अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

३ परिच्छेदः

आनन्तर्यमधिकारो मङ्गलाचरणं प्रकृ­ता­द­र्था­न्तरं चेति अथशब्दस्य लोके चत्वारोऽर्थाः प्रसिद्धाः । इह त्वानन्तर्यमेव उपादीयत इत्यस्मिन्नर्थे भाष्यस्य तात्पर्यमाह -
तत्रार्थशब्द इत्यादिना ।
न अधिकारार्थः, नारम्भार्थ इत्यर्थः ।

अवयवार्थेन अर्थवत्व इति ।
अवयवगतशक्त्या ब्रह्म­ज्ञा­ने­च्छा­भि­धा­यित्व इत्यर्थः ।

अवयवार्थेन अर्थवत्वेऽपि अन­धि­का­र्य­त्वा­दि­त्ये­तन्न युज्यते । ब्रह्म­जि­ज्ञा­सा­श­ब्दा­र्थ­भू­त­ब्र­ह्म­त­ज्ज्ञा­नयोः ज्ञान­स्या­नु­ष्ठे­य­त्वा­देव आरभ्यत्वात् ब्रह्मणश्च प्रमि­ति­वि­शि­ष्ट­रू­पेण अनुष्ठेयत्वादेव अधि­का­र्य­त्वा­दिति तत्राह -
अधि­क्रि­या­यो­ग्यस्य चेति ।
इच्छाविशेषणं ज्ञानं, ब्रह्म च ज्ञान­वि­शे­ष­ण­मि­त्य­प्र­धा­न­त्वा­न्नो­प­स­र्जनंपदं पदान्तरेण सम्बध्यत इति न्यायात् नाधि­का­रा­र्था­थ­श­ब्देन अन्वय इत्यर्थः ।

तर्हि अव­य­व­द्वा­रे­णार्थः स्वीक्रियतां, तथा सति अन­धि­का­र्य­त्वा­दिति भाष्यो­प­प­त्ते­रि­त्या­शङ्क्य अखण्डशक्त्या विचारार्थत्वात् अव­य­वा­र्थ­त्वा­भा­वात् विचारस्य चारभ्यत्वात् अन­धि­का­र्य­त्वा­दिति भाष्य­म­स­ङ्ग­त­मि­त्या­क्षि­पति -
अयं तु जिज्ञासाशब्द इति ।

विचारवचनत्वं कथमवसीयत इति तत्राह -
मीमांसापर्याय इति ।

क्रतु­गु­ण­क­मु­पा­स­न­मिति ।
उद्गी­था­दि­क्र­त्व­ङ्ग­वि­ष­यो­पा­स­न­मि­त्यर्थः ।

सन्धातमिति ।
जिज्ञा­से­त्य­ख­ण्ड­रूपे विचा­रा­भि­धा­न­श­क्ति­मा­श्रित्य प्रयुङ्क्त इत्यर्थः ।
सन्धा­त­वा­च्य­त्वात् विचारस्य सन्धातमेव प्रयुङ्क्त इत्यन्वयः ।

अन्यथेति ।
जिज्ञा­सि­त­मि­त्यत्र जिज्ञा­सा­श­ब्द­स्यापि अव­य­वा­र्था­ङ्गी­कार इत्यर्थः ।

जिज्ञासाशब्दस्य अवयवार्थे अङ्गीकृते इष्यमाणस्य फलत्वं सिध्यतीति चतुर्थ्या फलस्य निर्दे­शा­पे­क्षा­भा­वात् इच्छायाः विष­या­पे­क्षि­त­त्वेन धर्मस्य जिज्ञासेति कर्मणि षष्ठीसमासं दर्शयित्वा विषय एव दर्शनीयः । न तथा क्रियते, किन्तु अखण्डशक्त्या विचा­रा­र्थ­त्व­म­ङ्गी­कृत्य दुःखरूपविचारस्य फलापेक्षत्वात् चतुर्थ्या फलमेव दर्शयतीत्यतः जिज्ञासाशब्दो विचारार्थ एवेत्याह -
अत एवेति ।
अव­य­वा­र्थ­त्वा­भा­वा­दे­वे­त्यर्थः ।

धर्मायेति ।
ज्ञात­ध­र्मा­ख्य­प्र­यो­ज­नाय इत्यर्थः ।

क्रत्वर्थ इति क्रतु­स्व­रू­पो­प­का­रि­प्रो­क्ष­णा­दि­रु­च्यते । पुरुषार्थ इति फलो­प­का­रि­प्र­या­जा­द्यु­च्यते । प्रथ­म­सू­त्र­वा­क्यार्थं दर्शयद्भिः भाष्यकृद्भिः विचा­र­प­र्या­य­मी­मां­सा­शब्दः प्रयुक्त इत्याह -
पुनश्च वेदान्तेति ।

शास्त्रवचनो हीति ।
विचा­र­शा­स्त्र­व­चनो हीत्यर्थः ।

आरम्भोऽर्थ इति पक्षे सूत्रवाक्यार्थं दर्शयति -
तेन ब्रह्म­जि­ज्ञा­सेति ।

अव­य­वा­र्था­भि­धा­न­द्वा­रेण लक्षणया विचारं विवक्षित्वा तस्मिन्नयं जिज्ञासाशब्दः प्रयुज्यमानो दृश्यते । न त्वखण्डशक्त्या विचा­रा­भि­धा­यि­त्व­म­ङ्गी­कृत्य विचारे प्रयुज्यमानो दृश्यत इत्याह -
उच्यत इति ।

नायमिति ।

पाणिनिस्मरणं नास्तीत्याह -
नापि स्मरणमस्तीति ।
न चाव­य­वा­र्थे­ने­त्य­स्या­य­मर्थः - क्लृप्ता­व­य­व­श­क्त्या­व­य­वा­र्था­भि­धा­न­द्वा­रेण लक्षणया विव­क्षि­त­वि­चा­रा­र्थत्वे सम्भवति सति समुदायस्य विचारे शक्तिर्न कल्पनीयेति ।

अवयवशक्त्या ज्ञाने­च्छा­भि­धा­न­द्वा­रेण लक्षितविचारे प्रयोगः । न तु समु­दा­य­श­क्ति­सि­द्धावेवेत्य­भि­प्रे­त्याह -
न अन्य­था­सि­द्ध­त्वा­दिति ।

विचा­र­स्या­व­य­वा­र्थ­त्वा­भावे कथमवयवशक्त्या जिज्ञासाशब्दस्य विचारे प्रयोग इति चोदयति -
कथ­म­न्य­था­सि­द्धत्वमिति ।

विचा­र­स्या­व­य­वा­र्थ­त्वा­भा­वेऽपि अव­य­वा­र्थ­सं­स­र्गा­वि­ना­भा­वा­दपि विचारे लक्षणया प्रयो­ग­प्र­त्य­यो­प­पत्तौ न समुदाये शक्तिकल्पना, अन­न्य­था­सि­द्ध­का­र्या­भा­वा­दिति परिहरति -
अन्तर्णीतेति ।
स्वाभि­धे­य­ज्ञा­ने­च्छा­सं­स­र्गा­वि­ना­भू­त­वि­चा­रा­र्थ­त्वा­दि­त्यर्थः ।

ज्ञानेच्छयोः संसर्गेण कथं विचा­र­स्या­वि­ना­भाव इत्याशङ्क्याह -
तथाहीति ।
विधेः प्रागर्थज्ञानं जातं चेत्तस्य प्राप्तत्वात् इच्छा न सम्भवति । न जातं चेद­र्थ­स्या­प्र­ति­प­न्न­त्वात् अर्थविषयकज्ञानस्यापि अप्रतिपत्तेः तद्विषयेच्छा न सम्भवति, अन­व­ग­त­वि­ष­ये­च्छाऽ­यो­गात् । अतो वाक्यजज्ञानेन प्रतिपन्नेऽर्थे सन्दिग्धे निश्चयफलं परोक्षे अपरोक्षफलं ज्ञानमिष्यत इति वक्तव्यम् । तच्च इष्यमाणं स्वस्ये­च्छा­मा­त्र­ज­न्य­त्वा­यो­गात् इच्छायाश्च स्वयमेव ज्ञान­हे­तु­त्वा­यो­गाच्च इच्छा­न­न्त­र­भा­वि­ज्ञा­न­पू­र्व­भाविप्रमा­णा­दि­वि­चा­र­प्र­य­त्न­ज­न्य­मि­त्य­भ्यु­पे­य­मत इष्यमाणज्ञानं प्रमा­णा­दि­वि­चा­र­म­वि­ना­भा­वेन गमयतीति विचा­र­सा­ध्य­ज्ञाने प्रयो­ग­प्र­त्य­या­विति भावः । उपदेश इति वेद उच्यते ।

तेनेति ।
विचा­र­वि­ष­य­स­मु­दा­य­श­क्त्य­भा­वा­दे­वे­त्यर्थः ।

अवयवशक्त्या प्राप्ता­र्था­भि­धा­न­द्वा­रेण लक्षणया विचारार्थत्वात् अखण्डरूपोऽपि..... विष­य­श­क्ति­क­ल्प­ना­भा­वेऽपि अनधिकार्यत्वात् इति भाष्यमसङ्गतम् , अव­य­वा­र्थ­भू­त­ब्र­ह्म­ज्ञा­न­यो­र्ल­क्ष्य­वि­चा­रस्य चार­भ्य­त्वा­दि­त्याह -
नन्वेवमपि कुत एतदिति ।
लक्ष्या­र्थ­त्वात् विचारस्य गुणत्वमुच्यते । ब्रह्म­त­ज्ज्ञा­न­योश्च इच्छा­वि­शे­ष­ण­त्वात् गुणत्वमुच्यत इति प्रयोजनवत्वात् त्रया­णा­म­र्थ­रू­पेण प्राधा­न्य­मु­च्यते । शब्दतो गुणत्वेऽप्यर्थ लक्षणेन प्राधा­न्ये­ना­न्त­र्णीतं विचा­र­मा­श्रि­त्येति सम्बन्धः । लक्षितविचारस्य ब्रह्म­त­ज्ज्ञा­न­योश्च आर­म्भ­यो­ग्य­त्वात् अन्य­त­म­स्या­धि­क्रि­य­मा­णत्वं आर­भ्य­मा­ण­त्व­म­ङ्गी­कृ­त्या­धि­का­रा­र्थ­त्व­मा­र­भ्यत्वं किमिति न गृह्यत इति योजना । येनेतिऽअर्थतः प्राधा­न्या­न­ङ्गी­का­रे­णे­त्यर्थः ।

अथशब्देन विचा­र­स्या­न­न्त­र्या­भि­धा­न­मु­खेन विचारं प्रति पुष्कलकारणत्वेन वेदो­क्त­सा­ध­न­स­म्प­न्नस्य वेदो­क्ता­धि­का­रि­वि­शे­षस्य न्यायतः समर्पणाभावे अथशब्दस्य विचा­रा­र­म्भा­र्थत्व एव कर्तव्यतया विधीयमानो विचा­रोऽ­धि­का­र्य­भा­वा­दे­वा­न­नु­ष्ठेयः स्यादिति परिहरति -
उच्यत इति ।

अना­र­म्भ­प्र­स­ङ्गा­दिति ।
शास्त्रा­ख्य­वि­चा­रस्य अन­नु­ष्ठा­न­प्र­स­ङ्गा­दि­त्यर्थः ।

अप्रयोजनमिति ।
अथशब्देन सम­र्पि­ता­धि­का­र्या­भा­वात् तेनानुष्ठिततया प्रयोजनपर्यन्तं न भवेदित्यर्थः ।

कस्याधिकार उच्येत इति ।
शास्त्र­स्या­र­म्भा­न­र्हत्वे सत्यथशब्देन कस्यारम्भ उच्येत इत्यर्थः ।

अथ­श­ब्दे­ना­धि­का­रि­प्र­ति­प­त्त्य­भा­वेऽपि अर्थवादगतमोक्षं ज्ञानं वा प्रयोजनम् , रात्रि­स­त्र­न्या­येन साध्यत्वेन परिणामस्य मोक्षकामो ब्रह्मज्ञानकामो वा विचा­र­ये­दि­त्य­धि­का­रि­वि­शि­ष्ट­वि­धि­प्र­ति­पत्तेः, तेनानुष्ठेयत्वं विचारस्येति चोदयति -
ननु ब्रह्मज्ञानमिति ।

तज्ज्ञा­न­प्र­यो­ज­न­त्वात् तेन प्रेरिततया सर्वेषां विचारे अधि­का­रि­त्वे­ना­न्वय इति विकल्प्य फला­भि­ला­ष­मा­त्रात् चेत् ब्रह्म­ज्ञा­ना­न­न्दा­वा­प्ति­प­रि­तृ­प्त­ते­त्या­द्य­र्थ­वा­दस्तु फलानामथशब्देन आन­न्त­र्या­भि­धा­न­मु­खेन न्यायेन उप­पा­द­ना­न­ङ्गी­का­रात् अनु­प­प­न्न­प्र­यो­ज­नेऽ­र्थि­त्वा­नु­प­प­त्तेर्न तत् कामि­ना­म­धि­का­रि­त्वेन अन्वय इत्याह -
न ब्रह्म­ज्ञा­नेऽ­र्थि­त्वा­नु­प­प­त्ते­रि­त्या­दिना ।
अनुषङ्गः सम्बन्ध इत्यर्थः ।

परितृप्तेः प्रयो­ज­न­त्व­सि­द्धये सक­ल­का­म­नि­वृ­त्ति­रू­पत्वं दर्शयति -
परितृप्तः किं कामयत इति ।

अन्यस्य कामित्वस्याभावे श्रुतिमाह -
तथा च श्रुतिरिति ।
आत्मकामः स्वरू­प­भू­त­का­मि­त्व­वा­नि­त्यर्थः ।

आत्म­का­म­त्वा­दा­प्त­कामः, आत्मनोऽन्यस्य लभ्यस्याभावे स्मृतिमाह -
आत्मलाभादिति ।

