अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

४ परिच्छेदः

विचा­र­वि­धि­सा­म­र्थ्या­देव विचारशास्त्रस्य प्रयो­ज­ना­दि­ष्व­व­ग­तेषु कथमाक्षेप इति चोदयति -
कथमिति ।

प्रतिपन्नमुच्यत इति । इति ।
प्रतिपन्नमुच्यत इत्यर्थः ।

प्रति­प­न्नं­श­ब्दे­ना­नूद्य प्रतिपादयितुं शक्यत्वात् कथमविषय इत्याह -
कस्मादिति

प्रति­पा­द्य­त्वे­नेति ।
प्रागनधिगतं शास्त्रेण प्रमीयमाणं तस्य विषयो भवतीत्यर्थः ।

पूर्वावगमेन प्रमितत्वात् शास्त्रेण प्रमितमिति रूपेण शास्त्रं प्रति ब्रह्मप्रयोजनं न भवतीत्याह -
तत­श्चा­ने­ना­न­व­ग­मा­दिति ।
ब्रह्मावगतिः स्यादिति अवगतं ब्रह्मेत्यर्थः ।

न शक्यमिति ।
प्रति­पा­द्य­त्व­यो­ग्य­ता­रू­प­स­म्बन्धो नास्तीत्यर्थः ।

अनधिगतं प्रति­पा­द­ना­र्ह­मे­वेति चोदयति -
कथमिति ।

विचा­रा­न­पे­क्ष­प्र­त्य­क्षा­दि­प्र­मा­णै­र­त्य­न्ता­न­धि­गत एव प्रतिपाद्यते । इह तु विचा­रा­पे­क्ष­प्र­मा­ण­त्वात् तेन सामान्यरूपेणापि अप्रतिपन्नं प्रति­पा­द­यि­तु­म­श­क्य­म­प्र­ति­पन्ने विमर्शासम्भवात् , तदुद्देशेन विचा­रा­यो­गा­दि­त्य­भि­प्रे­त्याह -
यन्नकदाचिदपीति ।
केनापि रूपेणेत्यर्थः ।

प्रसिद्धपक्षे सम्बन्धसम्भवात् प्रसिद्धपक्षे एव सम्बन्धाक्षेप इत्याह -
प्रसिद्धं पुनरिति ।
प्रति­पा­द्य­त्व­यो­ग्य­ता­रू­प­स­म्ब­न्धा­स­म्भ­वात् प्रमीयमाणतया विषयत्वं प्रमिततया प्रयोजनत्वं च नास्तीति भावः ।

त्रितयमपि समाधत्त इति ।
सामान्येन प्रतिपन्नं विशेषरूपेण निर्णयाय विचारयोग्यं भवति विशेषरूपेणापि आपातदर्शनेन प्रतिपन्नं विशेषनिर्णयाय विचारयोग्यं भवति । तत्र ब्रह्मणोऽपि ब्रह्म­प­दे­ना­नि­श्चि­त­वि­शे­ष­प्र­ति­भा­स­गो­च­र­तया प्रतीतत्वादेव विचा­र­यो­ग्य­त्वात् सम्बन्धसिद्धेः पदस्य प्रमा­ण­त्वा­भा­वा­देव शास्त्रा­ति­रि­क्त­प्र­मा­णेन प्रमि­त­त्वा­भा­वात् । शास्त्रेण प्रमीयमाणतया विषयत्वसिद्धेः, शास्त्रेण प्रमिततया शास्त्रं प्रति प्रयो­ज­न­त्व­सि­द्धेश्च त्रितयमपि युज्यत इति समाधत्त इति भावः । अभि­प्रे­त­प्र­यो­ज­न­सा­धन इत्यर्थः ।

प्रमि­ति­वि­शि­ष्ट­ब्र­ह्मणः प्रयोजनत्वं तस्यैव प्रमीयमाणतया विषयत्वं तस्यैवाज्ञाततया प्रमे­य­त्व­यो­ग्य­ता­रू­प­स­म्ब­न्धि­त्व­मिति नियमात् । प्रयोजनं ब्रह्म, तस्य साधनं विचा­र­शा­स्त्र­मि­त्यु­क्तम् । विचारशास्त्रं प्रति विषयत्वं सम्बन्धित्वं च प्रयोजनबुद्ध्या प्रतीयत इति पृथगेव न वदितव्यौ विष­य­स­म्ब­न्धा­विति चोदयति -
एवमपीति ।

सम्बन्धाविति चोदयति -
एवमपीति ।
मृदेव घटावस्थेति न घटः प्रयो­ज­न­मि­त्यर्थः ।

द्विविधं विषयत्वं तेन साधनेन जाय­मा­ना­ति­श­य­भा­क्त्व­म­न्ये­ना­सा­ध्यत्वं च तत्र जाय­मा­ना­ति­श­य­भाक्त्वं नाम विषयत्वं प्रयोजनबुद्ध्या प्रतीयत एव न त्वन्य­सा­ध्य­ता­रू­प­वि­ष­यत्वं प्रतीयत इति पृथ­ग्व­क्त­व्य­मि­त्याह -
सत्यमेवमिति ।

पृथ­ग्व­क्त­व्य­त्व­सि­द्धये नान्य­सा­ध्य­ता­रू­प­वि­ष­यस्य प्रयोजनस्य सम्बन्धस्य च पृथगेव वर्तनादन्यतमेन सहान्यतमस्य अवस्थानं नास्तीति दर्शयति -
यथा चिकि­त्से­त्या­दिना ।

बहूनीति ।
बहूनि साधनानि विद्यन्ते अतस्तेषां सम्ब­न्ध­प्र­यो­ज­नयोः भावेऽपि अन­न्य­सा­ध्य­रू­प­वि­षयो नास्तीत्यर्थः ।

इतरयोर्भावे विषयस्याभावे लौकिकोदाहरणमाह -
यथा तण्डु­ल­नि­ष्प­त्तीति ।
दलनं प्रस्थ­पृ­ष्ठा­दिना मर्दनमुच्यते ।

अन­न्य­सा­धा­र­णो­वि­षयः शब्दार्थत्वेन क्व दृश्यत इति तत्राह -
यथा अर्जुनस्यायं विषय इति ।
कर्णो विषय इत्यर्थः ।

विषयप्रयोजनयोर्भावेऽपि सम्बन्धाभावे उदाहरणमाह -
यथा साधु­श­ब्द­प­रि­ज्ञा­न­मिति ।

केनचिदिति ।
चिकि­त्सा­व्या­पा­रा­दि­ने­त्यर्थः ।

यथा वौद­न­नि­ष्प­त्ति­रिति ।
सम्बन्धाभावे लौकिकदृष्टान्तः ।

एक­क्रि­या­नि­य­ता­पीति ।
पाकक्रियातः प्रागे­क­क्रि­या­नि­य­ता­पी­त्यर्थः ।

भिद्यत इति ।
सहैवस्थितानि न भव­न्ती­त्ये­क­बुद्ध्या तदि­त­र­प्र­ती­ति­रे­का­भि­धा­ने­ने­त­र­स्या­र्थात् सिद्धिरिति च नास्तीति पृथ­ग्व­क्त­व्या­नी­त्यर्थः ।

स्वरूपभेदे पृथ­ग­भि­धा­ना­पे­क्षा­या­म­वि­कलं त्रितयं सम्भूय प्रवृ­त्त्य­ङ्ग­मिति तत्र व्यतिरेकमुखेन प्रवृ­त्ति­हे­तुत्वं दर्शयति -
तानि चेति ।

