वक्तव्यकाशिका (पञ्चपादिका व्याख्या)
५ परिच्छेदः
वृत्तसङ्कीर्तनभाष्यगतजिज्ञासाशब्दस्य लक्षणावृत्त्यान्तर्णीतविचारार्थोपपादनेनार्थं कथयति -
ब्रह्मज्ञानकामेनेति ।
ब्रह्मज्ञानाय ब्रह्मविचारः कर्तव्य इति चेदुच्यते, ब्रह्मलक्षणप्रमाणयुक्तिसाधनफलविचाराणाम् प्रतिज्ञातत्वात् अननुष्ठेयतेत्यत आह -
यदैवेदमिति ।
यदैव ब्रह्मविचारस्य कर्तव्यत्वमुक्तमित्यर्थः ।
व्याख्येयत्वेन प्रतिज्ञातमिति ।
विचार्यत्वेन प्रतिज्ञातमन्यथा ब्रह्मज्ञानासिद्धेरित्यर्थः ।
पञ्चानां विचाराणां प्रतिज्ञातत्वे प्रथमं किं लक्षणं ब्रह्मेति, किमिति स्वरूपमाकाङ्क्ष्यते । किमिति वा तन्निरासाय स्वरूपमेव प्रथमं विचार्यत इत्यत आह -
स्वरूपस्याभ्यर्हितत्वादिति ।
ब्रह्मप्रमाणं ब्रह्मयुक्तिर्ब्रह्मसाधनं ब्रह्मफलमिति प्रमाणादिविचाराणां ब्रह्मविशेषणसापेक्षत्वात् विशेषणभूतब्रह्मस्वरूपं प्रथमत एव विचार्यमित्यर्थः ।
वृत्तं सङ्कीर्त्य उत्तरेणाकाङ्क्षापुरःसरं सम्बन्धमाह -
किं लक्षणमिति ।
जिज्ञास्यपुरुषार्थब्रह्मस्वरूपप्रदर्शननिमित्तमाचार्यान् पूजयति -
भगवानिति ।
अस्येदं लक्षणमिदं चानेन लक्ष्यमिति लक्ष्यलक्षणयोरव्याप्त्यतिव्याप्तिपरिहारेण अविनाभावः प्रमाणयुक्तिव्यतिरेकेण न सिद्ध्यति, तत्कथं स्वरूपलक्षणपरमेव सूत्रमिति तत्राह -
युक्तिरपीति ।
अपिशब्दात् प्रमाणमपीत्यर्थः ।
अतः सूत्रितयोः ब्रह्मणः प्रमाणयुक्त्योः अध्यायद्वयेन निर्णयः क्रियते । पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् , इति वचनसिद्धव्याख्यानाङ्गपञ्चके त्रितयं सम्पादयत्युपात्तभाष्यमित्याह -
पदच्छेद इति ।
तद्गुणसंविज्ञान इति ।
विशेष्यैकदेशमेव विशेषणं कृत्वा समास इत्यर्थः ।
प्रयोजनमाहेति ।
समासप्रतिपाद्यमाहेत्यर्थः ।
जन्मस्थितिभङ्गानां त्रयाणां विशेष्यत्वात् भङ्गशब्दस्य पुल्लिङ्गत्वाच्चैकवचनं नपुंसकलिङ्गं चायुक्तमित्याशङ्क्य संहतिप्रधानधर्मजातस्य समासार्थत्वसिद्धौ युज्यत इत्याह -
तृतीयलिङ्गनिर्देशादिति ।
संहतेरवस्तुत्वात् समासार्थत्वमयुक्तमिति तत्राह -
धर्मजातमिति ।
संहतिगतं त्रितयमित्यर्थः ।
प्रतिकल्पं प्रपञ्चाख्यधर्मिभेदे सति एकैकस्मिन् धर्मिणि जन्मन एवादित्वात् स्थित्यादीनां चारम्यात् जन्मादिरित्युक्तिः सङ्गच्छते, धर्मिणस्तु प्रपञ्चस्य कल्पभेदेषु एकत्वात् तस्मिन्नेकस्मिन् धर्मिणि घटीयन्त्रवत् अनिशमावर्त्यमानजन्मादीनां मध्ये स्थित्यादीनामादित्वं विहाय जन्मनः कथमादित्वमुच्यत इत्याक्षिपति -