शृगालत्वं स इच्छतीति ।
विषयत्वे लभ्यत इति भावः ।

अध्ययनविधेः त्रैव­र्णि­का­धि­का­र­त्वात् अर्थ­ज्ञा­ना­ख्य­फ­ल­सि­द्धये अध्य­य­न­वि­धि­प्र­यु­क्त­त्वाच्च विचारस्य विधित एव सर्वाधिकारं शास्त्रमिति चोदयति -
मा भूदिति ।
अतो ज्ञानसाधनविचारे अध्ययनविधिः अधिकारिणः प्रेरक इति भावः । तत्र किं विचा­र­सा­ध्य­ज्ञा­न­म­ध्य­य­न­स्या­न्व­य­व्य­ति­रे­क­सि­द्ध­तया दृष्टफलं किं वा अध्ययनविधेः प्रयो­ज­न­प­र्य­न्त­ता­नु­प­प­त्ति­लभ्यं फलं किं वा अर्थ­ज्ञा­न­का­मोऽ­ध्य­यनं कुर्यादित्यर्थः ।

ज्ञानमुद्धिश्य विधानात् अधि­का­रि­वि­शे­ष­ण­तया शास्त्रीयं फलमिति बहिर्विकल्प्य न तावद् दृष्टफलं विचा­र­सा­ध्य­ज्ञा­ना­द­र्श­नात् आपातदर्शनस्य च अध्य­य­ना­न­न्त­र­भा­विनो विचा­रा­न­पे­क्ष­त्वा­दि­त्य­भि­प्रेत्य प्रथमविकल्पं दूषयति -
स्यादेतदेवमिति ।

द्वितीय विकल्पं दूषयति -
सा हीति ।
अवाप्तिः अक्षरग्रहणमिति च वेदस्य स्वाधी­नो­च्चा­र­ण­क्ष­मत्वं नाम वेदगतो धर्म उच्यते । अध्येतव्य इति तव्यप्रत्ययेन स्वाध्या­योऽ­वा­प्तव्यः । संस्का­र्य­श्चे­त्य­वा­प्ति­रू­प­दृ­ष्ट­फ­ल­वि­शि­ष्ट­तया संस्का­रा­ख्या­दृ­ष्ट­फ­ल­तया च स्वाध्या­य­स्या­भि­धा­नात् शब्दफलसम्भवे सति अर्थज्ञानफलं नाभ्युपेयमिति भावः ।

अक्षरग्रहणं निष्प्रयोजनमिति ।
साध्यरूपत्वेऽपि अपु­रु­षा­र्थ­मि­त्यर्थः ।

भवतु तर्हि सक्तूनां गतिरिति ।
अवा­प्त­स्वा­ध्या­य­स्या­फ­ल­त्वात् स्वाध्या­ये­ना­ध्य­यनं स्वर्गाय कुर्यादिति निर्वाहः स्यादित्यर्थः ।

अर्था­व­बो­ध­द­र्श­नात् इति ।
अवा­प्ता­क्ष­रेभ्यो अर्था­व­बो­धा­ख्य­दृ­ष्ट­फ­लस्य दर्शनात् न सक्तुन्यायेन अदृष्टफलाय विधिरित्यर्थः ।

अर्थावबोधस्यापि सुखत्वाभावात् पारम्पर्येण सुखहेतुत्वादेव पुरुषार्थत्वे वक्तव्ये अक्ष­र­ग्र­ह­ण­स्यापि तदस्त्येवेति तव्यप्रत्ययेन श्रूय­मा­णा­वा­प्त­स्वा­ध्याय एव प्रयोजनं भवतु इत्याह -
न तर्हीति ।

निष्प्रयोजनानीति ।
अक्ष­र­ग्र­ह­ण­प­र्य­न्त­वि­धि­व्या­पारे फलवदर्थावबोधस्य निमित्तत्वं स्यादिति,

तत्राह -
फलप्रयुक्त एवेति ।
अवा­प्ता­क्ष­र­ब­ला­देव अर्थावबोधो न तु विधिफलमित्यर्थः ।

फल­व­द­र्थ­वि­ष­या­व­बो­ध­फले अध्ययनविधौ यस्य यस्मिन् कर्मण्यधिकारः तस्य तद्वा­क्या­ध्य­य­न­मेव स्यात् न वाक्या­न्त­रा­ध्य­यनं तत्र अर्थ­ज्ञा­ना­न­न्त­र­प्र­वृ­त्त्या­दि­फ­ला­भा­वा­दे­वा­र्थ­ज्ञा­नान्न कृत्स्न­वे­दा­ध्य­य­न­सि­द्धि­रि­त्याह -
अपि चेति ।
अन­धि­कृ­त­क­र्म­वा­क्य­ग­तस्य अध्य­य­न­ज­न्या­पू­र्व­स्या­र्थ­ज्ञा­न­क्र­त्व­नु­ष्ठा­न­द्वा­रेण अपू­र्व­शे­ष­त्वा­भा­वेऽपि प्राय­श्चि­त्त­ज­पा­द्य­पू­र्वो­प­का­रि­त्व­म­स्तीति द्रष्टव्यम् । तत्रावश्यमित्यत्र तत्रेति वक्ष्य­मा­ण­स­त्रा­दि­वा­क्या­ध्य­य­न­म­भि­प्रैति । अर्थ­ज्ञा­न­का­मोऽ­र्थ­ज्ञा­नाय अध्ययनं कुर्यादित्यर्थः ।

ज्ञान­मु­द्दि­श्या­ध्य­य­न­वि­धा­नात् अधि­का­रि­वि­शे­ष­ण­तया शास्त्रीयं फल­म­र्थ­ज्ञा­न­म­ध्य­य­न­स्येति तृतीयमुत्थापयति -
ननु चेति ।

अधिक्रियते अस्मिन् कर्म­ण्य­ने­ने­त्या­धि­कार इति विधि­पु­रु­ष­स­म्ब­न्ध­नि­मि­त्त­जी­व­न­फ­ल­का­मा­दि­रु­च्यते । विश्व­जि­न्न्या­येन स्वर्गफलं परिकल्प्य स्वर्ग­का­मोऽ­धि­कारी कल्प्यत इत्याशङ्क्य दृष्टफलसम्भवे तथा न कल्प्यमित्याह -
दृष्टश्चेति ।

कल्प­ना­म­धि­का­र­स्येति ।
कामितया विधि पुरु­ष­स­म्ब­न्ध­नि­मि­त्त­फ­लस्य कल्पनां निरु­न्ध­न्नि­त्यर्थः ।

स्वय­म­धि­का­र­हे­तु­रिति ।
कामिततया विधि­पु­रु­ष­स­म्ब­न्ध­हे­तु­रि­त्यर्थः ।

अर्था­व­बो­धा­या­ध्य­यने विहितेऽपि अध्ययनविधिना विचारो न विधीयत इति तत्राह -
दृष्टा­धि­का­रे­ष्विति ।
दृष्टफलेषु विधिरित्यर्थः । अधिकारसिद्धिः नियोगसिद्धिः फलं दृष्ट्वैव भवतीत्यर्थः ।

किं विहिताध्ययनस्य फल­भू­ता­वा­प्त­स्वा­ध्या­य­सा­म­र्थ्यात् विचारव्यवधानेन वा अर्थ­ज्ञा­नो­त्पत्तेः अर्थ­ज्ञा­न­म­ध्य­य­नस्य फलमित्युच्यते, किं वा अर्था­व­बो­ध­का­मोऽ­र्था­व­बो­धा­या­ध्य­यनं कुर्यात् इति विधानात् अध्य­य­न­फ­ल­मि­त्यु­च्यत इति बहिः विकल्प्य प्रथ­म­वि­क­ल्पोऽ­ङ्गी­कृत इत्याह -
अत्रोच्यत इति ।

अध्ययनात् प्राक् प्रतिपन्नतया कामितत्वेन तदुद्देशेन विधानं स्यात् , वेदार्थस्य तु प्राग­प्र­ति­प­न्न­तया तद्वि­शे­षि­त­ज्ञा­न­स्यापि अप्रतिपन्नत्वादेव कामितत्वायोगात् नार्थ­ज्ञा­न­मु­द्दि­श्या­ध्य­य­न­वि­धा­न­मिति नाध्य­य­न­फ­ल­म­र्थ­ज्ञा­न­मिति द्वितीयविकल्पं दूषयति -
नाधिकारहेतुतेति ।
अर्थज्ञानस्य कामिततया पुरुषस्य विधौ नियोज्यत्वेन सम्बन्धहेतुता नास्तीत्यर्थः ।

प्राक् चाधिकारज्ञानेन प्रयोजनमिति ।
प्राक्त­ने­ना­धि­का­रा­ख्य­फ­ल­वि­ष­य­ज्ञा­नेन हि तदुद्देशेन विधा­ना­ख्य­प्र­यो­जनं स्यादित्यर्थः ।

अध्ययनात् प्राक् अर्थ­ज्ञा­ना­ख्य­फ­ल­वि­ष­य­ज्ञा­न­म­स्ती­त्या­श­ङ्क्याह -
प्राक्चेति ।
प्राक्चा­धि­का­र­ज्ञाने प्राक् फल­रू­पा­र्थ­ज्ञा­न­वि­ष­य­ज्ञाने सिद्धे न प्रयोजनं फल­रू­पा­र्थ­वि­ज्ञा­न­वि­शे­ष­ण­तया अर्थस्य ज्ञातत्वात् अर्थज्ञानार्थं न विधिना प्रयो­ज­न­मि­त्यर्थः । दृष्टा­धि­का­र­त्वेन दृष्ट­प्र­यो­ज­न­त्वे­नेति यावत् ।

इदा­नी­म­ध्य­य­न­वि­धे­र्नि­त्या­धि­का­रिणा सह साधिकारितां प्रतिपादयितुं अधि­का­रि­वि­शे­ष­णा­भा­वात् अधिकार्यभावात् अनध्ययनमेवेति अध्य­य­न­प्र­वृ­त्ति­मा­क्षि­पति -
यद्येवमिति ।
अधिकाराश्रवणात् अधि­का­रि­वि­शे­ष­णा­श्र­व­णा­देव अधि­का­र्य­भा­वा­दि­त्यर्थः ।

तस्य चाधि­का­र­हे­तु­त्वा­न­भ्यु­प­ग­मात् इति ।
अर्थज्ञानस्य कामिततया पुरु­ष­वि­शे­ष­ण­त्वेन पुरुषस्य नियोज्यतया विधि­स­म्ब­न्ध­हे­तु­त्वा­न­भ्यु­प­ग­मा­दि­त्यर्थः ।

अन्यतः प्राप्ता­नु­ष्ठा­ना­ध्य­य­न­वि­ष­य­त्वा­द­धि­का­रिणः परिकल्प्य न प्रवर्तयति अध्ययनविधिरिति प्राभाकराणां मतमाह -
अत्र केचिदाहुरिति ।

‘अष्टवर्षं ब्राह्म­ण­मु­प­न­यीत’, ‘तमध्यापयीत’, इति विधिः आचा­र्य­क­र­ण­वि­धि­रि­त्यु­च्यते । अध्या­प­न­वि­धि­वि­ष­य­त­द­ङ्ग­ता­भा­वेऽ­ध्य­य­नस्य स्वत­न्त्र­वि­ध्य­न्त­र­वि­हि­तस्य कथं स्वत­न्त्र­वि­ध्य­न्त­र­प्र­यु­क्ता­नु­ष्ठा­न­तेति तत्राह -
आधानस्येवेति ।
कामनैव दर्श­पू­र्ण­मा­सा­दि­वि­धि­स­ह­का­रि­तया यथा आधानमनुष्ठापयति तथा आचार्यकरणकामनैव आचा­र्य­प्रे­र­ण­द्वा­रे­णा­ध्य­यनं माणवकेन निर्वर्तयति अध्या­प­न­सि­द्ध्य­र्थ­मि­त्यर्थः ।

नित्याधिकारेण साधिकारतया अध्ययनानुष्ठा­प­क­त्व­म­ध्य­य­न­वि­धे­र्व­दि­तु­माह -
तदयुक्तमिति ।

स्वनियोगं प्रति­प­द्या­नु­ष्ठा­तु­म­स­म­र्थ­मा­ण­व­कस्य नित्या­धि­का­रि­त्व­क­ल्प­न­म­यु­क्त­मि­त्याह -
कथमिति ।

आचा­र्य­क­र­ण­वि­धिस्तावत् नाविहितमध्ययनं प्रयुङ्क्ते, अध्य­य­ना­न­धि­का­रिणं शूद्रादीनां तत्र प्रयोजनशून्यतया आचार्यगुणभावेन प्रवृ­त्त्य­यो­गात् । अथ विहितमेवाध्ययनं प्रयोजयति । तर्हि अस्यायं विधिरिति विधि­स्व­रू­प­नि­र्ण­याय अधिकारित्वेन माणवकस्यान्वयो वक्तव्यः, अन्यथा अध्ये­तृ­वि­शे­षा­प­रि­ज्ञा­नात् यं कञ्चि­द­ध्या­प­ये­दि­त्याह -
अष्टवर्षमिति ।

यद्ययमाचार्यस्य नियोग इति ।
यद्ययमाचार्यकरणकामस्याध्यापने नियोग इत्यर्थः, माणवको न नियुक्तो भवतीति अध्ययनविधेः साधिकारत्वेन अनु­ष्ठा­प­क­त्वा­भावे माण­व­क­स्या­व्या­पारे अध्ययनविधिना प्रवर्तितो न भवतीत्यर्थः ।

अनियुक्तस्येति ।
अध्ययनविधिना अप्र­व­र्ति­त­स्ये­त्यर्थः । तस्माद्यं कञ्चि­द­ध्या­प­ये­दिति भावः ।

