अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

५ परिच्छेदः

वृत्त­स­ङ्की­र्त­न­भा­ष्य­ग­त­जि­ज्ञा­सा­श­ब्दस्य लक्ष­णा­वृ­त्त्या­न्त­र्णी­त­वि­चा­रा­र्थो­प­पा­द­ने­नार्थं कथयति -
ब्रह्म­ज्ञा­न­का­मे­नेति ।

ब्रह्मज्ञानाय ब्रह्मविचारः कर्तव्य इति चेदुच्यते, ब्रह्म­ल­क्ष­ण­प्र­मा­ण­यु­क्ति­सा­ध­न­फ­ल­वि­चा­रा­णाम् प्रति­ज्ञा­त­त्वात् अननुष्ठेयतेत्यत आह -
यदैवेदमिति ।
यदैव ब्रह्मविचारस्य कर्त­व्य­त्व­मु­क्त­मि­त्यर्थः ।

व्याख्येयत्वेन प्रतिज्ञातमिति ।
विचार्यत्वेन प्रति­ज्ञा­त­म­न्यथा ब्रह्मज्ञानासिद्धेरित्यर्थः ।

पञ्चानां विचाराणां प्रतिज्ञातत्वे प्रथमं किं लक्षणं ब्रह्मेति, किमिति स्वरू­प­मा­का­ङ्क्ष्यते । किमिति वा तन्निरासाय स्वरूपमेव प्रथमं विचार्यत इत्यत आह -
स्वरू­प­स्या­भ्य­र्हि­त­त्वा­दिति ।
ब्रह्मप्रमाणं ब्रह्म­यु­क्ति­र्ब्र­ह्म­सा­धनं ब्रह्मफलमिति प्रमा­णा­दि­वि­चा­राणां ब्रह्म­वि­शे­ष­ण­सा­पे­क्ष­त्वात् विशेषणभूत­ब्र­ह्म­स्व­रूपं प्रथमत एव विचा­र्य­मि­त्यर्थः ।

वृत्तं सङ्कीर्त्य उत्त­रे­णा­का­ङ्क्षा­पु­रः­सरं सम्बन्धमाह -
किं लक्षणमिति ।

जिज्ञा­स्य­पु­रु­षा­र्थ­ब्र­ह्म­स्व­रू­प­प्र­द­र्श­न­नि­मि­त्त­मा­चा­र्यान् पूजयति -
भगवानिति ।

अस्येदं लक्षणमिदं चानेन लक्ष्यमिति लक्ष्य­ल­क्ष­ण­यो­र­व्या­प्त्य­ति­व्या­प्ति­प­रि­हा­रेण अविनाभावः प्रमा­ण­यु­क्ति­व्य­ति­रे­केण न सिद्ध्यति, तत्कथं स्वरू­प­ल­क्ष­ण­प­र­मेव सूत्रमिति तत्राह -
युक्तिरपीति ।
अपिशब्दात् प्रमा­ण­म­पी­त्यर्थः ।

अतः सूत्रितयोः ब्रह्मणः प्रमाणयुक्त्योः अध्यायद्वयेन निर्णयः क्रियते । पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् , इति वच­न­सि­द्ध­व्या­ख्या­ना­ङ्ग­प­ञ्चके त्रितयं सम्पा­द­य­त्यु­पा­त्त­भा­ष्य­मि­त्याह -
पदच्छेद इति ।

तद्गुणसंविज्ञान इति ।
विशेष्यैकदेशमेव विशेषणं कृत्वा समास इत्यर्थः ।

प्रयोजनमाहेति ।
समा­स­प्र­ति­पा­द्य­मा­हे­त्यर्थः ।

जन्म­स्थि­ति­भ­ङ्गानां त्रयाणां विशेष्यत्वात् भङ्गशब्दस्य पुल्लि­ङ्ग­त्वा­च्चै­क­व­चनं नपुंसकलिङ्गं चायु­क्त­मि­त्या­शङ्क्य संह­ति­प्र­धा­न­ध­र्म­जा­तस्य समा­सा­र्थ­त्व­सिद्धौ युज्यत इत्याह -
तृती­य­लि­ङ्ग­नि­र्दे­शा­दिति ।

संह­ते­र­व­स्तु­त्वात् समा­सा­र्थ­त्व­म­यु­क्त­मिति तत्राह -
धर्मजातमिति ।
संहतिगतं त्रितयमित्यर्थः ।

प्रतिकल्पं प्रप­ञ्चा­ख्य­ध­र्मि­भेदे सति एकैकस्मिन् धर्मिणि जन्मन एवादित्वात् स्थित्यादीनां चारम्यात् जन्मा­दि­रि­त्युक्तिः सङ्गच्छते, धर्मिणस्तु प्रपञ्चस्य कल्पभेदेषु एकत्वात् तस्मि­न्ने­क­स्मिन् धर्मिणि घटीयन्त्रवत् अनिशमाव­र्त्य­मा­न­ज­न्मा­दीनां मध्ये स्थित्या­दी­ना­मा­दित्वं विहाय जन्मनः कथमादित्वमुच्यत इत्याक्षिपति -
नन्वादिरिति ।