प्रसि­द्धा­प्र­सि­द्ध­प­क्ष­यो­रु­क्त­प्र­यो­ज­न­वि­ष­य­स­म्ब­न्धा­स­म्भ­वा­श­ङ्का­नि­रा­क­र­ण­प­र­त्वेन उत्त­र­भा­ष्य­स्या­धि­क­र­ण­स­माप्तेः तात्पर्यमाह -
तत्र विप्रतिपत्त्या इत्यादिना ।

विप्र­ति­प­त्त्येति ।
विप्र­ति­प­त्ति­प्र­द­र्श­नेन ब्रह्म­श­ब्द­व्यु­त्प­त्ति­प्र­द­र्श­नेन चेत्यर्थः । प्रत्यगर्थो नामाहमिति प्रतीयमानं रूपं तस्य देहा­द्य­ने­क­सा­धा­र­ण­त्व­प्र­तीतेः साधारणरूपत्वम् , तद्योगितया ब्रह्म­भू­ता­त्म­नोऽ­हं­प्र­त्य­येन प्रतीतेः ब्रह्मणः सामा­न्य­प्र­ती­ति­रस्ति । न तु विशेषेणाहं ब्रह्मेति प्रत्यक्त्वस्य, विशेषणत्वेन देहादीनां विप्रतिपत्तेरतो ब्रह्मणः सामा­न्य­प्र­सि­द्धे­र­नूद्य प्रति­पा­द­न­स­म्भ­वात् सम्बन्धः सम्भवति । ब्रह्मा­त्मै­क्य­मिति विशेषरूपस्य अन्ये­ना­प्र­मि­त­तया अपूर्वत्वेन शास्त्रं प्रति विषयत्वं च विद्यत इति दर्शयन् विषयसम्बन्धौ समर्थितवानिति भावः ।

ब्रह्मणो वेदा­न्त­वि­ष­य­त्व­स­म्ब­न्धि­त्व­स­म्भ­वेऽपि विचारशास्त्रं प्रति विषयत्वं सम्बन्धित्वं च नास्तीति चोदयति -
ननु ब्रह्मेति ।

ब्रह्म­जि­ज्ञा­सेति शास्त्रस्यापि ब्रह्मविषयत्वं प्रतीयत इति नेत्याह -
शास्त्रं च तेषामिति ।

न्यायविषयमिति ।
शास्त्र­श­ब्दो­दि­त­सू­त्र­वा­क्यानि न्यायविषयाणि, न्यायाश्च प्रमा­ण­प्र­मे­य­स­म्भा­व­ना­दि­वि­षया इत्यर्थः ।

प्रयोजनं त्विति ।
सम्भावनावगमव्यापा­रा­न्त­र­प्र­यो­ज­न­द्वा­रेण परम्परया ब्रह्म प्रयोजनं भवतीत्यर्थः । धर्मार्थाभ्यां हि कामाख्यसुखमेव प्राप्यत इति शास्त्र­यो­स्त­त्प­र­तो­क्तेति द्रष्टव्यम् ।

कर­णे­ति­क­र्त­व्य­यो­रे­क­मेव प्रयोजनमिति निर्णीतं प्रथमे तन्त्रे । इहापि निर्णी­त­श­क्ति­ता­त्प­र्य­वि­शि­ष्ट­वे­दान्ता एव ब्रह्मावबोधे करणम् । तत्र वेदा­न्त­वा­क्य­वि­ष­य­वि­चारः शक्ति­ता­त्प­र्य­नि­र्ण­य­हे­तु­तया कर­ण­स्व­रू­पो­प­का­र्या­ङ्गम् । ब्रह्म­वि­ष­य­वि­चा­रश्च कर­ण­सा­ध्य­ब्र­ह्मा­व­ग­मा­ख्य­फ­लो­प­का­र्य­ङ्ग­मत उभयविधविचारस्य करणस्य ब्रह्मावगत्येकफल­त्व­म­व­ग­म्य­मा­न­ब्र­ह्मै­क­वि­ष­यत्वं च विद्यत इति न विषयभेद इति चोदयति -
नन्वा­ग्ने­या­दी­ना­मिति ।

कथं सम्भा­व­ना­बु­द्धि­हे­तु­तया तद्विषयस्य विचारस्य ब्रह्मा­व­ग­म­ज­न­क­तया तद्विषयत, न ह्यन्यविषयो व्यापा­रोऽ­न्य­वि­षय इत्याशङ्क्य विचारस्य प्रमा­ण­प्र­मे­य­स­म्भा­व­ना­व­ग­म­फ­ल­द्वा­रेण ब्रह्मावगमफलं प्रत्यपि हेतुत्वात् अन­व­ग­म­हे­तो­र­न­व­ग­म्य­वि­ष­य­त्वात् ब्रह्मकर्मता न विरुध्यत इत्ये­त­द­भि­प्रे­त्याह -
न हि छेत्तुरिति ।

पर­शु­वि­ष­य­व्या­पा­रस्य पर­शो­रू­र्ध्वा­धो­दे­श­सं­यो­ग­वि­भा­गा­ख्य­फ­ल­ज­न­न­द्वा­रेण वृक्ष­द्वै­धी­भा­वा­ख्यो­द्दे­श्य­फलं प्रत्यपि हेतुत्वात् वृक्ष­वि­ष­य­त्व­मि­त्याह -
तदर्थत्वादिति ।
द्वैधी­भा­व­फ­ल­वि­शि­ष्ट­वृ­क्षा­र्थ­त्वात् वृक्ष­वि­ष­य­त्व­मि­त्यर्थः ।

करणस्य द्वारत्वादिति ।
ऊर्ध्वा­धो­दे­श­सं­यो­ग­वि­भा­गा­ख्य­फ­ल­वि­शि­ष्ट­क­र­णस्य द्वारत्वात् कर­णा­र्थ­यो­स्त­द्वि­ष­य­त्व­मि­त्यर्थः ।

अन्यथेति ।
परशुरेव विषयो न वृक्षो विषय इति चेत् वृक्षे फलं न स्यादिति भावः ।

आगमात् अन्व­य­व्य­ति­रे­काभ्यां वा इतिकर्तव्यता गम्येत, विचारस्य तु इति कर्त­व्य­ता­या­मु­भ­यत्र प्रमा­ण­स्या­प्य­भा­वात् वेदान्तशब्दादेव ब्रह्मा­व­ग­मो­त्प­त्तेर्न विचा­र­स्ये­ति­क­र्त­व्य­तया ब्रह्मा­व­म­ग­ज­न­कत्व इत्य­प­सि­द्धा­न्तिनं परिहरति पूर्ववादी -
विषम उपन्यास इति ।

अङ्कु­र­द्वै­धी­भा­वा­ङ्ग­भू­त­मृ­ज्ज­ल­क­र्तृ­व्या­पा­रा­व­भि­प्रे­त्याह -
यत्र यदु­प­का­र­म­न्त­रे­णेति ।

यथा चक्षुरादयः सम्य­ग्ज्ञा­न­हे­त­वोऽपि दोषसंयोगात् संशयविपर्यासौ जनयन्ति पुनः सम्य­ग्ज्ञा­न­ज­न्मनि च दोषापकर्षमपेक्षन्ते । एवं शब्दः शक्ति­ता­त्प­र्या­ज्ञा­न­त­द्वि­प­र्या­स­ज्ञा­न­दो­षात् संश­या­दि­ज्ञा­न­मु­त्पा­द­यति । तत्र दोषापनयनेन शाब्द­वि­प­र्या­सा­दि­नि­व­र्त­नेन ब्रह्मनिर्णयाय शक्ति­ता­त्प­र्य­वि­चा­रोऽ­ङ्ग­भा­व­म­श्नुत इति चोदयति -
ननु संशयविपर्यासेति ।
शाब्द­सं­श­य­वि­प­र्या­स­नि­रा­स­द्वा­रेण ब्रह्म­नि­र्ण­य­हे­तु­त्वा­दि­त्यर्थः । अत्र निर्णेयेति ब्रह्मोच्यते । निर्ण­य­हे­तो­र्वि­चा­र­स्ये­त्यर्थः ।