नन्वादिरिति ।
पूर्वकालकोटिमत इति ।
पूर्वं स्वाभावव्याप्यकालवतो हि प्राथमिकः सधर्मः स्यादित्यर्थः ।
तदभावे प्रपञ्चस्येति ।
प्रपञ्चस्य पूर्वकालकोटिमत्वाभाव इत्यर्थः ।
को नामादिरिति ।
एकस्यां प्रपञ्चव्यक्तौ पर्यायेणानिशमावर्त्यमानेषु धर्मेषु कः प्रथमः स्यात् , न कोऽपीत्यर्थः ।
प्रतिकल्पं प्रपञ्चव्यक्तिभेदोऽस्तीत्यङ्गीकृत्य कस्याञ्चन व्यक्तौ जन्मनः प्राथम्यात् जन्मन आदित्वं श्रुत्यादिनिर्दिष्टं तदनुसारेण जन्मन आदित्वं सूत्रेणाप्युच्यत इति परिहरति -
जन्मनाश्चादित्वमिति ।
वस्तुवृत्तापेक्षं चेति ।
घटादिवस्तुषु जन्मनः प्राथम्यदर्शनात् वस्तुस्वभावापेक्षं च जन्मनः आदित्वमित्यर्थः ।
भाष्यं व्याचष्टे -
यदनेन सूत्रेणेति ।
सर्वं जनित्वैव नश्यति, न कञ्चित्कालं तिष्ठति, स्वसत्ताप्रयुक्तत्वात् विनाशस्येत्यत आह -
क्षणिकत्वनिराकरणादिति ।
एवमनादिरयं प्रपञ्च इति ।
प्रतिकल्पं प्रपञ्चव्यक्तिभेदे सत्यपि प्रवाहरूपेणानादिरयं प्रपञ्चः, न तु दण्डायमानतया कल्पभेदेष्वेकैव प्रपञ्चव्यक्तिरनुवर्तत इत्यर्थः ।
पदभागस्येदम इति ।
सूत्रगतास्येति पदभागस्येदम इत्यर्थः ।
भवतु प्रत्यक्षसन्निहितस्येदमा निर्देशः कथमादिशब्दोपात्तेतरप्रमाणसन्निहितस्य निर्देश इति तत्राह -
तथाहि सर्वत्रेति ।
स्वमहिम्ना स्वशक्त्येत्यर्थः । प्रमाणमात्रविषयाभिधायीति वा मात्रशब्दस्यान्वयः ।
जन्मादीनां जगतश्च कः सम्बन्धः सूत्रगतास्येति षष्ठ्या विवक्षित इति तत्राह -
सर्व एवेति ।
कारणं नाम कार्योत्पादक्रियावदुत्पादनशक्तिमत् तच्च मायाविशिष्टं ब्रह्म, न तु शुद्धम् , अतो विशिष्टाख्यकारणं सूत्रगतपञ्चम्या शुद्धब्रह्म प्रत्युपलक्षणत्वेन निर्दिश्यत इत्याह -
यत इति कारणनिर्देश इति ।
प्रकृतित्वनिबन्धना पञ्चमी इति ।
निमित्तत्वस्याप्युपलक्षणमेतदुभयत्र पञ्चमीविधानात् निमित्तोपादानकारणविषयेत्यर्थः । लक्ष्यस्य ब्रह्मण इति कारणत्वेनोपलक्षणेन लक्षितस्य उपलक्षणानुवादेन स्वरूपलक्षणं कथयितुमित्यर्थः ।
विशेषणलक्षणं चेति ।
स्वरूपलक्षणं चेत्यर्थः । इदं लक्षणं कारणत्वं प्रपञ्चजन्मादिकारणत्वमिति प्रपञ्चापेक्षधर्मत्वात् पृथग्भूतमेव लक्ष्यात् ब्रह्मणः पृथग्भूतमेव कारणं कारणत्वाश्रयं ब्रह्म उपलक्षयति, न विशेषणत्वेन, न स्वरूपलक्षणत्वेन, अतः पृथक् स्वलक्षणकथनं, स्वरूपलक्षणकथनमिति योजना ।
कार्यप्रपञ्चं केचिदिति ।