पूर्वकालकोटिमत इति ।
पूर्वं स्वाभा­व­व्या­प्य­का­ल­वतो हि प्राथमिकः सधर्मः स्यादित्यर्थः ।

तदभावे प्रपञ्चस्येति ।
प्रपञ्चस्य पूर्व­का­ल­को­टि­म­त्वा­भाव इत्यर्थः ।

को नामादिरिति ।
एकस्यां प्रपञ्चव्यक्तौ पर्या­ये­णा­नि­श­मा­व­र्त्य­मा­नेषु धर्मेषु कः प्रथमः स्यात् , न कोऽपीत्यर्थः ।

प्रतिकल्पं प्रप­ञ्च­व्य­क्ति­भे­दोऽ­स्ती­त्य­ङ्गी­कृत्य कस्याञ्चन व्यक्तौ जन्मनः प्राथम्यात् जन्मन आदित्वं श्रुत्या­दि­नि­र्दिष्टं तदनुसारेण जन्मन आदित्वं सूत्रे­णा­प्यु­च्यत इति परिहरति -
जन्म­ना­श्चा­दि­त्व­मिति ।

वस्तु­वृ­त्ता­पेक्षं चेति ।
घटादिवस्तुषु जन्मनः प्राथ­म्य­द­र्श­नात् वस्तु­स्व­भा­वा­पेक्षं च जन्मनः आदित्वमित्यर्थः ।

भाष्यं व्याचष्टे -
यदनेन सूत्रेणेति ।

सर्वं जनित्वैव नश्यति, न कञ्चित्कालं तिष्ठति, स्वस­त्ता­प्र­यु­क्त­त्वात् विनाशस्येत्यत आह -
क्षणि­क­त्व­नि­रा­क­र­णा­दिति ।

एवमनादिरयं प्रपञ्च इति ।
प्रतिकल्पं प्रप­ञ्च­व्य­क्ति­भेदे सत्यपि प्रवा­ह­रू­पे­णा­ना­दि­रयं प्रपञ्चः, न तु दण्डायमानतया कल्पभेदेष्वेकैव प्रप­ञ्च­व्य­क्ति­र­नु­व­र्तत इत्यर्थः ।

पदभागस्येदम इति ।
सूत्रगतास्येति पदभागस्येदम इत्यर्थः ।

भवतु प्रत्य­क्ष­स­न्नि­हि­त­स्ये­दमा निर्देशः कथ­मा­दि­श­ब्दो­पा­त्ते­त­र­प्र­मा­ण­स­न्नि­हि­तस्य निर्देश इति तत्राह -
तथाहि सर्वत्रेति ।
स्वमहिम्ना स्वश­क्त्ये­त्यर्थः । प्रमा­ण­मा­त्र­वि­ष­या­भि­धा­यीति वा मात्र­श­ब्द­स्या­न्वयः ।

जन्मादीनां जगतश्च कः सम्बन्धः सूत्रगतास्येति षष्ठ्या विवक्षित इति तत्राह -
सर्व एवेति ।

कारणं नाम कार्यो­त्पा­द­क्रि­या­व­दु­त्पा­द­न­श­क्ति­मत् तच्च मायाविशिष्टं ब्रह्म, न तु शुद्धम् , अतो विशि­ष्टा­ख्य­का­रणं सूत्रगतपञ्चम्या शुद्धब्रह्म प्रत्यु­प­ल­क्ष­ण­त्वेन निर्दिश्यत इत्याह -
यत इति कारणनिर्देश इति ।

प्रकृ­ति­त्व­नि­ब­न्धना पञ्चमी इति ।
निमि­त्त­त्व­स्या­प्यु­प­ल­क्ष­ण­मे­त­दु­भ­यत्र पञ्चमीविधानात् निमि­त्तो­पा­दा­न­का­र­ण­वि­ष­ये­त्यर्थः । लक्ष्यस्य ब्रह्मण इति कार­ण­त्वे­नो­प­ल­क्ष­णेन लक्षितस्य उपलक्षणानुवादेन स्वरूपलक्षणं कथयितुमित्यर्थः ।

विशेषणलक्षणं चेति ।
स्वरूपलक्षणं चेत्यर्थः । इदं लक्षणं कारणत्वं प्रप­ञ्च­ज­न्मा­दि­का­र­ण­त्व­मिति प्रप­ञ्चा­पे­क्ष­ध­र्म­त्वात् पृथग्भूतमेव लक्ष्यात् ब्रह्मणः पृथग्भूतमेव कारणं कारणत्वाश्रयं ब्रह्म उपलक्षयति, न विशेषणत्वेन, न स्वरू­प­ल­क्ष­ण­त्वेन, अतः पृथक् स्वलक्षणकथनं, स्वरू­प­ल­क्ष­ण­क­थ­न­मिति योजना ।