शब्द एव दोषवशात् अन्यथाज्ञानं जनयति । विचारश्च दोषनिरासेन विपर्यासादिकं निरस्य ब्रह्मा­व­ग­म­हे­तु­तया ब्रह्मविषय इति पक्षो न सम्भवति । शब्दे दोषाभावादपि तु प्रयो­गा­न्त­रे­ष्व­न्य­था­श­क्ति­ता­त्प­र्यो­न्न­य­न­द­र्श­ना­दि­हापि तथा­वि­ध­त्व­म­स्तीति सामान्यतो दर्शनेन अर्थ­वि­रो­ध­बुद्ध्या च पुरुषदोषेण अन्य­था­ज्ञा­ना­न्यु­त्प­द्यन्ते, न तु शब्दात् , शब्दाच्च तत्त्व­ज्ञा­न­मे­वो­त्प­द्यते । ततश्च शब्दात् पुरुषदोषाच्च बहुषु परस्परविरोधिषु ज्ञानेषु जातेषु शब्द­श­क्ति­ता­त्प­र्या­व­धा­र­ण­हे­तु­वि­चारः पुरुषदोषापनयनेन प्रति­प­क्ष­ज्ञा­ना­न्त­राख्यं प्रतिबन्धं निवर्तयति । निवृत्ते च प्रतिबन्धे शब्दादेव तत्त्वज्ञानंजायते, जातं वा निश्च­ल­म­व­ति­ष्ठते, तस्मात् न विचारः प्रमा­णे­ति­क­र्त­व्य­तया ब्रह्म विषय इत्याह -
नैतत् सारमिति ।

सामान्यतो दृष्ट­नि­ब­न्ध­ना­नीति ।
सामान्यतो दृष्टं तु पुरुषदोषः न शब्ददोष इति भावः ।

निर्णयज्ञानोत्पत्ताविति ।
ब्रह्म­नि­र्ण­य­ज्ञा­नो­त्प­त्ता­वि­त्यर्थः ।

वैध­र्म्य­दृ­ष्टा­न्त­माह -
यथा चक्षुरिति ।

निमि­त्ता­न्त­रा­नु­गृ­ही­त­मिति ।
दोष­नि­रा­सा­नु­गृ­ही­त­मि­त्यर्थः ।

एवं पूर्ववादिना अपसिद्धान्ते निरस्ते सिद्धान्तयति -
अत्रोच्यत इति ।

शुक्तिज्ञानोदये रज­त­भ्र­म­व­न्नि­त्या­शङ्कां निरस्यति -
स्वोत्पत्तीति ।

सामान्यतो न दृष्टनिबन्धनस्य न बाधः, सम­का­ल­त्वा­दि­त्याह -
समकालेति ।

अनेन सहोत्पन्नत्वे शब्दे­ना­न्व­य­व्य­ति­रे­का­द्धे­त्व­न्त­रा­भा­वाच्च, शब्दजन्यमेव स्यादिति -
नेति ।
प्रयो­गा­न्त­रे­ष्व­न्यथा अन्यथा शक्ति­ता­त्प­र्य­द­र्श­नात् इहापि तथाभावबुद्ध्या तथाविधार्थस्य च लोकेऽ­न्य­था­भा­व­द­र्श­ना­दि­हापि अन्य­था­भा­व­बुद्ध्या जातेनेत्यर्थः ।

साम­ग्री­येऽ­न्य­वि­ष­यत्वान्न विरोध इति तत्राह -
अर्थान्तरेति ।
यथा द्वौ चन्द्राविति भ्रान्त्या एकश्चन्द्र इति सम्यग्दर्शनस्य सहवृत्तित्वेऽपि तदि­द्व­त्व­ज्ञा­न­म­प­बा­ध्यैव वर्तते तद्वत् शाब्दं ज्ञानं किमिति न बाध्यत इति निश्चलमिवेति इवशब्दस्य सम्बन्धः ।

लक्षणयेति ।
शाब्द­ब्र­ह्म­नि­र्ण­य­प्र­ति­ब­न्ध­नि­व­र्त­क­त्वात् मीमांसायाः निर्ण­या­हे­तु­त्वेऽपि निर्णयजनने न ब्रह्म­वि­ष­य­त्व­मु­प­चा­रे­णो­च्यत इत्यर्थः ।

उक्तमर्थं निगमयति -
तच्चेदं त्रयमित्यादिना ।

तत्प्र­त्य­य­मा­त्रे­णेति ।
तस्य भगवतः प्रामा­णि­क­त्व­प्र­ति­प­त्त्ये­त्यर्थः ।

निर्देशादृत इति ।
प्रयो­ज­न­वि­शे­ष­नि­र्दे­शेन विनेत्यर्थः ।

तस्येति ।
प्रयो­ज­न­रू­प­ब्र­ह्मण इत्यर्थः ।

साध्योऽपीति ।
सम्बन्धोऽपीत्यर्थः ।

निर्दिष्ट इति ।
निर्दिष्टे साधने प्रवृत्तिर्नैव स्यादित्यर्थः । तत्र सम्बन्धो नाम शास्त्रेण प्रतिपादयितुं योग्यत्वं तस्य योग्यस्यानेनैव प्रतिपाद्यत्वं विषयत्वं योग्यस्य विषयस्य शास्त्र­ज­न्य­प्र­मि­ति­वि­शि­ष्टत्वं प्रयोजनत्वमिति ब्रह्मण एव शास्त्रं प्रति सम्बन्धित्वं विषयत्वं प्रयोजनत्वं च वक्तव्यमिति भावः ।

न ब्रह्म सामान्येनापि लोके प्रतिपत्तुं शक्यं प्रमा­णा­न्त­रा­गो­च­र­त्वा­न्ना­प्या­ग­म­सा­म­र्थ्या­त्तत्र प्रयुज्यमानस्य ब्रह्म­श­ब्द­स्या­न­व­धृ­ता­र्थ­त्वात् । न च पदमात्रादेव अर्था­न्त­र­सिद्धिः, जात्या­द्य­र्था­न्त­रेषु प्रसिद्धत्वात् । तस्मान्न प्रसि­द्ध­मु­द्दिश्य विचा­र­वि­धा­नो­प­प­त्ति­रिति चोदयति -
कथमिति ।

ब्रह्म­श­ब्द­स्ता­व­दिति ।
श्रुतावपि ब्रह्म­श­ब्द­प्र­यो­ग­सा­म­र्थ्या­देव जात्यादिकं शङ्क्यत इति भावः ।

प्रयो­गा­नु­प­प­त्ति­र­र्था­न्त­र­स­द्भावे प्रमाणमित्याह -
अतो नूनमन्यदेवेति ।

श्रौत­प्र­यो­गा­नु­प­प­त्ति­र्ना­पू­र्व­मर्थं गमयति । लौकि­क­प्र­यो­गा­धी­न­त्वा­च्छ्रौ­त­प्र­यो­गस्य इति तत्राह -
तेन स्वर्गा­पू­र्व­दे­व­तेति ।
‘तानि धर्माणि प्रथमान्यासन्’ इति धर्मशब्दप्रयोगो वेदे अपू­र्व­श­ब्द­प्र­योग इत्यभिप्रेयते । प्रयोगादेव प्रयो­गा­नु­प­प­त्त्ये­त्यर्थः ।

