अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

६ परिच्छेदः

पूर्वसूत्रे प्राधान्येन प्रति­पा­दि­त­स­र्व­ज्ञत्वे हेत्वन्तरमुच्यत इति सम्बन्धमाह -
अयमपर इति ।

पूर्व­सू­त्रो­क्त­स­र्व­का­र­ण­त्व­म­सिद्धं वेदान् प्रत्य­का­र­ण­त्वा­दिति शङ्कानिरासाय वा सम्बन्धमाह -
अयमपर इति ।
शास्त्र­का­र­ण­त्वाख्यो हेतुरित्यर्थः ।

वेदस्य तावत् सर्व­वि­ष­य­प्र­का­श­न­सा­मर्थ्यं दर्शयति । तदुपादानतया ब्रह्मणोऽपि तद्दर्शयितुं
अनेकनानाविधेति ।

तत एवेति ।
ब्रह्मण एवेत्यर्थः ।

वेद­स्या­र्थ­ज्ञा­न­का­र­ण­तया उप­यो­गा­दे­वा­र्थ­ज्ञा­तृ­त्वा­भा­वात् कल्पप्प्रत्ययः न तु कति­प­य­वि­ष­या­प्र­का­श­क­त्वा­दि­त्याह -
कल्पप्रत्यय इति ।

दृश्यते इति ।
शास्त्रस्य सामा­न्य­बो­ध­क­त्व­मेव तत्कर्तुः व्यक्ति­त­त्स­म्ब­न्ध­त­दु­प­पा­द­क­यु­क्ति­ज्ञ­त्वेन अधि­क­त­र­वि­ज्ञा­न­व­त्व­म­स्तीति दृश्यत इत्यर्थः ।

बुद्धि­पू­र्व­त्वा­दिति ।
वाक्यार्थं प्रमाणान्तरेण बुध्वा परस्मै रचि­त­वा­क्य­त्वा­दि­त्यर्थः ।

ब्रह्म­व­द­ना­दि­त्वा­दिति ।
विवादगोचरापन्नं सर्ग­का­ली­न­वे­दा­ध्य­यनं पूर्व­पू­र्व­त­था­वि­धा­ध्य­य­ना­नु­स्मृ­ति­नि­ब­न्धनं वेदाध्ययनत्वात् इदा­नी­न्त­न­वे­दा­ध्य­य­न­वत् । विगीतो वेदः स्वार्थे प्रवृ­त्त­प्र­मा­णा­न्त­र­जन्यो न भवति, अनी­श्व­र­बु­द्धि­का­र्य­त्वा­भावे सति धर्मा­ध­र्म­ब्र­ह्म­प्र­मा­ण­त्वात् , पर­प­रि­क­ल्पि­ते­श्व­र­बु­द्धि­व­दि­त्य­नु­मा­ना­भ्या­म­ना­दि­त्वा­दि­त्यर्थः ।

अनादित्वेऽपि पूर्व­पू­र्व­स­दृ­श­क्र­म­र­चनां विहाय पुराणवाक्यवत् प्रतिकल्पम् अन्यथान्यथा सन्नि­वे­श­प्र­ण­य­न­मा­श­ङ्क्याह -
कूट­स्थ­नि­त्य­त्वा­दिति ।

अनादेर्वेदस्य कथं ब्रह्मकारणतेति शङ्कते -
कथं पुनरिति ।

तत्प­र­त­न्त्र­त्वा­दिति ।
शास्त्र­श­ब्दो­दि­त­व­र्णानां क्रम­वि­शे­षा­व­च्छि­न्न­तया पदवाक्यप्रमा­ण­शा­स्त्र­रू­पाणां पूर्व­पू­र्व­स­दृ­श­तया ब्रह्मो­पा­दा­न­त्वा­दि­त्यर्थः ।

अविकारिब्रह्मणि मिथ्यारूपेण वेदो विवर्तत इत्यभिप्रेत्याह -
रज्जुसर्पवदिति ।

उपलभ्य रचयितृत्वं विहाय ब्रह्मणः शब्दो­पा­दा­न­त्व­मा­त्रेऽ­ङ्गी­कृते सर्वज्ञत्वं न सिध्यतीति चोदयति -
नन्वेवं सतीति ।

नोपलभ्य रचयितृत्वेन सर्वज्ञत्वं साध्यते । किन्तु सर्व­प्र­का­श­न­स­म­र्थ­स­र्व­श­ब्दो­पा­दा­न­त्वात् ब्रह्मणोऽपि तत्सा­म­र्थ्या­भा­वात् सर्व­ज्ञ­त्व­म­स्तीति साध्यत इत्याह -
तस्यैवेति ।

नाम्नो रूप­प्र­प­ञ्चो­त्पत्तेः श्रुतत्वाद् ब्रह्मणः सर्वोपादानत्वं नास्ती­त्या­शङ्क्य नामा­व­स्था­प­न्नत्वं ब्रह्मण एव उत्प­त्ति­श्रु­त्य­भि­प्रेतमित्याह । रूपप्रपञ्चं प्रति कारणत्वं यथा नोपलभ्य रचयितृत्वं तद्व­न्ना­म­प्र­पञ्चं प्रत्यपीत्याह -
रूप­प्र­प­ञ्च­स्या­पीति ।

कार­ण­ग­त­प्र­का­श­न­शक्तिः कार्येऽ­नु­प्र­वि­शति, तयैव शक्त्या शब्दस्यापि सर्व­प्र­का­श­क­त्व­मिति नियमः कुत इत्याशङ्क्याह । शब्दे शक्त्य­न्त­रो­त्प­त्ता­व­स­दु­त्प­त्ति­गौ­रवं च स्यादित्याह -
नासत इति ।
।। षष्ठवर्णककाशिका ।।