियोगस्य अननुष्ठाने प्रत्यवायात् तदनुष्ठानाय मुख्याभावे प्रतिनिधिरादीयते । अधिकार्यभावे अवश्यकर्तव्यताया अप्रतिपन्नत्वात् तन्निष्पादनाय नाधिकारी प्रतिनिधीयत इत्यर्थः ।
नाप्यधिकार इति ।
विधिपुरुषसम्बन्धनिमित्तमपि न प्रतिनिधीयत इत्यर्थः ।
प्रतिनिध्युपादानस्य न क्वाप्यवकाश इति स्यादिति तत्राह -
अधिकारी स्वाधिकारसिद्ध्यर्थमिति ।
स्वनियोगसिध्यर्थमित्यर्थः ।
स्वविधिप्रयुक्तत्वे सति उपगमनाध्ययनयोस्तत्प्रयुक्ततयैव उपनयनाध्यापनसिद्धेस्तत्र विधानमनर्थकमित्याशङ्क्य नायं प्रयोजकव्यापारयोर्विधिः किन्तु उपगमनाध्ययनयोः कर्तृव्यापारयोर्विधिरित्याह -
तस्मान्माणवकस्यैवैष नियोग इति ।
अध्यापयीतेति णिजर्थप्रयोजकव्यापारसंसृष्टस्वार्थाभिधायिनि विधिपदे प्रधानकर्तृव्यापारे अध्ययने विधिसंसर्गो वाक्यप्रमाणविरुद्ध इति चोदयति -
कथं गुणकर्तृव्यापारसम्बद्ध इति ।
कर्तेति प्रयोजककर्तेत्यर्थः ।
प्रधानकर्तृस्थो भवतीति ।
प्रधानकर्तृव्यापारस्थो भवतीत्यर्थः ।
किं न्यायविरोध उच्यते किं वा शब्दविरोधः ? न तावत् शब्दविरोधः अन्यत्रापि दर्शनादित्याह -
यथा एतयेति ।
नापि न्यायविरोधः । प्राप्तानुवादेनाप्राप्तविधानादित्याह -
ग्रामकामस्य यागो विधीयत इत्यादिना ।
अध्यापनयाजनयोः कर्तृप्रयोजकव्यापारद्वयावगमात् अन्यतरानुवादेन अन्यतरो विधीयत इति युक्तम् , उपनयने तु नयतिधात्वर्थस्य प्रयोजकव्यापारत्वात् अनभिधीयमानः कर्तृव्यापारः कथं विधीयत इति चोदयति -
युक्तं याजयेदित्यादिना ।
ननु उपनयने मा भून्माणवकव्यापारविधिः, अध्ययने तु भविष्यतीति, तन्न वाक्यसारूप्यादित्यभिप्रेत्याह -
तदेवमिति ।
नात्राधिकारचिन्तयेति ।
अध्ययनविधावित्यर्थः ।
प्रयोजकव्यापाराभिधायिनापि नयतिधातुना माणवकव्यापारस्य उपगमनस्य अनभिधीयमानस्यापि गम्यमानत्वात् , स एव धातुना लक्षणयोपादाय विधीयते न प्रयोजकव्यापारः स्वयं प्राप्तेरिति परिहरति -
उच्यत इति ।
माणवकव्यापारो गम्यमानतया वा कथं प्रतीयते ? कथं वा प्रयोजकव्यापारः प्राप्तानुवाद ? इति चोदयति -
कथम् , यत्तावदिति ।
माणवकव्यापारस्य गम्यमानतामुपपादयितुं प्रथममाचार्यव्यापारस्य विधेयतामुपपादयति -
उपनयीतेत्यस्येति ।
नयतेः परस्तादात्मनेपदात् प्राप्तमर्थमाह -
आत्मानमाचार्यं कर्तुमिति ।
उपनयशब्दन्यायाभ्यां प्राप्तमाचार्यस्य प्राधान्यापादकस्वसमीपानयनाख्यव्यापारवत्वमाह -
कञ्चिदात्मसमीप इति ।
बालानक्षराणि शिक्षयन् लौकिकः पुरुषो बालगुण भावेन तत्र न गच्छति किन्तु बालानेव स्वयमात्मगुणभावेन स्वसमीपं नयति, तद्वदित्ययमत्र न्यायशब्देनोच्यते इति द्रष्टव्यम् ।
प्रयोजकव्यापारं प्राप्तमेवानूद्य गुणविधिपरमधिकारिविशेषविधिपरं वाक्यं किं न स्यादित्याशङ्क्य जीवनादिनित्यकाम्याधिकारयोरश्रवणात् अधिकारिविशेषविधिपरत्वायोगात् दध्ना जुहोतीत्यादिवत् गुणविधानं परिशिष्यते । तदपि न युक्तमित्याह -
तत्र कमध्यापयेदिति ।
यदा विशेष्योऽपि पदार्थः प्रमीयते तदा नानाविधगुणविशिष्टतया स एको विशिष्टपदार्थः प्रमीयत इति न वाक्यभेदः स्यात् । यदा तु विशेष्यमनूद्य विशेषणानि प्रमीयन्ते तदा विशेषणानामन्योन्यविशिष्टतया एकत्वापत्त्यभावात् अन्योन्यानपेक्षया प्रत्येकं प्रमेयत्वे प्रमेयभेदाद्वाक्यं भिद्यत इति भावः ।
विशेषस्येति ।
गुणाख्यविशेषणस्येत्यर्थः ।
प्राप्ते व्यापार इति ।
विशेष्यरूपव्यापारे प्राप्ततया अनूद्यमाने सतीत्यर्थः ।
अर्थद्वयेति ।
ब्राह्मणमष्टवर्षमित्यर्थद्वयेत्यर्थः ।
उत्पत्त्यधिकारगुणविधयः प्रयोजकव्यापारे न सम्भवन्तीति उपसंहरति -
अतो नाचार्यस्येति ।
माणवकव्यापारोऽपि शब्दतो न प्रतीयते इति न तस्य विधेयत्वमिति चोदयति -
ननु माणवकस्यापीति ।
माणवकस्योपगमनस्य शब्दतः प्राप्त्यभावेऽपि गम्यमानत्वात् तस्य नयतिधातुना लक्षणयोपादाय विधेयत्वमस्तीति परिहरति -
अस्तीति ब्रूम इत्यादिना ।
गमनकर्म ग्रामस्येव नयत्यर्थकर्म माणवकस्य गम्यमानव्यापारो नास्तीति चोदयति -
कथमिति ।
आचार्यसमीपदेशप्राप्तिरूपदृष्टातिशयेन विध्यायत्तनयनजन्यसंस्काराख्यदृष्टातिशयेन च विशिष्टमाणवकस्य द्वितीयया निर्देशात् द्वितीयाशब्दप्राप्तमर्थमाह -
संस्कृत्येति ।
यागश्रुताविति ।
यजेतेत्युक्तौ द्रव्येण देवतायै यजेतेति सामान्यतः प्रतीतिवदित्यर्थः ।
उपनयनसंस्कार्योऽपीति ।
उपगन्तापीत्यर्थः ।
तर्हि माणवकस्य गमनं प्रयोजकव्यापारादेव विधीयत इत्याशङ्क्य न विधानमन्तरेण सिद्धिरित्याह -