किं च द्रव्या­र्ज­न­फ­ल­तया काम्य­वि­धि­त्वा­द­नि­त्येन अध्यापनविधिना नित्य­स्या­ध्य­य­नस्य अनु­ष्ठा­ना­ङ्गी­कारे कामनोपरमे अध्या­प­नो­प­र­मा­न्नि­त्या­ध्य­यनं सम्पादयितुं न शक्यमित्याह -
किं चान्यदिति ।

वृत्त्य­र्थोऽ­धि­कार इति ।
जीव­ना­र्थ­म­धि­कारोऽपीत्यर्थः ।

अध्ययनस्य नित्यत्वसिद्धये तद­ङ्ग­भू­तो­प­ग­म­नस्य नित्यत्वमाह -
उप­न­य­ना­ख्य­स्त्विति ।
उपगमनाख्य इत्यर्थः ।

अत ऊर्ध्वमिति ।
उप­न­य­न­स्यो­क्त­का­ला­दू­र्ध्व­मि­त्यर्थः । त्रयोऽपि ब्राह्म­ण­क्ष­त्रि­य­वैश्या इत्यर्थः । व्रात्या संस्कारहीना इत्यर्थः । कर्हिचित् कदाचिदपीत्यर्थः । ब्राह्मान् वेदा­ध्य­य­ना­ध्या­प­ना­दी­नि­त्यर्थः ।

एवं चेति ।
अङ्गस्य नित्यत्वे सिद्धे सतीत्यर्थः ।

अङ्ग­भू­त­सं­स्का­र­नि­त्य­ता­ख्य­हेतुं विना अङ्गि­नोऽ­ध्य­य­न­स्यैव नित्यत्वे हेत्व­न्त­र­मु­च्यते -
तथा च निन्दाश्रवणमिति ।
अश्रोत्रियाः एक­शा­खा­ध्य­य­ने­नापि हीना इत्यर्थः ।

काम्यत्वेऽपि आचार्यकरणविधेः नित्य­स­मी­हि­त­फ­ल­त्वात् स विधिः नित्य एव ततश्च न नित्या­नि­त्य­वि­रोध इति चोदयति -
ननु कथमिति ।

जीवनाख्यफलस्य च नित्य­स­मी­हि­त­त्व­म­ङ्गी­कृत्य परिहरति -
भवेदेवं नित्यतेति ।
अव­श्य­क­र्त­व्य­ता­भावे इत्यर्थः ।

न शब्दादिति ।
शब्दा­द­व­श्य­क­र्त­व्यता प्रति­प­त्ति­र्ना­स्ती­त्यर्थः ।

जीवने नित्यकामनया तत्साधनधनेऽपि कामना नित्या स्यात् तद­र्थ­मा­चा­र्य­त्व­का­मना तदर्थमुपनेतृत्वा­ध्या­प­यि­तृ­त्व­का­म­ने­त्येवं फलकामनाया नित्यत्वात् तन्नि­मि­त्ता­ध्या­प­नेऽ­व­श्य­क­र्त­व्य­ता­प्र­तीतिः न शब्दादित्याह -
तथाहि, फलस्येति ।
वास्तवी फल­व­स्तु­सा­म­र्थ्य­नि­ब­न्ध­ने­त्यर्थः ।

असति शब्दव्यापार इति ।
शब्दस्याध्यापने अवश्यकर्तव्यता बोधनव्यापारे असति फले­च्छा­नि­मि­त्त­सा­ध­ने­च्छया अध्या­प­नेऽ­व­श्य­क­र्त­व्य­ता­प्र­ति­पत्तिः स्यादित्यर्थः ।

न कर्त­व्य­ता­प्र­ति­प­त्ते­रि­च्छेति ।
शाब्दा­व­श्य­क­र्त­व्य­ता­प्र­ति­पत्त्या साधनेच्छा न भवतीति स्यादित्यर्थः ।

अध्यापने फलसाधनकामनाधीना कर्त­व्य­ता­प्र­ति­प­त्ति­रि­त्येकः पक्षः । पक्षान्तरे तु अध्यापने शाब्द­क­र्त­व्य­ता­प्र­ति­प­त्त्य­धीना फलसाधनेच्छेति वैषम्येऽपि अध्यापने नित्य­क­र्त­व्य­ता­प्र­ति­प­त्तिर्न विशिष्यत इत्याशङ्क्य विशेषमाह -
शाब्द्यां हीति ।

तथैव स्यादिति ।
इच्छाप्यवश्यं भवत्येवेति स्यादित्यर्थः ।

शाब्द­नि­त्य­क­र्त­व्य­ता­धी­नापि इच्छा क्वचिद्देशे काले वस्तुनि च कार­क­सा­म­र्थ्या­भा­वा­दि­व­शे­नौ­चि­त्यात् प्रतिहन्यते, तत्र कथं नित्य­क­र्त­व्य­ता­धी­न­नि­त्ये­च्छा­द्वा­रेण नित्य­व­द­नु­ष्ठा­न­मिति तत्राह -
औचि­त्या­दि­भा­वेऽ­पीति ।
प्रमा­ण­त­स्ता­व­न्नि­त्योऽ­ध्या­प­न­विधिः प्रत्यवायभयादिव याव­च्छ­क्य­मि­च्छादिद्वारे­णा­धि­का­रि­ण­म­नु­ष्ठा­प­य­ती­त्यर्थः । फलवशात्तु तत्क­र्त­व्य­ता­प्र­ति­पत्तावित्य­त्रा­नि­त्यैव सा स्यादि­त्य­ध्या­हारः ।

फलस्य नित्य­स­मी­हि­त­त्वात् अध्यापने कर्त­व्य­ता­प्र­ति­प­त्ति­नि­मि­त्त­का­मोऽपि नित्य एवेत्यतः कर्त­व्य­ता­प्र­ति­प­त्ति­रपि नित्यैव स्यादित्यत आह -
यद्यपीति ।

उपायान्तरादपीति ।
वाणि­ज्य­कृ­षि­से­वा­दि­नापि द्रव्य­सि­द्धे­र­ध्या­प­न­क­र्त­व्य­ता­प्य­नि­त्यैव स्यादित्यर्थः ।

कस्य­चि­दु­पा­या­न्त­रा­स­म­र्थस्य तदेकोपायत्वात् अध्यापने नित्यकर्तव्यता स्यादित्यत आह -
तदे­को­पा­य­त्वेऽ­पीति ।

अनुशासनस्य उप­न­य­ना­ध्या­प­ना­र्थ­ज्ञानसम्पा­द­ना­र्था­नु­ष्ठा­पनरूपत्वं तस्मादिति वाक्यस्य पुत्रो­त्पा­द­न­वि­धि­शे­ष­त्व­म­नु­शा­स­न­वि­धा­य­कत्वं च मन्वानः स्वतो नित्य­त्वा­भा­वेऽपि नित्य­पु­त्रो­त्पा­द­न­वि­धि­शे­षा­नु­शा­स­न­तया उपनयनाध्यापनयोः नित्यत्वात् नित्या­ध्य­य­न­प्र­यो­ज­क­त्व­मु­प­प­द्यत इति चोदयति -
ननु पितुरिति ।

पुत्रो­त्पा­द­न­वि­धि­शे­ष­तया अनु­शा­स­न­वि­धा­य­क­त्वे­ना­भि­मतं वाक्यमाह -
तस्मा­त्पु­त्र­मिति ।

लोक्यमिति ।
जनकस्य लोकप्राप्तिं प्रति हेतुमित्यर्थः ।

कथं वा अध्ययनस्येति ।
अर्थ­ज्ञा­न­स­म्पा­द­न­स्या­प्य­नु­शा­स­ना­न्त­र्भू­त­त्वा­दिति भावः ।

पुत्रो­त्पा­द­न­विधेः पुत्रकृतकर्मणा पितॄणां तृप्ति­रू­प­फ­ल­प­र्य­न्त­त्वा­नु­प­पत्त्या पूर्वमेव प्राप्ता­नु­शा­स­ना­नु­वा­देन सम्प्र­ति­क­र्म­वि­धे­र­र्थ­वा­द­त्व­मस्य वाक्यस्येत्याह -
उच्यत इति ।

अथातः सम्प्रत्तिर्यदा प्रैष्यान् मन्यते, अथ पुत्रमाह त्वं ब्रह्म, त्वं यज्ञस्त्वं लोक इत्यहं ब्रह्माहं यज्ञोऽहं लोक इत्यनेन सम्प्र­त्ति­क­र्म­वि­धि­वा­क्ये­नोक्तं वेद­त­द­र्थ­त­त्फ­लानां पितु­र­नु­ष्ठे­यानां पित्रा पुत्रे समर्प्यमाणानां पुत्रे­णा­नु­ष्ठे­य­तया स्वीकरणं सम्प्र­त्ति­क­र्मे­त्यु­च्यते ।
पितॄणामिति ।
परलोकं गतानामिति भावः ।

अनुष्ठानेनेति

त्राणमिति ।
त्राणमनेन तृप्ति­स­म्पा­द­न­मि­त्यर्थः ।

तदनुष्ठानं सम्भवतीति ।
पुत्रस्येति भावः ।

अधिकारं परिसमापयितुमिति ।
नियोगं निष्पादयितुं प्राप्त­म­नु­शा­स­न­मि­त्यर्थः । उपनयनाध्यापनात् व्यतिरिक्तं पुत्र­स्या­व­श्य­क­र्त­व्या­र्थो­प­दे­श­न­मिति अनुशासनस्य स्वरूपमाह ।

पुत्र­स्या­व­श्य­क­र्त­व्या­र्थो­प­दे­श­न­मे­वा­नु­शा­सनं नोप­न­य­ना­द्य­नु­ष्ठा­प­न­मिति कथमवगम्यत इति तदाह -
तथा च लिङ्गमिति ।
अननूच्य अध्य­य­न­म­कृ­त्वे­त्यर्थः ।

ब्रह्म­ब­न्धु­रि­वेति ।
द्विजाधम इवेत्यर्थः ।

माण­व­क­स्या­ध्य­य­ना­नु­ष्ठा­प­न­नि­यो­गा­न­ङ्गी­क­र­णात् स्वनियोगेनैव प्रेर्यमाणः स्वनियोगं निष्पा­द­यि­तु­मा­चार्ये प्रेते आचार्यान्तरं सम्पादयतीति न वक्तुम् , शक्यं नाप्याचार्यनियोगं सम्पादयितुं आचार्यान्तरं सम्पादयति । नियोगप्रतिपत्तुराचार्यस्य मृतत्वात् । स्वस्य च कर्तव्यतया अप्र­ति­प­न्न­त्वात् अक­र्त­व्य­नि­यो­ग­नि­ष्पा­द­नाय आचा­र्या­न्त­र­स­म्पा­द­ना­यो­गात् अध्या­प­न­वि­धि­प्र­यु­क्ता­नु­ष्ठा­न­म­ध्य­य­नस्य न सम्भवतीत्याह -
किं चाचार्ये प्रेत इति ।

न च अधिकारी प्रतिनिधीयत इति ।
अधिकारिणि स्थिते अस्या­व­श्य­क­र्त­व्य­नि­यो­गस्य अननुष्ठाने प्रत्यवायात् तदनुष्ठानाय मुख्याभावे प्रति­नि­धि­रा­दी­यते । अधिकार्यभावे अव­श्य­क­र्त­व्य­ताया अप्र­ति­प­न्न­त्वात् तन्निष्पादनाय नाधिकारी प्रतिनिधीयत इत्यर्थः ।

नाप्यधिकार इति ।
विधि­पु­रु­ष­स­म्ब­न्ध­नि­मि­त्त­मपि न प्रतिनिधीयत इत्यर्थः ।

प्रति­नि­ध्यु­पा­दा­नस्य न क्वाप्यवकाश इति स्यादिति तत्राह -
अधिकारी स्वाधि­का­र­सि­द्ध्य­र्थ­मिति ।
स्वनि­यो­ग­सि­ध्य­र्थ­मि­त्यर्थः ।

स्ववि­धि­प्र­यु­क्तत्वे सति उप­ग­म­ना­ध्य­य­न­यो­स्त­त्प्र­युक्ततयैव उप­न­य­ना­ध्या­प­न­सि­द्धे­स्तत्र विधा­न­म­न­र्थ­क­मि­त्या­शङ्क्य नायं प्रयो­ज­क­व्या­पा­र­यो­र्विधिः किन्तु उपगमनाध्ययनयोः कर्तृ­व्या­पा­र­यो­र्वि­धि­रि­त्याह -
तस्मा­न्मा­ण­व­क­स्यै­वैष नियोग इति ।

अध्यापयीतेति णिज­र्थ­प्र­यो­ज­क­व्या­पा­र­सं­सृ­ष्ट­स्वा­र्था­भि­धा­यिनि विधिपदे प्रधा­न­क­र्तृ­व्या­पारे अध्ययने विधिसंसर्गो वाक्य­प्र­मा­ण­वि­रुद्ध इति चोदयति -
कथं गुण­क­र्तृ­व्या­पा­र­स­म्बद्ध इति ।
कर्तेति प्रयो­ज­क­क­र्ते­त्यर्थः ।

प्रधानकर्तृस्थो भवतीति ।
प्रधा­न­क­र्तृ­व्या­पा­रस्थो भवतीत्यर्थः ।

किं न्यायविरोध उच्यते किं वा शब्दविरोधः ? न तावत् शब्दविरोधः अन्यत्रापि दर्शनादित्याह -
यथा एतयेति ।

नापि न्यायविरोधः । प्राप्ता­नु­वा­दे­ना­प्रा­प्त­वि­धा­ना­दि­त्याह -
ग्रामकामस्य यागो विधीयत इत्यादिना ।

अध्यापनयाजनयोः कर्तृ­प्र­यो­ज­क­व्या­पा­र­द्व­या­व­ग­मात् अन्यतरानुवादेन अन्यतरो विधीयत इति युक्तम् , उपनयने तु नयतिधात्वर्थस्य प्रयो­ज­क­व्या­पा­र­त्वात् अनभिधीयमानः कर्तृव्यापारः कथं विधीयत इति चोदयति -
युक्तं याजयेदित्यादिना ।