कार्यप्रपञ्चं केचिदिति ।
नाम­रू­प­क­र्मा­त्म­क­मिति वेदान्तिनः । द्रव्य­गु­ण­क­र्म­सा­मा­न्या­त्म­क­मिति वार्तिककारीयाः, कार्य­का­र­ण­यो­ग­वि­धि­दुः­खान्ताः पञ्चेति शैवाः । द्रव्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म­वायाः षडिति वैशेषिकाः । जीवा­जी­वा­स्र­व­सं­व­र­नि­र्ज­र­ब­न्ध­मोक्षाः सप्तेति क्षपणकाः । द्रव्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­पा­र­त­न्त्र्य­श­क्ति­नि­योगा इत्यष्टौ इति प्राभाकराः । प्रमाणप्रमेय संशयप्रयोजनदृष्टा­न्त­सि­द्धा­न्ता­व­य­व­त­र्क­नि­र्ण­य­वा­द­ज­ल्प­वि­त­ण्डा­हे­त्वा­भास छल जाति­नि­ग्र­ह­स्था­नानि षोडश इति नैयायिकाः । ज्ञाने­न्द्रि­य­क­र्मे­न्द्रिय भूत­त­न्मा­त्र­म­हा­भूत मनोऽहङ्कारमहदव्यक्तपुरुषा इति साङ्ख्याः, इत्येवं प्रपञ्चं विभजन्तीत्यर्थः ।

श्रुतिबलेनेति ।
नामरूपाभ्यामेव व्याक्रियत इति श्रुति­ब­ले­ने­त्यर्थः ।

यद्यपि रूप्यत इति रूपं दृश्यजगत् व्याक्रियते, कथं नाम्ना रूपितमुत्पद्यत इति तत्राह -
व्याक्रि­य­मा­ण­मिति ।

रूपशब्दार्थमाह -
अभिधेयमिति ।

लोके कुलालः प्रथमं घटशब्दं बुद्ध्‍वा घट­त्व­सा­मा­न्य­मस्य शब्दस्यार्थ इति तथैव बुद्ध्‍वा तस्या­जा­ते­र्व्य­ञ्ज­न­स­म­र्थ­पृ­थु­बु­ध्नो­द­रा­कारो घटशब्दस्य पर्यवसानयोग्यः कश्चिदिति विशेषमपि बुद्धौ शब्दा­व­कु­ण्ठि­त­मा­रोप्य बाह्यक्रियया पश्चाद् घटं निष्पादयतीति स्वपक्षमाह -
स्वनामगर्भं विकल्पेत्यादिना ।
विकल्प इति बुद्धिरित्यर्थः ।

आत्म­प­क्ष­नि­वि­ष्टयोः कथं जगदन्तर्भाव इति शङ्का­नि­वृ­त्त्य­र्थ­माह -
कर्तृत्व - भोक्तृत्वमपीति ।
सन्निवेशमिति शरीरमित्यर्थः ।

स्वलक्षणं च दर्शयतीति ।
सर्वज्ञं सर्वशक्तीति स्वरूपलक्षणं दर्शयतीत्यर्थः ।

वस्तुनः परिणामो नाम पूर्वा­व­स्था­वि­शि­ष्ट­रू­पेण नाशः, उत्त­रा­व­स्था­वि­शि­ष्ट­रू­पेण जन्म, स्वरूपेण स्थितिरित्येवं विपरिणामस्य जन्म­स्थि­ति­भ­ङ्गेषु अन्तर्भावो भवति । विवृद्ध्यादेरपि तथान्तर्भावो भव­ती­त्य­ङ्गी­कृत्य षड्भावविकारकारणं ब्रह्मेति न लक्षितमित्याह -
न क्वचिद्वस्तुन इति ।

अनिर्वृत्तजन्मन
उत्त­रा­व­स्था­वि­शि­ष्ट­रू­पेण जन्म­ही­न­स्ये­त्यर्थः ।

अस्थितस्वभावस्य
स्वरू­पे­णा­स्थि­त­स्ये­त्यर्थः ।

विनाशः
पूर्वा­व­स्था­वि­शि­ष्ट­रू­पेण विनाश इत्यर्थः ।

निरुक्तवाक्यमेव मूलीकृत्य सूत्रेऽपि षड्भावविकारा गृह्यन्तामिति चोदयति -
ननु षड् भावविकारा इति ।
यास्क­प­रि­प­ठि­ता­ना­मि­त्यादेः परि­हा­र­स्या­य­मर्थः, यास्कप्रोक्त निरुक्तवाक्यस्य मूलप्रमाणं प्रत्यक्षमागमो वा भवति । अनु­मा­ना­दी­ना­म­स्मा­क­मपि प्रवृत्तेः यास्क­वा­क्या­न­पे­क्ष­णात् । तत्र प्रत्य­क्ष­मू­लत्वे यास्कवाक्यस्य षड्भावविकाराणां स्थूल­भू­त­भौ­ति­के­ष्वेव भावात् तद्गतधर्मा एव भावविकाराः प्रत्य­क्षे­णा­व­गन्तुं शक्यन्ते । अतो यास्कं वाक्यं मूलीकृत्य स्थूल­भू­त­भौ­ति­क­ग­त­ष­ड्भा­व­वि­का­र­का­रणे ब्रह्मणि गृह्यमाणे सूक्ष्म­भू­त­प­ञ्च­क­मेव ब्रह्म गृहीतं स्यात् । श्रुतौ तु मूलत्वेन सूत्रकारेण गृह्यमाणायां श्रुते­र्मू­ल­प्र­मा­णा­न­पे­क्ष­त्वात् यत्कि­ञ्चि­द्भ­व­न­ध­र्म­व­त्तस्य मूलकारणं ब्रह्मैव ग्रहीतुं शक्यते । अतः श्रुति­नि­र्दि­ष्ट­ज­न्म­स्थि­ति­ना­शा­ना­मेव ग्रहणमिति ।