तस्य चेति ।
विधानेऽपि काम्यविधिः स्यादिति नेत्याह -
विद्यमानस्यापीति ।
कथं तर्हि विधिरिति ।
परिशेषात् नित्यविधिरित्याह -
विधितोऽवश्येति ।
कथं तर्हि वाक्यं परिणम्यत इति तदाह -
तेनाष्टवर्षमिति ।
अष्टवर्षत्वब्राह्मणत्वयोरेकैक विशेषणस्य विधिपुरुषसम्बन्धनिमित्तत्वायोगात् विशेषणयोश्च परस्परविशिष्टताभावात् एकैकस्य विशेषणस्याभिधानिके क्रियासम्बन्धेऽपि अरुणैकहायन्यादिपदार्थवत् परस्परविशिष्टतया अधिकारनिमित्तत्वे तस्य निमित्तस्याशब्दत्वप्रसङ्गात् सामान्येन गम्यमानस्य उपगन्तुः विशेषणविधिना नियोज्यत्वेन भोक्तृत्वेन कर्तृत्वेन च सम्बन्धनिमित्तं न लभ्यते । अतः सम्बन्धः प्रतिपत्तिश्च न लभ्यत इति चोदयति -
नन्वेवमपीति ।
अधिकारहेतुरिति ।
विधिपुरुषसम्बन्धस्य प्रवृत्तेर्वा हेतुरित्यर्थः ।
नित्यमिति ।
जीवतः पुरुषस्य नियतभावीत्यर्थः । न च शाब्दमेव सर्वत्राधिकारनिमित्तम् शाब्दत्वं न विहन्यत इत्याधिकारनिमित्तं जातिवयोविशिष्टमस्तीति भावः ।
साध्यनियोगविषयतया साध्यक्रियाविशिष्ट साङ्गकर्मानुष्ठान सामर्थ्यास्याशाब्दस्याप्यधिकार निमित्तत्वात् । अथवा क्रिया सम्बन्धाभिधानमुखेनविशिष्टसमर्पणे शब्दद्वयतात्पर्यकल्पनात् अधिकार निमित्तस्य रूपेण कर्तृकारकमाणवकस्यापि साध्यत्वात् तद्विशेषणस्य जातिवयसोरन्योन्यविशिष्टस्य विधिं प्रति गुणभूतस्य कर्तृप्रधानविधितद्विशिष्टक्रियां प्रति स्वामित्वेन भोक्तृतयान्वितप्रधानमाणवकविशेषणतया विधिं प्रति प्राधान्यमयुक्तमिति चोदयति -
ननु जातिवयसीति ।
उपादेयमित्यनुष्ठेयं साध्यं निर्दिश्यते -
अनुपादेयमिति ।
विधिप्रयुक्तानुष्ठेयतद्विशेषणव्यतिरेकेण विधिसम्बन्धी निर्दिश्यते -
अधिकारहेतुरिति ।
ममायं नियोग इति स्वामितया अन्वयित्वं तन्नियोज्यत्वमधिकारित्वं नाम भोक्तृत्वं तस्मिन् भोक्तृत्वे निमित्तमित्यर्थः ।
नियोगवाक्यार्थपक्षे प्रथमं ममायं नियोग इति भोक्तृत्वेनान्वितस्य पश्चात् कर्त्रन्वय इत्यभ्युपगमात् अनुवादेन विशेषणमधिकारहेतुरित्युक्तमस्त्येव इत्यङ्गीकरोति -
सत्यमस्तीयं स्थितिरिति ।
भावनावाक्यार्थपक्षे कर्त्रन्वयस्य प्राथम्यादुपादेयकर्तृविशेषणतया विधिं प्रति गुणभूतस्य भोक्तृविशेषणत्वात् तं पक्षमाश्रित्यापि माणवकस्योपादेयस्य विशेषणमेव अधिकारित्वविशेषणं भवतीत्याह -
किन्तु कर्तुरिति ।
इष्टसाधनवाक्यार्थपक्षाङ्गीकारात् अष्टवर्षं ब्राह्मणमिति द्वितीयया उपनयनजन्याचार्यसमीपदेशप्राप्तिरूपदृष्टफलेन तत्समवेतसंस्काराख्यादृष्टफलेन च विशिष्टरूपेण उपगमनकर्तृरूपेण च माणवकः प्रतीयते । तस्मिन्नुपगमने सामान्येन श्रेयःसाधनत्वं विधिपदेन बोध्यते । सामान्यस्य श्रेयसो विशेषाकाङ्क्षायां माणवकगतसंस्काराख्यश्रेयोविशेषसाधनत्वं तेनैव विधिपदेन प्रतिपाद्यते तस्मिन् हितसाधने प्रथमं ममेदमभिलषितसाधनमिति माणवको भोक्तृत्वेनान्वेति तस्य स्वामिनो भोक्तुरधिकारिणो विशेषणं ब्राह्मण्यादि भवति पश्चात् साधनत्वधर्म्युपगमनक्रियायां कर्तृत्वेनान्वेतीत्येव भोक्त्रन्वयपुरःसरत्वात् कत्रन्वयस्यानुपादेय विशेषणमधिकारिहेतुरिति सिद्ध्यतीत्याह -
किं चेति ।
उपादेय उपनयन इति ।
प्रथममुपगमने कर्तृत्वेनान्विततया उपादेयो न भवतीत्यर्थः ।
तदर्थं विधीयत इति ।
हितसाधनोपगमने प्रथमं स्वामित्वेनान्वय उपगमनं माणवकार्थं हितसाधनतया बोध्यत इत्यर्थः
समानमिति ।
भाष्यार्थं विवृणोति -
येन विनेत्यादिना ।
तादृश इति ।
पुष्कलकारणत्वादितरकारणसम्पत्तौ विचारमारभते, असम्पत्तौ स्वयं नारभत इत्यारम्भानारम्भयोः समानमिति ।
योजनान्तरमाह -
अथवा समानमिति ।
सामर्थ्यं जनयितुमिति ।
विचाराधिकारिण इत्यर्थः । विचारस्याध्ययनविधिप्रयोज्यत्वाभावेऽपि एकाध्ययनविधिप्रयुक्तस्वाध्यायाध्ययनस्य एक मोक्षप्रयोजनत्वे वक्तव्ये कृत्स्नवेदार्थविचारस्य एकफलप्रयुक्तत्वाद्धर्मब्रह्मविचारयोरन्योन्योपकार्योपकारकभावेन एकफलशेषत्वात् उपकारकधर्मावबोधो विशेष इत्यर्थः ।
आनन्तर्यमुपकार्यब्रह्मावबोधस्य उच्यत इति चोदयति -
ननु इह कर्मावबोधानन्तर्यमिति विशेष इति ।
अथ शब्देन पुष्कलकारणं किञ्चिदस्तीति सामान्येन समर्पितस्य धर्मावबोधो विशेष इत्यर्थः ।
धर्मब्रह्मविचारयोरुपकार्योपकारकभावोऽस्ति । तयोरुपकार्योपकारकभावस्य वृत्त्यन्तरे वर्णितत्वादित्याह -
तथा चेति ।