लोके व्युत्प­त्ति­म­न­पेक्ष्य मुमु­क्षु­जि­ज्ञासां प्रति कर्मसमर्पकत्वेन प्रयु­क्त­प­द­त्वात् तेन ब्रह्म­प­दे­ना­न्य­तोऽ­सि­द्ध­नि­र­ति­श­य­पु­रु­षा­र्थ­ब्र­ह्मणः सिद्धि­रि­त्युक्तं न घटते पद­मा­त्र­स्या­न्यतः सिद्धा­नु­वा­द­क­त्वात् सर्वत्रेति चोदयति -
नैतत्सारमिति ।
अत्र चक्षुःशब्देन प्रत्य­क्ष­मु­च्यते । सम्ब­न्ध­ग्र­ह­णा­भा­वात् नानु­मा­न­व­दि­त्या­दि­श­ब्दे­नो­च्यते ।

यत्र शीतं न चोष्ण­मि­त्या­दि­स­न्नि­हि­ता­ने­क­वा­क्या­र्थ­सा­म­र्थ्य­लभ्यः स्वर्गादिपदार्थ इति मत्वाह -
स्वर्गा­द्य­र्थोऽ­पीति ।

विप्र­ल­म्भ­भ्रा­न्त्या­दि­दो­ष­र­हि­त­वे­द­सू­त्र­वा­क्या­र्थ­नि­र्ण­य­स्या­व­श्य­ल­भ्य­त्वात् वाक्या­र्थ­प्र­मि­ति­सि­द्धये प्रसि­द्ध­प­दार्थैः पदान्तरैः सहा­प्र­सि­द्ध­प­दा­र्थ­प­द­प्र­यो­गा­नु­प­प­त्ति­रेव तस्य पदस्यार्थेन सम्ब­न्ध­ग्र­ह­णा­न­पे­क्षया अपूर्वमर्थं पदवाच्यत्वेन प्रतिपादयतीति परिहरति -
यस्मिन् वाक्य इति ।

सह प्रयो­गा­नु­प­पत्त्या पदार्थस्वीकारे नियामकाभावात् यः कश्चिदर्थः स्वीकार्यः स्यादिति तत्राह -
तत्र निगमनिरुक्त इति ।
निगमो नाम शब्दस्य प्रसि­द्धा­र्थ­त­द­व­यवौ परित्यज्य तस्य शब्दस्य शब्दा­न्त­रे­ष्वे­क­दे­शा­नु­ग­म­नेन शब्दान्तरार्थे वृत्तिः । निरुक्तं नाम शब्दस्य सर्वावयवार्थानुगमेन प्रसि­द्धा­द­र्थात् अर्थान्तरे वृत्तिः, व्याक­र­ण­म­स्मि­न्नर्थे अयं प्रत्ययो भवतीति प्रत्य­य­वि­धा­न­सा­म­र्थ्या­द­र्थ­नि­श्चयः ।

एवं रूपपदार्थेति ।
लोक­व्यु­त्प­त्ति­ही­न­प­दार्थ समर्पकत्वेन हेतूनां विद्य­मा­न­त्वा­दि­त्यर्थः ।

प्रसि­द्ध­ब­ले­ना­प्र­सि­द्ध­मु­पा­दी­यते, न चाप्रसिद्धेन प्रसिद्धं त्यज्यत इत्यत्र को विशेष इति तत्राह -
न पुन­रे­का­प्र­सि­द्ध्येति ।
प्रसि­द्धा­र्थ­स्या­नेकत्वाद­प्र­सि­द्धा­र्थस्य चैक­त्वा­द­ने­का­नु­सा­रे­णे­क­स्यार्थो मृग्य इत्येको न्यायः । प्रधा­न­भू­त­वा­क्या­र्थस्य त्यागप्रसङ्गात् उप­स­र्ज­न­भू­त­प­दा­र्थ­म­न्वि­ष्यापि वाक्यार्थपूरणं युक्तमिति चापरः । प्रसि­द्धा­नु­गु­ण्येन प्रसि­द्धा­र्थ­स्वी­का­रे­णा­र्थ­व­त्ता­प्र­सिद्धिः, प्रयो­गा­नु­प­पत्त्या प्राप्ताबलीयस्य प्रसिद्धिबाधिका न त्वप्रसिद्ध्या प्राग­भा­व­रू­प­या­भा­व­रू­पा­ग­न्तुकी प्रसिद्धिः त्याज्येति न्याय­त्र­य­मि­होक्तं द्रष्टव्यम् ।

वाक्ये प्रयु­क्त­प­दा­व­य­व­स्या­ने­क­श­ब्दे­ष्व­न्वयसम्भवात् प्रयु­क्त­प­दा­व­य­वा­र्थ­स्यापि अने­का­र्थे­ष्व­न्व­य­स­म्भ­वात् तेषामर्थानां मध्ये कोऽर्थ­स्स्या­दस्य प्रयु­क्त­प­द­स्येति निर्णयासिद्धेः पदा­र्थ­स्या­नि­य­मात् वाक्या­र्थोऽ­प्ये­वं­रूप इति नियमो न स्यादिति चोदयति -
ननु निगमादिवशेनेति ।

सिद्धान्ती निगू­ढा­भि­स­न्धि­रु­त्त­र­माह -
न तर्हि निगमादीनामिति ।

वाक्या­र्थ­प्र­मि­त्यर्थं प्रसि­द्धा­र्थ­प­दा­न्तरैः सह प्रयो­गा­नु­प­प­त्ति­रेव निग­मा­दि­व­शे­ना­प्र­सि­द्धा­र्थ­प­द­स्या­र्थ­मा­द­दाना सन्नि­हि­ते­त­र­प­दा­र्थ­सं­स­र्ग­यो­ग्य­तया वाक्या­र्थ­प्र­मि­ति­रू­प­प्र­यो­ज­न­प­र्य­न्त­मेव पदार्थमाददातीति वाक्या­र्थ­नि­य­म­सि­द्धि­रि­त्य­भि­प्रेत्य पूर्ववादी निग­मा­दी­ना­म­र्थ­व­त्ता­माह -
भवत्यर्थवत्तेति ।

स्वार्था­द­न्य­त्रेति ।
व्युत्प­न्ना­र्था­द­न्या­र्थ­वि­व­क्ष­ये­त्यर्थः ।

विनियोगादिति ।
वाक्यार्थरूपसंसर्गं निमित्तीकृत्येत्यर्थः ।

कथमाभिदध्यादिति ।
इत­र­प­दा­र्थ­सं­स­र्ग­योग्यं प्रमि­ति­प्र­यो­ज­न­प­र्य­न्त­मर्थं कथ­म­भि­द­ध्या­दि­त्यर्थः ।

तस्यैवेति ।
संस­र्ग­यो­ग्या­र्थ­ग­त­स्यै­वा­र्था­न्व­यां­शस्य शब्दे­ना­नु­ग­मा­दि­त्यर्थः ।

प्रयो­गा­नु­प­प­त्ति­र्नि­ग­मा­द्य­नु­गृ­हीता फल­प­र्य­न्त­वा­क्या­र्था­न्व­यि­प­दा­र्था­का­ङ्क्षा­नु­गृ­हीता च निय­त­प­दा­र्थो­पा­दा­न­हे­तु­भावे रूढेः न विशिष्यते । अतोऽ­र्थ­वि­शे­षो­पा­दा­नाय लोकेनार्थविशेषे शक्ति­ग्र­हा­पे­क्षेति सिद्धान्ती स्वाभिप्रायं विवृणोति -
एवं तर्हीति ।