पृथि­व्य­प्ते­जः­स्विति ।
सूक्ष्म­भू­ते­ष्वि­त्यर्थः ।

जग­द्र­च­ना­रू­प­स्थि­तेषु
जग­दा­ख्य­का­र्य­रू­पेण स्थिते­ष्वि­त्यर्थः ।

तन्मयानामिति ।
साव­य­व­स्थू­ल­रू­प­भू­त­भौ­ति­का­ना­मि­त्यर्थः ।

त इति ।
षड्भावविकारा इत्यर्थः ।

तद्ग्रहणे
तेषां षड्भावविकाराणां ग्रहण इत्यर्थः ।

तेषामेव
सूक्ष्म­भू­ता­ना­मे­वे­त्यर्थः ।

न च तद्युक्तमिति ।
जिज्ञा­स्य­ब्र­ह्म­त्वा­यो­गा­दिति भावः ।

श्रुत्य­र्थ­नि­र्ण­य­प­र­त्वाच्च सूत्राणां श्रुतिरेव जन्मादिसूत्र मूलमित्याह -
तद­र्थ­नि­र्ण­या­र्थ­त्वा­दिति ।

प्रपञ्चस्य मायाकार्यत्वेन तत्त­न्त्र­त्वेऽपि मायाया अपि ब्रह्म­त­न्त्र­त्वात् प्रपञ्चस्यापि ब्रह्म­त­न्त्र­त्व­म­स्ती­त्य­ङ्गी­कृत्य ब्रह्माश्रयतया विश्वप्रपञ्चो विवर्तत इत्याह -
अतो यदवष्टम्भ इति ।
यदाश्रय इत्यर्थः ।

ब्रह्मैव जगदाकारेण परिणमते मृदिव घटाकारेणेति शङ्कां व्यावर्तयति -
विवर्तत इति ।
एकस्य तत्त्वा­द­प्र­च्यु­तस्य पूर्व­रू­प­वि­प­री­ता­स­त्या­ने­क­रू­पा­प­त्ति­र्वि­वर्तः । एकस्य पूर्व­रू­प­प­रि­त्या­गेन सत्य­रू­पा­न्त­रा­पत्तिः परिणाम इति विभागो द्रष्टव्यः ।

भौतिकानां च भूतोपादानकत्वात् भूतानां चोत्प­त्त्या­द्य­भा­वात् न जगदुत्पत्त्यादि कारणत्वं सिद्धवत् ब्रह्म­ल­क्ष­ण­त्वे­नो­पा­दातुं शक्यमिति चोदयति -
ननु श्रुतिनिर्दिष्ट ग्रहण इति ।

पृथि­व्य­प्ते­जांसि जन्मविनाशवन्ति पृथि­व्य­प्ते­जो­बु­द्धि­गो­च­र­त्वात् तदे­क­दे­श­पृ­थि­व्य­प्ते­जो­व­दि­त्य­नु­मा­न­म­भि­प्रेत्य पृथि­व्या­द्ये­क­दे­शेषु जन्मविनाशौ दर्शयति -
उच्यत इति ।

दृश्येते चेति ।
अबादिषु दृश्येते इत्यर्थः ।

वक्ष्यमाणेन न्यायेनेति ।
विभक्तत्वात् कार्यं घटादिवदिति न्यायेनेत्यर्थः ।

न यथो­क्त­वि­शे­ष­ण­स्ये­त्या­दि­भा­ष्यस्य तात्पर्यमाह -
युक्तिरपीति ।

अस्य जगतो जन्मादि ब्रह्मण एव सम्भवति नान्यतः सम्भवति, यतो जन्मादिकारणं ब्रह्मैवेत्येवं रूपा युक्तिः सूत्रितेति स्फुटीकरणाय सूत्रं योजयति -
जन्माद्यस्य यतः सम्भवतीति ।

यथो­क्त­वि­शे­ष­ण­स्येति भाष्यांशं व्याचष्टे -
अस्य जगत इति ।

साङ्ख्या­दि­भि­रु­क्त­ब्र­ह्मा­ति­रि­क्त­का­र­णा­ख्या­र्थ­दू­ष­ण­म­भि­प्रे­त्याह -
अचेतना तावदित्यादिना ।

वैशेषिकादिमते कुलालादि दृष्टा­न्ते­ना­नु­मी­य­मा­नस्य तेनैव दृष्टान्तेन परि­च्छि­न्न­ज्ञा­ना­दि­मत्वं प्राप्नो­ती­त्य­भि­प्रे­त्याह -
चेतनादपीति ।

शून्यात् कार­णा­ज्ज­ग­दु­त्प­त्त्या­दे­र­नु­प­प­त्ति­रि­त्याह -
अभावादिति ।
निरुपाख्यत्वात् स्वरू­प­प्र­ती­ति­ही­न­त्वा­दि­त्यर्थः ।