अधिकारः प्रवृत्तिः अनुष्ठानं संस्कारः फलं कर्मणामनुष्ठानपरम्परया फलभोगपरम्परया वेत्यर्थः । अथवा संस्कार इति कर्मभिः पुरुषसंस्कारोऽभिधीयते । शब्द इति च पुरषसंस्कारत्वे प्रमाणमुच्यते ।
तादर्थ्यावगमादिति ।
ब्रह्मजिज्ञासाशेषत्वावगमादित्यर्थः । अधिगत्यनन्तरं धर्माधिगत्यानन्तर्यमभिधत्त इत्यर्थः ।
धर्मावबोधानन्तरं ब्रह्मजिज्ञासेत्यस्मिन्नर्थे शास्त्रकारसंवादान्तरमाह -
अन्यैरपीत्यादिना ।
तत्रेति ।
अथातो ब्रह्मजिज्ञासेति सूत्र इत्यर्थः ।
प्रथमसूत्रे वर्णिताविति ।
तस्मान्नान्येन केनचिदध्यायान्तरे सूत्रान्तरे वा प्रकृतेन सङ्गतिरस्तीत्यर्थः ।
कस्तर्ह्यत्राथशब्दार्थ इति तत्राह -
अथेतीति ।
पूर्वनिर्दिष्टस्यैवेति ।
अथशब्दनिर्दिष्टधर्मजिज्ञासाया एवेत्यर्थः ।
कृत्स्नस्वाध्यायाध्ययनस्य एकफलत्वं कृत्स्नवेदार्थविचारस्य तत्प्रयुक्तत्वं च तावत्तिष्ठतु, नैतावता धर्मब्रह्मजिज्ञासयोरुपकार्योपकारकभाव इत्याह -
न, धर्मजिज्ञासायाः प्रागपीति ।
धर्मावबोधस्य ब्रह्मजिज्ञासां प्रति हेतुत्वमेव नास्तीति भाष्यस्य अभिप्रायमाह -
वेदान्ताध्ययनमिति ।
धर्मजिज्ञासायां व्युत्पन्नवेदप्रामाण्यपदपदार्थवाक्यार्थतदपेक्षितन्याय कलापस्यैव ब्रह्म विचारयितुं शक्यत इति चोदयति -
कथमिति ।
अनुपकारं दर्शयितुं धर्मजिज्ञासां करणभावकर्मव्युत्पत्त्या सिद्धार्थरूपेण विभजते -
तत्र तावदिति ।
जिज्ञास्यतेऽनेति करणव्युत्पत्त्या सहस्राधिकरणसिद्धन्यायसहस्रमेका जिज्ञासेत्याह -
द्वादशलक्षण इति ।
जिज्ञासनं जिज्ञासेति भावव्युत्पत्त्या धर्मविषयवाक्यार्थनिर्णयज्ञानमपि जिज्ञासेत्याह -
तदनुग्रह इति ।
जिज्ञास्यत इति कर्मव्युत्पत्त्या अर्थरूपाग्निहोत्रादिकं कर्मापि जिज्ञासेत्याह -
वाक्यार्थश्चेति ।
प्रथमपादोक्तवेदप्रामाण्यापेक्षितन्यायकलापस्य अथशब्दसूचितन्यायस्य च ब्रह्मजिज्ञासायामुपयोगेऽपि तस्य प्रथमपादस्य धर्मब्रह्मजिज्ञासयोः साधारणत्वात् तदानन्तर्यं न धर्मजिज्ञासानन्तर्यमित्यभिप्रेत्याह -
तत्र य इति ।
स्वाध्यायस्येति ।
अध्ययनविधेः दृष्टार्थावबोधफलपर्यन्ततापेक्षितो न्याय इत्यर्थः । सम्बन्धसङ्केताय पुरुषानपेक्षत्वे हेतुः सम्बन्धनित्यत्वेनेति । अर्थोपलब्धिपूर्वकवाक्यरचनाय पुरुषानपेक्षत्वे हेतुः अपौरुषेयत्वेनेति ।
तदुभयमिति ।
प्रथमपादोक्तन्यायकलापस्य उपलक्षणमिति द्रष्टव्यम् ।
लोकप्रसिद्धा एव श्रुत्यादय उपादीयन्ते न ते प्रथमतन्त्रसिद्धा इति मत्वाह -
इतरस्येति ।
प्रथमतन्त्रसिद्धस्य कार्यापेक्षितन्यायस्याननुष्ठेयभूतवस्तुप्रतिपादने न उपयोग इत्यर्थः ।
कार्यशेषतया ब्रह्मापि प्रथमतन्त्रे निर्णीतमिति नेत्याह -
यतो न निरस्ताशेष इति ।
गुणोपसंहारपादे विध्यपेक्षितोऽपि न्याय उपजीव्यत इति तत्राह -
यत्पुनः प्रथमतन्त्रसिद्ध इति ।
सगुणविद्यापि विज्ञानमेवेत्यत आह -
तत्र च मानसी क्रियेति ।
क्रियात्वे हेतुः उपासनेत्यादि ।
मा भूद्धर्मजिज्ञासानन्तर्यमथशब्दार्थः वेदप्रामाण्यविचारानन्तर्यं स्यादिति नेत्याह -
यत्पुनः स्वाध्यायस्येति ।
न केवलमिति ।
पुष्कलकारणं न भवतीत्यर्थः ।
किं धर्मनिर्णयो ब्रह्मविचारप्रवृत्त्युपयोगी स्यात् किं वा ब्रह्मनिर्णयोपयोगीति बहिर्विकल्प्य न तावत् प्रथमः कल्प इत्याह -
न ह्यन्यविषय इति ।
नापि द्वितीय इत्याह -
तदपि इह नास्तीति ।
सम्बन्धानिरूपणादिति ।
कार्यकारणभावस्य धर्मातिरिक्तप्रपञ्चेनापि भावात् धर्मब्रह्मणोरसाधारणसम्बन्धानिरूपणादिति भावः ।
सन्ध्योपासनमारभ्य पूर्वपूर्वाल्पतरं कर्मानुष्ठाय तत्प्रहाणेन उत्तरोत्तरमहत्तरकर्मोपादानेन सहस्रसंवत्सरे निरतिशयकर्मण्यवसितेऽतः परमनुष्ठेयाभावादेव परिशेषात् ब्रह्मज्ञानेऽवतरतीत्यस्मिन् पक्षे एककर्मानुष्ठानमितरकर्मानुष्ठाने हेतुः, कृत्स्नकर्मानुष्ठानं ब्रह्मज्ञाने प्रवृत्तौ उपकारीत्येतन्न सम्भवति प्रमाणाभावादित्याह -
केयमधिकारपरम्परेति ।
तत् क्रियाहेतुतयेति ।
ब्रह्मविचारकरणहेतुतयेत्यर्थः ।
प्रमाणाभावादिति ।
एकपर्वारोहणम् इतरपर्वारोहणहेतुः, सकलपर्वारोहणं प्रासादप्राप्तिहेतुरिति सम्भवति, तथा दृष्टत्वात् । इह तु न सम्भवति, प्रमाणाभावादित्यर्थः ।
अनुष्ठेयाभावात् ब्रह्मज्ञानेऽवतारासम्भवेऽपि परम्परया कृत्स्नकर्मफलावाप्तौ तत्र कामनाभावात् निवृत्तकामः परमानन्दकामनया तत्रावतरतीत्याशङ्कते -
अथ कामोपहतमना इति ।
तदभिमुखः कामितविषयाभिमुख इत्यर्थः ।
तदेव प्रपञ्चयति -
तथा चेति ।
अधिकारपरम्परयेति ।
फलपरम्परयेत्यर्थः ।