ननु उपनयने मा भून्मा­ण­व­क­व्या­पा­र­विधिः, अध्ययने तु भविष्यतीति, तन्न वाक्य­सा­रू­प्या­दि­त्य­भि­प्रे­त्याह -
तदेवमिति ।

नात्रा­धि­का­र­चि­न्त­येति ।
अध्य­य­न­वि­धा­वि­त्यर्थः ।

प्रयो­ज­क­व्या­पा­रा­भि­धा­यि­नापि नयतिधातुना माणवकव्यापारस्य उपगमनस्य अन­भि­धी­य­मा­न­स्यापि गम्यमानत्वात् , स एव धातुना लक्षणयोपादाय विधीयते न प्रयोजकव्यापारः स्वयं प्राप्तेरिति परिहरति -
उच्यत इति ।

माणवकव्यापारो गम्यमानतया वा कथं प्रतीयते ? कथं वा प्रयोजकव्यापारः प्राप्तानुवाद ? इति चोदयति -
कथम् , यत्तावदिति ।

माणवकव्यापारस्य गम्य­मा­न­ता­मु­प­पा­द­यितुं प्रथ­म­मा­चा­र्य­व्या­पा­रस्य विधे­य­ता­मु­प­पा­द­यति -
उप­न­यी­ते­त्य­स्येति ।

नयतेः पर­स्ता­दा­त्म­ने­प­दात् प्राप्तमर्थमाह -
आत्मानमाचार्यं कर्तुमिति ।

उप­न­य­श­ब्द­न्या­याभ्यां प्राप्त­मा­चा­र्यस्य प्राधा­न्या­पा­द­क­स्व­स­मी­पा­न­य­ना­ख्य­व्या­पा­र­व­त्व­माह -
कञ्चिदात्मसमीप इति ।
बालानक्षराणि शिक्षयन् लौकिकः पुरुषो बालगुण भावेन तत्र न गच्छति किन्तु बालानेव स्वय­मा­त्म­गु­ण­भा­वेन स्वसमीपं नयति, तद्वदित्ययमत्र न्याय­श­ब्दे­नो­च्यते इति द्रष्टव्यम् ।

प्रयोजकव्यापारं प्राप्त­मे­वा­नूद्य गुण­वि­धि­प­र­म­धि­का­रि­वि­शे­ष­वि­धि­परं वाक्यं किं न स्यादि­त्या­शङ्क्य जीव­ना­दि­नि­त्य­का­म्या­धि­का­र­यो­र­श्र­व­णात् अधि­का­रि­वि­शे­ष­वि­धि­प­र­त्वा­यो­गात् दध्ना जुहोतीत्यादिवत् गुणविधानं परिशिष्यते । तदपि न युक्तमित्याह -
तत्र कमध्यापयेदिति ।
यदा विशेष्योऽपि पदार्थः प्रमीयते तदा नाना­वि­ध­गु­ण­वि­शि­ष्ट­तया स एको विशिष्टपदार्थः प्रमीयत इति न वाक्यभेदः स्यात् । यदा तु विशेष्यमनूद्य विशेषणानि प्रमीयन्ते तदा विशे­ष­णा­ना­म­न्यो­न्य­वि­शि­ष्ट­तया एक­त्वा­प­त्त्य­भा­वात् अन्यो­न्या­न­पे­क्षया प्रत्येकं प्रमेयत्वे प्रमे­य­भे­दा­द्वाक्यं भिद्यत इति भावः ।

विशेषस्येति ।
गुणा­ख्य­वि­शे­ष­ण­स्ये­त्यर्थः ।

प्राप्ते व्यापार इति ।
विशे­ष्य­रू­प­व्या­पारे प्राप्ततया अनूद्यमाने सतीत्यर्थः ।

अर्थद्वयेति ।
ब्राह्म­ण­म­ष्ट­व­र्ष­मि­त्य­र्थ­द्व­ये­त्यर्थः ।

उत्प­त्त्य­धि­का­र­गु­ण­वि­धयः प्रयोजकव्यापारे न सम्भवन्तीति उपसंहरति -
अतो नाचार्यस्येति ।

माण­व­क­व्या­पा­रोऽपि शब्दतो न प्रतीयते इति न तस्य विधेयत्वमिति चोदयति -
ननु माणवकस्यापीति ।

माण­व­क­स्यो­प­ग­म­नस्य शब्दतः प्राप्त्य­भा­वेऽपि गम्यमानत्वात् तस्य नयतिधातुना लक्षणयोपादाय विधेयत्वमस्तीति परिहरति -
अस्तीति ब्रूम इत्यादिना ।

गमनकर्म ग्रामस्येव नयत्यर्थकर्म माणवकस्य गम्यमानव्यापारो नास्तीति चोदयति -
कथमिति ।

आचा­र्य­स­मी­प­दे­श­प्रा­प्ति­रू­प­दृ­ष्टा­ति­श­येन विध्या­य­त्त­न­य­न­ज­न्य­सं­स्का­रा­ख्य­दृ­ष्टा­ति­श­येन च विशिष्टमाणवकस्य द्वितीयया निर्देशात् द्विती­या­श­ब्द­प्रा­प्त­म­र्थ­माह -
संस्कृत्येति ।

यागश्रुताविति ।
यजेतेत्युक्तौ द्रव्येण देवतायै यजेतेति सामान्यतः प्रती­ति­व­दि­त्यर्थः ।

उप­न­य­न­सं­स्का­र्योऽ­पीति ।
उप­ग­न्ता­पी­त्यर्थः ।

तर्हि माणवकस्य गमनं प्रयो­ज­क­व्या­पा­रा­देव विधीयत इत्याशङ्क्य न विधानमन्तरेण सिद्धिरित्याह -
तस्य चेति ।

विधानेऽपि काम्यविधिः स्यादिति नेत्याह -
विद्य­मा­न­स्या­पीति ।

कथं तर्हि विधिरिति ।

परिशेषात् नित्य­वि­धि­रि­त्याह -
विधितोऽवश्येति ।

कथं तर्हि वाक्यं परिणम्यत इति तदाह -
तेनाष्टवर्षमिति ।

अष्ट­व­र्ष­त्व­ब्रा­ह्म­ण­त्व­यो­रे­कैक विशेषणस्य विधि­पु­रु­ष­स­म्ब­न्ध­नि­मि­त्त­त्वा­यो­गात् विशेषणयोश्च पर­स्प­र­वि­शि­ष्ट­ता­भा­वात् एकैकस्य विशे­ष­ण­स्या­भि­धा­निके क्रिया­स­म्ब­न्धेऽपि अरु­णै­क­हा­य­न्या­दि­प­दा­र्थ­वत् पर­स्प­र­वि­शि­ष्ट­तया अधि­का­र­नि­मि­त्तत्वे तस्य निमि­त्त­स्या­श­ब्द­त्व­प्र­स­ङ्गात् सामान्येन गम्यमानस्य उपगन्तुः विशेषणविधिना नियोज्यत्वेन भोक्तृत्वेन कर्तृत्वेन च सम्बन्धनिमित्तं न लभ्यते । अतः सम्बन्धः प्रतिपत्तिश्च न लभ्यत इति चोदयति -
नन्वेवमपीति ।

अधिकारहेतुरिति ।
विधि­पु­रु­ष­स­म्ब­न्धस्य प्रवृत्तेर्वा हेतुरित्यर्थः ।

नित्यमिति ।
जीवतः पुरुषस्य नियतभावीत्यर्थः । न च शाब्दमेव सर्व­त्रा­धि­का­र­नि­मि­त्तम् शाब्दत्वं न विहन्यत इत्याधिकारनिमित्तं जाति­व­यो­वि­शि­ष्ट­म­स्तीति भावः ।

साध्य­नि­यो­ग­वि­ष­य­तया साध्य­क्रि­या­वि­शिष्ट साङ्ग­क­र्मा­नु­ष्ठान साम­र्थ्या­स्या­शा­ब्द­स्या­प्य­धि­कार निमित्तत्वात् । अथवा क्रिया सम्ब­न्धा­भि­धा­न­मु­खे­न­वि­शि­ष्ट­स­म­र्पणे शब्द­द्व­य­ता­त्प­र्य­क­ल्प­नात् अधिकार निमित्तस्य रूपेण कर्तृ­का­र­क­मा­ण­व­क­स्यापि साध्यत्वात् तद्विशेषणस्य जाति­व­य­सो­र­न्यो­न्य­वि­शि­ष्टस्य विधिं प्रति गुणभूतस्य कर्तृ­प्र­धा­न­वि­धि­त­द्वि­शि­ष्ट­क्रियां प्रति स्वामित्वेन भोक्तृ­त­या­न्वि­त­प्र­धा­न­मा­ण­व­क­वि­शे­ष­ण­तया विधिं प्रति प्राधा­न्य­म­यु­क्त­मिति चोदयति -
ननु जातिवयसीति ।

उपा­दे­य­मि­त्य­नु­ष्ठेयं साध्यं निर्दिश्यते -
अनुपादेयमिति ।

विधि­प्र­यु­क्ता­नु­ष्ठे­य­त­द्वि­शे­ष­ण­व्य­ति­रे­केण विधिसम्बन्धी निर्दिश्यते -
अधिकारहेतुरिति ।
ममायं नियोग इति स्वामितया अन्वयित्वं तन्नि­यो­ज्य­त्व­म­धि­का­रित्वं नाम भोक्तृत्वं तस्मिन् भोक्तृत्वे निमि­त्त­मि­त्यर्थः ।

नियो­ग­वा­क्या­र्थ­पक्षे प्रथमं ममायं नियोग इति भोक्तृ­त्वे­ना­न्वि­तस्य पश्चात् कर्त्रन्वय इत्यभ्युपगमात् अनुवादेन विशे­ष­ण­म­धि­का­र­हे­तु­रि­त्यु­क्त­म­स्त्येव इत्यङ्गीकरोति -
सत्यमस्तीयं स्थितिरिति ।

भाव­ना­वा­क्या­र्थ­पक्षे कर्त्रन्वयस्य प्राथ­म्या­दु­पा­दे­य­क­र्तृ­वि­शे­ष­ण­तया विधिं प्रति गुणभूतस्य भोक्तृ­वि­शे­ष­ण­त्वात् तं पक्ष­मा­श्रि­त्यापि माण­व­क­स्यो­पा­दे­यस्य विशेषणमेव अधि­का­रि­त्व­वि­शे­षणं भवतीत्याह -
किन्तु कर्तुरिति ।

इष्ट­सा­ध­न­वा­क्या­र्थ­प­क्षा­ङ्गी­का­रात् अष्टवर्षं ब्राह्मणमिति द्वितीयया उप­न­य­न­ज­न्या­चा­र्य­स­मी­प­दे­श­प्रा­प्ति­रू­प­दृ­ष्ट­फ­लेन तत्स­म­वे­त­सं­स्का­रा­ख्या­दृ­ष्ट­फ­लेन च विशिष्टरूपेण उपगमनकर्तृरूपेण च माणवकः प्रतीयते । तस्मिन्नुपगमने सामान्येन श्रेयःसाधनत्वं विधिपदेन बोध्यते । सामान्यस्य श्रेयसो विशे­षा­का­ङ्क्षायां माण­व­क­ग­त­सं­स्का­रा­ख्य­श्रे­यो­वि­शे­ष­सा­ध­नत्वं तेनैव विधिपदेन प्रतिपाद्यते तस्मिन् हितसाधने प्रथमं ममे­द­म­भि­ल­षि­त­सा­ध­न­मिति माणवको भोक्तृ­त्वे­ना­न्वेति तस्य स्वामिनो भोक्तुरधिकारिणो विशेषणं ब्राह्मण्यादि भवति पश्चात् साध­न­त्व­ध­र्म्यु­प­ग­म­न­क्रि­यायां कर्तृ­त्वे­ना­न्वे­ती­त्येव भोक्त्र­न्व­य­पु­रः­स­र­त्वात् कत्रन्वयस्यानुपादेय विशे­ष­ण­म­धि­का­रि­हे­तु­रिति सिद्ध्यतीत्याह -
किं चेति ।

उपादेय उपनयन इति ।
प्रथममुपगमने कर्तृ­त्वे­ना­न्वि­त­तया उपादेयो न भवतीत्यर्थः ।

तदर्थं विधीयत इति ।
हितसाधनोपगमने प्रथमं स्वामि­त्वे­ना­न्वय उपगमनं माणवकार्थं हितसाधनतया बोध्यत इत्यर्थः

समानमिति ।

भाष्यार्थं विवृणोति -
येन विनेत्यादिना ।

तादृश इति ।
पुष्क­ल­का­र­ण­त्वा­दि­त­र­का­र­ण­स­म्पत्तौ विचारमारभते, असम्पत्तौ स्वयं नारभत इत्या­र­म्भा­ना­र­म्भयोः समानमिति ।

योजनान्तरमाह -
अथवा समानमिति ।

सामर्थ्यं जनयितुमिति ।
विचाराधिकारिण इत्यर्थः । विचा­र­स्या­ध्य­य­न­वि­धि­प्र­यो­ज्य­त्वा­भा­वेऽपि एका­ध्य­य­न­वि­धि­प्र­यु­क्त­स्वा­ध्या­या­ध्य­य­नस्य एक मोक्ष­प्र­यो­ज­नत्वे वक्तव्ये कृत्स्न­वे­दा­र्थ­वि­चा­रस्य एक­फ­ल­प्र­यु­क्त­त्वा­द्ध­र्म­ब्र­ह्म­वि­चा­र­यो­र­न्यो­न्यो­प­का­र्यो­प­का­र­क­भा­वेन एकफलशेषत्वात् उप­का­र­क­ध­र्मा­व­बोधो विशेष इत्यर्थः ।