न क्वचि­न्नि­य­मोऽ­भ­वि­ष्य­दिति ।
कर्मफलनियमस्य शब्दा­र्थ­स­म्ब­न्ध­नि­य­मस्य चाभावादित्यर्थः ।

अनन्यापेक्ष इति ।
स्वयमेव स्वस्य निमि­त्त­मि­त्ये­तत् स्वभावशब्दार्थो न भवतीति भावः ।

कुतो नियमसम्भव इति ।
विशि­ष्ट­दे­श­का­ल­नि­मि­त्ता­पे­क्ष­यैव कार्यो­त्प­त्ति­रिति नियमो दृष्टः । स न स्यादित्यर्थः ।

सम्भा­व­ना­बु­द्धि­मा­त्र­हेतुः क्वचि­द्धे­तु­सा­ध्ययोः सह­चा­र­द­र्श­ना­ख्य­व्या­प्त्य­नु­प­प­त्त्या­भासो युक्तिः अव्यभिचारिणी च व्याप्ति­र­र्थ­नि­श्चा­यकं चानुमानम् । तत्रेह सूत्रिता आग­म­प्र­मा­णा­नु­ग्रा­हिका युक्तिरेव अज्ञानात् तामनुमानं स्वतन्त्रं प्रमाणं मन्यन्ते, तन्न युक्त­मि­त्य­भि­प्रे­त्याह -
येयं युक्तिरिति ।

किं वेद वाक्यैरिति ।
युक्तित्वाभावे सति किं तद­नु­ग्रा­ह्य­वे­द­वा­क्यै­रि­त्यर्थः ।

ईश्व­र­प्र­ति­पा­द­क­वा­क्येषु सत्सु किमि­त्य­नु­मा­न­प्र­यास इति न, वाक्यानामपि अनु­मा­न­सि­द्धा­र्था­नु­वा­द­क­त्वात् , ईश्व­र­प्र­ति­पा­द­कत्वं नास्तीति वदन्तीत्याह -
जन्मा­दि­सू­त्र­ल­क्षि­ता­न्यपि इति ।

तदे­वो­प­न्य­स्त­मिति ।
स्वात­न्त्र्ये­णा­र्थ­नि­श्चा­य­क­म­नु­मा­न­मु­प­न्यस्तं न त्वागमगुणभूता युक्ति­रि­य­मि­त्यर्थः ।

प्रपञ्चकार्यस्य सर्वज्ञकारणेन व्याप्ति­ग्र­ह­णा­भावे कथमनुमानमिति तत्राह -
यथा धूमविशेषस्येति ।
सुग­न्ध­धू­म­स्ये­त्यर्थः ।

उपकरणत्वेनेति ।
अर्थ­नि­श्चा­य­क­वे­दा­न्त­वाक्यं प्रत्यु­प­क­र­ण­त्वे­ने­त्यर्थः ।

ग्रथने
उदाहरण इत्यर्थः ।

अनु­मा­ने­ने­श्व­रोऽ­स्तीति सिध्यति चेत् किमिति सूत्रैः वेदा­न्त­वा­क्या­न्यु­दा­हृत्य विचार्यन्ते इत्या­श­ङ्क्या­नु­मा­नेन कार्यस्य कार­ण­म­स्ती­त्ये­ता­व­देव सिध्यति, न तु सर्वज्ञादिरूप ईश्वरः कारणमिति सिध्यतीत्यतः कार­ण­वि­शे­ष­सि­ध्यर्थं वाक्या­न्यु­दा­ह­र्त­व्या­नी­त्याह -
सम­न्व­य­सू­त्र­प्र­मु­खो­पा­त्तै­रिति ।

तात्प­र्या­ध्य­व­सा­न­नि­र्वृत्ता हीति ।
तात्प­र्या­ध्य­व­सा­न­नि­र्वृत्ता अध्य­व­सि­त­ता­त्प­र्य­यु­क्त­वा­क्य­नि­र्वृ­त्ते­त्यर्थः ।

न तर्हि युक्तिरत्र सूत्रिता आगमेनैव विशि­ष्टा­र्थ­सि­द्धे­रिति, तत्राह -
सत्स्विति ।
कारणं ब्रह्म अस्तीति निश्चा­य­क­वा­क्येषु सस्त्वित्यर्थः ।

तदविरोधीति ।
अर्थ­नि­श्च­य­म­कृत्वा कारणं ब्रह्म सद्भवतीति सम्भा­व­ना­बु­द्धि­मात्रे हेतुत्वात् तदविरोधीत्यर्थः ।

वाक्यगत शक्ति­ता­त्प­र्य­नि­र्णा­य­क­त­र्का­पे­क्षा­या­मपि प्रमे­य­वि­ष­य­त­र्का­न­पे­क्षेति तत्राह -
श्रुत्यैवेति ।

