वक्तव्यकाशिका (पञ्चपादिका व्याख्या)
४ परिच्छेदः
विचारविधिसामर्थ्यादेव विचारशास्त्रस्य प्रयोजनादिष्ववगतेषु कथमाक्षेप इति चोदयति -
कथमिति ।
प्रतिपन्नमुच्यत इति । इति ।
प्रतिपन्नमुच्यत इत्यर्थः ।
प्रतिपन्नंशब्देनानूद्य प्रतिपादयितुं शक्यत्वात् कथमविषय इत्याह -
कस्मादिति ।
प्रतिपाद्यत्वेनेति ।
प्रागनधिगतं शास्त्रेण प्रमीयमाणं तस्य विषयो भवतीत्यर्थः ।
पूर्वावगमेन प्रमितत्वात् शास्त्रेण प्रमितमिति रूपेण शास्त्रं प्रति ब्रह्मप्रयोजनं न भवतीत्याह -
ततश्चानेनानवगमादिति ।
ब्रह्मावगतिः स्यादिति अवगतं ब्रह्मेत्यर्थः ।
न शक्यमिति ।
प्रतिपाद्यत्वयोग्यतारूपसम्बन्धो नास्तीत्यर्थः ।
अनधिगतं प्रतिपादनार्हमेवेति चोदयति -
कथमिति ।
विचारानपेक्षप्रत्यक्षादिप्रमाणैरत्यन्तानधिगत एव प्रतिपाद्यते । इह तु विचारापेक्षप्रमाणत्वात् तेन सामान्यरूपेणापि अप्रतिपन्नं प्रतिपादयितुमशक्यमप्रतिपन्ने विमर्शासम्भवात् , तदुद्देशेन विचारायोगादित्यभिप्रेत्याह -
यन्नकदाचिदपीति ।
केनापि रूपेणेत्यर्थः ।
प्रसिद्धपक्षे सम्बन्धसम्भवात् प्रसिद्धपक्षे एव सम्बन्धाक्षेप इत्याह -
प्रसिद्धं पुनरिति ।
प्रतिपाद्यत्वयोग्यतारूपसम्बन्धासम्भवात् प्रमीयमाणतया विषयत्वं प्रमिततया प्रयोजनत्वं च नास्तीति भावः ।
त्रितयमपि समाधत्त इति ।
सामान्येन प्रतिपन्नं विशेषरूपेण निर्णयाय विचारयोग्यं भवति विशेषरूपेणापि आपातदर्शनेन प्रतिपन्नं विशेषनिर्णयाय विचारयोग्यं भवति । तत्र ब्रह्मणोऽपि ब्रह्मपदेनानिश्चितविशेषप्रतिभासगोचरतया प्रतीतत्वादेव विचारयोग्यत्वात् सम्बन्धसिद्धेः पदस्य प्रमाणत्वाभावादेव शास्त्रातिरिक्तप्रमाणेन प्रमितत्वाभावात् । शास्त्रेण प्रमीयमाणतया विषयत्वसिद्धेः, शास्त्रेण प्रमिततया शास्त्रं प्रति प्रयोजनत्वसिद्धेश्च त्रितयमपि युज्यत इति समाधत्त इति भावः । अभिप्रेतप्रयोजनसाधन इत्यर्थः ।
प्रमितिविशिष्टब्रह्मणः प्रयोजनत्वं तस्यैव प्रमीयमाणतया विषयत्वं तस्यैवाज्ञाततया प्रमेयत्वयोग्यतारूपसम्बन्धित्वमिति नियमात् । प्रयोजनं ब्रह्म, तस्य साधनं विचारशास्त्रमित्युक्तम् । विचारशास्त्रं प्रति विषयत्वं सम्बन्धित्वं च प्रयोजनबुद्ध्या प्रतीयत इति पृथगेव न वदितव्यौ विषयसम्बन्धाविति चोदयति -
एवमपीति ।
सम्बन्धाविति चोदयति -
एवमपीति ।
मृदेव घटावस्थेति न घटः प्रयोजनमित्यर्थः ।
द्विविधं विषयत्वं तेन साधनेन जायमानातिशयभाक्त्वमन्येनासाध्यत्वं च तत्र जायमानातिशयभाक्त्वं नाम विषयत्वं प्रयोजनबुद्ध्या प्रतीयत एव न त्वन्यसाध्यतारूपविषयत्वं प्रतीयत इति पृथग्वक्तव्यमित्याह -
सत्यमेवमिति ।
पृथग्वक्तव्यत्वसिद्धये नान्यसाध्यतारूपविषयस्य प्रयोजनस्य सम्बन्धस्य च पृथगेव वर्तनादन्यतमेन सहान्यतमस्य अवस्थानं नास्तीति दर्शयति -
यथा चिकित्सेत्यादिना ।
बहूनीति ।
बहूनि साधनानि विद्यन्ते अतस्तेषां सम्बन्धप्रयोजनयोः भावेऽपि अनन्यसाध्यरूपविषयो नास्तीत्यर्थः ।
इतरयोर्भावे विषयस्याभावे लौकिकोदाहरणमाह -
यथा तण्डुलनिष्पत्तीति ।
दलनं प्रस्थपृष्ठादिना मर्दनमुच्यते ।
अनन्यसाधारणोविषयः शब्दार्थत्वेन क्व दृश्यत इति तत्राह -
यथा अर्जुनस्यायं विषय इति ।
कर्णो विषय इत्यर्थः ।
विषयप्रयोजनयोर्भावेऽपि सम्बन्धाभावे उदाहरणमाह -
यथा साधुशब्दपरिज्ञानमिति ।
केनचिदिति ।
चिकित्साव्यापारादिनेत्यर्थः ।
यथा वौदननिष्पत्तिरिति ।
सम्बन्धाभावे लौकिकदृष्टान्तः ।
एकक्रियानियतापीति ।
पाकक्रियातः प्रागेकक्रियानियतापीत्यर्थः ।
भिद्यत इति ।
सहैवस्थितानि न भवन्तीत्येकबुद्ध्या तदितरप्रतीतिरेकाभिधानेनेतरस्यार्थात् सिद्धिरिति च नास्तीति पृथग्वक्तव्यानीत्यर्थः ।