आन­न्त­र्य­मु­प­का­र्य­ब्र­ह्मा­व­बो­धस्य उच्यत इति चोदयति -
ननु इह कर्मा­व­बो­धा­न­न्त­र्य­मिति विशेष इति ।
अथ शब्देन पुष्कलकारणं किञ्चिदस्तीति सामान्येन समर्पितस्य धर्मावबोधो विशेष इत्यर्थः ।

धर्म­ब्र­ह्म­वि­चा­र­यो­रु­प­का­र्यो­प­का­र­क­भा­वोऽस्ति । तयो­रु­प­का­र्यो­प­का­र­क­भा­वस्य वृत्त्यन्तरे वर्णि­त­त्वा­दि­त्याह -
तथा चेति ।
अधिकारः प्रवृत्तिः अनुष्ठानं संस्कारः फलं कर्म­णा­म­नु­ष्ठा­न­प­र­म्प­रया फलभोगपरम्परया वेत्यर्थः । अथवा संस्कार इति कर्मभिः पुरु­ष­सं­स्का­रोऽ­भि­धी­यते । शब्द इति च पुरषसंस्कारत्वे प्रमाणमुच्यते ।

ताद­र्थ्या­व­ग­मा­दिति ।
ब्रह्म­जि­ज्ञा­सा­शे­ष­त्वा­व­ग­मा­दि­त्यर्थः । अधिगत्यनन्तरं धर्मा­धि­ग­त्या­न­न्त­र्य­म­भि­धत्त इत्यर्थः ।

धर्मा­व­बो­धा­न­न्तरं ब्रह्म­जि­ज्ञा­से­त्य­स्मि­न्नर्थे शास्त्र­का­र­सं­वा­दा­न्त­र­माह -
अन्यै­र­पी­त्या­दिना ।

तत्रेति ।
अथातो ब्रह्म­जि­ज्ञा­सेति सूत्र इत्यर्थः ।

प्रथमसूत्रे वर्णिताविति ।
तस्मान्नान्येन केन­चि­द­ध्या­या­न्तरे सूत्रान्तरे वा प्रकृतेन सङ्ग­ति­र­स्ती­त्यर्थः ।

कस्त­र्ह्य­त्रा­थ­श­ब्दार्थ इति तत्राह -
अथेतीति ।

पूर्व­नि­र्दि­ष्ट­स्यै­वेति ।
अथ­श­ब्द­नि­र्दि­ष्ट­ध­र्म­जि­ज्ञा­साया एवेत्यर्थः ।

कृत्स्न­स्वा­ध्या­या­ध्य­य­नस्य एकफलत्वं कृत्स्न­वे­दा­र्थ­वि­चा­रस्य तत्प्रयुक्तत्वं च तावत्तिष्ठतु, नैतावता धर्म­ब्र­ह्म­जि­ज्ञा­स­यो­रु­प­का­र्यो­प­का­र­क­भाव इत्याह -
न, धर्मजिज्ञासायाः प्रागपीति ।

धर्मावबोधस्य ब्रह्मजिज्ञासां प्रति हेतुत्वमेव नास्तीति भाष्यस्य अभिप्रायमाह -
वेदा­न्ता­ध्य­य­न­मिति ।

धर्मजिज्ञासायां व्युत्प­न्न­वे­द­प्रा­मा­ण्य­प­द­प­दा­र्थ­वा­क्या­र्थ­त­द­पे­क्षि­त­न्याय कलापस्यैव ब्रह्म विचारयितुं शक्यत इति चोदयति -
कथमिति ।

अनुपकारं दर्शयितुं धर्मजिज्ञासां कर­ण­भा­व­क­र्म­व्यु­त्पत्त्या सिद्धार्थरूपेण विभजते -
तत्र तावदिति ।

जिज्ञा­स्य­तेऽ­नेति कर­ण­व्यु­त्पत्त्या सह­स्रा­धि­क­र­ण­सि­द्ध­न्या­य­स­ह­स्र­मेका जिज्ञासेत्याह -
द्वादशलक्षण इति ।

जिज्ञासनं जिज्ञासेति भाव­व्यु­त्पत्त्या धर्म­वि­ष­य­वा­क्या­र्थ­नि­र्ण­य­ज्ञा­न­मपि जिज्ञासेत्याह -
तदनुग्रह इति ।

जिज्ञास्यत इति कर्म­व्यु­त्पत्त्या अर्थ­रू­पा­ग्नि­हो­त्रा­दिकं कर्मापि जिज्ञासेत्याह -
वाक्यार्थश्चेति ।

प्रथ­म­पा­दो­क्त­वे­द­प्रा­मा­ण्या­पे­क्षि­त­न्या­य­क­ला­पस्य अथ­श­ब्द­सू­चि­त­न्या­यस्य च ब्रह्म­जि­ज्ञा­सा­या­मु­प­यो­गेऽपि तस्य प्रथमपादस्य धर्म­ब्र­ह्म­जि­ज्ञा­सयोः साधारणत्वात् तदानन्तर्यं न धर्म­जि­ज्ञा­सा­न­न्त­र्य­मि­त्य­भि­प्रे­त्याह -
तत्र य इति ।

स्वाध्यायस्येति ।
अध्ययनविधेः दृष्टा­र्था­व­बो­ध­फ­ल­प­र्य­न्त­ता­पे­क्षितो न्याय इत्यर्थः । सम्बन्धसङ्केताय पुरु­षा­न­पे­क्षत्वे हेतुः सम्ब­न्ध­नि­त्य­त्वे­नेति । अर्थो­प­ल­ब्धि­पू­र्व­क­वा­क्य­र­च­नाय पुरु­षा­न­पे­क्षत्वे हेतुः अपौ­रु­षे­य­त्वे­नेति ।

तदुभयमिति ।
प्रथ­म­पा­दो­क्त­न्या­य­क­ला­पस्य उपलक्षणमिति द्रष्टव्यम् ।

लोकप्रसिद्धा एव श्रुत्यादय उपादीयन्ते न ते प्रथ­म­त­न्त्र­सिद्धा इति मत्वाह -
इतरस्येति ।
प्रथ­म­त­न्त्र­सि­द्धस्य कार्या­पे­क्षि­त­न्या­य­स्या­न­नु­ष्ठे­य­भू­त­व­स्तु­प्र­ति­पा­दने न उपयोग इत्यर्थः ।

कार्यशेषतया ब्रह्मापि प्रथमतन्त्रे निर्णीतमिति नेत्याह -
यतो न निरस्ताशेष इति ।

गुणोपसंहारपादे विध्य­पे­क्षि­तोऽपि न्याय उपजीव्यत इति तत्राह -
यत्पुनः प्रथ­म­त­न्त्र­सिद्ध इति ।

सगुणविद्यापि विज्ञानमेवेत्यत आह -
तत्र च मानसी क्रियेति ।
क्रियात्वे हेतुः उपासनेत्यादि ।

मा भूद्ध­र्म­जि­ज्ञा­सा­न­न्त­र्य­म­थ­श­ब्दार्थः वेद­प्रा­मा­ण्य­वि­चा­रा­न­न्तर्यं स्यादिति नेत्याह -
यत्पुनः स्वाध्यायस्येति ।

न केवलमिति ।
पुष्कलकारणं न भवतीत्यर्थः ।

किं धर्मनिर्णयो ब्रह्म­वि­चा­र­प्र­वृ­त्त्यु­प­योगी स्यात् किं वा ब्रह्म­नि­र्ण­यो­प­यो­गीति बहिर्विकल्प्य न तावत् प्रथमः कल्प इत्याह -
न ह्यन्यविषय इति ।

नापि द्वितीय इत्याह -
तदपि इह नास्तीति ।

सम्ब­न्धा­नि­रू­प­णा­दिति ।
कार्यकारणभावस्य धर्मा­ति­रि­क्त­प्र­प­ञ्चे­नापि भावात् धर्म­ब्र­ह्म­णो­र­सा­धा­र­ण­स­म्ब­न्धा­नि­रू­प­णा­दिति भावः ।

सन्ध्यो­पा­स­न­मा­रभ्य पूर्व­पू­र्वा­ल्प­तरं कर्मानुष्ठाय तत्प्रहाणेन उत्त­रो­त्त­र­म­ह­त्त­र­क­र्मो­पा­दा­नेन सहस्रसंवत्सरे निर­ति­श­य­क­र्म­ण्य­व­सि­तेऽतः पर­म­नु­ष्ठे­या­भा­वा­देव परिशेषात् ब्रह्म­ज्ञा­नेऽ­व­त­र­ती­त्य­स्मिन् पक्षे एक­क­र्मा­नु­ष्ठा­न­मि­त­र­क­र्मा­नु­ष्ठाने हेतुः, कृत्स्न­क­र्मा­नु­ष्ठानं ब्रह्मज्ञाने प्रवृत्तौ उपकारीत्येतन्न सम्भवति प्रमा­णा­भा­वा­दि­त्याह -
केय­म­धि­का­र­प­र­म्प­रेति ।

तत् क्रियाहेतुतयेति ।
ब्रह्म­वि­चा­र­क­र­ण­हे­तु­त­ये­त्यर्थः ।

प्रमाणाभावादिति ।
एकपर्वारोहणम् इत­र­प­र्वा­रो­ह­ण­हेतुः, सकलपर्वारोहणं प्रासा­द­प्रा­प्ति­हे­तु­रिति सम्भवति, तथा दृष्टत्वात् । इह तु न सम्भवति, प्रमा­णा­भा­वा­दि­त्यर्थः ।

अनुष्ठेयाभावात् ब्रह्म­ज्ञा­नेऽ­व­ता­रा­स­म्भ­वेऽपि परम्परया कृत्स्न­क­र्म­फ­ला­वाप्तौ तत्र कामनाभावात् निवृत्तकामः परमानन्दकामनया तत्रा­व­त­र­ती­त्या­श­ङ्कते -
अथ कामोपहतमना इति ।
तदभिमुखः कामितविषयाभिमुख इत्यर्थः ।

तदेव प्रपञ्चयति -
तथा चेति ।

अधि­का­र­प­र­म्प­र­येति ।
फल­प­र­म्प­र­ये­त्यर्थः ।

कर्मा­नु­ष्ठा­न­फ­ल­प्रा­प्त्य­न­न्तर भावित्वात् । ब्रह्मविचारस्य न मनुष्याधिकारं शास्त्रं स्यादि­त्य­भि­प्रेत्य परिहरति -
कर्मा­नु­ष्ठा­ना­न­न्त­र्य­मिति ।

हैर­ण्य­ग­र्भा­दि­भो­गस्य प्राप्त­स्या­वि­नाशे अवा­प्त­वि­ष­य­का­म­स्या­स­म्भवः स्यात् , विनाशे सति अप्रा­प्त­वि­ष­य­का­म­स्या­नु­वृ­त्तेर्न कामोपशमात् ब्रह्म­ज्ञा­ना­व­ता­र­सि­द्धि­रि­त्याह -
सत्यं युक्तमिति ।

कुतस्तर्हि सर्वेषां कामविलय इति तदाह -
अतो विषयस्येति ।

ऐश्वर्येण सह वर्णनात् वैराग्यस्य हिरण्यगर्भे दोषदर्शनात् वैराग्यमिति वक्तव्यमित्याह -
ज्ञान­म­प्र­ति­घ­मिति ।
प्रति­ब­न्ध­र­हि­त­मि­त्यर्थः । सर्वत्र हिरण्यगर्भेऽपीति भावः ।

रसो राग उच्यते । निखिल विषयावाप्तौ कामोपशमः शास्त्र­सा­म­र्थ्या­दु­च्यते, किं वा अन्व­य­व्य­ति­रे­क­सा­म­र्थ्या­दिति न ताव­च्छा­स्त्र­सा­म­र्थ्या­दि­त्याह -
न चैवं लक्षण इति ।

तर्हि अन्व­य­व्य­ति­रे­क­सा­म­र्थ्यात् उच्यत इति चोदयति -
ननु कामावाप्ताविति ।
कामि­त­वि­ष­या­वा­प्ता­वि­त्यर्थः । स्वस्थहृदयः अपगतोत्कलिकहृदय इत्यर्थः । उत्कलिकेति उज्वलितेत्यर्थः ।

उत्कलिकोपशमश्च तदेति ।
उत्तरकाले भोगसामर्थ्यरागौ कार्यं करिष्यतः, अतः सामर्थ्यं प्रतिहन्ति । तन्नि­मि­त्त­का­म­ज्वा­लो­प­श­मश्च तदैवेत्यर्थः ।

सामर्थ्ये विद्यमानेऽपि भोगात् निवृ­त्ति­द­र्श­नात् कामस्यैव निवृ­त्ति­र­स्ती­त्या­शङ्क्य तदा तस्मिन् विषये उपभोगनिवृत्तिः तस्मादपि उत्कृष्टविषये स्वच्छ­न्दो­प­भो­ग­स­म्भ­वात् , न तु काम­नि­वृ­त्त्ये­त्याह -
सति चेति ।
तं विषयं पुनः सम्यङ् न गोपायेदिति सम्बन्धः ।

तर्हि सर्वकर्माणि अनुष्ठीयमानानि पुरुषसंस्कारतया ब्रह्म­ज्ञा­न­का­र्याणि, अतो धर्मा­नु­ष्ठा­ना­न्तरं ब्रह्म­जि­ज्ञा­सेति चोदयति -
भवतु तर्हीति ।

पूर्व­वृ­त्त­त्व­मिति ।
ब्रह्मजिज्ञासां प्रति पुष्कलकारणतया पूर्व­वृ­त्त­त्व­मि­त्यर्थः ।

गुणा­धा­न­म­ला­प­क­र्ष­ण­सं­स्कारद्वारेण कर्माणां परम्परया मोक्षहेतुत्वे स्मृतिः
`यस्यैत....’ इति ।
दया सर्वभूतेषु क्षान्ति­र­न­सू­या­शौ­च­मना - यासो मङ्ग­ल­म­का­र्प­ण्य­म­स्पृ­हे­त्य­ष्टा­वा­त्म­गुणा इति द्रष्टव्याः । महायज्ञैः पञ्च­म­हा­य­ज्ञै­रि­त्यर्थः । ब्राह्मी ब्रह्मा­भि­व्य­क्ति­योग्या क्रियत इत्यर्थः । आत्मनि चित्ते इत्यर्थः ।