पुरुषबुद्धीति ।
श्रोतृ­बु­द्धी­त्यर्थः ।

आचार्यवान् पुरुषो वेदेत्यनेन कथं पुरु­ष­बु­द्धि­सा­हाय्यं प्रदर्श्यत इत्याशङ्क्य आचार्येणापादितप्रत्य­य­दा­र्‌ढ्य­वा­ना­चा­र्य­वा­नि­त्यु­च्यते । अतः पुरु­ष­बु­द्धि­सा­हाय्यं प्रद­र्शि­त­मि­त्याह -
यदाचार्येणेति ।

कारणमाहेति ।
ब्रह्म­ज्ञा­ना­नु­भ­व­प­र्य­न्त­त्वा­ख्य­का­र­ण­मा­हे­त्यर्थः । लिङ्गं श्रुत­स्या­र्थ­स्या­र्था­न्त­रे­णा­वि­ना­भावः ।

अनेक पदसामर्थ्यं वाक्यम् । वाक्य­द्व­य­सा­म­र्थ्य­मा­र­भ्या­धी­त­वि­षयं प्रकरणं, क्रमवर्तिनां क्रमवर्तिभिः पदा­र्थै­र्य­था­क्रमं सम्बन्धः, स्थानम् , संज्ञा, साम्यं, समाख्या इत्येते शब्द­प्र­मा­ण­प्र­काराः श्रुत्यादय इत्य­त्रा­दि­श­ब्देन गृह्यन्त इत्याह -
आदिशब्देनेति ।

तदवसानेति ।
अनुभवसम्भवादेव अनुभवावसाना आका­ङ्क्षा­नि­वृ­त्ति­र्य­तोऽ­तोऽ­नु­भ­वा­द­योऽपि ब्रह्मणि प्रमाणमिति योजना ।

तर्कगन्धमिति ।
साध्य­स्व­भा­व­त­च्छे­ष­प्र­ति­पा­द­क­वा­क्या­पे­क्षि­त­त­र्क­व्य­ति­रे­केण साध्य­रू­प­ध­र्मा­ख्य­वि­षये अनु­भ­व­हे­तु­त­र्का­पेक्षा नास्तीत्यर्थः ।

किमिति धर्मस्य अनुभवानपेक्षेति चोदयति -
कथमिति ।

कर्तव्यं हीति ।
साध्यं हीत्यर्थः ।

सिद्धस्य अनु­भ­व­यो­ग्य­त्वेऽपि किमि­त्य­नु­भ­वोऽ­पे­क्षित इति तत्राह -
साक्षाद्रूपेण इति ।
अपरोक्षरूपेणाहं कर्ता भोक्तेत्यादि विप­र्या­स­गृ­ही­त­स्ये­त्यर्थः ।

मिथ्या­ज्ञा­नो­द­येति ।
मिथ्या­ज्ञा­न­मु­दे­त्य­स्मा­दिति मिथ्याज्ञानोदयः अज्ञानमित्यर्थः । अथवा मिथ्याज्ञानोदय इति विपर्यासोदय एवोच्यते ।

अव­बो­ध­न­प्र­का­रेऽपि साम्यमिति ।
धर्मबोधने ब्रह्मबोधने च मन­न­नि­दि­ध्या­स­ना­नु­भ­वा­पेक्षा न तुल्येत्यर्थः ।

निष्पाद्यत्वमपि स्यादिति ।
सिद्धरूपस्य ब्रह्मण इति शेषः ।

अस्तु पुरु­षे­च्छा­व­श­नि­र्व­र्त्य­त्व­मिति तत्राह -
ततो विधीति ।
विधिप्रतिषेधमते यजेत, न भक्षयेत् , इतिवत् ब्रह्म कुर्यात् न कुर्यादिति ब्रह्मणो विधेयत्वं प्रतिषेध्यत्वं च स्यादित्यर्थः ।

विकल्प इति ।
व्रीहि­भि­र्य­वैर्वा इतिवत् ब्रह्म वा स्थाणुर्वेति इच्छाविकल्पः स्यादित्यर्थः ।

समुच्चय इति ।
षड्या­ग­स­मु­च्च­य­वत् ब्रह्म च स्थाणुश्चेति समुच्चयः स्यादित्यर्थः ।

उत्सर्गापवाद इति ।
`न हिंस्यात्सर्वा भूतानि', ‘अग्नीषोमीयं पशुमालभेत’ ‘आह्वनीये जुहोति’ ‘पदे जुहोति’ इतिवत् । सामा­न्य­प्र­ति­प­न्न­ब्र­ह्मणो विशेषेऽपवादः स्यादित्यर्थः ।

बाधाभ्युच्चय इति ।
प्रकृ­ते­र­ति­दि­ष्टानां कुशमयबर्हिषां विकृ­ता­वु­प­दि­ष्ट­श­र­म­य­ब­र्हि­भि­र्बा­ध­वत् ब्रह्मणोऽपि क्वचित् प्राप्तस्य पदार्थान्तरेण बाधः स्यात् । प्राकृतानां नारिष्टहोमानां वैकृतैरुपहोमैः समु­च्चि­त्या­नु­ष्ठा­न­वत् ब्रह्मणोऽप्यतिदिष्टस्य उपदिष्टेन समु­च्चि­त्या­नु­ष्ठा­न­म­भ्यु­च्चयः, स च स्यादित्यर्थः ।

