अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

७ परिच्छेदः

प्रमा­ण­प्र­ति­ज्ञा­मिति

शास्त्र­मु­दा­ह­र­तेति ।
यतो वा इमा­नी­त्या­दि­शा­स्त्र­मु­दा­ह­रता सूत्र­का­रे­णे­त्यर्थः ।

तदुदाहृतमिति ।
पूर्वसूत्रे शास्त्र­मु­दा­हृ­त­मिति । तत् सर्वज्ञं सर्वशक्ति ब्रह्मेति प्रमाणं न भवति । अनुमानस्य कार­ण­मा­त्र­वि­ष­य­त्वेन सर्व­ज्ञ­ब्र­ह्म­रू­प­वि­शे­ष­वि­ष­य­त्वा­भा­वात् इत्यर्थः ।

प्रति­प्र­प­ञ्च­मिति ।
प्रति­का­र्य­मि­त्यर्थः ।

तद्ब्र­ह्मे­त्यु­प­स्का­रोऽपि न सम्भवतीत्याह -
लोके चेति ।

इदं सूत्रमिति ।
जन्मा­दि­सू­त्र­मि­त्यर्थः ।

व्याख्या­ना­न्त­रे­णेति ।
सर्वकारणत्वात् सर्वज्ञमिति द्विती­य­सू­त्रो­क्त­व्या­ख्या­ना­न्त­रे­णे­त्यर्थः । इति परा­न­न्द­प­रि­ज्ञा­न­प­रि­तृ­प्त­प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीमत् श्री ज्ञानो­त्त­म­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्ये­णो­त्त­म­ज्ञ­य­ति­व­रेण विरचितायां पञ्च­पा­दि­का­व­क्त­व्य­का­शि­कायां तृतीयं सूत्रम् । ।। इति सप्त­म­व­र्ण­क­का­शिका ।।