स्वरूपभेदे पृथगभिधानापेक्षायामविकलं त्रितयं सम्भूय प्रवृत्त्यङ्गमिति तत्र व्यतिरेकमुखेन प्रवृत्तिहेतुत्वं दर्शयति -
तानि चेति ।
प्रसिद्धाप्रसिद्धपक्षयोरुक्तप्रयोजनविषयसम्बन्धासम्भवाशङ्कानिराकरणपरत्वेन उत्तरभाष्यस्याधिकरणसमाप्तेः तात्पर्यमाह -
तत्र विप्रतिपत्त्या इत्यादिना ।
विप्रतिपत्त्येति ।
विप्रतिपत्तिप्रदर्शनेन ब्रह्मशब्दव्युत्पत्तिप्रदर्शनेन चेत्यर्थः । प्रत्यगर्थो नामाहमिति प्रतीयमानं रूपं तस्य देहाद्यनेकसाधारणत्वप्रतीतेः साधारणरूपत्वम् , तद्योगितया ब्रह्मभूतात्मनोऽहंप्रत्ययेन प्रतीतेः ब्रह्मणः सामान्यप्रतीतिरस्ति । न तु विशेषेणाहं ब्रह्मेति प्रत्यक्त्वस्य, विशेषणत्वेन देहादीनां विप्रतिपत्तेरतो ब्रह्मणः सामान्यप्रसिद्धेरनूद्य प्रतिपादनसम्भवात् सम्बन्धः सम्भवति । ब्रह्मात्मैक्यमिति विशेषरूपस्य अन्येनाप्रमिततया अपूर्वत्वेन शास्त्रं प्रति विषयत्वं च विद्यत इति दर्शयन् विषयसम्बन्धौ समर्थितवानिति भावः ।
ब्रह्मणो वेदान्तविषयत्वसम्बन्धित्वसम्भवेऽपि विचारशास्त्रं प्रति विषयत्वं सम्बन्धित्वं च नास्तीति चोदयति -
ननु ब्रह्मेति ।
ब्रह्मजिज्ञासेति शास्त्रस्यापि ब्रह्मविषयत्वं प्रतीयत इति नेत्याह -
शास्त्रं च तेषामिति ।
न्यायविषयमिति ।
शास्त्रशब्दोदितसूत्रवाक्यानि न्यायविषयाणि, न्यायाश्च प्रमाणप्रमेयसम्भावनादिविषया इत्यर्थः ।
प्रयोजनं त्विति ।
सम्भावनावगमव्यापारान्तरप्रयोजनद्वारेण परम्परया ब्रह्म प्रयोजनं भवतीत्यर्थः । धर्मार्थाभ्यां हि कामाख्यसुखमेव प्राप्यत इति शास्त्रयोस्तत्परतोक्तेति द्रष्टव्यम् ।
करणेतिकर्तव्ययोरेकमेव प्रयोजनमिति निर्णीतं प्रथमे तन्त्रे । इहापि निर्णीतशक्तितात्पर्यविशिष्टवेदान्ता एव ब्रह्मावबोधे करणम् । तत्र वेदान्तवाक्यविषयविचारः शक्तितात्पर्यनिर्णयहेतुतया करणस्वरूपोपकार्याङ्गम् । ब्रह्मविषयविचारश्च करणसाध्यब्रह्मावगमाख्यफलोपकार्यङ्गमत उभयविधविचारस्य करणस्य ब्रह्मावगत्येकफलत्वमवगम्यमानब्रह्मैकविषयत्वं च विद्यत इति न विषयभेद इति चोदयति -
नन्वाग्नेयादीनामिति ।
कथं सम्भावनाबुद्धिहेतुतया तद्विषयस्य विचारस्य ब्रह्मावगमजनकतया तद्विषयत, न ह्यन्यविषयो व्यापारोऽन्यविषय इत्याशङ्क्य विचारस्य प्रमाणप्रमेयसम्भावनावगमफलद्वारेण ब्रह्मावगमफलं प्रत्यपि हेतुत्वात् अनवगमहेतोरनवगम्यविषयत्वात् ब्रह्मकर्मता न विरुध्यत इत्येतदभिप्रेत्याह -
न हि छेत्तुरिति ।
परशुविषयव्यापारस्य परशोरूर्ध्वाधोदेशसंयोगविभागाख्यफलजननद्वारेण वृक्षद्वैधीभावाख्योद्देश्यफलं प्रत्यपि हेतुत्वात् वृक्षविषयत्वमित्याह -
तदर्थत्वादिति ।
द्वैधीभावफलविशिष्टवृक्षार्थत्वात् वृक्षविषयत्वमित्यर्थः ।
करणस्य द्वारत्वादिति ।
ऊर्ध्वाधोदेशसंयोगविभागाख्यफलविशिष्टकरणस्य द्वारत्वात् करणार्थयोस्तद्विषयत्वमित्यर्थः ।
अन्यथेति ।
परशुरेव विषयो न वृक्षो विषय इति चेत् वृक्षे फलं न स्यादिति भावः ।
आगमात् अन्वयव्यतिरेकाभ्यां वा इतिकर्तव्यता गम्येत, विचारस्य तु इति कर्तव्यतायामुभयत्र प्रमाणस्याप्यभावात् वेदान्तशब्दादेव ब्रह्मावगमोत्पत्तेर्न विचारस्येतिकर्तव्यतया ब्रह्मावमगजनकत्व इत्यपसिद्धान्तिनं परिहरति पूर्ववादी -
विषम उपन्यास इति ।
अङ्कुरद्वैधीभावाङ्गभूतमृज्जलकर्तृव्यापारावभिप्रेत्याह -
यत्र यदुपकारमन्तरेणेति ।
यथा चक्षुरादयः सम्यग्ज्ञानहेतवोऽपि दोषसंयोगात् संशयविपर्यासौ जनयन्ति पुनः सम्यग्ज्ञानजन्मनि च दोषापकर्षमपेक्षन्ते । एवं शब्दः शक्तितात्पर्याज्ञानतद्विपर्यासज्ञानदोषात् संशयादिज्ञानमुत्पादयति । तत्र दोषापनयनेन शाब्दविपर्यासादिनिवर्तनेन ब्रह्मनिर्णयाय शक्तितात्पर्यविचारोऽङ्गभावमश्नुत इति चोदयति -