संयोगपृथक्त्वेन ब्रह्मानुभवकामो यज्ञा­दी­न्य­नु­ति­ष्ठे­दिति शुद्धिद्वारेण ज्ञानो­त्प­त्ति­सा­ध­न­त्वेन कर्म­वि­धा­य­क­श्रु­ति­माह -
विविदिषन्तीति ।
अनाशकेनेति अनशनेनेत्यर्थः । विविदिषावाक्ये शुद्धिहेतुतया कर्मविधिरिति निर्णयाय वाक्या­न्त­र­मा­ह­येन केनचनेति ।

वेद­ने­च्छो­द­य­प्र­भृ­ति­ज्ञा­नो­द­य­प­र्य­न्त­वि­चारे प्रवर्तमानस्य विशेषणतया स्वस­म्ब­न्धि­त्वेन विचारात् पूर्वक्षणे प्रति­प­न्न­पु­ष्क­ल­का­र­ण­प्र­ति­पा­द­नेन तदा­न­न्त­र्य­वि­ष­योऽ­थ­शब्दः तत्राह, तत्त­यै­वा­ने­क­ज­न्म­व्य­व­हि­त­फ­ल­हे­तुषु कर्मसु फलेन सम­का­ल­प्र­ति­प­त्त्य­न­पे­क्षेषु सत्सु न तेषां पुष्क­ल­का­र­ण­त्व­प्र­ति­पा­द­नेन तदा­न­न्त­र्य­वि­ष­योऽ­थ­शब्द इति परिहरति -
सत्यमेवमिति ।

समानजन्मेति ।
विद्यो­त्पा­द­क­दे­हे­नैव अनु­ष्ठि­ते­त्यर्थः । समा­न­ज­न्मा­नु­ष्ठि­त­क­र्मणो विचारात् पूर्वक्षणे अधिकारविशेषणतया प्रति­प­त्ति­स­म्भ­वात् अथशब्देन पुष्कलकारणतया प्रतिपादनं स्यात् , जन्मा­न्त­री­य­क­र्मणो विचारहेतुत्वात् तस्य चाप्र­ति­प­न्न­पु­ष्क­ल­का­र­ण­त्वेन अथशब्देन प्रति­पा­द­न­मि­त्यर्थः ।

नैयोगिक इति ।
नियोगसाध्य इत्यर्थः ।

अपाकृतऋणत्रयस्य मोक्षेऽधिकारात् ऋणस्य च विद्या­र­म्भ­क­दे­ह­ज­न्म­प्र­यु­क्त­त्वात् ऋणा­पा­क­र­ण­हे­तु­क­र्म­णा­मे­त­ज्ज­न्म­न्य­नु­ष्ठि­त­तया अधि­का­रि­वि­शे­ष­ण­त्वेन प्रति­प­त्ति­स­म्भ­वात् तदपेक्षोऽथशब्द इति तत्राह -
एतेनेति ।
कर्मणां विचारं प्रति पुष्क­ल­का­र­ण­त्वा­भा­व­स­म­र्थ­ने­ने­त्यर्थः । ‘जायमानो वै ब्राह्मण’ इति च श्रुति­र­र्थ­वा­द­त्वात् ‘प्रव्रजेत्’ इति विधिश्रुत्या बाध्यत इति भावः ।

ऋणानि त्रीण्य­पा­कृ­त्येति स्मृतिरस्तीति । सत्यम् , सा श्रुति­स्मृ­ति­वि­रो­धा­द­प्र­मा­ण­मि­त्याह -
तथा च श्रुतिरिति

तस्येति ।
अधी­त­वे­द­स्या­धि­का­रिण इत्यर्थः ।

आन­न्त­र्या­भि­धा­न­मु­खेन विचारं प्रति पुष्कलकारणतया अधि­का­रि­वि­शे­ष­ण­त्वेन पूर्वनिर्वृत्तः कर्मावबोध इति न प्रतिपादयति अथशब्दः, किन्तु आन­न्त­र्या­भि­धा­न­मु­खेन धर्म­ब्र­ह्म­जि­ज्ञा­सयोः क्रमप्रतिपादक इति चोदयति -
अथापि स्यादिति ।

किं स्वयमेव क्रमं प्रतिपादयति अथशब्दः आहोस्वित् प्रमा­णा­न्त­र­प्रा­प्त­क्र­मस्य न्यायेन नियमप्रतिपादक इति । न तावत् प्रथमः कल्प इत्याह -
तदेतदयुक्तमिति ।
आग­म­त्वा­भा­वा­दि­त्यर्थः ।

द्वितीयेऽपि कल्पे धर्म­ब्र­ह्म­जि­ज्ञा­सयोः एक­वि­धि­प्र­यु­क्ता­नु­ष्ठे­य­त्वा­भा­वा­देव शेषशेषित्वस्य एक­शे­षि­स­म्ब­द्धा­ने­क­शे­ष­त्व­स्या­धि­कृ­ता­धि­का­र­त्वस्य चाभावात् । अत एवै­क­क­र्तृ­क­त्वा­भा­वात् एकस्य युग­प­द­ने­का­नु­ष्ठा­ना­नु­प­पत्त्या सिद्ध­क्र­म­प्रा­प्त्य­भा­वात् तन्नि­य­मा­र्थ­त्व­म­थ­श­ब्दस्य नास्तीत्याह -
अपि च एककर्तृकाणामिति ।

शेषशेषिणोः प्रया­ज­द­र्श­पू­र्ण­मा­सयोः ।
शेषाणां चेति ।
एक­प्र­धा­ना­पू­र्व­स­म्ब­द्धा­ना­मा­ग्ने­या­दि­ष­ड्या­गा­ना­मि­त्यर्थः ।

अधि­का­रा­न्त­र­प्र­यु­क्त्यु­प­जी­वि­ना­मिति ।
दर्श­पू­र्ण­मा­सा­दि­नि­यो­गा­न्त­र­प्र­यु­क्ता­नु­ष्ठे­यानां गोदो­ह­ना­दी­ना­मि­त्यर्थः ।

विव­क्षि­त­त्वा­दिति ।
एकस्य युग­प­द­ने­का­नु­ष्ठा­ना­नु­प­प­त्ति­सि­द्ध­त्वा­दि­त्यर्थः ।

मा भूद्ध­र्म­ब्र­ह्म­जि­ज्ञा­सयोः एक­वि­धि­प्र­यु­क्ता­नु­ष्ठे­य­तया एककर्तृकत्वेन प्राप्त­क्र­म­नि­य­मा­र्थ­त्व­म­थ­श­ब्दस्य, किन्तु एक­फ­ल­प्र­यु­क्ता­नु­ष्ठे­य­तया एक­प्र­मे­य­जि­ज्ञासा प्रयु­क्ता­नु­ष्ठे­य­तया वा साधनद्वये कर्त्रैक्यात् क्रम­स्या­पे­क्षेति तन्नि­य­मा­र्थोऽ­थ­शब्द इति उत्तरभाष्यस्य आशङ्कामाह -
अथापि स्याद्यथा आग्ने­या­दी­ना­मि­त्या­दिना ।

अभ्युदयफलमिति ।
धर्म­ज्ञा­न­स्यो­त्प­त्त्या­प्ति­वि­कृ­ति­सं­स्का­रा­त्म­कोऽ­भ्यु­दयः फलमित्यर्थः ।

न ज्ञेयत्वादेवेति ।
हस्त­ग­त­वि­स्मृ­त­सु­व­र्णस्य ज्ञेयत्वादेव यथा सुखोत्पत्तिः फलं भवति तद्वन्न भवतीत्यर्थः ।

अनु­ष्ठा­ना­न्त­रेति ।
ज्ञानो­त्प­त्त्य­नु­ष्ठा­नात् अनु­ष्ठा­ना­न्त­रा­न­पे­क्ष­मि­त्यर्थः ।

स च नित्यसिद्ध इति ।
उत्प­त्ति­वि­कृ­त्या­त्मत्वं मोक्षस्य नास्तीत्यर्थः ।

अनाप्य इत्याह -
अव्यवहित इति ।

अन्य­सं­स्का­रा­स­म्भवं सिद्धवत्कृत्य स्फुरणातिशयरूप संस्कारोऽपि नास्तीत्याह -
स्वसंवेद्य इति ।

ज्ञानो­त्प­त्ति­मा­त्रेण लभ्यं फलमपवर्ग इत्याह -
यतोऽ­वि­द्ये­त्या­दिना ।

फल­स्यो­त्पा­द्य­त्वा­नु­त्पा­द्यत्वं नाम­स्व­रू­प­वै­ल­क्ष­ण्य­माह -
अत्य­न्त­वि­ल­क्ष­ण­त्वा­दिति ।

प्रस्था­न­भे­दा­दिति ।
ज्ञानोत्तरकालं प्रय­त्न­सा­पे­क्ष­त्वा­न­पे­क्ष­त्व­ल­क्ष­ण­प्र­स्था­न­भे­दा­दि­त्यर्थः ।

एकोपनिपात इति ।
एकस्मिन् कर्तरि कार्य­त्वे­नो­भ­य­जि­ज्ञा­सयोः उपनिपातो नास्तीत्यर्थः । कार्यः साध्य इत्यर्थः ।

पुष्पादिवत् कालेन साध्यत्वं व्यावर्तयति -
पुरु­ष­व्या­पा­र­तन्त्र इति ।

प्रव­र्त­क­श­ब्द­गम्यो धर्मः केव­ल­बो­ध­क­श­ब्द­गम्यं ब्रह्मेत्येवं प्रमा­ण­भे­दो­पा­धिना प्रमेयभेद उच्यत इति तात्पर्यमाह -
इदमपरमिति ।
चोदनेति शब्दभावनां कुर्व­च्छ­ब्दोऽ­भि­धी­यते ।

प्रेरयन्ती पुरुषमिति ।
पुरु­षे­णा­र्थ­भा­वनां निष्पादयन्तीति यावत् ।

असति विषय इति ।
अप्र­ति­प­न्ना­र्थ­भा­व­ना­या­मिति यावत् ।

विषयमपीति ।
पुरु­ष­नि­ष्पा­द्या­र्थ­भा­व­ना­म­पी­त्यर्थः ।

बोधयति केवलमिति ।
ब्रह्म­णोऽ­सा­ध्य­त्वात् तत्र न प्रेरयतीत्यर्थः ।

ब्रह्मावबोधस्य साध्यत्वात् तत्र पुरुषं प्रेरयन्ती चोद­ना­व­बो­ध­न­वि­शे­षितां भावनां प्रतिपादयन्तीति नेत्याह -
अवबोधस्येति ।

अवबोधः पुरु­ष­प्र­य­त्न­साध्य इति नेत्याह -
बोधो हीति ।

यथा प्रमाणमिति ।
चक्षु­रा­दि­सा­म­ग्र्य­नु­रू­प­मि­त्यर्थः । अनि­च्छ­तोऽ­प्र­य­त­मा­न­स्यापि दुर्ग­न्धा­दि­ज्ञा­न­द­र्श­ना­दि­त्यर्थः ।

सन्निकर्षेणेति ।
सन्नि­क­र्षा­ख्य­सा­ध­नेन कुर्विति न नियुज्यत इत्यर्थः । लक्षणं प्रमाणमित्यर्थः ।

वेदा­ख्य­शा­स्त्री­य­वि­चा­र­विधेः वेदोक्तमेव अधि­का­र­नि­मि­त्त­म­थ­श­ब्देन वक्त­व्य­मि­त्य­भि­प्रेत्य वेदो­क्त­सा­ध­न­च­तु­ष्ट­य­म­थ­श­ब्दा­र्थ­त्वेन दर्शयति -
उच्यते नित्यानित्येति ।
साधनचतुष्टयं वेदा­ख्य­शा­स्त्री­या­धि­का­रि­वि­शे­ष­णम् उपपन्नं च, तदेव विचारे प्रवृत्तौ पुष्कलकारणम् , तद्वा­ने­वा­धि­का­री­त्यर्थः ।

शब्देन प्रतिपादनाभावे अहमेवं विशिष्टोऽस्मीति बुद्ध्या प्रव­र्त­मा­ना­धि­का­र्य­भा­वात् विचारे प्रवृत्तिर्न स्यात् , अतोऽनुष्ठिततया प्रयोजनपर्यन्तं न भवेत् विचा­र­शा­स्त्र­मि­त्यु­क्त­मिति वृत्तानुवादेन साध­न­च­तु­ष्ट­या­भावे न विचा­र­प्र­वृ­त्ति­रिति व्यति­रे­क­प्र­द­र्श­नेन साधनचतुष्टयस्य विचारं प्रति कार­ण­त्व­मि­त्या­शङ्क्य, सत्यम् पूर्वस्य पूर्व­स्या­धि­का­रिणः स्वस­म्ब­न्धि­त्वेन प्रतिपन्नतया उत्तरोत्तरं प्रति स्वरू­पो­पा­धि­त्वेन च मुमु­क्षु­त्वो­पा­धि­त्वात् सर्वे­षा­म­धि­का­र­नि­मि­त्तता इत्यभिप्रेत्य व्यतिरेकमुखेन पूर्वस्य पूर्वस्य उत्त­रो­त्त­र­हे­तुत्वं सर्वेषां विचारहेतुत्वं च दर्शयति -
तस्मा­द्या­व­द­स्ये­त्या­दिना ।