कर्मानुष्ठानफलप्राप्त्यनन्तर भावित्वात् । ब्रह्मविचारस्य न मनुष्याधिकारं शास्त्रं स्यादित्यभिप्रेत्य परिहरति -
कर्मानुष्ठानानन्तर्यमिति ।
हैरण्यगर्भादिभोगस्य प्राप्तस्याविनाशे अवाप्तविषयकामस्यासम्भवः स्यात् , विनाशे सति अप्राप्तविषयकामस्यानुवृत्तेर्न कामोपशमात् ब्रह्मज्ञानावतारसिद्धिरित्याह -
सत्यं युक्तमिति ।
कुतस्तर्हि सर्वेषां कामविलय इति तदाह -
अतो विषयस्येति ।
ऐश्वर्येण सह वर्णनात् वैराग्यस्य हिरण्यगर्भे दोषदर्शनात् वैराग्यमिति वक्तव्यमित्याह -
ज्ञानमप्रतिघमिति ।
प्रतिबन्धरहितमित्यर्थः । सर्वत्र हिरण्यगर्भेऽपीति भावः ।
रसो राग उच्यते । निखिल विषयावाप्तौ कामोपशमः शास्त्रसामर्थ्यादुच्यते, किं वा अन्वयव्यतिरेकसामर्थ्यादिति न तावच्छास्त्रसामर्थ्यादित्याह -
न चैवं लक्षण इति ।
तर्हि अन्वयव्यतिरेकसामर्थ्यात् उच्यत इति चोदयति -
ननु कामावाप्ताविति ।
कामितविषयावाप्तावित्यर्थः । स्वस्थहृदयः अपगतोत्कलिकहृदय इत्यर्थः । उत्कलिकेति उज्वलितेत्यर्थः ।
उत्कलिकोपशमश्च तदेति ।
उत्तरकाले भोगसामर्थ्यरागौ कार्यं करिष्यतः, अतः सामर्थ्यं प्रतिहन्ति । तन्निमित्तकामज्वालोपशमश्च तदैवेत्यर्थः ।
सामर्थ्ये विद्यमानेऽपि भोगात् निवृत्तिदर्शनात् कामस्यैव निवृत्तिरस्तीत्याशङ्क्य तदा तस्मिन् विषये उपभोगनिवृत्तिः तस्मादपि उत्कृष्टविषये स्वच्छन्दोपभोगसम्भवात् , न तु कामनिवृत्त्येत्याह -
सति चेति ।
तं विषयं पुनः सम्यङ् न गोपायेदिति सम्बन्धः ।
तर्हि सर्वकर्माणि अनुष्ठीयमानानि पुरुषसंस्कारतया ब्रह्मज्ञानकार्याणि, अतो धर्मानुष्ठानान्तरं ब्रह्मजिज्ञासेति चोदयति -
भवतु तर्हीति ।
पूर्ववृत्तत्वमिति ।
ब्रह्मजिज्ञासां प्रति पुष्कलकारणतया पूर्ववृत्तत्वमित्यर्थः ।
गुणाधानमलापकर्षणसंस्कारद्वारेण कर्माणां परम्परया मोक्षहेतुत्वे स्मृतिः
`यस्यैत....’ इति ।
दया सर्वभूतेषु क्षान्तिरनसूयाशौचमना - यासो मङ्गलमकार्पण्यमस्पृहेत्यष्टावात्मगुणा इति द्रष्टव्याः । महायज्ञैः पञ्चमहायज्ञैरित्यर्थः । ब्राह्मी ब्रह्माभिव्यक्तियोग्या क्रियत इत्यर्थः । आत्मनि चित्ते इत्यर्थः ।
संयोगपृथक्त्वेन ब्रह्मानुभवकामो यज्ञादीन्यनुतिष्ठेदिति शुद्धिद्वारेण ज्ञानोत्पत्तिसाधनत्वेन कर्मविधायकश्रुतिमाह -
विविदिषन्तीति ।
अनाशकेनेति अनशनेनेत्यर्थः । विविदिषावाक्ये शुद्धिहेतुतया कर्मविधिरिति निर्णयाय वाक्यान्तरमाहयेन केनचनेति ।
वेदनेच्छोदयप्रभृतिज्ञानोदयपर्यन्तविचारे प्रवर्तमानस्य विशेषणतया स्वसम्बन्धित्वेन विचारात् पूर्वक्षणे प्रतिपन्नपुष्कलकारणप्रतिपादनेन तदानन्तर्यविषयोऽथशब्दः तत्राह, तत्तयैवानेकजन्मव्यवहितफलहेतुषु कर्मसु फलेन समकालप्रतिपत्त्यनपेक्षेषु सत्सु न तेषां पुष्कलकारणत्वप्रतिपादनेन तदानन्तर्यविषयोऽथशब्द इति परिहरति -
सत्यमेवमिति ।
समानजन्मेति ।
विद्योत्पादकदेहेनैव अनुष्ठितेत्यर्थः । समानजन्मानुष्ठितकर्मणो विचारात् पूर्वक्षणे अधिकारविशेषणतया प्रतिपत्तिसम्भवात् अथशब्देन पुष्कलकारणतया प्रतिपादनं स्यात् , जन्मान्तरीयकर्मणो विचारहेतुत्वात् तस्य चाप्रतिपन्नपुष्कलकारणत्वेन अथशब्देन प्रतिपादनमित्यर्थः ।
नैयोगिक इति ।
नियोगसाध्य इत्यर्थः ।
अपाकृतऋणत्रयस्य मोक्षेऽधिकारात् ऋणस्य च विद्यारम्भकदेहजन्मप्रयुक्तत्वात् ऋणापाकरणहेतुकर्मणामेतज्जन्मन्यनुष्ठिततया अधिकारिविशेषणत्वेन प्रतिपत्तिसम्भवात् तदपेक्षोऽथशब्द इति तत्राह -
एतेनेति ।
कर्मणां विचारं प्रति पुष्कलकारणत्वाभावसमर्थनेनेत्यर्थः । ‘जायमानो वै ब्राह्मण’ इति च श्रुतिरर्थवादत्वात् ‘प्रव्रजेत्’ इति विधिश्रुत्या बाध्यत इति भावः ।
ऋणानि त्रीण्यपाकृत्येति स्मृतिरस्तीति । सत्यम् , सा श्रुतिस्मृतिविरोधादप्रमाणमित्याह -
तथा च श्रुतिरिति ।
तस्येति ।
अधीतवेदस्याधिकारिण इत्यर्थः ।
आनन्तर्याभिधानमुखेन विचारं प्रति पुष्कलकारणतया अधिकारिविशेषणत्वेन पूर्वनिर्वृत्तः कर्मावबोध इति न प्रतिपादयति अथशब्दः, किन्तु आनन्तर्याभिधानमुखेन धर्मब्रह्मजिज्ञासयोः क्रमप्रतिपादक इति चोदयति -
अथापि स्यादिति ।
किं स्वयमेव क्रमं प्रतिपादयति अथशब्दः आहोस्वित् प्रमाणान्तरप्राप्तक्रमस्य न्यायेन नियमप्रतिपादक इति । न तावत् प्रथमः कल्प इत्याह -
तदेतदयुक्तमिति ।
आगमत्वाभावादित्यर्थः ।