ननु संशयविपर्यासेति ।
शाब्दसंशयविपर्यासनिरासद्वारेण ब्रह्मनिर्णयहेतुत्वादित्यर्थः । अत्र निर्णेयेति ब्रह्मोच्यते । निर्णयहेतोर्विचारस्येत्यर्थः ।
शब्द एव दोषवशात् अन्यथाज्ञानं जनयति । विचारश्च दोषनिरासेन विपर्यासादिकं निरस्य ब्रह्मावगमहेतुतया ब्रह्मविषय इति पक्षो न सम्भवति । शब्दे दोषाभावादपि तु प्रयोगान्तरेष्वन्यथाशक्तितात्पर्योन्नयनदर्शनादिहापि तथाविधत्वमस्तीति सामान्यतो दर्शनेन अर्थविरोधबुद्ध्या च पुरुषदोषेण अन्यथाज्ञानान्युत्पद्यन्ते, न तु शब्दात् , शब्दाच्च तत्त्वज्ञानमेवोत्पद्यते । ततश्च शब्दात् पुरुषदोषाच्च बहुषु परस्परविरोधिषु ज्ञानेषु जातेषु शब्दशक्तितात्पर्यावधारणहेतुविचारः पुरुषदोषापनयनेन प्रतिपक्षज्ञानान्तराख्यं प्रतिबन्धं निवर्तयति । निवृत्ते च प्रतिबन्धे शब्दादेव तत्त्वज्ञानंजायते, जातं वा निश्चलमवतिष्ठते, तस्मात् न विचारः प्रमाणेतिकर्तव्यतया ब्रह्म विषय इत्याह -
नैतत् सारमिति ।
सामान्यतो दृष्टनिबन्धनानीति ।
सामान्यतो दृष्टं तु पुरुषदोषः न शब्ददोष इति भावः ।
निर्णयज्ञानोत्पत्ताविति ।
ब्रह्मनिर्णयज्ञानोत्पत्तावित्यर्थः ।
वैधर्म्यदृष्टान्तमाह -
यथा चक्षुरिति ।
निमित्तान्तरानुगृहीतमिति ।
दोषनिरासानुगृहीतमित्यर्थः ।
एवं पूर्ववादिना अपसिद्धान्ते निरस्ते सिद्धान्तयति -
अत्रोच्यत इति ।
शुक्तिज्ञानोदये रजतभ्रमवन्नित्याशङ्कां निरस्यति -
स्वोत्पत्तीति ।
सामान्यतो न दृष्टनिबन्धनस्य न बाधः, समकालत्वादित्याह -
समकालेति ।
अनेन सहोत्पन्नत्वे शब्देनान्वयव्यतिरेकाद्धेत्वन्तराभावाच्च, शब्दजन्यमेव स्यादिति -
नेति ।
प्रयोगान्तरेष्वन्यथा अन्यथा शक्तितात्पर्यदर्शनात् इहापि तथाभावबुद्ध्या तथाविधार्थस्य च लोकेऽन्यथाभावदर्शनादिहापि अन्यथाभावबुद्ध्या जातेनेत्यर्थः ।
सामग्रीयेऽन्यविषयत्वान्न विरोध इति तत्राह -
अर्थान्तरेति ।
यथा द्वौ चन्द्राविति भ्रान्त्या एकश्चन्द्र इति सम्यग्दर्शनस्य सहवृत्तित्वेऽपि तदिद्वत्वज्ञानमपबाध्यैव वर्तते तद्वत् शाब्दं ज्ञानं किमिति न बाध्यत इति निश्चलमिवेति इवशब्दस्य सम्बन्धः ।
लक्षणयेति ।
शाब्दब्रह्मनिर्णयप्रतिबन्धनिवर्तकत्वात् मीमांसायाः निर्णयाहेतुत्वेऽपि निर्णयजनने न ब्रह्मविषयत्वमुपचारेणोच्यत इत्यर्थः ।
उक्तमर्थं निगमयति -
तच्चेदं त्रयमित्यादिना ।
तत्प्रत्ययमात्रेणेति ।
तस्य भगवतः प्रामाणिकत्वप्रतिपत्त्येत्यर्थः ।
निर्देशादृत इति ।
प्रयोजनविशेषनिर्देशेन विनेत्यर्थः ।
तस्येति ।
प्रयोजनरूपब्रह्मण इत्यर्थः ।
साध्योऽपीति ।
सम्बन्धोऽपीत्यर्थः ।
निर्दिष्ट इति ।
निर्दिष्टे साधने प्रवृत्तिर्नैव स्यादित्यर्थः । तत्र सम्बन्धो नाम शास्त्रेण प्रतिपादयितुं योग्यत्वं तस्य योग्यस्यानेनैव प्रतिपाद्यत्वं विषयत्वं योग्यस्य विषयस्य शास्त्रजन्यप्रमितिविशिष्टत्वं प्रयोजनत्वमिति ब्रह्मण एव शास्त्रं प्रति सम्बन्धित्वं विषयत्वं प्रयोजनत्वं च वक्तव्यमिति भावः ।
न ब्रह्म सामान्येनापि लोके प्रतिपत्तुं शक्यं प्रमाणान्तरागोचरत्वान्नाप्यागमसामर्थ्यात्तत्र प्रयुज्यमानस्य ब्रह्मशब्दस्यानवधृतार्थत्वात् । न च पदमात्रादेव अर्थान्तरसिद्धिः, जात्याद्यर्थान्तरेषु प्रसिद्धत्वात् । तस्मान्न प्रसिद्धमुद्दिश्य विचारविधानोपपत्तिरिति चोदयति -
कथमिति ।
ब्रह्मशब्दस्तावदिति ।
श्रुतावपि ब्रह्मशब्दप्रयोगसामर्थ्यादेव जात्यादिकं शङ्क्यत इति भावः ।
प्रयोगानुपपत्तिरर्थान्तरसद्भावे प्रमाणमित्याह -
अतो नूनमन्यदेवेति ।
श्रौतप्रयोगानुपपत्तिर्नापूर्वमर्थं गमयति । लौकिकप्रयोगाधीनत्वाच्छ्रौतप्रयोगस्य इति तत्राह -