ब्रह्म­श­ब्दै­क­दे­श­बृ­ह­ति­धा­तो­र्बृ­ह­च्छ­ब्देऽ­न्व­यात् बृहच्छब्दार्थे महद्वस्तुनि निगमवृत्त्या ब्रह्मशब्दो वर्तत इत्याह -
तदत्र ब्रह्मशब्देति ।

नोपा­दे­य­मि­त्या­पे­क्षि­क­म­ह­द्व­स्त्वे­वो­पा­देयं स्यात् न तु लोक­प्र­यो­गा­न­नु­सा­रेण अर्थो­पा­दा­न­मि­त्याह -
प्रयोगानुगमे चासतीति ।

निर­व­ग्र­ह­म­ह­त्व­स­म्प­न्न­व­स्तुन एवोपादाने हेतु­र्वा­क्या­र्था­न्व­यीति । अल्पत्वं नाम वस्तुनो देश­का­ल­व­स्तु­प­रि­च्छेदः । तद्व्यावृत्तं निर­ति­श­य­म­ह­द्वस्तु मुमु­क्षु­जि­ज्ञा­स्य­तया वाक्या­र्था­न्व­यि­त्वाय ब्रह्मशब्देन उपादीयत इत्याह -
ततश्च कालकृतेति ।
भाष्ये नित्यशब्देन त्रिविधमपि महत्वं दर्शितमिति भावः ।

रूपान्तरेति ।
वस्त्व­न्त­र­स­द्भाव इत्यर्थः ।

एतेनेति ।
देशस्यापि वस्तु­त्वा­द्व­स्तु­प­रि­च्छे­द­नि­रा­सेन देशस्य स्वयमसिद्धेः देशपरिच्छेदो नास्तीत्यर्थः ।

व्यावृत्त इति ।
स्यादित्यन्वयः ।

बुद्धत्वादयो गुणाः न महत्वोपयोगिनः, ते कथं बृह­त्य­र्थ­ग­त­म­ह­त्वेन ब्रह्म­प­दा­द­नु­ग­म्यन्त इति चोदयति -
कथमिति ।

गुणतो हीनमप्यल्पं भवति गुणभूयिष्ठं च महद्भवति, अतो बुद्धत्वादिगुणा अपि बृह­त्य­र्थ­ग­त­म­ह­त्वेन ब्रह्म­प­दा­द­व­ग­म्यन्त इत्यभिप्रेत्याह -
अबोधात्मकं हीति ।
इह निकृ­ष्ट­श­ब्दे­ना­ल्प­मु­च्यते, उत्कृष्टशब्देन न महदुच्यत इति द्रष्टव्यम् ।

चेत­न­त्वेऽ­प्य­मु­क्त­त्वा­ख्या­ल्प­त्व­श­ङ्का­नि­रा­सेन मुक्तत्वमपि बृह­त्य­र्थ­ग­त­म­ह­त्वेन ब्रह्म­प­दा­द­नु­ग­म्यत इत्याह -
मुक्तमिति चेति ।

चेतनस्य मुक्तस्य चासर्वज्ञत्वे सर्व­का­र्य­वि­ष­य­नि­य­म­ना­दि­श­क्त्य­भावे चाप­कृ­ष्ट­त­या­ल्प­त्व­व्या­वृ­त्तये सर्वज्ञत्वं सर्वशक्तित्वं च बृह­त्य­र्थ­ग­त­म­ह­त्वेन ब्रह्मपदात् गम्यत इत्याह -
सर्वज्ञमिति ।

अन्य­तोऽ­सि­द्ध­स्येति ।
प्रमा­णा­न्त­र­सि­द्ध­तया लोके ब्रह्म­श­ब्द­वा­च्य­त्वेन गृहीतार्थात् अन्यस्येत्यर्थः ।

तस्येति ।
प्रमा­णा­न्त­र­सि­द्ध­व­स्तुन इत्यर्थः ।

निरुच्यत इति ।
ब्रह्म­श­ब्दे­नो­च्यत इत्यर्थः ।

शब्दादेवेति ।
ब्रह्म­श­ब्दा­व­य­व­भू­त­बृ­ह­ति­धा­तु­श­ब्द­सा­म­र्थ्या­देव धात्व­र्थ­भू­त­म­ह­त्वा­न्व­यस्य प्रति­प­त्ता­वि­त्यर्थः । अस्तीति प्रसि­द्ध­मि­त्यर्थः ।

व्युत्पा­द्य­मा­न­स्येति ।
अव­य­व­रू­प­धा­त्व­र्था­न्वि­त­व­स्तुनि वर्तत इति निरू­प्य­मा­ण­स्ये­त्यर्थः ।

धातो­र­र्था­नु­ग­मा­दिति ।
धातोः स्वार्थ­म­ह­त्वेऽ­नु­ग­मा­द्धा­तो­र­र्थ­भू­त­म­हत्वे ब्रह्म­श­ब्द­स्या­नु­ग­मा­च्चे­त्यर्थः ।

प्रतीतत्वेऽपि प्रमा­णे­ना­सि­द्ध­त्वात् न वाक्या­र्था­न्व­यि­तया तन्नि­र्ण­य­हे­तुत्वं ब्रह्मण इति चोदयति -
नन्वेवमपि व्युत्प­त्त्य­नु­स­र­णे­नेति ।
अव­य­वा­र्थ­नि­र­ति­श­य­म­ह­त्व­यु­क्त­व­स्तुनि ब्रह्मशब्दस्य वृत्त्यनुसरणेनेत्यर्थः ।

एवमात्मक इति ।
वाक्या­र्था­न्व­य­योग्ये प्रमा­णा­न्त­रे­णा­सिद्धे निर­ति­श­य­पु­रु­षा­र्थ­व­स्तु­नी­त्यर्थः ।

जिज्ञासापदस्य सन्नि­हि­त­स्या­नि­र्णी­त­जि­ज्ञा­स्य­व­स्तु­सा­पे­क्ष­त्वात् तद­पे­क्षि­ता­र्थ­स­म­र्प­कस्य ब्रह्म­श­ब्द­स्या­नि­र्णी­त­प्र­ति­प­न्न­व­स्तु­मा­त्र­स­म­र्प­णेन वाक्या­र्थ­नि­र्ण­य­हे­तुत्वं न विरुध्यत इति परिहरति -
सत्यमेवम् , अत एव जिज्ञासेति ।
साध्य­त्व­सि­द्ध्यर्थं प्रति­पा­द्य­त्व­यो­ग्य­त्वा­ख्य­स­म्ब­न्ध­सि­ध्य­र्थ­मि­त्यर्थः ।

सर्व­स्या­त्म­त्वा­च्चेति ।
सर्व­स्या­हं­प्र­त्य­ये­ना­ह­मिति प्रती­य­मा­ना­त्म­त्वात् ब्रह्मण इत्यर्थः ।

प्रत्येतीति ।
अहं­प्र­त्य­ये­ना­ह­मिति प्रत्ये­ती­त्यर्थः ।

न नाहमस्मीति ।
अहं नास्मीत्यसत्वं न प्रत्ये­ती­त्यर्थः ।

अहमिति शून्य एवायमात्मा प्रतिभासत इति शून्य­वा­द­मा­श­ङ्क्याह -
यदि नात्मा­स्ति­त्व­प्र­सिद्धिः स्यादिति