नामरूपकर्मात्मकमिति वेदान्तिनः । द्रव्यगुणकर्मसामान्यात्मकमिति वार्तिककारीयाः, कार्यकारणयोगविधिदुःखान्ताः पञ्चेति शैवाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाः षडिति वैशेषिकाः । जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षाः सप्तेति क्षपणकाः । द्रव्यगुणकर्मसामान्यविशेषपारतन्त्र्यशक्तिनियोगा इत्यष्टौ इति प्राभाकराः । प्रमाणप्रमेय संशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास छल जातिनिग्रहस्थानानि षोडश इति नैयायिकाः । ज्ञानेन्द्रियकर्मेन्द्रिय भूततन्मात्रमहाभूत मनोऽहङ्कारमहदव्यक्तपुरुषा इति साङ्ख्याः, इत्येवं प्रपञ्चं विभजन्तीत्यर्थः ।
श्रुतिबलेनेति ।
नामरूपाभ्यामेव व्याक्रियत इति श्रुतिबलेनेत्यर्थः ।
यद्यपि रूप्यत इति रूपं दृश्यजगत् व्याक्रियते, कथं नाम्ना रूपितमुत्पद्यत इति तत्राह -
व्याक्रियमाणमिति ।
रूपशब्दार्थमाह -
अभिधेयमिति ।
लोके कुलालः प्रथमं घटशब्दं बुद्ध्वा घटत्वसामान्यमस्य शब्दस्यार्थ इति तथैव बुद्ध्वा तस्याजातेर्व्यञ्जनसमर्थपृथुबुध्नोदराकारो घटशब्दस्य पर्यवसानयोग्यः कश्चिदिति विशेषमपि बुद्धौ शब्दावकुण्ठितमारोप्य बाह्यक्रियया पश्चाद् घटं निष्पादयतीति स्वपक्षमाह -
स्वनामगर्भं विकल्पेत्यादिना ।
विकल्प इति बुद्धिरित्यर्थः ।
आत्मपक्षनिविष्टयोः कथं जगदन्तर्भाव इति शङ्कानिवृत्त्यर्थमाह -
कर्तृत्व - भोक्तृत्वमपीति ।
सन्निवेशमिति शरीरमित्यर्थः ।
स्वलक्षणं च दर्शयतीति ।
सर्वज्ञं सर्वशक्तीति स्वरूपलक्षणं दर्शयतीत्यर्थः ।
वस्तुनः परिणामो नाम पूर्वावस्थाविशिष्टरूपेण नाशः, उत्तरावस्थाविशिष्टरूपेण जन्म, स्वरूपेण स्थितिरित्येवं विपरिणामस्य जन्मस्थितिभङ्गेषु अन्तर्भावो भवति । विवृद्ध्यादेरपि तथान्तर्भावो भवतीत्यङ्गीकृत्य षड्भावविकारकारणं ब्रह्मेति न लक्षितमित्याह -
न क्वचिद्वस्तुन इति ।
अनिर्वृत्तजन्मन
उत्तरावस्थाविशिष्टरूपेण जन्महीनस्येत्यर्थः ।
अस्थितस्वभावस्य
स्वरूपेणास्थितस्येत्यर्थः ।
विनाशः
पूर्वावस्थाविशिष्टरूपेण विनाश इत्यर्थः ।
निरुक्तवाक्यमेव मूलीकृत्य सूत्रेऽपि षड्भावविकारा गृह्यन्तामिति चोदयति -
ननु षड् भावविकारा इति ।
यास्कपरिपठितानामित्यादेः परिहारस्यायमर्थः, यास्कप्रोक्त निरुक्तवाक्यस्य मूलप्रमाणं प्रत्यक्षमागमो वा भवति । अनुमानादीनामस्माकमपि प्रवृत्तेः यास्कवाक्यानपेक्षणात् । तत्र प्रत्यक्षमूलत्वे यास्कवाक्यस्य षड्भावविकाराणां स्थूलभूतभौतिकेष्वेव भावात् तद्गतधर्मा एव भावविकाराः प्रत्यक्षेणावगन्तुं शक्यन्ते । अतो यास्कं वाक्यं मूलीकृत्य स्थूलभूतभौतिकगतषड्भावविकारकारणे ब्रह्मणि गृह्यमाणे सूक्ष्मभूतपञ्चकमेव ब्रह्म गृहीतं स्यात् । श्रुतौ तु मूलत्वेन सूत्रकारेण गृह्यमाणायां श्रुतेर्मूलप्रमाणानपेक्षत्वात् यत्किञ्चिद्भवनधर्मवत्तस्य मूलकारणं ब्रह्मैव ग्रहीतुं शक्यते । अतः श्रुतिनिर्दिष्टजन्मस्थितिनाशानामेव ग्रहणमिति ।