तेन स्वर्गापूर्वदेवतेति ।
‘तानि धर्माणि प्रथमान्यासन्’ इति धर्मशब्दप्रयोगो वेदे अपूर्वशब्दप्रयोग इत्यभिप्रेयते । प्रयोगादेव प्रयोगानुपपत्त्येत्यर्थः ।
लोके व्युत्पत्तिमनपेक्ष्य मुमुक्षुजिज्ञासां प्रति कर्मसमर्पकत्वेन प्रयुक्तपदत्वात् तेन ब्रह्मपदेनान्यतोऽसिद्धनिरतिशयपुरुषार्थब्रह्मणः सिद्धिरित्युक्तं न घटते पदमात्रस्यान्यतः सिद्धानुवादकत्वात् सर्वत्रेति चोदयति -
नैतत्सारमिति ।
अत्र चक्षुःशब्देन प्रत्यक्षमुच्यते । सम्बन्धग्रहणाभावात् नानुमानवदित्यादिशब्देनोच्यते ।
यत्र शीतं न चोष्णमित्यादिसन्निहितानेकवाक्यार्थसामर्थ्यलभ्यः स्वर्गादिपदार्थ इति मत्वाह -
स्वर्गाद्यर्थोऽपीति ।
विप्रलम्भभ्रान्त्यादिदोषरहितवेदसूत्रवाक्यार्थनिर्णयस्यावश्यलभ्यत्वात् वाक्यार्थप्रमितिसिद्धये प्रसिद्धपदार्थैः पदान्तरैः सहाप्रसिद्धपदार्थपदप्रयोगानुपपत्तिरेव तस्य पदस्यार्थेन सम्बन्धग्रहणानपेक्षया अपूर्वमर्थं पदवाच्यत्वेन प्रतिपादयतीति परिहरति -
यस्मिन् वाक्य इति ।
सह प्रयोगानुपपत्त्या पदार्थस्वीकारे नियामकाभावात् यः कश्चिदर्थः स्वीकार्यः स्यादिति तत्राह -
तत्र निगमनिरुक्त इति ।
निगमो नाम शब्दस्य प्रसिद्धार्थतदवयवौ परित्यज्य तस्य शब्दस्य शब्दान्तरेष्वेकदेशानुगमनेन शब्दान्तरार्थे वृत्तिः । निरुक्तं नाम शब्दस्य सर्वावयवार्थानुगमेन प्रसिद्धादर्थात् अर्थान्तरे वृत्तिः, व्याकरणमस्मिन्नर्थे अयं प्रत्ययो भवतीति प्रत्ययविधानसामर्थ्यादर्थनिश्चयः ।
एवं रूपपदार्थेति ।
लोकव्युत्पत्तिहीनपदार्थ समर्पकत्वेन हेतूनां विद्यमानत्वादित्यर्थः ।
प्रसिद्धबलेनाप्रसिद्धमुपादीयते, न चाप्रसिद्धेन प्रसिद्धं त्यज्यत इत्यत्र को विशेष इति तत्राह -
न पुनरेकाप्रसिद्ध्येति ।
प्रसिद्धार्थस्यानेकत्वादप्रसिद्धार्थस्य चैकत्वादनेकानुसारेणेकस्यार्थो मृग्य इत्येको न्यायः । प्रधानभूतवाक्यार्थस्य त्यागप्रसङ्गात् उपसर्जनभूतपदार्थमन्विष्यापि वाक्यार्थपूरणं युक्तमिति चापरः । प्रसिद्धानुगुण्येन प्रसिद्धार्थस्वीकारेणार्थवत्ताप्रसिद्धिः, प्रयोगानुपपत्त्या प्राप्ताबलीयस्य प्रसिद्धिबाधिका न त्वप्रसिद्ध्या प्रागभावरूपयाभावरूपागन्तुकी प्रसिद्धिः त्याज्येति न्यायत्रयमिहोक्तं द्रष्टव्यम् ।
वाक्ये प्रयुक्तपदावयवस्यानेकशब्देष्वन्वयसम्भवात् प्रयुक्तपदावयवार्थस्यापि अनेकार्थेष्वन्वयसम्भवात् तेषामर्थानां मध्ये कोऽर्थस्स्यादस्य प्रयुक्तपदस्येति निर्णयासिद्धेः पदार्थस्यानियमात् वाक्यार्थोऽप्येवंरूप इति नियमो न स्यादिति चोदयति -
ननु निगमादिवशेनेति ।
सिद्धान्ती निगूढाभिसन्धिरुत्तरमाह -
न तर्हि निगमादीनामिति ।
वाक्यार्थप्रमित्यर्थं प्रसिद्धार्थपदान्तरैः सह प्रयोगानुपपत्तिरेव निगमादिवशेनाप्रसिद्धार्थपदस्यार्थमाददाना सन्निहितेतरपदार्थसंसर्गयोग्यतया वाक्यार्थप्रमितिरूपप्रयोजनपर्यन्तमेव पदार्थमाददातीति वाक्यार्थनियमसिद्धिरित्यभिप्रेत्य पूर्ववादी निगमादीनामर्थवत्तामाह -
भवत्यर्थवत्तेति ।
स्वार्थादन्यत्रेति ।
व्युत्पन्नार्थादन्यार्थविवक्षयेत्यर्थः ।
विनियोगादिति ।
वाक्यार्थरूपसंसर्गं निमित्तीकृत्येत्यर्थः ।
कथमाभिदध्यादिति ।
इतरपदार्थसंसर्गयोग्यं प्रमितिप्रयोजनपर्यन्तमर्थं कथमभिदध्यादित्यर्थः ।
तस्यैवेति ।
संसर्गयोग्यार्थगतस्यैवार्थान्वयांशस्य शब्देनानुगमादित्यर्थः ।
प्रयोगानुपपत्तिर्निगमाद्यनुगृहीता फलपर्यन्तवाक्यार्थान्वयिपदार्थाकाङ्क्षानुगृहीता च नियतपदार्थोपादानहेतुभावे रूढेः न विशिष्यते । अतोऽर्थविशेषोपादानाय लोकेनार्थविशेषे शक्तिग्रहापेक्षेति सिद्धान्ती स्वाभिप्रायं विवृणोति -
एवं तर्हीति ।