व्यवस्थितविकल्प इति ।
उदिते जुहोत्यनुदिते जुहोतीति शाखाभेदेन व्यवस्थावत् क्वचिद् ब्रह्म भवति क्वचिन्न भवतीति व्यवस्था स्यादित्यर्थः ।

निःस्वभावत्वप्रसङ्गादिति ।
अव्या­पा­र­नि­र­पे­क्षस्य कस्यचित् स्वभा­व­स्या­भा­व­प्र­स­ङ्गा­दि­त्यर्थः ।

सिद्धे वस्तुनि विकल्पितादिरूपं नास्ति, तत्र विक­ल्पि­ता­दि­रू­प­ज्ञा­न­स्या­व­स्तु­ज­न्यत्वेनाप्रा­मा­ण्य­द­र्श­ना­द्यदि विकल्पितादिरूपं विद्येत तदा यथावस्तु यथा सामग्रीजन्यतया विक­ल्पि­ता­दि­रू­प­ज्ञा­नस्य प्रामाण्यं धर्म इव प्रसज्येत न तथा प्रामाण्यं दृश्यत इति सिद्धवस्तुनि विकल्पितादिरूपं नास्तीत्याह -
तथा चैकस्मिन् वस्तुनि स्थाणुरिति ।
विकल्प इति ज्ञानमित्यर्थः ।

अर्थस्य विकल्पितरूपे सत्यपि स्थाणुरेवेति ज्ञानं प्रमाणं स्यादिति नेत्याह -
यतो वस्तु­स्व­भा­व­प­र­त­न्त्र­मिति ।
अतो वस्तु­न्ये­क­रू­प­मे­वेति भावः ।

किमि­त्य­र्था­नु­रू­पत्वं ज्ञानस्य भवेत् । ज्ञाना­नु­रू­प­त्व­म­र्थस्य किं न स्यादिति तत्राह -
न ज्ञानपरतन्त्रं वस्त्विति ।

तथा स्यादिति ।
शुक्तिरपि वस्तुतो रजतं स्यादित्यर्थः ।

वैपरीत्येऽपीति ।
ज्ञान­स्या­र्था­नु­रू­प्या­भा­वेऽ­पी­त्यर्थः ।

अपर इति ।
अनुमानसूचनपरं सूत्रमिति वदन् वादीत्यर्थः ।

यथाहुरिति ।
अनुमानसूचनपरं सूत्र­मि­त्या­हु­रि­त्यर्थः ।

नन्व­नु­मा­न­सू­च­न­परं सूत्रं न प्रतिभातीति तत्राह -
पूर्वसूत्रेणेति ।

प्रति­ज्ञा­नि­र्देश इति ।
जिज्ञास्यं ब्रह्मास्तीति प्रति­ज्ञा­नि­र्देश इत्यर्थः ।

हेत्वभिधानमिति ।
ब्रह्मण एव जग­ज्ज­न्मा­दि­स­म्भवो यत इति हेत्व­भि­धा­न­मि­त्यर्थः ।

न तावत् ब्रह्मविषयत्वेन सूत्रितमनुमानं विशेषतो दृष्टं ब्रह्म­णोऽ­ती­न्द्रि­य­त्वात् । प्रत्यक्षेण तस्य प्रपञ्चेन व्याप्ति­ग्र­हा­भा­वा­दि­त्याह -
इन्द्रियाणीति ।

कार्यत्वात् कारणमस्तीति सामान्यतो दृष्टस्य कार­ण­मा­त्रा­स्तित्वे पर्यवसानं न ब्रह्माख्यविशेष इति सामान्यतो दृष्टं दूषयति -
सामान्यतो दृष्टमपीति ।

विशेषतो दृष्टं सामान्यतो दृष्टं च ब्रह्मणि न सम्भवतीति उक्त­म­भि­प्रे­त्याह -
अब्रह्मविषयेति ।

ब्रह्मपरेष्विति ।
ब्रह्म­नि­श्चा­य­के­ष्वि­त्यर्थः ।

युक्तय इति ।
ब्रह्म निश्चाययितुमसमर्था अपि युक्तय इत्यर्थः ।

स्वरू­प­वा­क्य­स्येति ।
सिद्ध­रू­प­ब्र­ह्म­नि­श्चा­य­क­वा­क्य­स्ये­त्यर्थः ।

फलपर्यन्ततेति ।
निश्च­या­ख्य­फ­ल­प­र्य­न्त­ते­त्यर्थः ।

सम्भावनार्थवादतामिति ।
मृदा­दि­दृ­ष्टान्ते स्फटिकलौहि­त्य­प्र­ति­बि­म्ब­रज्जुसर्प­घ­टा­का­श­त­प्त­प­र­शु­दृ­ष्टा­न्तैश्च उपन्यस्ता युक्त­योऽ­द्वि­ती­यत्वं कर्तृ­त्वा­दे­रा­रो­पि­तत्वं जीवब्रह्मैक्यं प्रप­ञ्चा­स­त्य­त्वम् असङ्गत्वं जीव­ब्र­ह्मै­क्य­स­त्यत्वं च सम्भवतीति सम्भा­व­ना­बु­द्धि­हे­तु­त्वे­ना­र्थ­वा­दतां प्रतिपद्यमाना इत्यर्थः ।