नित्य­व­स्तु­वि­वे­को­द­य­प्र­का­र­माह -
विनश्यदपीदमिति ।
कार्यस्य निरु­पा­दा­न­त्वा­यो­गात् कार्यो­पा­दा­न­त्वा­यो­गात् उपा­दा­न­स्या­ना­दित्वे तस्य कार्ये­ष्व­न­न्वि­तत्वे सति अनु­पा­दा­न­त्व­प्र­स­ङ्गात् अनन्विततया नित्यत्वे सति कल्पनालाघवात् अना­दि­नि­त्यो­पा­दा­नस्य एकत्वे सति तस्य विकारित्वे कार्य­त्व­प्र­स­ङ्गात् अविकारित्वे च सिद्धे सत्ये­का­ना­दि­नि­त्या­वि­का­रि­का­रणे कार्याणां कारणावशेषतया विनाशः स्यात् , अनभ्युपगमे पूर्वकल्पस्य विनष्टस्य संस्का­र­स­हि­त­का­र­णा­व­शे­षा­भा­वात् पुन­स्त­था­वि­ध­स्यो­त्प­त्त्य­भा­व­वत् वर्त­मा­न­क­ल्प­स्यापि संस्का­र­वि­शि­ष्ट­का­र­णा­भा­वेन अनु­त्प­त्ते­र­भा­वोऽ­भ­वि­ष्यत् , अतो विशि­ष्ट­कू­ट­स्थ­नि­त्य­व­स्त्व­स्तीति नित्य­व­स्तु­वि­वेको जायत इत्यर्थः ।

वैरा­ग्यो­द­य­प्र­का­र­माह -
अभि­मु­ख­वि­ना­श­द­र्श­ना­दिति ।
अग्नि­प्र­वे­शार्थं स्रक्च­न्द­न­व­स्त्रा­द्य­ल­ङ्का­र­भो­गान् भुञ्जानस्य भोगैः सह अभि­मु­ख­वि­ना­श­द­र्श­नात् दुःखानुभवाच्च निर्वृतिमलभमानो भोगाद्विरक्तो जायत इत्यर्थः । अत्रैवमन्वयः, यावदनित्यत्वं नावैति तावन्नित्यं वस्तु न प्रतिपद्यत इत्यध्याहारः । यावच्च नित्या­नि­त्य­वि­वेको न जायते तावद्विरक्तो न जायत इत्यध्याहारः । याव­च्चा­भि­मु­ख­वि­नाश इत्यत्र यावच्छब्दो नकारमध्याहृत्य विरक्तशब्देन सम्बध्यते । यावच्च न विरक्त इति ताव­न्मु­मु­क्षुत्वं नावलम्बत इत्यध्याहारः । यावच्च मुमुक्षुत्वं नावलम्बते तावद् ब्रह्मजिज्ञासां कः प्रतिपद्यत इति साधनकलापाभावे न विचा­र­प्र­वृ­त्ति­रिति व्यतिरेकोऽयं दर्शितः ।

ननु नास्ति व्यतिरेकः, साधनाभावेऽपि प्रवृ­त्ति­द­र्श­ना­दि­त्या­श­ङ्क्याह -
कथञ्चिद्वा दैववशादिति ।
शूद्रयागादिवत् फलपर्यन्तता न स्यादित्यर्थः ।

व्यति­रे­क­नि­य­मा­देव अन्वयमपि सिद्ध­व­त्क­रो­ती­त्याह -
तस्मा­द्व­र्णि­तेति ।
अथशब्देन साधनचतुष्टयस्य हेतु­त्वा­भि­धा­नात् अतःशब्देनापि तस्य हेतु­त्वा­भि­धा­नात् पुनरुक्तिः स्यादि­त्या­शङ्क्य अथशब्दस्य आन­न्त­र्य­म­भि­धे­यार्थः । साध­न­च­तु­ष्ट­य­हे­तुत्वं तात्पर्यार्थः । अतः शब्दस्य साधनचतुष्टयस्य हेतु­त्व­म­भि­धे­यार्थः ।

साधनचतुष्टये प्राप्त्य­स­म्भ­वा­श­ङ्का­नि­रा­क­रणं तात्पर्यार्थ इत्यभिधेयभेदात् तात्प­र्या­र्थ­भे­दाच्च पुन­रु­क्ति­र्ना­स्ती­त्य­भि­प्रे­त्याह -
अतः शब्दो हेत्वर्थ इति ।
हेत्व­भि­धा­यी­त्यर्थः ।

अथ­श­ब्द­ता­त्प­र्या­र्थ­भू­त­सा­ध­न­च­तु­ष्ट­या­ख्य­पु­ष्क­ल­का­रणे प्राप्ता­स­म्भ­व­श­ङ्का­म­तः­श­ब्द­नि­रा­क­र­णी­या­माह -
स्यादेतदिति ।

अनि­त्य­त्वा­नु­मा­न­स्या­नै­का­न्ति­क­त्वा­देव कर्मफलस्य अनि­त्य­त्वा­स­म्भ­वेऽपि नित्यत्वे न प्रमाणमिति तत्राह -
वेदेऽपीति ।
अतो नित्य­पु­रु­षा­र्थ­का­मिनः कर्मफलेऽपि प्रवृ­त्ति­स­म्भ­वात् न नियमेन ब्रह्मणि प्रवृत्तिरिति भावः ।

नित्य­पु­रु­षा­र्थ­का­मिनो विषयभोगात् वैराग्यं च न सम्भवति, कर्मफलस्यापि नित्य­त्वा­दि­त्याह -
अतो विषयभोगादिति ।

मा भूद् ब्रह्मण्येव प्रवृत्तिरिति नियमः तथापि ब्रह्मण्यपि विकल्पेन प्रवृत्तिः स्यादिति नेत्याह -
न च कूटस्थेति ।

अवष्टम्भेनेति ।
ब्रह्म­प्रा­प्ति­स­म्भ­व­म­ङ्गी­कृ­त्ये­त्यर्थः ।

कूट­स्थ­नि­त्य­ब्र­ह्म­व­स्तु­प्रा­प्त्य­स­म्भवः कथमित्यत आह -
यतो न तादात्म्यमिति ।
विरुद्धत्वादिति भावः ।

ब्रह्मणः सर्वगतत्वे नित्यसंयोगात् न साधनसाध्यत्वं संयोगस्य असर्वगतत्वे परि­च्छे­दा­द­नि­त्य­त्वा­दि­प्र­सङ्गः, तथापि संयोगस्य साध्यत्वे निष्फलत्वमाह -
नापि तदवाप्तिरिति ।

सुखभोगाभावादिति ।
ब्रह्मणि सुखसद्‌भावेऽपि स्वाश्र­य­सु­खा­प­रो­क्ष्य­स्यैव उपभोगत्वात् आत्मनि तस्या­भा­वा­दि­त्यर्थः ।

भोगात् प्रागूर्ध्वं च भोगावस्थायां च दुःखा­त्म­क­वि­ष­य­सु­ख­प­रि­त्या­गेन दुःख­नि­वृ­त्त्या­त्म­क­ब्र­ह्म­प्राप्तिः प्रार्थ्यत इत्याशङ्क्याह -
अतोऽ­जी­र्ण­भ­या­दिति ।

अतो न तस्येति ।
साध­न­च­तु­ष्ट­य­स्ये­त्यर्थः ।

तात्पर्येण अतः­श­ब्द­नि­रा­क­र­णी­या­शङ्कां टीकाकारः स्यादे­त­दि­त्या­दिना प्रदर्श्य प्रद­र्शि­ता­श­ङ्का­नि­रा­क­र­ण­हे­तु­सू­च­नेन साधनचुतष्टयं हेतु­र्हे­तु­रे­वेति प्रदर्शयति अर्थतः शब्द इत्याह -
अतस्तस्येति ।

आश­ङ्का­नि­रा­क­र­ण­हे­तु­रतः शब्दसूचितः कथम्भूत इति चोदयति -
कथमिति ।

आश­ङ्का­नि­रा­क­र­ण­हे­तु­म­तः­श­ब्द­सू­चि­त­माह -
यस्माद्वेद एवेति ।

अनित्यफलतां दर्शयतीति ।
ब्रह्म­व्य­ति­रि­क्त­पु­रु­षा­र्थ­जा­तस्यानित्यतां दर्शयतीति भावः ।

तद्यथेहेति ।

सामान्यश्रुतिः चातु­र्मा­स्या­दि­वि­शे­षा­दन्यत्रैव वर्ततामिति चोदयति -
ननु पुण्यस्येति ।

वस्तु­ब­ल­प्र­वृ­त्तेति ।
व्याप्ति­ब­ल­प्र­वृ­त्ते­त्यर्थः ।

अनुमानविरोध इति ।
कृतकत्वात् परि­च्छि­न्न­त्वा­द­नि­त्य­मि­त्य­नु­मा­ना­नु­गृ­ही­त­श्रु­ति­वि­रोध इत्यर्थः । अतोऽनित्यत्व दर्शनं विष­य­भो­गा­द्वै­रा­ग्य­मु­त्पाद्य तद्वारेण मुमु­क्षु­त्व­हे­तु­तया ब्रह्मणि प्रवृ­त्ति­हे­तु­र्भ­व­तीति योजना ।

निमि­त्त­मु­क्त­मिति ।
ब्रह्मणि विकल्पेन प्रवृ­त्त्य­भा­वेऽपि ब्रह्मणा तादा­त्म्य­सं­यो­ग­रू­प­प्रा­प्त्य­स­म्भवाख्यं निमि­त्त­मु­क्त­मि­त्यर्थः । श्रुतिविरोधात् ब्रह्म­प्रा­प्त्य­स­म्भ­व­सा­धक तर्को बाध्यते । ब्रह्मप्राप्तेः पुरुषार्थत्वं च भवति । सुखा­प­रो­क्ष्य­स­म्भ­वात् तस्यैव पुरु­षा­र्थ­त्वा­दिति भावः ।

अत उपसंहरतीति ।
अतः­श­ब्दे­ना­श­ङ्का­नि­रा­क­र­ण­हे­तु­सू­च­न­द्वा­रेण साधनकलापस्य हेतु­त्व­स­म­र्थ­ना­दु­प­सं­ह­र­ती­त्यर्थः ।

कर्तव्येत्यनेन भाष्यकारो विशेषं विधत्त इति शङ्का­नि­व­र्त­क­त्वेन भाष्यं व्याचष्टे ।
यतः परिपूर्ण इति ।

पुष्क­ल­हे­तु­त्वा­द­व­श्या­र­म्भ­कत्वं भाष्यो­क्त­म­स्त्ये­वे­त्याह -
यतो द्वैता­नु­ष­ङ्गा­दिति ।

एवं सतीति ।
पुष्क­ल­हे­तु­त्वे­ना­व­श्या­र­म्भ­कत्वे सतीत्यर्थः ।

अथशब्देनेति ।
अवश्यारम्भक साध­न­च­तु­ष्ट­या­ख्य­हे­तु­प्र­ति­पा­द­का­थ­श­ब्दे­ने­त्यर्थः ।

धर्माय जिज्ञा­से­ति­व­च्च­तुर्थी समासः किं न स्यादि­त्या­शङ्क्य जिज्ञा­सा­श­ब्द­स्या­भि­धे­या­व­य­वा­र्थ­स्वी­का­रा­दि­त्याह -
अन्तर्णीतेति ।
लक्षि­त­वि­चा­रा­र्था­न्वय इत्यर्थः । जिज्ञासाशब्दस्य इच्छार्थत्वात् इच्छायाः कर्म­प्र­यो­ज­न­यो­रै­क्यात् एकनिर्देशेन इत­र­नि­र्दे­श­सिद्धेः कर्मण इच्छास्वरूप प्रती­त्यु­पा­धि­त्वेन प्राधान्यात् तन्निर्देशार्थं कर्मणि षष्ठीसमासः स्यात् । लक्षणया विचारार्थत्वे तु विचारस्य कर्म­प्र­यो­ज­न­यो­र्भे­दा­दे­क­नि­र्दे­शे­ना­न्य­नि­र्दे­शा­सि­द्धे­रा­या­स­रू­प­त्वेन प्रयो­ज­ना­पे­क्ष­त्वात् प्रयो­ज­न­त्व­प्र­सि­द्धये चतुर्थीसमासः स्यात् । न त्विह विचा­र­स्या­र्थ­त्व­मिति भावः ।

अव­स­र­प्रा­प्ता­विति ।
किं तत् ब्रह्म यदिच्छायाः प्रयोजनतया कर्मत्वेन वर्तत इत्या­का­ङ्क्षो­त्प­त्ते­र­व­स­र­प्रा­प्ता­वि­त्यर्थः ।

कथं निरस्यत इत्याशङ्कायां जाति­जी­व­क­म­ला­स­न­श­ब्द­रा­शीनां ब्रह्म­श­ब्दा­भि­धे­य­तया जिज्ञासां प्रति कर्तृत्वेन कर्मत्वेन वा प्रति­पा­द­ना­नु­प­प­त्ते­र­स्मि­न्प्र­योगे न ब्रह्मशब्दस्य जात्या­द्य­र्थ­ते­त्य­न्य­वृ­त्ति­का­रै­र्नि­रा­कृ­त­प्र­का­र­माह -
न खल्विति ।

विशे­ष­णा­न­र्थ­क्या­दिति ।
अन्यस्य प्रसङ्गाभावात् जीवकर्तृकेति विशे­ष­णा­न­र्थ­क्या­दि­त्यर्थः । शब्द­रा­शे­र­चे­त­न­त्वा­देव कर्तृ­त्व­प्र­स­ङ्गा­भा­वात् । कर्तृत्वं न दूषितमिति द्रष्टव्यम् ।

जिज्ञा­स्या­पे­क्ष­त्वा­दिति ।
इच्छां प्रति स्वरू­प­प्र­ती­त्यु­पा­धि­त्वात् इच्छा­ज­न्य­फ­ला­धा­र­त्वाच्च कर्मकारकस्य तद­पे­क्ष­त्व­मि­च्छायाः प्राधान्येन विद्यत इत्यर्थः ।