ब्रह्मशब्दैकदेशबृहतिधातोर्बृहच्छब्देऽन्वयात् बृहच्छब्दार्थे महद्वस्तुनि निगमवृत्त्या ब्रह्मशब्दो वर्तत इत्याह -
तदत्र ब्रह्मशब्देति ।
नोपादेयमित्यापेक्षिकमहद्वस्त्वेवोपादेयं स्यात् न तु लोकप्रयोगाननुसारेण अर्थोपादानमित्याह -
प्रयोगानुगमे चासतीति ।
निरवग्रहमहत्वसम्पन्नवस्तुन एवोपादाने हेतुर्वाक्यार्थान्वयीति । अल्पत्वं नाम वस्तुनो देशकालवस्तुपरिच्छेदः । तद्व्यावृत्तं निरतिशयमहद्वस्तु मुमुक्षुजिज्ञास्यतया वाक्यार्थान्वयित्वाय ब्रह्मशब्देन उपादीयत इत्याह -
ततश्च कालकृतेति ।
भाष्ये नित्यशब्देन त्रिविधमपि महत्वं दर्शितमिति भावः ।
रूपान्तरेति ।
वस्त्वन्तरसद्भाव इत्यर्थः ।
एतेनेति ।
देशस्यापि वस्तुत्वाद्वस्तुपरिच्छेदनिरासेन देशस्य स्वयमसिद्धेः देशपरिच्छेदो नास्तीत्यर्थः ।
व्यावृत्त इति ।
स्यादित्यन्वयः ।
बुद्धत्वादयो गुणाः न महत्वोपयोगिनः, ते कथं बृहत्यर्थगतमहत्वेन ब्रह्मपदादनुगम्यन्त इति चोदयति -
कथमिति ।
गुणतो हीनमप्यल्पं भवति गुणभूयिष्ठं च महद्भवति, अतो बुद्धत्वादिगुणा अपि बृहत्यर्थगतमहत्वेन ब्रह्मपदादवगम्यन्त इत्यभिप्रेत्याह -
अबोधात्मकं हीति ।
इह निकृष्टशब्देनाल्पमुच्यते, उत्कृष्टशब्देन न महदुच्यत इति द्रष्टव्यम् ।
चेतनत्वेऽप्यमुक्तत्वाख्याल्पत्वशङ्कानिरासेन मुक्तत्वमपि बृहत्यर्थगतमहत्वेन ब्रह्मपदादनुगम्यत इत्याह -
मुक्तमिति चेति ।
चेतनस्य मुक्तस्य चासर्वज्ञत्वे सर्वकार्यविषयनियमनादिशक्त्यभावे चापकृष्टतयाल्पत्वव्यावृत्तये सर्वज्ञत्वं सर्वशक्तित्वं च बृहत्यर्थगतमहत्वेन ब्रह्मपदात् गम्यत इत्याह -
सर्वज्ञमिति ।
अन्यतोऽसिद्धस्येति ।
प्रमाणान्तरसिद्धतया लोके ब्रह्मशब्दवाच्यत्वेन गृहीतार्थात् अन्यस्येत्यर्थः ।
तस्येति ।
प्रमाणान्तरसिद्धवस्तुन इत्यर्थः ।
निरुच्यत इति ।
ब्रह्मशब्देनोच्यत इत्यर्थः ।
शब्दादेवेति ।
ब्रह्मशब्दावयवभूतबृहतिधातुशब्दसामर्थ्यादेव धात्वर्थभूतमहत्वान्वयस्य प्रतिपत्तावित्यर्थः । अस्तीति प्रसिद्धमित्यर्थः ।
व्युत्पाद्यमानस्येति ।
अवयवरूपधात्वर्थान्वितवस्तुनि वर्तत इति निरूप्यमाणस्येत्यर्थः ।
धातोरर्थानुगमादिति ।
धातोः स्वार्थमहत्वेऽनुगमाद्धातोरर्थभूतमहत्वे ब्रह्मशब्दस्यानुगमाच्चेत्यर्थः ।
प्रतीतत्वेऽपि प्रमाणेनासिद्धत्वात् न वाक्यार्थान्वयितया तन्निर्णयहेतुत्वं ब्रह्मण इति चोदयति -
नन्वेवमपि व्युत्पत्त्यनुसरणेनेति ।
अवयवार्थनिरतिशयमहत्वयुक्तवस्तुनि ब्रह्मशब्दस्य वृत्त्यनुसरणेनेत्यर्थः ।
एवमात्मक इति ।
वाक्यार्थान्वययोग्ये प्रमाणान्तरेणासिद्धे निरतिशयपुरुषार्थवस्तुनीत्यर्थः ।
जिज्ञासापदस्य सन्निहितस्यानिर्णीतजिज्ञास्यवस्तुसापेक्षत्वात् तदपेक्षितार्थसमर्पकस्य ब्रह्मशब्दस्यानिर्णीतप्रतिपन्नवस्तुमात्रसमर्पणेन वाक्यार्थनिर्णयहेतुत्वं न विरुध्यत इति परिहरति -
सत्यमेवम् , अत एव जिज्ञासेति ।
साध्यत्वसिद्ध्यर्थं प्रतिपाद्यत्वयोग्यत्वाख्यसम्बन्धसिध्यर्थमित्यर्थः ।
सर्वस्यात्मत्वाच्चेति ।
सर्वस्याहंप्रत्ययेनाहमिति प्रतीयमानात्मत्वात् ब्रह्मण इत्यर्थः ।
प्रत्येतीति ।
अहंप्रत्ययेनाहमिति प्रत्येतीत्यर्थः ।
न नाहमस्मीति ।
अहं नास्मीत्यसत्वं न प्रत्येतीत्यर्थः ।
अहमिति शून्य एवायमात्मा प्रतिभासत इति शून्यवादमाशङ्क्याह -
यदि नात्मास्तित्वप्रसिद्धिः स्यादिति ।
आत्मनः प्रत्यक्षसिद्धत्वेऽपि ब्रह्मणः प्रसिद्धिर्न लभ्यत इति तत्राह -
आत्मा च ब्रह्मेति ।
आत्मनि ब्रह्मशब्दस्य वृद्धप्रयोगादर्शनात् ब्रह्मशब्देन कथमात्मा जिज्ञास्यत्वेनोपादीयत इति चोदयति -
कथं पुनरात्मा ब्रह्मेति ।
लौकिकप्रयोगाभावेऽपि ‘स वा अयमात्मा ब्रह्म’ इत्यादौ वैदिकप्रयोगोऽस्तीत्याह -