किमिति यतो वा इमानीत्यतः पूर्व­वा­क्य­मु­दा­ह्रि­यत इत्याशङ्क्य श्रुता­व­धि­का­रि­प्र­द­र्श­न­पू­र्वकं विचारं प्रतिज्ञाय ब्रह्म­प्र­ति­पा­द­न­मस्ति । तत्क्रमानुसारेण वाक्यमुदाहृत्य तद­पे­क्षि­त­न्या­य­सू­च­नार्थं सूत्रद्वयमिति मत्वा प्रथ­म­सू­त्रो­दा­ह­र­ण­भूतं पूर्ववाक्येन सहोदाहरतीत्याह -
येषां वेदान्तेति ।
सम­न्व­य­स्ता­त्प­र्य­मि­त्यर्थः ।

तल्लक्षणार्थं,
तद्वा­क्य­प्र­द­र्श­ना­र्थ­मि­त्यर्थः । तद्वि­जि­ज्ञा­स­स्वेति च प्रथमसूत्रां­श­स्यो­दा­ह­र­ण­मिति भावः । सत्य­ज्ञा­ना­न­न्द­प्र­त्य­गा­त्म­ब्र­ह्म­प­दार्थे अप्रसिद्धेऽपि बृहत्वमात्रस्य प्रसिद्धत्वात् तदनुवादेन सन्नि­हि­त­प­दा­र्थ­सं­सर्गसामर्थ्यात् विशिष्टं ब्रह्म प्रतिपत्तुं शक्यत इत्यतः ब्रह्म­प्र­ति­पा­द­न­परं सत्यादिवाक्यं तत्प्र­ति­पा­दि­त­स­त्या­द्ये­वा­र्थात् लक्षणमिति न सत्य­ज्ञा­ना­न­न्दा­न­न्त­ब्र­ह्म­स्व­रू­प­ल­क्ष­णस्य सिद्धा­नु­वा­द­त्व­प्र­सङ्ग इति प्रति­पा­द­क­वा­क्य­स­म्भ­वात् तदा­क्षे­प­प­रि­हा­रोऽ­प्यत्र द्रष्टव्यः ।

तन्तुपटन्यायेन जगत्कारणे नानात्वस्यापि प्रतिपत्तेर्यत् कारणं तत् ब्रह्मेति कारणानुवादेन कथं ब्रह्म प्रतिपादनीयमिति चोदयति -
कथमिति ।

यत्कारणं तदेकमित्येकत्वं यद्यपि वाक्यात् सिध्यति तथापि ज्ञाना­न­न्दा­दि­रू­प­ब्र­ह्मै­वेति कारणविशेषो वाक्यात् न सिध्यतीति तत्राह -
अर्थादिति ।
बुद्धि­म­त्का­र­ण­स्यै­क­त्व­ब­ला­दि­त्यर्थः ।

यदेकं कारणं तद् ब्रह्मेति कारणस्य ब्रह्मेति संज्ञाविधिपरं वाक्यं किं न स्यादि­त्या­शङ्क्य वाक्यार्थस्य तद्वि­जि­ज्ञा­स­स्वेति मुमु­क्षु­जि­ज्ञा­स्य­त्वो­प­देशे तत्र प्रयु­क्त­ब्र­ह्म­श­ब्दस्य मुमु­क्षु­जि­ज्ञा­सा­यो­ग्या­द्वि­ती­य­ज्ञा­ना­न­न्दा­दि­स्व­रू­प­का­र­ण­वि­ष­य­त्व­मेव न संज्ञा­मा­त्र­त्व­मि­त्याह -
तद्वि­जि­ज्ञा­स­स्वेति ।

मुमु­क्षु­जि­ज्ञास्ये प्रयु­क्त­ब्र­ह्म­श­ब्दस्य बृहत्कारणमर्थः स्यात् , न त्वानन्दादिरूपं कार­ण­मि­त्या­शङ्क्य कार­ण­स्या­न­न्द­त्व­प्र­ति­पा­द­क­वाक्यं साम­र्थ्या­दा­न­न्दा­दि­रू­प­का­र­ण­मेव ब्रह्मशब्दार्थ इत्याह -
तस्य च निर्णयवाक्यमिति
ततः ब्रह्म­श­ब्द­स्या­न­न्दा­दि­रू­प­का­र­ण­वि­ष­य­त्वा­दि­त्यर्थः ।

ब्रह्म­श­ब्द­प्र­यो­गाच्च आनन्दस्वभावं ब्रह्मैव कारणमित्याह -
अनानन्दात्मके हीति ॥
इति परा­न­न्द­प­रि­ज्ञा­न­प­रि­तृ­प्त­प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीम­ज्ज्ञा­नो­त्त­म­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्ये­णो­त्त­म­ज्ञ­य­ति­व­रेण विरचितायां पञ्च­पा­दि­का­व­क्त­व्य­का­शि­कयां द्वितीयं सूत्रम् । || इति पञ्च­म­व­र्ण­क­का­शिका ||