पृथिव्यप्तेजःस्विति ।
सूक्ष्मभूतेष्वित्यर्थः ।
जगद्रचनारूपस्थितेषु
जगदाख्यकार्यरूपेण स्थितेष्वित्यर्थः ।
तन्मयानामिति ।
सावयवस्थूलरूपभूतभौतिकानामित्यर्थः ।
त इति ।
षड्भावविकारा इत्यर्थः ।
तद्ग्रहणे
तेषां षड्भावविकाराणां ग्रहण इत्यर्थः ।
तेषामेव
सूक्ष्मभूतानामेवेत्यर्थः ।
न च तद्युक्तमिति ।
जिज्ञास्यब्रह्मत्वायोगादिति भावः ।
श्रुत्यर्थनिर्णयपरत्वाच्च सूत्राणां श्रुतिरेव जन्मादिसूत्र मूलमित्याह -
तदर्थनिर्णयार्थत्वादिति ।
प्रपञ्चस्य मायाकार्यत्वेन तत्तन्त्रत्वेऽपि मायाया अपि ब्रह्मतन्त्रत्वात् प्रपञ्चस्यापि ब्रह्मतन्त्रत्वमस्तीत्यङ्गीकृत्य ब्रह्माश्रयतया विश्वप्रपञ्चो विवर्तत इत्याह -
अतो यदवष्टम्भ इति ।
यदाश्रय इत्यर्थः ।
ब्रह्मैव जगदाकारेण परिणमते मृदिव घटाकारेणेति शङ्कां व्यावर्तयति -
विवर्तत इति ।
एकस्य तत्त्वादप्रच्युतस्य पूर्वरूपविपरीतासत्यानेकरूपापत्तिर्विवर्तः । एकस्य पूर्वरूपपरित्यागेन सत्यरूपान्तरापत्तिः परिणाम इति विभागो द्रष्टव्यः ।
भौतिकानां च भूतोपादानकत्वात् भूतानां चोत्पत्त्याद्यभावात् न जगदुत्पत्त्यादि कारणत्वं सिद्धवत् ब्रह्मलक्षणत्वेनोपादातुं शक्यमिति चोदयति -
ननु श्रुतिनिर्दिष्ट ग्रहण इति ।
पृथिव्यप्तेजांसि जन्मविनाशवन्ति पृथिव्यप्तेजोबुद्धिगोचरत्वात् तदेकदेशपृथिव्यप्तेजोवदित्यनुमानमभिप्रेत्य पृथिव्याद्येकदेशेषु जन्मविनाशौ दर्शयति -
उच्यत इति ।
दृश्येते चेति ।
अबादिषु दृश्येते इत्यर्थः ।
वक्ष्यमाणेन न्यायेनेति ।
विभक्तत्वात् कार्यं घटादिवदिति न्यायेनेत्यर्थः ।
न यथोक्तविशेषणस्येत्यादिभाष्यस्य तात्पर्यमाह -
युक्तिरपीति ।
अस्य जगतो जन्मादि ब्रह्मण एव सम्भवति नान्यतः सम्भवति, यतो जन्मादिकारणं ब्रह्मैवेत्येवं रूपा युक्तिः सूत्रितेति स्फुटीकरणाय सूत्रं योजयति -
जन्माद्यस्य यतः सम्भवतीति ।
यथोक्तविशेषणस्येति भाष्यांशं व्याचष्टे -
अस्य जगत इति ।
साङ्ख्यादिभिरुक्तब्रह्मातिरिक्तकारणाख्यार्थदूषणमभिप्रेत्याह -
अचेतना तावदित्यादिना ।
वैशेषिकादिमते कुलालादि दृष्टान्तेनानुमीयमानस्य तेनैव दृष्टान्तेन परिच्छिन्नज्ञानादिमत्वं प्राप्नोतीत्यभिप्रेत्याह -