द्वितीयेऽपि कल्पे धर्मब्रह्मजिज्ञासयोः एकविधिप्रयुक्तानुष्ठेयत्वाभावादेव शेषशेषित्वस्य एकशेषिसम्बद्धानेकशेषत्वस्याधिकृताधिकारत्वस्य चाभावात् । अत एवैककर्तृकत्वाभावात् एकस्य युगपदनेकानुष्ठानानुपपत्त्या सिद्धक्रमप्राप्त्यभावात् तन्नियमार्थत्वमथशब्दस्य नास्तीत्याह -
अपि च एककर्तृकाणामिति ।
शेषशेषिणोः प्रयाजदर्शपूर्णमासयोः ।
शेषाणां चेति ।
एकप्रधानापूर्वसम्बद्धानामाग्नेयादिषड्यागानामित्यर्थः ।
अधिकारान्तरप्रयुक्त्युपजीविनामिति ।
दर्शपूर्णमासादिनियोगान्तरप्रयुक्तानुष्ठेयानां गोदोहनादीनामित्यर्थः ।
विवक्षितत्वादिति ।
एकस्य युगपदनेकानुष्ठानानुपपत्तिसिद्धत्वादित्यर्थः ।
मा भूद्धर्मब्रह्मजिज्ञासयोः एकविधिप्रयुक्तानुष्ठेयतया एककर्तृकत्वेन प्राप्तक्रमनियमार्थत्वमथशब्दस्य, किन्तु एकफलप्रयुक्तानुष्ठेयतया एकप्रमेयजिज्ञासा प्रयुक्तानुष्ठेयतया वा साधनद्वये कर्त्रैक्यात् क्रमस्यापेक्षेति तन्नियमार्थोऽथशब्द इति उत्तरभाष्यस्य आशङ्कामाह -
अथापि स्याद्यथा आग्नेयादीनामित्यादिना ।
अभ्युदयफलमिति ।
धर्मज्ञानस्योत्पत्त्याप्तिविकृतिसंस्कारात्मकोऽभ्युदयः फलमित्यर्थः ।
न ज्ञेयत्वादेवेति ।
हस्तगतविस्मृतसुवर्णस्य ज्ञेयत्वादेव यथा सुखोत्पत्तिः फलं भवति तद्वन्न भवतीत्यर्थः ।
अनुष्ठानान्तरेति ।
ज्ञानोत्पत्त्यनुष्ठानात् अनुष्ठानान्तरानपेक्षमित्यर्थः ।
स च नित्यसिद्ध इति ।
उत्पत्तिविकृत्यात्मत्वं मोक्षस्य नास्तीत्यर्थः ।
अनाप्य इत्याह -
अव्यवहित इति ।
अन्यसंस्कारासम्भवं सिद्धवत्कृत्य स्फुरणातिशयरूप संस्कारोऽपि नास्तीत्याह -
स्वसंवेद्य इति ।
ज्ञानोत्पत्तिमात्रेण लभ्यं फलमपवर्ग इत्याह -
यतोऽविद्येत्यादिना ।
फलस्योत्पाद्यत्वानुत्पाद्यत्वं नामस्वरूपवैलक्षण्यमाह -
अत्यन्तविलक्षणत्वादिति ।
प्रस्थानभेदादिति ।
ज्ञानोत्तरकालं प्रयत्नसापेक्षत्वानपेक्षत्वलक्षणप्रस्थानभेदादित्यर्थः ।
एकोपनिपात इति ।
एकस्मिन् कर्तरि कार्यत्वेनोभयजिज्ञासयोः उपनिपातो नास्तीत्यर्थः । कार्यः साध्य इत्यर्थः ।
पुष्पादिवत् कालेन साध्यत्वं व्यावर्तयति -
पुरुषव्यापारतन्त्र इति ।
प्रवर्तकशब्दगम्यो धर्मः केवलबोधकशब्दगम्यं ब्रह्मेत्येवं प्रमाणभेदोपाधिना प्रमेयभेद उच्यत इति तात्पर्यमाह -
इदमपरमिति ।
चोदनेति शब्दभावनां कुर्वच्छब्दोऽभिधीयते ।
प्रेरयन्ती पुरुषमिति ।
पुरुषेणार्थभावनां निष्पादयन्तीति यावत् ।
असति विषय इति ।
अप्रतिपन्नार्थभावनायामिति यावत् ।
विषयमपीति ।
पुरुषनिष्पाद्यार्थभावनामपीत्यर्थः ।
बोधयति केवलमिति ।
ब्रह्मणोऽसाध्यत्वात् तत्र न प्रेरयतीत्यर्थः ।
ब्रह्मावबोधस्य साध्यत्वात् तत्र पुरुषं प्रेरयन्ती चोदनावबोधनविशेषितां भावनां प्रतिपादयन्तीति नेत्याह -
अवबोधस्येति ।
अवबोधः पुरुषप्रयत्नसाध्य इति नेत्याह -
बोधो हीति ।
यथा प्रमाणमिति ।
चक्षुरादिसामग्र्यनुरूपमित्यर्थः । अनिच्छतोऽप्रयतमानस्यापि दुर्गन्धादिज्ञानदर्शनादित्यर्थः ।
सन्निकर्षेणेति ।
सन्निकर्षाख्यसाधनेन कुर्विति न नियुज्यत इत्यर्थः । लक्षणं प्रमाणमित्यर्थः ।
वेदाख्यशास्त्रीयविचारविधेः वेदोक्तमेव अधिकारनिमित्तमथशब्देन वक्तव्यमित्यभिप्रेत्य वेदोक्तसाधनचतुष्टयमथशब्दार्थत्वेन दर्शयति -
उच्यते नित्यानित्येति ।
साधनचतुष्टयं वेदाख्यशास्त्रीयाधिकारिविशेषणम् उपपन्नं च, तदेव विचारे प्रवृत्तौ पुष्कलकारणम् , तद्वानेवाधिकारीत्यर्थः ।
शब्देन प्रतिपादनाभावे अहमेवं विशिष्टोऽस्मीति बुद्ध्या प्रवर्तमानाधिकार्यभावात् विचारे प्रवृत्तिर्न स्यात् , अतोऽनुष्ठिततया प्रयोजनपर्यन्तं न भवेत् विचारशास्त्रमित्युक्तमिति वृत्तानुवादेन साधनचतुष्टयाभावे न विचारप्रवृत्तिरिति व्यतिरेकप्रदर्शनेन साधनचतुष्टयस्य विचारं प्रति कारणत्वमित्याशङ्क्य, सत्यम् पूर्वस्य पूर्वस्याधिकारिणः स्वसम्बन्धित्वेन प्रतिपन्नतया उत्तरोत्तरं प्रति स्वरूपोपाधित्वेन च मुमुक्षुत्वोपाधित्वात् सर्वेषामधिकारनिमित्तता इत्यभिप्रेत्य व्यतिरेकमुखेन पूर्वस्य पूर्वस्य उत्तरोत्तरहेतुत्वं सर्वेषां विचारहेतुत्वं च दर्शयति -
तस्माद्यावदस्येत्यादिना ।
नित्यवस्तुविवेकोदयप्रकारमाह -
विनश्यदपीदमिति ।