अन्य­ज्जि­ज्ञा­स्य­मिति ।
ब्रह्म­लो­क­जि­ज्ञा­से­त्यत्र ब्रह्म­णोऽ­न्य­लो­कस्य जिज्ञा­स्य­त्व­व­दि­हापि अन्य­ज्जि­ज्ञा­स्य­मि­त्यर्थः ।

तदर्थं
तत्प­रि­हा­रा­र्थ­मि­त्यर्थः ।

शेष इति सम्ब­न्ध­सा­मा­न्य­मु­च्यते । न कार­क­प­ञ्च­क­व्य­ति­रिक्ताः स्वस्वा­मि­त्वा­दि­स­म्ब­न्ध­वि­शेषा उच्यन्ते । अतः सामा­न्या­भि­धा­नेऽपि कर्म­त्वा­ख्य­स­म्बन्ध विशेषे पर्यवसानात् इच्छा­पे­क्षि­त­क­र्म­त्व­प्र­ती­ति­सिद्धेः शेष­ष­ष्ठ्ये­वा­भ्यु­पे­येति चोदयति -
ननु शेष­ष­ष्ठी­प­रि­ग्र­हेऽपि इति ।

भाष्यं व्याचष्टे -
यद्यपीति ।
अर्थात् विशेष इति । व्यव­हा­रा­न्य­था­नु­प­पत्त्या विशेषे पर्य­व­सा­न­भू­मि­त्वे­ना­भ्यु­प­ग­म्य­माने सतीत्यर्थः ।

क्रियो­पा­दा­ना­दिति ।
जिज्ञा­सा­श­ब्दे­नो­पा­दा­ना­दि­त्यर्थः ।

साधारणे शब्द इति ।
सम्ब­न्ध­सा­मा­न्यस्य कर्म­त्वा­ख्य­वि­शे­षस्य च षष्ठ्याख्यशब्दे साधारणे सतीत्यर्थः ।

अभिप्रेतमर्थं विहायेति
इच्छा­पे­क्षि­त­त्वात् अभिप्रेतं कर्मत्वं विहायेत्यर्थः । अर्थान्तरं सामा­न्य­मि­त्यर्थः । कर्मणि षष्ठीपरिग्रहे वृत्या व्यक्तेः प्रधानतया प्रतीतत्वात् स्फुट­त्व­म­स्ती­त्य­भि­प्रेत्य प्रत्य­क्ष­त्व­मु­च्यत इति द्रष्टव्यम् । शेषे षष्ठीपरिग्रहे सामान्यमभिधाय तत्र ग्रस्ततया कर्मत्वबोधनात् अस्फुटं भवतीति परो­क्ष­मि­त्यु­च्यते ।

शेषषष्ठ्या ब्रह्म­स­म्ब­न्धि­जि­ज्ञा­से­त्युक्ते ब्रह्म­स्व­रू­प­प्र­मा­ण­यु­क्ति­सा­ध­न­प्र­यो­ज­नानां जिज्ञा­स्य­त्व­मुक्तं स्यादिति चोदयति -
ननु किमिति व्यर्थ इति ।

प्रधानपरिग्रह इति ।
विचा­र­सा­ध्य­ज्ञा­न­नि­मि­त्ता­प­रो­क्ष्य­फ­ल­भा­गि­त्वा­दा­प­रो­क्ष्यस्य च ब्रह्म­सु­खा­प­रो­क्ष­त्वात् विशिष्टं ब्रह्म­वि­चा­र­प्र­वृत्तेः प्रधानं भवति । तस्य प्रधानभूतस्य ब्रह्मणो जिज्ञा­से­त्युक्ते ब्रह्म­स्व­रू­प­नि­र्ण­या­पे­क्षि­त­प्र­मा­णा­दि­वि­चा­रा­णाम् अर्थाक्षिप्तत्वादित्यर्थः ।

ब्रह्मावाप्तिः पुरुषार्थ इति ।
सुखापरोक्ष्यं ब्रह्मा­प­रोक्ष्यं पुरुषार्थ इत्यर्थः ।

तेन तत् ज्ञाने­ना­प्तु­मि­ष्ट­त­म­मिति ।
आपरोक्ष्यस्य पुरु­षा­र्थ­रू­प­त्वात् तदापरोक्ष्यं ब्रह्म­ज्ञा­ने­ना­प्तु­मि­ष्ट­तमं ज्ञाना­धी­न­फ­ल­भा­गी­त्यर्थः ।

तदर्थत्वादिति ।
ज्ञानद्वारेण फल­वि­शि­ष्ट­ब्र­ह्म­शे­ष­त्वात् विचारप्रवृत्तेः फलविशिष्टं ब्रह्म­प्र­धा­न­मि­त्यर्थः ।

अर्थादेवेति ।
कर्मणि षष्ठ्या ब्रह्मणो जिज्ञासेति ब्रह्म­स्व­रू­प­जि­ज्ञा­सा­भि­धाने प्रमा­णा­दी­ना­म­र्था­देव जिज्ञास्यत्वात् न पृथक् शेष­ष­ष्ठ्य­ङ्गी­का­रेण सूत्र­यि­त­व्या­नी­त्यर्थः ।

शास्त्र­प्र­वृ­त्ति­रे­वेति ।
श्रौत­वि­चा­र­वि­धि­नि­र्ण­य­प­र­तया प्रथ­म­सू­त्र­प्र­वृ­त्ति­रे­वे­त्यर्थः ।

अथ­श­ब्द­सू­चि­ता­धि­का­रि­प्र­ति­पा­द­क­श्रु­त्य­र्थ­माह -
पुण्यजित इति ।

परेति ।
परा विद्यत इति यस्मादित्यर्थः ।

ब्रह्म­जि­ज्ञा­से­त्यं­शेन सूचि­त­श्रु­त्य­र्थ­माह -
तद्वि­जि­ज्ञा­स­स्वेति ।
इच्छा­प्र­द­र्श­ना­र्थ­मि­ती­च्छाया वाक्या­र्थ­त्व­प्र­द­र्श­ना­र्थ­मि­त्यर्थः ।

इच्छायाः फलविषयत्वादिति ।
अवगतविषयत्वात् इच्छायाः ज्ञानावगतये ज्ञान­वि­शे­ष­ण­ब्र­ह्म­ण्य­व­गते तत् ज्ञाने­च्छा­नु­प­प­त्ते­र­न­व­गते तद्वि­शे­षि­त­ज्ञा­न­स्यापि अनवगमात् ज्ञानमात्रे इच्छा­नु­प­प­त्ते­रिति भावः ।

काचे­य­मि­ष्य­मा­णा­व­ग­ति­रिति तदाह -
साक्षादनुभव इति ।
अपरोक्षानुभव इत्यर्थः ।

इच्छा­पू­र्व­क­वि­चा­रात् प्रागेव स्थित­वे­दा­द­व­ग­ति­प­र्य­न्त­ज्ञा­न­मु­त्प­द्यते कथं तत्रे­च्छे­त्या­शङ्क्य प्रथमज्ञानं परोक्षं भवति । अपरोक्षमिति पक्षेऽपि अस­म्भा­व­ना­दि­ना­न­व­सि­त­रूपं भवति, अतः परो­क्ष­ज्ञा­न­म­प्रतिबद्धा­प­रो­क्ष­ज्ञानमेव अपेक्ष्यत इति युज्यत इत्यभिप्रेत्याह -
ज्ञानं तु परोक्ष इति ।

सन्निहितेऽपीति ।
इन्द्रि­य­सं­यु­क्त­तया प्रथमत एव अपरोक्षेऽपि वस्तुनीत्यर्थः ।

तदाह,
तस्मा­दा­हे­त्यर्थः ।

प्रमा­णे­ना­व­ग­न्तु­मिति ।
अप­रो­क्ष­नि­श्च­या­नु­भ­वेन ज्ञानेनेत्यर्थः । ब्रह्मरूपता साक्षा­त्क­र­ण­फ­ल­ज्ञाने इच्छा सम्भवति । न प्रथमज्ञान इति भावः ।

प्रथमसूत्रस्य शास्त्रा­न्त­र्भू­त­त्वेन अनन्तर्भूतत्वेन चानि­रू­प्य­त्वा­देव वाक्या­र्थ­त्व­स्या­क­थ­नी­य­त्वात् इच्छा वाक्यार्थ इति प्रति­पा­द­न­म­यु­क्तम् , तथाहि - अन्तर्भूतत्वे स्ववि­चा­रा­र­म्भ­क­र्त­व्य­ता­वि­चा­र­सू­त्रस्य केनारम्भः क्रियते, स्वेनैव चेत् आत्मा­श्र­य­ता­पत्तिः, सूत्रान्तरेण चेत् अनवस्थापातः । अनन्तर्भूतत्वे अशास्त्रतया अनारम्भप्रसङ्ग इत्याशङ्क्य श्रौतश्रोतव्य इति विधि­र­नि­र्णी­ता­नु­ब­न्ध­त्र­य­वि­शि­ष्ट­तया प्रति­प­न्न­स्व­नि­र्ण­याय स्वापेक्षित विचाराय प्रथ­म­सू­त्र­मा­र­म्भ­यति । विधौ च विचारिते सति विधिविष­य­वि­चा­र­सू­त्राणि जन्मा­दि­सू­त्रा­दीनि पश्चा­दा­र­म्भ­य­ती­त्य­भ्यु­प­ग­मात् एक­शा­स्त्र­त्वेऽपि अनवस्थाभावात् श्रोत­व्या­दि­वा­क्यानां स्वार्थे सम­न्व­य­प्र­ति­पा­द­न­द्वा­रेण विधिना विचा­र्य­मा­ण­वे­दा­न्त­वा­क्या­ना­मपि ब्रह्मणि सम­न्व­य­नि­र्ण­य­नि­मि­त्त­त्वात् एव समन्वयाध्यायेन सङ्गतिसिद्धेश्च अस्य वाक्यस्यार्थकथनं युक्त­मि­त्य­भि­प्रे­त्याह -
तदेतदिति ।
तस्माद् ब्रह्म जिज्ञा­सि­त­व्य­मिति भाष्यं जिज्ञासाशब्देन लक्षि­त­वि­चा­र­क­र्त­व्य­ता­सू­त्र­स्यार्थ इति प्रदर्शयतीति वदितुमिति ।

इच्छाया अभिधावृत्त्या वाक्यार्थत्वं पूर्व­मु­क्त­मि­त्याह -
अनेन च प्रयोज्येति ।
प्रयोज्य इत्यधिकारी ।

एकस्या इति ।

साधनकलापस्येति तस्य कार­णा­न्त­र­म­दृष्टं यज्ञादिवत् दृष्टं व्याप्त्य­नु­स­न्धा­नादि अर्था­दु­पा­त्त­मिति आन­न्त­र्या­भि­धा­न­सा­म­र्थ्या­दिति अतःशब्दस्य मुखतो हेतु­त्वा­भि­धा­यि­नोऽ­प्या­श­ङ्का­न्त­र­नि­वृत्तौ तात्पर्यात् अर्था­द्धे­तु­त्व­मु­क्त­मि­त्य­नु­वादे प्रयोजनाभावात् कर्त­व्य­प­द­म­ध्या­हृत्य जिज्ञा­सा­क­र्त­व्यता श्रुत्या अभिहिता, इच्छाया अन­नु­ष्ठे­य­त्वा­द­भि­धा­वृ­त्ति­सि­द्धे­च्छा­क­र्त­व्य­ताऽ­स­म्भ­वेऽपि इच्छासंयोगात् ज्ञानस्य साध्यत्वावगमात् तदेव कर्तव्यमस्तु न तु लक्षि­त­वि­चा­र­क­र्त­व्यता सूत्रार्थत्वेन कथनीया भाष्यकृतेति, नेत्याह -
तत्र जानात्येवेति ।
इष्यमाणस्य साध्यता स्वयं सिद्धा न शब्दमपेक्षते सुख­सं­वे­द­न­त्वा­दि­त्यर्थः ।

किं तर्हि विधीयत इति तदाह -
उपायं तु न वेदेति ।
अनु­प­ग­ता­भि­ल­षि­तो­पाय एव विधिशब्दैः प्रतिपाद्यते । अतो ज्ञानसाधनविचार कर्तव्यता सूत्रार्थत्वेन कथनीया भाष्यकृतेति भावः । दृष्टो­पा­य­त्वेऽपि अपरोक्षानुभवं प्रत्य­दृ­ष्टो­पा­य­तापि दर्शिता द्रष्टव्यादिविधेरिति द्रष्टव्यम् ।

ननु पदा­र्थ­व्या­ख्या­ना­देव स्वयमेव वाक्यार्थं प्रतिपद्यते, किं वाक्यार्थकथनेन ? सत्यम् ; सम्ब­न्धा­दी­ना­म­र्थात् प्रतिभासो भवतीत्याह -
शास्त्रस्य चेति ।

मुमुक्षुणा मोक्षहेतुब्रह्म­ज्ञा­ना­येदं शास्त्रं श्रोतव्यमिति वाक्यार्थे अभिहिते कथमर्थात् सम्ब­न्धा­दि­प्र­ति­प­त्ति­रिति तदाह -
एतदुक्तम्भवतीति ।
ब्रह्म­ज्ञा­न­का­मे­नेदं शास्त्रं श्रोत­व्य­मि­त्युक्त्या ज्ञाय­मा­न­ब्र­ह्मणा शास्त्रस्य सम्बन्ध उक्तः । अनेनैव शास्त्रेण ब्रह्म­ज्ञा­न­स्यो­त्प­त्त्य­भि­धा­नात् ज्ञायमानं ब्रह्म शास्त्रस्य विषय इति उक्तं शास्त्र­स्या­धि­का­रिणा कामि­त­ब्र­ह्म­ज्ञा­न­सा­ध­न­त्वात् ज्ञानं ब्रह्म शास्त्रस्य प्रयो­ज­न­मु­क्त­मि­त्य­र्थात् शास्त्रस्य सम्ब­न्धा­भि­धे­य­प्र­यो­जनं कथितं भवतीति । || इति तृती­य­व­र्ण­क­का­शिका ||