चेतनादपीति ।
शून्यात् कारणाज्जगदुत्पत्त्यादेरनुपपत्तिरित्याह -
अभावादिति ।
निरुपाख्यत्वात् स्वरूपप्रतीतिहीनत्वादित्यर्थः ।
न क्वचिन्नियमोऽभविष्यदिति ।
कर्मफलनियमस्य शब्दार्थसम्बन्धनियमस्य चाभावादित्यर्थः ।
अनन्यापेक्ष इति ।
स्वयमेव स्वस्य निमित्तमित्येतत् स्वभावशब्दार्थो न भवतीति भावः ।
कुतो नियमसम्भव इति ।
विशिष्टदेशकालनिमित्तापेक्षयैव कार्योत्पत्तिरिति नियमो दृष्टः । स न स्यादित्यर्थः ।
सम्भावनाबुद्धिमात्रहेतुः क्वचिद्धेतुसाध्ययोः सहचारदर्शनाख्यव्याप्त्यनुपपत्त्याभासो युक्तिः अव्यभिचारिणी च व्याप्तिरर्थनिश्चायकं चानुमानम् । तत्रेह सूत्रिता आगमप्रमाणानुग्राहिका युक्तिरेव अज्ञानात् तामनुमानं स्वतन्त्रं प्रमाणं मन्यन्ते, तन्न युक्तमित्यभिप्रेत्याह -
येयं युक्तिरिति ।
किं वेद वाक्यैरिति ।
युक्तित्वाभावे सति किं तदनुग्राह्यवेदवाक्यैरित्यर्थः ।
ईश्वरप्रतिपादकवाक्येषु सत्सु किमित्यनुमानप्रयास इति न, वाक्यानामपि अनुमानसिद्धार्थानुवादकत्वात् , ईश्वरप्रतिपादकत्वं नास्तीति वदन्तीत्याह -
जन्मादिसूत्रलक्षितान्यपि इति ।
तदेवोपन्यस्तमिति ।
स्वातन्त्र्येणार्थनिश्चायकमनुमानमुपन्यस्तं न त्वागमगुणभूता युक्तिरियमित्यर्थः ।
प्रपञ्चकार्यस्य सर्वज्ञकारणेन व्याप्तिग्रहणाभावे कथमनुमानमिति तत्राह -
यथा धूमविशेषस्येति ।
सुगन्धधूमस्येत्यर्थः ।
उपकरणत्वेनेति ।
अर्थनिश्चायकवेदान्तवाक्यं प्रत्युपकरणत्वेनेत्यर्थः ।
ग्रथने
उदाहरण इत्यर्थः ।
अनुमानेनेश्वरोऽस्तीति सिध्यति चेत् किमिति सूत्रैः वेदान्तवाक्यान्युदाहृत्य विचार्यन्ते इत्याशङ्क्यानुमानेन कार्यस्य कारणमस्तीत्येतावदेव सिध्यति, न तु सर्वज्ञादिरूप ईश्वरः कारणमिति सिध्यतीत्यतः कारणविशेषसिध्यर्थं वाक्यान्युदाहर्तव्यानीत्याह -
समन्वयसूत्रप्रमुखोपात्तैरिति ।
तात्पर्याध्यवसाननिर्वृत्ता हीति ।
तात्पर्याध्यवसाननिर्वृत्ता अध्यवसिततात्पर्ययुक्तवाक्यनिर्वृत्तेत्यर्थः ।
न तर्हि युक्तिरत्र सूत्रिता आगमेनैव विशिष्टार्थसिद्धेरिति, तत्राह -
सत्स्विति ।
कारणं ब्रह्म अस्तीति निश्चायकवाक्येषु सस्त्वित्यर्थः ।
तदविरोधीति ।
अर्थनिश्चयमकृत्वा कारणं ब्रह्म सद्भवतीति सम्भावनाबुद्धिमात्रे हेतुत्वात् तदविरोधीत्यर्थः ।
वाक्यगत शक्तितात्पर्यनिर्णायकतर्कापेक्षायामपि प्रमेयविषयतर्कानपेक्षेति तत्राह -
श्रुत्यैवेति ।
पुरुषबुद्धीति ।
श्रोतृबुद्धीत्यर्थः ।