कार्यस्य निरुपादानत्वायोगात् कार्योपादानत्वायोगात् उपादानस्यानादित्वे तस्य कार्येष्वनन्वितत्वे सति अनुपादानत्वप्रसङ्गात् अनन्विततया नित्यत्वे सति कल्पनालाघवात् अनादिनित्योपादानस्य एकत्वे सति तस्य विकारित्वे कार्यत्वप्रसङ्गात् अविकारित्वे च सिद्धे सत्येकानादिनित्याविकारिकारणे कार्याणां कारणावशेषतया विनाशः स्यात् , अनभ्युपगमे पूर्वकल्पस्य विनष्टस्य संस्कारसहितकारणावशेषाभावात् पुनस्तथाविधस्योत्पत्त्यभाववत् वर्तमानकल्पस्यापि संस्कारविशिष्टकारणाभावेन अनुत्पत्तेरभावोऽभविष्यत् , अतो विशिष्टकूटस्थनित्यवस्त्वस्तीति नित्यवस्तुविवेको जायत इत्यर्थः ।
वैराग्योदयप्रकारमाह -
अभिमुखविनाशदर्शनादिति ।
अग्निप्रवेशार्थं स्रक्चन्दनवस्त्राद्यलङ्कारभोगान् भुञ्जानस्य भोगैः सह अभिमुखविनाशदर्शनात् दुःखानुभवाच्च निर्वृतिमलभमानो भोगाद्विरक्तो जायत इत्यर्थः । अत्रैवमन्वयः, यावदनित्यत्वं नावैति तावन्नित्यं वस्तु न प्रतिपद्यत इत्यध्याहारः । यावच्च नित्यानित्यविवेको न जायते तावद्विरक्तो न जायत इत्यध्याहारः । यावच्चाभिमुखविनाश इत्यत्र यावच्छब्दो नकारमध्याहृत्य विरक्तशब्देन सम्बध्यते । यावच्च न विरक्त इति तावन्मुमुक्षुत्वं नावलम्बत इत्यध्याहारः । यावच्च मुमुक्षुत्वं नावलम्बते तावद् ब्रह्मजिज्ञासां कः प्रतिपद्यत इति साधनकलापाभावे न विचारप्रवृत्तिरिति व्यतिरेकोऽयं दर्शितः ।
ननु नास्ति व्यतिरेकः, साधनाभावेऽपि प्रवृत्तिदर्शनादित्याशङ्क्याह -
कथञ्चिद्वा दैववशादिति ।
शूद्रयागादिवत् फलपर्यन्तता न स्यादित्यर्थः ।
व्यतिरेकनियमादेव अन्वयमपि सिद्धवत्करोतीत्याह -
तस्माद्वर्णितेति ।
अथशब्देन साधनचतुष्टयस्य हेतुत्वाभिधानात् अतःशब्देनापि तस्य हेतुत्वाभिधानात् पुनरुक्तिः स्यादित्याशङ्क्य अथशब्दस्य आनन्तर्यमभिधेयार्थः । साधनचतुष्टयहेतुत्वं तात्पर्यार्थः । अतः शब्दस्य साधनचतुष्टयस्य हेतुत्वमभिधेयार्थः ।
साधनचतुष्टये प्राप्त्यसम्भवाशङ्कानिराकरणं तात्पर्यार्थ इत्यभिधेयभेदात् तात्पर्यार्थभेदाच्च पुनरुक्तिर्नास्तीत्यभिप्रेत्याह -
अतः शब्दो हेत्वर्थ इति ।
हेत्वभिधायीत्यर्थः ।
अथशब्दतात्पर्यार्थभूतसाधनचतुष्टयाख्यपुष्कलकारणे प्राप्तासम्भवशङ्कामतःशब्दनिराकरणीयामाह -
स्यादेतदिति ।
अनित्यत्वानुमानस्यानैकान्तिकत्वादेव कर्मफलस्य अनित्यत्वासम्भवेऽपि नित्यत्वे न प्रमाणमिति तत्राह -
वेदेऽपीति ।
अतो नित्यपुरुषार्थकामिनः कर्मफलेऽपि प्रवृत्तिसम्भवात् न नियमेन ब्रह्मणि प्रवृत्तिरिति भावः ।
नित्यपुरुषार्थकामिनो विषयभोगात् वैराग्यं च न सम्भवति, कर्मफलस्यापि नित्यत्वादित्याह -
अतो विषयभोगादिति ।
मा भूद् ब्रह्मण्येव प्रवृत्तिरिति नियमः तथापि ब्रह्मण्यपि विकल्पेन प्रवृत्तिः स्यादिति नेत्याह -
न च कूटस्थेति ।
अवष्टम्भेनेति ।
ब्रह्मप्राप्तिसम्भवमङ्गीकृत्येत्यर्थः ।
कूटस्थनित्यब्रह्मवस्तुप्राप्त्यसम्भवः कथमित्यत आह -
यतो न तादात्म्यमिति ।
विरुद्धत्वादिति भावः ।
ब्रह्मणः सर्वगतत्वे नित्यसंयोगात् न साधनसाध्यत्वं संयोगस्य असर्वगतत्वे परिच्छेदादनित्यत्वादिप्रसङ्गः, तथापि संयोगस्य साध्यत्वे निष्फलत्वमाह -
नापि तदवाप्तिरिति ।
सुखभोगाभावादिति ।
ब्रह्मणि सुखसद्भावेऽपि स्वाश्रयसुखापरोक्ष्यस्यैव उपभोगत्वात् आत्मनि तस्याभावादित्यर्थः ।
भोगात् प्रागूर्ध्वं च भोगावस्थायां च दुःखात्मकविषयसुखपरित्यागेन दुःखनिवृत्त्यात्मकब्रह्मप्राप्तिः प्रार्थ्यत इत्याशङ्क्याह -
अतोऽजीर्णभयादिति ।
अतो न तस्येति ।
साधनचतुष्टयस्येत्यर्थः ।
तात्पर्येण अतःशब्दनिराकरणीयाशङ्कां टीकाकारः स्यादेतदित्यादिना प्रदर्श्य प्रदर्शिताशङ्कानिराकरणहेतुसूचनेन साधनचुतष्टयं हेतुर्हेतुरेवेति प्रदर्शयति अर्थतः शब्द इत्याह -
अतस्तस्येति ।
आशङ्कानिराकरणहेतुरतः शब्दसूचितः कथम्भूत इति चोदयति -
कथमिति ।
आशङ्कानिराकरणहेतुमतःशब्दसूचितमाह -
यस्माद्वेद एवेति ।
अनित्यफलतां दर्शयतीति ।
ब्रह्मव्यतिरिक्तपुरुषार्थजातस्यानित्यतां दर्शयतीति भावः ।
तद्यथेहेति ।
सामान्यश्रुतिः चातुर्मास्यादिविशेषादन्यत्रैव वर्ततामिति चोदयति -
ननु पुण्यस्येति ।
वस्तुबलप्रवृत्तेति ।
व्याप्तिबलप्रवृत्तेत्यर्थः ।
अनुमानविरोध इति ।
कृतकत्वात् परिच्छिन्नत्वादनित्यमित्यनुमानानुगृहीतश्रुतिविरोध इत्यर्थः । अतोऽनित्यत्व दर्शनं विषयभोगाद्वैराग्यमुत्पाद्य तद्वारेण मुमुक्षुत्वहेतुतया ब्रह्मणि प्रवृत्तिहेतुर्भवतीति योजना ।
निमित्तमुक्तमिति ।
ब्रह्मणि विकल्पेन प्रवृत्त्यभावेऽपि ब्रह्मणा तादात्म्यसंयोगरूपप्राप्त्यसम्भवाख्यं निमित्तमुक्तमित्यर्थः । श्रुतिविरोधात् ब्रह्मप्राप्त्यसम्भवसाधक तर्को बाध्यते । ब्रह्मप्राप्तेः पुरुषार्थत्वं च भवति । सुखापरोक्ष्यसम्भवात् तस्यैव पुरुषार्थत्वादिति भावः ।