आत्मनः प्रत्य­क्ष­सि­द्धत्वेऽपि ब्रह्मणः प्रसिद्धिर्न लभ्यत इति तत्राह -
आत्मा च ब्रह्मेति ।

आत्मनि ब्रह्मशब्दस्य वृद्ध­प्र­यो­गा­द­र्श­नात् ब्रह्मशब्देन कथमात्मा जिज्ञा­स्य­त्वे­नो­पा­दी­यत इति चोदयति -
कथं पुनरात्मा ब्रह्मेति ।

लौकि­क­प्र­यो­गा­भा­वेऽपि ‘स वा अयमात्मा ब्रह्म’ इत्यादौ वैदि­क­प्र­यो­गोऽ­स्ती­त्याह -
वेदान्तेष्विति ।

भवत्वात्मनि ब्रह्मशब्दः स त्वात्मा नाहंप्रत्ययगम्यः किन्त्वा­ग­मै­क­गम्य इति नेत्याह -
आत्मानमेव चेति ।

ततश्च प्रति­प­न्न­मु­द्दिश्य विचारसम्भवात् सम्बन्धः सिद्ध इत्यभिप्रेत्याह -
तदेवमहंप्रत्यय एवेति ।

प्रत्य­क्ष­गो­च­र­तया अन­न्य­सा­धा­र­ण­त्वा­भा­वात् विषयत्वं न सिध्य­ती­त्या­क्षि­पति -
यदि तर्हि लोक इति ।

असिद्धमिति ।
अप्र­मि­त­मि­त्यर्थः । साध्यमानं प्रमीयमाणमित्यर्थः ।

विषयसम्बन्धौ समर्थ्येत इति
अहमिति प्रती­य­मा­न­प्र­त्य­ग्रूपं स्वस्य विशेषत्वेन विप्र­ति­प­द्य­मा­न­दे­हा­द्य­ने­क­सा­मा­ना­धि­क­र­ण्यात् सामान्यं, तत्सामान्यं सिद्धमुद्दिश्य विचारप्रवृत्तेः सम्बन्धः सम्भवति, तस्मिन्सामान्ये विशेषात्मतायां विप्र­ति­प­त्ति­द­र्श­नात् ब्रह्मा­त्म­ता­ख्य­वि­शेषो नान्यतः सिद्ध इति तस्य शास्त्रविषयत्वं सम्भवतीत्येवं विषयसम्बन्धौ समर्थ्येत इति ।

दृश्यते हीति ।

वर्ण­त्र­या­ति­रि­क्त­मिति ।
अहमिति वर्णत्रयाभिधेयं विज्ञानं वर्ण­त्र­य­मि­त्यु­च्यते । तद्व्यतिरिक्तं तदाश्रयभूतं किञ्चिन्नावभासत इत्यर्थः ।

कस्तर्हि अहं­प्र­त्य­या­ल­म्ब­न­तया आत्मेति तदाह -
तेन विज्ञानमेवेति ।

साङ्ख्या­भि­म­त­नि­त्य­ज्ञा­न­रू­पा­त्मानं व्यावर्तयति -
स्वरसभङ्गुरमिति ।
स्वभावतः क्षणिकमित्यर्थः ।

सोऽहमिति प्रत्य­भि­ज्ञ­यै­कत्वं गम्यत इत्याशङ्क्य ज्वालायामिव सादृश्यात् सन्ततोदयाच्च प्रत्य­भि­ज्ञे­त्याह -
अविरतोदयमिति ।

कर्म­ज्ञा­न­त­त्फ­ल­ब­न्ध­मो­क्षा­द्या­श्र­यत्वं क्षणि­क­स्या­यु­क्त­मि­त्या­शङ्क्य हेतुफलभावेन विज्ञा­ना­ना­मे­क­स­न्ता­न­त्वा­द्यु­ज्यत इत्याह -
अखि­ल­लो­क­या­त्रा­नि­ल­य­मिति ।

विज्ञा­ना­श्र­यै­क­स्था­य्या­त्म­न्य­ङ्गी­कृते प्रत्यभिज्ञादि सर्वं मुख्यं लभ्यत इति, न तस्या­नु­भ­वा­भा­वा­दि­त्याह -
अनु­भ­व­भ­ग्न­प­क्षा­न्त­र­मिति ।
उल्लिख्यते गम्यत इत्यर्थः ।

अकस्मादेवेति ।
सुषु­प्त्य­न­न्त­र­म­ह­मिति जाय­मा­न­प्र­त्य­यस्य सम­न­न्त­र­पू­र्व­ज्ञा­ना­ख्य­का­र­णा­भा­वादसत्वादहमिति प्रतीयमानं शून्यमेव न विज्ञा­न­मि­त्यर्थः । अह­मु­ल्ले­ख­शू­न्यस्य अहमिति प्रती­य­मा­न­रू­प­ही­नस्य भोक्तृत्वस्य रूपा­दि­वि­ष­य­सं­वि­दा­श्र­य­त्व­स्या­ह­मिति प्रती­य­मा­न­रू­प­स्यैव विष­य­सं­वि­दा­श्र­य­त्व­द­र्श­ना­दि­त्यर्थः ।

तस्य चेति ।
अहमिति प्रती­य­मा­न­रू­प­स्ये­त्यर्थः ।

अव­धि­हे­त्व­नु­प­ल­ब्धे­रिति ।
अवधिर्नाशः तद­स्या­स्ती­त्य­व­धि­हेतुः, तद्भा­वोऽ­व­धि­हे­तुत्वं, नाशनिमित्तत्वं नास्तीति निरवयवासङ्गस्य हेतू­प­रा­गा­यो­गा­दि­त्यर्थः । अथवा स्थिरत्वादेव स्वस्य स्वनाशं प्रति हेतु­त्वा­नु­प­पत्तेरित्यर्थः ।

कथं तस्य कर्तृ­त्व­भो­क्तृ­त्वा­ख्य­सं­सा­रि­त्व­मिति तत्प्रतिपादयति -
निर्वि­का­र­स्ये­त्या­दिना ।

तस्य भोक्तृ­त्वा­नु­प­प­त्ते­रि­त्यु­क्त­मिति ।
तस्य देहा­दे­श्चै­त­न्य­व­त्व­ल­क्ष­ण­भो­क्तृ­त्वा­नु­प­प­त्ते­रि­त्यर्थः ।

शरीरस्य केवलपार्थिवत्वं नैया­यि­क­वै­शे­षि­का­भि­मतं व्यावर्तयति -
भूत­स­ङ्घा­त­स्ता­वत् शरीरमिति ।

भूतै­रा­र­ब्धा­व­य­वि­रूपं शरी­र­मि­त्य­न­ङ्गी­कृत्य भूतसङ्घातः शरी­र­मि­त्य­भ्यु­प­गमे सङ्घातस्य भूतेभ्यो भेदे वस्तुत्वे च तत्त्वा­ति­रे­क­प्र­स­ङ्गा­द­व­स्तुत्वे च चैत­न्य­व­त्वा­ख्य­भो­क्तृ­त्वा­यो­गात् सह व्युपहितभूतानां भोक्तृत्वे वक्तव्ये विकल्पयति -
तत्र व्यस्तानामिति ।

व्यस्तानां चैतन्यरूपभोग इति पक्षे विकल्पयति -
युगपत् क्रमेण वेति

स्वार्थ प्रयु­क्त­त्वा­दिति ।
स्वप्र­यो­ज­ना­र्थ­त्वात् प्रवृ­त्ते­रि­त्यर्थः ।

क्रमपक्षेऽपि भोक्तॄणां न सङ्घा­ता­प­त्ति­रिति, तत्राह -
विरोधाद्वरगोष्ठीवदिति ।
क्रमेणोद्वाहेन कन्या भोक्तृणां वराणां समिदाहरणादिना उप­का­र्यो­प­का­र­क­भा­वेन सङ्घा­ता­प­त्ति­व­दि­त्यर्थः ।