आचार्यवान् पुरुषो वेदेत्यनेन कथं पुरुषबुद्धिसाहाय्यं प्रदर्श्यत इत्याशङ्क्य आचार्येणापादितप्रत्ययदार्ढ्यवानाचार्यवानित्युच्यते । अतः पुरुषबुद्धिसाहाय्यं प्रदर्शितमित्याह -
यदाचार्येणेति ।
कारणमाहेति ।
ब्रह्मज्ञानानुभवपर्यन्तत्वाख्यकारणमाहेत्यर्थः । लिङ्गं श्रुतस्यार्थस्यार्थान्तरेणाविनाभावः ।
अनेक पदसामर्थ्यं वाक्यम् । वाक्यद्वयसामर्थ्यमारभ्याधीतविषयं प्रकरणं, क्रमवर्तिनां क्रमवर्तिभिः पदार्थैर्यथाक्रमं सम्बन्धः, स्थानम् , संज्ञा, साम्यं, समाख्या इत्येते शब्दप्रमाणप्रकाराः श्रुत्यादय इत्यत्रादिशब्देन गृह्यन्त इत्याह -
आदिशब्देनेति ।
तदवसानेति ।
अनुभवसम्भवादेव अनुभवावसाना आकाङ्क्षानिवृत्तिर्यतोऽतोऽनुभवादयोऽपि ब्रह्मणि प्रमाणमिति योजना ।
तर्कगन्धमिति ।
साध्यस्वभावतच्छेषप्रतिपादकवाक्यापेक्षिततर्कव्यतिरेकेण साध्यरूपधर्माख्यविषये अनुभवहेतुतर्कापेक्षा नास्तीत्यर्थः ।
किमिति धर्मस्य अनुभवानपेक्षेति चोदयति -
कथमिति ।
कर्तव्यं हीति ।
साध्यं हीत्यर्थः ।
सिद्धस्य अनुभवयोग्यत्वेऽपि किमित्यनुभवोऽपेक्षित इति तत्राह -
साक्षाद्रूपेण इति ।
अपरोक्षरूपेणाहं कर्ता भोक्तेत्यादि विपर्यासगृहीतस्येत्यर्थः ।
मिथ्याज्ञानोदयेति ।
मिथ्याज्ञानमुदेत्यस्मादिति मिथ्याज्ञानोदयः अज्ञानमित्यर्थः । अथवा मिथ्याज्ञानोदय इति विपर्यासोदय एवोच्यते ।
अवबोधनप्रकारेऽपि साम्यमिति ।
धर्मबोधने ब्रह्मबोधने च मनननिदिध्यासनानुभवापेक्षा न तुल्येत्यर्थः ।
निष्पाद्यत्वमपि स्यादिति ।
सिद्धरूपस्य ब्रह्मण इति शेषः ।
अस्तु पुरुषेच्छावशनिर्वर्त्यत्वमिति तत्राह -
ततो विधीति ।
विधिप्रतिषेधमते यजेत, न भक्षयेत् , इतिवत् ब्रह्म कुर्यात् न कुर्यादिति ब्रह्मणो विधेयत्वं प्रतिषेध्यत्वं च स्यादित्यर्थः ।
विकल्प इति ।
व्रीहिभिर्यवैर्वा इतिवत् ब्रह्म वा स्थाणुर्वेति इच्छाविकल्पः स्यादित्यर्थः ।
समुच्चय इति ।
षड्यागसमुच्चयवत् ब्रह्म च स्थाणुश्चेति समुच्चयः स्यादित्यर्थः ।
उत्सर्गापवाद इति ।
`न हिंस्यात्सर्वा भूतानि', ‘अग्नीषोमीयं पशुमालभेत’ ‘आह्वनीये जुहोति’ ‘पदे जुहोति’ इतिवत् । सामान्यप्रतिपन्नब्रह्मणो विशेषेऽपवादः स्यादित्यर्थः ।
बाधाभ्युच्चय इति ।
प्रकृतेरतिदिष्टानां कुशमयबर्हिषां विकृतावुपदिष्टशरमयबर्हिभिर्बाधवत् ब्रह्मणोऽपि क्वचित् प्राप्तस्य पदार्थान्तरेण बाधः स्यात् । प्राकृतानां नारिष्टहोमानां वैकृतैरुपहोमैः समुच्चित्यानुष्ठानवत् ब्रह्मणोऽप्यतिदिष्टस्य उपदिष्टेन समुच्चित्यानुष्ठानमभ्युच्चयः, स च स्यादित्यर्थः ।