अत उपसंहरतीति ।
अतःशब्देनाशङ्कानिराकरणहेतुसूचनद्वारेण साधनकलापस्य हेतुत्वसमर्थनादुपसंहरतीत्यर्थः ।
कर्तव्येत्यनेन भाष्यकारो विशेषं विधत्त इति शङ्कानिवर्तकत्वेन भाष्यं व्याचष्टे ।
यतः परिपूर्ण इति ।
पुष्कलहेतुत्वादवश्यारम्भकत्वं भाष्योक्तमस्त्येवेत्याह -
यतो द्वैतानुषङ्गादिति ।
एवं सतीति ।
पुष्कलहेतुत्वेनावश्यारम्भकत्वे सतीत्यर्थः ।
अथशब्देनेति ।
अवश्यारम्भक साधनचतुष्टयाख्यहेतुप्रतिपादकाथशब्देनेत्यर्थः ।
धर्माय जिज्ञासेतिवच्चतुर्थी समासः किं न स्यादित्याशङ्क्य जिज्ञासाशब्दस्याभिधेयावयवार्थस्वीकारादित्याह -
अन्तर्णीतेति ।
लक्षितविचारार्थान्वय इत्यर्थः । जिज्ञासाशब्दस्य इच्छार्थत्वात् इच्छायाः कर्मप्रयोजनयोरैक्यात् एकनिर्देशेन इतरनिर्देशसिद्धेः कर्मण इच्छास्वरूप प्रतीत्युपाधित्वेन प्राधान्यात् तन्निर्देशार्थं कर्मणि षष्ठीसमासः स्यात् । लक्षणया विचारार्थत्वे तु विचारस्य कर्मप्रयोजनयोर्भेदादेकनिर्देशेनान्यनिर्देशासिद्धेरायासरूपत्वेन प्रयोजनापेक्षत्वात् प्रयोजनत्वप्रसिद्धये चतुर्थीसमासः स्यात् । न त्विह विचारस्यार्थत्वमिति भावः ।
अवसरप्राप्ताविति ।
किं तत् ब्रह्म यदिच्छायाः प्रयोजनतया कर्मत्वेन वर्तत इत्याकाङ्क्षोत्पत्तेरवसरप्राप्तावित्यर्थः ।
कथं निरस्यत इत्याशङ्कायां जातिजीवकमलासनशब्दराशीनां ब्रह्मशब्दाभिधेयतया जिज्ञासां प्रति कर्तृत्वेन कर्मत्वेन वा प्रतिपादनानुपपत्तेरस्मिन्प्रयोगे न ब्रह्मशब्दस्य जात्याद्यर्थतेत्यन्यवृत्तिकारैर्निराकृतप्रकारमाह -
न खल्विति ।
विशेषणानर्थक्यादिति ।
अन्यस्य प्रसङ्गाभावात् जीवकर्तृकेति विशेषणानर्थक्यादित्यर्थः । शब्दराशेरचेतनत्वादेव कर्तृत्वप्रसङ्गाभावात् । कर्तृत्वं न दूषितमिति द्रष्टव्यम् ।
जिज्ञास्यापेक्षत्वादिति ।
इच्छां प्रति स्वरूपप्रतीत्युपाधित्वात् इच्छाजन्यफलाधारत्वाच्च कर्मकारकस्य तदपेक्षत्वमिच्छायाः प्राधान्येन विद्यत इत्यर्थः ।
अन्यज्जिज्ञास्यमिति ।
ब्रह्मलोकजिज्ञासेत्यत्र ब्रह्मणोऽन्यलोकस्य जिज्ञास्यत्ववदिहापि अन्यज्जिज्ञास्यमित्यर्थः ।
तदर्थं
तत्परिहारार्थमित्यर्थः ।
शेष इति सम्बन्धसामान्यमुच्यते । न कारकपञ्चकव्यतिरिक्ताः स्वस्वामित्वादिसम्बन्धविशेषा उच्यन्ते । अतः सामान्याभिधानेऽपि कर्मत्वाख्यसम्बन्ध विशेषे पर्यवसानात् इच्छापेक्षितकर्मत्वप्रतीतिसिद्धेः शेषषष्ठ्येवाभ्युपेयेति चोदयति -
ननु शेषषष्ठीपरिग्रहेऽपि इति ।
भाष्यं व्याचष्टे -
यद्यपीति ।
अर्थात् विशेष इति । व्यवहारान्यथानुपपत्त्या विशेषे पर्यवसानभूमित्वेनाभ्युपगम्यमाने सतीत्यर्थः ।
क्रियोपादानादिति ।
जिज्ञासाशब्देनोपादानादित्यर्थः ।
साधारणे शब्द इति ।
सम्बन्धसामान्यस्य कर्मत्वाख्यविशेषस्य च षष्ठ्याख्यशब्दे साधारणे सतीत्यर्थः ।
अभिप्रेतमर्थं विहायेति ।
इच्छापेक्षितत्वात् अभिप्रेतं कर्मत्वं विहायेत्यर्थः । अर्थान्तरं सामान्यमित्यर्थः । कर्मणि षष्ठीपरिग्रहे वृत्या व्यक्तेः प्रधानतया प्रतीतत्वात् स्फुटत्वमस्तीत्यभिप्रेत्य प्रत्यक्षत्वमुच्यत इति द्रष्टव्यम् । शेषे षष्ठीपरिग्रहे सामान्यमभिधाय तत्र ग्रस्ततया कर्मत्वबोधनात् अस्फुटं भवतीति परोक्षमित्युच्यते ।
शेषषष्ठ्या ब्रह्मसम्बन्धिजिज्ञासेत्युक्ते ब्रह्मस्वरूपप्रमाणयुक्तिसाधनप्रयोजनानां जिज्ञास्यत्वमुक्तं स्यादिति चोदयति -
ननु किमिति व्यर्थ इति ।
प्रधानपरिग्रह इति ।
विचारसाध्यज्ञाननिमित्तापरोक्ष्यफलभागित्वादापरोक्ष्यस्य च ब्रह्मसुखापरोक्षत्वात् विशिष्टं ब्रह्मविचारप्रवृत्तेः प्रधानं भवति । तस्य प्रधानभूतस्य ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मस्वरूपनिर्णयापेक्षितप्रमाणादिविचाराणाम् अर्थाक्षिप्तत्वादित्यर्थः ।
ब्रह्मावाप्तिः पुरुषार्थ इति ।
सुखापरोक्ष्यं ब्रह्मापरोक्ष्यं पुरुषार्थ इत्यर्थः ।
तेन तत् ज्ञानेनाप्तुमिष्टतममिति ।
आपरोक्ष्यस्य पुरुषार्थरूपत्वात् तदापरोक्ष्यं ब्रह्मज्ञानेनाप्तुमिष्टतमं ज्ञानाधीनफलभागीत्यर्थः ।
तदर्थत्वादिति ।
ज्ञानद्वारेण फलविशिष्टब्रह्मशेषत्वात् विचारप्रवृत्तेः फलविशिष्टं ब्रह्मप्रधानमित्यर्थः ।
अर्थादेवेति ।
कर्मणि षष्ठ्या ब्रह्मणो जिज्ञासेति ब्रह्मस्वरूपजिज्ञासाभिधाने प्रमाणादीनामर्थादेव जिज्ञास्यत्वात् न पृथक् शेषषष्ठ्यङ्गीकारेण सूत्रयितव्यानीत्यर्थः ।