वेदान्तेष्विति ।
भवत्वात्मनि ब्रह्मशब्दः स त्वात्मा नाहंप्रत्ययगम्यः किन्त्वागमैकगम्य इति नेत्याह -
आत्मानमेव चेति ।
ततश्च प्रतिपन्नमुद्दिश्य विचारसम्भवात् सम्बन्धः सिद्ध इत्यभिप्रेत्याह -
तदेवमहंप्रत्यय एवेति ।
प्रत्यक्षगोचरतया अनन्यसाधारणत्वाभावात् विषयत्वं न सिध्यतीत्याक्षिपति -
यदि तर्हि लोक इति ।
असिद्धमिति ।
अप्रमितमित्यर्थः । साध्यमानं प्रमीयमाणमित्यर्थः ।
विषयसम्बन्धौ समर्थ्येत इति ।
अहमिति प्रतीयमानप्रत्यग्रूपं स्वस्य विशेषत्वेन विप्रतिपद्यमानदेहाद्यनेकसामानाधिकरण्यात् सामान्यं, तत्सामान्यं सिद्धमुद्दिश्य विचारप्रवृत्तेः सम्बन्धः सम्भवति, तस्मिन्सामान्ये विशेषात्मतायां विप्रतिपत्तिदर्शनात् ब्रह्मात्मताख्यविशेषो नान्यतः सिद्ध इति तस्य शास्त्रविषयत्वं सम्भवतीत्येवं विषयसम्बन्धौ समर्थ्येत इति ।
दृश्यते हीति ।
वर्णत्रयातिरिक्तमिति ।
अहमिति वर्णत्रयाभिधेयं विज्ञानं वर्णत्रयमित्युच्यते । तद्व्यतिरिक्तं तदाश्रयभूतं किञ्चिन्नावभासत इत्यर्थः ।
कस्तर्हि अहंप्रत्ययालम्बनतया आत्मेति तदाह -
तेन विज्ञानमेवेति ।
साङ्ख्याभिमतनित्यज्ञानरूपात्मानं व्यावर्तयति -
स्वरसभङ्गुरमिति ।
स्वभावतः क्षणिकमित्यर्थः ।
सोऽहमिति प्रत्यभिज्ञयैकत्वं गम्यत इत्याशङ्क्य ज्वालायामिव सादृश्यात् सन्ततोदयाच्च प्रत्यभिज्ञेत्याह -
अविरतोदयमिति ।
कर्मज्ञानतत्फलबन्धमोक्षाद्याश्रयत्वं क्षणिकस्यायुक्तमित्याशङ्क्य हेतुफलभावेन विज्ञानानामेकसन्तानत्वाद्युज्यत इत्याह -
अखिललोकयात्रानिलयमिति ।
विज्ञानाश्रयैकस्थाय्यात्मन्यङ्गीकृते प्रत्यभिज्ञादि सर्वं मुख्यं लभ्यत इति, न तस्यानुभवाभावादित्याह -
अनुभवभग्नपक्षान्तरमिति ।
उल्लिख्यते गम्यत इत्यर्थः ।
अकस्मादेवेति ।
सुषुप्त्यनन्तरमहमिति जायमानप्रत्ययस्य समनन्तरपूर्वज्ञानाख्यकारणाभावादसत्वादहमिति प्रतीयमानं शून्यमेव न विज्ञानमित्यर्थः । अहमुल्लेखशून्यस्य अहमिति प्रतीयमानरूपहीनस्य भोक्तृत्वस्य रूपादिविषयसंविदाश्रयत्वस्याहमिति प्रतीयमानरूपस्यैव विषयसंविदाश्रयत्वदर्शनादित्यर्थः ।
तस्य चेति ।
अहमिति प्रतीयमानरूपस्येत्यर्थः ।
अवधिहेत्वनुपलब्धेरिति ।
अवधिर्नाशः तदस्यास्तीत्यवधिहेतुः, तद्भावोऽवधिहेतुत्वं, नाशनिमित्तत्वं नास्तीति निरवयवासङ्गस्य हेतूपरागायोगादित्यर्थः । अथवा स्थिरत्वादेव स्वस्य स्वनाशं प्रति हेतुत्वानुपपत्तेरित्यर्थः ।
कथं तस्य कर्तृत्वभोक्तृत्वाख्यसंसारित्वमिति तत्प्रतिपादयति -
निर्विकारस्येत्यादिना ।
तस्य भोक्तृत्वानुपपत्तेरित्युक्तमिति ।
तस्य देहादेश्चैतन्यवत्वलक्षणभोक्तृत्वानुपपत्तेरित्यर्थः ।
शरीरस्य केवलपार्थिवत्वं नैयायिकवैशेषिकाभिमतं व्यावर्तयति -
भूतसङ्घातस्तावत् शरीरमिति ।
भूतैरारब्धावयविरूपं शरीरमित्यनङ्गीकृत्य भूतसङ्घातः शरीरमित्यभ्युपगमे सङ्घातस्य भूतेभ्यो भेदे वस्तुत्वे च तत्त्वातिरेकप्रसङ्गादवस्तुत्वे च चैतन्यवत्वाख्यभोक्तृत्वायोगात् सह व्युपहितभूतानां भोक्तृत्वे वक्तव्ये विकल्पयति -
तत्र व्यस्तानामिति ।
व्यस्तानां चैतन्यरूपभोग इति पक्षे विकल्पयति -
युगपत् क्रमेण वेति ।
स्वार्थ प्रयुक्तत्वादिति ।
स्वप्रयोजनार्थत्वात् प्रवृत्तेरित्यर्थः ।
क्रमपक्षेऽपि भोक्तॄणां न सङ्घातापत्तिरिति, तत्राह -
विरोधाद्वरगोष्ठीवदिति ।
क्रमेणोद्वाहेन कन्या भोक्तृणां वराणां समिदाहरणादिना उपकार्योपकारकभावेन सङ्घातापत्तिवदित्यर्थः ।
(किंरूपरससन्दर्भः) भाष्यं विवृणोति । वराणां तु क्रमेणोपस्थितकन्यावस्तुष्वेकैकस्य भोग्यस्यैकैकवरं प्रत्यसाधारणत्वात् क्रमेण भोक्तृत्वस्याप्यसाधारणत्वमतो गुणप्रधानतया वराणां सङ्घातश्च सिध्यतीत्याह -