व्यवस्थितविकल्प इति ।
उदिते जुहोत्यनुदिते जुहोतीति शाखाभेदेन व्यवस्थावत् क्वचिद् ब्रह्म भवति क्वचिन्न भवतीति व्यवस्था स्यादित्यर्थः ।
निःस्वभावत्वप्रसङ्गादिति ।
अव्यापारनिरपेक्षस्य कस्यचित् स्वभावस्याभावप्रसङ्गादित्यर्थः ।
सिद्धे वस्तुनि विकल्पितादिरूपं नास्ति, तत्र विकल्पितादिरूपज्ञानस्यावस्तुजन्यत्वेनाप्रामाण्यदर्शनाद्यदि विकल्पितादिरूपं विद्येत तदा यथावस्तु यथा सामग्रीजन्यतया विकल्पितादिरूपज्ञानस्य प्रामाण्यं धर्म इव प्रसज्येत न तथा प्रामाण्यं दृश्यत इति सिद्धवस्तुनि विकल्पितादिरूपं नास्तीत्याह -
तथा चैकस्मिन् वस्तुनि स्थाणुरिति ।
विकल्प इति ज्ञानमित्यर्थः ।
अर्थस्य विकल्पितरूपे सत्यपि स्थाणुरेवेति ज्ञानं प्रमाणं स्यादिति नेत्याह -
यतो वस्तुस्वभावपरतन्त्रमिति ।
अतो वस्तुन्येकरूपमेवेति भावः ।
किमित्यर्थानुरूपत्वं ज्ञानस्य भवेत् । ज्ञानानुरूपत्वमर्थस्य किं न स्यादिति तत्राह -
न ज्ञानपरतन्त्रं वस्त्विति ।
तथा स्यादिति ।
शुक्तिरपि वस्तुतो रजतं स्यादित्यर्थः ।
वैपरीत्येऽपीति ।
ज्ञानस्यार्थानुरूप्याभावेऽपीत्यर्थः ।
अपर इति ।
अनुमानसूचनपरं सूत्रमिति वदन् वादीत्यर्थः ।
यथाहुरिति ।
अनुमानसूचनपरं सूत्रमित्याहुरित्यर्थः ।
नन्वनुमानसूचनपरं सूत्रं न प्रतिभातीति तत्राह -
पूर्वसूत्रेणेति ।
प्रतिज्ञानिर्देश इति ।
जिज्ञास्यं ब्रह्मास्तीति प्रतिज्ञानिर्देश इत्यर्थः ।
हेत्वभिधानमिति ।
ब्रह्मण एव जगज्जन्मादिसम्भवो यत इति हेत्वभिधानमित्यर्थः ।
न तावत् ब्रह्मविषयत्वेन सूत्रितमनुमानं विशेषतो दृष्टं ब्रह्मणोऽतीन्द्रियत्वात् । प्रत्यक्षेण तस्य प्रपञ्चेन व्याप्तिग्रहाभावादित्याह -
इन्द्रियाणीति ।
कार्यत्वात् कारणमस्तीति सामान्यतो दृष्टस्य कारणमात्रास्तित्वे पर्यवसानं न ब्रह्माख्यविशेष इति सामान्यतो दृष्टं दूषयति -
सामान्यतो दृष्टमपीति ।
विशेषतो दृष्टं सामान्यतो दृष्टं च ब्रह्मणि न सम्भवतीति उक्तमभिप्रेत्याह -
अब्रह्मविषयेति ।
ब्रह्मपरेष्विति ।
ब्रह्मनिश्चायकेष्वित्यर्थः ।
युक्तय इति ।
ब्रह्म निश्चाययितुमसमर्था अपि युक्तय इत्यर्थः ।
स्वरूपवाक्यस्येति ।
सिद्धरूपब्रह्मनिश्चायकवाक्यस्येत्यर्थः ।
फलपर्यन्ततेति ।
निश्चयाख्यफलपर्यन्ततेत्यर्थः ।
सम्भावनार्थवादतामिति ।