शास्त्रप्रवृत्तिरेवेति ।
श्रौतविचारविधिनिर्णयपरतया प्रथमसूत्रप्रवृत्तिरेवेत्यर्थः ।
अथशब्दसूचिताधिकारिप्रतिपादकश्रुत्यर्थमाह -
पुण्यजित इति ।
परेति ।
परा विद्यत इति यस्मादित्यर्थः ।
ब्रह्मजिज्ञासेत्यंशेन सूचितश्रुत्यर्थमाह -
तद्विजिज्ञासस्वेति ।
इच्छाप्रदर्शनार्थमितीच्छाया वाक्यार्थत्वप्रदर्शनार्थमित्यर्थः ।
इच्छायाः फलविषयत्वादिति ।
अवगतविषयत्वात् इच्छायाः ज्ञानावगतये ज्ञानविशेषणब्रह्मण्यवगते तत् ज्ञानेच्छानुपपत्तेरनवगते तद्विशेषितज्ञानस्यापि अनवगमात् ज्ञानमात्रे इच्छानुपपत्तेरिति भावः ।
काचेयमिष्यमाणावगतिरिति तदाह -
साक्षादनुभव इति ।
अपरोक्षानुभव इत्यर्थः ।
इच्छापूर्वकविचारात् प्रागेव स्थितवेदादवगतिपर्यन्तज्ञानमुत्पद्यते कथं तत्रेच्छेत्याशङ्क्य प्रथमज्ञानं परोक्षं भवति । अपरोक्षमिति पक्षेऽपि असम्भावनादिनानवसितरूपं भवति, अतः परोक्षज्ञानमप्रतिबद्धापरोक्षज्ञानमेव अपेक्ष्यत इति युज्यत इत्यभिप्रेत्याह -
ज्ञानं तु परोक्ष इति ।
सन्निहितेऽपीति ।
इन्द्रियसंयुक्ततया प्रथमत एव अपरोक्षेऽपि वस्तुनीत्यर्थः ।
तदाह,
तस्मादाहेत्यर्थः ।
प्रमाणेनावगन्तुमिति ।
अपरोक्षनिश्चयानुभवेन ज्ञानेनेत्यर्थः । ब्रह्मरूपता साक्षात्करणफलज्ञाने इच्छा सम्भवति । न प्रथमज्ञान इति भावः ।
प्रथमसूत्रस्य शास्त्रान्तर्भूतत्वेन अनन्तर्भूतत्वेन चानिरूप्यत्वादेव वाक्यार्थत्वस्याकथनीयत्वात् इच्छा वाक्यार्थ इति प्रतिपादनमयुक्तम् , तथाहि - अन्तर्भूतत्वे स्वविचारारम्भकर्तव्यताविचारसूत्रस्य केनारम्भः क्रियते, स्वेनैव चेत् आत्माश्रयतापत्तिः, सूत्रान्तरेण चेत् अनवस्थापातः । अनन्तर्भूतत्वे अशास्त्रतया अनारम्भप्रसङ्ग इत्याशङ्क्य श्रौतश्रोतव्य इति विधिरनिर्णीतानुबन्धत्रयविशिष्टतया प्रतिपन्नस्वनिर्णयाय स्वापेक्षित विचाराय प्रथमसूत्रमारम्भयति । विधौ च विचारिते सति विधिविषयविचारसूत्राणि जन्मादिसूत्रादीनि पश्चादारम्भयतीत्यभ्युपगमात् एकशास्त्रत्वेऽपि अनवस्थाभावात् श्रोतव्यादिवाक्यानां स्वार्थे समन्वयप्रतिपादनद्वारेण विधिना विचार्यमाणवेदान्तवाक्यानामपि ब्रह्मणि समन्वयनिर्णयनिमित्तत्वात् एव समन्वयाध्यायेन सङ्गतिसिद्धेश्च अस्य वाक्यस्यार्थकथनं युक्तमित्यभिप्रेत्याह -
तदेतदिति ।
तस्माद् ब्रह्म जिज्ञासितव्यमिति भाष्यं जिज्ञासाशब्देन लक्षितविचारकर्तव्यतासूत्रस्यार्थ इति प्रदर्शयतीति वदितुमिति ।
इच्छाया अभिधावृत्त्या वाक्यार्थत्वं पूर्वमुक्तमित्याह -
अनेन च प्रयोज्येति ।
प्रयोज्य इत्यधिकारी ।
एकस्या इति ।
साधनकलापस्येति तस्य कारणान्तरमदृष्टं यज्ञादिवत् दृष्टं व्याप्त्यनुसन्धानादि अर्थादुपात्तमिति आनन्तर्याभिधानसामर्थ्यादिति अतःशब्दस्य मुखतो हेतुत्वाभिधायिनोऽप्याशङ्कान्तरनिवृत्तौ तात्पर्यात् अर्थाद्धेतुत्वमुक्तमित्यनुवादे प्रयोजनाभावात् कर्तव्यपदमध्याहृत्य जिज्ञासाकर्तव्यता श्रुत्या अभिहिता, इच्छाया अननुष्ठेयत्वादभिधावृत्तिसिद्धेच्छाकर्तव्यताऽसम्भवेऽपि इच्छासंयोगात् ज्ञानस्य साध्यत्वावगमात् तदेव कर्तव्यमस्तु न तु लक्षितविचारकर्तव्यता सूत्रार्थत्वेन कथनीया भाष्यकृतेति, नेत्याह -
तत्र जानात्येवेति ।
इष्यमाणस्य साध्यता स्वयं सिद्धा न शब्दमपेक्षते सुखसंवेदनत्वादित्यर्थः ।
किं तर्हि विधीयत इति तदाह -
उपायं तु न वेदेति ।
अनुपगताभिलषितोपाय एव विधिशब्दैः प्रतिपाद्यते । अतो ज्ञानसाधनविचार कर्तव्यता सूत्रार्थत्वेन कथनीया भाष्यकृतेति भावः । दृष्टोपायत्वेऽपि अपरोक्षानुभवं प्रत्यदृष्टोपायतापि दर्शिता द्रष्टव्यादिविधेरिति द्रष्टव्यम् ।
ननु पदार्थव्याख्यानादेव स्वयमेव वाक्यार्थं प्रतिपद्यते, किं वाक्यार्थकथनेन ? सत्यम् ; सम्बन्धादीनामर्थात् प्रतिभासो भवतीत्याह -
शास्त्रस्य चेति ।
मुमुक्षुणा मोक्षहेतुब्रह्मज्ञानायेदं शास्त्रं श्रोतव्यमिति वाक्यार्थे अभिहिते कथमर्थात् सम्बन्धादिप्रतिपत्तिरिति तदाह -
एतदुक्तम्भवतीति ।
ब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यमित्युक्त्या ज्ञायमानब्रह्मणा शास्त्रस्य सम्बन्ध उक्तः । अनेनैव शास्त्रेण ब्रह्मज्ञानस्योत्पत्त्यभिधानात् ज्ञायमानं ब्रह्म शास्त्रस्य विषय इति उक्तं शास्त्रस्याधिकारिणा कामितब्रह्मज्ञानसाधनत्वात् ज्ञानं ब्रह्म शास्त्रस्य प्रयोजनमुक्तमित्यर्थात् शास्त्रस्य सम्बन्धाभिधेयप्रयोजनं कथितं भवतीति । || इति तृतीयवर्णककाशिका ||