(किंरू­प­र­स­स­न्दर्भः) भाष्यं विवृणोति । वराणां तु क्रमे­णो­प­स्थि­त­क­न्या­व­स्तु­ष्वे­कै­कस्य भोग्यस्यैकैकवरं प्रत्य­सा­धा­र­ण­त्वात् क्रमेण भोक्तृ­त्व­स्या­प्य­सा­धा­र­ण­त्व­मतो गुणप्रधानतया वराणां सङ्घातश्च सिध्यतीत्याह -
नैतदेवमिति ।

प्रति­पु­रु­ष­नि­य­मा­दिति ।
प्रतिपुरुषं विषयभेदनियमात् । क्रम­भा­वि­त्व­नि­य­माच्च विषयस्येत्यर्थः ।

साधारणे च भोग्य इति ।
सर्वभूतानां विषयस्यैकत्वे बहुत्वे च युगपत् सर्वभूतानां विषयसद्भावे सतीत्यर्थः ।

प्रतिनियतभोगव्यवस्थेति ।
प्रतिनियतभोगस्य क्रमभावे हेत्व­स­म्भ­वा­दि­त्यर्थः ।

समूहस्येति ।
एकस्मिन् भूते चैतन्यं नास्ति, चतुष्टयेऽप्येकं चैतन्यं जायत इति चतु­ष्ट­या­ख्य­स­मू­हस्य भोक्तृ­त्व­मि­त्यर्थः ।

एकस्मिन् भूते अवि­द्य­मा­न­चै­तन्यं कथं चतु­ष्ट­या­ख्य­स­मूहे जन्यत इति तदाह -
तिलज्वालावदिति ।
तिलसमूहे ज्वाला­ज­न्म­व­दि­त्यर्थः ।

समूहस्य भूता­ति­रि­क्त­स्या­न­ति­रि­क्तस्य चानि­रू­प्य­त्वा­देव तस्य भोगायोगात् दुर्नि­रू­प­स­मू­हो­प­हि­त­भू­ता­ना­मेव भोक्तृत्वे वक्तव्ये सत्यागामिभोगं प्रति भूतानां समानत्वात् गुणगणप्रधानतया सङ्घातसिद्धिरित्याह -
नैतदेवं, भोगेष्विति ।
भोगेषु साध्यतया निमित्तेषु सत्स्वित्यर्थः ।

भोगान्वयात् प्राग्भूतानां कर्तृत्वात् , कर्तॄणां भोगे गुणभावेन सङ्घा­तो­प­प­त्ति­रिति चोदयति -
कथमसम्भव इति ।

भोगान्वयात् प्राग­प्या­गा­मि­भोगं प्रति स्वामितया भोक्तृत्वात् भोक्तॄणां न गुणप्रधानतया सङ्घा­त­सि­द्धि­रिति परिहरति -
भोक्तुः भोगं प्रति इति ।

साध्यभोगार्थं तद्भोक्तॄणां समूहो दृष्ट इति चोदयति -
ननु भोगेऽपीति ।

शरी­र­यो­र­भोक्त्रोः भोक्त्रा­त्मा­र्थ­तया गुणप्रधानभावेन सङ्घातः, न तु भोक्त्रा­त्म­नो­रि­त्य­भि­प्रेत्य परिहरति -
नैतत् सारमिति ।

समूहस्येति ।
संहतशरीरद्वयस्य भोक्तृत्वं नास्तीत्यर्थः ।

तिलज्वालायां तु विपरीतमिति ।
ज्वालायाः कार्यत्वात् तां प्रति कर्तृ­त्वे­ना­न्वि­तानां तिलानां गुणभावः सम्भवति । चैतन्यस्य तु भोगत्वात् तं प्रति भोक्तृ­त्वे­ना­न्वि­त­भू­तानां गुणप्रधानभावो न घटत इत्यर्थः ।

अनेकभोक्तृणां सङ्घा­ता­स­म्भ­व­श्चेत् सङ्घा­त­सि­द्ध्य­र्थ­मे­क­स्यैव संहत्युपहितस्य भोग इति पक्षमाह -
अस्त्वेकस्य तर्हि नियत इति ।

रूप­र­स­ग­न्ध­स्प­र्शेषु भोग्येषु कठिन - मृदु - पाक - चलनगुणवति भूतसङ्घाते च भोगान्वयिनि परिदृश्यमाने सति कस्यैकस्य भोग इत्यनवधारितो भोगः स्यादिति दूषणमाह -
न तत्रापीति ।

यस्य कस्यचिद्भोगः स्यात् तावतैव शरी­र­व्य­ति­रि­क्तस्य भोक्तुरभावो विवक्षितः सिद्ध इति चोदयति -
किमवधारणेनेति ।

समेष्विति ।
चतुर्णां भूतानां भोगा­न्व­य­द­र्श­नात् भोक्तृत्वेन समेष्वित्यर्थः ।

अयुक्त इति ।
शरीरात्मकेषु भूतेषु भोक्तृ­त्व­म­यु­क्त­मि­त्यर्थः ।

इन्द्रि­या­त्म­केषु भूतेषु भोक्तृत्वं शरी­रे­न्द्रि­या­ख्यो­भ­या­त्म­क­भू­तेषु भोक्तृत्वमिति च लोकायतपक्षौ तयोरपि पक्षयोरुक्तं दूषणं समानमित्याह -
एवं करणात्मकेष्वित्यादिना ।

एके प्रस्थिता इति ।
साङ्ख्या इत्यर्थः ।

आत्म­स्व­रू­प­चै­त­न्यस्य अहंप्रत्यये, नाह­मि­त्या­त्म­प्र­ति­भासे व्यभिचाराभावात् । करोमि जानामि भूञ्ज इत्या­का­र­णा­मा­त्म­स्व­रू­पत्वे सत्वेऽ­ह­मि­त्या­त्मना व्यभिचाराभावः स्यात् । व्यभि­चा­रा­दे­वा­त्म­स्व­रू­पत्वं नास्तीत्याह -
करोमि जानामीति ।
अहं करो­मी­त्य­हं­प्र­त्य­येन कर्तृत्वे प्रतीयमाने जाना­मी­त्या­द्या­कारो न प्रतीयते । अहं जानामीति अहं भुञ्ज इत्या­द्या­का­र­प्र­ती­ति­काले करोमीत्याकारो न प्रतीयते । अतो न सर्वदा अहं­प्र­त्य­येऽ­नु­षङ्ग इत्यर्थः ।

नायं तद्विषय इति ।
अहंप्रत्ययः कर्तृ­त्वा­दि­वि­षयो न भवतीत्यर्थः ।

तदुल्लेखविकल इति ।
करो­मी­त्या­द्या­कार प्रतिभासविकल इत्यर्थः ।

अहं दुःखीति दुःखान्वयित्वं भोक्तृ­त्व­मि­त्य­ङ्गी­कृत्य तस्या­प्य­ह­मि­त्या­त्म­प्र­ति­भा­स­व्य­भि­चा­रा­दा­त्म­स्व­रू­प­त्वा­भावं शङ्कते -
ननु भोक्तापि तर्हीति

तदु­ल्ले­खा­भा­वा­दिति ।
अहं सुखी दुःखीति सर्वदा अहंप्रत्ययेन प्रति­भा­सा­भा­वा­दि­त्यर्थः ।