मृदादिदृष्टान्ते स्फटिकलौहित्यप्रतिबिम्बरज्जुसर्पघटाकाशतप्तपरशुदृष्टान्तैश्च उपन्यस्ता युक्तयोऽद्वितीयत्वं कर्तृत्वादेरारोपितत्वं जीवब्रह्मैक्यं प्रपञ्चासत्यत्वम् असङ्गत्वं जीवब्रह्मैक्यसत्यत्वं च सम्भवतीति सम्भावनाबुद्धिहेतुत्वेनार्थवादतां प्रतिपद्यमाना इत्यर्थः ।
किमिति यतो वा इमानीत्यतः पूर्ववाक्यमुदाह्रियत इत्याशङ्क्य श्रुतावधिकारिप्रदर्शनपूर्वकं विचारं प्रतिज्ञाय ब्रह्मप्रतिपादनमस्ति । तत्क्रमानुसारेण वाक्यमुदाहृत्य तदपेक्षितन्यायसूचनार्थं सूत्रद्वयमिति मत्वा प्रथमसूत्रोदाहरणभूतं पूर्ववाक्येन सहोदाहरतीत्याह -
येषां वेदान्तेति ।
समन्वयस्तात्पर्यमित्यर्थः ।
तल्लक्षणार्थं,
तद्वाक्यप्रदर्शनार्थमित्यर्थः । तद्विजिज्ञासस्वेति च प्रथमसूत्रांशस्योदाहरणमिति भावः । सत्यज्ञानानन्दप्रत्यगात्मब्रह्मपदार्थे अप्रसिद्धेऽपि बृहत्वमात्रस्य प्रसिद्धत्वात् तदनुवादेन सन्निहितपदार्थसंसर्गसामर्थ्यात् विशिष्टं ब्रह्म प्रतिपत्तुं शक्यत इत्यतः ब्रह्मप्रतिपादनपरं सत्यादिवाक्यं तत्प्रतिपादितसत्याद्येवार्थात् लक्षणमिति न सत्यज्ञानानन्दानन्तब्रह्मस्वरूपलक्षणस्य सिद्धानुवादत्वप्रसङ्ग इति प्रतिपादकवाक्यसम्भवात् तदाक्षेपपरिहारोऽप्यत्र द्रष्टव्यः ।
तन्तुपटन्यायेन जगत्कारणे नानात्वस्यापि प्रतिपत्तेर्यत् कारणं तत् ब्रह्मेति कारणानुवादेन कथं ब्रह्म प्रतिपादनीयमिति चोदयति -
कथमिति ।
यत्कारणं तदेकमित्येकत्वं यद्यपि वाक्यात् सिध्यति तथापि ज्ञानानन्दादिरूपब्रह्मैवेति कारणविशेषो वाक्यात् न सिध्यतीति तत्राह -
अर्थादिति ।
बुद्धिमत्कारणस्यैकत्वबलादित्यर्थः ।
यदेकं कारणं तद् ब्रह्मेति कारणस्य ब्रह्मेति संज्ञाविधिपरं वाक्यं किं न स्यादित्याशङ्क्य वाक्यार्थस्य तद्विजिज्ञासस्वेति मुमुक्षुजिज्ञास्यत्वोपदेशे तत्र प्रयुक्तब्रह्मशब्दस्य मुमुक्षुजिज्ञासायोग्याद्वितीयज्ञानानन्दादिस्वरूपकारणविषयत्वमेव न संज्ञामात्रत्वमित्याह -
तद्विजिज्ञासस्वेति ।
मुमुक्षुजिज्ञास्ये प्रयुक्तब्रह्मशब्दस्य बृहत्कारणमर्थः स्यात् , न त्वानन्दादिरूपं कारणमित्याशङ्क्य कारणस्यानन्दत्वप्रतिपादकवाक्यं सामर्थ्यादानन्दादिरूपकारणमेव ब्रह्मशब्दार्थ इत्याह -
तस्य च निर्णयवाक्यमिति ।
ततः ब्रह्मशब्दस्यानन्दादिरूपकारणविषयत्वादित्यर्थः ।
ब्रह्मशब्दप्रयोगाच्च आनन्दस्वभावं ब्रह्मैव कारणमित्याह -
अनानन्दात्मके हीति ॥
इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमज्ज्ञानोत्तमभगवत्पूज्यपादशिष्येणोत्तमज्ञयतिवरेण विरचितायां पञ्चपादिकावक्तव्यकाशिकयां द्वितीयं सूत्रम् । || इति पञ्चमवर्णककाशिका ||