नैतदेवमिति ।
प्रतिपुरुषनियमादिति ।
प्रतिपुरुषं विषयभेदनियमात् । क्रमभावित्वनियमाच्च विषयस्येत्यर्थः ।
साधारणे च भोग्य इति ।
सर्वभूतानां विषयस्यैकत्वे बहुत्वे च युगपत् सर्वभूतानां विषयसद्भावे सतीत्यर्थः ।
प्रतिनियतभोगव्यवस्थेति ।
प्रतिनियतभोगस्य क्रमभावे हेत्वसम्भवादित्यर्थः ।
समूहस्येति ।
एकस्मिन् भूते चैतन्यं नास्ति, चतुष्टयेऽप्येकं चैतन्यं जायत इति चतुष्टयाख्यसमूहस्य भोक्तृत्वमित्यर्थः ।
एकस्मिन् भूते अविद्यमानचैतन्यं कथं चतुष्टयाख्यसमूहे जन्यत इति तदाह -
तिलज्वालावदिति ।
तिलसमूहे ज्वालाजन्मवदित्यर्थः ।
समूहस्य भूतातिरिक्तस्यानतिरिक्तस्य चानिरूप्यत्वादेव तस्य भोगायोगात् दुर्निरूपसमूहोपहितभूतानामेव भोक्तृत्वे वक्तव्ये सत्यागामिभोगं प्रति भूतानां समानत्वात् गुणगणप्रधानतया सङ्घातसिद्धिरित्याह -
नैतदेवं, भोगेष्विति ।
भोगेषु साध्यतया निमित्तेषु सत्स्वित्यर्थः ।
भोगान्वयात् प्राग्भूतानां कर्तृत्वात् , कर्तॄणां भोगे गुणभावेन सङ्घातोपपत्तिरिति चोदयति -
कथमसम्भव इति ।
भोगान्वयात् प्रागप्यागामिभोगं प्रति स्वामितया भोक्तृत्वात् भोक्तॄणां न गुणप्रधानतया सङ्घातसिद्धिरिति परिहरति -
भोक्तुः भोगं प्रति इति ।
साध्यभोगार्थं तद्भोक्तॄणां समूहो दृष्ट इति चोदयति -
ननु भोगेऽपीति ।
शरीरयोरभोक्त्रोः भोक्त्रात्मार्थतया गुणप्रधानभावेन सङ्घातः, न तु भोक्त्रात्मनोरित्यभिप्रेत्य परिहरति -
नैतत् सारमिति ।
समूहस्येति ।
संहतशरीरद्वयस्य भोक्तृत्वं नास्तीत्यर्थः ।
तिलज्वालायां तु विपरीतमिति ।
ज्वालायाः कार्यत्वात् तां प्रति कर्तृत्वेनान्वितानां तिलानां गुणभावः सम्भवति । चैतन्यस्य तु भोगत्वात् तं प्रति भोक्तृत्वेनान्वितभूतानां गुणप्रधानभावो न घटत इत्यर्थः ।
अनेकभोक्तृणां सङ्घातासम्भवश्चेत् सङ्घातसिद्ध्यर्थमेकस्यैव संहत्युपहितस्य भोग इति पक्षमाह -
अस्त्वेकस्य तर्हि नियत इति ।
रूपरसगन्धस्पर्शेषु भोग्येषु कठिन - मृदु - पाक - चलनगुणवति भूतसङ्घाते च भोगान्वयिनि परिदृश्यमाने सति कस्यैकस्य भोग इत्यनवधारितो भोगः स्यादिति दूषणमाह -
न तत्रापीति ।
यस्य कस्यचिद्भोगः स्यात् तावतैव शरीरव्यतिरिक्तस्य भोक्तुरभावो विवक्षितः सिद्ध इति चोदयति -
किमवधारणेनेति ।
समेष्विति ।
चतुर्णां भूतानां भोगान्वयदर्शनात् भोक्तृत्वेन समेष्वित्यर्थः ।
अयुक्त इति ।
शरीरात्मकेषु भूतेषु भोक्तृत्वमयुक्तमित्यर्थः ।
इन्द्रियात्मकेषु भूतेषु भोक्तृत्वं शरीरेन्द्रियाख्योभयात्मकभूतेषु भोक्तृत्वमिति च लोकायतपक्षौ तयोरपि पक्षयोरुक्तं दूषणं समानमित्याह -
एवं करणात्मकेष्वित्यादिना ।
एके प्रस्थिता इति ।
साङ्ख्या इत्यर्थः ।
आत्मस्वरूपचैतन्यस्य अहंप्रत्यये, नाहमित्यात्मप्रतिभासे व्यभिचाराभावात् । करोमि जानामि भूञ्ज इत्याकारणामात्मस्वरूपत्वे सत्वेऽहमित्यात्मना व्यभिचाराभावः स्यात् । व्यभिचारादेवात्मस्वरूपत्वं नास्तीत्याह -
करोमि जानामीति ।
अहं करोमीत्यहंप्रत्ययेन कर्तृत्वे प्रतीयमाने जानामीत्याद्याकारो न प्रतीयते । अहं जानामीति अहं भुञ्ज इत्याद्याकारप्रतीतिकाले करोमीत्याकारो न प्रतीयते । अतो न सर्वदा अहंप्रत्ययेऽनुषङ्ग इत्यर्थः ।
नायं तद्विषय इति ।
अहंप्रत्ययः कर्तृत्वादिविषयो न भवतीत्यर्थः ।
तदुल्लेखविकल इति ।
करोमीत्याद्याकार प्रतिभासविकल इत्यर्थः ।
अहं दुःखीति दुःखान्वयित्वं भोक्तृत्वमित्यङ्गीकृत्य तस्याप्यहमित्यात्मप्रतिभासव्यभिचारादात्मस्वरूपत्वाभावं शङ्कते -
ननु भोक्तापि तर्हीति ।
तदुल्लेखाभावादिति ।
अहं सुखी दुःखीति सर्वदा अहंप्रत्ययेन प्रतिभासाभावादित्यर्थः ।