भोक्तृत्वमिति चेतनत्वं विवक्ष्यते । तस्या­ह­मि­त्या­त्म­प्र­ति­भासे सति व्यभि­चा­रा­भा­वा­दा­त्म­स्व­रू­प­मे­वे­त्याह -
नैतदेवमिति ।

कथं चेतनत्वमेव भोक्तृ­त्व­मि­त्या­शङ्क्य सर्वस्य दृश्यतया तदर्थत्वात् । सर्वशेषिचेतन एव भोक्तेत्याह -
तदर्थत्वात् ।

सर्वस्येति ।
तस्मादपि देहा­दि­व्य­ति­रि­क्ता­दन्यः सदा सिद्ध ईश्वर इत्युत्तरेण सम्बन्धः ।

विवि­ध­वि­न्या­स­रू­प­का­र्य­त्वा­द्वि­शि­ष्ट­वि­ज्ञा­न­व­त्क­र्तृ­क­मि­ती­श्व­र­स­द्भावे वैशेषिकानुमानं दर्शयति -
शरीरिणामिति ।

साङ्ख्य­यो­गा­नु­मानं दर्शयति -
सातिशयानामिति ।

परि­णा­मा­ना­मु­प­ल­ब्धेति ।
आका­श­ग­त­नि­र­ति­श­य­प­रि­णा­मे­ना­वि­ना­भावो दृष्ट इत्यर्थः । काष्ठा­प्रा­प्ति­र­स­र्व­वि­ष­य­त्वेऽपि सम्भवतीति सर्वविषयमिति वेत्युक्तम् । ज्ञानादिशक्तयः क्वचित् सर्व­वि­ष­य­ज्ञा­ना­दि­श­क्त्य­वि­ना­भूता इत्यर्थः ।

ब्रह्मा­त्म­व­स्तु­नोऽ­ह­मिति प्रति­प­न्न­सा­मा­न्य­रू­पस्य प्रत्यगात्मनो विशेषतयाहंप्रत्य­य­प­र्य­व­सा­न­यो­ग्य­व­द­व­भा­स­मा­न­दे­हा­दीनां विप्र­ति­प­त्ति­स्क­न्ध­तया प्रदर्शनावसरे कथ­म­हं­प्र­त्य­य­प­र्य­व­सा­न­भू­मि­तया प्रत्यगात्मनो विशे­ष­त्वे­ना­न­व­भा­स­मा­न­स्ये­श्व­रस्य विप्र­ति­प­त्ति­स्क­न्ध­त्व­प्र­द­र्श­न­मि­त्या­श­ङ्कते -
नन्वहमिति ।

ब्रह्मणो विप्र­ति­प­त्त्या­ल­म्ब­न­त्वात् तद्ब्रह्म प्रत्य­गा­त्मा­व्य­ति­रिक्तं च व्यतिरिक्तं चेति विप्रतिपत्तिं दर्शयितुं व्यति­रि­क्ते­श्व­र­प­क्ष­प्र­द­र्शनं युज्यत इत्याह -
उच्यत इति ।

ब्रह्मणि विप्र­ति­प­त्ति­प्र­द­र्शनं चेत् प्रक्रान्तं किमिति, तर्ह्यात्मनि विप्रतिपत्तिः प्रदर्श्यत इति तत्राह -
अहं प्रत्य­य­वि­ष­य­वि­प्र­ति­प­त्त्या­पीति ।
प्रणाड्या व्यव­धा­ने­ने­त्यर्थः । प्रत्यगात्मा सर्व­ज्ञ­त्वा­दि­गु­ण­क­त्वात् ब्रह्म­णोऽ­न्योऽ­नन्यो वेति विप्रतिपत्तिं दर्शयितुं तद्व्यतिरिक्तः ईश्वरः साधितः, विप्र­ति­प­त्ति­स्क­न्ध­त्वात् , अतो व्यवधानेन अहं­प्र­त्य­य­वि­ष­य­वि­प्र­ति­प­त्ति­प्र­द­र्श­न­मेव एतदिति वा परि­हा­र­ग्र­न्थ­स्या­भि­प्रायः ।

आत्मा स भोक्तुरिति ।
स ईश्वरो भोक्तुः स्वरूपमित्यर्थः ।

ब्रह्मेति कैश्चित् प्रतिपन्न इति
स भोक्ता ब्रह्मेति कैश्चित् प्रतिपन्न इत्यर्थः ।

संसारिणः कथं असं­सा­रि­णै­क­त्व­मिति तत्राह -
तस्या­हं­प्र­त्य­य­सिद्ध इति ।

एवमसाविति ।
ईश्वर इत्यर्थः । ब्रह्मेति प्रत्यगात्मेति प्रतिपन्ना इत्यर्थः ।

मनोरथमात्रेणेति ।
प्रमा­ण­यु­क्ति­मूला चेत् विप्र­ति­प­त्ति­र्नि­रा­कार्या स्यात् नान्यथेति भावः ।

युक्ति­वा­क्या­श्र­या­न्त्य­प­क्षा­व­ल­म्बिनो वेदान्तिनः, इतरे त्वर्वा­ची­न­प­क्षा­व­ल­म्बिनो युक्त्या­भा­स­वा­क्या­भा­सा­श्रया इति व्यव­स्था­भि­धा­न­प­र­तया युक्ति­वा­क्ये­त्या­दि­भाष्यं योजयति -
युक्ति­मि­त्या­दिना ।

दर्शयद्भिरिति
मीमां­स­कै­रि­त्यर्थः ।

मीमांसकैः दर्शि­त­त्व­मा­त्रेण युक्त्याभासत्वं न सिध्यति त्वयैव प्रदर्शनीयमिति अत आह -
इतरेषां चेति ।
अन्त्य­प­क्षा­दि­त­रेषां देहा­दी­ना­मि­त्यर्थः ।

अत्रैव प्रदर्शनीये सति कथं दर्शयिष्याम इत्युच्यत इति तत्राह -
दर्शितं चेति ।

यस्य यस्मि­न्न­भि­रु­चि­रु­त्प­द्यते तं पक्षमाश्रित्य पुरुषार्थं साधयेत् , किं विचारेणेति ? तत्राह -
तत्राविचार्येति

अतथाभावादिति ।
तस्य पक्षस्य सम्यग्ज्ञानाहेतु­त्वा­दि­त्यर्थः ।

श्रुता­वा­त्म­ह­न­न­म­न­र्थ­हे­तु­रुक्तो न त्वात्मप्रतिपत्तिरिति तत्राह -
अना­त्म­द­र्श­ने­नेति ।

आत्महनो जना इति प्राणत्यागिन उच्यन्त इत्या­श­ङ्क्या­त्म­प्र­क­र­ण­त्वात् न प्राणत्यागस्य सङ्गतिरित्याह -
प्राण­त्या­ग­स्येति ।

सूत्र­वा­क्या­र्थ­मु­प­सं­ह­रति -
तस्माद् ब्रह्म­जि­ज्ञा­सो­प­न्या­स­मु­खे­नेति ।
जिज्ञासापदेन लक्षि­त­वि­चा­र­क­र्त­व्य­ता­र्था­मि­त्यर्थः । इति परा­न­न्द­प­रि­ज्ञा­न­प­रि­तृ­प्त­प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीम­ज्ज्ञा­नो­त्त­म­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्येण उत्तमज्ञयतिवरेण विरचितायां लावण्यपादिकायां प्रथमसूत्रम् । || इति तुरी­य­व­र्ण­क­का­शिका ||