भोक्तृत्वमिति चेतनत्वं विवक्ष्यते । तस्याहमित्यात्मप्रतिभासे सति व्यभिचाराभावादात्मस्वरूपमेवेत्याह -
नैतदेवमिति ।
कथं चेतनत्वमेव भोक्तृत्वमित्याशङ्क्य सर्वस्य दृश्यतया तदर्थत्वात् । सर्वशेषिचेतन एव भोक्तेत्याह -
तदर्थत्वात् ।
सर्वस्येति ।
तस्मादपि देहादिव्यतिरिक्तादन्यः सदा सिद्ध ईश्वर इत्युत्तरेण सम्बन्धः ।
विविधविन्यासरूपकार्यत्वाद्विशिष्टविज्ञानवत्कर्तृकमितीश्वरसद्भावे वैशेषिकानुमानं दर्शयति -
शरीरिणामिति ।
साङ्ख्ययोगानुमानं दर्शयति -
सातिशयानामिति ।
परिणामानामुपलब्धेति ।
आकाशगतनिरतिशयपरिणामेनाविनाभावो दृष्ट इत्यर्थः । काष्ठाप्राप्तिरसर्वविषयत्वेऽपि सम्भवतीति सर्वविषयमिति वेत्युक्तम् । ज्ञानादिशक्तयः क्वचित् सर्वविषयज्ञानादिशक्त्यविनाभूता इत्यर्थः ।
ब्रह्मात्मवस्तुनोऽहमिति प्रतिपन्नसामान्यरूपस्य प्रत्यगात्मनो विशेषतयाहंप्रत्ययपर्यवसानयोग्यवदवभासमानदेहादीनां विप्रतिपत्तिस्कन्धतया प्रदर्शनावसरे कथमहंप्रत्ययपर्यवसानभूमितया प्रत्यगात्मनो विशेषत्वेनानवभासमानस्येश्वरस्य विप्रतिपत्तिस्कन्धत्वप्रदर्शनमित्याशङ्कते -
नन्वहमिति ।
ब्रह्मणो विप्रतिपत्त्यालम्बनत्वात् तद्ब्रह्म प्रत्यगात्माव्यतिरिक्तं च व्यतिरिक्तं चेति विप्रतिपत्तिं दर्शयितुं व्यतिरिक्तेश्वरपक्षप्रदर्शनं युज्यत इत्याह -
उच्यत इति ।
ब्रह्मणि विप्रतिपत्तिप्रदर्शनं चेत् प्रक्रान्तं किमिति, तर्ह्यात्मनि विप्रतिपत्तिः प्रदर्श्यत इति तत्राह -
अहं प्रत्ययविषयविप्रतिपत्त्यापीति ।
प्रणाड्या व्यवधानेनेत्यर्थः । प्रत्यगात्मा सर्वज्ञत्वादिगुणकत्वात् ब्रह्मणोऽन्योऽनन्यो वेति विप्रतिपत्तिं दर्शयितुं तद्व्यतिरिक्तः ईश्वरः साधितः, विप्रतिपत्तिस्कन्धत्वात् , अतो व्यवधानेन अहंप्रत्ययविषयविप्रतिपत्तिप्रदर्शनमेव एतदिति वा परिहारग्रन्थस्याभिप्रायः ।
आत्मा स भोक्तुरिति ।
स ईश्वरो भोक्तुः स्वरूपमित्यर्थः ।
ब्रह्मेति कैश्चित् प्रतिपन्न इति ।
स भोक्ता ब्रह्मेति कैश्चित् प्रतिपन्न इत्यर्थः ।
संसारिणः कथं असंसारिणैकत्वमिति तत्राह -
तस्याहंप्रत्ययसिद्ध इति ।
एवमसाविति ।
ईश्वर इत्यर्थः । ब्रह्मेति प्रत्यगात्मेति प्रतिपन्ना इत्यर्थः ।
मनोरथमात्रेणेति ।
प्रमाणयुक्तिमूला चेत् विप्रतिपत्तिर्निराकार्या स्यात् नान्यथेति भावः ।
युक्तिवाक्याश्रयान्त्यपक्षावलम्बिनो वेदान्तिनः, इतरे त्वर्वाचीनपक्षावलम्बिनो युक्त्याभासवाक्याभासाश्रया इति व्यवस्थाभिधानपरतया युक्तिवाक्येत्यादिभाष्यं योजयति -
युक्तिमित्यादिना ।
दर्शयद्भिरिति ।
मीमांसकैरित्यर्थः ।
मीमांसकैः दर्शितत्वमात्रेण युक्त्याभासत्वं न सिध्यति त्वयैव प्रदर्शनीयमिति अत आह -
इतरेषां चेति ।
अन्त्यपक्षादितरेषां देहादीनामित्यर्थः ।
अत्रैव प्रदर्शनीये सति कथं दर्शयिष्याम इत्युच्यत इति तत्राह -
दर्शितं चेति ।
यस्य यस्मिन्नभिरुचिरुत्पद्यते तं पक्षमाश्रित्य पुरुषार्थं साधयेत् , किं विचारेणेति ? तत्राह -
तत्राविचार्येति ।
अतथाभावादिति ।
तस्य पक्षस्य सम्यग्ज्ञानाहेतुत्वादित्यर्थः ।
श्रुतावात्महननमनर्थहेतुरुक्तो न त्वात्मप्रतिपत्तिरिति तत्राह -
अनात्मदर्शनेनेति ।
आत्महनो जना इति प्राणत्यागिन उच्यन्त इत्याशङ्क्यात्मप्रकरणत्वात् न प्राणत्यागस्य सङ्गतिरित्याह -
प्राणत्यागस्येति ।
सूत्रवाक्यार्थमुपसंहरति -
तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेनेति ।
जिज्ञासापदेन लक्षितविचारकर्तव्यतार्थामित्यर्थः । इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमज्ज्ञानोत्तमभगवत्पूज्यपादशिष्येण उत्तमज्ञयतिवरेण विरचितायां लावण्यपादिकायां प्रथमसूत्रम् । || इति तुरीयवर्णककाशिका ||